ॐ नमो भगवते वासुदेवाय
॥ १२.१.१ ॥1
राजोवाच—
स्वधामानुगते कृष्णे यदु-वंश-विभूषणे ।
कस्य वंशोऽभवत् पृथ्व्याम् एतद् आचक्ष्व मे मुने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
श्री-गुरुं परमानन्दं वन्द आनन्द-विग्रहम् ।
यस्य सन्नति-मात्रेण चिद् आनन्दायते बपुः ॥
जयन्ति श्री-परानन्द-कृषापाङ्ग-लसद्-दृशः ।
या नित्यम् अनुवर्तन्ते संपदो विगतादृशः ॥
उक्तस् त्रयोदशाध्यायैर् द्वादशे त्व् आश्रयः सतः ।
अधिष्ठानावधित्वाभ्याम् आश्रयश् चेश्वरः सतः ॥
उक्तो लयावधित्वेन प्राकृतात्यन्तिके लये ।
अधिष्ठानतया चोक्तो महा-पुरुष-वर्णने ॥
तत्रादौ षड्भिर् अध्यायैः शुकः प्राह परीक्षिते ।
शेषैस् तत्राखिलान्य् आह सूतः पृष्टोऽथ सत्रिभिः ॥
स्वाश्रय-श्रवणे कार्यो न विलम्बो मनीषिणा ।
इत्य् एतत् काल-वैषम्यं चतुर्भिस् तावद् उच्यते ॥
तत्र तु प्रथमे भावि- मागधान्वय-भूमि-पान् ।
कलि-प्रभावतः प्राह सङ्करादिम् अलीमसान् ॥
तद् एवं वैवस्वत-मनु-वंशे सोम-वंश-प्रस्तावेन श्री-कृष्णावतार-चरितानि स-प्रपञ्चमनुवर्णितानि, अथेदानीं भावी सोम-वंशः कलौ विजातीय-सङ्करादिम् अलीमसो वैरङ्य-द्वारा श्री-कृष्णैक-भक्ति-निगमनायानुवर्ण्यते, तत्र तु सोम-वंश-शाखासु चिर-कालानुवर्तितया मागध-वंशोऽनुक्रम्यते, तत्र पूरोर् वंशे उपरिचरो वसुस् तस्य बृहद्-रथस् तस्य जारसन्धस् तस्य सहदेवः पुत्रोऽभूद् इत्य् उक्तं नवम-स्कन्धे । तत्रैव सहदेवान् मार्जारिस् ततः श्रुतश्रवा इत्य्-आदयो रिपुञ्जयान्ता विंशतिर् भाविनो राजानो निरूपिताः । (तत्र राजा पृच्छति, स्वधामेति । इदानीं) ॥१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ॐ स्वस्ति श्रीगणेशाय नमः ।
वन्देऽहं गोपिकानाथं यशोदानन्दनन्दनम् ।
वृन्दारकगणाधीशं वृन्दावननिकुञ्जगम् ॥
नमस्कृत्य गुरून्सर्वानखिलाभीप्सितप्रदान् ।
द्वादश-स्कन्धविवृतिं प्रारभे विदुषां मुदे ॥
श्रीगुरुं परमानन्दं वन्द आनन्दविग्रहम् ।
यस्य संनतिमात्रेण चिदानन्दायते वपुः ॥
श्लोकोऽयमधिकः केषुचित्पुस्तकेषु दृश्यते मङ्गलरूपत्वान्मयाप्यत्रालेखीति । जयन्ति श्रीपरानन्देत्यादिपद्यम् एकादशे व्याख्यातम् अपि पुनर् अपि किञ्चिद्व्याख्यास्यामः—श्रीः राधा तया सहितः परानन्दः श्री-कृष्णः । यद् वा, श्रियां परस्तत्परः श्रीपरः श्रीः कैटभारीहृदयैककृताधिवासा इति मार्कण्डेयोक्तः । स चासावानन्दश्चति श्रीपरानन्दः । यद् वा, श्रीः परोत्कृष्टा यासु ताः श्रीपरा गोप्यस्ता आनन्दयतीति श्रीपरानन्दः । कृपया युक्ता अपाङगगा कटाक्षाः कृपापाङ्गास्तैर् लसन्त्यो देदीप्यमाना या दृशः दृक्पातास्ताः कृपापाङ्गलसदृशः, श्रीपरानङ्दस्य कृपापाङ्गलसदृशः श्रीपरानन्द कृपापाङ्गलसदृशो जयन्ति सर्वोत्कर्षेण वर्तते । या अनु नित्यं सम्पदो वर्तते । किंभूता दृशः—विगताश्चक्षुरगोचरा इत्य् अर्थः । यद् वा, विगतादृगज्ञानं याभिस्ता इत्य् अर्थः। भक्त्यादिरूपा इत्य् अर्थः। यद् वा, यादृशोऽनुसम्पदोऽविगताः सदा वर्तन्त इत्य् अर्थः (१) । सतः सदूपतया प्रतीयमानस्य प्रपञ्चस्याश्रयस्त्रयोदशाध्यायैर् उक्त इत्यन्वयः । तम् एवाह—सत ईश्वर आश्रयः । काभ्यामित्यत आह अधिष्ठानेति (२) प्राकृतः सर्वप्रकृतिलयात्मकः आत्यन्तिको मोक्षः, एतल्लयद्वयेऽवधित्वेन सर्वावसानभूमित्वेनेश्वरः उक्तः । महापुरुषो विराट् तद्वर्णने चाधिष्ठानतया सर्वाधारतयोक्तश् च सर्वलोकानां तदवयवकल्पनया तदाधारोऽवयवी विराड्रूपीश उक्त इत्य् अर्थः (३) । तत्र त्रयोदशाध्यायेषु । शेषैः सप्तभिः । खिलान्याकाङ्क्षितार्थपूरकाण्याख्यानानि । सत्रिभिः शौनकादिभिः (४) । इत्येतद् इति कालविलम्बपरित्यागार्थम् । कालवैषम्यं कालकृतबुद्धिवैषम्यम् । तावदादौ (५) । तत्र चतुर्ष्व् अपि । सङ्करो वर्णसङ्करत्वम् तदादिभिरसत्यसम्भाषणादिदोषैर् मलीमसान्मलिनान् (६) । एवंभूते पूर्वोक्तपावनत्वादिविशेषणविशिष्टे । वंशः सोमस्य पावनः इत्य्-आदिनवनवमोक्तेः। बुद्धौ सन्निहितत्वादेवंभूत इत्य् उक्तम् । मुकुन्दस्य हरेः। स्वैरक्रीडा स्वेन वेदरूपेणात्मना वर्णिता पूतनादिवधरासादिरूपा क्रीडा । पूतनावधादिरूपा क्रीडापि वेदेनोक्ता, तत्र प्रमाणीभूताः काश्चिछ्रुतयोऽपि तत्रतत्र सभाष्या उक्ता एव । स्वैरक्रीडा वेदाविहिता क्रीडेति व्याख्यानमत्र न शोभनम् यदायदा हि धर्मस्य इत्य्-आदिश्रीगीताविरोधात् । स एव चन्द्रवंश एव । मुक्त्वा त्यक्त्वा । मुक्त्यै मोक्षाय । अन्यद्वर्त्मान्यो मार्गो नास्तीति कथयितुम् । कलौ नित्यनैमित्तिकादिकर्माकरणादन्तःकरणशुद्धेरनुदयाज्ज्ञानयोगाद्यसम्भवाद्भक्तिर् एव मुख्यो मुक्तिमार्गः कलौ भक्तिः कलौ भक्तिर्भक्त्या कृष्णः पुरःस्थितः इत्य्-आदिपायोक्तेः ८७) । स्वधामेत्यादिप्रश्नश्लोकश् च न स्वामिसंमत इति भाति । तैश् च तद् एवमित्यारभ्य रिपुञ्जयान्ता विंशतिर्भाविनो राजानो निरूपिता इत्यन्तेन पूर्वसम्बन्धमनूद्य तदुपरितनं वंशं सङ्करादिदौषैः प्रपञ्चयति—योन्त्य इति श्लोकावतरणं दत्तवद्भिः प्रश्नस्य क्वाप्यनुल्लेखात् , वंशकथनप्रस्तावस्य नवमस्कन्धतः प्रवृत्तत्वाद्भगवन्निर्याणानन्तरं स्ववंशस्य मागधवंशस्य च विद्यमानत्वेन तादृशप्रश्नासम्भवाच् च । अत एवायं प्रश्नश्लोको विजयध्वजविश्वनाथाभ्यां परित्यक्तः ॥१॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **श्री-राधा-कृष्णाभ्यां नमः ।2 अथ द्वादश-स्कन्धस्य क्रम-सन्दर्भः ।
द्वादश-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥
तद् एवम् एकादश-स्कन्ध-पर्यन्त-ग्रन्थेन निजाभीष्टं श्री-कृष्ण-लक्षणम् आश्रयं यथावन् निरूप्य पुराणोपसंहाराय द्वादश-स्कन्ध आरभ्यते ॥१॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **श्री-गुरवे नमः ।
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामा-जन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
त्रयोदशभिर् अध्यायैर् द्वादशे तु चतुर्विधः ।
निरोध उक्तः श्री-कृष्ण-कथाप्य् अत्रोपसंहृतौ ॥
त्रिभिर् आदौ कलेर् धर्म-द्रोहिणः कथ्यते कथा ।
एकेन प्रलयास्याथ द्वाभ्यां शुक-परीक्षितोः ॥
पुराणस्य तथैकेन मार्कण्डेयस्य च त्रिभिः ।
सूर्यस्याख्यान-वृन्दस्य भावि-भूमिपानां कथोच्यते ।
मागधान्वय-जातानां कलि-कल्मष-शालिनाम् ॥
॥।
॥ १२.१.२-३ ॥
श्री-शुक उवाच—
योऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः ।
तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम् ॥
प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः ।
विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-उपरितनं वंशं सङ्करादि-दोषैः प्रपञ्चयति—योऽन्त्य इति । रिपुञ्जय एव पुरञ्जयः । स्वामिनं पुरञ्जयं हत्वा स्व-पुत्रं प्रद्योत-संज्ञं राजानं करिष्यति । यस्य पालको नाम सुतो भविष्यति ॥२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्त्यो वंशावसानभवः । भाव्यो बार्हद्रथो नृपः इति प्रचुरः पाठः । बारहद्रथ इह रेफेऽकारागमस्त्वार्ष एव ध्येयः । तस्य पुरञ्जयस्य । अमात्यो मन्त्री अमात्यः सचिवो मन्त्री इत्यभिधानात् ॥ तत्पुत्रः पालकपुत्रः । ततो विशाखयूपात् ॥२-३॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यत्र तद्-अन्तर्धाने लोकानां दुःखम् एव स्याद् इति दर्शयित्व, कथञ्चित् तं भजतां तु निस्तारः स्याद् इति दर्शयिष्यते—श्री-शुक उवाच । योऽन्त्यो पुरञ्जय इत्य्-आदिना ॥२॥
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तद् एवं चन्द्र-वंशावतंसस्य श्री-कृष्ण-चन्द्रस्य चरितामृत-कथा-सिन्धुः, स्कन्ध-द्वयेन वर्णितः । तत्रैव लोकान् निमज्य आनन्दयितुम् इदानीं तेषां ततोऽन्यत्र वैराग्यम् उत्पादयितुं तस्यैव चन्द्र-वंश्यान्तिमो भागो वर्ण्यते । तत्र चन्द्र-वंश-शाखायां पुरोर् वंशे उपरिचरो वसुः । तस्य पुत्रो बृहद्रथः, तस्य जरासन्धः । तस्य सहदेवः । पुत्रोऽभूद् इत्य् उक्तं नवम-स्कन्धे । पुनश् च तत्रैव सहदेवस्य मार्जारिस् तस्य श्रुतश्रवा इत्य् एवं रिपुञ्जयान्ता विंशति-भाविनो राजानो निरूपिताः । अत्र स्कन्धे तद्-उपरितनं वंशं सङ्करादि-दोषैर् मलिनीभूतं वर्णयति—योऽन्त्य इति । रिपुञ्जय एव पुरञ्जयः, बारहद्रथः बृहद्रथ-वंश्यः । स्वामिनं रिपुञ्जयं हत्वा स्व-पुत्रं प्रद्योतं राजानं करिष्यति । यत् यस्य प्रद्योतस्य सुतः पालकः पालक-संज्ञः ॥२॥
॥।
॥ १२.१.४ ॥
नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे ।
अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **प्रद्योतनाः प्रद्योत-संज्ञाः ॥४॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्पुत्रो राजकपुत्रः । इमे प्रद्योतनेन सह पञ्चसङ्ख्याका अष्टात्रिंशदुत्तरवर्षशतकं १३८ पृथ्वीं भोक्ष्यन्ति पालयिष्यन्ति भुजोऽवने इत्यतः परस्मैपदम् ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रद्योत-वंशत्वात् प्रद्योतनाः ॥४॥
॥।
॥ १२.१.५-८ ॥
शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः ।
क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः ॥
विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति ।
दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः ॥
नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः ।
शिशुनागा दशैवैते षष्ट्य्-उत्तर-शत-त्रयम् ॥
समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः ।
महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः प्रद्योतनेभ्यः पश्चात् । भाव्यो भविष्यति । तत्सुतः शिशुनागः सुतः । तस्य काकवर्णस्य ॥ तस्य क्षेत्रज्ञस्य, तस्य अजातशत्रुः, तस्येत्युभयान्वयि । तत्सुतोऽजातशत्रुसुतः ॥ आजेयोऽजयपुत्रः । अत्रैकारमध्यत्वमार्षम् । ततो नन्दिवर्द्धनस्य । षष्ट्युत्तरशतत्रयं ३६० राज्यभोगवर्षसङ्ख्येयम् ॥५-८॥
॥।
॥ १२.१.९ ॥
महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् ।
ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **नन्दो नाम कश्चिन् महा-पद्म-सङ्ख्याया सेनायाः धनस्य वा पतिर् भविष्यति । अत एव महा-पद्म इत्य् अपि तस्य नाम ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आजेयः अजयस्य सुतः । स नन्दो महा-पद्म-पतित्वान् महा-पद्मः ॥९॥
॥।
॥ १२.१.१० ॥
स एक-च्छत्रं पृथिवीम् अनुल्लङ्घित-शासनः ।
शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एकम् एव छत्रं यस्यां तां पृथिवीं शासिष्यति पालयिष्यति । क्षत्रोत्सादने दृष्टान्तः, भार्गवः परशुराम इव ॥१०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **समा वर्षाणि हायनोऽस्त्री शरत्समाः इत्य् अमरः । हे कुरुश्रेष्ठेति—त्वं त्वतीय पवित्रेऽपि कुरुवंशे श्रेष्ठोऽसि येन श्री-कृष्णलीलामृतमन्ते पीतम् इति भावः । हे राजन्न् इति—त्वं तु धर्मेणैव राजसे न तु गणितनृपसदृशोऽसीति भावः अत एव महापद्मसेनादिपतित्वादेव । मत्वर्थीयाजन्ताश्रयणे तस्यापि तन्नाम सम्भवति, महापद्माः सन्त्यस्येति निरुक्तेः । स्वेन सह भोजनसम्बन्धादिकमकुर्वतां क्षत्रियाणां विनाशकः, तन्त्रसभयाच्छुद्धाः क्षत्रियास्ततः पलायित्वा यवनादिदेश गता वैश्यवृत्त्यादिजीविनो भविष्यन्ति, ततः प्रभृति नृपाः शूद्रप्राया भविष्यन्ति । प्रायःशब्देन शूद्रराज्यबाहुल्ये क्वचित्क्षत्रियावशेषो बोध्यते, क्षत्रवंशविरोधे च द्वितीयभार्गव इव । तथा च भार्गवेणैकविंशतिवारं पृथिव्यां क्षत्रहनने यत्कार्तवीर्यद्वेषेण हननं तस्यैव पञ्चपुत्रावशेषश्रवणात्, किमु वाच्यं क्षत्रियान्तरवंश्यानाम्, तथापि बहवो हता बहवो देशान्तरं गता इति ज्ञेयम् ॥९-१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **क्षत्र-विनाशकत्वे दृष्टान्तः, भार्गवः परशुराम इव ॥१०॥
॥।
॥ १२.१.११-१२ ॥
तस्य चाष्टौ भविष्यन्ति सुमाल्य-प्रमुखाः सुताः ।
य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः ॥
नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति ।
तेषाम् अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **समाः संवत्सरान् ॥११॥ नव नन्दान् नन्दं च तत्-पुत्रांश् चेत्य् एवं नव । प्रपन्नान् विश्वस् तान् विख्यातान् वा । द्विजः कौटिल्य-वात्स्यायनादि-पर्यायश् चाणक्य उद्धरिष्यत्य् उन्मूलयिष्यति । मौर्या मौर्य-संज्ञाः ।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य महापद्माख्यनन्दस्य ॥ विश्वस्तहननस्य महापापत्वादाह—विख्यातान्वेति । विश्वस्तघातस्य महापापत्वे भोजियकपिसिंहकथानुसन्धेया दृष्टान्तत्वेन । तथा हि—कदाचिद्भोजनृपतये तदाज्ञया तद्भायर्याया भानुमत्या मूर्तिं लिखित्वा कालिदासो दर्शयामास । स च तां जघनदेशे तिलकालकाङ्कितां दृष्ट्वाऽनेन मद्भार्या रमितेति शङ्कितो भूत्वा तं देशान्निष्कासयामास । तदनु कदाचिन्मृगयां गतो नृपो विषमवने भयार्तः क्वचिदारूढवानरवृक्षमारुरोह, वानरोऽपि तेन मैत्रीं कृतवान्, स च तत्रैव विश्वस्य शिश्ये । तदा च कश्चित्कपिविरोधिसिंहस्तत्रागत्येमं मे देहीति वैरनिर्यातनार्थमुवाच । स च शरणापन्नत्यागे दोषं दृष्ट्वा न ददौ । ततश् च कपिर् अपि सिंहायाहं न प्रक्षेप्यस्त्वयेत्युक्त्वा शिश्ये । स एव सिंहः पुनरागत्य राजानमुवाच देहि म इमं कपिन्नो चेत्त्वां भक्षियिष्यामीतोऽवतीम् इति, तच्छ्रुत्वा कपि राजा प्रक्षिप्तवान्, स च पतन्काचित्तद्वृक्षशाखामालम्ब्य तत्रैवागत्य राजानं कुष्ठी भवेति शशाप । पुना राज्ञा प्रसादितः वि-से-मे-रा इति वर्णचतुष्कार्थश्रवणेनोल्लाघो भविष्यसीत्युवाच । ततो नृपो गृहमागत्य वन्यवृत्तं मन्त्रिभ्य उक्त्वा विद्वत्समाजमक्षरचतुष्कार्थश्रवणार्थं चकार । तत्र च राजनिष्कासितः कालिदासः स्त्रीवेषेण कस्यचिद्विदुषो गृहे धारानगर्यामेवासीत् । स ततस् तद्राजवृत्तमाकर्ण्य । पित्रीकृतं पण्डितमित्थमुवाच—मदीया पुत्री त्वदभिलषितवर्णचतुष्कार्थं जानाति तामिहाहूय पृच्छेत नृपाय कथयेति । स च तथा कृत्वा स्त्रीवेषिणं तं नृपसदसि निनायास । स च स्त्रीवेषी कालिदासः पृथगर्थं प्रत्येकवर्णस्योक्तवान् । तथा हि—
विश्वासप्रतिपन्नेषु ये च विश्वासघातकाः ।
ते यान्ति नरकं घोरं ताडिता यमकिङ्करः (१) सेतुबन्धे समुद्रे च गङ्गासागरसङ्गमे । स्नात्वा पापविमुक्तः स्यान्मित्रद्रोहकरं विना (२) मेरुतुल्यान्महापापान्कृत्वा सङ्गं सतां नरः । मुच्यते न हि सन्देहो मित्रद्रोही न मुच्यते (३) राजन्भोः शृणु मद्वाक्यं यदि कल्याणमिच्छसि । देहि दानं सुविप्रेभ्यस्ततः श्रेयो भविष्यति (४) इत्याकर्ण्य भोजः स्वस्थो भूत्वा तामुवाच—गृहे वससि भो देवि वनं क्वापि न गच्छसि । पञ्चास्यकपिमद्वृत्तं कथं जानासि सुन्दर (५) ॥
स चोवाच—
देवद्विजप्रसादेन कण्ठे वसति शारदा । सर्वं जानामि भो राजन्भानुमत्यास्तिलं यथा (६) ॥
ततो नृपस्तं कालिदासं ज्ञात्वा प्रसाद्यानयामासेति बृहद्भोजप्रबन्धे ॥११-१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **नव नन्दान् नन्दं च तत्-पुत्रान् अष्टौ चेत्य् एवं नव प्रपन्नान् विश्वस्तान् द्विजश् चाणक्यः उद्धरिष्यति उन्मूलयिष्यति । मौर्या मौर्य-संज्ञाः ॥११॥
॥।
॥ १२.१.१३ ॥
स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।
तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथं भोक्ष्यन्ति तद् आह—स एवेति । चन्द्रगुप्तं मौर्य-प्रथमम् ॥१३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स एव कुटिलो द्विज एव । तत्पुत्रश्चन्द्रगुप्तपुत्रः । ततो वारिसारात् ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.१४ ॥
सुयशा भविता तस्य सङ्गतः सुयशः-सुतः ।
शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति ।
शतधन्वा ततस् तस्य भविता तद् बृहद्रथः ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्याशोकवर्द्धनस्य । ततः सुयशसः। तस्य शालिशूकस्य ॥१४॥
॥।
॥ १२.१.१५ ॥
मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् ।
समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेषां पञ्चमो दशरथः पारशरादिभिर् उक्तोऽत्राप्य् अनुसन्धेयः । तेन सह मौर्या दश । सप्त-त्रिंशच्-छतोत्तरं सप्त-त्रिंशद्-उत्तरं शतं समाः ॥१५॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततस् तदनन्तरम । तस्य सोमशर्मणः । तत्तस्मात शतधन्वनः। मौर्या मरवंशजाः हीनजातयः कैवर्ताः मुरो दैत्यविशेषे च कैवर्ते चौषधे स्त्रियाम् इति कोशात् । सप्तत्रिंशच्छतोत्तरम् १३७ राज्याब्दाः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजा सप्त-त्रिंशद्-उत्तरं शतं समाः ॥१५॥
॥।
॥ १२.१.१६ ॥3
हत्वा बृहद्-रथं मौर्यं तस्य सेनापतिः कलौ ।
पुष्यमित्रस् तु शुङ्गाह्वः स्वयं राज्यं करिष्यति ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **बृहद्-रथस्य सेनापतिः पुष्यमित्रो नाम स्वामिनं बृहद्-रथं हत्वा राज्यं करिष्यति । स च शुङ्गानां प्रथमः ॥१६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरुकुलमूर्द्ध्ववमाधिक्यं प्रापयतीति तथा, भवता तु कुरुकुलकीर्तिराधिक्यं नीतोऽतस्त्वादृशाम् एव राज्ञां भवनमुचितम् इति भावः । अत्र टीकानुसारेण—
हत्वा बृहद्रथं मौर्यं तस्य सेनापतिः कलौ ।
पुष्पमित्रस् तु शुङ्गाह्वः स्वयं राज्यं करिष्यति ॥
इति श्लोकोपि कचित्पुस्तकेषु दृश्यते । तस्मादग्निमित्रात् । अथ सुज्येष्ठात् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **बृहद्-रथस्य सेनापतिः स्वामिनं राज्यं करिष्यति । स पुष्यमित्रो नाम शुङ्गानां प्रथमः ॥१६॥
॥ १२.१.१७-१९ ॥
अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः ।
वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः ॥
ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति ।
ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह ॥
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् ।
ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततोऽग्नि-मित्रादयो नवेत्य् एवं शुङ्गा दश-वर्ष-शताधिकं द्वादशाधिकं वर्ष-शतम् ॥१७-१९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **वसुमित्रस्ततो भद्रकस्ततः पुलिन्दः। ततः पुलिन्दात् । तस्माद्वोषात् ॥ ततः पुष्पमित्रात् । ततो वज्रमित्रात् । एते शुङ्गा दशवर्षशतानि द्वादशाधिकानि १०१२ भोक्ष्यतीत्थम् अपि केचिद्व्याख्यान्ति ॥१७-१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततोऽग्नि-मित्रादयो नवेत्य् एवं शुङ्गा दश-वर्ष-शताधिकं द्वादशाधिकं वर्ष-शतम् ॥१७-१९॥
॥।
॥ १२.१.२० ॥
शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस् तु कामिनम् ।
स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **कथं कण्वान् यास्यति ? तद् आह—शुङ्गम् इति । पर-स्त्री-कामिनं देवभूति-नामानं शुङ्गं हत्वा तद्-अमात्यो वसुदेव-नामा कण्वो राज्यं करिष्यति ॥२०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तस्य वसुदेवस्य । तस्य भूमित्रस्य । अथ ततो नारायणादनन्तरम् ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **कथं कण्वान् यास्यति ? तद् आह—शुङ्गम् इति । पर-स्त्री-कामिनं देवभूति-नामानं शुङ्गं हत्वा ॥२०॥
॥।
॥ १२.१.२१ ॥
तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः ।
नारायणस्य भविता सुशर्मा नाम विश्रुतः ॥4
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काण्वानां चतुर्थः सुशर्मा ज्ञेयः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.२२ ॥
काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च ।
शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इमे वसुदेवादयः काण्वायना वर्षाणां त्रीणि शतानि पञ्च-चत्वारिंशद्-वर्षाणि च भूमिं भोक्ष्यन्ति ॥२२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **पश्चचत्वारिंशदुत्तरशतत्रयं ३४५ राज्याब्दाः ॥२१-२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **वसुदेवादयः काण्वायनाः ॥२२॥
॥।
॥ १२.१.२३ ॥
हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली ।
गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **काण्वानाम् अन्तिमं सुशर्माणं हत्वा बली-नामा तद् भृत्यो गां भोक्ष्यति ॥२३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तद्भ्रता बलिभ्राता । तत्पुत्रः कृष्णपुत्रः । तत्सुतः श्रीशान्तकर्णसुतः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **सुशर्माणम् इति काण्वानाम् अन्तिमः सुशर्मा ज्ञेयः । बली बलि-संज्ञः ॥२३॥
॥।
॥ १२.१.२४-२६ ॥
कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः ।
श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः ॥
लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः ।
मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च ॥
अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः ।
पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत्पुत्रः पौर्णमासपुत्रः । तस्माल्लम्बोदरात् । तस्य मेघस्वातेः ॥ तस्य चेति चकारात् तस्याटमानस्यानिष्टकर्मा, तस्य च हालेयः, तस्य हालेयस्य । तत्पुत्रस्तलकपुत्रः । ततः पुरीषभीरोः ॥ बहवो बहुसंज्ञाः । अष्टसु चरमोऽष्टम एव । तस्य शिवस्वातेः । ततो गोमतिनः ॥२४-२६॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अनिष्ट-कर्मेति हालेयस्य5 विशेषणम् ॥२६॥
॥।
॥ १२.१.२७ ॥
चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः ।
तस्यापि गोमती पुत्रः पुरीमान् भविता ततः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **यत्र येषु बहु-संज्ञेष्व् अष्टसु चरमः शिवस्वाति-नामा भविता ॥२७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः पुरीमतो मेदशिराः, ततः शिवस्कन्धसुतः ततो यज्ञश्रियः । तत्सुतो विजयसुतः । भाव्यो भविष्यति । ततश्चन्द्रविज्ञात्स प्रसिद्धो लोमधिः, सकारसहितो वा नाम ॥२७॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **यत्र येषु अष्टसु अनुक्तेषु नवमः शिव-स्वातिर् इत्य् अर्थः । इति द्वाविंशतिः । गौमती-पुत्र-पुरीमन्तौ द्वौ ॥२७॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आवभृत्या अवभृतिर् नगरी तत्र भवाः ॥२७॥
॥।
॥ १२.१.२८-२९ ॥
मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः ।
विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः ॥
एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च ।
षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **हे कुरुनन्दनेति—त्वं तु भगवद्-भक्तत्वात्कुरुकुलम् एव नन्दयसि गणितनृपास् तु स्वात्मनन्दका अपि नेति भावः । षट्पञ्चाशदुत्तरचतुश्शतं ४५६ राज्याब्दाः ॥ गर्दभिनो गर्दभिसंज्ञकाः । कङ्काः कङ्कसंज्ञाः । लोलुपा लम्पटाः ॥२८-२९॥
———————————————————————————————————————
**जीव-गोस्वामी (क्रम-सन्दर्भः) : **अन्ये बाल्यादिवल् लोमधि-पर्यन्ताः पृथक् पृथग् अन्या6 इति त्रिंशत् ॥२७॥
॥।
॥ १२.१.३० ॥
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः ।
कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **आवभृत्याः अवभृतिर् नगरी तद् राजानः ॥३०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **ततः कङ्केभ्यः पश्चात् । यवना म्लेच्छाः । पुष्कसा निषादाच्छूद्र्युद्भूताः गुरुण्डा गुरुण्डसंज्ञाः, गुरुगुरुरित्येवं डुवन्ति भाषन्त इति गुरुण्डाः—
डू—भाषणे तुदादिर्व्याकरणान्तरज्ञेय, तत औणादिका डख्प्रत्ययः औणादिको अपरिभिताः प्रयोगमनुसृत्य प्रयोक्तव्याः । इत्य्-उक्तेः ।
धातूनामप्यनन्तत्वान्नानार्थत्वाच् च सर्वथा इत्यनुभूत्युक्तर्डूर् अप्य् ऊदन्तो धातुः कल्पनीयः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **आवभृत्याः अवभृतिर् नगरी तत्र भवाः ॥३०॥
॥।
॥ १२.१.३१ ॥
ततोऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः ।
भूयो दश गुरुण्डाश् च मौला एकादशैव तु ॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **किं च—दुर्योधनजन्मन्येव कलेरारम्भः, तद्वर्षोत्तरं कृष्णाविर्भावः, ततो नवतिवर्षोत्तरं परीक्षिज्जन्म, ततो नन्दाभिषेकावधि पञ्चदशशतं दश च, तन्मिलित्वैकाधिकषोडशशतम् । ततो नवनन्दानां शतम्, मौर्याणां सप्तत्रिंशदुत्तरशतं च, शुङ्गानां द्वादशाधिकं दशवर्षशतम्, काण्वायनानां त्रीणि शतानि पञ्चचत्वारिंशच्च, बल्यादित्रिंशद्राज्ञां चत्वारि शतानि, सप्ताभीरादीनां षट्पञ्चाशत्त्रिणि शतानि च ततो यवनादिगुरुण्डान्तानां सहस्रं नवनवत्यधिकं च, एवं पञ्चादशाधिकपञ्चसहस्र ५०५० वर्षाणि जातानि । तत्र तट्टीकाप्रणयनकालिकविक्रमार्कशरनिगमनदेन्दु १९४५ मिताब्दपर्यन्तं कलेश्चतुः— सहस्रनवशतैकोननवतिसङ्ख्यानि वर्षाण्यतीतानीति टीकान्तरानुरोधादनुसन्धेयम् ॥३१॥
॥।
॥ १२.१.३२-३३ ॥
एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च ।
नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥
भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः ।
किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **एते आभीरादयो मौल-व्यतिरिक्ताः पञ्च-षष्टि-नृपा एकोन-शताधिकं वर्ष-सहस्रं पृथिवीं भोक्ष्यन्ति । ततः पूर्वोक्ता एवैकादश मौलास् त्रीण्य् अब्द-शतानि क्षितिं भोक्ष्यन्ति ॥३२॥
तैः संस्थिते तेषु मृतेषु किलिकिलायां पुर्यां नृपतयो भविष्यन्तीत्य् उत्तरेणान्वयः ॥३३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **तत एतद्-उक्तराज्योत्तरम् । तैर् इति सप्तम्यर्थे तृतीया, तेष्वित्य् अर्थः । संस्थिते इत्येकत्वम् अपि बहुत्वे, संस्थितेष्वित्य् अर्थः ॥ तद्भ्राता यशोनन्दिभ्राता ॥३२-३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **एते मौल-व्यतिरिक्ताः । मौलास् त्व् एकादश । त्रीण्य् अब्द-शतानि । तैर् मौलैः संस्थिते मृते सति । किलकिलायां पुर्याम् ॥३२-३३॥
॥।
॥ १२.१.३४ ॥
शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः ।
इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि षट् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अधिकानि षड्-वर्षाणि च ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **षट्-वर्षाण्य् अधिकानि भविष्यन्ति भावीनि व्याप्य भोक्ष्यन्ति पालयिष्यन्ति ॥३४॥
॥।
॥ १२.१.३५-३६ ॥
तेषां त्रयोदश सुता भवितारश् च बाह्लिकः ।
पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ॥
एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः ।
विदूर-पतयो भाव्या निषधास् तत एव हि ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तेषां भूतनन्दादीनां यथा-यथं बाह्लिक-नामानस् त्रयोदश सुता भविष्यन्ति । अथ पुष्पमित्रो नामान्यो राजन्यः । अस्य च दुर्मित्रो नाम पुत्रः ॥३५॥
तथा आन्ध्राः कोशला विदूर-पतयो निषधाश् च एते च तत् तद् देश-नामभिः प्रख्यातास् तुल्य-कालाः खण्ड-मण्डलेषु भूपास् तत एव तेभ्यो बाह्लिकेभ्य एव भाव्या भविष्यन्ति ॥३६॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अथ वाह्लिकराज्यानन्तरम् ॥ इत्य् अर्थ इति—पुलिन्दादीन्हीनजातीनेव । ब्राह्मणादिस्थाने स्थापयिष्यति, ब्राह्मणादिकर्म तैः कारयिष्यतीति भावः ॥३४-३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **तेषां भूत-नन्दादीनां त्रयोदश बाह्लिक-नामानो भविष्यन्ति । अथेत्य् अन्य एव पुष्यमित्रः क्षत्रियोऽस्य दुर्मित्रो नाम पुत्रः ॥३५॥ एक-कालाः खण्ड-मण्डल-पतयः ॥३६॥
॥ १२.१.३७ ॥
मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः ।
करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान् ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **ततश् च मागधानां तु राजा विश्वस्फूर्जिर् नाम भविता । स चापूर्वोक्तात् पुरञ्जयाद् अपरः पुरञ्जय इति प्रसिद्धः सन् वर्णान् ब्राह्मणादीन् पुलिन्द-यदु-मद्रक-संज्ञान् म्लेच्छ-प्रायान् करिष्यति । अपरान् इति पाठे अन्यान् पुलिन्दादि-संज्ञान् वर्णान् करिष्यतीत्य् अर्थः ॥३७॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **स पुरञ्जयः । क्षत्रं क्षत्रियजातिमुत्साद्य नाशयित्वा यत्र कुत्र स्थितं गुप्तम् अपि क्षत्रं यथाकथञ्चिन्नाशयिष्यतीत्य् अर्थः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च मागधानां मध्ये कश्चिद् विश्वस्फूर्जि-नाम पुराणां जेता परः प्रचीनः पुरञ्जयो द्वितीय इवेत्य् अर्थः । वर्णान् ब्राह्मणादीन् पुलिन्द-यदु-मद्रक-संज्ञान् म्लेच्छ-प्रायान् करिष्यति ॥३७॥
॥।
॥ १२.१.३८ ॥
प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः ।
वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरी ॥
अनु-गङ्गम् आ-प्रयागं गुप्तां भोक्ष्यति मेदिनीम्
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं चैवं कृत्वाब्रह्म-भूयिष्ठा अत्रैवर्ण्याप्रचुराः सतीः प्रजाः स्थापयिष्यति पालयिष्यति । स च पद्मवत्यां पुरि वसन् अनुगङ्गां गङ्गा-द्वारम् आरभ्य प्रयाग-पर्यन्तं गुप्तां पालितां मेदिनीं भोक्ष्यति ॥३८॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **व्रात्यः संस्कारहीनः स्यात् इत्य् अमरः । प्रायपदेन क्वचित्क्षत्रपरा अपि भविष्यन्तीत्यसूचि ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **अब्रह्म-भूयिष्ठा वेद-रहिता बहुतराः । क्षेत्रं पुण्य-क्षेत्रम् उत्साद्य उत्सन्नं कृत्वा ॥३८॥
॥।
॥ १२.१.३९ ॥
सौराष्ट्रावन्त्य्-आभीराश् च शूरा अर्बुद-मालवाः ।
व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **तद्-अनन्तरं च सौराष्ट्रादि-देश-वर्तिनो द्विजा व्रात्या उपनयन-रहिता भविष्यन्ति ॥३९॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **सिन्धुनाम्नी नदी, समुद्रश् च । कौन्तीपुरम् । अब्रह्मवर्चसः ब्राह्मणभक्तिहीनाः वर्चस्तेजसि सेवने इति निरुक्तिः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : **ततश् च सौराष्ट्रादि-देश-वर्तिनो द्विजा व्रात्याः संस्कार-हीना भविष्यन्ति ॥३९॥
॥।
॥ १२.१.४० ॥
सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् ।
भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **अब्रह्म-वर्चसो वेदाचार-शून्याः ॥४०॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **इमे आङ्घ्राद्याः । म्लेच्छप्रायाः शास्त्रास्वीकारात् ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.४१ ॥
तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भूभृतः ।
एतेऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **इमे च म्लेच्छ-प्राया भूभृतस् तुल्य-काला भविष्यन्ति । किं च, एते सर्वेऽधर्मानृत-परा अधर्मेऽनृते च परिनिष्ठिताः फल्गु-दा अल्प-दातारः ॥४१॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **उदितास्तमितप्राया अल्पकालस्थितिमन्तः ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.४२ ॥
स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः ।
उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **उदितास्त-मित-प्राया हर्ष-शोकादि-बहुलाः ॥४२॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **शास्त्राविहितकर्तृत्वे सति गोहिसादिपरत्वं म्लेच्छत्वम्, तद्वन्तो म्लेच्छाः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.४३ ॥
असंस्कृताः क्रिया-हीना रजसा तमसावृताः ।
प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **असंस्कृता गर्भाधानादि-संस्कार-रहिताः । प्रजा भक्षयिष्यन्ति धनाद्य्-अपहारादिना पीडयिष्यन्ति ॥४३॥
———————————————————————————————————————
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : **अन्यत्तत्सङ्गकृतानर्थम् आह—तन्नाथा इति ४३ किञ्चिद्बैलक्षण्येनैदध्यायार्थो भविष्येऽपि ब्रह्मणा कार्त्तिकेयं प्रति वर्णितः । तथा हि—
कलौ के चै भविष्यन्ति नृपचिह्नयुता नराः ।
ज्ञातुमिच्छामि तेषां तु नामानीह जगद्गुरो ॥१॥
ते वै राज्यं करिष्यति कति वर्षाणि तत्र हि ।
ब्रह्मन्नेतत्समाचक्ष्व परं कौतूहलं हि मे ॥२॥
ब्रह्मोवाच । सत्यादिकेषु बहुशः श्रुता भूपास्त्वया गुह ।
शृणु वक्ष्ये कलियुगे सङ्क्षेपं पुरुषोत्तम ॥३॥
पाण्डवानां कुलोत्पन्ना विष्णुरातादिका नृपाः ।
इक्ष्वाकुवंशजा भूपास्ते मागघवंशजाः ॥४॥
कलौ राज्यं करिष्यन्ति वर्षाणां वै सहस्रकम् ।
कलिसन्ध्या समारभ्य राज्यमेतत्त्रयं स्मृतम् ॥५॥
ततो नृपा भविष्यन्ति पञ्च प्रद्योतसंज्ञकाः ।
अष्टत्रिंशोत्तरशतं कलौ ते राज्यकारकाः ॥६॥
शिशुनागा दश नृपाः षष्ट्युत्तरशतत्रयम् ।
कलौ भोक्ष्यन्ति पृथिवीं राजानो धर्मतत्पराः ॥७॥
अतः परं नृपा लोके शूद्रप्रायास्त्वधार्मिकाः ।
शिशुनागत्परे राज्ये शूद्रीगर्भोद्भवो बली ॥८॥
महापद्मधरः कश्चिन्नन्दो राज्यं करिष्यति ।
नन्दस्य चाष्टं पुत्राश् च भविष्यन्ति च भूमिपाः ।
तेषां तु वशगा भूमिर्भविष्यति शतं समाः ॥९॥
अब्रह्मण्यान्द्विजः कचिद्दुष्टान्नंदसुतानथ ।
अयोग्या इति मत्वा तु राज्यात्तानुद्धरिष्यति ॥१०॥
अराजके तु जगतीं विप्रदत्तं कलौ युगे ।
भोक्ष्यति दश मौर्याश् च सप्तत्रिंशोत्तरं शतम् ॥११॥
ततः शुङ्गा दश नृपा दशवर्षशताधिकम ।
कलौ राज्यं करिष्यन्ति विख्याताः सर्वतो दिशि ॥१२॥
कण्वो हत्वा नृपं शुङ्गं राज्यलोभेन स्वामिनम् ।
स्वयं करिष्यते राज्यं वसुदेवेति विश्रुतः ॥१३॥
तत्पुत्रपौत्राः पृथिवीं चत्वारिंशच्च पञ्च च ।
शतानि त्रीणि वर्षाणां भोक्ष्यन्ति च कलौ युगे ॥१४॥
तद्भृत्यस्त्वन्ध्रजातीयः कञ्चित्कालमुशत्तम ।
चकार राज्यं हत्वा वै काण्वं तु वृकलो बली ॥१५॥
तस्य वंशोद्भवास्त्रिशद्भविष्यन्ति कलौ नृपाः ।
भोक्ष्यन्त्यान्ध्रास् तु पृथिवी चत्वार्यद्वशतानि च ॥१६॥
षट्पञ्चाशोत्तरं कालं परं तस्मान्निबोध मे ।
सप्ताभीराश् च पृथिवीं भोक्ष्यान्त्यद्वशत कलौ ॥१७॥
ततो नृपा भविष्यन्ति दश गर्दभिसंज्ञकाः ।
अष्टाधिकां च नवतिं तेषां राज्यं भविष्यति ॥१८॥
कङ्का षोडश भूपाला भवष्यन्ति कलौ गुह ।
पालयिष्यन्ति गां ते वै वर्षाणां च शतद्वयम् ॥१९॥
ततो व विक्रमो नाम भवितोज्जयिनीपतिः ।
यो वै म्लेछान्सुसम्पन्नान्कोटिशो निहनिष्यति ॥२०॥
तस्य राज्यं कलौ स्कन्ध पञ्चविंशोत्तरं शतम् ।
भविष्यति परे काले शालिवाहस्ततो नृपः ॥२१॥
शतं वर्षाणि पृथिवीं भोक्ष्यत्यवितथोद्यमः ।
ततोऽष्टौ यवना भाव्यास्तुरुष्का वै चतुर्दश ।
वर्षाणि चैव पृथिवीं भाक्ष्यान्त शिवनन्दन ॥२२॥
भूयः कलौ भविष्यन्ति मौना एकादशैव तु ।
ते वै भोक्ष्यन्ति पृथिवीं वर्षाणां च शतत्रयम् ॥२३॥
किलकिलायां ततो जाता भूरानन्दादयो नृपाः ।
कलौ राज्यं करिष्यन्ति पञ्चाधिकशतं समाः ॥२४॥
एते कलौ सार्वभौमाः खण्डराज्यमतः परम् ।
तेषां त्रयोदश सुता भविष्यन्ति च वाह्लिकाः ॥२५॥
ततः परं सप्तसप्त कौशलान्ध्राश् च कीर्तिताः ।
वैदूरपतयो भाव्या नैषधास्तदनन्तरम् ॥२६॥
विश्वस्फूर्तिश् च भविता करिष्यत्यन्यथा जनान् ।
तीव्रमन्युः सर्ववर्णान्म्लेच्छप्रायान्करिष्यति ॥२७॥
तस्मिन्काले सिन्धुतीरं कौन्तीं काश्मीरमणदडलम् ।
भोक्ष्यन्ति ब्राह्मणाः शूद्रा म्लेच्छाश्चाब्रह्मवर्चसः ॥२८॥
म्लेच्छप्राया इमे भूपाः फल्गुदास्तीब्रमन्यवः ।
अल्पायुषोऽल्पसत्त्वाश् च भविष्यन्ति कलौ युगे ॥२९॥
प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ।
अन्योन्यतो राजभिश् च क्षयं यास्यन्ति वै प्रजाः ॥३०॥
एते भोक्ष्यन्ति पृथिवीं द्वादशोर्द्धचतुष्टयम् ।
एवं वै धर्मप्राधर्ष्यं भविष्यति कलौ यदा ॥३१॥
भविष्यति तदा स्कन्द ब्रह्मज्ञानैकमानसः ।
तस्योपदिष्टं मार्गं वै ग्रहीष्यन्ति च ये जनाः ॥३२॥
ते वै राज्य करिष्यन्ति तस्य शिक्षानुसारतः ।
धर्मेण राज्यवृद्धिश् च कलौ तेषां भविष्यति ॥३३॥
यदा वेदे च विप्रे च वैष्णवे च पराङ्मुखाः ।
तदा तेषां क्षयः स्कन्द भविष्यत्यचिरेण हि ॥३४॥
तेषां राज्यात्परे काले म्लेच्छा गौरमुखा नृपाः ।
प्रबलाः सम्भविष्यन्ति प्रजापालनतत्पराः ॥३५॥
अल्पकालेन तेषां वै राज्यवृद्धिर्भविष्यति ।
नृपा बलिं हरिष्यन्ति गौरवर्णानुगाखिलाः ॥३६॥
अशीतिशतवर्षं ते राज्यं नीत्यनुसारतः। कृत्वा पश्चिमदेशीयैर् नृषैर् यस्यन्त्यदर्शनम् ॥३७॥
यदा वेदेषु विप्रेषु वैष्णवेषु च शुद्वधीः ।
तदा नृपा विजेष्यन्ति म्लेच्छान्धर्मपराङ्मुखान् ॥३८॥
तस्मिन्काले खण्डनार्थे शतशश् च सहस्रशः ।
भविष्यन्ति कलौ स्कन्द राज्यपालनतत्पराः ॥३९॥
धर्मश्चैव कलौ स्कन्द ततः संस्था गमिष्यति ।
किञ्चित्कालान्तरे भूयो भविता विजयो नृपः ॥४०॥
तेषां कुले समुत्पन्नो धर्मज्ञानकतत्परः ।
तस्य वंशोद्भवा भूपाः कलौ पञ्चशतानि ते ।
वर्षाणि वै करिष्यन्ति राज्यं पञ्चाशदुत्तरम् ॥४१॥
अतः परं रोहितके पत्तने सम्भविष्यति ।
कलौ नागार्जुनो नाम नृपचिह्नयुतरतदा ॥४२॥
तद्वंशे राज्यभोगस् तु वर्षाणां वै सहस्रकम् ।
तस्मात्परं बलिर्नाम नृपो वे स्भविष्यति ॥४३॥
तस्य वंशोद्भवा भूपाः सहस्राणि शताधिकम् ।
वर्षाणि ते कलौ स्कन्द नृपा राज्यकराः स्मृताः ॥४४॥
अतः परं कलियुगे नृपाः शूद्रादयः स्मृताः ।
म्लेच्छप्राया जनपदा भविष्यन्ति कलौ गुह ॥४५॥
एकीभूतं जगत्सर्वं म्लेच्छज्ञानैकसंस्थितम् ।
दृष्ट्वा चाधर्मबाहुल्यं विष्णुः कल्किर्भविष्यति ॥४६॥
आशुगं हयमारुह्य म्लेच्छान्वै स वधिष्यति ।
ततः कृतयुगं भूयो भविष्यति शिवात्मज ॥४७॥
एवं कलौ मया प्रोक्ता नृपचिह्नयुता नराः ।
समासेनव ते स्कन्द किं भूयः श्रोतुमिच्छसि ॥४८॥
इति भविष्ये चतुर्थकल्पे ॥४३॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे द्वादश-स्कन्धे प्रथमोऽध्यायः ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
॥ १२.१.४४ ॥
तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः ।
अन्योन्यतो राजभिश् च क्षयं यास्यन्ति पीडिताः ॥
**श्रीधर-स्वामी (भावार्थ-दीपिका) : **किं च, तन्-नाथाः ते नाथा येषां ते जनपदा देश-वर्तिनो मनुष्यास् तच्-छीलाचार-वादिनस् तेषाम् इव शीलम् आचारो वादश् च तद्वन्तः ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्वादशे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
॥।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां द्वादश-स्कन्धे
राज-वंशानुकीर्तनं नाम
प्रथमोऽध्यायः ।
॥ १२.१ ॥
-
थिस् वेर्से दोएस् नोत् सेएम् तो बे इन् अल्ल् एदितिओन्स्। ↩︎
-
श्री-कृष्ण-चैतन्याय नमः ॥ श्री-कृष्णाय नमः ॥ इत्य्-आदि पाठान्तराणि। ↩︎
-
थिस् वेर्से इस् नोत् इन् अल्ल् एदितिओन्स्। ↩︎
-
थिस् लिने इस् नोत् इन् थे ग्म् एदितिओन्। ↩︎
-
तलकस्य इति पुरीदासः । तज्ज्ञस्य इति ङ-पुस्तके पाठान्तरम्। ↩︎
-
गण्या इति पाठान्तरम्। ↩︎