०५ ब्रह्मोपदेशः

॥ १२.५.१ ॥

श्री-शुक उवाच—

अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।
यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

पञ्चमे तु समासेन पर-ब्रह्मोपदेशतः ।

राज्ञस् तक्षक-सन्दंशान् मृत्यु-भीति-निवारणम् ॥

एतत् पुराणं शृण्वन्न् अभयं प्राप्नोतीत्य् अभिप्रेत्य पुराणार्थम् अनुस्मारयति—अत्रेति । अयं भावः—जगतः कर्ता ब्रह्मापि यस्य प्रसाद-जः । प्रसादोऽत्र रजो-वृत्तिर् हर्षः । ततो जातत्वात् पर-तन्त्रः । सर्व-संहर्ता रुद्रश् च यस्य क्रोध-संभवः, न तु स्वतन्त्रः । स विश्वस्यात्मा नियन्ता भगवान् अत्रानुवर्ण्यते । अत एवं-भूतं भगवन्तं शृण्वतः कुतोऽन्यस्माद् भय-शङ्केति ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समासेन सङ्क्षेपेण । अत्र ग्रन्थे । अत्र तात्पर्यं स्वामिचरणा आहुः—अयं भाव इत्य्-आदिना । शास्त्रार्थमुपसंहृत्य श्रीशुकः किञ्चिदात्मनैव पराममर्श—अहो असाध्वनुष्टितं यन्महारहस्यमसमाधिकं स्वहृदय सम्पुटात्समुद्घाट्य सर्वलोकदृग्गोचरीकृतम् । यः खलु मत्प्रभुणा राजविद्या राजगुह्यम् इत्यनेन विद्यानां राजेति, गुह्यानां राजेत्युक्तः, पुनश् च सर्वगुह्यतमं भूयः शृणु मे इत्यनेन गुह्यतमशब्देनोक्तः, स खलु भक्तियोगो मया परीक्षिति कृषावशतया प्रायः प्रकटीकृत्यैवोक्तः । तथा हि—

अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
त्रीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥

इत्य्-आदिना मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह इत्यत्र—

य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥

इत्य्-आदिना चान्वयव्यतिरेकाभ्यां भक्तिर् एव सर्व फलसाधनत्वेनोपपादिता । स्वर्गादिसाधनानि कर्माणि दूरे तावदासताम्, मोक्षसाधनस्यातिप्रसिद्धस्यापि ज्ञानस्य मोक्षकारणत्वं परास्तीकृतम् एव । नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् इति, चतुर्थाश्रमिणो ज्ञानिनोऽपि स्थानाद्भ्रष्टाः पतन्त्यधः इति आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधो नादृतयुष्मदङ्घ्रयः इत्य्-आद्य्-उक्तेज्ञानासत्त्वेऽपि भक्त्या विना मोक्षासिद्धेः ।

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश् च यत् ।
सर्वं मद्भक्तियोगेन पुरुषो लभर्तेजसा ॥

इति ज्ञानव्यतिरेकेऽपि भक्त्यैव मोक्षसिद्धेरुक्तत्वात् । मोक्षं प्रति ज्ञानं नैवान्वयव्यतिरेकीति तदपि ज्ञानान्मोक्ष इति या प्रसिद्धिस्तत्र ज्ञानगता गुणीभूता भक्तिर् एव मोक्षं जनयति, ज्ञानस्य तु नाममात्रेण कारणता भक्त्याहम् एकया ग्राह्यः इति, न तपो नात्ममीमांसा इति—

किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोर् अपि ।
श्रेयोभिरितरश्चैव न यत्रात्मप्रदो हरिः ॥

इत्य्-आदिवाक्यैर्ब्रह्मानुभवं प्रति ज्ञानस्य सहकारीतापि वस्तुतो न प्रतिपादिता, भक्तरेवोपक्रमोवसंहाराभ्यासेषु प्रपञ्चितम्, तदपि यदन्तरान्तरा योगज्ञानादिकमुपन्यस्तं तत्खलु भक्तेरुत्कर्षं तत्तन्मतानि च भक्तान्प्रति ज्ञापयितुमेवेति । किं च—यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणाद् अपि क्वचित् इति, अहो वतश्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् इति यन्नाम सकृच्छ्रवणात्पुल्कसोपि विमुच्यते इत्य्-आदिभ्यः । किं च—न मात्रयापि भक्त्या मोक्षः इति, तथा—

तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीह ।
पश्यामि नान्यच्छरणं तवाङ्घ्रिद्वन्द्वातपत्रादमृताभिवर्षात् ॥

इत्युद्धववाक्येन, संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवः इत्युपसंहारे मद्वाक्येन च तां विना तु नान्येनोपायेन संसारान्मोक्ष इत्य् अपि निर्धारितम् । किं च—भक्त्या तयैव परया निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थम् अपि स्वयमासादित नो एवाद्रियन्ते भवदीयत्वेनैव परिसमाप्तसर्वार्था इति, मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते इति, न परिलषन्ति केचिदपवर्गम् अपि इति, सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् इति, स्वर्गापवर्गनरकेष्व् अपि तुल्यार्थदर्शिनः इत्य्-आदि वाक्येभ्यश्चतुर्थं पुरुषार्थम् अपि तिरस्कृत्य भक्तेर् एव पुरुषार्थशिरोमणित्वं मया स्थापितम् । किं च—मुन्यन्तरवाक्यस्य प्रामाण्यमापेक्षिकमेव, मद्वाक्यस्य तु प्रामाण्यमात्यन्तिकमेवेति सर्वत्र वैकुण्ठेऽपि प्रसिद्धिर्भूयसी । परोक्षवादा ऋषयः परोक्षं च मम प्रियम् इति भगवद्-उक्तेर् महारहस्योद्घाटनपटिष्ठो भूत्वा भगवद्-अप्रियं करोऽप्यभूवम् । तदधुना किं करिष्ये पुराणार्थश् च समाप्तीकृत एव, भवत्वधनापि भक्तेर्महामहिमानं संवरीतुं यतिष्ये, यथा कश्चिन्महारत्नमतिगोप्यम् अपि रभसवशेन सर्वलोकान्प्रदापि पुनः किश्चित्परामृश्य तदलक्षितं सम्पुटितं कृत्वा महाकोशाभ्यन्तरे संस्थाप्य रत्नान्तरं बहिः प्रकाश्यानेनैवास्माकं सर्वार्थसिद्धिर् इति ब्रूते, तथैव राजानमहं ज्ञानमुपदिशामि यथा गमनसमये तु शुकः परीक्षिते ज्ञानमेवोपदिष्टवानिति भगवन्मायाप्रभावाज्ज्ञानमेवोत्कृष्टं, भक्तिस् तु तत्साधनम् इति मंस्यन्ते । किं च—भक्तिसिद्धाञ्जनान्प्रति प्रादुर्भूय भगवांस्तान्परीक्षमाणो मोक्षं गृहाण यथा ब्रूते, तथैवानेन ज्ञानोपदेशेनास्य मच्छिष्यस्य परीक्षितो भक्तिमद्व्युत्पत्तिं च परीक्षिष्ये । परीक्षा चेयं सर्वज्ञेनापि जगत्यस्मिन्परीक्षितो भक्तिनिष्टाज्ञापनार्था ज्ञेया । किं च—भक्तिज्ञानयोः फलमन्ततो मुक्तिर् एव केवलमित्यनभिज्ञव्याख्यानं नैव मदभिप्रायसम्बद्धं ज्ञेयम्, यतः—

राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्येवमङ्ग भगवान्भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥

इत्य् उक्तवता मया मुक्तेः सकाशाद् अपि भक्तेरुत्कृष्टफलस्य प्रतिपादित्वात् । न चोपदेष्टव्येनानेन ज्ञानेन परीक्षितो निर्वाणमुक्तिप्राप्तिरेवेति ज्ञेयम्—

स वै महाभागवतः परीक्षिद्येनापवर्गाख्यमदभ्रबुद्धिः ।
ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ।
इति मदभिप्रायाभिज्ञेनानेन मच्छिष्येण सूतेनाग्रे वक्ष्यमाणत्वात् ।

राजन्पतिर्गुरुरलम् इत्यत्र भजद्भ्यस् तु भक्तियोगं ददाति इति परीक्षितः प्रेमभक्तिप्राप्तिर् एव व्यञ्जिता, न चोपदिश्यमानेनानेनैव देहादिव्यतिरिक्तात्मज्ञानेन ब्रह्मानुभवः सिध्येत्, किन्त्वस्यापि ज्ञानस्य भक्त्या निर्जयेनैव यदुक्तं भगवता—

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्ये सर्व एव हि ।
सर्वे गुणमया भावाः पुरुषा व्यक्त्यधिष्ठिताः ।
दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ।
एताः संसृतयः पुंसो गुणकर्म निबन्धनाः ।
येनेमा निर्जिताः सौम्य गुणा जीवेन चित्तजाः ।
भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते । इति ।

किं च—भगवद्-भक्तस्य मोक्षकामत्वेऽपि नास्ति ज्ञानेन प्रयोजनम् । यदुक्तं स्वयं भगवता—

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।
यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ इति ।

तस्मादनेन सर्वान्ते ज्ञानोपदेशेनास्य शास्त्रस्यस्पष्टतयैव मोहिनीसाधर्म्यं प्रतिपादयिष्ये । यथा ह्यसुराः प्रेमसुधया वञ्चिता एव भवेयुर् इति । अपि च—ज्ञानोपदेशात्प्रागेकं वाक्यं व्यञ्जनया वृत्त्या भक्तान् प्रीणयितुं भक्तिरसम्रक्षितम् एव करिष्ये, तदनन्तरं ज्ञानोपदेशवाक्यान्यपि यानि भक्तिप्रतिकूलानि वक्ष्ये तान्यप्यन्तर्भूतभक्त्यनुकूलार्थानेव करिष्य इत्य्-आदिकं विचार्याह—अत्रेति । अत्र समाप्तीकृतेऽस्मिन्पुराणशास्त्र इत्य् अर्थः । यस्य हरेः प्रसादजो ब्रह्मेति—प्रसादस्य सत्त्वगुणत्वाद्ब्रह्मणस् तु रजःसम्भवत्वादेतन्न संगच्छते, तथा रुद्रः क्रोधसमुद्भव इति भगवतो निर्गुण त्वात्स्वरूपेण तामसः क्रोधोऽपि न सम्भवेद्यदुद्भवो रुद्रः स्यात् तस्माद्वाक्यमिदमतिशयोक्त्यार्थान्तरतात्पर्यकं ज्ञेयम् । तच् चैवम्—निर्गुणस्य भगवतः स्वभक्तसेविनि जने प्रसादः स्वभक्तद्रोहिणि क्रोधश् च दृष्टस्तौ च भक्तवत्सलस्य शुद्धसत्त्वस्वरूपादेवेत्यत एवं व्याख्येयम्—यस्य प्रसादजो यस्य प्रसादाख्यो भाग्यविशेषो ब्रह्मैवोक्तसमस्तसाध्यसाधनोत्पत्तिहेतुरतस् तदर्थम् एव भक्तैर्यतनीयं, तथैवोक्तसाध्यसाधनविनाशहेतुर्भगवत्कोप एवेत्यतस् तदनुद्भव एव यतनीयमित्येतावत्पुराणतात्पर्यमवधेयम् इति भावः । ननु यदि श्रीशुकदेवेन भागवतपुराणमिदमत्रैव समाप्तीकृतं कथं तर्हि प्रथमस्कन्धस्यावशिष्टद्वादशस्य च श्री-भागवतत्वमुच्यते, यज्ञस्य प्रागुत्तरक्रिययोर् अपि यागत्वमेव, नाटकशास्त्रस्य यथा प्राक्पश्चाद्गतयोः प्रस्तावनाशीर्वादयोर् अपि नाटकत्वम् एव तथैव प्रथमद्वादशार्द्धयोर् अपि भागवतत्वम्, यथा च—

गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥

इत्यष्टादशाध्यायाः श्रीगीतायाः सर्वस्या भगवत्प्रोक्तत्वाभावेऽपि भगवत्प्रोक्तत्वमुच्यते, तथैव सप्रथमद्वादशस्य श्री-भागवतत्वं श्रीशुकदेवप्रोक्तत्वाभावेऽपि श्रीशुकप्रोक्तत्वञ्चेति समाधिः ॥१॥

———————————————————————————————————————

**जीव-गोस्वामी (परमात्म-सन्दर्भः १६): **अत्र श्री-विष्णुर् न कथित इति तेन साक्षाद् अभेद एवेत्य् आयातम् । तद् उक्तम्—स उ एव विष्णुर् [भा।पु। ३.८.१५] इति । श्रुतिश् च—पुरुषो वै नारायणोऽकामयत । अथ नारायणाद् अजोऽजायत, यतः प्रजाः सर्वाणि भूतानि [ना।उ। १] इति ।

नारायणः परं ब्रह्म
तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्ण-पिङ्गलम् ॥ [म।ना।उ। १३.४, २३.१] इति ।
एको ह नारायण आसीन्, न ब्रह्मा, न च शङ्करः । स मुनिर् भूत्वा समचिन्तयत् ।
तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा1 इति च ।

तस्मात् तस्यैव वर्णनीयत्वम् अपि युक्तम् ॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत्रानुवर्ण्यत इत्य्-आदि । प्राक्-कल्प-लीन-साधक-भक्तान् उत्पद्य मद्-भक्तिं करिष्यन्तीति भावना-मयाद् यस्य प्रसादाज् जाताः, तेषु मुख्यो ब्रह्मा । तथा कालेन तद्-विमुख-प्राये लोके तद्-वैमुख्य-हेतुं भावं प्रति जाताद् यस्य क्रोधाज् जातः स्वाभक्त-शास्ता रुद्र2 इत्य् अर्थः ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एतच्-छास्त्रार्थ-तात्पर्याच्छादनायात्र पञ्चमे ।

ब्रह्म-ज्ञानोपदेशः श्री-मुनीन्द्रेण नृपे कृतः ॥

शास्त्रार्थम् उपसंहृत्य श्रीमन्-मुनीन्द्रः किञ्चिद् आत्मनैव पराममर्श । अहो असाध्व्-अनुष्ठितं, यन्-महा-रहस्य-रत्नम् असमाधिकं स्व-हृदय-संपुटाद् उद्घटय्य सर्व-लोक-दृष्टि-गोचरीकृतं, यः खलु मत्-प्रभुणा, राज-विद्या राज-गुह्यं [गीता ९.१] इत्य् अनेन विद्यानां राजेति गुह्यानां राजेत्य् उक्तः । पुनश् च सर्व-गुह्यतमं भूयः शृणु मे [गीता १८.६४] इत्य् अनेन सर्व-गुह्यतम-शब्देनोक्तः, स खलु भक्ति-योगोऽत्र शास्त्रे मया परीक्षिति कृपा-परवशतया प्रायः प्रकटी-कृत्यैवोक्तः । तथा हि—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.१०] इत्य्-आदिना,
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह इत्य् अत्र,
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भा।पु। ११.५.२-३]

इत्य्-आदिना चान्वय-व्यतिरेकाभ्यां भक्तिर् एव सर्व-फल-साधनत्वेन प्रतिपादिता । स्वर्गादि-साधनानि कर्मादीनि दूरे तावद् आसतां, मोक्ष-साधनत्वेनातिप्रसिद्धस्यापि ज्ञानस्य मोक्ष-कारणत्वं परास्ती-कृतम् एव । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनं [भा।पु। १२.१२। ५३] इति । चतुर्थाश्रमिणो ज्ञानिनोऽपि, स्थानाद् भ्रष्टाः पतन्त्य् अदः [भा।पु। ११.५.३] इति, आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत्य युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२] इत्य्-आद्य्-उक्तेर् ज्ञानान्वयेऽपि भक्त्या विना मोक्षासिद्धेः ।

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ [भा।पु। ११.२०.३२]

इति ज्ञान-व्यतिरेकेऽपि भक्त्यैव मोक्ष-सिद्धेर् उक्तत्वात् । मोक्षं प्रतिज्ञानं नैवान्वय-व्यतिरेकीति । तद् अपि ज्ञानान् मोक्ष इति या प्रसिद्धिस् तत्र ज्ञान-गता गुणीभूता भक्तिर् एव मोक्षं जनयेत् । ज्ञानस्य तु नाम-मात्रेणैव कारणता, भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति, न तपो नात्म-मीमांसा [भा।पु। १०.२३.४२] इति,

किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ [भा।पु। ४.३१.१२]

इत्य्-आदि-वाक्यैर् ब्रह्मानुभवं प्रति ज्ञानस्य सहकारितापि, वस्तुतो न प्रतिपादितेति । भक्तेर् एव साधनत्वम् उपक्रमोपसंहाराभ्यासेषु प्रपञ्चितम् । तद् अपि यद् अन्तरान्तरा ज्ञान-योगादिकम् अप्य् उपन्यस्तं, तत् खलु भक्तेर् उत्कर्षं तत्-तन्-मतानि च भक्तान् ज्ञापयितुम् एवेति ।

किं च,

यन्-नामधेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥
अहो बत श्व-पचोऽतो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या
ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [भा।पु। ३.३३.६-७] इति ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् [भा।पु। ६.१६.४४]

इत्य्-आदिभ्यः किञ्चिन्-मात्र्यापि भक्त्या मोक्ष इति । तथा,

ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ [भा।पु। ११.१९.९] इत्य् उद्धव-वाक्येन,

संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् नान्यः प्लवः [भा।पु। १२.४.४०] इत्य् उपसंहारे मद्-वाक्येन च तां विना तु नान्येनोपायेन संसाराद् अपि मोक्ष इत्य् अपि निर्धारितम् ।

किं च, भक्त्या तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः [भा।पु। ५.६.१७] इति । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते [भा।पु। ११.१९.२४] इति, न परिलषन्ति केचिद् अपवर्गम् अपि [भा।पु। १०.८७.२१] इति, सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् [भा।पु। ४.९.१०] इति, स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.२८] इत्य्-आदि-वाक्येभ्यश् चतुर्थ-पुरुषार्थम् अपि तिरस्कृत्य भक्तेर् एव पुरुषार्थ-शिरोमणित्वं च मया स्थापितम् ।

किं च, मुन्य्-अन्तर-वाक्यस्य प्रामाण्यम् आपेक्षिकम् एव मद्-वाक्यस्य तु प्रामाण्यम् आत्यन्तिकम् एवेति सर्वत्र वैकुण्ठेऽपि प्रसिद्धिर् भूयसी, परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३६] इति भगवद्-उक्तेर् महा-रहस्योद्घाटन-पटिष्ठो भूत्वा भगवद्-अप्रियङ्करोऽप्य् अनुभवम् । तद् अधुना किं करिष्ये ? पुराणार्थश् च समाप्ति-कृत एव, भवत्व् अधुनापि भक्तेर् महा-महिमानं संवरीतुं यतिष्ये । यथा कश्चिन् महा-रत्नम् अतिगोप्यं रभस-वशेन सर्व-लोकान् सन्दर्श्यापि पुनः किञ्चित् परामृश्य तद् अलक्षितं सम्पुट-गतं कृत्वा महा-कोषाभ्यन्तरे संस्थाप्य रत्नान्तरं बहिः-प्रकाश्यानेनैवास्माकं सर्वार्थ-सिद्धिर् इति ब्रूते, तथैवाधुना राजानम् अहं ज्ञानम् उपादिशामि, यथा गमन-समये तु शुकः, परीक्षिते ज्ञानम् एवोपदिष्टवान् इति भगवन्-माया प्रभावाज् ज्ञानम् एवोत्कृष्टं, भक्तिस् तु तत्-साधनम् एवेति मंस्यन्ते ।

किं च, भक्ति-सिद्धान् जनान् प्रति प्रादुर्भूय भगवांस् तान् परीक्षमाणो मोक्षं गृहाणेति यथा ब्रूते, तथैवानेन ज्ञानोपदेशेनास्य मच्-छिष्यस्य परीक्षितो भक्तिमद्-व्युत्पत्तिं च परीक्षिष्ये, परीक्षा चेयं सर्वज्ञेनापि जगत्य् अस्मिन् परीक्षिद्-भक्ति-निष्ठा ज्ञापनार्था ज्ञेया ।

किं च, भक्ति-ज्ञानयोः फलम् अन्ततो मुक्तिर् एव केवलम् इत्य् अनभिज्ञ-व्याख्यानं नैव मद्-अभिप्राय-सम्बन्धं ज्ञेयम् । यतो,

राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [भा।पु। ५.६.१८]

इत्य् उक्तवता मया मुक्तेः सकाशाद् अपि भक्तेर् उत्कृष्ट-फलत्वस्य प्रतिपादितत्वात्, न चोपदेष्टव्येनानेन ज्ञानेन परीक्षितो निर्वाण-मुक्ति-प्राप्तिर् एवेत्य् आशङ्कनीयम् ।

स वै महा-भागवतः परीक्षिद्
येनापवर्गाख्यम् अदभ्र-बुद्धिः ।
ज्ञानेन वैयासकि-शब्दितेन
भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥ [भा।पु। १.१८.१६]

इति मद्-अभिप्रायाभिज्ञेनानेन मच्-छिष्येण सूतेनाग्रे वक्ष्यमाणत्वात् । मयि राजन् पतिर् गुरुर् अलम् इत्य् अत्र भवद्भ्यस् तु स्व-भक्ति-योगं ददाति । इति परीक्षितः प्रेम-भक्ति-प्राप्तिर् अभिव्यञ्जितैव न चोपदिष्यमानेनानेनैव देहादि-व्यतिरिक्तात्म-ज्ञानेन ब्रह्मानुभवः सिद्ध्येत् । किं त्व् अस्यापि ज्ञानस्य भक्त्या निर्जयेनैव यद् उक्तं भगवता—

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥
सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः ।
दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥
एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः ।
येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः ।
भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [भा।पु। ११.२५.३०-३२] इति ।

किं च, भगवद्-भक्तस्य मोक्ष-कामत्वेऽपि नास्ति ज्ञानेन प्रयोजनं, यद् उक्तं स्वयं भगवता—

ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात तावांस् तेऽहं चतुर्-विधः ॥ [भा।पु। ११.२९.३३] इति ।

तस्माद् अनेन सर्वास् ते ज्ञानोपदेशेनास्य शास्त्रस्य स्पष्टतयैव मोहिनी-साधर्म्यं प्रतिपादयिष्ये । यथा ह्य् असुराः प्रेम-सुधया वञ्चिता एव भवेयुर् इति । अपि च ज्ञानोपदेशात् प्राग् एकं वाक्यं पुनर् व्यञ्जनया वृत्त्या भक्तान् प्रीणयितुं भक्तिर् असम्रक्षितम् एव करिष्ये । तद्-अनन्तरं ज्ञानोपदेश-वाक्यान्य् अपि यानि भक्ति-प्रतिकूलानि वक्ष्ये, तान्य् अप्य् अन्तर्-भूत-भक्त्य्-अनुकूलार्थान्य् एव करिष्ये इत्य्-आदिकं विचार्याह—अत्रेति । अत्र समाप्तीकृतेऽस्मिन् पुराण-शास्त्र इत्य् अर्थः । यस्य हरेः प्रसादजो ब्रह्मेति प्रसादस्य सत्त्व-गुणत्वात्, ब्रह्मणस् तु रजः-सम्भवत्वाद् एतन् न सङ्गच्छते । तथा रुद्रः क्रोध-समुद्भव इति भगवतो निर्गुणत्वात् स्वरूपेण तामसः क्रोधोऽपिन सम्भवेत् । यद्-उद्भवो रुद्रः स्यात् तस्माद् वाक्यम् अतिशयोक्त्या अर्थान्तर-तात्पर्यकं ज्ञेयम् ।

तच् चैवं—निर्गुणस्य भगवतः स्व-भक्त-सेविनि जने प्रसादः, स्व-भक्त-द्रोहिणि क्रोधश् च दृष्टः । तौ च भक्त-वत्सलस्य शुद्ध-सत्त्व-स्वरूपाव् एवेति । अत एवं व्याख्येयं—यस्य प्रसादजः यस्य प्रसादोत्थो भाग्य-विशेषो ब्रह्मैवोक्त-समस्त-साध्य-साधनोत्पत्ति-हेतुर् अतस् तद्-अर्थम् एव भक्तैर् यतनीयम् । तथैवोक्त-साध्य-साधन-विनाश-हेतुर् भगवत्-कोप एवेत्य् अतस् तद्-उद्भव एव यतनीयम् इत्य् एतत् पुराण-तात्पर्यम् अवधेयम् इति भावः ।

ननु यदि श्री-शुकदेवेन श्री-भागवत-पुराणम् इदम् अत्र समाप्ती-कृतं कथं तर्हि प्रथम-स्कन्धस्यावशिष्ट-द्वादशस्य च श्री-भागवतत्वम् ? उच्यते—यज्ञस्य यथा प्राग् उत्तर-क्रिया-कलापयोर् अपि योग्यत्वम् एव, नाटक-शास्त्रस्य यथा प्राक्-पश्चाद्-गतयोः प्रस्तावनाशीर्वादयोर् अपि नाटकत्वम् एव, तथैव प्रथम-द्वादशार्धयोर् अपि श्री-भागवतत्वम् । यथा च—

गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥

इत्य् अष्टादशाध्याय्याः गीतायाः सर्वस्या भगवत्-प्रोक्तत्वाभावेऽपि भगवत्-प्रोक्तत्वम् उच्यते । तथैवास्य द्वादश-स्कन्धस्य श्री-भागवतस्य सर्वस्य शुक-प्रोक्तत्वाभावेऽपि शुक-प्रोक्तत्वम् इति समाधिः ॥१॥

॥।
॥ १२.५.२ ॥**

त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि ।
न जातः प्राग् अभूतोऽद्य देह-वत् त्वं न नङ्क्ष्यसि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **त्वं पुनः कृतार्थ एवेत्य् अनुस्मारयति—त्वं त्व् इति । पशु-बुद्धिम् अविवेकम् । यस्मान् न नङ्क्ष्यसि । कुतः ? इत्य् अत आह—न जात इति । यथा देहः प्राग् अभूत एवाद्य जातो नङ्क्ष्यति । न चैवं त्वं पूर्वं नाभूः, न चाद्य जातोऽस्य् अतो न नङ्क्ष्यसि ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मरिष्य इति छेदः, सन्धिरार्षः । हे राजन्न् इति—मद्दत्तज्ञानेन राजस्वेति भावः । अथ ज्ञानोपदेशः—त्वं त्व् इति । तुर्भिन्नोपक्रमे । मरिष्येतीति सन्धिरार्षः। पशूनामिव बुद्धिं जहि विवेकेन नाशयेति ।

तमोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥

इति भागवतश्रवणात्प्रागेव प्रतिज्ञातवतस् तस्य पशुबुद्धेः प्रसक्तिर् एव नास्तीत्यतस् तन्निवर्तको ज्ञानोपदेशं न राजानं प्रति सम्भवेत्कितुं ये पशुबुद्धयस्तानेव प्रति, तदपि राजन्न् इति सम्बोधनं तु तम् एव लक्ष्यीकृत्यान्यविषयकस्याप्युपदेशस्य वक्तुमौचित्यात्तस्यैव तच्छिष्यत्वात् यथा सर्वविषयकोप्युपदेशः श्रीगीतायामर्जुनं लक्ष्यीकृत्यैवोक्तः । विवेकमेवाह—न जात इति । यथा देहः प्रागभूत एवेदानीं जातो नङ्क्ष्यति, न तथा त्वं जातः नापि प्रागभूतो नाप्यद्य ङ्क्ष्यसि, त्वं जीवात्मा जडाद्युपाधेः पृथगेवासीति नायं भक्तिप्रतिकूलोर्थः ॥२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **प्रथम-स्कन्धान्ते तत्र म्रियमाणस्य कृत्यं यत् पृष्टं, तत् तु स्वार्थं तवायुक्तम् इत्य् अभिप्रेत्य प्रत्याचष्टे—त्वं त्व् इति । पशु-बुद्धिम् इति यतः पशोर् एव सा बुद्धिर् युक्ता, न तु तवेति भावः । न जात इत्य् अन्तर्-भूतानश्वर-भगवत्-पार्षद-देहत्वाद् इति भावः । व्यतिरेके दृष्टान्तः देहवत् दृश्यमान-देह एव ॥२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ ज्ञानोपदेशः—त्वं त्व् इति । तुर् भिन्नोपक्रमे । मरिष्येतीत्य् आर्षं मरिष्यामीति । पशूनाम् इव बुद्धिं जहि विवेकेन नाशयेति,

तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भा।पु। १.१९.१५]

इति श्री-भागवत-श्रवणात् पूर्वम् एव प्रतिज्ञातवतस् तस्य पशु-बुद्धेः प्रसक्तिर् एव तस्य नास्तीत्य् अतस् तन्-निवर्तको ज्ञानोपदेशो न राजानं प्रति सम्भवेत्, किन्तु ये पशु-बुद्धयोऽन्ये तान् एव प्रति तद् अपि राजन्न् इति सम्बोधनं तु तम् एव लक्ष्यी-कृत्यान्य-विषयकस्याप्य् उपदेशस्य वक्तुम् औचित्यात् तस्यैव तच्-छिष्यत्वात् । यथा सर्व-विषयकोऽप्य् उपदेशो गीतायाम् अर्जुनं लक्षीकृत्यैवोक्तः विवेकम् एवाह—न जात इति । यथा देहः प्राग् अभूत एव इदानीं जातोऽद्य नङ्क्ष्यति, न तथा त्वं जातः, नापि प्राग् अभूत, नाप्य् अद्य नङ्क्ष्यति, त्वं जीवात्मा जडाद्य्-उपाधेः पृथग् एवासीति नायं भक्ति-प्रतिकुलोऽर्थः ॥२॥

॥।
॥ १२.५.३ ॥**

न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् ।
बीजाङ्कुरवद् देहादेर् व्यतिरिक्तो यथानलः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु बीजाद् अङ्कुर-वत् स्वस्मात् पुत्र-रूपेणापि स्वयम् एव भवति, यथाह श्रुतिः—

अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि स जीव शरदः शतम् ॥ इति ।

ततः पुनर् अङ्कुराद् बीजम् इव पौत्रादि-रूपेणापि स्वयम् एव भवति । पिता पुत्रेण पितृमान् योनि-योनौ इति श्रुतेः । अतस् तेषु नश्यत्सु कथं न नङ्क्ष्यामीति चेत् तत्राह—न भविष्यसीति । भूत्वा पुत्र-पौत्रादि-रूपवान् बीजाङ्कुरवन् न भविष्यसि । यस्माद् देहादेर् व्यतिरिक्तस् त्वं यथानलः काष्ठात् । देहाद् देहो जायते नात्मेति भावः ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । अङ्गादङ्गात्प्रत्येकं भिन्नाद्भिन्नादङ्गाद्भिन्नभिन्नमङ्गं भवतीत्यभिप्रायः । स त्वं शरदः वर्षाणां शतं जीवेत्यर्थः । तता पुत्रात् । योनियोनौ पौत्रप्रपौत्रादिजन्मनि पिता तत्तत्पुत्रेण पितृमान् पितृपङ्क्तिभाग्भवतीत्य् अर्थः । यतः पुत्रादयोऽपि तद्रूपा एवातो हेतोः । तेषु पुत्रादिषु । इति भाव इति—अजो नित्यः शाश्वतोऽयं पुराणः इत्य्-आदिश्रुतेरित्याशयः ॥३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दृश्यमानं चास्मिन्न् आवेशाभावान् न भविष्यतीति ॥३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा देहो भूत्वा भूत्वा पुनर् भवति, न तथा त्वम् आत्मा, इत्य् आह—नेति । पुत्र-पौत्रादि-रूपवान् इति, यथाह श्रुतिः—

अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि स जीव शरदः शतम् ॥ इति ।

बीजाङ्कुरवत् स्वयम् एव पुत्रो भवति । ततः पुनर् अङ्कुरात् बीजम् इव पौत्रोऽपि स्वयम् एव भवति, तथा त्वं भविष्यसि । यस्माद् देहादेर् उपाधेर् जडत्वम् आत्मा व्यतिरिक्तो भिन्नः । यथानलः काष्ठात् । देहाद् देहो जायते नात्मेति भावः ॥३॥

॥।
॥ १२.५.४ ॥**

स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् ।
यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजोऽमरः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **जन्मादीनां देह-धर्मत्वं दृष्टान्तेन प्रपञ्चयति—स्वप्ने यथात्मनः शिरश् छेदं स्वयं पश्यति, एवं जागरणेऽपि । यस्माद् देहस्य पञ्चत्वादिकं पश्यति, ततस् तद्वद् एवात्मन इदं भ्रम-मात्रम् । वस्तुतश् चात्माजोऽमरश् चेत्य् अर्थः । तद् उक्तम्—

आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ ।
न भवाप्यय-वस्तूनाम् अभिज्ञोऽद्वय-लक्षणः ॥ इत्य्-आदि ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद्वदेव स्वप्नवदेव । आत्मन इदं पञ्चत्वादि । इत्य् अर्थ इति—यज्जन्यं तद्विनाशीति व्याप्तेर्देहस्यैव जन्यत्वान्मृत्युजन्मादि, आत्मनस्त्वजन्यत्वात्तन्नेति भावः । तद्देहस्य मरणादि । उक्तम् एकादशस्कन्धे । आत्मन इति श्लोकस् तु व्याख्यातचर एव । जन्माद्यवस्थावतो देहात्मनः पार्थक्यं दृष्टान्तेनाह—स्वप्न इति । न हि स्वशिरश्छेदं स्वयं पश्यति, अत आत्मा ततः पृथगेव तद्द्रष्टा, तथैव जागरेऽपि तस्मात्पृथग्भूत एवात्मनो देहस्य पञ्चत्वादि पश्यति, अतो हेतोरात्माजोऽमरो जन्ममृत्युहीन इति ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **साधारणानाम् अपि तद्-आवेशोऽभूम एवेत्य् आह—स्वप्न इति पञ्चभिः ॥४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्म-मरणाद्य्-अवस्थावतो देहाद् आत्मनः पार्थक्यं दृष्टान्तेन स्पष्टयति—स्वप्ने इति । नहि स्व-शिरश्-छेदं स्वयं पश्येत्, अत आत्मा ततः पृथग् एव । तद्-द्रष्टा, तथैव जागरेऽपि तस्मात् पृथग्-भूत एव आत्मनो देहस्य पञ्चत्वादि पश्यति । ततो हेतोर् आत्मा अजो जन्म-रहितः, अमरो मृत्यु-रहितश् च ॥४॥

॥।
॥ १२.५.५ ॥**3

घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।

एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥4

मध्वाचार्यः (भागवत-तात्पर्यम्) :

महाकाशो बहिः-स्थश् च घटाद्य् अन्तः-स्थ एव च ।
द्वेधा समुदितोऽन्यौ च द्वाव् आकाशौ5 प्रकीर्तितौ ॥
घट-रूपस् तद्-अन्यश् च महाकाशात् परो लघुः ।
महाकाशवद् एवात्र परमात्मा सनातनः ॥
घटान्त-स्थ-महाकाश-प्रतिमोऽन्तर्गतो हरिः ।
घटस्यान्तर्गताकाशो महाकाशात् परो मतः ॥6
तद् वद देवादयः सर्वे जीवा मुक्त्य्-उपभोगिनः ।
तमोगाश् चैव ये सर्वे घट-रूप खवन् नराः ॥ इति तत्त्व-संहितायाम् ।
प्रत्येकं विष्णु-रूपाणां भ्रान्ति-मात्रा भिदा मता ।
जगतश् चैव विष्णोश् च सत्यो भेदः सदैव तु ॥
यथाकाश-घटौ नित्यं भिन्नाव् एव परस्परम् ।
एवम् ईशो जगच् चैव भिन्नाव् एव परस्परम् ॥7 इति च ॥५॥

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माद् देहोपाधिकोऽयम् आत्मनो जन्मादि-संसार-भ्रमः, तस्माद् उपाधि-निवृत्तौ मुच्यत इति स-दृष्टान्तम् आह—घट इति । यथा पुरा घटोपाधेः पूर्वम् इव पुनर् घटे भिन्ने तद्-अन्तर्-वर्त्य्-अवकाश आकाश एव स्यात्, तथा । एवं देहे मृते तत्त्व-ज्ञानेन लीने सति ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यथा पुरा तन्नाशात्पूर्वमप्याकाश एव, एवं जीवो देहे मृते निरुपाधिर्यथा पुनर्ब्रह्म सम्पद्यते, तथा पुरापि ब्रह्मैव सन्ब्रह्माप्येति इति श्रुतेः । तदप्यात्मनो लिङ्गशरीराध्यासो दुर्जरो यः सोऽयं ज्ञाने सति निवर्तते, इहैक्यात्मवादिनां दृष्टान्तम् आह घट इति । भिन्ने विदीर्णे । यथा पुरेति—घटोत्पत्तेः पूर्वं यथा महानाकाशस् तथा घटे भग्नपीत्य् अर्थः । एवं देहे मृते तत्त्वज्ञानेन लीने सति । अप्रकटार्थम् आह—यथेति । ननु देहात्पृथग्भूतो यथा जीवात्मा तथा परमात्मापि, तावुभावपि देहावृतौ दृश्येते, लिङ्गे भग्ने सत्युभावपि मुक्तौ स्याताम् इति कथं नोच्यते । अत्र परमात्मन आवरणं कालत्रयेऽपि नास्तीति सदृष्टान्तम् आह—घट इति, यथा पुरेति । घटे वर्तमानेऽपि आकाशः । आकाश एवानावृतस् तथा घटे भग्नपीत्य् अर्थः । आकाशस्य घटान्तर्-बहिर्-मध्येऽपि वर्तमानत्वाद् आकाशं घटः कथम् आवृणोत्व् इति भावः । एवं देहेऽमृते वर्तमानेऽपि अजीवो जीव-भिन्नः परमात्मा ब्रह्म सर्व-व्यापकः सन्न् एव सम्पद्यते विराजते ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **देह इति देह-द्वयम् इत्य् अर्थः । ब्रह्म-तत्त्वं8 सम्पद्यते यथा-यथं प्राप्नोति । अत्रोपाधेः संयोग एव परित्यज्यते, न तु तस्य मिथ्यात्वं प्रतिपाद्यते9 ॥५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् अप्य् आत्मनो लिङ्ग-शरीराध्यासो दुर्जरो यः, सोऽयं ज्ञाने सति निवर्तत इत्य् अत्रैकात्म-वादिनां दृष्टान्तम् आह—घट इति । भिन्ने विदीर्णे । यथा पुरा इति घटोत्पत्तेः पूर्वं, यथा महान् एवाकाशस् तथैव घटे भग्नेऽपीत्य् अर्थः, एवं देहे मृते तत्त्व-ज्ञानेन लीने सति अप्रकटोऽर्थो, यथा ।

ननु देहात् पृथग्-भूतो यथा जीवात्मा, तथा परमात्मापि, ताव् उभाव् अपि देहावृतौ दृश्येते । लिङ्गे भङ्गे सत्य् उभाव् अपि मुक्तौ स्याताम् इति कथं नोच्यते ? अत्र परमात्मन आवरणं काल-त्रयेऽपि नास्तीति स-दृष्टान्तम् आह—घट इति । यथा पुरेति घटे वर्तमानेऽपि आकाश आकाश एव यथा अनावृतं तथैव घटे भग्नेऽपीत्य् अर्थः । आकाशस्य घटान्तर्-बहिर्-मध्येऽपि वर्तमानत्वाद् आकाशं घटः कथम् आवृणोत्व् इति भावः । एवं देहे अमृते वर्तमानेऽपि अजीवो जीव-भिन्न-परमात्म ब्रह्म सर्व-व्यापकः सन्न् एव सम्पद्यते विराजते ॥५॥

॥।
॥ १२.५.६ ॥**

मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।
तन् मनः सृजते माया ततो जीवस्य संसृतिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ज्ञानेन लयं भावयितुं माया-कृतम् आत्मनो देहाद्य्-उपाधि-संबन्ध-प्रकारम् आह—मन इति । मन आत्मनो देहादीन् सृजति । तच् च मनो माया सृजति । ततो मायाद्य्-उपाधि-समुदायाज् जीवस्य संसृतिः, न स्वतः ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वाप्न-देहवज् जागरेऽप्य् आत्मनो नाना-देहान् गुणान् कर्माणि च मन एव सङ्कल्पात्मकं सृजति कल्पयति । तन् मनः स्वाप्न-सङ्कल्पादिवन् माया सृजति, ततो जीवस्य संसृतिर् मायैवेत्य् अर्थः । यद् वा, मनः पूर्व-कर्म-प्रेरितं सद्-गुणान् सत्त्वादीन् सृजति पर्यायेण विभावयति, ततो गुण-मयानि विविधानि कर्माणि सृजति, ततः कर्मानुरूपान् देहान् सृजतीति भावः । ज्ञानेन लयं सम्भावयितुं माया-कृतम् आत्मनो देहाद्य्-उपाधि-सम्बन्ध-प्रकारम् आह—मन आत्मनो देहादीन् सृजति । तद् उक्तम्—यतो यतो धावति दैव-चोदितं मनो विकारात्मकम् [भा।पु। ९.४.५१] इत्य्-आदि । ततो मनो माया सृजति । ततो मायाद्युपाधिसमुदायात् ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मायादीनां स्रष्टृत्वं यत् किञ्चित् तद्-धेतुत्वात् ॥६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ज्ञानेन लयं सम्भावयितुं माया-कृतम् आत्मनो देहाद्य्-उपाधि-सम्बन्ध-प्रकारम् आह—मन आत्मनो देहादीन् सृजति । यद् उक्तं—यतो यतो धावति दैव-चोदितं मनो-विकारात्मकं [भा।पु। १०.१.४२] इत्य्-आदि । तच् च मनो माया सृजति, ततो मायाद्य्-उपाधि-समुदायात् ॥६॥

॥।
॥ १२.५.७ ॥**

स्नेहाधिष्ठान-वर्त्य्-अग्नि-संयोगो यावद् ईयते ।
तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः ॥**

रजः-सत्त्व-तमो-वृत्त्या जायतेऽथ विनश्यति ।

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यस्माद् उपाधि-निबन्धनो जीवस्य संसारोऽतस् तन्-नाशे जीवत्वं गच्छतीत्य् एतद् एव स-दृष्टान्तम् आह सार्धेन—स्नेहेति । दीपस्य ज्योतिषो दीपत्वं ज्वाला-रूपः परिणामः । तत्र तैल-स्थानीयं कर्म, तद्-अधिष्ठान-स्थानीयं मनः, वर्ति-स्थानीयो देहः, अग्नि-संयोग-स्थानीयश् चैतन्याध्यासः । दीप-स्थानीयं संसार इति योज्यम् । देह-कृतो देह-निबन्धनः । यद् वा, देह-कृतो मनसो न त्व् आत्मनः ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यस्मादुपाधिनिबन्धनो जीवस्य संसारोऽतस्तन्नाशो नश्यतीति सदृष्टान्तम् आह—ततरतावद् इत्य् अर्थः । तत्र दार्ष्टान्तिके । तदधिष्टानस्थानीयं तैलाधिष्टानशरावस्थानीयम् । देहनिबन्धनो देहाध्यासहेतुकः । देहाध्यासोऽपि मनस्तादात्म्यैवेत्याह—यद्वेति । देहकृतो देहसम्बन्धकृतः । भवः संसारः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : दीपस्य ज्योतिषो दीपत्वं स्नेहाद्य्-अधिष्ठातृत्वेन विकारित्वम् इत्य् अर्थः । ततस् तस्मात् स्वयं-ज्योतिर्-आदि-रूपत्वाद् अनन्तोपमः परमात्म-सदृशः, द्वा सुपर्णा सयुजा सखाया [मु।उ। १.१.३, श्वे।उ। ४.६] इति श्रुतौ, सुपर्णाव् एतौ सदृशौ सखायौ [भा।पु। ११.११.६] इत्य् एकादशे ॥७-८॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव स-दृष्टान्तम् आह—सार्धेन स्नेहेति । दीपस्य ज्योतिषः दीपत्वं ज्वाला-रूपः परिणामः, तत्र तैल-स्थानीयं कर्म, तद्-अधिष्ठान-स्थानीयं मनः, वर्ति-स्थानीयो देहः, अग्नि-संयोग-स्थानीयश् चैतन्याध्यासः, दीप-स्थानीयः संसार इति योज्यम् । देह-कृतो देह-संयोग-निबन्धनोऽयं भवः संसारः ॥७॥

॥।
॥ १२.५.८ ॥**

न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः ।
आकाश इव चाधारो ध्रुवोऽनन्तोपमस् ततः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो दीपवत् संसार एव नश्यति, न त्व् आत्म ज्योतिर्वद् इत्य् आह—नेति । तु तत्र प्रतीयमान आत्मा । कुतः ? इत्य् अत आह—य इति । व्यक्ताव्यक्तयोः स्थूल-सूक्ष्म-देहयोः परोऽन्यः, यतः स्वयं-ज्योतिः । परत्वं प्रपञ्चयति—आकाश इवेतिआधारो देहादेः प्रपञ्चस्य । ध्रुवो निर्विकारः । नास्त्य् अन्त उपमा च यस्य सोऽनन्तोपमः **। ततो विभुः ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतो दीपस्थानीयः संसारोऽतो हेतः । तत्र देहे । अतो देहद्वयभिन्नत्वात् । आत्मानाशे हेतुः—य इति । य आत्मा । यद् वा, अनन्तेनाकाशेनोपमयित इत्यनन्तोपमः, आकाशो यथासङ्गस् तथेत्यर्थः । अनन्तं सुरवर्त्म खम् इत्य् अमरः । ततो व्यापकः, तनोतेः क्तः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो दीपवत् संसार एव नश्यति, न त्व् आत्मा ज्योतिर्वद् इत्य् आह—नेति । न तु तत्र प्रतीयमान आत्मा । कुतः ? इत्य् अत आह—य इति । व्यक्ताव्यक्तयोः परः स्थूल-सूक्ष्म-देहाभ्याम् अन्यः, यतः स्वयं-ज्योतिः । अत एव हेतोः आधारो देहादि-प्रपञ्चस्य ध्रुवो निर्विकारः । नास्त्य् अन्त उपमा च यस्य सोऽनन्तोपमः । पक्षे, यः खलु व्यक्ताव्यक्तयोः कार्य-कारणयोः परः कारण-रूपः परमात्मा, स तु आकाश इव सर्वाधार इत्य्-आदि ॥८॥

॥।
॥ १२.५.९ ॥**

एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो ।
बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतस् त्वम् एवं चिन्तयेत्य् आह—एवम् इति । आत्म-स्थं देहाद्य्-उपाधि-स्थितम् । आमृश विचारय । अनुमान-गर्भिण्या द्रष्टृ-दृश्यान्वय-व्यतिरेक-युक्तया ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत आत्मा देहादेः पृथगतो हेतोः । दृष्ट-दृश्ययोर् आत्म-देहयोर् अन्वय-व्यतिरेकाभ्यां युक्तया । तथा हि—जीवश् चेतनो द्रष्टृत्वात्, परमात्मवत्, यश् चेतनो न भवति स द्रष्टापि न भवति, यथा घटः । एवं देहो जडो दृश्यत्वात्, घटवत्, यो दृश्यो न भवति स जडोऽपि न भवति, यथात्मेति ।

किं च, आत्मा स्थायी, अवस्था-त्रय-साक्षित्वात्, परमात्मवत् देहो विनाशी आद्य्-अन्तयोर् अविद्यमानत्वात्, शुक्ति-रजतवत्, इत्य्-आद्य्-अन्वय-व्यतिरेकानुमान-सहकृतया बुद्ध्या । एवं वक्ष्यमाण-रीत्या । वासुदेवस्यानुचिन्ता तात्पर्येणावगतिर् यस्यां बुद्ध्यान्तया । यद् वा, बुद्ध्या श्रवणज-बोधेनानुमान-गर्भिण्या मनन-सहकृतेन वसन्त्य् अस्मिन्न् इति वासु अधिष्ठानं परं ब्रह्म, देवयतीति देवः सर्वावभासकः साक्षि-चिद्-आत्मा एव तद्-अनुचिन्तया निदिध्यासनेनावगत-स्वरूपं त्वां विप्र-वाक्येन चोदितस् तक्षको न धक्ष्यति न भस्मीकरिष्यति । न केवलं तक्षक एव त्वां न धक्ष्यत्य् अपि तु मृत्यु-हेतवोऽन्येऽपि सिंह-व्याघ्र-रोगादयो नोपधक्ष्यन्ति । तत्र हेतुः—मृत्यूनाम् अपि तेषाम् अपि मृत्युम् मारयन् मृत्युनान्तकम् इत्य् उक्तेः । तत्रापि हेतुः—ईश्वरं ज्ञान-बलेनावाप्तेश्वर-भावम् । अत्र हेतु-गर्भित-विशेषण-द्वयं प्रतीयते । स्वामि-चरणैर् अत्र हेतव इति बहुत्वं तु मृत्यवस् त्वां यतो नोपधक्ष्यन्ति इत्य् अपि हेतुत्वेनैवाभिप्रेतं देह-भिन्नत्वात् । बुद्ध्य्-आदि-प्रवर्तकत्वेन यदात्मनोऽनुमानं तद् एव गर्भे यस्य तद्-युक्तया तद्-व्यवसायवत्या, यथा बुद्ध्य्-आदीनि करणानि कर्तृ-प्रयोज्यानि करणत्वाद् वास्यादिवद् इति कर्ता चात्मैव स च वासुदेव एव, सर्वत्र लक्ष्यः । सकलम् इदम् अहं च वासुदेव इत्य् एवानुचिन्ता यस्यां तादृशया ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वोक्तातिदेशेनोपदिशति—एवम् इति । आत्मानम् अन्तर्-भूत-भगवत्-पार्षद-भावात्मकम् आत्मना जीव-स्वरूपेण सह आत्म-स्थं बुद्ध्यामृश । कीदृश्या ? पूर्वोक्त्आनुमान-गर्भिण्या, तथा वासुदेव-स्थानुगत-चिन्ता यस्यां तया ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.५.१० ॥**

चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः ।
मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं च सति त्वां तक्षको न दहेद् इत्य् आह—चोदित इति । तत्र हेतवः—मृत्यव इति । मृत्यु-हेतवः ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **त्वाम् आत्मानं देहात् पृथग्-भूतम् । तक्षकस्य का वार्ता स्वयं मृत्यवोऽपि मूर्तिमन्तः नहि वासुदेव-रूपं त्वां देहं तक्षकं च धक्ष्यन्ति स्वस्य स्वयं हननायोगात्, ब्रह्म-शापादीनां व्यर्थ-प्रायत्वाद् इति भावः ॥१०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्वां पूर्वोक्त-रूपं, यतो मृत्यव इति ॥१०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-स्थं देहाद्य्-उपाधि-स्थितम् आत्मना मनसा आमृश विचारय, बुद्ध्य्-आदि-प्रवर्तकत्वेन यदात्मनोऽनुमानं तद् एव गर्भः, तद्-युक्तया बुद्ध्या सद्-व्यवसायवत्या सह वासुदेवस्यानुचिन्ता यस्यां तया । त्वाम् आत्मानं देहात् पृथग्-भूतं तक्षकस्य का वार्ता, स्वयं मृत्यवोऽपि मूर्तिमन्तः । पक्षे, ईश्वरम् उपाधि-मुक्तत्वाद् देहाद्य्-अपर-तन्त्रं, मृत्यूनां भक्त्य्-अन्तरायाणां मृत्युं नाश-हेतुं, त्वां प्राप्य भक्त्य्-अन्तरा या ब्रह्म-शापाद्या एव, वैयर्थ्यान् नष्टा एव बभूवुर् इत्य् अर्थः ॥९-१०॥

॥।
॥ १२.५.११-१२ ॥**

अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ॥**

दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।
न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विमर्श-प्रकारं दर्शयंस् तक्षकादर्शनं दर्शयति द्वाभ्याम्, योऽहंब्रह्मैव, यद् ब्रह्म तद् अहम् एवेति समीक्षन् । तत्राहं ब्रह्मेति भावनया जीवस्य शोकादि-निवृत्तिः । ब्रह्माहम् इति भावनया च ब्रह्मणः पारोक्ष्य-निवृत्तिर् भवतीति व्यतिहारो दर्शितः। निष्कले निरुपाधौ । आत्मनि ब्रह्मणि ॥११॥

विष-युक्तैर् आननैर् दशन्तं ग्रसन्तं तक्षकम्लेलिहानं सर्पम् । यद् वा, लेलिहानं जिह्वाभिर् ओष्ठ-प्रान्तान् सनिष्पेषम् आस्वादयन्तम् । आत्मनः पृथक् ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **परं धाम सर्वावभासकत्वेन देहेन्द्रियादि-धर्मैर् अस्पष्टञ्ज्योतिः स्वरूपम् । परमं सर्व-बाधावधित्वेन परमार्थं पदं पदनीयम् । तत्र विमर्श । आदिना भयादि-ग्रहः । पारोक्ष्य-निवृत्तिः साक्षात्कारः । परस्परीकरणं व्यतिहारः ॥ ओष्ठ-प्रान्तास्वादने च लेलिहानो भुजङ्गमे इत्य् अभिधानाद् अर्थान्तरम् आह—यद् वेति । निष्पेषः पेषणाभावाभीक्ष्ण्यापेषणकेषु च इत्य् अभिधानात् स-निष्पेषं पौनःपुन्येन सहितम् ॥११-१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कुतोऽहम् ईश्वरः ? तद्-एक-पाल्यैत्वाभिमानेन तच्-छक्त्यैव स्व-शक्त्य्-अभिमानेन वा तद्-अभेदाभिमानाद् इत्य् आह—अहं ब्रह्मेति युग्मकेन । निष्कले मायातीते । आत्मनि ब्रह्मणि आधाय निवेद्य । आत्मनः पृथक् यच् छरीरं विश्वं च, तत् तन् न द्रक्षस्य् एवेति, किम् उत तद्-उपकारेण स्वापकारं मन्यस इति ॥११॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विमर्ष-प्रकारं दर्शयन् तक्षक-दंशनं दर्शयति द्वाभ्याम् । योऽहं स ब्रह्मैवाहं, न संसारीति भावनया शोकादि-निवृत्तिः, ब्रह्माहम् इति अहम् एव ब्रह्मेति भावनया च ब्रह्मणः परोक्ष-निवृत्तिर् भवतीति व्यतीहारो दर्शितः । निष्कले निरुपाधौ आत्मनि ब्रह्मणि ।

पक्षे, अहं धाम सूर्योपमस्य पश्यस्य त्विट्-कणश् चित्-कण एवेत्य् अर्थः । गृह-देह-त्विट्-प्रभावा धामानि इत्य् अमरः । कीदृशम् ? ब्रह्म-परम्, नारायण-परो विप्रः इतिवद् ब्रह्मोपासकम् इत्य् अर्थः । अत एव ब्रह्माहं ब्रह्मणः पश्यस्यैवाहम् इति षष्ठी-तत्पुरुषः । एवं परमं पदं ब्रह्म-स्वरूपं चरणारविन्दं वा समीक्ष्य आत्मानं स्वम् आत्मनि परमात्मनि कृष्णे निष्कले निष्को वक्षोऽलङ्कारस् तद्वति । विषाननैर् विष-युक्तैर् आननैर् दशन्तं लेलिहानं जिह्वाभिर् ओष्ठ-प्रान्तं स-निष्पेषम् आस्वादयन्तं तक्षकं न द्रक्ष्यसि, नापि तेन दष्टं शरीरं च, आत्मनः पृथग्-भूतं विश्वं च पक्षे श्री-कृष्ण-चरणारविन्द-साक्षात्कारानन्द-मूर्च्छां प्राप्तस् त्वं न द्रक्ष्यसीति ॥११-१२॥

॥।
॥ १२.५.१३ ॥**

एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप ।
हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हरेश् चेष्टाम् आत्मा त्वं यत् पृष्टवांस् तद् एतत् ते कथितम् । शिष्यस्य कृतार्थता-परीक्षणाय पृच्छति—किम् इति ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे नृपेति—नृभ्यो भय-जनकत्वेन विक्षेपकेभ्यः काल-जन्म-जरादिभ्यः पायते रक्ष्यत इति नृपः, तथा च मया तत्त्वोपदेशेनान्वर्थ-नामा कृतोऽसीति भावः । अतः परं श्रोतव्यं नास्तीत्य् आह—किं भूय इति ।

अत्र सन्दर्भः—लीला-कथा-रसिकस्य तस्य पूर्वोक्तेनातिरुचिम् आलक्ष्योपसंहरति—एतत् त इति । ते तुभ्यम् । त्वं तु राजन् मरिष्येति इत्य्-आदिना कथितम् । ननु ममानभीष्टम् अनुपक्रान्तं च तत् कथं कथितं ? तत्राह—आत्मा कस्यचिद् आत्म-निष्ठस्य मनो यत् पृष्टवान् परीक्षितोऽ स्यात्म-ज्ञानं जातं न वेति सन्दिह्य स्वगतम् एवम् अपि यज् ज्ञातुम् इष्टवान् इत्य् अर्थः । अहम् तत्रानुवर्ण्यते इत्य्-आदिनोपक्रान्तं भगवन्-महिमानम् एव पुनर् अपि वर्णयिष्यामीत्य् आह—हरेर् इति ।

विश्वात्मन इति—किं व्यष्ट्यात्मनः स्वरूप-वर्णनेनेति भावः । नन्व् अस्मिन् प्रकरणे श्री-शुकदेवस्योपदेशे भक्ताव् एव तात्पर्यं ज्ञाने वेति सन्दिहानं प्रति पुनर् विचार्यते । तत्र अत्रानुवर्ण्यतेऽभीक्ष्णम् इत्य्-आद्य्-उपक्रमे एतत् ते कथितं तात इत्य्-आद्य्-उपसंहारेऽपि तादृश-महिमत्वेन पुनर् लीला-कथा-श्रवणस्यैव प्राधान्यात्, तत उपक्रमोपसंहार-निर्दिष्टत्वाच् छ्रवणोपलक्षित-भक्तेर् एवात्रापि प्राधान्यम् । यस् तु तन्-मध्ये त्वं तु राजन् मरिष्येति इत्य्-आदिना ज्ञानोपदेशः, स च तस्य प्राग् एव गता या भक्ति-निष्ठा तस्याः सम्प्रत्य् अपि स्थैर्य-प्रकटनार्थ एव, एकान्त-भक्तेषु भगवता मोक्ष-वर-च्छन्दनवत् पूर्वम् अपि भक्ति-निष्ठा मरण-भय-त्यागात् । अनन्तरं च श्रुत्वापि तज्-ज्ञानोपदेशं स्वस्य भक्ति-निष्ठाया एव दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्-निष्ठा यथा प्रथमे—कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः इति, दध्यौ मुकुन्दाङ्घ्रिमनन्यभाव इति च । तन्निष्ठयैव तद्भयपरित्यागो यथा तद्-वाक्ये—द्विजोपसृष्टः कुहकर-तक्षको वा दशत्वलं, गायत विष्णु-गाथाः इति तज्ज्ञान-श्रवणानन्तरम् अपि तादृश-निष्ठायाः स्थैर्य-दर्शनं यथा तत्र तावत् पद्य-त्रयेण तज्-ज्ञानोपदेशं बहु मत्वा श्रवण-लक्षणया भक्त्यैव स्व-कृतार्थत्वम् उक्तं षष्टाध्यायारम्भे—सिद्धोऽस्म्य् अनुगृहीतोऽस्मि इत्य्-आदिना । अत्यद्भुतम् इदं इत्य्-आदि, पुराण-संहिताम् इत्य्-आदिना च । पुनश् चैकेन पद्येन तद्-वाक्य-गौरव-मात्रेणाङ्गीकृतस्य ब्रह्म-ज्ञानस्य तक्षकादि-भय-निवृत्त-हेतुत्व मुक्त्वाप्य् अन्येन तद्-ऊर्ध्व-वाक्-चेतसोस् तन्-नाम-कीर्तन-ध्यानावेशानुज्ञा प्रार्थिता भगवंस् तक्षकादिभ्यः इत्य्-आदिना, अनुजानीहि मां ब्रह्मन् इत्य्-आदिना च । अथ पुनर् अन्येन पद्येनाज्ञान-निरासो ज्ञान-वृद्धिश् च भगवत्-पदारविन्द-दर्शन-सुखान्तर्भूतैव मम स्फुरतीति ज्ञापितम् ।

अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ इति ।

अत्र पद-शब्दस्य चरणारविन्दाभिधायकत्वे ज्ञानेन वैयासकि-शब्दितेन भेजे खगेन्द्र-ध्वज-पाद-मूलम् इत्य् एवास्ति प्रथमे साधकम् । एतत्-प्रकरणार्थस् तु श्रीसूतेनैव स्पष्टीकृतः—

ब्रह्मकोपोत्थिताद्यस् तु तक्षकात्प्राणविप्लवात् ।
न संमुमोहोरुभयाद्भगवत्यर्पिताशयः ॥
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्संभ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ इति ।

तथा पूर्वं द्वादशस्य तृतीये प्रथमस्कन्धां तस्थस्य—

अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥

इत्यस्य राजप्रश्नस्योत्तरत्वेन भगवद्-ध्यानकीर्तने एव स्वयं श्रीशुकदेवेनाप्युपदिष्टे—

तस्मात्सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्यवहिततस् तो यासि परां गतिम् ।
म्रियमाणैरभिध्येयो भगवान्परमेश्वरः ।
आत्मभावं नयत्याङ्ग सर्वथा सर्वसम्भवः ।
कलेर्दोषनिधे राजन् । इत्य्-आदिना ।

ततस् तत्र केशवे ह्यवहितः कृतावधानः । आत्मभावमात्मनो भक्तिम् । अस्तु तावदायाससाध्यं ध्यानं हि यस्मादनायाससाध्यात्कीर्तनादेवेत्यर्थः । द्वितीयस्कन्धेपि—न ह्यतोऽन्यः शिवः पन्थाः इत्य्-आदिना एवमेतन्निगदितम् इत्यन्तेन ग्रन्थेन नानाङ्गवाञ्छुद्धभक्तियोग एवात्रोत्तरत्वेन पर्यवसितः । तत्र पिबन्ति ये भगवतः इत्य्-आदिना लीलाकथाश्रवण एव पर्यवसानं दृश्यते तस्मात्साधूक्तम्—त्वन्तु राजन्मरिव्येति इत्य्-आदिकं भगवद्-भक्तिनिष्टाप्रकटनार्थमेवेति । अतो भक्तावेव तदुपदेशस्य तात्पर्यमत एव द्वितीयाष्टमे राजप्रार्थनान्वर्था स्यात्—कृष्णे निवेश्य निस्सङ्गं मनस्त्यक्ष्ये कलेवरम् इति ॥१३॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे पञ्चमोऽध्यायः ॥५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **लीला-कथैक-रसिकस्य तस्य पूर्वोक्ते तु नातिरुचिम् आलक्ष्य तथोपसंहरति—एतत् त इति । ते तुभ्यम् एतत्, त्वं तु राजन् मरिष्येति [भा।पु। १२.५.२] इत्य्-आदिना कथितम् ।

ननु, ममानभीष्टम् अनुपक्रान्तं च तत् कथं कथितम् ? तत्राह—आत्मा कस्यचिद् आत्म-निष्ठस्य मनो यत् पृष्टवान् । परीक्षितोऽस्यात्म-ज्ञानं जातम् अस्ति न वेति सन्दिह्य, स्वगतम् एवम् अपि यज् ज्ञातुम् इष्टवान् इत्य् अर्थः । अहं त्व् अत्रानुवर्ण्यते [भा।पु। १२.५.१] इत्य्-आदिनोपक्रान्तं श्री-भगवन्-महिमानम् एव पुनर् अपि वर्णयिष्यामीत्य् आह—हरेर् इति । विश्वात्मन इति किं व्यष्ट्य्-आत्मनः स्वरूपादि-वर्णनेनेति भावः ।

नन्व् अस्मिन् प्रकरणे श्री-शुकदेवस्योपदेशे भक्ताव् एव तात्पर्यं ज्ञाने वेति सन्दिहानं प्रति पुनर् विचार्यते अत्रानुवर्ण्यतेऽभीक्ष्णं [भा।पु। १२.५.१] इत्य्-आद्य्-उपक्रमे, “एतत् ते कथितं तात” इत्य्-आद्य्-उपसंहारेऽपि तादृश-महिमत्वेन पूर्वोक्त-लीला-कथा-श्रवणस्यैव प्राधान्यात् । अत उपक्रमोपसंहार-निर्दिष्टत्वात् श्रवणोपलक्षित-भक्तेर् एवात्रापि प्राधान्यम् । यस् तु तन्-मध्ये त्वं तु राजन् मरिष्यति [भा।पु। १२.५.२] इत्य्-आदिना ज्ञानोपदेशः स च तस्य या प्राग् अवगता भक्ति-निष्ठाया एव स्वयं दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्-निष्ठा यथा प्रथमे कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः [भा।पु। १.१९.५] इति । दध्यौ मुकुन्दाङ्घ्रिम् अनन्य-भावः [भा।पु। १.१९.७] इत्य्-आदि तन्-निष्ठतैव । तद्-भय-परित्यागो यथा तद्-वाक्ये—

द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भा।पु। १.१९.१५] इति ।

तद् एतत् प्रकरणार्थस् तत्र श्री-सूतेनैव स्पष्टीकृतः—

ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् ।
न सम्मुमोहोरु-भयाद् भगवत्य् अर्पिताशयः ॥ [भा।पु। १.१८.२]
नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् ।
स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् ॥ [भा।पु। १.१८.४] इति ।

द्वितीय-स्कन्धेऽपि न ह्य् अतोऽन्यः शिवः पन्था [भा।पु। २.२.३३] इत्य् आदिना एवम् एतन् निगदितं [भा।पु। २.३.१] इत्य् अन्तेन ग्रन्थेन नानाङ्गवान् शुद्ध-भक्ति-योग एव तत्रोत्तरत्वेन पर्यवसितः । तत्रापि पिबन्ति ये भगवतः [भा।पु। २.२.३७] इत्य् आदिना लीला-कथा-श्रवण एव परम-पर्यवसानं दृश्यते । तस्मात् साधूक्तं त्वं तु राजन् मरिष्येतीत्य् आदिकं तद्-भक्ति-निष्ठा-प्रकटनार्थम् एवेति । यतो भक्ताव् एव तद्-उपदेशस्य तात्पर्यम् ।

अत एव द्वितीयस्याष्टमे राज-प्रार्थना च नान्यथा स्यात् । कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरं [भा।पु। २.८.२] इत्य् आदि ॥१३॥ [भक्ति-सन्दर्भ ८६]10

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् ब्रह्म-ज्ञानं त्वया सम्प्रत्य् अपृष्टम् अपि ते कथितं यद् धरेश् चेष्टां लीलाम् आत्मा त्वं पृष्टवान् मां पूर्वम् अपृच्छः, तां तु पूर्वम् एवावोचम् इति शेषः । शिष्यस्य तस्य पूर्णत्व-ज्ञापनाय पृच्छति—किम् इति ॥१३॥

॥।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वादशस्य पञ्चमोऽपि सङ्गतः सङ्गतः सताम् ॥*॥

॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
ब्रह्मोपदेशो नाम
पञ्चमोऽध्यायः ।

॥ १२.५ ॥

(१२.६)


  1. नारायण पूर्व-तापनी उपनिषद् १.४ (अच्चोर्दिन्ग् तो हरिदास शास्त्रीऽस् एदितिओन्)। ↩︎

  2. स्व-भक्त-शास्त्रानुरूप इति ङ-पाठः। ↩︎

  3. मध्व-पाठे अयं श्लोकः १२.४.४९-साङ्ख्यिकः। ↩︎

  4. अयम् अर्थः—घटे भिन्ने यथा घटान्त-स्थो महाकाशः पूर्वम् इव बहिस्थेनाकाशेनैकीभूत एक एव महाकाशः स्यात्, एवं जीवः जीवान्तर्यामी जीवान्तः-स्थो भगवान् देहे नष्टे सति ब्रह्म सम्पद्यते बहिर् व्याप्त-ब्रह्म-रूपेणैकीभवतीति । एतेन जीवनात्मनानुप्रणीतः इत्य्-आदि-श्रुतेः जीव-शब्दो जीवान्तर्यामिणि प्रसिद्धः । अथ चार्थान्तरं—अत्र च यथा आकाशे आकाश इति च्छेदः । घटे भिन्ने घटोपादान-भूतो भूताकाशः महत्य् अव्याकृताकाशो स्थितः स्याद् यथा-पूर्वम् । एवं देहे नष्टे भूताकाश-स्थानीयः मुक्त-जीवः स्वाश्रयत्वाय ब्रह्मैव सम्पद्यते प्राप्नोति । एवं घटान्तस्थः भूताकाशः यथा महाकाशे स्याद् एवं देहे मृतेऽभिमानि-देवता-गणोऽपि मुक्त-जीवेन सह ब्रह्मण्य् आश्रितोऽवतिष्ठत इति । यद्यप्य् अयं श्लोकोऽन्ते पठितः, तथापि महा-मल्ल-भङ्ग-न्यायेन प्रधानत्वाद् आदौ व्याख्यातस् तात्पर्य-कृता । एतद् व्याख्यानतया पठिस्यमाणस्य प्रमान-वचनस्य समग्राध्याय-सारोपसंहार-रूपत्वाच् च प्राथम्यम् । अध्याये तत्र तत्र पठितानां कतीनां च श्लोकानाम् एकयैवोक्त्या व्याख्यान-सौकर्याय च प्रथमोक्तिः । तच् चोपरिष्ठाद् वक्ष्यते ॥ (गोविन्दाचार्यः) ↩︎

  5. अन्यौ च द्वौ भूताकाशौ । एकः घट-रूपः घटावयव-भूतः । अपरस् तद्-अन्यो घटान्तस्थावकाश-स्थितः । स द्विविधोऽप्य् आकाशः महाकाशात् परो भिन्नः । लघुश् च असर्वगश् च । तत्र बहिस्थ-महाकाशवत् परमात्मा सनातनः । सर्व-गतं भगवद्-रूपम् । सनेति सर्वत्रेत्य् अर्थे । सनातनः सर्वत्र ततः । घटान्तस्थ-महाकाशवद् अन्तर्यामि-हरि-रूपम् । नानयोः कोऽपि भेदः ॥ (गोविन्दाचार्यः) ↩︎

  6. घटस्थान्तर्गता इति प्र।पाठः प्रामदिकः । घटस्यान्तर्गतो यो महाकाशाद् भिन्नो भूताकाशः, तद् उपमाः मुक्ताव् अपि जीव-सह-भागिनस् तत्त्वाभिमानिनो देवाः । असुराश् चासद्-इन्द्रियादि-प्रेरकाः ये जीव-मुक्त्य्-अनन्तरं स्वयं तमोगाः । घटावय-भूत-भूताकाशवन् नरो जीवः । तथा च घटोपमात् जीवात् तद्-अन्तस्थ-महाकाशोपमस्य न भगवतः कदाप्य् ऐक्यम् इति ॥ (गोविन्दाचार्यः) ↩︎

  7. इदं तत्त्व-संहिता-वचनं प्र।पाठे पूर्वम् एव पठ्यत इत्य् आवेदितम् । प्रत्येकं विष्णु-रूपाणां यथा घटान्तस्थानां महाकाशानां भ्रान्ति-मात्रा भिदा मता । जगतश् चैव विष्णोश् च घटस्य महाकाशस्येव च सदा भेद एव । तद् एव स्फुटम् आह—यथाकाश-घटौ । यथाकाश-घनौ इति प्र-पाठः प्रामादिकः । एतेनैव प्रमाण-द्वयेन आकाश इव चाधारो ध्रुवो नानायितस् ततः [भा।पु। १२.५.८] इत्य्-आद्य्-उत्तर-श्लोकोऽपि व्याख्याः । अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् [भा।पु। १२.५.११] इत्य्-आदि च । अहं मद्-अन्तर्याम्य् एव ब्रह्म व्याप्तोऽपि भगवान् इति । विभक्ति-परिणामेन घट-रूपोऽहं महाकाश-रूपए ब्रह्मणीति वा । आत्मानम् आत्मन्य् आधाय [भा।पु। १२.५.११] इत्य् उत्तर-वचनात् । एवम् एव बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते । माया-मात्रम् इदं राजन् नानात्वं प्रत्यग् आत्मनि ॥ यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् [भा।पु। १२.४.२५-२६] इति श्लोक-द्वयम् अप्य् अनेनैव प्रमानोपन्यासेन व्याचख्यौ । तथा हि बुद्धि-शब्दो जीव-वाचीति पूर्वं व्याख्यातम् । बुद्धेर् जीवस्यैव जागरणाद्य्-अवस्था-त्रयम् । न तुरीयस्य भगवतः । नन्व् अवस्था-भेदेन तस्यापि विच्वादि-रूप-त्रयं श्रूयते ? सत्यं श्रूयते । अथापि न तेषां भेद इत्य् आह—माया-मात्रम् । प्रत्यग्-आत्मन्य् अन्तरात्मनि नानात्वं रूप-भेदेन स्वरूप-भेदः माया-मात्रं भ्रान्ति-मात्रम् । नानात्वं माया-मात्रं लीला-मात्रम् इइति वा । लीलयैव बहु-रूपो भवति, न वस्तुतो भेद इति । तद् एतद् उक्तं—प्रत्येकं विष्णु-रूपाणां भ्रान्ति-मात्रा भिदा मता इति । अवस्था-त्रयातीताद् अवस्था-त्रय-विशिष्टो जीवो भिन्न इति चात्रोदितम् । बुद्धेर् एव जागरणं स्वप्नः सुषुप्तिश् च न परमात्मन इति । तद् एतद् उक्तम्—जगतश् चैव विष्णोश् च सत्यो भेदः सदैव तु इति । अयम् एव भेदः द्वितीय-श्लोकेन विव्रियते—यथा जल-धरा इति । जल-धरा मेघा घटा वा यथाकाशाश्रितास् तिष्ठन्ति, उत्पत्ति-विनाशवन्तश् च, एवं जगदीश्वराश्रितम् उत्पत्ति-नाश-योगि चेति । तद् एतद् आह—यथाकाश-घटौ नित्यम् इत्य्-आदि । एवं न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥ [भा।पु। १२.४.३०] इत्य् अयम् अपि श्लोकोऽनेनैव प्रमाण-वचनेन कटाक्षितः । नहि सत्यस्य भगवतो रूपेषु नानात्वं युक्तम् । यदि कश्चित् तथा मन्यते, नूनम् अविद्वान् भ्रान्त एव सः । एतद् अप्य् उक्तम्—प्रत्येकं विष्णु-रूपाणां भ्रान्ति-मात्रा भिदा मता । तर्हि प्रतीयमानस्य नानात्वस्य का गतिः ? आह—नानात्वं छिद्रयोर् यद्वत् । छिद्रम् अवकाशः । घट-द्वयान्तस्थयोर् महाकाशयोः अनतस्थ-बहिस्थयोर् वा महाकाशयोर् यथा नानात्वं भ्रान्तिस् तथा भगवद्-रूपेष्व् अपीति । तद् एतद् उक्तम्—महाकाशवद् एवात्र परमात्मा सनातनः । घटान्त-स्थ-महाकाश-प्रतिमोऽन्तर्गतो हरिः ॥ इति । एवं बाह्यान्तर्ज्योतिषोर् वातयोर् अपि । अथ चार्थान्तरम्—यदि क्वचिन् नानात्वम् उच्यते, तच् छिद्रयोर् यद्वत् । घटान्तस्थ-महाकाश-भूताकाशयोर् इव । तद् एतद् उक्तम्—घटस्यान्तर्गताकाशो महाकाशात् परो मतः इति । भगवतोऽत्यन्त-भिन्नास् तत्त्वाभिमानिनो देवा असुराश् च भूताकाश-स्थानीया देहान्तर् वर्तन्त इत्य् एतत् । अपि च छिद्रयोः घट-रूपस्याकाशस्य घटान्तस्थाकाशस्य च यद्वत् नानात्वं, तथा जीवेशयोर् नानात्वम् इति । तद् एतद् उक्तम्—घट-रूप-खवन् नरः इति । यथाकाश-घटौ नित्यं भिन्नाव् एव परस्परम्, एवम् ईशो जगच् चैव इत्य्-आदि च । एवं सति सत्यसयाविकारिणः परमात्मनः स्वरूपाणां तु महाकाशस्येव न कथञ्चिन् नानात्वम् इति सर्वं चतुरस्रम् ॥ (गोविन्दाचार्यः) ↩︎

  8. ब्रह्मत्वं (ङ) इति क्वचित्, ब्रह्म भगवत्त्वं इति पुरीदास-सम्मत-पाठः। ↩︎

  9. अत्रोपाधेः… प्रतिपाद्यते इति वाक्यं रसवर्षि-धृत-पाथे नास्ति। ↩︎

  10. रस-वर्षि-धृत-पाठे भक्ति-सन्दर्भस्य ८६-तमानुच्छेद-कथा सर्वत्र अन्यथा विभक्ता। अत्र पुरी-दास-संस्करणम् अनुसृतम्। ↩︎