०४ प्रलय-वर्णनं नाम

॥ १२.४.१ ॥

श्री-शुक उवाच—

कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप ।

कथितो युग-मानं च शृणु कल्प-लयाव् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्थे तु चतुर्धोक्ता लया नैमित्तिकादयः ।

तत्र संसार-निस्तारो हरि-कीर्त्यैव वर्ण्यते ॥

कलि-दोष-निवर्तकं हरि-नाम-सङ्कीर्तनादिकं स एव च कलौ परमो धर्म इति प्रश्न-द्वयस्योत्तरम् उक्तम् । यच् चान्यत् पृष्टं प्रलय-कल्पयोर् मानं ब्रूहीति [भा।पु। ३.१.११] तद् इदानीं तृतीय-स्कन्धोक्त-काल-मानानुवाद-पूर्वकं निरूपयति—काल इति । स कालः परमाणुर् वै यो भुङ्क्ते परमाणुतां [भा।पु। ३.११.४] इत्य्-आदिना कालः कथितः ।

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् ।
सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च ॥ [भा।पु। ३.११.१९] इति युग-मानं कथितम् ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवकारेण कलौ नामैव नामैव कलौ नामैव केवलम् इति स्मृतिराकृष्यते । तत्र नैमित्तिकादिमध्ये नृपेति—कालज्ञानं विना नृपालनं न सम्भवतीति भावः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

नैमित्तिकाद्यान् प्रलयांश् चतुर्थे चतुरः क्रमात् ।

उक्त्वोपसञ्जहार श्री-शुकः कृष्ण-कथामृतम् ॥

यच् च पृष्टं प्रलयाक्लपयोर् मानं ब्रूहि [भा।पु। ३.१.११] इति, तत्र तृतीय-स्कन्धोक्त-कालानुवाद-पूर्वकम् आह—काल इति ॥१॥

॥।

॥ १२.४.२ ॥

चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते ।

स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र कल्प-मानम् आह—चतुर्-युगेति । यत्र चतुर्दश मनवः क्रमेण भवन्ति ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यत्र दिने । विशाम्पते इति—प्रजापालनासक्तत्वात्त्वं कालं नाकलयसीति भावः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.४.३ ॥

तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता ।

त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रलयस् तु चतुर्-विधः—नैमित्तिकः, प्राकृतिकः, आत्यन्तिकः, नित्यश् चेति । तत्र नैमित्तिकं प्रलयं मान-सहितम् आह—तद् अन्त इति द्वाभ्याम् । तावान् चतुर्-युग-सहस्र-प्रमाणः । सैव ब्राह्मी रात्रिः ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदन्ते दिनान्ते । यत्र रात्रौ ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावान् चतुर्युग-सहस्र-प्रमाणः ॥३॥

॥।

॥ १२.४.४ ॥

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् ।

शेतेऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नैमित्तिकत्वं दर्शयति । यत्र यदा विश्व-सृक् श्री-नारायणो विश्वम् आत्म-सात्-कृत्य स्वस्मिन्न् उपसंहृत्य शेते, आत्म-भूर् ब्रह्मा च तस्मिन् शेते । तयोर् अभेद-विवक्षया वा ब्रह्मण एवानन्तासनत्वम् उक्तम् । ब्रह्मणो निद्रां निमित्ती-कृत्य प्रवर्तमानो लोक-त्रय-प्रलयो नैमित्तिक इत्य् आर्थः ॥४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एष नैमित्तक इत्य् उपलक्षणम् ।_।_४॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रलयाश् चत्वारस् तत्रैष प्रलयो नैमित्तिकः प्रथमः, विश्व-सृक् नारायण आत्म-सात्कृत्य स्वस्मिन्न् उपसंहृत्य शेते । आत्म-भूर् ब्रह्मा च तस्मिन् प्रविश्य शेते । अत एव ब्रह्मणो निद्रां निमित्तीकृत्य प्रवर्तमानो लोक-त्रय-प्रलयो नैमित्तिकः, एष एव दैनन्दिन-शब्द-वाच्यश् च ॥४॥

॥।

॥ १२.४.५ ॥

द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्राकृतिकं प्रलयम् आह द्वाभ्याम्, द्वि-परार्धे तु ब्रह्मण आयुषि । सप्त-प्रकृतयो महद्-अहङ्कार-पञ्च-तन्-मात्राणि ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—अत्र प्रवर्तमानेर्थे ठक् प्रत्ययः ॥४-५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **मन्वन्तर-निमित्तत्वम् अपि तद्-अन्तर्-भूतं ज्ञेयम् ।_।_५॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्राकृतिकं प्रलयम् आह—द्वि-परार्धे त्व् इति द्वाभ्याम् । आद्यः परार्धोपक्रान्त एव, द्वितीयेऽपि परार्धे अतिक्रान्ते सति ब्रह्मण आयुः-समाप्तौ सत्यां सप्त-प्रकृतयो महद्-अहङ्कार-तन्-मात्र-पञ्चकानि ॥५॥

॥।

॥ १२.४.६ ॥

एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

अण्ड-कोषस् तु सङ्घातो विघात उपसादिते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सङ्घातो महद्-आदि-कार्य-भूतः, प्रकृतीनां तत्-कार्य-ब्रह्माण्डस्य च प्रलयात् प्राकृतिक इत्य् अर्थः । विघाते विघात-कारणे उपसादिते सति ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे राजन्न् इति—धैर्येण मृत्युकालेऽपि तव दीप्तिर्न नष्टेति भावः । विघातकारणेऽकाले उपसादिते प्राप्ते सति ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रकृतेः सकाशाद् उद्भूत-वस्तूनां प्राकृताव् एव प्रवेशात् प्राकृतिकः सङ्घातः । महद्-आदि-तत्त्व-समूह एवाण्ड-कोषः । विघाते विघात-काले उपसन्ने सति ॥६॥

॥।

॥ १२.४.७ ॥

पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति ।

तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवाह—पर्जन्य इत्य्-आदिना बुद्धीन्द्रियार्थ-रूपेणेत्य् अतः प्राक्तनेन ग्रन्थेन ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद् एव विघातकारणमेवाह । तदा वर्षणाभावेन निरन्नेऽन्नाभावे सति ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र प्रकारम् आह—पर्जन्य इति ॥७॥

॥।

॥ १२.४.८ ॥

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।

सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सामुद्रादिकं सर्वं रसं रविः ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सांवर्तकः प्रलयकालिकः । रसं रसनीयमार्द्रत्वम् इति यावत्, रसं जलमित्य् अर्थः । यद्यपि मेघपुष्पं घनरसः इत्य् अमरोक्तेर्न केवलरसशब्दो जलवाची तथाप्येकदेशन्यायेन तथास्त्येवेति ज्ञेयम् ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.४.९ ॥

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ।

ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पिबते आकर्षति ॥८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो रसशोषानन्तरम् ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

॥।

॥ १२.४.१० ॥

दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ ।

उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनिल-वेगोत्थो वायु-वेगोद्भूतः । “अनिल-वेगो वा” इति पाठे अनिलेन वेगो यस्य सः, वाः रविणा रश्मिभिः पीतम् उदकं च दहतीत्य् अर्थः । “अनिल-वेगो वै” इति तु पाठः सु-गमः । भू-विवरान् पातालादीन् शून्यान् रविणा दैहिक-रसाकर्षणात् प्राणि-रहितान् । शिखाभिर् ज्वालाभिः ॥१०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—मेघान्तर्गतम् अपि जलं शोषयतीति भावः । सूर्यपक्षे शिखाभी रश्मिभिः ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.४.११ ॥

दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् ।

ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किञ्चिद् अधिकं वर्षाणां शतम् । सांवर्तकः प्रलय-हेतुः परो वायुर् वाति तदा रजसावृतं खं धूम्रं भवति ॥११॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो ब्रह्माण्डदाहोत्तरम् । प्रचण्डपवनः सशब्दो वायुः । अधिकं किञ्चिदधिकम् ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किञ्चिद् अधिकं वर्षाणां शतं व्याप्य वाति, तदा रजसावृतं खं धूम्रं भवति ॥११॥

॥।

॥ १२.४.१२ ॥

परः सांवर्तको वाति धूम्रं खं रजसावृतम् ।

ततो मेघ-कुलान्य् अङ्ग चित्र-वर्णान्य् अनेकशः ॥

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **परो बलवत्तरः । ततो रजःकृताकाशधूम्रत्वानन्तरम् ॥१२॥

॥।

॥ १२.४.१३ ॥

शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः ।

तत एकोदकं विश्वं ब्रह्माण्ड-विवरान्तरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रभस-स्वनैस् तीव्र-गर्जितैः । ब्रह्माण्ड-विवरम् अध्यगतं विश्वम् एकोदकम् अकार्णवोदक-व्याप्तं भवति ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्तरे तिष्ठतीत्यान्तरं ब्रह्माण्डविवरस्यान्तरं ब्रह्माण्डविवरान्तरम् । एकमुदकम् एव यत्र प्रतीयते नान्यत्तदेकोदकम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.४.१४ ॥

तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे ।

ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उद-प्लवे उदकेनाप्लवे सति । प्रलयत्वायाभावाय ॥१४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **भूमेर्गन्धगुणमापो प्रसन्ति भूलयाय तस्यामभिभावयन्ति । एवमग्रेऽप्यूह्यम् । अन्यगुणस्यान्यत्र लयासम्भवात् तन्मात्राणां कारणत्वकल्पने पूर्वं लयासम्भवात्तन्मात्रकार्यत्वे भूतानां भूतान्तरे लयासम्भवाच् च ग्रस्तधेदकगुणाप्रलयत्वाय कल्पते योग्यो भवति ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **प्रलयत्वाय प्रकृष्टो लयो यस्या सा प्रलया, तस्या भावः प्रलयत्वं तस्मै, नाशायेत्य् अर्थः ॥१४॥

॥।

॥ १२.४.१५ ॥

अपां रसम् अथो तेजस् ता लीयन्तेऽथ नीरसाः ।

ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ता आपः । अनीरसा रसहीनाः सन्तः । तद्रहितं रूपरहितम् ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपां रसं तेजो ग्रसति ॥१५॥

॥।

॥ १२.४.१६ ॥

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

स वै विशति खं राजंस् ततश् च नभसो गुणम् ॥

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वायोर्गुणं स्पर्शम् । खमाकाशः । स वायुः ॥१६॥

॥।

॥ १२.४.१७ ॥

शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते ।

तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **भूतादिस् तामसो ऽहङ्कारः । गुणैर् वृत्तिभिः सह ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे अङ्ग राजन् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **भूतादिस् तामसो ऽहङ्कारः । तैजसोऽहङ्कार इन्द्रियाणि ग्रसति । महान् अहङ्कारं गुणैस् तद्-वृत्तिभिः सह ग्रसति तं महान्तम् ॥१७॥

॥।

॥ १२.४.१८ ॥

महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् ।

ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अव्याकृतं प्रधानम् ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महान् ईक्षणम् । अहङ्कारं बहुभवनसङ्कल्पम् । महदहङ्कारयोर्भगवद्-ईक्षणसङ्कल्परूपयोस्तज्जन्यत्वे सति तज्जन्यजनको व्यापार इति लक्षणसद्भावेन मायोपहितेश्वरव्यापारत्वेन निमित्तत्वेप्युपादानत्वासम्भवाकालेन स्वोपहितेनेश्वरेण नोदितमव्यक्तं तदुपाधिमायात्मकाज्ञानम् । गुणान्स्वकार्यभूतान् ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

॥।

॥ १२.४.१९ ॥

न तस्य कालावयवैः परिणामादयो गुणाः ।

अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तस्य तु लयो नास्तीत्य् आह—तस्येति । काल-वयवैर् अहो-रात्रादिभिः । गुणा भाव-विकाराः। परिणामो विपरिणामः । अव्यक्तम् अस्तित्व-विकार-शून्यम् । नित्यं सर्वदैक-रूपम्, ह्रास-वृद्धि-रहितम् इत्य् अर्थः । अव्ययम् अपक्षय-शून्यम् । सर्वत्र हेतुः—कारणम् इति ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्याव्याकृतस्य तदवयवविभागस्य पश्चाद्भावितया तद्धेतुत्वानुपपत्तेः । गुणा धर्माः बोधात्पूर्वमबाधीन्नित्यत्वाव्ययत्वे तस्येति केचित् ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तस्य प्रधानस्य कालावयवैर् अहो-रात्रैः परिणामो विपरिणामश् चतुर्थो विकारः । अनादीति प्रथमो विकारो जन्म न, अनन्तम् इत्य् अन्तो न, अव्यक्तम् इत्य् अस्तित्व-लक्षण-विकारो न, नित्यं सदैक-रूपम् इति वृद्धिर् न, अव्ययम् इत्य् अपक्षयो नेति । विकार-षट्कं निषिद्धम् ॥१८॥

॥।

॥ १२.४.२० ॥

न यत्र वाचो न मनो न सत्त्वं

तमो रजो वा महद्-आदयोऽमी ।

न प्राण-बुद्धीन्द्रिय-देवता वा

न सन्निवेशः खलु लोक-कल्पः ॥1

मध्वाचार्यः (भागवत-तात्पर्यम्) : न यत्र वाच इत्य्-आदि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥२०॥2

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, वाग्-आदि-गोचरस्य स-विशेषस्य विकारा भवन्ति, इदं तु न तथेत्य् आह—न यत्रेति द्वाभ्याम् । लोक-कल्पो लोक-रूपः सन्निवेशो रचना-विशेषो नास्ति ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदाह—किञ्चेति । इदमव्यक्तं तु न तथा वागादिगोचरो नेत्यर्थः । गुणानां तद्रूपेण सत्त्वेऽपि साम्ये विभागाभावेनाभावोक्तिः ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वाग्-आदि-गोचरस्य स-विकारस्य विकारा भवन्ति, इदं तु न तथेत्य् आह—न यत्रेति द्वाभ्याम् । लोक-कल्पो लोक-रूपः सन्निवेशो रचना-विशेषः ॥२०॥

॥।

॥ १२.४.२१ ॥

न स्वप्न-जाग्रन् न च तत् सुषुप्तं

न खं जलं भूर् अनिलोऽग्निर् अर्कः ।

संसुप्त3-वच् छून्य-वद् अप्रतर्क्यं

तन् मूल-भूतं पदम् आमनन्ति ॥4

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्वप्न-जाग्रत् स्वप्न-जागरावस्था-युक्तम् । संसुप्त-वद् इन्द्रियाभावात् । शून्य-सादृश्ये हेतुः—अप्रतर्क्यम् । न पुनः शून्यम् एवेत्य् आह—तद् इति ॥२१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सुषुप्तं व्यष्टिसुषुप्तिर्नेति ज्ञेयम् । सुषुप्तवत् कार्यादर्शनात् ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.४.२२ ॥

लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा ।

शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपसंहरति—लय इति । शक्तयः सत्त्वादयः ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **संप्रलीयन्ते साम्येनाक्षुब्धास्तिष्ठन्ति । शक्तयः पृथिव्यादय इति तीर्थः । लयः । कथित इति शेषः । कालेन विद्रुता अभिभूता अत एव विवशाः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उपसंहरति—लय इति । शक्तयः सत्त्वादय एव लीयन्ते, न तु तयोः कदापि कापि क्षतिर् इति भावः ॥२२॥

॥।

॥ १२.४.२३ ॥

बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् ।

दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्यन्तिकं लयम् आह—बुद्धीन्द्रियेति द्वदशभिः । आत्यन्तिक-लयो मोक्षः स च ब्रह्म-ज्ञानेन सर्व-प्रपञ्च-लयात्मकः । न च प्रपञ्चस्यात्मवत् सत्यत्वे लयः सम्भवतीति ज्ञान-रूपाद् ब्रह्मणः पृथग्-भूतस्य तस्यासत्त्वम् उपपादयति । बुद्धिश् चेन्द्रियाणि चार्थाश् चेत्य् एवं ग्राहक-करण-ग्राह्य-रूपेण तेषाम् आश्रय-भूतं ज्ञानम् एव भाति, न पृथक् । तत्र हेतुम् आह—दृश्यत्वाव्यतिरेकाभ्याम् इति । अतो यद् आद्य्-अन्तवत् तद् अवस्तु। अत्रैवं प्रयोगः—विमतं सन् न भवति । दृश्यत्वात् कारणाव्यतिरेकाद् आद्य्-अन्तवत्त्वाच् च, रज्जु-सर्पादिवद् इति ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **बुद्धिरूपेणेन्द्रियरूपेण विषयरूपेण च तेषां बुद्ध्यादीनामाश्रयमात्मस्वरूपं ज्ञानम् एव । तत्रात्मस्वरूपज्ञानत्वे । अतो दृश्यत्वाव्यतिरेकाभ्याम्, अत्र बुद्ध्यादीनामात्मस्वरूपज्ञानत्वे निश्चेतव्ये । एवं वक्ष्यमाणरीत्या । प्रयोगोऽनुमानम् । विमतं विवादास्पदीभूतं बुद्ध्यादि । कारणाव्यतिरेकात् कारणाभिन्नत्वात् । आदिना स्वप्नदृश्यवद्घटादिवद् इति गृह्यते ॥२३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्र तद्-आश्रयत्व-तत्-प्रकाश्यत्व-तद्-व्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां परमात्म-स्वभाव-शक्तिमयत्वम् आह—बुद्धीति । अन्तःकरण-बहिः-करण-विषय-रूपेण परमात्म-लक्षणं ज्ञानम् एव भाति । तस्माद् अन्यद् एव बुद्ध्य्-आदि-वस्त्व् इत्य् अर्थः, यतस् तद्-आश्रयं तेषाम् आश्रय-रूपं तज् ज्ञानम् । क्लीबत्वम् आर्षम् । तथापि राज-भृत्ययोर् इवात्यन्त एव भेदः स्यात् । तत्र हेत्व्-अन्तरेऽप्य् आह—दृश्यत्वं तत्-प्रकाश्यत्वम्, अव्यतिरेकस् तद्-व्यतिरेके व्यतिरेकः, ताभ्याम् । तस्मात् एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा [वि।पु। १.२२.५६] इत्य्-आदिवद् बुद्ध्य्-आदीनां तत्-स्वाभाविक-शक्तिमयत्वम् एव सेत्स्यतीति भावः ।

यत् खल्व् आद्य्-अन्तवद् वणिग्-वीथ्य्-आदौ सिद्धं शुक्त्य्-आदौ कदाचिद् एवारोपितं रजतम्, तत् पुनर् अवस्तु, तद्-आश्रयकत्व-तत्-प्रकाशकत्व5-तद्-व्यतिरेकाभावात्6 शुक्त्य्-आदि-वस्तु न भवति, शुक्त्य्-आदिभ्योऽनन्यन्7 न भवतीत्य् अर्थः । ततश् चैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा विरुध्येतेति भावः । एवम् असत्-कार्य-वादान्तरेऽपि ज्ञेयम् ॥२३॥ [परमात्म-सन्दर्भ ७२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ निर्वाण-मोक्षार्थिना ब्रह्मैक्य-भावना-मय आत्यन्तिकः प्रलय उच्यते । तच् च सिषाधयिषितं ब्रह्मैक्यं ब्रह्म-कार्यस्य द्वैत-प्रपञ्चस्यासत्यत्वे साधित एव स्याद् इति प्रौढिश् चेत् तदासत्यम् एवेदं कार्य-जातम् इत्य् आह—बुद्धीन्द्रियेति नवभिः । ज्ञानं ब्रह्मैव बुद्धीन्द्रियार्थ-रूपेण भाति बुद्ध्य्-आदीनां ब्रह्म-शक्ति-परिणामत्वाद् इति भावः । ज्ञानं कीदृशम् ? तद्-आश्रयं तस्य बुद्ध्य्-आदि-प्रपञ्चस्य कारणत्वाद् आश्रयः । क्लीबत्वम् आर्षम् ।

किं च, यद् बुद्ध्य्-आदि-प्रपञ्च-जातं तत् आद्य्-अन्तवत् उत्पत्ति-लय-विशिष्टं, अतो वस्तुत्वेनाभिज्ञातम् अपि असार्वकालिकत्वात् परमार्थतोऽवस्त्व् एवेत्य् अर्थः । अपराव् अपि हेतू आह—दृश्यत्वं च, अव्यतिरेकः कारणाद् व्यतिरेकाभावश् च, ताभ्याम् अपि अवस्तु ।

अत्रैवं प्रयोगः । बुद्ध्य्-आदि-प्रपञ्च-जातम् अदृश्यत्वात् कारणाव्यतिरेकाद्य्-अन्तवत्त्वाच् च कनक-कुण्डलादिवत् परमार्थतोऽवस्तु । अत्र वस्तु मिथ्यैवेति मतेऽपि, स्याच् चेच् चित्-सम आत्मवत् [भा।पु। १२.४.२९] इत्य् अग्रिम-स्थम् अनुसृत्य दृश्यत्वाद् इत्य् अत्र चिद्-भिन्नत्वे सतीति विशेषणम् अवश्य-देयम् अन्यथास्य हेतोर् व्यभिचारः स्यात् । तासां मध्ये साक्षाद् ब्रह्म-गोपाल-पुरी हि [गो।ता।उ। २.२६] इत्य्-आदि-श्रुत्या । मन्-निकेतं तु निर्गुणं [भा।पु। ११.२५.२५], निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इत्य्-आदि-भगवद्-उक्त्या च दृश्यानाम् अपि भगवद्-धामादीनां निर्गुणत्व-प्रतिपादनेन नित्यत्वात् ॥२३॥

॥।

॥ १२.४.२४ ॥

दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् ।

एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्राव्यतिरेकं दृष्टान्तेन प्रपञ्चयति—दीप इति । दीप-चक्षू-रूपाणां तेजो-विशेषाणां तेजसो यथा न व्यतिरेकः, तथा धीः कर्त्री, खानि करणानि, मात्रा विषयाः, ऋताद् ब्रह्मणः पृथक् न स्युः, ब्रह्म-कार्यत्वात् । नन्व् एवं कार्य-कारणयोर् अभेदे कार्यासत्त्वे कारणस्याप्य् असत्त्वं प्रसज्जेत ? तत्राह—अन्यतमाद् इति कार्याद् अत्यन्त-व्यतिरिक्ताद् ब्रह्मणः । प्रपञ्चाद् ब्रह्मणोऽस्ति व्यतिरेकः, प्रपञ्चस्य तु ततो नास्ति व्यतिरेक इत्य् अर्थः ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र द्वयोर्हेत्वोः । अत्राक्षिपति—नन्व् इति । इत्य् अर्थ इति—कारणसत्तातः कार्यसत्ता न पृथक्, कार्यसत्तातः कारणसत्ता तु पृथगस्ति, तच् च मृद्घटादौ स्फुटतरम् इति भावः । यद् वा, अन्यतमात्सुषुप्तिसमाध्यादौ बुद्ध्यादिबाधेऽपि परिशिष्यमाणत्वाव्यतिरिक्तत्वम् ॥२४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एकस्यापि वस्तुनोऽंश-भेदेनाश्रयाश्रयित्वं स्वयम् एव दृष्टान्तेन स्पष्टयति—दीप इति । दीपश् चक्षू-रूपाणां महा-भूत-ज्योतिर्-अंश-रूपत्वात् दीपादिकं ततः पृथक् । एवं धी-प्रभृतीनि ऋतात् परमात्मनो पृथक् स्युः । तथापि, यथा महा-भूत-ज्योतिर्-दीपादि-दोषेण न लिप्यते, तथा बुद्ध्य्-आदि-दोषेण परमात्मापि । तद्वद् अस्याप्य् अन्यतमत्वाद् इत्य् आह—अन्यतमाद् इति ॥२४॥ [परमात्म-सन्दर्भ ७३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र दृष्टान्तः—दीप-चक्षू-रूपाणां तेजो-विशेषाणां ते यथा तेजसः कारणाव्यतिरेकः, तथा धीः कर्ता, खानि इन्द्रियाणि करणानि, मात्रा विषयाः, ऋताद् ब्रह्मणः पृथक् न स्युः । यथा तेजः-कार्याणि दीप-चक्षू-रूपाणि तेजांस्य् एवोच्यन्ते, एवं ब्रह्म-कार्यं बुद्धीन्द्रिय-विषयादिकं ब्रह्मैवोच्यते इत्य् अर्थः ।

नन्व् एवं कार्य-कारणयोर् अभेदे कार्यस्यासत्यत्वे कारणस्याप्य् असत्यत्वं प्रसज्जेत, कारणस्यैव कार्य-रूपेण परिणतत्वात्, तत्राह—अन्यतमात्, कार्येभ्यः स्वरूपतोऽत्यन्त-व्यतिरिक्तात्, तस्य कारण-रूपायाः प्रकृतेर् अपि परत्वाद् इति भावः ॥२४॥

॥।

॥ १२.४.२५ ॥

बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते ।

माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यदा तु बुद्धेर् असत्त्वं, तदा तद्-अवस्थनां सुतराम् असत्त्वम् इत्य् आशयेनाह—बुद्धेर् इति । ननु विश्व-तैजस-प्राज्ञानाम् एता अवस्था न बुद्धेर् इत्य् आशण्ख्याह—माया-मात्रम् इति । इदं विश्व-तैजस-प्राज्ञ-रूपम् ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । यद् वा, जागरणं स्वप्नः सुषुप्तिश् च प्रत्यगात्मन्यधिष्ठाने बुद्धेर् एव परिणामस्तस्याश् च मायाकार्यत्वादिदं नानात्वं मायामात्रं नानात्वात्स्वप्ननानात्ववत् ॥२५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं धी-प्रभृतीनां परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा, तथापि तेभ्यो बहिरङ्ग-शक्तिमयेभ्योऽन्तरङ्ग-शक्ति-तटस्थ-शक्ति-विशिष्ट-परमात्मनो ऽन्यतमत्वेन तेषाम् अशुद्धत्व-व्यञ्जनया स-दोषत्वम् उक्त्वा, तेषु धी-प्रभृतिषु अध्यासं परित्याजयितुं तिसृषु धी-वृत्तिषु तावच् छुद्धस्यैव जीवस्य स-कारणम् अध्यासम् आह—बुद्धेर् इति । बुद्धि-वृत्ति-रूपं जागरणं स्वप्नः सुषुप्तिर् इति इदं प्रत्यग्-आत्मनि शुद्ध-जीवे विश्व-तैजस-प्राज्ञत्वाख्यं नानात्वं माया-मात्रं माया-कृताध्यास-मात्रेण जातम् इत्य् अर्थः ॥२५॥ [परमात्म-सन्दर्भ ७४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् तु विश्व-तैजस-प्राज्ञ इति जीवस्य नानात्वं, तत् तु बुद्धि-वृत्तीनां त्रितयत्वात्, तस्यापि त्रितयत्वं मिथ्यैवेत्य् आह—बुद्धेर् इति । जागर-स्वप्न-सुषुप्तयस् तिस्रो वृत्तयो बुद्धेर् एवेत्य् उच्यन्ते । अतस् तद्-अध्यासात् प्रत्यग्-आत्मनि जीवेऽपि विश्व-तैजस-प्राज्ञ-संज्ञाभिर् नानात्वं माया-मात्रं मिथ्यैवेत्य् अर्थः ॥२५॥

॥।

॥ १२.४.२६ ॥

यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च ।

ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रत्येकं विष्णु-रूपाणां भ्रान्ति-मात्रा भिदा मता ।

जगतश् चैव विष्णोश् च सत्यो भेदः सदैव तु ॥
यथाकाश-घनौ नित्यं भिन्नाव् एव परस्परम् ।
एवम् ईशो जगच् चैव भिन्नाव् एव परस्परम् ॥ इति ॥२५-२६॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आद्य्-अन्तवत्त्वाद् इत्य् अस्य हेतोर् असिद्धिम् आशङ्क्य सावयवत्वेन साधयति, यथेति । अवयवीति । यत् सावयवं तद् आद्य्-अन्त-वद् धटादि-वद् इत्य् अर्थः । अत उदयाप्ययाद् आद्य्-अन्त-वत्त्वाद् विश्वं सन्न भवतीत्य् अर्थः । यद् वा, पृथग् एवागमापायित्वाद् विश्वं मिथ्या । ब्रह्म तु तद् अवधित्वात् सत्यम् इत्य् अनेन साद्यते । दृष्टान्तस् तु पूर्वोक्त एव । यथा जल-धरा व्योम्नीति दृष्टान्तस् त्वागमापायि-तद्-अवधित्व-मात्रे, न तु मिथ्यात्वे ॥२६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **न कदाचिदनीदृशं जगद् इति मीमांसकमतेन विश्वस्याद्यन्तवत्त्वं नास्तीत्यभिप्रेत्याह—आद्यन्तवत्त्वाद् इति । असिद्धिं स्वरूपासिद्धिम् । इत्य् अर्थ इति—यथा घटादयः सावयवत्वादाद्यन्तवन्तस् तथेदमपीति भावः । अतः सावयवत्वात् । इत्य् अर्थ इति—आद्यन्तवद्रज्जुसर्पादेर्यथा सत्त्वं नास्ति तथास्यापीति भावः । ननु विश्वस्य ब्रह्मानन्यत्वे ब्रह्मणो नित्यत्वेन तस्यापि नित्यत्वं स्याद् इति चेत्तत्राह—यद्वेति । ब्रह्मणः पृथगिदं विश्वं मिथ्यैव, आगमापायित्वात् । तदवधित्वात् तदाश्रयत्वात् । पूर्वोक्त एव रज्जुसर्पवदित्येव । ननु यथा जलधरा इति दृष्टान्तसत्त्वे पूर्वोक्त दृष्टान्ताश्रयणं किमर्थं कृतं तत्राह—यथा जलधरो व्योम्नीत्यादि ॥२६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ततः परमात्मनि बुद्ध्य्-आदि-मयस्य जगतः सतोऽपि सम्पर्कः सुतरां नास्तीत्य् अर्थं चाह—यथेति । यथा व्योम्नि व्योम-कार्य-वायु-ज्योतिः-सलिल-पार्थिवांश-धूम-परिणता जलधराः स्वेषाम् एवावयविनाम् उदयाद् भवन्ति दृश्यन्ते, अप्ययान् न भवन्ति न दृश्यन्ते च, ते च तन् न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं विश्वम् इति योज्यम्।8 ततः सूक्ष्म-रूपेण तस्य स्थितिर् अस्त्य् एव जगच्-छक्ति-विशिष्ट-कारणास्तित्वात् इत्थम् एवोक्तं सतोऽभिव्यञ्जकः काल [भा।पु। ११.२४.१९] इति ॥२६॥ [परमात्म-सन्दर्भ ७५]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिणाम-वादे कार्य-कारणाव्यतिरेको दर्शितः । अथारम्भ-वादे विश्वस्याद्य्-अन्तरत्वं तत्-कारणस्य परमेश्वरस्य सत्यत्वं च क्रमेण दर्शयति—यथेति द्वाभ्याम् । न भवन्ति नश्यन्ति, तथैव ब्रह्मणीदं विश्वं भवति, न भवति च । अत्र व्योम्नीति दृष्टान्तेन परमात्मनो निर्लेपता दर्शिता । अवयवीति यत् सावयवं तद्-आद्य्-अन्तवत् घटादिवद् इत्य् अर्थः । अत उदयाप्ययात् आद्य्-अन्तवद् विश्वं न सर्वदा सत्य म् इत्य् अर्थः ॥२६॥

॥।

॥ १२.४.२७ ॥

सत्यं9** ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह ।**

विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥10

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अवयव्य्-अवयवाभेदात् कोट्य्-अंशो भेद ईरितः ।

सोऽपि भेदो न चाभेदात् पृथग् एव प्रवर्तते ॥
अवयव्य्-अवयवानां च कार्य-कारण-वस्तूनाम् ।
एक एव नियन्तासौ हरिर् नारायणः परः ॥ इति च ॥२७॥11

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **“अन्यतमाद् ऋतात्” इति प्रतिज्ञात-कारणस्य सत्यत्वम् उपपादयति—सत्यम् इति । अवयवः कारणं प्रोक्तः, वाचारंभणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४] इत्य्-आदि-श्रुतिभिः । अत्र युक्तिम् अपि दर्शयति—विनेति । अङ्ग हे राजन् ! हि यस्माद् अर्थेनावयविना पृथग् एवावयवाः प्रतीयेरन् । यथा पटस्यावयवास् तन्तवः पटात् पृथक् प्रतीयन्ते तद्वद् इति ॥२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्रावयवसत्यत्वे । उक्तार्थग्रहण उत्साहवृद्धये सम्बोधयति—हे अङ्गेति । गुरुप्रीतिवाक्यश्रुतेः स्वयमेवार्थः स्फुरतीति भावः । पटं विना पृथक्प्रतीतेः सत्त्वम् एव तन्तूनां, तन्तून्विना पटस्य पृथगप्रतीतेरसत्त्वामेति भावः ॥२७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति—सत्यम् इति । सर्वेषाम् अवयविनां स्थूल-वस्तूनाम् अवयवः कारणं सत्यं, सत्यो व्यभिचार-रहितः प्रोक्तः । लोके यथा दर्शनाद् इत्य् आह—विना इति । अर्थेन स्थूल-रूपेण पटेनापि विना ॥२७॥_ _[परमात्म-सन्दर्भ ७६]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, सर्वेषाम् अवयविनाम् अवयवः कारणं सत्यं, लोके तथा दर्शनाद् इत्य् आह—विनेति । अङ्ग, हे राजन्, हि यस्मात्, अर्थेनावयविना विनापि पृथग् एवावयवाः प्रतीयन्ते, यथा पटस्यावयवास् तन्तवः पटात् पृथक् प्रतीयन्ते तद्वत् । अत्र कार्य-कारण-वस्त्व्-ऐक्यम् अदर्शनं पट-तन्तुवद् इति सप्तमोक्तेः । सिषाधयिषितं ब्रह्मैक्यं तु लभ्यत एव ॥२७॥

॥।

॥ १२.४.२८ ॥

यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः ।

अन्योऽन्यापाश्रयात् सर्वम् आद्य्-अन्तवद् अवस्तु यत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु कार्याभावे कारणत्वं ब्रह्मणः कुतो घटेत ? सत्यम्, तद् अपि नातीव सत्यम् इत्य् आह—यद् इति । सामान्यं कारणम्, विशेषः कार्यम्, तद्-रूपेणान्योऽन्यापाश्रयात् परस्परापेक्षत्वेन निरूपणासहत्वाद् इत्य् अर्थः । अतः कारणत्वम् अवधित्वं व्यापकत्वम् इत्य्-आदिकम् अपि यत् परापेक्षत्वाद् आद्य्-अन्तवत्, तत् सर्वम् अवस्त्व् इत्य् अर्थः ।

यद् वा, तत्रैव हेत्व्-अन्तरम् एतत् । यद् उपलभ्येत स भ्रमः, सामान्य-विशेष-रूपत्वात् स्वप्नवत् । अन्योन्यापाश्रयात् इतीदम् अपि हेत्व्-अन्तरं गुण-गुणि-विशेषण-विशेष्य-व्याप्य-व्यापकत्वादि-रूपेण परस्पराधीन-सिद्धित्वात् । तथा-भूत-स्वप्नवद् इति निगमनम् । अतो यद् आद्य्-अन्तवत् तत् सर्वम् अवस्त्व् इति ॥२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । इत्य् अर्थ इति—अन्योन्यसिद्धावन्योन्यापेक्षणमन्योन्याश्रयः, स च दोष एव । तथापि—कारणत्वं हि कार्यत्वनिरूप्यं, कस्य कारणमित्यनुयोगविषयत्वात्, एवं कार्यत्वम् अपि कारणत्वमनिरूप्यं कस्य कार्यमित्यनुयोगगोचरत्वादतोऽनयोः पौर्वापर्यनिर्णयाभावाद्दोषत्वमेवेति भावः । उक्तमर्थमन्यत्राप्यतिदिशति—अतः कारणत्वमित्य्-आदि । इत्य् अर्थ इति—परस्य कार्यावधेयव्याप्यस्यापेक्षावत्त्वात्कारणत्वादीनाम् अपि पूर्वोक्तदोषवत्त्वम् इति भावः । आदिना प्रकाशकत्वादिग्रहः । अस्तु कार्यत्वादिभावोपि मिथ्याकारणत्वादिभावस्य मिथ्यात्वे ब्रह्मणोऽपि मिथ्यात्वं प्रसज्येत तत्राह—यद्वेति । तत्रैव विश्वमिथ्यात्व एव । तथाभूतस्वप्नवत् । निद्रानिरूपितस्वाप्नवत् यथा स्वप्ननिरूप्या निद्रा, निद्रानिरूप्यः स्वप्नः, उभावेतावसत्यौ तथेदमपीति निगमनं दृष्टान्तः । उपसंहरति—अथ इति,— उक्तहेतुसमूहात् ॥२८॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तस्मिन् कार्यास्तित्वम् अपि व्यतिरेकेण प्रतिपादयति—यद् इति । अयम् अर्थः—यद्य् एवम् उच्यते, पूर्वं सूक्ष्माकारेणापि जगन् नासीत्, किन्तु सामान्यं केवलं शुद्धं ब्रह्मैवासीत्, तद् एव शक्त्या निमित्त-भूतया विशेषाकारेण जगद्-रूपेण परिणतम् इति तद् असत् । यतः यद् एव सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमो विवर्त-वाद एव । तत्र हि शुद्धं ब्रह्मैवाज्ञान-रूपया शक्त्या जगत्तया विवृतम् इति मतं न चास्माकं तद्-अभ्युपपत्तिः, परिणाम-वादस्य सत्-कार्यता-पूर्वकत्वाद् इत्य् अर्थः ।

नन्व् अपूर्वम् एव कार्यम् आरम्भ-विवर्त-वादिनाम् इव युष्माकम् अपि ज्ञायतां ? तत्राह— यद् आद्य्-अन्तवद् अपूर्वं कार्यं, तत् पुनर् अवस्तु निरूपणासहम् इत्य् अर्थः । तत्र हेतुः—अन्योन्यापश्रयात् । यावत् कार्यं न जायते, तावत् कारणत्वं मृच्-छुक्त्य्-आदेर् न सिध्यति, कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर-सापेक्षत्व-दोषात् । ततः कारणत्व-सिद्धये कार्य-शक्तिस् तत्रावश्यम् अभ्युपगन्तव्या । सा च कार्य-सूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति । तथापि स्थूल-रूपतापादकत्वान् मृद्-आदेः कारणत्वम् अपि सिध्यतीति भावः ॥२८॥_ _[परमात्म-सन्दर्भ ७७-७८]

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विवर्त-वादे तु ब्रह्म-कार्यं जगद् असत्यं, यथा तथा ब्रह्मणः कारणत्वादिकम् अप्य् असत्यम् इत्य् आह—यद् इति । सामान्यं कारणं, विशेषः कार्यं, ताभ्याम्ताभ्यां यद् उपलभ्यते स भ्रमः कृतः । अन्योन्यापाश्रयात् +पूर्वापेक्षत्वेन निरूपणासहत्वाद् इत्य् अर्थः ।

+अथवायथाआथवायथा रज्जूर् एवाज्ञानेन सर्पत्वेन विवर्तते, तत्र रज्जू-कारणं, सर्पः कार्यः, स तु मिथ्यैव । तथैव सामान्यं ब्रह्मैव अज्ञानेन जगद्-रूपतत्त्व्रूपतया विवृत्तं, तत्र जगतः कार्यस्याभावे तद्-अपेक्षतत्त्वपेक्षतया सिद्धं ब्रह्मणः कुतः कारणत्वम् इति ॥२८॥

॥।

॥ १२.४.२९ ॥

विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा ।

न निरूप्योऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवम् अनेकैर् हेतुभिः प्रपञ्चस्यासत्त्वं साधितम् । तत्र शङ्का, ननु प्रपञ्चस्यापि प्रकाशमानत्वाद् आत्म-वत् सत्त्वं किं न स्यात् ? इति तत्राह—विकार इति ख्यायमानः प्रकाशमानोऽपि विकारः प्रपञ्चः प्रत्यग्-आत्म-प्रकाशं विनाऽणु-मात्रोऽपि न निरूप्योऽस्ति । तं विना निरूप्यः स्याच् चेत् तर्हि सोऽपि चित्-समः स्यत्, चिद्-रूपेणात्मना समः स्व-प्रकाशो भवेत् । तथा च सति सोऽप्य् आत्मवत् स्यात् । एक-रूपः स्याद् इत्य् अर्थः ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र प्रपञ्चासत्यत्वे । शङ्काक्षेपः । ताम् आह—नन्व् इति । ख्यायत इति ख्यायमानः, ख्यातेः कर्मणि शानच् । इत्य् अर्थ इति—न ह्यचितः प्रकाशश्चितं विहाय कदापि भवत्यतश्चिदेव तत्तदाकारेण प्रकाशतेऽचितः पृथक्सत्तानङ्गीकारात् सर्वं खल्विदं ब्रह्म - नेह नानास्ति किञ्चन इत्य्-आदिश्रुतेर् इति भावः ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं स्वाभाविक-शक्ति-मयम् एव परमात्मनो जगद् इत्य् उपसंहरति—विकार इति । यद्यपि ख्यायमामनः प्रकाशमान एव, तथापि स्वल्पोऽपि विकारः प्रत्यग्-आत्मानं परमात्मानं विना तद्-व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति । तद् उक्तं तद्-अनन्यत्व-विवरण एव । यदि च तं विनापि स्यात्, तदा चित्-समः स्याच् चिद्-रूपेण समः स्व-प्रकाश एवाभविष्यत् । आत्मवत् परमात्मवन् नित्यैकावस्थश् चाभविष्यत् ॥_ _[२९॥ (परमात्म-सन्दर्भ ७९])


———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किं च, विकारः ख्यायमानः विकारत्वेन प्रसिद्धिम् आनयं प्रपञ्चम् । प्रत्यग्-आत्मानं विना अणुर् अपि न निरूपणीयः । किन्तु सर्वः परमात्मैव, परमात्मन्य् एव प्रपञ्च आरोपितः । यथा मरीचिकायाः जलत्वेन प्रसिद्धं वस्तु तेजो विना अणु-मात्रम् अपि न निरूप्यम् । किन्तु सर्वं तेज एव तेजस्य् एव जलत्वम् आरोप्यत इत्य् अर्थः ।

ननु च क्वचिद् विकारत्वेन प्रसिद्धिमान् अपि पदार्थश् चिद् एव सत्य एवेक्ष्यते, यथा भक्तिस् तत्-करणाधिकरण-कर्तादिर् भगवत्-पुरी च । तथा हि—लक्षणं भक्ति-योगस्य निर्गुणस्येत्य् उदाहृतम् [भा।पु। ३.२९.१२] इति, मत्-सेवायां तु निर्गुणम् [भा।पु। ११.२५.२७] इति, मन्-निकेतं तु निर्गुणं [भा।पु। ११.२५.२५] इति, निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इति, मन्-निष्ठं निर्गुणं स्मृतम् [भा।पु। ११.२५.२४] इत्य्- आदि-भगवद्-उक्तेर् भक्त्य्-उपकरणी-भूतः पदार्थ-मात्र एव निर्गुणः, तथा, तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी [गो।ता।उ। २.२६] इति, सर्वात्मैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७८] इति च गोपाल-तापिनी-श्रुतेः । भगवल्-लोको भक्ति-योगश् च निर्गुण एवातः परम् असत्य एवेति तत्राह—स्याच् चिद् इति । यदि निर्गुणत्वेन निरूप्यो भवति, तर्हि सोऽपिसोऽपि चित्-समः । सीता सा सीतया समेतिवद् अभेदे उपमा चिद् एवेत्य् अर्थः । आत्मवत् परमात्मैव निर्गुणः परमात्म-विलासत्वात् परमात्मैव स एक एवेत्य् अर्थः ॥२९॥

॥।

॥ १२.४.३० ॥

न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते ।

नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

महाकाशो बहिःस्थश् च घटाद्य्-अन्त-स्थ एव च ।

द्वेधा समुदितोऽन्यौ च द्वाव् आकाशौ प्रकीर्तितौ ॥
घट-रूपस् तद् अन्यश् च महाकाशात् परो लघुः ।
महाकाशवद् एवात्र परमात्मा सनातनः ॥
घटान्तस्थ-महाकाश-प्रतिमोऽन्तर्गतो हरिः ।
घटस्थान्तर्गताकाशो महाकाशात् परो मतः ॥
तद्वद् देवादयः सर्वे जीवा मुक्त्व्य्-उपयोगिनः ।
तमोगाश् चैव ये सर्वे घट-रूप-खवन् नराः ॥ इति तत्त्व-संहितायाम् ॥३०॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुतः ? इत्य् अत आह—नहीति । ननु सत्यस्याप्य् आत्मनो जीव-ब्रह्म-रूपं नानात्वम् अस्त्य् एव तत्राह—यद्य् एवं नानात्वं मन्यते, तर्ह्य् अविद्वान् । कथं तर्हि तयोर् भेद-व्यवहार उपाधि-कृतः ? इत्य् आह—नानात्वम् इति । तत्र छिद्रयोर् घटाकाश-महाकाशयोर् इवेति परिच्छेदापरिच्छेदे दृष्टान्तः । ज्योतिषोर् आकाश-जलस्ययोः सूर्ययोर् इवेत्य् उपाधि-कृत-विकार-सद्-असद्-भावे । वातयोर् बाह्य-शरीर-स्थ-वाय्वोर् इवेति क्रिया-भेदे ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र हेतुमाशङ्क्याह—कुत इति । अत्राक्षिपति—नन्व् इति । तयोर्जीवब्रह्मणोः । तत्र छिद्रादिदृष्टान्तेषु । परिच्छेदापरिच्छेदेऽल्पानल्पत्वे ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ननु यदि परमात्मानं विना विकारो नास्ति, तर्हि परमात्मनः सोपाधित्वे निरुपाधित्वं न सिध्यति । तस्मात् सोपाधेर् निरुपाधिर् अन्य एव किम् ? इत्य् अत्राह—नहीति । सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते तर्ह्य् अविद्वान्, यतस् तस्य निरुपाधित्व-सोपाधित्व-लक्षणं नानात्वं महाकाश-घटाकाशयोर् यद्वत्, तद्वद् गृहाङ्गन-गत-सर्व-व्यापि-तेजसोर् इव, बाह्य-शरीर-वाय्वोर् इव चेति ॥३०॥ [परमात्म-सन्दर्भ ८०]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु केन प्रकारेणैक्यं मन्तव्यम् ? तत्राह—नहीति । सत्यस्य परम-परम-सत्यस्य चिद्-वस्तुनो नानात्वं नैवास्ति, तद् अपि यदि नानात्वं मन्यते, तर्ह्य् अविद्वान्, यथा छिद्रयोर् घट-द्वये इदम् एकम् आकाशम् इदम् अपरम् आकाशम् इति, एवं ज्योतिषोर् दीप-द्वय-गतयोर् वा तयोर् देह-द्वय-गतयोः प्राणयोर् इति ॥३०॥

॥।

॥ १२.४.३१ ॥

यथा हिरण्यं बहुधा समीयते

नृभिः क्रियाभिर् व्यवहार-वर्त्मसु ।

एवं वचोभिर् भगवान् अधोक्षजो

व्याख्यायते लौकिक-वैदिकैर् जनैः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ब्रह्मण एव प्रपञ्च-व्यवहारालम्बनत्वं दृष्टान्तेन स्पष्टयति—यथेति । क्रियाभिस् तत्-तद्-रचना-भेदैर् बहुधा कटक-कूण्डलादि-रूपेण । लौकिक-वैदिकैर् वचोभिः । जनैर् अहङ्कारोपहितैह् ॥३१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **क्रियाभिस्तत्तद्रचनाभेदैः । भगवान् बहुधाकाशादिरूपेण ब्रह्मादिरूपेण च व्याख्यायते प्रकाश्यते—एष ब्रह्मा एष शिव इत्य्-आदिना वैदिकैश्व शास्त्रधिया लौकिकैश् च शास्त्रज्ञानाभावात् घटोऽयं पटोयमित्य्-आदिना स एव प्रकाश्यत इति भावः ॥३१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यस्माद् विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा । न निरूप्योऽस्त्य् अणुर् अपि_ [भा।पु। १२.४.२९, §७९] तस्मात् सर्व-शब्द-वाच्योऽपि स एवेति स-दृष्टान्तम् आह—यथा हिरण्यम् इति । क्रियाभिस् तत्-तद्-रचना-भेदैर् बहुधा कटक-कुण्डादि-रूपेण यथा सुवर्णम् एव वचोभिस् तत्-तन्-नामभिः प्रतीयते, तथा लौकिक-वैदिकैः सर्वैर् एव वचोभिर् भगवान् एव व्याख्यायते । तद् उक्तम्—सर्व-नामाभिधेयश् च सर्व-वेदेडितश् च सः इति स्कान्दे ।३१॥ _[परमात्म-सन्दर्भ ८१]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सृष्टि-समयेऽपि प्रपञ्चस्य नाना-व्यवहारालम्बनत्वेन दृष्टेऽप्य् एकं ब्रह्मैव ज्ञानी जानीयाद् इत्य् आह—यथैवेति । क्रियाभिस् तत्-तद्-रचना-भेदैः बहुधा कटक-कुण्डलादि-रूपेण, एवं लौकिक-वेदिकैर् वचोभिः ॥३१॥

॥।

॥ १२.४.३२ ॥

यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो

ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः ।

एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो

ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्व् अहङ्कारस्य कथं ब्रह्म-स्वरूपावरणेन भेद-व्यवहार-हेतुत्वम्, तस्य स्व-कारण-भूत-ब्रह्मावरकत्वासंभवाद् आवरणे वा, स्वस्यापि प्रकाशासंभवात् ? इत्य् आशङ्क्य स-दृष्टान्तम् आह—यथा इति । अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति ।

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥** **[मनु ३.७६]

इत्य्-आदि-वचनात् । तस्माद् अर्क-प्रभवः, अर्केणैव दर्शितः प्रकाशितश् च, तमः स्वरूप-भूतार्क-दर्शन-प्रतिबन्धको भवति । अहम् अहङ्कारो ब्रह्म-गुणो ब्रह्म-कार्य-भूत इत्य् अर्थः, तद्-ईक्षितस् तेनैव प्रकाशितश् च, आत्मनो जीवस्य आत्म-बन्धनो ब्रह्म-स्वरूप-दर्शन-प्रतिबन्धको भवति॥३२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । ब्रह्म-स्वरूप-दर्शन-प्रतिबन्धकः स्वाध्यासेन बन्ध-भ्रमापादको भवति ॥३२॥

यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो

ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः ।

एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो

ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं जगतः परमात्म-स्वाभाविक-शक्ति-मयत्वम् उक्त्वा, तेन च जीव-कर्तृकेन ज्ञानेन तन्-नाशनासामर्थ्यं व्यज्य, मोक्षार्थं तद्-अध्यास-परित्यागम् उपदेष्टुं परमात्म-शक्ति-मयस्यापि तस्योपाध्य्-अध्यासात्मकस्याहङ्कारस्य जीव-स्वरूप-प्रकाशावरकत्व-रूपं दोषा स-दृष्टान्तम् उपपादयति—यथा घन इति ।

अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति,

अग्नौ प्रास्ताहुतिः सम्यग्-आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ [मनु ३.७६]

इत्य्-आदि-वचनात् । अयम् अर्थः—यथार्क-प्रभवोर्केणैव दर्शितः प्रकाशितश् च घनो निविडो मेघोऽर्कांश-भूतस्य चक्षुषस् तमो दिवि भूमौ च महान्धकार-रूपो भवति, एवम् अहं प्राकृताहङ्कारो ब्रह्म-गुणः परमात्म-शक्ति-कार्य-भूतस् तद्-ईक्षितस् तेनैव परमात्मना प्रकाशितश् च ब्रह्मांशकस्य तटस्थ-शक्ति-रूपत्वात् परमात्मनो यो हीनांशस् तस्यात्मनो जीवस्य आत्म-बन्धनः स्वरूप-प्रकाशावरको भवति ।_।३२॥ _[परमात्म-सन्दर्भ ८२]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यद्य् एवं सर्वम् एव ब्रह्म-कार्यत्वाद् एकं ब्रह्मैव, ब्रह्म-कार्येणाहङ्कारेणासत्येन ब्रह्मांश-भूताश् चित्कणाः सत्याः जीवाः कृत्? आव्रियन्ते । ते वा तद्-आवृताः कृत्? मुह्यन्तीति तत्र स-दृष्टान्तम् आह—यथा इति । अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति—

अग्नौ प्रास्ताहुतिः सम्यग्-आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ [मनु ३.७६] इत्य्-आदि-वचनात् ।

तस्माद् अर्क-प्रभव एव घनः अर्केणैव दर्शितः प्रकाशितश् च । अथ अर्कांशु-भूतस्य चक्षुषस् तम-आवरकः । एवम् एवाहङ्कार आत्मनो जीवस्य आत्म-बन्धनः आत्मना स्वेनैव जीवं बध्नातीत्य् अर्थः ॥३२॥

॥।

॥ १२.४.३३ ॥

घनो यदार्क-प्रभवो विदीर्यते

चक्षुः स्वरूपं रविम् ईक्षते तदा ।

यदा ह्य् अहङ्कार उपाधिर् आत्मनो

जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अत एवाहङ्कार-नाशे स्वरूप-दर्शनं भवतीति, तेनैव दृष्टान्तेनाह—घन इति आत्मन उपाधिःजिज्ञासया विचारेण । तर्हि तदा अनुस्मरेत्, ब्रह्माहम् इति पश्यतीत्य् अर्थः ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतोऽहङ्कार एव प्रतिबन्धकोस्ति अतो हेतोर् एव । इत्य् अर्थ इति—प्रतिबन्धकनाशे स्वत एव स्वरूपज्ञानं भवतीति भावः ॥३३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **स चाध्यास-परित्यागः स्वतो न भवति, किन्तु परमात्म-जिज्ञासया तत्-प्रभावेनैवेति वक्तुं पूर्ववद् एव दृष्टान्त-परिपाटीम् आह—घन इति ।

घनो यदार्क-प्रभवो विदीर्यते इति दृष्टान्तांशे तद्-विदारणस्य न चक्षुः-शक्ति-साध्यत्वम्, किन्तु सूर्य-प्रभाव-साध्यत्वम् इति व्यक्तम् । अनेन दार्ष्टान्तिकेऽपि **आत्मनः **परमात्मनो जिज्ञासया जातेन तत्-प्रसादेन अहङ्कारो नश्यति पलायते इत्य् अत्रांशे पुरुष-ज्ञान-साध्यत्वम् अहङ्कार-नाशस्य खण्डितम् । अतो विवर्त-वादो नाभ्युपगतः । अत्र च उपाधिर् इति विशेषणेन स्वरूप-भूताहङ्कारस् त्व् अन्य एवेति स्पष्टीभूतम् ।

एवं यथा दृष्टान्ते घन-मय-महान्धकारावरणाभावात् तत्-प्रभावेण योग्यता-लाभाच् च चक्षुः कर्तृ-भूतं स्वरूपं कर्म-भूतम् ईक्षते, स्व-स्वरूप-प्रकाशम् अस्तित्वेन जानाति, स्व-शक्ति-प्राकट्यं लभत इत्य् अर्थः । कदाचित् तद्-ईक्षणोन्मुखः सन् रविं चेक्षते, तथा दार्ष्टान्तिकेऽप्य् अनुस्मरेत्, स्मर्तुम्12 अनुसन्धातुं योग्यो भवति ।, आत्मानं चेति शेषः ।_।३३॥ _[परमात्म-सन्दर्भ ८३]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यैवाहङ्कारस्य नाशे सत्यावरण-भङ्गो ब्रह्म-स्वरूप-दर्शनं भवतीति तेनैव दृष्टान्तेनाह—घन इति । विदीर्यते विनश्यति, तदा चक्षुः कर्तृत्वं रूपं रविम् ईक्षते इति मनुष्यादेर् एवे चक्षुर्, न तु उलूकादेश् चक्षू रविम् ईक्षते । यथा भक्तिमताम् एव ज्ञानिनां, न तु भक्तिम् अकुर्वताम् इति, भक्त्याहम् एकया ग्राह्य [भा।पु। ११.१४.२१] इत्य्-आद्य्-उक्तेः । अनुस्मरेत् ब्रह्मानुभवति ॥३३॥

॥।

॥ १२.४.३४ ॥

यदैवम् एतेन विवेक-हेतिना

माया-मयाहङ्करणात्म-बन्धनम् ।

छित्त्वाच्युतात्मानुभवोऽवतिष्ठते

तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सोऽयम् आत्यन्तिकः प्रलय इत्य् उपसंहरति—यदैवम् इति । विवेक-हेतिना ज्ञान-शस्त्रेण । अहङ्करणम् एवात्म-बन्धनम्अच्युतं परिपूर्णम् आत्मानम् अनुभवतीति तथा॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जिज्ञासयाहङ्कारबाधप्रकारम् आह—यदैवं गुरोर्महावाक्यश्रवणोत्तरं श्रूयमाणेशजीवाभेदस्य विरोधादनुपपत्तेरेतेन मायाविद्याधुपाधिविवेकरूपहेतिना भागत्यागलक्षणतद्बाधकरूपखड्गेन तयोर्मायाहङ्करणोपाधिरूपमात्मबन्धनं छित्त्वाच्युतो हरिरेवात्मा मत्स्वरूपमित्यनुभवोऽपरोक्षबोधो यस्य तथाभूतः शुद्धनिरुपहितस्वरूपेणावतिष्ठते, तमात्यन्तिकमङ्गसम्प्लवं स्थूलसूक्ष्मकारणाङ्गत्रयप्रलयमाहुः । अङ्गेति सम्बोधनम् असङ्करणमात्मावरकमहङ्कारम् । अङ्गेति संयुद्धिः पूर्ववद् इति विश्वं ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (प्रीति-सन्दर्भ १): अच्युत्आख्ये** आत्मनि** परमात्मनि अनुभवो यस्य, तथाभूतः सन् अवतिष्ठते यत्, तम् आत्यन्तिकं सम्प्लवं मुक्तिम् आहुर् इत्य् अर्थः ॥३४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **निगमयति—यदैवेति । एतेन पूर्वोक्त-विवेक-शस्त्रेण मायामय- इति विशेषणं स्वरूप-भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्व-स्वरूपेणावस्थितो भवति । न केवलम् एतावद् एव, अच्युतात्मानुभवः, अच्युतेऽच्युत-नाम्न्य् आत्मनि परमात्मन्य् अनुभवो यस्य तथाभूत एव सन्न् अवतिष्ठते ॥३४॥ [परमात्म-सन्दर्भ ८४]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहङ्कार-विदारणे भक्ति-मिश्रं ज्ञानं खलु साधनम् इत्य् आह—यदेति । विवेक-हेतिना ज्ञान-शस्त्रेण अच्युते भगवति आत्मनो मनसोऽनुभवः सुदृढ-ध्यानं यस्य तथाभूतः सन्न् अवतिष्ठते

यद् वा, एवम् अहङ्कारं छित्त्वा स्थितस्य योगिनः अच्त्युतात्मानुभवः पूर्ण-ब्रह्मानुभवः अवतिष्ठते स्थिरीभवति, यस् तम् आत्यन्तिकं सम्प्लवं प्रलयम् आहुः ॥३४॥

॥।

॥ १२.४.३५ ॥

नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्-तप ।

उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नित्य-प्रलयम् आह—नित्यदेति ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

॥।

॥ १२.४.३६ ॥

काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा ।

परिणामिनाम् अवस्थास् ता जन्म-प्रलय-हेतवः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कुतः ? इत्य् अत आह—कालेति । परिणामिना नदी-प्रवाह-प्रदीप-ज्वालादीनां या उच्च-नीचावस्थास् ताः काल-रूप-स्रोतसो वेगेनाशु ह्रियमाणस्य देहादेर् दृश्यमानास् ता एव नित्यदा जन्म-प्रलय-हेतवो भवन्ति । देहः प्रतिक्षणं प्रध्वंसी, प्रतिक्षणम् अवस्थाभेदास्पदत्वात्, प्रदीपादि-वद् इत्य् अनुमानम् ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे परन्तपेति—शत्रुतापकस्य तवाज्ञानतापकताप्यस्त्येवेति भावः ॥३५-३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुतः ? इत्य् अत आह—कालेति । काल-रूप-स्रोतसो वेगेनाशु ह्रियमाणस्य एक-वचनम् आर्षं ह्रियमाणानाम् इत्य् अर्थः । परिणामिनां देहादीनाम् अवस्था बाल्य-पौगण्डाद्या जन्म-प्रलय-हेतवः जन्म-प्रलययोर् अनुमापकाः देहाद्याः प्रतिक्षणं जन्म-प्रलयवन्तः आस्था-भेदानां विद्यमानत्वात् प्रदीपादिवद् इत्य् अनुमानम् ॥३६॥

॥।

॥ १२.४.३७ ॥

अनाद्य्-अन्तवतानेन कालेनेश्वर-मूर्तिना ।

अवस्था नैव दृश्यन्ते वियति ज्योतिषाम् इव ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु यदि प्रतिक्षणम् अवस्था भवन्ति तर्हि किं न दृष्यन्ते, अतो हेतुर् असिद्ध इत्य् आशङ्क्याह, अनाद्य्-अन्तवता कालेन जायमाना अवस्था नैव लक्ष्यन्ते, आकाशे गच्छतां ज्योतिषां चन्द्रादीनां गमनावस्थाविशेषा यथा नैव लक्ष्यन्ते तद्वत् । अतो यथा तेषां प्रदेशान्तर-प्राप्त्या प्रतिक्षणं गत्य्-अवस्थाः कल्प्यन्ते तद्वद् अत्रापि बाल्य-तारुण्यादि-दर्शनेन मध्य-वर्तिन्योऽवस्थाः कल्प्यन्त इति न हेतुर् असिद्ध इत्य् अर्थः ॥३७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । अतो दर्शनाभावात् । हेतुः प्रतिक्षणमवस्थाभेदास्पदत्वाद् इति हेतुः । अतो दर्शनाभावात । तेषां ज्योतिषाम् । इत्य् अर्थ इति—हेतुः पक्षेऽस्त्येवेति भावः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **यदि प्रतिक्षणम् अवस्था भवन्ति, तर्हि किं न दृष्यन्ते ? अतो हेतुर् असिद्ध इत्य् आशङ्क्याह—अनाद्य्-अन्तवता कालेन प्रतिक्षणं जन्या नाश्याश् चावस्था नैव लक्ष्यन्ते, यथा वियत्य् आकाशे गच्छतां ज्योतिषां चन्द्रादीनां गमनावस्था-विशेषा नैव लक्ष्यन्ते, तद्वत् । अतो यथा तेषां देशान्तर-प्राप्त्या प्रतिक्षणं गत्य्-अवस्थाः कल्प्यन्ते, तद्वद् अत्रापि बाल्य-तारुण्यादि-दर्शनेन तन्-मध्य-वर्तिन्यः सूक्ष्मा अप्य् अवस्थाः कल्प्यन्त इति न हेतुर् असिद्ध इत्य् अर्थः ॥३७॥

॥।

॥ १२.४.३८ ॥

नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः ।

आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **उपसंहरति—नित्य इति ॥३८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कालस्य च गति ब्रूहीति प्रश्नस्योत्तरमुपसंहरनाह—कालस्येति ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ १२.४.३९ ॥

एताः कुरु-श्रेष्ठ जगद्-विधातुर्

नारायणस्याखिल-सत्त्व-धाम्नः ।

लीला-कथास् ते कथिताः समासतः

कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईशः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुराणार्थम् उपसंहरति—एता इति । लीला-विषयाः कथा अजो ब्रह्मापि कार्त्स्न्येनाभिधातुं नेशः ॥३९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरुश्रेष्ठेति—अन्तावस्थायां श्री-भागवतश्रवणत्त्वं सर्वेभ्यः स्वकुलमुख्येभ्यः श्रेष्ठोसीति भावः। किं च—भगवल्लीला अस्मदादिलीलावद्रागपूर्विका न किन्तु योगमायैव । तथा च श्रुतिः—

यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रूवाणो जनेषु मायेत्सा ते या नियुद्धान्याहुर्नाद्यशत्रुं ननु पुरा विवित्से । इति ।

अस्या अर्थः—हे इन्द्र परमेश्वर यत् तन्वा मत्स्यकूर्मादिशरीरेणाचरः चरणं कृतवानसि वावृधानः ववृधे दैत्यादीन्हत्वा महत्त्वं च प्राप्तवानसि लोके बलानि भूमेरुद्धरणादीनि जनेषु प्रब्रुवाणः ख्यापितवानभूः सा सर्वा ते तव मायेत् मायैव सा का या नियुद्धान्याहुः देवासुरसंग्रामाः सर्वे मायैव । कुत एतत्—यस्त्वं ननु निश्चितम् अद्य वर्तमानकाले पुरा वा शत्रुं नाशनीयं न विवित्से लभसे, सर्वस्यान्तरात्मकत्वात्कालत्रयेऽपि तत्र शत्रुर्नास्तोति तस्मात्स्वानानुवादवदेतत्पुराणं भगवल्लीलामनुबदतीति मन्त्रार्थः ॥३९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एताः कुरु-श्रेष्ठेत्य्-आदि । अखिल-सत्त्व-धाम्नः सर्व-प्राणि-निलयस्य जगद्-विधातुर् लीलास् ते तुभ्यं कथिताः, अजोऽपि ब्रह्मापि कार्त्स्न्येन याः कथयितुम् न शक्नोति । अतः श्री-कृष्णस्य गोकुलादिष्व् अन्या अन्या अपि या लीला ऊहनीयाः ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-कथा उपसंहरति—एता इति ॥३९॥

॥।

॥ १२.४.४० ॥

संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्

नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

लीला-कथा-रस-निषेवनम् अन्तरेण

पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु यदि साकल्येनाभिधातुं न शक्यन्ते, तर्हि किं तद्-अभिधानेन ? तत्राह—संसारेति । विविधं दुःखम् एव दवो दावानलः, तेनार्दितस्य पीडितस्य, अत उत्तितीर्षोः पुंसो भगवतो या लीलाह्, तासां कथाः, तासां रसह्, तन्-निषेवणम् अन्तरेणान्यः प्लवस् तरण-साधनं न भवेत्, उपायान्तरासंभवात् । तत्-कथा-श्रवणम् एव यथा-शक्ति निषेव्यम् इत्य् अर्थः ॥४०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुनर् आक्षिपति—नन्व् इति । इत्य् अर्थ इति । यथा महद्-अनेकान्न-राशितो यत् किञ्चित् तद्-अन्नैक-देशाशनेनान् निवृत्तिर् भवति तथा लील-कथैक-देशोऽपि संसार-दुःख-निवर्तकोऽतः सोऽवश्यं सेव्य इति भावः ।

विश्वनाथस् तु—यत् प्रथम-स्कन्ध-पृष्टं म्रियमाणस्य किं कृत्यं [भा।पु। १.१९.३७] तद्-उत्तरम् आह—संसार- इति । दुःसह-क्षुधायां भोजनम् अन्तरेण नोपशम इतिवन् नान्यो ज्ञानादिकः प्लव उत्तरण-साधनं दुःसह-क्षुधायाः स्रक्-चन्दनादिर् इव, तेनैतद्-उत्तराध्याये मयाप्य् उपदेष्टव्यः । महा-रहस्य-भक्ति-रत्न-च्छादनार्थं यज्-ज्ञानं तत्त्वयाप्यत्वेन न प्रत्येतव्यम् इति भावः । रस-शब्देन लीला-कथानाम् अमृतत्वम् आरोपितम् । अत एव विविध-दुःख-महा-रोगाणां दव-महा-ज्वालास् तत्-पीडितस्य सद्य एवैकम् अमृतं विना नान्यद् औषधं प्रयोक्तव्यम् इति भावः ॥४०॥

———————————————————————————————————————

कैवल्य-दीपिका : अन्तरेण विना । दवो वन-वह्निः । अत्र ऊर्जितैका लीला-कथा इति पदानि ज्ञान-मिश्रत्वे बीजम् ॥४०॥ [मु।फ। ६.३४]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किन्तु लीलास् तावद् द्विविधाः—सृष्ट्य्-आदि-लीलाः, श्री-वृन्दावन-लीलाश् चेति । तासां मध्ये वृन्दावनादि-लीलायाः चरणारविन्दं यथा संसार-सिन्धु-तरणोपयुक्तं भवति, नान्यथान्य-लीलयेति दर्शयति—संसार-सिन्धुम् इत्य्-आदि । अहो अतिचित्रम् एतत् ! संसार-सिन्धु-तरणे लीला-कथा-रूपा ये रसाः, तेषां निषेवणम् एव प्लवः । जले जल-रूप-प्लव इति चित्रम् एतत् ॥४०॥

———————————————————————————————————————

**सनातन-गोस्वामी- **[ह।भ।वि। १०.४३६] विविधं दुःखम् एव दावानलः । तेन अर्दितस्य पीडितस्य । अत उत्तितीर्षोः पुंसः भगवतो या लीला-कथाः, तासां रसः, तन्-निषेवणम् अन्तरेण अन्यः प्लवः उत्तरण-साधनं न भवेत् ॥४०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **एवं श्री-शुकः स्व-कृतोपदेशोपसंहारे च श्रवणम् उपलक्ष्य श्री-भगवल्-लील-कथा-माहात्म्यम् आह ।13 एषा च लीला-कथा तद्-भक्त्य्-एक-पुरुषार्थिभिर् यथायथं श्रोतव्यैव, मोक्षार्थिभिर् अप्य् अवश्यं श्रोतव्येत्य् आह—संसार- इति । अन्यासाम् अपि भक्तीनां तत्-पूर्वकत्वेनैव प्रवृत्तेर् उपायान्तरासम्भवत्वं युक्तम् ।_।_४०॥ [भक्ति-सन्दर्भः ८६]14

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एता विविधाः कथाः खलु विविध-भक्तानां जीवातव एव । मोक्षार्थिनाम् अप्य् एताः कथा विना ज्ञानादिभिर् न मोक्ष इत्य् आह—किं कृत्यं ? तद्-उत्तर-निष्कर्षोऽयम् इत्य् आह—संसार- इति। दुःसहायाः क्षुधाया भोजनम् अन्तरेण नोपशम इतिवत्, नान्यो ज्ञानादिकः प्लव उत्तरण-साधनम्, दुःसहायां क्षुधायां स्रक्-चन्दनादिर् इव । तेनैतद् उत्तराध्याये मयाप्य् उपदेष्टव्यं महा-रहस्य-भक्ति-रत्न-च्छादनार्थं यज् ज्ञानं, तत् त्वया सोपादेयत्वेन न प्रत्येतव्यम् इति भावः । रस-शब्देन लीला-कथानाम् अमृतत्वम् आरोपितम्, अत एव विविध-दुःख-महा-रोगाणां दवा महा-ज्वालास् तेषां सद्य एवैकम् अमृतं विना नान्यद् औषधं प्रयोक्तव्यम् इति भावः ॥४०॥

॥।

॥ १२.४.४१ ॥

पुराण-संहिताम् एताम् ऋषिर् नारायणोऽव्ययः ।

नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **श्रोतुर् आदर-दार्ध्याय संप्रदाय-प्रवृत्तिम् आह, पुराण-संहिताम् इति त्रिभिः ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अव्ययः सर्वदैकरसः नारायण ऋषिः सर्वज्ञः ब्रह्मद्वारा पुरा नारदाय प्राह । स नारदः ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-शुक-सम्प्रदायं शुद्धम् अविच्छिन्नम् अनुसृत्यैवैतत् पठन-पाठन-श्रवण-श्रावणादिकं कार्यम् इत्य् अभिप्रायेणाह—पुराणेति । ऋषिर् नारायणो ब्रह्मणे इत्य् अध्याहार्यम् । स च ब्रह्मा अव्ययः अपराधाभावाद् भक्ति-व्यय-रहितो नारदाय पुराण-संहिताम् एताम् इति ॥४१॥

॥।

॥ १२.४.४२ ॥

स वै मह्यं महा-राज भगवान् बादरायणः ।

इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स वै बादरायणः प्रीतः सन् मह्यम् इमां संहितां प्राहेति पूर्वेणान्वयः ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स कृष्णद्वैपायनः । हे महाराजेति—महेन भगवत्प्राप्त्युत्सधेनाधुना समन्तात्त्वं राजसीति भावः। तत्त्वज्ञापकत्वेन सर्ववेदतुल्याम् ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इमं भागवतीम् इति वाक्य-भेदान् न पौनरुक्त्यम् ॥४२॥

॥।

॥ १२.४.४३ ॥

इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये ।

दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **असौ सूत इति पुरतः स्थितम् अङ्गुल्या निर्दिश्याह । नैमिषालये नैमिषारण्य-स्थाने ॥४३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरुश्रेष्ठेति संबुद्धिर्व्याख्यातचरी ॥४३॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे चतुर्थोऽध्यायः ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असौ सूत इति पुर-स्थितम् अङ्गुल्यान् निर्दिशति ॥४३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वादशस्य चतुर्थेऽपि सङ्गतः सङ्गतः सताम् ॥*॥

॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
प्रलय-वर्णनं नाम चतुर्थोऽध्यायः ।

॥ १२.४ ॥


(१२.५)


  1. न यत्र वाचः प्रसरन्ति न मनो व्;अ साकल्येन । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति श्रवणात् । न सत्त्वं रजस् तमो वा । निर्गुणत्वात् । यत्र गुणा एव न प्रभवन्ति का कथा तत्-कार्याणां महद्-आदीनाम् । प्राणाः पञ्च मनो-बुद्धी, दशेन्द्रियाणि , तद्-देवताश् चैतेनैव व्याख्याताः । एवं सति किम् एतैर् आरब्धः भूर्-आदीन् लोकान् कल्पयन् ब्रह्माण्ड-सन्निवेशः तत्र प्रलय-काल-वर्तिनि कालाख्ये भगवति सम्भवेत् । वागादयो यत्र कञ्चन विशेषं नापादयन्ति इति विजयध्वजीयम् । (गोविन्दाचार्यः) ↩︎

  2. काल-चोदितम् अव्याकृतं प्रकृति-तत्त्वं गुणान् प्रलये ग्रसत इत्य् उक्तम् पूर्व-श्लोके—महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् । ग्रसतेव्याकृतं बीजं गुणान् कालेन चोदितम् ॥ [भा।पु। १२.४.१८] इति । ननु कथं जडस्य कालस्य प्रकृति-चोदकत्वम् इति शङ्कायां नात्र जडः कालो विवक्ष्यते, किन्तु प्रकृतीश्वरो भगवान् एवेति वक्तुं न यत्रेत्य्-आदि द्वाभ्याम् श्लोकाभ्याम् कालाख्यस्य ब्रह्मणः स्वरूपम् आहेत्य् अर्थः । इदं वाक्यं प्र-पाठेऽध्यायादाव् एव पठ्यत इति पूर्वम् उक्तम् ॥ (गोविन्दाचार्यः) ↩︎

  3. सुषुप्त- (तत्त्ववादि) ↩︎

  4. न तत् स्वप्न-जाग्रद्-अवस्थोपेतम् । नापि सुषुप्तम् । अथवा तत् तत्र स्वप्न-जाग्रद्-अवस्थे न स्तः । सुषुप्तं सुषुप्तिश् च न । एतेन जीवाद् वैलक्षण्यम् आह । न खादीनि पञ्च-भूतानि तत् । नापि ज्योतिर्मयोऽर्कोऽपि । स यश् चायं पुरुषे यश् चासाव् आदित्ये इत्य्-आदि-श्रुतेर् अर्कस्य विशेष-प्रतीकत्वेन पृथग् ग्रहणम् । एतेन जडाद् वैलक्षण्यम् आह—तर्हि तत् कीदृशम् ? सर्वार्थ-निरपेक्षत्वात् । इन्द्रिय-निरपेक्षत्वाद् आनन्दानुभव-मात्रत्वाच् च सुषुप्तवत् । अप्रतर्क्यत्वाच् छून्यवत् । निर्लिप्तत्वात् शून्यवद् आकाशवद् इति वा । स्थूलम् इदं वचनम्—सुषुप्तवत् शून्यवद् इति । वस्तुतस् तु इदम् ईदृशम् इत्य् अप्रतर्क्यम् एव सर्वात्मना । सर्वस्यापि मूल-भूतम् । पदं जगद्-विलय-स्थानं योगिभिर्ज्ञेयम् मुक्तैर् गम्यं चामनन्ति ॥ ↩︎

  5. तत्-प्रकाश्यत्व (पूर्वरमात्म-सन्दर्भ) ↩︎

  6. तद्-अव्यतिरेकाभावात् (इबिद्।) ↩︎

  7. अयं तु परमात्म-सन्दर्भस्य पाठः। क्रम-सन्दर्भे तु “अन्यन् न भवति” इति पाठ्यते। ↩︎

  8. अवयवि स्थूल-रूपं विश्वं, उदयः पुरुषोत्तम-दृष्टि-जातः स्पष्टीभावः, **अप्ययस् **तद्-दृष्टि-निमीलन-जातस् तद्-विपर्ययः । इत्य् अत्र क्वचिद् अधिकं पाठ्यते परमात्म-सन्दर्भ-लिपिषु। तत्र द्रष्टव्यम्। ↩︎

  9. एते इति तत्त्ववादि-पाठः। ↩︎

  10. य एते सर्वेषाम् अवयविनाम् इह जगत्य् अवयवा उपादान-भूताः प्रोक्ता दृष्टा वा, ते सर्वेऽपि पटस्यावयव-भूतास् तन्तवः पटेनेवावयविभिर् अभिन्नाः । तत्र हेतुम् आह—यतो विनार्थेन प्रतीयेरन् । नह्य् उपादेयाद् अन्योऽर्थ उपादानस्यास्ति । नहि पटस्य परिधानादि-रूपाद् अन्यः कश्चनार्थः संहतानां तन्तूनां क्वचिद् दृष्टः । अयम् अर्थः—ओतस् तन्तु-समुदायः पटेनाभिन्नः । तत्रैकैकस् तन्तुः भिन्नोऽपि । अत एव तन्तव इति बहु-वचनं प्रायोजि । भगवता स्व-कार्यस्य जगतोऽत्यन्त-भेदः प्राग् उक्तः । प्रकृति-महद्-आदिनोपादान-भूतेन नैवं भेदः । किन्त्व् अभेदो भेदाभेदो वेति ज्ञापयितुम् इदं प्रवृत्तम् ॥ (गोविन्दाचार्यः) ↩︎

  11. प्र-पाठे त्व् इदं वाक्यं व्यत्यासेन पूर्वम् एव पठितम् इति पुरस्ताद् आवेदितम् । अयम् अस्य तत्त्व-सिद्धान्ता-वचनस्यार्थः—अवयविनोऽवयवैर् अभेदात् यत्र क्वचिद् भेद ईरितः स कोट्य्-अंशो भेदः । कोटि-पदं बहुत्व-मात्र-वचनम् । अंशानां कोटिषु समुदाये एकोऽंशः यस्यानुयोगी भवति, स कोट्य्-अंशो भेदः । एकैकस् तन्तुः पटाद् भिन्न इत्य् अर्थः । तन्तव एव हि पटः । नहि तन्तुः पटः । अथापि नात्यन्तं भेद एव, किन्त्व् अभेद-गर्भोऽयं भेद इत्य् आह— सोऽपि भेदो न चाभेदात् पृथग् एव । तथा च भेदाभेद इत्य् अर्थः । अवयव्य्-अवयवानाम् इत्य् उपादानापेक्षया । कार्य-कारण-वस्तूनाम् इति निमित्त-कारणापेक्षया । तथा चावयवी स्वावयव-नियतः निमित्त-कारण-नियतश् च । सोऽवयवः अन्यस्यावयवीति तेन नियतः । निमित्त-कारणं चान्यस्य कार्यम् इति तद् अप्य् अन्येन नियतम् । नन्व् अयं परस्पर-नियतायाः कार्य-कारण-परम्पराया विश्रान्तिर् इति ? एतेन यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्त-वद् अवस्तु यत् ॥ [भा।पु। १२.४.२८] इति श्लोकार्थोऽपि कटाक्षितः । सामान्यं मृद्-आदि कारणम् । विशेषो घटादि कार्यम् । यद् इदं जगद् एव केवलं कार्य-कारणात्मना उपलभ्येत स्वातन्त्र्येण प्रतीयेत मृद् एव स्वतन्त्रं घट-कारणम्, कुलाल एव घटस्य स्वतन्त्रः कर्तेत्य्-आदि स भ्रमः । सम्भ्रम इति क्वचित् । तदा केवलं शाब्दं कोलाहल-मात्रम् इत्य् अर्थः । कुतः ? अन्योन्यापाश्रयात् । तस्यापि कारणस्य पुनः कारणान्तराश्रयात् सर्वम् अपि परस्पराश्रितम् उत्पत्ति-नाशवच् च यतोऽतोऽवस्तु अस्वतन्त्रम् एव । भगवान् एव केवलं स्वतन्त्र इति ॥ (गोविन्दाचार्यः) एक एव नियन्तासौ हरिर् नारायणः परः ॥ इति च ↩︎

  12. स्मर्तुर् (झ, यादवपूर) ↩︎

  13. इदं वाक्यं रसवर्षि-धृत-पाठे नास्ति। ↩︎

  14. तत्र भक्ति-सन्दर्भस्य विस्तृत-व्याख्या द्रष्टव्या। ↩︎