३० उद्धवस्य बदर्य्-आश्रम-प्रवेशः

॥ ११.३०.१ ॥

श्री-राजोवाच—

ततो महा-भागवत उद्धवे निर्गते वनम् ।
द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रिंशे तु प्राग् उपक्षिप्त- मौसल-च्छलतो हरिः ।

स्व-धाम गन्तुम् अन्विच्छन् सञ्जहार निजं कुलम् ॥

विरागाय पुरा घोरम् उपक्षिप्तं हि मौसलम् ।

कथावसाने तत्रैव विशेषं परिपृच्छति ॥

तत इति त्रिभिः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

देव-रूपान् यदूंस् त्रिंशे प्रभासं यापितान् प्रभुः ।

संहृत्य स्वर्गं प्रस्थाप्य वैकुण्ठं स्वांशतोऽव्रजत् ॥१॥

———————————————————————————————————————

॥ ११.३०.२ ॥

ब्रह्म-शापोपसंसृष्टे स्व-कुले यादव-र्षभः ।
प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : तनुम् अत्यजत् । अतिशयेनाहरत् । त्यज हरण इति धातोः । भूलोकात् स्वर्ग-लोकं प्रत्यहरद् इत्य् अर्थः ॥२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-शापोपसंसृष्टे कुले सति । अयं भावः—भगवति न हि शापः प्रभवति, यादवत्वानुकरणाच् च सोऽपि कथञ्चिन् मान्यः । अतः किम् अकरोत् ? इति । तद् एतद् उक्तम्—कथम् अत्यजत् ? इति । सर्व-नेत्राणाम् इति सर्वेन्द्रियोपलक्षणम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कथम् अत्यजत् ? नात्यजद् एवेत्य् अर्थः । इति स्व-हार्दम् अपि स्पष्टीकृतम् । तत्र हेतुः—सर्व-नेत्राणां प्रेयसीम्, इति सर्व-प्रेमास्पदत्वेन परमानन्द-रूपाम् इत्य् अर्थः । सर्व-पदेनात्मारामादयोऽपि गृह्यन्ते ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-शापेन उपसंसृष्टे उपसंहृते सति सर्वेषां नेत्राणां, सर्वस्य महा-देवस्यापि नेत्राणां प्रेयसीम् अतिप्रियां तनुं कथम् अत्यजत् ? केषाञ्चिन् मुनीनां मते यत् तस्य तनु-त्यागः श्रूयते, तत् कथं सम्भवन् नैव सम्भवेद् इत्य् अर्थः । तत् तनोः सच्चिदानन्द-स्वरूपत्वे तत्-त्यागासम्भवात् । विप्रः खलु विप्रत्वं स्वीयं कथं त्यजेद् इत्य् उक्ते विप्रत्वं नैव त्यजेद् इति लभ्यते । यद् वा, सविशेषणे हि विधि-निषेधौ विशेषणम् उपसङ्क्रामतः सति व्याख्या-बाधे इति न्यायेन तनुम् इति व्याख्य-पदे बाधात् प्रेयसीम् इति विशेषण-पद एवान्वितस् त्यागोऽयं ज्ञेयः । सजलं कणक-कलसं पान्थस् त्यजतीत्य् उक्ते भार-वहन-श्रमान् निर्जलीकृतस्य कलस्य ग्रहणं यथा प्रतीयते इति ॥२॥

———————————————————————————————————————

॥ ११.३०.३ ॥

प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः

कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् ।

यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां

दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कः सुख-रूपः । अनुमानः कवीनां मानानुसारी ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रपञ्चयति—प्रत्याक्रष्टुम् इति । यस्मिन् रूपे लग्नं नयनं प्रत्याक्रष्टुं परावर्तयितुम् अबला न शेकुः । यच् च कर्ण-रन्ध्रेण प्रविष्टं सत् सताम् आत्मनि लग्नं लिखितम् इव तिष्ठति, ततो न सरति न निर्गच्छति । यस्य श्रीः शोभा सङ्कीर्त्यमाना कवीनां वाचां रतिम् उल्लास-विशेषं जनयति । तेषां मानं जगत् पूज्यतां जनयतीति, किं नु वक्तव्यं ? यच् च विष्णो रूपं जिष्णोर् अर्जुनस्य रथे स्थितं दृष्ट्वा युधि मृतास् तत्-साम्यं सारूप्यम् ईयुः प्राप्ताः । तत् केन रूपेणात्यजत् ? इत्य् अन्वयः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्यागासम्भवे पुनर् हेतून् आह—प्रत्याक्रष्टुम् इति । अबलाः सर्व-भक्त-वृन्द-प्रार्थनीय-प्रेम-वशाः श्री-गोप्यो यत्र लग्नं नयनं प्रत्याक्रष्टुं न शेकुर् इति तद्-रूपं कथम् अन्यथा कर्तुं शक्येत ? प्रणय-रशनया धृताङ्घ्रि-पद्म [भा।पु। ११.२.५५] इति विरोधात् । तथाभिप्रायेणैवाह—कर्णाविष्टम् इति । सतां भवदीयानाम् आत्माराम-शिरोमणीनां भागवत-परमहंसानाम् । किं च, यच्-छ्रीर् इति कवीनां तादृशानाम् एव श्री-कृष्ण-द्वैपायनादीनाम् इति विशेषतश् चायं हेतुर् इत्य् आह—दृष्ट्वेति ।

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । > नेच्छन्ति सेवया पूर्णाः कृतोऽन्यत्काल-विप्लुतम् ॥ [भा।पु। ९.४.६७]

इत्य्-आदि-न्यायेन यस्य साम्यम् अप्य् अकाल-विप्लुतं, तस्य वा कथम् अन्यथा सम्भाव्यतेति भावः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तनोस् त्यागेऽनुपपत्तीर् दर्शयति—प्रत्याक्रष्टुम् इति । यत्र वपुषि लग्नं नयनं प्रत्याक्रष्टुं परावर्तयितुम् अबलास् तन्-नित्य-प्रेयस्यो रुक्मिण्य्-आद्या न शेकुः । यच् च कर्णाविष्टं श्रवण-द्वारा कर्ण-रन्ध्रे प्रविष्टं सतां भवद्-विधानानाम् आत्मारामाणाम् आत्मनि लग्नं लिखितम् इव तिष्ठति, ततो न सरति । यस्य श्रीः शोभा वर्ण्यमाना कवीनां व्यासादीनां वाचां रतिम् उल्लास-विशेषं सञ्जनयन्ति । यच् च जिष्णोर् अर्जुनस्य रथ-गतं युधि दृष्ट्वा साम्यम् ईयुः सायुज्यं प्राप्ताः । अतस् तद्-वपुर् गुणातीतं साक्षाद् ब्रह्मैव भवेत् । न हि गुणमय-वस्तु-दर्शनेन सायुज्यं भवेत् । अत एव श्रुतिभिर् उक्तं—

निभृत-मरुन्-मनो-\ऽक्ष-दृढ-योग-युजो हृदि यन् > मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् ॥ [भा।पु। १०.८७.२३] > इति ।

नापि गुण-मयं सताम् आत्मारामाणाम् आत्म-लग्नं तिष्ठेत् । नापि नित्य-प्रेयस्यो लक्ष्म्य्-आद्या ह्लादिनी-शक्तयः प्राकृते खल्व् आसज्जन्ति । तस्मात् तद्-वपुस्-त्यागं वर्णयन्तो मुनयस् तन्-माया-मोहिता एवेति ॥३॥

———————————————————————————————————————

॥ ११.३०.४ ॥

श्री-ऋषिर् उवाच—

दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् ।
दृष्ट्वासीनान् सुधर्मायां कृष्णः प्राह यदून् इदम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिवि सूर्य-परिवेषादीन्, भुवि भू-कम्पादीन्, अन्तरिक्षे दिग्दाहादीन्, महोत्पातान् स्वयम् एवोत्पादितत्वाद् अन्यैर् दुष्प्रतीकारान् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तथैवाम्य् अभ्युपगम्य केवलं तेन प्रपञ्चितम् एव वर्णयति—दिवीत्य् आदिना ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.५ ॥

श्री-भगवान् उवाच—

एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः ।
मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यमस्य केतवो ध्वजा इव मृत्यु-सूचका इत्य् अर्थः । नोऽस्माभिः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रान्तरे भगवान् किञ्चित् पराममर्श । कुरुक्षेत्र-यात्रायां नाना-दिग्-देशतो मां मिलितुम् आगताणां लोकाणां मध्य एवालक्षितम् आगत्य कलिर् मां प्रावोचत्—“प्रभो ! भुवि मद्-अधिकारो कदा भविष्यति ?” इति । मयोक्तं—“मल्-लीला-समाप्त्य्-अनन्तरम् एव ।” अतो मद्-अन्तर्धान-लक्षणानन्तरम् एव मया दत्ताधिकारः कलिः पृथिव्याम् अधिकरिष्यति । किं च, मद्-अवतारे सम्प्रति धर्मोऽयं कृत-युगतोऽप्य् आधिक्येन चतुष्पाद् एव वर्धते, धर्मस्यास्यैतादृशे प्राबल्ये सति कलिः कथम् अधिकर्तुं शक्नुयात् ? तस्य हि पादैक-शेष-धर्मे सत्य् एवाधिकार-योग्यता इति नियमः ।

न च, निमित्तापाये नैमित्तिकस्याप्य् अपायः इति-न्यायेन मत्-प्राकट्याभावे सति तादृश-धर्मस्याप्य् अपाय इति वाच्य, सर्व-जगत्-पावन्या मन्-महा-कीर्ति-देव्याः सर्वत्रैव जागरूकत्वेनैव स्थितत्वात् ।

किं च, मद्-अनुकूल-प्रतिकूल-तटस्थ-लोकानां मध्ये प्रतिकूला मया संहृता एव, साम्प्रतं रामावतारेणैव सर्व-लोक-समक्षम् एव स्व-धाम-वासिभिः सार्धं वैकुण्ठारोहणे सति अनुकूला द्वि-गुणित-भक्तयो भविष्यन्ति, अत्यनुकूलास् तु परमोत्कण्ठ्यवन्तः शत-गुणित-प्रेमाणः । तटस्था अपि परमाश्चर्य-दर्शनेन भक्ता भविष्यन्तीति धर्मः प्रत्युत वर्धिष्यते एव कथं कलेः प्रभूतालेशोऽपि सम्भाव्यस् तस्माद् धर्म-सङ्कोचनार्थम् अधर्म-मतं केनापि प्रकार्णोत्थापयिष्यामि ।

तत्रायं प्रकारः—स्वीय-लीला-परिकरैर् यदुभिः सह द्वारवत्याम् एव यथा-स्थितम् एव विराजिष्ये, किन्तु प्रापञ्चिक-सर्व-लोक-चक्षुर्भ्यस् तिरोभूयैव । तथा प्रद्युम्न-शाखादिषु मन्-नित्य-परिकरेषु तत्-तद्-विभूतयो ये देवा कन्दर्प-कार्त्तिकेयादयः प्रवेशिता वर्तन्ते, तान् एव योग-बलेन तत्-तद्-देहतोऽलक्षितम् एव निष्काश्य प्रद्युम्नादित्वेनैव अभिमन्यमानान् सर्व-लोक-लोचनेष्व् अपि तथैव भातान् कृत्वा, तैर् अन्यैश् च द्वारका-वासिभिः सार्धं प्रभासं गत्वा, दान-ध्यान-मधु-पानादिकं कारयित्वा, तान् आधिकारिक-भक्तान् स्व-स्वाधिकारेषु स्वर्ग एव प्रस्थाप्य, तद् अन्यैर् द्वारका-वासि-जनैः सह दाशरथि-स्वरूप इव वैकुण्ठं प्रस्थास्ये, किन्तु लोक-लोचनेषु माया-दोषं प्रवेश्यैव, येन लोका एवं मंस्यन्ते द्वारावत्याः सकाशान् निष्क्रम्य सर्वे यदु-वंश्याः प्रभासं गत्वा ब्रह्म-शाप-ग्रस्ता मधु पीत्वा मत्ताः परस्पर-हृता देहांस् तत्यजुः ।

परमेश्वरोऽपि स-रामस् त्यक्त-मानुष-देह एव स्व-धामारुरोह । तस्मान् मानुष-शरीर्रम् इदम् अनित्यं मायिकम् इत्य् एके वदिष्यन्ति । मन्-मानुष-शरीर्रावज्ञा हि महापराध एव । यद् उक्तं मयैव—अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितं [गीता ९.११] इति । तत्-फलम् अप्य् उक्तम्—

मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः । > राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [गीता ९.१२] इति > ।

अर्थश् च यदि ते भक्तास् तदा मोघाशाः स्युर् मत्-प्राप्त्याशास् तेषां मोघा, यदि ते कर्मिणस् तदा मोघ-कर्माणस् तेषां स्वर्गो न भवेत्, यदि ते ज्ञानिनस् तदा मोघ-ज्ञानास् तेषां मोक्षो न भवेद् इति यतन्ते राक्षसीम् इति । अन्ये तु परमेश्वरेणापि गृहीतस्य सर्वस्यापि शरीर्रस्य दृश्यत्वाद् अनित्यत्वम् एव, दिव्य-मानुष-देहयोश् चिरन्तनत्वाचिरन्तनत्वाभ्याम् एव भेद इति । अपरे तु यथैव कुरु-वंशो निपातितस् तथैव स-वंश एव कृष्णः प्रभासे निपपातेत्य् एवम् अधम-विज्ञ-मानि-दुर्जन-कुमत-श्रवण-जल्पनानुमोदन-प्रचारणैर् धर्मैः सद्य एव पादैक-शेषो भविष्यति । यथा धवलोज्ज्वलम् अपि शङ्खं पित्तादि-दोषोपहत-चक्षुषो मलिनं पीतम् एव पश्यन्ति, तथैव सच्-चिद्-आनन्द-मयीम् अपि मन्-निर्याण-लीलां माया-दोषोपहत-चित्त-चक्षुषः प्रद्युम्नादि-सर्व-परिकर-सहित-मद्-देह-त्याग-रुक्मिण्य्-आदि-महिषी-वह्नि-प्रवेशादि-दुरवस्था-मयीं प्राकृतीम् एव द्रक्ष्यन्ति निश्चेष्यन्ति च । न केवलं प्राकृताः, किन्तु सद्-इच्छा-वशाद् अर्जुनादयोऽपि, तथैव वैशम्पायन-पराशरादयो मुनयोऽपि स्व-स्व-संहितासु वर्णयेयुर् अपि, कलि-प्राबल्य-परस्परा-सिद्ध्य्-अर्थं कलौ जनिष्यमाणेन शङ्करेण मद्-भक्तेनापि वेदान्त-भाष्यं तथा प्रपञ्चयिष्यते, यथा तच्-छास्त्र-मयीत्य् अधीत्य—सूक्ष्मो यः कारणोपाधिर् मायाख्येऽनेक-शक्तिमान् स एव भगवद्-देहः इति भाष्य-कृतां मतम् इति हत-बुद्धयो व्याख्यास्यन्ते इति विभाव्य महोत्पातानुत्पाद्य स-शङ्कं स-सम्भ्रमम् आह—एते घोरा इति ।

न चात्र भगवतो नैर्घृण्यम् आशङ्कनीयं ? तद्-भक्तेतराणां लोकानां प्राचीन-दुरदृष्ट-विपाक-समय एव स तत्-तत्-कुमत-पथ-प्रादुर्भावको भवेद् भगवद्-इच्छा तु सद्-असत्-कर्मोद्बोधेऽपि निमित्तम् अस्त्य् एवान्यथा बुद्धाद्य्-अवतारस्यापि नैर्घृण्यं प्रसज्जेत । भगवता तु स्व-भक्त-भजन-संशय-दूरीकरणार्थं स्व-लीला-तत्त्व-सिद्धान्तम् उद्धवं प्रत्युक्तवान् एव । यद् उक्तम् उद्धवेनैव—

इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः । > आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भा।पु। ३.४.१९] इति > ।

आत्मनः स्वस्य स्थितिं व्यवसितिं लीला-परिपाटीं च द्वारकादि-धाम-नित्य-निवासिनां चेति तत्रार्थः । अत एवान्तर्धान-लीला-तत्त्वं चोक्तं—

प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् । > आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११] > इति ।

लोकानां लोचनानि निमग्नानि यत्र तादृशं बिम्बं स्व-देहम् आदायैवान्तरधाद् इति तत्रार्थः । न च बिम्ब-पदस्यार्थान्तरं कल्प्यं यतस् तद्-उतंर-श्लोकेषु, यन् मर्त्य-लीलौपयिकं[भा।पु। ३.२.१२] इति, यद् धर्म-सूनोर् बत राजसूये[भा।पु। ३.२.१३] इत्य्-आदिषु वपुर् इत्य् एवार्थो दृष्टः । अत एव,

कृष्ण-द्युमणि निम्लोचे[भा।पु। ३.२.७] इति कृष्णान्तर्धानस्य सूर्यास्त-मयेनोपमा । माया-दोषोपहत-चक्षुषः कुमतम् आललम्बिरे इत्य् अपि तेनैवोक्तम्,

देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः । > भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥ [भा।पु। > ३.२.१०] इति ।

ये माया-दोषोपहत-चक्षुषः ये च बहिर्मुखा अन्यद् असत्-कर्म-वाद-कुमतम् आश्रितास् तेषां वाक्यैः कृष्णो देहं तत्याजेति । कृष्णः स्व-कृतम् अधर्म-फलं प्रापेति भाषणैर् धीर् न भ्राम्यति । कस्य ? आत्मनि हरौ भगवति उप्तात्मनो निक्षिप्त-चित्तस्य भक्त-जनस्येति तत्रार्थः । अथ भगवतो विग्रह-नाम-धाम-गुण-लीला-परिकराणां नित्यत्वे प्रमाणानि—

गोविन्दं सच्-चिद्-आनन्द-विग्रहं पञ्च-पदं > वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं परमया > स्तुत्या तोषयामि [गो।ता।उ। १.३३] इति गोपाल-तापिनी श्रुतिः ।

तथा,

वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो > नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं शतधाहं > सहस्रधाहम् अमितोऽहम् अनन्तोऽहम् । नैवैते जायन्ते, नैवैते > म्रियन्ते, नैषाम् अज्ञान-बद्धो न मुक्तिः, सर्व एव ह्य् एते पूर्णा अजरा > अमृताः परमाः परमानन्दाः इति माध्व-भाष्य-प्रमाणिता श्रुतिः । > निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो > निश्चेतनात्मक-शरीर्र-गुणैश् च हीनः । > आनन्द-मात्र-मुख-पाद-सरोरुहादिः इति ध्यान-बिन्दूपनिषत् । > नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः इति ब्रह्माण्ड-पुराणम् । > सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । > हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥ इति महा-वाराहम् । > युगे युगे विष्णुर् अनादि-मूर्तिं > आस्थाय शिष्टं परिपाति दुष्टहा इति नारसिंहम् । > यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । > स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त-विधानतः । > मुखं तस्यावलोक्यापि स-चेलः स्नानम् आचरेत् ॥ इति बृहद्-वैष्णवं > च । > न भूत-सङ्ग-संस्थानो दोहोऽस्य परमात्मनः इति । > अमृतांशोऽमृत-वपुः इति महाभारतम् ।

अमृतं मरण-वर्जितं वपुर् यस्येति तत्र श्री-शङ्कराचार्य-व्याख्या च प्रसिद्धा, शाब्दं ब्रह्म दधत् वपुः इति । यत् तद्-वपुर् भाति विभूषणायुधैर् अव्यक्त-चिद्-व्यक्तम् अधारयद् विभुर् [भा।पु। ८.१८.१२] इति । बबान्ध प्राकृतं यथा [भा।पु। १०.९.४] इति । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४], स्वेच्छा-मयस्य न तु भूत-मयस्य [भा।पु। १०.१४.२] इति । त्वय्य् एव नित्य-सुख-बोध-तनौ [भा।पु। १०.१४.२२] इति श्री-भागवतं च ।

नाम्नां नित्यत्वे, ॐ आस्य जानन्तो नाम चिद् विवक्तन [ऋ।वे। १.१५६.३] इति श्रौत-मन्त्रः । बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भा।पु। १०.८.१५] इति वर्तमान-निर्देशश् च । यत् तु

अनाम-रूप एवायं भगवान् हरिर् ईश्वरः । > अकर्तेति च यो वेदैः स्मृतिभिश् चाभिधीयते ॥ इति पाद्मादि-वचनं,

तत्र वासुदेवाध्यात्म-वाक्यम् एव समाधायकं, यथा—

अप्रसिद्धेस् तद्-गुणानाम् अनामासौ प्रकीर्तितः । > अप्राकृतत्वाद् अरूपस्याप्य् अरूपोऽसाव् उदीर्यते ॥ > सम्बन्धेन प्रधानस्य हरेर् नास्त्य् एव कर्तृता । > अकर्तारम् अतः प्राहुः पुराणं तं पुराविदः ॥ इति ।

एवम्, उपासकानां सिद्ध्य्-अर्थं ब्रह्मणो रूप-कल्पना इत्य् अत्र रूपं मूर्तिः । शैली दारु-मयी लौही वा तस्य कल्पना राम-कृष्णाद्य्-आकारत्वेन निर्माणम् इति तत्रार्थो ज्ञेय इति ।

धाम्नां नित्यत्वे—तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी हि [गो।ता।उ। २।] इति गोपाल-तापिनी श्रुतिः । नित्यं मे मथुरां विद्धि पुरीं द्वारवतीं तथा इति पाद्मम् । वनं वृन्दावनं तथा इत्य् अपि क्वचित् पाठः ।

गुणानां नित्यत्वे—

इमे चान्ये च भगवन् नित्या यत्र महा-गुणाः । > प्रार्थया महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भा। > १.१६.३०] इति ।

लीलानां नित्यत्वे—

एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा । इति > पिप्पलाद-शाखायां पुरुष-बोधिनी श्रुतिः ।

जयति जननिवासो [भा।पु। १०.९०.४८] इत्य् अस्य दोर्भिर् अस्यन्न् अधर्मम् इति, व्रज-पुर-वनितानां वर्धयन् काम-देवम् इति च वर्तमान-प्रयोगश् च ।

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । > नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥ [भा।पु। > १०.२९.१५] इति च ।

लीला-परिकराणां नित्यत्वे—

यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः । > तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥ > एते हि यादवाः सर्वे मद्-गणा एव भाविनि । > सर्वथा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ इति पाद्मम् ।

अत एव,

नित्यावतारो भगवान् नित्य-मूर्तिर् जगत्-पतिः । > नित्य-रूपो नित्य-गन्धो नित्यैश्वर्य-सुखानुभूः ॥

इति सर्वम् अनवद्यं यमस्य केतवो ध्वजा इव मृत्यु-सूचका इत्य् अर्थः, नोऽस्माभिः ॥५॥

———————————————————————————————————————

॥ ११.३०.६ ॥

स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः ।
वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यक् पश्चिम-वाहिनी ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.७ ॥

तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः ।
देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिषिच्य स्नात्वा ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.८ ॥

ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् ।
गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणांश् च तैः कृत-शान्तिकाः सन्तो गवादिभिः पूजयिष्यामः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.९ ॥

विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् ।
देव-द्विज-गवां पूजा भूतेषु परमो भवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विधिः प्रकारः मङ्गलायनं च । किं च, देव-द्विज-गवां पूजा । भव उद्भव-हेतुः । देव-लोके परम उद्भवो भविष्यतीति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अरिष्ट-घ्नत्वादिकं प्रपञ्चातीत-स्वालोक-प्रकाशावाप्त्य्-अभिप्रायेणोक्तम् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवः कल्याणम् ॥९॥

———————————————————————————————————————

॥ ११.३०.१० ॥

इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः ।
तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधु-द्विषो वाक्यम् आकर्ण्य तथेत्य् अभिनन्द्य । उत्तीर्य समुद्रम् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.११ ॥

तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः ।
चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-श्रेयोपबृंहितम् इत्य् अत्र सन्धिर् आर्षः । भगवतानुक्तैर् अपि सर्वैः श्रेयोभिः सहितं चक्रुः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रेयोपबृंहितम् इत्य् अत्र सन्धिर् आर्षः ॥११॥

———————————————————————————————————————

॥ ११.३०.१२ ॥

ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु ।
दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पीयत इति पानम् । मैरेयकं मदिरा-विशेषम् । मधु सुरसम् । दिष्टेन दैवेन विभ्रंशित-धियः । न ह्य् अन्यथा तस्मिन् स्थाने तद् उचितम् इति भावः । यद् द्रवैर् यस्य द्रवै रसैः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत इति दिष्टं भगवद्-इच्छा वक्ष्यते हि कृष्ण-मायेति अनेन सर्वं माया-कृतम् एवेदम् इति । पुरोऽपि स्थापयिष्यते तद् एतद्-अनुसारेण विरुद्धानि पुराणान्तरादि-वाक्यानि च माया-कृतानुवादत्वेनैव योजनीयानि ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मैरेयकं मदिरा-विशेषम् । अतः परं दिष्ट-विभ्रंशित-धियैत्य्-आदि, संयोज्यात्मानम् आत्मनि [भा।पु। ११.३०.५६] इत्य् अन्तं परमतम-वस्तु-भूतम् । वस्तु-भूतं तु ततस् ते देवाः वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवं [भा।पु। ११.६.३८] इति भगवद्-उक्ति-प्रभावाद् दानादिभिर् ब्रह्म-शापं तीर्त्वा मधु पीत्वा अन्तर्धाय दिवम् आरुरुहुः । सङ्कर्षणश् च स्व-स्थानं ययौ इत्य् एतावन्-मात्रम् एव स्व-मतं, भगवद्-उक्त्या पूर्वम् एवाह स्म । सा च—

मिथो यदैषां भविता विवादो > मध्व्-आमदाताम्र-विलोचनानाम् । > नैषां वधोपाय इयान् अतोऽन्यो > मय्य् उद्यतेऽन्तर्दधते स्वयं स्म ॥ [भा।पु। ३.३.१५] इति ।

अस्यार्थः—यदा विवादो भविता, तदा नैषां वधोपायः । स विवाद एषां वध-हेतुर् न भवेत् । इयान् एतावान् अपि एरका-मुष्टि-ग्रहण-ताडन-पर्यन्तोऽपि, अतस् तदा तावान् विवादो वधश् च लोकैर् द्रष्टव्योऽवस्तु-भूत एव ।

ननु तर्ह्य् एषाम् उपसंहारे को हेतुः ? तत्राह—अतो वधाद् अन्य एव उपायोऽस्ति । स एव कः ? मयि उद्यते सति मद्-इच्छायां सत्याम् इत्य् अर्थः । स्वयम् एवान्तर्दधते इमेऽन्तर्धास्यते । स्मेति निश्चये ॥१२॥

———————————————————————————————————————

॥ ११.३०.१३ ॥

महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् ।
कृष्ण-माया-विमूढानां सङ्घर्षः सुमहान् अभूत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्णा-माया-विमूढानाम् इति मुख्यो हेतुः । सङ्घर्षः कलहः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्णस्य मायया विमूढानां "के अयं ? किम् इदं कुर्मः ?" इत्य् अजानताम् । सङ्घर्षः कलह-विशेषः ॥१३॥

———————————————————————————————————————

॥ ११.३०.१४ ॥

युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः ।
धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो युयुधुश् च ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.१५ ॥

पतत्-पताकै रथ-कुञ्जरादिभिः

खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि ।

मिथः समेत्याश्वतरैः सुदुर्मदा

न्यहन् शरैर् दद्भिर् इव द्विपा वने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पतन्त्य इतस् ततश् चलन्त्यः पताका येषु तै रथादिभिर् मिथः समेत्यन्यहन् न्यघ्नन्न् इत्य् अर्थः । दद्भिर् दन्तैर् इव ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.१६ ॥

प्रद्युम्न-साम्बौ युधि रूढ-मत्सराव्

अक्रूर-भोजाव् अनिरुद्ध-सात्यकी ।

सुभद्र-सङ्ग्रामजितौ सुदारुणौ

गदौ सुमित्रा-सुरथौ समीयतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथः समेत्येत्य् अस्य प्रपञ्चः । प्रद्युम्नेत्य् आदि चतुर्भिः । गदौ श्री-कृष्णस्य भ्राता एकः, पुत्रश् चापरः, तौ । सुमित्रा-सुरथाव् इति दैर्ध्यमार्षम् । असुरथ-नामा वा कश्चित् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गदौ कृष्णस्य भ्रातैकः, पुत्रश् चापरः, तौ ॥१६॥

———————————————————————————————————————

॥ ११.३०.१७ ॥

अन्ये च ये वै निशठोल्मुकादयः

सहस्रजिच्-छतजिद्-भानु-मुख्याः ।

अन्योन्यम् आसाद्य मदान्ध-कारिता

जघ्नुर् मुकुन्देन विमोहिता भृशम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मदान्धेन मद-तमसा बलात् कारिताः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मदेन मत्ततया अन्धवत् कारिताः । यद् वा, अन्धकारम् इताः अन्धकारः सञ्जातो येषां तेषां ते तारकादि ॥१७॥

———————————————————————————————————————

॥ ११.३०.१८ ॥

दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता

मध्व्-अर्बुदा माथुर-शूरसेनाः ।

विसर्जनाः कुकुराः कुन्तयश् च

मिथस् तु जघ्नुः सुविसृज्य सौहृदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दाशार्हादयो नव तत्-तद्-वंश्याः । अर्बुदा माथुराः शूरसेनाश् च तत्-तद्-देशीयाः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.१९ ॥

पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च

स्वस्रीय-दौहित्र-पितृव्य-मातुलैः ।

मित्राणि मित्रैः सुहृदः सुहृद्भिर्

ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रातृभिश् चेति भ्रात्रादि-शब्दानां स-प्रतियोगि-वाचित्वाद् भ्रातरो मातुला इत्य्-आदि ज्ञेयम् । मित्रैश् च मित्राणि च । अहन् हतवन्तः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.२० ॥

शरेषु हीयमानेषु भज्यमानेषु धन्वसु ।
शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धन्वसु धनुःषु । जह्रुर् जगृहुः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जह्रुर् जगृहुः ॥२०॥

———————————————————————————————————————

॥ ११.३०.२१ ॥

ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः ।
जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिघा लोह-दण्डाः । भृताः धृताः । तं च श्री-कृष्णम् अपि ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिघा इव भृता धृताः, तं कृष्णम् अपि ॥२१॥

———————————————————————————————————————

॥ ११.३०.२२ ॥

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः ।
हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यनीकं प्रतिपक्षम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.२३ ॥

अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन ।
एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एरका-मुष्टि-रुपौ परिघाव् उद्यम्य ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म-शापेति क्षयं नित्यं धामेति वास्तवोऽर्थः, दृष्टान्ते च अवनं तद्-वनोद्भवातिरिक्तम् आगन्तुकं मनुष्यादिकं विद्राव्य तन्-निवासम् एव प्रापयति तथा ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्यम्य उद्यतौ भाव्वा । एरका-मुष्टय एव परिघा ययोस् तौ ॥२३॥

———————————————————————————————————————

॥ ११.३०.२४ ॥

ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् ।
स्पर्धा-क्रोधः क्षयं निन्ये वैणवोऽग्निर् यथा वनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पर्धा-निमित्तः क्रोधः कुलं क्षयं निन्ये ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.२५ ॥

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।
अवतारितो भुवो भार इति मेनेऽवशेषितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : भुवो भार इति व्याख्यातम् एवास्ति । तांस् त्यक्त्वा स्वयम् अन्तर्धाने दुःखितास् ते पृथितास् ते पृथिव्या दुर्धरा एव स्युर् इति ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.२६ ॥

रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् ।
तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पौरुषं योगं परम-पुरुष-ध्यान-लक्षणम् । तम् एवाह—संयोज्येति । मानुष्यं लोकं भूर्-लोकं मनुष्य-रूपतां वा ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषस्य श्री-कृष्णस्य योगं नित्य-योगम् आस्थाय निर्धार्य आत्मानं प्रकट-लीलायां प्रकाशमानम् आत्मनि अप्रकट-लीलाया प्रकाशमाने संयोज्य अभिन्नत्वेन विभाव्य भूर्-लोकं तत्याज ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मानुष्यं भू-लोकं मनुष्य-शरीरं वा ॥२६॥

———————————————————————————————————————

॥ ११.३०.२७ ॥

राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः ।
निषसाद धरोपस्थे तूष्णीम् आसाद्य पिप्पलम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धरोपस्थे भू-तले ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : राम-निर्याणम् इति षड्भिः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राम-निर्याणम् इत्य्-आदिकं स्व-मतम् एव, रामस्य निर्याणं स्वरूपेण महा-वैकुण्ठं प्रतिगमनं स्वांश-रूपेण पाताल-तल-गमनं च ॥२७॥

———————————————————————————————————————

॥ ११.३०.२८ ॥

बिभ्रच् चतुर्-भुजं रूपं भ्राजिष्णु प्रभया स्वया ।
दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्राजिष्णु रूपं बिभ्रद् इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.२९-३२ ॥

श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् ।
कौशेयाम्बर-युग्मेन परिवीतं सुमङ्गलम् ॥**

सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् ।
पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम् ॥**

कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः ।
हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम् ॥**

वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः ।
कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवानुवर्णयति, श्रीवत्साङ्कम् इति चतुर्भिः । सुन्दर-स्मितं वक्त्राब्जं यस्मिंस् तत् । पुण्डरीक-वद् अभिरामे सुन्दरे अक्षिणी यस्मिंस् तत् ॥२९-३१॥

वन-माला-परीतान्य् अङ्गानि यस्मिंस् तत् । निजायुधैश् च परीताङ्गम् । पङ्कजारुणं वामं पादं दक्सीण ऊरौ कृत्वा आसीनं रूपं बिभ्रद् इति पूर्वेणान्वयः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तप्त-हाटकानां तप्त-हाटक-मयानां भूषणानां वर्चो यस्मिंस् तत् ॥२९॥

———————————————————————————————————————

॥ ११.३०.३३ ॥

मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा ।
मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : जरा नाम कश्चिल् लुब्धको मृगयुः । मृगास्यम् इवाकारो यस्य तं चरणम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जरा जरा-संज्ञः विव्याधेति मृगो मया विद्ध इति लुब्धकस्यातिमान-दृष्ट्यैव प्रयुक्तं वस्तु तं तु तदीयः शरश् चरणं पस्पर्श मात्रं, न तु विव्याध, तद्-अङ्गस्य सच्-चिद्-आनन्द-स्वरूपत्वात् । अन्यथा, भीतः पपात शिरसा पादयोः [भा।पु। ११.३०.३४] इत्य् अत्र “पादाच् छरं निष्क्रामयामास च"इत्य् उक्तं स्यात् ॥३३॥

———————————————————————————————————————

॥ ११.३०.३४ ॥

चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः ।
भीतः पपात शिरसा पादयोर् असुर-द्विषः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृत-किल्बिषः इति तं प्रति शर-निक्षेपात् ॥३४॥

———————————————————————————————————————

॥ ११.३०.३५ ॥

अजानता कृतम् इदं पापेन मधुसूदन ।
क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मेऽनघ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ममाघं क्षन्तुम् अर्हसि । अनघेति तव चरणे अघं कष्टं तु नैवाभूद् इति मम क्षमापणे योग्यतेति भावः ॥३५॥

———————————————————————————————————————

॥ ११.३०.३६ ॥

यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् ।
वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥**

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.३०.३७ ॥

तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् ।
यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवाद् एव चरणे व्यथा नाभूत्, त्वया तु हिंसन-बुद्ध्यैव शरो निक्षिप्त एवेति चेत्, तत्राह—तत् तस्मान् मा माम् आशु जहि । अत्र,

निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् ॥ > भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः । > सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् ॥ [भा।पु। ३.४.२-३]

इति तृतीयोक्तेः सूर्यास्त-मय-समये यदैव यदूनां पारस्परिक-साङ्ग्रामिक-वधोऽभूत् तदैव भगवांस् तत्रैव सरस्वती-तीरे उपविवेश, तदैव लुब्धको मृग-वधार्थम् आगत इति लभ्यते । एतच् च नोपपद्यते, षट्-पञ्चाशत्-कोट्य्-अधिकानां यदूनां सद्य एव महा-साङ्ग्रामिक-वधे सति तत्-प्रदेशे रुधिर-नदी-प्लाविते महा-कोलाहल-व्याप्ते च सति, तदैव लुब्धकस्य मृग-मारणार्थम् आगमनं कथं सम्भवेत् ? कथं भीरु-जातीनां मृगाणां तत्र स्थिति-सम्भावना ? इत्य् अतो यदूनां तात्कालिको वधो मिथा-भूतोऽपि भगवता अर्जुनादीन् प्रति प्रत्यायितो युधिष्ठिरादीनां स्व-भक्तानां करुण-रस-मय-प्रेम-विवर्धनार्थं ।विशेषार्थं च । तद् अन्यान् प्रति तु धर्म-सङ्कोचक-कुमतोत्थापनार्थं, वस्तुतस् तु मधूनि पीत्वा देवेष्व् अन्तर्हितेषु तत्र निःशब्दे निर्जने प्रदेशे लुब्धक आगत इति तत्त्वम् ॥३७॥

———————————————————————————————————————

॥ ११.३०.३८ ॥

यस्यात्म-योग-रचितं न विदुर् विरिञ्चो

रुद्रादयोऽस्य तनयाः पतयो गिरां ये ।

त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः

किं तस्य ते वयम् असद्-गतयो गृणीमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-शाप-कृतम् एतत् तव नापराध इति चेद् अत आह—यस्य तवात्म-योग-रचितं स्वाधीन-मायया रचितं, विरिञ्चः, अस्य तनया रुद्रादयश् च, ये चान्ये गिरां पतयो वेद-द्रष्टारः, तेऽपि न विदुः । तस्य तेऽचिन्त्य-मायस्य एतद् ब्रह्म-शापादि अञ्जसा असद्-गतयः पाप-योनयो वयं किं गृणीमः ? कथं वर्णयामः ? अतस् तद् आस्ताम् । आशु मां जहीति भावः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गिरां पतयो वेद-द्रष्टारोऽपि न विदुस् तस्य तव एतत् आत्म-योग-रचितम् । अञ्जः शीघ्रम् असद्-गतयो दुर्जातयो वयं किं गृणीमः ? ॥३८॥

———————————————————————————————————————

॥ ११.३०.३९ ॥

श्री-भगवान् उवाच—

मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मद्-अनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष मे काम एव ब्रह्म-शापो मया त्व् अङ्गीकर्तव्य इति मद्-इच्छेत्य् अर्थः । स्वर्गम् अप्राकृतं सुकृतिनां प्रशस्त-सुकृतवतां मद्-भक्ताणां पदं वैकुण्ठं याहि सुकृतिनाम् इति प्रशंसायां मत्व्-अर्थीयः ॥३९॥

———————————————————————————————————————

॥ ११.३०.४० ॥

इत्य्-आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा ।
त्रिः परिक्रम्य तां नत्वा विमानेन दिवं ययौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : इच्छा-शरीरिणा इति । अस्यायं भावः—शुद्ध-सत्त्व-मयीं निजां मूर्तिम् अन्तर्धाय तत् प्रतिकृत्यैव विडम्बन-मात्रम् इति । एतद् एव स्फुटीकरिष्यति, देवादयो ब्रह्म-मुख्या इत्य्-आदिना ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इच्छा-शरीरिणेति इच्छाधीनं शरीरं यस्य तेन तद्-इच्छयैव तद्-आविर्भावं भजत इति तत्र नान्यत् कारणं भाव्यम् इति भावः ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इच्छा-शरीरिणा इच्छयैव प्रशस्त-शरीर-धारी भवेद् यस् तेन ॥४०॥

———————————————————————————————————————

॥ ११.३०.४१ ॥

दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य तम् ।
वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ ॥**

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४२ ॥

तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं

ह्य् अश्वत्थ-मूले कृते-केतनं पतिम् ।

स्नेह-प्लुतात्मा निपपात पादयो

रथाद् अवप्लुत्य स-बाष्प-लोचनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं पतिं तत्र दृष्ट्वा तस्य पादयोर् निपपात ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४३ ॥

अपश्यतस् त्वच्-चरणाम्बुजं प्रभो

दृष्टिः प्रणष्टा तमसि प्रविष्टा ।

दिशो न जाने न लभे च शान्तिं

यथा निशायाम् उडुपे प्रणष्टे ॥

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४४ ॥

इति ब्रुवति सूते वै रथो गरुड-लाञ्छनः ।
खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उदीक्षतः उदीक्षमाणस्य सूतस्य सतः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इति ब्रुवतीति । यद्यपि दशम-रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदाव् इत्य् अनेन दारुकस्यापि रथादिवद् एवागमनम् उक्तम् । तथाप्य् अत्र तस्य स्तम्भनं तद्-एक-निर्वार्ह्योत्तर-कर्म-संपादनाभिप्रायेणैवेति गम्यते ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४५ ॥

तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च ।
तेनातिविस्मितात्मानं सूतम् आह जनार्दनः ॥**

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४६ ॥

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।
सङ्कर्षणस्य निर्याणं बन्धुभ्य ब्रूहि मद्-दशाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्याणं योग-मार्गेण । मद्-दशाम् इतीच्छा-शरीराभिप्रायेण ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निधनम् इति वास्तवार्थे नितरां धनम् अप्रकट-लीला-संपत्-प्राप्तिं दशां तत्-तद्-अनुगति-लक्षणाम् ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गच्छेति रथस्य वैकुण्ठ-प्रस्थापनेऽपि सारथेस् तस्य वैकुण्ठाप्रस्थापनं सर्वत्र तात्कालिक-स्व-वृत्त-ज्ञापनार्थम् । तथा वैकुण्ठाद् आगतस्य तस्येह नित्य-स्व-पार्षदानाम् उद्धवादीनां सङ्गतः प्रेम्नोऽतिवृद्धिं दृष्ट्वा द्वारकाया अप्रकट-प्रकाश-गत-लीलायाम् एव प्रवेशनार्थं चेति गम्यते । मद्-दशाम् इति ब्रुवन् भाविनीम् अवस्तु-भूतां लीलां सूचयति ॥४६॥

———————————————————————————————————————

॥ ११.३०.४७ ॥

द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः ।
मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : समुद्रः प्लावयिष्यतीति परितः प्लावनम् अपि तेषां त्याजनार्थम् एव प्लावनम् अत्र मुक्तम् ॥४७॥

———————————————————————————————————————

॥ ११.३०.४८ ॥

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविता रक्ष्यमाणा इन्द्रप्रस्थं गमिष्यथेति ब्रूहीति पूर्वेणान्वयः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.३०.४९ ॥

त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः ।
मन्-माया-रचिताम् एतां विज्ञायोपशमं व्रज ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्-माया-रचनाम् एतां विज्ञायेति निज-मूर्तेर् अन्तर्हितत्वाद् वृथा शोकं मा कुर्व् इत्य् अर्थः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ दारुक-सान्त्वनाय मौसलाद्य्-अर्जुन-पराभव-पर्यन्ताया लीलाया माययेन्द्रजालवद्-रचितत्वम् उपदिशति—त्वं त्व् इति । त्वं तु दारुको ज्ञान-निष्ठो मदीय-लीला-तत्त्वज्ञः मद्-धर्मं मम स्व-भक्त-प्रतिपालयितृ-स्वरूपं स्व-तुल्य-परिकर-सङ्गित्व-रूपं च स्वभावम् आस्थाय विस्रभ्य, एताम् अधुना प्रकाशितां सर्वाम् एव मौसलादि-लीलां मम माययैव इन्द्रजालवद् रचितां विज्ञाय, उपेक्षको बहिर् दृष्ट्या जातं शोकम् उपेक्षमाणः उपशमं चित्त-क्षोभान् निवृत्तिं व्रज प्राप्नुहि । तु-शब्देनान्ये तावन् मुह्यन्तु नाम, तव तथा मोहो न युक्त एवेति ध्वनितम् । अत्र श्री-दारुकस्य स्वयं वैकुण्ठाद् अवतीर्णत्वेन सिद्धत्वाद् एताम् इत्य् अत्रातिसन्निहितार्थ-लाभाच् चान्यथा व्याख्यानम् एव प्रथम-प्रतीत्य्-अविषय इति विवेक्तव्यम् । दृश्यते चेयं परिपाटी स्वर्ग-पर्वणि प्रतीतिः श्री-भीमादि-नरकं श्री-युधिष्ठिरं प्रति धर्मराज-वचनम्—

न च ते भ्रातरं पार्थ! नरकस्था विशां पते । > मायैषा देवराजेन महेन्द्रेण प्रयोजिता ॥ इति ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सच्चिदानन्दात्मकस्य स्व-विग्रहस्य रामादि-विग्रहस्य चैतादृशः प्रकारोऽयं क इति कृपया माम् आचक्ष्वेत्य् अत आह—मन्-मायेति । एतां प्रतार्यमानां लीलाम् ॥४९॥

———————————————————————————————————————

॥ ११.३०.५० ॥

इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः ।
तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुलस्य विनष्टत्वाद् दुर्मनाः ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि बहिर्-दृष्ट्या दुर्मनाः ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशेऽपि त्रिंशोऽत्र सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे

भगवद्-उद्धव-संवादे

उद्धवस्य बदर्य्-आश्रम-प्रवेशो नाम

त्रिंशोऽध्यायः ।

॥ ११.३० ॥

———————————————————————————————————————