२९ उद्धवस्य वदर्य्-आश्रम-प्रवेशः

॥ ११.२९.१ ॥

श्री-उद्धव उवाच—

सुदुस्तराम्1 इमां मन्ये योग-चर्याम् अनात्मनः ।

यथाञ्जसा पुमान् सिध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

ऊनत्रिंशे तु यः पूर्वं विस्तरेण निरूपितः ।

भक्ति-योगस् तम् एवाह स्वभक्ताय समासतः ॥

अतिक्लेशम् इवालक्ष्य योगेऽसङ्गैक-सम्पदि ।

सुखोपायं पुनः कृष्णम् उद्धवः परिपृच्छति ॥

अनात्मनोऽवशीकृत-मनसः अञ्जसा अप्रयासतो यथा सिध्येत्, तत् तथा अञ्जसा सुबोधं यथा तथा मे ब्रूहि ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा । तत्र यद्यपि पूर्वाध्याय-समाप्तौ उक्ताया ज्ञान-योग-चर्याया भक्ति-सह-भावेनैव स्वफल-जनकत्वं श्री-भगवतोक्तं, तथापि तां ज्ञान-योग-चर्याम् अंशतोऽप्य् अनङ्गीकुर्वता परमैकान्तिना श्रीमद्-उद्धवेन—सुदुश्चराम् इमाम् इत्य्-आदि पद्य-द्वये । स्व-वाक्ये तस्या दुष्करत्वेन प्रायः फल-पर्यवसायित्वाभावेन चोक्तत्वात्, शुश्रूषमाणाया भक्तेस् तु सुकरत्वेनावश्यक-फल-पर्यवसायित्वेन चाभिप्रेतत्वात् । तद्-भक्तिर् एव कर्तव्येति स्वाभिप्रायो दर्शितः ॥१-२॥ (भक्ति-सन्दर्भ ३२६)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

महा-तीर्थ-महा-भक्ताश्रयाद् भक्तिर् यथा तथा ।

भूतेष्व् आत्मेक्षणान् मुक्तिश् चोनत्रिंशे निरूपिता ॥

कृष्णो यत् सुदृढं ज्ञानं यत्नाद् उपदिदेश तत् ।

नाग्रहीद् उद्धवस् तज् ज्ञापकं श्लोक-पञ्चकम् ॥

अनात्मनो देहाध्यास-रहितस्य योगिनो योग-चर्या उक्ता । इमाम् अन्यैः सुदुश्चरांमन्येअञ्जसा शीघ्रं यथा सिध्येत्, तथा त्वं शीघ्रं कथयेति । अञ्जसेत्य् अस्य क्रिया-भेदान् न पौनरुक्त्य-दोषः ॥१॥

———————————————————————————————————————

॥ ११.२९.२ ॥

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदुष्करतां प्रपञ्चति—प्रायश इति । मनो युञ्जन्तो निगृह्णन्तो विषीदन्ति क्लिश्यन्ति । कुतः ? असमाधानाद् अनिग्रहात् । कथञ्चिन् मनसो निग्रहेकर्शिताः श्रान्ताः सन्तः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-लक्षण-योग-चर्यायाः सुदुश्चरत्वं प्रपञ्चयति—प्रायश इति । युञ्जन्तो ब्रह्मणि मनो निवेशयन्तः । असमाधानात् समाध्य्-असामर्थ्यात् मनसो निग्रहे कर्षिताः श्रान्ताः ॥२॥

———————————————————————————————————————

॥ ११.२९.३ ॥

अथात आनन्द-दुघं पदाम्बुजं

हंसाः श्रयेरन्न् अरविन्द-लोचन ।

सुखं नु विश्वेश्वर योग-कर्मभिस्

त्वन्-माययामी विहता न मानिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्माद् एवं केवलं विषीदन्ति, अथातः अत एव ये हंसाः सारासार-विवेक-चतुराः, ते त्व् आनन्द-दुघं समस्तानन्द-परिपूरकं तव पदाम्बुजम् एव सुखं यथा भवति तथा नु निश्चितं श्रयेरन् सेवन्ते । अमी तु त्वन्-मायया विहताः । के ? ये योग-कर्मभिर् मानिनः सन्तो न श्रयन्ते ।

यद् वा, अमी त्वद्-भक्तास् त्वन्-मायया न विहता, अत एव योग-कर्मभिः कृत्वा मानिनो न भवन्ति । अन्ये तु त्वन्-मायया मोहिताः सन्तो—"वयं योगज्ञाः, वयं कर्म-कुशलाः" इति केवलं गर्विता भवन्ति, न तु मुच्यन्त इत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तां ज्ञान-योग-चर्याम् अनादृत्य भक्तिम् एवापि कुर्वाणास् तव श्री-कृष्ण-रूपस्यैव भक्तिं तादृशास् तु ज्ञान-योगादि-फलानादरेणैव कुर्वन्तीति पुनर् आह चतुर्भिः—अथातेति । यस्माद् एवं, केचन विषीदन्ति—अथात अत एव ये हंसा सारासार-विवेक-चतुरास् ते तु समस्तानन्द-पूरकं पदाम्बुजम् एव नु निश्चितं सुखं यथा स्यात् तथा श्रयेरन् सेवन्ते । पदाम्बुजस्य सम्बन्धि-पदानुरक्तिः साक्षाद् दृश्यमान-त्वदीय-पदाम्बुजाभिव्यञ्जनार्था । अमी च शुद्ध-भक्ता योग-कर्माभिस्त्वन्-माययाविहता कृत-भक्तानुष्ठानान्तराया भवन्ति । यतो न च मानिनस् ते, मानिनोऽपि न भवन्ति । पुरुषार्थ-साधने भगवतो निरुपाधि-दीन-जन-कृपाया एव साधकतमत्वं मन्यन्ते, न योगि-प्रभृतिवत् स्व-प्रयत्नस्येत्य् अर्थः ॥३॥ (भक्ति-सन्दर्भ ३२६)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंसाः सारासार-विवेचन-पराः सुखं यथा स्यात् तथा श्रयेरन् श्रयन्ते । ये तु योग-कर्मभिर् मानिनः"वयं योगिनो वयं ज्ञानिनो, वयं कर्मिणः" इत्य् अभिमानवन्तः, ते तु त्वन्-मायया विहताः सन्तो नाश्रयेरन्, अत एव विषीदन्ति ॥३॥

———————————————————————————————————————

॥ ११.२९.४ ॥

किं चित्रम् अच्युत तवैतद् अशेष-बन्धो

दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् ।

योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां

श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-भक्तास् तु त्वत्-प्रसादेन कृतार्था भवन्तीति नातिचित्रम् इत्य् आह—किम् इति । अनन्य-शरणेषु दासेषु तवात्म-सात्त्वं तद्-अधीनत्वं यद् यथा नन्द-गोपी-बलि-प्रभृतिष्व् एतत् किं चित्रं ? नाश्चर्यम् इत्य् अर्थः । यतो यो भवान् श्री-राम-रूपेण मृगैर् वानरैः सह, साहित्यं सख्यम् इति यावत्, अरोचयत् प्रीत्या कृतवान् । कथंभूतः ? ईश्वराणां ब्रह्मादीनां यानि श्रीमन्ति किरीटानि तेषां तटान्य् अग्राणि तैः पीडितं विलुठितं पाद-पीठं यस्य । स्वयं तथाभूतोऽपि सन् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम्-भूतस्य भक्तस्य ज्ञान-योगादीनां यत् फलं तन् मात्रं न, किन्त्व् अन्यन् महद् एवेत्य् आह—किं चित्रम् इति । अशेष-बन्धोदासेष्व् अनन्य-शरणेषु, यद् वा, अशेषाणाम् असुर-पर्यन्तानां यो बन्धुर् मोक्षादि-दानैर् निरुपाधि-हित-कारी, हे तथा-भूत ! तवैतत् किं चित्रं यद् अनन्य-शरणेषु ज्ञान-योग-कर्माद्य्-अनुष्ठान-विमुखेषु दासेषु शुद्ध-भक्तेषु बलि-प्रभृतिषु आत्म-सात्त्वं, तेषां य आत्मा तद्-अधीनत्वम् इत्य् अर्थः । तद् उक्तम्—न साधयति मां योगः [भा।पु। ११.१२.१] इत्य्-आदि । तस्य तव तथा-भूतेषु न जाति-गुणाद्य्-अपेक्षा चेत्य् अन्तरङ्ग-लीलायाम् अपि दृश्यत इत्य् आह—यः इति । सह इति सह-भावं सख्यम् इत्य् अर्थः । मृगैर् वृन्दावन-चारिभिः । स्वयं तु कथम्भूतोऽपि ? ईश्वराणाम् इत्य्-आदि-लक्षणोऽपि । ईश्वराः श्री-शिव-ब्रह्मादयः । ज्ञान-योगादि-परम-फल-रूपापि या मुक्तिः, तां दैत्येभ्यो ददासि । पाण्डवादि-सख्य-दौत्य-वीरासनादि-स्थितिवद् दासानां तु स्वयम् अधीनो भवसि । अत एवम्भूतस्य श्री-कृष्णस्यैव तव भक्तिर् मुख्येति भावः ॥४॥ (भक्ति-सन्दर्भ ३२७)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वां केवलं भजन्तस् तु त्वद्-वात्सल्य-पात्री-भवन्तीति न चित्रम् इत्य् आह—किं चित्रम् इति । अनन्य-शरणेषु ज्ञान-योग-कर्माद्य्-अनुष्ठान-रहितेषु दासेषुआत्म-सात्त्वं तेषां य आत्मा, तद्-अधीनत्वम् इति सन्दर्भः । राज्ञा स्व-पुरं विप्र-सात्कृतं विप्राधीनं कृतम् इतिवत् दासैस् त्वम् आत्म-सात्कृत इति तव आत्म-सात्त्वम् आत्म-सात्कृतम् इत्य् अर्थः । तद् एवाह—यो भवान् श्री-राम-रूपेण मृगैर् वानरैर् सह इति सह-भावं सख्यम् अरोचयत् स्वस्मै रोचितम् अकरोत् ।

यद् वा—मृगैर् वृन्दावन-स्थ-हरिणैः साहित्यं गाश् चारयन्न् अरोचयत् । तथा मृगैर् वानरैश् च साहित्यं नवनीतं चोरयन्न् अरोचयत् । तेन त्वद्-उक्त-लक्षणम् इमं ज्ञान-योगं किं तैर् अभ्यस्तं जानीमः । यतस् तेषां त्वम् अधीन एव वर्तसे । कथं वा अद्वैत-वादिनां ज्ञानिनां त्वं न कस्याप्य् अधीनः कापि श्रुतोऽतो दासा वयं न ज्ञान-योगम् इमं स्वीकुर्म इति व्यञ्जितम् । पीडितं—सङ्घट्ट्य विलुलितम् ॥४ ॥

———————————————————————————————————————

॥ ११.२९.५ ॥

तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां

सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु ।

को वा भजेत् किम् अपि विस्मृतये\ऽनु भूत्यै

किं वा भवेन् न तव पाद-रजो-जुषां नः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् त्वां परित्यज्य को नामान्यत् संश्रयेत् ? इत्य् आह—तं त्वेति । तम् एवंभूतं त्वां को नु विसृजेत्, न भजेत् ? कथंभूतः ? स्व-कृत-वित्, बलि-प्रह्रादादिषु त्वया कृतम् अनुग्रहं जानन् । यद् वा, स्वस्मिन्न् एवान्तर्यामितया कृतम् उपकारं विद्वान् । तद् एवाह—अखिलात्म-दयितेश्वरम् । अखिलस्य जगत आत्मानं चेतयितारम्, आत्मत्वाद् एव दयितं प्रेष्ठं सुसेव्यम्, ईश्वरत्वाद् अवश्यं भजनीयम् । किं च, आश्रितानां सर्वार्थदम्

तर्हि किं फलोद्देशेनाहं सेव्यः ? नहि नहि । किम् अप्य् अनिरुक्तं त्वद्-व्यतिरिक्तं स्वर्गादि त्वया दत्तम् अपि को वा भजेत् सेवेत ? कथम्भूतं तत् ? यत् केवलं भूत्यै इन्द्रिय-भोगाय । अनु अनन्तरम् एव त्वद्-विस्मृतये भवति । यद् वा, त्वद्-व्यतिरिक्तं किम् अपि देवतान्तरं धर्म-ज्ञानादि-साधनं वा भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय को वा भजेत् ? न कोऽपि


ननु तत्-साधनं विना भोग-मोक्षादि-फलं कथं स्यात् ? तत्राह—किं वेति ? तद् उक्तं—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । > तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : फलितम् आह—तं त्व् इति । तम् एवम्भूतं त्वां स्व-कृत-वित् प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणं [भा।पु। ३.२८.१३] इत्य्-आदि-श्री-कपिल-देवोपदेशतः स्व-सौन्दर्यादि-स्फूर्ति-लक्षणं स्वस्मिन् कृतं त्वदीयोपकारं यो वेत्ति, स को नु विसृजेत्, तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भा।पु। ३.२८.३४] इति तद्-उपदिष्टाधिकारि-विशेषवत् परित्यज्यते ? न कोऽपीत्य् अर्थः । तस्माद् यस् त्यजति स कृतघ्न एवेति भावः ।

कथम्भूतं त्वां ? स्वरूपत एवाखिलानाम् आत्मनां दयितं प्राण-कोटि-प्रेष्ठम् ईश्वरं चेत्य्-आदि । तथा नु वितर्के । त्वद्-व्यतिरिक्तं किम् अपि देवतान्तरं धर्म-ज्ञानादि-साधनं भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय वा को भजेत ? न कोऽपीत्य् अर्थः ।

अस्माकं तु तत् तत् फलम् अपि त्वद्-भक्तेर् एवान्तर्भूतम् इत्य् आह—किं वेति । वा-शब्देन तत्राप्य् अनादरः सूचितः । तद् उक्तं, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदि ॥५॥ (भक्ति-सन्दर्भ ३२८)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वा त्वाम् अखिलानाम् आत्मानं जीवानां नारदादि-रूपेण भक्त्य्-उपदेष्टृत्वात् , दयितं प्रति-स्व-कर्म-फल-प्रदत्वाद् ईश्वरंस्वाश्रितानां तु सर्व-पुरुषार्थ-प्रदं, स्व-कृत-वित् स्वेषु बलि-प्रह्लादादिषु त्वया कृतम् अनुग्रहं जानन् को वा नु विसृजेत् ? न कोऽपि, केवलम् अरसज्ञो निकृष्ट-योगि-जन एव कृतघ्नो विसृजेद् इत्य् अर्थः । किं च, भजन्न् अपि को वा त्वां भुक्ति-मुक्ति-कामो भजेत् ? इत्य् आह—को वेति । विस्मृतये त्वद्-विस्मृति-रूपाय राज्याद्य्-अर्थं तथा अनुभूत्यै केवलानुभवाय मोक्षार्थं वा को भजेत् ? न कोऽपि । किम् अपीति क्रिया-विशेषणम् । किं च, नापि भजनं कः कुर्याद् इत्य् अर्थः ।

ननु तर्हि निष्कामानाम् अपि प्रह्लादादीनां भक्ति-मुक्ती कथं दृश्येते ? तत्राह—किं वेति । तथा चोक्तं मोक्ष-धर्मे नारायणीये—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । > तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।

भोग-मोक्षादिकम् आनुषङ्गिकं फलं भक्तानभीप्सितम् अपि त्वया दीयत एवेति भावः॥५॥

———————————————————————————————————————

॥ ११.२९.६ ॥

नैवोपयन्त्य् अपचितिं कवयस् तवेश

ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः ।

योऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न्

आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्ताम् अन्य-भजन-वार्ता, त्वत्-कृतोपकारस्य त्वय्य् आत्मनि वेदनेनैव निष्कृतिर् नान्यथेत्य् आह—नैवेति । अपचितिं प्रत्युपकारम् आनृण्यम् इति यावत् । कवयो ब्रह्म-विदो नैव प्राप्नुवन्ति । यतः तत्-कृतम् उपकारं स्मरन्तःऋद्ध-मुद उपचित-परमानन्दाः । उपकारम् एवाह—यो भवान् बहिर् आचार्य-वपुषा गुरु-रूपेण, अन्तश् च चैत्त्य-वपुषा अन्तर्यामि-रूपेण, अशुभं विषय-वासनां विधुन्वन् निरस्यन् स्व-गतिं निजं रूपं प्रकटयति तस्य तव ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कथं तत्-तत्-फलम् अपि विसृजति ?—न तु ते माम् । किं वा मम कृतम्? तत्राह—नैवेति । हे ईश ! कवयः सर्वज्ञाः ब्रह्म-तुल्यायुषोऽपि तत्-काल-पर्यन्तं भजन्तोऽपीत्य् अर्थः । तव कृतम् उपकारम् ऋद्ध-मुद उपचित-त्वद्-भक्ति-परमानन्दाः सन्तः स्मरन्तोऽपचितिं प्रत्युपकारम् आनृण्यम् इति यावत् । तां न उपयन्ति पश्यन्ति । तस्मान् न विसृजेद् [भा।पु। ११.२.५५]इत्य् उक्तम् ।

कृतम् आह— यो भवान् तनु-भृतां त्वत्-कृपा-भाजनत्वेन केषांचित् सकल-तनु-धारिणां बहिर् आचार्य-वपुषा गुरु-रूपेण, अन्तश् चैत्त्य-वपुषा चित्त-स्फुरित-ध्येयाकारेण अशुभं त्वद्-भक्ति-प्रतियोगि सर्वं विधुन्वन् स्व-गतिं स्वानुभवं व्यनक्ति इति ॥६॥ (भक्ति-सन्दर्भ ३२९)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मां भजद्भ्य एव जनेभ्यो वाञ्छित-समस्त-पुरुषार्थ-प्रदत्वान् मम तत्-तद्-दानं न निरुपाधिकं, किन्तु सोपाधिकम् एवेति चेन्, मैवम् । तच् च तैः क्रियमाणं त्वद्-भजनम् अपि त्वद्-दत्तम् एवेत्य् अतो निरुपाधिक-परम-हित-कारिणस् तव सहस्र-महा-कल्पम् अभिव्याप्यापि परिचर्यया जना नैव निरृणीभवितुं शक्नुवन्तीत्य् आह—नैवेति ।

अपचितिं प्रत्युपकारम् आनृण्यम् इति यावत् । न उपयन्ति न प्राप्नुवन्ति । कवयो विवेकिनः । ब्रह्मायुषोऽपि ब्रह्म-तुल्यम् आयुः प्राप्य भजन्तोऽपीत्य् अर्थः । यतस् त्वत्-कृतम् उपकारं स्मरन्तः ऋद्ध-मुदः उपचित-परमानन्दाः । उपकारम् एवाह—यो भवान् बहिर् आचार्यो मन्त्र-गुरुः शिक्षा-गुरुश् च तद्-वपुषा स्व-मन्त्र-स्व-भक्त्य्-उपदेशेनानुगृह्णन्, अन्तश् चैत्त्योऽन्तर्यामी तद्-वपुषा—ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [गीता १०.१०] इति त्वद्-उक्तेः । स्व-प्रापक-बुद्धि-वृत्तीः प्रेर्य स्व-भजनं कारयन् स्व-गतिं प्रेमवत्-पार्षदत्व-लक्षणां गतिं व्यनक्ति ॥६ ॥

———————————————————————————————————————

॥ ११.२९.७ ॥

श्री-शुक उवाच—

इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा

पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः ।

गृहीत-मूर्ति-त्रय ईश्वरेश्वरो

जगाद स-प्रेम-मनोहर-स्मितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आत्मान्तरात्मा परमात्मेति मूर्ति-त्रयं हरेः ।

जाग्रत्-स्वप्न-सुषुप्तीनां सृष्ट्य्-आदेश् च प्रवर्तकम् ॥ इति त्रैकाल्ये ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरेश्वरत्वे हेतुः—जगत्-क्रीडनकं क्रीडोपकरणं यस्य सः । ननु, जगत्-सृष्ट्य्-आदिना ब्रह्मेशादयः क्रीडन्ति ? तत्राह—स्व-शक्तिभिः सत्त्वादिभिर् गृहीतं मूर्ति-त्रयं येन सः । स-प्रेम प्रेम-सहितं मनोहरं स्मितं यस्य सः, स-प्रेम यथा तथा जगादेति वा ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा गुणावतार-कर्तृत्वम् आह—इतीति । ईश्वरेश्वरत्वेन निरपेक्षोऽपि तं प्रति स-प्रेमेत्य्-आदि-रूपो जगाद । तत्रेश्वरेश्वरत्वं त्रिधा यथा-क्रमं श्रैष्ठ्येनाह—जगद् इति । तत्र स्व-शक्तिभिर् निजांशावेश-विभूतित्वं गताभिर् कनिष्ठेन, प्रकातित-ब्रह्मादि-मूर्ति-त्रय इति मध्यमेन, ईश्वरस्य प्रकृति-प्रवर्तकस्य महा-पुरुषस्यापीश्वर इत्य् उत्तमेनेति ज्ञेयम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-शक्तिभिर् अन्तरङ्गा-तटस्था-बहिरङ्गाभिर् अन्तर्यामि-रूपेण जीव-रूपेण देह-रूपेण जगद् एव क्रीडनं क्रीडा-साधनं यस्य स तेनान्तर्यामि-रूपेणोद्धवं तथा प्रेरयामास यथा भावि-कलि-युग-वर्ति-भक्त-जनानन्द-हेतुम् एव स पप्रच्छेति भावः


क्रीडनम् अपि तस्य स्व-भक्ति-रस-वितरण-मयम् एवेत्य् आह—गृहीतेति । उद्धव-रूपेण प्रश्न-कर्ता श्री-कृष्ण-रूपेणोत्तर-कर्ता देश-कालान्तर-वर्ति-शुक-परीक्षिद्-आदि-भक्त-रूपेण प्रश्नोत्तरामृत-सम्प्रदानं चेति मूर्ति-त्रयं गृहीतं येन सः । ईदृशं कृपा-चातुर्यं नान्यस्य सम्भवेद् इत्य् आह—ईश्वराणाम् अपीश्वरः स-प्रेम प्रेम-सहितं मनोहरं स्मितं यस्य सः ॥७॥

———————————————————————————————————————

॥ ११.२९.८ ॥

श्री-भगवान् उवाच—

हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हन्तेति स-हर्षं संबोधनम् । सुमङ्गलान् सुख-रूपान् । मृत्युं संसारम् । दुर्जयम् अन्यैर् उपायैः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्तेति हर्षेऽनुकम्पायां वा । मम धर्मान् भक्ति-ज्ञान-लक्षणान् सुकरत्वेन दर्श्यमाणत्वात् सुमङ्गलान् ॥८॥

———————————————————————————————————————

॥ ११.२९.९ ॥

कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् ।
मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मान् एवाह—कुर्याद् इति त्रयोदशभिः । मां स्मरन् शनकैर् असंरम्भतः कुर्यात् । तद् आह—मय्य् अर्पिते मनश् चित्ते सङ्कल्प-विकल्पानुसन्धानात्मके येन । अत एव मद्-धर्मेष्व् एव्आत्म-मनसो रतिर् यस्य सः ॥९॥


सनातन-गोस्वामी : [ह।भ।वि। १०.५१८] : हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् [भा।पु। १०.२९.८] इति प्रतिज्ञाय तान् एवाह—कुर्याद् इति चतुर्भिः । मां स्मरन् शनकैर् असंरम्भतः कुर्यात् । तद् आह—मयीति । अर्पिते मनश् चित्ते सङ्कल्प-विकल्पानु-सन्धानात्मके येन । अत एव मद्-धर्मेष्व् एव्आत्म-मनसो रतिर् यस्य सः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र केवलां प्रधानीभूतां च भक्तिं तन्त्रेणैवोपदिशति—कुर्याद् इति । तत्र प्रथमे पक्षे सर्वाणि व्यावहारिकाणि कर्माणि दम्भ-धारणादीनि पारमार्थिकानि श्रवण-कीर्तनादीनि च । द्वितीय-पक्षे कर्माणि वर्णाश्रम-विहितान्य् अपीति शेषः । मय्य् एव अर्पितं मनो यैस् तेष्व् एव चित्तं यस्य सः, कृत-मद्-भक्तासक्तिक इत्य् अर्थः । मद्-धर्मे भक्ताव् एव स्व-मनसो रतिर् यस्य सः ॥९॥

———————————————————————————————————————

॥ ११.२९.१० ॥

देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् ।
देवासुर-मनुष्येषु मद्-भक्ताचरितानि च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुण्य-देश-लक्षणम्—मद्-भक्तैर् इति । देवादिषु ये मद्-भक्तास् तेषाम् आचरितानि कर्माणि चाश्रयेत ॥१०॥


सनातन-गोस्वामी : [ह।भ।वि। १०.५१९] : पुण्य-देश-लक्षणम्—मद्-भक्तैर् इति । देवादिषु ये मद्-भक्तास् तेषाम् आचरितानि कर्माणि चाश्रयेत ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केवलाम् अपि वैधीं रागानुगां च तन्त्रेणाह—देशान् द्वारकादीन् आश्रयेद् आवसेत् । देवादिषु ये मद्-भक्ता नारद-प्रह्लादाम्बरीषादयस् तेषाम् इव आचरितान्य् आचारान् आश्रयेत अनुसरेद् इति वैधी भक्तिः । देशान् गोकुल-वृन्दावन-गोवर्धनादीन् चन्द्रकान्ति-वृन्दा-गोपिकादीनाम् आचारान् अनुसरेद् इति रागानुगा च दर्शिता ॥१०॥

———————————————————————————————————————

॥ ११.२९.११ ॥

पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् ।
कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : पृथक् स्वयम् एव सत्रेण बहुभिः सह वा मम यात्रा-महोत्सवं कुर्यात् ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका), सनातन-गोस्वामी : [ह।भ।वि। १०.५२०] : सत्रेण संभूय वा ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तेषु भक्ति-भेदेषु साधारणं धर्मम् आह—पृथग् इति ॥११॥

———————————————————————————————————————

॥ ११.२९.१२ ॥

माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तरङ्गां भक्तिम् आह—माम् इति त्रिभिः । सर्व-भूतेष्व् आत्मनि चात्मानम् ईश्वर-स्थितं माम् एवेक्षेत । ननु कथम् एकस्य सर्वेषु वृत्तिः ? तत्राह—बहिर्-अन्तः पूर्णम् इत्य् अर्थः । तत् कुतः ? अपावृतम् अनावरणम् । तद् अपि कुतः ? यथा खम् असङ्गत्वाद् इत्य् अर्थः॥१२॥


सनातन-गोस्वामी : [ह।भ।वि। १०.५२१] : सर्व-भूतेष्व् आत्मनि चात्मानम् ईश्वर-स्थितं माम् एवेक्षेत । ननु कथम् एकस्य सर्वेषु वृत्तिः ? तत्राह—बहिर्-अन्तः पूर्णम् इत्य् अर्थः । तत् कुतः ? अपावृतम् अनावरणम् । तद् अपि कुतः ? यथा खम् असङ्गत्वाद् इत्य् अर्थः। एषु च क्रमेण साधनानि भक्त्य्-अङ्गानि च मुख्यान्य् अपि पूर्व-लिखितानुसारेण विवेचनीयानीति दिक् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव स्व-भक्तेर् अतिशयित्वं श्री-भगवान् अपि तद्-अनन्तरम् उवाच । तत्र च तादृशान् प्रति शुद्धां स्व-भक्तिं हन्त ते कथयिष्यामि [भा।पु। ११.२९.८] इत्य्-आदि-चतुर्भिर् उक्त्वा, पुनर् अपि तादृशान् प्रति च करुणया स्व-भजन-प्रवर्तनार्थम् अन्यद् विचारितवान् चतुर्भिः । यतः प्रायशो लोकाः स्पर्धादि-पराः कथञ्चिद् अन्तर्-मुखत्वेऽपि सर्वान्तर्यामि-रूप-स्व-भजन-मात्र-ज्ञानिन इत्य् आलोच्य, कृपया तेषां स्पर्धादीन् झटिति दूरीकर्तुं स्वस्मिन्न् एवान्तर्-मुखी-कर्तुं च विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इत्य् आद्य्-उक्त-तद्-अन्तर्यामि-रूप-स्वांशस्य भजन-स्थाने स्व-भजनम् उपदिष्टवान् । यथा—माम् एवेति ।

अत्र टीका च—अन्तरङ्गां भक्तिम् आह—माम् इति त्रिभिः । सर्व-भूतेष्व् आत्मनि चात्मानम् ईश्वर-स्थितं माम् एवेक्षेत । ननु कथम् एकस्य सर्वेषु वृत्तिः ? तत्राह—बहिर्-अन्तः पूर्णम् इत्य् अर्थः । तत् कुतः ? अपावृतम् अनावरणम् । तद् अपि कुतः ? यथा खम् असङ्गत्वाद् इत्य् अर्थः ॥इत्य् एषा ॥१२॥ [भक्ति-सन्दर्भ ३३०]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्त्य्-आश्रितानां कृत्यम् उक्त्वा, ज्ञान-मिश्रितानां कृत्यम् आह—माम् एवेत्य् अष्टभिः । अपावृतम् आवरण-शून्यं पूर्णम् ईक्षेत । ज्ञानम् आश्रित इत्य् उत्तर-श्लोकस्थस्य कर्तृ-पदस्यानुषङ्गः । आत्मनि स्वस्मिंश् चात्मानम् अन्तर्यामिनं यथा खम् आकाशम् इवालिप्तम् ॥१२॥

———————————————————————————————————————

॥ ११.२९.१३-१४ ॥

इति सर्वाणि भूतानि मद्-भावेन महा-द्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥**

ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे महा-द्युते अतिप्राज्ञ ! इत्य् अनेन प्रकारेण केवलं ज्ञान-रूपां दृष्टिम् आश्रितः सन् सर्वाणि भूतानि मद्-भावेन मन्यमानः सभाजयन् पण्डितो मत इत्य् उत्तरेणान्वयः ॥१३॥

ननु उत्तमाधम-मध्यमेष्व् एक-रूपेण सभाजनम् अपाण्डित्यम् एव स्यात् पूज्य-पूजादि-व्यतिक्रमाद् इत्य् आशङ्क्य ताम् एव ज्ञान-दृष्टिं प्रपञ्चयति—ब्राह्मण इति । विषमेष्व् अपि सम-दृक् समं माम् एव पश्यन् वैषम्यम् एव चतुर्धा दर्शयति—ब्राह्मणे पुल्कसे इति जातितो वैषम्यम् । पुल्कसोऽन्त्यज-जाति-विशेषः । स्तेने ब्रह्मस्व-हारिणि ब्रह्मण्ये ब्राह्मणेभ्यो दातरि इति कर्मतः । अर्के विस्फुलिङ्ग इति गुणतः । अक्रूरे शान्ते क्रूरे चेति स्वभावतः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च—इतीति । केवलं ज्ञानम् अन्तर्यामि-दृष्टिम् आश्रितोऽपि । इति पूर्वोक्त-प्रकारेण सर्वाणि भूतानिमद्-भावेन तेषु मम श्री-कृष्ण-रूपस्य यो भावोऽस्तित्वं तद्-विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः । मद्-दृष्ट्या ब्राह्मणादिषु सम-दृक् समं माम् एव पश्यतीति ॥१३-१४॥ [भक्ति-सन्दर्भ ३३१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-भावेन ब्रह्मैवेति भावनया सभाजयन् सम्मानयन् मन्यमानः मननं च कुर्वन् ज्ञानम् आश्रितः ज्ञानीत्य् अर्थः । पाण्डितो मत इत्य् उत्तरेणान्वयः । अत्र केवलम् इत्य् आश्रयण-क्रिया-विशेषणं, न तु ज्ञानस्य, भक्ति-रहितस्य केवल-ज्ञानस्य विगीतत्वात् । यद् वा, केवलं ज्ञानम् अद्वितीयं ब्रह्म आश्रितः । हे महा-द्युते, इति त्वं तु भक्त्यैव केवलया सर्वतोऽप्य् आधिक्येन द्योतयसे इत्य् अन्वयः ।

ब्राह्मणे पुक्कसे इति जातितो वैषम्येऽपि । स्तेने ब्रह्मस्व-हारिणि ब्रह्मण्ये दानादिना ब्राह्मण-भक्ते इति कर्मतः । अर्के स्फुलिङ्गके इति प्रमाणतः । अक्रूरे क्रूरे चेति गुणतो वैषम्येऽपि सम-दृक् समं माम् एव ब्रह्म एक-रूपं सर्वत्र पश्यन् पण्डितो ज्ञानी, अन्यस् तु अपण्डितः जात्य्-आदितो विषमं पश्यंस् त्व् अज्ञानीत्य् अर्थः॥१३-१४॥

———————————————————————————————————————

॥ ११.२९.१५ ॥

नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतोऽचिरात् ।
स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नरेष्व् ईश्वर-दृष्टिं कुर्वतः सद्यः फल-विशेषम् आह—नरेष्व् इति । समोत्तम-हीनेषु स्पर्धादयः । स्वस्मिन्न् अहङ्कारश् च । हि निश्चितम् । वियन्ति नश्यन्ति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्पर्धादि-दोषापगमार्थम् अपि सर्वत्र मद्-दृष्टिः कर्तव्येत्य् आह—नरेष्व् इति। स्व-तुल्ये स्पर्धा, स्वतोऽधिकेऽसूया, स्वतो न्यूने तिरस्कारः खलु स्यात् । यदि सर्वत्रैव मां पश्येत् तदा मया सह कथं स्पर्धादयः सम्भवेयुः ? इति भावः । साहङ्कारा इति स्वस्मिन्न् अपि ब्रह्म-दर्शनात् कुत्राहङ्कारः प्रसज्जतु ? इति भावः । वियन्ति नश्यन्ति ॥१५॥

———————————————————————————————————————

॥ ११.२९.१६ ॥

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।
प्रणमेद् दण्डवद् भूमाव् आ-श्व-चाण्डाल-गो-खरम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽन्तर्यामीश्वर-दृष्ट्या
सर्वान् प्रणमेद् इत्य् आह—विसृज्येति । स्मयमानान् हसतः स्वान् सखीन् । तथा दैहिकीं दृशम् अहम् उत्तमः, स तु नीच इति दृष्टिम् । तया दृशा या व्रीडा लज्जा तां च विसृज्य, श्व-चाण्डालादीन् अभिव्याप्य प्रणमेत् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वत्रैव मद्-भावः स्वाभाविक एव यो भवेत्, एतस्य साधनम् आह—विसृज्येति । स्मयमानान्"अहो महान् अप्य् अयम् अतिनीचं प्रणमति" इति हसतःस्वान् सखीन् । तथा दैहिकं दृशम्"अहम् उत्तमः, अयं तु नीचः, कथं मे नमस्यः ?" इति दृष्टिं । तया दृशा या व्रीडा लज्जा, तां विसृज्य श्व-चाण्डालादीन् अभिव्याप्य अन्तर्यामीश्वर-दृष्ट्या प्रणमेत् ॥१६॥

———————————————————————————————————————

॥ ११.२९.१७ ॥

यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते ।
तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्व-भूतेष्व् अपि विष्णुर् इति भावः सतां मनः ।

अर्चने सर्व-भूतानाम् आदित्ये तद्-गतात्मना ॥ इति च ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं पञ्चभिः श्लोकैर् उक्तायाः सम-दृष्टेर् अवधिम् आह द्वाभ्याम्—यावद् इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एषा दण्डवत्-प्रणाम-यन्त्रणा कियत्-काल-पर्यन्तं ? इत्य् अपेक्षायाम् आह—यावद् इति । न उप आधिक्येन जायते स्वाभाविको न भवेद् इत्य् अर्थः । तावद् एव "परमात्मने नमः" इति वाचा, तथैव मनसा कार्य-कर्मभिः, काय-व्यापारैश् च एवम् उपासीत, दण्डवत्-प्रणतीः कुर्यात् ॥१७॥

———————————————————————————————————————

॥ ११.२९.१८ ॥

सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया ।
परिपश्यन्न् उपरमेत् सर्वतो मुक्त-संशयः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ब्रह्मणात्तम् इदं सर्वं यत् किंचित् स-चराचरम् ।

इति पश्येत यो विद्वान् स हि ब्रह्मात्म-विन् मतः ॥ इति ब्राह्मे ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य एवं कुर्वतः पुंसः सर्वं ब्रह्मात्मकम् एव भवति । कुतः ? आत्म-मनीषया, सर्वत्रेश्वर-दृष्ट्या या विद्या, तया । अतः परितो ब्रह्मैव पश्यन्सर्वतः क्रिया-मात्राद् उपरमेत् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च आत्म-मनीषया सर्वत्रैवेश्वर-दृष्ट्या या विद्या उपासना, तया । तस्य सर्वम् एव ब्रह्मात्मकं भवति । अतः परिपश्यन् परितो ब्रह्मैव पश्यन् सर्वतः क्रिया-मात्राद् उपरमेत् ॥१८


———————————————————————————————————————

॥ ११.२९.१९ ॥

अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम ।

मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : नयादिर् दुर्नयः प्रोक्तो यन् नयं सोति सर्वदा इति शब्द-तत्त्वे ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किम् अयम् एवोपायोऽस्ति वान्योऽपि ? इत्य् अपेक्षायां सन्ति बहवः, समीचीनस् त्व् अयम् एवेत्य् आह—अयं हीति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च नरेष्व् अभीक्ष्णां [भा।पु। ११.२९.१५] इत्य्-आदिना तादृश-स्वोपासना-विशेषस्य झटिति स्पर्धादि-क्सय-लक्षणं फलम् उक्त्वा, विसृज्य [भा।पु। ११.२९.१६] इत्य्-आदिना तथा-दृष्ट-साधनं सर्व-नमस्कारम् उपदिश्य, यावत् [भा।पु। ११.२९.१७] इत्य्-आदिना तादृश-स्वोपासनाया अवधिं च सर्वत्र स्वतः स्व-स्फूर्तिम् उक्त्वा, सर्वं [भा।पु। ११.२९.१८] इत्य्-आदिना—

नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः ।

न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ [भा।पु। ४.३०.२०]

इति प्रचेतसः प्रति श्री-भगवद्-वाक्ये तट्-टीकायां च तस्य भगवतः प्रतिपद-नव्य-स्फूर्तिर् एव ब्रह्मेतीति यद् उक्तं, तद् एव तत् फलम् इत्य् उक्त्वा, यद् वा, कथम् अस्यावतारस्य ब्रह्मताभवति ? [गो।ता।उ। २.२८] इति गोपाल-तापनी-प्रसिद्ध-ब्रह्मेत्य्-अभिधान-नराकृति-पर-ब्रह्म-रूप-स्फूर्तिस् तत्-फलम् इत्य् उक्त्वा, तेनैव तादृशोपासनां सर्वोर्ध्वम् अपि प्रशंसति—अयं हीति।

सर्व-कल्पानां सर्वोपायानां सध्रीचीनः समीचीनः । मद्-भावो मम श्री-कृष्ण-रूपस्य भावना । एतच् च श्री-कृष्ण-भजनस्यान्तर्यामि-भजनाद् अप्य् आधिक्यं श्री-गीतोपसंहारानुसारेण एवोक्तम् । तथा हि—ईश्वरः सर्व-भूतानां [गीता १८.६१] इत्य्-आदि । इति ते[गीता १८.६३] इत्य्-आदि, सर्व-गुह्यतमं [गीता १८.६४] इत्य्-आदि, मन्-मना[गीता १८.६५] इत्य्-आदि, सर्व-धर्मान्[गीता १८.६६] इत्य्-आदि । अत्र च गुह्यं पूर्वाध्यायोक्तं ज्ञानं, गुह्यतरम् अन्तर्यामि-ज्ञानं, सर्वं गुह्यतमं मन्-मनस्त्वादि-लक्षणं तद्-एक-शरणत्व-लक्षणं च तद्-उपासनम् इति समानम् ।

अथवा पूर्वोक्त-भगवद्-धर्माणाम् एव कैमुत्येन माहात्म्यं दर्शयितुं ज्ञानं ततो निहनिष्यन्न् अनुवदति—माम् इत्य्-आदिना, सर्वं ब्रह्म इत्य्-आद्य्-अन्तेन । तद् एव स्तौति—अयं हीति । सर्व-कल्पानां ज्ञान-कर्म-योगानां सध्रीचीनः सहायः, सहस्य सध्रिर् इत्य् अञ्चतौ सध्र्य्-आदेशात् सहाञ्चतीति निरुक्तेः ॥१९॥ [भक्ति-सन्दर्भ ३३२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानिनां ब्रह्म-प्राप्ताव् अतः परः सुगमः समीचीनश् चोपायो नास्तीत्य् आह—अयं हीति ॥१९॥

———————————————————————————————————————

॥ ११.२९.२० ॥

न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :
भगवद्-धर्म-लक्षणोपायस्य समीचीनत्वम् एवोपपादयति द्वाभ्याम्—न हीति ।
अङ्ग हे उद्धव ! अनाशिषो निष्कामस्य मद्-धर्मस्योपक्रमे सत्य् अण्व् अपि ईषद् अपि वैगुण्यादिभिर् नाशो नास्त्य् एव, यतो मयैव निर्गुणत्वाद् अयं धर्मः सम्यग् व्यवसितो निश्चितो, न तु मन्व्-आदि-मुखेन कथञ्चित् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) :
मद्-धर्मस्य तु विघ्न एव नास्ति,
कुतः सहाय-चिन्तनम् इत्य् आशयेनाह—न ह्य् अङ्गेति ॥२०॥


सनातन-गोस्वामी : [ह।भ।वि। १०.५२७] : अङ्ग हे उद्धव ! अनाशिषो निष्कामस्य । यद् वा, न विद्यते आशीर् यस्मात् सतां परमाशीर्वाद-रूपस्येत्य् अर्थः ।
उपक्रमेआरम्भे सति
अण्व् अपि ईषद् अपि वैगुण्यादिभिर् नाशो नास्त्य् एव,
यतो ममैव निर्गुणत्वाद् अयं धर्मः सम्यग्व्यवसितो निश्चितः, न तु मन्व्-आदि-मुखेन कथञ्चित् ।
यद् वा, निराशिषो मोक्षस्य निर्गुणत्वात् फल-विशेषाभावात् सम्यक् तस्माद् अपि समीचीनम् इत्य् अयं व्यवसित इति ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

भक्ति-सारं त्रिभिः श्लोकैर्
ज्ञान-सारम् अथाष्टभिः ।
प्रोच्यान्ते पुनर् अप्य् आह
भक्ति-सारोत्तमं त्रिभिः ॥

धर्मान्तरस्य खल्व् आरब्धस्य परिसमाप्ति-पर्यन्तं नैर्विघ्नेन साङ्गोपाङ्गत्वे वृत्ते एव फल-जनकता । अन्यथा तु वैयर्थ्यम् एव यथा । न तथा भक्ति-लक्षणस्य मद्-धर्मस्य नियमः । अस्य पुनर् आरम्भ-मात्र एव परिसमाप्त्य्-अभावेऽप्य् अङ्ग-हीनत्वेऽपि न वैयर्थ्यम् इत्य् आह—न हीति । अङ्ग ! हे उद्धव ! मद्-धर्मस्य भक्ति-लक्षणस्य उपक्रमे आरम्भे सति । यद् वा, अङ्गस्याप्य् उपक्रमे सति परिसमाप्त्य्-अभावेऽपि अण्व् अपि ईसद् अपि ध्वंसो वैगुण्यादिभिर् नाशो नास्ति । यतो भक्ति-लक्षणोऽयं मद्-धर्मो निर्गुणः । न हि गुणातीतस्य वस्तुनो ध्वंसः सम्भवेत् । यस्माद् अयम् अनाशिषो निष्काम-भक्तस्य धर्मो मया सम्यग् व्यवसितः । अणु-मात्रोऽप्य् अयं धर्मः सम्यक् पूर्ण एव निश्चितः । नात्र कारणं प्रष्टव्यम् इयं मम परमेश्वरतैवेति भावः । अत्र मद्-धर्म-पदेन ज्ञान-लक्षणो धर्मो न व्याख्येयः । तस्य निर्गुणत्वाभावात्—कैवल्यं सात्त्विकं ज्ञानम् [११.२५.२४] इति भगवद्-उक्तेः ॥२०॥

———————————————————————————————————————

॥ ११.२९.२१ ॥

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तत्रायासो निरर्थः स्याद् भयादेर् इव सत्तम ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यो य इति । अयम् अर्थः—किं वक्तव्यं मद्-धर्मस्य न ध्वंस इति? यतो लौकिकोऽपि यो यो निरर्थो व्यर्थ आयासः, सोऽपि मयि परे निष्फलायचेत् कल्प्यते, निष्कामतयार्पितश् चेत्, तर्हि धर्म एव स्यात् । निरर्थायासे दृष्टान्तः—यथा भय-शोकादेर् हेतोः पलायनाक्रन्दनादि-क्लेशः, तद्वत् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आस्तां तावत् साक्षाद्-धर्माणां वार्ता, आरोपित-रूपाणाम् अपि माहात्म्यं श्रूयताम् इत्य् आह—यो य इति । मयि मद्-अर्पितत्वेन कृतो यो यो धर्मो वेद-विहितः, स स यदि निष्फलाय फलाभावाय कल्प्यते, फल-कामनया नार्प्यत इत्य् अर्थः, तदा तत्र तत्रायासः श्रान्तिर् अनिरर्थः स्यात्, व्यर्थो न भवति । निष्फलायेति विशेषणं फल-भोगादि-रूप-तद्-भक्त्य्-अन्तरायाभावेन अनिरर्थतातिशय-तात्पर्यम् । तत्रानिरर्थत्वे कैमुत्येन श्री-कृष्ण-लक्षणस्य स्वस्यासाधारण-भजनीयता-व्यञ्जको दृष्टान्तः—भयादेर् इव इति । यथा कंसादौ मत्-सम्बन्ध-मात्रेण भयादेर् अप्य् आयासो निरर्थो न भवति, मोक्ष-सम्पादकत्वाद् इत्य् अर्थः ॥२१॥ [भक्ति-सन्दर्भ ३३३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तिर् यदि सर्वथैव निष्कपटा स्यात्, तदा सा विनापि प्रयत्नेन प्रतिक्षणं स्वयम् एव सम्पद्यते । इत्य् आह—यो य इति । यो योधर्मः श्रवण-कीर्तनादिर् मयि विषये निष्फलाय ऐहिक-प्रतिष्ठादि-सुख-पारत्रिक-स्वर्ग-मोक्षादि-सुख-कामना-राहित्याय स्यात्, तस्य आयासः तत्-सिद्ध्य्-अर्थं प्रयत्नो निरर्थः व्यर्थः । समर्थः स्वयम् एवानायासेनैव भवति, किं तद्-अर्थं प्रयत्नेन ? इत्य् अर्थः ।

भोजनाच्छादने चिन्तां व्यर्थां कुर्वन्ति वैष्णवाः । > सोऽसौ विश्वम्भरो देवः कथं भक्तान् उपेक्षते ॥ इतिवत् ।

यथा भय-शोकादेर् हेतोर् आयासो व्यर्थ एव, स स्व-विषयं प्राप्य स्वयम् एव भवेत् यथा, तथैव मां स्व-विषयं प्राप्य भजनम् अपि स्वयम् एव भवेद् इत्य् अर्थः । तद् अपि निष्कपटोऽपि भक्तो यद् भक्त्य्-अर्थं सततं प्रयतते, स च प्रयत्नस् तस्य भक्तौ रागातिशयम् एव व्यनक्तीति यत्नो महान् गुण एव ज्ञेयः ॥२१॥

———————————————————————————————————————

॥ ११.२९.२२ ॥

एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

एकदा ज्ञात-रूपेण यन् न तिष्ठति सर्वदा ।

चञ्चलत्वात् सत्यम् अपि ह्य् अनृतं जगद् उच्यते ॥ इति च ।

सर्वदैक-प्रकारत्वात् सत्यं ब्रह्म सदोच्यते ॥ इति च ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो मद्-भजनम् एव बुद्धेर् विवेकस्य मनीषायाश् चातुर्यस्य च फलम् इत्य् आह—एषेति । ताम् एव दर्शयति—सत्यम् अमृतंमा माम् अनृतेन असत्येन मर्त्येन विनाशिना मनुष्य-देहेन इह अस्मिन्न् एव जन्मनि प्राप्नोति इति यत्, सैव बुद्धिर् मनीषा च इति । बुद्धिर् विवेकः । मनीषा चातुर्यम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-प्रापिकाया भक्तेश् च युक्तम् एव खल्व् एतादृशं माहात्म्यम् इत्य् आह—एषेति । सत्यं सर्व-सत्ता-हेतुम्, अमृतं सर्वानन्द-हेतुं च मां श्री-कृष्णाख्यं स्वयं भगवन्तम् ॥२२॥

भक्ति-सन्दर्भः ८५- अन्ते च—एषेति ।

हरिश्चन्द्रो रन्तिदेव उञ्छ-वृत्तिः शिविर् बलिः । > व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ [भा।पु। > १०.७२.१९] इति ।

पूर्वं भक्ति-प्रकरण-गतत्वाद् अत इति हेतूपन्यासः कृतः ॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कथं तद् अपि त्वद्-भक्तौ जनाः प्रायः प्रतिष्ठादि-सापेक्षा एव भवन्ति ? तत्र तादृश-बुद्धि-विवेकाद्य्-अभाव एव हेतुर् इत्य् आह—एषेति । बुद्धिमताम् एषैव बुद्धिः । बुद्धिर् न त्व् अतिकठिन-शास्त्रेऽपि सञ्चरिष्णु-बुद्धिर् इति भावः । मनीषिणां चातुर्यवताम् एषैव मनीषा, न त्व् एकेनापि कपर्दकेण स्वर्ण-मुद्रोपार्जन-चातुर्यम् इति भावः । सैव का खलु ? इत्य् अत आह—यद् इति । इह भारत-भूमौ मा माम् अमृतं मृति-रहितं नित्य-स्वरूपं मर्त्येन मरण-धर्मणा शरीरेणानित्येन आप्नोति भक्ति-मात्राद् अतिबीभत्सेन प्राकृतेन मा माम् अमृतम् अप्राकृत-सुधा-स्वरूपं, तथा अनृतेन जीवस्य वस्तुतस् तत्-सम्बन्धाभावाद् असत्येन सत्यं सर्व-काल-सत्ताकं मां प्राप्नोति

अयं भावः—लोके हि कपर्दकं दत्त्वा सहस्र-कपर्दक-मूल्यं वस्तु यो ग्रहीतुं शक्नोति, एष एव परम-बुद्धिमान् अतिचतुर उच्यते । यस् तु तेन स्वर्ण-मुद्राम् उपार्जयति, स ततोऽपि यस् तु हीरकादि-रत्नं, स ततोऽपि । तत्राप्य् अभ्रान्ताद् अतिचतुराद् एव पुरुषाद् यः, स ततोऽपि । यस् तु चिन्तामणि-कामधेन्व्-आदिकं, तच् चातुर्यं तु वक्तुम् अशक्यम् । भारत-भूमि-वासी मर्त्यः पुनर् अपि दुर्जातिर् अपि स्फुटितैक-कपर्दक-मूल्यत्वेनाप्य् असम्भावितं कौरूप्य-जरा-रोगादि-पूर्णम् अपि स्व-शरीरं मह्यं दत्त्वा, अप्राकृत-माधुर्य-सिन्धुं माम् एवं गृह्णाति । मया पुनर् अपि चतुर-शिरोमणिनापि तद्-दत्तं तद् एव प्राप्य, कौस्तुभ-किरीटादि-कटकाद्य्-अनर्घ-रत्नालङ्कार-भूषितम् अपि स्वं तस्मै हर्षाद् एव दीयते । इत्य् अहो बुद्धिमत्त्वं ! अहो चातुर्यवत्त्वं भारत-भू-वासिनः कस्यचित् कस्यचिद् इति । अत्र श्रवण-कीर्तन-स्मरण-परिचर्याद्य्-अर्थं श्रोत्रादीनां विनियोग एव भगवते शरीर-दानं ज्ञेयम् ।

किं च, एका रसनैव तत्-कीर्तन-निरता कर्णौ वा श्रवण-निरतौ, करौ वा परिचर्या-निरतौ चेत्, तदापि स आत्मानं ददातीति । शरीरैक-देश-दानेनापि स लभ्यते इति कः खलु बुद्धि-चातुर्यवान् एवं न कुर्यात् ? इति ।

सर्वोपदेश-सारोऽयं श्लोक-चिन्तामणिः प्रभोः ।

हृदये यस्य राजेत स राजेद् भक्त-संसदि ॥२२॥

———————————————————————————————————————

॥ ११.२९.२३-२४ ॥

एष तेऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः ।
समास-व्यास-विधिना देवानाम् अपि दुर्गमः ॥**

अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् ।
एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-प्रकरणार्थम् उपसंहरति द्वाभ्याम्—एष इति ॥२३-२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एष पूर्वोक्त-लक्षणो भक्ति-योगः । तत्-प्राप्य-रूप एव समास- विधिना, एषा बुद्धिमतां [भा।पु। १०.२९.२२] इत्य्-आदि-रूपेण, व्यास-विधिनात्वं तु सर्वं परित्यज्य [भा।पु। ११.७.६] इत्य्-आदि-महा-प्रकरणेन । देवानां सत्त्व-प्रकृतीनाम् अपीत्य् अर्थः । यद् उक्तं षष्ठे,

देवानां शुद्ध-सत्त्वानाम् ऋषीणाम् अमलात्मनाम् । > भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥ [भा।पु। ६.१४.२] इति > ।

ज्ञानम् इति यद् उक्तम् । तस्य तु नाहं साक्षात् फलं, किन्तु मुक्ति-मात्रम् इत्य् आह—अभीक्ष्णश इति ॥२३-२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-प्रकरणार्थम् उपसंहरति—एष इति द्वाभ्याम् ॥२३-२४ ॥

———————————————————————————————————————

॥ ११.२९.२५ ॥

सुविविक्तं तव प्रश्नं मयैतद् अपि धारयेत् ।
सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्तां तावज् ज्ञानम् । एतद्-अनुसन्धान-कथन-पठन-श्रवण-पराणाम् अप्य् एतद् एव फलं भवतीत्य् आह चतुर्भिः—सुविविक्तम् इति । मया सुविविक्तं दत्तोत्तरम् एतद् आख्यानम् अपि यो धारयेद् अनुसन्दध्यात्, स ब्रह्म-गुह्यं वेदेऽपि रहस्यम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : समुदायस्य तु पौर्वापर्येणानुसन्धानेऽपि फलं तु मल्-लक्षणं साधन-सिद्ध-भक्तेन सार्धम् अविशेषं स्यात्, मम त्वत्-पक्ष-पाताद् इत्य् आह—सुविविक्तम् इति । ब्रह्म-गुह्यंपरं ब्रह्मेति माम् इत्य् अर्थः, गूढं परं ब्रह्म मनुष्य-लिङ्गं [भा।पु। ७.१०.४८] इति श्री-नारदोक्तेः ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तव प्रश्नं मयासुविविक्तं दत्तोत्तरं यो धारयेत्, एतद् उपाख्यानम् अपि यो धारयेत्, ब्रह्म-गुह्यं वेद-रहस्यं पर-ब्रह्म-स्वरूपम् ॥२५॥

———————————————————————————————————————

॥ ११.२९.२६ ॥

य एतन् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् ।
तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपुष्कलं यथा भवति, तथा ब्रह्म-दायस्य ब्रह्म ददातीति तथा तस्य ज्ञानोपदेष्टुः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-भक्त-सात्-करणे तु तावद् एवेति किं वक्तव्यं ? यतः—य एतद् इति। ददामि वशीकरोमि ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुपुष्कलं यथा स्यात्, तथा ब्रह्मणि दायो यस्य ब्रह्म ददातीति ब्रह्म-दायस्येति चतुर्थ्य्-अर्थे षष्ठी ॥२६॥

———————————————————————————————————————

॥ ११.२९.२७ ॥

य एतत् समधीयीत पवित्रं परमं शुचि ।
स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : समधीयीत उच्चैः पठेत् । परमं शुचि अन्येषाम् अपि शोधकम् । पूयेत शुद्ध्येत् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्थम् अबुद्ध्वा केवलं पठतः फलम् आह—य एतद् इति । परमं शुचि दोष-मात्र-रहितं परमं पवित्रं वक्तृ-श्रोतॄणां सर्व-दोष-निवारकं च । अतः स स्वयं पूयेतैव नात्राश्चर्यम् इति भावः । न केवलम् एतावत् व्युत्पन्नान् प्रति मां ज्ञान-दीपेन दर्शयंश् च भवतीति ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२९.२८ ॥

य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः ।
मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रद्धा-पूर्वकं नित्य-श्रोतॄणां तु फल-विशेषम् आह—य इति ॥२८॥

———————————————————————————————————————

॥ ११.२९.२९ ॥

अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् ।
अपि ते विगतो मोहः शोकश् चासौ मनो-भवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्यक् ज्ञानानुत्पत्तौ पुनर् उपदेक्ष्यामीत्य् आशयेन पृच्छति—अपीति । अपि किं ? ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ करुणया व्यग्रः सान्त्वयति—अपीति । मोहो मदीयानाम् एषाम् अन्यथा-भावे जातः शोकः पुनर् ममाप्राप्त्य्-अभावेन जातः । अयं भावः—भगवता सह मम योऽयं सम्वादः, तच्-छ्रवणादितोऽपि यदि तत्-तद्-रूपं फलं, तदा तव कः सन्देहः ? का वान्येषां मत्-परिग्रहाणाम् इति ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नित्य-सिद्धस्य निस्त्रैगुण्यस्यापि उद्धवस्य ज्ञानादि-ग्रहणार्थं स्व-शक्त्यैव मोहम् उत्पाद्य ज्ञानाद्य्-उपदेशेन पुनस् तं निराकृत्य लीलया पृच्छति—अपि ते इति ॥२९॥

———————————————————————————————————————

॥ ११.२९.३० ॥

नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च ।
अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र स-प्रतीतिकम् आलोक्य व्यतिरेकान्वयाभ्याम् उपदेश्यान् उपदिशति—नैतद् इति द्वाभ्याम् ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अशुश्रूषोर् अश्रद्धया शृण्वते ॥३०॥

———————————————————————————————————————

॥ ११.२९.३१ ॥

एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च ।
साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शूद्राणां योषितां च यदि भक्तिः स्यात्, तर्हि ब्रूयात् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं बहुनेत्य् आह—भक्तिर् इति । शूद्र-योषिद्भ्योऽपीत्य् अर्थः इति तेषाम् अप्य् अधिकारो दर्शितः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शूद्राणां योषितां च यदि भक्तिः स्यात्, तर्हि तेभ्यस् ताभ्यश् च ब्रूयात् ॥३१॥

———————————————————————————————————————

॥ ११.२९.३२ ॥

नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते ।
पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतज्-ज्ञानेन पुमान् कृतार्थो भवतीत्य् आह—नैतद् इति । अत्र दृष्टान्तम् आह—पीत्वेति । पीयूषं स्वादु ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्माद् एवं भक्तिर् एवात्र साधनं फलं, तस्मात्—नैतद् इति । पीयूषाख्यम् अमृतं परमोत्तमम् इति गम्यते ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि भक्त्यैव कृतार्थस्य मद्-भक्तस्य ज्ञानेन नास्ति प्रयोजनं, तद् अपि ज्ञानं नाम कीदृशं ? इति कदाचित् कस्यचिद् भक्तस्य यदि जिज्ञासा स्यात्, तदा तेनेदम् एव द्रष्टव्यम् । अत्र ज्ञानस्यापि सत्त्वाद् इत्य् आह—नैतद् इति । पीयूषं सुधां पीत्वा पातव्यममृतं पेयम् अमृतान्तरं नावशिष्यते ॥३२॥

———————————————————————————————————————

॥ ११.२९.३३ ॥

ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात तावांस् तेऽहं चतुर्-विधः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सन्ति बहूनि ज्ञेयानि तत्-तत्-फल-साधनानि ? सत्यम्, सन्त्य् अभक्तानां, भक्तस्य तु सर्वम् अहम् एव, अतो मद्-एक-शरणो भवेत्य् आह—ज्ञान इति । ज्ञानादौ यावान् धर्मादि-लक्षणश् चतुर्-विधोऽर्थः,तावान् सर्वोऽपि तेऽहम् एव । तत्र ज्ञाने मोक्षः, कर्मणि विहिते धर्मः । कर्मण्य् एव स्वाभाविके तु कामः । योगे त्व् अनिमादि-सिद्धयः । वार्तायां कृष्य्-आदाव् अर्थः । दण्ड-नीताव् ऐश्वर्यम् इति । सिद्ध्यैश्वर्ययोर् अपि कामान्तर्-गतत्वाच् चातुर्-विध्यम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एतत् परोपदेशार्थम् एव त्वां प्रत्युपदिष्टं, तव तु साधनं साध्यं च सर्वम् अहम् एवेत्य् आह—ज्ञान इति । तत्र ज्ञाने मोक्षः, कर्मणि धर्मः कामश् च, योगे नाना-विध-सिद्धि-लक्षणोऽलौकिकः वार्तायां दण्ड-धारणे च नाना-विध-लौकिकश् चार्थ इति चतुर्विधत्वं ज्ञेयम् ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि कस्यचिद् भक्तस्य ज्ञान-कर्मादि-फलेऽपि लिप्सा स्यात् तदा तेन ज्ञानादिकम् अभ्यसनीयम् एवेति तत्रोद्धवं लक्ष्यीकृत्य नैवेत्य् आह—ज्ञाने इति । ज्ञानादौ यावान् अर्थः फलं मोक्षादि-चतुर्विधः, तावान् सर्वोऽपि तव भक्तस्याहम् एव भवामि, तं तम् अर्थं सर्वम् अहम् एव ददामीत्य् अर्थः । ततश् च, किं ज्ञानाद्य्-अभ्यासेनेति भावः? तत्र ज्ञाने मोक्षः, कर्मणि विहिते धर्मः । योगेऽणिमादि-सिद्धि-लक्षणः कामः । वार्तायां कृष्य्-आदौ दण्ड-धारणे चार्थः । यद् उक्तं—

या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । > तया विना तद् आप्नोति नरो नारायणाश्रयः ॥2 इति ॥३३॥

———————————————————————————————————————

॥ ११.२९.३४ ॥

मर्त्यो यदा त्यक्त-समस्त-कर्मा

निवेदितात्मा विचिकीर्षितो मे ।

तदामृतत्वं प्रतिपद्यमानो

मयात्म-भूयाय च कल्पते वै ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुत इत्य् अत आह—मर्त्य इति । यदा त्यक्त-समस्त-कर्मा सन् मे निवेदितात्मा भवति, तदाऽसौ मे विचिकीर्षितो विशिष्टः कर्तुम् इष्टो भवति, ततश् चामृतत्वं मोक्षत्वं प्रतिपद्यमानो मयात्म-भूयाय मद्-ऐक्याय मत्-समानैश्वर्यायेति यावत्, कल्पते योग्यो भवति । वै ध्रुवम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आस्तां तव वार्ता, मर्त्य-मात्रायापि सर्वतो विलक्षणां गतिं ददामीत्य् आह—मर्त्य इति ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मया सर्व-मतान्य् अवगतानि, किन्तु त्वद्-भक्तानां किं मतम् ? तत् त्वं ब्रूहीत्य् अपेक्षायां "भोः प्रणयिन्न् उद्धव ! चतुर्विंशेऽध्याये सत्-कार्य-वादिनां मतम्, अष्टाविंशे तथैवासत्कार्य-वादिनां च मतम् उक्तम् । मद्-भक्तास् त्व् अविवादिनः सत्य-वादिनः सन्तो वस्तुतस् तु तद्-उभय-मतम् अध्यवर्तिनो नैव भवन्तीय् आह—मर्त्य इति ।

मनुष्यो यदा यादृच्छिक-मद्-भक्त-कृपा-प्रसादात् त्यक्तानि समस्तानि नित्य-नैमित्तिक-काम्यानि कर्माणि येन सः, निवेदितात्मा मत्-स्वरूप-भूताय मन्-मन्त्रोपदेशकाय गुरवे,

योऽहं ममास्ति यत् किंचिद् इह लोके परत्र च । > तत् सर्वं भवतो नाथ चरणेषु समर्पितम् ॥ > [सनत्-कुमार-संहिता १३०]

इति वचसा मनसा च समर्पिताहन्तास्पद-ममतास्पदो भवति, तदा तत्-क्षणम् आरभ्यैव स मर्त्योमेमया विचिकीर्षितः विशिष्टः कर्तुम् इष्टः, मत्-प्रतिपद्यमानेन मद्-भक्त्य्-आभासेन योगि-ज्ञानि-प्रभृतिभ्योऽपि विलक्षण एव कर्तुम् ईप्सितः स्याद् इति । तेन मद्-भक्तेन मया कार्यः सत्य-भूत एव, नाप्य् अविद्या-कार्यो मिथ्या-भूत एव, किन्तु मत्-कार्यो गुणातीत एव सन्, अमृतत्वं मृतं नाशस् तद्-अभाववत्त्वं प्रतिपद्यमानः मया सहैव आत्म-भूयाय स्व-भृत्यै कल्पते योग्यो भवति । -कारेणैतत्-फलम् अननुसंहितं फलं तु प्रेमवत् पार्षदत्वम् इति ॥३४॥

———————————————————————————————————————

॥ ११.२९.३५ ॥

श्री-शुक उवाच—

स एवम् आदर्शित-योग-मार्गस्

तदोत्तमःश्लोक-वचो निशम्य ।

बद्धाञ्जलिः प्रीत्य्-उपरुद्ध-कण्ठो

न किञ्चिद् ऊचेऽश्रु-परिप्लुताक्षः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदर्शितो योग-मार्गो यस्मै सः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् आ सम्यग् दर्शितो योगस्य स्वेन मार्गो यस्मै सः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२९.३६ ॥

विष्टभ्य चित्तं प्रणयावघूर्णं

धैर्येण राजन् बहु-मन्यमानः ।

कृताञ्जलिः प्राह यदु-प्रवीरं

शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रणयेनावघुर्णं क्षुभितं चित्तं धैर्येण विष्टभ्य बहु-मन्यमान आत्मानं कृतार्थं मन्यमानः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बहु मन्यमान इति । मुहुर् उच्छलद्-वियोग-दुःखावरणाय, तादृशे । तद्-उपदेश-प्रसाद-लाभ-मय-स्व-भाग्य-भावनयात्मानम् उल्लासयितुम् इच्छन्न् इत्य् अर्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रणयेनावघूर्णात्मकं महा-व्यग्रं चित्तं धैर्येण विष्टभ्य तद्-दत्त-शक्त्यैव यद् धैर्यम् अभूत्, तद् एव बहु-मन्यमानः ॥३६॥

———————————————————————————————————————

॥ ११.२९.३७ ॥

श्री-उद्धव उवाच—

विद्रावितो मोह-महान्धकारो

य आश्रितो मे तव सन्निधानात् ।

विभावसोः किं नु समीपगस्य

शीतं तमो भीः प्रभवन्त्य् अजाद्य ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मया य आश्रित आसीत्, स तव सन्निधानेनैव विद्रावितः । प्रभवन्ति किं नु बाधाय समर्था भवन्ति ? अजाद्य ब्रह्मणोऽपि जनक ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मोहः पुनस् त्वत्-प्राप्त्य्-असम्भावनादि-मयः तद्-रूपो योऽन्धकारो मयाश्रितः । स तव सन्निधानात् कृपावलोकादि-वर्षि-सान्निध्य-स्वभावाद् एव स्वयं विद्रावितोऽभूत्, किम् उत तादृशोपदेशात् ? इत्य् अर्थः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो मे मया मोह-महान्धकर आश्रितः सर्व-यादव-विराजित-मत्-प्रभु-सहिता द्वारकेयं परिच्छिन्नैव, सम्प्रति नश्वरेति विचार-मयं, स त्वया विद्रावित इति तृतीय-स्कन्ध-दर्शितोद्धव-प्रश्नानन्तरम् अनन्य-ज्ञेय-स्वीय-सिद्धान्त-रहस्य-प्रदीपं, आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिं [भा।पु। ३.४.१९] इति च न व्यञ्जितम् उद्धवायादात् तत्-कथा एतद्-उतंराप्य् अत्रैवोक्ता ज्ञेया । अतः काल-वयोद्भूतं श्री-वराह-चेष्टितम् एकत्रैवाह मैत्रेय इतिवत् ॥३७॥

———————————————————————————————————————

॥ ११.२९.३८ ॥

प्रत्यर्पितो मे भवतानुकम्पिना

भृत्याय विज्ञान-मयः प्रदीपः ।

हित्वा कृतज्ञस् तव पाद-मूलं

कोऽन्यं समीयाच् छरणं त्वदीयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यद्यपि तव सन्निधानाद् एव गतः, तथाप्य् अनुकम्पिना भवता विज्ञान-मयः प्रदीपश् च प्रत्यर्पितः, स्व-माययापहृतः पुनः समर्पितः । अतस् तव कृतज्ञो यस् त्वया कृतम् अनुग्रहं जानाति, स को नाम त्वदीयं पाद-मूलं हित्वान्य-च्छरणं समीयाद् आश्रयेत् ? ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यर्पित इति । मया तुभ्यम् आत्म-बुद्धीन्द्रियादि-सहितं शरीर्रम् अर्पितं, त्वया तु विज्ञान-मयः स्वानुभव-मयः प्रदीपः प्रत्यर्पितः । अतोऽहं प्रतिक्षणम् एव सर्व-देश-काल-वर्तिनः स-परिकर-वैशिष्ट्यस्य तव माधुर्यानुभवेन त्वया पूर्णीकृत एव सम्प्रति वर्ते, मच्-छरीरेणानेन यत् त्वं चिकीर्षसि, तत् कुरु । यत्र क्वापि प्रस्थापयितुम् इच्छसि, तत्र प्रस्थापय । अत्रैव प्रस्थापयेति भावः । यतः कृतज्ञः, तद्-भृत्यस् तव पाद-मूलं हित्वा अन्यत् त्व्दईयम् अपि स्थलं शरणं स्व-गृहम् अपि को नाम मदीयं गच्छेत् ? यदि च तत्रापि वर्तमानस्य तव साक्षाद्-अनुभवः स्यात्, तदा गच्छेद् अपि न काप्य् अत्र हानिः । प्रत्युत तन्-निदेश-पालनं चेति भावः ॥३८॥

———————————————————————————————————————

॥ ११.२९.३९ ॥

वृक्णश् च मे सुदृढः स्नेह-पाशो

दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु ।

प्रसारितः सृष्टि-विवृद्धये त्वया

स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, दाशार्हादिषु त्वया यः स्व-मायया स्नेह-पाशः प्रसारितः, स त्वयैवात्म-तत्त्व-ज्ञान-शस्त्रेण वृक्णश् छिन्नः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, सृष्टि-विवृद्धये स्व-मायया यः स्नेह-पाशस् त्वया प्रसारितः, स मया त्वद्-उक्तेनात्म-सुबोध-हेतिना वृक्णः । किन्तु भवत्-सम्बन्धेनैव तेषु स मया स्वीकृत इत्य् अर्थः । यद् वा, मे मया दाशार्हादिषु त्वन्-मिलनात् पूर्वं स्नेह-पाशो वृक्णश् छिन्नोऽपि कंस-वधाद् अनन्तरं स्वयम् एव स्व-मायया भक्त-विषय-कृपया सृष्टि-विवृद्धये जगतः स्वस्मिंस् तादृश-स्नेह-विवृद्धये प्रसारितः । कीदृश्या स्व-मायया ? आत्म-सुबोधस्य ब्रह्मानुभवस्यापि हेतिना छेदक-रूपयेत्य् अर्थः । ततः स कथं मया त्यज्यतां ? इति भावः ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि यादवादिषु स्नेहं हित्वा कथं गन्तुं प्रभविष्यसि ? तत्राह—वृक्णश् छिन्नः । अयम् अर्थः—दाशार्हादिषु मे द्विविधः स्नेह-पाशः । तत्र यः स्व-मायया त्वया सृष्टि-विवृद्धये प्रसारितः, “दाशार्हादयः स्व-पुत्र-पौत्रादि-रूपेण पुनर् अप्य् अभीक्ष्णं वर्धन्तां, ततश् चास्मत्-सत्-समृद्धिः सदैवाकल्पं सर्व-दिग्-देश-व्यापिनी सर्व-विजयिनी भूयात्” इत्य् आभिमानिकः स्नेह-पाशः । स्व-मायया आत्म-सुबोधास्त्रेण वृक्ण एव, यस् तु तद्-रूप-गुण-कथा-परिचर्या-माधुर्यास्वाद-निबन्धनस् तेषु स्नेह-पाशः, स तु मे भूषण-भूतो वर्तत एव । त्वया ज्ञान-दीपार्पणात् यत्रैव यास्यामि, तत्रैव वृष्ण्य्-आदि-सहित-त्वद्-विशिष्टाम् एव द्वारकां साक्षाद् द्रक्ष्यामि, तत्र कृत-कार्यस् त्वया आन्येष्यमाण एष्याम्य् अपीति ॥३९॥

———————————————————————————————————————

॥ ११.२९.४० ॥

नमोऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं यद्य् अपि त्वया बहूपकृतं तथाप्य् एतावत् प्रार्थये इत्य् आह—नमोऽस्त्व् इति । अनुशाध्य् अनुशिक्षय । अनुशासनीयम् आह—यथेति । सुक्ताव् अप्य् अनपायिनौ ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि परमाभीष्टं तव कृपयैव सम्पत्स्यत इति पुनः सकाकु प्रार्थयते—नमोऽस्त्व् इति । मां प्रपन्नम् अनुशाधि संपादयेत्य् अर्थः । तस्याश् च प्रपत्तेर् वैशिष्ट्याय स्पृहयन्न् आह—यथेति ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे महा-योगिन् ! महा-योग-बलेन सर्वत्रैव मां स्वानुभावनया आनन्दयितुं प्रवृत्त ॥४०॥

———————————————————————————————————————

॥ ११.२९.४१-४४ ॥

श्री-भगवान् उवाच—

गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् ।
तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥**

ईक्षयालकनन्दाया विधूताशेष-कल्मषः ।
वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः ॥**

तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः ॥**

मत्तोऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् ।

मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव ।
अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उक्तम् ॐ इत्य् अङ्गीकृत्य, तथापि मयादिष्टो लोक-सङ्ग्रहार्थम् एतावत् कुर्व् इत्य् आह—गच्छ इति । आदिष्टो नियुक्तः । स्नानादेः पूर्वम् एव मत्-पाद-तीर्थोदक-भूताया अलकनन्दाया गङ्गाया ईक्षयावसानः परिदधानः । द्वन्द्व-मात्राणां शीतोष्णादि-विषयाणाम् । सुशील आर्जवादि-स्वभावः । ते त्वया विविक्तं सुविचारितम् । तिस्रस् त्रि-गुणात्मिका गतीर् अतिक्रम्य ॥४१-४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि तव प्रार्थिता मच्-चरण-रतिः सिद्धैव, सा च मद्-विरहेण स्वत एव वृद्धिम् अप्य् उपैष्यति, ततो न तद्-अर्थं साधनान्तरम् अप्य् अपेक्ष्यते, तथापि मद्-विरहेण यस् त्वम् अवश्यं कष्टं करिष्यसि, तल्-लोक-शिक्षार्थं साधनानुरूपेणैव कुरु, न तु हठाद् उपवासादिना । ततश् च लोक-शिक्षा-लक्षण-मद्-अभीष्ट-सम्पादने कृते त्वद्-अभीष्टम् अपि सेत्स्यतीत्य् आशयेनाह—गच्छ इति सार्ध-चतुष्केण ।

अत्र गच्छ इत्य् एवाज्ञापनम् अन्यद् अन्यत् तु तत्र गतत्वेन स्वभावेन च स्वतः सेत्स्यतीत्य् अनुवाद-मात्रम् । तत्र मत्-पाद- इत्य्-आदि-चतुष्टयं गतत्वेन सुख-निस्पृहत्वादिकं स्वभावेनैवेति ज्ञेयम् । बदर्य्-आख्यम् इति दूरे3 प्रस्थापनम् अत्र मम मुहुर् लीला-मय-भूमाव् अस्य वियोगातुरस्य स्थितौ कृच्छ्रातिशय एव स्याद् इत्य् अभिप्रायात् ॥४१॥

ईक्षया हेतुना अलकनन्दाया विधूतम् अशेष-कल्मष दुष्ट-स्पर्शनादिजं दुःखं येनेति तु वास्तवोऽर्थः ॥४२॥

विविक्तं सुविचारितं, यथा त्वच्-चरणाम्भोज- [भा।पु। ११.२९.४०] इत्य् एतत् पर्यवसानम् । यत् तद् एवेत्य् अर्थः । तिस्रः कनिष्ठ-मध्यमोत्तमत्वेन प्रसिद्धास् तास् ता गतीर् अतिक्रम्य ततस् ताभ्यः प्रसिद्धाभ्योऽपि पराम् उत्कृष्टाम् एष्यसि । तां काम् इति शङ्किष्यतेऽसाव् इति कृपया स्वयम् एवाह—माम् इति । यथैवोक्तं श्रीमद्-अर्जुनं प्रति—सर्व-गुह्यतमं [गीता १८.६३] इत्य् आदौ, माम् एवैष्यसि सत्यं ते [गीता १८.६४] इति ॥४३-४४॥



तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥**

ईक्षयालकनन्दाया विधूताशेष-कल्मषः ।
वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः ॥**

तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः ।
शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः ॥**

मत्तोऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् ।

मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव ।
अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् ॥**

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो उद्धव ! सर्व-यादवेषु मत्-परिकरेषु मध्ये मत्-तुल्यत्वात् त्वम् एव मत्-प्रतिमूर्तिर् असि ।

नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । > अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥ [भा। ३.४.३१] इति > मद्-उक्तेः ।

अतो यत् कृत्यम् अहं स्वेन साधयामि, तत् त्वया साधयितुं शक्नोमि । अत एव पूर्वं व्रज-भूमिं प्रति त्वम् एव प्रस्थापितो यथा, तथैव सम्प्रति त्वां वदरिकाश्रमं प्रस्थापयितुम् इच्छामि । तत्र हि मद्-अंश-श्री-नर-नारायणादि-महा-मुनीन्द्रा मां दिदृक्षन्ते । मिथिलादि-भू-तल-प्रदेश-सुतल-वैकुण्ठादीन् पूर्वं गतवता मया तत्र-तत्र-स्थाः श्रुतदेव-बहुलाश्व-बलि-वैकुण्ठ-नाथाद्या मां दिदृक्षवः स्व-दर्शन-दानेन स्वीय-ज्ञानाद्य्-उपदेशेन च ते कृतार्थीकृताः । तथाधुना बदरिकाश्रमो गन्तुं न शक्यते, सपादशतवर्ष-रूप-स्वावतार-मर्यादा-मयस्य सम्प्रति समाप्तीभूतत्वात्, अतोऽधुना प्रपन्नम् अनुशाधि माम् इति यदि मां प्रार्थयसे, तर्हि इयम् एव सम्प्रति ममाज्ञेति मनसैव संलप्य प्रकटम् आह—गच्छेति । हे उद्धवेति । त्वम् अन्वर्थ-संज्ञत्वात् सदैव सर्व-जनोत्सव-प्रदो भवस्य् एवाधुना तु स्व-निष्ठ-ज्ञान-।विशेषादि-स्व-शक्ति-प्रदानेनापि त्वं तत्र जनोत्सव-विशेष-प्रदोऽपि मया कृत इति भावः ॥४१॥

ईक्षया स्व-कर्तृकावलोकनेनैव अलकनन्दाया विधूतं खण्डितम् अशेष-कल्मषं येन सः। तेष्व् आस्ते ह्य् अघभिद् धरिः [भा।पु। ९.९.६] इति नवमोक्तेर् उद्धवस्य सर्व-वैष्णवाग्रगण्यत्वाद् अत्राशेषम् इति पदम् उपन्यस्तम् ॥४२॥

मत्तः सकाशात् यद् भक्ति-ज्ञान-।विशेषादिकम् अनुशिक्षितं, तत एव विवेकं विवेक-विशेषम् अनुभावयन्, तत्रत्य-श्री-नर-नारायणादींस् त्वां पृच्छत इति शेषः । मय्य् आवेशित-वाक्-चित्तत्वाद् एव मद्-धर्मा मन्-निष्ठा ये बुद्धि-प्रतिभा-सर्वज्ञत्व-सर्व-शक्तित्वादयस् तन्-निरतस् तद्-उद्युक्तो भवेति तत्-तत्-समाधान-योग्यतार्थम् आशीर्वादः कृतः ॥

ततश् च तिस्रस् त्रिगुणात्मिका गतीर् अतिव्रज्य तत्रत्यान् मुनीन् गुण-त्रय-गतीर् अतिक्रान्तान् कृत्वेत्य् अर्थः । निष्पादित-मद्-आदेशो माम् एष्यसि योग-बलेन मयैवान्वेष्यमाणस् त्वम् अत्रैव मत्-समीपम् आगमिष्यसीत्य् अर्थः ॥४४॥

———————————————————————————————————————

॥ ११.२९.४५ ॥

श्री-शुक उवाच—

स एवम् उक्तो हरि-मेधसोद्धवः

प्रदक्षिणं तं परिसृत्य पादयोः ।

शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर्

न्यषिञ्चद् अद्वन्द्व-परोऽप्य् अपक्रमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरि-मेधसा संसारं हरति मेधा यस्य तेन श्री-कृष्णेन । अद्वन्द्व-परोऽपि सुख-दुःख-विनिर्मुक्तोऽपि । अपक्रमे निर्गमन-समये ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरि-मेधसा प्रेम्णा मनो हरन्ती मेधा यस्य तेन । अपक्रमे ततोऽपसृति-समये । अद्वन्द्व-परोऽपि प्रेम-मूलक-शोक-मोहादि-द्वन्द्व-विशिष्टोऽभूद् इत्य् अर्थः ॥४५॥

———————————————————————————————————————

॥ ११.२९.४६ ॥

सुदुस्त्यज-स्नेह-वियोग-कातरो

न शक्नुवंस् तं परिहातुम् आतुरः ।

कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके

बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सुदुस्त्यजः स्नेहो यस्मिन्, तेन वियोगात् कातरो भीतोऽत एव तं परिहातुम् अशक्नुवन् । आतुरोऽतिविह्वलः सन्कृच्छ्रं कष्टं ययौ प्राप । ततश् च भर्तृ-पादुके तेनैव कृपया दत्ते मूर्ध्नि बिभ्रद् अतिनिर्बन्ध-रूपया, तद्-आज्ञया तं पुनः पुनर् नमस्कृत्य ययौ । अत्र च, पृष्ठतोऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः[भा।पु। ३.४.५] इत्य्-आदि-तृतीय-स्कन्धोपक्रमोक्तानुसारेण बदरिकाश्रमं गच्छन्, भगवतः प्रभास-यात्राम् उपश्रुत्य, शनैः पृष्ठतो गतः सन्न्, उपसंहृत-निज-कुलं भगवन्तम् एकान्ते दृष्ट्वा, तत्-काल-प्राप्तेन मैत्रेयेण सह पुनः कृपया भगवतोपदिष्टं तत्त्वम् आकलय्य तद्-आज्ञातो ययाव् इति द्रष्टव्यम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च भर्तृ-पादुके तेनैव कृपया दत्ते मूर्ध्नि बिभ्रत् अतिनिर्बन्ध-रूपया तद्-आज्ञया तं पुनः पुनर् नमस्कृत्य ययौ । तत्र गच्छन्न् अपि तृतीय-स्कन्धोपक्रमोक्त-कथानुसारेण पुनर् अपि परावृत्य भगवन्तम् एकान्ते दृष्ट्वा सन्दिग्धम् अर्थान् पृष्ट्वा तद्-उतंराधिगत-समस्त-भगवल्-लीला-तत्त्व-सिद्धान्तो, विद्रावितो मोह-महान्धकारः [भा।पु। ११.२९.३७] इत्य्-आद्य्-उक्त्वा पुनर् अपि तद्-आज्ञया ययाव् इति द्रष्टव्यम् ॥४६॥

———————————————————————————————————————

॥ ११.२९.४७ ॥

ततस् तम् अन्तर् हृदि सन्निवेश्य

गतो महा-भागवतो विशालाम् ।

यथोपदिष्टां जगद्-एक-बन्धुना

तपः समास्थाय हरेर् अगाद् गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विशालां बदरिकाश्रमं गतः सन् हरेर् गतिम् अगात् । कथं-भूतां ? तेनैव जगद्-एक-बन्धुना यथोपदिष्टाम् । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै [भा।पु। ११.२९.३४], अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परं [भा।पु। ११.२९.४४] इत्य्-एवम्-उक्त-प्रकाराम् ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (प्रीति-सन्दर्भः २१७) : अथ साक्षात्कार-लक्षण-तुष्ट्य्-आत्मकं श्रीमद्-उद्धवस्याह—ततस् तम् इति । गम्यते इति गतिःयथोपदिष्टां गतिम् इत्य् अस्य तृतीयानुसारेणायम् अर्थः । पूर्वं तत्र तं प्रति श्री-भगवता वेदाहम् अन्तर्-मनसीप्सितं ते ददामि यत् तद् दूर-वापम् अन्यैः [भा।पु। ३.४.११] इत्य् अनेन तद्-अभीप्सितं दातुं प्रतिश्रुतम् । त्वद्-ईप्सित-पूर्त्य्-अर्थं यद्-अन्यैर् दुरवापं तद् ददामीत्य् अर्थः । तच् च देयं पुरा मया प्रोक्तम् अजाय नाभा [भा।पु। ३.४.१३] इत्य्-आदिना सङ्क्षेप-भागवत-रूपम् इत्य् उद्दिष्टम् ।

अथ तादृश-तत्-प्रतिश्रुत-श्रवणेन परमोत्सुकतया परम-निजाभीप्सितम् असौ स्वयम् एव निवेदितवान्—

को न्व् ईश ते पाद-सरोज-भाजां > सुदुर्लभोऽर्थेषु चतुर्ष्व् अपीह । > तथापि नाहं प्रवृणोमि भूमन् > भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [भा।पु। ३.४.१५] इत्य् अनेन ।

अथागन्तुकं निज-मोह-विशेषं च निवेदितवान्—कर्माण्य् अनीहस्य भवोऽभवय [भा।पु। ३.४.१६] इत्य्-आदिभ्याम् । तच् च साक्षात्-तद्-उपदेश-बलेन प्रायः पर-प्रत्यायनार्थम् एव ज्ञेयम् नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१] इत्य्-आदेः ।

अथ तत्-तद्-अर्थोपयुक्तत्या भगवद्-उद्दिष्टार्थम् अपि प्रार्थितवान् । ज्ञानं परं स्वात्म-रहः प्रकाशं प्रोवाच कस्मै [भा।पु। ३.४.१८] इत्य्-आदिना । तत्र यद् वृजिनं तरेम इति वृजिनं तादृश-सेवा-विरह-दुःखम् । तादृश-लोक-मोह-दुःखं च । तत् तरणस्य तद्-रहस्य-ज्ञानाधीनत्वाद् इति भावः । ततश् च मद्-अभीष्टं श्री-भगवान् अपि सम्पादितवान् इति श्री-विदुरं प्रति कथितं श्रीमद्-उद्धवेन स्वयम् एव—

इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः । > आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भा।पु। ३.४.१९] इति > ।

द्वितीये ब्रह्मणेऽपि परम-वैकुण्ठं दर्शयता तेनात्मनः परम-भगवत्ता-रूपा स्थितिर् दर्शिता । सा च श्री-द्वारका-वैभव-रूपेति श्री-भगवत्-सन्दर्भे स्थापितम् अस्ति । सङ्क्षेप-श्री-भागवत-रूपया चतुः-श्लोक्या च । तस्य तादृशत्वेऽपि विचित्र-लीला-भक्त-परवशत्व-रूपासाव् इति तत्रैव बोधितम् ।ततस् तद्-अनुभवेनोभयत्रापि श्रीमद्-उद्धवस्य धैर्यं जातम् इति तत्-तद्-उपयोगः । ततश् च ताम् एव तद्-उपदिष्टां गतिं जगामेत्य् अर्थः ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशालां बदरिकाश्रमम् । हरेर् हेतोर् एव गतिम् अगात् द्वारकां प्रति गमनम् अपि ॥४७॥

———————————————————————————————————————

॥ ११.२९.४८ ॥

य एतद् आनन्द-समुद्र-सम्भृतं

ज्ञानामृतं भागवताय भाषितम् ।

कृष्णेन योगेश्वर-सेविताङ्घ्रिणा

सच्-छ्रद्धयासेव्य जगद् विमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आनन्द-समुद्रो भगवद्-भक्ति-मार्गः, तस्मिन् संभृतम् एकी-कृतम्, एतद् यः सच्-छ्रद्धया आसेव्य ईषद् अपि सेवित्वा वर्तते, स विमुच्यत इति किं वक्तव्यं ? तत्-सङ्गाज् जगद् अपि विमुच्यत इत्य् अर्थः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आनन्द-समुद्रो भगवद्-भक्ति-योगः, तेन संभृतं सम्यग्-धृतम्, एतद् यः सच्-छ्रद्धया आसेव्य ईषद् अपि सेवित्वा वर्तते, स विमुच्यते । इति किं वक्तव्यं ? तत्-सङ्गाज् जगद् अपि विमुच्यत इत्य् अर्थः ॥४८॥

———————————————————————————————————————

॥ ११.२९.४९ ॥

भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं

निगम-कृद् उपजह्रे भृङ्गवद् वेद-सारम् ।

अमृतम् उदधितश् चापाययद् भृत्य-वर्गान्

पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं कृतोपदेशं जगद् गुरुं प्रणमति—भव-भयम् इति । भवः संसारो भयं च जरा-रोगादि-निमित्तं तद् उभयं निवृत्तानां प्रवृत्तानां च भृत्य-वर्गाणां यथा-योग्यम् अपहन्तुं योऽमृत-द्वयम् उपजह्रे उद्धृतवान् । तद् एवाह—वेद-सारम् एकम् । किं तत् ? **ज्ञान-विज्ञान-**रूपं च तत्-सारं श्रेष्ठं च । भृङ्गवत् भृङ्गो यथा पुष्पम् अकोपयन्न् एवामृतम् उपहरति, तथा स्वयं स्व-कृत-वेदानुसारेणैव उदधितश् चैकं तच् चोभयं यथा-यथं भृत्य-वर्गान् अपाययत्तं नतोऽस्मीति ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एकोऽवतारस् तावद् भव-भयम् इत्य्-आदि-लक्षणः । अन्यस् त्व् अमृतादि-लक्षणः । यद्यप्य् एवम् एवं गुणत्वेन द्वयम् अपि नमनीयं, तथाप्य् आद्यं प्रथमं कृष्ण-संज्ञं नतोऽस्मि इति तदा तस्यादरो दर्शितः । युक्तम् एव च तस्य तद् इति तं विशिनष्टि—पुरुषं सर्वादिम् इत्य् अर्थः । पूर्वम् एवाहम् इहासम् इति तत्-पुरुषस्य पुरुषत्वम् इति श्रुतेः। ऋषभं श्रेष्ठं चेति । कृष्ण-सम्ज्ञं कृष्णेति संज्ञा तन्-नामत्वेनातिप्रसिद्धिर् यस्येति मूर्त्य्-अन्तरं निषिध्यते । तन्-मूर्तेर् नमस्क्रियमाणत्वेन च नित्य-सिद्धत्वं दर्श्यते । तत्रैव टीका-कृद्भिर् अपि—तं वन्दे परमानन्दं नन्दनन्दन-रूपिणम् इत्य् उक्तम् ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वान्ते जगद्-गुरुं प्रणमति—भव-भयम् इति । वेदेभ्यः सारम् उपजह्रे उद्धृतवान् । नन्व् अन्ये मुनयो दर्शन-कर्तारो वेद-सारम् उपजह्रुर् एव ? सत्यं, ते दुर्गमस्य वेदस्य तात्पर्यं न सम्यग् अभिजानन्तीति न तद्-वाक्यं विश्वस्यते । अयं भगवांस् तु न तथेत्य् आह—निगम-कृद् इति । यो हि यच्-छास्त्रस्य कर्ता स एव खल्व् अतिदुर्गमस्यापि तस्यार्थं जानन्त्य् एवेति भावः । भृङ्गवद् इति वेद-पुष्पोद्यानस्य मकरन्दम् इत्य् अर्थः । भृत्य-वर्गान् अपाययत्, अभक्तान् असुरांस् तु वञ्चयामासेति दृष्टान्ताभिप्रायेणाह--अमृतम् उदधितश् च, उदधि-सारम् इत्य् अर्थः । मोहिनी-रूपेण भृत्य-वर्गान् देवान् एवापाययत्, असुरांस् तु वञ्चयामासैव । तं नतोऽस्मि ॥४९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशस्योनत्रिंशे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे श्री-भगवद्-उद्धव-संवादे > उद्धवस्य वदर्य्-आश्रम-प्रवेशो > नामैकोनत्रिंशोऽध्यायः ।

॥११.२९॥



  1. सुदुश्चराम् (क्रम।स।) ↩︎

  2. मोक्ष-धर्मतोऽयं श्लोक इति केचित्। स मया तु तत्र न प्राप्तः। ↩︎

  3. हरेः इति पाठान्तरः। ↩︎