२४ श्री-भगवद्-उद्धव-संवादे साङ्ख्य-योगः

॥ ११.२४.१ ॥

श्री-भगवान् उवाच—

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् ।

यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्-विंशे तु साङ्ख्येन मनो-मोहो निवार्यते ।

आत्मनः सर्व-भावानाम् आगमापाय-चिन्तया ॥

स्व-पद-द्वन्द्व-भक्तानाम् अद्वन्द्वत्वाय संयमम् ।

चित्तस्योक्त्वा पुनः कृष्णः साङ्ख्य-मत्राह तत् कृते ॥

अद्वितीयात् परमात्मनो मायया प्रकृति-पुरुष-द्वारा सर्वं द्वैतम् उदेति, पुनस् तत्रैव लीयते इत्य् अनुसन्दधानस्य पुरुषस्य द्वन्द्व-भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति—अथेति । पूर्वैः कपिलादिभिर् विनिश्चितम्वैकल्पिकं भेद-निमित्तम् । भ्रमं सुख-दुःखादि-रूपम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बहिरङ्गाया मायायाश् चांश-द्वयम् । अत्र गुण-रूपस्य मायाख्यस्य निमित्तांशस्य, द्रव्य-रूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं भेदम् आह चतुर्भिः—अथेति तैः । अत्र प्रधान-पर्यायः प्रकृति-शब्दः ॥१॥ [परमात्म-सन्दर्भ ४९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

चतुर्-विंशे तु सूत्राद्य-हेतवोऽस्य यतोऽभवन् ।

पुनस् तद् एव विविशुर् एतत् साङ्ख्यं निरूपितम् ॥

मनः-प्रधान-लिङ्ग-देहेऽहं-बुद्धिर् एवात्मनो दुःख-कारणम् इति भिक्षु-गीताद् अवगतं, सा चानात्म-बुद्धिर् आत्मानात्म-विवेके सति निवर्तते । सा चात्मानात्म-विवेकः साङ्ख्य-ज्ञान-मूल इत्य् अतः साङ्ख्यम् उपदिशन्न् आह—अथेति । विकल्पो देहस् तद्-उद्भवम् अध्यास-रूपं भ्रमं त्यजेत् ॥१॥

———————————————————————————————————————

॥ ११.२४.२ ॥

आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् ।

यदा विवेक-निपुणा आदौ कृत-युगेऽयुगे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यथैवार्थस् तथाज्ञानं ज्ञानार्थैक्यम् उदाहृतम् ।

तथा कृत-युगे प्रायस् तद् अन्येषु तु कस्यचित् ॥ इति ब्रह्म-तर्के ॥२॥


**श्रीधर-स्वामी (भावार्थ-दीपिका) : अथो-**शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ, तेन दृश्य-रूपः कृत्स्नोऽप्य् अर्थश् च विकल्प-शून्यम् एकम् एव, ब्रह्मण्य् एव लीनम् आसीद् इत्य् अर्थः ।कदेत्य् अपेक्षायाम् आह—अयुगे युगेभ्यः पूर्वम्, प्रलय इत्य् अर्थः । तथा आदौ यत् कृत-युगं, तस्मिंश् चान्यदापि यदाविवेक-निपुणा जना भवन्ति, तदापि तेषां भेदास्फूर्तेः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आसीद् इति तैः तृतीय-स्कन्धे—भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः[भा।पु। ३.५.२३] इत्य्-आदौ यद् भगवत्त्वेन शब्द्यते, तद् एवात्र ब्रह्मत्वेन शब्द्यत इति, वदन्ति इत्य्-आदिवद् उभयत्रैकम् एव वस्तु प्रतिपाद्यम् ।अन्ते तु, एष साङ्ख्य-विधिः प्रोक्तः[भा।पु। ११.२४.२९] इत्य्-आदौ, परावर-दृशा मया इत्य् अनेन भगवद्-रूपेणाप्य् अवस्थितिः स्पष्टैव । कदेत्य् अपेक्षायाम् आह—यदा आदौ कृत-युगे विवेक-निपुणा जना भवन्ति, तस्मिन्न् अयुगे तत्-पूर्वस्मिन् प्रलय-काल इत्य् अर्थः । यद् वा, ज्ञानम् अत्र जीव-तत्त्वम् ॥२॥ [परमात्म-सन्दर्भ ५०]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानं ब्रह्म-परमात्म-भगवच्-छब्द-वाच्यस् त्व् इत्य् अर्थः । यज् ज्ञानम् अद्वयं ब्रह्म [भा।पु। १.२.११] इति, परमात्मेति भगवान् इति शब्द्यते इति सूतोक्तेः । अथो-शब्दः कार्त्स्न्ये । अविकल्पितं विकल्प-शून्यम् एकम् एव ज्ञानं ब्रह्मैवाथो वस्व् आसीत्, कदेत्य् अपेक्षायाम् आह—अयुगे युगेभ्यः पूर्वं प्रलय इत्य् अर्थः । तथा आदौ यत् कृत-युगं तस्मिंश् च अन्यद् अपि यदा विवेक-निपुणा ज्ञानिनो भवन्ति, तदापि तेषां भेदास्फूर्तेः ॥२॥

———————————————————————————————————————

॥ ११.२४.३ ॥

तन् माया-फल-रूपेण केवलं निर्विकल्पितम् ।

वाङ्-मनो-\ऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्बृहद् ब्रह्म वाङ्-मनोऽगोचरं यथा भवति, तथा माया दृश्यं फलं तत्-प्रकाशस् तद्-रूपेण माया-रूपेण विलास-रूपेण वा द्विधाभूत् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् इति । तैः तत्र माया-दृश्यम् इति फलं तत्-प्रकाश इति छेदः, तेन ब्रह्मणा यद् दृश्यं वस्तु, तन् माया । तस्य ब्रह्मणो यः प्रकाश-विशेषः, स फलम् इत्य् अर्थः। यद् वा, प्रकृतिर् यस्य[भा।पु। ११.२४.१९] इत्य्-आदौ, ब्रह्म तत् त्रितयं त्व् अहम् इति वक्ष्यमाणात्, तद् बृहत् मल्-लक्षणं ब्रह्म-स्वरूपेण स्थित्वैव मायाया निज-शक्ति-विशेषस्य यत् फलं व्यङ्गं वस्तु, तद्-रूपेण ॥३॥ [परमात्म-सन्दर्भ ५१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एव केवलम् एकम् अपि बृहद् ब्रह्म माया बहिरङ्गाख्य-स्व-शक्तिं, फलं फल-भोक्तृ स्वीय-चित्-कण-रूप-तटस्थ-शक्तिश् च, तद्-रूपेण द्विविधं सम्यग् अभवत् । द्विविधम् अपि तद् विशिनष्टि—निर्विकल्पितं ब्रह्मतो निर्भेदं, तयोस् तच्-छक्तित्वात्, वाङ्-मनसोर् अगोचरं मायाया अव्यक्त-स्वरूपत्वात्, जीवस्यातिसौक्ष्म्यात्, सत्यं द्वयोर् एव नित्यत्वात् ॥३॥

———————————————————————————————————————

॥ ११.२४.४ ॥

तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका ।

ज्ञानं त्व् अन्यतमो भावः पुरुषः सोऽभिधीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोर् द्विधा-भूतयोर् अंशयोर् मध्ये उभयात्मिका कार्य-कारण-रूपिणी ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तयोर् इति तैः । प्रकृतिः प्रधानं, पुरुषो जीवः । एवं श्री-विष्णु-पुराणे—विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपे प्रधानं पुरुषश् च विप्र [वि।पु। १.२.२४] इत्य् अत्र तेषाम् एव टीका च—परतो निरुपाधेर् विष्णोःस्वरूपात्ते प्राग्-उक्ते प्रधानं पुरुषश् च इति द्वे रूपे अन्ये माया-कृते इति ॥४॥ [परमात्म-सन्दर्भ ५२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोर् द्विधा-भूतयोर् अंशयोर् मध्ये एकतरो मायाखोऽर्थः प्रकृतिः । सा चोभयात्मिका कार्य-कारण-रूपिणी । अन्यतमोऽर्थः ज्ञानं ज्ञान-स्वरूपः स च पुरुषो जीवः ॥४॥

———————————————————————————————————————

॥ ११.२४.५ ॥

तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः ।

मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभवन्न् अभिव्यक्ता बभूवुः । मया परमेश्वरेण । जीवादृष्ट-प्रयुक्तत्वात् सृष्टेः पुरुषानुभूतत्वम् । यद् वा, स्वस्यैव प्रकृतीक्षण-रूपा या पुरुषावस्था तद्-अनुमतेन तद्-वारेणेत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मया कालाख्य-चेष्टात्मकेन महत्-स्रष्टृ-सहाय-पुरुष-रूपेण लीला-साधक-भक्त-जीव-वृन्दार्थ-कृतयेक्षया प्रक्षोभ्यमाणायास् तत उद्बुद्धेन पुरुषेषु सर्वेषु जीवेष्व् अनुगतेन मतेन ज्ञानेन वासना-रूपेण पूर्वोक्त-स्वभावाख्येन विशेषतः प्रक्षोभ्यमाणायाः प्रकृतेः सम्बन्धिनस् तम-आदयो गुणा अभवन्, व्यक्तीभूता इत्य् अर्थः । वेति पाठोऽपि समुच्चयार्थः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मया महत्-स्रष्टृ-महा-पुरुष-स्वरूपेण पुरुषस्य जीवस्यानुमतेन, अस्मद्-विधस्य जीवस्य प्राक्तन-कर्म-ज्ञान-भक्ति-साधनानि सम्पद्यन्ताम् इत्य् आत्मकेन, सृष्टैर् जीवादृष्ट-प्रयुक्तत्वात् ॥५॥

———————————————————————————————————————

॥ ११.२४.६ ॥

तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।

ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूत्रं क्रिया-शक्तिमान् प्रथमो विकारः । ततो महान् ज्ञान-शक्तिः । नन्व् अयं महान् एव प्रथमो विकारः प्रसिद्धः ? तत्राह—स च ज्ञान-क्रिया-गर्भत्वात् सूत्रेण संयुतः, न पृथक् । एकम् एव तत्त्वं क्रिया-ज्ञान-शक्तिभ्यां द्विधोच्यत इत्य् अर्थः । विमोहनो जीवस्य भ्रम-हेतुः स जातः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततस् तेभ्यः सूत्रेण संयुतः स महान् समभवत् जातः इत्य् अनयोर् भेद एव दर्शितः । तद् एवम् ईश्वर-जीव-प्रकृति-स्वभाव-सूत्र-महद्-आख्यानि षड् एव तत्त्वानि महा-पुरुषस्य मायायाश् च बृहद्-आख्य-सर्वेश्वर-गुण-त्रयस्य प्रकृताव् अन्तर्-भावात् देवतानां तत्त्वान्तर्-भावात् अहङ्कारादयो द्वाविंशतिर् इत्य् अष्टाविंशतिः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूत्रं क्रिया-शक्तिमान् प्रथमो विकारः । ननु प्रथमो विकारो ज्ञान-शक्तिर् महान् इति प्रसिद्धः ? तत्राह—महान् यः प्रसिद्धः स हि सूत्रेण संयुतः । तत्र तत्र सूत्र-सहित एव स ज्ञेय इत्य् अर्थः । विमोहनः जीवस्य भ्रम-हेतुः ॥६॥

———————————————————————————————————————

॥ ११.२४.७ ॥

वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् ।

तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : फलं रूपयति इति फल-रूपः । ज्ञानार्थैक्येन सत्यं पश्चात् तद् द्विधा समभवत् । तच्-छब्दार्थात्मकम् उभयं बृहत्तरम् ।

ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः ।

अर्थाभिमानी प्रकृतिः गायत्री सा प्रकीर्तिता ॥

तयोर् नियामको विष्णुः श्रीश् चानुग्राहिका स्मृता ।

वायुस् तु ब्रह्मणः पुत्रः प्रकृतौ समजायत ॥

त्रिगुणात्मा समुद्दिष्टः प्रायः-सत्त्वात्मकस् तथा ।

गायत्री चैव सावित्री तथैव च सरस्वती ॥

एवं त्रिरूपा प्रकृतिर् एका सत्त्वादि-भेदतः ।

तासु वीर्यं समुत्सृष्टं ब्रह्मण्य् एकत्वम् आगतम् ॥

स सूत्रात्मा समुद्दिष्टो वायुर् लोक-प्रणायकः ।

तस्यापि सूत्रं भगवान् धारणाद् विष्णुर् अव्ययः ॥

सूत्र-पुत्रस् त्व् अहङ्कारः स रुद्रः समुदाहृतः ।

अनन्ताद् अपि रुद्रोऽभूद् ब्रह्मणश् चेति स त्रिधा ॥

वैकारिको ब्रह्मजस् तु तैजसो वायुजः स्मृतः ।

तामसोऽनन्तजश् चैव स एको गुण-भेदतः ॥ इति प्रामाण्ये ।

चिद् अचिद् यद् वशे सर्वं स रुद्रश् चिद्-अचिन्-मयः ॥ इति ॥२-७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यतस् तन्मात्रादीनां कारणम् । मनः-शब्देन देवानाम् अप्य् उपलक्षणम् । चिद्-अचिन्-मयः, चिद्-आभास-व्याप्तत्वाद् उभय-ग्रन्थि-रूप इति जीवोपाधित्वं दर्शितम् । यद्य् अपि, तस्माद् वा एतस्माद् आत्मन आकाशः संभूतः इत्य्-आदि-श्रुतेः, अन्न-मयं हि सौम्य मनः इत्य्-आदि-श्रुतेश् च प्रथमं भूतानि जायन्ते, तेभ्यश् चापञ्चीकृतेभ्यः प्राणादि-क्रमेण समष्ट्य्-आत्मकं लिङ्ग-शरीरं, पञ्ची-कृतेभ्यश् च ब्रह्माण्डं, तस्मिन् वैराजस् तद् अन्तर्यामी लीलाविग्रहः क्षीराब्धि-शायी श्री-नारायणस् तन् नाभि-पद्मे च वैराजस्य भोग-विग्रहश् चतुराननस् ततो यथावसरम् अन्येषां जीवानाम् आविर्भाव इति प्रक्रिया तथापि चित्ताभिव्यक्ति-पूर्वकोऽहङ्कारस् ततो भूतेन्द्रियादि-व्यवहार इत्य् एतावता महद्-आदि-क्रमेण सृष्टिर् उच्यते । तथा चोक्तम्,

मृल्-लोह-विस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा ।

उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकारिक इति तैः तत्र यद्यपीत्य् आदौ पुराणैक-निश्चित-श्रुत्य्-अर्थानां त्व् इदं मतम्, अहङ्कारोपाधेर् एवात्मन आकाशः सम्भूतः मनसोऽन्न-मयत्वं चाभिव्यक्ति-विशेषापेक्षयेत्य्-आदि-ज्ञेयम् इति स्मार्ताश् चैतम् एवार्थं मन्यन्ते । युक्तं च तत्, यथोक्तम्,

वेदार्थाद् अधिकं मन्ये पुराणार्थं वरानने ।

वेदाः प्रतिष्ठिता देवि पुराणे नात्र संशयः ॥

पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ।

सुदान्तोऽपि सुशान्तोऽपि न गतिं प्राप्नुयात् क्वचित् ॥

यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः ।

पुराणं नैव जानाति न च स स्याद् विचक्षणः ॥ इत्य्-आदि ।

भारत-व्यपदेशेन ह्य् आम्नायार्थः प्रदर्शितः इत्य्-आदि च । क्षीराब्धि-शायीत्य् अत्र गर्भोदशायीति वाच्यं चित्तं महत्-तत्त्वम् इति ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहम् अहङ्कारः । त्रिवृत् वृत्ति-त्रयवान् । तन्मातेन्द्रिय-मनसाम् इति व्युत्क्रमेण अयतिआत्म-सङ्ख्यं चिद्-अचिन्-मय इति स्वयम् अचिन्मयोऽपि जीवोपाधित्वेन तदैक्याच् चिज्-जड-ग्रन्थि-रूपत्वाच् चिद्-अचिन्-मयः ॥७॥

———————————————————————————————————————

॥ ११.२४.८ ॥

अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च ।

तैजसाद् देवता आसन्न् एकादश च वैकृतात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् त्रि-विधात् त्रि-विध-प्रपञ्चोत्पत्तिं दर्शयति—अर्थ इति । तन्-मात्रिकाच् छब्दादि-तन्मात्र-कारणात् तामसात् तद्-द्वारा अर्थो महा-भूत-रूपो जज्ञे बभूव, भूतानाम् आवरण-स्वभाभावत्वात् । इन्द्रियाणि दश तैजसाद् राजसात् । तेषां प्रवृत्ति-स्वभावत्वात् । वैकृतात् सात्त्विकाद् देवताः, दिग्-वातार्क-प्रचेताश् च वह्नीन्द्रोपेन्द्र-मित्रकाःचन्द्रश् चेत्य् एकादशः । च-शब्दान् मनश् च । तेषां प्रकाश-स्वभावत्वात् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-मात्रिकात् तन्-मात्र-कारणात् तामसाद् अर्थ आकाश आदि-भूत-पञ्चकं जज्ञे, तस्यावरण-स्वभावत्वात् तामसत्वं, कारणस्य कार्य-निरास-रूपत्वात् तस्य निरास इत्य् अर्थे । बुञ्जण् कठजिन इत्य्-आदिना कुमुदादित्वात् टचा तन्-मात्रिक इति सिद्धम् । इन्द्रियाणि दश तैजसात्, तेषां प्रवृत्ति-स्वभावत्वात् तैजसत्वं वैकृतात् सात्त्विकात् देवता दिग्-वातादयः च-कारान् मनश् च तेषां प्रकाश-स्वभावात् सात्त्विकत्वम् ॥८॥

———————————————————————————————————————

॥ ११.२४.९ ॥

मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः ।

अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मम वैराजान्तर्यामिणः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आयतनम् उपाधिः तत्रोत्तमत्वं व्यष्ट्य्-अपेक्षया ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भावाः सूत्रादयः ॥९॥

———————————————————————————————————————

॥ ११.२४.१० ॥

तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ ।

मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

चिद्-आनन्द-शरीर्रस् तु प्रविष्टोऽन्ते हरिः स्वयम् ।

तन्-नाभेर् भूत-देहोऽभूत् पद्माद् अपि चतुर्मुखः ॥

चतुर्मुखस् तु सर्वान्त व्याप्त-देहो महा-तपाः ।

हरिस् तु सर्व-व्याप्तोऽपि भूत-देहो न तु क्वचित् ।

नैवास्य प्राकृतो देहो प्रादुर्भावेष्व् अपि क्वचित् ॥ इति निवृत्ते ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सलिले संस्थितिर् यस्य तत् सलिल-संस्थिति-तस्मिन् सलिल-संस्थिताव् अण्डे श्री-नारायण-रूपो लीला-विग्रहेण समभवं स्थित इत्य् अर्थः । विश्वाख्यं लोक-कारण-भूतम् । तत्र चात्म-भूश् चतुरानन-रूप-भोग-विग्रहेण पुनर् वैराज एव तस्मिन्न् आविर्भूत इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वितीय-पुरुष-रूपेणाहं समभवं सलिलस्य गर्भोदक-रूपस्य संस्थितिर् यस्मिन्न् इति च तन्त्रेणोक्तम् ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सलिलस्य गर्भोद-रूपस्य संस्थितिर् यत्र तस्मिन्न् अण्डे अहं गर्भोद-शायि-रूपो द्वितीयः पुरुषः समभवं स्थित इत्य् अर्थः । विश्वाख्यं लोक-कारण-भूतं तत्रात्म-भूर् ब्रह्मा वैराज एव भोग-विग्रहः पुनश् चतुराननोऽभूद् इत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ ११.२४.११ ॥

सोऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् ।

लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रजसा युक्तो मद्-अनुग्रहात् तपसासृजत् । भूर् अतलादि-सहिता । भुवः अन्तरिक्ष-लोकः । स्वः स्वर्-लोकः । महर्-लोकादेर् अप्य् उपलक्षणम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२४.१२ ॥

देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् ।

मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोक-सृष्टि-प्रयोजनम् आह—देवानाम् इति सार्धेन । ओको निवासः । पदं स्थानम्। त्रितयात् परं महर्-लोकादि ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सिद्धानां योगादिभिस् त्रितयात् परं महर्-लोकादि ॥१२॥ [भ।सं। ६३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२४.१३-१४ ॥

अधोऽसुराणां नागानां भूमेर् ओकोऽसृजत् प्रभुः ।

त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम् ॥

योगस्य तपसश् चैव न्यासस्य गतयोऽमलाः ।

महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : महर्-आदीनाम् अपि भक्ति-योगोऽपेक्षित एव, आधिक्येनापेक्षितत्वाद्, भक्ति-योगस्य मद्-गतिः इत्य् उक्तम् ।

नैव विष्णाव् अभक्तस्य महर्-लोकादिका गतिः ।

भक्त्य्-उद्रेकात् क्रमाद् ऊर्ध्वं यावद् विष्णु-प्रवेशनम् ॥

एवं ज्ञानं विना नापि महर्-लोकादिका गतिः ।

ज्ञानोद्रेकात् क्रमाद् ऊर्ध्वं यावद् विष्णु-प्रवेशनम् ॥

नित्यशो भगवद्-रूपस्यापरोक्ष्येण दर्शनम् ।

मुहूर्त-मात्रं ज्ञानं स्यान् महा-ज्ञानं ततोऽधिकम् ॥

ज्ञानेन ब्रह्म-लोकः स्यान् महा-ज्ञानाद् धरेर् गतिः ।

सदैवाखण्डितं ज्ञानं तप इत्य् उच्यते बुधैः ॥

अपरोक्ष-दृशा युक्तं नित्यं यन्-मात्र-कालया ।

अपरोक्ष-दृशा नित्यम् एक-मात्रायुजा युतम् ॥

योग-नाम्ना समुद्दिष्टं ध्यानं नित्यम् अखण्डितम् ।

तच्-चतुर्भागया नित्यम् अपरोक्ष-दृशा युतम् ॥

पाद-योगाख्यम् उद्दिष्टं ध्यानं नित्यम् अखण्डितम् ।

पाद-योगान् महर्-लोको जनो-लोकस् तु योगतः ।

तपसस् तु तपो-लोकः प्राप्यते नान्यतः क्वचित् ॥ इति ध्यान-योगे ॥१३-१४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भूमेर् अधः अतलादि । एव व्यवस्थायां कारणम् आह सार्धेन, त्रि-लोक्यां पातालादि-सहितायाम् ॥१३॥ योगादि-तारतम्येन यथोत्तरं महर्-लोकादयः । मद्-गतिर् वैकुण्ठ-लोकः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्रिलोक्याम् इति सार्धकम् । तत्र पातालादिक-भूर् भुवः स्वश् चेति कर्मणां गार्हस्थ्य-धर्माणां, तपो वानप्रस्थत्वं ब्रह्मचर्यं च । तत्र ब्रह्मचर्येणोपकुर्वाण-नैष्ठिकत्व-भेदेन क्रमान् महर् जनश् च । वानप्रस्थेन तपः । न्यासेन सत्यम् । योग-तारतम्येन तु सर्वम् इति ज्ञेयम् । मद्-गतिः श्री-वैकुण्ठ-लोके भक्ति-योग-प्राप्यत्वेन वक्ष्यमाणं, यन् न व्रजन्ति[भा।पु। ३.१५.२३। इत्य्-आदि-वाक्य-साहाय्याल् लोक-प्रकरणाच् च । उक्तं च तृतीये देवान् प्रति ब्रह्मणैव—तत्-सङ्कुलं हरि-पदान् अतिमात्र-दृष्टैः[भा।पु। ३.१५.२०] इत्य्-आदि । टीका च, पुनर् वैकुण्ठ-लोकम् एव विशिनष्टि—तत्-सङ्कुलं व्याप्तं भवति । कैः ? हरि-पदायोर् आनतिः प्रणामस् तावन्-मात्रेण दृष्टैर् भक्तानां विमानैर् न तु कर्मादि-प्राप्यैः इत्य् एषा ।

एवम् एव श्रुतिश् च—परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान् नास्त्यकृतः कृतेन1[मु।उ। १.२.१२] इति। अत्राप्य् अकृत इत्य् अस्य विशेष्यं लोक इत्य् एव, तत्-प्रसक्तेः । ईश्वरः सर्व-भूतानां [गीता १८.६१] इत्य्-आदौ,

तम् एव शरणं गच्छ सर्वभावेन भारत ।

तत्-प्रसादात् परा शान्तिः स्थानं प्राप्स्यसि शाश्वतम् ॥[भा।पु। १८.६२]

इति श्री-भगवद्-उपनिषत्सु ॥ [भगवत्-सन्दर्भ ४९ (६३)]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मणां तद्वतां, योगस्याष्टाङ्गस्य, न्यासस्य, ज्ञानस्येति एतत् त्रैतयवतां महर्-आदयश् चत्वारो लोका गतयः प्राप्याः । मद्-गतिर् वैकुण्ठ-लोकः, भक्ति-योगस्य निर्गुणस्य, तद्वतां निर्गुणानां प्राप्योऽपि वैकुण्ठ-लोको निर्गुण एवेति भावः *॥*१३-१४॥

———————————————————————————————————————

॥ ११.२४.१५ ॥

मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् ।

गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : कालात्मना ज्ञानाद्य्-आत्मना ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तु मद्-गति-व्यतिरेकेणेतरा गतयश् चञ्चला इत्य् आह वैराग्यार्थम् । मया काल-शक्तिना धात्रा परमेश्वरेण कर्म-फल-प्रदेन हेतु-भूतेन गुण-प्रवाहे संसारे उन्मज्जत्य् आ-सत्य-लोकम् उत्तमा गतीः प्राप्नोति, पुनर् निमज्जत्य् आ-स्थावरं नीचा गतीः प्राप्नोति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मया कर्त्रा इदं जगत् कर्मयुक्तं कर्मफलेन योजितम् इत्य् अर्थः फलम् अत उपपत्तेः [वे।सू। ३.२.३९] इति न्यायात् ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-मय्यो गतयस् तु चला एवेत्य् आह—मया काल-शक्तिना धात्रा परमेश्वरेण कर्म-फल-प्रदेन इदं जगत् सृष्टम् इति शेषः । गुण-प्रवाहे संसारे उन्मज्जत्य् आ-सत्य-लोकम् उत्तमा गतीः प्राप्नोति, पुनर् निमज्जत्य् आ-स्थावरं नीचा गतीः प्राप्नोति ॥१५॥

———————————————————————————————————————

॥ ११.२४.१६ ॥

अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।

सर्वोऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सृष्टि-निरूपणस्याद्वितीयात्म-प्रतिपत्त्य्-अर्थत्वात् तत्-प्रतिपादनाय कारणेन कार्यस्य व्याप्तिम् आह—अणुर् इति । अभयेन संयुक्तो व्याप्तः । तद् एवाह—प्रकृत्येति ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कारणेन कार्यस्य व्याप्तिम् आह—अणुर् इति । भावः कार्य-भूतः पदार्थः ॥१६॥

———————————————————————————————————————

॥ ११.२४.१७ ॥

यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् ।

विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्रकृतेस् तु विकाराणां कोट्य्-अंशो भेद इष्यते ।

तथैवाकाशतो भेदः सोऽपि नाभेद-वर्जितः ॥

भेदाभेदम् अतः प्राहुर् अभेदं वा तयोर् बुधाः ॥ इति विवेके ।

पारमार्थिक-सत्यत्वं स्वातन्त्र्यम् अभिधीयते ।

तद् विष्णोर् एव नान्यस्य तद् अन्येषां सदास्तिता ॥ इति च ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं कार्यस्य कारणात्मतां दर्शयति—यस्य कार्यस्य आदिः कारणमन्तो लय-स्थानं च तस्य मध्यं मध्यावस्थापि स एव । वै प्रसिद्धं मृत्-सुवर्णादिषु । अत एवाव्यभिचारित्वात् स एव सन् नेतरः । अलं तर्हि मिथ्या-भूत-कार्य-सृष्ट्या । तत्राह—विकार इति । तैजसाः कटक-कुण्डलादयः । पार्थिवा घट-शरावादयस्य यथेति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् कार्यस्य कारणात्मकत्वम् एवेति दर्शयति—यस् त्व् इति । यस्य कार्यस्य य आदिः कारणं, अन्तः लय-स्थानं च तस्य मध्यं मध्यावस्थापि स एव सन् सत्य एव । अयम् अर्थः पूर्वम् अविकृतं कारणम् एव, पश्चात् विकृतं सत् कार्यत्वम् आपद्यते, न तु कार्यं कारणात् प्र्ठग् भूतं वस्तु भवति । अतः कार्यस्य निथ्यात्वे कारणस्याप्य् अंशेन मिथ्यात्व-प्रसक्तेः कार्य-कारणे उभे अपि सत्ये एवेति । यस्माद् एवं तस्माद् विकारः कार्यं, पदार्थो व्यवहारार्थो , व्यवहारार्थस्याभ्रान्तानां सत्येनैव वस्तुना सिद्धेः सत्य इत्य् अर्थः । यथा तैजसाः कटक-कुण्डलादयः पार्थिवा घट-शरावादयश् च सत्या एव व्यवह्रियन्ते ॥१७॥

———————————————————————————————————————

॥ ११.२४.१८ ॥

यद् उपादाय पूर्वस् तु भावो विकुरुतेऽपरम् ।

आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यद् ब्रह्मोपादाय पूर्वः प्रकृत्य्-आदिर् आदिर् अन्तश् च यद् ब्रह्मणि यस्मात् तस्मा ब्रह्म परमार्थ-सत्यम् ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं तर्हि स्वकार्यं प्रति महद्-आदीनाम् अप्य् आद्य्-अन्त-रूपत्वात् सत्यत्वं स्यात् तत्राह—यद् इति । यद् रूपम् उपादायोपादान-कारणतया स्वीकृत्य पूर्वः कारण-रूपो महद्-आदिर् भावः अपरम् अहङ्कारादिकं भावं विकुरुते सृजति । यथा पिण्डो मृदम् उपादाय स्वयं निमित्त-भूतो घटं सृजति तद्वत् । स एव सन्न् इति पूर्वस्यानुषङ्गः । कथं तर्हि मृत्तिकेत्य् एव सत्यम् इत्य्-आदि-श्रुतिः ? तत्राह—आदिर् इति । यद् यदा यस्यादिर् अन्तश् च विवक्ष्यते तदा तत् सत्यम् इत्य् अभिधीयते श्रुत्या । परम-कारणात्मनः सत्यत्व-विवक्षयेत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मम् इव तु सर्व-सत्ता-सम्पादकं सत्त्वम् इति वक्तुं युक्तिं दर्शयतिइ—यद् इति ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, कार्य-कारणयोर् उभयोः सत्यत्वेऽपि मृत्तिकेत्य् एव सत्यम् इति श्रुत्या यद् उच्यते—तत् सत्य-शब्देन कारणम् एवोच्यते इत्य् आह—यद् वस्तु उपादाय पूर्वो भावः परं विकुरुते सृजति, तत् सत्यं, यथा पिण्डो मृद् उपादाय स्वयं निमित्त-भूतो घटं सृजति, तन् मृद् एव सत्यम् । किं च, यद् यदा यस्यादिर् अन्तश् च भवति, तदा तत् सत्यम् अभिधीयते । इति मृदः सत्यत्वं घटम् अपेक्ष्य, कारणत्वम् इति मृद्-आदीनाम् आपेक्षिकं सत्यत्वम् । प्रकृतेस् तु परम-कारणत्व-लक्षणम् आत्यन्तिकं सत्यत्वम् आयातम् । अत्र कारणस्यैव कार्य-रूपत्वेन प्रतिपादनाद् उभयोर् अपि कार्य-कारणयोर् वस्तुतः सत्यत्वेऽपि तत् सत्यम् अभिधीयते इत्य् उक्तेः कारणस्य सत्यम् इति नामैव भगवता कृतम् इत्य् अवसीयते, मृत्तिकेत्य् एव सत्यम् इति श्रुतेः । सत्-कार्य-वादेऽपि व्याख्यानार्थम्, अत एव तत् सत्यं भवतीत्य् अप्रयुज्य तत् सत्यम् अभिधीयते इत्य् उक्तम् । व्याख्यानान्तरेऽध्यायेऽस्मिन् मायावादस्याप्रसङ्गात् कार्य-कारणयोर् लक्षणस्य सर्वैर् एव ज्ञातत्वाद् वाक्यस्यास्य वैयर्थ्यम् एवापद्येतेत्य् अवधेयम् ॥१८॥

———————————————————————————————————————

॥ ११.२४.१९ ॥

प्रकृतिर् ह्य् अस्योपादानम्2 आधारः पुरुषः परः ।

सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : परः पुरुषो हिरण्यगर्भः कालोऽपि रूपान्तरेण स एव ।

कालाभिमानि ब्रह्मा तु काल इत्य् अभिशब्दितः ॥

सर्व-जीवाभिमानी स परः पुरुष उच्यते ॥

प्रकृतिर् नाम तत्-पत्नी प्रकृते अभिमानिनी ।

सा प्रसूते जगत् सर्वं सूत्रम् आरभ्य सर्वशः ॥ इति च ।

आधारो व्यञ्जकश् चैव प्रसविता च केशवः ।

काल-प्रकृति-पुंसां च तन्-मूल-प्रकृतेर् अपि ।

आधारो व्यञ्जकश् चैव सर्वस्यापि नियामकः ॥ इति च ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तथापि3 प्रकृति-पुरुष-कालानाम् अकार्य-भूतानां भिन्नत्वात् कथम् अद्वितीयता तत्राह—प्रकृतिर् इति । अस्य सतः कार्यस्योपादानं या प्रकृतिः प्रसिद्धा यश् च तस्या आधारोऽधिष्ठाता परः पुरुषो यश् च गुण-क्षोभेणाभिव्यञ्जकः कालस् तत् त्रितयं ब्रह्म-रूपोऽहम् एव, न तु पृथक् । प्रकृतेः शक्तित्वात् पुरुष-कालयोर् अवस्था-रूपत्वात् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—प्रकृतिर् इति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि परमेश्वरस्य तव कथं परम-कारणत्व-लक्षणम् आत्यन्तिक-सत्यत्वं तत्राह—प्रकृतिर् हीति । यस्य सतः कार्यस्योपादानं या प्रकृतिः प्रसिद्धा । यश् चास्य आधारः केषांचिन् मते अधिष्ठान-कारणं पुरुषः, यश् च गुण-क्षोभेणाभिव्यञ्जकः कालो निमित्तं, तत् त्रितयं ब्रह्म-रूपोऽहम् एव । प्रकृतेः शक्तित्वात्, पुरुषस्य मद्-अंशत्वात्, कालस्य मच्-चेष्टा-रूपत्वात्, तत् त्रितयम् अहम् एव । एवं च प्रकृतेर् जगद्-उपादानत्वाद् एव मम जगद्-उपादानत्वम् । किं च, तस्याविकारित्वेऽपि न मे विकारित्वं, तस्या मच्-छक्तित्वेऽपि मत्-स्वरूप-शक्तित्वाभावात्, किन्तु बहिरङ्ग-शक्तित्वम् एव मत्-स्वरूपस्य मायातीतत्वेन सर्व-शास्त्र-प्रसिद्धेः ॥१९॥

———————————————————————————————————————

॥ ११.२४.२० ॥

सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः ।

महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यावत् स्थितिर् अस्ति तावद् उत्पत्तिर् अस्त्य् एव । यावद् ईक्षणं यावत् प्रलयः स्याद् इति भगवतः स्मरणम् ॥२०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं कार्यस्य कारणात्मतां दर्शयति, यस्य कार्यस्य आदिः कारणम् अन्तो लय-स्थानं च तस्य मध्यं मध्यावस्थापि स एव । वै प्रसिद्धं मृत्-सूवर्णादिषु । अत एवाव्यभिचारित्वात् स एव सन्नेतरः । अलं तर्हि मिथ्याभूत-कार्य-सृष्ट्या, तत्राह—विकार इति । तैजसाः कटक-कुण्डलादयः, पार्थिवा घट-शरावादयश् च यथेति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगत्-सर्गोऽयं कियत्-कालावधिर् इति चेत् स्थिति-काल-पर्यन्त इत्य् आह—सर्ग इति । महान् अतिबहुलः पौर्वापर्येण पितृ-पुत्रादि-रूपेण नित्यशोऽविच्छेदेन, किम्-अर्थः गुणेषु देहेषु विविधया सृज्यत इति गुण-विसर्गो जीवस् तद्-अर्थस् तद्-भोगादि-प्रयोजनकः, स च सर्गस् तावत् प्रवर्तते यावत् स्थित्य्-अन्तः स्थितेः पालनस्यान्तः समाप्तिः । स चान्त एव किम्-अवधिकः ? तत्राह—यावद् ईक्षणं पालनेच्छानुकूलम् इत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ११.२४.२१ ॥

विराण् मयासाद्यमानो लोक-कल्प-विकल्पकः ।

पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विशेषेण गुणोद्रेकात् विशेषः पृथिवी स्मृता इति प्रवृत्ते । पञ्चत्वानन्तरम् अविशेषाय ॥२१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रलयं निरूपयति—विराट् ब्रह्माण्डं मया कालात्मना आसाद्यमानो व्याप्यमानो लोकानाम् अहर्-अहः-कल्पाः सृष्टि-प्रलया विविधाः कल्पन्ते यस्मिंस् तान् वा स्वस्मिन् विकल्पयतीति स तथाभूतोऽपि पञ्चत्व-रूपाय विशेषाय विभागाय कल्पते योग्यो भवति । पञ्चानां भूतानाम् ऐक्यरूपस् तेषां पृथग् भावापत्त्या नश्यतीत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद्-अनन्तरं किं भविष्यतीति चेत् प्रलय एवेति तं निरूपयति—विराट् ब्रह्माण्डं, मया कालात्मना व्याप्यमानः, लोकानां भूर्-आदीनां मनुष्य-तिर्यग्-आदीनां वा कल्पः सामान्यतः कल्पः सामान्यतः कल्पना, विकल्पो विशेषतश् च कल्पना यत्र सः । पञ्चत्वाय विशेषाय पञ्चत्व-रूपो यो विशेषः, विभागस् तस्मै तं प्राप्तुं कल्पते योग्यो भवति, पञ्चत्वं मृत्युः ॥२१॥

———————————————————————————————————————

॥ ११.२४.२२ ॥

अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते ।

धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : देव्याम् ओषधि-मानिन्यां लीयतेऽन्नाभिमानिनी इत्य्-आदि च ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र, तस्माद् वा एतस्माद् आत्मन आकाशः संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः इति श्रुत्य्-उक्त-सृष्टि-क्रम-प्रातिलोम्येन लयम् आह—अन्न इति । मर्त्यं शरीरं येनोपचितं तस्मिन्न् अन्ने शत-वर्षायाम् अनावृष्टौ क्षीणे सति तत्रैव लीयत इत्य् अर्थः । अन्नं धानासु बीज-मात्रावशेषं भजतीत्य् अर्थः । धाना भूमौ उप्ता न प्ररोहन्तीत्य् अर्थः । भूमिर् गन्धे संवर्तकाद् इत्य् अशोषिता सङ्कर्षण-मुखाग्निना दग्धा च सती भूत-सूक्ष्म-रूप-गन्ध-मात्रावशेषा भवति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्ने तद्-उत्पादक-पृथिव्य्-अंशे, तद् अप्य् अन्नं धानासु, तस्यापि कारणांश-रूपासु सूक्ष्मावस्थासु ताश् च धाना भूमौ स्वाश्रय-रूपायां पृथिव्यां प्रलीयन्ते, यथा पृथुना दोहने पुनर् उद्भवाय कल्पन्ते स्म, तथा न कल्पन्ते इत्य् अर्थः ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र, तस्माद् वा एतस्माद् आत्मन आकाशः संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः इति श्रुत्य्-उक्त-सृष्टि-क्रम-प्रातिलोम्येन प्रलयम् आह—मर्त्यं शरीरं येनोपचितं तस्मिन्न् अन्ने शत-वर्ष-व्यापिन्य् अनावृष्टिर् वा भवेत् तन्-मध्य एव, प्रथमं शरीर्रस्य तद्-अनन्तरम् एवान्नस्य कार्त्स्न्येन नाशात्, ततश् चान्नं धानासु स्व-स्व-बीजेषु, धाना भूमौ, भूमिर् गन्ध इति संवर्तकादि-शोषिता सङ्कर्षण-मुखाग्नि-दग्धा च सती स्व-गुण-गन्ध-मात्रावशेषा भवतीत्य् अर्थः ॥२२॥

———————————————————————————————————————

॥ ११.२४.२३ ॥

अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे ।

लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गन्धः शत-वार्षिक्या वृष्ट्या प्लाव्यमानोऽप्सु लीयते । एवम् एवापो ज्योतिषा शोष्यमाणा रस-मात्रावशेषा भवन्ति । ततो रसोऽपि तस्मिन् लीयते । ज्योतिश् च वायुनाभिभूयमानं रूप-मात्रं सत् तस्मिन् लीयते ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-योनिषु राजसाहङ्कार-वृत्तिषु ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाणि स्व-योनिषु स्व-योनौ तैजसाहङ्कारे । योनिस् तैजसाहङ्कारो वैकारिकाहङ्कार-कार्ये मनसि कुतः ? ईश्वरे तैजसाहङ्कारस्य ज्ञान-कर्म-मयत्वाज् ज्ञान-कर्मणोश् च ज्ञानेन्द्रिय-रूपत्वात् ज्ञानेन्द्रिय-कर्मेन्द्रियाणां च मनस एव ईशितव्यत्वात् मन एव तेषाम् ईश्वर इति युक्तेः ॥२३॥

———————————————————————————————————————

॥ ११.२४.२४ ॥

रूपं वायौ च स स्पर्शे लीयते सोऽपि चाम्बरे ।

अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वायुश् च काल-प्रेरितेनाम्बरेण ग्रस्तः स्पर्श-मात्रः सस् तस्मिन् । अम्बरं च भूतादिनाहङ्कारेण ग्रस्यमानं शब्द-तन्-मात्रे । तद् एवं तामसाहङ्कार-कार्यस्य शब्द-पर्यन्तं लयम् उक्त्वा राजसाहङ्कार-कार्यस्याप्य् आह—इन्द्रियाणि स्व-योनिष्व् इति । स्व-प्रवर्तक-देवतासु । तेषां प्रवृत्ति-स्वभावत्वात् प्रवृत्तेश् च देवताधीनत्वात् तासु लय इति वाचो-युक्तिः । वस्तुतस् तु स्व-कारणे राजसाहङ्कारे लयोऽभिप्रेतः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : योनिः सर्वेन्द्रिय-प्रवृत्ति-हेतुर् मनः वैकारिके सात्त्विकाहङ्कारे तस्मिन् कथम्-भूते मनसीश्वरे व्यधिकरण-सप्तम्यौ मनसः सप्तमी च स्वामीश्वराधिपति इत्य्-आदिना मनः-कारणत्वान् मनोऽधिष्ठातरीश्वरे इत्य् अर्थः । उपलक्षणं चैतद् देवतालयस्य महति सूत्र-संयुत इति ज्ञेयम् । महांश् च सूत्र-संयुत इति ज्ञापितत्वात् ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२४.२५ ॥

योनिर् वैकारिके सौम्य लीयते मनसीश्वरे ।

शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

विकारजत्वात् तु महान् वैकारिक उदाहृतः ।

ईशनाद् ईश्वरश् चैव ब्रह्मा बृंहणतः स्मृतः ॥इति च ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : योनिर् इत्य् उद्देश्य-गतत्वाद् एकत्वम् अविवक्षितम् । योनयो देवतास् तु मनसि । कुतः ? ईश्वरे नियन्तरि, मनो वशेऽन्ये ह्य् अभवं स्म देवाः इत्य् उक्तत्वात् । इन्द्रिय-लयोक्त एवात्राप्य् अभिप्रायः । मनश् च देवताभिः सह वैकारिकेऽहङ्कार इत्य् अर्थः । तामसाहङ्कार-कार्यावशेषितस्य शब्दस्य लयम् आह—शब्दो भूतादिं तामसाहङ्कारम् अप्य् एति, तस्मिन् लीयत इत्य् अर्थः । भूतादिर् इत्य् उपलक्षणम् । त्रि-विधोऽप्य् अहङ्कारो महति जडांशं विहाय ज्ञान-क्रिया-शक्ति-मात्र-रूपो भवति । कथं भूतः । प्रभूः समर्थः । सर्व-जगन्-मोहकत्वात् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्बरं शब्द-तन्-मात्र इत्य् उक्तं तस्य शब्द-तन्-मात्रस्य लयम् आह—शब्दो भूतादिं ताम् असाहङ्कारम् अप्य् एति तस्मिन् लीयत इत्य् अर्थः । भूतादिस् तामसाहङ्कारो वैकारिकाहङ्कारश् च महति ॥२५॥

———————————————————————————————————————

॥ ११.२४.२६-२७ ॥

स लीयते महान् स्वेषु गुणेषु गुणवत्तमः ।

तेऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयतेऽव्यये ॥

कालो माया-मये जीवे जीव आत्मनि मय्य् अजे ।

आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गायत्री चैव सावित्री तथैव च सरस्वती ।

एवं त्रिरूपा प्रकृतिर् ब्रह्म-पत्नी प्रकीर्तिता ॥

महत्-तत्तात्मको ब्रह्मा तज्जत्वात् तत्र लीयते ।

गुणाधिकः पतिर् अपि तस्या सत्त्वादि-भेदतः ॥

त्रिविधा मूल-रूपायां प्रकृत्यांसा प्रलीयते ।

प्रकृतिर् मूल-रूपा सा ब्रह्म-पत्नी जगन्-मयी ॥

पुरुषाभिधे विरिञ्चे स स्वस्मिन् काल-संज्ञिते ।

कालभिधो विरिञ्चस् तु महा-लक्ष्म्यां विलीयते ॥

जीवनायेति याम् आहुः सा च सत्त्वादि-भेदतः ।

त्रिविधैकत्वम् आपाद्य विष्णाव् एव विलीयते ॥

हरेर् अत्यन्त-सामीप्यं लयो लक्ष्म्याः प्रकीर्तितः ।

पुरुषेणापि सामीप्यं प्रकृतेर् लय उच्यते ॥

ब्रह्मा च प्रकृतिश् चैव युक्तिगौ विलये यतः ।

अतस् तौ भिन्न-देहौ तु ज्ञान-मात्रौ समीपगौ ॥ इत्य्-आदि च ॥२६-२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स च महान् स्व-कारणेषु गुणेषु । ज्ञान-क्रिया-शक्तिमत्त्वाद् गुणवत्-तमस् तादृग् भावं विहाय गुण-मात्र-रूपो भवति । तेऽव्यक्ते प्रकृतौ । साम्यावस्थां गच्छन्तीत्य् अर्थः । तद् अव्यक्तं काले कालाधीनत्वात् तेनैकी-भूयावतिष्ठते । अव्यये उपरत-वृत्तौ ।

माया-मये माया-प्रवर्तके ज्ञान-मये वा । अत एव जीवयतीति जीवस् तस्मिन् महा-पुरुषे । अयं भावः, विश्व-स्रष्टुर् महा-पुरुषस्योपकरण-रूपः कालो वृत्त्य्-अंशेन सृज्यश् चातस् तद् आत्मनावतिष्ठत इति । तद् उक्तं सप्तमे, “कालं चरन्तं सृजतीश आश्रयं प्रधान-पुंभ्यां नर-देव सत्य-कृत्” इति । दशमे च, “योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुश् चेष्टते येन विश्वम् । निमेषादिर् वत्सरान्तो महीयांस् तं त्व् एशानं क्षेम-धाम प्रपद्ये ।” इति । जीव आत्मनि । प्रकृतेर् लीनत्वेन प्रतियोग्य-भावात् परिपूर्णत्वेन सद्-रूपेणावतिष्ठते । आत्मा चात्म-स्थ एव नान्यत्र लीयते । यतः केवलो निरुपाधिः । तत्र हेतुः, विकल्पापायाभ्यां विश्वोत्पत्ति-प्रलयाभ्यां लक्ष्यतेऽधिष्ठानत्वेनावधित्वेन वेति तथा सः॥२६-२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : काले तच्-छक्त्य्-आत्मके ईश्वरे, अत एवाव्यये ॥२६॥ यस् तु क्रियाणां क्रमानुसन्धानात्मकस् तत्-कार्य-रूपो लौकिकः कालः, स तु माया-मये तद्-अनुसन्धातरि जीवे लीयते, यथा—माया-शब्देन तैर् ज्ञानं व्याख्यातं, माया च वयुनं ज्ञानम् इति निघण्टुः। स जीवः । आत्मनि परमात्म-रूपे मयि । तस्य तु लयाभावम् आह—अज इति । किन्तु स तु परमात्मा परम-पुरुषः, केवले शुद्ध आत्मनि भगवद्-रूपे स्व-स्वरूपे स्थितो भवति। कीदृशः सन् ? विकल्पानां सृष्टि-स्थिति-प्रलयानाम् अपायोऽनङ्गीकारो यत्र तादृश-स्वरूपः सन्न् इति ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च सूत्र-संयुतो महान् गुणेषु, ते च गुणा अव्यक्ते प्रकृतौ, गुणानां वैषम्य-त्याग एव लयो विवक्षितः, प्रकृतेर् गुण-साम्य-रूपत्वात् । तद् अव्यक्तं काले लीयते इति प्रकृतेर् लयो व्याख्यातुम् अशक्यः ।

न तस्य कालावयवैः परिणामादयो गुणाः ।

अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् ॥[भा।पु। १२.४.१९]

इति द्वादशोक्तौ प्रकृतेर् नित्यत्व-श्रवणात् जायन्तेयोपाख्यानेऽप्य् आन्तरीक्षेण प्रलय-वर्णने प्रकृतेर् लयो नोक्तः । अत एवोक्तं—

लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा ।

शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः ॥[भा।पु। १२.४.२२] इति ।

तस्मा एवं व्याख्येयं तत्-काले तस्मिन् काले ते गुणा अव्यक्ते सम्प्रलीयन्ते, ततश् च कालो लौकिकः सृज्यः । माया-मये मायोपाधौ जीवे लीयते इति पूर्वेणान्वयः । न व्येतीत्य् अव्ययस् तस्मिन्न् इति जीवस्यापि तटस्थ-शक्तित्वान् नित्यत्वेन तत्त्वान्तराणाम् इव स्वरूप-लयानौचित्यात् । स च जीवः आत्मनि परमात्मनि मयि लीयते अव्ययत्वाद् अप्रच्युत-स्वरूप एव संश्लिष्टस् तिष्ठतीत्य् अर्थः । आत्मा आत्म-स्थ एव विराजते केवलो निरुपाधिः, यतो विकल्पाप्ययाभ्यां विश्वोत्पत्ति-लयाभ्यां लक्ष्यते ॥२६-२७॥

———————————————————————————————————————

॥ ११.२४.२८-२९ ॥

एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।

मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥

एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः ।

प्रतिलोमानुलोमाभ्यां परावर-दृशा मया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य कथनस्य प्रस्तुतोपयोगम् आह—एवम् इति । मनसः कथं भेद-निमित्तो भ्रमः स्यात् ? जातो वा कथं हृदि तिष्ठेत् ? उपसंहरति—एष इति ॥२८-२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परावर-दृशा मयेति सर्वादित्वं सर्व-शेषत्वं च स्वयं भगवद्-रूपस्य स्वस्यैव स्थापितम् ॥२८-२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वीक्षमाणस्य विचारयतः वैकल्पिकः “देहोऽहम्” इति मनसो भ्रमः हृदि कथं तिष्ठेत ? इति उक्त-लक्षणेन साङ्ख्येनात्मानात्मा-विवेके सति देहस्यानात्मत्व-निर्धारणाद् इति भावः ॥२८-२९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

श्री-भगवद्-उद्धव-संवादे साङ्ख्य-योगो नाम

चतुर्विंशोऽध्यायः ।

॥ ११.२४ ॥

———————————————————————————————————————


  1. थे भगवत्-सन्दर्भ रेअदिन्ग् wअस् परीत्य लोकान् कर्म-जितान्\॥। नास्त्य् अकृतः। ↩︎

  2. यस्योपादानम् ↩︎

  3. सर्व-विकाराणां मिथ्यात्वेऽपि । ↩︎