॥ १२.६.१ ॥
सूत उवाच—
एतन् निशम्य मुनिनाभिहितं परीक्षिद्
व्यासात्मजेन निखिलात्म-दृशा समेन ।
तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना
बद्धाञ्जलिस् तम् इदम् आह स विष्णुरातः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षष्ठे परीक्षितो मोक्षः सर्प-होमादि तत्-सुतात् ।
वेद-शास्त्र-विभागोक्तौ त्रि-वेदि-व्यास-वर्णनम् ॥
एतत् पुराणं निशम्य निखिलात्मा हरिस् तं पश्यति निखिलं वात्मनि पश्यतीति तथा तेन । अतः समेन । न तेनावनतेन मूर्ध्ना तत्-पाद-तलम् उपसृत्य । तत्-पादौ शिरसि निधायेत्य् अर्थः ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्सुतात्परीक्षित्पुत्राज्जनमेजयातफ़् । आदिना तक्षकरक्षणादिग्रहः । त्रयाणां वेदानां समाहारस्त्रिवेदी तस्य व्यासो विस्तरस्तस्य वर्णनम् अतोः निखिलात्मदर्शित्वात् । इत्य् अर्थ इति—शिरसि पादस्थापनं विना पादतलस्पर्शो न भवतीति भावः । यद् वा, निखिलानामात्मानं मनः पश्यतीति तेन तात्कालिकज्ञानोपदेशे तत्रत्यानां केषाञ्चिज्ज्ञानिनाम् अपि मन आनन्दितम् इति भावः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षष्ठे कृष्ण-पद-प्राप्ती राज्ञोऽथ जनम् एजयात् ।
सर्प-होमस् ततो वेद-त्रय-शाखोपवर्णनम् ॥
निखिलात्मा श्री-कृष्णस् तं पश्यतीति तेन । यद् वा, निखिलानाम् अप्य् आत्मानं मनः पश्यतीति तेन तात्कालिकेन ब्रह्म-ज्ञानोपदेशेन तत्रत्यानां केषांचित् ज्ञानिनाम् अपि मन आनन्दितम् इति भावः, यतः समेन ॥१॥
** ॥ १२.६.२ ॥**
राजोवाच—
सिद्धोऽस्म्य् अनुगृहीतोऽस्मि भवता करुणात्मना ।
श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धः कृतार्थोऽस्मि । यतोऽनुगृहीतोऽस्मि । अनुग्रहम् एवाह—यद् यस्माच् छ्रावितः। च-शब्दात् प्राप्ति-साधनं च श्रावितम् ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **साक्षाद्गर्भे बाल्ये च । यः साक्षादृष्टः स एव श्रावित इति साक्षात्पदार्थः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : सिद्धोऽस्मीत्य्-आदि । तज्-ज्ञानोपदेश-श्रवणानन्तरम् अपि तादृश-स्व-निष्ठायाः स्थैर्य-दर्शनं यथा तत्र तावत् पद्य-त्रयेण तज्-ज्ञानोपदेशम् अबहु मत्वा श्रवण-लक्षणया भक्त्यैव स्व-कृतार्थत्वम् उक्तं षष्ठाध्यायारम्भे—सिद्धोऽस्म्य् अनुगृहीतोऽस्मि इत्य्-आदि । नात्यद्भुतम् अहं मन्ये [भा।पु। १२.६.३] इत्य्-आदि, पुराण-संहिताम् [भा।पु। १२.६.४] इत्य्-आदि । पुनश् चैकेन पद्येन तद्-वाक्य-गौरव-मात्रेणाङ्गीकृतस्य ब्रह्म-ज्ञानस्य तक्षकादि-भय-निवृत्ति-हेतुत्वम् उक्त्वाप्य् अन्येन तद्-ऊर्ध्वम् अधोक्षज एव वाक्-चेतसोस् तन्-नाम-कीर्तन-ध्यानावेशानुज्ञा प्रार्थिता—भगवंस् तक्षकादिभ्यः [भा।पु। १२.६.५] इत्य्-आदिना, अनुजानीहि मां ब्रह्मन् [भा।पु। १२.६.६] इत्य्-आदिना । अथ पुनर् अन्येन पद्येनाज्ञान-निरासक-ज्ञान-विज्ञान-सिद्धिश् च भगवत्-पदारविन्द-दर्शनानन्दान्तर्-भूतैव मम स्फुरतीति विज्ञापितम् । यथा—
अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [१२.६.७] इति ॥२॥ [भक्ति-सन्दर्भ ८६]
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धोऽस्मि कृतार्थोऽस्मि । मे साक्षाद् इति गर्भे बाल्ये च साक्षात्-कृतो यो हरिः श्री-कृष्णः, स एव श्रावितस् त्वया स एव मया श्रुतः ॥२॥
** ॥ १२.६.३ ॥**
नात्यद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् ।
अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **करुणात्मताम् अभिनन्दति द्वाभ्यम्—नात्यद्भुतम् इति ॥३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महतां भवादृशानाम् । अज्ञेषु मादृशेषु ॥३॥
———————————————————————————————————————
**सनातन-गोस्वामी : **[ह।भ।वि। १०.२१६] अज्ञेषु भगवद्-भजनादि-महिमानभिज्ञेषु, अत एव तापैस् तप्तेषु भूतेषु प्राणि-मात्रेषु अनुग्रह इति यत्, इदम् अद्भुत-घटमानं न मन्ये, यतः अच्युतस्यैव आत्मा स्वभावः दीनानाम् एव शरणत्वादि-रूपो येषाम् इति ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, अच्युतात्मनाम् अच्युतस्येवात्मा स्वभावो येषां, तेषां महताम् आत्मारामाणाम् अपीति । तद्-भाव-भावितत्वाद् अनुग्रहादयो गुणा युक्ता एव । तस्मान् नात्यद्भुतम् इत्य् अर्थः ॥३॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अच्युत एव आत्मा मनो येषां तेषाम् ॥३॥
॥ १२.६.४ ॥
पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् ।
यस्यां खलूत्तम-श्लोको भगवान् अनुवर्ण्यते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अश्रौष्म श्रुतवन्तः । भवतः सकाशात् ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **संहितामित्य् उक्त्या वेदतुल्यत्वमस्य पुराणस्य सूचयति । अनुवर्ण्यते अभीक्ष्णशस्तत्तत्कथाप्रसङ्गेन प्रतिपाद्यते ॥४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् अश्रौष्म तस्मादेव भगवन्न् इति ॥४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मत्तः श्रुतस्य अस्य शास्त्रस्य कः खल्व् अर्थस् त्वयावधारित इत्य् अपेक्षायाम् आह—पुराणेति । भगवान् अनुवर्ण्यते इत्य् अन्य-वर्णनस्यापि तत्-पोषणार्थत्वेन तद्-अङ्गत्वात् भगवद्-अनुवर्णनत्वम् एवेति भावः ॥४॥
॥ १२.६.५ ॥
भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् ।
प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **“सिद्धोऽस्मि” इत्य् उक्तं तद् एवाविष्करोति—भगवन्न् इति । यतस् त्वया दर्शितं ब्रह्म प्रविष्टः । कथं भूतम् ? अभयम्, यतो निर्वणं कैवल्य-रूपम् ॥५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे भगवन्न् इति श्रीशुकं साक्षाद्भगवाञ्श्री-कृष्णस्तद्रूपेणामन्त्रयतीति भावः । यथा श्री-कृष्णेन जगतोऽभयं दुष्टदैत्यहननादि दर्शितं तथा मम त्वयापि तद्दर्शितम् इति तत्साभ्यमुक्तम् । यद् वा, नान्यत्त्वदभयं पश्ये इति श्रीकुन्त्युक्तेः अभयः श्री-कृष्ण एव । क्लीबत्त्वमार्षम् । श्री-भागवतश्रावणेनापि साक्षाच्छ्रीकृष्ण एव दर्शितो भवतीति भावः । यद् वा, ब्रह्मनिर्वाणरूपमभयं दर्शितम् ।
अधोक्षजालम्बमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्ततो मजध्वं हृदये हृदीश्वरम् ॥
इति सर्वभक्तशिरोमणिना श्रीकायाधवेन मनसा श्री-कृष्णचिन्तनस्यैव संसानिरासकत्वमुक्तम् इति ॥५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अधुना तु यद् उपदिष्टं, तच् च मम जातम् एवेत्य् आह—प्रविष्ट इति । निर्वाणं परमानन्द-स्वरूपं ब्रह्म सर्वतोऽपि बृहद्-भगवत्-तत्त्वं प्रविष्टस् तस्मिन्न् आविष्ट इत्य् अर्थः ॥५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं त्व् एकम् एव वाक्यं मन्-मनोऽभिज्ञेन त्वया मां प्रति नोक्तम् । यद्यपि तद् अप्य् आशङ्कावतो ममैव तावद् एवासह्यम् अभूद् इत्य् आह—हे भगवन् ! सर्वज्ञ ! मच्-चित् तस्य भक्त्यैक-निष्ठत्वं जानन्न् अपि किम् एवम् उपदिशसीति भावः । तक्षकादिभ्यस् तथा विविध-जन्मान्तर-प्राप्तेभ्यो मृत्युभ्यः सकाशाद् अहं न बिभेमि । किं तु त्वया दर्शितम् अभयं ब्रह्म निर्वाणं प्रविष्टः सन्न् एव बिभेमीत्य् अर्थः । अत्र गृह-स्थितो नानुपद्रवेभ्यो न बिभेमि, किं तु वनं प्रविष्टः सन्न् एवेति । तस्मात् वनं न प्रविशामीति तत्राभिप्रायः । तथैवात्रापि तक्षकादिभ्यः पुनः पुनर् मृत्युभ्यश् च सकाशाद् अपि, त्वया दर्शिताद् ब्रह्म-निर्वानान् मम महा-भयम् इति वाक्यार्थः ।
तेन पञ्चम-स्कन्ध-वाक्याद् भगवदीयत्वेनैव समाप्त-सर्वार्थानां—
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [भा।पु। ६.१७.२८]
इत्य् उक्तवता भगवता श्रीमन्-महा-रुद्रेणैव प्रकटिताभिप्रायाणाम् अस्माकं भक्तानां निर्वाण-मोक्षः खल्व् असह्य एव । अत्रापि—
पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भा।पु। १.१९.१६]
इति प्रायोपवेशारम्भत एव प्रतिज्ञातवन्तं माम् अपि ब्रह्म-निर्वाणम् उपदिशामीति श्री-मुनीन्द्रे ईर्षैव ध्वनिता । तयापि श्री-शुकस्य तस्य तद्-भक्ति-निष्ठां परीक्षमाणस्य सुखम् एवाभूत् । यथा रासारम्भे आज्ञा-लङ्घयन्तीनां व्रज-सुन्दरीणाम् ईर्ष्यया कृष्णस्य अत्र किन्त्व् इत्य् आक्षेप-लब्धम् एव—
त्वाम् अस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ।
आत्मीयां मतिम् आदाय स्थितिम् अत्र विधेहि तत् ॥ [का।प्र। २३]
इत्य् अस्य पूर्वार्धान्ते यथा किन्त्व् इत्य् आक्षेप-लब्धं काव्य-प्रकाश-टीका-कृद्भिस् तथा व्याख्यानात् । व्याख्यान्तरं तु शास्त्रस्य मोहिनीत्व-प्रतिपादकं भक्तैर् अग्राह्यम् ॥५॥
॥ १२.६.६ ॥
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे ।
मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **“किं भूयः श्रोतुम् इच्छसि” इति यद् उक्तम्, तत्र सिद्धोऽहं न किञ्चिच् छ्रोतुम् इच्छामि । केवलम् अनुज्ञां देहीत्य् आह—अनुजानीहीति । वाचम् इत्य् उपलक्षणं सर्वेन्द्रियाणाम् । वाचं नियम्य किं करिष्यसि ?तद् आह—मुक्ताः कामाशयास् तद् वासना येन तच् चेतोऽधोक्षजे प्रवेश्यासून् विसृजामि ॥६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे ब्रह्मन्न् इति—साक्षात्परब्रह्ममूर्तिस्त्वमतो मामाज्ञापयेति भावः । अधोक्षजे परब्रह्मणि श्री-कृष्ण एव कृष्णे मनः संमावेश्य सन्त्यक्ष्येऽहं कलेवरम् इति द्वितीयोक्तेः । असून्प्राणान् ॥६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अधोक्षजे श्री-कृष्णे, अधोऽनेन शयानेन [ह।वं। २.१००.३०] इत्य्-आदि श्री-हरि-वंशोक्तेः ॥६_।_।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्मात् कृपया म एतद् एवाज्ञापय, न त्व् एतत् प्रतिकूलम् इत्य् आह—अनुजानीहि अनुज्ञां देहीत्य् अर्थः । अधोक्षजे श्री-कृष्णे मुक्तम् आशयं त्यक्त-काम-वासनाम् ॥६॥
॥ १२.६.७ ॥
अज्ञानं न निरस्तं मे ज्ञान-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतो पदम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु किं प्राण-त्यागेन ? किञ्चित् कालं ज्ञान-निष्ठो भव, इति चेत् तत्राह—अज्ञानं चेति । च-कारात् तत्-संस्कारश् च तच् च त्वत्-कृपयैवेत्य् आह—भवतेति ॥७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । ज्ञानं श्री-कृष्णानुभवो विज्ञानं तदैश्वर्यानुभवरतत्र निष्ठा स्थितिस्तया ॥७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवतः पदम् इति । अत्र पद-शब्दस्य चरणारविन्द-वाचकत्वम्1, ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलं [भा।पु। १.१८.१६] इत्य् एवास्ति प्रथमं साधकम् ॥७॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ज्ञानं भगवद्-विषयकं विज्ञानं तद्-ऐश्वर्य-माधुर्यानुभवः, ज्ञान-विज्ञान-निष्ठा तव कुतो जातेत्य् अत आह—भवतेति । पदं स्वरूपं चरण-कमलं धाम वा ॥७॥
॥ १२.६.८ ॥
सूत उवाच—
इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः ।
जगाम भिक्षुभिः साकं नर-देवेन पूजितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भिक्षुभिह् सर्व-मुनीन्द्रैः ॥८॥
** ॥ १२.६.९ ॥**
परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना ।
समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्मना बुद्ध्या । आत्मानं मन आत्मनि प्रत्यक् प्रकाशे समाधाय परमात्मानं दध्यौ । अस्पन्दासुः लीन-प्राणः । यथा तरुः स्थाणुः ॥९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **परम् अधोक्षजं तद्-आख्यं श्री-कृष्णम् एव दध्यौ ॥९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मना बुद्ध्या । आत्मानं श्री-कृष्णम् आत्मनि मनसि परम् अतिशयेन अस्पन्दासुः अन्तर् एव लीन-प्राणः ॥९॥
॥ १२.६.१० ॥
प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः ।
ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तम् एव विशिनष्टि—प्राक्-कूले प्राग् अग्रे । बर्हिषि दर्भे ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भिक्षुभिस्तत्रत्यैः कथाश्रवणार्थमागतैर्दुर्वासः—प्रभृतिभिः सन्न्यासिभिः । नरदेवेन परीक्षिता । पूजितोऽभ्युत्थानपुष्पाद्यैरर्चितः ॥८-१०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा।पु। ७.१०.४८, ७.१५.७५] इत्य्-आदि-रीत्या पर-ब्रह्म-श्री-कृष्णे प्रेमावेशात् तन्-मयः2 ॥१०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्राक्-कुले बर्हिषि प्राग् अग्रे । दर्भे त्रिगुणातीतत्वाद् ब्रह्म-भूतः । हि तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी इतिवत् ॥१०॥
** ॥ १२.६.११ ॥**
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना ।
हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं ब्रह्म-भूते तस्मिंस् तक्षकागमनादिकं पिष्ट-पेषणम् इवाभवद् इति दर्शयति—तक्षक इति त्रिभिः । हे विप्राः ॥११॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अहो ब्राह्मणानां तपोबलं महदित्यभिप्रेत्याह—हे विप्रा इति ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं ब्रह्म-भूते तस्मिन् तक्षकागमनादिकं पिष्ट-पेषणम् इवाभवद् इति दर्शयति—तक्षक इति त्रिभिः ॥११॥
॥ १२.६.१२ ॥
तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् ।
द्विज-रूप-प्रतिच्छन्नः काम-रूपोऽदशन् नृपम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं विष-चिकित्सया परीक्षिद्-रक्षणेन द्रव्यार्जनायागच्छन्तम् । तत्र स्वालीढ-वट-वृक्षस्य भस्मी-भूतस्य पुनर् अङ्कुरादि-क्रमेणोत्थापनाद् विष-हारिणं तद्-अपेक्षित-द्रविणैः सन्तर्प्य ततो निवर्त्य द्विज-रूपेण तिरोहितः सन्न् अदशत् ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र मार्गे । स्वालीढः स्वदष्टो यो वटवृक्षस्तस्य । कामरूपो देवत्वात् ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तं विष-चिकित्सया परीक्षिद्-रक्षणेन द्रव्यार्जनायागच्छन्तम्, तत्र स्वालीढ-वट-वृक्षस्य भस्मी-भूतस्य पुनर् अङ्कुरादि-क्रमेणोत्थापनाद् विष-हारिणं तद्-अपेक्षित-द्रविणैः सन्तर्प्य ततो निवर्त्य द्विज-रूपेण तिरोहितः सन्न् अदशत् ॥१२॥
** ॥ १२.६.१३ ॥**
ब्रह्म-भूतस्य राजर्षेर् देहोऽहि-गरलाग्निना ।
बभूव भस्म-सात् सद्यः पश्यतां सर्व-देहिनाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तच् च पुत्र-कृत्यम् इव जातम् इत्य् आह—ब्रह्म-भूतस्येति ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तच् च दंशनम् । पुत्रेण यथा पितुर्देहो दह्यते तद्वज्जातम् । अहिगरलमेवाग्निस्तेन । ब्रह्मभूतस्य विचारेण ताद्रूप्यं प्राप्तस्य ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् च पुत्र-कृत्यम् इव जातम् इत्य् आह—ब्रह्म-भूतस्येति ॥१५॥
** ॥ १२.६.१४-१५ ॥**
हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः ।
विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः ॥
देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः ।
ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र क्षणं सर्वेषां दुःखं च ततः परम् उत्सवं चाह द्वाभ्याम्, हाहाकार इति ॥१४-१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र तदा । क्षण क्षणमात्रम् । ततः क्षणोत्तरम् । अहो ब्राह्मणरूपेण फलानि दातुमागतेन किं कृतमित्येवं विस्मिता अभवन् ॥ देवलोकेऽपि तद्गमन उत्सवोऽभूदित्याह—देवदुन्दुभय इति ॥१४-१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
** ॥ १२.६.१६ ॥**
जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् ।
यथाजुहाव सङ्क्रुद्धो नागान् सत्रे सह द्विजैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रासङ्गिकम् आह—जन्मेजय इत्य्-आदि । सर्पाभिचार-सत्रे द्विजैः सह वर्तमानो यथावद् आजुहाव जुहावेति वा । सर्व-सर्पावाहने कारणम् आह—सङ्क्रुद्ध इति ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रासङ्गिकं प्रकृतम् । तक्षकेण भक्षितं दष्टम्, भक्षणवद्दंष्ट्राव्यापारसाम्याद्दशोऽपि भक्षणशब्देनोच्यते । आह्वाने प्रयोजनाभावादाकारप्रश्लेषं त्यक्त्वाह—जुहावेति वेति ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा यथावत् निःसर्पम् इदं जगत् करिष्य इति वदन् क्रुद्धो द्विजैः सह स्थितः सन् ॥१६॥
** ॥ १२.६.१७-१८ ॥**
सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।
दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ ॥
अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् ।
उवाच तक्षकः कस्मान् न दह्येतोरगाधमः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भयेन संविग्नस्त्रस्तः ॥१७॥
** ॥ १२.६.१९ ॥**
तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् ।
तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कस्मात् तक्षको न दह्येतेत्य् उक्ताः सन्तो द्विजा ऊचुः, तम् इति । तेनेन्द्रेण । असौ सर्पः ॥१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र यज्ञकुण्डाग्नौ ॥१८-१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
** ॥ १२.६.२० ॥**
पारीक्षित इति श्रुत्वा प्राह र्त्विज उदार-धीः ।
सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते3** ॥**
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋत्विजः प्रत्याह—सहेन्द्रः इन्द्र-सहितः इन्द्र-सहितः किम् इति न पात्यते ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.२१ ॥
तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे ।
तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
स्व-सन्तानोद्भवं कीर्त्या योगयन् जनम् एजयन् ।
शक्तोऽप्य् अशक्तवद् विष्णुर् इन्द्र आसीद् उपेक्षकः ॥
एवम् एव ऋषीणां च कीर्तिं योजयतामुना ।
कृतोऽपेक्षा महेन्द्रेण किम् उ विष्णुः परात्परः ॥
तस्माद् विष्णोर् अशक्यं न भूत-भव्य-भवत्स्व् अपि ।
न चानिष्टं गुणैर् एष पूर्णो नारायणः सदा ॥4 इति वामने ॥२०-२२॥
नित्यादोष-स्वरूपाय गुण-पूर्णाय सर्वदा ।
नारायणाय हरये नमः प्रेष्ठतमाय मे ॥
इति श्र्मद्-आनन्द-तीर्थ-भगवत्-पाद-विरचिते श्री-भागवत-तात्पर्य-निर्णये द्वादश सक्न्धः समाप्तः । समाप्तोऽयं ग्रन्थः ॥
———————————————————————————————————————
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-राज्ञो वचः श्रुत्वा आजुहुवुः । साक्षेपम् आह्वानं दर्शयति, तक्षकेतीहाग्नाव् आशु पतस्व मरुत्त्वता मरुद्-गण-वतेन्द्रेण सह ॥२१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे विप्रा इति—यूयमर्थिमनोरथमवश्यं पूरयन्ति विशेषेण प्रान्ति पूरयन्त्यर्थिजनाभिलषितम् इति विप्रा इत्यन्वर्थसंज्ञावन्निरुक्तेर् इति भावः । किम् इति न कुतो न ॥२०-२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मरुत्वतेति । अरे इन्द्र, तव देवेन्द्रोऽहम् इति गर्वोऽस्ति तस्मात् त्वां देवैर् अपि समं पातयाम इति भावः । मरुतौ पवनाऽमरौ इत्य् अर्थः ॥२१॥
** ॥ १२.६.२२ ॥**
इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः ।
बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्राह्मणैर् उक्तैर् आक्षेपैः परुष-वाक्यैः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अद्य प्राणाः खलु गता एव इति सम्भ्रान्ता व्याकुला मतिर् यस्य सः ॥२१॥
** ॥ १२.६.२३-२४ ॥**
तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् ।
विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥
नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-राट् ।
अनेन पीतम् अमृतम् अथ वा अजरामरः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तं तक्षकम् । अङ्गिरसः पुत्रो बृहस्पतिः प्राह ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इतीत्थम् ॥ हे मनुष्येन्द्रेति मनुष्येष्वेव तव प्रभावो न तु देवेष्वपीति भावः । अनेन तक्षकेण । अथातः । वै निश्चितम् । अजरामरो जात इत्य् अर्थः । यद् वा, सर्पेण तक्षकेण सह राजत इति सर्पराडिद्रविशेषणम् । अथवा—अत एव अजरामर इति विश्वनाथः ॥२२-२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आङ्गिरसः अङ्गिरसः पुत्र इति गौरव-व्यञ्जना एष इन्द्रो मनुष्येन्द्रेण त्वया देवेन्द्रस्य वधानौचित्यात् सर्पेण तक्षकेण सह राजते इति सः । अथ अत एव । वै निश्चितम् अजरामरः ॥२४॥
** ॥ १२.६.२५ ॥**
जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा ।
राजंस् ततोऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भवतु नामाजरामरस् तथापि पितृ-मारकं धक्ष्यामीति चेत् तत्राह—जीवितम् इति। गतिः पर-लोकः । अतो दुर्मरण-निमित्ता पितुर् दुर्गतिर् अनेन कृतेत्य् अपि न शङ्कनीयम् इत्य् अर्थः ॥२५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—निमित्तमात्रं सर्वेषां कृतकर्मानुसारतः इत्य् उक्तेर् नास्यापराध इति भावः । हे राजन् पितृशोकादेवं यद्यवस्यसि तत्र तत्त्वं शृण्वित्याह—जोवितम् इति । गतिः स्वर्गादिः । जन्तोरिति—निकृष्टजीवस्यवेयं व्यवस्था तव पितुस् तु जीवितमरणभगवद्-धामप्राप्तयो भगवत्कृता एव । तथा हि—स्वहस्तेनैव द्रौण्यस्त्रतो रक्षणं, मुनिशापद्वारा निधनप्रापणं, स्वप्रष्ठेशुकोपदेशद्वारा निजपदप्रापणम् इति तस्यैव कर्माणि तक्षकस् तु निमित्तमात्रम् इति विश्वनाथः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे राजन् ! स्व-पितृ-शोकाद् एवं यद् व्यवस्यसि, तत्र तत्त्वं शृण्व् इत्य् आह—जीवितम् इति। गतिः स्वर्गादि जन्तोर् इति निकृष्ट-जीवस्यैवेयं व्यवस्था, तव पितुस् तु जीवित-मरण-भगवद्-धाम-प्राप्तये भगवत्-कृता एव, तथा हि स्व-हस्तेनैव द्रौण्य्-अस्त्रतो रक्षणं मुनि-शाप-द्वारा निधन-प्रापणं, स्व-प्रेष्ठ-शुकोपदेश-द्वारा स्व-पद-प्रापणम् इति तस्यैवैतानि कर्माणि । तक्षकस् तु नाम-मात्रेणैव निमित्तम् इति भावः ॥२५॥
** ॥ १२.६.२६ ॥**
सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृड्-व्याध्य्-आदिभिर् नृप ।
पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथम् अन्यः सुख-दुःख-प्रदाता नास्ति सर्पादीनाम् उपलभ्यमानत्वाद् इति चेत् तत्राह—सर्पादिना जन्तुः पञ्चत्वं मृत्युम् ऋच्छति प्राप्नोतीति यत्, तद् आरब्धं कर्मैव भूङ्क्ते, स्व-कर्म-प्रयुक्ता एव सर्पादयो न स्व-तन्त्रा इति भावः ॥२६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इति भाव इति—सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा इत्य्-आदिपुराणान्तरात् आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः इति श्रीमुखवाक्याच् च स्वकर्मानुसारेण स्वस्यैव स्वदुःखादिहेतुत्वमित्याशयः प्राकृत एव लोकस्स्वकर्मवशात्सर्पादिभिर्मृतिं याति न तु त्वत्पितामहो भक्तराज इत्याह—सर्पेति । जन्तुरन्तिनिकृष्टजीव इति विश्वनाथः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्राकृत एव लोकः सर्पादिभिः कर्म-वशान् मरणं प्राप्नोति, न तु त्वत्-पिता महा-भक्त-राज इत्य् आह—सर्पेति । जन्तुर् इति निकृष्ट-जीवः ॥२६॥
** ॥ १२.६.२७ ॥**
तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् ।
सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संस्थीयेत समाप्यताम् । आभिचारिकं हिंसा-फलम् । दिष्टं प्राचीनं कर्म । अतः सर्पादृष्ट-प्रयुक्तस्य तवाप्य् अयं नापराध इति भावः ॥२७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यन्तः प्रारब्धकर्मत एव सर्वं भवति तस्माद्धेतोः । इदं सर्पसत्रम् । ननु तज्जातित्वात्तक्षकापराध एवैषामपराधः एकः पापानि कुरुते फलं भुङ्क्त महाजनः इत्य् उक्तेस् तत्राह—तक्षकस्याप्यपराधो नास्ति दैवेन तद्दंशनेन स्वकृतपूर्वकर्मणा परीक्षितो मरणस्य क्लृप्तत्वादित्याशयेनाह—जनैर्दिष्टम् इति । यतो दिष्टम् एव फलदमतो हेतोः । इति भाव इति—तव चेतस्यपि मातृकृतसर्पदाहरूपशापादृष्टवशेनैव सर्पसत्रकृतिस्फूर्तिर्जातेति तात्पर्यम् । अत्र महाभारतीयकथानुसंवेया—कदाचिदुच्चैःश्रवसोऽश्वस्य वर्णनिर्णयार्थं कद्रूविनतयोर्विवादः प्रवृत्तः । विनतयोक्तं श्वेतवर्णोऽयं, कद्रवा चोक्तं कृष्णवर्ण इति । ततः श्वो निर्णयार्थं गमिष्यावो यदुक्तिर्मृषा सा दासी भवतु, तदा च नागमात्रा स्वपुत्रान्प्रत्युक्तं यूयं कृष्णरोमाकारा भूत्वाश्वपुच्छे लग्ना भवत, ये न करिष्यन्ति मद्वाक्यं ते सर्वे जनमेजययज्ञे दग्धा भविष्यन्तीति । आभिचारिक निन्द्यम् । अभिचारस्य शत्रुमरणकामः श्येनेनाभिचरेत् इति विहितत्वेऽपि प्रायश्चित्तश्रवणान्निन्द्यत्वम् इति तत्रापि तव नापराध इत्याह—जनैर् इति विश्वनाथः ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। **
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संस्थीयते समाप्यतां, यत आभिचारिकं निन्द्यं, वृथैव एतावन्तः सर्पा दग्धाः, तत्रापि तव नापराध इत्य् आह—जनैर् इति । दिष्टं प्राचीनं कर्म, सर्पेर् अपि स्व-प्रारब्ध-फलं भुक्तम् इदम् इति भावः ॥२७॥
** ॥ १२.६.२८ ॥**
इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः ।
सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **वाक्-पतिं बृहस्पतिम् ॥२८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महर्षेर्बृहस्पतेः । वाग्वै बृहती इति श्रुतिम् एव बृहच्छब्दस्य वागर्थे मानं मत्वाह—बृहस्पतिम् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
** ॥ १२.६.२९ ॥**
सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया ।
मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु कथं विदुषाम् अप्य् एवं सम्मोहो यतो ब्रह्म-कोपात् परीक्षितो मृत्युर् जनमेजय-कोपात् सर्पाणाम् इत्य्-आदि ? तत्राह—सैषेति । तस्या महत्त्वं दर्शयति—अलक्षणा न लक्ष्यत इत्य् अलक्षणा, अप्रतर्क्येत्य् अर्थः । कासौ ? इत्य् अत आह—यया अस्य विष्णोर् एवात्म-भूता आत्मांश-भूताः प्राणिनो गुण-वृत्तिभिः क्रोधादिभिः सह भूतेषु देहेषु मुह्यन्ति । बाध्य-बाधकतं व्रजन्तीत्य् अर्थः । ननु श्रवणादिना बाधितया तया कुतो मोहः स्यात् ? तत्राह—अबाध्यया बाधितुम् अशक्यया ॥२९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । इत्य् अर्थ इति—लक्षित एव वस्तुनि तर्को भवतीति भावः । इत्य् अर्थ इति—अन्यथाभावस्यैव मोहत्वाद् इति भावः । पुनराक्षिपति—नन्व् इति । अबाध्यया ब्रह्मात्मबोधं विना बाधितुमशक्यया ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु कथं विदुषाम् अप्य् एवं सम्मोहः ? यतो जनमेजयस्य कोपात् सर्पाणां वधस् तत्-सभासदां विदुषाम् अपि विप्राणाम् आभिचारिके सत्रे प्रवर्तनम् इति । तत्राह—सैषेति । तस्या महत्त्वं दर्शयति—अलक्षणा न लक्ष्यत इत्य् अलक्षणा अप्रतर्क्येत्य् अर्थः । यया अबाध्यया विद्वद्भिर् अपि बाधितुम् अशक्यया मुह्यन्ति । के ते ? इत्य् अत आह—अस्यैव विष्णोर् आत्म-भूता आत्मांश-भूताः प्राणिनो भूतेषु प्राणिषु विषयेषु या गुण-वृत्तयः क्रोध-द्वेषाद्यास् ताभिर् मुह्यन्ति ॥२९॥
** ॥ १२.६.३० ॥**
न यत्र दम्भीत्य् अभया विराजिता
मायात्म-वादेऽसकृद् आत्म-वादिभिः ।
न यद् विवादो विविधस् तद्-आश्रयो
मनश् च सङ्कल्प-विकल्प-वृत्ति यत् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथं तर्हि माया-तत्-कार्य-निवृत्तिः ? इत्य् आशङ्क्य श्री-विष्णु-स्वरूप-निरूपण-पूर्वकं तद्-भजनात् सर्वानर्थ-निवृत्तिर् इति शास्त्रार्थम् उपसंहरति—न यत्रेति पञ्चभिः । दम्भीति । माया, कपटवान् अयं पुमान् इत्य् एवं-भूतायां बुद्धावस-कृद् उल्लिख्यमाना या मायेत्य् अर्थाह् । सात्म-वादे क्रियमाणे आत्म-वादिभिर् यत्राभया न विराजिता न प्रकाशिता, किन्तु भीतेव स्व-कर्यं मोहादिकम् अकुर्वती कथञ्चिद् वर्तत इति प्रतिपादितेत्य् अर्थः । तद् उक्तम्—
तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन् मायया दुर्जयया मां ब्रुवन्ति जगद्-गुरुम् ॥
विलज्जमानय यस्य स्थातुम् ईक्षा-पथेऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भा।पु। २.५.१२-१३] इति ।
किं च, यद् यस्मिंस् तद्-आश्रयो मायाश्रयो विविधो विवादोऽपि नास्ति । विशेष-विषयत्वाद् विवादानां तस्य विशेषातीतत्वाद् इति भावः । सङ्कल्प-विकल्पा वृत्तयो यस्य तन् मनोऽपि यत्र नास्ति । सङ्कल्प-विकल्पानाम् अपि विशेष-विषयत्वात् ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विष्णुस्तर्हि दम्भी येन तस्य मायेत्युच्यते तत्राह—न यत्रेति । यत्र विष्णौ यस्य विष्णोस्सन्निधाने निमित्ते आ ईषत् विराजिता यत्किचिल्लब्धसामर्थ्यापि दम्भी दम्भवानयमित्यभया न भवति किन्तु तस्मिन्दम्भादर्शनात्सभयैव भवतीत्य् अर्थः । माया हि सदम्भ एव निर्भया भवतीति । तद् उक्तम्—
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥
इति विष्णो महाभागवते च मायाधिकारो नास्तीत्य् अर्थः । कीदृशी—दम्भिनि दम्भवति पुरुषे इतौ गमने आक्रमे इत्य् अर्थः । अभया निर्भयैव विराजिता । इण्—गतौ क्त्यन्तः । विष्णुतद्भक्तयोस् तु शून्येव भवतीति भावः । तथात्मवादिभिरति बहुधात्मवादे प्रवर्तिते विष्णुस्वरूपे स्फुरिते सति विविधो वादो नास्ति यतस् तदाश्रयो मायाश्रय एव सः यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति इत्य्-उक्तेः । तथा सङ्कल्पादिरूपा मायावृत्तयो यत्र तन्मनोपि नास्तीत्यर्थ इति विश्वनाथः । इत्य् अर्थ इति—अत्र मायाशब्दः कपटपर एव न तु भागवच्छक्तिरूपयोगमायापर इति भावः । इत्य् अर्थ इति—इत्थं प्रतिपादिता या माया सा यत्रात्मस्वरूपे नास्तीति भावः । अत्र प्रमाणम् आह—तद् उक्तम् इति । श्लोकौ तु व्याख्यातचरावेव । अन्यदा—किञ्चेति । यद्यस्मिन्नात्मस्वरूपे । इति भाव इति—नेह नानास्ति किञ्चन इत्य्-आदिश्रुतेस् तस्यात्मस्वरूपस्य सर्वविशेषरहितत्वस्य निश्चयाद् इति तात्पर्यम् । विशेषविषयत्वाद्भेदविषयत्वात् ॥३०॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कथं तर्हि विष्णुर् दम्भी, येन तस्य महामायेत्य् उच्यते ? तत्राह—न यत्रेति । **यत्र **विष्णौ यस्य विष्णोः सन्निधाने निमित्ते आ इषत् विराजिता यत् किञ्चित् लब्ध-सामर्थ्यापि दम्भी दम्भवान् अयम् इत्य् अभया न भवति, किन्तु तस्मिन् दम्भा-दर्शनात् स-भयैव5 भवतीत्य् अर्थः । माया हि स-दम्भ एव निरर्गला भवतीति । तद् उक्तं विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया [भा।पु। २.५.१३] इति ।
किं च, आत्म-वादिभिर् आत्म-वादे कर्तव्ये यत् यत्र तद्-आश्रयो विविधो विवादो न विद्यते, आत्मनः परत्वाद् इति भावः । अतो मनश् चेति । ततस् तु सुतरां विवादाभाव इति भावः । तद् एवं तत्-सान्निध्य-मात्रेण स्थिता, न तु तत् सम्मता, तस्याम् अनासक्तत्वात् तस्येति स्थितम् ॥३०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ननु यदि क्रोध-द्वेषादिमत्सु सर्व-जीवेष्व् एवास्या मायाया मोहनाद् धेतोर् अधिकारः, तर्हि कुत्र नाधिकारः ? इति चेत्—
विलज्जमानय यस्य स्थातुम् ईक्षा-पथेऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भा।पु। २.५.१३]
इति ब्रह्मोक्तेर् भगवति, विष्णौ महा-भागवते च लोकेऽस्या नैवाधिकारः, सत्यम् । कीदृशं तर्हि विष्णोः स्वरूपम् ? इत्य् अपेक्षायाम् आह—न यत्रेति त्रिभिः । यत्र विष्णु-स्वरूपे माया न प्रभवति। कीदृशी ? दम्भिनि दम्भवति पुरुषे इतौ गमने आक्रम इत्य् अर्थः । अभया निर्भयैव विराजिता, इन् गतौ क्त्य्-अन्तः । विष्णौ तद्-भक्ते च दम्भाभावात् तत्र सभया विराजन-शून्येव भवतीति भावः । तथा आत्म-वादिभिर् अपि असकृत् पुनः पुनः आत्म-वादे प्रवर्तिते सति, यत् यत्र विष्णु-स्वरूपे स्फुरिते सति विविधो विवादो नास्ति । कीदृशस् तद्-आश्रयः ? तां मायाम् एवाश्रयत इति सः । यद् उक्तं—
यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति [भा।पु। ६.४.३१] इति ॥३०॥
॥।
॥ १२.६.३१ ॥
न यत्र सृज्यं सृजतोभयोः परं
श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् ।
तद् एतद् उत्सादित-बाध्य-बाधकं
निषिध्य चोर्मीन् विरमेत तन् मुनिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, सृज्यं कर्म सृजता कारक-वर्गेण सहोभयोः सृज्य-स्रष्ट्रोः परं साध्यं श्रेयः फलम् अपि । अतस् त्रिभिः सृज्य-स्रष्टृ-फलैर् अन्वितो जीवश् चाहङ्कारात्मको यत्र नास्ति । अत एव उत्सादितौ निरस्तौ बाध्य-बाधकौ यस्मिंस् तद् एतत् स्वयम् आत्म-स्वरूपम् इत्य् अर्थः । तत् तस्मिन्न् ऊर्मीन् अहङ्कारादीन् निषिध्य विरमेत, विशेषेण क्रीडेद् इत्य् अर्थह् ॥३१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदप्याधिक्यम् आह—किञ्चेति । कारकवर्गेणेन्द्रियसमूहेन । अतः सृज्यादित्रयाभावात् । अत एवाहङ्काराभवादेव । बाध्य द्वैतं, बाधकं वृत्तिरूपं ज्ञानं च । इत्य् अर्थ इति—सर्वबाधाविधित्वेन ज्ञेयम् इति भावः। केचित्त्वात्मस्वरूपमिहावगत्येति शेषं कृत्वा योजयंस्तदशोभनमिव भातीति । ऊर्मिशब्देनात्रहङ्कारादयो लक्ष्यन्ते जले तरङ्गवत्तेषाम् अपि चित्त उत्थानदर्शनात् । इत्य् अर्थ इति—कश्चित्तमनुवर्तते इति वेरुपसर्गस्य धात्वर्थानुगतत्वादयं भावः । यत्र स्फुरीते सति सृज्यादिर्न यत् उभयोः स्रष्ट्टसृज्ययोः परं पृथग्भूतं तत्स्वयं तथा श्रेयः स्वर्गादिफलम् अपि यत्र न स्फुरति तथा त्रिभिर्गुणर्जागरादिभिर्वा युक्तोऽहङ्कारात्मको जीवोऽपि न स्फुरति तस्मादेतद्विष्णुस्वरूपम् । उत्सादिता निरस्ता बाध्या जीवा बाधका गुणाश् च तस्मात्तथाभूतम् । ननु तर्ह्यैतत्कः प्रकाशयेत्तत्राह—निषिध्येति । स्वभक्तहृद्गतानमून्कामक्रोधादीन्स्वयम् एव । तत्र विशेषतो रमते तत्प्रसिद्धम् इति विश्वनाथः ॥३१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मायाश्रय-व्यवधानम् असत्त्वं विवृणोति—न यत्र सृज्यम् इति । जीवस् त्व् अहम् इत्य् अन्वयः निगमयति । तत्-पूर्व-निर्दिष्टम् एतत्-प्रकारम् उत्सादित-बाध्य-बाधकं विष्णु-तत्त्वम् इति । तद् एतन्-मननेन ऊर्मीन् मायादीन् निषिध्य मुनिर् विरमेत । तस्माद् अन्यत्र स्वयम् एव विरतो भवति, न तु यत्नान्तरेणेत्य् अर्थः ॥३१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तथा सङ्कल्प-विकल्प-रूपा मायिक्यो वृत्तयो यस्य तथा-भूतं मनोऽपि यत्र नास्ति। यथा यत्र स्फुरिते सति सृज्यं वस्तु सृजता कारण-वर्गेण सह न स्फुरतीत्य् अर्थः । यत उभयोः परं सृज्य-स्रष्टृत्यां पृथग् भूतं तत् स्वयं तथा यत्र स्फुरिते सति श्रेयश् च स्वर्गादि-फलम् अपि न स्फुरति । तथा त्रिभिर् गुणैर् जागरादिभिर् वा अन्वितोऽहङ्कारात्मको जीवोऽपि न । तत् तस्माद् एतत् विष्णु-रूपम् उत्सादिता निरस्ता बाध्या जीवा बाधका गुणाश् च यस्मिंस् तथा-भूतम् । ननु तर्ह्य् एतत् कः प्रश्रयेत् ? तत्राह—निषिद्धेति । स्व-भक्त-हृद्-गतान् ऊर्मीन् काम-क्रोधादीन् स्वयम् एव तत्र विशेषतो रमेत, तत् प्रसिद्धम् ॥३१॥
॥ १२.६.३२ ॥
परं पदं वैष्णवम् आमनन्ति तद्
यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः ।
विसृज्य दौरात्म्यम् अनन्य-सौहृदा
हृदोपगुह्यावसितं समाहितैः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यतस् तद्-वैष्णवं पदम् आमनन्तीत्य् आह—परम् इति । यद् एतत् तद् एव परं वैष्णवं पदं स्वरूपम् आमनन्ति । के ? अतत् आत्म-व्यतिरिक्तम् उत्सिसृक्षवस् त्यक्तुम् इच्छवः । यतोऽनन्य-सौहृदाः नास्त्य् अन्यस्मिन् सौहृदं येषां ते । कुतः । दौरात्म्यं देहाद्य्-अहं-भावं विसृज्य । देहेऽहङ्काराभावाद् अन्यत्र सौहृदं नास्त्य् अतस् त्यक्तुम् इच्छव इत्य् अर्थः । कथम् । नेति नेतीत्य् एवम् । अत्र विद्वद् अनुभवम् अपि प्रमाणयति, हृदोपगुह्य ध्यानादिना । ततः समाहितैर् अवसितं निश्चितम् । यद् वा, , अवसितम् अवबद्धम् आत्मतया गृहीतम् इत्य् अर्थः ॥३२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किमर्थं तत्र क्रीडेद् इति तत्राह—यतस् तद्वैष्णवम् इति । तद् इति ब्रह्मणो नाम इति श्रुतेस् तद्व्यतिरिक्तं प्रपञ्चम् । तत्र हेतुः—यत इति । अनन्यसौहृदत्वे हेतुमाशङ्कते—कुत इति । इत्य् अर्थः इति पूर्वोक्तं यत इति पदमत्र योज्यम् इति भावः। केन प्रकारेण त्यक्तुमिच्छवस्तत्राह—नेतीति। देहोऽप्यात्मा न, जडत्वात्, घटवत् । इन्द्रियाण्यप्यात्मा न, तैजसत्वात्, दीपादिवदित्येवं प्रकारेणेत्यर्थः । अत्रात्मस्वरूपस्य वैष्णवपदत्वे । आदिना धारणाग्रहः । ततो ध्यानानन्तरम् । समाहितैः कृतसमाधिभिः । धात्वर्थप्रसिद्धिमादायाह—यद्वेति । इत्य् अर्थ इति—आत्मरूपतया ग्रहणस्यैवार्थकरत्वाद् इति भावः । यद् वा, नान्यस्मिन्सौहृदं ममत्वं येषां ते, अन्यत्र त्यक्तममत्वाद्विरक्ता विवेकिनोऽन्वयव्यतिरेकादियुक्त्या च दौराम्यं देहादिकोशपञ्चके आत्मत्वाध्यासं विसृज्य ब्रह्मणि यत् अतत् आत्मस्वरूपातिरिक्तं मायोपाधिं तत्प्रयुक्तस्सृष्टिकर्तृत्वादि च तदुत्सिसृक्षवः, एवं भागत्यागलक्षणया तत्त्वंपदार्थयोविरुद्धभागत्यागेन लक्षितं हृदौपनिषदबोधेन समाहितैः प्रत्ययैरुपगुह्य निदिध्यास्य यदवसितं साक्षात्कृतं प्रत्यगभिन्नं ब्रह्म तद् एव विष्णोः परं पदं स्वरूपमामनन्ति वेदप्रतिपाद्यमध्यवस्यन्तीत्यर्थः। तद्वैष्णवं पदं विष्णोः स्वरूपमामनन्ति पुनः पुनः स्मरणेनाभ्यस्यन्ति कीदृशाः—दौरात्म्यमहंममेति दौर्जन्यं विसृज्य नेति नेति नैतदनुकूलं नैतदनुकूलम् इति कृत्वा तत् तद्व्यतिरिक्तदेहगेहपुत्रादिकम् अहंममतास्पदं यद्वस्तु तत्क्रमेण त्यक्तमिच्छवः यतोऽनन्येष्वैकान्तिकमक्तेष्वेव सौहृदं प्रीतिर्येषां तेऽतः समाहितैकाग्रचित्तैस्तैर् एव भक्तृर्हृदा मनसा उपगुह्य ज्ञात्वावसितं तद्वैष्णवं पदं निश्चितं नान्यैर् इति विश्वनाथः ॥३२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पुनस् तद् एव विशदयति—परं पदम् इति । अतत् विष्णु-तत्त्व-व्यतिरिक्तं दौरात्म्यं तस्मिन् सौहृदाभावं समाहितैस् तस्मिन् समाहितान्तः-करणैः आत्मारामैर् अपि वा अवसितम् अनुभूतम् ॥३२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यतस् तद्-वैष्णवं पदम् आमनन्तीत्य् आह—परम् इति । यद् एतत् तद् एव परं वैष्णवं पदं स्वरूपम् आमनन्ति । के ? अतत् आत्म-व्यतिरिक्तम् उत्सिसृक्षवस् त्यक्तुम् इच्छवः । यतोऽनन्य-सौहृदाः नास्त्य् अन्यस्मिन् सौहृदं येषां ते । कुतः । दौरात्म्यं देहाद्य्-अहं-भावं विसृज्य । देहेऽहङ्काराभावाद् अन्यत्र सौहृदं नास्त्य् अतस् त्यक्तुम् इच्छव इत्य् अर्थः । कथम् । नेति नेतीत्य् एवम् । अत्र विद्वद् अनुभवम् अपि प्रमाणयति, हृदोपगुह्य ध्यानादिना । ततः समाहितैर् अवसितं निश्चितम् । यद् वा, , अवसितम् अवबद्धम् आत्मतया गृहीतम् इत्य् अर्थः ॥३२॥
** ॥ १२.६.३३ ॥**
त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् ।
अहं ममेति दौर्जन्यं न येषां देह-गेह-जम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्राप्ताव् अधिकारिणो दर्शयति, त एतद् इति । देह-जम् अहम् इति । गेह-जं ममेति ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतत् प्रत्युक्तया नित्यापरोक्षं परमं पदमुपाधिविमुक्तं शुद्धस्वरूपम् । दौर्जन्यं दुर्जनतालक्षकम् ॥३३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र पूर्वाङ्गम् आह—त एतद् इति द्वाभ्याम् ॥३३॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थं स्पष्टीकृत्य व्याचष्टे—त इति । अधिगच्छन्तीति अवसितम् इत्य् अस्यार्थः । दौर्जन्यम् इति दौरात्म्य-पदस्यार्थः ॥३३॥
** ॥ १२.६.३४ ॥**
अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्-प्राप्त्य्-उपायम् आह—अतिवादान् इति ॥३४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एतद्वैष्णवपदमपराधे सति तिरोहितं भवेदतोऽपराधानुद्भवविधिम् आह—अतिवादान् कटूक्तीः सहेतैव न तु तादृशमुत्तरं दद्यात् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चैतद् विष्णु-स्वरूपं क्वाप्य् अपराधे सति तिरोहितं भवेद् एतः अपराधानुद्भवे प्रकारं शिक्षयति—अतिवादान् कटूक्तीः तितिक्षेतैव, न तु तथैव कटु-प्रत्युत्तरं दद्याद् इत्य् अर्थः । इमं साधक-देहम् आश्रित्येति साधक-दशायाम् अपि स्मर्यमाणं स्वस्य सिद्ध-देहम् आश्रित्य तु स्मर्यमाणेन स्व-विपक्षेण सह वैरं न कुर्याद् इति रागानुगीय-रसिक-भक्ता अभिप्रायम् आहुः—कञ्चन अवमन्तारम् अपि ॥३४॥
॥ १२.६.३५ ॥
नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे ।
यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शास्त्र-समाप्तौ गुरुं प्रणमति—नम इति । कृष्णाय व्यासाय । अध्यगाम् अधिगतवान् अस्मि ॥३५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **गुरुं श्रीव्यासम् । यद्यपि श्रीशुक एव तदुपदेष्टा तथापि श्री-कृष्णद्वैपायननतिसदुपदेशस्यापि तत्प्रसादमननादेवेति ध्येयम् । यद् वा, शास्त्रं समाप्य स्वेष्टदेवं भगवन्तं नमति—नम इति । अध्यगां श्रीशुकादधिगतवानस्मीति ॥३५॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एतच् च श्रीमद्-भागवताद् एव ज्ञायत इत्य् अभिप्रेत्य स्वस्मिंस् तद्-उपदेष्टारं प्रणमति—नम इति । यद्यप्य् अस्य श्री-शुकदेवोपदेष्टा, तथापि श्री-कृष्ण-द्वैपायन-नमस्कारस् तत्-कृतोपदेशस्यापि तत्-प्रसाद-प्राप्तत्वेन मननात् । तद् एतद् आह—यद् इति ॥३५॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्रं समाप्य स्वेष्ट-देवं भगवन्तं प्रणमति—नम इति । अध्यगां श्री-शुक-मुखाद् अधिगतवान् अस्मि ॥३५॥
॥ १२.६.३६ ॥
श्री-शौनक उवाच—
पैलादिभिर् व्यास-शिष्यैर् वेदाचार्यैर् महात्मभिः ।
वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **“इमां संहिताम् अध्यगाम्” इत्य् उक्तं तत्र पुराण-संहिता-विभागं विशेषतो बुभुत्सुर् वेद-विभागम् अपि प्रसङ्गात् पृथक् पृच्छति—पैलादिभिर् इति । हे सौम्य ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे सौम्येति—सोमवच्चित्तसन्तापहरत्वेन प्रकाशस इति भावः । तत्र वेदविभागपुराणसंहिताविभागयोर्मध्ये ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संहिता-मध्यगाम् इति श्रुत्वा संहिता-विभागं बुभूत्सते—पैलादिभिर् इति ॥३६॥
** ॥ १२.६.३७ ॥**
सूत उवाच—
समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः ।
हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र प्रथमं वेदाविर्भाव-प्रकारम् आह—समाहितात्मन इत्य् अष्टभिः । ब्रह्मणो हृदि य आकाशस् तस्मान् नादोऽभूत् । यः कर्ण-पुट-पिधानेन श्रोत्र-वृत्ति-निरोधाद् अस्मद् आदिष्व् अपि विभाव्यते वितर्क्यते ॥३७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्रेत्युक्तार्थम् एव । हे ब्रह्मन्न् इति—त्वं तु जानास्येव लोकहितार्थमेवायं प्रश्न इति भावः । वेदकल्पतरोः फलं निरूप्य शाखा अपि सङ्क्षेपत आह—समेति । परमेष्ठिनो ब्रह्मणो हृदि य आकाशस्तस्मान्नादोऽभूत् यत्र नादे वृत्तिरोधादेकाग्रया बुद्ध्या ब्रह्म विभाव्यते चिन्त्यते योगिभिरित्यप्यर्थः ॥३७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वृत्ति-रोधाद् इति । गुरूपदेश-बलेन समाहितेऽन्तः-करणे सतीत्य् अर्थः ॥३७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेद-कल्प-तरोः फलं साधुतया निरूप्य शाखा अपि सङ्क्षेपतो निर्दिशंस् तस्य प्रथमम् आविर्भाव-प्रकारम् आह—समाहितेत्य् अष्टभिः । ब्रह्मणो हृदि य आकाशस् तस्मान् नादोऽभूत्, यः कर्ण-पुटापिधानेन श्रोत्र-वृत्ति-निरोधाद् अस्मद्-आदिष्व् अपि विभाव्यते वितर्क्यते ॥३७॥
** ॥ १२.६.३८ ॥**
यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः ।
द्रव्य-क्रिया-कारकाभ्यां धूत्वा यान्त्य् अपुनर्-भवम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रसङ्गान् नादोपासकानां मोक्ष-फलम् आह—यस्य नादस्योपासनयात्मनो मलं धूत्वापोह्य । कथं-भूतं मलम् ? तम् आह—द्रव्यम् अधिभूतम्, क्रिया अध्यात्मम्, कारकम् अधिदैवम्, एवं त्रिधा-भूता आख्या यस्येति तथा तम् ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यद्ब्रह्मोपासनया स्वात्मतत्त्वानुसन्धानेनात्मनो मलं माया विद्यादीशजीवोपाधितत्कार्यं च द्रव्यं समष्टिव्यष्टिदेहं क्रिया इन्द्रियाणि कारकं कर्तृ अन्तःकरणाख्यं धूत्वा तद्विविक्तं प्रत्यगभिन्न ब्रह्मावगत्यापुनर्भवं मोक्षं यान्तीति वार्थः ॥३८॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद्-आश्रयमाणस्य6 तस्योपासना-फलम् आह—यद्-उपासनयेति ॥३८॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य नादस्योपासनया द्रव्य-क्रिया-कारकानि अधिभूतादीनि आख्या यस्य तं मलं धूत्वा नाशयित्वा ॥३८॥
** ॥ १२.६.३९ ॥**
ततोऽभूत् त्रिवृद् ओंकारो योऽव्यक्त-प्रभवः स्वराट् ।
यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्रि-वृत् त्रि-मात्रः कण्ठोष्ठादिभिर् उच्चार्य-माणस्य् ओंकारस्याक्षर-समाम्नायान्तर्भावात् सूक्ष्मतया तं विशिनष्टि, अव्यक्तः प्रभवो यस्य सः । तद् एवाह—स्वराट् स्वत एव हृदि प्रकाशमानः । तम् एव कार्येण लक्षयति—यत् तद् इति । नपुंसकत्वं लिङ्ग-शब्द-विशेषणत्वात् । लिङ्गं गमकम् ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अव्यक्तोऽस्फुटः, प्रभव उद्भवः । तद् एवाव्यक्तोत्पत्तिकत्वम् एव । तम् एव प्रणवम् एव । गमक ज्ञापकम् । ततो नादात् घण्टानादतुल्यनादात् । त्रिभिरकाराद्यैर्वर्तते त्रीनकारादीन् वृणोत्यादत्तेवेति त्रिवृत् । त्रिवृदकारोकारमकारात्मक ओंकारो योव्यक्तस्य प्रमाणान्तरागम्यस्य ब्रह्मणः प्रभवोऽपरोक्षो यस्मात्स स्वराट् स्वतः प्रमाणभूतः भगवतो ब्रह्मणः प्रत्यगात्मनश् च परलिङ्गम् । अकारोकारमकारवाच्यविश्वतैजसप्राज्ञविलापनेनानुच्चार्यार्द्धमात्रावबोध्यवागगोचरब्रह्म ज्ञापकम् ॥३९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **लिङ्गं बोध-द्वारम् अवयव-रूपं वा ॥३९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो नादात् त्रिवृत् अ-कारोकार-मकारात्मकः अव्यक्तोऽस्पष्टः प्रभवो जन्म यस्य सः । स्वराट् साक्षात् परमेश्वर एव यत् यो भगवद्-आदि-त्रयस्य लिङ्गं गमकं भक्त-ज्ञानि-योगिभिर् उपास्यत्वात्, लिङ्ग-शब्द-विशेषणत्वात् तद् इत्य् अस्य नपुंसकत्वम् ॥३९॥
॥ १२.६.४०-४१ ॥
शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् ।
येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः ॥
स्व-धाम्नो ब्रह्मणः साक्षाद् वाचकः परमात्मनः ।
स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कोऽसौ परमात्मा ? तम् आह—शृणोतीतीमं स्फोटम् अव्यक्तम् ओंकारम् । ननु जीव एव तं शृणोतु ? नेत्य् आह—सुप्त-श्रोत्रे कर्ण-पिधानादिना, वृत्तिकेऽपि श्रोत्रे सति । जीवस् तु करणाधीन-ज्ञानत्वान् न तदा श्रोता । तद्-उपलब्धिस् तु तस्य परमात्म-द्वारिकैवेति भावः। ईश्वरस् तु नैवम्, यतः शून्य-दृक् । शून्येऽपीन्द्रिय-वर्गे दृक् ज्ञानं यस्य । तथा हि—सुप्तो यदा शब्दं श्रुत्वा प्रबुध्यते न तदा जीवः श्रोता, लीनेन्द्रियत्वात् । अतो यस् तदा शब्दं श्रुत्वा जीवं प्रबोधयति, स यथा परमात्मैव तद्वत् । कोऽसाव् ओंकारः ? तं विशिनष्टि सार्धेन—येन वाग् बृहती व्यज्यते । यस्य च हृदयाकाशे आत्मनः सकाशाद् व्यक्तिर् अभिव्यक्तिः ॥४०॥
किं च, स्व-धाम्नः स्वस्याश्रयः कारणं यद् ब्रह्म तस्य । किं च, परमात्मांश-भूत-समस्त-देवता-वाचकोऽपीत्य् आशयेनाह—स इति । सर्व-मन्त्राणाम् उपनिषद्-रहस्य-सूक्ष्म-रूपम् इत्य् अर्थः । तत्र हेतुः, वेदानां बीजं कारणम् । बीजत्वेऽप्य् अविकारिताम् आह—सनातनं सदैक-रूपम्, तस्य ब्रह्म-रूपत्वात् ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । इति भाव इति—न हि जीव इन्द्रियं विनैन्द्रियिकमधिगच्छत्यन्यथान्धादे रूपादिज्ञानं स्याद् इति तात्पर्यम् । नैवं जीवसदृशो नेत्यर्थः । यद् वा, यः पुरुष इमं स्फुट्यतेऽनेनेति स्फोटं सुप्तश्रोत्रे मुद्रितकर्णे शृणोति स शून्यदृक् सूक्ष्मदर्शी स्यात् । तम् एव विशेषयति—यतः स्फोटात्सर्वा वाग्व्यज्यते प्रकटीभवति यन्निमित्तिका हृदयाकाशे आत्मनो व्यक्तिः । प्रणवरूपस्फोटोपासनयैव हृद्यात्माविर्भावो भवतीत्य् अर्थः ॥ अन्यदाधिक्यम् आह—किञ्चेति । न केवलं ब्रह्मवाचक एवापि त्वन्येषामपीत्य् आह—किञ्चेति । इत्य् अर्थ इति—तत्तद्देवबोधकाखिलमन्त्रसूक्ष्मरूपमिदमेवाक्षरम् इति भावः । तत्र सूक्ष्मरूपत्वे । यद् वा, स्वधाम्नः स्वप्रकाशस्यापि ब्रह्मणः परमात्मनोऽपि साक्षादावरणबाधेन वाचको बोधकः । स एव सर्वधर्मागमन्त्राणां ब्रह्मव्यञ्जकोपनिषदां च सनातनं बीजम्, स्वस्य धामाश्रयो यद्ब्रह्म तस्य परमात्मनोऽपि भगवतश् च वाचकः ओंमित्येतद्ब्रह्मणो दिष्टं नाम इति श्रुतेः ॥४०-४१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु, तस्य शब्दस्य सदास्तित्वे किं प्रमाणम् ? कर्णे पिहिते श्रवणम् एवेति चेत् हुङ्कारादिकम् अपि श्रूयते । तथा सुप्तो जाग्रद् एव वाहूति-सहस्रेणाप्य् अवधारयितुं यो न शक्यते तेन तु जन्म-वधिरेणेन्द्रियाभावात् न श्रूयते एव, स तत्राह—शृणोतीति । यः वरमात्मा सुप्ते श्रोत्रे च-कारात् असुप्तेऽपि शृणोति तस्य जीववद् इन्द्रियापेक्षा) वस्था नास्तीत्य् आह—शून्य-दृग् इति । अपाणि-पादः [श्वे।उ। ३.१९] इत्य् आदि, स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुतेः । तत्र हेतुम् आह—येन वाग्-आदीन्द्रियम् अपि व्यज्यते यस्य चात्मनो व्यक्तिः कार्य-रूपेणाविर्भावः शब्दाश्रयः आकाशः किम् उत स्पशाद्य्-आश्रयो वाय्व्-आदिर् इत्य् अर्थः । तस्माज् जीवस् तु तद्-उपाध्य्-उपासनया तद्-अनुग्रहेणैव शृणोतीति भावः ॥४०॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भगवद्-आदि-शब्द-वाच्यः स परमेश्वर एव कस् तत्राह—शृणोतीति । य इमं स्फोटम् अव्यक्तं नादात्मकम् ओङ्कारं शृणोति सः । ननु जीव एव शृणोति ? नेत्य् आह—सुप्त-श्रोत्रे कर्ण-पिधानादिना श्रोत्रे श्रवणेन्द्रिये सुप्ते सति अवृत्तिके सति यः सृणोतीत्य् अर्थः । जीवस् तु करणाधीन-ज्ञानत्वान् न तदा श्रोता किन्तु परमात्मैव तस्य श्रोता । तद् अपि जीवस्य या तद्-उपलब्धिः सा परमात्म-द्वारिकैवेति ज्ञेयम् । यतः परमेश्वरः शून्य-दृक् शून्येऽपीन्द्रिये वर्गे दृक् ज्ञानम् अस्य सः । तथापि सुप्तो यदा शब्दं श्रुत्वा प्रबुद्ध्यते न तदा जीवः श्रोता लीनेन्द्रियत्वात्, अतो यस् तदा शब्दं श्रुत्वा जीवं प्रबोधयति स परमात्मैव । कोऽसाव् ओंकारस् तं विशिनष्टि सार्धेन । येन वाक् वेद-लक्षणा बृहती व्यज्यते यस्य हृदयाकाशे आत्मनः सकाशाद् अभिव्यक्तिः । किं च, स्वस्य धाम आश्रयो यद् ब्रह्म तस्य परमात्मनो भगवतश् च वाचकः । ॐ इत्य् एतद् ब्रह्मणो नेदिष्ठं नामेति नेदिष्ठं नाम इति श्रुतेः । स-प्रणवः सर्वे मन्त्रा उपनिषदश् च यत्र, तस्य वेदस्य बीजं कारणं बीजत्वेऽप्य् अविकारित्वम् आह—सनातनं सदैक-रूपं तस्य ब्रह्म-रूपत्वात् ॥४१॥
॥ १२.६.४२ ॥
तस्य ह्य् आसंस् त्रयो वर्णा अ-काराद्या भृगूद्वह ।
धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं ततः सर्व-प्रपञ्चोत्पत्ति-प्रकारम् आह—तस्य हीति । त्रयस् त्रि-सङ्ख्या-युक्ता भावा यैर् अ-कारो-कार-म-कारैर् धार्यन्ते तत्-कारणत्वात् । तान् एवाह—गुणाः सत्त्वादयः । नामानि ऋग्-यजुः-सामानि । अर्था भूर्-भुवः-स्वर्-लोकाः । वृत्तयो जाग्रद्-आद्याः ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः प्रणवात् । तस्य प्रणवस्य । तत्कारणत्वात् तेषां भावानां कारणत्वात्। धार्यते स्वेभ्य उत्पाद्यते । तानेव भावान्पदार्थान् । एतच्चोपपादितमधस्तात् । यैस्त्रिभिर्वणैस्त्रयो भावा वेदा धार्यते, यैश् च त्रिभिर्वेदैर्गुणाः ओजःप्रसादादयो नामानि शब्दा अर्था वाच्यलिङ्गा वृत्तयोऽभिधालक्षणा व्यञ्जनाः यथा वटबीजेनैव वटवृक्षो धार्यते तेन च स्कन्धशाखापत्रपुष्पफलादयश् च ॥४२॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **साक्षाद्-वाचक इति मायावादिनाम् इव लक्षणा नादृता—ॐ इत्य् एतद् ब्रह्मणो नेदिष्ठं नाम [अथर्व-शिरा] इति श्रुतेः ॥४२॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य वेद-बीजत्वम् एव दर्शयति—तस्य प्रणवस्य त्रयः अ-कारो-कार-म-कारा यैर् एव त्रिभिर् वर्णैस् त्रयो भावा वेदा धार्यन्ते, यैश् च त्रिभिर् वेदैर् गुण-नामार्थ-वृत्तयो धार्यन्ते । तत्र गुणा ओजः प्रसादाद्या नामानि शब्दाः । अर्था वाच्य-लिङ्ग-व्यङ्ग्याः, वृत्तयोऽभिधा-लक्षणा-व्यञ्जनाः । यथा बट-बीजेनैव बट-वृक्षो धार्यते, तेन च स्कन्ध-शाखा-पुष्प-फलादयः ॥४२॥
** ॥ १२.६.४३-४४ ॥**
ततोऽक्षर-समाम्नायम् असृजद् भगवान् अजः ।
अन्तस्थोष्म-स्वर-स्पर्श-ह्रस्व-दीर्घादि-लक्षणम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततस् तेभ्यो वर्णेभ्यः । अक्षराणां समाम्नायं समाहारम् । तम् एवाह—अन्त-स्था य-र-ल-वाः । ऊष्माणः श-ष-स-हाः । स्वरा अ-काराद्याः । स्पर्शाः कादयः । ह्रस्व-दीर्घाश् च । आदि-शब्दाज् जिह्वा-मूलीयादयः । त एव लक्षणं स्वरूपं यस्य तम् ॥४३॥
विभुश् चतुर्-मुख-स्वरूपे भगवान् । असृजद् इति पूर्वस्यैवानुषङ्गः । चातुर्-होत्र-विवक्षया चत्वारो होत्रोपलक्षिता ऋत्विजश् चतुर्होतारस् तैर् अनुष्ठेयं हौत्राध्वर्य-वादिकं कर्म चातुर्-होत्रं तद्-विवक्षया ॥४४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेभ्योऽकारादिभ्यः । अक्षराणां समाम्नायम् अ इ उ ण् इत्य्-आदिसूत्रचतुर्दशरूपम् । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् इत्यत्र चतुर्दशसूत्र्यामेवाक्षरसमाम्नायपदस्य प्रयुक्तत्वात् । यद् वा, मातृकारूपम् । तत्प्रकारश्चास्मत्प्रणीतमातृकाविलासे द्रष्टव्यः ॥ तेनाक्षरसमाम्नायेन । असौ ब्रह्मा । व्याहृतयो भूर्भुवःस्वर् इति व्यस्तास्समस्ताश् च । तत्सहितान् व्यक्तोंकारसहितान् । सोंकारानित्य् उक्तेर् ओंकारसहितानाम् एव सर्वेषां यज्ञादौ प्रयोगं सूचयति ॥४३-४४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत इति । स्वरा उदात्तादयो ह्रस्व-दीर्घादयस् तु स-प्लुता अचः, विसर्गादयश् चत्वारश् च सोऽंकारान् इत्य् ओंकारस्य कारणस्यापि कार्येषु पुनर् उक्तिर् वैखर्य्-अवस्था-भेदेन ॥४३॥7
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणवाद् वेदोत्पत्तौ क्रमं दर्शयति—तत ओंकारात् अक्षराणां समाम्नायं समाहारं तम् एवाह—अन्तस्था य-र-ल-वाः । उष्माणः श-ष-स-हाः । स्वरा अ-काराद्याः । स्पर्शाः कादयो मावसानाः । ह्रस्व-दीर्घाः स्वर-भेदाः । आदि-शब्दाज् जिह्वा-मूलीयादयः, त एव लक्षणं स्वरूपं यस्य तम् । तेनाक्षर-समाम्नायेन विभुर् विष्णु-रूपो ब्रह्मा असृजद् इति पूर्वस्यैवानुषङ्गः ॥४३-४४॥
॥ १२.६.४५ ॥
पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् ।
ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुत्रान् मरीच्य्-आदीन् । तान् वेदान् । ब्रह्म-कोविदान् वेदोच्चारणादि-निपुणान् ॥४५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ते तु मरीच्यादयस् तु । स्वपुत्रेभ्यः कश्यपादिभ्यः ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **पुत्रान् मरीच्य्-आदीन् ॥४५॥
** ॥ १२.६.४६ ॥**
ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः ।
चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं चतुर्-युगेषु प्राप्ताः । द्वापरादौ द्वापरम् आदिर् यस्य तद् अन्त्यांश-लक्षणस्य कालस्य तस्मिन्, द्वापरान्ते वेद-विभाग-प्रसिद्धेः, शन्तनु-सम-कालं व्यासावतार-प्रसिद्धेश् च । व्यस्ता विभक्ताः ॥४६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ते वेदाः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते वेदाः ॥४६॥
** ॥ १२.६.४७ ॥**
क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः ।
वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र हेतुः—क्षीणायुषो जनान् । तर्हि पुरुष-बुद्धि-प्रभवत्वाद् अनादरणीयत्वं स्याद् इत्य् अशङ्क्याह—हृदि-स्थेति ॥४७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र वेदविभागे । अत्राक्षिपति—तर्हीति । न तेषां स्वातन्त्र्यम् इति ध्वनितं—हृदिस्थेत्यादिना ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.४८ ॥
अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः ।
ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं सामान्यते वेद-विभाग-क्रमम् उक्त्वा वैवस्वत-मन्वन्तरे विशेषतो निरूपयितुम् आह—अस्मिन्न् अपीति ॥४८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अस्मिन्न् अपि श्राद्धदेव-मन्वन्तरेऽपि ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तरे वैवस्वत-मन्वन्तरे ॥४८॥
॥ १२.६.४९ ॥
पराशरात् सत्यवत्याम् अंशांश-कलया विभुः ।
अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अंशो माया तस्या अंशः सत्त्वं तस्य कलयांशेनावतीर्णः सन् ॥४९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अंशेषु स्वांशेषु जीवेषु स्वांशेन बोधेन यत्कं सुखं तत्स्वरूपाविर्भावेन लाति तया कृपयावतीर्ण इति वार्थः ॥४९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अंशांश-कलयेति । अंशो महा-पुरुषः, तस्यांशो विष्णुः, तस्य कलया अंशेन विभुर् भगवान् ॥४९॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.५० ॥
ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः ।
चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **चातुर्-विध्यम् एवाह—ऋग् इति । ऋग्-आदि-मन्त्राणां राशीन् वर्गशस् तत्-तत्-प्रकरण-भेदैर् उद्धृत्य यथानेक-विध-मणि-राशेर् मणि-गणाः पद्म-रागादयो विविच्योद्ध्रियन्ते, तद्वद् उद्धृत्य तैर् मन्त्रैश् चतस्र ऋग्-आदि-संहिताश् चक्रे ॥५०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ननु ब्रह्मणैव चतुभिर्मुखैश्चत्वारो वेदा आदावेव कृतास्तत्कथमुच्यते वेदं चक्रं चतुर्विधम् इति तत्राह—ऋगिति । राशीन् कृत्वा तत्तत्प्रकरणभेदैर्मणिगणा इव, यथा मणिक्षेत्रेऽपि पद्मरागहीरकादयः पृथक्पृथगुधृत्य कूटं क्रियन्ते तद्वद् इति भावः ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्मणैव चतुर्भिर् मुखैश् चत्वारो वेदाः प्रथमम् एव कृतास् तत् कथम् उच्यते वेदं चक्रे चतुर्विधम् [१२.६.४९] इति, तत्राह—ऋग्-अथर्वेति । राशीन् कृत्वा वर्गशस् तत्-तत्-प्रकरण-भेदैर् मणि-गणा इवेति । यथा मणि-क्षेत्रेऽपि पद्मराग-हीरकादय उद्धृत्य विविच्य पृथक् पृथक् कुटं क्रियत इति । चतस्रः ऋग्-आदि-संहिताः ॥५०॥
॥ १२.६.५१ ॥
तासां स चतुरः शिष्यान् उपाहूय महा-मतिः ।
एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तासां संहितानां मध्ये एकैकाम् ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
** ॥ १२.६.५२ ॥**
पैलाय संहिताम् आद्यां बह्व्-ऋचाख्याम् उवाच ह ।
वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋक्-समुदाय-रूपत्वाद् बह्व्-ऋचाख्याम् । नितरां प्रश्लेषेण गद्यमानत्वान् निगदाख्यम् ॥५१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विशेषेण भातीति विभुः सर्वज्ञः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **बह्व्-ऋचाख्याम् ऋक्-संहितां, नितरां गद्यमानत्वान् निगदाख्यम् ॥५१॥
॥ १२.६.५३ ॥
साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् ।
अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **संहिताम् । छन्दःसु गीयमानत्वाच् छन्दोगाख्याम् ॥५२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **साम्नां सम्ब्रन्धिनीम् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.५४-५७ ॥
पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः ।
बाष्कलाय च सोऽप्य् आह शिष्येभ्यः संहितां स्वकाम् ॥
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव ।
पराशरायाग्निमित्र इन्द्रप्रम् इतिर् आत्म-वान् ॥
अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् ।
तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान् ॥
शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्य-मुद्गल-शालीय-गोखल्य-शिशिरेष्व् अधात् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र ऋग्-वेद-शाखा-विभागम् आह—पैल इति । स्व-संहितां द्विधा विभज्य इन्द्र-प्रमितये बाष्कलाय च ऊचे । स बाष्कलोऽपि स्वकां संहितां चतुर्धा व्यस्य बोध्यादिभ्यः शिष्येभ्य आह—हे भार्गव, इन्द्र-प्रम् इतिर् अपि स्वां संहितां स्व-सुतं माण्डूकेयम् अध्यापयाम् आस । तस्य माण्डूकेयस्य शिष्यो देवमित्रः ॥५३-५६॥ तत्-सुतो माण्डूकेय-सुतः शाकल्यो वात्स्यादिषु पञ्चस्व् अधात् । तान् अध्यापयामासेत्य् अर्थः ॥५७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र चतुर्षु ॥ हे भार्गवेति—भृगुवंशजत्वात्त्वमप्येतं विभागं जानास्येवेति भावः अग्निमित्र इति चतुर्थ्यर्थे सप्तमी । यद् वा, अग्निं मिमीते प्रामाण्येन स्थापयतीत्यग्निमितः तस्मै ॥५४-५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र ऋग्-वेद-शाखा-विभागम् आह—पैल इति । स्व-संहितां द्विधा विभज्य इन्द्र-प्रमितये बाष्कलाय च ऊचे । स बाष्कलोऽपि चतुर्धा स्व-संहितां व्यस्य बोध्यादिभ्यश् चतुर्भ्यः स्व-शिष्येभ्य आह—हे भार्गव, हे शौनक ! इन्द्र-प्रम् इतिर् अपि स्व-संहितां स्व-सुतं माण्डूकेयम् अध्यापयामास । तस्य माण्डूकेयस्य शिष्यो देवमित्रः ॥५३-५६॥ तत्-सुतो माण्डूकेय-सुतः शाकल्यो वात्स्यादिषु पञ्चस्व् अधात् । तान् अध्यापयाम् आसेत्य् अर्थः ॥५७॥
** ॥ १२.६.५८ ॥**
जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तं स्व-संहिताम् ।
बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तच्-छिष्यः शाकल्य-शिष्यः स्व-संहितां त्रेधा विभज्य चतुर्थं वैदिक-पदार्थ-व्याख्यानुरूपं निरुक्तं च कृत्वा बलाकादिभ्यश् चतुर्भ्यो ददौ ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
** ॥ १२.६.५९ ॥**
बाष्कलिः प्रति-शाखाभ्यो वालखिलाख्य-संहिताम् ।
चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बाष्कलिः पूर्वोक्तस्य बाष्कलस्य पुत्रः । प्रतिशाखाभ्य उक्त-सर्व-शाखाभ्यः । बालायन्यादयस् ताम् आदधुर् अधीतवन्तः ॥५९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **बाष्कलिर् बाष्कल-पुत्रः । प्रतिशाखाभ्यः शाखभ्यः शाखाभ्य सङ्गृह्य ॥५९॥
॥ १२.६.६० ॥
बह्व्-ऋचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः ।
श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ऋक्-शास्वोपसंहार-पूर्वकं तच्-छ्रवण-फलम् आह—बह्व्-ऋचा इति । एतच्-छन्दसाम् एतेषां छन्दसाम् ॥६०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्यासं विभागम् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.६१ ॥
वैशम्पायन-शिष्या वै चरकाध्वर्यवोऽभवन् ।
यच् चेरुर् ब्रह्म-हत्यांहः-क्षपणं स्व-गुरोर् व्रतम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यजुर्-वेदे तैत्तिरीय-शाखोत्पत्ति-प्रस्तावम् आह—वैशंपायन-शिष्या इत्य्-आदिना । चरक-नाम-निरुक्तिम् आह—यच् चेरुर् इति । यद् यस्माद् ब्रह्म-हत्या-रूपम् अंहः क्षपयतीति तथा तत् स्व-गुरोर् अनुष्ठेयं व्रतं, तच् चरणाच् चरका इत्य् अर्थः ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यजुर्-वेदे तैत्तिरीयक-शाखोत्पत्ति-प्रकारम् आह—वैशंपायनेति । चरक-नाम-निरुक्तम् आह—यच् चेरुर् इति । ब्रह्म-हत्या-रूपम् अंहः क्षपयतीति, तथा । तत् स्व-गुरोर् अनुष्ठेयं व्रतं, तच्-चरणाच् चरकाश् च ते अध्वर्यवश् चेति ते तथा ॥६१॥
॥ १२.६.६२ ॥
याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् ।
चरितेनाल्प-साराणां चरिष्येऽहं सुदुश्चरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तच्-छिष्यो वैशंपायन-शिष्यः । अल्प-साराणाम् एतेषां चरितेन कियत् ? सुदुश्चरम् अहं चरिष्यामीति ॥६२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याज्ञवल्क्योऽपि तच्-छिष्यः वैशम्पायन-शिष्यः अल्पसाराणाम् एषां चरितेन प्रायश्चित्ताचरणेन कियत् ? एते सुखं तिष्ठन्तु, अहम् एक एव तपः समर्थश् चरिष्यामि ॥६२॥
॥ १२.६.६३ ॥
इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया ।
विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विप्राणाम् अवमन्त्रावज्ञा-कर्त्रा । मत्तोऽधीतम् आशु त्यजेति ॥६३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ब्रह्महत्याकारणमुक्त विष्णुपुराणे—
ऋषियोऽद्य महामेरौ समाजे नागमिष्यति ।
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ।
पूर्वमेवं मुनिगणः समयाभूत्कृता द्विज ।
वैशम्पायन एकस् तु तं व्यतिक्रान्तवांस्तदा ।
स्वस्वीयं बालकं सोऽथ पदा स्पृष्टमधातयत् ।
शिष्यानाह च भी शिष्या ब्रह्महत्यापहं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्यम् इदं तथा ॥ इति ॥६१-६३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुपित इति । वतो गर्व-वशात् । एतान् विनीतान् अपि अल्पसारान् उक्त्वा आक्षिपसि तस्मात् याहीत्य् अपसर । त्वया शिष्येण ममालम् । ततश् च भवत्व् अहं यामीत्य् उक्त्वा जिगमिषन्तं तं पुनर् आह—मद्-अधीतम् इति ॥६३॥
॥ १२.६.६४-६५ ॥
देवरात-सुतः सोऽपि छर्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो ददृशुस् तान् यजुर्-गणान् ॥
यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः ।
तैत्तिरीया इति यजुः- शाखा आसन् सुपेशलाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **देवरात-सुतो याज्ञवल्क्यः ॥६४॥ छर्दितस्यादानं विप्र-रूपेणानुचितम् इति तित्तिराः पक्षि-विशेषा भूत्वा आददुः । ततश् च तैत्तिरीया इति प्रसिद्धाः । सुपेशला अतिरम्याः । बहु-वचनम् अवान्तर-भेद-विवक्षया ॥६५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो गुरुकुलात् ॥ तेषु यजुष्षु लोलुपतया लालसया मुनयोऽन्ये वैशम्पायनशिष्या आददुर्जगृहुः । न हि चेतः सुकृतिनामकायें गच्छति क्वचित् इति न्यायेन छर्दिता अपि मन्त्रा अशुचितां न गता इति तद्ग्रहणे मुनिगणेच्छोत्पत्तेर्ज्ञायते । अत एवोक्तम्—सुपेशला इति शाखाविशेषणम् । सुरभ्ये पेशलः प्रोक्तः शुद्धे मृदुतरे तथा इत्यभिधानचिन्तामणोक्तेः सुष्ठु पेशला अतीवशोधकज्ञानोपयोगिपञ्चकोशादिनिर्णायकत्वेनातिशुद्धाः । न हि कदाचिद्भक्षितहेमगुलिका पुरीषमार्गतोद्गीर्णा वाशुचितामेति किन्तु यावन्मलयोगं ततः क्षालनाद्यथा शुद्धा तथैव तित्तिरिरूपेण तदुपादानसमये एवान्नरूपेण छर्दितत्वात्तेष्वशुचित्वभ्रान्त्यैव मुनिर्भिर्न ब्राह्मण-रूपेण ते स्वीकृतास् तद्-रूपत्यागोत्तरं सर्वे मुनयस् तान् जगृहुस् ते च मन्त्राः कृष्ण-यजुष्ट्वेन प्रसिद्धा यज्ञादिशूपयुज्यन्ते, न ह्यशुचिमन्त्रैर्यज्ञः प्रतायत इति वेदस्य साक्षान्नारायणरूपत्वादुच्चावचता न भवति नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः इत्यष्टमे मत्स्यचरितोक्तेः वान्ते यातयामः इति निघण्टूक्तेस् तद्भिन्नोऽयातयामस्तकामनया श्रीयाज्ञवल्क्योक्तं सर्वं देवपूज्यम् ब्रह्मेन्द्र-नारायण-रुद्र-वन्दितः सा नः सदा यच्छतु मङ्गलं रविः इत्य् उक्तेस् तुष्टावेति वैष्णवादौ ॥६४-६५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **देवरात-सुतो याज्ञवल्क्यः । छर्दितस्यादानं विप्र-रूपेणायुक्तम् इति तित्तिराः पक्षि-विशेषा भूत्वा आददुः । ततश् च तैत्तिरीया इति ख्याताः ॥६४-६५॥
॥ १२.६.६६ ॥
याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् ।
गुरोर् अविद्यमानानि सूपतस्थेऽर्कम् ईश्वरम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काण्वमाध्यन्दिनादि-शाखा-प्रसङ्गम् आह—याज्ञवल्क्य इत्य्-आदिना । गुरोर् वैशंपायनस्य व्यासेन विभज्यानुक्तत्वाद् अविद्यमानान्य् अधिकानि गवेषयन् मृगयन् सूपतस्थे सम्यक् तुष्टाव । ईश्वरम् ऋग्-आदि-वेदानाम् । तथा च श्रुतिः—
ऋग्भिः पूर्वाह्णे दिवि देव ईयते
यजुर्-वेदे तिष्ठति मध्ये अह्नः ।
साम-वेदेनास्त-मये महीयते
वेदैर् अशून्यस् त्रिभिर् एति सूर्यः ॥ इति ॥६६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सूर्यो देवः ईयते प्रतीयते महीयते पूज्यते । ततो वैशम्पायनात् ॥६६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ईश्वरम् इति । तद्-अन्तर्याम्य्-अभेदेन भाव्यमानम् इत्य् अर्थः ॥६६॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधिगवेषयन् अन्विष्यन् गुरोर् वैशम्पायनस्यापि अविद्यमानानि तेनाप्य् अनधिगतानीत्य् अर्थः ॥६६॥
॥ १२.६.६७ ॥
श्री-याज्ञवल्क्य उवाच—
ॐ नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान-विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नमो भगवते तुभ्यम् आदित्याय । यो भगवान् एक एवेमां लोक-यात्राम् अनुवहतीत्य् अन्वयः । तद् एव दर्शयति—अखिल-जगताम् आत्म-स्वरूपेणान्तर्-हृदयेषु काल स्वरूपेण च बहिर् अपि वर्तमान इति । अखिल-जगताम् इत्य् अस्य प्रपञ्चः, चतुर्-विधेति । हृदयान्तर्-वर्तित्वेऽपि जीव-वत् तेनोपाधिनाव्यवधीयमानोऽनाच्छाद्यमानः । काल-स्वरूपेण चेत्य् अस्य प्रपञ्चः—क्षणेति । क्षण-लवादयो येऽवयवास् तैर् उपचिताः संवत्सरास् तेषां गणेन प्रत्य् अब्दम् अपाम् आदानं शोषणं विसर्गो वृष्टिस् ताभ्याम् । अनेन गायत्री-प्रथम-पादोक्त-वरेण्यता निर्णिता ॥६७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **चतुर्विधेति—जरायुजाण्डजस्वेदजोद्भिद्भेदाज्जीवाश्चतुर्विधाः । यथा घटाद्युपाधिनाकाश इव परिच्छिन्न इव प्रतीयते इति वा ॥६७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यत् तु ॐ नमस् ते इत्य्-आदि-गद्येषु तद्-अर्थत्वेन सूर्यः स्तुतः, तत् परमात्म-दृष्ट्यैव, न तु स्वातन्त्र्येणेत्य् अदोषः ॥६७॥8
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यो भगवान् एक इमां लोक-यात्राम् अनुवहति, तस्मै आदित्याय अखिल-जगतां भगवते श्रीमते नम इत्य् अन्वयः । भगं श्री-काम-माहात्म्य- इत्य् अमरः । चतुर्विध-भूत-निकायानाम् अन्तर् बहिर् अपि क्रमेणात्म-स्वरूपेण काल-स्वरूपेण वर्तमान इत्य् अर्थः । हृदयान्तर्-वर्तित्वेऽपि जीववत् तेन उपाधिना अव्यवधीयमानोऽनाच्छाद्यमानः, आकाशवत् । क्षण-लवादयो येऽवयवास् तैर् उपचिताः संवत्सरास् तेषां गणेन प्रत्य् अब्दम् अपाम् आदानं शोषणं विसर्गो वृष्टिस् ताभ्याम् ॥६७॥
** ॥ १२.६.६८ ॥**
यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन-बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **द्वितीय-पादार्थानुवर्णनेन स्तौति—यद् उ हेति । हे विबुधर्षभ ! हे सवितः! यद् अप्य् अदो भगवतस् तव मण्डलं तपति, तत् समभिधीमहीति सम्यग् आभिमुख्येन ध्यायेम । पुनस् तस्यैव संबोधनम् । प्रत्यहं त्रि-सवणं वैदिक-कर्म-मार्गेण स्तुवतां भक्तानां यान्य् अखिलानि दुरितानि, तत्-फलानि च वृजिनानि दुःखानि, तेषां बीजम् अज्ञानं च, तेषाम् अवभर्जन विनाशक ! हे तपन ! इति ॥६८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे विबुधर्षभ ! सवितः! यन् मण्डलं तपति, अदः समभिधीमहि । अनुसवनं प्रतिसमयम् अहर् अहः प्रत्यहं च । आम्नाय-विधिना वैदिक-मार्गेण उपतिष्ठताम् अत्व्हेतुआम् । यान्य् अखिलानि दुरितानि, तत्-फलानि च वृजिनानि दुःखानि च, तेषां बीजम् अज्ञानं च, तेषाम् अवभर्जन विनाशक ! हे तपन ! ॥६८॥
॥ १२.६.६९ ॥
य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासु-गणान् अनात्मनः स्वयम् आत्मान्तर्यामी प्रचोदयति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तृतीय-पादेन स्तौति—य इहेति । भवान् स्थावर-जङ्गम-समूहानां स्वाश्रयाणां जीवानां मन-इन्द्रिय-प्राण-गणान् अनात्मनो जडान् स्वयम् आत्मैवान्तर्यामी सन् प्रचोदयति प्रवर्तयति ॥६९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आदरेण प्रीत्युत्पादनार्थमामन्त्रयति—हे विबुधर्षभेति । सर्व-देवश्रेष्ठत्वात्त्वामहं स्तौमीति भावः । सवितरिति—सर्वविश्वोत्पादकस्य तव मम सर्ववेदज्ञानोत्पादनं न दुर्घटम् इति भावः । ज्ञानोत्पादनं ह्यज्ञाननाशं विना न सम्भवतीति चेत्तत्राह—अनुसवनमित्य्-आदि । अत आरभ्यावभर्जनान्तां संबुद्धिम् आह—सेवकाज्ञाननाशद्योतिकाम् । अज्ञानस्य तमोरूपत्वात्तद्धननं प्रकाशेन भवतीति चेत्तद्द्योतिका संबुद्धिं पुनराह—तपनेति । तप—ऐश्वर्ये धातुः । ऐश्वर्यं चात्र प्रकाशलक्षणम् एव सर्वविलक्षणं तवैवातः सर्व-देवाधिकस्त्वमेवासीति भावः ॥६८-६९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनात्मनो जडान् प्रचोदयति प्रवर्तयति ॥६९॥
॥ १२.६.७० ॥
य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञा-जगर-ग्रह-गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्व-धर्माख्यात्मावस्थाने प्रवर्तयति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तृतीय-पादम् एव मण्डल-स्थ-परतया व्याचक्षाणः स्तौति—य एवेति । य एक एव भगवान् अतिकराल-वदनो योऽन्ध-कार-संज्ञोऽजगर-ग्रहस् तेन गिलितम् अत एव मृतकम् इव विचेतनं स्व-धर्माख्यं यद् आत्मावस्थानं प्रत्यक् प्रवणत्वं तद् एव श्रेयस् तस्मिन् प्रवर्तयति । किं च, यो भवानवनि-पतिर् इवाटति गच्छति ॥७०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईक्षयैवोत्थाप्य पूर्वाद्राव् उदित्य ईक्षण-प्रदानेनैवेत्य् अर्थः । स्व-धर्माख्यं यत् आत्मावस्थानम् आत्मोपासनं, तत्र ॥७०॥
॥ १२.६.७१ ॥
अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् तत्र तत्र कमल-कोशाञ्जलिभिर् उपहृतार्हणः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आशा-पालैर् इन्द्रादिभिः । कमल-कोश-युक्तैस् तत् तुल्यैर् वाञ्जलिभिर् उपहृतार्हणो दत्तार्घ्यः ॥७१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एवांधकाराजगरगिलितत्वादेव । प्रत्यक्प्रवणत्वं तदेकपरत्वम् । अन्यदाधिक्यम् आह—किञ्चेति ॥७०-७१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आशा-पालैर् दिक्-पालैर् इन्द्रादिभिः । कमल-कोश-युक्तैस् तत् तुल्यैर् वाञ्जलिभिर् उपहृतार्हणो दत्तार्घ्यः ॥७१॥
॥ १२.६.७२ ॥
अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् अहम् अयात-याम-यजुष्-काम उपसरामीति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यत एवं-भूतस् त्वम् अथातः ह स्फुटम् अयात-यामान्य् अन्यैर् यथावद् अविज्ञातानि यजूंषि तत्-कामोऽहम् उपसरामि भजामि ॥७२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे भगवन्न् इति—त्वम् एव साक्षाद्भगवानिति भावः । तत्र हेतुः—त्रिभुवनगुरुभिर् इति । ब्रह्मेद्रनारायणरुद्रवन्दितः स नस्सदा यच्छतु मङ्गलं रविः इति भविष्योक्तेः ॥७२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयात-यामानि ऊर्जस्वन्ति अन्यैर् ज्ञातुम् अशक्यानीत्य् अर्थः । यानि यजूंषि तत्-कामोऽहम् उपसरामि भजामि ॥७२॥
॥ १२.६.७३ ॥
सूत उवाच—
एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः ।
यजूंष्य् अयात-यामानि मुनयेऽदात् प्रसादितः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं स्तुतः प्रसादितश् च ॥७३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वाजी तुरङ्गस् तद्रूपधरो हरिः सूर्यः हरिरिन्द्रो हरिर्भानुर्हरिविष्णुर्हरिर्मरुत् इत्यभिधानात् ॥७३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १२.६.७४ ॥
यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः ।
जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पञ्चदश शाखाः याः शतैर् अपरिमितैर् यजुर्भिर् अकरोत् । स तैर् इति पाठे स एष याज्ञवल्क्यस् तैर् यजुर्भिर् अकरोद् इति । जगृहुर् अधीतवन्तः । रविणाश्व-रूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा सन्न्यस्तास् त्यक्ताः शाखा वाजसनी-संज्ञास् ताः शाखा इति वा ॥७४॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **वाजसन्यस् ता इत्य् अत्र प्रथमे व्याख्याने, वा पदान्तस्य [पा। ८.४.५९] स्वरस्य न-कारः, व्याख्यान्तरे अनचि च [पा। ८.४.४७] इति द्वित्वम् ।_।_७४॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चदश शाखाः शतैर् अपरिमितैर् यजुर्भिर् अकरोत् । स तैर् इति दन्त्य-पाठे स विभुर् याज्ञवल्क्यस् तैर् यजुर्भिर् अकरोद् इति । वाजेभ्यः सूर्याश्व-केशरेभ्यः । सम्यग् नयन्तीति वाज-संन्यः शाखास् ताः, कण्वादयो मुनयो जगृहुर् अधीतवन्तः ॥७४॥
॥ १२.६.७५ ॥
जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः ।
सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **साम-शाखा-विभागम् आह—जैमिनेर् इति । तत्-सुतः सुमन्तु-सुतः । ताभ्यां पुत्र-पौत्राभ्यां क्रमेणैकैकां प्राह ॥७५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **साम-वेद-शाखा-विभागम् आह—जैमिनेर् इति । तत्-सुतः सुमन्तु-सुतः । जैमिनिस् ताभ्यां पुत्र-पौत्राभ्यां क्रमेणैकैकां प्राह ॥७५॥
** ॥ १२.६.७६-७७ ॥**
सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् ।
सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज ॥
हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः ।
शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्तमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तच्-छिष्यो जैमिनेः शिष्यः । महान् अतिमेधावी । सहस्र-संहिता-रूपं भेदं चक्रे । साम्नां तं संहिता-भेदम् । ततस् तद् अनन्तरम् । सुकर्मणः शिष्य एकः कौशल्यो हिरण्यनाभः पौष्यञ्जिर् नामैकस् तौ जगृहतुः । आवन्त्यश् चान्यस् तस्यैव शिष्यः सोऽपि जग्राह ॥७६-७७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अननुस्वारसकारे तु प्रथमा द्वितीयार्थे ॥ कौशल्यः कोशलावासी । आवन्त्योऽवन्तीभवः ॥७४-७७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तच्-छिष्यो जैमिनेः शिष्यः साम-वेद-तरोः साम-वेद-तरु-सम्बन्धी तच्-छिष्यो महान् अभूद् इत्य् अर्थः । अत एव साम्नाम् एष संहिता-भेदं चक्रे हिरण्यनाभः कौशल्यः कोशल-देशोद्भवः पौष्यञ्जिश् च, सुकर्मणः शिष्योऽन्य आवन्त्यश् च, तच्-छिष्यः सोऽपि जग्राह ॥७६-७७॥
॥ १२.६.७८ ॥
उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै ।
पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पौष्यञ्ज्य्-आवन्त्ययोर् अपि च-काराद् धिरण्यनाभस्यापि पञ्च-शतानि शिष्या आसन् । ते तावतीः शाखा यथायथं जगृहुः । तान् उदीच्यान् सतः कालतः कांश्चित् प्राच्यांश् च प्रचक्षत इत्य् अर्थः । यथैवोक्तं वैष्णवे—
उदीच्य-सामगाः शिष्यास् तस्य पञ्च-शतं स्मृताः ।
हिरण्यनाभात् तावत्यः संहिता यैर् द्विजोत्तमैः ।
गृहीतास् तेऽपि चोच्यन्ते पण्डितैः प्राच्य-सामगाः ॥ इति ॥७८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—वक्ष्यमाणवैष्णववाक्यप्रामाण्याद् इति भावः । तद् एवाह—यथैवोक्तम् इति । तस्य हिरण्यनाभस्य । तावन्त्यः पञ्चशतसङ्ख्याकाः ॥७८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र हिरण्यनाभस्य पञ्च-शतानि शिष्या उदीच्या आसन् । पौष्याञ्जावन्त्ययोर् अपि तावन्त एव शिष्याः, तांस् तु प्राच्यान् प्राच्य-सामगान्, ते च ते च तावतीः शाखा जगृहुः ॥७८॥
** ॥ १२.६.७९ ॥**
लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च ।
पौष्यञ्जि-शिष्या जगृहुः संहितास् ते शतं शतम् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनर् अप्य् एतेषां त्रयाणां सुकर्मणः शिष्याणां शिष्यान्तरैः शाखा-बाहुल्यं दर्शयति—लौगाक्षिर् इति द्वाभ्याम् ॥७९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शतमृतम् इति पाठे ऋतं सत्यम्, स्वतः प्रमाणमित्य् अर्थः ॥७९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि पौष्यञ्जि-शिष्या लौगाक्ष्यादयः पञ्च ॥७९॥
** ॥ १२.६.८० ॥**
कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः ।
शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृतो नाम हिरण्यनाभस्य शिष्यः स्व-शिष्येभ्य ऊचे । शेषा अन्या अपि याः प्रसिद्धाः शाखास् ता आवन्त्यः स्व-शिष्येभ्य ऊच इति ॥८०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आत्मवान् ज्ञानी ॥८०॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे षष्ठोऽध्यायः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि हिरण्यनाभस्य शिष्यः कृतः । शेषा अन्या अपि याः शाखाः प्रसिद्धास् ता आवन्त्यः स्व-शिष्येभ्य ऊचे ॥८०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽध्यायो द्वादशस्य सङ्गतः सङ्गतः सताम् ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
वेद-शाखा-प्रणयनं नाम
षष्ठोऽध्यायः ।
॥ १२.६ ॥
(१२.७)
-
चरणारविन्दाभिधायकत्वे इति भक्ति-सन्दर्भे। पुरी-दास-संस्करणे एतद् वाक्यं १२.६.२-पद्यस्य क्रम-सन्दर्भे सन्निविष्टम्। ↩︎
-
रस-वर्षि-धृत-पाठे—“ब्रह्म-भूतः प्रसन्नेत्य्-आदि-रीत्या ब्रह्म-भूतः” [गीता १८.६०] इत्य् एव दृश्यते। ↩︎
-
पात्यताम् इति पाठान्तरम्। ↩︎
-
ननु पारीक्षिताज् जनमेयात् तत्-पुरोहितेभ्यो वा कथम् इन्द्रो बिभाय ? नह्य् अधिक-शक्तयो देवाः स्वावरेभ्यो मनुष्येभ्यो बिभ्यतीति युक्तम् । किम् उत देवानाम् अपीन्द्रः ? अतस् तात्पर्यम् आह—स्व-सन्तानोद्भवम् । यष्टुर् यजमानस्य जनमेजयस्य उपेक्षकः भीत इव स्वेच्छया स्वसामर्थ्यम् अनाविष्कुर्वन्न् आसीत् । यथा बालकात् स्वयम् आत्मानं पराजितम् इव दर्शयन् पिता सन्तुष्यति । यद्यपि प्राचीन-कोशेषु सर्वत्र श्रीअकोऽप्य् अशक्तवद् विष्णुर् इन्द्र आसीद् उपेक्षकः इति पठ्यते, अर्थस् तु न स्वरसः । प्रसाद एव स्यात् । अस्तु जनमेजये स्व-सन्ततिर् इत्य् उपेक्षा । होतॄणां तु का कथा ? किम् इति तद्-वचनात् सविमानः सतक्षक उच्चचाल ? आह—एवम् एव ऋषीणां च । इन्द्रोऽपि कृपयैव चकार नाशक्त्येति यदा महेन्द्र एवैतादृशो महा-शक्तिस् तदा परात्परो विष्णुः सर्व-शक्त इति किम् उ वक्तव्यम् ? विष्णोर् अशक्तिर् न इति क्वचित् पाठान्तरम् । विष्णोर् अशक्यं न भूत-भव्य-भवत्स्व् अपि । न चानिष्टं गुणैर् एष पूर्णो नारायणः सदा इति सर्वोपसंहारः । एतावान् सर्व-भागवत-तात्पर्य-सार इत्य् अतिमङ्गलम् ॥ (गोविन्दाचार्यः) ↩︎
-
सभियैव (ङ) ↩︎
-
तथा श्रूयमाणस्य (ग) ↩︎
-
अत्रानुरूपार्थकं भा। ११.२१.३७-४श-पद्य-पञ्चकं द्रष्टव्यम्। ↩︎
-
अत्रानुरूपार्थकं भा। ३.११.१५शं, भा। ५.२०.५-मं पद्यं च द्रष्टव्यम्। ↩︎