२३ श्री-भगवद्-उद्धव-संवादे भिक्षु-गीता

॥ ११.२३.१ ॥

श्री-बादरायणिर् उवाच—

स एवम् आशंसित उद्धवेन

भागवत-मुख्येन दाशार्ह-मुख्यः ।

सभाजयन् भृत्य-वचो मुकुन्दस्

तम् आबभाषे श्रवणीय-वीर्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

निरस्य सर्व-सन्देहम् एकी-कृत्य सुदर्शनम् ।

प्रकाशित-रहस्यं तं भजस्व गुरुम् ईश्वरम् ॥

त्रयो-विंशे तिरस्-कार- सहनोपाय ईर्यते ।

भिक्षु-गीत-प्रकारेण मनसः संयमो धिया ॥

दुर्जनोपद्रवो नूनं दुःसहो हि महीयसाम् ।

अतश् चतुर्भिर् अध्यायैः सहनोपाय-वर्णनम् ॥

तत्र तावद् अस्मिन्न् अध्याये भिक्षु-गीतया मनो-विजय उत्तरस्मिन् प्रकृति-पुरुष-विवेकस् तद् उत्तरस्मिन् गुण-वृत्ति-विजय-स्ततः परस्मिन्न् ऐल-गीतया विषय-सङ्ग-त्यागेन सत्-सङ्ग इति क्रमेणोपाया भगवता वर्ण्यन्ते । आशंसितः प्रार्थितो भृत्यस्य वचः सत्-कुर्वस् तं भृत्यं प्रति आबभाषे ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयोविंशे कदर्यस्य धन-ज्ञानाप्ययोदयौ ।

गीतं दुःख-हरं चोक्तं दुर्जनाप्त-तिरस्कृते ॥

आशंसितः प्रार्थैतः ॥१॥

———————————————————————————————————————

॥ ११.२३.२ ॥

श्री-भगवान् उवाच—

बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः ।

दुरुक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावद् अङ्गी-कारतस् तद्-वचः सम्पूजयति द्वाभ्याम् । हे बार्हस्पत्य ! बृहस्पतेः शिष्य ! अत्र लोके स साधुर् नास्ति, यो दुर्जनोक्तैर् भिन्नं क्षुभितं मनः शमयितुम् ईश्वरः स्यात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे बार्हस्पत्य ! बृहस्पतेः शिष्य ! इति । सोपपत्तिकं त्वद्-वाक्यम् अहम् अमानयम् एव, किन्तु पारमार्थिकोऽयं मार्गस् त्वद्-गुरुणा तेनाप्य् अगम्यो, मत्त एव त्वया शिक्षयितव्य इति भावः ॥२॥

———————————————————————————————————————

॥ ११.२३.३ ॥

न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः ।

यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह—नेति । यथा मर्म-स्था मर्मस्व् एव नित्यं स्थिताः परुषोक्ति-रूपा इषवस् तुदन्ति व्यथयन्ति, तथेतरे वाणा न तुदन्ति । अतस् तैस् तथा न तप्यत इत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परुषेषवः परुषोक्ति-रूपा इषवः ॥३॥

———————————————————————————————————————

॥ ११.२३.४-५ ॥

कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव ।

तम् अहं वर्णयिष्यामि निबोध सुसमाहितः ॥

केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः ।

स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि मया वक्ष्यमाणैर् उपायैः सर्वं सोढुं शक्यम् इत्य् अभिप्रायेणेतिहासं प्रस्तौति, महद् यथा भवति तथा पुण्यम् इतिहासं गाथां कथयन्ति ॥४-५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवोदाहरति—कथयन्तीति युग्मकम् इदम् ॥४-५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यप्य् एवम् एव सर्वत्र दृष्टं तद् अपि परुषेषु-वैयर्थ्य-करम् उपाख्यानं श्र्ण्व् इत्य् आह—कथयन्तीति । विपाकं फलम् ॥४-५॥

———————————————————————————————————————

॥ ११.२३.६ ॥

अवन्तिषु द्विजः कश्चिद् आसीद् आढ्यतमः श्रिया ।

वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धोऽतिकोपनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स भिक्षुः पूर्वं धनाढ्यः कृच्छ्रार्जितस्य धनस्य नाशेन सन्तप्यमानो निर्विण्णः सन् प्रव्रज्य भिक्षार्थम् अटन् दुर्जनैर् उपद्रुतः प्रस्तुतोपयोगिनीं गाथाम् अगायतेति वक्तुं तस्य पूर्व-चरितम् आह—अवन्तिष्व् इत्य्-आदिन । अवन्तिषु मालवेषु वार्ता कृषि-वाणिज्यादि-रूपा वृत्तिर् यस्य । कदर्यस् तु स्मृताव् उक्तः—

आत्मानं धर्म-कृत्यं च पुत्र-दारांश् च पीडयन् ।

देवतातिथि-भृत्यांश् च स कदर्य इति स्मृतः ॥ इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवन्तिषु मालवेषु वार्ता कृषि-वाणिज्यादि-रूपा वृत्तिर् यस्य सः । कदर्यो विगीतः । यद् उक्तं—

आत्मानं धर्म-कृत्यं च पुत्र-दारांश् च पीडयन् ।

देवतातिथि-भृत्यांश् च स कदर्य इति स्मृतः ॥ इति ॥६॥

———————————————————————————————————————

॥ ११.२३.७ ॥

ज्ञातयोऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः ।

शून्यावसथ आत्मापि काले कामैर् अनर्चितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य ये ज्ञातयो बन्धवा अतिथयोऽध्वनीनाश् च तेन नार्चिता इत्य् अर्था । शून्यावसथे धर्म-कर्म-हीने गृहे देहे वा ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शून्यावसथे धर्म-कर्म-शून्ये गृहाश्रमे ॥७॥

———————————————————————————————————————

॥ ११.२३.८ ॥

दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः ।

दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुःशीलस्य दुःशीलाय द्रुह्यन्ते द्रुह्यन्ति ॥८॥

———————————————————————————————————————

॥ ११.२३.९ ॥

तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः ।

धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यक्षाणां वित्तम् इव केवलं रक्षणीयं वित्तं यस्य । पञ्च-भागिनः पञ्च-यज्ञ-देवताः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यक्षाणां वित्तम् इव केवलं रक्षणीयं वित्तं यस्य तस्य । पञ्च-भागिनः पञ्च-यज्ञ-देवताः ॥९॥

———————————————————————————————————————

॥ ११.२३.१० ॥

तद्-अवध्यान-विस्रस्त-पुण्य-स्कन्धस्य भूरि-द ।

अर्थोऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषाम् अवध्यानम् अनादरः, तेन विस्रस्तो विशीर्णः । पुण्यस्य स्कन्धोऽर्थ-लाभ-मात्र-हेतुर् अंशो यस्य । बह्व्-आयासैः कृष्यादिभिः केवलं श्रमो यस्मिन् सः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विस्रस्त-पुण्य-स्कन्धस्येत्य् अंश-मात्रापगमात् सद्-वासना-हेतुर् यो मुमुक्षया भगवत्य् अर्पितो धर्म-विशेषस् तस्याविस्रंसं बोधयति ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् अवध्यानम् अनादरः । बह्व्-आयासैः कृष्य्-आदिभिः परिश्रमो यस्मिन् सः ॥१०॥

———————————————————————————————————————

॥ ११.२३.११ ॥

ज्ञातयो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव ।

दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतो निधनम् अगच्छत् तद् आह—ज्ञातय इति । दैवतो गृह-दाहादिना । कालतो निखात-धान्यादि । नृणां पार्थिवानां च द्वन्द्वैक्यम्, तस्मात् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवतो गृह-दाहादिना । किञ्चित् कालतः कालेनापि निखात-धान्यादिकम् । किञ्चिन् नृपार्थिवाद् इति द्वन्द्वैक्यम् । नृभ्यश् चौरादिभ्यो राजभ्यश् च निधनम् अगच्छद् इति पूर्वेणान्वयः ॥११॥

———————————————————————————————————————

॥ ११.२३.१२ ॥

स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः ।

उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम् ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.१३ ॥

तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः ।

खिद्यतो बाष्प-कण्ठस्य निर्वेदः सुमहान् अभूत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नष्ट-रायः नष्टो रा अर्थो यस्य तस्य । तपस्विनः सन्तप्तस्य ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः कदर्यस्यापि सर्वापराधम् अतिक्रम्य प्राचीनः संस्कार-विशेषोऽयम् उद्बुद्ध इत्य् आह—तस्यैवम् इति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदर्यस्यापि तस्यापराध-स्थगितः तद्-भोगान्ते प्राचीनः संस्कार-विशेषोऽयम् उद्बुद्ध इत्य् आह—तस्येति । नष्ट-रायो नष्ट-धनस्य तपस्विनः सन्तप्तस्य ॥१३॥

———————————————————————————————————————

॥ ११.२३.१४ ॥

स चाहेदम् अहो कष्टं वृथात्मा मेऽनुतापितः ।

न धर्माय न कामाय यस्यार्थायास ईदृशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मया । आत्मा देहः । वृत्था वृथैव । आत्मानुतापं प्रपञ्चयति—न धर्मायेत्य्-आदिना । यस्येदृशोऽर्थायासः, तेन मया ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.१५ ॥

प्रायेणार्थाः कदर्याणां न सुखाय कदाचन ।

इह चात्मोपतापाय मृतस्य नरकाय च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नरकाय, सत्य् अप्य् अर्थे धर्माननुष्ठानात् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरकाय, व्यय-भीत्या नित्य-नैमित्तिक-कर्माननुष्ठानात् ॥१५॥

———————————————————————————————————————

॥ ११.२३.१६ ॥

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ।

लोभः स्वल्पोऽप्य् तान् हन्ति श्वित्रो रूपम् इवेप्सितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्वित्रः श्वेत-कुष्टम् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.१७ ॥

अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये ।

नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धेऽप्य् अर्थे तस्य उत्कर्षे संवर्धने । नाशोपभोगयोर् द्वन्द्वैक्यम् । नाशे उपभोगे चेत्य् अर्थः । साधनोत्कर्षयोर् आयासस् ततस् त्रासश् चिन्ता च नाशे भ्रम इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थस्य साधने उत्पादने, सिद्धेऽप्य् अर्थे उत्कर्षेऽर्थस्य संवर्धने नाशे उपभोगे ॥१७॥

———————————————————————————————————————

॥ ११.२३.१८-१९ ॥

स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः ।

भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥

एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् ।

तस्माद् अनर्थम् अर्थाख्यं श्रेयो-ऽर्थी दूरतस् त्यजेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अर्थ-प्राप्त्य्-अर्थास्तेयादयः षड्-अनर्थाः, प्राप्तेऽर्थे स्मयादयो व्यसनैः सह नव । व्यसनानि स्त्री-द्यूत-मद्य-विषयाणि त्रीणि ॥१८-१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा-सम्भवम् आयासादयो व्यसनानि स्त्री-द्यूत-मद्य-विषयाणि त्रीणीत्य् ऊनविंशतिः । तत्रायास-त्रास-चिन्ता-भ्रमाः केवलं दुःख-हेतव एव स्तेयादयस् तु पाप-हेतवोऽपीति पञ्च-दशैवानर्थ-हेतवः ॥१८-१९॥

———————————————————————————————————————

॥ ११.२३.२० ॥

भिद्यते भ्रातरो दाराः पितरः सुहृदस् तथा ।

एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भेद-वैर-स्पर्धाः प्रपञ्चयति द्वभ्याम्, भिद्यन्ते स्नेहं त्यजन्ति । कथं-भूताः । एकास्निग्धाः एके एक-प्राणास् ते च ते आस्निग्धा अति-प्रियाश् चेत्य् अर्थः । कुतः । काकिणिना । पुंस्त्वमार्षम् । विंशति-वराटिका काकिणी तया ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐकमत्याद् एके च ते अतिस्नेहवत्त्वाद् आस्निग्धाश् च ते एकास्निग्धा अपि त्रासादयः काकिणिनेत्य् आर्षं विंशति-वराटिका-मात्रेणैवार्थेन ॥२०॥

———————————————————————————————————————

॥ ११.२३.२१ ॥

अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः ।

त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संरब्धाः क्षुभिताः । स्पृधः स्पर्धमानाः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.२२ ॥

लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् ।

तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इह तावद् अर्थ-निष्ठानाम् एतेऽनर्थाः पर-लोकेऽप्य् अनर्था एव तेषाम् इत्य् आह—लब्ध्वेति त्रिभिः । मानुष्यं जन्म, तत्रापि द्विजाग्र्यतां ब्राह्मण्यम् । स्वार्थं घ्नन्ति आत्म-हितं न कुर्वन्ति ये ते यान्ति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.२३ ॥

स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् ।

द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमर-प्रार्थ्यतां दर्शयन्न् आह—स्वर्गेति । लोकं देहम् । अनुषज्जेत आसाक्तिं कुर्यात् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.२४ ॥

देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः ।

असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋषयो मनुष्य-यज्ञ-ब्रह्म-यज्ञयोर् देवताः । देव-पितृ-भूतानि इतरेषु ज्ञातयः स-गोत्राः । बन्धवो विवाहादिना सम्बद्धास् तान् । अन्यांश् च भागिनो भागार्हान् । आत्मनां चासं विभज्यान्नादिभिर् असन्तर्प्य ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.२५ ॥

व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् ।

कुशला येन सिध्यन्ति जरठः किं नु साधये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विमृश्यानुतप्यमान आह—व्यर्थयार्थेहया प्रमत्तस्य मम वित्तादि- गतम् इति शेषः । येन वित्तादिन कुशला विवेकिनः सिध्यन्ति मुच्यन्ते । जरठो वृद्धः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यर्थया अर्थेहया मम प्रमत्तस्य वित्तादि- गतम् इति शेषः । येन वित्तादिनापि कुशला विवेकिनः सिद्ध्यन्ति । जरठो मल्-लक्षणोऽयं जनः ॥२५॥

———————————————————————————————————————

॥ ११.२३.२६ ॥

कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।

कस्यचिन् मायया नूनं लोकोऽयं सुविमोहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यम् अपि स्व-सदृशं शोचति—कस्माद् एवम् अनर्थं विद्वन् अपि सङ्क्लिश्यत इति । कारणं सम्भावयति—कस्यचिद् इति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कस्माद् इति । स्व-गतं पृच्छति, तत्र स्वयम् एव प्रत्युतंरयति—कस्यचिद् इति ॥२६॥

———————————————————————————————————————

॥ ११.२३.२७ ॥

किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत ।

मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नायं मोहितः क्लिश्यति किन्तु धनादिभिर् भोगादि-विधित्सयात आह—किं धनैर् इति । उत पुनर् अपि ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.२८ ॥

नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः ।

येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं सम्पन्न-विवेकः संहृष्यन्न् आह—नूनम् इति त्रिभिः । येन प्रीतेनात्मनः प्लव-रूपो निर्वेदश् च भवति, स हरिर् मे नूनं प्रीत इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य संस्कारस्य भगवत्-सम्बन्धित्वं व्यञ्जयति—नूनम् इति । सर्व-देव-मय इति । यज्ञादौ तन्-मयत्वेन तद्-उपासन-स्फूर्तेः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तदानीम् एव सम्पन्न-विवेकः सन् हृष्यन्न् आह—नूनम् इति त्रिभिः । येन तुष्टेन हरिणा प्रापितो येन तुष्टेन हेतुना निर्वेदश् च स्वस्य संसार-सिन्धु-प्लव-रूपः ॥२८॥

———————————————————————————————————————

॥ ११.२३.२९ ॥

सोऽहं कालावशेषेण शोषयिष्येऽङ्गम् आत्मनः ।

अप्रमत्तोऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्गं शोषयिष्ये तपसा । तद् वा विद्यया लयं नेष्यामि । यदि स्यात् कालाव् अशेषः, तर्ह्य् आत्मन्य् एव सिद्धस् तुष्टः सन् । अखिले स्वार्थे धर्मादि-साधनेऽप्रमत्तः सन् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यदि स्यात् कालावशेषस् तर्हि तेन कालावशेषेण तं व्याप्याखिल-स्वार्थेऽखण्ड-पुरुषार्थ-स्वरूपे आत्मन्य् अप्रमत्तोऽवहितान्तः-करणः सन्, ततश् च जात-साक्षात्-कारः सन्न् अङ्गं स्थूल-सूक्ष्मात्मकं देहं लयं नेष्यामि । अत्र कालावशेषेणेति अपवर्गे तृतीया[पा। २.३.६] इति सूत्रात् ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शोषयिष्ये यत्नतोऽस्य भोग्य-सम्पादनाद् इति भावः । अखिल-स्वार्थे भगवच्-चरण-चिन्तनेऽप्रमत्तः । यदि कालावशेषः आयुः-शेषः । आत्मनि मयि स सिद्धः स्यात् ॥२९॥

———————————————————————————————————————

॥ ११.२३.३० ॥

तत्र माम् अनुमोदेरन् देवास् त्रिभुवनेश्वराः ।

मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमोदेरन्न् अनुगृह्णन्तु । ननु देवैर् अनुमोदितोऽपि जरठः स्वल्पेन कालेन किं साधयिष्यसि ? तत्राह—मुहूर्तेनेति ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रिभुवनेश्वरा इन्द्राद्या अनुमोदेरन्, मा विघ्नान् कुर्वन्त्व् इत्य् अर्थः । ननु तद् अपि स्वल्पेन कालेन किं साधयिष्यसि ? तत्राह—मुहूर्तेनेति ॥३०॥

———————————————————————————————————————

॥ ११.२३.३१ ॥

श्री-भगवान् उवाच

इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः ।

उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य निश्चित्य । आवन्त्योऽवन्ति-देश-भवः । हृदय-ग्रन्थीन् अहङ्कार-ममकारान् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भिक्षुः सन्न्यासी ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदय-ग्रन्थीन् अहङ्कार-ममकारान् ॥३१॥

———————————————————————————————————————

॥ ११.२३.३२ ॥

स चचार महीम् एतां संयतात्मेन्द्रियानिलः ।

भिक्षार्थं नगर-ग्रामान् असङ्गोऽलक्षितोऽविशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असङ्ग आसक्ति-शून्यः । अलाक्षितः श्रैष्ठ्यम् अद्योतयन् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.३३ ॥

तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः ।

दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवयसं वृद्धम् । अवधूतं मलिनम् । पर्यभवन्न् अवगेनिरे । हे भद्र ! परिभूतिभिस् तिरस्-कारैः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रवयसं वृद्धम् । पर्यभवन्न् तिरश्चक्रुः । हे भद्र ! परिभूतिभिस् तिरस्-कार-साधनैः ॥३३॥

———————————————————————————————————————

॥ ११.२३.३४ ॥

केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् ।

पीठं चैकेऽक्ष-सूत्रं च कन्थां चीराणि केचन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिभवान् एव दर्शयति—केचिद् इति सप्तभिः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.३५ ॥

प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः ।

अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भो भगवन् ! गृहाणेति दर्शितानि सन्ति प्रदाय पुनश् चादुदुः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रदाय च पुनर् आददुः । पुनर् अपि गृहाणेति दातुं दर्शितान्य् अपि नयन-काले पुनर् आददुः आच्छिद्य जगृहुः ॥३५॥

———————————————————————————————————————

॥ ११.२३.३६ ॥

मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि ।

यत-वाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ने मूत्रयन्ति । मूर्धनि च ष्ठीवन्ति । फूत्-कारेण श्लोष्माणं प्रक्षिपन्ति ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्ने मूत्रयन्ति । मूर्धनि ष्ठीवन्ति ॥३६॥

———————————————————————————————————————

॥ ११.२३.३७ ॥

तर्जयन्त्य् अपरे वाग्भिः स्तेनोऽयम् इति वादिनः ।

बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति ॥

न कतमेनापि व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.३८ ॥

क्षिपन्त्य् एकेऽवजानन्त एष धर्म-ध्वजः शठः ।

क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्वजनोज्झितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षिपन्ति निन्दन्ति । निन्दाम् एवाह—एष धर्म-ध्वजस् त्रि-दण्ड-लिङ्गोपजीवी । शठो लोक-वञ्चकः । तद् एवाहुः, क्षीण-वित्त इति ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-ध्वजस् त्रि-दण्ड-लिङ्गोपजीवी । शठो लोक-वञ्चकः । वञ्चनम् एवाहुः—क्षीण-वित्त इति ।

———————————————————————————————————————

॥ ११.२३.३९-४० ॥

अहो एष महा-सारो धृतिमान् गिरि-राड् इव ।

मौनेन साधयत्य् अर्थं बकवद् दृढ-निश्चयः ॥

इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च ।

तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-सारोऽति-बली ॥३९॥ दुर्वातयन्ति तद् उपर्य्-अधो-वायुं मुञ्चन्ति । बबन्धुः शृङ्खलैः । निरुरुधुः कारा-गृहादिषु । द्विजं शुक-सारिकादि यथा ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-सारः सारार्थ-ग्राही । दुर्वातयन्ति तद् उपर्य्-अपान-वायुं मुञ्चन्ति । बबन्धुः शृङ्खलैः कारा-गृहादिषु । द्विजं शुक-सारिकादिकं यथा ॥४०॥

———————————————————————————————————————

॥ ११.२३.४१ ॥

एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् ।

भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भौतिकं दुर्जनादि-कृतम् । दैहिकं ज्वरादि-निमित्तम् । दैविकं शीतोष्णादि-प्रभवम् । दिष्टं दैव-प्राप्तम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२३.४२ ॥

परिभूत इमां गाथाम् अगायत नराधमैः ।

पातयद्भिः स्व-धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मात् पातयद्भिः परिभूतोऽपि सात्त्विकीं धृतिम् आस्थाय स्व-धर्म एव स्थित इमां वक्ष्यमाणां गाथाम् अगायत । सात्त्विकी धृतिश् च,

धृत्या यया धारयते मनः-प्राणेन्द्रिय-क्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥[गीता १८.३३] इति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वीय-धर्म-निष्ठातः पातयद्भिर् अपि तैः स्व-धर्मे स्थित एव इमां वक्ष्यमाणां गाथाम् अगायत । सात्त्विकी धृतिश् च—

धृत्या यया धारयते मनः-प्राणेन्द्रिय-क्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥[गीता १८.३३] इति ॥४१॥

———————————————————————————————————————

॥ ११.२३.४२ ॥

द्विज उवाच—

नायं जन मे सुख-दुःख-हेतुर्

न देवतात्मा ग्रह-कर्म-कालाः ।

मनः परं कारणम् आमनन्ति

संसार-चक्रं परिवर्तयेद् यत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् एवाष्टादश-श्लोकीं गाथाम् आह—नायम् इति । न चात्मा नापि ग्रहादयः । मनः परं केवलं सुख-दुःखयोः कारणं वदन्ति—मनसा ह्य् एव पश्यति मनसा शृणोति इत्य्-आदि-श्रुतयः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो दुःखम् एतावत् कः खलु दत्त इति विमृशन् न तावद् अयं दुर्जनो दत्त इत्य् आह—नायम् इति । ननु प्रत्यक्षम् अर्थं किम् अपलपसि ? स्वातन्त्र्येणायं जनो न दत्त इति चेत्, केषाञ्चित् प्रेरण-वशाद् दत्त इत्य् उच्यतां, तत्र प्रेरकान् निषेधति, न देवता नाप्य् आत्मा नापि ग्रहादयः । मन एव परं केवलं कारणं वदन्ति—मनसा ह्य् एव पश्यति मनसा ह्य् एव शृणोति इत्य्-आद्याः श्रुतयः । परिवर्तयेत् परिभ्रामयेत् ॥४२॥

———————————————————————————————————————

॥ ११.२३.४४ ॥

मनो गुणान् वै सृजते बलीयस्

ततश् च कर्माणि विलक्षणानि ।

शुक्लानि कृष्णान्य् अथ लोहितानि

तेभ्यः स-वर्णाः सृतयो भवन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिवर्तन-प्रकारम् आह—मन इत्य्-आदि । गुणान् गुण-वृत्तीः सृजति । ततश् च तेभ्यो गुणेभ्यः शुक्लानि सात्त्विकानि । कृष्णणि तामसानि । लोहितानि राजसानि । स-वर्णास् तत्-तत्-कर्मानुरूपाः सृतयो देव-तिर्यङ्-नरादि-गतयः ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिवर्तन-प्रकारम् आह—मन एव दोष-पूर्णेऽपि कनक-कामिन्य्-आदि-वस्तुनि गुणान् सृजते सृजति । धनं विना कुतो धर्माः ? स्रक्-चन्दन-वनिताद्या भोगाश् च कुतः सिध्यन्ति ? तांश् च विना कुतः सुखं ? अतो धनम् उपार्जनीयम् इति । प्रथमं धनोपार्जने दोषेऽपि मन एव प्रवर्तयतीत्य् अर्थः । बलीय इत्य् अरे महानर्थ-कृद् धन-कलत्र-पुत्रादिकम् इत्य् अन्यतः स्वतो वा जनितं विवेकम् अपि नैव गृह्णातीति भावः । कर्माणि मनः-प्रवर्तितानि विलक्षणानि, कानिचित् सात्त्विकानि, कानिचित् तामसानि, कानिचिद् राजसानि, न त्व् एकीभूतानीत्य् अर्थः । शुक्लानि धर्मोपयोगीनि, कृष्णानि नरकोपयोगीनि, क्रमेण तेभ्यः स-वर्णाः सृतयो देव-तिर्यङ्-नरादि-गतयः ॥४४॥

———————————————————————————————————————

॥ ११.२३.४५ ॥

अनीह आत्मा मनसा समीहता

हिरण्-मयो मत्-सख उद्विचष्टे ।

मनः स्व-लिङ्गं परिगृह्य कामान्

जुषन् निबद्धो गुण-सङ्गतोऽसौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि मनस एव संसारः स्यान् नात्मन इत्य् आशङ्क्याह—अनीह इति । अयम् अर्थः, अविद्ययाद्य्-आसेनेयम् आत्मनः संसृतिर् न तु स्वतः । यतस् तद् रहितस्येश्वरस्य सा नास्ति किन्तु तद्वतो जीवस्यैवेति । तद् एवाह—मनसा समीहमानेन सह-नियन्तृत्वेन वर्तमानोऽपि परमात्म अनीहस् तत् क्रिया-सङ्ग-रहितः । यतो हिरण्-मयो विद्या-शक्ति-प्रधानः । यतो मत्-सखः । मम जीवस्य सखा नियन्ता । अत उदुच्चैर् विचष्टे । अति-रोहित-ज्ञानेन केवलं पश्यतीत्य् अर्थः । असौ पुनर् अहं जीवः खलिङ्गं स्वस्मिन्न् आत्मनि लिङ्गयति द्योतयति संसारम् इति तथा तन्-मनः परिगृह्यात्मत्वेन स्वी-कृत्य मनसो गुणैः कर्मभिः सङ्गतः सम्बद्धो गुण-सङ्गाद् वा कामान् जूषन् निबद्ध इति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मनः स्व-लिङ्गं परिगृह्येत्य् अनेन मानस-ज्ञानातिरिक्तं स्वाभाविकं ज्ञानं जीवस्य दर्शितं, तद्-अभावेन परिग्रहाद्य्-अनुत्पत्तेः ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननुतर्हि मनस एव संसारोऽस्तु, नात्मनः ? तन् न सत्यम् आत्मा ह्य् अत्र शरीर्रे द्विविधः—एकः परमात्म मनो-लेप-रहितः, अन्यो जीवात्मा तल्-लेप-सहित एव । तत्र प्रथमं तावत् शृण्व् इत्य् आह—अनीह इति । मनसा समीहमानेन सह नियन्तृत्वेन वर्तमानोऽपि परमात्म अनीहः तत्-क्रिया-सङ्ग-रहितः, यतो हिरण्मयः स्वतन्त्र-चिन्-मयः । मम जीवस्य सखा उत् उच्चैर् विचष्टे, अतिरोहित-ज्ञानत्वात् स केवलं निर्लेप एव पश्यतीत्य् अर्थः । द्वितीयो जीवात्मा तु स्वस्य लिङ्गं लिङ्ग-शरीर्रं मनः परिगृह्य आत्मत्वेन स्वीकृत्य तस्य मनसो गुणैर् गुण-कृत-कर्मभिः सङ्गतः सङ्गात् कामान् जुषन् निबद्धः । मनोऽध्यासात् जीवात्मन एव संसार इत्य् अर्थः । मनसस् तु जडत्वेन सुख-दुःखानुभवाभावात् स्वर्ग-नरकापवर्गेषु मध्ये न कोऽपीति भावः ॥४५॥

———————————————————————————————————————

॥ ११.२३.४६ ॥

दानं स्व-धर्मो नियमो यमश् च

श्रुतं च कर्माणि च सद्-व्रतानि ।

सर्वे मनो-निग्रह-लक्षणान्ताः

परो हि योगो मनसः समाधिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो मनो-निग्रहे कृते सर्वं कृतं स्यात्, तं विना तु सर्वं व्यर्थम् इत्य् आह—दानम् इति द्वाभ्याम् । स्व-धर्मो नित्य-नैमित्तिकः । सद्-व्रतान्य् एकादश्य्-उपवासादीनि । अन्यानि च यावन्ति कर्माणि । एते सर्वे उपाया मनो-निग्रह-लक्षणोऽन्तो निष्ठा फलं येषां ते तथा । ननु ज्ञानाङ्गत्वं तेषां प्रसिद्धं ? तत्राह—मनसः समाधिर् निग्रह एव परो योगो ज्ञानम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् सर्वानर्थ-कृतो मनसो निग्रहे एव यतनीयम् इत्य् आह—दानम् इति । दानादय एते सर्वे उपाया मनो-निग्रह-लक्षणोऽन्तः शेषः फलं येषां ते । यतो मनसः समाधिर् निग्रह एव परः सर्व-श्रेष्ठो योगः ॥४६॥

———————————————————————————————————————

॥ ११.२३.४७ ॥

समाहितं यस्य मनः प्रशान्तं

दानादिभिः किं वद तस्य कृत्यम् ।

असंयतं यस्य मनो विनश्यद्

दानादिभिश् चेद् अपरं किम् एभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो यस्य मनः समाहितं भवति, तस्य किं कृत्यम् अस्ति वदेत्य् अपरं प्रत्युपदिशन्न् इव स्वयम् एवाह—असंयतं विक्षिप्तं चेत् । यद् वा, विनश्यद् आलस्यादिना लीयमानं चेद् भवेत्, तर्ह्य् एभिर् दानादिभिः किम् अपरं प्रयोजनं स्यात् ? न किञ्चिद् इत्य् अर्थः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुधीभिर् एको मनो-निग्रह एवापेक्षणीयो नान्य इत्य् आह—समाहितं वशीकृतं चेत्, किं दानादिभिः असंयतम् अवशीभूतं यतो विनश्यत् लय-युक्तम् अपरम् अनुत्कृष्टं विक्षेप-युक्तं च चेत्, किम् एभिर् दानादिभिः ? ॥४७॥

———————————————————————————————————————

॥ ११.२३.४८ ॥

मनो-वशेऽन्ये ह्य् अभवन् स्म देवा

मनश् च नान्यस्य वशं समेति ।

भीष्मो हि देवः सहसः सहीयान्

युञ्ज्याद् वशे तं स हि देव-देवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इतरेन्द्रिय-जयः प्रयोजनं स्यात् ? नेत्य् आह—मनो-वश इति । देवा इन्द्रियाणि तद्-अधिष्ठातारो वा । भीष्मो योगिनाम् अपि भयङ्करो मनो-लक्षणो देवः । कुतः ? सहसो बलाद् अपि बलिनोऽपि वा सहीयान् बलवान् । अतस् तं यो वश-वर्तिनं कुर्यात्, स एव देव-देवः सर्वेन्द्रिय-जेता भविता, नान्यः । तथा च श्रुतिः—मनसो वशे सर्वम् इदं बभूव नान्यस्य मनो वशम् अन्वियाय । भीष्मो हि देवः सहसः सहीयान् इति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् इतरेन्द्रिय-जयोऽप्य् अपेक्षणीय एव । तत्र नेत्य् आह—मनो-वश इति । देवा इन्द्रियाणि तद्-अधिष्ठातारश् च । मनो-वशे मनस एव वशेऽभवन् वर्तन्ते स्म । भीष्मो योगिनाम् अपि भयङ्करो मनो-लक्षणो देवः, यतः सहसः सहस्विनोऽपि सहीयान् बलिष्ठाद् अपि बलिष्ठ इत्य् अर्थः । अतस् तं यो वशं युञ्ज्यात् कुर्यात्, स हि देव-देवः सर्वेन्द्रिय-जेता । तथा च—मनसो वशे सर्वम् इदं बभूव नान्यस्य मनो वशम् अन्वियाय । भीष्मो हि देवः सहसः सहीयान् इति ॥४८॥

———————————————————————————————————————

॥ ११.२३.४९ ॥

तं दुर्जयं शत्रुम् असह्य-वेगम्

अरुन्-तुदं तन् न विजित्य केचित् ।

कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर्

मित्राण्य् उदासीन-रिपून् विमूढाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सात्त्विक-मनो-विवक्षया देव-शब्दः । तामस-मनो-विवक्षया शत्रु-शब्दः ।

एक-स्थानाधिपत्ये तु भिन्नानाम् अपि युज्यते ।

अभेदेन परामर्शः सादृश्येनापि वस्तुनोः ॥ इति प्रयोगे ।

उदासीनानां रिपुं सम्यग् ज्ञानवतां न रिपुत्वं शक्यत इत्य् अर्थः ॥४९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽसह्या रागादयो वेगा यस्य तम् । अत एवारुन्तुदम् अरुर् मर्म तत् तुदति व्यथयतीत्य् अरुन्तुदस् तम् । तन् नेति च्छेदः । तं न विजित्याजित्वा, तत् ततो ये केचिन् मर्त्यैः कैश्चिद् असद्-विग्रहं कुर्वन्ति । तत्र चानुकूल-प्रतिकूलादीन् अन्यान् मित्रादीन् कुर्वन्ति, ते मूढा इत्य् अर्थः ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अरुर् मर्म तत् तुदति व्यथयतीत्य् अरुन्तुदस् तं न विजित्य अजित्वा तत् तत एवाजिताद् धेतोः केचिन् मूढा मर्त्यैः सहासद्-विग्रहं कुर्वन्ति । तत्र चानुकूल-प्रतिकूलादीन् अन्यान् मित्रादीन् कुर्वन्ति ॥४९॥

———————————————————————————————————————

॥ ११.२३.५० ॥

देहं मनो-मात्रम् इमं गृहीत्वा

ममाहम् इत्य् अन्ध-धियो मनुष्याः ।

एषोऽहम् अन्योऽहम् इति भ्रमेण

दुरन्त-पारे तमसि भ्रमन्ति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभिमान-मात्रेणैव जीवस्य देहेन सम्बन्ध इति मनो-मात्रम् । मनसि निर्माणम् इति । अहम् अन्य इत्य् अपि देह-मात्रे मन्यन्ते ।

ऋते द्वे ब्रह्मणी कस्य मनो याति वशं क्वचित् ।

श्रियं सरस्वतीं वापि याति वा तत्-प्रसादतः ॥ इति पाद्मे ।

उदासीनानां रिपुं सम्यग्-ज्ञानवतां न रिपुत्वं शक्यत ल्हेतु


श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् चानेन प्रकारेण संसारे भ्रमन्तीत्य् आह—देहम् इति । मनो-मात्र-परिकल्पितम् इमं स्व-देहम् अहम् इति पुत्रादि-देहं च ममेति स्वीकृत्य । तमसि संसारे ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चानेन प्रकारेण संसारे भ्रमन्तीत्य् आह—देहम् इति । मनो-मात्र-परिकल्पितम् इमं स्व-देहम् अहम् इति पुत्रादि-देहं च ममेति स्वीकृत्य । तमसि संसारे ॥५०॥

———————————————————————————————————————

॥ ११.२३.५१ ॥

जनस् तु हेतुः सुख-दुःखयोश् चेत्

किम् आत्मनश् चात्र हि भौमयोस् तत् ।

जिह्वां क्वचित् सन्दशति स्व-दद्भिस्

तद्-वेदनायां कतमाय कुप्येत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : जन-शब्दः स्वतो जीवे क्वचिद् देहे प्रवर्तते इति प्रयोगे । अयोग्य-क्रोधादेर् मन एव कारणम् ॥५१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं मनस एव दुःख-कारणत्वम् उपपाद्येदानीं जनादीनां षण्णाम् अकारणत्वं प्रपञ्चयति—जनस् त्व् इति षड्भिः । अत्र चास्मिन्न् अपि पक्षे आत्मनः किं ? न किञ्चित् । सुख-दुःख-कर्मत्वं तत् कर्तृत्वं चेत्य् अर्थः । कुत इत्य् अत आह—ह निश्चितं भौमयोर् विकारयोर् देहयोस् तत्, न त्व् आत्मनः । अमूर्तस्याक्रियस्य च हन-नादिषु कर्मत्व-कर्तृत्वानुपपत्तेः । तथापि दुःखम् आत्म-पर्यवसाय्य् एवेति चेद् एवम् अपि परमात्मन उभयत्राप्य् एकत्वान् न कोप-विषयोऽस्तीति स्व-दृष्टान्तेन दर्शयति—जिह्वाम् इति ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जनस् त्व् इति । आत्मनो जीवस्य आत्मन एव प्राधान्येन सर्वाणि क्षेत्राणीति विचारे तु सुतरां न कोऽप्य् अवकाश इत्य् आह—जिह्वाम् इति । एवम् उत्तरत्रापि ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं मनस एव सुख-दुःखयोः कारणत्वम् उपपाद्येदानीं जनादीनां पूर्वोक्तानां षण्णाम् अकारणत्वं प्रपञ्चयति—जनस् त्व् इति षड्भिः । हेतुर् इति जन एव जनं सुखयति जन एव जनं दुःखयतीति चेत्, अत्र च अस्मिन्न् अपि पक्षे आत्मनो जीवात्मनः किं ? न किञ्चिद् अपि, यतस् तत्-सुख-दुःख-कर्तृत्वं सुख-दुःख-कर्मत्वं च भौमयोर् भू-विकार-देहयोः, नात्मनः । अमूर्तस्य देहाद् भिन्नत्वाद् वस्तुनोऽभिमानिनस् तस्य ताडनादिषु कर्तृत्व-कर्मत्वानुपपत्तेः ।

ननु तद् अपि पीडा त्व् आत्मन एव प्रत्यक्षीभवति ? इत्य् अत आह—जिह्वाम् इति । तद्-वेदनायां तत्र वेदनायां पीडायाम् आत्म-गामिन्यां सत्यां कतमाय कुप्येत्, किं पीडकेभ्यो दद्भ्यः किं वा पीड्यमानायै जिह्वायै, तत्र यथा पीड्यमानायै जिह्वायै कोपस्यानौचित्यात् पीडकेभ्यो दद्भ्यः कोपो न क्रियते, तथैवात्रापि कोपो न कर्तव्य इति भावः । दुःखं त्व् आत्मनो लिङ्गाध्यास-मूलकं सोढव्यम् एव । लिङ्गं तु मन एवेति, तद्-ऋतेऽन्यस्मै दोषो न देय इत्य् अग्रिम-श्लोकेषु सर्वत्रैवम् एवं ज्ञेयम् ॥५१॥

———————————————————————————————————————

॥ ११.२३.५२ ॥

दुःखस्य हेतुर् यदि देवतास् तु

किम् आत्मनस् तत्र विकारयोस् तत् ।

यद् अङ्गम् अङ्गेन निहन्यते क्वचित्

क्रुध्येत कस्मै पुरुषः स्व-देहे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अविकाराश् च ते देवा विकारा इति शब्दिताः ।

अभिमानाद् विकारस्य स्वत्गः शक्ता अपि ध्रुवम् ॥ इति च ॥५२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि देवता अस्तु नाम, तत्रापि पक्षे आत्मनः किम् । यतो विकारयोर् विक्रियमाणयोर् देवयोस् तद् धस्तेन मुखेऽभिहते । तेन वा हस्ते दष्टे तद् अभिमानिनोर् वह्नीन्द्रयोर् एव तत्, न त्व् अविक्रियस्यानहङ्कारस्य चात्मनः । देवतानां च सर्व-देहेष्व् अभेदान् न कोप-विषयोऽस्तीति स्व-देह-दृष्टान्तम् आह—यद् यदा अङ्गं देवताधिष्ठानं हस्त-मुखादि । अत एव पूर्वत्र देवतान् अधिष्ठान-रूप-भू-विकार-दन्तोदाहरणम् ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दुःखस्येति । तैः तत्र हस्तेनेति कस्यचिद् धस्तेनान्यतरस्य मुखेऽभिहत इत्य् अर्थः । देवतानां चेति आत्मनः स-विकारादित्वेऽपि य इन्द्रादिर् मम देहे स एवान्यस्य देहे ततो ममाङ्गान्य् एव देवतास् ता इति क्रोध-विषया न स्युर् एवेत्य् अर्थः ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि देवता अस्तु नाम, तत्रापि पक्षे आत्मनः किं ? यतो विकारयोर् विक्रियमाणयोर् देवतयोर् एव तत् । हस्तेन मुखेऽभिहते । तेन च श्वित्रम् अस्त्व् इति हस्तेऽभिशप्ते, तद्-अभिमानिनोर् वह्नीन्द्रयोर् दैवतयोर् एव तद्-दुःखं सम्भवतु, नात्मनस् ततः पृथग्-भूतस्य, देवतानां च सर्व-देहेष्व् अभेदान् न कोप-विषयोऽस्तीति । स्व-देह-दृष्टान्तम् आह—यद् यदा अङ्गं मुखादिकम् अङ्गेन हस्तादिना इन्द्राद्य्-अधिष्ठानेन विहन्यत एव, पूर्वत्र देवतान् अधिष्ठान-रूप-भू-विकार-दन्तोदाहरणम् ॥५२॥

———————————————————————————————————————

॥ ११.२३.५३ ॥

आत्मा यदि स्यात् सुख-दुःख-हेतुः

किम् अन्यतस् तत्र निज-स्वभावः ।

न ह्य् आत्मनोऽन्यद् यदि तन् मृषा स्यात्

क्रुध्येत कस्मान् न सुखं न दुःखम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : न ह्य् आत्मनः स्वभावाद् अन्यद् भवति, यद् इदं दृश्यते, तथापि मृषा स्यात् । सुख-रूपं दुःखं न भवति । अतो मन एव तथा दर्शयति ।

जीवस्य सुख-रूपस्य न दुःखं क्वचिद् इष्यते ।

अतो मनोऽभिमानेन दुःखी भवति नान्यथा ॥ इति भारते ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनः सुख-दुःखाद्य्-आकार-परिणामोऽतः स एव यदि हेतुः स्यात् तत्र तस्मिन् पक्षे अन्यतः किम् । न किञ्चिद् अन्यतो भवति यस्मै कुप्येद् इत्य् अर्थः, यतो निज एव स्वभावः सः । नन्व् आत्मनस् तथा परिणामोऽन्य-निमित्तो भवत्य् अतोऽस्ति कोप-विषय इति चेत् तत्राह—न हीति । आत्म-व्यतिरिक्तं नास्त्य् एव । यदि स्याद् अस्तीति प्रतीयेत, तर्हि तन् मृषैवातः कस्माद् धेतोः क्रुद्ध्येत, यतो नास्ति निमित्तं न च सुखं दुःखं चेत्य् अर्थः ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मृषेत्य् आत्मन्य् अविद्ययारोपितम् एवेत्य् अर्थः । यतोऽसौ तद्-आत्मकः कालात्मक एव । आत्मनो ब्रह्मांशत्वात्, काल-ब्रह्मणोश् चैक्याद् इति भावः ।*।*५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा जीवात्मैवेति, न हीष्टका-लोष्ट्रादिकं, केनचिद् दुःखयितुं शक्यम् । ततो जीवात्मनश् चेतनत्वम् एव दुःखानुभव-हेतुर् इति चेत्, तर्हि किम् अन्यत इति । अन्यः कथं दूषणीय इत्य् अर्थः । तत्र आत्मनि निज-स्वभावश् चैतन्यम् एव सुख-दुःख-हेतुर् इत्य् अर्थः । न हि तच् चैतन्यम् आत्मनः सकाशाद् अन्यत् । यदि च ततोऽन्यद् एव तद् इति मतं, तर्हि तन्-मतं मृषा मिथ्यैवाज्ञान-कल्पितम् इत्य् अर्थः । तथा सत्यात्मनो लोष्ट्रादीनाम् इव न सुखं न च दुःखं स्याद् इत्य् अतः कस्माद् धेतोः क्रुध्येत ? ॥५३॥

———————————————————————————————————————

॥ ११.२३.५४ ॥

ग्रहा निमित्तं सुख-दुःखयोश् चेत्

किम् आत्मनोऽजस्य जनस्य ते वै ।

ग्रहैर् ग्रहस्यैव वदन्ति पीडां

क्रुध्येत कस्मै पुरुषस् ततोऽन्यः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गृह्यमाणत्वाद् ग्रहो देहः ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ग्रह-पक्षेऽप्य् अजस्यात्मनः किं, यतो जन्यत इति जनो देहस् तस्यैव जन्म-लग्नापेक्षया द्वादशाष्टमादि-राशि-स्थास् ते सुख-दुःखयोर् निमित्तं भवन्ति । किं च, अन्तरिक्ष-स्थैर् ग्रहैस् तत्र-स्थस्य ग्रहस्यैव पादार्धादि-दृष्ट्य्-आदि-भेदैः पीडां वदन्ति दैव-ज्ञाः, न तु ग्रहकोणादिषु स्थितस्य तद् दृष्ट्य्-अगोचरस्य पुरुषस्य । ग्रह-गतैव तु पीडा तल् लग्नोत्पन्ने देहे तस्याभिमानाद् भवति । अतः पुरुषस् ततो ग्रहाद् देहाच् चान्यः कस्मै क्रुध्येत ? ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्रह-पक्षेऽप्य् अजस्यात्मनः किं ? यतो जन्यत इति जनो देहः, तस्यैव ते जन्म-लग्नापेक्षया द्वादशाष्टमादि-राशि-स्था दुःख-निमित्तं भवन्ति । किं च, अन्तरिक्ष-स्थैर् ग्रहैस् तत्र-स्थस्य ग्रहस्यैव पादार्ध-दृष्ट्य्-आदि-भेदैः पीडां वदन्ति ज्योतिर्विदः, न तु ग्रह-कोणादि-स्थितस्य तद्-दृष्ट्य्-अगोचरस्य पुरुषस्याग्रते । ग्रह-गतैव पीडा तल्-लग्नोत्पन्ने देहे भवतीति पुरुषस् त्व् आत्मा तु ततो देहाद् अन्यः ॥५४॥

———————————————————————————————————————

॥ ११.२३.५५ ॥

कर्मास्तु हेतुः सुख-दुःखयोश् चेत्

किम् आत्मनस् तद् धि जडाजडत्वे ।

देहस् त्व् अचित् पुरुषोऽयं सुपर्णः

क्रुध्येत कस्मै न हि कर्म मूलम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अजडत्वे आत्मनः ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्म हेतुश् चेद् अस्त्व् इत्य् असूयोपगमः कर्मैव नास्ति कुतस् तस्य हेतुत्वम् इति, तद् आह—हि यस्मात् कर्म एकस्य जडाजडत्वे सति स्यात्, जडत्वाद् विकारित्वोपपत्तेः, अजडत्वाच् च हितानुसन्धानतः प्रवृत्ति-सम्भवात् । अचिज्-जडो देहोऽतस् तस्य प्रवृत्तिर् न सम्भवति । पुरुषस् तु सुपर्णः शुद्ध-ज्ञान-स्वरूपोऽतः कस्मै क्रुद्ध्येत, यतः सुख-दुःखयोर् मूल-भूतं कर्मैव नास्तीति ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म हेतुश् चेद् अस्त्व् इत्य् असूयोपगमः, कर्मैव न सम्भवेत् । कुतस् तद्-धेतुत्वं ? इत्य् आह—तत् कर्म हि यस्माद् एकस्य जडत्वे सति सम्भवेत्, जडत्वाद् विकारित्वोपपत्तेः, अजडत्वाद् धितानुसन्धानतः प्रवृत्ति-सम्भवात् । अचिज्-जडो देहः, पुरुषस् तु सुपर्णः शुद्ध-चैतन्य-रूपः । न च शुद्ध-चैतन्यस्य जड-देहेन शुद्ध-तजसस् त्मसेव साहित्यं स्यात् । अतः कस्मै क्रुध्येत हि, यतः कर्मैव नस्ति यत् सुख-दुःखयोर् मूलम् ॥५५॥

———————————————————————————————————————

॥ ११.२३.५६ ॥

कालस् तु हेतुः सुख-दुःखयोश् चेत्

किम् आत्मनस् तत्र तद्-आत्मकोऽसौ ।

नाग्नेर् हि तापो न हिमस्य तत् स्यात्

क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तद् आत्मनः कालाधीनस्य । स्वातन्त्र्याम् आत्म-शब्दोक्तं स्वरूपम् अपि कुत्रचित् इति विवेके । यथाग्नेर् हिमस्य नैव दुःखं ताप-निमित्तं जडत्वात् । एवं जडत्वाद् देहस्यापि कालादि-सम्बन्धे विद्यमानम् अपि न दुःखं युक्तम् ।

सदा कालादि-सम्बन्धाद् दुःखं देहस्य युज्यते ।

तथापि नैव दुःखी स जडत्वान् नियमेन तु ॥

आत्मनः सुख-रूपत्वान् न दुःखं युज्यते क्वचित् ।

तस्मान् मनो-भ्रमेणैव दुःखी जीवो न चान्यथा ॥

सर्वेषां मनसो नेता मनो-रूपस् त्रिलोचनः ।

तद्-वशाः सह देवाश् च ते नैव सुख-दुःखिनः ॥

नियन्ता तस्य च प्राणस् ततोऽपि बलवत्तरः ।

तन्-नियन्ता हरिः साक्षात् परमानन्द-लक्षणः ॥ इति तात्पर्ये ॥५६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र काल-पक्षेऽप्य् आत्मनः किं, यतोऽसौ कालात्मक एव ब्रह्मांशत्वात् । स्वांशस्य स्वतः पीडा नास्तीत्य् अत्र दृष्टान्तः, नाग्नेर् देतोस् तद् अंशस्य ज्वालादेस् तापो दाहतो नाशोऽस्ति । तत्रोपाधि-भूत-काष्ठांश-दाहान् नाशः स्याद् इति दृष्टान्तान्तरम् आह—हिमस्य तच् छैत्यं तद् अंशस्य तुषार-कणस्य नाशकं न स्याद् इत्य् अर्थः । किं च आस्ताम् अंशत्वं वस्तुतः पर एवायं न च परस्य द्वन्द्वं सुख-दुःखादिकम् अस्तीति ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परस्य स्वरूपतो मायातीतस्य ॥५६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-पक्षेऽप्य् आत्मनः किं ? यतोऽसौ जीवात्मा तद्-आत्मकः । जीवात्मनो ब्रह्मांशत्वात् काल-ब्रह्मणोश् चैक्यात् अंशांशिनः सकाशात् पीडा नास्तीत्य् अत्र दृष्टान्तः अग्नेर् हेतोस् तद्-अंशस्य जालादेस् तापो नास्ति हिमस्यापि तत्-शैत्यं हिम-कणस्य न स्यात् । अतः कस्मै क्रुध्येत ? तद् एवं परस्य स्वरूपतो मायातीतस्य जीवात्मनो द्वन्द्वं सुख-दुःखादिकं नास्तीति षड् एते हेतवो निरस्ताः ॥५६॥

———————————————————————————————————————

॥ ११.२३.५७ ॥

न केनचित् क्वापि कथञ्चनास्य

द्वन्द्वोपरागः परतः परस्य ।

यथाहमः संसृति-रूपिणः स्याद्

एवं प्रबुद्धो न बिभेति भूतैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मनो मनसः । भौमयोर् विकारयोः पीड्य-पीडकयोर् उभय-मनसोः सतोर् दुःखं भवति । ग्रहस्य ग्रहण-रूपस्य मनसः सत एव । जडे मनसि सत्य् एव । तद्-आत्मनो मनसः सत एव । संसृति-रूपिणः आत्मनो जीवस्य यथा तथा न हि परमस्य अमनस्त्वाद् अतो मनोऽन्वय-व्यतिरेके इति भावः ॥५७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं षड् एते हेतवः प्रसिद्धा निरस्ताः, यदि कश्चिद् धेत्व्-अन्तरम् उद्भावयेत् तद् अपि वस्तु-महिमापेक्षायां न सम्भवतीत्य् आह—न केनचिद् इति । नन्व् अपरोक्षः कथम् अपह्नूयते तत्राह—यथेति । संसृतिम् अविद्यमानाम् एव रूपयति प्रकाशयतीति तथा तस्य अहमोऽहङ्कारस्य यथा स्यान् न तथा परतः प्रकृतेः परस्यात्मनो द्वन्द्व-सम्बन्धः । अहङ्कार-निमित्तोऽसौ न वास्तव इत्य् अर्थः । एवं प्रबुद्धो यः स भूतैः कृत्वा न बिभेति ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि कश्चिद् धेत्व्-अन्तरम् उद्भावयेत्, तद् अपि वस्तु-महिम्ना न सम्भवतीत्य् आह—नेति । परतः अन्यस्माद् धेतोः यतः परस्य मायातीतस्य । ननु तर्ह्य् अपरोक्षस्य दुःखानुभवस्य को हेतुः ? तत्र पूर्वोक्त-मनोऽध्यास एवेत्याह—यथाहम् इति । मनः-प्रधाने लिङ्ग-देहे योऽहङ्कारस् तस्माद् एव नान्यस्मात् । यथा-शब्द एवार्थे । संसृतिं संसार-बद्धं निरूपयितुं शीलं यस्य तस्मात् । एवं प्रबुद्धो यः स भूतैः कृत्वा न बिभेति । जीवात्मा हि स्वरूपतः शुद्ध एव, न तस्य काल-कर्मादयो दुःख-हेतवः । किन्त्व् अविद्यया देहेऽहङ्कारात् देहस्य अध्यास एव । स च देहो मनः-प्रधानत्वात् । मन एवेति, तद् एव दुःख-हेतुर् इति प्रकरणार्थः । देहाध्यासे सति तु जीवात्मनः शुद्धत्वेऽपगते अध्यासानुगाः षड् अपि हेतवो यथा-योगम् उद्भवन्तीति निर्गलितार्थः ॥५७॥

———————————————————————————————————————

॥ ११.२३.५८ ॥

एतां स आस्थाय परात्म-निष्ठाम्

अध्यासितां पूर्वतमैर् महर्षिभिः ।

अहं तरिष्यामि दुरन्त-पारं

तमो मुकुन्दाङ्घ्रि-निषेवयैव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतोऽहम् अपि तथैव परमात्म-निष्ठतया तरिष्यमीत्य् आह—एताम् इति । सोऽहम् इत्य् अन्वयः । नन्व् इयं निष्ठैव कथं भवेत् तद् आह—मुकुन्देति ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एषा च मनः परमात्म-निष्ठा श्रीमन्-मुकुन्दाङ्घ्रि-निषेवां विना सोपद्रवैव जाता यद् ईदृशो नाना-विचारोऽपि तन्-निष्ठायाम् उपद्रव एवेत्य् अन्ते तन्-निषेवाम् अवलम्ब्यैव विविनक्ति—एताम् इति । तस्माद् भवता साध्व् एवोक्तम् ऋते त्वद्-धर्म-निरतान्[भा।पु। ११.२२.६१] इति श्री-भगवतो भावः ॥५८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तस्य विघ्न-स्थगिता प्राग्-भवी या शुद्धा मद्-भक्तिर् मनसि प्रादुर्भूता, प्रादुर्भूतायां च तस्यां स्वस्य सन्न्यासं द्वन्द्व-सहनोपाय-मुक्त-लक्षणम् एतावन्तं विचारं चावधीरयन् मच्-चरण-निषेवयामृत-सिन्धु-निमग्न उच्चैर् नृत्यन् सहर्षाटोपम् आह—एताम् इति सोऽहम् इत्य् अन्वयः । परमात्म-निष्ठां देह-दैहिकाभिमानेभ्यः परं शुद्धो य आत्मा जीवस् तस्य निष्ठां विचारित-लक्षणं स्वरूपं केवलम् आस्थायेति परमात्म-निष्ठायाम् अस्यां मम आ ईषत् स्थित-मात्रम् एव तमः संसारं तु सेवयैव तरिष्यामि न त्व् अन्यथेत्य् अर्थ एव-काराल् लभ्यते । ननु तर्हि परमात्म-निष्ठायां स्थिति-मात्रम् अपि किं करोषि तत्राह—पूर्वतमैः प्राचीनैर् अध्यासिताम् इति ॥५८॥

———————————————————————————————————————

॥ ११.२३.५९ ॥

श्री-भगवान् उवाच

निर्विद्य नष्ट-द्रविणे गत-क्लमः

प्रव्रज्य गां पर्यटमान इत्थम् ।

निराकृतोऽसद्भिर् अपि स्व-धर्माद्

अकम्पितोऽमूं मुनिर् आह गाथाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रस्तावेन सह गाथार्थं सङ्क्षेपतो दर्शयति द्वाभ्याम्, इत्थं नष्ट-द्रविणो निर्विद्य गत-क्लमः प्रव्रज्य गां पर्यटन्न् असद्भिर् निराकृतोऽपि स्व-धर्माद् अकम्पितः सन् मुनिर् अमूं गाथाम् अगायतेत्य् अन्वयः ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदर्योपाख्यानं तद्-उपाख्यानोत्तापन-प्रयोजनं चाह—श्लोक-द्वयेन निविद्येति ॥५९॥

———————————————————————————————————————

॥ ११.२३.६० ॥

सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः ।

मित्रोदासीन-रिपवः संसारस् तमसः कृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मित्रोदासीन-रिपवः सर्वोऽपि संसारस् तमसोऽज्ञानत आत्मनो मनसो विभ्रम-मात्रः कृतो न तात्त्विक इत्य् अर्थः ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मित्रोदासीन-रिपु-रूपः सुख-दुःख-प्रदः पुरुषस्य सर्वोऽपि संसारो नान्योऽस्ति किन्तु तमसस् तमसा स्वाज्ञानेन कृतो य आत्मनो मनसो विभ्रमस् तद्-रूप एवेत्य् अर्थः ।*।*६०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-विभ्रम इति पञ्चम्य्-अर्थे प्रथमा । आत्म-विभ्रमाद् अन्योऽन्येत्य् अर्थः । अत एव तमसोऽज्ञान-स्वरूपात् मित्रादि-रूपः संसारः ॥६०॥

———————————————————————————————————————

॥ ११.२३.६१ ॥

तस्मात् सर्वात्मना तात निगृहाण मनो धिया ।

मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तं द्वन्द्व-सहनोपायम् उपसंहरति—तस्माद् इति ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तं द्वन्द्व-सहनोपायम् उपसंहरति—एतावान् मनो-निग्रह-पर्यन्त एवेत्य् अर्थः ॥६१॥

———————————————————————————————————————

॥ ११.२३.६२ ॥

य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः ।

धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो-निग्रहाशक्तोऽप्य् एतच् छ्रवणादि-निष्ठस् तत् कलं प्राप्नोतीत्य् आह—य इति । द्वन्द्वैः सुख-दुःखादिभिः ॥६२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनो-निग्रहाशक्तोऽप्य् एतच् छ्रवणादिना तत्-फलं प्राप्नोतीत्य् आह—य इति ॥६२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे त्रयोविंशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे श्री-भगवद्-उद्धव-संवादे भिक्षु-गीता नाम त्रयोविंशोऽध्यायः ।

॥२३॥