२६ ऐल-गीतम्

॥ ११.२६.१ ॥

श्री-भगवान् उवाच—

मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः ।

आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

गुण-कृताम् अनु-संसरण-प्रथं

अजित-पुण्य-कथा-कथनादिभिः ।

धुनुत भक्ति-रसेन विवेकिनो

न हि पुनः सु-लभं जनुर् ईदृशम् ॥

षड्-विंशे योग-निष्ठाया विघातो दुष्ट-सङ्गतः ।

साधु-सङ्गेन तन्-निष्ठापराकाष्ठेति वर्ण्यते ॥

योगिनो योग-विभ्रंशः सङ्गतः संभवेद् इति ।

सर्वथा तन् निवृत्त्य्-अर्थ-भैल-गीतं वितन्यते ॥

निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः [भा।पु। ११.२५.३४] इत्य् उक्तम्, तत्र विपक्षेऽनर्थं कथयिष्यन् जीवन्-मुक्तस्यापि तर्हि सङ्गो दुर्वार इत्य् अनर्थः स्याद् इत्य् आशङ्क्योक्तानुवाद-पूर्वकं परिहरति सार्धाभ्याम् । मल्-लक्षणं मत्-स्वरूपं लक्ष्यते येन तम् इमं नर-देहं लब्ध्वा मद्-धर्मे भक्ति-लक्षणे आस्थितः सन्न् आत्म-स्थम् आत्मन्य् एव नियन्तृत्वेन स्थितं परमानन्द-रूपम् आत्मानं मां समुपैति सम्यक् प्राप्नोति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

स्त्री-सङ्गो मोहयेल् लोकं साधु-सङ्गः प्रबोधयेत् ।

इत्य् आहैल-कथा-चित्रे षड्विंशे हरिर् उद्धवम् ॥

निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः [भा।पु। ११.२५.३४] । अत्र च, उपायं चिन्तयन् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् इति न्यायेन स्त्री-सङ्गः खलु तत्र महान् अन्तरायः । तस्माच् च, जीवन्मुक्तेनापि भेतव्यम् इति वक्तुं पूर्व-प्रक्रान्तं जीवन्मुक्तत्वम् आह सार्ध-द्वाभ्याम् । मल्-लक्षणं मत्-स्वरूपं लक्ष्यते येन तम् इमं नर-देहं लब्ध्वा मद्-धर्मे भक्ति-लक्षणे आस्थितः सन्न् आत्म-स्थम् आत्मन्य् एव नियन्तृत्वेन स्थितं परमानन्द-रूपम् आत्मानं मां समुपैति सम्यक् प्राप्नोति ॥१॥

———————————————————————————————————————

॥ ११.२६.२ ॥

गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया ।

गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः ।

वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर् गुणैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वस्तु स्वत्नत्रम् उद्दिष्ताम् अस्वतन्त्रम् अवस्तु च इति माहात्म्ये ॥२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : न चैवं-भूतस्य विषय-सङ्गो नामास्तीत्य् आह—गुण-मय्येति । गुण-मयी या जीव-योनिर् जीवोपाधिस् तया विमुक्तो गुणेषु वर्तमानोऽपि तैर् न युज्यते सङ्गं न प्राप्नोति । अत्र हेतुः, अवस्तुभिः । नन्व् अवस्तुभिर् अप्य् अन्ये युज्यमाना दृश्यन्ते तत्राह—अवस्तुत्वेन दृश्यमानेषु ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च गुण-मयी या जीव-योनिर् जीवोपाधिस् तया विमुक्तः, अत एव गुणेषु विषयेषु माया-मयेषु प्राकृतेषु भगवत्-सम्बन्ध-गन्धेनापि रहितेष्व् इत्य् अर्थः । वर्तमानोऽपि तैर् गुणैर् अवस्तु-तुल्यैर् वस्तुभिर् अपि वा न युज्यते, बद्ध-जीव इव नासक्तो भवति । कुतः ? अवस्तुतः, न वस्तुतो दृश्यमानेषु, वस्तुतो दृष्टिस् तस्य मयि परमात्मन्य् एव इति भावः ॥२॥

———————————————————————————————————————

॥ ११.२६.३ ॥

सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् ।

तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि सङ्गं वर्जयेद् इत्य् आह—सङ्गम् इति । असतां लक्षणम् आह—शिश्नोदरे तर्पयन्तीति शिश्नोदर-तृपस् तेषां क्वचित् कदाचिद् अपि, आस्तां तवद् बहूनां सङ्गः, किन्तु तस्यैकस्याप्य् अनुगोऽनुवर्ती अन्धम् अनुगच्छति योऽन्धस् तद्वत् ॥३॥


सनातन-गोस्वामी : [ह।भ।वि। १०.३००] असतां लक्षणम् आह—शिश्नोदरे तर्पयन्तीति शिश्नोदर-तृपस् तेषां क्वचित् कदाचिद् अपि, आस्तां तवत् तादृशानां बहूनां सङ्गः, तस्यैव कस्याप्य् अनुगोऽनुवर्ती अन्धम् अनुगच्छति योऽन्धस् तद्वत् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यस् तु तथा सत्-सङ्गं न कुर्याद् इत्य् आह—सङ्गं नेति ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं-भूतोऽप्य् असत्-सङ्गं न कुर्यात्, किं पुनर् अन्यो नैवं-भूत इत्य् आह—सङ्गम् इति । असतां लक्षणम् आह—शिश्नोदरे तर्पयन्तीति तथा तेषां किं च तेषां बहूनां सङ्ग आस्ताम्, एकस्यापि तस्यानुगोऽनुवर्ती पतति ॥३॥

———————————————————————————————————————

॥ ११.२६.४ ॥

ऐलः सम्राड् इमां गाथाम् अगायत बृहच्-छ्रवाः ।

उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रेतिहासम् आह—ऐलः पुरूरवाः । सम्राट् चक्रवर्ती । बृहच्-छ्रवः कीर्तिर् यस्य सः । उर्वशी-विरहात् प्रथमं मुह्यन् पश्चात् कुरु-क्षेत्रे तां समागम्य गन्धर्व-दत्तेनाग्निना देवान् इष्ट्वा पुनर् उर्वशी-लोकं प्राप्य शोक-संयमे शोकापगमे सति ततो निर्विण्णः सन्निमां गाथाम् अगायतेति नवम-स्कन्धानुसारेण द्रष्टव्यम् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रेतिहासम् आह—ऐलः पुरूरवाः । प्रथमं मुह्यंस् ततः कुरु-क्षेत्रे तां समागम्य गन्धर्व-दत्तेनाग्निना देवान् इष्ट्वा पुनर् उर्वशी-लोकं प्राप्य शोक-संयमे भोगाच् छोकापगमे सति विघ्न-स्थगितम् अकस्माद् एवोत्थितं भक्ति-ज्ञान-वैराग्यं प्राप्य गाथाम् अगायतेति नवम-स्कन्धानुसारेण द्रष्टव्यम् ॥४॥

———————————————————————————————————————

॥ ११.२६.५ ॥

त्यक्त्वात्मानं व्रजन्तीं तां नग्न उन्मत्त-वन् नृपः ।

विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राक्तनीं मोहावस्थाम् आह—त्यक्त्वेति । आत्मानं राजानं त्यक्त्वा । अथवा शय्यायाम् आत्मानं त्यक्त्वा व्रजन्तीम् । घोरे तिष्ठेति—

हये जाये मनसा तिष्ठ घोरे वशंसि मिश्रा कृणवावहै नु ।

न नौ मन्त्रा अनुदितास एते मयस्करन् परतरे च नाहन् ॥ [ऋ।वे। १०.९५.१]

इत्य् एवं मन्त्रैर् विलपन् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य प्राक्तनीं मोहावस्थाम् आह—त्यक्त्वेति । हे जाये ! मत्-प्राण-हरणात् हे घोरे ! तिष्ठेति विलपन् अन्वगात् ॥५॥

———————————————————————————————————————

॥ ११.२६.६ ॥

कामान् अतृप्तोऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः ।

न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वैक्लव्ये कारणम् आह—कामान् इति । वर्पाणां यामी रात्रीर् यान्तीर् अपयान्तीः अयान्तीर् आगामिनीः । उर्वश्या आकृष्टा चेतना यस्य सः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वर्ष-यामिनीर् इत्य्-आदिकं पृथ्वी-स्थत्वावस्थापेक्षया ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैक्लव्ये कारणम् आह—कामान् इति ॥६॥

———————————————————————————————————————

॥ ११.२६.७ ॥

ऐल उवाच

अहो मे मोह-विस्तारः काम-कश्मल-चेतसः ।

देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य गन्धर्व-लोके प्राप्तस्य बहु-कालम् उर्वशी-संभोगानन्तरं निर्विण्णस्य गाथाम् आह अष्टादशभिः । तत्राष्टभिर् अनुतापः प्रपञ्च्यते, अहो इति । यतो मय इमे अहो-रात्र-रूपा आयुः-खण्डा न स्मृताः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काम-ग्रस्त-चेतसो मम इमे आयुः-खण्डा इमान्य् आयुः-खण्डानि ॥७॥

———————————————————————————————————————

॥ ११.२६.८ ॥

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया।

मूषितो वर्ष-पूगानां बताहानि गतान्य् उत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—नाहम् इति । अभिनिर्मुक्तो मयि रममाणेऽस्तं गतोऽभ्युदितो वा सूर्य इति । अमुया उर्वश्या वञ्चितः । बत खेदे । उतापि । वर्ष-पूगानाम् अपि गतान्य् अहानि न वेदेति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मरणम् एवाह—नाहम् इति । अभिनिर्मुक्तः सूर्योऽस्ते सति स्वपनः, अभ्युदितः सूर्ये उदिते सत्य् अपि स्वपन्न् अहम्, सूर्यासूर्यं न वेद नाज्ञाशिषम् । सूर्य इति द्वितीयार्थे प्रथमा । वेदेति भूतेऽपि लट् प्रथम-पुरुषश् चार्षः ।

सुप्ते यस्मिन्न् अस्तम् एति सुप्ते यस्मिन्न् उदेति च ।

अंशुमान् अभिनिर्मुक्ताभ्युदितौ च यथा-क्रमम् ॥ इत्य् अमरः ।

कुतो नाज्ञाशिषं ? अत आह—अमुया उर्वश्या मूषितश् चोरित-विवेक-सर्वस्व इत्य् अर्थः । बतेति खेदे । वर्ष-पूगानां वर्ष-समूहानाम् अहान्य् अपि न वेद ॥८॥

———————————————————————————————————————

॥ ११.२६.९ ॥

अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः ।

क्रीडा-मृगश् चक्रवर्ती नरदेव-शिखामणिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : येन संमोहेन । आत्मा देहः क्रीडा-मृग-वद् अधीनः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा देहः । योषितां क्रीडा-मृगः कृतः ॥९॥

———————————————————————————————————————

॥ ११.२६.१० ॥

स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् ।

यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु प्रणय-कुपिताया अनुनयार्थम् अधीनता युक्तैव, सत्यम्, न त्व् अत्र तद् अस्तीत्य् आह—स-परिच्छदं राज्यादि-सहितम् ईश्वरं चक्र-वर्तिनं तृणम् इव त्यक्त्वा यान्तीम् अप्य् अन्वगमम् अनुगतोऽस्मि ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतोऽहम् आत्मानं माम् ईश्वरं चक्रवर्तिनं तृणम् इव हित्वा यान्तीं स्त्रियम् अन्वगमम् ॥१०॥

———————————————————————————————————————

॥ ११.२६.११ ॥

कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा ।

योऽन्वगच्छन् स्त्रियं यान्तीं खर-वत् पाद-ताडितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मम प्रभावाद्य्-अभिमानो वृथैवेत्य् आह—कुतस् तस्य मे तेजो बलम् । खरो यथा पाद-ताडितोऽपि खरीम् अनुगच्छति तद्वत् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं महा-तेजः प्रभावैश्वर्यं ? कथम् एवं दैन्यम् आलम्बसे तत्राह—कुत इति तस्य मम ॥११॥

———————————————————————————————————————

॥ ११.२६.१२ ॥

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।

किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतस्य सर्वं साधनं व्यर्थम् इत्य् आह—किम् इति । त्यागेन सन्न्यासेन । विविक्तेन एकान्त-सेवया । मौनेन वाङ् नियमेन ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्-तुल्यस्यान्यस्यापि विद्यादिकं सर्वं व्यर्थम् इत्य् आह—किम् इति ॥१२॥

———————————————————————————————————————

॥ ११.२६.१३ ॥

स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् ।

योऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुतप्तः सन्न् आत्मानं निन्दति द्वाभ्याम्, स्वार्थस्येति । अकोविदम् अज्ञातारम् । गो-खर-वत् गौरिव खर इवेति ।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२६.१४ ॥

सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् ।

न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अधरासवं सेवमानस्यात्म-भूर् मनसि-जः पुनः पुनर् उद्भवन् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सेवतः सेवमानस्य आत्म-भूर् मनो-जन्यः ॥१४॥

———————————————————————————————————————

॥ ११.२६.१५ ॥

पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः।

आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अष्टभिर् निर्वेदो निरूपितः, इदानीं तस्य विवेकम् आह दशभिः, पुंश्-चल्येति । अयं भावः, कर्मभिर् देवान् इष्ट्वा दुःखम् एव प्राप्तोऽस्मि, अतः परमेश्वरम् एव भजेयम् इति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हीदानीं तस्माद् अधरासवात् केन मोचितः प्रप्तैतादृश-वैतृष्ण्योऽसि ? तत्राह—पुंश्चल्येति । मोचितुं मोचयितुम् । आत्मारामेश्वरम् इति आत्मारामोऽपि मादृशस्य देहारामस्य चित्तं प्रायो मोचयितुं न शक्नोति । किन्त्व् आत्मारामेश्वरः परमेश्वरः एव शक्नोति इति भावः । तत्र हेतुर् निरतिशयैश्वर्यम् एवेत्य् आह—भगवन्तं मन्-मोचने परम-समर्थम् अधोक्षजम् अधः-कृतं तिरस्कृतं भवेत् । अक्षजम् ऐन्द्रियकं ज्ञानं यस्मात् तम् ॥१५॥

———————————————————————————————————————

॥ ११.२६.१६ ॥

बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः।

मनो-गतो महा-मोहो नापयात्य् अजितात्मनः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परमेश्वर-प्रसादं विन देवैर् उपदिष्टाद् अपि वेद-वाक्यान् मोहो न निवर्तत इत्य् आह—बोधितस्यापीति । देव्या उर्वश्या सूक्त-वाक्येन यथार्थ-वचनेन,

पुरूरवो मा मृथा मा प्रतप्तो म त्वा वृकासो अशिवास उक्षन् ।

न वै स्त्रैणानि सख्यानि सन्ति साला-वृकाणां हृदयान्येता ॥ इत्य् अनेन ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोर् एवोर्वश्या बहुतरम् उपदिष्टाद् वैराग्याद् एव तव मोहोऽपगत इति चेन्, नहीत्य् आह—बोधितस्येति । नापयाति नापययौ ॥१६॥

———————————————————————————————————————

॥ ११.२६.१७ ॥

किम् एतया नोऽपकृतं रज्ज्वा वा सर्प-चेतसः।

द्रष्टुः स्वरूपाविदुषो योऽहं यद् अजितेन्द्रियः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं पुंश्-चल्यापहृतं चित्तम् इत्य्-आदिना तस्या अषकारोऽनुस्मृतः, इदानीं ममैवायम् अपराध इत्य् आह—किम् एतयेति । नोऽस्माकं कामिनाम् एतया किम् अपकृतम्, न किञ्चिद् अपि । यथा रज्जु-स्वरूपाविदुषो रज्जु-द्रष्टुः पुंसस् तस्यां सर्प-कल्पनया खिद्यतेऽपि रज्ज्वा किम् अपि नापकृतं तद्वत् । यद् यस्माद् योऽहम् एवं-भूतः त एवाजितेन्द्रियत्वाद् अपराधीत्य् अर्थः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुंश्चल्यापहृतम् इति पूर्वम् उक्तम् । इदानीं तु ममैवायं दोषो न तस्या इत्य् आह—किम् एतयेति । एतया ऊर्वश्या नोऽस्माकं किम् अपकृतं ? न किञ्चिद् अपि । सर्प-चेतसो जनस्य रज्ज्वा वा किम् अपकृतं ? न किम् अपि । यतो रज्जु-स्वरूपम् अविदुषस् तस्यैव दोषः । स हि स्वाज्ञानाद् एव बिभेति । यद् यस्माद् अहम् अपि तथैवाजितेन्द्रियो मोहम् एतादृशम् अभजम् ॥१७॥

———————————————————————————————————————

॥ ११.२६.१८ ॥

क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मकोऽशुचिः।

क्व गुणाः सौमनस्याद्या ह्य् अध्यासोऽविद्यया कृतः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तथापि सैव सौगन्ध्य-प्रेमादि-गुणैः संमोह-मूलम् इत्य् आशङ्क्य, तेऽपि स्व-मति-परिकल्पिता एवेत्य् आह चतुर्भिः—क्वायम् इति । मलीमसोऽति-मलिनः । सुमनसां कुसुमानाम् इव गन्ध-सौकुमार्यादि-सौमनस्यं शोभन-मनो-भावो वा ॥१८॥


कैवल्य-दीपिका : क्वायम् इत्य्-आदि । मलीमसो मलिनः । सौमनस्यं पुष्प-तुल्यत्वम् । तच् च गन्धेन दौर्गन्ध्यादि-व्यतिरेकात् । अध्यासः अतद्-रूपे तद्-रूप-बुद्धिः ॥१८॥ [मु।फ। १६.१]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तद् अपि सैव सौगन्ध्य-सौरभ्य-माधुर्यादि-स्व-गुणैस् तदीय-संमोह-मूलम् इति चेन् मैवम् । तेऽपि गुणा मद्-अविवेक-परिकल्पिता एवेत्य् आह—क्वायम् इति । वस्तु-विचारतो मलीमसोऽतिमलिन एव कायः क्व ? सुमनसां पुष्पाणाम् इव सौरभ्य-सौकुमार्यादिकं सौमनस्यं तद्-आद्या गुणा वा क्व ? किं त्व् अयम् अध्यासस् तस्याम् आरोपो मया स्व-मोहेनैव कृतः ॥१८॥

———————————————————————————————————————

॥ ११.२६.१९ ॥

पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्व-गृध्रयोः।

किम् आत्मनः किं सुहृदाम् इति यो नावसीयते॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ममत्वम् अपि तस्मिन् परिकाल्पेतम् एवेत्य् आह—पित्रोः किं स्वं कायः जनकत्वात् । नु वितर्के । भार्याया वा भोग-प्रदत्वात् । अत्रानुपयुक्तम् अप्य् एतन् न्याय-तुल्यत्वाद् उक्तम् । स्वामिनो वाऽधीनत्वात् । अग्नेर् वा अन्त्येष्ट्यां तदाहुतित्वात् । श्व-गृध्रयोर् वा भक्ष्यत्वात् । किं वात्मनस् तत्-कृत-शुभाशुभ-भागित्वात् । सुहृदां वा उपकारित्वात् । एवं यो न निश्चीयते ॥१९॥


कैवल्य-दीपिका : पित्रोर् इति । नावसीयते न निष्ठीयते । अत्र पित्रादीनां क्रमाज् जननोपक्रमाद् आह—भक्षणाधिष्ठानो दीप-योगाः स्वत्व-हेतवः ॥१९॥ [मु।फ। १६.२]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सामान्यतो देह-मात्रेऽपि ममत्वम् अविवेक-कल्पितम् एवेत्य् आह—पित्रोः किं स्वम् अयं कायः जनकत्वात् । नु वितर्के । भार्याया वा भोग-प्रदत्वात्, स्वामिनः पत्युर् वा भोग्यत्वात् । अग्नेर् वा अन्त्येष्ठ्यां तद् आहुति-रूपत्वात् । श्व-गृध्रयोर् वा भक्ष्यत्वात् । किं वा, आत्मनस् तत्-कृत-शुभाशुभ-भागित्वात् । सुहृदां वा उपकारित्वात् । एवं यो न निश्चीयते ॥१९॥

———————————————————————————————————————

॥ ११.२६.२० ॥

तस्मिन् कलेवरेऽमेध्ये तुच्छ-निष्ठे विषज्जते।

अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तुच्छा कृमि-विड्-भस्म-लक्षणा निष्ठा अन्तो यस्य तस्मिन् काये कलेवरे प्रियत्वेन गृहीते । विषङ्गम् एवाह—अहो इति । सुनसं शोभन-नासिकम् ॥२०॥


कैवल्य-दीपिका : तस्मिन्न् इति । तस्मिन् निश्चिते अमेध्ये अपवित्रे तुच्छेन अल्पेन निष्ठा-नाशोऽस्येति तुच्छ-निष्ठम् ॥२०॥ [मु।फ। १६.३]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुच्छ-लोक-निष्ठे निन्द्य-फले वा विसज्जते । विषज्जन-प्रकारम् आह—अहो इति ॥२०॥

———————————————————————————————————————

॥ ११.२६.२१ ॥

त्वङ्-मांस-रुधिर-स्नायु-मेदो-मज्जास्थि-संहतौ।

विण्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो गुणारोपेण रममाणा मादृशाः कृमि-तुल्या इत्य् आह—त्वग्-आदि-संहतौ तत्-सङ्घाते देहे । विण्-मूत्रादि-संहतौ रमतां कृमीणां वा ॥२१॥


कैवल्य-दीपिका : विषज्जते विशेषात् सङ्गं करोति । तद् आह—त्वग् इति । अहो इत्य्-आदि । विडादीनां त्रयाणां द्वन्द्वैकत्वम् । त्वग्-आदीनां सप्तानां संहतिः सङ्घातो यस्मिन् विण्-मूत्र-पूये । तत्र रमतां प्राणिनां च कृमीनांकियद् अन्तरं ? न कियद् अपीत्य् अर्थः ॥२१॥ [मु।फ। १६.४]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विण्-मूत्र-पूये तन्-मये देहे रममाणानां मादृशानां कृमीणां कियद् अन्तरं ? न कियद् अपि ॥२१॥

———————————————————————————————————————

॥ ११.२६.२२ ॥

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित्।

विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अप्य् एवं बीभत्सिता एव स्त्रियोऽथापि नोपसज्जेतावलोकनादिनापि सङ्गं न कुर्यात् । अर्थ-विद् विवेकी । अत्र हेतुः, विषयेति ॥२२॥


कैवल्य-दीपिका : पुंश्चली ऊर्वशी । नु अहो । आत्मनि स्व-स्वरूपे सदानन्द-घने आरमन्ति सर्व-कालम् अभिव्याप्य क्रीडन्ति मनो-व्यापारयन्ति ये ते तथा, जीवन्मुक्ता इत्य् अर्थः । तेषाम् ईश्वरं नित्य-मुक्तत्वात् । अत्र क्वायम् इति क्षेपार्थेण जुगुप्सा गम्यते । तस्या देह-दोषा उद्दीपन-विभावाः । सञ्चारिणस् तूह्याः । जुगुप्सा-युक्तस्य चेतसो भगवद्-विषयत्वाद् भक्ति-रसत्वम् ॥२२॥ [मु।फ। १६.५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यप्य् एवं बीभत्सिता एव स्त्रियस् तथापि तासु जना उपसज्जन्ते वेत्य् अतो निषिध्यति—अथापीति । अर्थ-वित् विवेकी तु तथापि न तासु विसज्जेत तद्-दर्शनाद् अपि दूरे तिष्ठेत् यतो विषयेत्य् आदि ॥२२॥

———————————————————————————————————————

॥ ११.२६.२३ ॥

अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते ।

असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु क्वचिन् निमीलित-नयनादेर् अपि मनः-क्षोभो दृश्यते, सत्यम्, सोऽपि पूर्व-दर्शनादिकं विन न भवतीत्य् आह—अदृष्टाद् इति । भावात् पदार्थात् । भावो मनः-क्षोभः । अतः प्राणानीन्द्रियाण्य् असंप्रयुञ्जतोऽनियच्छतः । स्तिमितं निश्चलं सत् ॥२३॥


कैवल्य-दीपिका : ॥२३॥ [मु।फ। १६.६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निर्जने स्थितस्यापि मुनेर् मनः-क्षोभः क्वचिद् दृश्यते, सत्यम् । स खलु प्राचीन-स्त्री-दर्शन-संस्कारोत्थ एवेति सोपपत्तिकम् आह—अदृष्टाद् इति । तस्मात् प्राणान् इन्द्रियाणि स्त्री-विषये न सम्प्रयुञ्जतो जनस्य मनः स्तिमितं निश्चलं सत् शाम्यति ॥२३॥

———————————————————————————————————————

॥ ११.२६.२४ ॥

तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः।

विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियैः कृत्वा । अविश्रब्धोऽविश्वसनीयः । मादृशाम् अविवेकिनाम् ॥२४॥


कैवल्य-दीपिका : ॥२४॥ [मु।फ। १६.७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं ज्ञाने सति इन्द्रियैः श्रोत-नेत्रादिष्व् एकेनापि सङ्गो न कर्तव्य इत्य् अर्थः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविस्रब्धः अविश्वसनीयः इत्य् अर्थः । षड्-वर्गः षड्-इन्द्रिय-वर्गः ॥२४॥

[अत्रानुरूपार्थकं भा। ३.३१.३९, ९.६.५१, ११.१४.२९-शं पद्य-जातं द्रष्टव्यम् ।]

———————————————————————————————————————

॥ ११.२६.२५ ॥

श्री-भगवान् उवाच—

एवं प्रगायन् नृप-देव-देवः

स उर्वशी-लोकम् अथो विहाय ।

आत्मानम् आत्मन्य् अवगम्य मां वै

उपारमज् ज्ञान-विधूत-मोहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : फलितम् आह द्वाभ्याम्—एवम् इति । नृपेषु देवेषु च दीव्यतीति तथा ॥२५॥


कैवल्य-दीपिका : ॥२५॥ [मु।फ। १६.८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानात् पूर्वम् एव कुतोऽपि लब्धाद् विधूतो मोहो यस्य सः । पुंशल्यापहृतं चित्तं [भा।पु। ११.२६.१५] इत्य्-आदि-प्राचीन-तद्-वाक्याद् एव भगवज्-ज्ञान-सद्-भावोपलब्धेः । ततो दुःसङ्गम् उत्सृज्य [भा।पु। ११.२६.२६] इत्य् उत्तर-वाक्य-स्वारस्याच् च ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृपेषु देवेषु च दीव्यतीति तथा । आत्मनि मनसि आत्मानं प्रेमास्पदं माम् अवगम्य भक्त्या अनुभूय उपारमत् शरीरं तत् त्याज ॥२५॥

———————————————————————————————————————

॥ ११.२६.२६ ॥

ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् ।

सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तिभिर् हितोपदेशैर् इति तीर्थ-देवादि-साङ्गाद् अपि सत्-सङ्गः श्रेयान् इति दर्शयति ॥२६॥


सनातन-गोस्वामी : [ह।भ।वि। १०.३१८] सन्तो भगवद्-भक्ता एव, न तु कर्म-ज्ञानादि-पराः। मनसो व्यासङ्गं गृहाद्य्-आसक्तिं कामादि-सम्बन्धं वा । उक्तिभिर् हितोपदेशैः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : असत्-सङ्ग-त्यागेऽपि न किञ्चित् स्यात्, किन्तु सत्-सङ्गेनैवेत्य् आह—तत इति ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यासङ्गं विरुद्धाम् आसक्तिम् । सन्त एवेत्य् एव-कारेण सुकृति-तीर्थ-देव-शास्त्र-ज्ञानादीनां न तादृशं सामर्थ्यम् इति ज्ञापितम् ॥२६॥

———————————————————————————————————————

॥ ११.२६.२७ ॥

सन्तोऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां लक्षणम् आह—सन्त इति । विशेषणाष्टकस्य यथेष्टं हेतु-हेतु-मद्-भावः ।


सनातन-गोस्वामी : [ह।भ।वि। १०.६५] एवं धर्मानादरेणैकान्तिता-लक्षणं लिखित्वा इदानीं भगवद्-व्यतिरिक्तैहिकामुष्मिकाद्य्-अशेष-नैरपेक्ष्येण या एकान्तिता, तल्-लक्षणं लिखति—सन्त इति । सन्त एवास्य छिन्दन्ति मनो-व्यसनम् उक्तिभिः [भा।पु। ११.२६.२६] इत्य् उक्त्यापेक्षितं सतां लक्षणं मुख्यम् आह—सन्त इति । अनपेक्षाः मद्-व्यतिरिक्ते कुत्रचिद् अपेक्षा-रहिता ये ते सन्तः । तत्र हेतुः—मय्य् एव चित्तं येषं ते । प्रशान्त इत्य्-आदि विशेषण-षट्कस्य यथा-सम्भवं हेतु-हेतुमत्तोह्या । तत्र प्रशान्ता राग-द्वेषादि-रहिताः, सम-दर्शिनः मित्रे शत्रौ चैक-दृष्टयः, निर्ममा ममत्व-मोह-हीनाः, निरहङ्काराः अभिमान-शून्याः, निर्द्वन्द्वाः शीतोष्णादिना अनाकुलाः, निष्परिग्रहाः अकिञ्चनाः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मच्-चित्ता इति विशेष्यम् । तस्य चानपेक्षत्वादिकं स्वरूप-गुणानुवाद-मात्रम् । विषयान् ध्यायतश् चित्तं [भा।पु। ११.१४.२७] इत्य् आदेः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्त एव के ? ते ये स्व-सङ्गि-शुभ-प्रदास् तेषाम् उक्तयश् च काः ? इत्य् अपेक्षायाम् आह—सन्त इति द्वाभ्याम् । अनपेक्षाः कर्म-ज्ञानादीन्, स्वार्थं देव-मनुष्यादींश् च नापेक्षन्ते इति ते तथा । तर्हि त्वाम् अपि नापेक्षन्ते, तत्राह—मच्-चित्ता इति । त्वच्-चित्ताः कंसादयो\ऽप्य् अभूवंस् तत्राह—प्रशान्ताः अक्रोधनाः । यदि तान् केचिद् द्विषन्ति, तर्हि तेषु कथम् अक्रोधनाः ? तत्राह—सम-दर्शिनः स्व-बन्धु-शत्रु-तटस्थादिषु तुल्य-दृष्टयः । तत्र हेतुर् अहङ्कारजय एवेत्य् आह—निर्ममा निरहङ्कारा इति । अत एव मानापमानाद्योस् तुल्यत्वान् निर्द्वन्द्वाः । ननु पुत्र-कलत्रादिमत्त्वे नैतादृशत्वं सम्भवेत् ? तत्राह—निष्परिग्रहाः त्यक्त-परिग्रहास् त्यक्त-तद्-आसक्तयो वा ये मद्-भक्तास् ते सन्तः ॥२७॥

———————————————————————————————————————

॥ ११.२६.२८ ॥

तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः।

सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च तेषूपदेशाषेक्षा, अपि तु केवलं तत् सन्निधिर् एव तारयतीत्य् आह—तेष्व् इति सप्तभिः ॥२८॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२७७] सम्भवन्ति सम्यक् जायन्ते । ताः कथा एव अघं पापं प्रकर्षेण पुनन्ति, सवासनम् उन्मूलयन्ति, संसार-दुःखं नाशयन्तीति वा ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रपुनन्तीति प्र-शब्दः स्वत एव तेषां पुनान्त्वात् ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् उक्तयो हि मत्-कथा एवेत्य् आह—तेष्व् इति ॥२८॥

———————————————————————————————————————

॥ ११.२६.२९ ॥

ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः।

मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रवणादिभिर् एव मत्-पराः श्रद्दधानाश् च सन्तो भक्तिं विन्दन्ति ॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२७८] श्रवणादिभिर् एव मत्-पराः श्रद्दधानाश् च श्रवणादिष्व् एव प्रीतिमन्तः सन्तः भक्तिं प्रेम-लक्षणां विन्दन्ति । भगवद्-भक्त—सङ्गस्य दौर्लभ्यम् आह—सत्-सङ्ग इति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-कथानां च न केवलं पावनता-मात्रं किन्त्व् अभ्यासेन भक्ति-प्रदायितापीत्य् आह—ता इति ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२६.३० ॥

भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते।

मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तेस् तु भक्तिर् एव फलम् इत्य् आह—भक्तिम् इति । तत्र हेतुः—मयीति ब्रह्मणि सर्वतो बृहत्तमे । तद् एवाह—आनन्देति । आनन्दाद् धीमानि भूतानि जायन्त [तै।उ। ३.६] इत्य् आदेः, को ह्य् एवान्यात् कः प्राण्याद् [तै।उ। २.७] इत्य् आदेश् च श्रुतेः । आनन्दस्यैव परम-बृहत्तमत्वम् इति तत्रापि अनन्त-गुणे मधुरानन्त-गुण-वैचित्रम् इति ततश् च परमातिपरम-बृहत्तमत्वम् इत्य् अर्थः । सर्वांशेन पूर्णत्वात् एवंभूते च या भक्तिः सैव परम-पुरुषार्थतयोपयुज्येतैतादृशानन्दात्मकत्वाद् इति भावः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम् अन्यत् फलम् अवशिष्यते ? न किम् अपि भक्तेर् एव सर्व-फल-रूपत्वाद् इति भावः । तत्रानन्त-गुणे अनन्त-सच्चिदानन्दात्मकाहङ्कार-ममकारादि-गुणे इति प्रेमा ब्रह्मणीति मुक्तिः । आनन्दानुभवेति ब्रह्म-सुखानुभवो\ऽपि तस्यानुषङ्गिकः स्याद् एवेति भावः ॥३०॥

———————————————————————————————————————

॥ ११.२६.३१ ॥

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।

शीतं भयं तमोऽप्येति साधून् संसेवतस् तथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विभावसुम् अग्निं सेवमानस्य । अप्येति नश्यति । तथा कर्म-जाड्यम् आगामि-संसार-भयं तन्-मूलम् अज्ञानं च नश्यतीत्य् अर्थः ॥३१॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२११] अस्तु तावत् साधूनां माहात्म्यम्, तद्-आश्रितानाम् अपि माहात्म्यम् अनिर्वचनीयम् इति लिखति—यथेति । विभावसुम् अग्निम् उपश्रयमाणस्य समीपे गत्वा सेवमानस्य । अप्य् एति नाच्यति, तथा कर्मादि-जाड्यम् आगामि-संसार-भय-तन्-मूलम् अज्ञानं च नश्यतीत्य् अर्थः । साधून् संसेवतः श्रद्धया किञ्चिद् द्रव्य-प्रदानादिना दूरतो\ऽपि सेवमानस्य ॥३२॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भ। २.७.१४] विभावसुम् अग्निम् उप समीपे आश्रयमाणस्य सेवमानस्य भयं सर्पादेः अप्य् एति नश्यति । तथा कर्मादि-जाड्यम् आगामि-संसार-भयं, तन्-मूलम् अज्ञानं, यद् वा, भयं संसारः अज्ञानं भगवद्-भक्ति-महिम-ज्ञानं नश्यतीत्य् अर्थः । तत्र उप-शब्द-प्रयोगेणात्र दूरे\ऽपि सेवमानस्येति ध्वन्यते ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् अस्यापि प्रकरणस्य पूर्व-पूर्ववद् एव निष्ठां दर्शयित्वा पूर्वोद्दिष्टानां सतां स्वरूपगुणम् अप्य् आह—यथेति चतुर्भिः । उपश्रयमाणस्य यज्ञार्थं सेवमानस्य अत एव भगवन्तम् इत्य् उक्तम् ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विभावसुम् अग्निं स्वीयौदनसिद्ध्य्-अर्थम् उपश्रयमाणस्य अप्य् एति नश्यति, तथैव भजन-सिद्ध्य्-अर्थं साधून् संसेवमानस्य कर्मादि-जाड्यं संसार-भयं भजन-विघ्नश् च ॥३१॥

———————————————————————————————————————

॥ ११.२६.३२ ॥

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।

सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निमज्ज्योन्मज्जताम् उच्चावच-योनीर् गच्छताम् । परमायनं परमाश्रयः ॥३२॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२१२] निमज्ज्योन्मज्जताम् उच्चावच-योनीर् गच्छताम् । यद् वा, भवाब्धौ निमज्ज्य, पश्चात् उन्मज्जतां सन्तरिष्यताम् । परमायनं परमाश्रयः । ब्रह्म-विद इति, आत्म-तत्त्व-मात्रोपदेशेन भवाब्धि-तारण-सिद्धेः । यद् वा, वेदार्थ-वेदिनः, शाब्दे परे च निष्णातं ब्रह्मण्य्-उपशमाश्रयं [भा।पु। ११.३.२१] इति गुरु-लक्षणोक्तेः ॥३२॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भ। २.७.१४] तत्र हेतुः—निमज्ज्योन्मज्जताम् उच्चावच-योनीर् गच्छताम् । यद् वा, घोरे भवाब्धाव् एव निमज्ज्योन्मज्जतां तस्माद् उत्थातुम् इच्छताम् इत्य् अर्थः । ब्रह्म पर-ब्रह्म-तत्त्वं वेदं वा विदन्तीति तथा ते सकल-वेद-तात्पर्य-गोचर-परम-रहस्य-मदीय-भक्ति-माहात्म्य-वेत्तार इत्य् अर्थः । अत एव शान्ता मोक्षेऽप्य् अपेक्षा-राहित्यात् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निमज्ज्योन्मज्जतां नीचोच्च-योनीर् गच्छतां परमायणं परमाश्रयः ॥३२॥

———————————————————————————————————————

॥ ११.२६.३३ ॥

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् ।

धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यथान्नम् एव प्राणो जीवनम् । अहम् एव यथा शरणम् । धर्म एव यथा प्रेत्य पर-लोके वित्तम् । तथा सन्त एवार्वाक् संसार-पाताद् बिभ्यतः पुंसः अरणं शरणम् ॥३३॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२१३] किं च, यथान्नम् एव प्राणिनां प्राणा जीवनम् । अहम् एव यथा शरणम् । धर्म एव यथा प्रेत्य पर-लोके वित्तम् । तथा सन्त एवार्वाक् सर्वान्ते संसार-पतनाद् बिभ्यतः पुंसः । अरणं शरणम् । यद् वा, यतः कुतश्चिद् बिभ्यतो जनस्य अर्वाक् नूतनं जीर्णत्वादि-दोष-हीनं शरणम् ॥३३॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भ। २.७.१४] किं च, यथा अन्नम् एव प्राणो जीवनम् अहम् एव, यथा शरणम्धर्म एव यथा प्रेत्य पर-लोके वित्तम् तथा सन्त एव अर्वाक् संसार-पतनाद् बिभ्यतः पुंसः अरणं शरणम् इत्य् अर्थः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा प्राणिनाम् अन्नार्थिनाम् अन्नम् एव, प्राणाः अन्नं विना प्राणा न सिद्ध्यन्ति, तथैव भक्तीच्छूनां सन्त एव भक्तिः, तान् विना भक्तिर् न सिद्ध्यति । यथैवार्तानाम् अनाथानाम् अहम् एव शरणं रक्षकस् तथैव भक्तीच्छूनां सन्त एव रक्षकाः । यथैव नॄणां प्रेत्य मृत्वा काल-पाशाद् बिभ्यतां धर्म एव वित्तं शरणम्, तथैव नरस्य भजन-मार्गं प्राप्य वर्तमानस्य अर्वाक् इतस् ततः काम-क्रोधादि-वर्त्म-पाति-पशाद् बिभ्यतः सन्त एव भक्ति-मार्ग-रक्षकाः शरनम् ॥३३॥

———————————————————————————————————————

॥ ११.२६.३४ ॥

सन्तो दिशन्ति चक्षूंषि बहिर् अर्कः समुत्थितः ।

देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भगवतो\ऽपि सतां मध्ये प्रधानत्वात् सतो\ऽहम् एव इत्य् उच्यते ।

विष्णोश् च सत्-प्रधानत्वान् न सतां विद्यते परम् ।

इत्य् आहुर् वेद-विदुषः स हि सर्वेश्वरेश्वरः ॥ इति च ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सन्तश् चक्षूंषि स-गुण-निर्गुण-ज्ञानानि । अर्कः पुनः सम्यग् उत्थितोऽपि बहिः, तद् अप्य् एकम् एव चक्षुर् इत्य् अर्थः ॥३४॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२१४] किं च, चक्षूंषि स-गुण-निर्गुण-ज्ञानानि । अर्कः पुनः सम्यग् उत्थितोऽपि बहिः, तद् अप्य् एकम् एव चक्षुर् इत्य् अर्थः । अतः सतां सेवयैव कृतार्थता स्यात्, इत्य् आह—देवता इति ॥३४॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भ। २.७.१४] किं च, सन्तः चक्षूंषि सगुण-निर्गुण-ज्ञानानि, यद् वा, भगवद्-भक्ति-माहात्म्य-ज्ञानानि गौरवेण वैचित्र्या वा बहुत्वं दिशन्ति वितरन्ति । अर्कः सम्यग् उत्थित एव बहिर् एव तद् अप्य् एकम् एव परिच्छिन्नत्वेनाल्पतरम् एव वा चक्षुर् दिशतीत्य् अर्थः । किं बहुना, सन्त एव देवताः सर्वा बान्धवाश् च सर्वे सन्त एव आत्मा सर्व-जीवानां चेतयिता प्रियो वा । सन्त इत्य् अस्य पुनः-प्रयोगो निर्धारणार्थः । अप्य्-अर्थे -कारः । सन्त एव अहम् अपि । यद् वा, अहम् एव तु सन्तः न ते मत्तो भिन्ना इत्य् अर्थ इति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु भवान् एवार्तानां शरणं चेत् किं सद्भिर् इत्य् आशङ्क्याह—सन्त इति॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं बहुना, सतां मार्गे प्रतिष्ठासूनां नृणां सन्त एव सर्व-निर्वाहका इत्य् आह—सन्त एव मां साक्षाद् दर्शयितुं चक्षूंषि नव-विध-भजनानि दिशन्ति ददति । किं च, सूर्यं विना चक्षुर्भिर् अपि न कार्य-सिद्धिर् इति चेत् सन्त एव बहिः-स्थितः सम्यग् उत्थितो\ऽर्कः भजन-चक्षुः-प्रकाशक इति भावः । तस्माद् भक्ति-वर्त्म-चारिणां सन्त एव देवता, न त्व् इन्द्राद्याः । सन्त एव बान्धवा न तु पितृ-पितृव्य-मातुलादयः । सन्त एव आत्मा प्रेमास्पदम्, न तु देहो जीवात्मा वा । एवं सन्त एवाहम् इष्ट-देवो, न तु तांस् त्यक्त्वा प्रतिमारूपो\ऽहम् अपीति भावः ॥३४॥

———————————————————————————————————————

॥ ११.२६.३५ ॥

वैतसेनस् ततोऽप्य् एवम् उर्वश्या लोक-निष्पृहः।

मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्यायार्थम् उपसंहरति, वैतसेन इति । सुद्युम्न-भावेनोमावनं प्रविष्टस्य वीता सेना स्त्री-भावं प्राप्ता यस्य तस्य स्त्री-भावं प्राप्तस्य पुत्रो वैतसेनः पुरूरवाः । एवम् उक्त-प्रकारेणोर्वश्या लोकात् स्थानाद् अवलोकनाद् वा निस्पृहस् ततोऽपि सत्-सङ्गाद् अपि हेतोर् मुक्त-सङ्गः सन्न् आत्मारामो भूत्वा यथेष्टं चचारेति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् अभीष्टं वर्णयित्वा प्रसङ्गम् उपसंहरति । वैतसेन इति ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अध्यायार्थम् उपसंहरति—वैतसेन इति । वीता स्त्रीत्व-प्राप्त्या वैरूप्यं प्राप्ता सेना यस्य स वीत-सेनः । सुद्युम्नो नवम-स्कन्धे ख्यात्स् तस्य पुत्रो वैतसेनः पुरूरवाः । एवम् उक्त-प्रकारेण ततो\ऽपि ऊर्वशी-लोकाद् अपि एतां महीं चचार । यत ऊर्वश्या लोकात् स्थानाद् अवलोकनाद् वा निस्पृहः ॥३५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे तु षड्विंशः सङ्गतः सङ्गतः सताम् ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्याम् एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे

ऐल-गीतं नाम

षड्विंशो\ऽध्यायः

॥ ११.२६ ॥

———————————————————————————————————————