२८ भगवद्-उद्धव-संवादे परमार्थ-निर्णयः

॥ ११.२८.१ ॥

श्री-भगवान् उवाच—

पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् ।

विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

न प्रशंसेत निन्द्यांस् तु प्रशंस्यान् नैव निन्दयेत् ।

उभयं यः करोत्य् एतद् असत्यात् स पतत्य् अधः ॥ > यः प्रशंस्यान् न प्रशंसेन् निन्द्यो येन न निन्द्यते । > सोऽपि तद्वद् अधो याति यतोऽरिवद् उदासकः ॥ इति सत्कारे ॥

प्रकृत्या पुरुषेण च सहैकेन परमात्मना व्याप्तम् एकात्मकम् । तथा पश्यत एव यथार्थ-ज्ञानं भवति ॥१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टविंशे तु यः पूर्वं विस्तरेणोपवर्णितः ।

ज्ञान-योगः पुनश् चासौ समाहृत्य निरूप्यते ॥

इदानीम् अतिविस्तरेणोक्तं ज्ञान-योगं सङ्क्षेपेण वक्तुम् आह—परेषां स्वभावान् शान्त-घोरादीन् कर्माणि च । तत्र हेतुः—विश्वम् इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तादृशे भक्ति-योगे बाह्य-दृष्टिं परित्याजयितुम् । अथवा, भक्ति-योगस्य सुगमतां सुफलतां च दर्शयिष्यन् दुर्गमादि-रूपं स-साधनं ज्ञानम् आह—पर-स्वेति । प्रकृत्या पुरुषेण च सह विश्वम् एकात्मकम् इति । आदाव् अन्ते जनानां सद् बहिर्-अन्तः परावरं [भा।पु। ७.१५.५७] इत्य्-आदि सप्तम-स्कन्धान्त-व्याख्यान-रीत्या वस्तुतस् तत्-तत्-सर्वायवी यः परमात्मा, स एवैक आत्मा यस्य तथा-भूतं पश्यन् । वक्ष्यते च—ज्ञानं विवेकः [भा।पु। ११.२८.१९] इत्य्-आदिभ्याम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टविंशे ज्ञान-योगं जगन्-मिथ्यात्व-वादिनाम् ।

अद्वैत-दर्शिनां प्राख्यत् प्रभुः सर्व-मतं ब्रुवन् ॥

वेदाष्ट-सङ्ख्याधिक-विंश ईडिते मते

जगत् स्यात् सद्-असत् तथेत्य् उभे ।

किम् अस्ति नास्ति व्यादेश-भूषितम्

इत्य् उक्तिर् अस्त्य् एव विधेर् हरेर् अपि ॥

अद्वैत-दर्शिनो ज्ञानिनो हि द्विविधा भवन्ति । विश्वस्यास्य पर-ब्रह्मोपादानकत्वेऽवश्य-व्याख्येये परिणाम-वादे ब्रह्मणो विकार-प्रसक्तेस् तम् अनङ्गीकृत्य विवर्त-वादम् एवाङ्गीकुर्वाणा ब्रह्मणो निर्विकारत्वं विश्वस्यास्य तु मिथ्यात्वम् आचक्षते खल्व् एके । अन्ये तु प्रकृतेः स्व-शक्तित्वात् तद्-द्वारैव पर-ब्रह्मणो जगद्-उपादानत्वम् अतस् तस्याः किल विकारित्वेऽपि स्वरूपतस् तद्-अतीतस्य पर-ब्रह्मणो निर्विकारत्वम् एवेति परिणाम-वादे किल न कापि क्षतिः । तथा चोक्तं भगवता—

प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । > सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। > ११.२४.१९] इति ।

अतः सत्य् अपि द्वैते प्रकृति-कार्याणां तद्-अनन्यत्वात्, प्रकृतेश् च परमेश्वरानन्यत्वात्, परमेश्वरस्य तु बहु-मूर्तित्वेऽप्य् ऐक्याद् अद्वैतम् एव ब्रह्मेत्य् आहुः—उभयेषाम् एव ज्ञानित्वेऽप्य् उत्तरे एव श्री-भागवत-सम्मत-मताः । पूर्वेषाम् अपि मध्ये ये भगवद्-विग्रह-भक्त-धाम-नामाद्य्-अतिरिक्त-पदार्थानाम् एव मिथ्यात्वं व्याचक्षते तेषां मतम् आदि-भरत-चरितादौ क्वचित् क्वचिद् उट्टङ्कितम् इति तन्-मतम् अपि सर्वम्-मत-जिज्ञासुम् उद्धवम् आह—पर-स्वभाव-कर्माणीति पञ्चभिः । ततः परम् अध्याय-परिसमाप्ति-पर्यन्तं विवर्त-वादिनां परिणाम-वादिनां च मते अवस्त्व् एवोच्यते । परिणाम-वादिनां मते तु असर्व-काल-सत्ताकं वस्तूच्यते इत्य् एतावान् एव भेदो द्रष्टव्यः । कार्याणां सत्त्वेऽप्य् अचिर-स्थायित्वम् असत्त्वम् एवेति परिणाम-वादिनः । कार्याणां मिथ्यात्वम् एवासत्त्वम् इति विवर्त-वादिन आहुर् इति तत्र तत्र विवेचनीयम् इति ॥१॥

इदानीम् अतिविस्तरेणोक्तं ज्ञान-योगं सङ्क्षेपेण वक्तुम् आह—परेषां स्वभावान् शान्त-घोरादीन् कर्माणि च । तत्र हेतुः—विश्वम् इति ॥१॥

———————————————————————————————————————

॥ ११.२८.२ ॥

पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति ।

स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विपक्षे दोषम् आह—परेति । स्वार्थात् ज्ञान-निष्ठा-लक्षणात् । असति मिथ्या-भूते द्वैतेऽभिनिवेशात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वार्थात् परमाताभिनिवेशात् । असति ततोऽन्यस्मिन् कल्पिते नानावयविनि ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपक्षे दोषम् आह—परेति । स ज्ञानी स्वार्था ज्ञान-निष्ठा-लक्षणात् असति मिथ्या-भूते द्वैतेऽभिनिवेशात् ॥२॥

———————————————————————————————————————

॥ ११.२८.३ ॥

तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः ।

मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तैजसाहङ्कृतेर् जात इन्द्रिय-ग्रामके परात् ।

निद्रया वशम् आपन्ने जीवः स्यान् नष्ट-चेतनः ॥ > अतो विष्णोर् वशे सर्वं तेन व्याप्तम् इति स्मरेत् ॥ इति च । > निद्रा चैव सुनिद्रा च द्विधा निद्रा प्रकीर्तिता । > अत्र निद्रा भवेन् नित्या सुनिद्रा मृति-कालगा ॥ इति साम्ये । > मनो-मात्र-स्वरूपत्वात् स्वप्नो मायेति कथ्यते ॥ इति च ।

तथा नानार्थदं मन एव । मनसा हि विषयाः प्रतीयन्ते ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रंशम् एव दृष्टान्ततो दर्शयति । तैजसे राजसाहङ्कार-कार्ये इन्द्रिय-गणे निद्रया आपन्नेऽभिभूते सति, पिण्ड-स्थो जीवः केवलं मनो-मात्रेण मायां स्वप्न-रूपां प्राप्नोति, ततो मनसि लीने सति नष्ट-चेतनः सन् मृत्युं वा मृत्यु-तुल्यां सुषुप्तिं वा प्राप्नोति। यथा तद्वद् एव नानार्थ-दृक् द्वैताभिनिवेशी विक्षेपं लयं च प्राप्नोति । यथा प्राज्ञ-संपर्काद् विश्वस्य भोग-क्षय-लक्षणो भ्रंशः, एवम् अनात्म-संपर्काद् आत्मनोऽपि स्वरूप-भ्रंश इति भावः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, तैजस इति । परमात्मैक-दृष्ट्य-भावेन नानार्थ-दृक् पुमान् कदाचिद् बहिर्-नष्ट-चेतनः सन् मायां लौकिक-माया-मय-तुल्यं मायाख्य-भगवद्-अचिन्त्य-शक्ति-मयं स्वप्नं यद्वत् प्राप्नोति कदाचिद् बहिर् अन्तर् अपि नष्ट-चेतनः सन् मृत्युं मृत्यु-तुल्यं सुषुप्तं वा यद्वत् प्राप्नोति तद्वद् एव मायां तादृशं जन्मादि-रूप-देहाद्य्-अभिनिवेशं मृत्यु-देह-परित्यागं च प्राप्नुवन् भ्रमतीत्य् अर्थः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रंशम् एव दृष्टान्तेन दर्शयति—तैजसे राज-साहङ्कार-कार्ये इन्द्रिय-गणे निद्रया स्वापेन आपन्ने अतिभूते सति पिण्डस्थो जीवः केवलं मनो-मात्रेण मायां स्वप्न-कृपां प्राप्नोति, ततो मनस्य् अपि लीने सति नष्ट-चेतनः सन् मृत्युं वा मृत्यु-तुल्यां सुषुप्तिं वा प्राप्नोति, यथा, तद्वद् एव नानार्थ-दृक् द्वैताभिनिवेशी विक्षेपं लयं च प्राप्नोतीति ॥३॥

———————————————————————————————————————

॥ ११.२८.४ ॥

किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् ।

वाचोदितं तद् अनृतं मनसा ध्यातम् एव च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

एकं तु शुभम् उद्दिष्टम् अशुभं द्वैतम् उच्यते ।

।पुंसोऽशुभस्य किं भद्रं किम् अभद्रं विशेषतः । > सर्वदाशुभ-रूपत्वाद् विशेषोऽत्यल्प एव हि ॥ इति भारते ।

द्वैतस्याशुभस्य पुरुषस्य कियद् अल्पम् एव हि भद्रम् अभद्रं वा स्व-योगाद् आधिक्येन न भवति यत्नवतोऽपीत्य् अर्थः ।

अतस् तद्-विषये ध्यातम् उक्तं च शुभम् अनृतम् एव । > उच्यते ध्यायते वापि कुनरं प्रति यच् छुभम् । > असत्यम् एव भवति स्वभावोऽसत्यम् एव यत् ॥ इति प्रद्योते > ॥४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वैतासत्यतया स्तुति-निन्दयोर् निर्विषयत्वं प्रपञ्चयति सार्धैः षड्भिः—किं भद्रम् इति । अवस्तुनो द्वैतस्य मध्ये किं भद्रं किं वाभद्रं ? कियद् भद्रं कियद् वाभद्रं ? इत्य् अर्थः । अवस्तुत्वम् एवाह—वाचेति बाह्येन्द्रियोपलक्षणम् । वाचा उदितम् उक्तं चक्षुर्-आदिभिश् च यद् दृश्यं तद् अनृतम् इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आबाधितोऽपि ह्य् आभास इति सप्तमान्ताख्यान-रीत्यैव पृथग्-अवयवि-लक्षण-द्वैतस्यावस्तुतया स्तुति-निन्दयोर् निर्विशेषत्वं प्रपञ्चयति सार्धैः षड्भिः—किं भद्रम् इति । तत्-परमात्म-चैतन्याद् अन्यत् अवयवि-रूपं द्वैतम् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वैतस्यासत्यतया स्तुति-निन्दयोर् निर्विषयत्वं प्रपञ्चयति—सार्धैः षड्भिः किं भद्रम् इति । अवस्तुन इति मद्-विग्रह-धाम-नाम-भक्तादिकं चिद्-रूपत्वाद् ब्रह्म-वस्त्व् एव तद्-भिन्नस्य द्वैतस्य सम्बन्धि यद् वाचा उदितं यन् मनसा ध्यातं तत् सर्वम् अनृतं किं भद्रं किं वा अभद्रं कियद् वा भद्रम् इत्य् अन्वयः । यतः स्तुति-निन्दे स्याताम् इति भावः । एवम् अग्रेऽप्य् असच्-छब्देन चिद्-भिन्नम् एव ज्ञेयम्, व्याख्यान्तरे, सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति, तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी हि [गो।ता।उ। २।] इति, ॐ आस्य जानन्तो नां चिद् विवक्तन [ऋ।वे। १.१५६.३] इति, प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुं [भा।पु। १.६.२९] इति, मन्-निकेतं तु निर्गुणं [भा।पु। ११.२५.२५] इति, निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इत्य्-आदि-वचनेभ्यो गुणातीतत्वेनावगमितेष्व् अपि वस्तुष्व् अनृतत्व-प्रसिद्धिः स्याद् अतस् तन् नोपदेयम् ॥४॥

———————————————————————————————————————

॥ ११.२८.५ ॥

छाया-प्रत्याह्वयाभासा ह्य् असन्तोऽप्य् अर्थ-कारिणः ।

एवं देहादयो भावा यच्छन्त्य् आ मृत्युतो भयम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वभावतोऽशुभस्याशुभ-देहादिकं नाशुभ-कारणं तर्हीत्य् अत आह—छाया-प्रत्युदकाभासा इति ।

व्यापेक्ष्य जीवं देहादि निःसक्तत्वादवस् त्व् अपि । > पुनः शुभाशुभ-नॄणां यच्छेद् एव शुभाशुभम् ॥ > छाया-नीहारकाभासा निःसक्ता अपि कार्यदाः । > एवं शुभादि देहादेर् भवेत् कार्यं शुभादिकम् ॥ इति सुमते । > नीहारः प्रत्युदं चैव धूम्रम् इत्य् अभिशब्द्यते ॥ इति > शब्द-निर्णये ॥५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं सति देहादि-भावानाम् अप्य् असत्त्वात् कथं भय-हेतुत्वं ? तत्र स-दृष्टान्तम् आह—छाया प्रतिबिम्बः । प्रत्याह्वयः प्रतिध्वनिः । आभासः शुक्ति-रजतादिः । एते यथासन्तोऽप्य् अर्थ-कारिणो भवन्ति । आ मृत्युतो मृत्युम् अभिव्याप्य । यद् वा, मृत्युर् लयः । यावन् नैव लीयन्ते, तावत्-पर्यन्तम् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, यदि परमात्मैव सर्वत्रावयवी, ततोऽन्यन् नास्त्य् एव तर्हि कथं शश-विशाण-तुल्ये तस्मिन्न् अभिनिवेशः स्यात् ? तेन वा कथंभूतं ? इत्य् आशङ्क्याह—छायेति॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि द्वैतम् असत्यम् एव, कथं तर्हि घट-पटादि-मयस्य तस्यार्थ-क्रियाकारित्वं ? तत्राह—छाया प्रतिबिम्बः । प्रत्याह्वयः प्रतिध्वनिः । आभासः शुक्ति-रजतादिः । एते खल्व् असन्तोऽप्य् अर्थ-कारिणो यथा भवन्ति तथैवासद् अपि द्वैतम् अर्थ-क्रियाकारीत्य् अर्थः । एवम् एव देहादयो भावा मिथ्या-भूता अपि आ मृत्युतो मृत्युर् लयस् तत्-पर्यन्तम् एव भयं संसार-दुःख-मयं यच्छन्ति जीवेभ्यो ददति ॥५॥

———————————————————————————————————————

॥ ११.२८.६ ॥

आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः ।

त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : इदं विश्वं सृजति त्राति हरति च स्वयं स्वात्मनैव सृज्यते त्रायते ह्रियते च ।

दीपाद् दीपान्तरं यद्वत् सृष्टिर् ईशस्य कीर्त्यते । > एतावत् कालम् आशिष्ये मानुषेष्व् इति चिन्तनम् ॥ > विष्णोस् त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु । > दीपे दीपान्तरस्येव ह्य् एकीभावश् च संहृतिः ॥ इति च । > पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते । > पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ इति च । > आत्मनः परमेश्वरस्य तस्माद् अन्यो भावो नास्ति । > सृष्टिः स्थितिश् च संहारो भावनं समुदाहृतम् । > तद् यः करोति पुरुषः स भाव इति कीर्त्यते ॥ इति विवेके ।

अन्येन सृष्टिः स्थितिः संहार इति त्रिविधा मतिर् विद्वद्भिर् नैव निरूपिता निर्मूला प्रमाण-वर्जिता ।

अन्यस्मात् सृष्टि-संहारौ स्थितिश् च परमात्मनः । > निरूपिता न विद्वद्भिः प्रमाणाभावतो हरेः ॥ इति ब्रह्म-तर्के ।

अन्यतः सृष्टिः स्थितिः संहार इति त्रितयं गुण-मयं सत्त्वादि-गुणाधीनम् ।

गुण-सम्बन्ध-योग्यानाम् उत्पत्त्य्-आद्याः स्युर् अन्यतः । > सर्वदा निर्गुणस्यास्य सर्गाद्याः स्युः कुतोऽन्यतः ॥ इति च > ॥६-७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सृष्ट्य्-आदि-श्रुतिभिर् एव द्वैतं निरूपितं कथम् असत्यं स्यात् ? तत्राह—आत्मैवेति सार्ध-द्वाभ्याम् । त्रायते पाल्यते । त्राति पालयति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वस्यैकात्मकत्वं योजयति—आत्मैवेति द्वयेन । प्रभुः तत्-तच्-छक्ति-युक्त आत्मा स्वयम् एव तद् इदं विश्वम् अवयवि-रूपं सृजति । अतः स्वयम् एव सृज्यते प्रकाश्यत इत्य् अर्थः । एवं त्राति त्रायत इत्य्-आदि ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु च सृष्ट्य्-आदि-श्रुतिभिर् एव द्वैतं निरूपितं कथम् असत्यं स्यात् ? तत्राह—आत्मैवेति द्वाभ्याम् । सृज्यते सृजतीति सृष्ट्य्-आदेः कर्तापि कर्माप्यात्मैव, न द्वैतं ततोऽन्यद् इति भावः । त्रायते पाल्यते ॥६॥

———————————————————————————————————————

॥ ११.२८.७ ॥

तस्मान् न ह्य् आत्मनोऽन्यस्माद् अन्यो भावो निरूपितः ।

निरूपितेऽयं त्रि-विधा निर्मूला भातिर् आत्मनि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यस्मात् सृज्यादि-व्यतिरिक्तात् । त्रि-विधा आध्यात्मिकादि-रूपा । भातिः प्रतीतिः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् विश्वस्मिन् यः कश्चिद् अपि भावः स परमात्मनो नान्यो निरूपितः । कारणं विना कार्यस्यासिद्धत्वाद् इति भावः । तर्हि तस्यैव विकारित्वं स्याद् इत्य् आशङ्क्याह—अन्यस्माद् इति । तथाप्य् अचिन्त्य-शक्त्या निर्विकारत्वेन स्वत एव तत्-तद्-भावात् तस्यान्यत्वम् इति भावः । या त्व् इयम् आध्यात्मिकादि-रूपा त्रिविधा भातिः प्रतीतिस् ततोऽन्यत्वेनाविवेकिभिर् निरूपिता साप्य् आत्मनि शुद्धे निर्मूलैव वस्तुतस् तत्-तत्-सम्बन्धाभावाद् इति भावः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः परमात्मनाः सकाशाद् अन्यो भावः पदार्थो न । आत्मनः कीदृशात्—अकस्मात् सृज्यादि-वस्तु-व्यतिरिक्तात् । त्रिविधा आध्यात्मिकादि-रूपा भातिः प्रतीतिः निर्मूलैवेति । यदि परमात्मैव विश्वम् अभूत्, तदा परमात्मनस् त्रैविध्याभावात् कुत आयातम् एतत् त्रैविध्यम् इति निर्मूलत्वम् ॥७॥

———————————————————————————————————————

॥ ११.२८.८ ॥

इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम् ।

एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्य-वत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथं निर्मूलं प्रतीयते ? तत्राह—इदम् इति । ज्ञान-विज्ञानयोर् नैपुणं निष्ठाम् । सूर्य-वत् समो भूत्वा ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कथं ? तत्राह—इदम् इति सार्धकम् । तस्माद् उपक्रान्तम् एव फलितम् इत्य् आह—एतद् इति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कथं त्रैविध्यं प्रतीयते ? तत्राह—मायया कृतं मायया दुस्तर्क्य-शक्त्येति परिणाम-वादिनः, मायया अज्ञानेनेति विवर्त-वादिनः । अत एतन् मद्-उदितं मद्-उक्तं ज्ञान-विज्ञानयोर् नैपुण्यं विद्वान् जानन् सूर्यवत् समो भूत्वेत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ११.२८.९ ॥

प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा ।

आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : असमर्थम् असत् प्रोक्तं सत् समर्थं प्रकीर्तितम् ॥ इति च ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतन् निष्ठा-प्राप्राप्त्य्-उपायम् आह—प्रत्यक्षेणेति । यद् आद्य्-अन्तवत् द्वैतं तद् असद् इति ज्ञात्वा निःसङ्गो विचरेत् । आद्य्-अन्तवत्त्वे प्रमाणानि, प्रत्यक्षेण घटादि । अनुमानेन सावयवत्वेन दृश्यं पृथिव्य्-आदि । निगमेनाप्रत्यक्षम् आकाशादि । आत्म-संविदा स्वानुभवेन सर्वं दृष्यम् आद्य्-अन्तवद् असच् चेति ज्ञात्वा । निःसङ्गस् तद् आसक्ति-शून्यः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र द्विविधं द्वैतम् अवयव-रूपं परमात्मेतर-कल्पितावयवि-रूपं चेति तत्र पूर्वं जन्मनाशवत् उत्तरं त्व् असद् एवेत्य् उभयत्रापि तद्-विलक्षण आत्मा न सक्तः ततस् तत्-तत्-सङ्गं त्यजेद् इत्य् उपसंहरति—प्रत्यक्षेणेति । आद्य्-अन्तवत् जन्म-नाशवत् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यक्षेणाद्य्-अन्तवत् घटादि, अनुमानेनाद्य्-अन्तवत् दृश्यं पृथिव्य्-आदिम्, निगम-वाक्येनाप्रत्यक्षम् आद्य्-अन्तवद् आकाशादि आत्म-संविदा स्वानुभवेन सर्वं चिद्-भिन्नं दृश्यम् आद्य्-अन्तवत् असच् चेति ज्ञात्वेत्य् अर्थः ॥९॥

———————————————————————————————————————

॥ ११.२८.१० ॥

श्री-उद्धव उवाच—

नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः ।
अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यद्य् आत्म-संविदा सर्वं दृश्यम् असद् इत्य् उच्यते, तर्ह्य् आत्मा स्व-प्रकाशो देहादि-द्वैतं च जडम् इत्य् उक्तं स्यात्, तथा च संसार-प्रतिभासो न घटेत ? इति चोदयति—नैवेति, अनात्म-स्व-दृशोर् जडाजडयोः । अत्र हेतुः—द्रष्टृ-दृश्ययोः । मा भूद् वयोर् अपि तत्राह—उपलभ्यत इति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्य् एवं जीवस्य संसार-नाशार्थम् उपदेशोऽयं कृतस् तत्राशङ्कते—नैवेति ॥१०-११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु आद्य्-अन्तयोर् असत्त्वेऽपि मध्ये यावत् सत्त्वं प्रतीयते तावत् कस्य संसारः स्यात् द्रष्टुर् दृश्यस्य वेत्य् आह—नैवेति । द्रष्टृ-दृश्ययोः द्रष्टा जीवो दृशो देहस् तयोर् अपि संसृतिर् न सम्भवेत् । कुतः ? अनात्म-स्व-दृशोर् देहो ह्य् अनात्मा जडस् तस्य संसार-दुःखानुभवस्यासम्भवात् । जीवो हि स्व-दृक् स्वतः सिद्ध-ज्ञानः तस्य ज्ञान-लोपासम्भवात् । मास्तु द्वयोर् अपि, तत्राह—उपलभ्यत इति ॥१०॥

———————————————————————————————————————

॥ ११.२८.११ ॥

आत्माव्ययोऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः ।

अग्निवद् दारुवद् अचिद् देहः कस्येह संसृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् प्रपञ्चयति—आत्मेति । अव्ययत्वादि-पञ्च-विशेषणैर् नाशादि-रागादि-पुण्याज्ञान-परिच्छेदानाम् असंभवं दर्शयति, हेतु-हेतुमत्त्वं तु यथेष्टम् । अचिज् जडः । अयं भावः—यथैवाग्नि-दारुणोर् भेदेनानुपलम्भेऽपि दारु प्रकाश्यम् एवाग्निश् च प्रकाशकः, तथा देहात्मनोर् अपीति न संसृतिस् तयोर् अन्यतरस्यापि घटत इति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतत् प्रपञ्चयति—आत्मेति । अव्यय इति नाशाद्य्-अभावः । अगुण इति रागाद्य्-अभावः । शुद्ध इति पाप-पुण्याद्य्-अभावः । स्वयं-ज्योतिर् इत्य् आज्ञानाद्य्-अभावः । अनावृतो न केनाप्य् आवृतः, वस्तुतो न बद्ध इति बद्धाभावश् चोक्तः । अचिद् अचेतनः । अयं भावः—यथैवाग्नि-दारुणोर् भेदेनानुपलम्भेऽपि दारु प्रकाश्यम् एवाग्निः प्रकाशकः, किन्तु स्व-परमात्म-प्रकाशित एव प्रकाशकः, संसृतिस् तयोर् अन्यतरस्यापि न घटत इति ॥११॥

———————————————————————————————————————

॥ ११.२८.१२ ॥

श्री-भगवान् उवाच—

यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् ।

संसारः फलवांस् तावद् अपार्थोऽप्य् अविवेकिनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

फलवान् मोक्ष-हेतुएत्वान् नित्यानन्दाद् अपार्थकः ।

जीवात्मनस् तु संसारः स्वप्नवच् चञ्चलत्वतः ॥ इति तत्त्व-विवेके > ॥१२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्यं तथाप्य् उभयोर् एवम् अविवेक एव संसारालम्बनम् इत्य् आह पञ्चभिः, यावद् इति । सन्निकर्षणं संबन्धः । नन्व् असङ्गस्य कुतः संबन्धस् तत्राह—अविवेकिनः, अज्ञान-कृत इत्य् अर्थः । ननु स्व-प्रकाशस्य कथम् अज्ञान-कृतः संसारस् तत्राह—अपार्थोऽपि मिथ्याभूतोऽपि केवलं फलवान् । फलं स्फूर्तिर् न तु तत्त्वतोऽस्तीत्य् अर्थः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सिद्धान्तयति—यावद् इति । सन्निकर्षणं सम्बन्धः । अत्र हेतुः अविवेकिनः अत्राविवेकित्वं भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७]इत्य् अनुसारेणेश-ज्ञान-भाव-लब्ध-माया-कृत आत्म-ज्ञान-लोपोऽतस्मिंस् तद्-भावश् च ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यं जीवस्याविवेक एव संसारालम्बनम् इत्य् आह—पञ्चभिः यावद् इति । सन्निकर्षणं सम्बन्धः । तावद् एवापार्थो मिथ्या-भूतोऽपि संसारः फलवान् फलति । न सङ्गस्य कुतः सम्बन्धः ? तत्राह—अविवेकिनः अज्ञान-कृतः इत्य् अर्थः ॥१२॥

———————————————————————————————————————

॥ ११.२८.१३ ॥

अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते ।

ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : संसृत्य्-अभावस्यैव फल-रूपत्वान् निरर्थ एव संसार इत्य् अवधारयति—अर्थेऽपीति । उच्यते निष्फलत्वेन यद् अत्यल्प-फलं भवेत् इति च । अतो फलवत्त्वावधारणार्थं च पुनर् वचनम्1 ॥१३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् असतो देहादेः कुतः संसार-स्फूर्ति-हेतुत्वम् अपि तत्राह—अर्थे हीति । अस्यात्मनः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अज्ञानजेऽप्य् अन्य-सम्बन्धेऽनर्थापातं स-दृष्टान्तम् आह—अर्थे हीति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु देहादीनाम् असत्त्वात् कुतस् तैः सम्बन्धः यतः संसारः स्यात् ? तत्राह—अर्थे वस्तुनि अविद्यमाने असत्य् अपि संसृतिः स्याद् एव । अयतिआत्म स्वप्ने मिथ्या-भूतेऽपि विषय-ध्यायिनो जनस्य अनर्थागमः व्याघ्र-सर्पादि-भयानुभवः ॥१३॥

———————————————————————————————————————

॥ ११.२८.१४ ॥

यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथञ्चिज् जानतो विषय-स्फूर्तिर् जीवन्-मुक्तस्यापि दुर्वारेत्य् अनिर् मोक्ष-प्रसङ्गः स्यात् तत्राह—यथा हीति । प्रस्वापः स्वप्नः । बहून् अनर्थान् बिभर्ति पुष्णातीति तथा ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव व्यतिरेकेण द्रढयति—यथा हीति ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि विवेकिनो जीवन्-मुक्तस्यापि यत् किञ्चिद् विषय-ध्यानं दुर्वारम् इत्य् अनिर्मोक्ष-प्रसङ्गस् तत्राह—यथा हीति । प्रस्वापः स्वप्नः बहून् अनर्थान् बिभर्ति, प्रतिबुद्धस्य प्राप्त-जागरस्य न मोहाय, तस्य मिथ्यात्व-निश्चयात् ॥१४॥

———————————————————————————————————————

॥ ११.२८.१५ ॥

शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः ।

अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अहङ्कारस्य सकाशाद् दृश्यन्ते नात्मनः स्वतः ।

अहङ्कारात् तु संसारो भवेज् जीवस्य न स्वतः । > कुतश्चिद् आनन्द-तनोः स्वरूपेच्छा-युतस्य सः ॥ इति > तन्त्र-भागवते ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अहङ्कार-लक्षणो देहादि-सन्निकर्ष एव संसारालम्बनम् इत्य् अन्वय-व्यतिरेकाभ्यं दर्शयति, शोकेति । सुषुप्त्य्-आदौ तेषाम् अदर्शनाद् अहं सुखीति-वच् चैतन्यं सुखीति प्रतीत्य् अभावाच् च दृश्यत्वाच् च सुखादीनां कृशत्वादि-वद् द्रष्टृ-धर्मत्वानुपपत्तेर् इति भावः । उक्तं च—

सुप्तेऽहमि न दृश्यन्ते सुख-दोष-प्रवृत्तयः । > अतस् तस्यैव संसारो न मे संसृति-साक्षिणः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वस्तु-विवेके सत्य् अहङ्कारस्यैवैते धर्मा न त्व् आत्मन इत्य् आह—शोकेति । अहङ्कारोऽत्र देह-द्वयाभिमानः यावत् खल्व् असौ स्फुरति । तावद् एव शोकादेर् दर्शनात् तद् अस्फूर्ति-मय-सुषुप्ताव् अदर्शनात् तस्यैव ते धर्मा, न तु शुद्धस्य एवं जन्म मृत्युश् चेत्य् अर्थः ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च भय-शोकादयो वस्तुत आत्म-धर्मा इत्य् आह—शोकेति । सुषुप्त्य्-आदौ तेषाम् अदर्शनाद् इति भावः । यद्यप्य् अहङ्कारस्यैव शोकादयस् तद् अपि तस्य जडत्वाद् एव तत्-तद्-अनुभव इति नास्ति तस्य संसार इति भावः ॥१५॥

———————————————————————————————————————

॥ ११.२८.१६ ॥

देहेन्द्रिय-प्राण-मनो-\ऽभिमानो

जीवोऽन्तर्-आत्मा गुण-कर्म-मूर्तिः ।

सूत्रं महान् इत्य् उरुधेव गीतः

संसार आधावति काल-तन्त्रः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : देहेन्द्रिय-प्राण-मनसाम् अभिमान-युक्तः सूत्रं महान् इत्य् आद्य् अधिकार-नामभिर् युक्तः प्रधानं जीवो हिरण्यगर्भोऽप्य् आधावति संसारे किम् उतान्ये इत्य् आशयः ।

संसार-युग्यो ब्रह्मापि सर्व-जीवेश्वरेश्वरः । > विष्ण्व्-अधीनः सदा ज्ञानी किम् उतान्येऽल्प-चित्तिनः ॥ इति सत्-तत्त्वे > ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यद्य् अहङ्कारस्य संसारस् तर्हि मुक्तिर् अपि तस्यैवेति मुक्ताव् अहङ्काराव् अशेषः प्रसज्जेत तत्राह—देहेति । देहादिष्व् अभिमानो यस्य सः । आत्मैव तेषाम् अन्तर्हितो जीवः । अत एव गुण-कर्म-मयी मूर्तिर् यस्य सः । एवं च सूक्ष्मोपाधिभिर् बहुधेव सूत्रादि-शब्दैर् गीतः संसारे परमेश्वराधीनः सर्वतो धावति, अतो नायं दोष इति भावः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतोऽहङ्कारस्य यस्य संसारस् तस्यैव मुक्तिर् अपि प्रसज्जेतेति मुक्ताव् अहङ्कार-शेषत्वम् आयातं, यतो य एवाहङ्कारः स्वरूप-निष्ठः, स एवाज्ञानेनोपसङ्क्रम्योपाध्य्-आविष्टो भवति । निरहङ्कारस्याज्ञानम् अन्यावेशश् च न सम्भवति । तस्माद् यद्यपि स्वरूपाहङ्कार-प्रतिबिम्बस्यैव ते धर्माः, तथापि परम्परातस् तत्-सम्बन्धाज् जीवो देहाभिमानी भवति । ततः संसरति मुच्यते चेत्य् आह—देहेति ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि शोक-हर्षादयोऽहङ्कारस्यैव धर्मा न त्व् आत्मनस् तर्हि कथम् आत्मा तान् धर्मान् स्वीकृत्य संसार-दुःखम् अनुभवति ? नहि कश्चित् स्व-दुःखार्थं पर-धर्मम् उपादत्ते, इत्य् अत आह—देहेति । अभिमानोऽहङ्कार एव जीवो जीवोपाधिः गुण-कर्माभ्यां मूर्तिर् यस्य तथा-भूतः सन्, संसारे निमित्ते आधावति जीवात्मानं स्व-धर्मान् ग्राहयितुं प्राप्तो भवति । काल-तन्त्रः कलयतीति काल ईश्वरस् तद्-अधीनः । कीदृशः ? देहादि-शब्दैर् उरुधैव ज्ञान-शास्त्रेण गीतः । देहश् च इन्द्रियाणि च प्राणाश् च मनश् च तेषां द्वन्द्वैक्यम् । अन्तरात्मा बुद्धिः । तेन बलाद् एवाहङ्कार-लक्षणया अविद्यया निबध्य जीवः संसार-देस् पात्यत इति भावः ॥१६॥

———————————————————————————————————————

॥ ११.२८.१७ ॥

अमूलम् एतद् बहु-रूप-रूपितं

मनो-वचः-प्राण-शरीर-कर्म ।

ज्ञानासिनोपासनया शितेन

च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अमूलं विष्णु-मूलम् । बहु-रूपेण तेनैव रूप्यते । मन-आदीनां विषयः ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अहङ्कार-कृतं बन्धम् उपपाद्येदानीं ज्ञानेन तन्-निवृत्तौ मुक्तिर् इत्य् आह—अमूलम् इति । वस्तुतो मूल-शून्यम् अज्ञातस् त बहुभी रूपैर् देवादि-शरीरै रूपितं प्रकाशितम् ऐन्द्र-जालिक-तुल्यम् इति वा । किं तत् ? तद् आह—मन इति । मन-आदीनां द्वन्द्वः । यद् वा, मन-आदिषु क्रियत इति कर्म अहङ्करणं गुरोर् उपासनया निशितेन तीक्ष्णेन ज्ञान-खङ्गेन छित्त्वा ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्य चाज्ञान-कृतत्वाद् अमूलम् इत्य्-आदि ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि कथम् अहङ्कार-बद्धाद् अस्मान्-मुक्तिर् इत्य् अत आह—अमूलम् एतद् अहङ्कार-बन्धनं वस्तुतो मूल-शून्यं, अथ च बहुभी रूपै रूपितं निरूपितम् । बहु-रूपत्वम् आह—मन इति । मन-आदीनां द्वन्द्वः । उपासनया भक्त्या शितेन तीक्ष्णीकृतेन ॥१७॥

———————————————————————————————————————

॥ ११.२८.१८ ॥

ज्ञानं विवेको निगमस् तपश् च

प्रत्यक्षम् ऐतिह्यम् अथानुमानम् ।

आद्य्-अन्तयोर् अस्य यद् एव केवलं

कालश् च हेतुश् च तद् एव मध्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : केवलं स्वतन्त्रम् आद्य्-अन्तयोर् यत् स्वतन्त्रं तद् एव मध्येऽपि स्वतन्त्रम् । परं ब्रह्म-ज्ञान-विवेकादि-स्वरूपं परिपूर्णं गुणत्वात् कालः । अन्यतो विविक्तत्वाद् विवेकः । सर्वं निगमयति प्रापयतीति निगमः । सर्वैर् आलोच्यत्वात् तपः । प्रतिप्रत्यक्षेषु स्थितत्वात् प्रत्यक्षम् । आचार्य-सम्प्रदाय-सिद्धत्वाद् ऐतिह्यम् । अनुमेयत्वाद् अनुमानम् ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव ज्ञानं स्वरूप-साधन-फलैर् निरूपयति, ज्ञानम् इति । विवेको ज्ञानम् । साधनान्य् आह—निगमो वेदः । तपः स्व-धर्मः । प्रत्यक्षं स्वानुभवः । ऐतिह्यम् उपदेशः । अनुमानं तर्कः । फलम् आह—आद्य्-अन्तयोर् यद् अस्य जगतो मध्येऽपि तद् एव केवलं न तु जगद् इति । किं तत्-कालः कलयति प्रकाशयति यस् तथा हेतुः कारणं च यत् तद् एव । एतद् उक्तं भवति, यद् अस्य विश्वस्य कारणं प्रकाशकं च ब्रह्म तद् आत्मकम् एवैतत्, न ततः पृथग् इत्य् एवं निश्चय-फलो निगमादि-साधनैर् जायते यो विवेकस् तज् ज्ञानम् इति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र पञ्चभिर्ज्ञानमेवोपदिशन् परमात्मज्ञानं तावत्साक्षादाह—ज्ञानम् इति द्वाभ्याम् । यद् एव परमात्मलक्षणं वस्तु ज्ञानादि-रूपं कालहेतुरुपादानं च तद् एवाद्यन्तयोः किन्तु केवलं निजांशिनि श्री-भगवति प्रविशति तिरोहितसर्वशक्तिकं भवतीत्य् अर्थः । तत्र ज्ञानं विवेकस्य कारणं विवेको विचारः कालो निमित्तं हेतुरुपादानं पुरुष इति ज्ञेयम् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् च ज्ञानं विवेक एव । तस्य साधनान्य् आह—निगमो वेदः, तपः स्वधर्मः, प्रत्यक्षं स्वानुभवः, ऐतिह्यम् उपदेशः, अनुमानं तर्कः । फलम् आह—आद्य्-अन्तयोर् अस्य जगतो यद् एव तद् एव केवलं मध्येऽपि, न तु जगत् । तद् एव किं ? कालः कलयति प्रकाशयतीति कालो ब्रह्मैव हेतुः कारणं च ब्रह्मैव ॥१८॥

———————————————————————————————————————

॥ ११.२८.१९ ॥

यथा हिरण्यं स्वकृतं2 पुरस्तात्

पश्चाच् च सर्वस्य हिरण्-मयस्य ।

तद् एव मध्ये व्यवहार्यमाणं

नानापदेशैर् अहम् अस्य तद्वत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : हिरण्य-खचितत्वेन हिरण्य-प्रधानं हिरण्मयम् । शङ्ख-मञ्चक-रथादिषु मध्येऽपि केवलं प्राधान्येन व्यवहार्यमाणं तद् एव ।

रथोपस्थे परीकारात् पूर्वं दारु-मयाद् रथात् । > सुवर्णं व्यवहाराय मुख्यं रथ-परिष्कृतम् ॥ > मध्ये चास्ते रथोपस्थान् निष्कृष्य पृथग् आस्थितम् । > यद्वद् एवं हरिः साक्षाज् जगद् देहात् पृथक् स्थितिः ॥ > पूर्वं जगति-संस्थश् च जगद् अस्ते पृथक्-स्थितिः । > स एव मुख्यो जगतः स्वातन्त्र्यात् परमेश्वरः ॥ इति ब्रह्म-तर्के > ।

सुर-पितृ-मनुजादि-कल्पनादिभिर् इत्य् आद्य्-अन्तर्याम्य्-अपेक्षया ।

यथा सुवर्णम् अकृतं क्रियते कुण्डलादिकम् । > पुनर् एकीभवत्य् अद्धा तद्वद् विष्णुर् अजोऽपि सन् । > सुराद्य्-अन्तः-स्थितो भूत्वा पुनर् एकीभवेद् विभुः ॥ इति वचनात् । > तत्-तन्-नियामकस्यैव नाम सर्वं सुरादिकम् । > तत्-सम्बन्धाद् उदीर्येत व्यवहृत्यै सुरादिषु ॥ इति शब्द-निर्णये । > एकलं केवलं चेति स्वतन्त्रम् अभिधीयते । > स्वतन्त्रस् तु हरिः साक्षात् परिष्कृत-हिरण्यवत् ॥ इति प्रवृत्ते । > प्रत्येकं न तु दार्व्-आदि स्वतन्त्र-विक्रिया-गतम् । > महा-फलं सात् स्वर्णस् तु स्वतन्त्र-विक्रियोपगम् । > तद्वत् स्वतन्त्रो भगवान् प्रवृत्ताव् अन्यद् अन्यथा ॥ इति च > ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र नाना-भेद-व्यवहारालम्बनस्यापि विश्वस्य कारण-मात्रातमकत्वं स-दृष्टान्तम् आह—यथेति । स्वकृतं सुष्ठु कुण्डलादि-रूपेणाविरचितं यद् धिरण्यम् । कीदृशं ? हिरण्-मयस्य कुण्डलादेर् उत्पत्तेः पुरस्तान् नाशाच् च पश्चान् मध्ये च यद् अस्ति कटकं कुण्डलम् इत्य्-आदि-नाना-व्यपदेशैर् व्यवहारं प्राप्यमाणम् अपि तद् एव यथा तद्वद् अस्य विश्वस्य कारण-भूतोऽहम् एव नाना-व्यवहारालम्बनं, न तु मत्तः पृथग् विश्वम् इति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेति । अत एव स एव परमार्थतः सर्वावयवीति भावः । किं च, जीव-चैतन्यस्य तत्र तत्रान्वयात् सुषुप्त्य्-आदौ तद्-व्यतिरेकेऽपि स्वतोऽवस्थानात् तस्मिन् व्यष्ट्य्-उपाधीनां रज्जौ सर्पावयवानाम् इवारोपितत्वम् एव, तस्य तु रज्जुवत् सत्यत्वं सिद्ध्यति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुकृतं सुष्ठु कुण्डलादि-रूपेण विरचितम् अपि हिरण्यम् एव । हिरण्मयस्य कटक-कुण्डलादेः पुरस्तात् पश्चाच् च वर्तमानं यत् तद् एव मध्येऽपि नानापदेशैः कुण्डलादि-नामभिर् व्यवहार्यमाणम् अपि न वस्तुतस् तद् अन्यत्, तद्वद् एवाहम् अस्य विश्वस्य पुरस्तात् पश्चान् मध्येऽपि ॥१९॥

———————————————————————————————————————

॥ ११.२८.२० ॥

विज्ञानम् एतत् त्रियवस्थम् अङ्ग

गुण-त्रयं कारण-कार्य-कर्तृ ।

समन्वयेन व्यतिरेकतश् च

येनैव तुर्येण तद् एव सत्यम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मोक्षदं संसारदं तमः-प्रदं चेति त्रिपदस्थं विज्ञानम् । तद्-इच्छायाः तत एतत् सर्वम् अस्ति, अन्यथा नास्तीत्य् अन्वय-व्यतिरेकौ ॥२०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं कार्यस्य कारण-मात्रात्मकताम् उक्त्वा, प्रकाश्यस्य प्रकाशकात्मकताम् आह—विज्ञानम् इति । त्रिय्-अवस्थम् । य-कारस्य पृथक् पाठश् छन्दोऽनुरोधेन । जाग्रद्-आदि-त्र्य्-अवस्थं यद् विज्ञानं मनः, तद्-अवस्था-कारण-रूपं च यद् गुण-त्रयम् । यच् च कारण-कार्य-कर्तृ, कारणम् अध्यात्मं, कार्यम् अधिभूतं, कर्तृ अधिदैवम् । एवं गुण-त्रय-कार्य-भूतं त्रि-विधं जगत् । एतद् येन तुर्येण सामान्य-ज्ञन-मात्रेण समन्वयेन भवति, येनानुगतं प्रकाशत इत्य् अर्थः । तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति[क।उ। २.२.१५] इति । तथा, चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः[तै।उ। २.७] इत्य्-आदि-श्रुतेश् च । ननु विशेष-विज्ञान-व्यतिरेकेण न तुर्यं नामोपलभामहे तत्राह—व्यतिरेकतश् च समाध्य्-आदौ यद् अस्ति, तद् एव सत्यम् इति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं परमात्म-चैतन्य-समष्ट्य्-उपाध्योर् अपि ज्ञेयम् इत्य् आह—विज्ञानम् इति द्वाभ्याम् । यो विज्ञाने तिष्ठन्न्[बृ।आ।उ। ३.७.२२] इत्य्-आदि-श्रुतेः । विज्ञानं जीव-चैतन्यम् एव गुण-त्रयोपाधिकं सत् त्रियवस्थं भवति । तद् एवाह—कार्य-कारण-कर्त्र् इति तत्-तद्-रूपायमाणम् इत्य् अर्थः । किन्तु समन्वयेनेत्य् आह—तत्र त्र्य्-अवस्थम् इति वक्तव्ये व्याडि गालवयोर् मतेनैके यणा व्यवधीयन्त इति शब्द-स्मृतेः । गुणानां त्रयं यस्मिन्न् इति बहुव्रीहिः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं कार्यस्य कारण-मात्रात्मकताम् उक्त्वा प्रकाश्यस्य प्रकाश-मात्रात्मकताम् आह—विज्ञानं बुद्धि-तत्त्वम् । तिस्रो जागराद्या अवस्था यत्र तत् त्रियवस्थम् । व्याडि गालवयोर् मतेन य-कार-व्यवधानम् । तद्-अवस्था-कारण-भूतं यद् गुण-त्रयं यच् कारण-कार्य-कर्तृ—कारणम् अध्यात्मं, कार्यम् अधिभूतं, कर्तृ अधिदैवम् । एवं गुण-त्रय-कार्य-भूतं त्रि-विधं जगत् । एतद् येन तुर्येण सामान्य-ज्ञन-मात्रेण समन्वयेन भवति, येनानुगतं प्रकाशत इत्य् अर्थः । तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति[क।उ। २.२.१५] इति । तथा, चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः[तै।उ। २.७] इति श्रुतेः । ननु विशेष-विज्ञान-व्यतिरेकेण न तुर्यम् उपलभामहे ? तत्राह—व्यतिरेकतः समाध्य्-आदौ यद् अस्ति, तद् एव सत्यम् ॥२०॥

———————————————————————————————————————

॥ ११.२८.२१ ॥

न यत् पुरस्ताद् उत यन् न पश्चान्

मध्ये च तन् न व्यपदेश-मात्रम् ।

भूतं प्रसिद्धं च परेण यद् यत्

तद् एव तत् स्याद् इति मे मनीषा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तद् एव केवलं सत्यम् इति सर्वत्र सम्बध्यते ।

स्वातन्त्र्यम् एव सत्यत्वं विष्णोर् अन्यस्य सत्यता । > प्रवाहतः सदास्तित्वं पुं-प्रकृत्योः सदास्तिता ॥इति वस्तु-तत्त्वे ।

मध्ये च तत् केवलं नेति सम्बध्यते ।

तत् स्वातन्त्र्येण नैवास्ति यद् उत्पत्ति-विनाशवत् । > स्वातन्त्र्येणास्तिता तस्य यत् सत्ता-ज्ञानदं सदा ॥इति वैभवे । > जगतो नास्थिता सैव या पराधीनता सदा । > अभावस् तु कुतस् तस्य यद् विभातीह सर्वदा ॥ इति प्राकाश्ये > ॥२१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं काल-त्रयेऽप्य् अव्यभिचारिणः सत्यत्वम् उक्तम् । व्यभिचारिणस् त्व् असत्यताम् आह—न यद् इति । मध्ये च तत् पृथक् नास्ति, किन्तु व्यपदेश-मात्रम् । कुतः ? यतो यद् यत् परेणान्येन भूतं जातं प्रसिद्धं प्रकाशितं च, तत् तद् एव कारण-प्रकाशकतवन्-मात्रं स्यात्, न पृथग् इति मे मनीषा बुद्धिः । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४], सर्वं खल्व् इदं ब्रह्म[छा।उ। ३.१४.१] इत्य्-आदि-श्रुतेः । कारण-प्रकाशक-व्यतिरेकेण कार्यस्य प्रकाश्यस्य चानुपलम्भाद् इति भावः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुण-त्रयोपाधिकम् इत्य् एव विवृणोति—न यद् इति ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं काल-त्रयेऽप्य् अव्यभिचारिणः सत्यत्वम् उक्तम् । व्यभिचारिणस् त्व् असत्यताम् आह—न यद् इति । मध्ये च तत् पृथक् नास्ति, किन्तु व्यपदेश-मात्रं नाम-मात्रम् । कुतः ? यतो यद् यत् परेणान्येन भूतं जातं प्रसिद्धं प्रकाशितं च, तत् तद् एव कारणं प्रकाशकं तवन्-मात्रं स्यात्, न ततः पृथग् इति मे मनीषा बुद्धिः ॥२१॥

———————————————————————————————————————

॥ ११.२८.२२ ॥

अविद्यमानोऽप्य् अवभासते यो

वैकारिको राजस-सर्ग एषः ।

ब्रह्म स्वयं-ज्योतिर् अतो विभाति

ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अविद्यमानता नाम जगतः परतन्त्रता ।

यथाशक्तस् तु पुत्रादिर् असन्न् इत्य् उच्यते जनैः ॥ इति विवेके ।

अतो ब्रह्मण एव विभाति । द्वितीयं ब्रह्म प्रकृतिः । आत्मा जीवः प्रकृतीन्द्रिय-विषय-जीवादि-विचित्रं जगत् ब्रह्मत एव विभातीत्य् अर्थः ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं सामान्यतः कार्य-प्रकाश्ययोः कारण-प्रकाशकाभ्यां भेदम् उपपाद्य प्रस्तुते तद् उभय-विवेक-पूर्वकं प्रपञ्चस्य ब्रह्माभेदम् आह—अविद्यमान इति । योऽयं वैकारिको विकार-समूहः स एव प्राग् अविद्यमानो राजस-सर्गः । रजो-द्वारेण ब्रह्म-कार्य-भूत इत्य् अर्थः । अवभासतेऽपि ब्रह्म-प्रकाश्यश् चेत्य् अर्थः । ब्रह्म तु स्वयं स्वतः सिद्धं, न तु कार्यम् इत्य् अर्थाह् । ज्योतिश् च प्रकाशकम् इत्य् अर्थः । अतः कारणाद् इन्द्रियाणि च अर्थास् तन्-मात्राणि चात्मा मनश् च । देवानाम् अप्य् उपलक्षणम् । विकाराः पञ्च-भूतानि । एवं चित्रं ब्रह्मैव भातीति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः शुद्धे ब्रह्मणि अविद्यमान एव प्रपञ्चः तत्-कारण-स्व-शक्ति-शवलतयाभिप्रेते तु विद्यत एव । तद्-वैचित्रीत्य् आह—अविद्यमान इति । टीकायाम् अवभासतेऽपीति पूर्वेणापिना योज्यते अस्यैव चार्थम् आह—ब्रह्म-प्रकाश्यं चेत्य् अर्थः ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सामान्यतः कार्य-प्रकाश्ययोः कारण-प्रकाशकाभ्याम् अभेदं व्युत्पाद्य प्रस्तुते तद् उभय-विवेक-पूर्वकं प्रपञ्चस्य ब्रह्माभेदम् आह—अविद्यमानः प्राग् असन्न् अपि योऽयम् अवभासते विद्यमानत्वेन भाति, वैकारिको विकारेभ्यो महद्-आदिभ्यो जातः, स एव राजस-सर्गः रजो-द्वारेण ब्रह्म-कार्य-भूत इत्य् अर्थः । ब्रह्म तु स्वयं स्वतः सिद्धं, न तु कार्यम् । ज्योतिः प्रकाशकः । अतो हेतोः इन्द्रियाणि च अर्थास् तन्-मात्राणि चात्मा मनश् च विकाराः पञ्च-भूतानि च । एतैश् चित्रं चित्रं विश्वम् इदं ब्रह्मैव भातीति ॥२२॥

———————————————————————————————————————

॥ ११.२८.२३ ॥

एवं स्फुटं ब्रह्म-विवेक-हेतुभिः

परापवादेन विशारदेन ।

छित्त्वात्म-सन्देहम् उपारमेत

स्वानन्द-तुष्टोऽखिल-कामुकेभ्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—एवं निगम-तपः-प्रत्यक्षैतिह्यानुमानैः स्फुटं यथा भवति, तथा ब्रह्म-विवेक-हेतुभिस् तथा परस्य देहादेर् अपवादेनात्मत्व-निरासेन च । कीदृशेन ? विशारदेन निपुणेन । गुरुणा निमित्त-भूतेनेति वा । आत्म-विषयं सन्देहं छित्त्वा स्वानन्द-तुष्टः सन्न् अखिलेभ्यः कामुकेभ्य इन्द्रियादिभ्य उपारमेत निःसङ्गो भवेत् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानासिनेत्य् उक्तम् एवोपसंहरति—एवम् इति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं प्रत्यक्षैतिह्यानुमानैः स्फुटं यथा स्यात् तथा ब्रह्म-विवेक-हेतुभिः, तथा परस्य देहादेर् अपवादेनात्मत्व-निरासेन च । कीदृशेन ? विशारदेन निपुणेन । आत्म-विषयकं सन्देहं छित्त्वा स्वानन्द-तुष्टः सन्न् अखिलेभ्यः कामुकेभ्य इन्द्रियेभ्य उपारमेत निःसङ्गो भवेत् ॥२३॥

———————————————————————————————————————

॥ ११.२८.२४ ॥

नात्मा वपुः पार्थिवम् इन्द्रियाणि

देवा ह्य् असुर् वायुर्-जलं हुताशः ।

मनोऽन्न-मात्रं धिषणा च सत्त्वम्

अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

वायुर् एव स्वयं प्राणस् तत्रस्थे चोदतेजसी ।

उदेन तेजसा चैव प्राणस्य हि कृतं वपुः ॥ इति प्रकाशिकायाम् । > प्राणस्य वायु-रूपस्य भूत-त्रय-कृतं वपुः । > यतो हि पार्थिवं नात्र खं चात्यल्पम् उदाहृतम् ॥ इति सद्धारणे ।

सत्त्वं मूल-बुद्धिः अहं शृणोम्य् अहं स्पृशाम्य् अहं पश्यामीति सर्वार्थेषु समत्वाद् अहङ्कारोऽर्थ-साम्यम् ।

न देहो नेन्द्रिय-प्राण-मनो-बुद्ध्य्-अहम्-आदयः । > विष्णुश् चिद्-एण१अ-तनुः स हि जीवाधिपः सदा ॥ इति सात्वते > ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : परापवादं प्रपञ्चयति—वपुर् आत्मा न भवति, पार्थिवाद् घटवत् । तथा इन्द्रियाणि तद्-अधिष्ठातारो वा देवा असुः प्राणो धिषणा बुद्धिः सत्त्वं चित्तम् अहङ्कृतिर् इत्य् एते आत्मा न भवन्ति । कुतः ? अन्न-मात्रम् । अन्नोपष्टभ्यत्वाच् छरीरवत् । वायुर् जलं च हुताशस् तेजः खं क्षितिर् इति पञ्च-भूतान्य् अर्थाः शब्दादयः साम्यं प्रकृतिर् नात्मा जडत्वाद् घटवद् इति । यद् वा, हि-शब्देनानुमानान्तराणि सूचितानि । तद् यथा इन्द्रियाण्य् आत्मा न भवन्ति, करणत्वाद् वास्यादिवत्, देवाश् च वैकारिकत्वान् मनोवत्, प्राणश् च वायुत्वाद् बाह्य-वायुवद् इत्य्-आदि ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परापवादेन रश्मि-स्थानीयत्वं पदार्थं तावन् निष्कृष्य दर्शयतिइ—नात्मेति ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परापवादं प्रपञ्चयति—वपुर् आत्मा न भवति । कुतः ? पार्थिवं पार्थिवत्वात् घटवत् । तथा इन्द्रियाणि तद्-अधिष्ठातारो देवाः, असुः प्राणः, धिषणा बुद्धिः, सत्त्वं चित्तम्, अहङ्कृतिर् इत्य् एते आत्मा न भवन्ति । कुतः ? अन्न-मात्रम् । अन्नोपष्टभ्यत्वाच् छरीरवत् । वायुर् जलं च हुताशस् तेजः खं क्षितिर् इति पञ्च-महा-भूतानि, अर्थाः शब्दादयः, साम्यं प्रकृतिश् च आत्मा न जडत्वाद् घटवद् इति ॥२४॥

———————————————————————————————————————

॥ ११.२८.२५ ॥

समाहितैः कः करणैर् गुणात्मभिर्

गुणो भवेन् मत्-सुविविक्त-धाम्नः ।

विक्षिप्यमाणैर् उत किं नु दूषणं

घनैर् उपेतैर् विगतै रवेः किम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विवेक-ज्ञानवतो मुक्तस्य नेन्द्रियादि-कृत-गुण-दोष-संबन्ध इत्य् आह—समाहितैर् इति । मत्-सुविविक्त-धाम्नः मम सुष्ठु विविक्तं धाम स्वरूपं येन तस्य । प्रकाशकस्य प्रकाश्य-गुण-दोषा न भवन्तीति रवि-दृष्टान्तेनोक्तम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्तु मत्-स्वरूप-निष्ठस् तस्य त्वम्-पदार्थ-शोधनापेक्षापि नास्तीत्य् आह—समाहितैर् इति । समाहितैर् विक्षिप्यमाणैर् वा अन्य-कृत-विक्षेपोऽपि तं न स्पृशतीति भावः ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं विवेक-ज्ञानवतो मद्-भक्तस्य नेन्द्रियादि-कृत-गुण-दोष-सम्बन्ध इत्य् आह—समाहितैर् इति । मम सुष्ठु विविक्तं विचारितं धाम स्वरूपं येन, तस्य इन्द्रियैः समाहितैर् निश्चलैर् वा को गुणः ? विक्षिप्यमाणैश् चञ्चलैर् वा को दोषः ? ॥२५॥

———————————————————————————————————————

॥ ११.२८.२६ ॥

यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर्

गतागतैर् वर्तु-गुणैर् न सज्जते ।

तथाक्षरं सत्त्व-रजस्-तमो-मलैर्

अहं-मतेः संसृति-हेतुभिः परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असङ्ग-ब्रह्मत्वेनावस्थितस्य न केऽपि गुण-दोषा इत्य् आकाश-दृष्टान्तेनाह—यथेति । वाय्व्-आदीनां शोषण-दहन-क्लेदन-रजो-धूसरत्वादिभिर् गतागतैर् आगमापायिभिर् ऋतु-गुणैः शीतोष्णादिभिर् वा । अहं-मतेर् अहङ्कारात् परम-क्षरं संसृति-हेतुभिर् न युज्यते । यद् वा, अहङ्कारस्य संसृति-हेतुभिर् इति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मण्डल-स्थानीय-तत्-पदार्थे तु सर्वथैव तत्-सम्बन्धो नास्तीति दर्शयति—यथेति । अहं-मतेर् देहाद्य्-उपाध्य्-अहङ्कार-मयस्य जीवस्य परं केवलं संसृति-हेतुः, न त्व् अक्षरस्य अविचलित-ज्ञानादि-शक्तेस् तस्येत्य् अर्थः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवन्-मुक्तः खलु ब्रह्मैव भवेद् अतस् तत्र न कोऽपि गुण-दोषा इत्य् आकाश-दृष्टान्तेनाह—यथेति । वाय्व्-आदीनां शोषण-दहन-क्लेदन-रजो-धूसरत्वादिभिर् गतागतैर् आगमापायिभिर् ऋतु-गुणैः शीतोष्णादिभिर् नभो तथा न युज्यते, तथैवाहं-मतेर् अहङ्कारात् परम-क्षरं ब्रह्म संसृति-हेतुभिर् सत्त्वादि-मलैर् न युज्यते ॥२६॥

———————————————————————————————————————

॥ ११.२८.२७ ॥

तथापि सङ्गः परिवर्जनीयो

गुणेषु माया-रचितेषु तावत् ।

मद्-भक्ति-योगेन दृढेन यावद्

रजो निरस्येत मनः-कषायः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भगवतो गुण-दोषाभावेऽपि जीवस्य सङ्गो वर्जनीय एव मुक्ति-पर्यन्तम् ।

समाहितेन जीवेन विक्षिप्तो वा न तु क्वचित् । > विशेषो विद्यते विष्णुस् तथापि तु समाहिते । > प्रीतिर् भवति वै नित्यं सर्व-धर्म-कृतोऽपि च ॥ इति > पाद्मे॥२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मुक्तवद् असम्यग् ज्ञानी न यथेष्टम् आचरेद् इत्य् आह द्वाभ्याम्—तथापीति । गुणेषु विषयेषु । रजो रागः । मनसः कषाय इति दुर्निरासताम् आह ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : असम्यग् ज्ञानिनं सङ्कोचयन् भक्ति-योगोपदेशेन कृतार्थयति—तथापीति द्वाभ्याम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुक्तवद् असम्यग् ज्ञानी न यथेष्टम् आचरेद् इत्य् आह द्वाभ्याम् । गुणेषु विषयेषु रजो रागः ॥२७॥

———————————————————————————————————————

॥ ११.२८.२८ ॥

यथामयोऽसाधु चिकित्सितो नृणां

पुनः पुनः सन्तुदति प्ररोहन् ।

एवं मनोऽपक्व-कषाय-कर्म

कुयोगिनं विध्यति सर्व-सङ्गम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव दृष्टान्तेनोपपादयति—यथेति । नृणाम् आमयो रोगः । असाध्व् असम्यक् यथा भवति तथा । अपक्व-कषाय-कर्म अदग्धाः कषाया रागादयस् तन्-मूलानि कर्माणि यस्मिंस् तत् । अत एव सर्व-सङ्गं सर्वेषु पुत्रादिषु सज्जमानं मनः कुयोगिनम् असम्यग्-ज्ञानिनं विध्यति भ्रंशयति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असाधु असम्यग् यथा स्यात् तथा चिकितित्सितः । न पक्वाः कषायान् मूल्यानि कर्माणि च यस्मिंस् तन् मनः कर्तृ ॥२८॥

———————————————————————————————————————

॥ ११.२८.२९ ॥

कुयोगिनो ये विहितान्तरायैर्

मनुष्य-भूतैस् त्रिदशोपसृष्टैः ।

ते प्राक्तनाभ्यास-बलेन भूयो

युञ्जन्ति योगं न तु कर्म-तन्त्रम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथञ्चिद् विषय-सङ्गे यदि योग-भ्रंशः स्याद् अलं तर्हि सोपायेन योग-मार्गेण । तत्राह—कुयोगिन इति । मनुष्य-भूतैर् वन्धु-शिष्यादि-रूपैस् त्रि-दशैर् उपसृष्टैः प्रेरितैः । तथा च श्रुतिः—यस्मात् तद् एषां न प्रियं यद् एतन् मनुष्या विदुः इति । भूयो जन्मान्तरे, न तु कर्म-तन्त्रं कर्म-विस्तारम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिदशोपसृष्टैर् देव-प्रेरितैर् मनुष्य-भूतैर् बन्धु-शिष्यादि-रूपैर् न तु स्वीय-भोगाभिनिवेशैः । अत एव यदि न समुद्धरन्ति यतयो हृदि काम-जटा [भा।पु। १०.८७.३९]इत्य् अत्रोक्ता यतय एतभ्यो भिद्यन्त इति ज्ञेयम् । तथा च—यस्मात् तद् एषां न प्रियं यद् एतन् मनुष्या विदुः इति। भूयो जन्मान्तरेऽपि ॥२९॥

———————————————————————————————————————

॥ ११.२८.३० ॥

करोति कर्म क्रियते च जन्तुः

केनाप्य् असौ चोदित आ-निपातात् ।

न तत्र विद्वान् प्रकृतौ स्थितोऽपि

निवृत्त-तृष्णः स्व-सुखानुभूत्या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विदुषाम् अपि सर्वथा कर्म दुष्परिहरम् इति पुनः संसारः स्यात् । अत आह—करोतिति । विदुषोऽन्योऽसौ जन्तुर् देह एव भोजनादि-कर्म करोति, क्रियते विक्रियते च, तेन कर्मणा पुष्ट्य्-आद्य् अपि प्राप्नोतीत्य् अर्थः । केनापि संस्कारादिना चोदित आनिपातान् मरण-पर्यन्तं करोति । विद्वांस् तु प्रकृतौ देहे स्थितोऽपि कर्मणि न विक्रियते, निरहङ्कारित्वात् । हर्ष-विसादादिभिः संसारं न प्राप्नोति ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मीव ज्ञानी पुनर् न बन्धनं प्राप्नोतीत्य् आह—करोतिति । असौ जीवः केनाप्य् अन्तर्यामिणा चोदितः प्रेरितः कर्म करोति । तथा क्रियमाणेन कर्मणा तेनासौ जन्तुः शूकर-कुक्कुरादि-योनि-गतोऽपि क्रियते, निपातो लयस् तत्-पर्यन्तम् । तत्र तन्-मध्ये विद्वान् ज्ञानी तु प्रकृतौ देहे स्थितोऽपि कर्म न करोति, नापि कर्मणा तथा-भूतः क्रियते ॥३०॥

———————————————————————————————————————

॥ ११.२८.३१ ॥

तिष्ठन्तम् आसीनम् उत व्रजन्तं

शयानम् उक्षन्तम् अदन्तम् अन्नम् ।

स्वभावम् अन्यत् किम् अपीहमानम्

आत्मानम् आत्म-स्थ-मतिर् न वेद ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्म-स्थ-मतिः परमात्म-स्थ-मतिः ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, आस्तां तावद् दैहिक-कर्मभिर् विकार-शङ्का, यतो देहम् अप्य् असौ न पश्यतीत्य् आह—तिष्ठन्तम् इति । उक्षन्तं मूत्रयन्तम् । स्वभाव-प्राप्तम् अन्यद् अपि दर्शन-स्पर्शनादि ईहमानं कुर्वन्तम् आत्मानं देहम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानी देहस्थोऽपि देहं नानुसन्धत्ते इत्य् आह—तिष्ठन्तम् इति । उक्षन्तं मूत्रयन्तं, आत्मानं देहं, आत्मस्थ-मतिः परमात्मनि स्थित-धीः ॥३१॥

———————————————————————————————————————

॥ ११.२८.३२ ॥

यदि स्म पश्यत्य् असद्-इन्द्रियार्थं

नानानुमानेन विरुद्धम् अन्यत् ।

न मन्यते वस्तुतया मनीषी

स्वाप्नं यथोत्थाय तिरोदधानम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : परमात्मनोऽन्यत् पारतन्त्र्यादेः


नाना-मान-विरुद्धं हि स्वातन्त्र्यं जगतः सदा । > स्वतन्त्रो भगवान् विष्णुर् एक एव न संशयः ॥ इति च । > वस्तुतया स्वतन्त्रत्वेन विरुद्धं तथा न मन्यते । > अस्त्य् एव स्वाप्नम् अखिलं वासना-रूपम् आत्मनि ॥ > जाग्रद् एतद् इति ज्ञानं यत् तद् एव भ्रमात्मकम् । > तद्वज् जगद् इदं सर्वं विद्यमानं न संशयः । > स्वतन्त्रम् एतद् इति तु यज् ज्ञानं तद् भ्रमात्मकम् ॥ इति च । > उत्थितो नैव जाग्रत्त्वं क्वचित् स्वप्नस्य पश्यति । > स्वतन्त्रम् एवं जगतो ज्ञानवान् नैव पश्यति ॥ इति विवेके > ॥३२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इन्द्रियवतः सर्वथा कथम् अदर्शनं संभवति ? तत्राह—यदि स्मेति । यद्य् अप्य् असतां बहिर्-मुखानाम् इन्द्रियाणाम् अर्थं पश्यति, तथापि नानात्वान् मिथ्या-स्वप्नवद् इत्य् अनुमानेन विरुद्धं बाधितं सत्, अन्यद् आत्म-व्यतिरिक्तं मनीषी वस्तुतया न मन्यते, स्वप्नाद् उत्थाय प्रबुध्य संस्कार-मात्रेण स्वाप्नं विषयं स्फुरन्तम्, अत एव स्वयम् एव तिरो-भवन्तं यथा, तद्वत् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यदि कदाचित् समाधि-भङ्गे सति नानाभूतम् असद्-इन्द्रियार्थं पश्यति, तद् अपि कार्यं कारणाभिन्नं पटवद् इत्य् अनुमानेन विरुद्धं बाधितं सत् अन्यद् आत्म-व्यतिरिक्तं मनीषी वस्तुतया न मन्यते, तथा स्वप्नाद् उत्थाय स्थितः पुरुषः स्वाप्नं विषयं संस्कार-मात्रेण स्फुरन्तं वस्तुतया न मन्यते, यतः स्वयम् एव तिरोदधानम् ॥३२॥

———————————————————————————————————————

॥ ११.२८.३३ ॥

पूर्वं गृहीतं गुण-कर्म-चित्रम्

अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग ।

निवर्तते तत् पुनर् ईक्षयैव

न गृह्यते नापि विसृज्य आत्मा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भगवद्-गुण-विषयं तत्-कर्म-विषयं चेति गुण-कर्म-चित्रम् । आत्मनि परमात्म-विषयम् । एतन् न जानामीत्य् अप्य् अविविक्तम् ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं “आत्मा न विक्रियते” इत्य् उक्तम् । नन्व् एतद् अनुपपन्नं, बद्धावस्थायां त्यज्यमानत्वात्, मुक्तावस्थायां च गृह्यमाणत्वात्, न हि व्रीहयोऽवघातेन व्रीहि-भाव-त्यागतस् तण्डुली-भावेन गृह्यमाणा न विक्रियन्ते तत्राह—पूर्वम् इति । बद्धावस्थायां गुणैः कर्मभिश् च चित्रम् अज्ञान-कार्यं देहेन्द्रियादि-लक्षणम् आत्मन्य् अध्यासेनाविविक्तं गृहीतम् आसीत् तद् एव पुनर् ज्ञानेन निवर्तते । आत्मा तु न केनापि रूपेण गृह्यते, नापि त्यज्यते । अयं भावः, मुक्तेः क्रिया-फलत्वे भवेत् तावद् आत्मनो विकारः । तस्यास्त्वारोपिता-ज्ञान-मात्र-निवृत्ति-रूपत्वान्नात्म-संस्पर्शित्वं बन्ध-मोक्षयोः, अतो न विकार इति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न चैवं गुण-कर्मणोः ग्रहण-त्यागतस् त्वम्-पदार्थो विकारी सम्भाव्येत अज्ञान-मात्रतः सम्बन्धात् तयोर् इत्य् आह—पूर्वम् इति ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अज्ञान-निवर्तकं ज्ञानम् एवोपादेयम् इत्य् आह—पूर्वं बद्धावस्थायां गुण-कृत-कर्मभिर् विचित्रं यत् अज्ञानम् एवात्मनि त्वं-पदार्थ-विषये गृहीतम् आसीत् । कीदृशं ? अविविक्तम् । कुत आगतं किं स्वरूपम् एतद् इत्य् अविचारितम्, तद् एवाज्ञानं युक्त-दशायाम् ईक्षया ज्ञानेन निवर्तत इति । अतः खलु ज्ञानम् एव पूर्वोत्तर-दशयोर् अगृहीतं च भवेत् । त्वं-पदार्थ आत्मा तु न गृह्यते, नापि विसृज्यते । कदापीति स त्व् एक-रस एवेति भावः ॥३३॥

———————————————————————————————————————

॥ ११.२८.३४ ॥

यथा हि भानोर् उदयो नृ-चक्षुषां

तमो निहन्यान् न तु सद् विधत्ते ।

एवं समीक्षा निपुणा सती मे

हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अन्यैर् ज्ञातोऽपि चाज्ञाते न विशेषो हरेः क्वचित् ।

तेषाम् एव विशेषः स्याद् अज्ञानापगमेन तु ॥ इति च ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव दृष्टान्तेन स्पष्टयति—यथेति । न तु पूर्वम् एव सत् घटादि पुनर् विधत्ते करोति । मे या समीक्षा आत्म-विद्या ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य च मद्-अंशस्य प्रकाशो मद्-अनुग्रहेणाज्ञान-लोपात् स्वत एव भवतीति दृष्टान्तेनाह—यथा हीति । न तु पूर्ववत् यत् तेजोऽंश-लक्षणं सद् वस्तु तत् पुनर् विधत्त इत्य् अर्थः । मे समीक्षा कृपा-दृष्टिः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदा वर्तमान एवात्मा ज्ञाने सति स्वत एवोपलभ्यते, तस्मिन्न् असति नोपलभ्यते, सूर्य-प्रकाशे सति असति च घट-पटादिर् इवेत्य् आह—यथा हीति । चक्षुषस् तम आवरणम् एव हन्यात्, न तु तत् चक्षुर् विधत्ते । यतः सच् चक्षुस् तु सदैव वर्तमानम् एक-रसम् एवेति भावः । एवं निपुणा मे समीक्षा दृढं ज्ञानं मदीया विद्या-शक्तिर् इत्य् अर्थः । पुरुषस्य त्वं-पदार्थ-बुद्धेर् बुद्ध्य्-उपहितस्य तमिस्रं ज्ञानावरणम् एव हन्यात् ॥३४॥

———————————————————————————————————————

॥ ११.२८.३५ ॥

एष स्वयं-ज्योतिर् अजोऽप्रमेयो

महानुभूतिः सकलानुभूतिः ।

एकोऽद्वितीयो वचसां विरामे

येनेषिता वाग्-असवश् चरन्ति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ज्ञानानन्दाद्य्-अभिन्नत्वाद् एकः सर्वोत्तमत्वतः ।

अद्वितीयो महा-विष्णुः पूर्णत्वात् पुरुषः स्मृतः ॥ इति च ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो निर्विकारतां प्रपञ्चयति—एष इत्य् अनेनापरोक्षतया नित्य-प्राप्तस्यात्मनः प्राप्तिं महानुभूतिर् इति देश-काल-परिच्छेदाभावेनास्तित्व-वृद्धि-विपरिणामापक्षयनाशान् । स्वयं-ज्योतिष्ट्वादौ हेतुः—सकलानुभूतिर् इति । एकोऽद्वितीय इति विकार-हेतोर् अन्यस्याभावान् न कोऽपि विकार इति दर्शयति ।

ननु श्रुति-विषयस्य कथं स्वयं-ज्योतिष्ट्वादि ? तत्राह—वचसां विरामेऽगोचरत्वेन निवृत्तौ सत्याम् । तथा च श्रुतिः, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह[तै।उ। २.४.१] इति । तत्र हेतुः, येनेषिताः प्रेषिताः । तथा च श्रुतिः, केनेषितं पतति प्रेषितं मनः ? केन प्राणः प्रथमः प्रैति युक्तः ? केनेषितां वाचम् इमां वदन्ति ? चक्षुः श्रोत्रं क उ देवो युनक्ति ? श्रोत्रस्य श्रोत्रं यन् मनसो मनो यद् वाचो ह वाचं प्राणस्य प्राणम् उत चक्षुषश् चक्षुः?[के।उ। १.१-२] इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततस् तत्-पदार्थस्यापि प्रकाशस् तत्-तत्-सर्व-प्रकाशम् आत्म-साक्षात्-कृत्य स्वयम् एव स्याद् इत्य् आह—एष इति । तद्-विज्ञाने सर्व-विज्ञानात् सकलानुभूतिः । तत्र हेतुर् महानुभूतिर् इति ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च शुद्धेन त्वं-पदार्थेन आत्मना परमात्मनं सूर्य-स्थानीयं भक्त्या किं लयं पश्येत् ? स तु जीवात्म-विलक्षण एवेत्य् आह—एष इति । स्वयं-ज्योतिः स्व-प्रकाशः । जीवस् तु तत्-प्रकाश्यः । अजः, जीवस् तूपाधि-द्वारा जन्यः । अप्रमेयः सर्व-व्यापकत्वात् प्रमातुम् अशक्यः, जीवस् तु चित्-कणः । सकलानुभूतिः सर्वज्ञः, जीवस् त्व् अल्पज्ञः । एकः परमेश्वरान्तराभावात् सजातीय-भेद-रहितः, जीवस् त्व् अनेकः । अद्वितीयः जीव-माययोस् तच्-छक्तित्वेनैक्याद् विजातीय-भेद-रहितश् च, जीवस् तु नैवम्भूतः ।

न च जीववद् वाङ्-मानस-गोचर इथ्य् आह—वचसां विरामे अगोचरत्वेन निवृत्तौ सत्याम् । तथा च श्रुतिः—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह[तै।उ। २.४.१] इति । प्रत्येतव्य इत्य् अत आह—येनेषिताः यत्-प्रेरिता वाग्-असवश् चरन्ति । यद् उक्तं गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इति ॥३५॥

———————————————————————————————————————

॥ ११.२८.३६ ॥

एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले ।
आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

एतावान् आत्म-संओहो यद् विरुद्धस्य कल्पनम् ।

यत् परात्माश्रयान् जीवान् निश्चयेन न पश्यति ॥ इति तन्त्र-भागवते > ।

अचलम् इति क्रिया-विशेषणम् ॥३६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्वितीयत्वम् उपपादयितुं भेदस्यावास्तवत्वम् आह—एतावान् इति । केवलेऽभिन्ने आत्मन्न् आत्मनि विकल्प इति यद् एतावान् सर्वोऽप्य् आत्मनो मनसः संमोहो भ्रमः । यतः स्वम् आत्मानम् ऋते विना यस्य विकल्पस्यावलम्ब आश्रयो नास्ति । रजत-भ्रमस्येव शुक्तिं विना, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९], इन्द्रो मायाभिः पुरु-रूप ईयते । युक्ता ह्य् अस्य हरयः शता दश[बृ।आ।उ। २.५.१९] इत्य्-आदि-श्रुतेर् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु भ्रम एव ब्रह्माख्यं शुद्धं तत् पदार्थम् आश्रित्य द्वैतं कल्पयति, यथोक्तं—आश्रयत्व-विषयत्व-भागिनी निर्विभाग-चितिर् एव केवला इति । तर्हि कथं भ्रम-मयोपाधिकस्येश्वराख्यस्य ब्रह्मण एव तवानुग्रहेणान्यस्य भ्रमोऽपयात्व् इति कश्चिद् विप्रतिपद्यते । तत्र किम् उच्यते ? तत्राह—एतावान् इति । विविधं कल्प्यते येन सविकल्पो भ्रमः, यतः केवले इतर-सम्बन्ध-सम्भावना-रहितस्यावलम्बो न विद्यते स्वम् आत्मानं जीव-मृते यस्य भ्रमस्यावलम्बो न विद्यते । तद् उक्तं वैष्णवे—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संस्थितौ । > ह्लाद-ताप-कारी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि।पु। १.१२.६९] > इति ।

सर्वज्ञ-सूक्ते च—

ह्लादिन्या संविदा श्लिष्टः सच्चिदानन्द ईश्वरः । > स्वाविद्या-संवृतो जीवः सङ्क्लेश-निकराकरः ॥ इति ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विश्वस्यास्य पृथक् प्रत्यक्षत्वात् कथम् अद्वितीयत्वं ? तत्राह—एतावान् इति । केवले एकस्मिन्न् अप्य् आत्मन् आत्मनि सति विकल्प इति यत् एतावान् आत्म-संमोहः स्वीय-सम्यग्-विवेकः यस्य आत्म-संमोहस्य स्वम् आत्मानम् ऋते स्वीयं जीवात्मानं विना अवलम्बो नास्ति, जीवात्मन एवाज्ञानेन द्वैतं पृथक् प्रतीतम् । तस्य द्वैतस्य परमात्म-कार्यत्वेन परमात्मैक्यं, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य्-आदि-श्रुतेः पार्थक्यं नास्तीत्य् अर्थः ॥३६॥

———————————————————————————————————————

॥ ११.२८.३७ ॥

यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् ।
व्यर्थेनाप्य् अर्थ-वादोऽयं द्वयं पण्डित-मानिनाम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अयं व्यर्थ-वादो न भवति किन्त्व् अपवादः ।

जगत् परमेश्वरं च द्वयं विन्दन्ति ज्ञानिनः । > पञ्च-भूतात्मकं विश्वं भ्रान्ति-सिद्धम् अपण्डिताः ॥ > वदन्ति पण्डितास् त्व् अद्धा जगद् आहुर् अबाधितम् । > प्रवाह-रूपेण सदा विष्णोर् इच्छा-वशे स्थितम् ॥ इति च ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : केचित् पुनः प्रत्यक्षादि-प्रतीतस्य प्रपञ्चस्य बाधायोगाद् वेदान्तार्थानां च क्रत्व् अर्थ-कर्तृ-प्रिति-पादन-परत्वेनार्थ-वादत्वाद् द्वैतं सत्यम् इति मन्यन्ते, तन् मतम् अनूद्य दूषयति, यद् इति । नामाकृतिभिर् ग्राह्यं नाम-रूपोपलक्षितं पञ्च-वर्णं पञ्च-भूतात्मकं द्वयं द्वैतं यत् तद् अबाधितम् इति पण्डित-मानिनाम् अत्र वयम् एव पण्डिता इत्य् अभिमानवतां वेदान्तेष्व् अयम् अर्थ-वाद इति प्रतीतिर् न तत्त्व-विदाम् । यतो व्यर्थेनापि विनाप्य् अर्थेन सा प्रतीतिः । तथा हि, न तावद् विध्य्-एक-वाक्यत्वं तेषाम् अस्ति यतोऽर्थ-वादत्वं स्यात् । न चाकर्तृ-भोक्तृ-परमानन्द-रूपात्म-प्रतिषादनं कर्म-विधि-शेषतां भजते । न चाबाधितत्वं द्वैतस्य, नाम-रूपात्मकत्वात्, ग्राह्यत्वात्, पञ्च-वर्णात्मकत्वात्, स्वप्न-वद् इत्य्-आद्य्-अनुमानैर् वाचारम्भणादि-श्रुतिभिश् च वाधितत्वाद् इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु द्वैतं यदि स्व-स्वरूपे आरोपितं स्यात्, तदैवेश्वरानुग्रहेण तज्-ज्ञाने सति तत्र मिथ्या ज्ञायेत, न त्व् एवं, किन्तु तण्डुल-पाकवत् संयुक्तम् एव । ततः कथं ज्ञान-मात्रेणापगच्छेत् ? इत्य् एक आक्षिपन्ति । तथा जीवेनाज्ञानारोपितत्वेऽपि वणिग्-वीथि-स्थ-रजतवद् द्वैतं नाम वस्तु पृथग् नास्ति, किन्त्व् अनादित एव पूर्व-पूर्व-भ्रमजम् उत्तरत्रारोप्यते । तदा को वेश्वरो नाम ? को वा तस्यानुग्रहः ? इत्य् अन्ये चाक्षिपन्तीत्य् आशङ्क्याह—यन् नामेति । यन् नामादिभिर् ग्राह्यं पञ्च-भूतात्मक-रूपम् अबाधितं नास्तीति भावनया बाधितुम् अशक्यं ग्राहकादित्वेन संयोगस्यैव सिद्धेर् इति मन्यन्ते । यच् च व्यर्थेन पदार्थं विनाप्य् अर्थस्य वाद-मात्रं मन्यन्ते । द्वयम् अप्य् एतत् पण्डित-मानिनाम् एव, न तु पण्डितानां पूर्वत्र ग्राहक-ग्राह्ययो रूपि-रूपयोश् च चिज्-जडयोस् तेजस्-तिमिरयोर् इव संयोगासम्भवाद् अज्ञानेनैव तत्-प्रतीतिर् इति यथोत्तरत्र न ह्य् अत्यन्तासन् षष्ठ-भूतादिः कुत्राप्य् आरोपितो दृश्यते, समुच्छ्रित-कर्णे शशे शृङ्गम् इवेति भावः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् कार्य-कारण-वस्त्व्-ऐक्य-दर्शनं पटतन्तुवद् इति न्यायेन कार्यस्य पृथक्त्वं बाधितम् इति ये मन्यन्ते, ते पण्डित-मानिन एव, न तु पण्डिता इत्य् आह—यत् नामभिर् आकृतिभी रूपैश् च सहितम् इन्द्रियैर् ग्राह्यं च पञ्च-वर्णं पञ्च-भूतात्मकं तत् द्वयं द्वैतम् अबाधितम् एवेति पण्डित-मानिनाम् एव मतं, न तु पण्डितानाम् । यतो व्यर्थेन विनाप्य् अर्थेन अर्थ-वादः अर्थ इति वादोऽयं, नह्य् आद्य्-अन्तवान् अर्थः सत्यो भवेत्,

प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा । > आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह ॥ [भा। ११.२८.९] इति > मद्-उक्तेः ॥३७॥

———————————————————————————————————————

॥ ११.२८.३८ ॥

योगिनोऽपक्व-योगस्य युञ्जतः काय उत्थितैः ।
उपसर्गैर् विहन्येत तत्रायं विहितो विधिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं ज्ञान-योगं स-परिकरं निरूप्येदानिं तन्-निष्ठस्य विघ्न-प्रतीकारम् आह—योगिन इति त्रिभिः । योगं युञ्जतः कायो यद्य् अन्तर् एवोत्पन्नैर् उपसर्गै रोगाद्य्-उपद्रवैर् अभिभूयेत । विधिः प्रतीकारः ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं ज्ञान-योगं स-परिकरं निरूप्येदानिं तन्-निष्ठस्य विघ्न-प्रतीकारम् आह—योगिन इति त्रिभिः । युञ्जतो योगाभ्यासं कुर्वतः, कायो यदि दैवाद् उपसर्गै रोगाद्य्-उपसर्गैर् अभिभूयेत । तत्रायं विधिः प्रतीकारः ॥३८॥

———————————————————————————————————————

॥ ११.२८.३९ ॥

योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः ।
तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योग-धारणया सोम-सूर्यादि-धारणया सन्तापशैत्य्-आदीन् । आसनैर् वायु-धारणान्वितैर् वातादि-रोगान् । तपो-मन्त्रौषधैः पाप-ग्रह-सर्पादि-कृतान् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२८.४० ॥

कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः ।
योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ममानुध्यानादिभिः कामादीन् । योगेश्वरानुवृत्त्या दम्भ-मानादीन् हन्यात् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२८.४१ ॥

केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् ।
विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ये तु देह-सिद्ध्य्-अर्थम् एवैतत् सर्वं कुर्वन्ति, तद् दूषयति, केचित् पुनर् एतैर् अन्यैश् चोपायैर् देहम् एव सु-कल्पं जरा-रोगादि-रहितं वयसि तारुण्ये स्थिरं च कृत्वा अद्वन्द्व-परकाय-प्रवेशादि-सिद्धये तत् तद् धारणा-रूपं योगं युञ्जन्ति, न तु ज्ञान-निष्ठा-रूपम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचित् पुनर् विरोधोपायैर् एतैर् अन्यैश् चोपायैर् देहम् एव सुकल्पं जरा-रोगादि-रहितं वयसि तारुण्ये स्थिरं च कृत्वा, अद्वन्द्व-परकाय-प्रवेशादि-सिद्धये तत्-तद्-धारणा-रूपं योगं युञ्जन्ति, न तु ज्ञान-निष्ठा-रूपम् ॥४१॥

———————————————————————————————————————

॥ ११.२८.४२ ॥

न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः ।
अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुशलैः प्राज्ञैर् आदरणीयं न भवति । वनस्पतिवद् आत्मैव स्थायी, शरीरं तु फलवन् नश्वरम् इत्य् अर्थः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुशलैः प्राज्ञैर् आदरणीयं तन् न भवति । वनस्पतिवद् आत्मैव स्थायी । शरीर्रं तु फलवन् नश्वरम् इत्य् अर्थः ॥४२॥

———————————————————————————————————————

॥ ११.२८.४३ ॥

योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् ।
तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु क्वचित् समाध्य्-अङ्गत्वेनापि प्राणायाम् आदि-योगे क्रियमाणे जरा-रोगाद्य्-अभावो दृश्यते, सत्यम्, तथापि समाधिम् उत्सृज्य न तत्र सज्जेतेत्य् आह—योगम् इति । तत् तां देह-सिद्धिं न श्रद्दध्यान् न विश्वसेत् ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् काय-कल्पत्वम् ॥४३॥

———————————————————————————————————————

॥ ११.२८.४४ ॥

योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः ।
नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं विघ्न-प्रतीकारैर् योगं कुर्याद् इत्य् उक्तं, मच्-छरणस्य तु न विघ्न-शङ्कापीत्य् आह—योग-चर्याम् इति । विचरन् स्व-सुखे अनुभूर् अनुभूतिर् यस्य सः । स्पृहा-मूला हि विघ्नाः, सा च मद्-अपाश्रयस्य निवर्तते, अतोऽन्तरायैर् अविहतः स्वानन्द-पूर्णो भवतीति ॥४४॥

जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशेऽष्टाविंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > श्री-भगवद्-उद्धव-संवादे परमार्थ-निर्णयो नाम > अष्टाविंशोऽध्यायः ।

॥ ११.२८ ॥

———————————————————————————————————————


  1. सेए ११.२२.५६। ↩︎

  2. सुकृतम् इति विश्वनाथः, सु-अकृतम् इत्य् अन्ये। ↩︎