॥ ११.३१.१ ॥
श्री-शुक उवाच—
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः ।
महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एक-त्रिंशे स्वकं धाम जगाम भगवान् इतः ।
तम् एवानुययुः प्रीत्या वसुदेवादयस् ततः ॥
देवान् यदून् विधायादौ भूयो देवान् विधाय च ।
श्री-कृष्णः स्वेच्छया धाम स्व-तन्वैव समाविशत् ॥
मुनयः सनकादयः । प्रजेश्वरा मरीच्य्-आदयः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकत्रिंशे भगवतश् चान्तर्धानं निरूप्यते ।
देवकी-वसुदेवादे रुक्मिण्यादेस् ततः परम् ॥
देवान् यदून् विधायादौ भूयो देवान् विधाय च । > श्री-कृष्णः स्वेच्छया धाम स्व-तन्वैव समाविशत् ॥ इति > स्वामि-चरणाः ॥१॥
———————————————————————————————————————
॥ ११.३१.२ ॥
पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः ।
चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विजा गरुड-लोक-निवासिनः पक्षिणः । मैत्रेयादयो वा ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.३ ॥
द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः ।
गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवतो निर्याणं द्रष्टु-कामाः सन्तः परमोत्सुकास् तत्रागमन् । तेषाम् औत्सुक्य-कृतं महोत्सवम् आह सार्धेन—गायन्तश् चेति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.४ ॥
ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः ।
कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥**
न कतमेनपि व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.५-६ ॥
भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः ।
संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत् ॥**
लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् ।
योग-धारणयाग्नेय्यादग्ध्वा धामाविशत् स्वकम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : आग्नेय्या धारणया स्व-तनुम् अदग्ध्वा स्वकं धामाविशत् ।
आग्नेय्यान्ये धारणया दग्ध्वा देहं परं पदम् । > यान्ति देवाः समन्ताश् च तेषाम् अन्यां तनुं हरिम् ॥ > नृसिंह-रूपी भगवान् भित्त्वा ताभिर् अलङ्कृतः । > नृत्यते प्रलये देवः स्वयं कृष्णादि-रूपवान् । > अदग्ध्वैव तनुं याति नित्यानन्द-स्वरूपतः ॥ इति तन्त्र-भागवते > ॥६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभूतीर् इन्द्रादींश् च । पद्म-नेत्रे न्यमीलयद् इत्य् अत्रायं भावः—पूर्वं ब्रह्मादिभिः स-लोकान् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् [भा।पु। ११.६.२७] इति प्रार्थितत्वात्, इदानीं च स्वं लोकं प्रति नेतुम् आगतत्वात्, बहुषु च तेषु दाक्षिण्यात् तान् वञ्चयितुं समाधिम् इव कुर्वन् नेत्रे न्यमीलयद् इति ॥५॥
योगिनाम् इव स्वच्छन्द-मृत्यु-भ्रमं वारयति—लोकाभिरामाम् इति । अयम् अर्थः—योगिनो हि स्वच्छन्द-मृत्यवः, स्वां तनुम् आग्नेय्या योग-धारणया दग्ध्वा लोकान्तरं प्रविशन्ति । भगवांस् तु न तथा, किन्त्व् अदग्ध्वैव स्व-तनु-सहित एव स्वकं धाम वैकुण्ठाख्यम् अविशत्
तत्र हेतुः—लोकाभिरामाम् । लोकानाम् अभिरामोऽभितो रमणं स्थितिर् यस्यां ताम् । जगद्-आश्रयत्वेन जगतोऽपि दाह-प्रसङ्गाद् इत्य् अर्थः । किं च, धारणाया ध्यानस्य च मङ्गलं शोभनम् । विषयम् इतरथा तयोर् निर्विषयत्वं स्यात् । दृश्यते चाद्यापि तद्-उपासकानां तथैव तद्-रूप-साक्षात्-कारः फल-प्राप्तिश् चेति भावः । इच्छा-शरीराभिप्रायेण वा यथा-श्रुतम् एवास्तु, तत्रापि तु लोकाभिरामाम् इत्य् आदीनां विशेषणानाम् आनर्थक्य-प्रसङ्गात्, तद् अप्य् अदग्ध्वा तिरोधाय निर्गत इत्य् एव सांप्रतम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् पितामहं वीक्ष्य तद्-आद्याश् चात्मनो विभूतीर् देवादि-रूपा वीक्ष्य, ततश् च तत आकृष्य पद्म-नेत्रे न्यमीलयत् । किं कृत्वा ? आत्मनि स्व-स्वरूपम् एवात्मानं मनः संयोज्येति । एवं तत्र योगिनो योग-विभूतौ वैराग्य-पूर्वकं देह-त्यागं शिक्षयितुं तेषु स्व-विग्रह-तत्त्वम् आवरितुं च तत् तद् दर्शितम् इति ज्ञेयम् ॥५॥
तथैवाह—लोकाभिरामाम् इति । अत्र टीकायाम् एतद् उक्तं भवति वाक्ये खलु कस्यचित् पदस्यान्यथार्थ-प्रतीतौ सत्याम् उपदेश-पदैर् एवार्थो निर्णीयते, आकाशस् तल्-लिङ्गाद् [वे।सू। १.१.२२] इत्य्-आदि न्यायात् । ततो लोकेत्य्-आदि पदानि दग्ध्वेत्य् आदि प्रतीतिम् उपमर्द्य अदग्ध्वेत्य् एव निश्चिन्वन्ति । तथा हि, लोकाभिरामाम् इत्य् अनेनोक्तं जगद्-आश्रयत्वम् एव तावत् तथा तत् प्रतिपादयति । यदि त्व् असङ्कुचितया वृत्त्या लोका ये महा-वैकुण्ठ-नित्य-पार्षदादयो भक्ताः, ये चात्मारामादयो ज्ञानिनस् तद्-आद्याः स्थावरान्ताः सर्व एवोच्यन्ते, तदा तेषां रमण-हेतुता1 तत् प्रतिपादयतीति किं वक्तव्यम् इत्य् अर्थः ।
तथास्तु तावत् महा-पार्षदाद्य्-अभिरामत्व-विचारः । साधक-जीवाश्रयत्व-विचारोऽपि तत् तथैव साधयति, यतो धारण-ध्यान-मङ्गलम् इत्य् उक्तं तत्र तयोः शोभन-विषयत्व-रूपार्थोऽपि तत् सम्पादयति । यदि च धारणा-ध्यान-मात्राभ्यां तत्-तत्-कतॄणाम् अपि या मङ्गल-रूपा भवति, तस्या वा कथम् अन्यथात्वम् इत्य् अर्थः । किं च, धाम्नस् तनोश् च तद्-अपेक्षितत्व-व्यञ्जनाय स्व-स्वरूपत्व-दर्शनाय वा विशेषणत्वेन पृथक् पृथग् एव स्व-शब्दौ दत्तौ ।
तन्व्-अपेक्षया न्यूनत्व-सूचकेन क-प्रत्ययेन तु स्व-तनोर् एव मुख्यत्वं गमितं स्व-तनुम् इत्य् अत्र समासोक्त्या च नीलोत्पलादौ नीलत्ववत् तनौ स्वत्वाव्यभिचारो नितरां निश्चितः । तत्र यदि धाम्नस् तेन विशेषणेन2 श्री-भगवद्-अपेक्षितत्वादिकं व्यञ्जितम् । तर्हि तनोर् वा कथं न व्यज्येतेति ।
अथ यद्य् एवं, तर्हि तया धारणया ताम् अदग्ध्वेत्य् एव किम्-अर्थम् अकण्डू-कण्डूतिः क्रियते? उच्यते—योगि-प्रभृतीनां भ्रम-हेतु-द्वारा भ्रमम् अनूद्य प्रत्याख्यातम् इति। तद् एतद् आह—योगिनो हीति । तदानीं तेनाग्नेयी धारणा कृता इति सत्यम् एव, किन्तु तया स्व-तनुम् अदग्ध्वैव स्वकं धामाविशत् । ततो योगिनां देह-त्याग-शिक्षणार्थम् एव धारणाम् अनु तद्-अन्तर्धापनम् इत्य् एव ज्ञेयम्, नान्यथेति बोधितम् । तादृशानां चमत्कारिणी लीलैव चैका खल्व् असाव् इति । किं वा, यदि च
इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् । > मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥ [भा।पु। १०.५७.३१] > इत्य् अनेन । > एवं वदन्ति राजर्षे ऋषयः कचनान्विताः । > यत् स्ववाचो विरुद्धेत न नूनं ते स्मरन्त्य् उत [भा।पु। १०.७७.३०]
इत्य् अनेन च श्री-भगवतस् तादृशत्वेऽपि मुन्य्-अन्तर-मतं श्रीमन्-मुनीन्द्रेण न सोढं, तदा किम् उतेदृशं ? तत्रापि हि «मुनि-वास-निवास» इत्य्-आदिवत् तत्-खण्डनाय लोकाभिरामाम् इत्य्-आदि विशेषणानि दत्तानि ।
तद् एवं श्री-भगवता स्व-तत्त्व3-गोपनार्थम् एव यानि मायया दर्शितानि, तद्-अनुवादीन्य् एव तत्-तन्-मुनि-वचनानि ज्ञेयानि । तद् एतद् एव दर्शयिष्यते—देवादय [भा।पु। ११.३१.८] इत्य्-आदिभिः । तेष्व् अपि केषुचित् पूर्वम् अपि स्व-विग्रहो न प्रकटितः, किन्तु नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ९.२५] इति, विराड् अविदुषां [भा।पु। १०.४३.१७] इति च न्यायेनान्य एव कल्पयित्वा दर्शितः । तस्यैव कश्चित् तन्-माययान्यथा-कृत-दृग्भिर् विसदृशत्वं प्रतीतं तस्यैव च मानुष-देहताम् अनूद्य मुनिभिर् अपि कैश्चिद् वर्णितम् । स्व-तनुम् अदग्ध्वेत्य् एवं हि स्वेच्छा-मय-माया-कल्पितां तनुम् एव दग्ध्वेत्यायाति
तद् एतद् आह—इच्छा-शरीराभिप्रायेण वा इति । तद् अप्य् असहमान आह—तत्रापि त्व् इति । स्वेच्छया कल्पितत्वे सति स्वेच्छयैव तिरोधापनं लभ्यते । ततश् चाग्नेय्य-धारणापि तथैव कल्पनमयीति भावः । श्री-कृष्ण-सन्दर्भेऽपि4 इच्छा-शरीरिणेति स्वेच्छा-प्रकाशेनेति व्याख्यातम् ।
यद् वा, इच्छापि शरीरं तद्वत् क्रिया-साधकं यस्य तेनेति व्याख्येयम् । तत्रापि तद्-इच्छया मायायाः प्रेरकत्वम् एवात्र गम्यम् इति साध्व् एव तत्-तद्-व्यख्यातम् । तम् इमम् अर्थं श्री-भगवान् इव यन् मुनि-जनः परोक्षतया दर्शयति, तत् तु युक्तम् एव, भगवद्-अनुसारित्वात् । यथोक्तम्, परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३५] इति ॥६॥ [कृष्ण-सन्दर्भ ९३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवान् पितामहम् इत्य्-आदि । द्वयम् अवस्तु-भूतं व्याख्याताभिप्रायं व्याख्यास्यमानाभिप्रायं च । स्वामि-चरणास् तु योगिनाम् इव स्वच्छन्द-मृत्यु-भ्रमं वारयन् भगवान् आग्नेय्यापि धारणया स्व-तनुम् अदग्ध्वैव पदं गम्यं धाम वैकुण्ठ-विशद् इत्य् आहुः । अदग्ध्वेत्य् अत्र लोकाभिरामाम् इति धारणा-ध्यानयोर् मङ्गलं विषयम् इति च हेतु-द्वयम् आहुः । अन्ये तु धारणा-ध्यान-मङ्गलं यथा स्यात् तथा शुद्धं जाम्बुनदम् इव स्व-तनुं दग्ध्वेतिवत् दाहोत्तीर्णं जाम्बुनदम् इव स्वतनुम् आदायैव धामाविशत् । सन्दिहानान् वादिनस् तु वह्निना स्व-तनोर् दाहासमर्थं दर्शयामासेति तात्पर्यम् । वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलं [भा।पु। ११.१४.३७] इति तद्-उक्तेर् इति व्याचक्षते ॥५-६॥
———————————————————————————————————————
॥ ११.३१.७ ॥
दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् ।
सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा स्वं स्वम् एव लोकम् आगमिष्यतीति संभ्रमेण देवादि-कृतः सर्वतो दुन्दुभि-नाद-पुष्प-वृष्ट्य्-आदि-महोत्सवोऽभवद् इत्य् आह—दिवीति । भूमेः सकाशात् । श्री-कृष्णम् अनु ययुः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्य-धर्मादयो ययुर् इति तत्-पराभावक-नाना-कुमतानां तदैवोत्थानाद् इति भावः ॥७॥
———————————————————————————————————————
॥ ११.३१.८ ॥
देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि ।
अविज्ञात-गतिं कृष्णं ददृशुश् चातिविस्मिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदा श्री-कृष्णेऽन्तर्हिते सति कुतो गतः ? इति वितर्कयन्तोऽपि ब्रह्म-मुख्या देवादयः स्व-धामनि विशन्तं श्री-कृष्णं न ददृशुः । तत्र हेतुः—अविज्ञात-गतिम् इति । क्वचित् क्वचिद् ददृशुश् च ततोऽतिविस्मिता बभूवुर् इत्य् अर्थः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदा श्री-भगवत्य् अन्तर्हिते सति सर्वज्ञा अपि कुत्र गतः ? इति वितर्कयन्तोऽपि ब्रह्म-भवाद्या देवाः स्व-धाम गच्छन्तं तं कृष्णम् अविज्ञात-गतिं ददृशुः । तस्य गतिं न ददृशुर् इति फलितोऽर्थः । क्वचित् क्वचित् केचित् केचित् ददृशुश् चेत्य् अतोऽतिविस्मिता बभूवुर् इत्य् अर्थः ॥८॥
———————————————————————————————————————
॥ ११.३१.९-१० ॥
सौदामन्या यथाकाशे यान्त्या हित्वाभ्र-मण्डलम् ।
गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः ॥**
ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः ।
विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अविज्ञात-गतित्वं दृष्टान्तेन स्पष्टयति—सौदामन्या गतिर् यथा मर्त्यैर् न लक्ष्यते, देवैस् तु लक्ष्यते, तथा भू-मण्डलं हित्वा गच्छतः श्री-कृष्णस्य गतिर् देवैर् अपि न लक्ष्यते, किन्तु तत्-पार्षदैर् एवेत्य् अर्थः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवेषु ब्रह्म-रुद्रादयो यथावद् दृष्टवन्त इत्य् आह—ब्रह्म-रुद्रादय इति ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविज्ञात-गतित्वं दृष्टान्तेन स्पष्टयति—सौदामन्या गतिर् मर्त्यैर् न लक्ष्यते यथा, देवैस् तु लक्ष्यते यथा, तथा भू-मण्डलं हित्वा गच्छतः श्री-कृष्णस्य गतिर् देवैर् अपि न लक्ष्यते, किन्तु तत्-पार्षदैर् एवेति स्वामि-चरणाः । तैश् च पार्षदैर् महा-वैकुण्ठ-कारणार्णव-क्षीरोदादिभ्य आगत्य भगवद्-योग-माययिव हेतुना परस्परालक्षितैः स्व-प्रभुं वयं स्व-धाम नयाम इत्य् उल्लसद्भिः सहैव ययौ । तथा आविर्भाव-काले तत्-तद्-धाम-नाथैः सह पार्षदास् तत आगत्य यदुष्व् अजनिषत, ये ये पुनर् निर्याण-कालेऽपि स्व-स्व-नाथैः सह तत्र तत्रैव ययुर् इति ज्ञेयम् । साविस्मिता इति वयं योगेश्वरम् इत्य् अभिमन्यामहे, किन्त्व् इमां योग-गतिं न विद्म इति एवेति भावः । प्रशांसन्त इति कः खल्व् एवं कर्तुं प्रभवेत्, यः सर्वज्ञैर् अप्य् अस्माभिर् अज्ञात-तत्त्वो योगेश्वरैर् अदृष्ट-योग-गतिकः, किन्तु स्वान्तरङ्ग-भक्तैर् ज्ञात एव दृष्ट-योग-गतिक एव सन् स्व-धाम प्राविशद् इति भावः ॥९-१०॥
———————————————————————————————————————
॥ ११.३१.११ ॥
राजन् परस्य तनु-भृज्-जननाप्ययेहा
माया-विडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते
संहृत्य चात्म-महिनोपरतः स आस्ते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तनुभृज्-जननवद् अप्ययवच् च ईहातनुभृज्-जननाप्ययेहा । प्रजापतिश् चरति गर्भे अन्तः अजायमाना बहुधा विजायते इति च ।
अजातो जातवद् विष्णुर् अमृतो मृतवत् तथा । > मायया दर्शयेन् नित्यम् अज्ञानां मोहनाय च ॥ इति ब्राह्मे ॥११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रायापरिज्ञानात् प्रथमं परिक्लिष्टं, ततश् च दृष्टान्तेन स्पष्टम् उक्ते, हृष्टं दृष्ट्वा पुनस् तम् एवार्थं प्रपञ्चयति—राजन्न् इति त्रिभिः । परस्य सर्व-कारणस्य तनु-भृत्सु यादवादिषु जननाप्ययेहा आविर्भाव-तिरोभाव-रूपाश् चेष्टा मायया अनुकरण-मात्रम् अवेहि । नटो यथाऽविकृत एव नाना-रूपैर् जन्मादीन् विडम्बयति, तद्वत् । आस्तां तवद् यादवादिषु जन्मादि-शङ्का, यावद् विश्व-सर्ग-निरोधादिष्व् अप्य् असाव् अविकृत एवास्त इत्य् आह—सृष्ट्वेति । आत्मना स्वयम् एवेदं जगत् सृष्ट्वा अन्तर्यामित्वेन अनुविश्य आत्म-महिना स्व-महिम्ना उपरत आस्ते ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र यादवानाम् अपि नान्यथात्वं सम्भवति किम् उत श्री-रामस्य श्री-कृष्णस्य चेति सिद्धान्तयन्न् आह—राजन्न् इति ।
परस्य श्री-कृष्णस्य ये तनु-भृतः प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुं [भा।पु। १.६.२९] इति श्री-नारदोक्त्य्-अनुसारेण तदीयां तनुम् एव धारयन्तस् तत्-पार्षदा यादवादयस् तेषां जननाप्यय-रूपा ईहाश् चेष्टाः केवलं परस्यैव माया-विडम्बनम्5अवेहि, यथा इन्द्रजाल-वेत्ता नटः कश्चिज् जीवत एव मारयित्वेव दग्ध्वेव पुनश् च तद्-देहं जनयित्वेव दर्शयति, तस्येव ।
विश्व-सर्गादि-हेत्व्-अचिन्त्य-शक्तेस् तस्य तादृश-शक्तित्वं न च चित्रम् इत्य् आह—सृष्ट्वेति । एवं सति श्री-सङ्कर्षणादौ मुग्धानाम् अन्यथा-भान-हेतूदाहरणाभासः सुतराम् एव मायिक-लीला-वर्णने प्रवेशितो भवति । स्कान्दे श्री-लक्ष्मणस्याप्य् अन्यादृशत्वं न सम्प्रतिपन्नम् । नारायण-वर्मणि च शेषाद्6 विलक्षण-शक्तित्वेन नित्यम् एवोपासक-पालकत्वेन तथैवानुमतम् इति दर्शितम् ।7 अत एव जरासन्ध-वाक्ये तव राम यदि श्रद्धा [भा।पु। १०.५०.१८] इत्य् अत्र श्री-स्वामिभिर् अपीत्थं वास्तवार्थो व्यञ्जितः ।
अच्छेद्य-देहोऽसाव् इति स्वयम् एव मत्वा अपरितोषात् पक्षान्तरम् आह—यद् वा, मां जहि इत्य् एषा । तद् एवं चानेन व्याख्यानेन लोकाभिरामां स्व-तनुं [भा।पु। ११.३१.६] इत्य्-आदि-पद्येषु योगि-जन-शक्ति-विलक्षण-भगवच्-छक्ति-व्यञ्जकं श्री-स्वामि-चरणानाम् अदग्ध्वा इत्य्-आदि-पद-च्छेदादि-मय-व्याख्या-सौष्ठवं कैमुत्यातिशयेन सुष्ठ्व् एव स्थापितम् । यत एव दृश्यते चाद्याप्य् उपासकानाम् इत्य्-आदिकं च तद्-उक्तं सुसङ्गतं भवति । तत्-तत्-परिकरेणैव सार्धं तेषु तत्-साक्षात्कार इति । अप्राकृत-देहानां तेषां तन् न सम्भवतीत्य् आस्ताम् ॥११॥ [श्री-कृष्ण-सन्दर्भ १२४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवतस् तत्-परिकराणां च तादृशत्वं सर्व-लोक-दृष्टं श्रुत्वा खिद्यन्तं राजानं लीला-तत्त्व-सिद्धान्तेनाश्वसयति—राजन्न् इति । परस्य परमेश्वरस्य तनु-भृतां जीवानाम् इव जननेहा जन्म-चेष्टा अप्ययेहा मरण-चेष्टा च मायया विडम्बनम् अनुकरणम् एव जानीहि, न तु तत्त्वतः । जीवानां शुक्र-शोणित-विकृत-तनु-भृतां जन्माप्ययौ दुःख-मयौ परमेश्वरस्य तु चिन्मय-विग्रहस्य आविर्भाव-तिरोभावौ सुखमयाव् एव । यद् उक्तं—
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः । > आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ [भा।पु। १०.३.८] > इति ।
अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इति, कृष्ण-द्युमणि-निम्लोचे [भा।पु। ३.२.७] इति, आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनं [भा।पु। ३.२.११] इति ।
अनादेयम् अहेयं च रूपं भगवतो हरेः । > आविर्भाव-तिरोभावाव् अस्योक्ते ग्रह-मोचने ॥ इति ब्रह्माण्ड-वाक्यं च > ।
तद् अपि यत् क्वचिज् जीवस्य इव जन्माप्ययौ दृश्येते, तन् मायया विडम्बनम् एवेत्य् अर्थः । यथा नटस्येति—ऐन्द्रजालिको नटो यथा मिथ्या-भूते अपि जन्म-मरणे स्व-परेषां दर्शयति, तथा । तत्र मरणं कश्चिद् दर्शयामास—तत्-कथोच्यते—कस्यचिद् ऐन्द्रजालिकस्य महाराजाग्रत एव तद्-दत्तेषु वस्त्रालङ्कार-मुद्रादिषु मध्ये रत्न-मालाम् अहं गृह्णामि, त्वं न, स्वर्ण-मुद्राम् अहम् एव गृह्णामि, न त्वम्, साप्तसाहस्रिकोऽयम् अश्वो मयैव ग्राह्यो न त्वयेत्य् एवं तत्-पुत्र-पौत्र-भ्रात्र्-आदीनां कलहे पारस्परिकास्त्र-घातेन प्रायः सर्वेषां मरणम् अभूत्, तद् दृष्ट्वा महा-सभोपविष्टं नृपतिं प्रत्य् ऐन्द्रजालिक ऊचे—“भो राजन् ! अलम् अतः परं मे जीवितेन इन्द्रजाल-विद्या यथा शिक्षिता, तथैव वर्तते । तयैव देह-त्यागस् तीर्थे कर्तव्योऽपि साम्प्रतं पुण्य-कीर्ति-तीर्थस्य तवैवाग्रतः क्रियते ।” इत्य् उक्त्वा स्वस्तिकासने उपविश्य प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधि-निरतस् तूष्णीम् अभूत् । मुहूर्तानन्तरं तु तद्-देहतः समाधिजोऽग्निर् अतिप्रचण्ड उद्भूय तद्-देहं भस्मीचकार । ततस् तत्-पत्न्यः सर्वाः शोकार्तास् तम् अग्निम् एव विविशुः ।
अथ त्रि-चतुर-दिवसानन्तरं तेनैवैन्द्रजालिकेन स्व-देशं गत्वा राजानं प्रति काचित् पत्री प्रहिता—“भो राजन् ! त्वत्-समीपात् स्वतिमान् एव सकल-पुत्र-पौत्र-भ्रातृकस् त्वद्-दत्तानि बहु-रत्नानि आदाय त्वद्-देश-स्थैर् जनैर् अलक्षित एव स्व-भवनम् आगतोऽहम् अत्र वर्ते । तस्मात् त्वद्-अग्रे प्रकाशिताया इन्द्रजाल-विद्यायाः पारितोषिकं यद् उचितं तन् मह्यं दातव्यम् ।” इति दृष्टान्त-विवृतिः ।
दार्ष्टान्तिकं विवृणोति—आत्मना स्वेनैव इदं मुनि-शाप-निबन्धन-महोत्पात-पारस्परिक-कलह-शस्त्रास्त्र-घात-प्रहारादिकं वैकल्यं सृष्ट्वा अनुविश्य तन्-मध्ये स्वयम् अपि प्रविश्य विहृत्य तैर् मर्त्यैः सह स्वयम् अप्य् एरकास्त्र-ग्रहणेन क्षणं खेलित्वा अन्ते संहृत्य च आत्म-महिम्ना मायात उपरतः सन्न् आस्त इति ॥११॥
———————————————————————————————————————
॥ ११.३१.१२ ॥
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं
त्वां चानयच् छरण-दः परमास्त्र-दग्धम् ।
जिग्येऽन्तकान्तकम् अपीशम् असाव् अनीशः
किं स्वानने स्वर् अनयन् मृगयां स-देहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न पुनर् अन्यथा मन्तव्यं, यतोऽस्मिन्न् एवावतारे तत्-प्रभावो निरतिशयो दृष्ट इत्य् आह—मर्त्येनेति । यमेन स्व-लोकं प्रति नीतं गुरु-सुतं मर्त्येन तेनैव शरीरेण य आनयद् आनीतवान् । शरण-दः शरणागत-रक्षकः, त्वां च ब्रह्मास्त्र-दग्धं यो रक्षितवान् । यश् चान्तकानाम् अन्तकम् अपि ईशं श्री-रुद्रं बाण-सङ्ग्रामे जितवान् । मृगयुं लुब्धकं स-देहं स्वः स्वर्गम् अनयन् निन्ये । असौ स्वावने स्व-रक्षणे अनीशोऽसमर्थः किं ? ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अप्राकृत-देहानां तेषु तन् न सम्भवतीत्य् आस्तां, श्री-कृष्णः पाल्यत्वेनैव न सम्भवतीत्य् आह—मर्त्येनेति । यः श्री-कृष्णो यम-लोकं गतम् अपि गुरु-सुतं गुरोर् जातेन पञ्चजन-भक्षितेन तेन मर्त्येन देहेनैवानयत्, न च ब्रह्म-तेजसो बलवत्त्वं मन्तव्यम् । त्वां च ब्रह्मास्त्र-दग्धं यस् तस्माद् ब्रह्मास्त्राद् आनयद् रक्षितवान् इत्य् अर्थः। किम् अन्यद् वक्तव्यं ? यश् चान्तकानाम् अन्तकम् ईशं श्री-रुद्रम् अपि बाण-सङ्ग्रामे जितवान् । अहो यश् च तं जराख्यं मृगयुम् अपि स्वः स्वर्गं वैकुण्ठ-विशेषं स-शरीरम् एव प्रापितवान् । स कथं स्वानां यदूनाम् अवने ईशो न भवति ? तस्मात् तेष्व् अन्यथा-दर्शनं न तात्त्विक-लीलानुगतम् । स-शरीरं तु तेषां स्व-लोक-गमनम् अतीव युक्तम् इत्य् अर्थः ॥१२॥ [श्री-कृष्ण-सन्दर्भ १२५]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च तस्यालौकिकं कर्मानुस्मृत्य दुर्भावनाम् इमां सर्वथा सन्त्यजेत्य् आह—मर्त्येनेति । यः श्री-कृष्णो यम-लोकं गतम् अपि गुरु-सुतं गुरोर् जातेन पञ्चजन-भक्षितेन तेन मर्त्येनैव देहेनोपलक्षितम् आनयत्, न च ब्रह्म-तेजसो बलवत्त्वं मन्तव्यम् । त्वां च ब्रह्मास्त्र-दग्धं जन्म-काले अन्त-काले च ब्रह्म-शापास्त्र-दग्धं शरणदः स्व-चरणम् एव शरणं ददानः सन्न् आनयत्, तस्मात् तस्मा रक्षितवान् इत्य् अर्थः । किम् अन्यद् वक्तव्यं ? यश् चान्तकानाम् अन्तकम् ईशं महा-रुद्रम् अपि बाण-सङ्ग्रामे जितवान्, अहो यश् च तं जराख्यं मृगयुम् अपि स्वर् वैकुण्ठ-विशेषं स-शरीरम् एव प्रापयामास, स कथं स्वस्य स्वानां यदूनाम् अवने ईशो न भवति ? अपि तु भवत्य् एवातः स स्व-पार्षदैः सह सदापि प्रपञ्च-गोचरी-भूतोऽपि विराजितुं शक्नोतीत्य् एवेति भावः ॥१२॥ [श्री-कृष्ण-सन्दर्भ १२५]
———————————————————————————————————————
॥ ११.३१.१३ ॥
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व्
अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् ।
नैच्छत् प्रणेतुं वपुर् अत्र शेषितं
मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : शोषितं वपुर् बलभद्रादीनाम्
जगतो मोहनार्थाय भगवान् पुरुषोत्तमः । > दर्शयेन् मानुषीं चेष्टां तथा मृतकवद् विभुः ॥ > प्रकाशयेद् अदेहोऽपि मोहाय च दुरात्मनाम् । > मायया मृतकं देवस् तदा सृष्ट्वा प्रदर्शयेत् । > कुतो हि मृतकं तस्य मृत्य-भावात् परात्मनः ॥ इति च । > जीव-विष्णोर् अभेदश् च देह-योग-वियोजने । > विष्णोर् दुःखं व्रणित्वादि पराभावस् तथैव च ॥ > अस्वातन्त्र्यं च वेदादाव् उक्तवद् भासते विभोः । > क्वचित् क्वचिद् विमोहाय दैत्यानां सुदुरात्मनाम् ॥ इत्य्-आदि ब्रह्माण्डे > ॥१३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि समर्थः, तर्हि किञ्चित्-काल-मत्रैव तेनैव वपुषा किं नातिष्ठत् ? तत्राह—तथापीति । यद्यप्य् उक्त-प्रकारेणाशेषस्य जगतश् चर-शरस्य स्थित्य्-आदिष्व् अनन्य-हेतुर् निरपेक्ष एव कारणं, स्वयं यद्य् अस्माद् अशेष-शक्ति-धृक्, तथापि यादवान् संहृत्य निजं वपुर् अत्र शेषितम् अवशेषितं प्रणेतुं कर्तुं नैच्छत्, किन्तु स्वम् एव लोकम् अनयत् । तत्र हेतुः—मर्त्येन देहेन किं ? न किञ्चित् कार्यम् इति स्व-स्थानाम् आत्म-निष्ठानां दिव्यां गतिम् एव प्रकृष्टां दर्शयन् । अन्यथा तेऽपि दिव्यां गतिम् अनादृत्य योग-बलेन देह-सिद्धिं विधायात्रैव रन्तुं यतेरन्, तन् मा भूद् इत्य् एतद् अर्थम् इति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु गच्छन्तु ते स-शरीरा एव स्वं धाम । तत्रापि स्वयं भगवान् विराजत एवेति न तेषां तद्-विरह-दुःखम् अपि । श्री-भगवांस् तु तथा समर्थश् चेत्, तर्हि कथम् अन्यांस् तादृशान् आविर्भाव्य तैः सह मर्त्य-लोकानुग्रहार्थम् अपरम् अपि कियन्तं कालं मर्त्य-लोकेऽपि प्रकटो नासीत् ? इत्य् अत्र सिद्धान्तयन् तेषां श्री-भगवतश् च सौहार्द-भरेणापि परस्परम् अव्यभिचारित्वम् आह—तथापीति । यद्यप्य् उक्त-प्रकारेण अशेष-स्थिति-सम्भवाप्ययेषु अनन्य-हेतुः यत् यस्मात् तद्-ऊर्ध्वम् अप्य् अनन्त-तादृश-शक्ति-धृक्, तथापि यादवान् अन्तर्धाप्य निजं वपुर् अत्र शेषितं प्रणेतुं किञ्चित् कालं स्थापयितुं नैच्छत्, किन्तु स्वम् एव लोकम् अनयत् । तत्र हेतुः—तान् विना मर्त्येन लोकेन किं मम प्रयोजनं ? इति स्व-स्थानां तद्-धाम-गतानां तेषां गतिम् एव स्वस्याभिमतत्वेन प्रकृष्टां दर्शयन्न् इति ॥१३॥ [श्री-कृष्ण-सन्दर्भ १२६]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापि यद्यप्य् एवं निरङ्कुशैश्वर्यः, तद् अपीत्य् अर्थः । तत्र निरङ्कुशैश्वर्यम् आह—अशेषाणाम् एव लोकानां स्थिति-सम्भवाप्ययेष्व् अनन्य-हेतुः, निरपेक्षः स एवैकः कारणं यतोऽशेषाः शक्तीर् धत्ते इति सः । तथापि देवान् स्वर्गे प्रस्थाप्य वपुः स-पार्षदस्य स्वस्य शरीर्रं शेषितम् अवशेषितं प्रणेतुं मर्त्य-लोके प्रकटी-भूतं कर्तुं नैच्छत्, अपि त्व् अन्तर्धापयितुम् एवैच्छत् । कुतः ? मर्त्येन मर्त्य-लोकेन किं भगवता मर्त्य-लोकापेक्षा न कृतेति भावः । किन्तु स्वर्ग-लोकापेक्षा कृतैव स्वर्ग-स्थानां ब्रह्मादीनां प्रार्थयैव मर्त्य-लोके प्रादुर्भावात् तेषाम् एव प्रार्थन्या वैकुण्ठं च जगामेति व्यञ्जयन् विशिनष्टि । स्व-स्व-गतिं प्रदर्शयन् स्वर्ग-स्थान् ब्रह्मादीन् प्रति गतिं वैकुण्ठ-गमनं प्रदर्शयन् ज्ञापयन् सन् । व्याख्यान्तरं तु आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनं [भा।पु। ३.२.११] इत्य्-आद्य्-उद्धव-वाक्य-विरोधाद् असुर-सम्मतत्वाच् च भक्तैर् अग्राह्यम् । तस्यासुर-सम्मतत्वं भक्ताग्राह्यत्वं चोद्धवेनैवोक्तं, यथा—
देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः । > भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥ [भा। > ३.२.१०] इति ॥१३॥
———————————————————————————————————————
॥ ११.३१.१४ ॥
य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् ।
प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : य एनाम् उक्त-प्रकाराम् । पदवीं गतिम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदवीं निर्यापण-मार्गम् । अत्र पराम् इति अनुत्तमाम् इति पदाभ्यां भगवतो निर्याण-लीलेयं सच्-चिद्-आनन्दात्मिकैव सर्वथा ज्ञेया । लोक-दृष्ट्या मायिकत्व-प्रतीतिस् त्व् अकिञ्चित्करा सुधियाम् इति द्योतितम् ॥१४॥
———————————————————————————————————————
॥ ११.३१.१५ ॥
दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः ।
पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैव भगवता स्व-लोकं गच्छता वसुदेवादीनाम् अपि तत् प्रप्तये उपायश् चिन्तित आसीत् । तम् आह—दारुक इत्य्-आदिना ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.१६-१८ ॥
कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप ।
तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विमूर्च्छिताः ॥**
तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः ।
व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥**
देवकी रोहिणी चैव वसुदेवस् तथा सुतौ ।
कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण-रामौ सुताव् अपश्यन्तः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् श्रुत्वेति । पूर्वं यथा भगवन्-नित्य-परिकर-प्रद्युम्नानिरुद्धाद्यांशा एव द्वारकातः प्रभासम् आजग्मुः, तथैव देवकी-रोहिण्य्-आद्य्-अंशा एव प्रभासम् आगमन् मूल-भूतास् तु देवक्य्-आद्या द्वारकायां प्रापञ्चिक-लोक-दृष्ट्या व्यराजन्तैवेति ज्ञेयम् ॥१६-१८॥
———————————————————————————————————————
॥ ११.३१.१९ ॥
प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः ।
उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपगुह्येत्य्-आदिकम् अवस्तु-भूतं व्याख्याताभिप्रायम् ॥१९॥
———————————————————————————————————————
॥ ११.३१.२० ॥
राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् ।
वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।
कृष्ण-पत्न्योऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अग्नाव् अन्तर्दधे भैष्मी सत्यभामा वने तथा ।
न तु देह-वियोगोऽस्ति तयोः शुद्ध-चिद्-आत्मनोः ॥ इति च ॥२०॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.२१ ॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।
आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सद्-उक्तिभिः सत्योऽवितथ्म् उक्तयो येषु तैः ।
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः । > मूढोऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥ [गीता ७.२५] > इत्य्-आदिभिः ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सद्-उक्तिभिः माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे[गीता १८.६५] इत्य्-आदि-पर्यवसानाभिः । यथाह स्वर्ग-पर्वणि,
ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् । > तेनैव दृष्ट-पूर्वेण सादृश्येनोपसूचितम् ॥ > दीप्यमानं स्व-वपुषा दिव्यैर् अस्त्रैर् उपस्कृतम्8 । > चक्र-प्रभृतिभिर् घोरैर् दिव्यैः पुरुष-विग्रहैः ॥ > उपास्यमानं वीरेण फाल्गुनेन सुवर्चसा । > यथा-स्वरूपं कौन्तेय तथैव मधुसूदनम् ॥ > ताव् उभौ पुरुष-व्याघ्रौ समुद्वीक्ष्य युधिष्ठिरम् । > यथार्हं प्रतिपेदाते पूजया देव-पूजितौ ॥ [म।भा। १८.४.२-६] > इति ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.२२ ॥
बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् ।
हतानां कारयाम् आस यथा-वद् अनुपूर्वशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्ट-गोत्राणं नष्ट-सन्ततीनाम् । सांपरायिकं पिण्डोदकादि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.२३-२४ ॥
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम् ॥**
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वारका-लीलाया अनित्यत्वम् आशङ्क्य दुःखितं राजानं तन्-नित्यत्वेन सान्त्वयन्न् आह—द्वारकाम् इति युग्मकेन
लोक-दृष्ट्यैव हरिणा त्यक्ताम् अत्यक्ताम् इति वा, नित्यं सन्निहित इति वक्ष्यमाणात् । ततश् चोभयथाप्य् आप्लावनं परितो जलेन परिखावद् आवरणं तज्-जल-मज्जनं च समुद्रेणैव श्री-भगवद्-आज्ञया त्यक्त-भूमि-लक्षणस्य हस्तिनापुर-प्रस्थापित-बहिर्-जन-गृहाद्य्-अधिष्ठान-बहिर्-आवरणस्यैव तथा रचनं विश्व-कर्मणा तस्यैव प्रकट-लीलायाः प्रापञ्चिक-मिश्रत्वात् । अतः सुधर्मादीनां स्वर्गाद् आगमनं च युज्यते । अप्रकट-लीलायां ततोऽपि दिव्यतरं सभान्तरादिकम् अपि स्यात् । श्रीमान् यादवादि-गृह-वृन्द-लक्षण-शोभोपशोभावान् यो भगवद्-आलयः, तं वर्जयित्वा । तद् एवम् अद्यापि समुद्र-मध्ये कदाचिद् असौ दूरतः किञ्चिद् दृश्यते इति तत्रत्यानां महती प्रसिद्धिः । अत्र महाराजेति सम्बोधनं दृष्टान्त-गर्भम् । यद् वा, महान्तो राजानो यादव-लक्षणा यत्र तथाभूतं तद्-आलयं श्री-कृष्ण-नित्य-धाम-रूपं द्वारका-पुरम् । न केवलं पुर-मात्रास्तित्वम् ।
तत्र च श्रीमति भगवद्-आलये मधुसूदनः श्री-कृष्णो नित्यम् एव सन्निहितः । अर्थात् तत्रत्यानां किं वा न तत्र सन्निहितः । भगवान् यादवादि-लक्षणाखिल-निजैश्वर्यवान् एव । तद्-आलयम् एव विशिनष्टि—स्मृत्येति । साक्षाद् अधुना व्यक्त-तद्-दर्शनाभावात् स्मृत्येत्य् उक्तम्। यः स्वयम् एवम्भूतस् तस्य त्व् अन्यथा सम्भावितत्वम् अपि नास्तीति भावः । एवम् एव विष्णु-पुराणे—
प्लावयामास तां शून्यां द्वारकां च महोदधिः । > नित्यं सन्निहितस् तत्र भगवान् केशवो यतः ॥ > तद् अतीव महा-पुण्यं सर्व-पाप-प्रणाशनम् । > विष्णु-क्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ [वि।पु। > ५.३८.९-१०] इति ।
तथैव श्री-हरि-वंशे यादवान् प्रतीन्द्र-प्रेषितस्य नारदस्य वाक्यम्—
कृष्णो भोगवतीं रम्याम् ऋषि-कान्तां महा-यशाः । > द्वारकाम् आत्मसात् कृत्वा समुद्रं गमयिष्यति ॥ [ह।वं। २.१०२.३२]
इत्य् अत्र आत्मसात् कृत्वा इति न तु त्यक्त्वेति ॥२४॥ [श्री-कृष्ण-सन्दर्भ १८१]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-आलयं वर्जयित्वेति, नित्यं सन्निहतस् तत्र इत्य्-आदि-वाक्यात् स्व-मतम् एवैतन् न परमतम् इति केचिद् आचक्षते । तर्हि यादवान्तरालयादिकं समुद्र-प्लावनात् किम् अनित्यम् एव? इत्य् अन्ये तत् प्रत्याचक्षते ॥२३॥
———————————————————————————————————————
॥ ११.३१.२५-२६ ॥
स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः ।
इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥**
श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः ।
त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम् ॥**
न कतमेनापि व्याख्यातम्।
———————————————————————————————————————
॥ ११.३१.२७ ॥
य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च ।
कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदित आरभ्य श्री-कृष्ण-चरित-कीर्तनस्य फलम् आह—य एतद् इति द्वाभ्याम् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आरभ्य श्री-कृष्ण-चरित-कीर्तनादेः फलम् आह—य एतद् इति द्वाभ्याम् ॥२७॥
———————————————————————————————————————
॥ ११.३१.२८ ॥
इत्थं हरेर् भगवतो रुचिरावतार-
वीर्याणि बाल-चरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंस-गतौ लभेत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शन्तमानि परम-मङ्गलानि । परमहंस-गतौ श्री-कृष्णे ॥२८॥
एवम् एकादश-स्कन्ध-भावार्थस्य प्रदीपिका ।
स्वाज्ञान-ध्वान्त-भीतेन श्रीधरेण प्रकाशिता ॥
सनातन-गोस्वामी : [ह।भ।वि। १०.५३२] रुचिराणाम् अवताराणां मत्स्यादीनां वीर्याणि परमाद्भुत-चरिताणि बाल्य-चरिताणि च, पूतना-वधादीनि लोक-त्रये\ऽपि शन्तमानि मङ्गलानि परम-सुख-रूपाणि वा, पराम् उत्कृष्टां प्रेम-लक्षणाम् इत्य् अर्थः । परमहंसानां गतौ श्री-कृष्णे ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वस्य श्री-कृष्ण-चरितस्य फलं परम-भक्ति-पूर्विका तद्-गति-प्राप्तिर् एवेत्य् आह—इत्थम् इति । परमहंस-गताव् इति तेषाम् अपि तद्-गुणाकृष्टानां स एव गतिः किम् उत मूल एव तद्-भक्तानाम् इति भावः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बाल-चरितानि आ शोडशाच् च बालः स्यात् [हरि-लीला-टीकायाम् उदाहृता स्मृतिः] इति प्रसिद्धेर् वृन्दावनीय-चरितानि त्व् अतिसुखदतमानीत्य् अर्थः । अन्यत्र पुराणादिषु इह श्री-भागवते च श्रुतानि परां परम-श्रेष्ठाम् ॥२८॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशैकत्रिंशोऽयं सङ्गतः सङ्गतः सताम् ॥
गोवर्धन-गिरौ पूर्णा [सहो]{।मर्क्}मासे रवेस् तिथौ ।
एकादश-स्कन्ध-टीका स्वीकारय तु मां प्रभुम् ॥
व्याचक्षाणोऽनभिज्ञत्वं स्वीयं व्यक्तम् अहं व्यधाम् ।
यद् एतेन हसन्तोऽपि सन्त एव गतिर् मम ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > मौषलं नाम एकत्रिंशोऽध्यायः ।
॥११.३१॥
-
हेतुना इति क्वचित् । ↩︎
-
विशेषेण इति क्वचित् पाठः । ↩︎
-
तनु इति ख-लिप्याम् । ↩︎
-
इ चोउल्द् नोत् फ़िन्द् थिस् पस्सगे इन् थे कृष्ण-सन्दर्भ, थोउघ् ६ अन्द् १२५ अरे रेलेवन्त्। ↩︎
-
माययानुकरणम् इति कृष्ण-सन्दर्भः। ↩︎
-
६.८.१८। ↩︎
-
इदं वाक्यं श्री-कृष्ण-सन्दर्भे प्राप्यते, न तु सर्वास्व् एव क्रम-सन्दर्भ-लिपिषु। ↩︎
-
उपस्थितम् इत्य् आकरे, कस्यांश्चित् लिप्याम् अपि। ↩︎