०३ युगानुवर्णनं

॥ १२.३.१ ॥

श्री-शुक उवाच—

दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् ।
अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

तृतीये भूमि-गीतैश् च राज्य-दोषादि वर्ण्यते ।

कलौ च दोष-भूयिष्ठे दोष-हन्त्री हरेर् नतिः ॥

देहेऽहन्तां भूमौ च ममतां कुर्वन्त्य् अतोऽबुद्धा इत्य् उक्तं तद् एव भूमि-गीतैः प्रपञ्चयति—दृष्ट्वेत्य्-आदि । आत्मनि पृथिव्या जये व्यग्रान् उद्युक्तान् । हास-प्रकारम् एवाह—अहो इति । मा माम् ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **नतिर्नमस्कारः। कृष्णप्रणामी न पुनर्भवाय इत्य्-उक्तेः आत्मनि स्वस्यां पृथिव्यामित्य् अर्थः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

तृतीये तु भुवो हास्यं धर्म-पाद-व्यवस्थितिः ।

कलेर् दोषो दोष-हारि हरि-स्मरणम् उच्यते ॥

कथं सेयम् अखण्डा भूर् इत्य् अबुधानां मनोरथ उक्तस् तम् एव पृथिव्या वर्णनेन प्रपञ्चयति—दृष्ट्वेति । मा माम् ॥१॥

॥।
॥ १२.३.२ ॥**

काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि ।
येन फेनोपमे पिण्डे येऽतिविश्रम्भिता नृपाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **येन कामेन । फेनोपमे पिण्डे देहेऽतिविश्रम्भिता विश्वासं नीता ये तेषां नरेन्द्राणाम् एष कामो मोघ एव स्यात् ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विदुषां नीतिविदाम् । फेनोपमे डिण्डीरपिण्डतुल्ये नश्वरे ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन कामेन पिण्डे देहे ॥२॥

॥।
॥ १२.३.३-४ ॥**

पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिनः ।
ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान् ॥**

एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् ।
इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिकेऽन्तकम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कामम् एव दर्शयति द्वाभ्याम्—पूर्वम् इति । इन्द्रियार्थ-लम्पटस्य न राज्य-प्राप्तिः स्याद् इति प्रथमम् इन्द्रिय-षड्-वर्गं निर्जित्य, राज-मन्त्रिणो जिष्यामो वशी-करिष्यामः । सचिवा अमात्याः करीन्द्रा हस्तिपाः, तांश् च जेष्यामः । कण्टकान् प्रतिपक्षान् । अस्य अपास्य । “अथ कण्टकान्” इति वा पाठः ॥३-४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **करीन्द्रानित्युपलक्षणं सेनामात्रस्य । अमात्याः कर्मसचिवाः । मन्त्री बुद्धिसहायः स्यात् इत्य् अमरः । आप्ता विश्वस्ताः। कण्टकाः क्षुद्रशत्रवः ॥ एवंक्रमेण पूर्वोक्तक्रमेण ॥३-४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कामम् एव दर्शयति—पूर्वम् इति द्वाभ्याम् । तत्रेन्द्रियार्थ-लम्पटस्य राज्य-प्राप्तिर् न स्यात्, अतः प्रथमम् इन्द्रिय-षड्-वर्गं जित्वा, अस्य मत्-प्रतिपक्ष-नृप्स्य ॥३-४॥

॥।
॥ १२.३.५ ॥**

समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा ।
कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं केचिद् आशा-बद्धा एव केचिन् मां पुनर् जित्वाप्य् अतितृष्णयाब्धिं विशन्ति । तद् एवम् इन्द्रिय-जयेन ये राज्यं साधयितुम् इच्छन्ति ते ऽतिमन्दा इत्य् आह—कियद् इति ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अब्धिं विशन्तीत्युक्त्या द्वीपजयो ध्वनितः भूजयादिना किम् अपि न प्रयोजनम् अपित्वनर्थ एवावशिष्यते मनोजयापेक्षयेत्यभिप्रायेणाह—कियद् इति । मनोजये किं स्यात्तत्राह—मुक्तिर् इति बन्ध इन्द्रियविक्षेपो मोक्ष एपां च संय्यमः इत्येकादशोनविंशाध्याये भगवद्-उक्तेर् न्यायनये मनसोप्यन्तरिन्द्रियत्वे सिद्धेपीह तु षड्वर्गपदोक्तेर् एव तद्गृह्यत इति ध्येयं सुज्ञैः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मां पृथिवीं जित्वा अतितृष्णया अब्धिं विशन्ति तदीय-रत्नान्य् आहर्तुम् इति भावः । एवम् इन्द्रिय-जयेन ये राज्यं साधयितुम् इच्छन्ति, ते मद्ना इत्य् आह—कियद् इति ॥५॥

॥।
॥ १२.३.६ ॥**

यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह ।
गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अन्तकं न पश्यन्ति इत्य् उक्तं, तद् एवाह—याम् इति । कुरूद्वहेति भूमि-गीतं कथयन् शुकः संबोधयति, “कुलोद्वहाः” इति तु पाठः सुगमः ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरूद्वहेति—त्वम् अपि यत्कुरुवंशं वहसि स वंशोऽप्यधुना भवच्छेष एवेति भावः । यथागतम् इति आगतमनतिक्रम्य यथा तेत्रागता निरुपस्करास् तथैव गता इत्य् अर्थः ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथागतं यथा-ज्ञानं स्व-स्व-ज्ञानम् अन्तिक्रम्य विरक्ता भूत्वा वनं गता इत्य् अर्थः । तां माम् एते मन्दा युद्धे जेष्यन्ति ॥६॥

॥।
॥ १२.३.७-८ ॥**

मत्-कृते पितृ-पुत्राणां भ्रातॄणां चापि विग्रहः ।
जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम् ॥**

ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः ।
स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **“अबुद्धयः” इत्य् उक्तं तत् प्रपञ्चयति—मत्-कृत इति ॥७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **न केवलमितरेषाम् एव मदर्थे विरोधो भवत्य् अपि तु पित्रादिदेहसम्बन्धिनामपीत्य् आह—मत्कृत इति । मत्कृते मदर्थे विग्रहः संयुगः विग्रहस् तु समासार्थवाक्ये भागे रणेङ्गके इत्यभिधानात्

अयम् अपि प्रायिक इत्याह—असतामप्रशस्तकर्मणाम् ॥ किंप्रकारो विग्रहस्तत्राह ममैवेति ॥७-८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.९ ॥**

पृथुः पुरूरवा गाधिर् नहुषो भरतोऽर्जुनः1** ।**

मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीव-विष्ण्वोर् अभेदश् च देह-योग-वियोजने ।
विष्णोर् दुःखं व्रणित्वादि पराभावस् तथैव च ।
अस्वातन्त्र्यं च वेदादाव् उक्तवद् भासते विभोः ।
क्वचित् क्वचिद् विमोहाय दैत्यादीनां दुरात्मनाम् ॥ इति ब्रह्माण्डे ॥2

———————————————————————————————————————

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **रामो नाम कश्चिद् राजा । यद् वा, लोक-दृष्ट्या दाशरथिर् एव निर्दिष्टः ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **काचिन्नामतोऽप्याह—पृथुर् इति । श्रीरामचन्द्रस्यापि मायया तथात्वाङ्गीकारे न दोष इत्याह—यद्वेति ॥९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **पृथुर् इति पञ्चकम् ॥९॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रामो नाम कश्चिद् अन्यो राजा, न तु दाशरथिर् इति स्वामि-चरणाः ॥९॥

॥।
॥ १२.३.१० ॥**

तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः ।
भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥**

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अक्षराधिक्यं तृतीयपाद आर्षम् । नैषधो नलः ॥१०॥

॥।
॥ १२.३.११ ॥**

हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः ।
नमुचिः शम्बरो भौमो हिरण्याक्षोऽथ तारकः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **लोकं रावयति रोदयतीति लोक-रावणः ॥११॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मनुष्योक्तन्यायं दैत्य्-आदिष्वप्यतिदिशति—हिरण्यकशिपुर् इति ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **+++

॥।
॥ १२.३.१२ ॥**

अन्ये च बहवो दैत्या राजानो ये महेश्वराः ।
सर्वे सर्व-विदः शूराः सर्वे सर्व-जितोऽजिताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अजिता अन्यैः स्वयमजिता इत्य् अर्थः ॥१२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अन्ये च बहव इति । च-कारात् ते च मयि ममतां कृत्वा मय्य् अवर्तन्त । तत्र ये ममेश्वरा भगवद्-अवतारा भागवता वा, ते सर्वे सर्व-विदः शूराश् च ज्ञान-क्रिया-शक्तिभ्यां परम-पर्याप्ता इत्य् अर्थः । अत एव सर्व-जितः स्वयम् अजिताश् च सर्व-शब्दावृत्तिर् अतिहर्षेणातिदार्ढ्य-विवक्षया च ॥१२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.१३ ॥**

ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः ।
कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मयि उच्चैर् ममतां कृत्वा ये ऽवर्तन्त ते कालेन कथावशेषाः कृताः । विभो इति संबोधनं कुरूद्वहेतिवत् ॥१३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **विभो इति श्रीशुकस्यैव राजानं प्रति सम्बुद्धिरित्याह—कुरूद्वहेति । यदिति—विशेषेण बुद्धिर्वभवेन भातीति तथा, त्वं तु बुद्धिबलेन सर्वं जानास्येवेति भावः। अत्र चक्रवर्तिकारः—किंतु तेन अकृतार्था अपि तु कृतार्था एव प्राप्तस्वाभीष्टा एव कृताः पर्याप्ताः पूर्णा एव गुणरूपादिभिस्तदषि कथावशेषा एवाभूवन्, अर्वार्चानास्तु—अकृतार्थ धनादिभिर् अप्य् अपूर्णा इति भावः ॥१३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **ये तु तत्र मर्त्य-धर्मिणो मर्त्य-स्वभावासक्ताः, ते कालेनाकृतार्थाः कथा-मात्रावशेषिताश्3 च कृता इत्य् अर्थः ॥१३॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **मयि उच्चैर् ममतां कृत्वा येऽवर्तन्त, ते काले कथावशेषा अभूवन्, किन्तु ते न ह्य् अकृतार्थाः, अपि तु कृतार्था एव, प्राप्त-स्व-स्वाभीष्टा एव, कृताः पर्याप्ताः, पूर्णा एव रस-शास्त्र-गुणादिभिस् तद् अपि ते यथावशेषा अभूवन्, अर्वाचीनास् तु अकृतार्था धनादिभिर् अप्य् अपूर्णाः किम् उतेति भावः । युग-पर्याप्तयोः कृतं, पर्याप्तिः परिपूर्णता इत्य् अमरः ॥१२॥

॥।
॥ १२.३.१४-१५ ॥**

कथा इमास् ते कथिता महीयसां

विताय लोकेषु यशः परेयुषाम् ।

विज्ञान-वैराग्य-विवक्षया विभो

वचो-विभूतीर् न तु पारमार्थ्यम् ॥

यत्4** तूत्तमः-श्लोक-गुणानुवादः**

सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।

तम् एव नित्यं शृणुयाद् अभीक्ष्णं

कृष्णेऽमलां भक्तिम् अभीप्समानः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राज-वंशानुकथनस्य तात्पर्यम् आह–कथा इमा इति । विज्ञानं विषयासारता-ज्ञानं ततो वैराग्यं, तयोर् विवक्षया परेयुषां मृतानां वचो-विभूतीर् वाग्-विलास-मात्र-रूपा न तु पारमार्थ्यं परमार्थं युक्तं कथनं न भवतीत्य् अर्थह् । कस् तर्हि पुरुषाणाम् उपादेयः परमार्थस् तम् आह—यस् त्व् इति । नित्यं प्रत्यहम् । तत्राप्य् अभीक्ष्णम् ॥१४-१५॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—तेषां नष्टत्वाद् अधुना कथा-मात्रत्वम् एवावशिष्टं, न तु तेऽपीति भावः । महतां प्रियव्रतादीनाम् । परं श्रीहरिमीयुषां प्राप्तानाम् । किम्-अर्थम् ? विज्ञानं भगवद्-अनुभवः । श्रोतृ-जनान् प्रत्य् अपि तादृशाः स्युर् इति भावः । तद् उक्तम्—

पूर्वं गृहीतं गुण-कर्म-चित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग ।
निवर्तन्ते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥
यथा हि भानोर् उदयो नृ-चक्षुषां तमो निहन्यान् न तु सद् विधते ।
एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ [भा।पु। ११.२८.३३-३४]]

इत्य् उद्धवं प्रति श्री-कृष्णेन । वितायेत्य् आर्षः । यद् वा, किम्-अर्थं कथिताः ? इति तत्राह—विज्ञान- इति । वचो-विभूतिर् वचसा विभूतयो विविध-भवन-विषयाः **विज्ञान-वैराग्य-विवक्षया **योग्यस्य पुंसो विज्ञान-वैराग्ये स्याताम् इत्य् अभिप्रेत्य विवृता, न तु पारमार्थ्ये परमार्थ उत्तमार्थो वेद-मुख्यार्थो भगवांस् तम् उद्दिश्य तस्य स्वरूप-भूतत्वेन विधि-निषेधाविषयत्वात् । यद् वा, किं-भूताः कथाः ? वचसां भक्ति-ज्ञान-क्रियात्मकानां विभूतिर् विशेषेण प्रतिपादनं यासु, ताः । पारमार्थ्यम् उद्दिश्योपदेशे तु केवलं भक्ति-मात्रम् एवापदेष्टव्या स्यात् तस्या एवान्तकाल उचितत्वात् जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः [भा।पु। २.१.६] इत्य्-उक्तेः । यद् वा, ते कथिता इमाः कथाः पारमार्थ्यम् एव परमार्थ-फलका एव, न तु वचो-विभूतयः पुरुषार्थायोगिन्य इति मन्तव्यम् । द्वितीया प्रथमार्थे । श्रुतयः प्रमाणम् इतिवत् सम्बन्धः । यद् वा, इमाः बुद्धि-सन्निहितत्वाद् देवासुर-संग्रामादि-रूपाः कथा वचो-विभूतयः । पारमार्थ्यं परमात्म-लीला-वर्णनं, न तु वचो-विभूतयस् तस्य तत्-प्रापकत्वात् ।

पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु संभृतम् ।
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा।पु। २.१.६] इत्य्-उक्तेः ।

यद् वा, इमाः कथा वचोविभूतयो न तु किंतु पारामार्थ्यम् एव सर्वासां परमार्थे भगवति तात्पर्यकत्वाद् इत्य् अर्थः ॥ पारमार्थम् एव पृच्छति—कस् तर्हि ? इति । तत्रापि प्रत्यहम् अपि । तम् एव उत्तम-श्लोक-गुणानुवादम् एव हरि-भक्त्य्-उत्पादकत्वात्, अन्या वाचो विमुञ्चथ इति श्रुतेः ॥१४-१५॥

———————————————————————————————————————

कैवल्य-दीपिका : अन्तरेण विना । दवो वन-वह्निः । अत्र ऊर्जितैका लीला-कथा इति पदानि ज्ञान-मिश्रत्वे बीजम् ॥१५॥ [मु।फ। ८.१५]

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथा इमास् ते कथिता इत्य्-आदि । एता वंश-कथा विज्ञान-वैराग्य-विवक्षयैव कथिता, न त्व् अत्र परमार्थ-भावः कोऽपीत्य् अर्थः ॥१४॥ अन्यच् च, एषां राज्ञां मध्ये यो भागवतस् तत्-कथा-चरणारविन्देनान्तः-शोधनम् अप्य् अस्तीति वस्तु इत्य् आह—यस् तूत्तम-श्लोक इत्य्-आदि ॥१५॥

———————————————————————————————————————

**सनातन-गोस्वामी- **[ह।भ।वि। १०.४४५] तम् एव, न तु तद्-व्यतिरिक्तं शृणुयात् । नित्यं प्रत्यहम् । तत्राप्य् अभीक्ष्णं कृष्णं या अमला भक्तिः प्रेम-लक्षणा ताम् अभीप्समानः, गुणानुवाद-श्रवणेनैव सा सम्पद्येतेत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (भक्ति-सन्दर्भ १२९): अथ गुण-श्रवणम्—कथा इत्य्-आदि द्वाभ्याम् । टीका च—

राज-वंशानुकीर्तनस्य तात्पर्यम् आह कथा इमा इति । विज्ञानं विषयासारता-ज्ञानम् । ततो वैराग्यम् । तयोर् विवक्षया । परेयुषां मृतानां वचो-विभूतीर् वाग्-विलास-मात्र-रूपाः । पारमार्थ्यं परमार्थ-युक्तं कथनं न भवतीत्य् अर्थः । कस् तर्हि पुरुषाणाम् उपादेयः परमार्थस् तम् आह यस् त्व् इति । नित्यं प्रत्यहम् । तत्राप्य् अभीक्ष्णम् इत्य् एषा ।

अत्र यत् क्वचिच् छ्री-राम-लक्ष्मणादयोऽपि तेषां राज्ञां मध्ये वैराग्यार्थं छत्रि-न्यायेन पठ्यन्ते तन् निरस्यते । अतो यद्यपि निगम-कल्प-तरोर् [भा।पु। १.१.३] इत्य् आद्य्-अनुसारेण सर्वस्यैव प्रसङ्गस्य रस-रूपत्वं तथापि क्वचित् साक्षाद्-भक्ति-मय-शान्तादि-रस-रूपत्वं क्वचित् तद्-उपकरण-शान्तादि-रस-रूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र भक्ति-रसेष्व् अपि तारतम्यम् इति । गुणाः कारुण्यादयः । तद्-गुण-कीर्तिः स्वभाव एवासाव् इति श्री-गीतास्व् अपि दृष्टम्—स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च [गीता ११.३६] इत्य् आदौ ।

अत्र महा-भागवतानाम् अपि भगवत इव गुण-श्रवणं मतम्—

तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भा।पु। १.१६.६]

इति शौनकोक्तेः । यद्यप्य् अत्र गुण-शब्देन रूप-लीलयोर् अपि सौष्ठवं गृह्यते तथापि तत्-प्राधान्य-निर्देशात् पृथग्-ग्रहणम् । एवम् उत्तरत्रापि ज्ञेयम् । भक्तिं प्रेमाणम् । अमलां कैवल्यादीच्छा-रहिताम् ॥१४-१५॥5

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एव व्यनक्ति—कथा इमा इति द्वाभ्याम् । महीयसां भगवद्-अवतार-भागवतेभ्य इतरेषां महाराजानाम् । अत्र यत् क्वचिच् छ्री-राम-लक्ष्मणादयोऽपि तेषां राज्ञां मध्ये वैराग्यार्थं छत्रि-न्यायेन पठ्यन्ते, तन् निरस्यते । अतो यद्यपि निगम-कल्प-तरोर् [भा।पु। १.१.३] इत्य्-आद्य्-अनुसारेण सर्वस्यैव प्रसङ्गस्य रस-रूपत्वम्, तथापि क्वचित् साक्षाद्-भक्ति-मय-शान्तादि-रस-रूपत्वम्, क्वचित् तद्-उपकरण-शान्तादि-रस-रूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र प्रसङ्गेषु भक्ति-रसेष्व् अपि तारतम्यम् ॥१४॥

श्री-भगवद्-गुण-श्रवणस्यावश्यकत्वम् आह—यस् त्व् इति । गुणाः कारुण्यादयः । तद्-गुणानुवादस्य स्वभाव एवासौ [स-मूलामङ्गल-नाश-पूर्वक-श्री-कृष्णेऽमल-भक्ति-प्रदर्शिनी शक्तिर् इत्य् अर्थः] इति श्री-गीतास्व् अपि दृष्टम्—स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च [गीता ११.३६] इत्य् आदौ । उत्तम-श्लोकानां भगवद्-अवताराणां भागवतानां च गुणानुवादो यस् तम् एव नित्यं शृणुयात्, तत्र त्व् अतिशयेनानुग्रहं कुर्याद् इत्य् अर्थः । सर्वस्य तस्यापि परमं फलम् आह—कृष्ण इति । कृष्णे कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इत्य्-आदिनातिप्रसिद्धे श्री-गोपाल इति ॥१५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजवंश-कथनस्य तात्पर्यम् आह—कथा इति महीयसां प्रियव्रतादीनां, परेयुषां परं श्री-भगवन्तम् ईयुषां प्राप्तानां, किम्-अर्थं कथिताः ? तत्राह—विज्ञानं तेषां भगवद्-अनुभवः, वैराग्यं च तयोर् विवक्षया, तेषां तथाचरणं श्रोतृ-जना अपि शिक्षत्व् इति भावः । हे विभो ! इति त्वम् अपि तादृश एको भवसीइति भावः । किं च, इमाः कथा वचो-विभूतीर् वचसां विभूतयो न भवन्ति, किन्तु पारमार्थ्यं कथानां परमार्थतयैव ज्ञेयेत्य् अर्थः ॥१४॥

तस्मान् महीयसां तेषां कथा नित्यं शृणुयाद् एव, कृष्ण-गुणानुवादे तु तेभ्यो महिष्ठेभ्योऽप्य् अधिकतमानां कृष्ण-लीला-परिकराणां महतां कथाभिर् विचित्रे विशेषं शृण्व् इत्य् आह—य इति । उत्तमः-श्लोकस्य भगवतो गुणानुवादस् तेषु तेषु स्कन्धेषु क्वचित् क्वचिद् दशमे तु सर्वत्रैव तं, नित्यम् एव अभीक्ष्णम् एव भक्तिम् अभीप्समान एव शृणुयाद् एवेत्य् अवधारण-चतुष्टयम् ॥१४॥

॥।
॥ १२.३.१६ ॥**

श्री-राजोवाच—

केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः ।
विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलि-दोषोपचये सति भक्तेर् असंभवं मन्यमानः पृच्छति—केनोपायेनेति । विधम् इष्यन्ति नाशयिष्यन्ति । यथा यथावत् ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ज्ञातकलिदोषपरिहारोऽपि लोकहिताय पृच्छति—केनेति वावतरणिका । भगवन्मुने इति संबुद्धिर्येन सर्वकथनसामर्थ्यं द्योतयतीति भावः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **विधम् इष्यन्ति नाशयिष्यन्ति । यथा यथावत् ॥१६॥

॥।
॥ १२.३.१७ ॥**

युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः ।
कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलि-युगे कः परो धर्म इति बुभुत्सया पृच्छति—युगानीति । ब्रुहीत्य् अनुषङ्गः । आत्यन्तिक-प्रलय-जिज्ञासया पुनः पृच्छति, प्रलय-कल्पयोः संहार-स्थिति-कालयोः । न चायं बहिर्-मुखः प्रश्न इत्य् आह—कालस्येति ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **गतिं गमनप्रकारम् ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **युगानीति । ब्रुहीत्य् अनुषङ्गः । प्रलय-कल्पयोः संहार-स्थिति-कालयोः । न चायं बहिर्-मुखः प्रश्न इत्य् आह—कालस्येति ॥१७॥

॥।
॥ १२.३.१८ ॥**

श्री-शुक उवाच—

कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः ।
सत्यं दया तपो दानम् इति पादा विभोर् नृप ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत्र युग-धर्मांस् तावद् आह—कृत इति । तज्-जनैस् तत्-कालीनैर् जनैः । दानम् अराग-द्वेषतयाऽभय-दानम् । तद् एव प्रथम-स्कन्धे शौच-शब्देनोक्तम् । विभोः संपूर्णस्य धर्मस्य ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं युग-धर्मान् आह—कृत इति । तज्-जनैस् तत्-काल-भवैर् लोकैर् भृतो धृतः । दानम् इति । दैप शोधने इत्य् अस्मात् शौचम् इत्य् अर्थः । तथैव प्रथम-स्कन्धोक्तेः ॥१८॥

॥।
॥ १२.३.१९ ॥**

सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः ।
आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तदानीन्तन-जनान् आह—सन्तुष्टा इति । मैत्रा भूत-मैत्री-युक्ताः । श्रमणा आत्माभ्यासवन्तः ॥१९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्र पृष्टार्थेषु मध्ये । तावदादौ । नृपेति—धर्मज्ञानं विना नृपालनं दुर्घटम् इति भावः ॥१८-१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रमणा आत्माभ्यासवन्तः ॥१९॥

॥।
॥ १२.३.२० ॥**

त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः ।
अधर्म-पादैर् अनृत- हिंसासन्तोष-विग्रहैः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अनृतेन सत्यम्, हिंसया दया, असन्तोषेण तपः, विग्रहेण दानम् इति यथा-सङ्ख्यं योज्यम् ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तुर्यांशो दानलक्षणः पादो हीयते ह्रसति । पादहानौ प्रतिपक्षम् आह—अधर्मेति ॥२०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **त्रेतायाम् इत्य्-आदिकं प्रथम-स्कन्ध-सन्दर्भाऽनुसारेण सम्यक् ज्ञेयम् ॥२०॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अनृतेन सत्यं, हिंसया दया, असन्तोषेण तपः, विग्रहेण शौचम् ॥२०॥

॥।
॥ १२.३.२१ ॥**

तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः ।
त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), **विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ब्रह्मोत्तरा ब्राह्मणाधिकाः ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

॥।
॥ १२.३.२२ ॥**

तपः-सत्य-दया-दानेष्व् अर्धं ह्रसति द्वापरे ।
हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **हिंसातुष्ट्य्-अनृत-द्वेषैर् इत्य् अयं क्रमो न विवक्षितः । धर्मस्यार्धं ह्रसति क्षीयते । अधर्मस्य लक्षणैश् चिह्नैः, पादैर् इत्य् अर्थः ॥२२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तदा त्रेतायाम् । क्रिया यज्ञादिरूपा । लम्पटा विषयरागिणः । त्रैवर्गिकास्त्रिवर्गप्रधानाः । त्रिवर्गो धर्मकामार्थैः इत्य् अमरः । त्रयीवृद्धा वेदविद्याविशारदाः ॥२१-२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हिंसेत्य् अत्र क्रमो न विवक्षितः ॥२२॥

॥।
॥ १२.३.२३ ॥**

यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः ।
आठ्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यशस्विनः कीर्ति-प्रियाः । क्षत्र-द्विजोत्तराः क्षत्रिय-ब्राह्मण-प्रधानाः ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **महाशाला यज्ञादिकर्तारः । आढ्या धनिनः ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.२४ ॥**

कलौ तु धर्म-पादानां तुर्यांशोऽधर्म-हेतुभिः ।
एधमानैः क्षीयमाणो ह्य् अन्ते सोऽपि विनङ्क्ष्यति ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलौ धर्म-पादानां तुर्यांशश् चतुर्थांशो ऽवशिष्यते ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तुर्यांशः सत्यलक्षणः ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-हेतूनां सत्यादीनाम् अधर्म-हेतुभिर् अनृतादिभिः ॥२४॥

॥।
॥ १२.३.२५ ॥**

तस्मिन् लुब्धा दुराचारा निर्दया शुष्क-वैरिणः ।
दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **शूद्र-दाशोत्तराः शूद्र-कैवर्तादि-प्रधानाः ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्मिन्कलौ । शुष्कवैरिणो निर्निमित्तवैरिणः । दुराचारा मांसाशनाद्याचारपरायणाः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

॥।
॥ १२.३.२६ ॥**

सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः ।
काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **युगानाम् एवं-भूत-वैषम्ये कारणम् आह—सत्त्वम् इति पञ्चभिः ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा एकस्यापि ग्रहस्य सूर्यादेर् दशायां ग्रहाणाम् अन्तर्दशा भवन्ति, तथैकैकस्यापि युगस्य मध्ये चत्वारि युगानि तिष्ठन्त्य् अतः कलि-मध्येऽपि कदाचित् कदाचिन् न धर्म-ह्रासस् तत्राप्य् एकैकस्मिन् पुंस्य् एवं द्रष्टव्यम् इत्य् आह—सत्त्वम् इति । आत्मन्य् अन्तःकरणे परिवर्तन्ते, यातायातं कुर्वन्ति ॥२६॥

॥।
॥ १२.३.२७ ॥**

प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च ।
तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **मनश् च बुद्धिश् चेन्द्रियाणि च सत्त्वे यदा प्रभवन्त्य् अतिशयेन वर्तन्ते ॥२७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **एवंभूतवैषम्ये । परिवर्तते यर्थकस्यापि ग्रहमहादशायामन्तर्दशा वर्तते तथा कलावपि चत्वारो युगा इति भावः । आत्मनि मनसि ॥२६-२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् विवृणोति—प्रभवन्तीति । सत्त्वे निष्काम-धर्मे ॥२७॥

॥।
॥ १२.३.२८ ॥**

यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् ।
तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धि-मन् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यदा धर्मादिषु भक्तिः प्रीतिः, तदा रजो-वृत्ति-प्रधानं त्रेता-युगम् इति जानीहि ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काम्येषु स-काम-धर्मेषु भक्तिः प्रीतिः ॥२८॥

॥।
॥ १२.३.२९_ _॥**

यदा लोभस् त्व् असन्तोषो मानो दम्भोऽथ मत्सरः ।
कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काम्यानां कर्मणां विषये यदा प्रीतिः, तत् तदा रजस्-तमः-प्रधानं द्वापरं जानीहीति पूर्वेणानुषङ्गः ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पर्यायेण वर्तते हे बुद्धिमन्न् इति—बुद्ध्यैर्वैतन्निश्चेयम् इति भावः ॥२८-२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा काम्यानां कर्मणां काम्येषु कर्मस्व् इत्य् अर्थः । च-काराद् अधर्मेष्व् अपि प्रीतिस् तदा रजस्-तमः-प्रधान-द्वापरं जानीहि, तत्र लोभादयो भवन्तीत्य् अन्वयः ॥२९॥

॥।
॥ १२.३.३० ॥**

यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् ।
शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **विषादनं दुःखम् ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा केवलेष्व् अधर्मेष्व् एव प्रीतिस् तदा तामस-प्रसिद्धः कलिर् एव तदा मायानृतादयः विषादनं विषादः ॥३०॥

॥।
॥ १२.३.३१ ॥**

तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः ।
कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियोऽसतीः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलि-दोषान् प्रपञ्चयति—यस्माद् इत्य्-आदिना । यस्मात् कलेर् हेतोः । क्षुद्र-दृशो मन्द-मतयः । क्षुद्र-भाग्या अल्प-भाग्यः । महा-शना बह्व्-आहाराः । वित्त-हीना अपि कामिनश् च । स्वैरिण्यः पुंश्-चल्यः । असतीर् असत्यः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अथ कलेर् दोषान् प्रपञ्चयति—तस्माद् इति । तस्मात् कलेर् हेतोः ॥३१॥

॥।
॥ १२.३.३२ ॥**

दस्यूत्कृष्टा जनपदा वेदाः पाषण्ड-दूषिताः ।
राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दस्यव उत्कृष्टाः प्रचुरा येषु ते ॥३२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **दस्यूत्कृष्टा दस्यव एव उत्कृष्टाः प्रधाना येषु ते ॥३२॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.३३ ॥**

अव्रता बटवोऽशौचा भिक्षवश् च कुटुम्बिनः ।
तपस्विनो ग्राम-वासा न्यासिनोऽत्यर्थ-लोलुपाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अव्रता विहिताचार-शून्याः । अशौचाः शौच-शून्याश् च बटवो ब्रह्मचारिणो भविष्यन्ति । कुटुम्बिनश् च गृहस्थाः स्वयं भिक्षाटन-परा भविष्यन्ति, न तु भिक्षां दास्यन्ति । तपस्विनो वन-स्था वनं हित्वा ग्राम-वासा भविष्यन्ति । न्यासिनो यतयो ऽतीवार्थ-लोलुपा भविष्यन्ति ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बटवो ब्रह्मचारिणः अव्रता व्रताहीनाः शौच-हीनाश् च भविष्यन्ति । कुटुम्बिनो गृहस्था भिक्षवः भिक्षाटन-परा एव, न तु भिक्षां दास्यन्ति । तपस्विनो बाण-प्रस्थाः वनं हित्वा ग्राम-वासाः ग्रामे गृहस्थान् एव स्वतपो दर्शयिष्यन्तीत्य् अर्थः । न्यासिनो यतयः अत्यर्थ-लोलुपाः वित्त-सङ्ग्रहे पयतिष्यन्ते ॥३३॥

॥।
॥ १२.३.३४ ॥**

ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः ।
शश्वत् कटुक-भाषिण्यश् चौर्य-मायोरु-साहसाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पुनर् अपि स्त्रीणां स्वभावम् आह, ह्रस्व-काया इति । कटुक-भाषिण्यो ऽप्रिय-वादिन्यः । चौर्यं च माया कपटम् उरु च साहसं यासां ताः ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तामसः केवलतमोगुणप्रधानः ॥३०-३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि स्त्रियो वर्णयति—ह्रस्वेति ॥३४॥

॥।
॥ १२.३.३५ ॥**

पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः ।
अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, किराटा वणिजः । पणयिष्यन्ति क्रय-विक्रयादि-व्यवहारं प्रवर्तयिष्यन्ति । किं च, सर्वे जना अनापद्य् अपि जुगुप्सितां निन्दितां वार्तां वृत्तिं साधु मंस्यन्ते ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **किराटा वणिजः । कुट-कारिणः अधर्मेण कपटं कृत्वा पणयिष्यन्ति व्यवहारं प्रवर्तयिष्यन्ते । किं च, सर्वे एव वर्णा अनापद्य् अपि जुगुप्सितां वार्तां साधु मंस्यन्ते ॥३५॥

॥।
॥ १२.३.३६ ॥**

पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् ।
भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **सर्वोत्तमम् अपि पतिं द्रव्य-हीनं भृत्यास् त्यक्ष्यन्ति । पतयश् च विपन्नं रोगादिभिर् व्यापाराक्षमं कौलं कुल-परम्परायातं त्यक्ष्यन्ति । अपयस्विनीर्दुग्ध-दोहाः ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यदाह—किञ्चेति । किराटो हिंसके वैश्ये इति निरुक्तिः । कूटं मानकूटं तुलाकूटं लिपिकूटं च कर्तुं शीलं येषां ते तथा कूटं पूर्द्वारयन्त्रयोः । मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । इति हेमचन्द्रकोशात् ॥३५-३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अखिलोत्तमम् अपि पतिं निर्द्रव्यं भार्यास् तथा भृत्या अपि त्यक्ष्यन्ति । पतयश् च विपन्नं रोगादि-ग्रस्तं कौलं कुल-परम्परा-गतम् अपि त्यक्ष्यन्ति । गाश् च वृद्धत्वाद् अपयस्विनीस् त्यक्ष्यन्ति ॥३६॥

॥।
॥ १२.३.३७ ॥**

पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः ।
ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सौरतं सुरत-निमित्तं सौहृदं येषां ते । अत एव ननान्दरोऽत्र भार्या-भगिन्यः, श्याला भार्या-भ्रातरः, तैः संवादो मन्त्रालोचनं येषां ते । ननन्दृ इति वा पाठः ॥३७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत एव सौरत-सौहृदत्वाद् एव । स्त्रैणाः स्त्रीवशाः ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननान्दरोऽत्र भार्या-भगिन्यः ॥३७॥

॥।
॥ १२.३.३८ ॥**

शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः ।
धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम् ॥**

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शूद्रलक्षणं तु—

द्विजेतरोऽमन्त्रयागी म्लेच्छभिन्नो विवाहवान् ।
द्विजभक्तो भवेच्छूद्रस्तदन्यस्त्वन्त्यजादिकः ॥ इति संहितायाम् ।

तेन त्रिवर्णेतरे सर्वे शूद्रा एव । यत्तुकैश्चित्—

न शूद्रा भगवद्-भक्ता विप्रा भागवता मताः ।
चतुर्वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥

इति सर्व-पुराणादृष्टं पुराणीयत्वेनोक्तं तस्य चायम् अर्थः—हरि-भक्तेषु शूद्रेष्व् अपि जाति-बुद्ध्या तद्-अवमानो न कार्यः, किन्तु ब्राह्मणवत् सत्-कारः कार्य इति, तेषां वस्तुतो विप्रत्वे विदुर् अधर्म-व्याधादीनां भारतादौ शूद्रत्वेन व्यपदेशोऽनर्थकः स्याद् इति वस्तुतस् तु श्लोकोऽयं वैष्णवाभास-कल्पित एव । तपोवेषेण ब्रह्मचारिवनस्थयतिवेषेणोपजीवनं वृत्तिर्येषां ते तथा । तपः-शब्दोऽत्र तपस्विपरतया नेयः, क्वचित्तिविषये तद्धितप्रत्ययानां लोपस्वीकारात् । कलौ शूद्रा एव ब्रह्मचारिणः सन्न्यासिनश् च भविष्यन्ति ते चान्याधिकारप्रवृत्तत्वान्नरके पतिष्यन्ति—

हीनो भूत्वोत्तमाद् वर्णात् कृत्वा येषं तपस्विनाम् ।
आत्मानं पूजयेद् यस् तु स पतेन् नरके ध्रुवम् । इति संहितोक्तेः ।

उत्तमासनं व्यासासनम् । वक्ष्यन्त्य् उपदेक्ष्यन्ति । अर्धम् अज्ञाः सन्तः तेऽपि शास्त्रानुगामिनो राज्ञां दण्ड्या एव—

ये शूद्र-मुखतः शास्त्रं शृण्वन्तीह नराधमाः ।
तेषां कर्णे त्रपु सिक्त्वा वर्जिह्वां प्रकर्तयेत् ।
अन्यथा क्ष्मापान्तर्याति नरकान् भृश-दारुणान् ॥ इत्य्-आद्य्-उक्तेः ।

प्रतिग्रहीष्यन्ति दानं स्वीकरिष्यन्ति तेऽपि नारका भविष्यन्ति—

दानं गृह्णाति यः शूद्रो महत्याम् अपि चापदि ।
यश् च तस्मै सम्प्रदद्यात् ताव् उभौ नारकौ ध्रुवम् । इति संहितोक्तेः ॥३८॥
॥।
॥ १२.३.३९ ॥**

नित्यम् उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः ।
निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः ॥**

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उद्विग्नमनसस्त्रस्तमनसः । दुर्भिक्षमन्नाल्पत्वम्, करो राजभागस्ताभ्यां कर्शितां दुर्बलाः ॥३९॥

॥।
॥ १२.३.४० ॥**

वासो-ऽन्न-पान-शयन- व्यवाय-स्नान-भूषणैः ।
हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **पिशाच-सन्दर्शाः पिशाच-सदृशाः ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पिशाचो विकृतो भूतविशेषः ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.४१ ॥**

कलौ काकिणिकेऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः ।
त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काकिणिके विंशति-वराटका-मात्रेऽप्य् अर्थे विषय-भूते । विगृह्य वैरं कृत्वा ॥४१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वकान् स्वीयान्भ्रातृपुत्रादीन् । अपिना किं परकीयानित्यसूचि ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **काकिणिके विंशति-वराटिका-मात्रेऽप्य् अर्थे विषये विगृह्य कलहं कृत्वा ॥४१॥

॥।
॥ १२.३.४२ ॥**

न रक्षिस्यन्ति मनुजाः स्थविरौ पितराव् अपि ।
पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरम्-भराः ॥**

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **क्वचित् पुत्रान्भार्यां च कुलजाम् इति वा पाठः । क्षुद्राः क्रूराः क्षुद्रः स्यादधमे क्रूरकृपणाल्पेषु वाच्यवत् इति मेदिनी ॥४२॥

॥।
॥ १२.३.४३ ॥**

कलौ न राजन् जगतां परं गुरुं

त्रि-लोक-नाथानत-पाद-पङ्कजम् ।

प्रायेण मर्त्या भगवन्तम् अच्युतं

यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **महान्तम् अनर्थम् आह द्वाभ्याम्—कलाव् इति । त्रि-लोक-नाथैर् आनतं नमस्-कृतं पाद-पङ्कजं यस्य तम् । न यक्ष्यन्ति न पूजयिष्यन्ति । पाखण्डैर् विभिन्नम् अन्यथा कृतं चेतो येषां ते ॥४३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे राजन्न् इति—त्वं तु धर्मेणैव राजसि त्वद्राज्यतः परमेवेदं भविष्यतीति भावः । प्रायेणेति पाठात्—

क्वचित्कचिन्महाराज द्राविडेषु च भूरिशः ।
कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ इत्य्-आदि ज्ञेयम् ॥४३॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं एकादशे पञ्चमाध्यायोक्त-दिशा कलौ भगवन्-नाम-कीर्तन-प्रचार-प्रभावेणैव परम-भगवत्-परायणत्व-सिद्धिर् दर्शिता । तत्र पाषण्ड-प्रवेशेन नामापराधिनो ये, तेषां तु तद्-बहिर्मुखत्वम् एव स्याद् इति व्यतिरेकेण तद् द्रढयति—कलाव् इति ॥४३॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कलेः सन्ध्यानन्तरं तु महान्तम् अनर्थम् आह—कलाव् इति द्वाभ्याम् ॥४३॥

॥।
॥ १२.३.४४ ॥**

यन्-नामधेयं म्रियमाण आतुरः

पतन् स्खलन् वा विवशो गृणन् पुमान् ।

विमुक्त-कर्मार्गल उत्तमां गतिं

प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विवशो गृणन् सन् । विमुक्ताः कर्म-रूपा अर्गलाः प्रतिबन्धा यस्य सः ॥४४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कपाटम् अररं तुल्ये तद्-विष्कम्भेऽर्गलं न ना इत्य् अमरः । यन्-नामधेयं म्रियमाणः इति,

यसावतार-गुण-कर्म-विडम्बनानि
नामानि येऽसु विगमे विवशा गृणन्ति ।
तेऽनेक-जन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतमृतं तम् अजं प्रपद्य ॥ [भा।पु। ३.९.१५]

इति तृतीये ब्रह्म-स्तुत्य्-उक्तेः ॥४४॥

———————————————————————————————————————

कैवल्य-दीपिका : यद् इति । आतुरः स-रोगः । कर्म पापम् । उत्तमा गतिर् मोक्षः । नो यक्ष्यन्ति न पूजयन्ति ॥४४॥ [मु।फ। ८.३८]

———————————————————————————————————————

**सनातन-गोस्वामी- **[हरि-भक्ति-विलासः ११.३७२] तत्र च यत् फलोन्मुखं कर्म, तद् एव प्रारब्धम् उच्यते । तच् च द्विविधं—वर्तमान-देहोपभोग्यम् एकम्, अन्यच् च शरीरान्तरोपभोग्यम् । यथा—भरतस्य मृग-शरीर-कारणं, तच् च श्री-भागवते श्री-बादरायणेनैव सिद्धान्तितम् अस्ति । मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशित इत्य्-आदिभिः । तत्र नातः परं [भा।पु। ६.२.४६] इति पूर्व-श्लोकेन वर्तमान-शरीर-भोग्य-प्रारब्ध-नाशनं लिखित्वा, इदानीं शरीरान्तरेऽवश्य-भोग्यस्यापि प्रारब्धस्य क्षपणं लिखति । यद् वा, द्वाभ्याम् एव श्लोकाभ्याम् अशेष-प्रारब्ध-विनाशित्वम् एव दर्शयति—यन्-नामेति । विवशोऽपि गृणन् उच्चारयन् सन् । विमुक्ताः कर्म-रूपा अर्गला अवश्य-भोग्यत्वेन दुर्वारा अपि प्रतिबन्धा यस्य सः । उत्तमां श्री-वैकुण्ठ-प्राप्ति-लक्षणां गतिं फलं, तं न यक्ष्यन्ति, नाम-सङ्कीर्तनादिना न सेविष्यन्त इति कलि-दोष उक्तः ॥४४॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तदानीं पाषण्डैर् विभिन्न-चेतस्त्वेन तद्-याजन6-वैमुख्यं तु तन्-नाम-विमुखानाम् एव स्याद् इत्य् अभिप्रेत्य प्रायेणेत्य् एव व्यनक्ति—यन्-नामेति । नामान्य् एवोपसंहरिष्यते—कलेः [भा।पु। १२.३.४३-४४] इत्य् आदि-द्वाभ्याम्7 ॥४४॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।
॥ १२.३.४५ ॥**

पुंसां कलि-कृतां दोषान् द्रव्य-देशात्म-सम्भवान् ।
सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद् एवं कलि-दोषान् प्रपञ्च्य प्रस्तुतं तन् निस्तारोषायम् आह—पुंसाम् इति षड्भिः। द्रव्य-देशात्मभिः संभवो येषां तान् । चित्त-स्थश् चित्ते स्फुरितः ॥४५॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कलेर् दोषम् उक्त्वा तद्-दोष-शमनार्थम् अनायास-सिद्धम् औषधं दर्शयति—पुंसां कलि-कृतान् दोषान् इत्य्-आदि । कलौ न राजन् जगतां परं गुरुम् [भा।पु। १२.३.४३] इत्य्-आदिना, यन् नाम-धेयं म्रियमाण आतुरः [भा।पु। १२.३.४४] इत्य्-आदिना च श्लोक-द्वयेन कलौ भगवद्-भजन एव नास्ति, कथं सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ? श्रुतः सङ्कीर्तितः [भा।पु। १२.३.४६] इत्य्-आदिना कलौ भगवति चित्त-स्थिरी-करणम् ? तत्राह—कलेर् दोष-निधे राजन् [भा।पु। १२.३.५१] इत्य्-आदि, कलौ तद् धरि-कीर्तनात् [भा।पु। १२.३.५२] इति चेत् तथापि पूर्व-पक्षस् तद्-अवस्थ एव स्थितः । हरि-कीर्तनं यदि भवति, तदैवम् । हरि-सङ्कीर्तनम् एव कथं भवतु ? एवं चेत् भगवत एव कृपावतारो गूढं कश्चिद् अत्र बोद्धव्यः । उक्तं च नवम-स्कन्धान्ते—

यदा यदा हि धर्मस्य क्षयो वृद्धिश् च पाप्मनः ।
तदा तु भगवान् ईश आत्मानं सृजते हरिः ॥** **[भा।पु। ९.२४.५६] इति ।

अत्र भगवद्-अवतारे काल-विषयो नास्ति, न चावतारस्य कथित-क्रम-रूपेणैव नियम इति स्थितम् ॥४५॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यद् एव नाम भगवद्-रूपेण स्फुरत् तद् विदधातीत्य् आह—पुंसाम् इति ॥४५॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं केनोपायेन कलि-दोषान् नाशयिष्यन्ति तत्रोत्तरम् आह—पुंसाम् इति । द्रव्य-देश-मनःसु शुद्ध्य्-अभावेन सम्भवो येषां तान् ॥४५॥

॥।
॥ १२.३.४६ ॥**

श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतोऽपि वा ।
नृणां धुनोति भगवान् हृत्-स्थो जन्मायताशुभम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **द्रव्यमन्नादि, देशः कीकटादिः, आत्मान इन्द्रियाणि तैः ॥४५-४६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **भगवतः स्वभाव एव तादृश इत्य् आह—श्रुत इति त्रिभिः ॥४६॥

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **चित्त-स्थः स्मृतः सन्, न केवलम् एतान् एव दोषान् हरति, अपि तु प्राचीनार्वाचीनं सर्वम् अपि पापम् इत्य् आह—श्रुतः इति ॥४६॥

॥।
॥ १२.३.४७ ॥**

यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् ।
एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अयम् एवोषायो नान्य इति स-दृष्टान्तम् आह—यथेति । धातु-जं ताम्रादि-संश्लेष-जातं हेम्नो दुर्वर्णं मालिन्यं तत्र स्थितो वह्निर् एव हन्ति हरति, न तु तोयादि । एवं योगिनाम् अपि विष्णुर् एव, न तु योगादिकम् इत्य् अर्थः ॥४७॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तत्-स्वभावस् त्व् अयं नान्यत्र सम्भवतीत्य् आह—यथेति द्वाभ्याम् ॥४७॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चान्तः-करण-शुद्धौ भगवत्-स्मरणादिर् एवोपायो नान्य इति स-दृष्टान्तम् आह—यथेति । धातुजं ताम्रादि-संश्लेष-जातं हेम्नो दुर्वर्णं मालिन्यं, तत्र स्थितो वह्निर् एव हरति, न तु तोयादि एवं योगिनाम् अपि विष्णुर् एव, न तु यम-नियमादिकम् ॥४७॥

॥।
॥ १२.३.४८ ॥**

विद्या-तपः-प्राण-निरोध-मैत्री

तीर्थाभिषेक-व्रत-दान-जप्यैः ।

नात्यन्त-शुद्धिं लभतेऽन्तर्-आत्मा

यथा हृदि-स्थे भगवत्य् अनन्ते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतद् एव विवृणोति—विद्या इति । विद्या देव-तोषासना ॥४८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **मन्दाधिकारिणां क्षिप्र-प्रवृत्त्य्-अर्थं स-दृष्टान्तम् आह । दुर्वर्णम् इत्य् अनेन रत्न-शास्त्रोक्ता अष्टादश दोषा उक्तास् ते च धात्व्-अन्तर-सङ्ग-कृताः सन्ति तान् हन्तीत्य् अर्थः । यद् वा, धातुजं गौरिक-समुद्भूतम् इत्य् अर्थः । विशेषाद् गौरिकेऽस्थिन च इति मेदिन्यां धातुर् गैरिकम् उक्तम् । आत्मा मनः ॥४७-४८॥

———————————————————————————————————————

कैवल्य-दीपिका : विद्या वैराजोपासना8प्राण-निरोधः प्राणायामः । जप्यं प्रणवादि नान्यत् ॥४८॥ [मु।फ। ९.५]

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतद् विवृणोति—विद्येति ॥४८॥

॥।
॥ १२.३.४९ ॥**

तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् ।
म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **यतो विद्यादिभ्यो हरेर्हृदि करणं श्रेष्ठं तस्माद् इत्य् अर्थः। अवहितः सावधानः। ततो हृदि केशवकरणात् । परां तद्रूपावाप्तिरूपाम् ॥४९॥

———————————————————————————————————————

कैवल्य-दीपिका : तस्मात् यस्मात् । ततो हरि-स्मरणात् । पुरुषः परां गतिम् याति ॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एवं तत्-पृष्टार्थान् सर्वान् समापयिष्यंस् तत् कर्तव्यम् उपदिशति—तस्माद् इति । सर्वात्मना सर्वेणैव प्रयत्नेन । तत्रैव कैमुत्येन हेतुम् आह—म्रियेति । हि यस्माद् अन्योऽपि यः कश्चित् म्रियमाणोऽप्य् अवहितः, तस्मिन् कृतावधानश् चेत्, तन्-मात्राद् एव परां सर्वोत्कृष्टां गतिं9 याति । त्वं पुनस् तस्य परमान्तरङ्गः किम् उतेत्य् अर्थः ॥४९॥

॥।
॥ १२.३.५० ॥**

म्रियमाणैर् अभिध्येयो भगवान् पुरुषोत्तमः ।
आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आत्म-भावं स्व-स्वरूपम् ॥५०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तामेवाह—आत्मभावम् इति । तत्र हेतुः—सर्वमादत्त इति सर्वात्मा । तत्रापि हेतुः—सर्वसंश्रयः सर्वाधारः ॥५०॥

———————————————————————————————————————

कैवल्य-दीपिका : म्रियमाणैर् इति । आत्म-भावं स्वरूप-प्राप्तिम् । सर्वात्मना सुलभत्वम् । सर्वात्मत्वात् सर्व-सम्भवत्वात् । भक्तस्य विष्णु-विवर्तत्वात् सद्-भावापत्तिः ॥५०॥ [मु।फ। ९.७]

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अत एवान्यैर् अपि म्रियमाणैर् अभिध्येयःआत्म-भावं आत्मनो भक्तिं। यद् वा, परम-प्रेम्णात्म-तुल्यताम् इत्य् अर्थः ॥५०॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो म्रियमाणो ह्य् अजामिलादि-सदृशोऽपि जनः, अवहितः न विद्यते वहितम् अवहितम् अवधानं यस्य तथा-भूतोऽपि, ततः केशवात् यथा-कृतत्रचिद् अपि स्मृतात् अभिध्येयः ध्यातुं शक्यश् चेत् तदा आत्म-भावम् आत्मनि प्रेमाणं नयति तान् प्रापयति । ननु तत्-समये भगवद्-ध्यानं तेषां कथं ज्ञेयं स्यात्, तत्राह—सर्वात्मा लोका न जानन्तु नाम, स तु जानात्य् एवेत्य् अर्थः । ननु कथं सकृद् ध्यान-मात्राद् एव प्रेमाणं ददाति ? तत्राह—सर्वेषां साध्यानां साधनानां च सम्भवो यस्मात् सः । महोदारस्य तस्य किम् एतच् चित्रम् इति भावः ॥५०॥

॥।
॥ १२.३.५१ ॥**

कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः ।
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इदानीं कलिं स्तौति द्वाभ्याम्—कलेर् दोष-निधे राजन्न् इति ॥५१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कलिः केवलं दोषाकर एव न किन्तु गुणापादकोप्यौषधोपचितद्रव्यवदित्याह—कलेर् इति । दोषनिधेर्दोषसमुद्रस्य गुणम् आह—कीर्तनादेवेति, यथैको नृपोऽसङ्ख्यान दण्ड्यान्हन्ति तथैको गुणः सर्वान् दोषानिति भावः ॥५१॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **कलिम् इत्य्-आदिनैव कलेर् इत्य्-आदि व्याख्यातम् एव । कलि-दोष-प्रशमनत्वेन नाम-कीर्तन-स्मरण-माहात्म्यम् उक्त्वोपसंहरति—कलेर् इति । अस्तु तावद् आयास-साध्यं ध्यानम्10 । हि यस्मात् । अनायास-साध्यात् कीर्तनाद् एवेत्य् अर्थः ।11 स च कलिः श्रेयोऽतिक्रम-हेतूनां दोषाणां निधिर् अपि । कलेर् एको गुणः कीर्तनादर-रूपो महान् एवास्ति, कंसादेः श्री-नारदादर इव । अतस् तस्य विघ्नोद्यमाभावात् सिद्ध्यत्य् एव नाम-कीर्तयितेत्य् आह—कीर्तनाद् एवेति ॥५१॥ [भक्ति-सन्दर्भ ८७-अनुच्छेदो द्रष्टव्यः]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं कलेः सर्वेभ्योऽपि युगेभ्यः श्रैष्ठ्यम् आह—कलेर् इति द्वाभ्याम् । दोषाणां निधेर् अपि कलेर् एको गुणो राजन्न् अस्ति विराजमानो वास्ति । यथा एक एव राजा असङ्ख्यान् अपि दस्यून् हन्ति, तथैवैक एव गुणः सर्वान् अप्य् उक्त-लक्षण-दोषान् हन्तीति भावः । स एव कः ? तत्राह—कीर्तनाद् एवेति । नात्र ध्यानादेर् अप्य् अपेक्षेत्य् अर्थः । यद् वा, कीर्तनाद् एव, किम् उत कीर्तन-सहित-ध्यानादिभ्यः, परं सर्वोत्कृष्टं पुरुषार्थं प्रेमाणम् ॥५१॥

॥।
॥ १२.३.५२ ॥**

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥**

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तत् सर्वं हरि-कीर्तनाद् एव कलौ भवति नान्यस्मिन् युगे । उक्तं च—

ध्यायन् कृते यजन् यज्ञैस्-त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ इति ॥५२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्सर्वं कृतादियुगप्राप्यम् । कलावेव नान्यस्मिन्युगे । तद् उक्तम्—ध्यायन्कृते इति पुराणान्तरे ॥५२॥

इति श्रीमद्भागवते म० द्वादश-स्कन्धे भावार्थदीपिकायां टीकायां तृतीयोऽध्यायः ॥३॥

———————————————————————————————————————

**सनातन-गोस्वामी- **[ह।भ।वि। ११.४५७] परम् उत्कृष्टं भगवद्-भक्ति-माहात्म्यादि-विषयकं ज्ञानम् ॥५२॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **इयं च कीर्तनाख्या भक्तिर् भगवतो जीवेषु द्रव्य-जाति-गुण-क्रियाभिर् दीन-जनैक-विषयापार-करुणा-मयीति श्रुति-स्मृति-पुराणादि-विश्रुतिः । कलौ च दीनत्वं, यथा ब्रह्म-वैवर्ते—

अतः कलौ तपो-योग-विद्या-याज्ञादिकाः क्रियाः ।
साङ्गाः भवन्ति न कृताः कुशलैर् अपि देहिभिः ॥ इति ।

अत एव कलौ स्वभावत एवातिदीनेषु लोकेष्व् आविर्भूय तान् अनायासेनैव तत्-तद्-युग-गत-महा-साधनानां सर्वम् एव फलं ददाना सा कृतार्थयति । यत एव तयैव कलौ भगवतो विशेषतश् च सन्तोषो भवति ।

तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् ।
कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥

इति स्कान्द-चातुर्मास्य-माहात्म्य-वचनानुसारेण । तद् एवम् वदन् कीर्तनं हि कलाव् अपि सर्व-गुण-वारिधिर् इत्य् आह—कृत इति । यद् यत् कृतादिषु तेन तेन साधनेन स्यात्, तच् च तच् च, तद् इत्य् एक-शेषात्, तत् सर्वं कलौ हरि-कीर्तनाद् एव भवति, प्राप्नोतीत्य् अर्थः । अत एवोक्तम् अन्यत्र,

ध्यायन् कृते यजन् यज्ञैस्-त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ इति ॥५२॥ [भक्ति-सन्दर्भः २७०]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-युग-गतानि भगवत्-प्राप्ति-साधनानि कलिर् एक एव ददाति, तत्रापि स्व-सम्भवाद् एकस्मात् सर्व-सुगमात् कीर्तनाद् एव ददातीत्य् आह—कृते इति । तत् सर्वं हरि-कीर्तनाद् एव भवति ॥५२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

द्वादशे तृतीयोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
युगानुवर्णनं नाम
तृतीयोऽध्यायः ।

॥ १२.३ ॥

(१२.४)


  1. गाथिर् भरतो नहुषोऽर्जुनः इति तत्त्ववादि-पाठः। पृथ्व्-आदयो राजानः पृथिव्यां ममतां कृत्वा अकृतार्था एव मर्त्य-धर्मिणः कालेन कथावशेषाः कृता इत्य् उत्तर-श्लोकेनान्वयः (गोविन्दाचार्यः) ↩︎

  2. नन्व् अत्र मर्त्येषु मध्ये कथं रामः पठितः ? कथं वा तस्य मर्त्य-धर्मितया जनन-मरणादिकम् उच्यते ? अकृतार्थतया पराभवास्वातन्त्र्य्-आदिकं वा ? आह—जीव-विष्ण्वोर् अभेदश् च । तथा च पूर्व-स्कन्धान्ते कृष्णस्य देव-वियोगादि नास्तीत्य् उक्तम् एव । पुनर् अप्य् अनेन प्रमाणेन द्रढयन् समानम् एतद् रामावतारेऽपीत्य् अतिदिशति । तथा चासुर-जन-मोहायैव राजसु मध्ये रामस्य ग्रहणं मर्त्यस्येव । न परमार्थम् इति भावः । श्रीधर-स्वामी चाह—“रामो नाम कश्चिद् राजा । यद् वा, लोक-दृष्ट्या दाशरथिर् एव निर्दिष्टः” इति । इदं ब्रह्माण्ड-वचनं कस्य श्लोकस्य व्याख्यानार्थम् उदाहृतम् इत्य् अत्र सर्वेऽपि व्याख्यातारः सम्भ्रान्ताः । पूर्वाध्याय-गतस्यैवेति श्रीनिवास-तीर्थादयः । चतुर्थाध्याये कस्यचित् श्लोकस्येति विजय-ध्वजीयम् । न कश्चिद् एतच्-छ्लोक-सङ्गतिं ददर्श । प्राचीन-पाठे पुनः अत्रादौ—न यत्र वाच इति कालाख्यस्य ब्रह्मणः स्वरूपम् इति चतुर्थाध्याय-सङ्गतं वाक्यं पठित्वा, ततः जीव-विष्ण्वोर् अभेदश् च इत्य्-आदि ब्रह्माण्ड-वचनं पठ्यते । तद् एतत् सर्वं प्रामादिकं पाठ-साङ्कर्यम् ॥ (गोविन्दाचार्यः) ↩︎

  3. अवशेषाश् च इति पुरी-दास-सम्मत-पाठः। ↩︎

  4. यः इति पाठः श्रीनाथस्य। ↩︎

  5. प्रीति-सन्दर्भे ११०म-अनुच्छेदोऽपि द्रष्टव्यः। ↩︎

  6. भजन- ↩︎

  7. एतद् वाक्यं केवलं ख-घ-कर-लिप्योर् उपलभ्यते (पुरीदासः)। ↩︎

  8. वैश्वानराद्य्-उपासना, छान्दोग्ये ५.१३.१। ↩︎

  9. तदायानुगतिं इति अधिक-पाठः ख-लिप्याम्। ↩︎

  10. ज्ञानम् इति भक्ति-सन्दर्भे। ↩︎

  11. अस्त्व् इत्य् आरभ्य वेत्य् अर्थ इति पर्यन्तोऽंशो रसवर्षि-धृत-पाठे नास्ति। ↩︎