२२ श्री-भगवद्-उद्धव-संवादे

तत्त्वानां सङ्ख्या पुरुष-प्रकृति-विवेकश् च

॥ ११.२२.१-२ ॥

श्री-उद्धव उवाच—

कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो ।
नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम ॥**

केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिम् ।
सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नित्य-मुक्तः स्वतः सर्व-वेद-कृत् सर्व-वेद-वित् ।

स्व-पर-ज्ञान-दाता यस् तं वन्दे गुरुम् ईश्वरम् ॥

द्वाविंशे तत्त्व-सङ्ख्यानाम् अविरोध-विधोच्यते ।

पुं-प्रकृत्योर् विवेकश् च जन्म-मृत्यु-विधादि च ॥

तद् एवं वेदानां प्रवृत्ति-परत्वं निराकृत्य मोक्ष-परत्वं निर्णीतम् । सन्ति च मोक्ष-परत्वेऽपि तद्-अवान्तर-विवादाः । तथा हि, केचित् तत्त्व-सङ्ख्यासु विवदन्ते, तत्रपि बाह्यार्थ-सद्-असत्त्वे आत्मत्वेऽप्य् एकत्व-नानात्वादिषु तत्र किं सत्यं ? इति जिज्ञासया पृच्छति—कतीति । ऋषिभिर् आगमेषु बहुधा सङ्ख्यातानि, तेषु कति युक्तानि ? इत्य् अर्थः । भगवन्-मतानुवाद-पूर्वकं बहुधा सङ्ख्यानं प्रपञ्चयति—नवेति त्रिभिः । त्वं तावद् अष्टाविंशति-तत्त्वान्य् आत्थ । तानि च वयं शुश्रुम श्रुतवन्तः ॥१-२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं कर्म-काण्डार्थं गुणी-भूतम् आसाद्य स्वयं भगवत्-पर्यन्तं ज्ञान-काण्डार्थं मुख्यतया यन् निश्चिकाय तत्र ज्ञान-काण्डार्थेऽप्य् अवान्तर-विवादं परिहर्तुं पृच्छति । तत्र कतीत्य् अर्धकम् । टीकायां बाह्यार्थ-सद्-असत्त्वे कार्य-वस्तुनः सत्त्वासत्त्व-निरूपणे विवदन्त इति पूर्वेणैवान्वयः ॥१-२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वाविंशे तत्त्व-सङ्ख्यानां विरोधेऽप्य् अविरुद्धता ।

प्रधान-पुंसोर् जिज्ञासा मृत्य्-उत्पत्त्योश् च वर्णिता ॥

तद् एवं कर्म-काण्ड-तात्पर्यम् अभिज्ञाय स्पष्टतयैव ज्ञान-काण्ड-तात्पर्यं जिज्ञासमानं तद्-अवान्तर-विवाद-समाधानाय पृच्छति—कतीति । ऋषिभिर् इति—तेषां बहुत्वान् मन्-मते एतावन्तीति पृथक् पृथक् निश्चितानि, तेषु कति युक्तानीत्य् अर्थः ।

तत्र कति कति तत्त्वानि के के वदन्तीत्य् अपेक्षायाम् आह—नवेति त्रिभिः । ईश्वरो जीवो महद्-अहङ्कार-पञ्च-महा-भूतानीति नव । दशेन्द्रियाणि मनश् चेत्य् एकादश । तन्-मात्राणि पञ्च, सत्त्व-रजस्-तमांसि त्रीणीत्य् एवम् अष्टाविंशति-तत्त्वानि त्वम् आत्थ, तानि शुश्रुम श्रुतवन्तो वयम् । अत्र प्रकृति-स्थाने त्वया त्रयो गुणा एव गृहीताः । तेभ्यो गुणेभ्य एव क्रमेण द्विविध-महत्-तत्त्वस्याहङ्कारस्य चोत्पत्ति-दर्शनात्, न तु गुण-साम्य-रूपायाः प्रकृतेर् इति त्वद्-अभिप्रायोऽवगम्यते ॥१-२॥

———————————————————————————————————————

॥ ११.२२.३ ॥

केचित् सप्तदश प्राहुः षोडशैके त्रयोदश ।

एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया ।
गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि ॥**1

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतावतीनां भाव एतावत्त्वं नानात्वम् इत्य् अर्थः । यद् विवक्षया यत् प्रयोजनम् अभिप्रेत्य च गायन्ति । आयुष्मन् नित्य-मूर्ते ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आयुष्मन्न् इति नित्य-योगे मतुप्-प्रत्ययः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतावतीनां भाव एतावत्त्वं नानात्वम् इत्य् अर्थः । यद्-विवक्षया यत् पूर्व्जीवम् अभिप्रेत्य च गायन्ति । हे आयुष्मन् ! इति नित्य-योगे मतुप्, नित्य-मूर्तित्वेन हे सर्व-काल-व्यापिन्न् इत्य् अर्थः । तेन तेषाम् ऋषीणाम् आद्यन्तन-मध्य-वर्तित्वात् तमो सर्व-मताभिप्रायं विद्वान् प्रष्टव्य इति भावः ॥३॥

———————————————————————————————————————

॥ ११.२२.४ ॥

श्री-भगवान् उवाच—

युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।
मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : मायां मदीयां मत्-सामर्थ्यम् ।

विष्णोः सामर्थ्यम् आलम्ब्य तत्त्व-सङ्ख्यां मुनीश्वराः । > चक्रुर् हि तद् अविज्ञाय विवदन्त्य् अल्प-बुद्धयः ॥ > तत्रापि कारणं विष्णोः शक्तिर् यस्याविकारतः । > अव्यक्तादेर् विकल्पोऽयं मनसः सम्प्रजायते ॥ > विरुद्ध-कल्पनं तच् च वासुदेवैक-निष्ठया । > निरहङ्कारयानश्येद् विवादैकाश्रयं हि तत् ॥ इति तन्त्र-भागवते > ।

यासां सकाशाद् अव्यक्तादि-व्यतिकराद् विकल्पो विरुद्ध-कल्पः । स हि विवादाश्रयः ॥४-६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : विवक्षा-भेदेन सर्वं युक्तम् एव । मायया च किं नाम न युक्तं ? इत्य् आह—युक्तम् इति । यथा ब्राह्मणा भाषन्ते तद् युक्तं, न च वस्तुतः । यस्मात् सन्ति सर्वत्र अन्तर्-भूतानि सर्वाणि तत्त्वानि । किं च, मायाम् इति । असत्त्वेऽपि मायाश्रयत्वाद् घटत एवेत्य् अर्थः । उद्गृह्य स्वीकृत्य । न हि मरीचि-जल-परिमाणादि-विवादे किञ्चिद् अघटितम् इव भवति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र सर्वेणापि मतेन स्व-मतम् अनुवादयंस् तत् तत् प्रशंसति—युक्तम् इति । युक्तम् एव भाषन्ते यतो ब्राह्मणा वेद-ज्ञाः, ते सर्वात्रयथावद् एव भाषन्ते ।

ननु यदि सर्वम् एव युक्तं, तर्ह्य् अन्य-मतानि परित्यज्य कथं स्व-स्व-मतं प्रवेशयेयुः ? तत्राह—मायाम् इति । मरु-मरीचिकादीनाम् अपि तावद् देश-परिच्छिन्नत्वात् परिमाण-तारतम्यम् अस्त्य् एवेति स्वीयाष्टाविंशति-पक्षस्य स्थापनीयत्वम् अस्त्य् एवेति भावः । माया अत्राचिन्त्य-शक्तिः, न त्व् असद्-व्यञ्जिकाविद्या, ताम् उद्गृह्य आलम्ब्य तत्र मदीयाम् इति तेषां यत् किञ्चित् तद्-आलम्बनात्, तस्याः पूर्णाया मद्-एकालम्बनत्वात् स्वस्यैक-वेद्या यत् किञ्चिद् युक्तस् तेष्व् अप्य् अस्ति, किन्तु मदीय-युक्तिर् एव सर्व-प्रकाशिकेति भावः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां विवादेऽपि वस्तुतो न विवाद इत्य् आह—-युक्तम् इति । यथा ब्राह्मणा भाषन्ते तद् युक्तम् एव, यतःसन्तिसर्वत्र अन्तर्भूतानि सर्व-तत्त्वानि । कस् तर्हि विवादे हेतुः ? इति चेत्, मन्-माया-मोहितत्वम् एवेत्य् आह—मायाम् इति । तथा तथा उद्गृह्य असामर्थ्यम् अप्य् आ चन्द्रार्कं मन्-माया एव तेभ्यो ददातीति भावः ॥४॥

———————————————————————————————————————

॥ ११.२२.५ ॥

नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा ।
एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि सर्वम् अपि युक्तं, तर्हि कुतो विवादः ? यदि च मायैवालम्बनं, तर्हि कुतो हेतुं प्रति विवादः ? तत्राह—नैतद् एवम् इति । हेतुं प्रति च विवदमानानां मदीया दुरतिक्रमाः शक्तयः सत्त्वाद्या अन्तः-करण-वृत्ति-विशेष-रूपेण परिणता एव हेतुर् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—नैतद् इति । मम शक्तयो नाना-तर्क-रूपा एव हेतव इत्य् अर्थः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विवादम् अभिनयेन दर्शयति—नैतद् इति । विवदतां तेषां विवादे हेतुर् मच्-छक्तयो माया-शक्ति-वृत्तय एव । तत्-तत्-तर्क-रूपा अविद्या एवेत्य् अर्थः । यद् उक्तं हंस-गुह्ये—

यच्-छक्तयो वदतां वादिनां वै > विवाद-संवाद-भुवो भवन्ति । > कुर्वन्ति चैषां मुहुर् आत्म-मोहं > तस्मै नमोऽनन्त-गुणाय भूम्ने ॥[भा।पु। ६.४.३१] इति ॥५॥

———————————————————————————————————————

॥ ११.२२.६ ॥

यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् ।
प्राप्ते शम-दमेऽप्य् एति वादस् तम् अनु शाम्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां विवाद-हेतुत्वम् उपपादयति—यासाम् इति । यासां व्यतिकरात् क्षोभाद् वदतां पदं विषयो विकल्पो भेद आसीद् अन्तः-करण-वृत्ति-विकल्पो वा तन्-मूल-भूतः । एतद् एव व्यतिरेकेण द्रढयति, शम-दमयोर् द्वन्द्वैक्यम् । तस्मिन् प्राप्ते विकल्पोऽप्य् एति लीयते । तं च विकल्प-नाशम् अनु वादः शाम्यतीति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव योजयति—यासाम् अचिन्त्यानां शक्तीनाम् एव व्यतिकराद् आसङ्गाद् धेतोः सर्वोऽपि विकल्पो मत-भेदो भेद-मात्रं वा वदतां वा पदं विषयो भवति, स तु विकल्पः शम-दमे मन्-निष्ठान्तः-करण-विहित-बाह्येन्द्रिय-निग्रहे प्राप्ते सत्य् अप्य् एत्य्2 अपगच्छति, सर्व-विलक्षणेश्वर-तत्त्व-मात्राग्रहात् । ततश् च स्वत एव तद्-अनु वादोऽपि शाम्यति इति ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२२.७ ॥

परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ ।
पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्ति सर्वत्र[भा।पु। ११.२२.४] इति यद् उक्तं तत् प्रपञ्चयति—परस्परेति द्वाभ्यम् । अन्योन्यस्मिन्न् अनुप्रवेशाद् वक्तुर् यथा विवक्षितं, तथा पूर्वं कारणम् अपरं कार्यम्, कार्य-कारण-भावेन प्रसङ्ख्यानं भवति । यद् वा, पूर्वा अल्प-सङ्ख्या, अपराधिक-सङ्ख्या, तयोर् भवः पौर्वापर्यं, तेन प्रसङ्ख्यानं गणनम् इति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वक्तुर् यथा विवक्षितं तथा प्रसङ्ख्यानं भवतीति शेषः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्ति सर्वत्र [भा।पु। ११.२२.४] यद् उक्तं तत् प्रपञ्चयति—परस्परेति द्वाभ्याम् । परस्परस्मिन् तत्त्वानाम् अनुप्रवेशात् पौर्वापर्यं भवति । मत-भेदेषु मध्ये कस्मिंश्चिन् मते कार्यस्य कारणे प्रवेशात् पूर्वत्वं, कस्मिंश्चिन् मते कारणस्य कार्ये प्रवेशाद् अपरत्वम् । ततश् च प्रकृष्टं न्यूनम् अधिकं वा सङ्ख्यानं स्यात् । पौर्वापर्यं च प्रसङ्ख्यानं चेति द्वन्द्वैक्यम् ।

ननु तत्त्वानां कारणे कार्ये वा किं प्रवेशेन ? सङ्ख्याया न्यूनत्वे प्रकर्षेण आधिक्ये वा किं ? तत्राह—वक्तुर् वादिनो यथा विवक्षितं वक्तुम् अभीष्टं तथैव तत्-तन्-मतं पृथग् अभूद् इत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ ११.२२.८ ॥

एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुप्रवेशं दर्शयति—एकस्मिन्न् अपीति । पूर्वस्मिन् कारण-भूते तत्त्वे कार्य-तत्त्वानि सूक्ष्म-रूपेण प्रविष्टानि, मृदि घटवत् । अपरस्मिन् कार्य-तत्त्वे कारण-तत्त्वान्य् अनुगतत्वेन प्रविष्टानि, घटे मृद्वत् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एकस्मिन् तत्त्वे इतराणितत्त्वानिप्रविष्टानि दृश्यन्ते, एकस्मिन् पूर्वस्मिन् परस्मिन्वा इत्य् अन्वयः । यथेत्य् एतद्-अधिकम् आदाव् अध्याहृत्य, पूर्वस्मिन् कारण-भूते इत्य्-आदि-टीका योज्या ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतच्-छ्लोकार्थं विवृणोति—एकस्मिन्न् अपीति द्वाभ्याम् । पूर्वस्मिन् कारण-भूते तत्त्वे कार्य-तत्त्वानि सूक्ष्म-रूपे प्रविष्टानि, मृदि घटवत् । अपरस्मिन् कार्य-तत्त्वे कारण-तत्त्वान्य् अनुगतत्वेन प्रविष्टानि, घटे मृद्वत् ॥८॥

———————————————————————————————————————

॥ ११.२२.९ ॥

पौर्वापर्यम् अतोऽमीषां प्रसङ्ख्यानम् अभीप्सताम् ।
यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविरोधम् उपसंहरति । अतोऽमीषां तत्त्वानां पौर्वापर्यं तत्-तत्-कारण-कार्यत्वं प्रसङ्ख्यानं च न्यूनाधिकम् अभीप्सतां वादिनां मध्ये यथा विवक्षया यद्-वक्त्रं यस्य मुखं प्रवर्तते, तत् सर्वं विविक्तं निश्चितं वयं गृह्णीमः । उक्त-न्यायेन सर्वत्र युक्तेः सम्भवात् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतोऽमीषां तत्त्वानां पौर्वापर्यं तत्-तत्-कारण-कार्य-गतत्वं, प्रसङ्ख्यानं च न्यूनाधिकं च अभीप्सतां वादिनां मध्ये यथा यथा विवक्षया यद्-वक्त्रं यस्य मुखं प्रवर्तते, तत् सर्वं वयं विविक्तं स-विवेकं गृह्णीमः । उक्त-न्यायेन सर्वत्र युक्तेः सम्भवात् ॥९॥

———————————————————————————————————————

॥ ११.२२.१० ॥

अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस् तत्त्वज्ञो ज्ञानदो भवेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कार्य-कारण-तत्त्वनां पृथक्त्वापृथक्त्व-विवक्षया भवतु नाम सङ्ख्या-भेदः, जीवेश्वरयोस् तु कथं भेदाभेद-विवक्षा, यया षड्-विंशति-पञ्च-विंशति-पक्षौ प्रवृत्तौ ? अत आह—अनादीति । स्वतो न सम्भवति, अन्यतस् तु सम्भवात्, स्वतः सर्व-ज्ञः परमेश्वरोऽन्यो भवितव्य इति षड्-विंशति-पक्षाभिप्राय इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (परमात्म-सन्दर्भः ४४) : तत्र भेदे हेतुम् आह—अनादीति । टीका च—स्वतो न सम्भवति, अन्यतस् तु सम्भवात् । स्वतः सर्वज्ञः परमेश्वरोऽन्यो भवेद् इति षड्-विंशति-तत्त्व-पक्षाभिप्रायः इत्य् एषा ।ज्ञानदत्वम् अत्रज्ञानाज्ज्ञातुश्चवैलक्षण्यम् ईश्वरस्यबोधयत्येवेतिभावः । एवं,त्वत्तो ज्ञानंहिजीवानांप्रमोषस्तेऽत्रशक्तितः [भा।पु। ११.२२.२८] इत्युद्धव-वाक्यंचाग्रे ।

अत्र यदि जीवाज्ञान-कल्पितम् एव तस्य परमेश्वरत्वं स्यात्, तर्हि स्थाणु-पुरुषवत् तस्य ज्ञान-दत्तम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद इत्य् एवं श्रीमद्-ईश्वरेणैव स्वयं तस्य पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति स्पष्टम् । भेद-वादिनश् चात्रैव प्रकरणे यथा विविक्तं यद् वक्त्रं गृह्णीमो युक्ति-सम्भवाद् इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा, मायां मदीयाम् उदगृह्य वदतां किं नु दुर्घटम् इति [भा।पु। ११.२२.४] च मन्यते ।

ननु,

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । > प्रमाणेष्व् अनवस्थानाद् विकल्पान् स विरज्यते ॥ [भा।पु। ११.१९.१७]

इत्य् अत्र भेद-मात्रं निषिध्यते, विकल्प-शब्दस्य संशयार्थत्वात् । संशयं परित्यज्य वस्तुन्य् एव निष्ठां करोतीत्य् अर्थः । अत एव कर्मणां परिणामित्वाद् आविरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवद् इत्य् अत्रास्योत्तर-श्लोकेऽपि विरिञ्चम् एवावधिं कृत्वा नश्वरत्व-दृष्टिर् उक्ता न तु वैकुण्ठादिकम् अपीति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानदत्वम् अत्र ज्ञानाज् ज्ञातुश् च वैलक्षण्यम् ईश्वरस्य बोधयत्य् एवेति भावः । एवं त्वत्तो ज्ञानं [भा।पु। ११.२२.२९] इत्य् उद्धव-वाक्यं चाग्रे । अत्र यदि जीवाज्ञान-कल्पितम् एव तस्य परमेश्वरत्वं स्यात्, तर्हि स्थाणु-पुरुषवत् तस्य ज्ञानदत्वम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद इत्य् एवं श्रीमद्-ईश्वरेणैव स्वयं स्वस्य पारमार्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति स्पष्टम् । भेद-वादिनश् चात्रैव प्रकरणे, यथा विविक्तं [भा।पु। ११.२२.९] इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा, मायां मदीयां [भा।पु। ११.२२.४] इत्य् अत्र च । तथापि भगवच्-छक्त्यैव तत्र तत्रनाना-वादावकाश इति च मन्यन्ते ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु प्राकृतानां तत्त्वानाम् उक्त-न्यायेनानुप्रवेशात् सङ्ख्या-भेदो भवतु, जीवेश्वरयोस् तु कथं भेद-विवक्षया षड्-विंशति पक्षः प्रवृत्तः ? तत्राह—अनादीति । अनाद्य्-अविद्यया अयुक्तस्य युक्तस्य वा पुरुषस्य जीवस्य आत्म-वेदनम् इति षष्ठ्य्-अर्थे प्रथमा । आत्म-वेदनस्य स्वतः स्वेन न सम्भवाद् धेतोः, स्वतः सर्व-तत्त्व-ज्ञः परमेश्वरोऽन्यो भवेद् एव इत्य् एतद् वैष्णवानां मतम् ॥१०॥

———————————————————————————————————————

॥ ११.२२.११ ॥

पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि ।
तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्त्वं सङ्ख्या-विवक्षा-भेदेन बहुधा भवति । सर्वथा जीवाद् अन्यः परमेश्वरोऽङ्गीकर्तव्यः । जीवस्य स्वत एव ज्ञान-योगात् । स च पुरुष-रूपेण तत्-स्थितो ज्ञानम् उत्पादयति । ईश्वर-रूपेण बहिः स्थितः फलं ददाति । न च तयोः स्वरूपयोः किञ्चिद् वैलक्षण्यम् ।

तयोश् चान्यत्व-कल्पनात् स्वरूपाद् अपगमन-प्रयोजनानर्थ-कारिणीत्य् अर्थः । ज्ञान-स्वरूपस्य जीवस्य कथं ज्ञानोत्पादनम् इत्य् अतो वक्ति—ज्ञानं च प्रकृतेर् गुण इति । जन्य ज्ञानं प्रकृतेर् गुणः ।

स्वरूप-भूत-ज्ञानं तु सदा जीवस्य विष्णुना । > नियतं प्राकृतं ज्ञानं भक्त्या तेनैव दीयते ॥ इति च > ॥१०-११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्हि पञ्च-विंशति-पक्षः ? तत्राह—पुरुषेति । वैलक्षण्यं विसदृशत्वं नास्ति, द्वयोर् अपि चिद्-रूपत्वाद् । अतस् तयोर् अत्यन्तम् अन्यत्व-कल्पना अपार्था व्यर्था । एवं पञ्च-विंशति-पक्षः प्रवृत्त इत्य् अर्थः । नन्व् एवम् अपीश्वर-प्रसाद-लभ्य-ज्ञानस्य पृथक्त्वात् पक्ष-द्वयम् अपि न घटते ? अत आह—ज्ञानं चेति । सत्त्व-गुण-वृत्तित्वात् तद्-अन्तर्-भूतम् इत्य् अर्थः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् वा, आत्म-वेदनम् अपि न सम्भवति, कुतः परमात्म-वेदनं ? इत्य् अर्थः । ततश् चानिर्मोक्ष-प्रसङ्गाद् ईश्वराख्य-परमात्म-पर्यन्त-ज्ञानाय जीवाख्य-पुरुषाद् अन्यस् तत्त्व-ज्ञो ज्ञानदो भवेत् सम्भाव्यते । स तु स्वयं प्रकाश-ज्ञान ईश्वर इति भावः । अन्ये तु पूर्वोक्त-वैशिष्ट्यम् अबुद्ध्वा, किन्तु चिन्-मात्र-रूपत्वेनावैशिष्ट्य-बुद्ध्वैव वदन्तीत्य् आह—पुरुषेति । तर्हि तन्-मते पुरुषस्य ज्ञानं कुतः स्यात् ? तत्र चैवं वदन्तीत्य् आह—ज्ञानं च तत्-प्रकृतेर् एव गुणः । ततश् च तद्-गुण-गण-प्रवाहेषु भ्रमतस् तस्य कदाचित् तेन सम्बन्धः स्यात् । नदी-प्रवाहे भ्रमतस् तारक-काष्ठादिनेवेति भावः । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति-शक्तिमत्त्वं च दर्शितम्, तेन व्यतिरेकोऽपि ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं तर्हि पञ्चविंशति-पक्षः ? तत्राह—पुरुषेश्वरयोर् जीवात्म-परमात्मनोः । अत्र उक्त-लक्षणे भेदे वर्तमानेऽपि न वैलक्षण्यम् अपि अभेदोऽपि । कीदृशं ? अणु अल्प-मात्रं चिद्-रूपत्वेन शक्तिमत्त्वेन वा ऐक्यात् । तयोर् भेदेऽप्य् अल्प-मात्रं खल्व् अभेदो वर्तत एवेति भावः । अतस् ततः परमेश्वराद् अन्योऽत्यन्त-भिन्न एव जीव इति कल्पना अपार्था व्यर्था ।

नन्व् एवम् अपि ईश्वर-प्रसादाद् अलभ्यस्य ज्ञानस्य पृथक्त्वात् पक्ष-द्वयम् अपि न घटते ? अत आह—ज्ञानं चेति । सत्त्व-गुण-वृत्तित्वात् तद्-अन्तर्-भूतम् इत्य् अर्थः ॥११॥

———————————————————————————————————————

॥ ११.२२.१२ ॥

प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः ।
सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अन्य-ज्ञानस्य प्राकृतत्वं साधयति प्रकृतेर् गुण-साम्ये त्व् इत्य्-आदिना ।

अन्तस्थः पुरुषो नाम ज्ञानदः सर्व-देहिनाम् । > बहिस्थ ईश्वरो नाम ज्ञानादि-फलदो हरिः ॥ > पुरुषाख्यो हृद्-गतस् तु विष्णोर् जीव-विबोधकः । > फल-दाता तु बाह्येन य ईशेन भिदां वदेत् ॥ > तथैवान्य-स्वरूपेषु विष्णोर् यो भेद-दर्शकः । > ये च जीवेश्वराभेदं पश्यन्तोऽनर्थ-भागिनः ॥ इति ब्राह्मे ।


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ज्ञानं जीव-धर्मः कथं प्रकृतेर् गुणः स्यात् ? अत आह—प्रकृतिर् इति । गुण-साम्यं हि प्रकृतिः । अतस् तद्-विशेष-रूपा गुणास् तस्य एव, न त्व् आत्मनो जीवस्य अकर्तृत्वात् तस्य स्थित्य्-आदि-हेतु-भूत-गुणाश्रयत्वानुपपत्तेः ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तर्हि भवन्-मताष्टविंशति-पक्षोद्वलकः । षड्-विंशति-पक्षः कथं सिद्ध्यतीत्य् आशङ्क्य तन् निरस्यन् पुनः पूर्व-मतं स्थापयति—प्रकृतिर् इति सार्धेन ।

गुणानां सत्त्वादीनां साम्यम् एव प्रकृतिः प्रकृतेर् गुणास् ते त्व् आत्मनो न सम्भवन्तीति ये प्रकृतेर् गुणाः सत्त्वादयस् ते आत्मनः पुरुषस्य ये गुणा ज्ञानानन्दादयस् ते प्रकृतेर् नेति किम् उतेश्वर-गुणानां वार्तेत्य् अर्थः । प्रकृतेर् गुणाश् च केवलं प्रपञ्च-स्थित्य्-आदि-हेतव इत्य् आह तत्रैव—सत्त्वं रज इत्य् अर्धेन । अन्त-शब्देनात्र चात्यन्तिक-प्रलय-रूपो मोक्षोऽपि गृह्यते । तमः-कारणस्यैव प्रलयस्य क्रम-प्राप्तत्वात्, मोक्षस्य तु ज्ञान-हेतुकत्वात् ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ज्ञानं जीव-धर्म इति प्रसिद्धम् । कथं प्रकृतेर् गुण इति ब्रूषे ? तथा कर्मापि जीव-कृतम् एव, अज्ञानम् अपि जीवस्यैव, न प्रकृतेर् नापीनांशरीरस्य, इत्य् अत एतानि तत्त्वानि जीव एवान्तर्-भावनीयान्यथा सर्वम् । अत एव तत्त्व-बुद्धिः स्यात् । अत आह—प्रकृतिर् इति सार्धेन । गुणानां साम्यं हि प्रकृतिः । अतस् तद्-विशेष-रूपा गुणास् तस्या एव, न त्व् आत्मनो जीवस्य स्थित्य्-उत्पत्त्य्-अन्त-हेतव इति । जीवस्य स्थित्य्-आदि-हेतु-भूत-गुणाश्रयतानुपपत्तेर् इति भावः ।

सत्यम्, एतेन किम् आयातं ? इत्य् आह—सत्त्वम् इति । ज्ञानम् इति यत् प्रसिद्धं तत् सत्-कार्यत्वात् सत्त्वम् एव । एवं कर्म रज एव, अज्ञानं तु तम एवेत्य् एतानि प्रकृतेर् एव धर्मा उपाध्य्-अधीने जीवे प्रतीयन्ते एवेत्य् अत एतानि प्रकृताव् एवान्तर्भाव्यानि ॥१३॥

———————————————————————————————————————

॥ ११.२२.१३ ॥

सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानम् इहोच्यते ।
गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः सत्त्वं सत्त्व-मयं ज्ञानं प्रकृतेर् गुण इति पूर्वेणैवान्वयः । ननु तन् निवर्त्यं कर्माज्ञानं च तत् त्व् अन्तरं स्वत्, न, रजः-कर्म रजसो वृत्तिः, अज्ञानं च तमसः । जतः कर्माज्ञानयो रजस्-तमो-द्वारा प्रकृताव् एवान्तर्-भाव इति भावः । तथापि काल-स्वभावयोस् तत्त्वान्तरता स्यात्, न गुण-व्यतिकर इति । गुणानां व्यतिकरो यस्मात् स ईश्वर एव कालो नाम, स्वभावो नाम सूत्रं महत्-तत्त्वम् एव । तस्य सर्व-शक्तिमत्त्वात् । तद् एवं ज्ञानादीनां यथायथम् अन्तर्-भावान् न पक्ष-द्वयेऽपि तत्त्व-वृद्धिः । एतच् च पक्षान्तरेष्व् अपि ज्ञेयम् ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : यच् च सत्त्वं ज्ञानं, रजः कर्म, तमोऽज्ञानम् इति, तद् अपीह प्रपञ्च एवोच्यते । भेदेन व्यपदिश्यते मत्रं, न तु वस्तु-विचारे सतीति भावः, तत्-तत्-समुदायस्य प्रकृतेर् अपि जडत्वात्, प्रत्यक्-चिद्-आभास-सम्बन्धेनैव ज्ञानत्व-व्यपदेशाच् च । स च न परोक्षस्य तज्-ज्ञानस्य हेतुः, तदा स्फुरत्य् अपि तस्मिंस् तद्-अनुत्पत्तेः । नतरां चापरोक्षस्य । न हि गृहान्तर्गत-स्व-प्रकाशाभासेन सूर्यः प्रकाश्यते, अपि तु स्व-प्रकाशतयैवेति । ततः स यद् अजया त्व् अजां [भा।पु। १०.८७.३८] इत्य्-आद्य्-उक्त-दिशा अनाद्य्-अविद्या-युक्तत्वेन पिहित-ज्ञानस्य पुरुषस्य मोक्षार्थम् अन्वेष्टव्यो ज्ञानदोऽन्य ईश्वर एवावसीयते । एवम् एवानुवदिष्यते श्रोत्रापि त्वत्तो ज्ञानं हि जीवानां [भा।पु। ११.२२.२८] इति । पराभिध्यानात् तु तिरोहितं, ततो ह्य् अस्य बन्ध-विपर्ययौ [वे।सू। ३.२.५] इत्य् अत्र परैर् अप्य् एतद् अङ्गीकृतम् । तद्-देयं च ज्ञानं संविद्-आख्य-स्वरूप-शक्तेर् अंशत्वात् तद्-अन्तः-पात्य् एवेति गुण-त्रयं च त्रैगुण्यस्य प्रकृतेर् अङ्ग-त्रयम् इति, न त्व् आधिक्यम् अपीति भावः । तद् एवं षड्विंशतिपक्ष एव तु विविक्त इति दर्शितम् ।

एवं षड्विंशति-पक्षं स्थापयित्वा, तत्र च प्रकृतेर् गुणा इत्य् उक्त्वा, गुण-त्रयस्याधिक्यं वाधमानो, नवैकादश पञ्च त्रीण्यात्थ त्वम् इति शुश्रुम[भा।पु। ११.२२.२] तत्-प्रश्नानुवादेन गणशः स्व-मतं गणयति—गुणेति त्रयेण । तत्र स्व-मताधिक-सङ्ख्या-हेतून् त्रीणि तत्त्वानि प्रथमतो दर्शयत्य् अर्धेन—गुणेति । गुणानां व्यतिकरः क्षोभो यस्माद् एवं-भूतः कालः, कालाख्य-स्व-चेष्टात्मक ईश्वरः । तावद् एक-स्वभावस् तत्-तद्-वैशिष्ट्य-प्राप्ति-हेतुः कर्म-वासना द्वितीयम् । वक्ष्यते च सङ्ख्या-कथने—मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् [भा।पु। ११.२४.१५] इति । सूत्रं क्रिया-शक्त्य्-आत्मक-मुख्य-प्राणाख्यं तृतीयम् । वक्ष्यते च महान् सूत्रेण संयुत[भा।पु। ११.२४.६] इति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तद् अपि काल-स्वभावाव् अतिरिच्येते तौ कुत्रान्तर्-भाव्यौ ? तत्राह—गुणानां व्यतिकरो यस्मात् स ईश्वर एव कालो नाम । स्वभावो नाम कर्म-परिणामः । स च सूत्रं महत्-तत्त्वम् एव । तस्य सर्व-शक्तिमत्त्वात् तौ तयोर् अन्तर्-भाव्याव् इति । सर्व-मतेष्व् अपि ज्ञानादि-तत्त्व-वृद्धि-परिहार उक्तः ॥१३॥

———————————————————————————————————————

॥ ११.२२.१४ ॥

पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभोऽनिलः ।
ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : कालो भगवान् । न वैकादश पञ्च-त्रीन् इत्य् उक्तानि पुरुषः प्रकृतिर् इत्य्-आदिनि । उत्सर्गस्य द्विविधत्वात् पञ्चक-द्वयम् ॥१४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पक्षान्तरम् उद्भावयति, के ते गुणाः, किं प्रयोजनाः, किं स्वरूपाः, एतत् सर्वं दर्शयन्न् अर्थान् नवैकादश पञ्च त्रीणीति स्व-मतत्व-प्रतिपादन-श्लोके त्रीणीति पदं व्याचष्टे, सत्त्वं रजस् तम इति । मतान्तरे, कालः, सूत्रां, पुरुष इति । स्व-मते तु गुणानाम् आगमापायित्वात् प्रकृतेर् भेदो विवक्षितोऽतो गुणास् त्रीणि तत्त्वान्य् अपराणि पञ्च-विंशति-तत्त्वानि पूर्वोक्त-पक्ष-द्वय-साधारणानि दर्शयति—पुरुष इति सार्ध-द्वाभ्याम् । व्यक्तं महत्-तत्त्वम् । नभ-आदीनि पञ्च-तन्-मात्राणि । मे मया ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ नवैकादश-प्रपञ्च-क्रमेण गणयति—पुरुष इति सार्ध-द्वयेन पुरुषो जीवः । व्यक्तं महत् तत्त्वं ज्ञान-शक्त्य्-आत्मकं नभादीनि महा-भूतानि ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं पञ्चविंशति-तत्त्वम् अत आह—पुरुष इति सार्ध-द्वाभ्याम् । व्यक्तं महत्-तत्त्वं मे मया ॥१४॥

———————————————————————————————————————

॥ ११.२२.१५ ॥

श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः ।
वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकादश दर्शयति—श्रोत्रम् इति । दर्शनं चक्षुः । ज्ञान-शक्तयो ज्ञानेन्द्रियाणि पञ्च । वग्-आदि-पाय्व्-अन्तानि द्वन्द्वैक्येनोक्तानि चत्वार्य् अङ्घ्रिश् चेति कर्माणि कर्मेन्द्रियाणि पञ्च । उभयात्मकं मनः । उभयेन्द्रिय-साधारणम् इत्य् अर्थः । अङ्ग हे उद्धव । एवम् एतान्य् एकादश ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दर्शनं चक्षुः । ज्ञान-शक्तयो ज्ञानेन्द्रियाणि पञ्च । वग्-आदि-पाय्व्-अन्तानि द्वन्द्वैक्येनोक्तानि चत्वार्य् अङ्घ्रिश् चेति कर्माणि कर्मेन्द्रियाणि पञ्च । उभयम् उभयात्मकं मन इत्य् एकादश ॥१५॥

———————————————————————————————————————

॥ ११.२२.१६ ॥

शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः ।
गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : पञ्च दर्शयति—शब्द इति । शब्दादीनि विषयतया परिणतानि पञ्च-महा-भूतानि । ननु गत्य्-आदिभिस् तत्त्वाधिक्यं पक्ष-त्रयेऽपि स्यान् नेत्य् आह—गतीति । गतिश् च उक्तिश् च उत्सर्गौ च शिल्पं च तानि कर्मायतनानां कर्मेन्द्रियाणां सिद्धयः फलानि, न तत्त्वान्तराणीत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शब्दादयो विषयाः भूत-सूक्ष्माणीत्य् अर्थः । इतीश्वरादयोऽष्टाविंशतिर् उक्ताः । तत्र गत्य्-आदीनाम् आधिक्यं निरस्यति—गतीति । एतच् चोपलक्षणम् अन्य-निरसनार्थम् इति॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थ-जातयः ज्ञानेन्द्रियाणां विषयाः पञ्चेति पञ्चविंशति-तत्त्व-पक्षः । ननु गत्य्-आदिभिस् तत्त्वाधिक्यं पक्ष-त्रयेऽपि स्यात् ? तत्र नेत्य् आह—गतिश् च उक्तिश् च मुत्र-पुरीषोत्सर्गौ च प्रियाख्यः शुक्रोत्सर्गश् च, शिल्पं चेति पञ्च कर्मायतनानां कर्मेन्द्रियाणां सिद्धयः फलानि, न तु तत्त्वान्तराणीत्य् अर्थः ॥१६॥

———————————————————————————————————————

॥ ११.२२.१७ ॥

सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी ।
सत्त्वादिभिर् गुणैर् धत्ते पुरुषोऽव्यक्त ईक्षते ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : त्रीन् इति गुणान् इति वक्तुं गुण-प्रवृत्तिम् आह—सर्गादाव् इत्य्-आदिना । कार्य-कारणाभावाद् अन्योन्यानुप्रवेशो युक्त इति वक्तुं सृष्ट-युक्तिः ।

सृज्य-स्रष्टृ-स्वरूपत्वाद् अन्योन्यानुप्रवेशिनः । > तिष्ठन्ति तात्त्विका देवा विशेष-प्राप्ति-कारणात् ॥ इति नैसर्गे । > अन्वेकम् अप्य् एष्व् इत्य् उक्तत्वात् पुरुषो हिरण्यगर्भः । > यदा पुरुष-शब्देन विरिञ्चसैव वाच्यता ॥ > परस्य पृथग् उक्तौ च व्यक्तस् तत्र तु शङ्करः । > तदाहङ्कार-शब्देन स्कन्दस्यैव वचो भवेत् ॥ इति विवेके ।

सत्त्वादीन् गत्य्-आदींश् च विना परमात्मना सह षड्-विंशतिः । महद्-अहङ्कारौ ब्रह्म-रुद्रौ अङ्गीकृत्य स्कन्दं विना परमात्मना सह पञ्चविंशतिः ।

विषयेन्द्रिय-प्रकृति-देवताः परमात्मना । > पञ्च-विंशति-तत्त्वानि सङ्ख्यातानि विदो विदुः ॥इति च ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं मत-त्रयेऽपि तत्त्व-सङ्ख्या-भेदं निरूप्य यद् विवक्षया गायन्तीति यत् पृष्टं, तत्-तन्-मत-तात्पर्यं दर्शयति—सर्गादाव् इति । कार्याणि षोडश विकाराः, कारणानि महद्-आदीनि सप्त, तद्-रूपिणी सती प्रकृतिर् अस्य विश्वस्य सर्गादौ गुणैः सृज्यत्वाद्य्-अवस्थां धत्ते, उपादान-कारण-रूपत्वात् । पूरुषस् त्व् अव्यक्तोऽपरिणामी निमित्त-भूतः केवलम् ईक्षते। अतः परिणामिन्याः प्रकृतेः पुरुषो भिन्न इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्गादाव् इति द्वयेन सर्वेषां विवक्षितम् उक्तम् ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् विवक्षया गायन्तीति यत् पृष्टं, तत्-तन्-मत-तात्पर्यं दर्शयति—सर्गादाव् इति। कार्याणि षोडश विकाराः, कारणानि महद्-आदीनि सप्त, तद्-रूपिणी सती प्रकृतिर् अस्य विश्वस्य सर्गादौ गुणैः सृज्यत्वाद्य्-अवस्थां धत्ते, उपादान-कारण-रूपत्वात् । पूरुषस् त्व् अव्यक्तोऽपरिणामी निमित्त-भूतः केवलम् ईक्षते । अतः परिणामिन्याः प्रकृतेः पुरुषो भिन्न इति ॥१७॥

———————————————————————————————————————

॥ ११.२२.१८ ॥

व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया ।
लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्त्वैर् आरब्ध-कार्यस्य तद् अन्तर्-भावम् अभिप्रेत्याह—व्यक्तादय इति । व्यक्तादयो महद्-आदयः प्रकृतेर् उत्पन्ना ये धातवस् ते विकुर्वाणाः पुरुषेक्षणेन लब्ध-वीर्याः संहता जण्डं सूजन्ति । प्रकृतेर् बलात् ताम् आश्रित्येत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महत्-तत्त्वादिभिर् आरब्धस्याण्डस्य महत्-तत्त्वादिष्व् एवान्तर्भावम् अभिप्रेत्याह—व्यक्तादय इति । प्रकृतेर् बलात् ताम् आश्रित्येत्य् अर्थः ॥१८॥

———————————————————————————————————————

॥ ११.२२.१९ ॥

सप्तैव धातव इति तत्रार्थाः पञ्च खादयः ।
ज्ञानम् आत्मोभयाधारस् तद् देहेन्द्रियासवः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : ज्ञान-शब्दोदितो ब्रह्मा तद्-आधारो हरिः स्मृतः ॥ इति च ।

ततो ज्ञानं विना परमात्मानम् अङ्गीकृत्यैव देहेन्द्रियाणासुश् च नव तत्त्वानि ।

सर्व-देहाभिमानी तु देहिनां तु दिवाकरः । > इन्द्रियात्मेन्द्र एवैकः प्राणी नाम प्रजापतिः ॥ इति च ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं स्व-मतम् उपसंहृत्य मतान्तरेष्व् अपि सामान्यतो निरूपितां घटनां विशेषतः स-तात्पर्यां दर्शयति—सप्तैवेति । जानातीति द्रष्टा जीवः उभयोर् द्रष्टृ-दृश्ययोर् आधार आत्मा चेति सप्त । तत्र प्रकृत्य्-आदीनां कारणत्वेन खादिष्व् अन्तर्-भावः । उत्तरेषाम् अन्तर्-भावार्थम् आह—ततस् तेभ्यः सप्तभ्यो देहेन्द्रियासवः सर्व-कार्याणि जायन्ते ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सप्तैव धातवस् तत्त्वानीति मते जानातीति ज्ञानं जीवः । उभयोर् जीव-खाद्योर् आधार आश्रय इति सप्त । अत्र प्रकृत्य्-आदीनां कारणत्वेन खादिष्व् अन्तर्-भावः । उत्तरेषाम् अन्तर्-भावार्थम् आह—ततस् तेभ्यः ॥१९॥

———————————————————————————————————————

॥ ११.२२.२० ॥

षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् ।
तैर् युक्त आत्म-सम्भूतः सृष्ट्वेदं समुपाविशत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : षड् इति मतेऽपि भौतिकस्य भूतान्तर्-भवं जीवस्य च परमात्मान्तर्-भावम् आह—तैर् युक्त इति । 3स च परः पुमांस् तैर् आत्म-सम्भूतैः पञ्च-भूतैर् युत इदं देहादिकं सृष्ट्वा तत् स्वयं समुपाविशत् । पूर्वस्मिन् कारणे पञ्च-भूतात्मके भौतिकेन्द्रियादीनाम् अन्तर्-भव उक्तः पूर्वोक्त्या ज्ञात्व्यः^३^ ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : षड् इति मतेऽपि भूतानि पञ्चेति तेष्व् एवान्येषां तत्त्वानाम् अन्तर्-भवः परः पुमान् इति तस्मिन् जीवस्य ॥२०॥

———————————————————————————————————————

॥ ११.२२.२१ ॥

चत्वार्य् एवेति तत्रापि तेज आपोऽन्नम् आत्मनः ।
जातानि तैर् इदं जातं जन्मावयविनः खलु ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अवयविनो जन्म तैः खलु भूतानि मात्राश् च परस् तत्त्वैकादशकं स्मृतम् इति । भूत-मात्रेत्य् आरम्भात् तत्-सिद्धेर् एकादशानां पृथग्-उक्तिः ॥२१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्नं पृथ्वी । आत्मनो जातानि आत्मना सह चत्वारि तत्त्वानि । अन्तर्-भावार्थम् आह—तैर् इति । अवयविनः कार्यस्य ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : चत्वार्य् एवेति यन्-मतं तत्रापि पक्षे आत्मनः सकाशात् तेजोऽब्-अन्नानि जातानि। पुनस् तैश् चतुर्भिर् अवयविनः कार्यस्य जन्मेत्य् अत इदं जगज् जातम् इत्य् अर्थः । तत्राकाश इन्द्रियागोचरत्वान् न मतः । वायुस् तु तेजसः सूक्ष्मावस्थैवेति भावः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्नं पृथ्वी । आत्मनः परमात्मनः सकाशात् अवयविनः अवयविनः कार्यस्य जन्म जातम् अभूत् ॥२१॥

———————————————————————————————————————

॥ ११.२२.२२ ॥

सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च ।
पञ्च पञ्चैक-मनसा आत्मा सप्तदश स्मृतः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मना सहैव मन उच्यते ।

आत्मनः सन्निधिस्थत्वान् मनसस् तु तद्-उक्तितः । > उक्तो भवेत् परात्मापि तत्त्वं षोडशकं यदा ॥ इति च ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतानि च मात्राणि च इन्द्रियाणि च पञ्च पञ्च । एकेन मनसा सह आत्म सप्तदशः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानि च पञ्च । मात्राणि च पञ्च । पञ्चेन्द्रियाणि च पञ्च । एकेन मनसा सह आत्म सप्तदशः ॥२२॥

———————————————————————————————————————

॥ ११.२२.२३ ॥

तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते ।
भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आत्म-शब्देन च ब्रह्मा परमात्म चोभाव् उच्येते ।

भूतेन्द्रियाणि च मनो ब्रह्मा विष्णुस् तथैव च । > एवं त्रयोदशैवाहुस् तत्त्वानि मुनयो वराः ॥ इति च । > आत्मेति परमात्म च विरिञ्चश् चापि कथ्यते । > वायुर् मनश् च देहश् च स्वयम् इत्य् अपि कुत्रचित् ॥ इति प्रत्यये > ॥२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मैव सङ्कल्पयन् मन उच्यते । त्रयोदश-पक्षे भूतानि तन्-मात्रैर् एकी-कृतानि पञ्चैव । इन्द्रियाणि तत्-प्रकाशकानि पञ्चैव । मनश् चैकम् इन्द्रियाधिष्ठातृ । आत्म च द्वि-विधः । एवं त्रयोदश ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्माजीव एव सङ्कल्पयन् मन उच्यते । त्रयोदशे भूतानि तन्-मात्रैर् एकीकृतानि पञ्चैव इन्द्रियाणि च पञ्चेति दश । एकं मनः जीवः परमात्मएति त्रयोदश ॥२३॥

———————————————————————————————————————

॥ ११.२२.२४ ॥

एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च ।
अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एकादशत्व-पक्षे, पञ्च-महा-भूतानि पञ्चेन्द्रियाणि । जीव-मनसोश् चात्मान्तर्-भावेनैतान्य् एवैकादश । नव-पक्षे, अष्टौ प्रकृतयः पुरुषश् च । विकाराणां तद् अन्तर्-भावः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२२.२५ ॥

इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् ।
सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—इतीति । इति एभिः प्रकारैः प्रकृति-पुरुष-भेद-ज्ञापनायेत्य् अर्थः। नन्व् एतेषां कतमः पक्षस् त्याज्यः ? इति चेत् तत्राह—सर्वम् इति4 ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—इतीति ॥२५॥

———————————————————————————————————————

॥ ११.२२.२६ ॥

श्री-उद्धव उवाच—

प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ ।

अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः ।
प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : यद्यपि परमात्म प्रकृतिश् च विलक्षणौ, तथापि तयोर् वैलक्षण्यं न लक्ष्यते। अपरं च भिदा चेति वैलक्षण्यं प्रकीर्तितम् इति च । तद्-वैलक्षण्यं कुतो न दृश्यते ? इति प्रश्नाभिप्रायः ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गुण-साम्यं प्रकृतिस् तस्याः सत्त्वादयो गुणाः, न त्व् आत्मन इति तयोर् भेदाप्रतीतेः कथं ज्ञातुं शक्यते ? इत्य् उद्धवः पृच्छति—प्रकृतिर् इति । आत्मना जडाजड-स्वभावेन विलक्षणौअन्योन्यापाश्रयात् परस्पर-परिहारेणाप्रतीतेर् इत्य् अर्थः । अन्योन्यापाश्रयत्वम् एवाह—प्रकृताव् इति । प्रकृतौ तत्-कार्ये देहे । प्रकृतिश् चात्मनि । तेन विना तस्या अप्रतीतेः । अहम् इत्य् अभेद-प्रतीतेर् न देहात्मनो भेदो लक्ष्यत इत्य् अर्थः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्त्व-विचारोत्थं संशयान्तरम् आह—प्रकृतिर् माया, पुरुष ईश्वरः । आत्मना स्वरूपेणैव जडत्वेन च विलक्षणाव् एव यद्यपि शास्त्र-दृष्ट्या ज्ञायेते, तद् अपि देहेष्व् अनयोर् अन्योन्याश्रयात् परस्पराश्रितत्वात् भिदा भेदो न दृश्यते । अन्योन्यापश्रयं विवृणोति—[आत्मा] प्रकृतौ तत्-कार्ये देहे लक्ष्यते, तथा प्रकृति-कार्यो देहश् च आत्मनीति, तयोर् अन्यो\ऽन्याधिष्ठानत्वेनान्यो\ऽन्याश्रितत्वम् ॥२६॥

———————————————————————————————————————

॥ ११.२२.२७ ॥

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।
छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदि वर्तमानं संशयम् । न ये युक्तौ नैपुणं प्रावीण्यं येषां तैः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छेत्तुम् अर्हसि प्रकृतेः सकाशात् परमात्मानं पार्थक्येन दर्शयित्वेति भावः । नये युक्तौ नैपुणं प्रावीण्यं येषां तैः ॥२७॥

———————————————————————————————————————

॥ ११.२२.२८ ॥

त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तेऽत्र शक्तितः ।
त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अन्योन्याधारत्वम् एव दृश्यते, न तु परमेश्वरस्यानन्याधारत्वेन प्रकृत्य्-आधारत्वं मन्द-मतीनाम् इत्य् अर्थः ।

आधार-प्रकृतिर् विष्णुर् नाधारस् तु हरेः क्वचित् । > तथाप्य् अव्यक्तगो यद्वद् दृश्यते मन्द-चेतसाम् ॥ इति पाद्मे ।

प्रकृतिः पुरुषश् च इत्य् एवम् अन्योन्य-विलक्षणाव् एव । एष विकल्पः वैलक्षण्यादर्शनम् । विरुद्ध-कल्पनम् एव । यस्माद् गुण-व्यतिकरात्मकः सर्गो विकार-निमित्तः स च गुण-व्यतिकरस् त्रिविधः । सत्त्व-रजस्-तमसाम् एकैक-प्राधान्येन तत्र तमः-प्रधानानाम् एव विरुद्ध-कल्पनं, तस्मात् तमोऽत्र कारणम् इत्य् अर्थः ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्हसि इत्य् उक्तम् । तत्र हेतुम् आह—त्वत्त इति । हि यस्मात् त्वत्तस् त्वत्-प्रसादाद् एव । अत्र ज्ञाने प्रमोषो भ्रंशश् च ते शक्तितो मायातः । ननु स्व-प्रकाशस्यात्मनः कथं ज्ञान-प्रमोषः ? ज्ञान-दाने तत्-प्रमोषे वा मम किं प्रयोजनं ? तत्राह—त्वम् एवेति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति यद् उक्तं तत्र श्री-भगवन्-मतं जीवेश्वर-भेद-पक्षम् एव हेतुत्वेन दर्शयति—त्वत्त इति । शक्तितो माया-वृत्तित एवेति तस्य तत्रानासक्तस्य नैर्घृण्यं निरस्तम् । ननु मायावृतानां मत्तः कथं ज्ञानं स्यात् ? कथं वा स्व-प्रकाशस्यात्मनो मायया ज्ञान-प्रमोषः ? तत्राह—त्वम् एवेति । पूर्वत्र माया-दूरीकरणे तवैव शक्तिर् उत्तरत्र मायायास् त्वद्-अङ्गीकृताद् अन्यत्राभिभव-सामर्थ्यम् अस्त्य् एवेति ध्वनितम् । तद् एवम् अष्टाविंशति-सहायः षड्विंशति-पक्ष एवानेन दृढीकृतः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्तो ज्ञानं त्वयैव विद्या-शक्त्या ज्ञान-प्रदानम् इत्य् अर्थः । तेऽत्र श्कितः प्रमोष इति तव या शक्तिर् अविद्या तयैव ज्ञानस्य चौर्यम् इत्य् अर्थः । ननु मच्-छक्तेर् ज्ञान-चौर्येण किं प्रयोजनं ? तत्राह—त्वम् एवेति ॥२८॥

———————————————————————————————————————

॥ ११.२२.२९ ॥

श्री-भगवान् उवाच—

प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ ।
एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्रापि प्रकृतिर् एव कारणम् ईश्वरेच्छा च । विकाराज् जातत्वाद् वैकारिक इत्य् उच्यते । अहङ्कारस् त्रिविधोऽपि ।

वैकारिको महांश् चैव तथाहङ्कार एव च । > तथैव सात्त्विकश् चांशो वैकारिक इति त्रिधा ॥ इति शब्द-निर्णये > ॥२९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : विकाराविकाराभ्यां नानात्वैकत्वाभ्यां सापेक्ष-निरपेक्षत्वाभ्यां प्रकाशाप्रकाशाभ्यां चात्यन्तं भेदं वक्तुम् आह—प्रकृतिः पुरुषश् चेति विकल्पोऽत्यन्त-भेद एव । कुतः ? इत्य् अपेक्षायां प्रकृति-शब्दोक्त-देहादि-सङ्घातस्य विकारित्वं तावद् दर्शयति—एष इति द्वाभ्यम् । एष सर्गः सृज्यत इति सर्गो देहादि-सङ्घातो वैकारिको विकारवत्। अत्र हेतुः—गुण-व्यतिकरात्मको गुण-क्षोभ-कृतः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृति-पुरुषयोर् विकारित्वाविकारित्वाभ्यां नानात्वैकत्वाभ्यां परस्परापेक्षत्व-निरपेक्षत्वाभ्यां पर-प्रकाश्यत्व-स्व-प्रकाश्यत्वाभ्यां चात्यन्त-भेदं वक्तुम् आह चतुर्भिः—प्रकृतिः पुरुषश् चेति विकल्पो भेदः, प्रकृतेः सकाशात् पुरुषो भिन्न एव । तद् अपि दृश्यते न भिदानयोर् इति कथं ब्रवीषीति भावः । कुतः ? इत्य् अपेक्षायाम् आह—एष सृज्यत इति सर्गो देहादि-सङ्घातः प्रकृति-कार्यत्वात् प्रकृति-शब्दोक्तः वैकारिकः नाना-विकारवान्, यतो गुण-व्यतिकरात् गुण-क्षोभाद् एव आत्मा स्वरूपं यस्य सः। गुण-क्षोभ-कृत इति प्रकृतौ विकारो दर्शितः । पुरुषस् तु केवलम् ईक्षमाणो निर्विकारः प्रसिद्ध एवेति भावः ॥२९॥

———————————————————————————————————————

॥ ११.२२.३० ॥

ममाङ्ग माया गुण-मय्य् अनेकधा

विकल्प-बुद्धिश् च गुणैर् विधत्ते ।

वैकारिकस् त्रि-विधोऽध्यात्मम् एकम्

अथाधिदैवम् अधिभूतम् अन्यत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नानात्वम् आह—ममेति । विकल्पं भेदं तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति—वैकारिकोऽनेक-विकारवान् अपि स्थूलेन मार्गेण तावत् त्रि-विधः । त्रैविध्यम् आह—अध्यात्मम् इति । एकं रूपम् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न चासौ परमात्म-प्रकाश्यत्वे घटवत् पर-प्रकाश्यः, परमातमनस् तत्-परम-स्वरूपत्वेन पर-प्रकाश्यत्वाभावात् । एवम् एवाह द्वाभ्याम्—ममेति । विकल्पं भेदं, तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति—वैकारिक इति । अनेक-विकारवान् अप्य् अस्यौ स्थूल-दृष्ट्या तावत् त्रिविधः । त्रैविध्यम् आह—अध्यात्मम् इत्य्-आदिना ॥३०॥ [परमात्म-सन्दर्भ २६]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानात्वम् आह—ममेति । विकल्पं भेदं तद्-बुद्धीश् च । वैकारिकोऽनेक-विकारवान् अपि स्थूलतस् त्रि-विधः । तत्र अध्यात्मम् इत्य् एकम् । अथ अधिभूतम् इति द्वितीयं, अधिदैवम् अन्यत् तृतीयम् ॥३०॥

———————————————————————————————————————

॥ ११.२२.३१ ॥

दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे

परस्परं सिध्यति यः स्वतः खे ।

आत्मा यद् एषाम् अपरो य आद्यः

स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अध्यात्मम् इन्द्रियाणि तैर् एव विपरीतं ज्ञानं जायते ।

अहङ्कारे विद्यमाने भ्रमो भवति नान्यदा । > सम्यग् ज्ञानं हरेः शक्त्या तन्-मुक्तस्य विशेषतः ॥ > देवतानुग्रहो नित्य-मुक्तस्यापि ह्य् अपेक्षते । > नित्यं तत्-प्रतिबिम्बत्वाज् जीवानाम् एव कृत्स्नशः ॥ > बाह्य-ज्ञानं च मुक्तस्य न जडाहङ्कृतेः क्वचित् । > किन्तु स्वरूप-शक्त्यैव देवेभ्यश् चाभिजायते ॥ इति ब्रह्म-तर्के । > पश्यन्न् अपि जगत् सर्वं चिद्-बलेनैव पश्यति । > कुतो मुक्तस्य तु जडं चिद्-रूपस्य व्यपेक्ष्यते ॥ इति च ।

एषाम् उपरमे मुक्तौ । चक्षुर् इति पुनर्-वचनम् अवधारणार्थम् ॥३०-३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तानि रूपाणि दर्शयति—दृग् अध्यात्मम् । रूपम् अधिभूतम् । अत्र रन्ध्रे चक्षुर्-गोलके प्रविष्टम् आर्कं वपुर् अंशोऽधिदैवम् इति । सापेक्ष-प्रकाशताम् आह—परस्परम् इति । चक्षुषा रूपं ज्ञायते । तद्-अन्यथानुपपत्त्या चक्षुः तत्-प्रवृत्त्य्-अन्यथानुपपत्त्या तद्-अधिष्ठात्री देवता । ततश् च चक्षुषः प्रवृत्तिस् ततो रूप-ज्ञानम् इत्य् एवम् एतत् त्रयं परस्परं सिध्यति । अत्र रन्ध्र इति विशेषण-व्यावर्त्यम् आह दृष्टान्तोपयोगितय—यस् तु खे आकाशे अर्को वर्तते मण्डलात्मा, स तु स्वतः सिद्ध्यति । चक्षुर्-विषयत्वेऽपि प्रतियोग्य्-अपेक्षाभाव-मात्रेण स्वत इत्य् उक्तम् ।

इदानीम् आत्मनो विकारित्वाद्य्-अभावेन भेदम् आह—यद् यस्माद् आत्मा एषाम् अध्यात्मादीनाम् आद्यः कारणम् अत एक-रूपोऽभिन्नश् च । तस्माद् एतेभ्योऽपरो भिन्नः । स्व-प्रकाशत्वाद् अपीत्य् आह—स्वयानुभूता स्वतः सिद्ध-प्रकाशेनाखिलानां सिद्धानं परस्पर-प्रकाशकानाम् अपि प्रकाशकः, सर्वेषाम् अपि सामान्यतश् चित्-प्रकाश-विषयत्वात् । अत एव स्व-प्रकाशत्वं सिद्धम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तानि क्रमेणाह—दृग्-आदि-त्रयेण । वपुर् अंशः । अत्र रन्ध्रे दृग्-गोलके प्रविष्टं तत् त्रयं च परस्परम् एव सिध्यति, न तु स्वतः । यस् तु खे आकाशे अर्को वर्तते, स पुनः स्वतःसिध्यति । चक्षुर्-विषयत्वेऽपि स्व-विरोधिनः प्रतियोग्य्-अपेक्षाभाव-मात्रेण स्वत इत्य् उक्तम् । एवं यथा मण्डलात्मार्कः स्वतः सिध्यति, तथात्मापीत्य् आह—यद् यतः पूर्वोक्त-दृष्टान्त-हेतोर् आत्माएषाम् अध्यात्मादीनां योऽपर आद्यस् तेषाम् आश्रयः, सोऽपि स्वतः सिध्यति, किन्तु स्वयानुभूत्या इति चिद्-रूपत्वाद् विशेषः । न केवलम् एतावत्, अपि तु अखिलानां परस्पर-सिद्धानां सिद्धिर् यस्मात्, तथा-भूतः सन्न् इति ॥३१॥ [परमात्म-सन्दर्भ २६]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रैविध्यं दर्शयति—दृक् अध्यात्मं, रूपम् अधिभूतम् । आर्कं वपुर् अर्कांशोऽधिदैवम्अत्र रन्ध्रे चक्षुर्-गोलके । परस्परापेक्षत्वम् आह—परस्परं सिद्ध्यत्इ इति चक्षुषा रूपं ज्ञायते । रूप-ज्ञानान्यथानुपपत्त्या चक्षुः, तत्-प्रवृत्त्य्-अन्यथानुपपत्त्या तद् अधिदैवम् । ततश् चक्षुषः प्रवृत्तिस् ततो रूप-ज्ञानम् इत्य् एवम् एतत् त्रयं परस्परं सिध्यति ।

परमात्म तु निरपेक्ष एव । तत्र दृष्टान्तः—य इति । यस् तु खे आकाशे अर्को वर्तते, मण्डलात्मा, स तु स्वत एव सिद्ध्यति । तथैव आत्मा परमात्म यत् यस्माद् एषाम् अध्यात्मादीनाम् आद्यः कारणम् एक-वचनाद् एकः । योऽपरः कारणत्वाद् एव एतेभ्यो भिन्नः । स्वयानुभूत्या स्वतः-सिद्ध-प्रकाशेन अखिलानां सिद्धानां परस्पर-प्रकाशकानाम् अधात्मादीनाम् अपि सिद्धिर् वस्तुतः प्रकाशो यस्मात् सः । तेन निरपेक्षत्वाद् एकत्वाद् अन्य-प्रकाशकत्वाच् च पुरुषः प्रकृतेर् भिन्न इति प्रतिपादितम् ॥३१॥

———————————————————————————————————————

॥ ११.२२.३२ ॥

एवं त्वग्-आदि श्रवणादि चक्षुर्

जिह्वादि नासादि च चित्त-युक्तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्षुषि दर्शितं त्रैविध्यम् इन्द्रियान्तरेष्व् अप्य् अतिदिशति—एवम् इति । यथा चक्षुर् एवं त्वग्-आद्य् अपीत्य् अर्थः । त्वक् स्पर्शो वयुर् इति । श्रवणं शब्दो दिश इति । जिह्वा रसो वरुण इति। नासा गन्धोऽश्विनाव् इति । चित्तेन युक्तम् अन्तः-करणान्तरम् अपि । तत्र चित्तं चेतयितव्यं वासुदेव इति । मनो मन्तव्यं चन्द्र इति । बुद्धिर् बोद्धव्यं ब्रह्मेति । अहङ्कारो ऽहङ्कारो ऽहं-कर्तव्यं रुद्र इत्य् एवं त्रि-विधम् इत्य् अर्थः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्षुषि दर्शितं त्रैविध्यम् इन्द्रियान्तरेष्व् अप्य् अतिदिशति—एवम् इति । यथा चक्षुर् चक्षुः, रूपम् अर्कांशः । एवं त्वग्-आदि त्वक् स्पर्शो वयुर् इति । श्रवणादि श्रवणं शब्दो दिश इति । जिह्वादि जिह्वा रसो वरुण इति। नासादि नासा गन्धोऽश्विनाव् इति । चित्त-युक्तं चित्तादि च चित्तं चेतयितव्यं वासुदेवांश इति । उपलक्षणम् एतत् । मनो मन्तव्यं चन्द्र इति । बुद्धिर् बोद्धव्यं ब्रह्मेति । अहङ्कारोऽहङ्कारोऽहं-कर्तव्यं रुद्र इति । एवम् अन्यद् अपि सर्वं त्रिविधम् इति ॥३२॥

———————————————————————————————————————

॥ ११.२२.३३ ॥

योऽसौ गुण-क्षोभ-कृतो विकारः

प्रधान-मूलान् महतः प्रसूतः ।

अहं त्रि-वृन् मोह-विकल्प-हेतुर्

वैकारिकस् तामस ऐन्द्रियश् च ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : योऽसौ भ्रम-हेतुर् विकारः स गुण-क्षोभ-कृतः ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पुनर् अपि वैलक्षण्य-मात्रम् एवोक्तम् । त्रि-विध-प्रपञ्च-व्यतिरिक्तात्म-प्राप्तिस् तु कुतः स्यात् ? अहङ्कार-निवृत्त्या । तत् कुतः ? त्रि-विध-विकल्प-निवृत्त्यैवेत्य् आशयेनाह—योऽसाव् अहम् अहङ्कारः । तम् एवाह—गुण-क्षोभं करोतीति । तथा ततः परमेश्वरात् कालाद् वा निमित्तात् प्रधानं मूलम् उपादानं यस्य, तस्मान् महतः प्रसूतोविकारः, स त्रि-वृत् त्रि-विधो मोह-मयस्य विकल्पस्य हेतुः । त्रि-वृत्त्वम् एवाह—वैकारिक इति॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् असौ नाना-विकार-मयः प्राकृतः प्रपञ्चः सत्यो मिथ्या वा वादिनां मत-वैविध्यान् निश्चेतुम् अशक्यत्वात् पृच्छ्यत इत्य् आकाङ्क्षायाम् अनुवाद-पूर्वकम् आह—योऽसाव् इति द्वाभ्याम् । **गुण-क्षोभ-**कार्यः विकार-मयः प्रपञ्च-प्रधान-मूलात् प्रधान-हेतुकात् महतःप्रसूतो उद्भूतो योऽयम् अहङ्कारः । तस्मिन् त्रि-वृत् त्रि-रूपी-भूतः । त्रि-वृत्त्वम् एवाह—वैकारिकस् तामस ऐन्द्रियश् चेति । अधिदैवाधिभूताध्यात्मादि-मयः स हि मोह-विकल्प-हेतुः । मोहेनाज्ञानेन हेतुना सत्यो वा मिथ्या वा नित्यो वेत्य् एवं विकल्पस्य हेतुः ॥३३॥

———————————————————————————————————————

॥ ११.२२.३४ ॥

आत्मापरिज्ञान-मयो विवादो

ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः ।

व्यर्थोऽपि नैवोपरमेत पुंसां

मत्तः परावृत्त-धियां स्व-लोकात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मा तु परिज्ञान-स्वरूपो न गुण-क्षोभ-कृतः । भिदा विपर्ययेण विद्यमानं नास्ति अविद्यमानम् अस्तीति विवादः ।

असद् अस्ति सन् नास्तीत्य् एवं भेदाद् विवादनम् । > सदैव हरि-पादाब्ज-विमुखानां प्रवर्तते ॥ इति च ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स कुतो निवर्तते ? आत्माज्ञान-विलसितत्वात् तज्-ज्ञानेनेत्य् आशयेनाह—आत्मापरिज्ञान-मय इति । ननु कथं मोह-मयत्वं विकल्पस्याहङ्कारस्य वा कैश्चित् सत्यत्वाङ्गी-कारात् ? तत्राह—विवाद इति । अयं भिदा अर्थ-निष्ठो विवादोऽप्य् आत्मापरिज्ञान-मय इत्य् अन्वयः । यद् वा, विवादः सर्वोऽपि भिदाऽर्थ-निष्ठ एव, न तु वस्तु-मात्र-निष्ठः । अतः परस्परं युक्तिभिर् एव भेदस्य निराकृतत्वान् मोह-मयत्वं सिद्धम् इति


ननु यद्य् अहङ्कारो विकल्पश् च नास्ति, अलं तर्हि तन्-निवृत्ति-प्रयासेन ? तत्राह—व्यर्थोऽप्य् अर्थ-रहितोऽपि स्वरूप-भूतान् मत्तो बहिर्-मुखानां नैवोपरमेत, प्रत्युत तत्-कृतैः कर्मभिर् उच्च-नीच-देहेषु ते संसरन्तीति॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सोऽहङ्कारः केन निवर्तते ? उच्यते, भयं द्वितीयाभिनिवेशतः स्याद् [भा।पु। ११.२.३७] इत्य्-आद्य्-अनुसारतो मद्-बहिर्मुखता-निदानत्वेन मद्-अन्तर्मुखतयैवेत्य् आह—आत्मापरिज्ञान-मय इति । स्व-लोकात् स्वाश्रयाद् अपि मत्तःपरावृत्त-धियां पुंसां यद् आत्मापरिज्ञानं स्व-स्वरूपास्फूर्तिस् तन्-मयो यो निज-पर-मतयोर् अस्तीति नास्तीति भिदार्थ-निष्ठो विवादः सोऽर्थ-शून्योऽपि नैवोपरमेतेति मद्-बहिर्मुखतायां सत्यां विवाद-मात्रं प्रसवेत्, न तु ज्ञानम् उदयति । मद्-अन्तर्मुखतायां ज्ञानम् अप्य् आनुषङ्गिकतयोदयेत् परम-पुरुषार्थ-लक्षण-मत्-प्राप्तिस् तु मुख्यतयेत्य् अर्थः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संशय-च्छेत्तारो ये विद्वांस एव तत्त्व-निश्चायका इति चेत् तेषाम् अपि विवादो नोपशाम्यतीत्य् आह—आत्मेति । प्रपञ्चोऽयम् अस्तीति, सत्य इति, कश्चिद् उपपत्त्या निश्चिनोति, तन्-मतं दूषयित्वा नास्तीति मिथ्येति कश्चिन् निश्चिनोतीति विवादो ह्यात्मनः परमात्म-तत्त्वस्य अपरिज्ञान-सूचक इत्य् अर्थः, आत्मनि अनुभव-गोचरी-कृते विवादानुपपत्तेः । भिदार्थे मद्-भिन्ने एव अर्थे प्रयोजने, न तु मयि, निष्ठा नितरां स्थितिर् यस्मात् सः । यद् वा, भिदा विदारणं पर-मत-खण्डनम् एवार्थस् तत्रैव निष्ठा यस्य सः ।

किं च, व्यर्थो विफलः, तस्मात् न पुण्यं न पापं न स्वर्गो न नरकश् चेत्य् एवं निष्प्रयोजनोऽपि नोपरमेतेति मन्-माया-शक्तेर् एव स स्वभाव इति भावः । यद् उक्तं—यच्-छक्तयो वदतां वादिनां वै विवाद-संवाद-भुवो भवन्ति [भा।पु। ६.४.३१] इति ।

किं च, बहु-सम्भवान्ते मत्-प्रापकं मार्गं प्राप्यापि ते ततश् च्यूता भवन्तीत्य् आह—मत्तः परावृत्त-धियाम् इति । वेद-शास्त्रार्थो हि मत्-प्रापको मार्ग एव, तं विद्वांसस् ते मां प्राप्तुं प्रवृत्त-धियोऽपि मध्ये विवादम् अङ्गीकृत्य मत्तः सकाशात् परावृत्त-धियो भवन्तीति भावः । मत्तः कीदृशात् ? स्व-लोकतः स्वान् भक्तान् एव लोकते कृपया पश्यति नान्यान् इति तथा तस्मात् । भक्ताश् च विवादान् उत्पतिष्णव एव, तेन मच्-चिन्तनादिनैव स्वायुः सफलयितव्यं, न तु विवादास्पदस्य प्रपञ्च-स्थ-तत्त्व-निश्चय-जिज्ञासया तद्-विफलयितव्यम् इति व्यञ्जितम् ॥३४॥

———————————————————————————————————————

॥ ११.२२.३५-३६ ॥

श्री-उद्धव उवाच—

त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो ।
उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥**

तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः ।
न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र पृच्छति—त्वत्त इति । व्यापकस्यात्मनो देहाद् देहान्तर-गमनम् अकर्तुः कर्माणि नित्यस्य च जन्म-मरणादीनि कथम् ? इति भावः ॥३५॥ एतद् विद्वांसो न सन्तिहि यस्मान् मायया वञ्चिता मोहिताः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वत्त इति युग्मकम् । तच् च तैः । अत्र [टीकायां श्रीमद्-ग्रन्थ-कृतः] स्व-मते व्यापकस्य इत्य् अत्र निरीहस्येति वाच्यम् ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वत्त इति । यदि बुद्धिस् त्वत्तः परावृत्ताभूत्, तदैव तेषां कर्मभिर् बद्धः । ततश् च उच्चावचान् उत्तमाधमान् देहान् स्थूलान् यथा गृह्णन्ति, यथा विसृजन्तीति त्वद्-विमुखानां जन्म-मरणयोः प्रकारं ब्रूहीत्य् अर्थः । अनात्मभिर् अल्प-बुद्धिभिर् दुर्विभाव्यं भावयितुम् अप्य् अशक्यं, किं पुनर् वक्तुम् इत्य् अर्थः । ननु लोके विज्ञा बहवः स्युस् त एवैतत् प्रष्टव्यास् तत्राह—न हीति । वञ्चितास् त्वन्-मायया मोहिताः ॥३५-३६॥

———————————————————————————————————————

॥ ११.२२.३६ ॥

श्री-भगवान् उवाच—

मनः कर्म-मयं नॄणाम् इन्द्रियैः पञ्चभिर् युतम् ।
लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : लिङ्ग-शरीराध्यासेन सर्वं घटत इत्य् उत्तरम् आह—मन इति । प्रधानत्वेन पञ्चभिर् इति निर्देशोऽन्येषाम् अप्य् उपलक्षणार्थम् । देहाद् देहान्तरं प्रति याति । ततोऽन्य एवात्मा तन्-मनोऽनुवर्तते अहङ्कारेणानुगच्छति ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् अनुवर्तते—तद्-आरूढश् चलति, तदारूढत्वात् तच्-चलनेनैव चलति॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनः मनः प्रधानं सूक्ष्म-शरीरम् एव लोकाल् लोकान्तरं याति । कर्म-मयं कर्माधीनम् आत्मा जीवोऽन्यस् ततो भिन्नोऽपि तद्-अपहितत्वाद् एव तत्-सूक्ष्म-शरीरम् अनुवर्तते अनुगच्छति ॥३६॥

———————————————————————————————————————

॥ ११.२२.३७ ॥

ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतान् अथ ।
उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मनसोऽपि पूर्व-देह-वियोगो देहान्तर-योगश् च कथं भवतीति चेत्, स्मृति-वियोग-योगाभ्याम् इति वक्तुं तयोः कारणम् आह—ध्यायद् इति । कर्म-तन्त्रत्वात् कर्मोपस्थापितान् दृष्टान् वा अनुश्रुतान् वेदोक्तान् विषयान् अनुध्यायत् । अथानन्तरं ध्यायमानेषूद्यद्-आविर्भवत्-पूर्व-विषयेषु च सीदल्-लीयमानं भवति, तद्-अनन्तरं तस्य स्मृतिः पूर्वापरानुसन्धानं नश्यति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं सर्वदैव सूक्ष्म-शरीरानुवर्तिनो जीवात्मनः स्थूल-शरीरेण वियोग एव मृत्युः, संयोग एव जन्मेति ब्रुवंस् तयोर् अपि स्थूल-वियोग-संयोगयोः सर्वथा स्मृति-वियोग-स्मृति-संयोगाव् एव कारणम् इत्य् आह—ध्यायन्न् इति । कर्म-तन्त्रं कर्माधीनं मनः कर्मोपस्थापितान् दृष्टान् विषयान् मर्त्य-लोक-स्थान् पर-दारादीन्, श्रुतान् देव-लोक-स्थान् तान् एव ध्यायत् सत् । अथ क्षणान्तरं ध्येयेषु तेष्व् इव उद्यत् तद्-आकारीभवत् सीदत् पूर्व-ध्यातेभ्यो विषयेभ्यः सर्वथा विच्युतीभूतं भवति । तद् अनु तद्-अनन्तरं तस्य स्मृतिः पूर्वापरानुसन्धानं नश्यति ॥३७॥

———————————————————————————————————————

॥ ११.२२.३८ ॥

विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः ।
जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : विषयाभिनिवेशेन उत्तर-देहाभिनिवेशेन पूर्व-देहास्मरणं यत् तन् मृत्युः ॥३९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किं ? अत आह—विषयेति । कर्मोपस्थापित-देवादि-देहात्यन्ताभिनिवेशेन आत्मानं पूर्व-देहं पुनर् न स्मरेद् इति यत्, सैव यातना-देहाभिनिवेशेन भय-शोकादेर् देवादि-देहाभिनिवेशेन वा हर्ष-तर्षादेर् हेतोः पूर्व-देहेऽत्यन्त-विस्मृतिर् अहङ्कार-निवृत्तिस् तद्-अभिमानिनो जन्तोर् जीवस्य मृत्युर् उच्यते, न तु देहवन् नाशः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किं ? अत आह—विषयेति । कर्मोपस्थापितेषु देवादि-देहेषु यातना-देहेषु वा अत्यन्ताभिनिवेशेन आत्मानं पूर्व-देहं पुनर् मनो न स्मरेद् इति यत्, स मृत्युः स्थूल-देह-वियोगः । अत्यन्ता आत्यन्तिकी पूर्व-देह-विषया विस्मृतिर् यतः सः । कस्यचिद् धेतोः प्रारब्ध-कर्म-समाप्तेर् इत्य् अर्थः ॥३९॥

———————————————————————————————————————

॥ ११.२२.४० ॥

जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द ।
विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्म तु विषयस्य देहस्यात्मतया स्वी-कृतिम् अभिमानं प्राहुः, न तु देहवद्-उत्पत्तिः । न च पुत्रादि-देहवत्-प्रीत्य्-अतिशय-मात्रेण किन्तु सर्व-भावेनाभेदेन । अभिमान-मात्रेणोत्पत्ति-मरणयोर् दृष्टान्त-द्वयम्, यथा स्वप्नश् च मनो-रथश् चेत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्म त्व् इति । विषयस्य कर्मोपस्थापित-देहस्य सर्व-भावेन आत्मतया स्वी-कृतिम् आत्यन्तिकम् अभिमानम् एव जन्म प्राहुः । अभिमान-मात्रेणोत्पत्ति-मरणयोर् दृष्टान्त-द्वयम्—यथा स्वप्नश् च मनो-रथश् च । सर्वोऽपि द्वन्द्वो विभाषयैकवद् भवतीत्य् एक-वचनम् ॥४०॥

———————————————————————————————————————

॥ ११.२२.४१ ॥

स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ ।
तत्र पूर्वम् इवात्मानम् अपूर्वं चानुपश्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्टान्तौ विवृणोति—स्वप्नम् इति । तत्र वर्तमाने स्वप्नादौ । पूर्वं चेति अपूर्वम् इवेति चान्वयः । पूर्व-सिद्धम् अप्य् आत्मानम् अपूर्वम् इवाद्य जातम् इव पश्यतीत्य् अर्थः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वप्नम् इति तैः । तत्र पूर्वं च इत्य् आदौ पूर्वं चापूर्वम् इवेत्य् अन्वयः इत्य् एव वक्तव्यम् ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्टान्तौ विवृणोति—स्वप्नम् इति । वर्तमान-देह-स्थो जीवो यथा प्राक्तनं स्थूल-देहं न स्मरति, इत्थम् एव वर्तमान-स्वप्न-स्थो मनोरथ-स्थो वा जीवः प्राक्तनं स्वप्नं मनोरथं वा न स्मरति । कश्चित् कदाचित् जाति-स्मरश् च पूर्व-देहं स्मरतीति न सर्वथा नियमः । किं च, तत्र वर्तमान-देह-स्थो जीवः पूर्व-सिद्धम् एवात्मानम् अपूर्वम् इव अनुपश्यति । अहं षाड्वार्षिक इति साप्तवर्षिक इति इतः-पूर्वम् अहं नासम् इति प्रत्क्षणम् आत्मानं जानातीत्य् अर्थः ॥४१॥

———————————————————————————————————————

॥ ११.२२.४२ ॥

इन्द्रियायन-सृष्ट्येदं त्रैविध्यं भाति वस्तुनि ।
बहिर्-अन्तर्-भिदा-हेतुर् जनोऽसज्-जन-कृद् यथा ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : ईदृशं वर्तमानम् आय एष्यत् सः अतीत इति त्रैविध्यं भाति विज्ञाय वस्तुनि विज्ञाते सति दीर्घ-लोपः, यत्रात इतिवत् । क्षैप्रे दीर्घ-लोप इति सूत्रात् । अयम् एवात्मात्मनोर् विशेष-हेतुः । यथा प्रायः सज्जनोऽसज्जनम् एव जनयतीति । पितृ-दौरात्म्य-ज्ञानात् पुत्र-दौरात्म्यं ज्ञायते । एवम् अनित्यत्वाद् अनात्मत्वं देहादेर् इत्य् अर्थः ॥४२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—इन्द्रियाणाम् अयनं मनस् तस्य देहान्तराभिनिवेशेन या सृष्टिर् उत्पत्तिः, तया वस्तुन्य् आत्मनि तद्-अभिमानेनेदं त्रैविध्यम् उत्तम-मध्यम-नीचत्वम् असद् एव भातीत्य् अन्वयः । एवं-भूत आत्मा बाह्याभ्यन्तर-भेद-हेतुश् च भवति, बाह्य-विषयानान्तरान् सुखादींश् च पश्यतीत्य् अर्थः । यथा जनो जीवः स्वप्ने बहून् असतो जनान् देहं-कुर्वन् पश्यन् बहु-रूपो भाति, तद्वत् । यद् वा, इदं त्रैविध्यम् अध्यात्मादि-रूपं भाति । असज्-जन-कृद् दुष्ट-पुत्रोत्पादको जनः पिता स्वयं समोऽपि पुत्राभिमानतस् तद्-अरि-मित्रादिषु यथा भेद-हेतुर् भवति, तद्वद् इति । अन्यत् समानम् ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—इन्द्रियायनस्य इन्द्रियाश्रयस्य देहस्य सृष्ट्यैव इदं त्रैविध्यं विश्व-तैजस-प्राज्ञत्वं वस्तुनि जीवे भाति । त्रैविध्यं कीदृशं ? बहिर्-अन्तर्-भिदा हेतुः बहिर्-भिदानां जागरे श्रोत्रादीन्द्रिय-गुण-भेदानां, अन्तर्-भिदानां स्वप्न-सुषुप्त्योर् मनो-बुद्धि-गुण-भेदानां हेतुर् उत्पादकम् । जनो यथा असज्-जन-कृद् अभद्र-पुत्रोत्पादकः । इन्द्रिय-मनो-बुद्धि-गुण-भिदानां तिसृणाम् अप्य् अभद्रत्वात् सङ्गत एव दृष्टान्तः ॥४२॥

———————————————————————————————————————

॥ ११.२२.४३ ॥

नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च ।
कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं लोक-प्रसिद्धौ जन्म-मृत्यू निरूप्य सूक्ष्मावपृष्टाव् अपि तौ वैराग्याय निरूपयति, नित्यदा प्रतिक्षणं भूतानि शरीराणि उत्पद्यन्ते नश्यन्ति च । कालस्याति-सूक्ष्मत्वात् तत् कृतं भवनम् अभवनं वाविवेकिभिर् न लक्ष्यते ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोक-प्रसिद्धौ जन्म-मृत्यू निरूप्य प्रतिक्षण-वर्तिनौ तौ सूक्ष्मौ ।विशेषार्थं निरूपयति—नित्यदा प्रतिक्षणं भूतानि शरीराणि भवन्त्य् उत्पद्यन्ते, न भवन्ति नश्यन्ति च । ननु प्रतिक्षणम् उत्पत्ति-विनाशौ देहानां न लक्ष्यन्ते, तत्राह—अलक्ष्य-वेगेनेति । सूक्ष्मत्वात् काल-वेगो यथा दुर्लक्ष्यः, तथा तत्-काल-कृताव् उत्पत्ति-विनाशाव् अपि न लक्ष्याव् इत्य् अर्थः ॥४३॥

———————————————————————————————————————

॥ ११.२२.४४ ॥

यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः ।
तथैव सर्व-भूतानां वयो-\ऽवस्थादयः कृताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सतोर् जन्म-मरणयोर् ज्ञाने कारणम् एतद् भवेत् सत्त्वम् एव तयोः कुत इत्य् आशङ्क्यानुमानेन साधयति—यथेति । अर्चिषां परिणामादिभिः स्रोतसां गत्य्-आदिभिः फलानां रूपादिभिर् यथावस्था-विशेषाः कृताः कालेनेति पूर्वस्यानुषङ्गः । आदि-शब्देन तेजो-बल-काम-कौशलादीनाम् उपादानम् । विमतं प्रतिक्षणोत्पत्ति-विनाशवत्, अवस्थाभेदवत्त्वात्, दीप-ज्वालादि-वद् इत्य् अनुमानम् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्पत्ति-विनाशयोर् अलक्ष्यत्वेऽपि ताव् अवस्थादिभिर् एवानुमीयेते इति स-दृष्टान्तम् आह—यथेति । अर्चिषां परिणामादिभिः स्रोतसां गत्य्-आदिभिः, फलानां रूपादिभिर् यथावस्था-विशेषाः कृताः, कालेनेति पूर्वस्यानुषङ्गः । तथैव भूतानां वयोऽवस्थादयः कौमार्याद्य्-अवस्थादयः । आदि-शब्देन तेजो-बल-काम-कौशलानि ग्राह्याणि । भूतानि प्रतिक्षणोत्पत्ति-विनाशवन्ति, अवस्थाभेदवत्त्वात्, दीप-ज्वालादि-वद् इत्य् अनुमानम् ॥४४॥

———————————————————————————————————————

॥ ११.२२.४५ ॥

सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।
सोऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : सोऽयम् एवेति मृषा ।

स चायम् इति तु ज्ञानं न मृषायं स एव तु । > इति ज्ञानं मृषैव स्याद् भेदाभेदौ यतस् तयोः ॥ > अभेद एव जीवस्य नित्यं प्रत्येकशः पृथक् । > दीप-देह-नदीवारि-फलादीनां पृथक् स्वतः ॥ > भेदाभेदौ परिज्ञेयौ कार्य-कारणयोर् अपि । > गुणस्य गुणिनश् चैव जाति-व्यक्त्योस् तथैव च ॥ > तथावयव्यवयवयोः क्रियायास् तद्वतस् तथा । > एवं जनेषु नियमश् चिद्-रूपेष्व् अभिदैव तु ॥ इति च । > ये धर्मा नियमे नैव धर्मिणो न वियोगिनः । > जडस्था अप्य् अभिन्नास् ते भिनाभिन्ना वियोगिनः ॥ इति च ॥४५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्हि प्रत्यभिज्ञा तद्वद् एव सादृश्यावलम्बिनी ? इत्य् आह—सोऽयम् इति । सादृश्याद् अर्चिषाम् एव यथा सोऽयं दीप इति प्रत्यभिज्ञा, यथा च स्रोतसां प्रवाह-जलानाम् एव । तद् इदं जलम् इति, तथा सोऽयं पुमान् इति धीर् गीश् च मृषा नृणां बहूनां शरीरिणां मृषा व्यर्थम् आयुर् येषाम् अविवेकिनां तेषां भवति ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्यभिज्ञा तु सादृश्य् आलम्बिनी स्याद् एव ? इत्य् आह—सोऽयम् इति । अर्चिषां क्षण-मात्र एव सहस्रशः उद्भूयोद्भूय लयं गतानां ज्योतिः-किरणानां पुञ्ज एव क्षणान्तरे सोऽयं दीप इति । स्रोतसां स्रोतो-युक्त-जलानां क्षण-मात्र एव क्रमशो दूर-गतत्वेऽपि क्षणान्तरेऽपि तद् इदं जलम् इति, प्रतीतिर् यथा तथैव कौमारे दृष्टो यौवनेऽपि सोऽयं पुमान् इति, तेन तत्राभेदालम्बिनी धीर् ज्ञानं, धीर् वाक् च, मृषा अविवेक-विजृम्भितेत्य् अर्थः । मृषा एतादृग् विवेक-व्याप्तम् आयुर् येषां तेषाम् ॥४५॥

———————————————————————————————————————

॥ ११.२२.४६ ॥

मा स्वस्य कर्म-बीजेन जायते सोऽप्य् अयं पुमान् ।
म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथं देहाध्यासवतः पुंसः कर्म-जन्म-मरणानि सन्ति, नान्यस्येति व्यवस्था न हि घटते, घटस्य पुरुष-भेदेन सत्त्वम् असत्त्वं चेति ? न । अज्ञस्यापि वस्तुतस् तद् अभावाद् इत्य् आह—मा स्वस्य नैवात्मनः कर्मणा बीज-भूतेन । सोऽप्य् अज्ञोऽपि पुमान् जायते म्रियते व किन्त्व् अयं भ्रान्त्या अजन्मापि जायत इवामरोऽपि म्रियत इव । यथा महा-भूत-तेजो-रूपोऽग्निर् आकल्पान्तम् अवस्थितोऽपि दारु-योग-वियोगाभ्यां जन्म-नाशौ प्राप्नोति तद्वत् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मा स्वस्येति तैः तत्र तदभावाद् इति रज्जुसर्पवत् सत्त्वाभावाद् इत्य् अर्थः ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्तुतस् तूपाधि-सम्बन्धेनैव जीवस्य जन्म-मृत्युस् त इत्य् आह—मेति । स्वस्य कर्म-रूपेण बीजेन अयं पुमान् जीवः मा जायते मा म्रियते च, किन्त्व् अयं भ्रान्त्या अजन्मापि जायते, अमरोऽपि म्रियते ।यथा महा-भूत-तेजो-रूपोऽग्निर् आकल्पान्तम् अवस्थितोऽपि दारु-योग-वियोगाभ्यां जन्म-नाशौ प्राप्नोति तद्वत् ॥४६॥

———————————————————————————————————————

॥ ११.२२.४७ ॥

निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् ।
वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिद्धवत् कृत्योक्ता वयोऽवस्थाः प्रपञ्चयति—निषेको जठरे प्रवेशः । गर्भस् तन्-मध्ये वृद्धिः । बाल्यं शिशुत्वम् आ पञ्चमाब्दात् । कौमारम् आ षोडशाद् वर्षात् । ततो यौवनम् आ पञ्चाशत् । ततो वयो-मध्यम् आ षष्टि-वर्षात् ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत्-सम्बन्धाद् एव जीवोऽवस्थावान् उच्यते, तस्यास् तनोर् अवस्था गणयति—निषेको जठरे प्रवेशः, गर्भस् तन्-मध्ये वृद्धिः, [जन्म] मातृ-जठरान् निष्क्रमः । बाल्यम् आ-पञ्चमाब्दात्, कौमारं पौगण्ड-कैशोरात्वकम् आ-षोडशाद् वर्षात्, ततो यौवनम् आ-पञ्चचत्वारिंशतः, ततो वयो-मध्यम् आ-षष्टि-वर्षात्, ततो यावज्-जीवनं जरैव, ततो मृत्युर् इति ॥४७॥

———————————————————————————————————————

॥ ११.२२.४८ ॥

एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः ।
गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : देह-सम्बन्धाज् जन्म-मरणादीनीत्य् उपपादितम् अर्थम् उपसंहरति—एता इति । हि स्फुटम् । अन्यस्य देहस्य । तनूर् अवस्थाः । गुण-सङ्गात् प्रकृत्य्-अविवेकात् । कश्चित् परमेश्वरानुग्रहतः क्वचित् कथञ्चिज् जहाति । अवस्थवतो देहस्य द्रष्टा नासाव् अवस्थावान् इति विवेक-ज्ञानेन ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-सम्बन्धाज् जन्म-मरणादीनीत्य् उपपादितम् अर्थम् उपसंहरति—एता इति । हि स्पष्टम् । मनोरथ-मयीः कर्म-प्रापित-मनो-ध्यान-प्राप्ताः, अन्यस्य देहस्य । तनूर् अवस्थाः । गुण-सङ्गाद् अविद्या-हेतुकात् । उपादत्ते कश्चिद् भगवद्-अनुगृहीतो जहाति च ॥४८॥

———————————————————————————————————————

॥ ११.२२.४९ ॥

आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ ।
न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभिज्ञा-द्वय-लक्षणौ अभिमान-मात्रौ ॥४९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तदानीं मूर्च्छितत्वेन जन्म-मरण-वान् देहो न दृश्यते ? तत्राह—आत्मन इति । पितृ-देहस्यौर्ध्व-देहिकं कुर्वताप्यय-दर्शनात्, पुत्र-देहस्य च जात-कर्मणि जन्म-दर्शनाद् आत्मनः स्वस्य देहस्यापि भवाप्ययाव् अनुमेयौ । एवं च दृश्यत्वे सति भवाप्ययवतां वस्तूनां देहानाम् अभिज्ञो द्रष्टा द्वय-लक्षणो भवाप्यय-धर्मको न भवति ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु देहस्यैता अवस्था देहिनां दृश्यन्ते एव, किन्तु निषेक-गर्भ-जन्म-मरणानि न दृश्यन्ते ? तत्राह—आत्मन इति । पितृ-देहस्यौर्ध्व-देहिकं कर्म कुर्वताप्यय-दर्शनात्, पुत्र-देहस्य च जात-कर्मणि जन्म-दर्शनात्, आत्मनः स्व-देहस्यापि भवाप्ययाव् अनुमेयौ । अत्र भव-शब्देन निषेक-गर्भ-जन्मान्य् उपलक्षितानि । एवं च दृश्यत्वे सति भवाप्ययवतां वस्तूनां देहानाम् अभिज्ञो द्रष्टा द्वय-लक्षणो देह-लक्षणवान् न भवति ॥४९॥

———————————————————————————————————————

॥ ११.२२.५० ॥

तरोर् बीज-विपाकाभ्यां यो विद्वाञ् जन्म-संयमौ ।
तरो विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : तरोर् बीज-विपाक-दृष्टान्तेन विद्वान् देहाभिमानं त्यक्त्वा संयमं याति ।

परमात्मनश् च भेदं जानाति प्रकृत्य्-आदेः । > बीजाद्य्-अवस्था संयुक्ताद् वृक्षाद् दृष्टा यथा पृथक् । > एवं विकारिणोर् विष्णुर् जीवश् च पृथग् एव तु ॥ इति च ॥५०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव दृष्टान्तेन स्पष्टयति—तरोर् इति । तरु-शब्दो नोद्भिज्ज-मात्रस्योपलक्षणं, किन्तु फल-पाकान्तस्य व्रीह्य्-आदेर् इत्य् अर्थः । यद् वा, तरोर् एवान्त्यः परिणामो विपाकः । बीजाज् जन्म विपाकात् संयमं नाशं च विद्वान् । द्रष्टा तरु-द्रष्टा । एवं तनोर् द्रष्टा ततः पृथक् । अतस् तत्र वर्तमानोऽपि भवाप्ययाभ्यां न सम्बध्यते ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव दृष्टान्तेन स्पष्टयति—तरोर् इति । तरु-शब्देनोद्भिज्ज-मात्रम् उच्यते । ततो लक्षणया फल-पाकान्तस्य व्रीह्य्-आदेर् इत्य्-आदि । बीजाज् जन्म-विपाकात् संयमं नाशं च विद्वान् ॥५०॥

———————————————————————————————————————

॥ ११.२२.५१ ॥

प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् ।
तत्त्वेन स्पर्श-सम्मूढः संसारं प्रतिपद्यते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविवेकिनः संसारं प्रपञ्चयति—प्रकृतेर् इति पञ्चभिः । तत्त्वेन तत्त्व-दृष्ट्या, स्पर्शेषु विषयेषु संमूढ इति वा ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविवेकिनः संसारं प्रपञ्चयति—प्रकृतेर् उपाधेः सकाशात् आत्मानं स्वं स्पर्श-संमूढः विषयाविष्टः ॥५१॥

———————————————————————————————————————

॥ ११.२२.५२ ॥

सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् ।
तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-भेदेन त्रि-विधं, तत्रापि च तत् तारतम्येनैकैकत्र द्वि-विधं संसारम् आह—सत्त्वेति ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२२.५३ ॥

नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।
एवं बुद्धि-गुणान् पश्यन्न् अनीहोऽप्य् अनुकार्यते ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : दुःख-शोकादयः सर्वे ज्ञेया बुद्धि-गुणा इति ।

सुख-ज्ञाने तु जीवस्य भक्तिः स्नेहस् तथैव च । > विपर्ययेणासुराणां जीव-बुद्धि-गुणा इति ॥ इति च । > आत्मनोऽपि गुणा बुद्धि-कृत-बुद्धि-गुणा इति । > उच्यन्ते सुख-दुःख्य्-आद्यः परमात्म-कृता यथा ॥ इति त्रैलोक्ये > ॥५३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अकर्तुर् आत्मनः कुतः कर्मभिर् भ्रमणं ? अत्राह—नृत्यतो गायतो जनान् पश्यन्न् अनुकरोति । तद् गत-स्वर-तालादि-गतिं शृङ्गार-करुणादि-रसं च मनस्य् अनुवर्तयतीत्य् अर्थः । अनुकार्यते गुणैर् बलाद् इत्य् अर्थः । अनेन दृष्टान्तेन दृश्य-धर्मो द्रष्टरि स्फुरतीति दर्शितम् ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रष्टुर् जीवस्य दृश्यात् पार्थक्येऽपि दृश्य-धर्म-ग्रहणे दृष्टान्तम् आह—नृत्यतो गायतो जनान् प्अश्यन् बालो यथा अनुकरोति । तद्-गत-स्वर-तालादि-गतिं शृङ्गारादि-रसं च मनस्य् अनुवर्तयतीत्य् अर्थः । अनुकार्यते गुणैर् बला इत्य् अर्थः ॥५३॥

———————————————————————————————————————

॥ ११.२२.५४-५५ ॥

यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥**

यथा मनोरथ-धियो विषयानुभवो मृषा ।
स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : अल्प-प्रयोजनं यत् तन् मृषेत्य् एव तद् उच्यते इति शब्द-निर्णये । आत्मनः स्वत एव दुःखाद्याः सुखादिवद् इति मिथ्या-बुद्धिर् इति वा ॥५५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : उपाधि-धर्माश् चोपहितेऽवभासन्ते इत्य् अत्र दृष्टान्तम् आह—यथाम्भसेति । तट-स्थास् तरवो धावन्त इव दृश्यन्ते जले प्रतिबिम्बिता व चञ्चला इवेति । विषय-ग्राहकेण मनसा परिकल्पिता एव तेषु लावण्यादयो गुणा न वस्तुतः सन्ति, अतो मनो-विबन्धन एव संसार इत्य् अभिप्रेत्य ग्राहक-गुणा ग्राह्येऽवभासन्त इत्य् अत्र दृष्टान्तम् आह—चक्षुषेति ॥५४॥

भोगस्यापि मिथ्यात्वे दृष्टान्त-द्वयम् आह—यथेति । यथा एताः प्रसिद्ध मनो-रथ-धियः स्वप्न-दृष्टाश् च धियो मृषा एवम् आत्मनो विषयानुभवः संसारो मृषा ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्य-धर्मा अन्यत्रावभासन्त इत्य् अत्र दृष्टान्तम् आह—यथेति । अम्भसा प्रचलतेव तत्र नौकारूढैर् जनैस् तत्-तीर-स्थास् तरवो यथा चला इव दृश्यन्ते, एवं कर्तृत्व-भोक्तृत्वादय उपाधि-धर्मा एव तद्-ग्राह्ये जीवे सर्व-भूताद्य्-आविष्टत्वात् सर्पादि-ग्राह्ये मनुष्ये सर्पादि-धर्मा इवावभासन्ते, इत्य् अत्र दृष्टान्तम् आह—चक्षुषेति ॥५४॥

तद् एवं विषय-भोगो उपाधि-धर्मा एव जीवे मृषा प्रतीता इत्य् अत्र दृष्टान्तम् आह—यथेति । विषयानुभवो विषय-भोगः संसारः संसार-बद्धः ॥५५॥

———————————————————————————————————————

॥ ११.२२.५६ ॥

अर्थे ह्य् अविद्यमानेऽपि संसृतिर् न निवर्तते ।
ध्यायतो विषयान् अस्य स्वप्नेऽनर्थागमो यथा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि मृषा तर्हि किं तन् निवृत्ति-श्रमेणात आह—अर्थे हीति । अस्यात्मनः ॥५६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् उद्धव मा भुङ्क्ष्वेति स्फुटम् एव तम् उपलक्ष्यान्यान् प्रत्युपदेशो व्यज्यते—नोद्धवोऽण्व् अपि मन्-न्यून इत्य्-आदि-श्री-भगवन्-मनो-वृत्तेः ॥५६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संसार-बद्धस्य मिथ्यात्वेऽपि तद्-उत्थं दुःखं न निवर्तत इत्य् आह—अर्थे उपाधि-सम्बन्धे अविद्यमाने अवस्तु-भूतेऽपि संसृतिं संसार-सम्बन्धोत्थं दुःखं न निवर्तते । कस्य ? विषयान् भोग-बुद्ध्या ध्यायतोऽस्य जीवस्य अवस्तु-भूतस्यापि दुःख-दत्वे दृष्टान्तः । स्वप्नेऽनर्थागमः सर्पादि-दंशः ॥५६॥

———————————————————————————————————————

॥ ११.२२.५७ ॥

तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः ।
आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो भोगोद्यमो न कर्तव्य इत्य् आह—तस्माद् इति ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् भोग-बुद्ध्या विषय-ध्यानम् अनर्थ-हेतुस् तस्मात् त्वं तं त्यजेत्य् आह—तस्माद् इति । विकल्पाद् देहाध्यासाद् उद्भूतं भ्रमम् अज्ञानं पश्य कीदृशं ? आत्मनो जीवस्य अग्रहणम् अप्राप्तिस् तत्र निर्भातं विराजमानं तद्-अतिसाधकम् इत्य् अर्थः ॥५७॥

———————————————————————————————————————

॥ ११.२२.५८ ॥

क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा ।
ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुःख-प्रतीकारोद्यमम् अपि परित्यज्य परमेश्वर-निष्ठेनेव भाव्यम् इत्य् आह—क्षिप्त इति द्वाभ्याम् । क्षिप्त आक्षिप्तो नुन्न इति वा । प्रलब्ध उपहसितः ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषय-भोग-रहितः कीदृशस् तिष्ठेयं ? इत्य् अपेक्षायाम् आह—क्षिप्त इति द्वाभ्याम् । क्षिप्त आक्षिप्तः बहिर् निःसारितो वा प्रलब्ध उपहसितः । असूयितः दोषारोप-विषयीकृतः वृत्त्या जीविकया रहितीकृतः ॥५८॥

———————————————————————————————————————

॥ ११.२२.५९ ॥

निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः ।
श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्ठितो निष्ठीवनविषयी-कृतः, मूतो मूत्रेणार्द्री-कृतः, प्रकम्पितः परमेश्वर-निष्ठातः प्रच्यवितोऽपि, कृच्छ्र-गतः कृच्छ्रं प्राप्तोऽपि ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न इत्य् एकत्वे बहु-वचनम् अस्मदो द्वयोश् च इति सूत्रात् । पूर्व हि विविक्त उपसङ्गम्य इत्य्-आदिना निर्जन एव संवादोऽयम् इति व्यञ्जितम् । अत्रैव चानुबुध्येयेत्य् एक-वचनान्त एव लिङ्-प्रयोग इति ॥५९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्ठ्युतः निष्ठीवन-क्षेपण-पात्रीकृतः ॥५९॥

———————————————————————————————————————

॥ ११.२२.६० ॥

श्री-उद्धव उवाच—

यथैवम् अनुबुध्येयं वद नो वदतां वर ।
सु-दुःसहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तद् उक्तं यथा अनुबुध्येयं तथा नोऽस्मान् सर्वान् प्रति वद ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ऋते त्वद्-धर्म-निरतानिति ये त्वच्-छ्रवण-कीर्तनादि-तत्-परास् तेष्व् अस्माकं न विस्मयः । अतस् ते तु भवता नात्रोदाहार्याः, किन्त्व् अन्य एवेति भावः ॥६०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा अनुबुध्येयं तत्-तत्-सहने यथा विवेकः प्राप्नुयाम् एवं वद ॥६०॥

———————————————————————————————————————

॥ ११.२२.६१ ॥

विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी ।
ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-धर्म-निरतान् ऋते विदुषाम् अप्य् असद्भिः कृतम् अतिक्रमम् अपराघं सु-दुःसहं मन्य इत्य् अन्वयः । प्रकृतिः स्वभावः ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदुषाम् असद्-अतिक्रम-सहने उपायं जानताम् अपि प्रकृतिर् अमर्षात्मकः स्वभावः । त्वद्-धर्म-निरतान् त्वद्-भक्तान् विनेति तेषां त्वत्-साधर्म्य-प्राप्त्या प्रकृतिर् अकोपनैवेत्य् आह—शान्तान् तत्र हेतुस् त्वच्-चरण-निवासान् ॥६१॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > उद्धव-भगवत्-संवादे > द्वाविंशोऽध्यायः ।

॥११.२२॥



  1. सन्दर्भेऽत्र द्वौ श्लोकौ विभज्येते । ↩︎

  2. लीयते इति क्वचित्। ↩︎

  3. स चेत्य् आदितः ज्ञातव्य इति पर्यन्तं मुद्रितादर्श-गतो भागोऽत्रानुपयुक्तत्वात् प्राचीन-पुस्तकेष्व् अनुपलम्भाच् च प्रक्षिप्त इति प्रतीयते इति पाद-टीका । ↩︎

  4. इत्य् अधिकम् । ↩︎