२१ श्री-भगवद्-उद्धव-संवादे गुण-दोष-व्यवस्था-स्वरूपः

॥ ११.२१.१ ॥

श्री-भगवान् उवाच—

य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् ।

क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

जयति स्व-परानन्दः परानन्द-नृ-केसरी ।

यत् कृपा-लव-लेशेन श्रीधरः सत्-कृतिः कृती ॥

ईक्षन्ताम् इच्छया सन्तः क्षमन्तां मम साहसम् ।

मया हि स्वीय-बोधाय कृतम् एतन् न सर्वतः ॥

एक-विंशे क्रिया-ज्ञान- भक्तिष्व् अनधिकारिणाम् ।

कामिनां द्रव्य-देशादि-गुण-दोषाः प्रपञ्चिताः ॥

तद् एवं गुण-दोष-व्यवस्थार्थं योग-त्रयम् उक्तम् । तत्र ज्ञान-भक्ति-सिद्धानां न किञ्चिद् गुण-दोषौ, साधकानां तु प्रथमतो निवृत्ति-कर्म-निष्ठानां यथा-शक्ति नित्य-नैमित्तिकं कर्म सत्त्व-शोधकत्वाद् गुणः । तद्-अकरणं निषिद्ध-करणं च तन्-मलीमस-करणत्वाद् दोषः । तन्-निवर्तकत्वाच् च प्रायश्चित्तं गुणः । विशुद्ध-सत्त्वानां तु ज्ञान-निष्ठानां ज्ञानाभ्यास एव सिद्धि-हेतुत्वाद् गुणः । भक्ति-निष्ठानां पुनः श्रवण-कीर्तनादि-भक्तिर् एव गुणः । तद्-विरुद्धं सर्वम् उभयेषां दोष इत्य् उक्तम् । इदानीं ये तु न सिद्धाः, नापि साधकाः, किन्तु केवलं काम्य-कर्म-प्रधणास् तेषां सकल-गुण-दोषान् प्रपञ्चयिष्यन्न् आदौ तान् अति-बहिर्-मुखान् निन्दति—य एतान् इति । मत्-पथो मद्-उक्त-मार्गान् क्षुद्रांस् तुच्छांश् चलैर् अस्थिरैः प्राणैर् देह-वायुभिर् इन्द्रियैर् वा जुषन्तः सेवमाना भवन्ति ते संसरन्ति । निखिल-गुण-दोष-भाक्त्वेन नाना-योनीः प्राप्नुवन्तीत्य् अर्थः ॥१॥


कैवल्य-दीपिका : एवम् अधिकारि-भेदं निरूप्य भक्ति-हीनान् निन्दति—य एतान् इति । मत्-पथः मत्-प्राप्त्य्-उपायान् । भक्तीति श्रद्धाया भक्तिः । ज्ञानेति ज्ञान-मिश्रायाः । ज्ञान-क्रिया इति कर्म-मिश्राया ज्ञान-क्रियेति । समस्तेन कर्म-ज्ञान-मिश्रायाः क्षुद्रास् तुच्छाः कामा विषयाः । जुषन्तः सेवमानाः । संसरन्ति संसरणं जन्म-मृत्यु-दुःखानुभवः ॥१॥ [मु।फ। ५.१९]


जीव-गोस्वामी (क्रम-सन्दर्भः) : च एतान् इति तैः । तत्र साधकानाम् अजात-वैराग्य-श्रद्धानां विशुद्ध-सत्त्वानां जात-वैराग्याणं, भक्ति-निष्ठानां जात-श्रद्धानाम् । न सिद्धाः, अजात-वैराग्य-श्रद्धाः, नापि साधका निष्कामा अपि नेति विवेक्तव्यम् । मूले तु क्रिया ज्ञान-भक्ति-सम्पादकत्वेन रचितान् पूर्वोक्तान् कामान् ऐहिकान् पारलोकिकान् वा ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

गुण-दोष-दृशिर् भूम्ना प्रोक्ता कर्माधिकारिषु ।

एक-विंशे तत्-प्रपञ्चः श्रुत्य्-अर्थश् च विनिश्चितः ॥

स-काम-कर्मिणो निन्दति य एतान् इति । मत्-पथः समासान्ताभाव आर्षः । मत्-प्रापक-मार्गान् भक्तिः साक्षान्-मत्-प्रापिका, ज्ञानं मम निर्विशेष-रूप-प्रापकः, कार्या निष्काम-कर्म-परम्परया तत्-प्रापकम् । क्षुद्रान् स्वर्ग-राज्यादीन् ॥१॥

———————————————————————————————————————

॥ ११.२१.२ ॥

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तैर् एव कर्मभिः केचिद् गुण-दोष-भाजः केचिन् नेति कुतो वैषम्यं ? न ह्य् अग्निना केचित् तप्यन्ते केचिन् नेति सम्भवति । तत्राह—स्वे स्व इति । अधिकार-भेदेन कल्पितौ गुण-दोषौ न वस्तु-निष्ठाव् इति भावः ॥२॥


कैवल्य-दीपिका : भजमानेष्व् अपि स्वाधिकार-प्राप्त-भूमिका-त्यागेन भूमिकोत्तराधिष्ठाने दोषम् आह—स्वे स्व इति । उभौ गुण-दोषौ ॥२॥ [मु।फ। ५.२०]

[वोपदेवः] एवं सति कर्म-मिश्रा एव गृहस्थानाम् । कर्म-ज्ञान-मिश्रास् तिस्रो वनस्थानाम् । ज्ञान-मिश्रैका भिक्षूणाम् । शुद्धैका सर्वेषाम् । उत्पन्नेऽनुरागे उत्पाद्येऽनु यथा-सम्मिश्राः । अविहिताश् चतस्रो गोप्यादि-तुल्यानाम् । एवम् अष्टादश-भेदाः ॥ इति श्री-वोपदेव-कृते मुक्ताफले भक्तेर् अधिकारि-भेद-निर्णयो नाम पञ्चमोऽध्यायः ॥

[हेमाद्रिः] अथाधिकारि-प्रघट्टार्थं सुख-ग्रहणाय स्पष्टयति—एवम् इति । एवम् अधिकारि-निर्णये सति तत्रापि प्रकृत्यानुरूपेण सात्त्विक्य्-आदि-विभागः स्वयम् ऊह्यः । गृहस्थेष्व् अपि निष्काम-कर्मणां कर्म-ज्ञान-मिश्रैव विदेह-याज्ञवल्क्यादयो ह्य् अत्र निदर्शनम् । भिक्षवोऽत्र परमहंसाः । अन्येषां नैष्ठिक-ब्रह्मचारिणां च कर्म-ज्ञान-मिश्रैव । शुद्धेति—पूर्व-पूर्व-भक्त्य्-अभ्यास-बलात् रजस्-तमः-क्षये विशुद्धोर्जिते सत्त्वोद्बले चेतसि भगवत्य् अनुरागोदये प्रयत्नम् अन्तरेण शुद्धा भक्तिर् आविर्भवतीत्य् अभिप्रेत्याह—उत्पन्ने तु राग इत्य्-आदि । ततः परम-दूर-विप्रकृष्टा मुक्तिः । गोप्य्-आदि-तुल्यानाम् इति । भगवति प्रभूत-काम-द्वेष-भय-स्नेहासक्तानाम् अन्येषाम् इत्य् अर्थः । तद् एवं मिश्रास् त्रयोदश । शुद्धैका । अविहिताश् चतस्रः । इत्य् अभिप्रेत्य भक्त्य्-अष्टादश-भेदया इति प्राग् उक्तम् इत्य् आशयवान् उपसंहरति एवम् इत्य्-उक्त-प्रकारेण ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र व्यवहारिकयोर् गुण-दोषयोर् विधानार्थम् अधिकारि-मात्रस्य पूर्वानुवादेनैव गुण-दोषौ लक्षयति—स्वे स्व इति । अधिकारे कामित्व-निष्कामत्व-वैराग्य-श्रद्धाभिर् यथायोग्यतया अधिक्रियमाणे योग-विशेषे उभयोर् व्यवहारिक-पारमाथिकाधिकारिणोः, किन्तु पूर्वत्र गुणत्वं कल्पितम् उत्तरत्र तु सिद्धम् एवेति भावः। अत्र ज्ञान-कर्मणोर् भक्त्य्-अंशं विना सिद्ध्य्-अभावेन तन्-मिश्रित-विहितत्वात् । न तेन तत्र तत्र निष्ठा-च्युतिः, किन्तु सर्व-निरपेक्षतया सर्व-साधिकायां भक्ताव् एव तत्-तद्-अंश-मिश्रत्वे कृते निष्ठा-च्युतिः स्याद् इति गम्यते ।

तद् एवं भक्य्-अंश-सहाया कर्म-निष्ठा कर्मठे गुणस् तथा ज्ञान-निष्ठा ज्ञानिनि ततोऽपि गुणः निष्किञ्चन-भक्ति-निष्ठा तु भक्तेः सर्वोत्कृष्टो गुणः, किम् उत तत्-साध्या प्रेम-लक्षणा भक्तिर् इति पूर्ववद् एव प्राप्तम् । एवम् एतद्-विपर्ययो न्यूनेऽधिके वाधिकारे प्रवेशो दोषः । न्यूने पूर्व-हानेः अधिके परा-सिद्धेश् चेत्य् अर्थः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मया को गुणः को दोष इति त्वं पृष्टस् त्वया च मद्-भक्तेषु गुण-दोष-दृशिर् दोषस् तद्-अभावो गुणः इति प्रत्युक्तम् । तत्राहम् इदम् आशङ्के—यदि कश्चित् त्वत्-कथादौ श्रद्धालुः शुद्ध-भक्त्य्-अधिकारी, प्रतिष्ठितैः कर्मिभिर् ज्ञानिभिर् वा युक्त्या दैवाद् वशीकृतस् तद्-अनुगत एव सन् औषध-पान-न्यायेनारोचकम् अपि कर्म करोति ज्ञानं वाभ्यस्यति, तदा तस्मिन् भक्ते किं गुण-दोष-दृशिर् दोषः किं तद्-अभाव एव गुणः ।

किं च, यदि कश्चिद् अप्राप्त-महत्-कृपत्वाद्-भक्ताव् अजात-सम्यक्-श्रद्धः, कर्मी, ज्ञानी वा, भक्तोत्कर्षं दृष्ट्वा तादृश-निजोत्कर्ष-कामनयैव स्वाधिकार-प्राप्तानि कृत्यानि त्यक्त्वा तद्वद् एव भगवन्तं भजन्न् आत्मानं वैष्णवत्वेन ख्यापयति, तदा तस्मिन् दम्भिनि जगद्-वञ्चके किं गुण-दृष्टिः कर्तव्या, न वेति, चेत् सत्यं, शृणु तर्हि गुण-दोषयोर् लक्षणम् इत्य् आह स्वे स्वे इति । ज्ञानिनो ज्ञान एव, कर्मिणः कर्मण्य् एवाधिकारस् तत्रैव निष्ठा निष्ठितत्वं गुणः, किन्तु तयोः स्वतः फल-दानासमर्थयोर् भक्ति-मिश्रत्वेनैवानुष्ठेयत्वम् । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य् आदेर् अन्यथा तु वैफल्यम् एव । शुद्ध-भक्तस्य तु भक्ताव् एव निष्ठा गुणः । तस्यास् तु स्वत एव फल-दान-सामर्थ्यात् । कर्म-ज्ञानाद्य्-अमिश्रत्वेनैवानुष्ठेयत्वम् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् [भा।पु। ११.११.३७] इति, न ज्ञानं न च वैराग्यं [भा।पु। ११.२०.३१] इत्य् आदेर् ज्ञानादि-मिश्रत्वे सति तस्याः शुद्ध-भक्तित्वापगमः स्यात् । विपर्ययः पराधिकारे निष्ठत्वम् । उभयोर् गुण-दोषयोः॥२॥

———————————————————————————————————————

॥ ११.२१.३ ॥

शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु ।

द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विवेकेन पुण्याधिकं भवतीति विचिकित्सार्थं गुण-दोषौ विधीयेते ।

पञ्च-भूतात्मकत्वेन समता सर्व-वस्तुषु ।

हरि-सन्निधि-वैशेष्याद् विशेषश् च महान् सदा ॥ इति वैशेष्ये ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—शुद्ध्य्-अशुद्धी इति । विचिकित्सार्थं योग्यम् अयोग्यं वेति सन्देह-द्वारा स्वाभाविक-प्रवृत्ति-प्रतिबन्धार्थम् इत्य् अर्थः । तत्र शुद्ध्य्-अशुद्धी योग्यत्वायोग्यत्वे । गुण-दोषौ तन्-निमित्तोपादेयत्वानुपादेयत्वे । शुभाशुभौ तन्-निमित्ताव् अर्थानर्थौ ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र व्यावहारिकेष्व् अपि स्वे स्व इत्य् अनुसारेणैव गुण-दोषौ विवृणोति—शुद्ध्य्-अशुद्धीत्य् आदिना । तत्र शुद्धीति सार्धकं टीकायां धर्मार्थम् इति प्रायिकम् एव विचिकित्सा-प्रस्थापनादि-लक्षण-व्यवहारार्थम् अपि तद्-उपयुक्त-द्रव्यादीनां तत्-तच्-छास्त्रे शुद्ध्य्-अशुद्धित्वाशुभत्वाशुभत्व-विधान-दर्शनात् । एवम् उत्तरत्रापि गुण-दोषौ व्यवहारार्थम् इति विनापि शुद्ध्य्-अशुद्धि-व्यवस्थां केवल-व्यवहार्थम् अपि गुण-दोषौ विधीयेते शुभाशुभौ धर्मार्थम् इति विनापि गुण-दोष-व्यवस्थां केवल-वृत्त्य्-अर्थम् अपि तौ विधीयेते इत्य् अर्थः । तस्माद् गुण-दोषाव् इत्य्-आदि-लक्षणे तूपलक्षणे एवेति भावः । अतः शुद्ध्य्-अशुद्ध्य्-आदि-युग्म-त्रिकेण । धर्मार्थत्वादीनां योजना न यथा-सङ्ख्यं, सर्वत्र सर्व-विधान् अदर्शनात् व्यवहारोऽत्र परमार्थ-शास्त्र-मात्रानुगतिः, न तु पूर्ववत् परमार्थेतर-पद्धतिः धर्म-यात्रयोस् तद्-इतरयोः पृथग्-उपादानात् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, गुण-दोषयोः प्रपञ्चो महान् एव । तम् अहं विवृणोमि, शृण्व् इत्य् आह शुद्ध्य्-अशुद्धी इति द्रव्यस्य विचिकित्सा इदं योग्यम् अयोग्यं वेति सन्देहस् तन्-निवर्तनार्थं मशकार्थो धूम इतिवत् । समानेषु उत्तर-श्लोके वक्ष्यमाण्७ भूम्य्-आदिषु । अत एव शाक-मूल-फलादिष्व् अपि वास्तूक-शाकः शुद्धः कलम्बी-शाकोऽशुद्धः इत्य् एवं गुण-दोषौ शुभाशुभौ विधीयेते । तत्र धर्मार्थं शुद्ध्य्-अशुद्धी, शुद्धेन धर्मः, अशुद्धेनाधर्म इति व्यवहारार्थं गुण-दोषौ अशुद्धत्वेऽपि शिष्टानां व्यवहार-दर्शनाद् गुणः शुद्धत्वेऽपि तद्-दर्शनाद् दोषः । यात्रार्थं शुभाशुभौ असत्-प्रतिग्रह-दोषत्वेऽपि आपत्सु शरीर-निर्वाह्-मात्रोपादानं शुभम् एवाधिकोपादानस् त्व् अशुभं पापम् एव ॥३॥

———————————————————————————————————————

॥ ११.२१.४ ॥

धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ ।

दर्शितोऽयं मयाचारो धर्मम् उद्वहतां धुरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र शुद्ध्य्-अशुद्धी धर्मार्थम् । शुद्धेन धर्मः, अशुद्धेनाधर्म इति । गुण-दोषौ व्यवहारार्थम् । अशुद्धाव् अपि राजादीनां व्यवहार-दर्शनाद्य्-उपादेयं नान्यद् इति । शुभाशुभौ यात्रार्थं दोषत्वेऽप्य् आपत्सु शरीर-निर्वाह-मात्रोपादाने न पापम् अधिकोपादाने तु पापम् इति मया मन्व्-आदि-रूपेण । धर्म-रूपां धुरं भारम् । कर्म-जडानाम् इत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दर्शित इत्य् अर्धकम् । धर्मम् उद्वहतां धुरम् इति । मद्-भक्तिम् उद्वहतां त्व् आचारः सुख-मय एवेत्य् अर्थः सुख-स्वरूपया भक्त्यैव प्रवृत्तत्वात् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं धर्म-रूपां धुरं भारम् उद्वहतां जनानां मया मद्-वादि-रूपेण अयम् आचारो दर्शितः ॥४॥

———————————————————————————————————————

॥ ११.२१.५ ॥

भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः ।

आ-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शुद्ध्य्-अशुद्धी प्रपञ्चयिष्यन् वेदोक्तत्वेन तद् अभिनिवेशो मा भूद् इति समानेष्व् अपि वस्तुष्व् इति यद् उक्तं तत् प्रपञ्चयति, भूमीति त्रिभिः । भूतानां प्राणिनाम् । धारयन्तीति धातवः कारणानि । शारीराः शरीरारम्भकाः । देहतः साम्यम् उक्तं जीवतोऽप्य् आह—आत्म-संयुता इति ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-दोष-भिदा दृष्टिर् निगमात् तेन हि स्वतः [भा।पु। ११.२०.५] इति यत् त्वयोक्तं, तत् सत्यम् एव । किन्तु निगमो लोकोपकारक एवेत्य् आह—भूमीति द्वाभ्याम् । धारयन्तीति धातवो भूम्य्-आदयः । एते आ-ब्रह्म-स्थावरादीनां शरीराः शरीरारम्भका इति देहतः साम्यम् उक्तम् आत्मतोऽप्य् आह—आत्मेति ॥५॥

———————————————————————————————————————

॥ ११.२१.६ ॥

वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि ।

धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : धातुः परमेश्वरः ।

यद् यद् धरेः सन्निहितं तत् तच् छुद्धतरं मतम् ।

स्वतः शुचितमो विष्णुः सान्निध्यं च स्वभावतः ॥ इति च ।

एतेषां जीवानाम् ॥६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : धातुषु देहेषु । नाम-रूपाणि वर्णाश्रमादीनि । कल्पनायाः प्रयोजनम् आह—एतेषां प्राणिनां स्वार्थ-सिद्धये प्रवृत्ति-नियम-द्वारा धर्मादि-पुरुषार्थ-सिद्धये ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : समेषु सर्वेषाम् आत्म-संयुतत्वाद् गुणाधिक्याभाववत्सु भौतिकत्वाद् दोषित्वाविशेषेष्व् अपि विषमाणि नामानि ब्राह्मणादीनि रूपाणि उत्तमादित्वेन भिन्नानि निम्ब-भेदे-स्वादुवद् गुण-दोषयोः कल्प्यन्ते, केवलम् उपचर्यन्ते । किम्-अर्थं ? स्वाधिकारानुरूपायाम् एव प्रवृत्तौ जीवानां स्वार्थो धर्मादिः सिद्ध्यति, तेन प्रवृत्ति-सङ्कोचात् । क्रमेण मोक्षश् च सिद्ध्यतीत्य् एतद्-अर्थम् इत्य् अर्थः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं देहेष्व् एव, अपि तु देश-काल-फल-निमित्तादिष्व् अपि इत्य् आह—देश-कालादयो ये भावाः पदार्थाः, तेषां तत्-सम्बन्धिनां वस्तूनां व्रीह्य्-आदीनाम् अपि मम मया नियमार्थः सङ्कोचनार्थम् इत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ ११.२१.७ ॥

देश-कालादि-भावानां वस्तूनां मम सत्तम ।

गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलं देहेष्व् एव, अपि तु देश-कालादि-भावानाम् अपि । आदि-शब्देनानुपादेयानां फल-निमित्ताधिकारिणां ग्रहणम् । वस्तूनाम् उपादेयानां व्रीह्य्-आदीनाम् अपि । मम मया । नियमार्थं सङ्कोचार्थम् इत्य् अर्थः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नियमार्थं व्यवस्थार्थं सङ्कोचार्थं च तद् एतच् च श्री-भगवत्-सम्बन्धं विनैव तत्-सम्बन्धे तु निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६], मन्-निकेतं तु निर्गुणं [भा।पु। ११.२५.२५] इत्य्-आदि वक्ष्यमाणात् प्राकृत-गुणातीत-गुणाश्रयस्य ममेति वेदात्मकेन मयेत्य् अर्थः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं देहेष्व् एव, अपि तु देश-काल-निमित्तादिष्व् अपीत्य् आह—देश-कालादयो ये भावाः पदार्थार्थास् तेषां तत्-सम्बन्धिनां वस्तूनां व्रीह्य्-आदीनाम् अपि । मम मया । नियमार्थं सङ्कोचार्थम् इत्य् अर्थः ॥७॥

———————————————————————————————————————

॥ ११.२१.८ ॥

अकृष्ण-सारो देशानाम् अब्रह्मण्योऽशुचिर् भवेत् ।

कृष्ण-सारोऽप्य् असौवीर- कीकटासंस्कृतेरिणम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नदी-समुद्र-गिरय आश्रमाश् च वनानि च ।

नगराणि च दिव्यानि शालग्रामादयस् तथा ॥

तेषां समीपगाश् चैव देशा योजन-मात्रतः ।

कर्मण्यास् तु समाख्यातास् तद् अन्ये कीकटाः स्मृताः ॥

तद् अन्येऽपि तु ये देशाः कृष्णसारोषिताः स्वतः ।

कर्मण्या एव विज्ञेया यदि नाध्युषिताः खलैः ॥

खलिर् अध्युषिताश् चापि यदि सद्भिर् अधिष्ठिताः ।

कर्मण्या इति विज्ञेया विष्णु-लिङ्गानि यत्र च ॥ इति स्कान्दे ।

आस्तरः सन्निधिर् विष्णोर् बाह्य-सन्निधिर् एव च ।

द्विविधः सन्निधिः प्रोक्तः कृत्रिमो बाह्य उच्यते ।

स्वाभाविकस् त्व् आन्तरः स्यात् प्रतिमा जीवगो यथा ॥ इति च ॥८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं गुण-दोष-विषयं परिशोध्य, तयोः शुद्ध्य्-अशुद्धि-मूलत्वाच् छुद्ध्य्-अशुद्धी प्रपञ्चयति—अकृष्ण-सार इत्य् अष्टभिः । देशणां मध्ये कृष्ण-हरिण-रहितोऽशुचिः । तत्राप्य् अब्रह्मण्यो ब्राह्मण-भक्ति-शून्योऽत्यन्तम् अशुचिः । कृष्णसारोऽपि कृष्णेन मृगेण सारः श्रेष्ठो यः सोऽप्य् असौवीर-कीकटः । सुवीराः सत्-पुरुषाः, तद्वान् सौवीरः । कीकटोऽपि शुचिः । तद् उक्तम्, स वै पुण्यतमो देशः सत्-पात्रं यत्र लभ्यते इति । तद्-वर्जितो यः कीकटोऽङ्ग-बङ्ग-कलिङ्गादिः । असंस्कृतः संमार्जनादि-शून्यो म्लेच्छ-बहुलो वा । ईरिणं ऊषरम् । एकवद् भावः, तद् अशुचि । तद्-अन्यः शुचिर् इत्य् अर्थाद् उक्तं भवति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अकृष्णसार इति तैः । तच् च निर्गलितार्थम् इति ज्ञेयम् । कृष्ण-मृगेण श्रेष्ठोऽपि, सुवीरैर् ब्रह्मण्यैर् हीयश् चेद् अकीकटोऽप्य् अशुचिः तद्-युक्तश् चेत् कीकटोऽपि शुचिर् इति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं शुद्ध्य्-अशुद्धी प्रपञ्चयति—अकृष्ण-सार इत्य् अष्टभिः । देशणां मध्ये कृष्ण-हरिण-रहितो देशोऽशुचिः । तत्रापि न सन्ति ब्रह्मण्या ब्राह्मण-भक्तिमन्तो यत्र स तु अत्यन्तम् अशुचिः । कृष्णसारोऽपि कृष्णेन मृगेण सारः श्रेष्ठोऽपि असौवीरः कीकटश् च । असंस्कृतः मार्जनादि-शून्यो म्लेच्छादि-बहुलश् च । ईरिणं ऊषरश् च । तेषां द्वन्द्वैक्यं, तद् अशुचि । सुवीराणां सत्-पुरुषाणां निवासः सौवीरः असौवीरो यः कीकटो गया-प्रदेशः सोऽशुचिः । सौवीरः सत्-पात्र-युक्तः कीकटोऽपि शुचिर् इत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ११.२१.९ ॥

कर्मण्यो गुण-वान् कालो द्रव्यतः स्वत एव वा ।

यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कालस्य शुद्ध्य्-अशुद्धी दर्शयति—कर्मण्य इति । द्रव्यतो द्रव्य-सम्पत्त्या स्वतो वा पूर्वाह्णादिर् यः कर्मण्यः कर्मार्हः, स कालस् तस्मिन् कर्मणि गुणवान् । यतो यस्मिन् द्रव्यालाभेन वा राष्ट्र-विप्लवादिना वा कर्म निर्वतते । यश् च सूतकादौ दशाहादि-लक्षणोऽकर्मकः कर्मानर्हः स्मृतः स कालो दोषः, अशुद्ध इत्य् अर्थः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालस्य शुद्ध्य्-अशुद्धी दर्शयति—कर्मण्यः कर्मार्हः कालो गुणवान् शुद्धः, स च कश्चिद् द्रव्यतो मांसादि-द्रव्य-लाभत तत्-क्षणे एव कर्मार्हः । कश्चित् स्वतोऽपि पूर्वाह्नादिः । यतश् च कालात् सूतकादि-दोषेण कर्म निवर्तत, स दोषः, अशुद्ध इत्य् अर्थः ॥९॥

———————————————————————————————————————

॥ ११.२१.१० ॥

द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च ।

संस्कारेणाथ कालेन महत्त्वाल्पतयाथ वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वस्तु-शब्दोपात्तानां द्रव्याणां शुद्ध्य्-आशुद्धी दर्शयति—द्रव्यस्येति चतुर्भिः । द्रव्येण तोयादिना शुद्धिः, मूत्रादिना त्व् अशुद्धिः । वचनेन शुद्धम् अशुद्धं वेति सन्देहे, शुद्धम् इत्य् एवं-रूपेण ब्राह्मण-वचनेन शुद्धिर् विपरीतेनाशुद्धिः । संस्कारेण प्रोक्षणादिना पुष्पादेः शुद्धिर् अवघ्राणादिना त्व् अशुद्धिः । कालेन दशाहादिना नवोदकादेः शुद्धिः—

काले मेघोदकं ग्राह्यं वर्ज्यं तु त्र्यहम् एव हि ।

अकाले दश-रात्रं स्यात् ततः शुद्धिर् विधीयते ॥

विपरीतेनाशुद्धिः पर्युषितान्नादेर् अशुद्धिः । अन्त्यजाद्य्-उपहतानां तडागाद्य्-उदकानां महत्त्वाल्पत्वाभ्यां शुद्ध्य्-अशुद्धी ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : द्रव्यस्येति युग्मकम् ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देश-कालादि-भावानां वस्तूनाम् इति प्रक्रान्तं तत्र वस्तु-शब्दोपात्तानां द्रव्येणा तोयादिना शुद्धिः, मूत्रादिना त्व् अशुद्धिः । वचनेनेदं शुद्धम् अशुद्धं वेति सन्देहे शुद्धम् इत्य् एवं ब्राह्मण-वचनेन शुद्धिस् तथैवाशुद्धम् इति चचनेनाशुद्धिश् च । संस्कारेण प्रोक्षणादिना पुष्पादेः शुद्धिः । अवघ्राणादिना त्व् अशुद्धिः । कालेन दशाहादिना नवोदकादेः शुद्धिर् विपरीतेनाशुद्धिः । अन्त्यजाद्य्-उपहतानां तडागाद्य्-उदकानां महत्त्वाल्पत्वाभ्यां शुद्ध्य्-अशुद्धी । पर्युषितान्नादेः शक्तान् प्रत्य् अशुद्धिः अशक्तान् प्रति शुद्धिः ॥१०॥

———————————————————————————————————————

॥ ११.२१.११ ॥

शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने ।

अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शक्त्याशक्त्या सूर्योपरागादि-सूतकान् नादेः शक्तान् प्रत्य् अशुद्धिः, अशक्तान् प्रति शुद्धिः । बुद्ध्या पुत्र-जननादौ दशाहाद् वहिर् ज्ञानेन शुद्धिर् अन्तर् ज्ञानेनाशुद्धिः । समृद्ध्या जीर्ण-मल-वद् वस्त्रादेः समृद्धं प्रत्य् अशुद्धिर् दरिद्रं प्रति शुद्धिः । तत्रापि विशेषम् आह—यद् इति । एते च द्रव्य-वचनादयो द्रव्याशुद्धि-द्वारा आत्मने यद् अघं कुर्वन्ति तद् देशावस्थानुसारत एव यथा यथावत् कुर्वन्ति न सर्वतः । तथा हि, निर्भय एव देशी कुर्वन्ति, न तु चौराद्य्-आकुले । तथा रोगादि-व्यक्ति-रिक्त-युवाद्य्-अवस्थानाम् एव कुर्वन्ति, न बाल्य-रोगाद्य्-अवस्थायाम् इति । तथा च स्मृतिः—

देशं कालं तथात्मानं द्रव्यं द्रव्य-प्रयोजनम् ।

उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति ॥११।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्ध्या पुत्र-जन्मादौ दशाहाद् बहिर् ज्ञानेन शुद्धिः, अन्तर् ज्ञानेनाशुद्धिः, समृद्ध्या जीर्ण-मलिन-स्युत-वस्त्रादेः समृद्धं प्रत्यशुद्धिः, दरिद्रं प्रति शुद्धिः । एते च द्रव्य-वचनादयो यद्-आत्म४ जीवस्येत्य् अर्थः । अघं कुर्वन्ति तद्-देश-वस्त्रानुसारत एव यथा यथावत् । तथा हि निर्भय एव देशे कुर्वन्ति, न तु चौराद्य्-आकुले नीरोगावस्थत्वे एव, न तु रोगावस्थते, तथा तारुण्यावस्थत्वे एव, न तु बाल्य-वार्धक्यावस्थत्वे । तथा च स्मृतिः—

देशं कालं तथात्मानं द्रव्यं द्रव्य-प्रयोजनम् ।

उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति ॥११।

———————————————————————————————————————

॥ ११.२१.१२ ॥

धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् ।

काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्रव्यादिभिर् द्रव्यस्य शुद्धिर् इत्य् उक्तम् । तत्र वचनादि-शुद्धिर् एक-रूपैव, द्रव्यतस् तु शुद्धिर् बहु-रूपेति तां प्रपञ्चयति—धान्येति । दारु लौकिकं ग्रह-चमसादि च । अस्थि गज-दन्तादि । रसास् तैल-घृतादयः । तैजसाः सुवर्णादयः । तेषां पार्थिवानां च रथ्या-कर्दम-घटेष्टकादीनां यथा-यथं कालादिभिः शुद्धिः । तत्रापि कालान्त्यजाद्य्-उपघात-तारतम्येन देश-कालावस्थाद्य्-अनुसारेणैव । एतैर् अन्यैश् च युतायुतैर् मिलितैः केवलैश् च । कालस्य पुनर् ग्रहणं युतत्व-प्रदर्शनार्थम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रव्यस्य द्रव्येण शुद्धिर् इति यद् उक्तं तद् विवृणोति—धान्येति । अस्थि गज-दन्तादि । रसास् तैल-घृतादयः । तैजसाः सुवर्णादयः । तेषां पार्थिवानां च घटेष्टकादीनां कालादिभिर् यथा-शास्त्रं शुद्धिः । तैश् च युतायुतैर् मिलितैः केवलैश् च । यथा तैजसानां मृत्-तोयाग्निभिः । ऊर्णा-तन्तूनां केवलेन वायुना ॥१२॥

———————————————————————————————————————

॥ ११.२१.१३ ॥

अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति ।

भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्पृश्य-स्पर्शे शुद्धिम् उक्त्वा लेप-विषयेऽप्य् आह । यत् पीठ-पात्र-वस्त्रादि येन तक्षण-क्षाराम्लोदकादिना गन्धं लेपंव्यपोहति त्यजति, स्व-गतं च मलं त्यक्त्वा प्रकृतिं स्वम् एव रूपं भजते, तस्य तच् छौचं शोधकम् । यावता च तक्षणादिना व्यपोहति, तावत्-प्रमाणं स्वरूपत आवृत्तितो वा तत् कर्तव्यम् इष्यते ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् पीठ-वस्त्र-पात्रादि अमेध्य-लिप्तं भवेत्, तत् येन तक्षण-क्षाराम्ल-मृज्-जलादिना गन्धं लेपंव्यपोहति त्यजति । प्रकृतिं स्वम् एव रूपं भजते, तस्य तच् छौचं तावद् इति यावता तक्षणादिना गन्ध-लेपं व्यपोहति, तावत्-प्रमाणं शौचं कर्तव्यम् इत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ ११.२१.१४ ॥

स्नान-दान-तपो-ऽवस्था-वीर्य-संस्कार-कर्मभिः ।

मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् द्रव्य-शुद्धिर् उक्ता, इदानीं कर्तृ-शुद्धिम् आह—स्नानेति । अवस्था कौमारादिः । वीर्यं शक्तिः । संस्कार उपनयनादिः । कर्म सन्ध्योपासन-दीक्षादि-लक्षणम् । आत्मनः साहङ्कारस्य कर्तुर् एतैः स्नानादिभिर् यथा-यथं तत्-कार्यानुसारिणी शुद्धिः । इयं च शुद्धिर् न व्यवहारार्था, किन्तु विहित-कर्मार्थेत्य् आह—शुद्धा इति । द्विज इत्य् उपलक्षणं शुद्रादेर् अपि ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-स्मृत्या चेति स्वतन्त्रम् उक्तम् अपवित्रः पवित्रो वा [गरुड।पु।] इत्य् आदेः । अतोऽप्रतिकार्याशुद्धि-शोधनाय प्रोक्तेयं न व्यावहारिकी मन्तव्या । सर्वत्रास्खलित-रूपत्वात्, हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः इत्य् आदेः ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्रव्य-शुद्धिम् उक्त्वा कर्तृ-शुद्धिम् आह—स्नानेति । अवस्था वार्धक्यादिः । तत्र वीर्यं शक्तिः, शक्त्य्-अनुरूप आचार इत्य् अर्थः । संस्कार उपनयनादिः । कर्म सन्ध्योपासनादिकम् । तैर् आत्मनः साहङ्कारस्य कर्तुः शौचं शुद्धिः । शुद्धेः पूर्व्जीवम् आह—शुद्धा इति । द्विज इत्य् उपलक्षणं शुद्रादिर् अपि ॥१४॥

———————————————————————————————————————

॥ ११.२१.१५ ॥

मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् ।

धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्त्र-शुद्धिम् आह—सद्-गुरु-मुखाद् यथावत् परिज्ञानं मन्त्रस्य शुद्धिः। कर्म-शुद्धिम् आह—ईश्वरार्पणं कर्मणः शुद्धिः । धर्माद्य्-अर्थं शुद्ध्य्-अशुद्धी प्रपञ्चतः प्रदर्श्योपसंहरति—धर्म इति । देश-काल-द्रव्य-कर्तृ-मन्त्र-कर्मभिः षड्भिः शुद्धैर् धर्मः संपद्यते । एतेषां यो विपर्ययः सोऽधर्मस् तद् धेतुर् इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्त्र-शुद्धिम् आह—मन्त्रस्य सद्-गुरु-मुखाद् यथावत् परिज्ञानं मन्त्र-शुद्धिः। कर्म-शुद्धिम् आह—मद्-अर्पणम् इति । मह्यम् अर्पितं कर्म शुद्धं, अनर्पितम् अशुद्धं, तद्वान् सद्भिर् व्यवहार्य इति भावः शुद्धाशुद्धौ प्रदर्श्योपसंहरति—षड्भिर् इति । धर्म इति देश-काल-द्रव्य-कर्तृ-मन्त्र-कर्मभिः षड्भिः शुद्धैर् धर्मः संपद्यते । एतेषां यो विपर्ययः सोऽधर्मस् तद् धेतुर् इत्य् अर्थः ॥१५॥

———————————————————————————————————————

॥ ११.२१.१६ ॥

क्वचिद् गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः ।

गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तद्-भिदाम् एव । न तिर्यग्-आदीनाम् ।

वर्षाच् चतुर्द्रशाद् ऊर्ध्वं येन विदुः शुभाशुभम् ।

तेषाम् अज्ञानजो दोषः सुमहान् कर्मजाद् अपि ॥

तिरश्चाम् इन्द्रियासक्तेर् न दोषोऽज्ञानजो भवेत् ।

गुणोऽपि नैव कश्चित् स्याद् यतोऽज्ञान-बहिष्कृताः ॥ इति च ।

अतो मूर्खाणाम् अदोष इति न ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अयं च गुण-दोष-विभागो न वास्तव इत्य् आह—क्वचिद् इति । आपदि प्रतिग्रहो गुणोऽप्य् अनापदि निषिद्धत्वाद् दोषः । पर-धर्मश् च परस्य गुणोऽपि स्वस्य दोषः । दोषोऽपि कुटुम्ब-त्यागादिर् विरक्तादेर् न दोषः, अपि तु विधि-बलेन गुणः । एवं योऽयं गुण-दोषयोर् एकस्मिन्न् अर्थे नियमो, गुण-दोषार्थं वा यो नियमो नियामकं शास्त्रं स तयोर् भेदम् एव बाधते ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं च गुण-दोष-विभागो न क्वापि नियत इत्य् आह—क्वचिद् इति । आपदि प्रतिग्रहो गुणोऽपि, अनापदि निषिद्धत्वाद् दोषः । दोषोऽपि कुटुम्ब-त्यागादिर् विधिना विधि-बलेन विरक्तादेर् गुणः । तस्माद् गुण-दोष-रूपौ याव् अर्थौ तयोर् नियम एव तद्-भिदां गुण-दोष-रूपं भेदं बाधते । यथा कुटुम्ब-त्यागो दोष एवेति यो नियमः, स एवाधिकारि-विशेषे दोषं बाधते । ज्ञानिनः कुटुम्ब-त्यागस्य गुणत्वात् । तथा कुटुम्ब-त्यागो गुण एवेति यो नियमः, स एव गुणं बाधते कर्मिणः, कुटुम्ब-त्यागस्य दोषत्वात् । तस्मात् गुण-दोषौ न सामान्यतो निरतौ, किन्तु स्थल-विशेषे एव नियतौ ज्ञेयाव् इत्य् अर्थः ॥१६॥

———————————————————————————————————————

॥ ११.२१.१७ ॥

समान-कर्माचरणं पतितानां न पातकम् ।

औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : समान-कर्माचरणम् आत्म-योग्य-कर्माचरणम् । परम्म् अपतितो येन पतति । प्रायश्चित्तत्वेन तत्-समान-कर्माचरणेऽपि न दोषः । तदा सुरा-पाने देह-त्यागिनः । तथा शयानः शूद्रोऽपि न पतति । लशुन-भक्षणादिभिः ब्राह्मणादि-पातकैः । औत्पत्तिको यतस् तस्य तादृश-गुण-सङ्गः । अतः स्वायोग्य एव कर्मणि पतति ।

त्रैवर्णिकाः सञ्चरन्तो वेद-कर्म-प्रवर्तनात् ।

शयानः शूद्र उद्दिष्टो वेद-कर्माप्रवर्तनात् ॥

न तस्याभक्ष्यजो दोषः सर्व्सर्वायां प्रवर्ततः ।

यथा सुवर्णस्य मलं शुक्रं ताम्रस्य दोषिताम् इयात् ॥

मलं तु तस्यापि मलं यथैवं शूद्र-जन्मनः ।

स्वधर्म-प्रतिरूपस्य चरणं दोषदं मतम् ॥ इति च समयाचारे ।

शूद्रस्यापिप् हरेर् दीक्षां प्रविष्टस्य तु विप्रवत् ।

अभक्ष्यादि-कृतो दोषः स हि शुड्रो हि मुख्यतः ॥ इति विष्णु-तन्त्रे ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : दोषस्य क्वचिद् दोषत्वाभावे गुणत्वे चोदाहरणं दर्शयति । समानस्य तस्यैव कर्मणः सुरा-पानादेर् आचरणम् अपतितानां पतन-हेतुर् अपि जात्या कर्मणा वा पतितानां पुनः पातकम् अधिकार-भ्रंशकं न भवति, पूर्वम् एव पतितत्वात् । अतोऽत्र दोषस्यापि दोषता नास्तीत्य् अर्थः । तथा सङ्गोऽपि यो यतेर् दोषः, स गृहस्थस्यौत्पत्तिकः पूर्व-स्वीकृतो न दोषः, अपि तु गुणः । ऋतौ भार्याम् उपेयात् इत्य्-आदि-विधानात् । उभयत्र दृष्टान्तः—पूर्वम् एवाधः शयानो यथा न पततीति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-दोषयोर् अनियमं पूर्व्परम्यति । समानस्य तस्यैव कर्मणः सुरा-पानादेर् आचरणम् अपतितानां पतन-हेतुर् अपि जात्या कर्मणा वा पतितानां पुनः पातकम् अधिकार-भ्रंशकं न भवति, पूर्वम् एव पतितत्वात् । यथा सङ्गोऽपि यो यतेर् दोषः, स गृहस्थस्यौत्पत्तिकत्वे सति ऋतौ भार्या-सङ्गो गुणः, तद्-असङ्गस्य तस्मिन्न् अधिकारिणि दोष-श्रवणात् । उभयत्र दृष्टान्तः—पूर्वम् एवाधः शयानो यथा न पततीति ॥१७॥

———————————————————————————————————————

॥ ११.२१.१८ ॥

यतो यतो निवर्तेत विमुच्येत ततस् ततः ।

एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्वतोऽप्य् अभिमान-विमोकेन परमात्म-समर्पणम् एव दोष-हानिदम् इत्य् आह । यतो यत इत्य्-आदिना । मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा [गीता ३.३०] इत्य् आदेश् च ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो गुण-दोष-नियम-विधीनां प्रवृत्ति-सङ्कोच-द्वारा निवृत्ताव् एव तात्पर्यम् इत्य् अभिप्रेत्याह—यतो यत इति ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, गुण-दोष-विधीनां प्रवृत्ति-सङ्कोच-द्वारा निवृत्ताव् एव तात्पर्यम् अभिप्रेत्याह—यतो यत इति ॥१८॥

———————————————————————————————————————

॥ ११.२१.१९ ॥

विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् ।

सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा-श्रुत-प्रवृत्ति-परतां वेदस्य निराकर्तुं प्रवृत्ति-मार्गस्यानर्थ-हेतुतां दर्शयति—विषयेष्व् इति चतुर्भिः । सङ्ग आसक्तिः । तत्र तेषु विषयेषु । येन प्रतिहन्यते कामस् तेन सह कामाद् एव कलिः कलहो विवादः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विषयेष्व् इति चतुर्भिः ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा-श्रुत-प्रवृत्ति-परतां वेदस्य निराकर्तुं प्रवृत्ति-मार्गस्यानर्थ-हेतुत्वं दर्शयति—विषयेष्व् इति चतुर्भिः । सङ्ग आसक्तिः । कामाद् एव कलिः काम-प्रतिघातकेन लोकेन सह कलहः ॥१९॥

———————————————————————————————————————

॥ ११.२१.२० ॥

कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते ।

तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्विषहस् तीव्रः । तमः संमोहः । तं क्रोधम् । चेतना कार्याकार्य-स्मृतिः । द्रुतं शीघ्रम् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं क्रोधम् अनु तमः मोहः, ततस् तमसा मोहेन चेतना कार्याकार्य-स्मृतिः ॥२०॥

———————————————————————————————————————

॥ ११.२१.२१ ॥

तया विरहितः साधो जन्तुः शून्याय कल्पते ।

ततोऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शून्याय कल्पते । असत्-तुल्यो भवतीत्य् अर्थः । स्वार्थ-विभ्रंशः पुरुषार्थ-हानिः । मूर्च्छतस्य मृत-तुल्यस्य ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मूर्च्छतस्य मूर्च्छित-तुल्यस्य मृतस्य मृत-तुल्यस्य ॥२१॥

———————————————————————————————————————

॥ ११.२१.२२ ॥

विषयाभिनिवेशेन नात्मानं वेद नापरम् ।

वृक्ष-जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

दोषिणो गुणवत्त्वेन श्रूयन्ते विषयाः सदा ।

असतां सङ्गतस् तेषु दोषाः श्रोतुं सुदुर्लभाः ॥

अतो नित्य-गुण-ध्यानात् तद्-गुणे प्रीतिमान् भवेत् ।

अतस् तत्र भवेत् कामः कामिनः कलिर् आविशेत् ॥

अधर्माज्ञान-रूपेण कलिनाविष्ट-देहिनः ।

सत्सु क्रोधो दुर्विषहस् ततस् तमसि पात्यते ॥

अन्धे तमसि मग्नस्य चेतनेन्द्रिय-सङ्गता ।

सुखानुभव-शक्तिर् या सा विनश्यति सर्वदा ॥

तदा शयून-भावेन शून्य इत्य् उच्यते नरः ।

सर्वात्मना तु सम्भ्रंशस् तस्य दृश्सर्व-विवर्धनः ॥

अमूर्च्छितस्य च भवेन् मृत्य्-अनन्तरम् एव च ।

दृश्सर्वाख्य-विषयावेशान् नात्मानं परम् एव च ॥

यथावद् वेत्ति पतितस् तमस्य् अन्धे कदाचन ।

वृक्षवद् वृश्च्यते नित्यं निष्प्रयोजन-जीवनः ।

नित्य-दृश्सर्व-परीतायुर् दृतिवत् प्रश्वसित्य् अपि ॥ इति तन्त्र-भागवते ।

स्वार्थस्य सुखस्य भ्रंशो विपरीतम् अतिशयेन जनयतीति स्वार्थ-विभ्रंशः ॥१९-२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तुल्यत्वं प्रपञ्चयति—विषयेति । व्यर्थः वृक्ष-जीविकयैव यो जीवन् वर्तते, स मूर्च्छित-तुल्यः । अत एव यो भस्त्रेव श्वसन् वर्तते, स मृत-तुल्यः । अतः स्वार्थ-नाश इत्य् अर्थः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो वृक्ष इव जीविकया विषय-जन-ग्रहण-मात्र-जीवनोआयेन जीवन् भवति, स मूर्च्छित-तुल्यः । भस्त्रेव श्वसन् भवति, स मृत-तुल्यः ॥२२॥

———————————————————————————————————————

॥ ११.२१.२३ ॥

फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् ।

श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

तस्मात् स्वर्गादि-विषयेष्व् अपि नेच्छते ।

फल-श्रुतिर् एवेयं न काम-कुसुम-श्रुतिः ।

स्वर्गादि-कामना-युक्तस् त्व् ऐहिकेष्व् अपि सज्जते ।

तत्रापि देव-कामेभ्यो विशेषं चाभिवाञ्छति ॥

ततस् तम् अपि पातः स्याद् अतो वेदः कथं हितान् ।

कामत्वेनाभिचक्षीत सर्वं जानन् स्वयं स वा ॥ इति च ।

नः श्रेयो रोचनम् अस्मत्-सकाशाच् छ्रेयो मोक्षाख्यं तद् एव रोचयति फल-श्रुतिः । कुसुमस्यानित्यतादि दोष-ज्ञानान् मोक्षयादोषत्व-ज्ञानाच् च । ईषद् उत्तमस्य श्रोतुर् विवक्षया॥२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु प्रवृत्तस्य स्वर्गादि-फल-श्रवणात् कुतः स्वर्थ-विभ्रंशः ? तत्राह—फल-श्रुतिर् इति । इयं फल-श्रुतिर् न श्रेयः, परम-पुरुषार्थ-परा न भवतीत्य् अर्थः । किन्तु बहिर्मुखानां नॄणां मोक्ष-विवक्षयाऽवान्तर-फलैः कर्मसु रुच्य्-उत्पादन-मात्रम् । यथा भैषज्ये औषधे रोचनं रुच्य्-उत्पादनम् । तथा हि,

पिबति निम्बं प्रदास्यामि खलु ते खण्ड-लड्डुकान् ।

पित्रैवम् उक्तः पिबति न फलं तावद् एव तु ॥ इति ।

तथा मातृ-वाक्यं च, शिखा ते वर्धते वत्स गुडूचीं श्रद्धया पिब इति । न फलं तावद् एव तु, किन्त्व् आरोग्यम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ऐहिक-विषयेच्छून् निन्दित्वा पारलौकिक-तद्-इच्छून् अपि निन्दति—फल-श्रुतिर् इत्य्-आदिना । यथा भैषज्य-रोचनम् इति तद् अप्य् अर्थं विनान्य-ज्ञानेनेति भावः ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु प्रवृत्तस्य स्वर्गादि-फल-श्रवणात् कुतः स्वार्थ-विभ्रंशस् तत्राह—फल-श्रुतिर् इयं न श्रेयः । दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते [भा।पु। ४.२५.४] इति नारदोक्तेः । कर्म-फलस्य श्रेयस् त्व् अखण्डनात् तर्हि अप्सरोभिर् विहरामेत्य् आदिकं यत् श्रूयते, तत् किं ? अत आह—रोचनं परं केवलं बहिर्मुख-लोकानां मोक्ष-विवक्षया अवान्तर-फलैः कर्मसु रुच्य्-उत्पादन-मात्रं, यथा भैषज्य औषधे रुच्य्-उत्पादनम् । तथा हि—

पिबति निम्बं प्रदास्यामि खलु ते खण्ड-लड्डुकान् ।

पित्रैवम् उक्तः पिबति न फलं तावद् एव हि ॥ इति ॥२३॥

———————————————————————————————————————

॥ ११.२१.२४ ॥

उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च ।

आसक्त-मनसो मर्त्या आत्मनोऽनर्थ-हेतुषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कर्म-काण्डे मोक्षस्य नामापि न श्रूयते, कुत एवं व्याख्यायते ? यथा-श्रुतस्याघटनाद् इत्य् आह—उत्पत्त्येति द्वाभ्याम् । उत्पत्त्या स्वभावत एव कामेषु पश्व्-आदिषु प्राणेष्व् आयुर्-इन्द्रिय-बल-वीर्यादिषु । स्व-जनेषु पुत्रादिषु । अनर्थ-हेतुषु परिपाकतो दुःख-हेतुषु ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कर्म-काण्डे मोक्षस्य नामापि न श्रूयते, तत् कुत एवं व्याख्यायते ? यन् मोक्ष-तात्पर्यकं कर्मेति ? तत्र यथा-श्रुतस्याघटनाद् एवमे एवेत्य् आह—उत्पत्त्यैवेति द्वाभ्याम् । उत्पत्त्या स्वभावत एव कामेषु विषय-भोगेषु, प्राणेष्व् आयुर्-इन्द्रिय-बल-वीर्यादिषु, स्व-जनेषु पुत्रादिषु, अनर्थ-हेतुषु परिपाकतो दुःख-हेतुषु ॥२४॥

———————————————————————————————————————

॥ ११.२१.२५ ॥

नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।

कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : बुधो वेदः कथं युञ्ज्यात् ? अन्तरालागतोऽपि स्वर्ग एवंविधः किम् उ साक्षात्-फल-रूपो मोक्ष इति रोचकः ? अनेक ब्रह्म-काल-प्राप्यत्वान् मोक्षस्य तावन्तं कालं तप एव कर्तुं न शक्यत इति । मन्दाधिकारिणां स्वर्गादिष्व् अप्य् अभिरुचिर् भवति ।

अन्तरालेऽप्य् एवं-विधं स्वर्गाधिकं सुखं भवति । तस्मात् विहितं कर्म कर्तव्यम् इति रोचयति । उत्तमानां तु यस्मात् एतादृशम् अप्य् अनित्यत्वादि-दोषवत् स्वर्गादिकं—तस्मान् मोक्ष-फल एव वेद इति दर्शयति । न हि सर्व-प्रमाणोत्तमो वेदोऽल्प-फले पर्यवसितः ।

मन्दाधिकारिणां नित्यं तपसैव प्रतीक्षितुम् ।

मोक्षो न शक्यतेऽधैर्यात् ततः स्वर्गादिकं वदेत् ॥

स्वर्गादिष्व् अल्प-फललतां ज्ञापयित्वाविमोक्षदम् ।

एवं वक्तुं तूत्तमानां नित्यो वेदं प्रवर्तते ॥

इक्षु-दण्डं ददानीति यथा भैषज्य-रोचनम् ।

एवं मन्देष्व् उत्तमेषु मोक्ष-माहात्म्यम् उच्यते ।

न ह्य् अल्प-फल-भाग् वेदो वासुदेवैक-संश्रयः ॥ इति विचारे ।

अयोग्य-भार्या-पुत्रादि-कामितानर्थ-साधिनी ।

योग्य-कामाद् धरेः प्रीतिर् अतो ब्रह्मादयोऽमलाः ।

भार्या-पुत्रादि-संयुक्ता वासुदेवम् उपासते ॥ इति च ॥२४-२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तान् स्वार्थं परम-सुखम् अविदुषः । अतो नतान् प्रह्वी-भूतान् । वेदो यद् बोधयिष्यति तद् एव श्रेय इति विश्वसितान् इत्य् अर्थः । तान् एवं-भूतान् वृजिनाध्वनि काम-वर्त्मनि देवादि-योनिषु भ्राम्यतः । ततः पुनस् तमो वृक्षादि-योनिं विशतः । पशु-काम इत्य् आयुर् इन्द्रियादि-काम इति च पुत्रादि-काम इति च पुत्रादि-काम इति च । कथं पुनस् तेष्व् एव कामेषु स्वयं बुद्धो वेदो युञ्ज्यात् प्रवर्तयेत् ? तथा सति अनाप्तः स्याद् इति भावः ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतोऽविदुषः स्वार्थं परम्-सुखम् अजानतः, तत एव नतान् नतान् नम्रीभूतान् । वेदो यद् बोधयिष्यति, तद् एव श्रेय इति विश्वसितान् इत्य् अर्थः । वृजिनाध्वनि काम-वर्त्मनि देवादि-योनिषु भ्राम्यतः । पुनर् अपि तमो विशतः, वृक्षादि-योनिम् अपि प्राप्नुततस् तान् एव जनान्, पुनस् तेष्व् एव कामेषु स्वयं बुधो वेदः कथं युञ्ज्यात् प्रवर्तयेत् ? तथा सति अनाप्तः स्याद् इति भावः ॥२५॥

———————————————————————————————————————

॥ ११.२१.२६ ॥

एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः ।

फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एवं वेदस्य व्यवसितम् । फल-श्रुतिं कुसुमिताम् । फलं मोक्षः, तद्-विषयां श्रुतिं स्वर्गादि-कुसुम-विषयां वदन्ति ।

नित्यानन्द-हरेर् भक्ति-ज्ञानाद्याः स्वर्ग-शब्दिताः ।

पुत्र-भार्याप्त-वित्ताद्यं सर्वं मोक्ष-गतं फलम् ॥

उद्दिश्य स्वर्ग-कामस्य यजनं श्रुति-चोदितम् ।

तद् अविज्ञाय पुष्पाख्यम् अनित्यं स्वर्गम् इच्छवः ॥

यजन्ति मन्द-मतयो वेद-वाद-परायणाः ।

इति च स्रीभिर् वा यानैर् वेत्य् आदि च ॥

मोक्षाख्यं फलम् एवात्र स्वर्गादि-वचनं तु यत् ।

पुष्प-स्वर्गादिवत् तस्य वचनं मन्द-रोचनम् ॥ इति च ।

असुराणाम् अयं स्वर्ग-शब्दः पुष्पात्मकं वदेत् ।

देवानां हरि-सम्प्राप्तिं वेद विष्णु-परो यतः ॥ इति च ॥२६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं तर्हि कर्म-मीमांसकाः फल-परतां वदन्ति ? तत्राह—एवम् इति । व्यवसितं वेदस्याभिप्रायम् । कुसुमिताम् अवान्तर-फल-प्ररोचनया रमणीयां परम-फल-श्रुतिं वदन्ति । कुतस् ते कु-बुद्धयः ? तद् आह—हि यस्माद् वेद-ज्ञा व्यासादयस् तथा न वदन्तीति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं तर्हि मीमांसका वेदस्य स्वर्गादि-फल-परतां वदन्ति ? तत्राह—एवम् इति । व्यवसितं वेदस्याभिप्रायं नैव ज्ञात्वा फल-श्रुतिं फल-श्रवणं वेद-प्रमाणकत्वेन वदन्ति । वस्तुतस् तु कुसुमान्य् एव सञ्जातानि, न तु फलानि यस्यां तां फल-श्रवणं, न फल-युक्तं, किन्तु कुसुम-युक्तम् एव कुसुमस्यैवाज्ञानेन फलत्वं भावनाद् इत्य् अर्थः । अतस् ते कुबुद्धयो वेद-तात्पर्यानभिज्ञा हि, यस्माद् वेद-ज्ञा व्यासादयस् तथा न वदन्तीति ॥२६॥

———————————————————————————————————————

॥ ११.२१.२७ ॥

कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः ।

अग्नि-मुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वं लोकं स्वाश्रयम् । लोकोऽसाव् आश्रयम् अतः ॥२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कुबुद्धितां प्रपञ्चयति—कामिन इत्य् अष्टभिः । कामित्वात् कृपणाः, ततो लुब्धास् तृष्णाकुलाः, अतः पुष्पेष्व् अवान्तर-फलेषु परम-फल-बुद्धयः । अत एवाग्नि-मुग्धा अग्नि-साध्य-कर्माभिनिवेशेन लुप्त-विवेकाः, ततश् च धूमतान्ता धूम-मार्गोऽन्ते येषां ते । स्वं लोकम् आत्म-तत्त्वम् । तथा च श्रुतिः—

कश्चिद् ध वा अस्माल् लोकात् प्रेत्य

आत्मानं वेद अयम् अहम् अस्मीति ।

कश्चित् स्वं लोकं न प्रतिजानाति

अग्नि-मुग्धो हैव धूमतान्तः ॥ इति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वं लोकं स्वाभयम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुबुद्धितां प्रपञ्चयति—कामिन इत्य् अष्टभिः । पुष्पेष्व् अवान्तर-फलेष्व् एव परम-फल-बुद्धयः । अग्नि-मुग्धा अग्नि-साध्य-कर्माभिनिवेशेन लुप्त-विवेकाः, धूमेन यज्ञाग्नि-धूमेनान्ते धूम-मार्ग-गमनेन च तान्ताः ग्लानिमन्तः । तथा च श्रुतिः—

कश्चित् स्वं लोकं न प्रतिजानाति

अग्नि-मुग्धो हैव धूमतान्तः ॥ इति ॥२७॥

———————————————————————————————————————

॥ ११.२१.२८ ॥

न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः ।

उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ये उक्थेन प्राणेन शास्याः ।

विष्ण्व्-अभक्तान् सदा वायुः शासयेत् तमसि क्षिपन् ।

विष्णु-भक्तान् विमोक्षाय प्रापयित्वा सुखं नयेत् ॥ इति च ।

पथ एकः पीपाष-तस्करो येऽथैष वेद निधीनाम् ॥ इति च ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कोऽसौ स्व-लोकः ? तम् आह—हृदि-स्थम् आत्मानं मां स्व-लोकम् । ननु हृदि-स्थम् अहङ्कारास्पदं जानन्त्य् एव ? सत्यम्, परमात्मानं तु न जानन्तीत्य् आह—य इदं यद्-व्यतिरिक्तं जगन् नास्ति । कुतः ? यत इदं जगज् जातम् । तं कुतो न जानन्ति ? हि यस्मात् । उक्थं कर्मैव शस्त्रं शंस्यं कथनीयं पशु-हिंसा-साधनं वा येषां ते । अतः केवलम् असु-तृपः प्राण-तर्पण-पराः । नीहारं तमस् तेन व्याप्तानि चक्षूंषि येषां ते, यथा सन्निहितम् अपि न जानन्ति तद्वत् । तथा च श्रुतिः,

न तं विदाथ य इमा जजानान्यद्

युष्माकम् अन्तरं बभूव ।

नीहारेण प्रावृता जल्प्या

चासु-तृप उक्थ-शासश् चरन्ति ॥ [ऋ।वे। १०.८३.७] इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न ते माम् इति निर्गुणत्वाद् इत्य् अर्थः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स लोकः कः ? तम् आह—नेति । माम् अन्तर्यामिणं स्व-हृदि स्थितम् अपि न जानन्ति, योऽहम् एव इदं जगत् । ननु त्वं चिद्-घन-विग्रहो जगन् न भवसि, तत्राह—यत इति । जगत्-कारणत्वाद् अहं जद् इत्य् अर्थः । मद्-अज्ञाने हेतुः उक्थं कर्मैव शस्तं शंस्यं कथनीयं पशु-हिंसा-साधनं वा येषां ते । अतः केवलम् असु-तृपः प्राण-तर्पण-पराः । सर्वत्र हेतुः नीहारम् अविद्या तेन व्याप्तं चक्षुर् येषां ते । तथा च श्रुतिः,

न तं विदाथ य इमा जजानान्यद्

युष्माकम् अन्तरं बभूव ।

नीहारेण प्रावृता जल्प्या

चासु-तृप उक्थ-शासश् चरन्ति ॥ [ऋ।वे। १०.८३.७] इति ॥२८॥

———————————————————————————————————————

॥ ११.२१.२९-३० ॥

ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः ।

हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना ॥

हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया ।

यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मे मताविज्ञानात् परोक्ष-विषयात्मकाः । परोक्षम् अन्धं तमः । तद्-विषय-स्वरूपाः । तद्-गमनार्थ-स्वरूपाः । अन्धं तमः परोक्षं च पञ्च-कष्टं तथोच्यते इति सुव्यक्ते । तेषाम् आसुराणां यद् आ हिंसायां कामः, तदा यज्ञ एव, न चोदना । यद् यद् आत्मनो हिंसितुम् इष्टं, तत् तद् विहितम् इति प्रापयन्ति कुतर्कैः ।

आसुरोऽविहितां हिंसां विहितत्वेन वर्णयेत् ।

आसुरा याज्ञिकाः सर्वे नारायण-पराङ्-मुखाः ॥ इति च ।

विष्णुं विहाय ये देवान् पितॄन् भूतेशम् एव वा ।

साम्येन वा पूजयन्ति ते ज्ञेया असुरा गणाः ॥ इति च ॥२९-३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वेद-तात्पर्याज्ञानाच् चान्यान् यजन्तीत्य् आह—ते परोक्षम् अस्फुटं मे मतम् अविज्ञाय देवतादीन् यजन्त इत्य् उत्तरेणान्वयः । स्व-मतम् एवाह—हिंसायां मांस-भक्षणार्थं तत्-फलार्थं च यदि रागः स्यात्, तर्हि यज्ञ एवेत्य् अभ्यनुज्ञाद् वारा परिसङ्ख्येयं, न त्व् आवश्यकत्वेन चोदनेत्य् एवं-रूपम् । यद्यपि नित्य-नैमित्तिकयोः काम-विशेषानुबन्धो नास्ति, तथापि कर्मणा पितृ-लोकः इति श्रुतेः सामान्यतः पितृ-लोक-कामनास्त्य् एव । अन्तः-करण-शुद्धि-कामना चेति भावः । तद् उक्तम्,

नाकामस्य क्रिय काचिद् दृश्यते चेह कर्हिचित् ।

यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम् ॥ इति ॥२९॥

अज्ञत्वाद् एव हिंसया विहारः क्रीडा येषां ते ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-अज्ञानाद् एव मत्-सम्मतस्य वेदार्थस्याप्य् अज्ञास् ते इत्य् आह—ते इति । परोक्षम् अस्फुटं मे मतम् अविज्ञाय देवादीन् यजन्त इत्य् उत्तरेणान्वयः । स्व-मतं त्व् आह—हिंसायां यदि रागः स्याद् इति यदि पशु-हिंसा त्यक्तुं न शक्या स्यात्, तदा यज्ञ एव सा कार्येत्य् अभ्यनुज्ञा-मयी परिसङ्ख्यैवेयं, न तु चोदनेत्य् एवं-रूपं मे मतम् अविज्ञाय विषयात्मका विषयाविष्ट-चेतसः । अत एव हिंसा-विहाराः ॥२९-३०॥

अज्ञत्वाद् एव हिंसया विहारः क्रीडा येषां ते ॥३०॥

———————————————————————————————————————

॥ ११.२१.३१ ॥

स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् ।

आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तेऽतिमन्द-बुद्धय इत्य् आह—स्वप्नोपमम् इति । अमुं पर-लोकम् । आशिषश् चास्मिन् लोके सङ्कल्प्य, न तु निश्चित्य, विघ्न-बाहुल्यात् । त्यजन्ति कर्मसु विनियोजयन्ति। यथा कश्चिद् वणिग् दुस्तर-समुद्रादि-लङ्घनेन बहु-धनार्जनेच्छया सिद्धं धनं त्यजन्न् उभय-भ्रष्टो भवति, तद्वद् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तेऽतिमन्द-बुद्धयश् चेत्य् आह—स्वप्नोपमम् इति । अमुं लोकं पर-लोकम् । असन्तम् असत्-तुल्यं तथैवेह लोके आशिषश् राज्याद्याः सङ्कल्प्य, न तु निश्चित्य, विघ्न-बाहुल्यात् त्यजन्ति, अर्थान् कर्मसु विनियोजयन्ति। यथा कश्चिद् वणिग् दुस्तर-समुद्रादि-लङ्घनेन बहु-धनेच्छया सिद्धं धनं त्यजन्न् उभयत्र भ्रष्टो भवति, तद्वद् इत्य् अर्थः ॥३१॥

———————————————————————————————————————

॥ ११.२१.३२ ॥

रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः ।

उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तामसेष्व् एव रजः-सत्त्व-तमो-विशेषाः ।

तामसेषु तु ये सत्त्वा विरय-प्रचुरास् तु ते ।

ईषत्-स्वर्गादि-संयुक्तास् तमो-निष्ठास् तु ते स्मृताः ॥

केवलं निरये निष्ठा ये ते तामस-राजसाः ।

अन्धे तमसि ये निष्ठास् ते वै तामस-तामसाः ।

एवं त्रिभेदम् उक्तास् तु याज्ञिका विष्णु-वर्जिताः ॥ इति हरि-वंशेषु ॥३२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो रजः-सत्त्व-तमो-जुषः स्वानुरूपान् इन्द्रादीन् एवोपासते, न तु मां गुणातीतम् । यद्यपीन्द्रादीनाम् अपि मद्-अंशत्वान् मद्-उपासनम् एव तत्, तथापि यथावन् नोपासते भेद-दर्शित्वाद् इत्य् अर्थः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो रजः-सत्त्व-तमो-निष्ठा ये ते रजः-सत्त्व-तमांस्य् एव जुषन्ते सेवन्ते, न तथैवेति । यद्यपीन्द्रादीनाम् अपि मद्-अंशत्वान् मद्-उपासनम् एव तत्, तथापि यथावन् नोपासते, यथावद् उपासना-भावाद् भ्रश्यन्तीत्य् अर्थः । यद् उक्तं, न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते [गीता ९.२४] ॥३२॥

———————————————————————————————————————

॥ ११.२१.३३ ॥

इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि ।

तस्यान्त इह भूयास्म महा-शाला महा-कुलाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदि सङ्कल्प्य [भा।पु। ११.२१.३१] इत्य् उक्तं, तम् एव सङ्कल्पं दर्शयति—इष्ट्वेति । तस्य भोगस्यान्ते । महा-शाला महा-गृह-स्थाः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां मनोरथं विवृणोति—इष्ट्वेति । तस्य भोगस्यान्ते इह महा-शालाः महा-गृहस्थाः ॥३३॥

———————————————————————————————————————

॥ ११.२१.३४ ॥

एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् ।

मानिनां चातिलुब्धानां मद्-वार्तापि न रोचते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् अत आह—एवम् इति । अतो मत्-प्रवणत्वाभावान् नित्यं संसारिणो भवन्तीति भावः ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२१.३५ ॥

वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे ।

परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

ब्रह्मत्वं पूर्णता प्रोका तद् यस्य स्वत एव तु ।

स ब्रह्मात्मा समुद्दिष्टो वासुदेवः सनातनः ॥ इति च ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं वेदानां प्रवृत्ति-परत्वं निराकृत्य प्रकृतं निवृत्ति-परत्वम् एवोपसंहरति—वेदा इति । कर्म-ब्रह्म-देवता-काण्ड-विषया इमे वेदा ब्रह्मात्म-विषयाः, ब्रह्मैवात्मा न संसारीत्य् एतत्-पराः, तत्-परत्वाप्रतीतौ च ।

फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् ।

श्रेयो-विवक्षया प्रोक्तः यथा भैषज्य-रोचनम् ॥ इत्य् उक्तम् एव ।

कारणम् अनुस्मारयति—परोक्षेति । ऋषयो मन्त्रास् तद्-द्रष्टारो वा । तत् किम् इति यतः परोक्षम् एव मम च प्रियम् । अयं भावः—शुद्धान्तः-करणैर् एवैतद् बोद्धव्यं, नान्यैर् अनधिकारिभिर् वृथा कर्म-त्यागेन भ्रंश-प्रसङ्गाद् इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मात्म-विषयाः सर्वतो बृहत्तमो य आत्मा परम-मूल-स्वरूपो भगवान् अहं तत्-परम् एवेत्य् अर्थः । मत्-प्रियाचरणत्वेन दृक्ष्यमाणत्वात्, तथा सर्वेषाम् अप्रतीतौ कारणम् आह—परोक्षेति । “परोक्षं मम च प्रियम्” इति तु,

त्वं च रुद्र! महाबाहो मोहशास्त्राणि कारय ।

अथ तानि वितथ्यानि दर्शयस्व महाभुज ।

प्रकाशम् उरु चात्मानमप्रकाशं च मां कुरु ॥ [वाराहे ७०.३६-३७]

इत्य् अन्यत्र व्यक्तत्वात् । तच् च, इदं ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया [भा।पु। ] इत्य् आदौ तद्-अभिप्राय-प्रकाशात् । तच् च तत्र सर्वेषाम् अनधिकारात् । अत एव मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य् आद्य् उक्तम् इति ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकरणम् उपसंहरति—वेदा इति । कर्म-ब्रह्म-देवता-काण्ड-विषया इमे वेदा ब्रह्मात्मा तद्-विषया ब्रह्म-स्वरूप-मदाराधन-परा एवेत्य् अर्थः । ननु तर्हि ऋषयो मन्त्रास् तद्-द्रष्टारो वा कथम् एव स्पष्टां नाचक्षते ? तत्राह—परोक्षम् एव यथा स्यात् तथा वदन्ति, न तु साक्षाद् इति ते । ननु तेषां साक्षाद् अकथनस्य कोऽभिप्रायस् तत्राह—परोक्षम् इति । तथा कथने एव मत्-प्रीतिम् अवधार्य तथा वदन्तीत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ११.२१.३६ ॥

शब्द-ब्रह्म सुदुर्बोधं प्राणेन्द्रिय-मनो-मयम् ।

अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्राणेन्द्रिय-मनोभिर् मीयते । मेयत्वान् मय उद्दिष्टो वेदः प्राणादिभिः सदा इति वाराहे ।

अन्तो विनाश उद्दिष्टः पारः परिमितिस् तथा ।

अनन्त-पारो वेदोऽयं ताभ्यां स रहितो यतः ॥ इति व्यास-स्मृतौ ॥३६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु वेद-ज्ञा अपि जैमिन्य्-आदयः किम् इति तथा न वर्णयन्ति, मां विना तत्त्वतो वेदं तद् अर्थं वा न कोऽपि वेदेत्य् आशयेनाह—शब्द-ब्रह्मेति यावत् समाप्ति । स्वरूपतोऽर्थतश् च दुर्विज्ञेयम् । तच् च सूक्ष्मं स्थूलं चेति द्वि-विधम् । तत्र सूक्ष्मं तावत् स्वरूपतोऽपि दुर्ज्ञेयम् इत्य् आह—प्राणेन्द्रिय-मनो-मयम् । प्रथमं प्राण-मयं पराख्यं, ततो मनो-मयं पश्यन्त्य्-आख्यं, तत इन्द्रिय-मयं मध्यमाख्यम् । तस्य वाग्-व्यञ्जकत्वेन वाग्-इन्द्रिय-प्रधानत्वात् । किं च, अनन्त-पारम् । समष्टि-प्राणादि-मयस्य निर्विशेषस्य च तस्य कालतो देशतश् चापरिच्छेदात् । अर्थतोऽपि दुर्ज्ञेयत्वम् आह—गम्भीरं निगूढार्थम् । अतो दुर्विगाह्यं मति-प्रवेशानर्हम् । तथा च श्रुतिः—

चत्वारि वाक्-परिमिता पदानि

तानि विदुर् ब्राह्मणा ये मनीषिणः ।

गुहा त्रीणि निहिता नेङ्गयन्ति

तुरीयं वाचो मनुष्या वदन्ति ॥

अयम् अर्थः—वाचः शब्द-ब्रह्मणः परिमितानि गणितानि पद्यते ज्ञायते परं तत्त्वम् एभिर् इति पदानि रूपाणि चत्वारि, तानि चत्वार्य् अपि ये मनीषीणोऽन्तर्-दृष्टयस् त एव विदुर् नान्ये । यतो गुहायां देह-मध्ये त्रीणि निहितानि नेङ्गयन्ति स्वरूपं न प्रकाशयन्ति । अतः केवलं वाचस् तुरीयं चतुर्थं भागं वैखरी-रूपं मनुष्याः प्राणिनो वदन्ति, तद् अपि वदन्त्य् एव, न तत्त्वतो जानन्ति ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शब्द-ब्रह्मेति युग्मकम् । प्राणेन्द्रिय-मनो-मयं लौकिक-वाग्वत् पराख्यादि-रूपेण तेष्व् आविर्भूतम् अपि सुदुर्बोधम् । यतः शब्दतोऽनन्त-पारम् अर्थतश् च गम्भीरं दुर्विगाह्यं च तत्र दुर्विगाह्यं प्रवेष्टुं तावद् अशक्यं, कथञ्चित् प्रवेशे च सति गम्भीरं दुर्गमार्थ-पर्यवसानम् इत्य् अर्थः ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु वेदस्याप्तत्वान्यथानुपपत्त्यैव भैषज्य-रोचन-न्यायेनैव तस्य स्वर्गादि-परत्वम् इति भवान् यथा व्याचष्ट तथैव जैमिन्य्-आदयोऽपि व्याचक्षताम् । मैवं, यदि ते जानीयुस् तर्हि व्यचक्षीरन्, मां विना मद्-भक्तान् व्यास-नारदादींश् च विना तत्त्वतो वेदार्थं न कोऽपि वेदेत्य् आह—शब्द-ब्रह्मेति यावत् समाप्तिः । स्वरूपतोऽर्थतश् च दुर्विज्ञेयम् । तच् च सूक्ष्मं स्थूलं चेति द्विविधम् । तत्र सूक्ष्मं तावत् स्वरूपतोऽपि दुर्ज्ञेयम् इत्य् आह—प्राणेन्द्रिय-मनो-मयम् । प्रथमं प्राण-मयं पराख्यम् आधार-चक्रस्थम् । ततो मनो-मयं पश्यन्त्य्-आख्यं नाभाव् अनाहत-चक्रस्थम् । तत इन्द्रिय-मयं वैखर्याख्यम्, तस्य वाग्-व्यञ्जकत्वेन वाग्-इन्द्रिय-प्रधानत्वात् । किं च, अनन्त-पारं प्राकृताप्राकृत-प्राण-मयस्य कालतो देशतश् चापरिच्छेदात् ।

अर्थतोऽपि दुर्ज्ञेयत्वम् आह—गम्भीरं निगूढार्थम्, अतो दुर्विगाह्यम् । तथा च श्रुतिः—

चत्वारि वाक्-परिमिता पदानि

तानि विदुर् ब्राह्मणा ये मनीषिणः ।

गुहा त्रीणि निहिता नेङ्गयन्ति

तुरीयं वाचो मनुष्या वदन्ति ॥

अस्यार्थः—वाचः शब्द-ब्रह्मणः परिमितानि, जसोड्-आदेशश् छान्दसः । पद्यते ज्ञायते परं तत्त्वम् एभिर् इति । पदानि रूपाणि चत्वारि, तानि चत्वार्य् अपि ये मनीषीणो गुहायां देह-मध्ये त्रीणि निहितानि नेङ्गयन्ति स्वरूपं न प्रकाशयन्ति, यतः केवलं वाचस् तुरीयं चतुर्थ-भागं वैखरी-रूपं मनुष्याः प्राणिनो वदन्ति, तम् अपि वदन्त्य् एव, न तु तत्त्वतो जानन्तीति । अभियुक्त-श्लोकश् च—

या सा मित्रा-वरुण-सदनाद् उच्चरन्ती त्रिषष्ठिं

वर्णानन्तः-प्रकट-करणैः प्राण-संज्ञा प्रसूते ।

तां पश्यन्तीं प्रथमम् उदितां मध्यमां बुद्धि-संस्थां

वाचं चक्रे करण-विशदां वैखरीं च प्रपद्ये ॥ इति ॥३६॥1

———————————————————————————————————————

॥ ११.२१.३७ ॥

मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना ।

भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : भूम्ना ब्रह्मणा अति महा-परिपूर्णेन ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र मनीषिभिर् एव ज्ञेयं सूक्ष्मं तत्त्व-रूपं दर्शयति, मयेति । मयान्तर्यामिणोपबृंहितम् अधिष्ठितम् । अन्त-स्थत्वेऽप्य् अपरिच्छेदम् आह—भूम्नेति । अधिष्ठातृत्वेऽप्य् अविकारित्वम् आह—ब्रह्मणेति । अविकृतस्यापि नियन्तृत्वं घटयति, अनन्त-शक्तिनेति । भूतेषु सर्व-प्राणिषु घोष-रूपेण नाद-रूपेण लक्ष्यते मनीषिभिः । अन्तः सूक्ष्मत्वेन दर्शने दृष्टान्तः, बिसेषूर्णा-तन्तुर् इवेति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवम्-भूतं चेत् कथं प्राणादिष्व् आविर्भवति ? तत्राह—मयोपबृंहितं तत्र तत्रोद्भावितम् । नन्व् अनन्ते वैकुण्ठेऽनन्त-प्राये च ब्रह्माण्ड-गणेऽनन्त-सङ्ख्ययाविर्भूतं, तत् कथं भवतैकेनोद्भावितं स्यात् ? तत्राह—ब्रह्मणा स्वरूपतः परम-बृहत्तमेन शक्तितश् चानन्त-शक्तिनेति । ननु यत् सर्व-व्यापकं भवति, तद् एवानन्त-पारं स्यात्, न तु तथेदं लक्ष्यते ? तत्राह—भूतेष्व् इति । नाद-रूपेणाव्यक्त-प्रणवाकारेण लक्ष्यते योगिभिः । तद् उक्तम्—

अनन्तोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः ।

ओंकारो विदितो येन स योगी नेतरो जनः ॥ इति ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवम्-भूतं चेत् कथं प्राणादिष्व् आविर्भवति ? तत्राह—मयोपबृंहितं तत्र तत्रोद्भाव्य विस्तारितम् । नन्व् अनन्ते वैकुण्ठेऽनन्त-कोटि-ब्रह्माण्डेषु च अनन्त-सङ्ख्ययाविर्भूतं तत् त्वया कथम् एकेनोपबृंहितं ? तत्राह—भूम्ना स्वरूप-बाहुल्येन, न केवलं स्वरूप-बाहुल्यम् एव, किन्तु ब्रह्मणा सर्व-व्यापकेन । न केवलं सर्व-व्याप्तिर् एव, किन्तु अनन्त-शक्तिनेति शक्तेर् आनन्त्याद् एव । भूतेषु सर्व-प्राणिषु घोष-रूपेण घोषो नादः, तद्-रूपेण लक्ष्यते मनीषिभिः । अन्तः सूक्ष्मत्वेन दर्शने दृष्टान्तः, बिसेषु मृणालेषु ऊर्णा-तन्तुर् इव ॥३७॥

———————————————————————————————————————

॥ ११.२१.३८-४० ॥

यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् ।

आकाशाद् घोष-वान् प्राणो मनसा स्पर्श-रूपिणा ॥

छन्दो-मयोऽमृत-मयः सहस्र-पदवीं प्रभुः ।

ॐ-काराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषितम् ॥

विचित्र-भाषा-विततां छन्दोभिश् चतुर्-उत्तरैः ।

अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आस्पर्श-रूपिणा आस्पर्शो विष्णुस् तं रूपयति ।

प्रकाशयतीत्य् आस्पर्श-रूप-प्राणस्य मनः ॥

आसमन्तात् स्पर्शाभोगा अस्यैवेत्य् आस्पर्शः ।

भुङ्क्ते यद् अखिलान् स्पर्शान् आस्पर्शो विष्णुर् उच्यते ॥

तस्य प्रकाशकं नित्यं नमस्ये प्राणम् एकलम् ।

प्राणस्यैव मनो नित्यं वासुदेवं प्रकाशयेत् ॥ इति वायु-प्रोक्ते ॥

मीयन्तेऽनेन छन्दांसि प्राणश् छन्दोमयस् ततः ॥ इति च ॥

त्रिमात्रम् आदितः कृत्वा यावच् चानन्त-मात्रकाः ।

प्रणवास् तेऽपि भेदेन ह्य् अनन्ताः परिकीर्तिताः ।

एक-मात्रोत्तराः सर्वे वासुदेवाभिधायकाः ।

तेषां व्याख्यान-रूपा हि सर्वे वेदाः प्रकीर्तिताः ।

ॐ-कार-व्यञ्जितास् तस्मात् सदोच्चार्या हरेः प्रियैः ॥ इति प्रणव-माहात्म्ये ॥

गुह्य-दर्शन-भाषे च भाषा चैव समाधिका ।

तिस्रस् तु मूल-भाषाः स्युर् एकैका च त्रिधा पुनः ॥

गुह्य-दर्शन-संज्ञा च गुह्य-गुह्या तथापरा ।

एवम् आदि-क्रमेणैव त्व् एकादशीति-विधेदिताः ॥

भाषास् तत्र च गुह्या च प्रसिद्धार्थेष्व् अनन्विता ।

गुह्यार्थं तत्-परैवान्धोमणिम् इत्य्-आदिका च सा ॥

दर्शनान्यवलम्बैव पशुपत्यादिनां तु या ।

बहु-श्रुति-विरुद्धस् तु वदेत् सा दर्शनात्मिका ॥

अन्ते निषेध-संयुक्ता भस्म-स्नानादिका च सा ।

यथा प्रदृश्यमानार्था समाधिः सा प्रकीर्तिताः ।

विष्नुः परम इत्य् आद्या सा च विद्वद्भिर् ईरिता ॥ इति भाषा-विवेके ॥

भस्म-स्नान-विधानं तु श्रुत्य्-उक्तं दर्शनानुगम् ।

भस्म-स्नानं ततो ग्राह्यं विधानं तु नृसिंहगम् ॥ इति स्कान्दे ।

गायत्र्या उष्णिक् चतुर्वर्णाधिकेत्य् आदि चतुर्-उत्तरैः ।

जगत्यस् तानाम् एव चतुर् उत्तरत्व-नियमः ।

छन्दस् तु नव-पादं यज् जगद् इत्य् उच्यते बुधैः ॥ इति छन्दो-विधाने ॥४०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो वैखर्याख्याया बृहत्या वाच उत्पत्ति-प्रकारं स-दृष्टान्तम् आह—यथेति त्रिभिः । हृदयात् सकाशात् मुखात् द्वारात् उद्वमते बहिः प्रकटयति । दार्ष्टान्तिके योजयति—आकाशाद् इति । प्राणस् तद्-उपाधिर् हिरण्यगर्भ-रूपः प्रभुर् भगवान् । तेन रूपेण च्छन्दो-मयो वेद-मूर्तिः । स्वतस् त्व् अमृतमयः । घोषवान् नादोपादानवान् । मनसा निमित्त-भूतेन । निमित्तताम् एव दर्शयति—स्पर्शादीन् वर्णान् रूपयति सङ्कल्पयतीति स्पर्श-रूपि तेन । स्पर्श-ग्रहणम् उपलक्षणम् । हृदयाकाशाद् बृहतीं सृजतीति तृतीय-श्लोकेनान्वयः।

बृहती-शब्दार्थ-व्याख्यानाय विशेषणानि—सहस्र-पदवीं बहु-मार्गाम् । तद् एवाह—ॐ-काराद् उरः-कण्ठादि-सङ्गेन व्यञ्जितैः स्पर्शादिभिर् भूषिताम् । ॐ-कारश् चात्र हृद्-गतः सूक्ष्मोऽभिप्रेतो, न त्व् अकारादि-वर्ण-रूपः । तस्य व्यङ्ग्य-कोटित्वात् । तत्र स्पर्शाः चत्वारि चत्वार्य् अक्षराण्य् उत्तराण्य् अधिकानि येषां तैश् छन्दोभिर् उपलक्षिताम् । एवम् अनन्त-पारां सृजति स्वयम् एवाक्षिपते उपसंहरति ॥३८-४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्यैव प्राणादि-मयतया पराख्यादि-रूपेण स्वस्माद् उद्भव-प्रकारम् आह—यथोर्णेति त्रिकेण । यथोर्णनाभिर् हृदयात् सकाशान् मुख-द्वारा ऊर्णाम् उद्वमते गिरति चेत्य् अर्थस् तथा प्रभुर् ईश्वरो मद्-अंशः परमात्मा स्वरूपेणामृतमयः परमानन्द-स्वरूपः, शक्त्या छन्दो-मयः सर्व-ज्ञानादि-सम्पन्न-वेद-मयः सन् आकाशाद् आकाशम् अवलम्ब्य हिराण्यगर्भस्याधार-चक्रे चाविर्भूय पराख्यां बृहतीं सृजति, ततो घोषवान् किञ्चिद् व्यक्त-नादवान् सन्न् आभिचक्रे मध्यमाख्यां सृजति, ततो हृदि प्राणात्मकः सन् ॐ-कारान् नाद-रूपाकारताम् आसाद्य स्पर्श-रूपिणा तत्-तद्-वर्ण-भेद-ज्ञान-श्पर्शिना मनसा पश्यन्त्य्-आख्यां सृजति, ततश् च व्यञ्जित-स्पर्शेत्य् आदि-रूपां छन्दोभिर् इत्य्-आदि-रूपां च शाखाभिः सहस्र-पदवीं वैखर्याख्यां सृजति, कालान्तरे त्व् आक्षिपते, अन्तः प्रवेशयति च । तत्र पूर्वं मात्रा स्वरो वर्ण इति स्थविष्ठ इत्य् अत्र मात्रा ह्रस्वादिः, स्वर उदात्तादिर् इति ये पृथक् प्लुता उदात्तादयश् च गृह्यन्ते, तेषाम् अपि स्वरान्तर्भावात्, क्ष-कारस्य च स्पर्शोष्मस्व् अन्त्रभावाद् एकोनपञ्चाशद् एवात्र गणिताः ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूक्ष्म-रूप-शब्द-ब्रह्मणस् तस्य प्राणादिमयतया पराख्यादि-रूपेण स्वस्माद् उद्भव-प्रकारम् आह—यथोर्णेति त्रिभिः । यथोर्णनाभिर् हृदयात् सकाशान् मुख-द्वाराद् ऊर्णाम् उद्वमते, तथा प्रभुर् ईश्वरो मद्-अंशः हिरण्यगर्भान्तर्यामी, स्वरूपेणामृतमयः परमानन्द-मयः, स्व-शक्त्यैव छन्दो-मयः, सर्व-ज्ञानादि-सम्पन्न-वेद-मयः सन्, आकाशाद् आकाशम् अवलम्ब्य हिराण्यगर्भस्याधार-चक्रे चाविर्भूय, प्राणेन घोषेण गुहां प्रविष्टः [भा।पु। ११.१२.१७] इति पूर्वोक्त-घोषो नादस् तद्वान् प्राणः स्वयं तदीय-प्राणवांश् च सन्, मनसा निमित्त-भूतेन बृहतीं वैखरी-प्रधानां श्रुतिं प्रथमं पराख्यां, ततः पश्यन्त्य्-आख्यां, ततो वैखर्याख्यां सृजति । पुनर् आक्षिपते उपसंहरति च । निमित्ततां विवृण्वन् मनो विशिनष्टि—स्पर्श-रूपिणा स्पर्श इत्य् उपलक्षणं स्पर्शादीन् वर्णान् रूपयति सङ्कल्पयति स्पर्श-रूपि तेन । बृहती-शब्दार्थ-व्याख्यानाय विशेषणानि—सहस्र-पदवीं बहु-मार्गाम् । ॐ-काराद् उरः-कण्ठादि-सङ्गेन व्यञ्जितैः स्पर्शादिभिर् भूषिताम् । ॐ-कारश् चात्र हृद्-गतः सूक्ष्मोऽभिप्रेतः, न त्व् अ-कारादि-वर्ण-रूपः, तस्य व्यङ्ग्य-कोटित्वात् । तत्र स्पर्शाः कादयो मान्ताः । स्वरा अ-कारादयः षोडश । उष्माणः श-ष-स-हाः । अन्तःस्था य-र-ल-वाः । विचित्राभिर् वैदिक-लौकिक-भाषाभिर् विततां यथोत्तरां चत्वारि चत्वार्य् अक्षराण्य् उत्तराण्य् अधिकानि येषां तैश् छन्दोभिर् उपलक्षितां, न अन्तः समाप्तिं शब्दतो नाप्य् एतावान् एवार्थ इति पारश् चार्थतो यस्यास् ताम् ॥३८-४०॥

———————————————————————————————————————

॥ ११.२१.४१ ॥

गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च ।

त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विराट् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषु कतिचिच् छन्दांसि दर्शयति, गायत्रीति । तत्र चतुर्-विंशत्य्-अक्षरा गायत्री । ततश् चतुर्-अक्षर-वृद्ध्योष्णिग्-आदि-च्छन्दांसि, अत्यष्टिः, अतिजगती, अतिविराट् चेत्य् अर्थः । एतैश् छन्दोभिर् उपलक्षिताम् इति पूर्वेणान्वयः । अतो बृहत्य् अपि साकल्येन स्वरूपतो दुर्ज्ञेया इत्य् उक्तम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषु कतिचिच् छन्दांसि दर्शयति—गायत्रीति । अत्र चतुर्-विंशत्य्-अक्षरा गायत्री । ततश् चतुर्-अक्षर-वृद्ध्योष्णिग्-आदि-च्छन्दांसि, अत्यष्टिः, अतिजगती, विराट् चेत्य् अर्थः । एतैश् छन्दोभिर् उपलक्षिताम् इति पूर्वेणान्वयः ॥४१॥

———————————————————————————————————————

॥ ११.२१.४२ ॥

किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।

इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विविध-रूपत्वेन कल्पनं विकल्पः चत्वारि । वाग् इत्य्-आदि । तत्र वाग् इत्य् अनुवादः ।

विधि-भागे हरेः पूजैवाभिधाने च तद्-गुणाः ।

विकल्पे तद् बहुत्वं चाप्य् अपोहे तु तद् अप्रियम् ।

उच्यते सर्व-वेदेषु तच् च वेद स एव हि ॥ इति आगम-तात्पर्ये ।

सुरा हरेर् गुणाः प्रोक्तास् ते मे स्युर् इति चिन्तनम् ।

सुरा-पानम् इति प्रोक्तं तन् न कुर्यात् कथञ्चन ॥

ब्राह्मणो विष्णुर् उद्दिष्टः स नास्तीत्य् अभिचिन्तनम् ।

ब्रह्म-हत्या समुद्दिष्टा तां न कुर्यात् कथञ्चन ।

इत्य् आद्य् अपोह-वाक्यार्थश् चिन्त्यो विष्णुर् बुधैर् जनैः ॥ इत्य्-आदि च ॥

मद्-अन्यः कश्चन कोऽपि न वेद ॥४२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थतोऽपि दुर्ज्ञेयत्वम् आह—किम् इति । कर्म-काण्डे विधि-वाक्यैः किं विधत्ते ? देवता-काण्डे मन्त्र-वाक्यैः किम् आचष्टे प्रकाशयति ? ज्ञान-काण्डे किम् अनूद्य विकल्पयेन् निषेधार्थम् इत्य् एवम् अस्या हृदयं तात्पर्यं मत् मत्तोऽन्यः कश्चिद् अपि न वेद ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं मद्-उत्पन्नस्य वेदस्य तात्पर्य-ज्ञश् चाहम् एव इत्य् आह—किं विधत्ते इति ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहती स्वरूपतो दुर्ज्ञेयेत्य् उक्तम् । अर्थतोऽपि दुर्ज्ञेयतेत्य् आह—किं विधत्ते श्रुत्या कर्तव्यत्वेन किं विधीयते, स्वस्य हितार्थं जीवैर् इदम् एव कर्तव्यम् इति किं कर्तुम् आदिश्यते इत्य् अर्थः । किम् आचष्टे किम् अभिधत्ते श्रुत्या किम् अभिधीयते श्रुत्य्-अर्थस् तावत् क इत्य् अर्थः । किम् अनूद्य विकल्पयेत् इदम् एकं वस्तु इदम् अपरं वस्तु इदम् अप्य् अन्यद् वस्तु इति द्वि-त्रीणि वस्तूनि निर्दिश्य विकल्पयेति, इदं वा कुर्यात्, इदं वा कुर्यात्, इदं व कुर्याद् इति यद् विदधीत, तत् किं ? इत्य् अर्थः ।

ननु अहरहः सन्ध्याम् उपासीत, कर्मणा पितृ-लोकः इति दर्शनात् कर्मैव श्रुतिर् विधत्ते, चोदना-लक्षणो धर्मः इति व्याख्यानाद् धर्म एव श्रुत्य्-अर्थः । व्रीहिभिर् वा यजेत यवैर् वा यजेत इति वैकल्पिको विधिर् अपि धर्म-विषयक एव । यद् वा, भक्ति-योगो निष्काम-कर्म-ज्ञान-योगश् चानूद्य विकल्पितः, यथा—

भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः ।

तयोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ इति ।

तत्र रे मूढाः ! नहि नहीत्य् आह—अस्याः श्रुतेर् हृदयं हृद्-गतम् अभिप्रायं मद्-अन्यो नैव कश्चन वेद । प्रेयस्याः अभिप्रेतम् अर्थं प्रेयांसं विना को वेदेति भावः ॥४२॥

———————————————————————————————————————

॥ ११.२१.४३ ॥

मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् ।

एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् ।

माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभिदश् च स एव अश् च अभिदाः तम् अभिदां माम् आस्थाय माया-मात्रं सद्-इच्छा-निर्मितं शरीरादिकम् अनूद्योपासनादिकं विधाय मोक्ष-रूपेण तच्-छरीरादिकं प्रतिषिध्य प्रशाम्यति ।

सर्वावतार-रूपेषु निर्भेदत्वाद् अदोषतः ।

अभेदो विष्णुर् उद्दिष्टस् तम् एवोक्त्वा तद्-इच्छया ॥

निर्मितं दैहिकं बन्धं तस्योपासनयैव तु ।

प्रतिषिध्य विमोक्षे तु स्वभावोपास्ति-रूपतः ॥

प्रतिशाम्यति वेदोऽयं वासुदेवैक-संश्रयः ॥ इति च ।

अभिदाम् आस्थाय कोऽपि शब्दोम् इति वा ॥४३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि त्वं मत्-कृपया कथय, ॐ इति कथयति । माम् एव यज्ञ-रूपं विधत्तेमाम् एव तत्-तद्-देवता-रूपम् अभिधत्ते, न मत्तः पृथक् । यच् चाकाशादि-प्रपञ्च-जातम् तस्माद् वा एतस्माद् आत्मन आकाशः संभूतः[तै।उ। २.१.३] इत्य्-आदिना विकल्प्यापोह्यते निराक्रियते तद् अप्य् अहम् एव, न मत्तः पृथग् अस्ति ।

कुतः ? इत्य् अपेक्षायां सर्व-वेदार्थं सङ्क्षेपतः कथयति—एतावान् एव सर्वेषां वेदानाम् अर्थः । तम् एवाह—शब्दो वेदो मां परमार्थ-रूपम् आश्रित्य भिदां माया-मात्रम् इत्य् अनूद्य, नेह नानास्ति किञ्चन इति प्रतिषिध्य प्रसीदति निवृत्त-व्यापारो भवति ।

अयं भावः—यथा ह्य् अङ्कुरे यो रसः, स एव तद्-विस्तार-भूत-नाना-काण्ड-शाखास्व् अपि, तथैव प्रणवस्य योऽर्थः परमेश्वरः, स एव तद्-विस्तार-भूतानां सर्व-वेद-काण्ड-शाखानाम् अपि सङ्गच्छते, नान्य इति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं सर्व-वेद-समन्वयं स्वस्मिन् श्री-भगवत्य् एव स्वयम् आह। यद् वा, परम-प्रतिपाद्यश् चाहं श्री-कृष्ण-रूप एव इत्य् आह—मां विधत्ते इत्य् अर्धकेण । मत्-तात्पर्यकत्वेनैव तत्-तद्-विधानादिकं कृत्वा मय्य् एव पर्यवस्यतीत्य् अर्थः । यद् वा, मां यज्ञ-पुरुषं विधत्ते, श्रुतिर् माम् एव तत्-तद्-देवता-रूपम् अभिधत्ते । यच् चाकाशादि-प्रपञ्च-जातं—तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.३] इत्य्-आदिना विकल्प्य विविधं कल्पयित्वापोह्यते, तत्-तन्-निषेधेन सिद्धान्त्यते यत् तद् अहं श्री-कृष्ण-लक्षणं वस्त्व् एवेति । न मत्तः पृथग् अस्ति, सर्वस्य मद्-आत्मकत्वाद् इति भावः ।

तद् एव दर्शयति—एतावान् इति । यः शब्दो वेदस् तद्-अनुगतश् च स माया-मात्रं जगन् निषिध्य भिदां मद्-अवतारादि-रूपां चानूद्य तद्-अन्ते मां श्री-कृष्ण-रूपम् एवास्थायालम्ब्य प्रसीदति—कृत-कृत्यो भवति । तद् उक्तं श्री-गीतासु—वेदैश् च सर्वैर् अहम् एव वेद्यो, वेदान्त-कृद् वेद-विद् एव चाहं [गीता १५.१५] इति ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि त्वम् एव कृपया कथयेति तत्रोम् इत्य् आह—मां विधत्ते भक्तेर् मद्-स्वरूप-भूतत्वान् मद्-भक्तिम् एव कर्तव्यत्वेन विधत्ते इत्य् अर्थः । यागादि-विधीनाम् अपि मद्-भक्ति-विधान एव तात्पर्यात्, धर्मो यस्यां मद्-आत्मकः [भा।पु। ११.१४.३]इति मद्-उक्तेः । अभिधत्ते माम् इति, अहम् एव सर्व-वेदार्थ इत्य् अर्थः । विकल्प्यापोह्यते ह्य् अहम्इति योगास् त्रयो मया प्रोक्ताः [भा।पु। ११.२०.३] इत्य् उक्तेः । काण्ड-त्रयेण कर्म ज्ञानं भक्तिश् चेत्य् अनूद्य «कर्म कुर्यात्, ज्ञानं वा अभ्यसेत्, भक्तिं वा कुर्याद्» इति विकल्प्य पश्चाद् अपोह्यते । प्रथमं सकाम-कर्मापोहो निष्काम-कर्म-करणं, ततो ज्ञानारूढत्वे सति निष्काम-कर्मणोऽप्य् अपोहः । ज्ञान-सिद्धि-दशायां ज्ञानं मयि संन्यसेद् इत्य् उक्तेर् ज्ञानस्याप्य् अपोहः । भक्तेर् अपोहस् तु न क्वापि समये न केनापि शास्त्र-वाक्येन प्रतिपादितो दृष्ट इत्य् अतः कर्म-ज्ञानापोहाद् एवाहम् अपोह्य इत्य् उक्तम् । प्रथम-पुरुष आर्षः । कर्म-ज्ञानयोर् अपि स्व-प्रापक-मार्गत्वात् तत्रास्मच्-छब्दः प्रयुक्तः । तस्य चिद्-रूपत्वान् मायिक-रूपत्वाच् च । तत्र मायिक-रूपस्यैवापोहो युज्यते, न चिद्-रूपस्य ।

नन्व् इतोऽपि किञ्चित् स्पष्टीकृत्य व्याचक्षतेति । अत आह—एतावान् इति । वेदात्मकः शब्दो माम् आस्थाय मद्-भक्ति-योग-विधायकत्वेन माम् एवाश्रित्य भिदां मत्तोऽपि भिन्नं कर्म-योगं ज्ञान-योगं च माया-मात्रम् अनूद्य इति । कर्म-योगस्य त्रिगुण-मयत्वेन त्वम्-पदार्थ-ज्ञान-पर्यन्ते ज्ञान-योगस्यापि विद्या-मयस्य सात्त्विकत्वेन माया-मात्रत्वम् । अतोऽन्ते प्रतिषिध्य क्रमेण तद् द्वयम् अपोह्य प्रसीदति निर्गुणाया मद्-भक्त्य्-अमृत-वल्ल्याः फलस्य मन्-माधुर्यानुभव-रूपस्य रसेन सज्जनान् आनन्दयन् स्वयम् अपि वि

वृणोतीत्य् अर्थः ।

ये त्व् एवं व्याचक्षते—माम् एव कर्म-काण्डे यज्ञ-रूपं विधत्ते, मन्त्र-वाक्यैर् देवता-काण्डे माम् एवाभिधत्ते, ज्ञान-काण्डे मत्तः पृथग्-आकाशादिकं विकल्प्य यद् अपोह्यते तद् अप्य् अहम् एव । तस्माद् एतावान् एव सर्व-वेदार्थः । शब्दो वेदः मां परमार्थ-रूपम् आश्रित्य भिदां माया-मात्रम् इत्य् अनूद्य, नेह नानास्ति किञ्चन इति प्रसीदति निवृत्त-व्यापारो भवतीति । एतद् व्याख्यानेऽपि माया-मात्रस्यैव प्रतिषेधोक्तेर् भक्तानां भक्त्य्-उपकरणानां भगवन्-निकेतादीनां च माया-मात्रत्वाभावान् न कापि क्षतिः ॥४३॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

श्री-भगवद्-उद्धव-संवादे एकविंशोऽध्यायः ।

॥११.२१॥



  1. एतयोः पद्ययोर् विस्तृत-व्याख्या ११.१२.१७ भावार्थ-दीपिकायां पाद-टीका द्रष्टव्या । ↩︎