२७ क्रिया-योगः

॥ ११.२७.१ ॥

श्री-उद्धव उवाच

क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो ।

यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

रागाद्य्-आकुल-चित्तानां कुतोऽसङ्गादि-सम्भवः ।

इति कृष्णार्चनं भद्रम् अनुस्मृत्यानुपृच्छति ॥

क्रिया-योगम् इति । भवद्-आराधन-रूपम् । यस्माद् इति कारणाधिष्ठानादि-प्रश्नः, सर्व-कारकाणां निमित्तत्वस्याविशिष्टत्वात् । यथेति कस्मिन्न् अधिष्ठानादौ केन प्रकारेणेति प्रश्नः । ये अधिकारिणः । सात्वता भक्ताः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तावत् सङ्गान् मोक्तुम् इच्छतां रीतिं श्रुत्वानिच्छूनाम् अपि तस्य परमार्थ-पर्यवसानं यथा स्यात् तथा पृच्छति—क्रिया-योगम् इति ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

क्रिया-योगाभिधा भक्तिः सप्तविंशेऽर्चनात्मिका ।

नानोपचारैर् अर्चायां स्वधर्म-सहितोच्यते ॥ओ॥

उक्त-लक्षण-सत्सङ्ग-रहिता भक्तिः पुत्र-कलत्राद्य्-आसक्त-चित्तैर् दुर्लभेत्य् अतस् तेषाम् अपि निस्तारिकाम् आगमोक्तार्चन-भक्तिम् अनुसृत्य पृच्छति—क्रिया-योगम् इति । यस्मात् यं क्रिया-योगम् आश्रित्य ॥१॥

———————————————————————————————————————

॥ ११.२७.२ ॥

एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् ।

नारदो भगवान् व्यास आचार्यो\ऽङ्गिरसः सुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य पुनर् विशेषतः प्रश्ने कारणम् आह चतुर्भिः, एतत् त्वद्-अर्चनं निःस्रेयस-करं वदन्ति । अङ्गिरसः सुतो बृहस्पतिः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रमाणयति—एतद् इति द्वाभ्याम् । अङ्गिरसः सुत इति । तस्य भगवद्-धर्मोपदेशे स्व-गुरुत्वं व्यञ्जयति युक्त;ं च तत् । श्री-भागवते तस्य श्री-सङ्कर्षण-सम्प्रदायित्वात् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२७.३-४ ॥

निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः ।

पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः ॥

एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् ।

श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निःसृतं त्वयोपदिष्टम् इत्य् अर्थः । देव्यै पार्वत्यै । सर्व-वर्णानां त्रै-वर्णिकानाम् ॥३-४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न च वीत-सङ्गानां स्मरणादिकं नर-मात्राणाम् एव स्यान् न पुनर् एतद् इति वाच्यं यत एतद् इति तेषाम् एव संमतत्वाद् इति भावः ॥३-४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतत् त्वद्-अर्चनम् ॥४॥

———————————————————————————————————————

॥ ११.२७.५ ॥

एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् ।
भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : विश्वेश्वरा ये तेषाम् ईश्वरः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वेश्वराणां महा-पुरुषादीनाम् अपीश्वरः स्वयं भगवत्त्वात् ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं मद्-भक्तः परमानुरागी भवसि तवानेन किं ? तत्राह—भक्ताय अनुरक्तायापि ब्रूहि ॥५॥

———————————————————————————————————————

॥ ११.२७.६ ॥

श्री-भगवान् उवाच

न ह्य् अन्तो\ऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव ।
सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म-काण्डस्य पूजा-विधानस्य । नास्त्य् अन्तो ग्रन्थतः पारं वानुष्ठानतो यस्य तस्य ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि तद् ईदृशम् एव तथापि विस्तरत्वाद् एव मया स्वयं नोक्तम् । सम्प्रति तु भवद्-इच्छां ज्ञात्वा सङ्क्षिप्यैव वर्णयिष्यामीत्य् आह—न ह्य् अन्त इति ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-अर्चन-लक्षणस्य कर्म-काण्ड-विशेषस्य नास्त्य् अन्तः, यतोऽनन्त-पारस्य नास्त्य् अन्तः शास्त्रतः पारं चानुष्ठानतोऽपि यस्य ॥६॥

———————————————————————————————————————

॥ ११.२७.७ ॥

वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः ।
त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैदिक एव मन्त्रो वैदिकान्य् एवाङ्गानि च । यस्मिन् पुरुष-सूक्तादौ स वैदिकः । एवं तान्त्रिकोऽपि मिश्रोऽष्टाक्षरादिः । मखः पूजा ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ईप्सितेनैवेति । स्व-स्वाधिकार-प्राप्ततया तत्रापि स्व-श्रद्धानुसारेणेत्य् अर्थः । ततः स्त्री-शूद्राणां केवलस् तान्त्रिकः, अन्येषां त्व् अन्यतरो मिश्रो वेति विवेकः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैदिक एव मन्त्रो वैदिकान्य् एवाङ्गानि च । यस्मिन् पुरुष-सूक्तादौ स वैदिकः। एवं तान्त्रिकः गौतमीय-तन्त्राद्य्-उक्तः । मिश्रोऽष्टाक्षरादिर् उभयोक्तः । मखः पूजा । त्रयाणां मध्ये यद् ईप्सितं तेनैव ॥७॥

———————————————————————————————————————

॥ ११.२७.८ ॥

यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा त्रै-वर्णिको यजेत तदा विशेषम् आह—यदा गर्भाष्टमैकादश-द्वादशाब्दादि-काले स्व-निगमेन स्वाधिकार-प्रवृत्तेन वेदेनोक्तं द्विजत्वम् उपनयनम् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तद्-इच्छानुसारेण स्व-धर्म-निष्ठान् एवाधिकृत्य तत्र च मुख्यतया द्विजम् एवाधिकृत्योपदिशन्न् अन्यान् अपि यथा स्वम् उपदिशति यदेति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-निगमेन स्वाधिकार-प्रवृत्तेन वेदेनोक्तं द्विजत्वं प्राप्य पूरुषः यदा यथा यजेत तन् निबोधेत्य् अन्वयः ॥८॥

———————————————————————————————————————

॥ ११.२७.९ ॥

अर्चायां स्थण्डिले\ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः ।

द्रव्येण भक्ति-युक्तो\ऽर्चेत् स्व-गुरुं माम् अमायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्चायां प्रतिमाहौ ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रापि शक्त्य्-अनुसारेण पूजाधिष्ठानं विकल्पयति—अर्चायाम् इति । प्रथमं त्व् अर्चायाम् एव विधिः अशक्त्यैव तूत्तरोत्तरत्रेति भावः ॥९-११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्चायां प्रतिमायाम् ॥९॥

———————————————————————————————————————

॥ ११.२७.१० ॥

पूर्वं स्नानं प्रकुर्वीत धौत-दन्तो\ऽङ्ग-शुद्धये ।

उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्नाने विशेषम् आह—उभयैर् वदिकैस् तान्त्रिकैश् च मन्त्रैः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयैर् वेदिकैस् तान्त्रिकैश् च मन्त्रैः ॥१०॥

———————————————————————————————————————

॥ ११.२७.११ ॥

सन्ध्योपास्त्य्-आदि-कर्माणि वेदेनाचोदितानि मे ।

पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सन्ध्योपासनादीनिकर्माणि आचोदितानि साकल्येन विहितानि यस्य यानि तैः सह मे पूजां कुर्यात् । न तु तानि परित्यजेद् इत्य् अर्थः । सम्यक् परमेश्वर-विषय एव सङ्कल्पो यस्य तथा-भूतः सन् । कर्म-पावनीं कर्म-निर्हारिणीम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेदेनाचोदितानि शास्त्र-विहितानि यानि तैः सह पूजां कल्पयेत् कुर्यात् । स एव सम्यक्-सङ्कल्पः पूर्ण-मनोरथः । कर्म-पावनीं कर्म-निर्हारिणीयम् ॥११॥

———————————————————————————————————————

॥ ११.२७.१२ ॥

शैली दारु-मयी लौही लेप्या लेख्या च सैकती ।

मनो-मयी मणि-मयी प्रतिमाष्ट-विधा स्मृता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्चा-भेदान् आह सार्धेन, शैली शिला-मयी । लौही सु-वर्णादि-मयी । लेप्य मृच्-छन्दनादि-मयी । हृदि पूजाया मनो-मयी ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राधान्याद् अर्चाया एव भेदान् आह—शैलीति । सैकता सैकतीत्य् अर्थः । एषा तु स-कामानाम् एव, न तु प्रीतीच्छूनां तद्-रक्षणारक्षणयोः प्रीति-विरोधात् ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिमा-भेदान् आह—शैली शिला-मयी । लौही स्वर्णादि-मयी ॥१२॥

———————————————————————————————————————

॥ ११.२७.१३ ॥

चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् ।

उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकर्षेण तिष्ठत्य् अस्याम् इति प्रतिष्ठा प्रतिमैव जीवस्य भगवतो मन्दिरम् । यद् वा, प्रतिष्ठया कलान्य् आसेन भगवन्-मन्दिरं भवतीति । प्रतिमाभेदेन विशेषम् आह सर्धेन, उद्वासो विसर्जनम् ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : चलाचलेत्यर्धकं द्विविधा प्रतिष्ठा प्रतिमाजीवमन्दिरं यः सर्वेषां जीवानामाश्रयोऽहं तद्रूपम् एव भावयेदित्य् अर्थः । वक्ष्यते च न्यस्ताङ्गं मां प्रपूजयेदिति अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् इति शिरोमत्पादयोः कृत्वेति च ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकर्षेण स्थीयतेऽस्याम् इति प्रतिष्ठा प्रतिमैव जीव-मन्दिरं सर्व-जीवानाम् आश्रयः साक्षाद् अहम् एवेत्य् अर्थः । सा चाचला श्री-जगन्नाथादिः । चला बाल-मुकुन्दादिः । उद्वासो विसर्जनं च आवाहनं च ते स्थिरायाम् अचलायां चलायां च न स्तः, इति प्रतिष्ठा-समये एव नित्य-स्थायित्वेनावाहनात् ॥१३॥

———————————————————————————————————————

॥ ११.२७.१४ ॥

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् ।

स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्थिरायाम् अर्चने विकल्पः । शालग्रामे न कुर्यात् सैकत्यां कुर्याद् अन्यत्र कुर्याद् वा न वेति । अविलेप्यायां मृन्-मय-लेख्य-व्यतिरिक्तायाम् । अन्यत्र विलेप्यायां लेख्यायां च परिमार्जनम् एव ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्थिरा कालान्तरस्थायी शैलीप्रभृतिः तस्यां न स्त इति ग्रतिष्ठासमये नित्यस्थायित्वेनावाहनात् अस्थिरा सैकती क्वचिलुप्या च तत्र विकल्प इति सा यदि कथञ्चित्कतिचिद्दिनानि स्थिरा स्यात्तदा तस्याम् अपि न ते स्तः किमुत स्थिरायाम् इत्य् अर्थः ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्थिरायाम् अस्थैर्य-स्वभावायां सैकत्यां लेपायां च विकल्पः । सा यदि कतिचिद् दिनानि स्थिरीकृता स्यात् तदा भक्ति-विश्वास-भेद-वशात् कश्चिन् न कुरुते, अन्यथा तु कुरुते च । शालग्रामे तु नैव कुर्यात् । स्थण्डिले उपलिप्त-स्थले त्व् इत्य् उपलक्षणम् । सैकत्याम् अपि कुर्याद् एवेत्य् अर्थः । अविलेप्यायां लेप्य-लेख्य-मूर्ति-व्यतिरिक्तायां स्नपनम् । अन्यत्र लेप्य-लेख्ययोस् तथा दारुमय्यां च परिमार्जनम् एव ॥१४॥

———————————————————————————————————————

॥ ११.२७.१५ ॥

द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः ।

भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं सकाम-निष्काम-भेदेन विशेषम् आह—द्रव्यैर् इति । प्रकर्षेण सिद्धैः सुशोभनैः । अमायिनो निष्कामस्य भक्तस्य तु यथा-लब्धैः । यत्र चन्दनादि सर्वथा न लभ्यते तत्र हृदि भावेन भावनय । यद् वा, हृदि चेन् मद्-यागस् तदा भावेन मनो-मयैर् द्रव्यैर् इत्य् अर्थः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अबिलेप्यायाम् इति लेख्याया दारुमय्याश्चोपलक्षणम् उपलक्षणत्वान्न सर्वा दारुमयी गृह्यते तिन्दुकसारादिमय्याः स्नपनसम्भवात् प्रधानदेवतानां तत्तन्मन्त्रै स्नपनम् उपस्थानार्ध्यादिना पूजनं सर्वत्र गृह्यते ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसिद्धैः प्रकर्षेण धनादि-सिद्धैः खण्ड-घृत-चन्दन-कुङ्कुमादिभिः । अमायिनो निःस्पृहस्य भक्तस्य तु यथा-लब्धैर् यदृच्छया प्राप्तैर् द्रव्यैर् हृदि भावेन भावनय च मनसैवोपस्थापितैर् दुर्लभैर् अपि सुरभि-पयः-परमान्नादिभिर् अपीत्य् अर्थः ॥१५॥

———————————————————————————————————————

॥ ११.२७.१६ ॥

स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव ।

स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधिष्ठान-भेदेन प्रधानोपचारम् आह सार्धेन, स्नानेति । तत्त्व-विन्यासो यथा-स्थानम् अङ्ग-प्रधान-देवतानां तत् तन् मन्त्रैः स्थापनम् ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : कामिनामावश्यकता कापट्यसम्भवात् भक्तस्य तु न सा विधीयते तदसम्भवादित्याह—अमायिन इति । अत्र अर्चायाम् एव सेवकस्य मम च प्रेष्ठमतिशयेन प्रियम् ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्वानाम् अङ्ग-प्रधान-देवतानां, विशेषतो यथा-स्थानं न्यासः, तत्-तन्-मन्त्रैः स्थापन-मात्रम् । न त्व् अलङ्कारणादिकम् । आज्येन प्लुतं सिक्तं हरिस् तिलादिकं यज्ञीयंवस्तु । अभ्यर्हणम् अर्घोपस्थापनादि । सलिले तु सलिलादिभिर् एव यजनम् ॥१६-१७॥

———————————————————————————————————————

॥ ११.२७.१७-१८ ॥

सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।

श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ॥

भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ।

गन्धो धूपः सुमनसो दीपो\ऽन्नाद्यं च किं पुनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभ्यर्हणम् उपस्थानार्धादि । सलिलादिभिस् तर्पणादिना यजनम् । सर्व-साधारणम् आह—श्रद्धयेति ॥१७-१८॥


जीव-गोस्वामी (भक्ति-सन्दर्भः ३००) : सूर्ये चेत्य् अर्धकम् । श्रद्धयेति सार्धकम् । अथास्मिन् पाद-सेवार्चन-मार्गे यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे इत्य्-आदिना आगमोक्ता ये द्वात्रिंशद्-अपराधाः, तथा राजन्न् अभक्षणं चैवम् इत्य्-आदिना तद्-उक्ता1 ये चान्ये बहवः, ते सर्वे—

ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।

वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥

इति वाराहानुसारेण परित्याज्या इत्य् आशयेनाह—श्रद्धयेति । श्रद्धा-भक्त-शब्दाभ्याम् अत्रादर एव विधीयते । अपराधास् तु सर्वेऽनादरात्मका एव । प्रभुत्वावमानतश् च आज्ञावमानतश् च । तस्माद् अपराध-निदानम् अत्रानादर एव परित्याज्य इत्य् अर्थः ।

गन्ध इत्य् अर्धस्य श्रद्धयेत्य् अर्धेनान्वयः । तस्य भक्तस्य निष्किञ्चनत्वेऽपि मम सेवायाम् आग्रहश् चेत् तदा गन्धादिकं प्रेष्ठम् इति पुनः किं वक्तव्यम् इत्य् अर्थः ॥१७-१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सूर्येत्य् अर्धकम् । श्रद्धयेति सार्धकम् । गन्ध इत्य् अर्धस्य श्रद्धयेत्य् अर्धेनान्वयः । तस्य भक्तस्य निष्किञ्चनत्वेऽपि मम सेवायाम् आग्रहश् चेत् तदा गन्धादिकं प्रेष्ठम् इति पुनः किं वक्तव्यम् इत्य् अर्थः ॥१७-१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुमनसः पुष्पाणि ॥१८॥

———————————————————————————————————————

॥ ११.२७.१९ ॥

शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः।
आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अधिकारादि-व्यवस्थाम् उक्त्वा इदानीं पूजा-प्रकारम् आह—शुचिर् इति । सम्भृताः सम्भाराः पूजा-साधनानि येन सः । प्राग् अग्रैर् दर्भैः । यद् वा, प्राग् एव सम्भृत-सम्भारः सन्न् आसीनः, न त्व् आसीनः सन् पश्चात् तत् सम्भारार्थं वारं वारम् उत्तिष्ठेद् इत्य् अर्थः । प्राङ्-मुख उदङ्-मुखो वा आसीनः । अर्चायां तु स्थिरायां संमुखोऽर्चाभिमुख उपविष्टः सन् ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इदानीं पूजा-प्रकारम् आह—शुचिर् इति । प्राग् उदग् वा प्राङ्-मुख वा अर्चायाम् अचलायां तु संमुखोऽर्चाभिमुखः ॥१९॥

———————————————————————————————————————

॥ ११.२७.२० ॥

कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् ।
कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तरं गुर्व्-आदि-नमस्कार-पूर्वकं यथोपदेशं स्वस्मिन् कृत-न्यासः कृतो मूल-मन्त्र-न्यासो यस्यां तां ममार्चाम् आमृजेन् निर्माल्यापकर्पणादिना शोधयेत् । कलशं पूर्ण-कुम्भम् । प्रोक्षणीयं प्रोक्षणार्थोदक-पात्रम् उपसाधयेच् चन्दन-पुष्पादिभिः संस्कुर्यात् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृत-न्यास इति । केशवादि-न्यासादीनां यत् त्व् अधमाङ्ग-विषयत्वं, तत्र तत्-तन्-मूर्तीर् ध्यात्वा तत्-तन्-मन्त्रांश् च जप्त्वैव तत्-तद्-अङ्ग-स्पर्श-मात्रं कुर्यात्, न तु तत्-तन्-मन्त्र-देवतास् तत्र तत्र न्यस्ता ध्यायेत् । भक्तानां तद्-अनौचित्यात् भूत-शुद्ध्य्-आदिकं त्व् एवं ज्ञेयम् । तत्र भूत-शुद्धिर् निजाभिलषित-भगवत्-सेवौपयिक-तत्-पार्षद-देह-भावना-पर्यन्तैव तत्-सेवैक-पुरुषार्थिभिः कार्या, निजानुकूल्यात् । एवं यत्र आत्मनो निजाभीष्ट-देवता-रूपत्वेन चिन्तनं विधीयते तत्र तत्रैव पार्षद-विग्रहत्वं भाव्यम् । अहङ्ग्रहोपासनायाः शुद्ध-भक्तेर् निष्ठत्वात् ऐक्ये च तत्र साधारण्य-प्रायम् एव मदीय-चिच्-छक्ति-वृत्ति-शुद्ध-सत्त्वांश-विग्रहत्वात् पार्षदानाम् इति॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्तरं गुर्व्-आदि-नमस्कार-पूर्वकं यथोपदेशं स्वस्मिन् कृत-न्यासः कृतो मूल-मन्त्र-न्यासो यस्यां तां ममार्चाम् आमृजेन् निर्माल्यापकर्पणादिना शोधयेत् । कलशं पूर्ण-कुम्भम् । प्रोक्षणीयं प्रोक्षणार्थोदक-पात्रम् उपसाधयेच् चन्दन-पुष्पादिभिः संस्कुर्यात् ॥२०॥

———————————————————————————————————————

॥ ११.२७.२१ ॥

तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च।
प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अद्भिः प्रोक्षणीयाद्भिर् देव-यजनं देव-पूजा-स्थानम् । पाद्याद्य्-अर्थं त्रीणि पात्राणि कलशोदकैः पूरितानि तैस् तैर् द्रव्यैः साधयेत् । तत्र पाद्यादि-द्रव्याणि—

पाद्ये श्यामाक-दूर्वाब्ज-विष्णु-क्रान्ताभिर् इष्यते । > गन्ध-पुष्पाक्षत-यव-कुशाग्र-तिल-सर्षपाः । > दूर्वा चेति क्रमाद् अर्घ्य-द्रव्याष्टकम् उदीरितम् । > जाती-लवङ्ग-कङ्कोलैर् मतम् आचमनीयकम् ॥ इति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तदाद्भिर् इति युग्मकम् ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-अद्भिः प्रोक्षणीयाभिर् अद्भिः देव-यजनं देव-पूजा-स्थानं तैस् तैर् द्रव्यैर् इति ।

पाद्ये श्यामाक-दूर्वाब्ज-विष्णु-क्रान्ताभिर् इष्यते । > गन्ध-पुष्पाक्षत-यव-कुशाग्र-तिल-सर्षपाः । > दूर्वा चेति क्रमाद् अर्घ्य-द्रव्याष्टकम् उदीरितम् । > जाती-लवङ्ग-कङ्कोलैर् मतम् आचमनीयकम् ॥ इति ॥२१॥

———————————————————————————————————————

॥ ११.२७.२२ ॥

पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः।
हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तानि च त्रीणि यथा-क्रमं हृदयादि-मन्त्रैर् गायत्र्या च सर्वाण्य् अभिमन्त्रयेत्॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तानि च त्रीणि देशिकः पूजकः क्रमेण हृदयादि-मन्त्रैर् गायत्र्या च ॥२२॥

———————————————————————————————————————

॥ ११.२७.२३ ॥

पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम।
अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवः कला यस्याः सा जीव-कला भगवन्-मूर्तिः ।

हृदिस्था या हरेर् मूर्तिर् जीवो मत्-प्रतिबिम्बकः ॥ > यद्-वशे वर्तते जीवः सा तु जीव-कला स्मृता । > शब्दैः सर्वात्मनानुक्तेर् नादास् त्स्थात् च सा मता ॥ इति विवेके > ॥२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अनन्तरं पिण्डे देहे । वाय्व्-अग्नि-संशुद्ध इति कोष्ठ-गतेन वायुना शोषिते आधार-गतेनाग्निना दग्धे पुनर् ललाट-स्थ-चन्द्र-मण्डलामृत-प्लावनेनामृत-मये जाते तस्मिन् हृत्-पद्म-स्थां परां श्रेष्ठां जीव-कलां श्री-नारायण-मूर्तिं ध्यायेत् । कथं भूताम् । नादान्ते सिद्धैर् भाविताम् । प्रणवस्याकारो-कार-म-कार-बिन्दुनादाः पञ्चांशास् तत्र नादान्ते सिद्धैर् ध्याताम् । तथा च श्रुतिः—

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । > तस्य प्रकृति-लीनस्य यः परः स महेश्वरः ॥ इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : पिण्डे इति तैः । तत्र श्रुतौ स्वरः प्रणवान्तनाद् अरूपः वेदस्यादाव् अन्ते च स इति तद्-उच्चारणानन्तम् एव वेदस्योच्चारणात् समापनाच् च प्रकृति-लीनस्य स्व-स्वरूप-लीनस्य सतः परः अधिष्ठाता ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च पिण्डे देहे वाय्व्-अग्नि-संशुद्ध इति कोष्ठ-गतेन वायुना शोषिते आधार-गतेनाग्निना दग्धे पुनर् ललाट-स्थ-चन्द्र-मण्डलामृत-प्लावनेनामृत-मये जाते तस्मिन् हृत्-पद्म-स्थां परां श्रेष्ठां जीव-कलां जीवः कला यस्यास् तां श्री-नारायण-मूर्तिं ध्यायेत् । नादान्ते प्रणवस्याकारो-कार-म-कार-बिन्दु-नादाः पञ्चांशास् तत्र नादान्ते सिद्धैर् ध्याताम् । तथा च श्रुतिः—यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः इति ॥२३॥

———————————————————————————————————————

॥ ११.२७.२४ ॥

तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः।
आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

व्याप्तो भूतश् च नित्यं यदात्म-भूतो हरिस् ततः ।

जीवस्य तत्-प्रधानत्वं तन्मयत्वम् उदाहृतम् ॥ इति > तन्त्र-भागवते । > व्याप्तोऽपि भगवान् विष्णुर् देहे सर्व-गतस् ततः । > भक्तस्य फलदो यस्मात् व्याप्ति-कृत् तस्य तेन सः ॥ इति च > ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तयात्म-भूतया स्वेनैव भावेन चिन्तितया अमृत-मये पिण्डे दीपेन प्रभया गृहम् इव व्याप्ते सति तस्मिन्न् एवादौ मानसैर् उपचारैः सम्पूज्य तन् मयः सन्न् अर्चादिष्व् आवह्य स्थापन-मुद्रया स्थापयित्वा ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मभूतया परमात्म-रूपया आवाह्य तदैकात्म्येन विभाव्यापि मां स्वयं भगवल्-लक्षण-भेदेन चिन्तितम् अर्चादिकं पूजयेत् ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तया भगवन्-मूर्त्या आत्म-भूतया परमात्म-स्वरूपया स्व-प्रभाभिः पिण्डे देहे दीपेन स्व-प्रभाभिर् गेहे इव व्याप्ते सति प्रथमं सम्पूज्य मानसैर् उपचारैर् अभ्यर्च्य तन्-मयः सन्न् अर्चादिष्व् आवाह्य स्थापयित्वा न्यस्ताङ्गं मां मद्-अङ्गे न्यासान् कृत्वेत्य् अर्थः ॥२४॥

———————————————————————————————————————

॥ ११.२७.२५-२६ ॥

पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् ।

धर्मादिभिश् च नवभिः कल्पयित्वासनं मम ॥

पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् ।

उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं पूजयेत् तत्राह—पाद्येति द्वाभ्याम् । धर्मादिभिर् ममासनं तत्र पद्मं च कल्पयित्वोभाभ्यां वेद-तन्त्राभ्याम् उभय-सिद्धये मद्यं पाद्यादीन् उपचारान् प्रकल्पयेद् इत्य् अन्वयः । उप-स्पर्श आचमनम्, अर्हणम् अर्घ्यम् । उभय-सिद्धये वेद-तन्त्रोक्त-भुक्ति-मुक्ति-प्राप्तये । अयम् अर्थः, धर्म-ज्ञान-वैराग्यैश्वर्याण्य् आसन-पर्यङ्कस्याग्नेयादि-चतुष्कोणेषु पादाः । अधर्मादीनि पूर्वादि-दिक्षु गात्राणि । त्रयो गुणाः पट्टिकाः । तत्र पूर्वादि-क्रमेण मध्ये च विमलोत्कर्षिणी ज्ञाना क्रिया योगा प्रह्वी सत्येशानानुग्रहेति नव शक्तयः । एवं यथोपदेशं धर्मादिभिर् नवभिः शक्तिभिश् चासनं कल्पयित्वेति । कर्णिकय केसरैस् तत्र-स्थ-सूर्यादि-मण्डलैश् चोज्ज्वलम् इत्य् अर्थः ॥२५-२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उपस्पर्श आचमनम् अर्हणम् अर्घ्यं प्रकल्पयेत् समर्पयेत् । किं कृत्वा धर्मादिभिर् आग्नेयादि-कोणेषु धर्म-ज्ञान-वैराग्यैश्वर्यैः पूर्वादि-दिक्षु तथैवाधर्माद्यैश् च तन्-मध्ये नवभिः शक्तिभिर् विमलाद्याभिश् च ममासनं योग-पीठं तत्राष्ट-दलं पद्मं च कल्पयित्वा वेद-तन्त्राभ्यां वेदोक्तेन तन्त्रोक्तेन च प्रकारेण उभय-सिद्धये भुक्ति-मुक्ति-प्राप्तये मह्यम् उपचारान् दद्यात् ॥२५-२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्पर्श आचमनम् अर्हणम् अर्घ्यं प्रकल्पयेत् समर्पयेत् । किं कृत्वा धर्मादिभिर् आग्नेयादि-कोणेषु धर्म-ज्ञान-वैराग्यैश्वर्यैः पूर्वादि-दिक्षु तथैवाधर्माद्यैश् च तन्-मध्ये नवभिः शक्तिभिर् विमलाद्याभिश् च ममासनं योग-पीठं तत्राष्ट-दलं पद्मं च कल्पयित्वा वेद-तन्त्राभ्यां वेदोक्तेन तन्त्रोक्तेन च प्रकारेण उभय-सिद्धये भुक्ति-मुक्ति-प्राप्तये मह्यम् उपचारान् दद्यात् ॥२५-२६॥

———————————————————————————————————————

॥ ११.२७.२७ ॥

सुदर्शनं पाञ्चजन्यं गदासीषु-धनुर्-हलान् ।

मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आयुधादि-पूजाम् आह—सुदर्शनम् इति त्रिभिः । तत्र न्यस्ताङ्गम् इत्य् अङ्गावरण-पूजा सूचिता । आसनेनैव शक्त्यावरणम् इत्य् उक्तम् । ततः सुदर्शनादि-मुसलान्तान्य् आयुधान्य् अष्ट-दिक्षु । कौस्तुभ-माला-श्रीवत्सान् उरसि ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुदर्शनादि-मुषलान्तायुधानि अष्स्थित-दिक्सर्वु कौस्तुभ-माला-श्रीवत्सान् उरसि पूजयेत् ॥२७॥

———————————————————————————————————————

॥ ११.२७.२८-३१ ॥

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डम् एव च ।

महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।

स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥

चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः ।
सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥**

स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया ।
पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : यस्य विष्णु-सूक्तेन धाम-सूक्तं समुद्राद् ऊर्मिर् इति ।

नितरां रञ्जयेद् यस्मात् पावमानं तु मण्डलम् । > विष्णु-नीराजनं तस्माद् विद्वद्भिः समुदाहृतम् ॥ इति च ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्दादीन् पार्षदान् अष्ट-दिक्षु । गरुडं पुरतः ॥ दुर्गादीनि कोणेषु । गुरून् वामतः । सुरान् इन्द्रादि-लोक-पालान् पूर्वादि-दिक्षु । एवम् एतान् देवस्याभिमुखान् प्रोक्षणादिभिर् अर्घादिभिः पूजयेद् इत्य् अर्थः ॥ पाद्यादीन् उपचारान् प्रकल्पयेद् इत्य् उक्तं तान् एव गुण-विधिभिः प्रपञ्चयति, चन्दनेति षड्भिः ॥

मन्त्रान् आह—स्वर्ण-धर्मानुवाकः । सु-वर्ण घर्मं परिवेद-वेनम् इत्य्-आदिः । महा-पुरुष-विद्या—

जितं ते पुण्डरीकाक्षं नमस् ते विश्व-भावन । > सु-ब्रह्मण्य नमस् तेऽस्तु महा-पुरुष-पूर्व-ज ॥ इति ।

पौरुषं सूक्तं सहस्र-शीर्षा इत्य्-आदि । राजनादीनि सामानि इन्द्रं नरो नेम-धिता हवन्ते इत्य् अस्याम् ऋचि गीतानि । आदि-शब्देन रौहिणादीनि ॥२८-३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्दम् इति युग्मकम् । तत्र दुर्गाद्य्-आ-विष्वक्सेनादिवद् भगवतो नित्य-वैकुण्ठ-सेवकाः । ततश् च ते गणेश-दुर्गाद्या ये परे माया-शक्त्यात्मका गणेश-दुर्गाद्यास् ते तु न भवन्ति । न यत्र माया किम् उतापरे हरेः अनुव्रता यत्र सुरासुरार्चिता [भा।पु। २.९.१०] इति द्वितीयोक्तेः । ततो भगवत्-स्वरूप-भूत-शक्त्य्-आत्मका एव ते, यत एवं श्री-कृष्ण-स्वरूप-भूते श्रीमद्-अष्टादशाक्षरादि-मन्त्र-गणेऽपि दुर्गा-नाम्नो भगवद्-भक्त्य्-आत्मकस्य स्वरूप-भूत-शक्ति-वृत्ति-विशेषस्याधिष्ठातृत्वं श्रुति-तन्त्रादिषूपदिश्यते। यथा नारद-पञ्चरात्रे श्रुति-विद्या-संवादे,

भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् । > ज्ञायतेऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ॥ > दुर्गेति गीयते सद्भिर् अखण्ड-रस-वल्लभा । > अद्या आवरिका शक्तिर् महा-मायेति कथ्यते । > यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः ॥ इति ।

अत एव श्री-भगवद्-अभेदेनोक्तं गौतमीय-कल्पे— यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव सः इति । त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता इत्य्-आदिकं तु विराट्-पुरुष-महा-पुरुषयोर् इव केषांचिद् अभेदोपासना-विवक्षयैवोक्तम् । सा हि मायांश-रूपा तद्-अधीने प्राकृतेऽस्मिन् लोके मन्त्र-रक्षा-लक्षण-सेवार्थं नियुक्ता चिच्-छक्त्यात्मक-दुर्गाया दासीयते न तु सेवाधिष्ठात्री । मायातीत-वैकुण्ठावरण-कथने पाद्मोत्तर-खण्डे—

सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननाः । > नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥ > ते वै प्राकृत-लोकेऽस्मिन्न् अनित्यास् त्रिदशेश्वराः । > ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ [प।पु। ६.२२८.६०, > ६६] इति ।

इति भगवद्-अंश-रूपत्वं च तेषाम् उक्तं त्रैलोक्य-संमोहन-तन्त्रे—

सर्वत्र देव-देवोऽसौ गोप-वेश-धरो हरिः । > केवलं रूप-भेदेन नाम-भेदः प्रकीर्तितः ॥ इति ।

अतो नाम-मात्र-साधारण्येनानन्य-भक्तैर् न भेतव्यम् । किन्तु भगवतो नित्य-वैकुण्ठ-सेवकत्वाद् विष्वक्सेनादिवत् सत्-कार्या एव ते । यस्यात्म-बुद्धिः कुणपे त्रि-धातुके [भा।पु। १०.८४.८] इत्य् आदौ, अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः [प।पु। ६.२५३.१७७] इत्य्-आदि-वचनेन तद्-असत्कारे दोष-श्रवणात् ।

अत्र विशेषो भक्ति-सन्दर्भे दृश्यः । [भक्ति-सन्दर्भ २८५]

अथ पीठ-पूजायां श्री-भगवद्-वामे श्री-गुरु-पादुका-पूजनम् एव सङ्गच्छते, यथा—य एव भगवान् अत्र व्यष्टि-रूपतया भक्तावतारत्वेन श्री-गुरु-रूपो वर्तते, स एव तत्र समष्टि-रूपतया स्व-वाम-प्रदेशे साक्षाद्-अवतारत्वेनापि तद्-रूपो वर्तते इति [भक्ति-सन्दर्भ २८६] ॥२८-३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वे स्वे स्थाने न त्व् अभिमुखान् इति नन्दादीन् पार्षदान् अष्ट-दिक्षु गरुडं पुरतः दुर्गादीन् कोणेषु । गुरून् वामतः । सुरान् इन्द्रादि-लोक-पालान् पूर्वादि-दिक्षु । प्रोक्षणादिभिर् प्रोक्षण-पूर्वकार्घ्यादिभिः ॥२८-३०॥

केन मन्त्रेण पूजयेत् ? तत्राह—स्वर्ण-घर्मानुवाकेन, स्वर्णं घर्मं परिवेदनम् इत्य्-आदि महा-पुरुष-विद्यया, जितं ते पुण्डरीकाक्ष नमस् ते विश्व-भावन इत्य्-आदिकया । पौरुषेण सूक्तेन सहस्र-शीर्षा इत्य्-आदिना सामभिः राजनादिभिः इन्द्रं नरो नेम-धिता इत्य् अस्याम् ऋचि गीतैः । आदि-शब्देन रौहिणाद्यैः ॥३१॥

———————————————————————————————————————

॥ ११.२७.३२-३३ ॥

वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः ।
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥**

पाद्यम् आचमनीयं च गन्धं सुमनसो\ऽक्षतान् ।
धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : वस्त्राद्य्-उपचारेष्व् अलङ्कार-लक्षणं गुणं विधत्ते, वस्त्रेति । पत्राणि कपोल-वक्षः-स्थलादिषु लिखिताः पत्र-भङ्ग्यः । मद्-भक्तश् चेत् स-प्रेम यथा भवति तथा ॥ यथोचितम् अलङ्कुर्वीतेत्य् उक्तार्थं सर्व-साधारणं श्रद्धा-लक्षणं गुणं विधत्ते, पाद्यम् इति ॥३२-३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परमोपासकाश् च साक्षात् परमेश्वरत्वेनैव तां पश्यन्ति । भेद-स्फूर्तेर् भक्ति-विच्छेदकत्वात् तथैव ह्य् उचितम् । इत्थम् एवोक्तं—वस्त्रोपवीतेति । अत्र अत्र स-प्रेमेत्य् अत्र विष्णु-धर्मे तां मद्-अर्चाम् अधिकृत्याम्बरीषं प्रति श्री-विष्णु-वाक्यम्—

तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् । > पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥ > गच्छंस् तिष्ठन् स्वपन् भुञ्जंस् ताम् एवाग्रे च पृष्ठतः । > उपर्य्-अधस् तथा पार्श्वे चिन्तयंस् ताम् अथात्मनः ॥ इत्य्-आदि । > [भक्ति-सन्दर्भ २८६]

श्री-गोपाल-पूजायाम् अपि यज्ञोपवीतार्पणं विहितम् अस्ति, यथोक्तं गौतमीय-तन्त्रे यज्ञ-सूत्रं ततो दद्याद् अथवा स्वर्ण-निर्मितम् इति । नारसिंहे,

त्रिवृच् छुक्लं च पीतं च पट्ट-शूकादि-निर्मितम् । > यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्त-गो भवेत् ॥ इति ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पत्र-स्रक् तुलसी-पत्र-माला ॥३२-३३॥

———————————————————————————————————————

॥ ११.२७.३४ ॥

गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् ।
संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : नैवेद्ये वैभव-लक्षणं गुणं विधत्ते, गुड-पायसेति । शष्कुल्य्-अस्तैल-पक्व-विशेषाः । आपूपाः अपूपानां मण्डकादीनां समूहाः । सूपा व्यञ्जनानि । सति विभव इति शेषः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शष्कुल्यः कर्णाकारा घृतादि-पक्वाः । आपूपाः पूया इति ख्याताः । आपूपिकम् इति वक्तव्ये, आपपूम् इत्य् आर्षम् । नैवेद्ये विशेषश् चोक्तं गौतमीये,

निवेदयेद् उत्तमान्नं न कदन्नं कदाचन । > उत्तमं विधिना प्राप्तम् अथवा यद् अयाचितम् ॥

इत्य् अत्र शिलोञ्छ-विधिना प्राप्तम् इति ।

स्व-वित्तोपचितं वाथ कृष्णाय परिकल्पयेत् । > शूद्राल् लब्धं छलाल् लब्धम् अथ वार्धुषिकाचितम्2 । > इत्य् आद्य् अन्नं कद्-अन्नं तु दानान् नरकम् आवहेत् ॥

हारीत-स्मृतौ—नाभक्ष्यं नैवेद्यार्थे भक्ष्येष्व् अप्य् आज्ये महिषी-क्षीरं पञ्च-नखा मत्स्याश् च । विष्णु-धर्मोत्तरे—

अभक्ष्यं चाप्य् अहृद्यं च नैवेद्यं न निवेदयेत् । > केश-कीटावपन्नं च तथा चाविहितं च यत् ॥

अभक्ष्य-नियमश् च श्री-हरि-भक्ति-विलासे [ह।भ।वि। ८.१५२-१६४] द्रष्टव्यः ॥३४-३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुड-विकारान् मत्स्यण्डी-फानितादीन् पायसं परमान्नं शष्कुल्यह् कर्णाकाराः घृत-पक्वा गुझा इति ख्याताः । आपूपाः पुया इति ख्याताः सति विभव इति शेषः ॥३४॥

———————————————————————————————————————

॥ ११.२७.३५ ॥

अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् ।
अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : काल-भेदेन गुणं विधत्ते, जम्यङ्गेति । जभिषेचनं पञ्चामृतादि-स्नपनम् । अन्नाद्येति । अन्नं भोज्यम् । आद्यं भक्ष्यम् । पर्वण्य् एकादश्य्-आदौ । अन्व् अहं प्रत्य् अहं वा विभवे सति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभ्यङ्गेति । प्रथमं दन्त-धावनं, ततः सुगन्धि-तैलेनाभ्यङ्गः, ततः कुङ्कुम-कर्पूर-चूर्णादिभिर् उद्वर्तनं, ततः पञ्चामृताद्यैः सुगन्धि-जलेन च स्नपनम् । ततोऽत्रानुक्तम् अपि अनर्घ्य-कौषेय-वस्त्र-रत्नालङ्कार-चन्दनाद्य्-आलेप-स्रग्-आदिकम् । तत आदर्शो दर्पणं, ततो गन्ध-पुष्प-धूप-दीपाचमनीयानि देयानि । अन्नाद्येति चतुर्विध-स्वाद्व्-अन्न-सुगन्ध-जल-ताम्बूल-मालारात्रिक-पुष्प-शय्या-व्याजनादिकम् । ततो वाद्य-गीत-नृत्यादि स्युः । पर्वण्य् उत्सवे सति उत विभवे विभवे सति अन्वहम् अपि स्युः ॥३५॥

———————————————————————————————————————

॥ ११.२७.३६ ॥

विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः ।
अग्निम् आधाय परितः समूहेत् पाणिनोदितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : फल-भूयस् त्व् आर्थिनोऽग्नाव् अपि पूजा-प्रकारम् आह—विधिना स्व-गृह्योक्त-प्रकारेण । मेखलादिभिर् उपलक्षिते । विहिते विर्मिते । तद् उक्तं—

विस्तारोच्छ्रायतस् तिस्रो मेखलाश् चतुर्-अङ्गुलाः । > हस्त-मात्रो भवेद् गर्तः स-योनिर् वेदिका तथा ॥ इत्य्-आदि ।

उदितं प्रज्वलितम् अग्निं परितः समूहेद् एकत्र मेलयेत् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फल-भूयस् त्व् आर्थिनोऽग्नाव् अपि पूजा-प्रकारम् आह—विधिनेति ।

विस्तारोच्छ्रायतस् तिस्रो मेखलाश् चतुर्-अङ्गुलाः । > हस्त-मात्रो भवेद् गर्तः स-योनिर् वेदिका तथा ॥ इत्य्-आदि ।

उदितं प्रज्वलितम् अग्निं परितः समूहेद् एकत्र मेलयेत् ॥३६॥

———————————————————————————————————————

॥ ११.२७.३७ ॥

परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि ।
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दर्भैः परिस्तीर्य परितः प्रोक्षयेत् । अन्वाधायान्वाधान-संज्ञकं व्याहृतिभिः समित्-प्रक्षेपादि-रूपं कर्म कृत्वा अग्नेर् उत्तरतो द्रव्याणि होमोपयोगीन्य् आसाद्य निधाय प्रोक्षण्या प्रोक्षणी-पात्रोदकेन प्रोक्ष्याग्नौ मां ध्यायेत् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अग्नौ तद्-अन्तर्यामि-रूपं मां विभावयेत् ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च दर्भैः परिस्तीर्य आवृत्य परितः प्रोक्षयेत् । अन्वाधाय आन्वाधान-संज्ञकं व्याहृतिभिः समित्-प्रक्षेपणादि-रूपं कर्म कृत्वा आसाद्य अग्नेर् उत्तरतो निधाय प्रोक्षण्या प्रोक्षणी-पात्रोदकेन प्रोक्ष्य माम् अन्तर्यामितया वह्नौ वर्तमानम् ॥३७॥

———————————————————————————————————————

॥ ११.२७.३८-४१ ॥

तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः ।

लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम् ॥

स्फुरत्-किरीट-कटक- कटि-सूत्र-वराङ्गदम् ।

श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् ॥

ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च ।

प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः ॥

जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः ।

धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शङ्खादिभिर् उल्लसन्तः शोभमानाश् चत्वारो भुजा यस्य तम् ॥ स्फुरन्ति किरीटादीनि यस्य तम् ॥३८-३९॥

हविषा घृतेनाभिघृतानि संसिक्तानि दारूणि शुष्क-समिधः प्रास्य प्रक्षिप्य । आघारौ तत् संज्ञकौ यागौ । एवम् आज्य-भागौ च दत्त्वा, तद् अर्थाहुतीर् हुत्वेत्य् अर्थः । तत्राघारौ "प्रजा-पतये स्वाहा, इन्द्राय स्वाहा" इति चोत्तर-दक्षिण-परिधि-सन्धिम् आरभ्याग्नि-मध्याद् आपरिध्यन्तं घृत-क्षारण-रूपौ । आज्य-भागौ “अग्नये स्वाहा, सोमाय स्वाहा” इत्य् एवं होम-रूपौ ॥४०॥

मूल-मन्त्रेणाष्टाक्षरेण । तथा षोडश ऋचो यस्मिंस् तेन पुरुष-सूक्तेन चावदानतः प्रत्य् ऋचम् आहुति-ग्रहणेनेत्य् अर्थः । पुरुष-सूक्तेनाराधन-पक्षे स एव मूल-मन्त्रस् तेनैव प्रत्य् ऋचम् अवदानतो होम इति । मन्त्रैः स्वाहान्तैर् नाम-मन्त्रैः । यथान्यायं पूजा-क्रमेणैव । “अग्नये स्विष्ट-कृते स्वाहा” इत्य् एवं स्विष्ट-कृतं च हुत्वा ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पञ्चरात्रे विशेषश् चोक्तः—

पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च । > स-कर्पूरं च ताम्बूलं कुर्यान् नीराजनं तथा ॥ [ह।भ।वि। > ८.३१८]

गारुडे च,

अथ भुक्तवते दत्त्वा जलैः कर्पूर-वासितैः । > आचमनं च ताम्बूलं चन्दनैः कर-मार्जनम् ॥ [ह।भ।वि। ८.३२०]

अगस्त्य-संहितायाम्,

स्नेह-संयुक्त-विपुल-वर्तिकाभिर् अनेकधा ।

आरात्रिभिर् अनेकाभिः स्थापिताभिः प्रयत्नतः ॥

पद्म-स्वस्तिक-रूपेण हंसाकारेण चानघ!

भ्रामयेद् रघुनाथस्य पुरस्तात् प्रयतोऽन्वहम् ॥

अत्र विशेषो हरि-भक्ति-विलासे द्रष्टव्यः ॥३८-४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हविषा अभिघृतानि सिक्तानि । गृ-घृ-सेचने । प्रास्य अग्नौ प्रक्षिप्य आघारौ तत्-संज्ञकौइ यागौ एवम् आज्य-भागौ च दत्त्वा तद्-अर्था आहुतीर् दत्त्वेत्य् अर्थः । आज्य-प्लुतं घृत-सिक्तं हरिस् तिलादिकं यज्ञीयं षोडश ऋचो यस्मिंस् तेन पुरुष-सूक्तेन च अवदानतः प्रति-ऋचम् आहुति-ग्रहणेनेत्य् अर्थः । यथा-न्यायं पूजा-क्रमेण मन्त्रैः स्वाहान्तैः अग्नये स्विष्टि-कृते स्वाहेत्य् एवं स्विष्टि-कृतं च हुत्वा ॥३८-४१॥

———————————————————————————————————————

॥ ११.२७.४२-४३ ॥

अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।

मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् ॥

दत्त्वाचमनम् उच्छेषं विष्वक्सेनाय कल्पयेत् ।

मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् ॥

**श्रीधरः-**ततो वह्नि-स्थं भगवन्तम् अन्तर्यामिणम् अभ्यर्च्याथ नमस्-कृत्य पार्षदेभ्यो नन्दादिभ्योऽष्ट-दिक्षु बलिं हरेत् । ततः पूजा-स्थानम् आगत्य देवस्याग्रे समुपविश्य यथा-शक्ति मूल-मन्त्रं जपेत् ॥४२॥

तत्र लभयत्र भगवतो भोजन-समाप्तिं ध्यात्वा आसनं दत्त्वा उच्छेषं विष्वक्सेनाय कल्पयित्वा तद् अनुज्ञया पश्चात् स्वयं भुञ्जीत । ततः सुरभि-मत् सुगन्ध-वत् ताम्बूलाद्यं मुख-वासं दत्त्वाथ पुनर् अप्य् अर्हयेत् पुष्पाञ्जलिना पूजयेत् ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारायण-स्वरूपं ब्रह्म स्मरन् मूल-मन्त्रं जपेत् । उच्छेषं विष्वक्सेनाय कल्पयित्वा तद्-अनुज्ञया स्वयं भुञ्जीत इति स्वामि-चरणाः ॥४२-४३॥

———————————————————————————————————————

॥ ११.२७.४४ ॥

उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम ।
मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : मम कर्माणि कीर्तयित्वाभितो नयन् सर्वेषाम् । प्रकाशयन् मत्-कथाः श्रावयन्न् इत्य् अभिनय-शब्दार्थः ॥४४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिनयन् स्वस्मिन्न् आविष्कुर्वन् । क्षणिको वैयग्र्यं परित्यज्य लब्धावसरो भवेत् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षणिकः गानादि-मयतयोत्सवाविष्टो भवेत् ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षण उत्सवस् तेन दीव्यतीति क्षणिकः उत्सव-मग्नो भवेद् इत्य् अर्थः ॥४४॥

———————————————————————————————————————

॥ ११.२७.४५ ॥

स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि ।
स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्डवत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्तव-स्तोत्राणां भेदं दर्शयति, पौराणैः प्राकृतैर् अपीति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्तवैः स्व-निर्मितैः क्रियात्वेन निर्देशात् कर्तृ-जन्यत्वापत्तेः उच्चावचैर् नाना-प्रकारैः स्तूयते । एभिर् इति स्तोत्रैः करणतया निर्देशेन पूर्व-सिद्धत्वापत्तेः पौराणैर् इत्य् उपलक्षणं, तान्त्रिकैः श्रौतैश् च प्राकृतैर् अधुनान्येन निर्मित्तैश् च । यथोक्तं कालिका-पुराणे—

यः स्वयं गद्य-पद्याभ्यां घटिताभ्यां नमस्कृतिः । > क्रियते भक्ति-युक्तेन वाचिकस् तूत्तमस् तु सः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्तव-स्तोत्रयोर् आर्ष-पौरुषत्वेन भेदः कल्प्यः । प्रसीद भगवन्न् इति विज्ञापयन् दण्डवद् भूमौ पतन् वन्देत ॥४५॥

———————————————————————————————————————

॥ ११.२७.४६ ॥

शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् ।
प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं प्रणमेद् इत्य् अपेक्षायाम् आह—शिर इति । बाहुभ्यां दक्षिणोत्तराभ्यां परस्परं मम दक्षिणोत्तरौ पादौ गृहीत्वा । यद् वा, षृष्ठतः परस्परं निबद्धाभ्यां कृतापराध इव प्रपन्नम् इत्य्-आदि-विज्ञप्त्या च प्रणमेत् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दूरतो नमस्कारम् उक्त्वा किञ्चिद् दूरत आह—शिर इति । अतिनिकटे गर्भ-मन्दिरे च तन्-निषेधात् । टीकायां द्वितीयं पक्षम् आह—यद् वेति यद् उक्तम्—

अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे । > जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥ [ह।भ।वि। ८.३९१]

इति गौतमीये तु विशेषः—

पद्भ्यां कराभ्यां जानुभ्याम् उरसा शिरसा दृशा । > मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ [ह।भ।वि। ८.३६०]

आगमे—

जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया । > पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ [ह।भ।वि। > ८.३६१] इति ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र दण्डवद् वन्दने प्रकारम् आह—शिर इति । अत्र,

अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे । > जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥ [ह।भ।वि। ८.३९१]

इत्य् अग्र-पृष्ठादौ प्रणति-निषेधान् मत्-पादयोर् दक्षिण-पार्श्वे किञ्चिद् दूरे शिरः कृत्वा वन्देत । कीदृशं ? बाहुभ्यां परस्परं सम्मुखीभूत-तर्क-मुद्राभ्यां सहितम् इति शेषः । किं ब्रुवाणि इत्य् अपेक्षायाम् आह—प्रपन्नम् इत्य् अर्धम् ॥४६॥

———————————————————————————————————————

॥ ११.२७.४७ ॥

इति शेषां मया दत्तां शिरस्य् आधाय सादरम् ।
उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः शेषाग्रहण-पूर्वकं वैकल्पिकोद्वासन-प्रकारम् आह—इतीति । अनयैव प्रार्थनया शेषां निर्माल्यं मया दत्तां ध्यात्वा शिरस्य् आधाय धृत्वा यद्य् उद्वासयेत् तर्हि प्रति-मायां यन् न्यस्तं ज्योतिस् तत् पुनर् अपि हृत्-पद्म-स्थ-ज्योतिष्य् एवोद्वास्यम् उद्वषनीयम् ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्योतिषि महाग्न्य्-आदौ पृथक्-कृतं ज्योतिर् इव । तन् मद्-रूपं ज्योतिर् हृद्य् एवोद्वासयेद् इत्य् अर्थः ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति वन्दनान्तरं शेषां निर्माल्यं मया कृपया दत्तां ध्यात्वा शिरस्य् आधाय ज्योतिर् मदीयं सैकत-प्रतिमादि-स्थम् उद्वासं चेत् पुनर् अपि ज्योतिषि स्व-हृत्-पद्मस्थे एव उद्वासयेत् उत्कर्षेण वासयेत् ॥४७॥

———————————————————————————————————————

॥ ११.२७.४८ ॥

अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।
सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेष्व् अधिष्ठानेषु किं मुख्यम् इत्य् अपेक्षायाम् आह—अर्चादिष्व् इति । यदा यत्र श्रद्धा तदा तत्र न त्व् अधिष्ठाने मुख्यामुख्यत्वम् । कुतः ? यतः सर्व-भूतेष्व् इति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यप्य् एवम् अर्चायाम् एव प्राधान्यम् उक्तं, तथापि श्रद्धैव ममाविर्भाव-कारणं यां विना साक्षाद्-भूतस्याप्य् अस्य ममोपलब्धिर् विराड् अविदुषाम् इत्य्-आदिवन् न स्याद् इत्य् अभिप्रेत्य श्रद्धाया आवश्यकत्वं दर्शयितुम् आह—अर्चादिष्व् इति । सत्यां तु श्रद्धायां न च मम स्वतः कुत्रापि दौर्लभ्यं हिरण्यकशिपु-स्तम्भादौ च सुलभत्व-दर्शनाद् इत्य् आह—सर्व-भूतेष्व् इति ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यप्य् एवम् अर्चायाम् एव प्राध्यान्यम् उक्तं, तद् अपि श्रद्धैव ममाविर्भावे कारणं यां विना साक्षाद्-भूतस्याप्य् अस्य ममोपलब्धिर् विराड् अविदुषाम् इत्य्-आदिवन् न स्याद् इत्य् अभिप्रेत्य श्रद्धाया आवश्यकत्वं दर्शयितुम् आह—अर्चादिष्व् इति । अधिष्ठानेषु प्राधान्यम् एव दर्शयितुम् अर्चाद्या उक्ताः । किन्तु श्रद्धाधिक्ये सति मम सर्वं वस्त्व् एवाधिष्ठानं हिरण्यकशिपु-स्तम्भादाव् अपि मत्-सुलभत्व-दर्शनाद् इत्य् आह—सर्व-भूतेष्व् इति ॥४८॥

———————————————————————————————————————

॥ ११.२७.४९ ॥

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।

अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयतः इहामुत्र च ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उभयतः इहामुत्र च ॥४९॥ [भक्ति-सन्दर्भ २९६]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयतः इहामुत्र च ॥४९॥

———————————————————————————————————————

॥ ११.२७.५० ॥

मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृठम् ।

पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समर्थं प्रत्याह—मद्-अर्चाम् इति त्रिभिः । पुष्पोद्यानानि च कारयेत् । पूजा-यात्रोत्सवाश्रितान् । पूजा प्रत्यहम् । यात्रा विशिष्टे पर्वणि बहु-जन-समागमः । उत्सवो वसन्तादि-महोत्सवः, तद् आश्रितान् क्षेत्रादीन् दत्त्वा ॥५०॥


कैवल्य-दीपिका : अर्चा-स्थापनादेः फलम् आह—मद्-अर्चाम् इति । आदि-शब्दात् पूजकः नृत्य यात्रा प्रसादादीनां प्रवाहो निर्वाहः । पूजा तद्-अर्थं पूजाद्य्-आश्रितान् क्षेत्रादीन् न कारयेत् । तत्र पूज्यतेऽनेनेति पूजा पुष्पाणि । यात्रा यत्र नाना-देश्याः सञ्चितानि वस्तूनि विक्रेतुं प्रत्यब्दं मिलन्ति सा । उत्सवः पूजा-हर्ष क्षेत्रं केदारः आपनो हट्टः । पुरं पञ्चशत-ग्राम-मुख्यम् । ग्रामः केवल-शूद्र-वासः । साष्टिता समान प्रभावत्वम् । इयात् प्राप्नुयात् ॥५०-५१॥ [मु।फ। ७.३८-३९]


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्दिरं कारयित्वा मद्-अर्चां सम्प्रतिष्ठापयेद् इति वाच्ये वैपरीत्योक्तिस् तत्रावश्यक-तत्-प्रतिष्ठापन-ज्ञापनाय ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समर्थं प्रत्य् आह—पूजा प्रात्यहिकी । यात्रा जन्माष्टम्य्-आद्या । उत्सवो वसन्तादि-महोत्सवश् च । तान् अस्माकम् अयं भाव इति सद्-भावेन आश्रिता ये धार्मिका धनिनस् तान् मन्दिरादिकान् कारयेत् ॥५०॥

———————————————————————————————————————

॥ ११.२७.५१ ॥

पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् ।
क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूजा-यात्रोत्सवाश्रितान् इत्य् अस्य विवरणम्, पूजादीनाम् इति । प्रवाहार्थं सन्ततानुवृत्त्य्-अर्थम् । मत्-सार्ष्टितां मत्-समानैश्वर्यम् ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये धनिनोऽपि कृतार्था भवन्तीत्य् आह—पूरादीनाम् इति । मत्-सार्ष्टितां मत्- समानैश्वर्यम् ॥५१॥

———————————————————————————————————————

॥ ११.२७.५२ ॥

प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् ।
पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रतिष्ठादीनां व्यस्त-समस्तानां फलम् आह—प्रतिष्ठयेति । मत्-साम्यतां मया साम्यम् इत्य् अर्थः ॥५२॥


कैवल्य-दीपिका : प्रतिष्ठा पर-कृते देव-कुले जीर्णोद्धार-रूपेण प्रतिमा-स्थापनम् । सद्म पर-प्रतिष्ठित-तत्-प्रतिमायाः प्रासाद-मात्र-करणम् । ब्रह्म-लोकं तद्-आधिपत्यं ब्रह्मत्वम् । त्रिभिः स्व-कृतैः प्रतिम-प्रासाद-पूजादिभिः मत्-साम्यतां माम् एव ॥५२॥ [मु।फ। ७.४०]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिष्ठादीनां पार्थक्येन सामस्त्येन च फलम् आह—प्रतिष्ठया भगवत्-प्रतिमा-स्थापनेन, सद्मना मन्दिर-निर्माणेन पूजादि-निर्वाहेण मत्-साम्यतां मत्-सारूप्यं स्वार्थ ष्याञ् ॥५२॥

———————————————————————————————————————

॥ ११.२७.५३ ॥

माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : नैरपेक्ष्येण भक्ति-योगेनैव साम्यम् इत्य् अर्थः ।

निर्दुःखत्वं हरेः साम्यं न तादृश-सुखात्मता । > सर्वोत्तमः सदानदः कथं कस्य कदाप्यते ॥ इति प्रकृते । > आधिपत्यं त्रिलोकस्य योग्यानाम् इन्द्रता स्मृता । > अयोग्यानां त्रिलोकेषु पूज्यत्वं समुदाहृतम् ॥ > तद् भवेत् परया भक्त्या विष्णोर् आलय-कारिणः । > ततोऽप्य् उद्रिक्तया भक्त्या विष्णुं पूजयता सदा । > अवाप्यते ब्रह्म-लोकस् तद् उद्रिक्तश् च मुच्यते ॥ इति च ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स-कामं प्रत्युक्तम् अहैतुक-भक्तं प्रत्याह—मामेवेति । अहैतुको भक्ति-योग एव कथं भवति तत्राह—भक्ति-योगम् इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : नैरपेक्ष्येण निरुपाधिना अहैतुकेन । भक्तिं विनान्यापेक्षान्तर-शून्येनेत्य् अर्थः । अहैतुक-भक्ति-योग एव कथं स्यात् ? स च भक्ति-योग एवं पूजयापि स्याद् इत्य् आह—भक्तीति । एवम् इत्य् अपि नैरपेक्ष्येणैवेत्य् अर्थः ॥५३॥ [भक्ति-सन्दर्भ २३५, २९७]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस् तु नैरपेक्ष्येण ज्ञान-कर्म-कामनान्तर-राहित्येनैव एवं मां पूजयेत् अर्चनं कुर्यात् । यद् वा, धन-क्षेत्रापणादि-दानेन पूजां कारयेत् स भक्ति-योगं प्रेमाणं लभते । ततश् च भक्ति-योगेन प्रेम्णा माम् एव विन्दति ॥५३॥

———————————————————————————————————————

॥ ११.२७.५४ ॥

यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः ।
वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दातुः फलम् उक्तम्, अपहर्तारं निन्दति, य इति । विड्-भुक् विष्ठा-भोजी कृमिः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-पूजार्थं धन-क्षेत्रादि-दातुर् विविधं फलम् उक्तम् । तद्-अपहर्तुः फलम् आह—य इति ॥५४॥

———————————————————————————————————————

॥ ११.२७.५५ ॥

कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च ।

कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्तुर् यत् फलं तद् एवान्येषाम् अपीत्य् आह—कर्तुर् इति । सारथेः सह-कारिणो हेतोः प्रयोजकस्यानुमोदितुश् च प्रेत्यैतत् फलम् इत्य् अन्वयः । कुतः । यतः कर्मणाम् एते भागिनो भागार्हाः । तत्रापि विशेषम् आह—भूयसि कर्मणि सारथ्य्-आदौ च भूयोऽधिकं फलम् इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न केवलं दात्र्-अपहर्त्रोर् एव तत्-तत्-फलम् अपि तु तत्-तत्-सहायादीनाम् अपीत्य् आह—कर्तुर् इति ॥५५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपहर्तुर् यत् फलं तद् एव तत्-सहायादीनाम् अपि इत्य् आह—कर्तुर् इति । सारथेः सहकारिणः हेतोः प्रयोजकस्य, अनुमोदितुश् च प्रेत्य मरणानन्तरं तत्-फलम् इत्य् अन्वयः । कुतः ? यतः कर्मणाम् एते भागिनः भागार्हाः । तत्रापि विशेषम् आह—भूयसि कर्मणि सारथ्यादौ भूयोऽधिकम् एव फलम् ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे सप्त-विंशः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस-संहितायां वैयासिक्यां

एकादश-स्कन्धे क्रिया-योगो नाम

सप्तविंशोऽध्यायः

॥११.२७॥



  1. वराहोक्ता ↩︎

  2. वृद्धि-जीविनः सङ्गृहीतम् । ↩︎