०२ कलि-धर्मः

॥ १२.२.१ ॥

श्री-शुक उवाच—

ततश् चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।

कालेन बलिना राजन् नङ्क्षत्य् आयुर् बलं स्मृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वितीये तु कलेर् दोष-वृद्धौ कल्क्य्-अवतारतः ।

अधर्मिष्ठे जने नष्टे पुनः कृत-युगागमः ॥

कलि-धर्मान् प्रपञ्चयति—ततश् चेत्य्-आदिना ॥१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सत्ययुगागमः। कृतयुगागमः । ततः कलिकृतप्रजाक्षयप्राप्तेः । अनुदिनं प्रत्यहम् । हे राजन्न् इति—यथा राजा तथा प्रजा इति न्यायेन यथा त्वदीयराज्ये धर्मादीनां वृद्धिस् तथा कलिराज्ये धर्मादिह्रासश्चेति भावः ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वितीये तु कलौ नॄणां जन्माचार-गुणोदयः ।

कलेर् वृद्धि-परिज्ञानं तद्-अन्ते सत्यम् उच्यते ॥

कलि-दोषान् आह—तत इति ॥१॥

॥।

॥ १२.२.२ ॥

वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः ।

धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्म-न्याययोर् व्यवस्थायां बलम् एव ॥२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **जन्माद्युत्कर्षहेतुर्न तु ब्राह्मणत्वादिर् इति भावः ।

यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ।

इति भर्तृहर्युक्तेः । धर्मन्याययोर्व्यवस्थायामयं धर्मोऽयं न्याय इति निर्णये कर्तव्ये यो धनादिना बली तस्यैव वाक्यं धर्मो न्यायश्चेति लोका मंस्यन्तीत्य् अर्थः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वित्तम् एवेति । यस्य वित्तं वर्तते, स एव सत्-कुल-जन्मा, स एव सद्-आचारः, स एव सद्-गुण इत्य् एवाग्रे व्याख्येयम् ॥२॥

॥।

॥ १२.२.३ ॥

दाम्पत्येऽभिरुचिर् हेतुर् मायैव व्यावहारिके ।

स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दाम्पत्ये भार्या-पति-भावेऽभिरुचिर् एव हेतुर् न कुल-गोत्रादिः । व्यावहारिके क्रय-विक्रयादौ । स्त्रीत्वे पुंस्त्वे च तयोः श्रैष्ठ्ये रति-कौशलम् एव हेतुर् न कुलम् आचारो वा ॥३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दम्पतिभावे विवाहे—

कुशविप्राम्बुपित्रग्निवेदभूकालदिक्सुराः ।
साक्ष्ये यत्र विवाहे तु तद्दाम्पत्यमुदीरितम् । इति नारदीयोक्तम् ।

कुशविप्रादीन्विनैव विवाहा भविष्न्तीत्य् अर्थः । मायैव कपटम् एव । सूत्रं तन्तुमात्रम् एव न तु नित्यनैमित्तिकानुष्ठानस्वाध्यायादि, ब्राह्मणोऽहं दृश्यतां मत्कण्ठे सूत्रमित्येवं स्वीयविप्रत्वं सूचयिष्यन्ति न तु वेदोच्चारणादिनेति भावः । यज्ञसूत्रम् इति वक्तव्ये सूत्रमित्य् उक्त्या तस्य मन्त्रनिर्मितत्वाद्यभावेन केवलं कर्तनयन्त्रादिगतसूत्रतुल्यतैव ध्वनिता । तद् उक्तम्—

अनध्यायकृतं यच्च तथा मन्त्रविवर्जितम् । अविप्रपत्नीसूत्रोत्थमवीरासूत्रनिर्मितम् ।
ग्राममध्ये कृतं यच्च भुक्त्वा चैव कृतं तु यत् ।
अब्राह्मणकृतं यच्चाशुचिना निर्मितं तु यत् ।

तत्सूत्रं विबुधैर् ज्ञेयं पशुबन्धनरज्जुवत् ॥ इति निर्णयसुधाकरे ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.४ ॥

लिङ्गम् एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् ।

अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आश्रमाणां ख्यातौ ज्ञाने लिङ्गम् एव दण्डाजिनादिकं हेतुर् न त्व् आचार-विशेषः । अन्योन्यापत्ति-कारणं चाश्रमाद् आश्रमान्तर-प्राप्तौ च कारणम् । यद् वा, बहूदक-हंसादीनाम् अन्योन्यापत्तौ नमस्कारादि-व्यवहारे कारणम् । अवृत्त्या मुद्रार्पणादि-दानासामर्थ्येन न्याये दौर्बल्यं पराजयः । चापलं वचो बहु-भाषणम् ॥४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्योन्यं विप्रा नमन्ते इत्य्-आद्य्-उक्त्या सजातीयेष्वेवान्योन्यादिप्रयोगदर्शनाद्विजातीयब्रह्मचर्यसन्न्यासादौ तत्कथं प्रयुक्तं तत्राह—तद्वेति ॥४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अन्योन्यापत्तौ ।परस्परम् उत्कर्षापकर्ष-प्राप्तौ लिङ्गम् एव दण्डाजिन-शिखा-त्यागादिकम् एव कारणं, न तु ज्ञान-सद्-आचारादिकम् । अवृत्त्या मूद्राद्य्-अर्पणा-सामर्थ्येनैव हेतुना न्याय-दौर्बल्यं न्याये पराजयः । चापलं वचः चापल्य-युक्तं भाषणम् ॥४॥

॥।

॥ १२.२.५ ॥

अनाढ्यतैवासाधुत्वे साधुत्वे दम्भ एव तु ।

स्वी-कार एव चोद्वाहे स्नानम् एव प्रसाधनम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **असाधुत्वे चौर्याद्य्-अभियोगे । प्रसाधनम् अलङ्कारः ॥५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अभियोगः प्रापणम्, दुष्टत्व इत्य् अर्थः । त्वं मे भार्येति स्वीकारहेतुः । प्रसाधनं शरीरशुद्धिरलङ्कारो वेति तीर्थः । उद्वाहे विवाहस्थाने स्वीकारस्त्वं मे भार्येत्यङ्गीकरणम् एव न तु पित्रादिकर्तृकार्पणम् । अलङ्कारस्थाने केवलं स्नानम् एव न तु स्वर्णादि, घोरे कलौ स्वर्णाद्यप्राप्तग्रन्थान्तरोक्तेः ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.६ ॥

दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् ।

उदरम्-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दूरे वर्तमानं वार्ययनं जलाशयस् तीर्थं, न तु गुर्व्-आदि । स्वार्थः पुरुषार्थः ॥६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **

तीर्थ मुख्यं पिता माता गुरुः शास्त्रं तथा हरिः ।

गौणं तीर्थं त्वम्मयं स्याद् इत्य् उक्तं तीर्थवेदिभिः ॥ इति ।

लावण्ये शरीरसौन्दर्यद्योतनाय केशानामितस्ततः प्रसाधनमात्रम् एव भविष्यति वस्त्रभूषाद्यनाप्तेः । उदरभरणम् एव पुरुषार्थं मंस्यन्ते न तु हरिस्मरणादिकमित्य् अर्थः । धार्ष्ट्यं वृथा हठः यो वृथा हठं करिष्यति तं सत्यवादिनं मंस्यन्त इत्य् अर्थः ॥६॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **लावण्ये निमित्ते केश-धारणम् एव करिष्यन्तीति सप्तम्य्-अन्तानाम् अन्वयः ॥६॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वार्ययनं जलाशयः ॥६॥

॥।

॥ १२.२.७-८ ॥

दाक्ष्यं कुटुम्ब-भरणं यशोऽर्थे धर्म-सेवनम् ।

एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले ॥

ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः ।

प्रजा हि लब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः ॥

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **दाक्ष्यं नैपुण्यम् । यशोर्थ इति—कल्याणबुद्ध्या न कोपि धर्मं करिष्यतीत्य् अर्थः ॥ निर्धृणैर् निर्दयैः ॥७-८॥

॥।

॥ १२.२.९-११ ॥

आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् ।

शाक-मूलामिष-क्षौद्र-फल-पुष्पाष्टि-भोजनाः ॥

अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-पीडिताः ।

शीत-वातातप-प्रावृड्-हिमैर् अन्योन्यतः प्रजाः ॥

क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया ।

त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आच्छिन्ना अपहृता दारा द्रविणानि च यासां ताः । अष्टिर् बीजम् ॥९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आमिषं मांसम्, क्षौद्रं मधु ॥ क्षुधादिभिश् च नङ्क्ष्यति । यद् वा, त्रिंशता सहिता विशतिस्त्रिंशद्विशतिः, पञ्चाशद् इत्य् अर्थः । परमायुः अहोपुण्यवानयमनेन बहु जीवनं प्राप्तमित्य् अर्थः ॥९-११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१२ ॥

क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः ।

वर्णाश्रम-वतां धर्मे नष्टे वेद-पथे नृणाम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **क्षीयमाणेष्व् इत्य्-आदीनाम् इत्थं कलौ गत-प्राय इति पञ्चमेनान्वयः । क्षीयमाणेष्व् अल्प-प्रायेषु ॥१२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कलेर्दोषा असत्यसम्भाषणादयस्तेभ्य इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१३ ॥

पाषण्ड-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु ।

चर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **दस्यु-प्रायेषु चौर-तुल्येषु । चौर्यानृत-वृथाहिंसाद्या नाना-वृत्तयो येषां तेषु ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **प्रायशब्दार्थस्त्वत्र तुल्यतैव । वृथा हिंसा पित्राद्यनुद्दिश्य पशुहननम् ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१४ ॥

शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु ।

गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **छाग-प्रायासु प्रमाणतः क्षिरतश् चाजातुल्यासु ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **आश्रमेषु सन्न्यासादिपु परिग्रहादिना गृहस्थतुल्येषु । योनिसम्बन्धेन सम्बन्धिनो यौनाः श्वशुरश्यालादयस्तत्प्रायेषु, प्रायशब्दोऽत्र प्रधाने श्वसुरादिप्रधानेषु कर्तव्याथानुसङ्घानाथ श्यालश्यालीपत्यादीनाश्रयिष्यन्तीति भावः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१५ ॥

अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु ।

विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अणु-प्रायासु श्यामाक-तुल्यासु । स्थास्नुषु वृक्षेषु । विद्युत्-प्रायेषु तडिद्-बहुलेषु । शून्य-प्रायेषु धर्मादि-रहितेषु सद्मसु गृहेषु ॥१५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ओषध्यो यवगोधूमव्रीह्याद्याः । अणुप्रायासु श्यामाकतुल्यासु । यद् वा, ओषधीष हरीतक्यादिषु, अणुप्रायासु निष्फलासु तृणप्रायासु—

ओषध्यो यवव्रीह्याद्याः शिवाद्या अपि कीर्तिताः ।
अणुव्रीहिविशेषे ना तृणसूक्ष्माफलेषु च तुच्छे मानविशेषे च । इति कोशात् ।

शमीसक्तुफला, सा चाल्पवृक्षजातिः, यत्काष्ठे यज्ञेऽग्निमथन क्रियते याज्ञिकेः वृक्षेषु वटा—श्वत्थादिषु छायाद्यभावेन शमीतुल्येष्वित्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्थास्नुषु वृक्षेषु ॥१५॥

॥।

॥ १२.२.१६ ॥

इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु ।

धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **जने तु खर-धर्मिणि दुःसह-चेष्टिते कलौ गत-प्राये समाप्त-प्राये ॥१६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **क्वचित् जने तु इति पाठस्तत्र खरधर्मिणीति तद्विशेषणम् । खरो रासभस्तद्धर्मो निर्जलमैथुनकश्मलाशनादिलक्षणस्तद्वति सतीत्य् अर्थः । क्वचित् तेषु खरधर्मिषु इति पाठः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१७ ॥

चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः ।

धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत् प्रपञ्चयति चतुर्भिः—चराचर-गुरोर् ईश्वरस्येति च । धर्म-त्राणे हेतुः, गुरुत्वेश्वरत्वयोर् उपपादनम् अखिलस्य विश्वस्यात्मनः कारणस्येति । एवं-भूतस्य विष्णोर् जन्म साधूनां धर्म-त्राणाय । धर्म-त्राण-प्रयोजनम् आह—कर्मापनुत्तये मोक्षाय ॥१७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **साधूनां वेदानुगामिनाम् । धर्मो यज्ञादिरूपस्तस्य रक्षणाय । धर्म एवानुष्ठितोन्तःकरणशुद्धिद्वारा मोक्षहेतुरित्यत उक्तं मोक्षायेति ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विष्णोर् जन्म भविष्यति साधूनां कर्मापनुत्तये मोक्षाय ॥१७॥

॥।

॥ १२.२.१८ ॥

शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः ।

भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **शम्भल-ग्रामे मुख्यस्य प्रधानस्य नाम्ना विष्णुयशसो ब्राह्मणस्य । भवने गृहे ॥१८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कलिं कृपति विलिखति भिनत्तीति कल्किः । पृषोदरादिरयम् । कृषतेर्डिप्रत्यये टिलोपे कलेरिकारलोपे च रूपसिद्धेः । यद् वा, कं सुखं लाति ददातीति कलो धर्मः, तं कायत्युपदिशतीति कल्किः वासुदेवानुशिक्षाया इत्य्-उक्तेः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.१९-२० ॥

अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः ।

असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः ॥

विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः ।

नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **धर्म-त्राण-प्रकारम् आह, अश्वम् इति । असाधवो दम्यन्ते येन तम् अश्वम् आरुह्यासिना दस्यून् कोटिशो निहनिष्यतीत्य् उत्तरेणान्वयः । असाधु-दमन इति पाठे कल्कि-विशेषणम् । अणिमाद्य्-अष्टैश्वर्याणि गुणाश् च सत्य-सङ्कल्पत्वादयस् तैर् अन्वितः ॥१९॥

तत्-प्रपञ्चः, आशुना शीघ्र-गामिना तेन हयेनाश्वेन क्षोण्यां पृथिव्यां विचरन् । नृप-लिङ्ग-च्छदो राज-वेष-च्छन्नान् ॥२०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **देवैर् इन्द्रादिभिर्दत्तमानीतम् ॥ अप्रतिमद्युतिः सर्वोत्कृष्टदीप्तियुतः ॥१९-२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवैः प्रस्थापितत्वात् देवदत्तत्वं, आशुना शीघ्र-गामिना, असाधवो दम्यन्ते येन, तम् असाधु-दमनं, नृप-लिङ्ग-च्छदः राज-वेश-च्छन्नान् ॥१९-२०॥

॥।

॥ १२.२.२१ ॥

अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।

वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् ॥

पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च पुनः कृत-युग-प्रवृत्तिं वक्तुम् आह, अथेति सार्धाभ्याम् । तेषां पौर-जानपदानां मनांसि विशदानि भविष्यन्ति । तत्र हेतुः, वासुदेवस्याङ्ग-रागेण चन्दनादिनाति-पुण्य-गन्धो योऽनिलस् तं स्पृशन्तीति तथा तेषाम् ।

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततो दस्युहननोत्तरम् । अयम् एव मूलोक्तार्थशब्दार्थः । तेषां कलियुगसमाप्त्युत्तरकालिकानां पौरजानपदानां तत्तत्पुरदेशवासिनां जनानाम् । तत्र मनेविशदत्वे ॥२१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

॥।

॥ १२.२.२२ ॥

तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति ।

वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **स्थविष्ठिः स्थूलः ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **स्थविष्ठिर् धर्म-निष्ठतया स्थूलतरः ॥२२॥

॥।

॥ १२.२.२३ ॥

यदावतीर्णो1** भगवान् कल्किर् धर्म-पतिर् हरिः ।**

कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कृत-युग-प्रवृत्तिम् आह—यदावतीर्ण इति । प्रजानां सूतिः प्रसूतिः ॥२३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेषाम् एव स्थूलोऽधिकः ॥२२-२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सूतिः प्रसूतिः ॥२३॥

॥।

॥ १२.२.२४ ॥

यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती ।

एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-अवतार-कालोपलक्षणम् आह—यदा चन्द्रश् चेति । तिष्यः पुष्यः । अयम् अर्थः, चन्द्र-सूर्य-बृहस्पतीनां यदा पुष्य-नक्षत्रे योगस् तदा तत् कृत-युगं भविष्यति । यद्य् अपि च प्रति-द्वादशाब्दं कर्क-राशौ बृहस्पतौ वर्तमाने द्वि-त्रास्व् अमावास्यासु तेषां त्रयाणाम् अपि पुष्य-योगः संभवति, तथापि तेषां सह प्रवेशोऽत्र विवक्षितः । समेष्यन्तीति वचनात् । अतो नातिप्रसङ्गः ॥२४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राशयम् आह—अयमर्थ इति । अतस्समकालिकतत्त्रयपुष्यप्रवेशविवक्षणात् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सत्य-युगारम्भ-कालं दर्शयति—यदेति । तिष्यः पुष्यः । अयम् अर्थः—चन्द्र-सूर्य-बृहस्पतीनां यदा पुष्य-नक्षत्रे योगस् तदा कृत-युगं भविष्यतीति । यद्यपि प्रति-द्वादशाब्दं कर्कट-राशौ बृहस्पतौ वर्तमाने द्वि-त्रास्व् अमावास्यासु तेषां त्रयाणाम् अपि पुष्य-योगः संभवति, तथापि तेषां सह प्रवेशोऽत्र विवक्षितः । समेष्यन्तीति वचनात् । अतो नातिप्रसङ्गः ॥२४॥

॥।

॥ १२.२.२५ ॥

येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।

ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एवं नवम-स्कन्धम् आरभ्यानुक्रान्तं वैवस्वत-मनोर् वंश-द्वयं निगमयति—येऽतीता इति । उद्देशतः सङ्क्षेपतः ॥२५॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समासोद्दे शसङ्क्षेपास्त्रय एकार्थवाचकाः इति शब्दरत्नसंग्रहोक्तेः ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नवमम् आरभ्योपक्रान्तां कथाम् उपसंहरति—येऽतीता इति ॥२५॥

॥।

॥ १२.२.२६ ॥

आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् ।

एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलि-युगावान्तर-विशेषं वक्तुम् आह—आरभ्येत्य्-आदिना । वर्ष-सहस्रं पञ्चदशोत्तरं शतं चेति कयापि विवक्षयावान्तर-सङ्ख्येयम् । वस्तुतस् तु परीक्षिन्-नन्दयोर् अन्तरं द्वाभ्यां न्यूनं वर्षाणां सार्ध-सहस्रं भवति । यतः परीक्षित्-सम-कालं मागधं मार्जारिम् आरभ्य रिपुञ्जयान्ता विंशति-राजानः सहस्र-संवत्सरं भोक्ष्यन्तीत्य् उक्तं नवम-स्कन्धे, ये बार्हद्रथ-भू-पाला भाव्याः साहस्र-वत्सरं [भा।पु। ९.२२.४९] इति । ततः परं पञ्च प्रद्योतना अष्ट-त्रिंशोत्तरं शतम् । शिशुनागाश् च षष्ट्य्-उत्तर-शत-त्रयं भोक्ष्यन्ति पृथिवीम् इत्य् अत्रैवोक्तत्वात् ॥२६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्र स्वामिचरणैर् एव सुव्याख्यातत्वादस्माभिरुपन्यस्यते ॥२६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एतद्-वर्ष-सहस्रम् इत्य् एषैव सङ्ख्या प्रमाणी कर्तव्या । परीक्षितः सम-काल-वर्ति-मार्जारि-प्रभृतीनाम् आनन्दाद् भोग-काल-सङ्ख्यया तु किञ्चिन् न्यूनं सार्ध-साहस्रं यद् वर्षाणि, तत् तेषां खण्ड-मण्डल-पतीनां विलाप्यानन्तर्येण सङ्ख्यातानीति ज्ञेयम् ॥२६॥

॥।

॥ १२.२.२७-२८ ॥

सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।

तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥

तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् ।

ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलेः प्रवृत्तिं वृद्धिं च निरूपयितुं काल-ज्ञानोपलक्षणम् आह—सप्तर्षीणां त्व् इति । अयम् अर्थः—प्राग् अग्र-शकटाकारं तारा-सप्तकं सप्तर्षि-मण्डलम् । तत्र किञ्चिद् उन्नतेषाग्र-स्थानीयो मरीचिः । ततः पश्चाद् आनम्र-युग-कन्धराकारो वसिष्ठः स-भार्यः । ततः पश्चाद् ईषद्-उन्नतेषामूल-स्थानीयोऽङ्गिराः । ततः पश्चाच् चतुरस्र-तारा-चतुष्के ईशान्याम् अत्रिः । ततो दक्षिणतः पुलस्त्यः । पुलस्त्यात् पश्चिमतः पुलहः । तत उत्तरतः क्रतुः । एवं स्थिते, तेषां मध्ये यौ पूर्वौ उदय-समये प्रथमम् उदितौ दृश्येते पुलह-क्रतु-संज्ञौ, तयोस् तु मध्ये तयोः पूर्वयोस् तु मध्ये यत् समं दक्षिणोत्तर-रेखायां सम-देशावस्थितम् अश्विन्य्-आदिषु यद् अन्यतमं नक्षत्रं दृश्यते, तेन तथैव युक्ता ऋषयः नृणाम् अब्द-शतं तिष्ठन्ति, ते च द्विजास् त्वदीये कालेऽधुना मघा आश्रिता वर्तन्ते ॥२७-२८॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राशयम् आह—अयमर्थ इति । तत्र शकटाकारे । ईषा रेखा सीरदण्डः शकटाङ्गविशेषश् च तदग्रस्थानीयस्तत्स्थानापन्नः। युगः शकटाग्रबद्धः वृषयोजनार्थकः शकटाङ्गभेद एव, तद्ग्रीवा च तन्मध्यभाग उच्चाकार एव बोध्यः ॥२७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ कलेर् उत्पत्ति-कालं वृद्ध-कालं च निरूपयितुं काल-ज्ञान-विशेषम् आह— सप्तर्षीणाम् इति । प्राग् अग्रं शकटाकारं तारा-सप्तकं सप्तर्षि-मण्डलम् । तत्रोदय-समये पूर्वौ प्रथमम् उदितौ पुलह-क्रतु-संज्ञौ यौ निशि दृश्येते, तयोर् मध्ये गतम् अश्विन्य्-आद्य्-अन्यतमम् एकैकं नक्षत्रं तिष्ठति, एकैक-शत-वर्षं व्याप्य तेन तेनैव युक्ता ऋषयस् तिष्ठन्तीति नियमः । अधुना तु ते मघाश्रिता वर्तन्त इति, तेनाश्लेषाश्रितेषु कृष्ण-प्रादुर्भावः । मघाश्रितेषु तेषु तद्-अन्तर्धानं कलि-प्रवेशश् च, पूर्वाषाढं प्राप्तेषु कलेर् वृद्धिर् इत्य् उत्तर-ग्रह-दृष्ट्या ज्ञेयम् ॥२७-२८॥

॥।

॥ १२.२.२९ ॥

विष्णोर् भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।

तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेषु मघसु वर्तमानेषु सत्सु यदा विष्णोर् भानुर् भातीति भानुः शुद्ध-सत्त्वात्मको देहो दिवं वैकुण्ठं गतः, **तदा कलि-**युगम् अविशत्यद् यस्मिन् युगे जनः पापे रमते इति कलि-युगस्य लक्षणम् ॥२९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेन पुलहक्रतुमध्यगतनक्षत्रेण ॥२८-२९॥

———————————————————————————————————————

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विष्णोर् भगवतो भानुः कृष्णाख्योऽसौ दिवं गत इति भगवतो विष्णोर् अपि भानुः प्रकाशकः, सर्वेश्वरेश्वरत्वात् कृष्ण इत्य् आख्या यस्य, दिवं स्व-धाम ॥२९॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-कृष्ण-लोकं एव द्यु-शब्देनाप्य् आह2—विष्णोर् इति । यदा गुणावतारस्य भगवतो विष्णोस् तद्-अंशत्वाद् रश्मि-स्थानीयस्य कृष्णाख्यो भानुः सूर्य-मण्डल-स्थानीयः दिवं प्रापञ्चिक-लोकागोचरं मथुरादीनाम् एव प्रकाश-विशेष-रूपं वैकुण्ठ-लोकं गतः, तदा कलिर् लोकम् अविशत् । एषां च प्रकाशः पृथिवी-स्थोऽप्य्3 अन्तर्धान-शक्त्या ताम् अस्पृशन्न् एव विराजते । अतस् तया न स्पृश्यते, पृथिव्य्-आदि-भूत-मयैर् अस्माभिर् वाराहोक्त-महा-कदम्बादिर् इव4 । यस् तु प्रापञ्चिक-लोक-गोचरो मथुरादि-प्रकाशः, सोऽयं कृपया पृथिवीं स्पृशन्न् एवावतीर्णः । अतस् तया स्पृश्यते तादृशैर् अस्माभिर् दृश्यमान-कदम्बादिर् इव। अस्मिंश् च प्रकाशे यदावतीर्णो भगवान्, तदा तत्-स्पर्शेनापि तत्-स्पर्शात् तां स्पृशन्न् एवास्ते स्म। सम्प्रति तद्-अस्पृष्ट-प्रकाशे विहरमाणः पुनर् अस्पृशन्न् एव भवति । यद्यप्य् एवं तथापि क्वचिद् द्वयोर् भेदेन क्वचिद् अभेदेन विवक्षा तत्र तत्रावगन्तव्या ॥२९॥ [श्री-कृष्ण-सन्दर्भ १०७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि मघास्व् एव यदा भगवतो भानुः श्री-कृष्णस्य किरण-रूपो वैकुण्ठ-नाथः दिवं वैकुण्ठं गतः, कृष्णाख्यः कृष्णत्वेन आ सम्यक् ख्यातिर् यस्य सः । भातीति भानुः शुद्ध-सत्त्वात्मको देह इति स्वामि-चरणाः ॥२९॥

॥।

॥ १२.२.३० ॥

यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः ।

तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥5

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु श्री-कृष्णे पृथिव्यां वर्तमानेऽपि सन्ध्या-रूपेण कलिः प्रविष्ट एवासीत्, सत्यम्, तथापि तावत् तस्य पराक्रमो नाभवद् इत्य् आह—यावद् इति । पराक्रान्तुम् अभिभवितुम् ॥३०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अत्राक्षिपति—नन्व् इति । अभिभवितुं स्वसामर्थ्यं दर्शयितुम् ॥३०॥

———————————————————————————————————————

**जीव-गोस्वामी (क्रम-सन्दर्भः) : **तद् एतद् अभिप्रेत्याह—यावद् इति । पराक्रान्तुम् इत्य् अनेन तत्-पूर्वम् अपि कञ्चित् कालं व्याप्य प्रविष्टोऽसाव् इति ज्ञापितम् ॥३०॥ [श्री-कृष्ण-सन्दर्भ १०७]

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु द्वापरस्य सन्ध्यांश-शेषे भगवद्-अवतार-मध्ये एव यदा दुर्योधनो द्यूतं प्रवर्तयामास, ततो द्रौपदी-वस्त्राकर्षण-समयम् एव भगवद्-आविष्टः । कलिः पृथिव्याम् अधिकर्तुं प्रथमं शुभ-मुहूर्तं चकारेति श्रुतम् । सत्यं, तद् अपि स तदाकिञ्चित्कर एवासी इत्य् आह्—यावद् इति । कृष्णावतार-मध्ये किल चतुर्भिर् वर्तसे येन पादैर् लोक-सुखावहैर् इति पृथिव्य्-उक्तेस् त्रेता-युगतोऽपि धर्मस्य प्राबल्यात् कुतः कलेस् तदा पराक्रम इति भावः ॥३०॥

॥।

॥ १२.२.३१ ॥

यदा देवर्षयः सप्त मघासु विचरन्ति हि ।

तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अतो यथोक्त एव कलि-प्रवेश-काल इत्य् आह—यदा देवर्षय इति । द्वादशाब्द-शतात्मक इति । दिव्येन मानेन सन्ध्या-सन्ध्यांशाभ्यां सह यो द्वादशाब्द-शतात्मकः, स कलिस् तदा सन्ध्याम् अतिक्रम्य प्रविष्ट इत्य् अर्थः ॥३१॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अतः पराक्रमाभावात् । इत्य् अर्थ इति—श्री-कृष्णकाले स्वसन्ध्या विहाय स्वेन रूपेणैव प्रविष्ट इति भावः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो मघास्थेषु ऋषिषु कृष्णान्तर्धान-क्षण-समनन्तर-क्षण एव कलिः प्रविष्ट इत्य् आह—यदेति । द्वादशाब्द-शतात्मक इति दिव्येन मानेन सन्ध्या-सन्ध्यांशाभ्यां सहेत्य् अर्थः ॥३१॥

॥।

॥ १२.२.३२ ॥

यदा मघाभ्यो यास्यन्ति पूर्वाषाठां महर्षयः ।

तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलेः प्रवेश-कालम् उक्त्वा तस्य वृद्धि-कालम् आह—यदेति । तदा प्रद्योतनात् प्रभृति वृद्धिं गच्छन् नन्दात् प्रभृत्य् अतिवृद्धिं गमिष्यतीत्य् अर्थः ॥३२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—परीक्षित्कालिकसप्तर्षिमण्डलगतमघानक्षत्रतः पूर्वाषाढर्क्षं दशममस्ति, तत्रकैकर्क्षस्य शतवर्षं तत्र स्थायित्वान्नदकाले कलेवर्षसहस्रमुक्तिरायाति । अत एवोक्तम्—आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम् । एतद्वर्षसहस्रम् इति तच् च पूर्वं पराक्रान्तम् एवेति भावः ॥३२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कलेर् वृद्धि-कालम् आह—यदेति ॥३२॥

॥।

॥ १२.२.३३ ॥

यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि ।

प्रतिपन्नं कलि-युगम् इति प्राहुः पुरा-विदः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ननु यदा कलेर् लिङ्गम् उपलब्धं, तदैव प्रविष्ट इति युक्तम् । ततः पूर्वम् एव प्रवेशस् ततः परं वृद्धिर् इत्य् अत्र किं प्रमाणम् ? तत्राह—यस्मिन्न् इति । प्रतिपन्नं प्रविष्टम् इति ज्ञातम् । पुरा-विदः पूर्व-ज्ञातारः ॥३३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पुनराक्षिपति—नन्व् इति । तस्मिन्नेवाहनि । तदा तस्मिन्नैव क्षणे ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कलेः प्रथम-सन्ध्यायां कृष्णोऽवतीर्ण इति नवीना वदन्ति तन् नेत्य् आह—यस्मिन्न् इति । अतो युगानां पूर्व-सन्ध्यांश-शेषे एव आरम्भ-समय इति यो नियमः, सोऽपि कलेर् भगवत्-प्रभावाद् व्यर्थ एवाभूद् इति भावः ॥३३॥

॥।

॥ १२.२.३४ ॥

दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।

भविष्यति तदा नॄणां मन आत्म-प्रकाशकम् ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलेर् अनन्तरं कृत-युग-प्रवेशम् आह—दिव्याब्दानाम् इति । चतुर्थे कलौ प्रवेशनाब्द-परिमितेनांशेनापि सहातीते सतीत्य् अर्थः । कृत-युग-प्रवेश-चिह्नम् आह—यदा नॄणां मन आत्म-प्रकाशकं भविष्यति तदेति ॥३४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इत्य् अर्थ इति—दिव्याब्दानां सहस्रस्यान्तः स्थितिर्यस्मिन्सन्ध्यांशे स सहस्रान्तस्तस्मिंस् तथा तद्गुणसंविज्ञानबहुब्रीहित्वाद्वादशशताब्दात्मके सन्ध्यांशसहिते कृतयुगापेक्षया चतुर्थे कलाव् इति शेषेणायं भावः । दिव्याब्दानां सहस्रान्त इत्यलुक्समासः अन्तो नाशे स्थितावपि इत्यभिधानात् । यहा—दिव्याब्दानां सहस्रेणान्तो नाशो यस्य तस्मिंश्चतुर्थेऽतीते सति सहस्रपदं सन्ध्यांशरूपशतद्वयस्याप्युपलक्षणम् ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कृत-युग-प्रवेश-कालम् आह—दिव्येति । चतुर्थे कलौ तदीय-सन्ध्यांश-शेष-समये इत्य् अर्थः ॥३४॥

॥।

॥ १२.२.३५ ॥

इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि ।

तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **राज-वंशोक्तां स्थितिं ब्राह्मणादि-वंशेष्व् अप्य् अतिदिशति—इत्य् एष इति । यथा याभिर् उच्च-नीचावस्थाभिः । तास् ता अवस्थाः । वंशा इति वा पाठः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मानवो वंशो यथा सङ्ख्यायते मनु-वंश्यानां यावत्यः सङ्ख्या यथोक्ता इत्य् अर्थः । तथैव तत्र तत्रत्यानां वैश्यादि-वंश्यानाम् अपि तावत्यः सङ्ख्या अनुक्ता अपि ज्ञेयाः ॥३५॥

॥।

॥ १२.२.३६ ॥

एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् ।

कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतत्-कीर्तनस्य वैराग्योपयोगिताम् आह—एतेषाम् इति । नामैव लिङ्गं ज्ञापकं येषां, तेषां कथा-मात्रेणैवावशिष्टानां कीर्तिर् एव स्थिता, न तु राज्यं पुत्रादयो वा ॥३६॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तास्ता इत्यस्य स्थाने वंशा इति वा पाठः ॥३५-३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नामैव लिङ्गं ज्ञापकं येषाम् ॥३६॥

॥।

॥ १२.२.३७ ॥

देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः ।

कलाप-ग्राम आसाते महा-योग-बलान्वितौ ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कलाव् उत्सन्नानां राज-वंशानां पुनः प्रवृत्ति-प्रकारम् आह—देवापिः सोम-वंश-जः । मरुस् तु सूर्य-वंश-जः । कलाप-ग्रामो नाम योगिनाम् आवासः प्रसिद्धः ॥३७॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **बदरिकाश्रमे कलापग्रामोऽस्ति । महायोगबलान्वितावणिमाद्यैश्वर्ययुक्तौ ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कलाव् उत्सन्नानां राज-वंशानां पुनः प्रवृत्ति-प्रकारम् आह—देवापिः सोम-वंश-जः ॥३७॥

॥।

॥ १२.२.३८ ॥

ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ ।

वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः ॥

न कतमेनापि व्याख्यातम्।

॥।

॥ १२.२.३९ ॥

कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् ।

अनेन क्रम-योगेन भुवि प्राणिषु वर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), **विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **इमम् एव प्रकारं प्रति चतुर्-युगं दर्शयति—कृतम् इति ॥३९॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तौ मरुदेवापिसंज्ञौ । इहार्यावर्ते । एत्य प्राप्य । वसुदेवेन कल्किरूपेण हरिणा अनुशिक्षितौ बोधितौ । पूर्ववद्गतकृतयुगवत् ॥३८-३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


॥ १२.२.४० ॥

राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे ।

भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एतेषां नाम-लिङ्गानां [भा।पु। १२.२.३६] इत्य्-आदि यद् उक्तं तत् प्रपञ्चयति—राजन्न् इति पञ्चभिः ॥४०॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे राजन्न् इति—राजमात्राणामियम् एव दशेति भावः । अते देहान्ते । इमां भुवम् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नामैव लिङ्गं ज्ञापकं येषाम् ॥४०॥

॥।

॥ १२.२.४१ ॥

कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नोऽपि यस्य च ।

भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ममत्वं कृत्वेत्य् अनेन सूचितां भूत-द्रोह-प्रवृत्तिं निन्दति—कृमीति । राज-नाम्नो राजेति नाम यस्य तस्यापि देहस्यान्ते कृमयो विष्ठा भस्मेति वा संज्ञा भविष्यति । तत्-कृते तद्-अर्थं यो भूत-ध्रुक् भूतेभ्यो द्रुह्यति, स किं स्वार्थं वेद ? किं तु न वेदैव । कुतः ? इत्य् अपेक्षायां हेतुत्वेन भूत-द्रोहं विशिनष्टि, यतो भूत-द्रोहान् निरयो भवति ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज-नाम्नोऽपि देहस्य अन्ते मरणे सति कृम्य्-आदिकम् एव नाम भवेत् । तस्य देहस्य कृते ॥४१॥

॥।

॥ १२.२.४२ ॥

कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता ।

मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ममत्व-प्रकारं प्रपञ्चयति—कथम् इति । सेयम् अखण्डा भूर् मे पूर्व-जैर् धृता सती इदानीं मत्-पूर्वा च सती मत्-पुत्रादेः कथं स्याद् इत्य् एवम् ॥४२॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स्वार्थं स्वकर्तव्यं किं वेद किन्तु न वेदेत्यर्थः ॥४१-४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ममत्व-प्रकारम् अभिनयेन दर्शयति—कथम् इति । मत्-पूर्वा च सती मत्-पुत्रादेः कथं स्याद् इत्य् एवम् ॥४२॥

॥।

॥ १२.२.४३ ॥

तेजो-ऽब्-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः ।

महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उभौ महीं कायं च । अदर्शनं मृत्युम् ॥४३॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तेजोबन्नमयम् इति त्रिवृत्करणश्रुत्यभिप्रायेणोक्तम् ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कायम् आत्मतया, महीं च ममतया, गृहीत्वा उभयौ मही-कायौ, अदर्शनं मृत्युम् ॥४३॥

॥।

॥ १२.२.४४ ॥

ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा ।

कालेन ते कृताः सर्वे कथा-मात्राः कथासु च ॥

**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उपसंहरति—ये ये इति । ते सर्वे च कथासु क्रियमाणासु । कथा-मात्राः कालेन कृताः ॥४४॥

———————————————————————————————————————

**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **कथामात्रा इति—कथैव तेषामवशिष्टा न स्वरूपम् इति भावः ।४४। यदि कल्क्यवतारान्तराजकथाविशेषजिज्ञासा चेत्तर्हि भविष्यसंहितादिग्रन्था मत्संगृहीतचतुर्युगीयराजचरितग्रन्थश्चावलोकनीयः ॥४४॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे द्वितीयोऽध्यायः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥

॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
कलि-धर्मो नाम
द्वितीयोऽध्यायः ।

॥ १२.२ ॥


(१२.३)

अथ तृतीयोऽध्यायः


  1. यदावतारो ↩︎

  2. इदं वाक्यं रसवर्षि-धृत-पाठे नास्ति। ↩︎

  3. यं तद्- (रसवर्षी) ↩︎

  4. अत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः । कालिय-ह्रद-पूर्वेण कदम्बो महतो द्रुमः ॥ शत-शाखं विशालाक्षि पुष्पं सुरभि-गन्धि च । स च द्वादश-मासेषु मनोज्ञः शुभ-सितलः । पुष्पयति विशालाक्षि भास्वरंस् तु दिशो दश ॥ [मथुरा-माहात्म्ये ३९०-३९१] ↩︎

  5. अत्रआनुरूप-श्लोकः १.१८.६-पद्ये द्रष्टव्यः। ↩︎