॥ ११.२५.१ ॥
श्री-भगवान् उवाच—
गुणानाम् असमिश्राणां पुमान् येन यथा भवेत् ।
तन् मे पुरुष-वर्येदम् उपधारय शंसतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
प्रत्यक्षम् इव येनेदं दर्शितं तत्त्वम् आत्मनः ।
साङ्ख्य-प्रख्यानतस् तस्मै हरये गुरवे नमः ॥
पञ्चविंशे स्वनैर् गुण्य-प्रतिपत्त्यै निरूप्यन्ते ।
चित्त-प्रभव-सत्त्वादि-गुण-वृत्तिर् अनेकधा ॥
प्रकृति-पुरुष-विवेक-ज्ञानवतोऽपि यावत्-प्रयत्न-विशेषेण गुण-त्रय-वृत्ति-जयो न स्यान् न तावद् द्वन्द्वोपरमोऽतस् तज्-जयोपाय-गुण-वृत्ति-निरूपणार्थम् आह—गुणानाम् इति । सह मिश्रीभूय वर्तमानाः समिश्राः, न समिश्राः असमिश्रास् तेषां विभक्तानां गुणानां मध्ये येन गुणेन यथा यादृशो भवेत् तद् इदं कथयतो मत्तो निबोधयतेत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : असमिश्राणाम् इति, असमिश्राणां परस्पर-मिश्राणां चेत्य् अर्थः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चविंशे निरूप्यन्ते सत्त्वादि-गुण-वृत्तयः ।
गुण-युक्तानि वस्तूनि गुणातीतान्य् अपि क्रमात् ॥
अथोक्तेन साङ्ख्येनात्मानात्म-विवेकवतोऽपि यावद्-गुण-त्रय-वृत्ति-जयो न स्यात् तावद् देहाध्यासो न निवर्तते इति गुण-त्रय-वृत्तीर् निरूपयितुम् आह—गुणानाम् इति । सह मिश्रीभूय वर्तमानाः समिश्राः न समिश्राः असमिश्राः गुणान्तरामिलितास् तेषां गुणानां मध्ये येन गुणेन यथा यादृशो भवेत् तद् इदं मे मत्तः शंसतो वद तत्वम् उपधारय बुध्यस्व॥१॥
॥ ११.२५.२-५ ॥
शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः ।
उष्टिस् त्यागोऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः ॥**
काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् ।
मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः ॥**
क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः ।
शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः ॥**
सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः ।
वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
राजसेऽपि यदा दुःखं तामसे किम् उतेति तत् ।
राजसे दुःख-वचनं तामसेऽतिविवक्षया ॥ इति प्रद्योते ॥२-५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र सत्त्व-वृत्तीर् आह—शम इति । शमो मनो-निग्रहः । दमो बाह्येन्द्रिय-निग्रहः। तितिक्षा सहिष्णुत्वम् । ईक्षा विवेकः । तपः स्व-धर्म-वर्तित्वम् । स्मृतिः पूर्वापरानुसन्धानम् । तुष्टिर् यथा-लाभ-सन्तोषः । त्यागो व्यय-शीलता । अस्पृहा विषयेषु वैराग्यम् । श्रद्धा आस्तिक्यं गुर्व्-आदिषु । ह्रीर् अनुचिते कर्मणि लज्जा तेषाम् अनवलोकनम् । दया दानम्, दया दान-गति-रक्षणेषु इति स्मरणात् । आदि-शब्देनार्जव-विनयादि । स्व-निर्वृतिर् आत्म-रतिः ॥२॥
रजसो वृत्तीर् आह—कामोऽभिलाषः । ईहा व्यापारः । मदो दर्पः । तृष्णा लाभे सत्य् अप्य् असन्तोषः । स्तम्भो गर्वः । आशीर् धनाद्य्-अभिलावेण देवतादि-प्रार्थनम् । भिदा अहम् अन्य इति भेद-बुद्धिः । सुखं विषय-भोगः । मदोत्साहो मदेन युद्धाद्य्-अभिनिवेशः । यशः-प्रीतिः स्तुति-प्रियता । हास्यम् उपहासः । वीर्यं प्रभावाविष्कारः । बलेनोद्यमो न्यायेनोद्यमः सात्त्विक एव ॥३॥
तमो-वृत्तीर् आह—क्रोध इति । क्रोधोऽसहिष्णुता । लोभो व्यय-पराङ्-भुखता । अनृतम् अशास्त्रीयं प्रमाणम् इति भाषणम् । हिंसा द्रोहः । याच्ञा प्रार्थना । दम्भो धर्म-ध्वजित्वम् । क्लमः श्रमः । कलिः कलहः । शोक-मोहौ अनुशोचनं भ्रमश् च । विषादार्ती दुःखं दैन्यं च । निद्रा तन्द्रा । आशा मे इदं भविष्यतीत्य् अन्वीक्षा । भीर् भयम् । अनुद्यमो जाड्यम् ॥४॥
अनुपूर्वशः क्रमेणैताः श्लोक-त्रयोक्ता वरीत-प्रायाः । अन्या अप्य् ऊह्या इति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्यम् इति । मम त्व् अन्य एवैश्वर्यादयः षड्-गुणा इति भावः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र सत्त्व-वृत्तीर् आह—शम इति । ईक्षा विवेकः । अस्पृहा ।विशेषं, पुनर् दया दानं दय-दान-गति-रक्षणेष्व् इति स्मरणात् । आदि-शब्देनार्जवं विनयश् च स्वेनात्मनैव निर्वृतिः सुखम् ।
रजसो वृत्तीर् आह—काम इति । ईहा व्यापारः स्तम्भोऽहङ्कारः । आशीर् धनाद्य्-अभिलाषेण देवादि-प्रार्थं, भिदा सुखं विषय-भोगः । मदोत्साहो मदेन युद्धाद्य्-उत्साहः, यशः-प्रीत्यिः स्तुति-प्रियता हास्यम् उपहासः । वीर्यं प्रभावाविष्कारः बलेनोद्यमः । न्यायेनोद्यमस् तु सात्त्विक एव ।
तमसो वृत्तीर् आह—क्रोध इति । दम्भो धर्म-ध्वजित्वम् आशा इदम् अयं दास्यतीत्य् अपेक्षा । वर्णित-प्राया इत्य् अन्या अपि सन्ति ताश् चैवं ऊह्या इति भावः । यद् वा, वर्णित-प्राया इति स्पष्टीकृत्यावर्णिता अपि वर्णिता एवेत्य् अर्थः ॥२-५॥
॥ ११.२५.६ ॥
सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः ।
व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभक्तानां गुणानां वृत्तयो वर्णिताः, मिश्राणाम् आह—सन्निपात इति त्रिभिः । अहं ममेति ममतानुषक्त-सर्व-वृत्ति-सामानाधिकरण्य-दर्शनात् सन्निपात-जत्वम् । अहं शान्तः कामी क्रोधीत्य्-आदि । तथा मम शान्तिर् अस्ति कामः क्रोध इत्य्-आदि द्रष्टव्यम् । तत् पूर्वकः सर्वो व्यवहारश् च सन्निपात-कार्यम् इत्य् आह—व्यवहार इति । अत्र हेतुः, मनश् च मात्राणि चेन्द्रियाणि चासवश् च तैः । मन-आदीनां सात्त्विक-तामस-राजसत्वात् तैर् व्यवहारः सन्निपात-ज इति भावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहम् इति ममेति या मतिः, स सन्निपातः । ततश् च मन-आदिभिः सर्वोऽपि व्यवहारः सन्निपात इत्य् अन्वयः । यदि कदाचिच् छमादि-कामादि-क्रोधादीनाम् अत्युद्रेके । भवेत् तदायं पुरुषो मूर्तः शम इति । मूर्तः काम इति । मूर्तः क्रोध इत्य् उच्यते । तेन पुरुषेण नराणां व्यवहारिकाणाम् अहङ्कार-ममकार-मूलको लौकिकः कोऽपि व्यवहारो न सिद्ध्यति । अतिशान्तस्याहङ्कार-ममकारयोः स्वत एवाभावात्, कामान्धस्य क्रोधान्धस्य च अहम् अमूकस्य प्रतिष्ठितस्य पुत्रो ममेदम् अनुचितम् इदं तूचितम् इति विवेक-गन्धस्याप्य् अभावाद् एव, सतोर् अपि तयोर् अभावात् । व्यवहार-सिद्धिस् तु मम आदिभिः सत्त्वादि-मिलन-रूपेण समुचितेनेति ॥६॥
॥ ११.२५.७ ॥
धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः ।
गुणानां सन्निकर्षोऽयं श्रद्धा-रति-धनावहः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : असौ पुरुषो यदा धर्मादिषु परिनिष्ठितो भवति तदायं त्रिषु निष्ठारूपः सन्निकर्षः सन्निपातकार्थम् । धर्मादीनां सत्त्व-तमो-रजः-कार्यत्वाद् विषयतः सन्निपात-जत्वम् उक्तम् । फलतश् च तथात्वम् आह—श्रद्धा-रति-धनानि सत्त्व-रजस्-तमो-मयान्य् अवहतीति तथा ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तम् एवाह—असौ पुरुषो यदा धर्मादिषु परिनिष्ठितो भवति, तदास्य गुणानां सत्त्व-तमो-रजसां सन्निकर्षः सन्निपातः स्यात् । श्रद्धाद्य्-आवहः धर्म-निष्ठातो धर्म-विषयक-श्रद्धा-प्रापकः फलतो धर्म-प्रापक इत्य् अर्थः । काम-निष्ठातो रति-प्रापकः । अर्थ-निष्ठातो धन-प्रापको भवति ॥७॥
॥ ११.२५.८ ॥
प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।
स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म-निष्ठायाम् एव सन्निपातं दर्शयति—प्रवृत्ति-लक्षणे काम्य-धर्मे यदा पुंसो निष्ठा भवति । तथा पुमान् यदा गृहाश्रम एवासक्तस् तिष्ठेत् । अनु पश्चात् स्व-धर्मे च नित्य-नैमित्तिके तिष्ठेत् सापि समितिः सन्निपातः । हि यस्मात् । काम्य-धर्म-गृहासक्ति-स्व-धर्मा रजस्-तमः-सत्त्व-मया इत्य् अर्थः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि सन्निपातं प्रपञ्चयति—प्रवृत्ति-लक्षणे काम्य-धर्मे यदा पुंसो निष्ठा भवति, तथा पुमान् यदा गृहाश्रमे परिनिष्ठितो भवेत् । अनु निरन्तरं स्व-धर्मे च नित्य-नैमित्तिके तिष्ठेत्, सापि समितिः सन्निपातः । हि यस्मात् । काम्य-धर्म-गृहासक्ति-स्व-धर्मा रजस्-तमः-सत्त्व-मया इत्य् अर्थः ॥८॥
॥ ११.२५.९ ॥
पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः ।
कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं मिश्रामिश्र-गुण-वृत्तीः प्रदर्श्येदानीं पुमान् येन यथा भवेद् इति यद् उक्तं तद् दर्शयति—पुरुषम् इति त्रिभिः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् अमिश्रा मिश्राश् च गुण-वृत्तीः प्रदर्श्येदानीं पुमान् प्राधान्येन व्यपदेशा भवति इति न्यायेन येन गुणेन यथा भवेद् इति यद् उक्तं तद् दर्शयति—पुरुषम् इति त्रिभिः ॥९॥
॥ ११.२५.१० ॥
यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः ।
तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुरुष-गुण-योगेन तत्र तत्र मद्-भक्तिर् अपि स-गुणा तिष्ठेद् इत्य् आह—यदेति द्वाभ्याम् ॥१०॥
॥ ११.२५.११ ॥
यदा आशिष आशास्य मां भजेत स्व-कर्मभिः ।
तं रजः-प्रकृतिं विद्याद् हिंसाम् आशास्य तामसम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हिंसां शत्रु-मरणादिकम् आशास्य यो भजेत् तं तामसं विद्यात् । एतैर् गुणैर् एवं-भूतो भवतीति तात्पर्यार्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हिंसां शत्रु-मरणादिकम् ॥११॥
॥ ११.२५.१२ ॥
सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे ।
चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तवापि गुण-वशेन कर्तृत्वाविशेषात् केन विशेषेण त्वं सेव्यो, जीवस् तु सेवक इति नियमो यतो मां भजेतेति वारं-वारम् उच्यते ? तत्राह—सत्त्वम् इति । जीवस्यैव, न मे । कुतः ? यतश् चित्त-जाः जीवोपाधौ चित्तेऽभिव्यज्यन्तेऽतो यैः स एव बध्यते । कीदृशः ? भूतानां देह-रूपाणाम् अन्येषां च मध्ये सज्जमानः । अहं त्व् असज्जमानो गुण-नियन्तृत्वेन सृष्ट्य्-आदि-कर्तापि नित्य-मुक्तः । अतो महान् विशेष इति भावः । यद् व, भूतानाम् अपञ्चीकृतानां यत् कार्य-भूतं चित्तम् । अन्न-मयं हि सौम्य मनः इति श्रुतेः । तत् प्रभवाः । अतो भूतोपहितस्य जीवस्यैवेति । अन्यत् समानम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तवापि सर्वृष्ट्य्-आदि-कर्तृत्वेन गुणवत्त्वाविशेषात् केन विशेषेण त्वं सेव्यो, जीवः सेवक इति नियमः, यतो मां भजेतेति मुहुर् ब्रूषे ? तत्राह—सत्त्वम् इति । गुणा बन्धका जीवस्यैव, न तु मे । कुतः ? यतश् चित्त-जा जीवोपाधौ चित्तेऽभिव्यज्यमानत्वात् तत्र जाताः भूतानाम् इति । सप्तम्य्-अर्थे षष्ठी । यैर् गुणैर् भूत-भौतिकेषु देह-दैहिकेषु सज्जमानो जीव एव निबध्यन्ते, अहं त्व् अहं त्व् अनासज्जमानो गुण-नियन्तृत्वेन सृष्ट्य्-आदि-कर्तापि नित्य-मुक्तः । अतो महान् विशेष इति भावः ॥१२॥
॥ ११.२५.१३ ॥
यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् ।
तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं मिश्रामिश्र-गुण-कार्याणि प्रदर्श्येदानीम् एकैक-गुणोद्रेक-कार्याणि दर्शयति, यदेति सप्त-दशभिः । यदेतरौ गुणौ जयेद् अभिभवेत् । भास्वरं प्रकाशकम् । विशदं स्वच्छम् । शिवं शान्तम् । शिवत्व-विशदत्व-भास्वरत्वानां यथा-क्रमं सुख-धर्म-ज्ञान-हेतुत्वात् तदा तैर् युज्येत । आदि-शब्दाच् छम-दमादिभिश् च ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्रिगुण-मये जीवे गुणाः परस्परं बाध्य-बाधक-भावेनैव तिष्ठन्ति, तथा सति जीवस्य यादृशी दशा स्यात्, ताम् आह—यदेति त्रिभिः । सत्त्वं कर्तृ यदा इतरौ रजस्-तमो-गुणौ जयेत् अभिभवेत्, भास्वरं प्रकाशकं विशदं स्वच्छं शिवं शान्तं शिवत्व-विशदत्व-भास्वरत्वांशानां यथा-क्रमं सुख-धर्म-ज्ञान-हेतुत्वात् तदा तैः सुखादिभिर् एव युज्यते, आदि-शब्दात् शम-दमादिभिश् च ॥१३॥
॥ ११.२५.१४ ॥
यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् ।
तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमः सत्त्वं च कर्म-भूतम् । रजः कर्तृ । सङ्गं सङ्ग-हेतुः । भिदा भेद-हेतुः । चलं प्रवृत्ति-स्वभावम् । अतः सङ्ग-हेतुत्वाद् यशसा श्रिया युज्येत । तत् कामः पुमान् भवतीत्य् अर्थः । भिदा-हेतुत्वाद् दुःखेन युज्येत, द्वितीयाद् वै भयं भवति इति श्रुतेः । चल-हेतुत्वात् कर्मणा युज्येत ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमः सत्त्वं कर्म-भूतम् । रजः कर्तृ । यदा जयेत् सङ्गं सङ्ग-हेतुः, भिदा भेद-हेतुः । चलं प्रवृत्ति-स्वभावम्, तदा भिदा-हेतुत्वाद् दुःखेन युज्येत । द्वितीयाद् वै भयं भवति इति श्रुतेः । चलत्वात् कर्मणा सङ्ग-हेतुत्वात् यशसा श्रिया च युज्येत । तत्-तत्-कामः पुमान् भवतीत्य् अर्थः ॥१४॥
॥ ११.२५.१५ ॥
यदा जयेद् रजः सत्त्वं तमो मूठं लयं जडम् ।
युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा रजः सत्त्वं च कर्म-भूतं, तमः कर्तृ जयेत् । मूढं विवेक-भ्रंशकम् । लयम् आवरणात्मकम् । जडम् अनुद्यमात्मकम् । अतो मूढत्वाच् छोक-मोह-हिंसाभिर् लयत्वान् निद्रया जडत्वाद् उद्यमाभावेन केवलम् आशया युज्येतेति द्रष्टव्यम् । “जन” इति पाठे लयात्मकम् एव निद्राशयोर् हेतुः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रजः सत्त्वं च कर्म-भूतं, तमः कर्तृ । यदा जयेत्, मूढं विवेक-भ्रंशकम् । लयम् आवरणात्मकम् । जडम् अनुद्यमात्मकम् । तदा मूढत्वाच् छोक-मोह-हिंसाभिर् लयत्वान् निद्रया जडत्वाद् उद्यमाभावेन केवलम् आशया युज्येत । तत्रोत्तर-ग्रन्थ-व्याख्याम् अनुसृत्य तत्-तत्-कालोऽपि तत्-तद्-गुणात्मको ज्ञेयः । तथा यदा केवल-भक्त्या गुण-त्रिकं जितं स्यात् तदा निर्गुणेन प्रेमानन्देन युज्येतेत्य् एवम् अग्रेऽपि व्याख्यान-शेष उपन्यसनीयः ॥१५॥
॥ ११.२५.१६ ॥
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।
देहेऽभयं मनो-\ऽसङ्गं तत् सत्त्वं विद्धि मत्-पदम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यदा चित्तं प्रसीदेत् स्वच्छं भवेत् । निर्वृतिर् उपरतिः । तत् तदा मत्-पदं मद्-उपलब्धि-स्थानं सत्त्वम् उद्रिक्तं विद्धि ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं वर्धमानो गुणो बाधको भवति यदा, तदा क्षीणौ बाध्याव् इत्य् अवगतं, इदानीं केन केन लक्षणेन कः को गुणो वर्धमानो ज्ञेयः ? इत्य् अत आह—यदेति त्रिभिः । प्रसीदेत् स्वच्छं भवेत् । निर्वृतिर् वैतृष्ण्य-लक्षणम् अवैयाग्र्यं, मनः-सङ्ग-रहितम् अनासक्तं स्यात्, तदा सत्त्वम् उद्रिक्तं विद्धि । मत्-पदं मयि मत्-प्राप्तौ पदं व्यवसायो यस्मात् तत् ॥१६॥
॥ ११.२५.१७ ॥
विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् ।
गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा पुनः क्रियया विकुर्वन् विकारं प्राप्नुवन् आधीर् भवति, आ समन्ताद् विक्षिप्ता धीर् यस्य सः । चेतसां बुद्धीन्द्रियाणाम् अनिर्वृत्तिर् अनुपरतिः गात्राणि कर्मेन्द्रियाणि तेषाम् अस्वास्थ्यं विकाराधिक्यं मनो भ्रान्तं चञ्चलं तदा रज उत्कटं निशामय जानीहीति ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रियया विकुर्वन् भवति चेतसो विषयाद् अनिवृत्तिश् च भवति मात्रास्वास्थ्यं शरीरावयवानां विजृम्भणम् । एतैर् लिङ्गैरि दं रज इति निशामय पश्य ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा क्रियया विकुर्वन् विकारं प्राप्नुवन् आधीः आसमन्तान् नाना-पदार्थ-गतत्वेन विक्षिप्ता धीर् यस्य तथा-भूतो भवति । चेतसां बुद्धीन्द्रियाणाम् अनिवृत्तिः स-तृष्णता एतैर् लक्षणैस् तदा रज उद्रिक्तं जानीहि ॥१७॥
॥ ११.२५.१८ ॥
सीदच् चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् ।
मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा सीदत् तिरो-भवच् चेतसो ग्रहणे चिदाकार-परिणामेऽक्षमं सच्-चित्तं विलीयेत । मनोऽपि सङ्कल्पात्मकं नष्टं लीनम् । तमोऽज्ञानं ग्लानिर् विषादश् च भवति । तत् तदा तम उत्कटम् उपधारय विद्धि ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तमो-गुण-वर्तन-प्रकारं स्पष्टयति—सीदद् इति । यदा चित्तं स्मरण-कारणम् अन्तः-करणं सीदत् । नश्यत् अथवा विलीयते चेतसो ग्रहणे बहु-स्मरण-शक्तेश् चेतनाया ग्रहणे अक्षमम् असमर्थं मनो नष्टं भवति, तमः अज्ञानं ग्लानिर् ग्लानता च भवति, तदा तमो-गुण-वर्तनम् उपधारय ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा सीदत् व्याकुलीभवत् चित्तं विलीयेत, जडीभवति यतश् चेतसश् चेतनाया ग्रहणे अक्षमम् असमर्थं भवेत्, निश्चेतनत्वाद् अप्रबुद्धं भवतीत्य् अर्थः । मनोऽपि सङ्कल्पात्मकं नष्टं लीनं तमोऽज्ञानं ग्लानिर् विषादः, तत् तदा तम उत्कटम् । यदा तु केवलया भक्त्या गुण-त्रय-पराभवः, तदा नैर्गुण्यम् अवधारयेति शेषः ॥१८॥
॥ ११.२५.१९ ॥
एधमाने गुणे सत्त्वे देवानां बलम् एधते ।
असुराणां च रजसि तमस्य् उद्धव रक्षसाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एधमान इति । इन्द्रियाण्य् एव निवृत्ति-प्रवृत्ति-मोह-स्वभावानि देवासुर-रक्षांसि । यद् वा, प्रसङ्गाद् आधिदैविकानां गुणानाम् उत्कर्ष-कार्याण्य् उक्तानीति ज्ञेयम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बुभूषुणा सत्त्वम् एव सेवनीयम् इति भावेनाह—एधमान इति ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वादीनां वृद्धि-कालेषु यथा देवासुर-राक्षसा वर्धन्ते, तथैव व्यष्टि-देहेष्व् इन्द्रियाणां निवृत्ति-प्रवृत्ति-मोह-स्वभावा एव देवासुर-राक्षसा ज्ञेया इत्य् आह—एधमान इति । यदा भक्ति-हेतुकं नैर्गुण्यं वर्धते, तदा भक्तानां बलम् एधते इति शेषः ॥१९॥
॥ ११.२५.२० ॥
सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् ।
प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणोत्कर्षतोऽवस्था-भेदं दर्शयति—सत्त्वाद् इति । प्रसङ्गान् निर्गुणावस्थाम् आह—तुरीयं चतुर्थम् अवस्थान्तरं नाम त्रिषु जागरणादिषु सन्ततम् एक-रूपम् आत्म-तत्त्वम् एवेत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तुरीयम् अवस्था-स्वरूपं त्रिषु गुणेष्व् असङ्गतं सम्बद्धं न भवति ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कस्माद् गुणात् का अवस्था ? इत्य् अत आह—सत्त्वाद् इति । तथैव निर्गुणावस्थाम् आह—तूरीयं चतुर्थम् अवस्थान्तरं नाम त्रिषु जागरणादिषु सन्ततम् अन्वितं परमात्म-स्वरूपम् एवेत्य् अर्थः ॥२०॥
॥ ११.२५.२१ ॥
उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा1 जनाः ।
तमसाधोऽध आ-मुख्याद् रजसान्तर-चारिणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणोत्कर्ष-द्वारेण तत्-तत्-कर्म-फल-निष्ठां दर्शयति—उपर्य् उपरि इति । ब्राह्मणा वेदानुष्ठान-युक्ताः । “आब्रह्मण” इति पाठे ब्रह्म-लोकम् अभिव्याप्य । आमुख्यात् स्थावरान् अभिव्याप्य । अन्तर-चारिणो मनुष्या एव भवन्ति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इतोऽपि सत्त्वम् एव श्रेयः साधनम् इत्य् आह—उपरीति । "आ ब्रह्मणो" ब्रह्म-लोक-पर्यन्तम्, आमुख्याद् अन्धं तमः पर्यन्तम्, अन्तर-चारिणः स्वर्गादौ चरन्ति ॥२१॥
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "**आ-ब्रह्मणो जना" इति पाठे ब्रह्म-लोकम् अभिव्याप्येत्य् अर्थः । आमुख्यात् स्थावरान् अभिव्याप्येत्य् अर्थः । अन्तर-चारिणो मनुष्या भवन्तीत्य् अर्थः । नैर्गुण्येन भक्त्या भगवत्-पदं यान्तीति शेषः ॥२१॥
॥ ११.२५.२२ ॥
सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः ।
तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देहाद् उत्क्रान्ति-कालीन-गुणोत्कर्ष-फलम् आह—सत्त्वे वृद्धे सति प्रलीना मृटाः । रजो-लयाः रजसि प्रवृद्धे सति लयो येषां ते । एवं तमो-लया इत्य् अपि । निर्गुणा इत्य् अत्र तु लय-शब्दानुपादानाज् जीवन्तोऽपि निर्गुणाश् चेन् माम् एव यान्ति इत्य् अर्थः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इदानीं सात्त्विकादीनि निरूपयन्न् आत्माश्रयस्य यस्य कस्यचिद् एव निर्गुणत्वं दर्शयति—यान्ति माम् एव निर्गुणाः ॥२२॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ५३): वैकुण्ठस्य नैर्गुण्य-प्राप्यत्वम्, यथा—सत्त्वे इति । लोक-प्रसक्तेर् मल्-लोकम् इति वक्तव्ये तत्-प्राप्तिर् नाम मत्-प्राप्तिर् एवेति स्वाभेदम् अभिप्रेत्याह माम् एवेति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवद्-आलयस्य नैर्गुण्य-प्राप्यत्वम् आह—सत्त्व्[ए]{दिर्=“र्त्ल्”} इति । लोक-प्रसक्तेर् मल्-लोकम् इति वक्तव्ये तत्-प्राप्तिर् नाम मत्-प्राप्तिर् एवेति स्वाभेदम् अभिप्रेत्याह—माम् एव्[अ]{दिर्=“र्त्ल्”} [इ]{दिर्=“र्त्ल्”}ति ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहोत्क्रमण-कालिक-गुणोत्कर्ष-फलम् आह—सत्त्वे इति । यदा हि यो गुणः प्रवृद्धो भवति, तदा स गुणः पृथग्-दृष्टो भवतीति । अतः सत्त्वे प्रलीनाः सत्त्वे प्रवृद्धे सति मृताः । रजो-लयाः रजसि प्रवृद्धे सति लयो येषां, त एव तमो-लयाः । निर्गुणा इत्य् अत्र तु लय-शब्दानुपादानाज् जीवन्तोऽपि मद्-भक्तत्वान् निर्गुणाश् चेन् माम् एव यान्ति इत्य् अर्थः ॥२२॥
॥ ११.२५.२३ ॥
मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् ।
राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : नैर्गुण्य-साधनं यत् तन् निर्गुणं परिकीर्तितम् इति च ॥२३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं गुणोत्कर्ष-कृतम् एव तत्-तत्-फल-साधन-कर्म-त्रैविध्यम् आह—मद्-अर्पणं मत्-प्रीत्य्-उद्देशेन कृतं, निष्फलं केवलं दास-भावेनैव कृतं, यन् निजं कर्म नित्यादि, तत् सात्त्विकम् । फलं सङ्कल्प्यतेऽस्मिंस् तत् । हिंसा-प्रायं हिंसोद्देशेन कृतं हिंसा-बहुलं च । **आदि-**शब्दाद् दम्भ-मात्सर्यादि-कृतम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ साक्षाद् भक्तेर् निर्गुणत्वं वक्तुं भगवद्-अर्पित-कर्मारभ्य सर्वेषां कर्मणां तावत् सगुणत्वम् आहैकेन—मद्-अर्पणम् इति । मद्-अर्पणं मय्य् अर्पणं यस्य तत्, उत्तमत्वाय मय्य् अर्पितम् इत्य् अर्थः । निष्फलं सत्त्व-शुद्ध्य्-अर्थं निष्कामत्वेनैव कृतम् इत्य् अर्थः । निज-कर्म स्व-स्व-वर्णाश्रमादि-धर्मः । फलं सङ्कल्प्यते यस्मिन् तत् । आदि-शब्दाद् दम्भ-मात्सर्यादिभिः कृतम् ॥२३॥ [भक्ति-सन्दर्भः १३३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मयि अर्पणं यस्य तत् मद्-अर्पणम् इति, कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं कर्म यद् अप्य् अकारणं [भा।पु। १.५.१२] इति नारदोक्तेर् धर्म-शास्त्र-विहितस्य कर्म-मात्रस्यैव भगवद्-अनर्पितत्वे वैयर्थ्य-श्रवणात् । मद्-अर्पणम् इत्य् उत्तरत्रापि योजनीयम् । ततश् च मद्-अर्पणं नित्यंकर्म, तथा निष्फलं फलाभिसन्धि-रहितं काम्यं वा कर्म मद्-अर्पितं सात्त्विकं स्यात् । फलं सङ्कल्प्यते यस्मिंस् तत्-फलाभिसन्धि-रहितं काम्यं कर्म मद्-अर्पितं राजसं स्यात् । तथा अधर्म-शास्त्रोक्तं हिंसा-प्रायं हिंसोद्देशेन कृतं कर्म तामसं स्यात् । **आदि-**शब्दाद् दम्भ-मात्सर्यादि-कृतं च । श्रवण-कीर्तनादि-शुद्ध-भजनं तु निर्गुणम् इति शेषः ॥२३॥
॥ ११.२५.२४ ॥
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
यथा शास्त्रोक्तं विज्ञानं केवलं ज्ञानम् उच्यते ।
स्व-दृष्ट-शास्त्रानुकूल्याद् अदृष्टानां च भक्तितः ॥ > गुणानां तु हरौ भावं विनिश्चितयितद् आश्रयात् । > यथा शास्त्रानुसन्धानं ज्ञानं तु हरि-संश्रयम् ॥ इति च > ॥२४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं सगुण-निर्गुण-भेदेन ज्ञानादीनां चातुर्विध्यम् आह—कैवल्यं देहादि-व्यतिरिक्तात्म-विषयकम् । वैकल्पिकं देहाद्य्-अव्यतिरिक्तात्म-विषयं यत् तद् रजो राजसम् । प्राकृतं बाल-मूकादि-ज्ञान-तुल्यम् । मन्-निष्ठं परमेश्वर-विषयम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथानुष्ठानान्तराणां त्रिगुणान्तर्गतत्वं वदन् चतुर्थ-कक्षायां साक्षाद्-भक्तेर् निर्गुणत्वम् आह चतुर्षु—कैवल्यम् इत्य्-आदिषु । प्राकृतं बाल-मूकादि-ज्ञान-तुल्यम् । वैकल्पिकं देहादि-विषयं यत् तद् रजो राजसम् । केवलस्य निर्विशेषस्य ब्रह्मणः शुद्ध-जीवाभेदेन ज्ञानं कैवल्यं, त्वं-पदार्थ-मात्र-ज्ञानस्य केवलत्वानुपपत्तेः । तत्-पदार्थ-ज्ञान-सापेक्षत्वात् । सत्त्व-युक्ते हि चित्ते प्रथमतः शुद्धं सूक्स्मं जीव-चैतन्यं प्रकाशते । ततश् चिद्-एकाकारत्वाभेदेन तस्मिन् शुद्धं पूर्णं ब्रह्म-चैतन्यम् अप्य् अनुभूयते । ततः सत्त्व-गुणस्यैव तत्र कारणता-प्राचुर्यात् सात्त्विकत्वम् । तथा च श्री-गीतोपनिषदः— सत्त्वात् सञ्जायते ज्ञानं [गीता १४.१७] इति ।
भगवज्-ज्ञानस्य तु—देवानां शुद्ध-सत्त्वानां [भा।पु। ६.१४.२] मुक्तानाम् अपि सिद्धानां [भा।पु। ६.१४.५] इत्य् आद्य्-उक्त्या सत्त्वादि-सद्-भावेऽप्य् अभावात्—रजस्-तमः-स्वभावस्य [भा।पु। ६.१४.१] इत्य् आद्य्-उक्त्या तद्-अभावेऽपि वृत्रासुरस्य सद्-भावान् न तत्-कारणत्व[म्]{दिर्=“र्त्ल्”} । किन्तु तद्-उत्तरत्वेन तस्य पूर्व-जन्मनि श्री-नारदादि-सङ्ग-वर्णनया—नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं [भा।पु। ७.५.३२] इत्य् उक्त्या च भगवत्-कृपामृत-परिमल-पात्र-भूतस्य श्रीमतो महतः सङ्ग एव कारणम् । तत्-सङ्गश् च—तुलयाम लवेनापि न [भा।पु। १.१८.१३, ४.३०.३३] इत्य् उक्त्या निर्गुणावस्थातोऽप्य् अधिकत्वात् परम-निर्गुण एव । सप्तमस्य च प्रथमे च समः प्रियः सुहृद् ब्रह्मन् [भा।पु। ७.१.१] इत्य् आदौ स-गुणे देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्-प्रह्लादादिष्व् एवेति [प्र्]{दिर्=“र्त्ल्”}अतिपादनान् महतां निर्गुणत्वाभिव्यक्त्या सत्-सङ्गस्यापि निर्गुणत्वं व्यक्तम् ।
परमेश्वरस्य परमेश्वर-ज्ञानस्य नैर्गुण्य-हेतुत्वेन निर्गुणत्वोक्तिस् तु लक्षणा-मय-कष्ट-कल्पना। तथा कैवल्य-ज्ञानस्यापि नैर्गुण्य-हेतुत्वाद् अवैशिष्ट्येनोदाहरण-भेदाप्रवृत्तिश् च स्यात् । तस्मात् स्वत एव निर्गुणं भगवज्-ज्ञानम् । अत्र विशेषो भक्ति-सन्दर्भे (१३८) दृश्यः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ कण्ठोक्त्यैव सगुण-निर्गुण-भेदेन ज्ञानादीनां चातुर्विध्यम् आह—कैवल्यं देहादि-व्यतिरिक्तत्वेन केवल-जीवात्म-विषयं यत् तत् सात्त्विकम् । वैकल्पिकं द्वैतम् इदं सत्यम् असत्यं वा जीवा नित्या जन्या वेत्य् आदि-विकल्प-भवं ज्ञानं यत् तद् राजसम् । प्राकृतम् आहार-विहारादि-ज्ञानं तामसम् । मन्-निष्ठं मद्-विषयकम् ॥२४॥
॥ ११.२५.२५ ॥
वनं तु सात्त्विको वासो ग्रामो2 राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वनं विविक्तत्वात् सात्त्विको वासः । भगवन्-निकेतनं तु साक्षात् तद्-आविर्भावान् निर्गुणं स्थानम् ॥२५॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ५४): सुतरां [वैकुण्ठस्य] नैर्गुण्याश्रयत्वम्, यथा—वनम् इत्य्-आदि । तद्-आवेशेनैवास्यापि निर्गुणत्व-व्यपदेश इति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अभिप्रेत्य ज्ञान-रूपाया भक्तेर् निर्गुणत्वम् उक्त्वा, क्रिया-रूपाया व्याचष्टे । तत्राप्य् अस्तु तावत् श्रवण-कीर्तनादि-रूपाया भगवत्-सम्बन्धेन वास-मात्र-रूपाया आह—वनं त्व् इति । वनं वास इति तत्-सम्बन्धिनी वसन-क्रियेत्य् अर्थः । वानप्रस्थानाम् इति ज्ञेयम् । एवं ग्राम्य इति गृहस्थानाम् । तामसम् इति दुराचाराणाम् । द्यूत-सदनम् इत्य् उपलक्षणम् । मन्-निकेतम् इति मत्-सेवा-पराणाम् इति च । वनादीनां वासेन सह “आयुर् घृतम्” इतिवद् एकाधिकरणत्वम् । वनस्य वृक्ष-षण्ड-रूपस्य रजस्-तमः-प्राधान्यात् । अत एव विव्क्तत्व-लक्षण-तदीय-सात्त्विक-गुणस्यापि तद्-युगल-मिश्रत्वेन गौणत्वम् । वास-क्रियायास् तु सत्त्वोत्पन्नत्वात् तद्-वर्धनत्वाच् च सात्त्विकत्वेन मुख्यत्वम् इति तस्या एवाभिधेयत्वम् उचितम् । अत एव ग्राम्य इति तद्धितान्त एव पठितः । एवं द्यूत-सदनम् इत्य् अत्र च वास-क्रियैव विवक्षिता । मन्-निकेतम् इत्य् अत्रापि ।
किन्तु भगवत्-सम्बन्ध-माहात्म्येन निकेतस्यापि निर्गुणत्वं भवेत्, स्पर्श-मणि-न्यायेन । तादृशत्वं तु तादृश-भक्ति-चक्षुर्भिर् एवोपलब्धव्यम् । [ब्राह्मे] दिविष्ठास् तत्र पश्यन्ति सर्वान् एव चतुर्भुजान् इतिवत् । सुतरां नैर्गुण्य-व्यपदेश इति भावः । अत एव तैर् व्याख्यातम्—भगवन्-निकेतं तु साक्षात् तद्-आविर्भावान् निर्गुणं स्थानम् इति ॥२५॥ [भक्ति-सन्दर्भः १३५]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवन्-निकेतं तु साक्षात् तद्-आविर्भावान् निर्गुणं स्थानम् इति स्वामि-चरणः । भगवत्-सम्बन्ध-माहात्म्येन निकेतनस्य नैर्गुण्यं स्पर्श-मणि-न्यायेन इति सन्दर्भः ॥२५॥
॥ ११.२५.२६ ॥
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कारकः कर्ता । असङ्गी अनासक्तः । रागान्धोऽत्यभिनिवेशवान् । स्मृति-विभ्रष्टोऽनुसन्धान-शून्यः । मद्-अपाश्रयो मद्-एक-शरणः । स हि निरहङ्कारत्वान् निर्गुणः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं वास-मात्रस्य तादृशत्वम् उक्त्वा सर्वासाम् एव तत्-क्रियाणां तादृशत्वम् आह—सात्त्विक इति । अत्र च क्रियायाम् एव तात्पर्यं न तद्-आश्रये द्रव्ये । सात्त्विक-कारकस्य शरीरादिकं हि गुण-त्रय-परिणतम् एव ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कारकः कर्ता असङ्गी अनासक्तः रागान्धः विषयाविष्टः स्मृति-विभ्रष्टः अनुसन्धान-शून्यः । मद्-अपाश्रयः मद्-एक-शरणो भक्तः ॥२७॥
॥ ११.२५.२७ ॥
सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अश्रुत्वापि प्रमाणं यो वासुदेवैक-संश्रयः ।
स निर्गुणो भागवतः समुद्दिष्टो मनीषिभिः ॥ > श्रुत-शास्त्रानुसारेण या श्रद्धा परमात्मनि । > सा सात्त्विकी तद्-अन्यस्याप्य् अनुसारेण निर्गुणा ॥ इति च ॥२७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अधर्मे धर्म इति या श्रद्धा ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं क्रिया-मात्रस्य तादृशत्वम् उक्त्वा तत्-प्रवृत्ति-भूताया श्रद्धाया अप्य् आह—सात्त्विकी [इ]{दिर्=“र्त्ल्”}ति । अधर्मोऽपर-धर्मः । पूर्ववद् अन्यत् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
॥ ११.२५.२८ ॥
पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्तिदाशुचि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पथ्यं हितम् । पूतं शुद्धम् । अनायस्तम् अनायासतः प्राप्तम् । आहार्यं भक्ष्य-भोज्यादि । इन्द्रियाणां प्रेष्ठं भोग-काले सुखदं कट्व्-अम्ल-लवणादि । आर्तिदाशुचि दैन्य-करम् अशुद्धं च । च-शब्दान् मन्-निवेदितं निर्गुणम् इत्य् अभिप्रेतम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनायस्तम् अनायसतः प्राप्तम् । च-शब्दात् मन्-निवेदितं निर्गुणम् ॥२८॥
॥ ११.२५.२९ ॥
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
परोक्ष-ज्ञानम् आत्मोत्थम् आपरोक्ष्येण दर्शनम् ।
विष्ण्व्-आश्रयं सुखं नित्यं गमयेत् तत्-प्रसादतः ॥ > न तु विष्णोः स्वरूपं तु सुखं केनचिद् आप्यते । > तस्यैव विषयत्वात् तु तत् सुखं चेति भण्यते ॥ > परोक्ष-ज्ञानगो यस्माद् विषयः स्व-मनो-गतः । > अन्तरात्मोत्थम् इत्य् एव सुखम् आहुर् विपश्चितः ॥ इति च ॥२९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मोत्थं सुखम् । मद्-अपाश्रयम् इत्य् अपि त्वं-तत्-पदार्थ-विषयत्वेन ज्ञानवद् एव द्रष्टव्यम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव तत्-सुखस्यापि निर्गुणत्वम् आह—सात्त्विकम् इत्य्-आदि । एवं शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आद्य्-उक्त्या महन्-निदानत्वेन श्रवणादि-लक्षण-क्रिया-रूपाया अपि भक्तेर् निर्गुणत्वं ज्ञेयम् । त्रैगुण्यः सर्व एव हि [भा।पु। ११.२५.३०] इति मदीयं विनेति ज्ञेयं, तथा दर्शितत्वात् ॥२९॥ [भक्ति-सन्दर्भ १३४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मोत्थं सुखम् । तत्-पदार्थ-ज्ञानोत्थम् । मद्-अपाश्रयं मत्-कीर्तनाद्य्-उत्थम् ॥२९॥
॥ ११.२५.३० ॥
द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्थाकृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तं संसार-हेतु-भूतं त्रैगुण्यम् उपसंहरति द्वाभ्याम् । द्रव्यं पथ्य-पूतं [भा।पु। ११.२५.२८] इत्य्-आदि । [देशो वन-ग्रामादिः] फलं सात्त्विकं सुखम् [भा।पु। ११.२५.२९] इत्य्-आदि । कालो यदा भजति मां भक्त्या[भा।पु। ११.२५.१०], यदेतरौ जयेत् [भा।पु। ११.२५.१३] इत्य्-आदिना योऽर्थाद् उक्तः । ज्ञानं कैवल्यं सात्त्विकं ज्ञानम् [११.२५.२४] इत्य्-आदि । कर्ममद्-अर्पणम्[भा।पु। ११.२५.२३] इत्य्-आदि । कारकः सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२६] इत्य्-आदिः । श्रद्धा सात्त्विक्य् आध्यात्मिकी [भा।पु। ११.२५.२७] इत्य्-आदिः । अवस्था सत्त्वाज् जागरणम् [भा।पु। ११.२५.२०] इत्य्-आदिः । आकृतिर् उपर्य् उपरि गच्छन्ति [भा।पु। ११.२५.२१] इत्य्-आदिनोक्ता देवत्वादि-रूपा । निष्ठा सत्त्वे प्रलीनाःस्वर् यान्ति [भा।पु। ११.२५.२२] इत्य्-आदिनोक्तः स्वर्गादिः । एवं सर्वोऽप्य् अयं भावस् त्रैगुण्यस् त्रि-गुणात्मकः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उपसंहरन्न् उक्तेषु त्रिगुण-मयेषु गुणातीतेषु च पदार्थेषु मध्ये ये गुण-मया भावास् ते जीवस्य संसार-हेतव इत्य् आह सार्ध-द्वयेन । द्रव्यं पथ्य-पूतम् [भा।पु। ११.२५.२८] इत्य्-आदि, देशो वनं त्व् [भा।पु। ११.२५.२५] इत्य्-आदिः, फलं सात्त्विकं सुखं [भा।पु। ११.२५.२९] इत्य्-आदि । कालः, यदेतरौ जयेत् सत्त्वं [भा।पु। ११.२५.१३] इत्य्-आदिना योऽर्थाद् उक्तः । ज्ञानं, कैवल्यं सात्त्विकं ज्ञानं [भा।पु। ११.२५.२४] इत्य्-आदि । कर्म, मद्-अर्पणं [भा।पु। ११.२५.२३] इत्य्-आदि । कारकः, सात्त्विकः कारकोऽसङ्गी [भा।पु। ११.२५.२६] इत्य्-आदि । श्रद्धा, सात्त्विक्य् आध्यात्मिकी [भा।पु। ११.२५.२७] इत्य्-आदि । अवस्था, सत्त्वाज् जागरणं [भा।पु। ११.२५.२०] इत्य्-आदि । आकृतिः, उपर्य् उपरि गच्छन्ति [भा।पु। ११.२५.२१] इत्य्-आदिनोक्ता । देवत्वादि-रूपा निष्ठा, सत्त्वे प्रलीनाः स्वर् यान्ति [भा।पु। ११.२५.२२] इत्य्-आदिनोक्तः स्वर्गादिः । एवं सर्वोऽप्य् अयं भावस् त्रैगुण्यस् त्रिगुणात्मकः । स्वार्थे ष्यञ् ॥३०॥
॥ ११.२५.३१ ॥
सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः ।
दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : दृष्टं श्रुतं बुद्ध्या दृष्टं चानु परं ब्रह्म ध्यायेत् ।
सत्त्वाद् गुणाज् जातम् अपि व्यवधानं विनैव तु । > मुक्तिदं निर्गुणं प्रोक्तं व्यवधानेन सात्त्विकम् ॥ इति ब्राह्मे > ॥३१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् एष एव किन्तु यावन्तः पुरुषाव्यक्त-धिष्ठितास् ते सर्वे भावा गुण-मया एव । तत्-प्रपञ्चः—दृष्टम् इति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलम् एष एव, किन्तु यावन्तः पुरुषाव्यक्तयोर् धिष्ठितास् ताभ्याम् अधिष्ठितास् ते सर्वे भावा गुण-मया एव । तत्-प्रपञ्चः—दृष्टम् इति । बुद्ध्या वा अवधारितं ॥३१॥
सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः ।
दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥**
॥ ११.२५.३२ ॥
एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः ।
येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः ।
भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीम् उक्तं त्रैगुण्यस्य संसार-हेतुत्वम् अनुवदंस् तन् निर्जयान् मोक्ष इत्य् आह—एता इति सार्धेन । येन निर्जिताः स पश्चाद् अविक्षिप्तेन भक्ति-योगेन मन्-निष्ठः सन् मद्-भावाय मोक्षाय प्रपद्यते योग्यो भवति ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कैवल्यं ज्ञानं सात्त्विकं, मन्-निष्ठं ज्ञानं तु निर्गुणम् । एवं मन्-निकेतं तु निर्गुणं, मद्-अपाश्रयो निर्गुणः, मत्-सेवायां तु निर्गुणां, मद्-अपाश्रयं सुखं निर्गुणं, इत्य्-आदिना स्वाश्रयस्य नैर्गुण्यम् उक्त्वा भक्ति-योग एव कार्यः, नान्य इत्य् आह—भक्ति-योगेन इत्य्-आदि । मद्-भावाय मत्-प्रेम्णे ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एता इति सार्धकं । मद्-भावाय मत्-प्रेम्णे ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसृतयः संसार-हेतवः । अत्र ज्ञानादीनां संसृति-हेतुत्वम् उक्तं श्री-स्वामि-चरणैर् अपि संसार-हेतु-भूतं त्रैगुण्यम् उक्तम् उपसंहरतीत्य् अवतारणात् । किन्तु येन जीवेन कर्त्रा भक्ति-योगेन करणेन इमे गुणा निर्जिताः, स मन्-निष्ठो निर्गुणो मद्-भक्तः मद्-भावाय मत्-सारूप्याय तथा मद्-भावाय मद्-दास्य-सख्यादि-भावार्थं वा प्रपद्यते । अत्र यान्ति माम् एव निर्गुणाः [११.२५.२२] इति, निर्गुणो मद्-अपाश्रयः [११.२५.२६] इति मद्-भक्तस्य निर्गुणत्वम् । लक्षणं भक्ति-योगस्य निर्गुणस्येत्य् उदाहृतम् [भा।पु। ३.२९.१२] इति कपिल-देवोक्तेर् अत्रापि भक्ति-योगेन गुणा निर्जिता इत्य्-उक्त्या भक्ति-योगस्य च निर्गुणत्वम् । स च भक्ति-योगोऽर्चनादिर् गन्ध-पुष्प-धूप-दीप-च्छत्र-चामरादि-घटित इति तत्-तद्-द्रव्याणाम् अपि निर्गुणत्वं, तदीय-श्रद्धादीनां निर्गुणत्वं तूक्तम् एवेत्य् अतो भक्त्य्-उपकरण-मात्रस्यैव निर्गुणत्वम् अवगमितं भगवता ॥३२॥
॥ ११.२५.३३ ॥
तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् ।
गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् विवेकिनाम् इदम् एव युक्तम् इत्य् आह—तस्माद् इति । ज्ञान-विज्ञानयोः सम्भवो यस्मिन्, तम् इमं नर-देहम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१४] इत्य्-आदिभिर् अभ्यस्तम् अपि भजनस्य सर्वोपरितनत्वम् अभ्यस्यति—तस्माद् देहम् इति ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इमं नर-देहं ज्ञान-विज्ञानयोर् भक्त्य्-उत्थयोर् अपि सम्भवो यत्र तम् ॥३३॥
॥ ११.२५.३४ ॥
निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः ।
रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भजन-प्रकारम् आह—निःसङ्ग इति सार्धेन ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भजनस्य फलम् आह—निःसङ्गो मां भजेद् इत्य्-आदि । तदा किं स्यात् ? तदा गुण-जयो भवति । ततः किं स्यात् ? जीवः जीवत्वं विहाय मां प्रपद्यते, शुद्ध-भागवत-तनुर् भवतीत्य् अर्थः ॥३४-३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निःसङ्ग इत्य् अर्धकम् ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुद्ध-भजन-प्रकारं शिक्षयति—निःसङ्गः अन्य-कामना-ज्ञान-कर्मादि-सङ्ग-रहितः । ननु च यस्य त्वत्-सेवायां श्रद्धा निर्गुणास्ति, अथ च सात्त्विक्य् आध्यात्मिकी श्रद्धाप्य् अस्ति, राजसी कर्म-श्रद्धा तामस्य् अधर्म-श्रद्धाप्य् अस्ति, एवं त्वद्-भक्त्य्-उत्थं निर्गुणं सुखम् अस्ति, तथा आत्मोत्थं विषयोत्थं मोहोत्थं च त्रिगुण-मयम् अपि सुखम् अस्ति । एवम् एवोक्त-लक्षणं सर्वं नैर्गुण्यं त्रैगुण्यं चास्ति तेनारब्ध-त्वद्-भजनेन जनेन किं कर्तव्यम् इति चेत् श्रूयताम्—स यदि केवलं भक्तिमान् स्यात्, तदा भक्त्यैव त्रैगुण्यं निर्जयेद् इत्य् उक्तम् एव । येनेमे निर्जिताः सौम्य गुणा भक्ति-योगेनेत्य् अनेन पूर्व-श्लोकेन, यदि च प्रधानी-भूत-भक्तिमान् स्यात्, तदा पुनर् उपायान्तरंअपि त्रैगुण्य-जयेऽस्तीत्य् आह—रज इति ॥३४॥
॥ ११.२५.३५ ॥
सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः ।
सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्त्व-संसेवया सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये [भा।पु। ११.१३.६] इति प्राग्-उक्तया । नैरपेक्ष्येणोपशमात्मकेन सत्त्वेनैव ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व-श्लोकस्य व्याख्या द्रष्टव्या।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम्पद्यत इत्य् अर्धकम् ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्व-संसेवया सात्त्विकान्य् एव सेवेतेति प्राग्-उक्त-प्रकारया । नैरपेक्ष्येण भक्त्य्-उत्थ-वैतृष्ण्येन ॥३५॥
॥ ११.२५.३६ ॥
जीवो जीव-विनिर्मुक्तो3 गुणैश् चाशय-सम्भवैः ।
मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं च सति मां प्राप्नोतीत्य् आह—सम्पद्यत इति । जीवं जीवत्व-कारणं लिङ्ग-शरीरम् । मां प्राप्तस्य न पुनः संसार इत्य् आह—जीव इति । न बहिर् विषय-भोगेन नान्तरस् तत्-स्मरणेन ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तथा च निर्विशेष-ब्रह्म-भावेनापूर्णः सन् स-विशेषेण ब्रह्मणा श्री-कृष्णेनैव चरेत्, मया पूर्णः सन् चरेद् इत्य् अर्थः । तस्य मया सह न बहिर् नान्तरम् । अत्याप्तत्वे लौकिकोक्तिर् इयम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च मां सम्पद्यते सम्प्राप्नोति जीवं लिङ्ग-शरीर्रम् । एवं च जीवेन लिङ्ग-देहेन अन्तः-करणोत्थैर् गुणैः कामादिभिश् च रहितः बहिः प्राकृत-शब्दादि-विषयान् आन्तरं शोक-मोहादिकं च न चरेत्, न प्राप्नुयात् ॥३६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > श्री-भगवद्-उद्धव-संवादे त्रि-गुण-वृत्ति-निरूपणं नाम > पञ्चविंशोऽध्यायः ॥११.२५॥