२० भगवद्-उद्धव-संवादे योग-त्रयम्

॥ ११.२०.१-२ ॥

श्री-उद्धव उवाच—

विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते ।

अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥

वर्णाश्रम-विकल्पं च प्रतिलोमानुलोम-जम् ।

द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

विंशे योग-त्रयं प्रोक्तं भक्ति-ज्ञान-क्रियात्मकम् ।

गुण-दोष-व्यवस्थार्थम् अधिकारि-विभागतः ॥

गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४५] इत्य् उक्तं तद् आक्षिपति, विधिश् चेति पञ्चभिः । विधिश् च प्रतिषेधश् चेश्वरस्य तव निगम आज्ञा-रूपो वेदः । स च विधेयानां प्रतिषेध्यानां च कर्मणां गुणं दोषं च पुण्य-पाष-फल-रूपम् अवेक्षते ॥१॥

उत्तमाधम-भावेन तद् अधिकारिणां वर्णानाम् आश्रमाणां विकल्पं भेदं च गुण-दोष-रूपम् अवेक्षते । प्रतिलोमानुलोम-जं च गुणं दोषं च तथैवावेक्षते । प्रतिलोम-जा उत्तम-वर्णासु स्त्रीषु हीन-वर्णेभ्यः पुरुषेभ्यो जाताः सूत-वैदेहकादयः । अनुलोम-जास् तूत्तम-वर्णेभ्यः पुरुषेभ्यो हीन-वर्णासु स्त्रीषु जाता मूर्धावसिक्ताम्बष्ठादयस् तेषां च, असत् सन्तस् तु विज्ञेयाः प्रतिलोमानुलोम-जाः इति गुण-दोषौ द्रव्यादीन् कर्मार्हतानर्हताभ्याम् । स्वर्गं नरकं च तत् फलतया गुण-दोष-रूपम् एवावेक्षते । एतच् चोत्तराध्याये प्रपञ्चयिष्यते ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अभिप्रायम् अबुद्ध्वैव निगद-श्रवणाय पृच्छति । विधिश् चेति युग्मकम् अत्र गुणं दोषं चेति टीकायां गुणं पुण्यं दोषं पापं च क्रमेण गुण-दोष-रूपम् अवेक्षते इत्य् एव वाच्यं गुण-दोषं चेति समस्त-पाठे तस्य पुण्य-पाप-रूपं गुण-दोषम् अवेक्षत इत्य् अर्थः । किं त्व् अस्मिन् पाठे च-शब्दस् त्व् अनर्थकः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ज्ञानं कर्म च भक्तिश् च विंशे स्धु निरूप्यते ।

तत्र तत्राधिकारी च गुण-दोष-व्यवस्थया ॥

गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः इति यद् उक्तं तस्य भगवद्-अभिप्रेतम् अर्थं सहसा जानन्न् अपि तन्-मुखेनैव तस्य विवरणं नानार्थ-विशेष-सहितं श्रोतु-कामस् तत्र विप्रतिपद्यमान इवाह—विधिश् चेति पञ्चभिः । विधिश् च प्रतिषेधश् च ईश्वरस्य तव निगमः आज्ञा-रूपो वेद एव तत्र विधिर् विधेयानां कर्मणां गुणम् अवेक्षते । प्रतिषेधः प्रतिषेध्यानां कर्मणां दोषम् अवेक्षते प्रतिपादयतीत्य् अर्थः । विधि-निषेधाभ्याम् एव गुण-दोषौ पुण्य-पापे स्वर्ग-नरकौ भवत इति यावत् । तथा वर्णानाम् आश्रमाणां च विकल्पं भेदं च तद्-गतं गुणं दोषं चावेक्षते । प्रतिलोमानुलोमजं तद्-गतं च गुण-दोषं प्रतिलोमजा उत्तम-वर्णासु स्त्रीषु हीन-वर्णेभ्यः पुरुषेभ्यो जाताः सुत-वैदेहकादयः । अनुलोमजास्तु उत्तम-वर्णेभ्यो हीन-वर्णासु जाताः अम्बष्ठ-करणादयः । द्रव्यादि-गतांश् च गुण-दोषान् स्वर्ग-नरक-रूपं दोषं च ॥१-२॥

———————————————————————————————————————

॥ ११.२०.३ ॥

गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव ।

निःश्रेयसं कथं नॄणां निषेध-विद्धि-लक्षणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि प्रस्तुते किम् आयातम् अत आह—गुण-दोषेति । गुण-दोष-दृशिर् दोष इति निराकृतत्वाद् गुण-दोष-भिदा-दृष्टिम् अन्तरेण तां विना निषेध-विधि-लक्षणं कर्म-काण्ड-गतं तव वचः कथम् । तच् च वचोन्तरेण नृणां निःश्रेयसं कथं स्यात् तत्रापि श्रोतव्यो मन्तव्यः इति साधन-विधेः, नानुध्यायेद् बहून् शब्दान् वाचो विग्लापनं हि तत् इत्य्-आदि निषेधस्य चावश्यकत्वाद् इति भावः ।

यद् वा, गुण-दोष-भिदा-दृष्टि-रूपं निषेध-विधि-लक्षणं तव वचो विनेति सामानाधिकरण्यम् एवास्तु । यद् वा, गुण-दोष-भिदा-दृष्टिम् अन्तरेण निषेध-विधि-लक्षणम् अपि वचः कथं नु तत्त्वम् अस्यादि-वाक्यवन् निःश्रेयस-परं स्यात् । सर्वस्य वेदस्य तत् परत्वाङ्गी-काराद् इत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुण-दोष-भिदेति तैः । तत्र निःश्रेयसं मोक्षः तथा वाक्य-भेदम् आशङ्क्याह—यद् वेति । अन्तरेणेत्य् अस्यैव योजनया विनेति व्याख्यातम् । तां तच् च विना निःश्रेयसं कथं स्यात् ? इत्य् अर्थः । अत एव प्रतिपाद्यत्वात् सामानाधिकरण्येन, न तु वैयधिकरण्येन, तच् च वच इत्य्-आदिकं पुनर् आवर्त्यते इत्य् एकारार्थः । निःश्रेयसं कथं स्यात् ? इति तु पूर्ववद् एव योज्यम् । सर्वस्य वेदस्येति अन्तःकरण-शुद्ध्य्-आदि-विधि-निषेध-लक्षणस्यापि ज्ञान-द्वारेत्य् आदिर् इति भावः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापि प्रस्तुते किम् आयातम् अत आह—गुणेति । निषेध-विधि-लक्षणं वचस् तव वेद-रूपं वाक्यं गुण-दोष-भिदादृष्टिम् अन्तरेण अयं विहितत्वाद् गुणः अयं निषिद्धत्वाद् दोष इति या भेद-दृष्टिस् तां विना कथं निःश्रेयसं निःश्रेयस-करं स्यात् ॥३॥

———————————————————————————————————————

॥ ११.२०.४ ॥

पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर ।

श्रेयस् त्व् अनुपलब्धेऽर्थे साध्य-साधनयोर् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पितरो देवाश् च सर्व-ज्ञाः प्रत्यक्षतो दृष्ट्वा मनुष्येभ्यः कथयिष्यन्ति न, इत्य् आह—पित्र्-आदीनां सर्वेषां तव त्वद्-वाक्य-रूपो वेद एव तु श्रेयः श्रेष्ठं चक्षुः प्रमापकम् । क्व ? अनुपलब्धेऽर्थे मोक्षे स्वर्गादौ च, तथा साध्य-साधनयोर् इदम् अस्य साध्यम्, इदम् अस्य साधनम् इत्य् अत्रापि । तद् एवं गुण-दोष-दृष्ट्य्-अभावे निःश्रेयसं न घटेत ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अनुपलब्धे ऽर्थे भगवत्-स्वरूप-विग्रह-वैभवादौ ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं मनुष्याणाम् एव वेदो निःश्रेयस-करोऽपि तु देव-पित्रादीनाम् अपीत्य् आह—पितृ-देवेति । तव वेद एव श्रेयः श्रेष्ठं चक्षुर् ज्ञान-हेतुः । क्व ? अनुपलब्धेऽर्थे मोक्षे स्वर्गादौ च तथा साध्य-साधनयोर् इदम् अस्य साधनम् इत्य् अत्रापि ॥४ ॥

———————————————————————————————————————

॥ ११.२०.५ ॥

गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः ।

निगमेनापवादश् च भिदाया इति ह भ्रमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वतः सर्व-गुणात्मा तु विष्णुर् एकः सनातनः ।

अन्यत् सर्वं तत्-प्रियत्वाद् गुणो दोषस् तथाप्रियम् ॥ > एवं ज्ञानवतां दृष्टिर् अज्ञस् तन् नावगच्छति । > काल-देश-विशेषेषु प्रीति-भेदम् अपेक्ष्य तु ॥ > अविज्ञातवतस् तस्य मर्यादा वेदतः कृता । > गुण-दोष-भिदा नास्ति भगवत्-प्रियम् अन्तरा ॥ > गुण-दोष-दृशोर् दोषो ह्य् अन्यत्र भगवत्-प्रियात् । > गुण यद्-दोषताम् ईयुर् दोषाश् च गुणतां क्वचित् ॥ > अतो दोषो न दोषः स्याद् अगुणोऽपि गुणो भवेत् । > भगवत्-प्रीति-विज्ञानाद् गुण-दोष-भिदां यदि ॥ > पश्येत् तत्-तद्-गुणायैव विपर्यासं न कारयेत् । > गुण-दोष-भिदा क्वापि स्वातन्त्र्येण न हि क्वचित् ॥ इति ब्रह्म-मये > । > स्वतस् तु गुण-दोषत्व-दृशोर् भेदेन वस्तुना । > दोषोऽथ गुण एव स्याद् भगवत्-प्रीतितो गुणः ॥ > दोषस् तु तद्-वैपरीत्यादि इति दृष्ट्या भवेद् गुणः । > काल-देश-विशेषेण प्रीत्य्-अज्ञानाज् जगत्-स्थितेः । > मर्यादा गुण-दोषाणां कृता वेदेषु सर्वदा ॥ इति परायणे ।


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, शास्त्रेणैव विहितां भेद-दृष्टिं तस्मिन्न् एव विषये शास्त्रं कथं निवर्तयेत् ? इत्य् आह—ते निगमात् त्वद्-आज्ञा-रूपाद् वेदाद् एव, न हि स्वतः । यस्माद् अर्थ-प्राप्तत्वेन निवर्तेत । ह स्फुटम् । भ्रमो भवति तं निवर्तयेति शेषः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुण-दोषेति । तैः तत्र तस्मिन्न् इति पूर्वोक्त-पुण्य-पापाव् इत्य् अर्थः । यस्माद् इति यदि स्वतः स्यात् तदा तर्केणापि निवर्तेत, न तु तथा वेदेनैव जातत्वात् तद्-अर्थ-प्राप्तत्वेनैव निवर्तेत । तद् एवं ह स्फुटं यो ऽयं भ्रमो भवति, स यस्मात् तद्-अर्थ-प्राप्तत्वेनैव निवर्तेत, तस्माद् वेद-वाचा त्वम् एव तं भ्रमं निवर्तयेत्य् अर्थः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परस् त्व् इदानीम् उभय-सङ्कटम् उपस्थितम् इत्य् आह गुणेति । निगमात् त्वद्-आज्ञा-रूपाद् वेदाद् एव विधि-निषेधात्मकाद् गुण-दोष-भेद-दृष्टिर् विहिताभूत् । निगमेनाद्यतन्या त्वद्-आज्ञया भिदाया गुण-दोष-भेद-दृष्टेर् अपवादश् चेत्य् अस्पष्टम् अभिप्राय-निश्चयासामर्थ्यान् मे भ्रमोऽभूत् तं त्वम् एव निवर्तयेति भावः ॥५ ॥

———————————————————————————————————————

॥ ११.२०.६ ॥

श्री-भगवान् उवाच

योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।

ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥1

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषयाभेदेऽप्य् अधिकारि-भेदेनाविरोधं वक्तुं प्रथमं योग-त्रयम् आह—योगा इति । योगा उपाया ब्रह्म-कर्म-देवता-काण्डैः प्रोक्ताःकर्म च निष्कामम् । श्रेयो-विधित्सया मोक्ष-साधनेच्छया । अन्य उपायो नास्तीति काम्य-कर्मादिकं व्यावर्तयति। तथा चोत्तराध्याये स्फुटीकरिष्यति य एतान् [भा।पु। ११.२१.१] इत्य्-आदिना ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां—विषयाभेदेऽपि पूर्वोक्त-पुण्य-पापादि-रूपाणाम् अभेदेऽपीत्य् अर्थः । अधिकारि-भेदेन इति कर्मादि-साधकान् प्रति बहवो गुण-दोषा वर्णिताः । परम-सिद्धान् प्रति गुण-दोष-दृशिर् दोषः [भा।पु। ११.१९.४५] इत्य् अनेनैक एवेति भावः


यद् वा, अकिञ्चनाख्याया एव भक्तेः सर्वोर्ध्व-भूमिकावस्थितत्वम् अधिकारि-विशेष-निष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र पर-तत्त्वस्य वैमुख्य-परिहाराय यथा-कथञ्चित् सांमुख्य-मात्रं कर्तव्यत्वेन लभ्यते । तच् च त्रिधा—(१) निर्विशेष-रूपस्य तदीय-ब्रह्माख्याविर्भावस्य ज्ञान-रूपं, (२) स-विशेष-रूपस्य च तदीय-भगवद्-आख्याविर्भावस्य भक्ति-रूपम् इति द्वयं । (३) तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण-रूपम् इति । तद् एतत् त्रयं पुरुष-योग्यता-भेदेन व्यवस्थापयितुं लोके सामान्यतो ज्ञान-कर्म-भक्तीनाम् एवोपायत्वं नान्येषाम् इत्य् अनुवदति—योगास् त्रय इति । योगा उपायाः मया शास्त्र-योनिना श्रेयांसि मुक्ति-त्रि-वर्ग-प्रेमाणि अनेन भक्तेः कर्मत्वं व्यावृत्तम् ॥६॥ (भक्ति-सन्दर्भः १७०)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधिकारि-भेदेनावस्था-भेदेन च गुण-दोष-भेद-दृष्टेर् विहितत्वं निषिद्धत्वं च यथा-योगं भवेद् इति । तज् ज्ञापयितुम् आह—योगा उपाया ब्रह्म-कर्म-देवता-काण्डैः प्रोक्ताःश्रेयांसि मोक्ष-त्रिवर्ग-प्रेमाणि तेषां विधित्सयेति मे सर्वत्र कृपयैवेति भावः । नान्य एतत्-त्रितयं विना अन्यस् तपो-योगादिकः, तपोऽष्टाङ्ग-योगादेर् यथा-सम्भवं ज्ञान-भक्त्योर् एवान्तर्भाव-दर्शनाद् इति भावः । त्रय इत्य् अनेन कर्मिभिः कर्मण एव, ज्ञानिभिर् ज्ञानस्यैवोच्यमानं, शुद्ध-भक्तित्वं पराहतम् ॥६॥

———————————————————————————————————————

॥ ११.२०.७ ॥

निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु ।

तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेष्व् अधिकारि-भेदम् आह—निर्विण्णानाम् इति द्वाभ्याम् । इह एषां मध्ये कर्मसु निर्विण्णानां दुःख-बुद्ध्या तत्-फलेषु विरक्तानाम्, अत एव तत्-साधन-भूत-कर्म-न्यासिनां ज्ञान-योगः सिद्धिद इत्य् उत्तरेणान्वयः । अनिर्विण्ण-चित्तानां दुःख-बुद्धि-शून्यानाम् । अतः कामिनां तत्-फलेष्व् अविरक्तानाम् इत्य् अर्थः ॥७॥


कैवल्य-दीपिका : अथ विहितास्व् अधिकारि-भेदम् आह—निर्विण्नानाम् इति । न्यासिनां कर्म-त्यागिनां मध्ये निर्विण्णानां वीत-रागाणां2 ज्ञान-योगः ज्ञान-मिश्रा भक्तिः । तेषु न्यासिषु मध्ये अनिर्विण्णानां कर्मसु सत्सु ज्ञान-योगः । (कर्म-ज्ञान-योगः) । त्यक्त-काम्य-कर्मणाम् अप्य् अतितीव्र-वैराग्याणां कर्म-ज्ञान-मिश्रा भक्तिर् इत्य् अर्थः । कामिनां काम्य-कर्मासक्तानां तु कर्म-योगः कर्म-मिश्रैवेत्य् अर्थः ॥७॥ [मु।फ। ५.१७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : तेष्व् अधिकारि-हेतून् आह द्वाभ्याम्—निर्विण्णानाम् इति । इह एषां मध्ये निर्विण्णानाम् ऐहिक-पारलौकिक-विषय-प्रतिष्ठा-सुखेषु विरक्तानाम्, अत एव तत्-साधन-भूतेषु लौकिक-वैदिक-कर्मसु न्यासिनां, तानि त्यक्तवताम् इत्य् अर्थः । पद-द्वयेन दृढ-जात-मुमुक्षूणाम् इत्य् अभिप्रेतम् । तेषां ज्ञान-योगः सिद्धिदःकामिनां तत्-तत्-सुखेषु रागिणाम्, अत एव तेषु कर्मसु अनिर्विण्ण-चित्तानां तानि त्यक्तुम् असमर्थानां कर्म-योगः सिद्धिदस्, तत्-सङ्कल्पानुरूप-फलदः ॥७॥ (भक्ति-सन्दर्भः १७१)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र के कुत्राधिकारिणः ? इत्य् अपेक्षायाम् आह—निर्विण्णानाम् इति द्वाभ्याम् । इह एषाम् मध्ये निर्विण्णानां विरक्तानां गृह-कुटुम्बादिष्व् अनासक्तानाम् इत्य् अर्थः । अत एव कर्मसु गृहाश्रम-प्राप्तेषु न्यासिनां त्यागवतां ज्ञान-योगो भवेत् । तेषु गृहाश्रम-कर्मसु अनिर्विण्ण-चित्तानां यतः कामिनां, कामो विषयासक्तिस् तद्-अतिशयवतां, भूम्नि मत्व्-अर्थीयः, देह-गेह-कलत्रादिष्व् अत्यासक्तिमताम् इत्य् अर्थः ॥७॥

———————————————————————————————————————

॥ ११.२०.८ ॥

यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धि-दः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एतद् एवोच्यते—

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । > विपर्ययस् तु दोषः स्याद् उभयोर् एष निर्णयः ॥ इति च । > सनकाद्या ज्ञान-योगो भक्ति-योगास् तु देवताः । > मानुषाः कर्म-योगास् तु त्रिधैते योगिनः स्मृताः ॥ > सर्वेषां सर्व-योगैश् च प्राप्या मुक्तिर् न संशयः । > तथापि तु विशेषेण स तेषाम् अभिधीयते ॥ > भगवद्-गुणानुसारेण वेदार्थो नीयते हि यैः । > भक्ति-योगास् तु ते प्रोक्ता तादृशा हि सुराः सदा ॥ > अङ्गानुसारि वेदार्थं ज्ञात्वा तद्-अनुसारतः । > भगवद्-गुणायैर् नीयन्ते ते प्रोक्ता ज्ञान-योगिनः ॥ > कर्माणि शास्त्रतो ज्ञात्वा तत्-प्राधान्यानुसारतः । > विज्ञाता यैर् गुणा विष्णोर् ज्ञेयास् ते कर्म-योगिनः ॥ > भक्तिर् ज्ञानं च किञ्चित् तु पश्चात् तेष्व् अपि जायते । > तथापि कर्म-योगास् ते कर्म-पूर्वत्व-कारणात् ॥ > भगवद्-गुणानुरागित्वम् अधिकं भक्ति-योगिनाम् । > तस्मात् तेऽभ्यधिका ह्य् एषु देवा एव विशेषतः ॥ > ईषद् वैराग्यम् अल्पं तु पूर्वं देवेषु जायते । > पश्चाद् विरागोऽप्य् अधिको देवानां नात्र संशयः ॥ > ज्ञानाधिक्यं तु देवानां भक्त्याधिक्यं तथैव च । > विरागोऽभ्यधिकस् तेषां सदैव सनकादीनाम् ॥ > ज्ञानाधिक्यान् मनुष्येभ्यो भण्यन्ते ज्ञान-योगिनः । > न तु ज्ञानाधिकास् ते वै देवेभ्यस् तु कथञ्चन ॥ > देवानाम् अपि कर्मित्वं विद्यते यद्यपि स्फुटम् । > तथापि प्रत्यवायित्वान् मनुष्याः कर्म-योगिनः ॥ > त्रियोगाभ्यधिको ब्रह्मा सर्वेभ्यः परमो विभुः । > महा-योगेश्वरे शेषस् तस्माद् ब्रह्मा चतुर्मुखः ॥ इति त्रियोगे > ॥६-८ ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यदृच्छया केनापि भाग्योदयेन । तत्र काम्य-कर्मसु प्रवर्तमानस्य सर्वात्मना विधि-प्रतिषेधाधिकार इत्य् उत्तराध्याये वक्ष्यति । निष्काम-कर्म-योगाधिकारिण्यस् तु यथा-शक्ति । स चज्ञान-भक्ति-योगाधिकारात् प्राग् एव । तद्-अधिकृतयोस् तु स्वल्पः । ताभ्यां सिद्धानां तु न किञ्चिद् इति ॥८॥


कैवल्य-दीपिका : शुद्ध-भक्त्य्-अधिकारिणम् आह—यदृच्छया इति । यद्यपि निष्कामैः कर्मभिः शुद्ध-सत्त्वस्य भगवत्-कथादौ श्रद्धा स्यात्, तथापि साधन-सहस्र-दुर्लभेति द्योतनाय यदृच्छया इत्य् उक्तम् । भक्ति-योगः श्रद्धा-भक्तिः, स एव भक्ति-योगाख्यः [भा।पु। ३.२९.१४] इत्य् उक्तत्वात् ॥८॥ [मु।फ। ५.१८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ ते वै विदन्त्य् अतितरन्ति न देव-मायाम् [भा।पु। २.५.४५] इत्य् आदौ तिर्यग्-जना अपि इत्य् अनेन भक्त्य्-अधिकारे कर्मादिवत् जात्य्-आदि-कृत-नियमातिक्रमात् श्रद्धा-मात्रं हेतुर् इत्य् आह—यदृच्छयेति । यदृच्छया केनापि परम-स्वतन्त्र-भगवद्-भक्त-सङ्ग-तत्-कृपा-जात-मङ्गलोदयेन । यद् उक्तं, शुश्रूषोः श्रद्दधानस्य [भा।पु। १.२.१६] इत्य्-आदि ॥८॥ (भक्ति-सन्दर्भः १७१)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदृच्छया प्रथम-स्कन्ध-व्याख्यात-युक्त्या यादृच्छिक-महत्-सङ्गेन सत्-सङ्गेन मत्-कथादौ जात-श्रद्ध इति । अत एव श्रद्धामृत-कथायां मे [भा।पु। ११.१९.२०] इति, श्रद्धालुर् मे कथाः शृण्वन्न् [भा।पु। ११.११.२३] इति, तत्र तत्र भक्ति-योगे कथा-श्रद्धालुर् एवाधिकारी दर्शितः । अत्र तु भिन्नोपक्रम इत्य् अस्य ज्ञानिभ्यः कर्मिभ्यश् च वैशिष्ट्यम् एक-वचनेन विरल-प्रचारत्वं च ध्वनितम् । नातिसक्तो देह-गेह-कलत्रादिषु अत्यासक्ति-रहितः ।

अत्र न निर्विण्ण इति तेषु निर्विण्णत्वे ज्ञानेऽधिकारः, अत्यासक्तत्वे कर्मण्य् अधिकारः। अत्यासक्ति-राहित्ये भक्ताव् अधिकार इत्य् अधिकार-त्रय-विवेको निर्वेदस्य कारणं निष्काम-कर्म-हेतुकान्तः-करण-शुद्धिर् एव । अत्यासक्तेः कारणम् अनाद्य्-अविद्यैव । अत्यासक्ति-राहित्यस्य कारणं यादृच्छिक-महत्-सङ्ग एवेति तत्र तत्र कारणं दृश्यम् । किं चैतद् उत्कृष्टाधिकारिण एव लक्षणं किन्तु को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् न भजेत् सर्वतो-मृत्युः [भा।पु। ११.२.२] इत्य्-उक्तेर् यादृच्छिक-भक्त-सङ्गे सतीन्द्रियवान् एव भक्ताव् अधिकारी ज्ञेयः ॥८॥

———————————————————————————————————————

॥ ११.२०.९ ॥

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सावधिं कर्म-योगम् आह—तावद् इति नवभिः । कर्माणि नित्य-नैमित्तिकानि । यावता यावत् ॥९॥


सनातन-गोस्वामी : [ह।भ।वि। ११.५५३] भक्तितः कर्मानधिकारात् कर्म-त्यागेऽपि न दोषः स्याद् इति भक्तैर् माहात्म्यं लिखति—तावद् इति । कर्माणि नित्य-नैमित्तिकादीनि । यावता यवत् निर्विद्यते, कर्म-फलेषु ऐहिकामुष्मिक-विषय-भोगेषु वा विरक्तो न स्यात् । श्रद्धा विश्वासः प्रीतिर् वा । आदि-शब्देन कीर्तनादि-भक्ति-प्रकाराः । निर्वेदे जाते मत्-कथा-श्रवणादि-श्रद्धायां वा जातायां न कुर्याद् इत्य् अर्थः । कर्मणां सावधित्वेन साध्ये सिद्धे साधन-परित्यागोपपत्तेः । वा-शब्देन पूर्वतोऽस्य पक्षस्याधिक्यं सूचितम् । ये वा मयीशे [भा।पु। ५.५.३] इतिवत् । वैराग्ये जातेऽपि कर्म-त्यागो युक्तः । किं पुनर् वैराग्यस्य फले श्रवणादौ जाते सतीति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तावद् इति तैः । तत्र स्वल्पः यदृच्छया ज्ञान-भक्त्य्-अनुकूल-मात्रः । न किञ्चिद् इति अनुपयोगान्तराय-रूपत्वाच् चेति भावः । वाक्यार्थे तु तस्माद् अनयोः कर्मज-गुण-दोषाभ्यां न गुण-दोषत्वम् इति भावः ।

यद् वा, नन्व् एवं केवलानां कर्म-ज्ञान-भक्तीनां व्यवस्थोक्ता । नित्य-नैमित्तिकं कर्म तु सर्वेष्व् आवश्यकं, तर्हि साङ्कर्ये कथं शुद्धे ज्ञान-भक्ती प्रवर्तेयातां तद् एतद् आशङ्क्य तयोः कर्माधिकारितां वारयति—तावद् इति । कर्माणि नित्य-नैमित्तिकादीनि इति टीका च । अत एव—

श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते । > आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥

इत्य् उक्त-दोषोऽप्य् अत्र नास्ति, आज्ञा-करणात् । प्रत्युत जातयोर् अपि निर्वेद-श्रद्धयोस् तत्-करण एवाज्ञा-भङ्गः स्यात् । यथा च व्याख्यातम् आज्ञायैव गुणान् दोषान् [भा।पु। ११.११.३२] इत्य् अस्य टीकायां— भक्ति-दार्ढ्येन निवृत्त्य्-अधिकारतया सन्त्यज्य इति ।

निवृत्त्य्-अधिकारित्वं चोक्तं कर-भाजनेन—
देवर्षि-भूताप्त-नृणां [भा।पु। ११.५.४१] इत्य्-आदिना ।
तेषां न किङ्करः, किन्तु श्री-भगवत एवेत्य् अनधिकारित्वम् ।
अत्र कर्म-परित्याग-हेतुत्वेनाभिधानात्
श्रद्धा-शरणापत्त्योर् ऐकार्थ्यं लभ्यते ।
तच् च युक्तम्— श्रद्धा हि शास्त्रार्थ-विश्वासः ।
शास्त्रं च तद्-अशरणस्य भयं,
तच्-छरणस्याभयं वदति ।
ततो जातायाः श्रद्धायाः शरणापत्तिर् एव लिङ्गम् इति ।
न च देवादि-तर्पण-मात्र-तात्पर्येणापि
पृथक्-पृथग्-आराधनं कर्तव्यम् ।
यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इत्य् आदौ तत्-पौनरुक्त्य-प्राप्तेः ।
न च त्यक्त-कर्मणो मध्ये विघ्न-स्थगितायाम् अपि भक्तौ तत्-त्यागानुतापो युज्यते— त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि [भा।पु। १.५.१७] इत्य्-आद्य्-उक्तेः । श्री-गीतासु च—

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । > अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६]

इत्य् अस्य देवर्षि-भूताप्त-नॄणां [भा।पु। ११.५.३७] इत्य्-आदि-द्वयेनैकार्थ्यं दृश्यते । अतो भक्त्य्-आरम्भ एव तु स्वरूपत एव कर्म-त्यागः कर्तव्यः । परित्यज्येत्य् अत्र परि-शब्दस्य हि तथैवार्थः । गौतमीये च—

न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः । > केवलं सततं कृष्ण-चरणाम्भोज-भाविनाम् ॥ [गौ।त। ३३.५७],

तथा च विष्णु-पुराणेऽपि भरतम् उद्दिश्य—

यज्ञेशाच्युत गोविन्द माधवानन्त केशव । > कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् । > नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ [वि।पु। ?] इति > ।

अत्र वचनान्तरस्याप्य् अनवकाशात् । सुतराम् एव तद्-वचनमय-कर्मान्तर-परित्यागोऽङ्गीकृतः । कथञ्चित् क्रियमाणम् अपि तन्-नाम्नैव कृतम् इत्य् अवगतेश् च सर्वत्र तद्-ईक्षणाच् छुद्ध-भक्तित्वम् एवाङ्गीकृतम् । यथोक्तं पाद्मे—

सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकः । > सुखेन यां गतिं यान्ति न तां सर्वेऽपि धर्मिकाः ॥ [प।पु। > ६.७१.९९] इति ।

तस्मान् मतान्तरेणाप्य् उचितः श्रद्धावतोऽनन्य-भक्त्य्-अधिकारः कर्माद्य्-अनधिकारश् चेति। किन्तु श्रद्धा-सद्-भाव एव कथं ज्ञायते इति विचार्यम् । तत्र च लिङ्गत्वेन पूर्वं शरणापत्तिर् उपदिष्टैव । यस्माच् च शरणापत्तौ वक्ष्यमाणानि आनुकूल्यस्य सङ्कल्पः इत्य् आदीनि लिङ्गानि । तथा व्यवहार-कार्पण्याद्य्-अभावोऽपि श्रद्धा-लिङ्गं ज्ञेयम् । शास्त्रं हि तथैव श्रद्धाम् उत्पादयति—

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । > तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता ९.२२] > इत्य्-आदि ।

किं च, श्रद्धावतः पुरुषस्य भगवत्-सम्बन्धि-द्रव्य-जाति-गुण-क्रियाणां शास्त्रे श्रूयमाणेष्व् ऐहिक-व्यवहारिक-प्रभावेष्व् अपि न कथञ्चिद् अनाश्वासो भवति । ततस् तासु प्राकृत-द्रव्यादि-साधारण-दृष्ट्या दोष-विशेषानुसन्धानतो न कदाचिद् अप्रवृत्तिः स्यात् । ते च तादृश-प्रभावाः । बृहन्-नारदीये—

अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् । > सर्व-दुःखोपशमनं हरि-पादोदकं स्मृतम् ॥ [ना।प। ३७.१६] इत्य् > आदयः ।

केचित् तु तत्र श्रद्धावन्तोऽपि स्वापराध-दोषेण सम्प्रति तत् फलं नोदेतीति स्थगितायन्ते । यत् तु यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर-शुचिः इत्य् आदौ श्रद्दधाना अपि स्नानादिकम् आचरन्ति । तत् खलु श्रीमन्-नारद-व्यासादि-सत्-परम्पराचार-गौरवाद् एव । अन्यथा तद्-अतिक्रमेऽप्य् अपराधः स्यात् । ते च तथा मर्यादां लोकस्य कदर्य-वृत्त्यादि-निरोधायैव स्थापितवन्त इति ज्ञेयम् ।

किं च, जातायां श्रद्धायां सिद्धाव् असिद्धौ च स्वर्ण-सिद्धि-लिप्सोर् इव सदा तद्-अनुवृत्ति-चेष्टैव स्यात् । सिद्धिश् चात्रान्तःकरण-कामादि-दोष-क्षय-कारि-परमानन्द-परमाकाष्ठा-गामि-श्री-हरि-स्फुरण-रूपैव ज्ञेया । तस्यां स्वार्थ-साधनानुप्रवृत्तौ च दम्भ-प्रतिष्ठा-लिप्सादि-मय-चेष्टा-लेशोऽपि न भवति । न सुतरां ज्ञान-पूर्वकं महद्-अवज्ञादयोऽपराधाश् चापतन्ति, विरोधाद् एव । अत एव चित्रकेतोः श्री-महादेवापराधः तस्य स्व-चेष्टान्तरेणाच्छन्न-स्वभावस्य भागवतत्वाज्ञानाद् एव मन्तव्यः । यदि वा श्रद्धावतोऽपि प्रारब्धादि-वशेन विषय-सम्बन्धाभ्यासो भवति । तथापि तद्-बाधया विषय-सम्बन्ध-समयेऽपि दैन्यात्मिका भक्तिर् एवोच्छलिता स्यात् । यथोक्तं— जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयेत् [भा।पु। ११.१४.१७] इत्य् अत्र बाध्यमानोऽपि मद्-भक्तः [भा।पु। ११.१४.१८] इत्य् आदौ च । अपि चेत् सुदुराचारः [गीता ९.३०] इत्य्-आद्य्-उक्तस्यानन्य-भाक्त्वेन लक्षिता तु या श्रद्धा सा खलु ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता १७.१] इतिवल् लोक-परम्परा-प्राप्ता, न तु शास्त्रावधारण-जाता । शास्त्रीय-श्रद्धायां तु जातायां सुदुराचारत्वायोगः स्यात् । पर-पत्नी-पर-द्रव्य- [वि।पु। ३.८.१४] इत्य्-आदि-विष्णु-तोषण-शास्त्र-विरोधात् । मर्यादां कृतां तेन [विष्णु-धर्म] इत्य्-आदिना तद्-भक्तत्व-विरोधाच् च । न तु सा दुराचारता तद्-भक्ति-महिम-श्रद्धाकृतैव । अपि-शब्देन दुराचारत्वस्य हेयत्व-व्यञ्जनात् । तथा क्षिप्रं भवति धर्मात्माशाश्वच् छान्तिं निगच्छति [गीता ९.३१] इत्य्-उत्तराप्रतिपत्तेः । नाम्नो बलाद् यस्य हि पाप-बुद्धिः इत्य्-आदिनापराधापाताच् च ।

ततः सा श्रद्धा न शास्त्रीय-भक्त्य्-अधिकारिणो विशेषणत्वे प्रवेशनीया, किन्तु भक्ति-प्रशंसायाम् एव । तादृश्यापि श्रद्धया भक्तेः सत्त्व-हेतुत्वं, न तु देवान्तर-यजनवत् । ये शास्त्र-विधिम् उत्सृज्य [गीता १७.१] इत्य्-आदाव् एवोक्तम् अन्यादृशत्वम् इति ।

अस्याः श्रद्धायाः पूर्णतावस्था तु ब्रह्म-वैवर्ते—

किं सत्यम् अनृतं चेति विचारः सम्प्रवर्तते । > विचारेऽपि कृते राजन्न् असत्य-परिवर्जनम् । > सिद्धं भवति पूर्णा स्यात् तदा श्रद्धा महा-फला ॥

तद् एवं-लक्सणेषु श्रद्धोत्पत्ति-लक्षणेषु सत्सु विधीयते । तद् एवं-लक्षणेषु श्रद्धोत्पत्ति-लक्षणेषु सत्सु विधीयते, यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः [भा।पु। ११.२०.८] इत्य्-आदि, मत्-कथा-श्रवणादौ वा [भा।पु। ११.२०.९] इत्य्-आदि च । अत एवम् अनधिकार्य्-अधिकारि-विषयत्व-विवक्षयैव श्री-भगवन्-नारदयोर् वाक्ये व्यवतिष्ठते—

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । > जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता ३.२६] > इत्य्-आदि । > जुगुप्सितं धर्म-कृतेऽनुशासतः > स्वभाव-रक्तस्य महान् व्यतिक्रमः । > यद्-वाक्यतो धर्म इतीतरः स्थितो > न मन्यते तस्य निवारणं जनः ॥ [भा।पु। १.५.१५] इति च ।

एवम् अजित-वाक्यं च तद्-अधिकारि-विषयम् एव—

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । > न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [भा।पु। ६.९.५०] > इति ।

अत्र यद्यप्य् अधिकारितायां श्रद्धैव हेतुः सा चाज्ञस्य न सम्भवतीति नैतत् तद्-विषयं स्यात् । तथापि कथम् अपि प्राचीन-संस्कार-वितर्केण तद्-अधिकारित्व-निर्णयान् न दोष इति ज्ञेयम् । अन्यथोपदेष्टुर् एव दोषापातः स्यात् । अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः इति वक्ष्यमाणापराध-श्रवणात् । अत्र विशेष-जिज्ञासा चेत् श्री-भक्ति-सन्दर्भो दृश्यः ॥९॥ (भक्ति-सन्दर्भ १७२-१७३)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं जात्यैवातात्यासक्तस्य जीवस्य कर्माधिकारः स्वाभाविक एव । स च किं पर्यन्तस् तथा ज्ञानाधिकारो भक्त्य्-अधिकारश् च कदा स्याद् इत्य् अपेक्षायाम् आह तावद् इति । कर्माणि नित्य-नैमित्तिकानि । यावता यावत् न निर्विद्येत, कर्मणैवान्तःकरण-शुद्धौ सत्यां यावन् निर्वेदो न जायत इत्य् अर्थः । निर्वेदे जाते निर्विण्णानां, ज्ञान-योग इति मद्-उक्तेर् ज्ञान एवाधिकारो न कर्मणीति भावः । तथा आकस्मिक-महत्-कृपा-जनिता श्रद्धा वा यावद् इति श्रद्धातः पूर्वम् एव कर्माधिकारः, श्रद्धायां जातायां तु जात-श्रद्धस् तु यः पुमान् इति मद्-उक्तेर् भक्ताव् एव केवलायाम् अधिकारा न कर्मणीति भावः । श्रद्धा चेयम् आत्यन्तिक्य् एव ज्ञेया । सा च भगवत्-कथा-श्रवणादिभिर् एव कृतार्थीभविष्यतीति न तु कर्म-ज्ञानादिभिर् इति दृढैवास्तिक्य-लक्षणैव । तादृश-शुद्ध-भक्त-सङ्गोद्भूतैव ज्ञेया । अत एव—

श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते । > आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥

इत्य् उक्त-दोषोऽप्य् अत्र नास्ति । आज्ञा-करणात् । प्रत्युत जातायां श्रद्धायां तत्-करणे आज्ञा-भङ्गः प्रसज्जेद् इति । किन्त्व् अप्राप्त-महत्-कृपत्वाद् अजात-तादृश-श्रद्धाम् अपि वैष्णवान्तरोत्कर्षं दृष्ट्वैव तद्वद् एव कर्म त्यक्त्वा भगवद्-भजनम् एव तद्-वचन-विषयीकरोतीति केचिद् आहुर् अन्ये तु श्रुति-स्मृती भक्ति-प्रतिपादिके एव न तु वर्णाश्रम-धर्म-प्रतिपादिके । मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भा।पु। ११.११.३२] इति भगवद्-उक्ति-विरोधात् । अनन्य-भक्तानाम् अस्माकं श्रुति-स्मृत्य्-उक्त-विधि-निषेधाभ्यां न किम् अपि प्रयोजनम् इति मत्वा यद् एकादश्य्-आदि-व्रतानाम् आचरणं ताम्र-पात्रस्थ-दधि-दुग्धादेः कामस्य-पात्रस्थ-नारिकेलोदकस्य च भगवतेऽर्पणं तस्य च भगवद्-अर्पितस्य यद् भक्षणम् इति निषिद्धाचरणं च तदैव च श्रुति-स्मृती ममैवाज्ञे इति भगवद्-उक्तिर् विषयीकरोतीत्य् आचक्षते । न चलति निज-वर्ण-धर्मतः इति । न चलति न कम्पते इति तत्रार्थः । अत्र प्राच्यादि-भक्तानाम् अनन्याम् अपि कर्मि-कुल-संघट्ट-गतत्वेनैव तद्-अनुरोध-वशात् यदीषत् कर्म-करणं तत्-कर्माकरणम् एव तत्र श्रद्धा-राहित्यात्—

अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । > असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नेह च ॥ इति > भगवद्-उक्तेः ॥९॥


॥ ११.२०.१० ॥

स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव ।
न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनाशीः-कामोऽफल-कामः । अन्यन् निषिद्धं काम्यं च । नरक-यानं हि द्विधैव भवति विहितातिक्रमाद् वा निषिद्धाचरणाद् वा । अतः स्व-धर्म-स्थत्वान् निषिद्ध-वर्जनाच् च नरकं न याति । अफल-कामत्वान् न स्वर्गम् अपीत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं योग-त्रयं तद्-अधिकार-हेतुश् चोक्त्वा कर्मणोऽपि यथा भगवत्-सम्मुख्य-रूपत्वं स्यात्, तथाह—स्व-धर्म-स्थ इति । टीकायाम्—स्वर्गम् अपि इति पुण्य-फल-योगस्योपलक्षणम् एवेदम् । अफल-कामत्वं केवलेश्वराराधन-बुद्ध्या कुर्वानत्वम् । तत्र ज्ञानि-सङ्गे सति त्वन्-मात्रत्वम् एव भगवद्-अर्पणं भवेत् । भक्त-सङ्गे तु तत्-सन्तोषमयत्वम् ॥१०॥(भक्ति-सन्दर्भः १७४)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्यासक्तस्य कर्मिणः स्वर्ग-नरक-गामिनः कदाचित् सम्भविनं निष्काम-कर्म-योगम् आह—स्व-धर्म-स्थ इति । अनाशीः-कामः फल-कामना-रहितः अन्यत् निषिद्धं अतोऽयं स्वधर्मस्थत्वेन विहितानतिक्रमात् निषिद्ध-वर्जनाच् च नरकं न याति । फल-कामना-राहित्यान् न स्वर्गम् अपीत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ ११.२०.११ ॥

अस्मिन् लोके वर्तमानः स्व-धर्म-स्थोऽनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किन्त्व् अस्मिन् लोके अस्मिन्न् एव देहे अनघो निषिद्ध-परित्यागी । अतः शुचिर् निवृत्त-रागादि-मलः । यदृच्छयेति केवल-ज्ञानाद् अपि भक्तेर् दुर्लभतां द्योतयति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतो यदृच्छय्येति पूर्ववद् भक्त-सङ्ग-तत्-कृपा-लक्षणं भाग्यं बोधितम् । यद् उक्तं—एतावान् एव यजताम् [भा।पु। २.३.११] इत्य्-आदि ॥११॥ (भक्ति-सं। १७४)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्ह्य् अयं कर्मी किं प्राप्नोत्य् अत आह—अस्मिन्न् एव मर्त्य-लोके स्थितः । स्वधर्मस्थ इति निष्काम-कर्म-करणात् अनघ इति निष्पापत्वाच् च । शुचिः शुद्धान्तः-करणः सन् विशुद्धं ज्ञानम् आप्नोति ज्ञानान् मोक्षं च । यदृच्छयेति—यदि च यादृच्छिक-शुद्ध-भक्त-सङ्ग-लाभस् तदा मद्-भक्तिं च केवलाम् । तया च प्रेमाणं प्राप्नोति । यदि च कर्म-मिश्रया ज्ञान-मिश्रया च प्रधानीभूतया भक्त्या अन्ततः शान्ति-रतिं प्राप्नोति ॥११॥

———————————————————————————————————————

॥ ११.२०.१२ ॥

स्वर्गिणोऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा ।
साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेन प्रकारेण ज्ञान-भक्ति-साधनत्वान् नर-देहं स्तौति—स्वर्गिणोऽपीति । निरयिण इति दृष्टान्तत्वेनोक्तम् । ज्ञान-भक्तिभ्यां ज्ञान-भक्त्योः । तद् उभ्यं स्वर्गि-नारकि-शरीरम् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उभयं तद्-असाधकम् इति स्वर्गिणो महा-विषयावेशान् नारकिणो महा-पीडावेशात् नतु तयोः कर्मवद् असार्वत्रिकत्वात्, तद् उपर्य् अपि बादरायणः सम्भवात् [वे।सू। १.३.२६] इति न्यायेन ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो मुक्ति-प्रेम-भक्ति-साधकं नर-देहं स्तौति—स्वर्गिण इति षड्भिः । ज्ञान-भक्तिभ्यां ज्ञान-भक्त्योः, तद् उभ्यं स्वर्गि-नारकि-शरीरम् ॥१२॥

———————————————————————————————————————

॥ ११.२०.१३ ॥

न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः ।
नेमं लोकं च काङ्क्षेत देवावेशात् प्रमाद्यति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो नरः स्वर्-गतिं न काङ्क्षेत् । नारकीम् इति दृष्टान्तः । यद् वा, स्वर्ग-नरक-साधन-कर्माणि न कुर्याद् इत्य् अर्थः, अस्याति-श्रेष्ठत्वात् । पुनर् अपि मनुष्यो भवेयम् इत्य् अपि न काङ्क्षेत । यतो देहावेशाद् देहासक्त्य स्वार्थे प्रमाद्यत्य् अनवधान-शून्यो भवति॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् प्राप्तेन नर-देहेन ज्ञान-भक्ती एव साधयेन्, न तु स्वर्-गत्य्-आदिकं काङ्क्षेद् इत्य् आह—न नर इति ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् उत्कृष्टां नर-गतिं प्राप्य ततो निकृष्टां स्वर्गतिं नरक-गतिं च कृताभ्यां पुण्य-पापाभ्यां न कामयेतेत्य् आह—नेति । पाप्त-रहितां नृ-गतिम् अपि सुखेन तिष्ठेयम् इति बुद्ध्या न कामयेतेत्य् आह—नेमम् इति । इमं नर-लोकं यतो देहावेशात् देहासक्त्या स्वार्थे ज्ञाने भक्तौ वा प्रमाद्यति ॥१३॥

———————————————————————————————————————

॥ ११.२०.१४ ॥

एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः ।
अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि त्व् एतद् देह-साधकम् इति विद्वांस् तच् चार्थ-सिद्धि-दम् अपि मर्त्यं ज्ञात्वा अप्रमत्तोऽनलसः सन् मृत्योः पूर्वम् एव मोक्षाय घटेत प्रयत्नं कुर्यात् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ वैराग्य-पूर्वकं विज्ञान-मार्गं विवृणोति—एतद् इत्य्-आदिना । ज्ञात्वा इत्य् अतः प्राक् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परन्तु एतन्-मर्त्य-शरीरं साधकम् इति विद्वान् जानन् मृत्योः पूर्वम् एव अभवाय भव-निवृत्तये यतेत । अप्रमत्तः अनलसः सन् अर्थ-सिद्धिदम् अप्य् एतत् शरीरं मर्त्यं मरण-धर्मकं ज्ञात्वा ॥१४॥

———————————————————————————————————————

॥ ११.२०.१५ ॥

छिद्यमानं यमैर् एतैः कृत-नीडं वनस्पतिम् ।
खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रमत्तो मुक्त-सङ्गः । सुखं प्राप्नोतीत्य् अत्र दृष्टान्तः—छिद्यमानम् इति । यमैर् यमवन्-निर्दयैः पुरुषैः कृतं नीडं यस्मिंस् तम् । स्व-केतं स्वस्याश्रयम् । अलम्पटोऽनासक्तः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहावेश-त्यागे दृष्टान्तम् आह—यमैर् यमवन्-निर्दयैर् एतैः पुरुषैश् छिद्यमानं कृतं नीडं यस्मिंस् तत् स्व-केतं स्वस्याश्रयम् उत्सृज्य त्यक्त्वा अलम्पटोऽनासक्तः खगश् चतुरः पक्षी यथा याति ॥१५॥

———————————————————————————————————————

॥ ११.२०.१६ ॥

अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः ।

**मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥\


श्रीधर-स्वामी (भावार्थ-दीपिका) : दार्ष्टान्तिकम् आह—अहो-रात्रैश् छिद्यमानम् आयुर् बुद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथैवाहो-रात्रैश् छिद्यमानम् आयुर् बुद्ध्वा निरीह उपशान्तिं प्राप्नोति ॥१६॥

———————————————————————————————————————

॥ ११.२०.१७ ॥

नृ-देहम् आद्यं सुलभं सुदुर्लभं

प्लवं सुकल्पं गुरु-कर्ण-धारम् ।

मयानुकूलेन नभस्वतेरितं

पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मार्गणच् छरीरान्ते पतति ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अप्रयतमानं प्रमत्तं निन्दति—नृ-देहं प्लवं नावं प्राप्येत्य् अध्याहारः । यो भवाब्धिं न तरेत् स आत्महा । तत्र हेतवः—आद्यं सर्व-फलानां मूलम् । एतद् उपार्जित-कर्मभिः सर्व-प्राप्तेः । किं च, सुदुर्लभम् उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यम् । तथापि तु सुलभं यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किं च, गुरुः संश्रित-मात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृत-मात्रेण अनुकूल-मारुतेन प्रेरितम् ॥१७॥


कैवल्य-दीपिका : नृ-देहम् इत्य्-आदि । अत्र प्रार्थ्ये अध्याहारः । आद्यं नाना-योनि-प्रापक-कर्मोपार्जकत्वात् । सुलभम् अनादौ संसारे बहुशः प्राप्यमानत्वात् । दुर्लभं त्व् अस्थिरत्वात्, तस्येच्छया वा अप्राप्तत्वात् । प्लवम् उडुपम् । सुकल्पं सुदृढम् । अस्य च वृत्तस्यात्र पाठे प्रयोजनं चिन्त्यम् । इदं हि भगवतो वाक्यं तस्य भजनीयत्वेन भक्तत्वाभावात् । भक्ति-रसानुभवाद् धि भक्ताः । यथा गोप्य्-आदयः । भक्ति-रसश् च विष्णोस् तद्-भक्तानां वा चरित-श्रवणादिना जातश् चमत्कार इति प्राग् उक्तम् । न चात्र भगवान् एव भक्ति-रसस्यानुभविता तस्माच् चिन्त्यः पाठः ॥१७॥ [मु।फ। १३.५१]


सनातन-गोस्वामी : [ह।भ।वि। १.३१] स्वयम् इति । निजेष्ट-दैवत-श्री-कृष्णाभिप्रायेण । यद् वा, कृष्णस् तु भगवान् स्वयम् इत्य् अभिप्रायेण । च-काराद् उक्तम् इति पूर्व-गत-पदेनान्वयः । एवम् अग्रेऽपि बोद्धव्यम् । नृ-देहं प्लवं नावं प्राप्येत्य् अध्याहारः । आद्यं सर्व-फलानां मूलम् । एतद् उपार्जित-कर्मभिः सर्व-फलावाप्तेः । सुदुर्लभम् उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यम् । तथापि सुलभं सत् यदृच्छया लब्धत्वात् । सुकल्पं पटुतरम् । गुरुः संश्रित-मात्र एव कर्णधारो नेता यस्य तत् । मया स्मृत-मात्रेण अनुकूलेन मारुतेन प्रेरितम् । यद् वा, अत्रापि कृत्वेत्य् अध्याहार्यं । वक्तुर् गाम्भीर्येण तद्-उक्तौ स्वभावत उन्नेय-शतापातात् । ततश् चायम् अर्थः—नृ-देहम् इदं गुरु-कर्णधारं कृत्वा कर्णधारनीयमान-प्लववद् आश्रय-मात्रेण गुरुणा सत्-कृत्याभिमुखं प्रवर्त्य तथानुकूल-वात-प्रेरितवत् स्मृति-मात्रेण मयाधिष्ठितं सत् कृतार्थं कृत्वा यो न तरेत्, स आत्महा एवेति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो दरिद्रश् चिन्तामणिम् अकस्मात् प्राप्य पङ्के क्षिपतीत्य् आह—नृ-देहम् आद्यं सर्व-वाञ्छित-फलानां मूलम् । उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यत्वात् सुदुर्लभम् अपि, केनापि भाग्येन प्राप्तत्वात् सुलभम्प्लवं नावं प्राप्येति शेषः । तत्राप्य् अतिभाग्य-वशात् सुकल्पं पटुतरम् । गुरुः संश्रित-मात्र एव कर्णधारो नाविकः पारं नेता यत्र तम् । मया च सेव्यमानेन अनुकूल-मारुतेन प्रेरितम् । वाक्यम् इदं ज्ञानि-प्रकरण-परितत्वात् तेषां च भवाब्धि-तरणस्यानुसंहित-फलत्वात् अयुक्तम् इति केचित् शुद्ध-भक्तानाम् अपि भवाब्धि-तरणस्यानुसंहित-फलत्वाभावेऽपि भवाब्धि-तरणं भवेद् इति विहिताकरण-लक्षणः प्रत्यवायो न स्याद् इत्य् अन्वयः ॥१७॥

———————————————————————————————————————

॥ ११.२०.१८ ॥

यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।
अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् अविरक्तस्य वैराग्य-द्वारा ज्ञान-भक्ति-साधकं कर्म-योगम् उक्त्वा, इदानीं सम्यग्-विरक्तस्य ज्ञान-योगं, तस्य च ज्ञान-प्राप्तेः पूर्वं किञ्चित् कृत्यं वर्जनीयं चाह सार्धैर् नवभिः—यदा त्व् आरम्भेषु कर्मसु निर्विण्णो दुःख-दर्शनेनोद्विग्नस् तत्-फलेषु विरक्तश् च, तदा संयतेन्द्रियः सन्न् आत्मनोऽभ्यासेनात्म-विषय-वृत्ति-सन्तत्या अचलं यथा भवति तथा मनो धारयेत् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-भक्त्य्-अधिकारिणोः साधारण्येनैव स्वार्थ-साधक-नर-देहं स्तुत्वा ज्ञानाधिकारिणः आवश्यकं कृत्यं वदन्न् एव तस्य प्राथमिकं स्वभावं दर्शयति—यदेति सार्धैर् नवभिः । गृहाद्य्-आरम्भेषु निर्विण्णो दुःख-दर्शनेनोद्विग्नस् तद्-अधिकार-प्राप्त-कर्म-फलेषु च विरक्तः । तदा योगी यम-नियमादि-योग-युक्तः आत्मनः स्वस्य मनः अचलं यथा स्यात् तथा धारयेत् ॥१८॥

———————————————————————————————————————

॥ ११.२०.१९ ॥

धार्यमाणं मनो यर्हि भ्राम्यद् आश्व् अनवस्थितम् ।

**अतन्द्रितोऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥\


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रथमम् एवात्यन्त-धारणासंभवात् तत्-स्वभावानुसारेण वशी-करणम् आह । यर्हि आशु भ्राम्यत् परिभ्रमद् अनवस्थितं भवति । तदाऽनुरोधेन किञ्चिद् अपेक्षा-पूरण-द्वारेण ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यर्हि तु यत्नेन धार्यमाणम् अप्य् अतिबलवत्तया आशु प्रथमं अनवस्थितं द्वि-गुणितं चित्त-चाञ्चल्यं भवेत् । बलवतः कामादि-वेगस्यात्यन्त-धारणेन वेगो द्विगुणितो भवेद् एवेति भावः । तदानुरोधेन किञ्चित् तद्-अपेक्षा-पूरण-द्वारेण ॥१९॥

———————————————————————————————————————

॥ ११.२०.२० ॥

मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः ।
सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि यथा-पूर्वम् एव स्यात् ? तत्राह—मनो-गतिं तु न विसृजेन् नोपेक्षेत, किन्तु अप्रमत्तः सन् लक्षयेद् इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि यथा-पूर्वम् एव स्यात् ? तत्राह—मनसो गतिं न विसृजेत्, किन्तु स्तम्भयेद् एवेत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ११.२०.२१ ॥

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।
हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुरोध-मार्गं स-दृष्टान्तं स्तौति—एषोऽनुवृत्ति-मार्गेण मनसः सङ्ग्रहः परमो योगः । तत्-साधनत्वाद् उपचारेण स्तुतिः । यथा अदान्तस्य दमनीयस्यार्वतोऽश्वस्य हृदय-ज्ञत्वं स्वाभिप्रायेण गतिम् अन्विच्छन्न् अपेक्षमाणोऽश्व-धारकः प्रथमं किञ्चित् तद्-गतिम् अनुवर्तते, तदा च रश्मिना तं धृत्वैव गच्छति, न तूपेक्षते, तद्वद् इत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुरोध-मार्गं स-दृष्टान्तं स्तौति—एष किञ्चिद् एतद् अपेक्षा-पूरण-मार्गेण मनसः सङ्ग्रहः स्व-वशीकारः परमो योगः । यदा दम्यस्य दमयितुम् ईप्सितस्य अर्वतोऽश्वस्य हृदय-ज्ञत्वं, अर्थात् स्व-हृदयाभिप्राय-विज्ञत्वं अन्विच्छन्, मम हृदयाभिप्रायम् असाव् अश्वो जानातु, इतीच्छन्न् अश्व-धारकः सहसा तद्-वशीकारासम्भवात् प्रथमं किञ्चित् तद्-गतिम् अनुवर्तते इति शेषः । तद्वद् इत्य् अर्थः, तदापि रश्मिना तत् धृत्वैव गच्छति, न तूपेक्षते ॥२१॥

———————————————————————————————————————

॥ ११.२०.२२ ॥

साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः ।

भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् ईषद्-वशी-कृतस्य मनसोऽत्यन्त-नैश्चल्योपायान् आह—साङ्ख्येनेति त्रिभिः । साङ्ख्येन तत्त्व-विवेकेन सर्व-भावानां महद्-आदि-देहान्तानाम् अनुलोमतः प्रकृत्य्-आदि-क्रमेण भवं प्रतिलोमतः पृथिव्य्-आदि-क्रमेणाप्ययं चान्व् अनुध्यायेत् । प्रसीदति निश्चलं भवति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् ईषद्-वशी-कृतस्य मनसोऽत्यन्त-नैश्चल्योपायान् आह—साङ्ख्येनेति त्रिभिः। साङ्ख्येन तत्त्व-विवेकेन सर्व-भावानां महद्-आदि-पृथिव्य्-अन्तानाम् अनुलोमतः प्रकृत्य्-आदि-क्रमेण भवं प्रतिलोमतः पृथिव्य्-आदि-क्रमेणाप्ययं च ॥२२॥

———————————————————————————————————————

॥ ११.२०.२३ ॥

निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः ।

मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननूपाय-सहस्रेणापि मनो विपर्याकारतां न त्यजति, किं भूयो भूय उपदेशेन? इति चेत्, तत्राह—निर्विण्णस्येति । ततश् चागमापायिषु तेष्व् अवधि-भूतात्म-दर्शनात्, तद्-अविवेकापन्न-संसारे निर्विण्णस्यातो विरक्तस्य, ततश् चोक्त-वेदिनो गुरूपदिष्टार्थालोचकस्य, ततो गुरूपदिष्टस्यैव चिन्तितस्य, पुनः पुनर् अनुचिन्तया दौरात्म्यं देहाद्य्-अभिमानं त्यजति ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्विण्णस्य संसाराद् उद्विग्नस्य अत एव विरक्तस्य ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-वेदिनः उक्तार्थ-पर्यालोचकस्य ॥२३॥

———————————————————————————————————————

॥ ११.२०.२४ ॥

यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया ।

ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यमादिभिर् योग-मार्गैर् अण्वीक्षिक्या पदार्थ-द्वय-शोधनेन ममार्चन-ध्यानादिभिर् वा । वा-शब्देनास्य पक्षस्य स्वातन्त्र्यं दर्शयति । एतैर् उपायैर् योग्यं परमात्मानं मनः स्मरेन् नान्यैः, अतोऽन्यन् न कुर्याद् इत्य् अर्थः ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किम् अन्यया गति-क्रिययेत्य् आह—ममार्चोपासनाभिर् वेति ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आन्वीक्षिक्या तत्त्व-विचारेण । ममार्चेति वा-शब्देनास्य पक्षस्य स्वातन्त्र्यं दर्शयतीति स्वामि-चरणाः । वा-शब्दश् चार्थ इत्य् अन्ये । एतैर् एव योग्यं परमात्मानं स्मरेन् नान्यैः ॥२४॥

———————————————————————————————————————

॥ ११.२०.२५ ॥

यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् ।

योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पापापत्तौ प्रायश्चित्तं कार्यम् एव ? तत्राह—यदीति । योगेन ज्ञानाभ्यासेनैव । एतच् च भक्तस्यापि नाम-कीर्तनाद्य्-उपलक्षणार्थम् । नान्यत् कृच्छ्रादि॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्य ज्ञानाधिकारिणः कर्मज-गुण-दोषास्पर्शम् आह—यदीति सार्ध-द्वयेन । योगेन ज्ञानाङ्गेन ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यद्य् अस्य निर्विण्णस्य कर्मणि नाधिकारस् तदा पापे दैवात् कृते सति प्रायश्चित्तं विना कथं तद्-उपशमस् तत्राह यदीति । योगेन ज्ञानाभ्यासेनैव । एतच् च भक्तस्यापि नाम-कीर्तनाद्य्-उपलक्षणार्थम् इति स्वामि-चरणाः । यद् उक्तं—

केचित् केवलया भक्त्या वासुदेव-परायणाः । > अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भा।पु। > ६.१.१५] इति । > स्व-पाद-मूलं भजतः प्रियस्य > त्यक्तान्य-भावस्य हरिः परेशः इत्य् अत्र, > विकर्म यच् चोत्पतितं कथंचिद् > धुनोति सर्वं हृदि सन्निविष्टः ॥ [भा।पु। ११.५.४२] इति च ।

योगीति ज्ञान-योग-भक्ति-योगवन्तो व्याख्येयाः । योगेनेत्य् अत्रापि ज्ञानेन भक्त्या चेत्य् अन्ये । ननु नान्यद् इति कथं ब्रवीषि तद् अप्य् अस्तु कस् तत्र दोषस् तत्राह स्वे स्वे इति । वीप्सया ज्ञानिनोभक्तस्य च प्राप्तिर् गम्यते । अयं भावः । ज्ञानिनो ज्ञानेन भक्तस्य भक्त्या च यदि पापं न नश्येत् तदा तेन तेन पाप-नाशार्थं कृच्छ्रादिकम् अनुष्ठीयते, ज्ञान-भक्त्योः पाप-नाशकत्वस्य बहुशः श्रुतत्वात् पाप-नाशे सिद्धे कथं पराधिकार-गतं तेन तेन कृच्छ्रादिकम् अनुष्ठेयम् । तस्मिन्न् अनुष्ठिते सति स्व-धर्म-निष्ठा-त्यागः पर-धर्म-प्रसक्तिश् चेति दोष-द्वयं स्यात् । वस्तुतस् तु ज्ञानि-भकयोः पाप-प्रवृत्तिर् एव न स्यात्, यदि दैवात् स्यात् तद् अपि ज्ञान-भक्ति-योगयोर् जात्यैव शोधकत्वात् ताभ्याम् एव स्वत एव पाप-क्षय इत्य् अतो गुण-दोष-मय-विधि-प्रतिषेधाधिकार-मध्य-पातित्वं ज्ञानि-भक्तयोः प्रायेणोक्तं वेदेन । किन्तु तयोर् अपि मध्ये भक्ते एव पाप-प्रवृत्तेऽपि दोष-दर्शनं सर्वत्र निषिद्धं प्राकृत-गुण-दर्शनं च तस्य निर्गुणत्वेन व्याख्यास्य-मानत्वात् ज्ञानिनस् तु सात्त्विकत्वात् तस्मिन् शम-दमादि-गुण-दर्शनस्य यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः [भा।पु। ११.१८.४०] इत्य् आदेर् दोष-दर्शनस्य च व्यक्तत्वात् तेषु गुण-दोष-दृशिर् दोष इति न शक्यते वक्तुम् ॥२५॥


॥ ११.२०.२६ ॥

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः ।
गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नित्य-नैमित्तिकं कर्म सत्त्व-शोधकत्वाद् गुणो हिंसादिकं त्व् अशुद्धि-हेतुत्वाद् दोषः, तत्र च तन् निवर्तकत्वात् कृच्छ्रादि-प्रायश्चित्तं गुण इति विधि-प्रतिषेधाभ्याम् उक्तत्वात् प्रायश्चित्तं विना योगेनैव कथं पापं दहेत् तत्राह—स्वे स्व इति सार्धेन । स एव गुणो नेतरः । तद् उपपादयति, यस्माद् विधि-प्रतिषेधाभ्याम् अनेन गुण-दोष-विधानेन कर्मणां नियमः सङ्कोचः कृतः । कुत इत्य् अत आह—जात्या उत्पत्त्यैवाशुद्धानाम् । स च प्राप्तानां सङ्गानां त्याजनेच्छया । अयं भावः, पुरुषस्याशुद्धिर् नाम न प्रवृत्तेर् अन्यास्ति, स्वाभाविक-प्रवृत्ति-सङ्कोच-द्वारेण निवृत्तिर् एव क्रियते, यथा च न प्रवृत्ति-परो वेदस् तथोत्तराध्यये वक्ष्यामः, उत्पत्त्यैव हि कामेषु इत्य्-आदिना । अतो योगिनः स्वाभाविक-प्रवृत्त्य्-अभावान् न प्रायच्-चित्तादि-विधि-गोचरतेति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं कर्मार्पण-केवल-ज्ञान-केवल-भक्त्य्ऽधिकार-भेदेन व्यवस्थापिताः ततः स्वाधिकारानुरूपेणैव स्थातव्यम् इत्य् आह—स्वे स्व इति । (भक्ति-सं १७५)

विपर्ययस् तु दोषः स्याद् इति भावः । तस्मात् साधूक्तं योगेनैव, न तु कर्मणेति । कर्मणाम् इति तैः । तत्रानेनेति पूर्व-सूचितेन कर्म-शास्त्रोक्तेनेत्य् अर्थः । यद् वा, ननु कथं योगस्य तादृशं सामर्थ्यम् ? कथं वा कर्मणैवांहो-दाहः स्याद् इति कर्म-शास्त्राग्रहः सङ्गमितः स्यात् । तत्र कर्मणां वस्तुतो दोषत्वेऽपि तेष्व् एव किञ्चिद् भद्रत्वेन गुणतया मतत्वं दर्शयन् योगस्य स्वभाव-गुणत्वं व्यञ्जयति, कर्मणाम् इति । कश्चित् कश्चिद् अतीव-तिक्तो निम्बोऽस्तीति लोके मिष्ट-तिक्त-तज्-जाति-व्यपदेश इव जात्यैवाशुद्धानां कर्मणां यद्-गुण-दोषत्व-विधानं, तेनानेन सङ्कोच एव कृतः। कथं ? सङ्गानां त्याजनेच्छया सहसा सर्व-त्याजनाशक्तेस् तत्र क्रम एव क्रियत इत्य् अर्थः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मिणां तु स्वाभाविकाव् एव गुण-दोषाव् इत्य् आह—कर्मणां जात्यैवाशुद्धानाम् अनेन विधि-प्रतिषेध-रूप-गुण-दोष-विधानेन नियमो देह-गेहासक्तानां कर्मिणाम् उत्पत्त्यैव पाप-रतानां स्वाभाविक-प्रवृत्ति-सङ्कोचः कृत एवाभीक्ष्णशो वेदेन । किम् अर्थम् ? सङ्गानां विषयासक्तीनां त्याजनेच्छया । अयं भावः । पुरुषस्याशुद्धिर् नाम न प्रवृत्तितोऽन्यास्ति, न च सहसा सर्वतो निवृत्तिः कर्तुं शक्यते । अत इदं कर्तव्यम् इदं न कर्तव्यम् इति विधि-निषेधाभ्यां स्वाभाविक-प्रवृत्ति-सङ्कोच-द्वारेण निवृत्तिर् एव क्रियते । यथा च न प्रवृत्ति-परो वेदस् तथा उत्तराध्याये वक्ष्यामः उत्पत्त्यैव हि कामेष्व् [भा।पु। ११.२१.२४] इत्य्-आदिना ॥२६॥


॥ ११.२०.२७-२८ ॥

जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु ।
वेद दुःखात्मकान् कामान् परित्यागेऽप्य् अनीश्वरः ॥**

ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः ।
जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वतोऽशुद्धानां कर्मणाम् । अनेन गुण-दोष-विधानेन नियमः कृतः । स्वतोऽशुद्धत्वेऽपि कर्मणां विध्य्-अनुसारेणानुष्ठाने गुणत्वम् एवेत्य् अर्थः ॥२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्त्य्-अधिकारिणो भक्ति-योगम् आह—जात-श्रद्ध इति नवभिः । मत्-कथासु जात-श्रद्धोऽत एवान्येषु कर्मसु उद्विग्नः, न तु तत् फलेषु विरक्तः, तद् आह—वेदेति । यद्य् अपि वेद, तथापि तत्-परित्यागेऽनीश्वरोऽशक्तः ॥२७॥

एवं-भूतो यः श्रद्धालुर् भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयः सन्, ततस् तद्-अनन्तरं मं प्रीत्या भजेत । विषयांस् तु सेवमानोऽपि तेषु प्रीतिं न कुर्याद् इत्य् आह—गर्हयन्न् इति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ भक्ति-मार्गं विवृणोति—जातेत्य् आदिना । एवम् इत्य् अतः प्राक् तत्र जात-श्रद्ध इति युग्मकेन ।

कथा इत्य् उपलक्षणं मत्-कथादिषु । एतद् एव केवलं परमं श्रेय इति जात-श्रद्धो जात-विश्वासः । अत एवान्येषु कर्मसु निर्विण्ण उद्विग्नः, किन्तु वर्तमानेषु प्राचीन-पुण्य-कर्म-फल-भागेषु एवम्भूत इत्य् आह—वेदेति ।

ततस् तां वेदेत्य्-आदि व्याख्यातां, न निर्विण्णो नातिसक्त [भा।पु। ११.२०.८] इत्य् एवं-लक्षणाम् अवस्थाम् आरभ्यैवेत्य् अर्थः । मां भजेत मदीयानन्यताख्य-भक्ताव् अधिकारी स्यात्, न तु ज्ञानवज् जाते सम्यग्-वैराग्य एव । तस्याः स्वतः सर्व-शक्तिमत्त्वेनान्य-निरपेक्षत्वाद् इत्य् अर्थः । अनन्तरं च वक्ष्यते—तस्मान् मद्-भक्ति-युक्तस्य [भा।पु। ११.२०.३१] इत्य्-आदिना, यत् कर्मभिः [भा।पु। ११.२०.३२] इत्य्-आदिना च ।

न च कर्म-निर्वेद सापेक्षत्वम् आपतितम् । स तु भक्तेः सर्वोत्तमत्व-विश्वासेन स्वत एव प्रवर्तते । निर्विण्ण इत्य् अनुवाद-मात्रम् । अत एव यद्यपि ज्ञान-कर्मणोर् अपि श्रद्धापेक्षास्त्य् एव, तां विना बहिर्-अन्तः-सम्यक्-प्रवृत्त्य्-अनुपपत्तेः, तथाप्य् अत्र श्रद्धा-मात्रस्य कारणत्वेन विशेषतस् तद्-अङ्गीकारः । अत्रापि च तद्-अपेक्षा पूर्ववत् सम्यक्-प्रवृत्त्य्-अर्थैव । तां विना अनन्यताख्य-भक्तिस् तथा न प्रवर्तते । कदाचित् किञ्चित् प्रवृत्ता च नश्यतीति । अत एव, न निर्विण्णो नातिसक्तः [भा।पु। ११.२०.८] इति, अस्यानन्तरम् अपि मत्-कथा-श्रवणादौ वा [भा।पु। ११.२४.९] इत्य् अत्र श्रद्धायां जातायाम् एव कर्म-परित्यागो विहितः । भक्ति-मात्रं तु तां विना सिद्ध्यति, सकृद् अपि परिगीतं श्रद्धया हेलया वा [स्कान्द-प्रभास-खण्डे] इत्य् आदौ, सतां प्रसङ्गात् [भा।पु। ३.२५.२५] इत्य् आदौ च । तत्-पूर्वतोऽपि तस्याः फल-दातृत्व-श्रवणाच् च ।

सा च श्रद्धा शास्त्राभिधेयावधारणस्यैवाङ्गं, तद्-विश्वास-रूपत्वात् । ततो नानुष्ठानाङ्गत्वे प्रविशति । भक्तिश् च फलोत्पादने विधि-सापेक्षापि न स्यात्, दाहादि-कर्मणि वह्न्य्-आदिवत्, भगवच्-छ्रवण-कीर्तनादीनां स्वरूपस्य तादृश-शक्तित्वात् । ततस् तस्याः श्रद्धाद्य्-अपेक्षा कुतः स्यात् ? अतः श्रद्धां विना च क्वचिन्-मूढादाव् अपि सिद्धिर् दृश्यते, श्रद्धया हेलया वा इत्य् आदौ । हेला त्व् अपराध-रूपाप्य् अबुद्धि-कृता3 चेद् दौरात्म्याभावे न भक्तिर् बाध्यत इत्य् उक्तम् एव । ज्ञान-लव-दुर्विदग्धादौ तु तद्-वैपरीत्येन बाध्यते । यथा मत्सरेण नामादिकं गृह्णाति वेणे क्वचिद् वस्तु-शक्तिर् बाधिता दृश्यते, आर्द्रेन्धनादौ वह्नि-शक्तिर् इव। श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि [भा।पु। ११.२७.१८]इत्य् अत्र श्रद्धा-भक्ति-शब्दाभ्याम् आदर एवोच्यते । स तु भगवत्-तोष-लक्षण-फल-विशेषस्योत्पत्ताव् अनादर-लक्षण-तद्-विघातकापराधस्य निरसन-परः। तस्मात् श्रद्धा न भक्त्य्-अङ्गं, किन्तु कर्मण्य् अर्थि-समर्थ-विद्वत् तावद् अनन्यताख्यायां भक्तौ अधिकारि-विशेषणम् एवेति । अत एव तद्-विशेषणत्वेनैवोक्तं यदृच्छया मत्-कथादौ जात-श्रद्धः [भा।पु। ११.२०.८] इति, जात-श्रद्धो मत्-कथासु [भा।पु। ११.२०.२७] इति च ।

अत्र ताम् आरभ्येत्य् अर्थेन ल्यब्-लोपे पञ्चम्य्-अन्तेन तत इति पदेनानवधिक-निर्देशेनात्मारामतावस्थायाम् अपि सा केषांचित् प्रवर्तत इति तस्याः साम्राज्यम् अभिप्रेतम्। अनन्तरं च वक्ष्यते, न किञ्चित् साधवो धीराः [भा।पु। ११.२०.३४] इति । अतः साम्राज्य-ज्ञापनया तां विना कर्म-ज्ञाने अपि न सिध्यत इति च ज्ञापितम् ।

तद् एवम् अनन्य-भक्त्य्-अधिकारे हेतुं श्रद्धा-मात्रम् उक्त्वा स यथा भजेत् तथा शिक्षयति—स श्रद्धालुर् विश्वासवान् । प्रीतो जातायां रुचाव् आसक्तः । दृढ-निश्चयः साधनाध्यवसाय-भङ्ग-रहितश् च सन् । सहसा त्यक्तुम् असमर्थत्वात् कामान् जुषमाणश्गर्हयंश् च । गर्हणे हेतुः—दुःखोदर्कान् शोकादि-कृद्-उत्तर-कालान् इति ।

अत्र कामा ह्य् अपाप-करा एव ज्ञेयाः । शास्त्रे कथञ्चिद् अप्य् अन्यानुविधानायोगात् । प्रत्युत—

पर-पत्नी-पर-द्रव्य-पर-हिंसासु यो मतिम् । > न करोति पुमान् भूप तुष्यते तेन केशवः ॥ [वि।पु। ३.८.१४]

इति विष्णु-पुराण-वाक्यादौ कर्मार्पणात् पूर्वम् एव तन्-निषेधात् । अत्रैव च निष्काम-कर्मण्य् अपि यद्य् अन्यन् न समाचरेत् [भा।पु। ११.२०.१०] इति वक्ष्यमाण-निषेधात् । कर्म-परित्याग-विधानेन सुतरां दुष्कर्म-परित्याग-प्रत्यासत्तेः । विष्णु-धर्मे—

मर्यादां च कृतां तेन यो भिनत्ति स मानवः । > न विष्णु-भक्तो विज्ञेयः साधु-धर्मार्चितो हरिः ॥

इति वैष्णवेष्व् अपि तन्-निषेधात् । यत्-पाद-सेवाभिरुचिस् तपस्विनाम् [भा।पु। ४.२१.३१]इत्य् आदौ सद्यः क्षिणोति इत्य् अत्र सद्यः-शब्द-प्रयोगेण जात-मात्र-रुचीनाम्—

यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति । > ज्ञेयस् तदा मनुष्येण हृदि तस्य हरिः स्थितः ॥ इति > विष्णु-धर्म-नियमेन च ।

विकर्म य चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः [भा।पु। ११.५.३८] इत्य् अत्रापि “कथञ्चित्”-शब्द-प्रयोगेण लब्ध-भक्तीनां च, स्वतस् तत्-प्रवृत्त्य्-अयोगात् । नाम्नो बलाद् यस्य हि पाप-बुद्धिर् न विद्यते तस्य यमैर् हि शुद्धिः इति पाद्मे नामापराध-भञ्जन-स्तोत्रादौ हरि-भक्ति-बलेनापि तत्-प्रवृत्ताव् अपराधापाताच् च । अपि चेत् सुदुराचारः [गीता ९.३०] इति तु तद्- दोषानादर4-पर एव, न तु दुराचारता-विधान-परः, क्षिप्रं भवति धर्मात्मा [गीता ९.३१] इत्य् अनन्तर-वाक्ये दुराचारतापगमस्य श्रेयस्त्व-निर्देशाद् इति ॥२७-२८॥ [भक्ति-सन्दर्भ १७२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ भक्त्य्-अधिकारिणः प्राथमिकं स्वभावं दर्शयन् भक्तिम् आह जात-श्रद्ध इति द्वाभ्याम् । सर्व-कर्मसु लौकिक-वैदिकेषु कर्मसु तत्-फलेषु निर्विण्णः दुःख-बुद्ध्या उद्विग्नः । नातिसक्त [भा।पु। ११.२०.८] इति यद् उक्तं तद् विवृणोति । कामान् स्त्री-पुत्रादि-सङ्गोत्थान् कामान् दुःखात्मकान् वेद । अथ च तत्-परित्यागेऽप्य् असमर्थः । ततस् ताम् अवस्थाम् आरभ्यैव दृढ-निश्चय इति । गृहाद्य्-आसक्तिर् मे नश्यतु वर्धतां वा । भजनेऽपि मे विघ्न-कोटिर् भवतु नश्यतु वा । अपराधे नरकं चेद् भवतु तत् कामम् अङ्गीकुर्वे । तद् अपि भक्तिं न जिहासामि । ज्ञान-कर्मादिकं नैव जिघृक्षामि यदि स्वयं ब्रह्माप्य् आगत्य वदेद् इत्य् एवं दृढो निश्चयो यस्य सः ।

आरब्ध-भजनस्य तस्य भक्तौ यथा निश्चय-दार्ढ्यं, न तथा तत्-प्रतिकूल-वस्तुनीत्य् आह**—जुषमाणश् चेति । दुःखोदर्कान् कलत्र-पुत्रादि-सङ्गोत्थान् कामान् गर्हयन्न् एव जुषमाणः । अहो अमी विषय-भोगा एव ममानर्थ-कारिणो भगवत्-पद-प्राप्ति-प्रतिकूलाः**, यद् एते बहुशो नाम-ग्राहम् अपि स-शपथम् अपि त्यक्ता अपि समये भोक्तव्या एव भवन्तीति निन्दामि च पिबामि चेति न्यायेन भुञ्जानः ॥२७-२८॥

———————————————————————————————————————

॥ ११.२०.२९ ॥

प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं भजेत ? किं वा ततो भवति ? तद् आह—प्रोक्तेनेति द्वाभ्याम् । श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् [भा।पु। ११.१९.२०] इत्य्-आदिना तत्र तत्रोक्तेनमा माम् असकृन् नित्यं भजतो हृदय्या हृद्-गताः कामा नश्यन्ति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च सैव भक्तिस् तस्य तान् कामान् दहेद् इत्य् आह—प्रोक्तेन इति ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किं त्वद्-भक्त एवं विषय-बाधित एव तिष्ठेत् ? तत्र नहि नहीत्य् आह प्रोक्तेनेति द्वाभ्याम् । श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् [भा।पु। ११.१९.२०] इत्य्-आदिना मया प्रोक्तेन असकृत् नित्यं पुनः पुनर् मा मां भजतः हृदय्याः हृद्-गताः । मयि हृदि स्थिते इति न ह्य् एकस्मिन्न् एव हृदि मम स्थितिस् तेषां च स्थितिः सम्भवेत् । न हि सूर्यान्धकारयोर् ऐकाधिकरण्यं घटतेति भावः ॥२९॥

———————————————————————————————————————

॥ ११.२०.३० ॥

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : हृदय-ग्रन्थिः अन्तः-करणाख्यो बन्धः ॥३१॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हृदयम् एव ग्रन्थिर् अहङ्कारः, तत्-पूर्वकाश् च सर्वे संशया असंभवनादयः । कर्माण्य् अनारब्ध-फलानि संसार-हेतु-भूतानि च ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-संशयास् तद्-दर्शनासम्भावना-पर्यन्ताः । छिद्यन्ते समाप्यन्ते । क्षीयन्त इति, तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे।सू। ४.१.१३] इति न्यायेन ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च निष्ठा-रुच्य्-आदि-भूमिकारूढस्य भक्तस्य हृदय-ग्रन्थिर् अहङ्कारो भिद्यते । स्वयम् एवेति न तत्र भक्तस्येच्छा-प्रयत्नाव् इति भावः । यद् उक्तं—जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा **[भा।पु। ३.२५.३३]**इति । संशया असम्भावनादयः । कर्माणि प्रारब्ध-पर्यन्तानि । तथा च श्रुतिर् गोपाल-तापनी—भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैराश्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यं [गो।ता।उ। १.१४] ।नैष्कर्म्य-करम् इति तस्यार्थः ॥३०॥

———————————————————————————————————————

॥ ११.२०.३१ ॥

तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं व्यवस्थयाधिकारि-त्रयम् उक्तम् । तत्र भक्तेर् अन्य-निरपेक्षत्वाद् अन्यस्य च तत्-सापेक्षत्वाद् भक्ति-योग एव श्रेष्ठ इत्य् उपसंहरति—तस्माद् इति त्रिभिः ।मद्-आत्मनो मयि आत्मा चित्तं यस्य, तस्य श्रेयः-साधनम् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्य भक्त्य्-अधिकारिणः कर्म-ज्ञानयोर् अपि स्पर्शो न सम्मत इति वदन् सुतरां तत्-कारण-गुण-दोषास्पर्शम् आह—तस्माद् इति । यस्माद् भिद्यते**[११.२०.३०]** इत्य्**-आदेर् ज्ञानं तत्-साधनाभ्यासः, वैराग्याभ्य्आसः प्रायः श्रेयो न भवेत्, किम् उत कर्म-योग इत्य् अर्थः,** व्यर्थाधिक-प्रयासात्**,** तादृश-भक्त्य्-अन्तरायाच् च । नञ्-द्वयम् अत्यन्त-तन्-निराकरणार्थम् । प्रायो वितर्के ।

अत्र प्रायो-ग्रहणस्यायं भावः । भजतां ज्ञान-वैराग्याभ्यासेन प्रयोजनं नास्त्य् एव । तत्र यथा-स्थितेऽपि सद्यो मुक्ति-मार्गे केषांचित् क्रम-मुक्ति-मार्गे प्रवृत्तिर् जायते । तथा ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इत्य्-आदि श्री-गीतानुसारेण यदि क्रम-भक्ति-मार्गे प्रवृत्तिः स्यात्, तदा भवत्व् इति । तद् एवं भक्तेः प्रेम-लक्षणे सर्व-फल-राजे स्व-फले नास्त्य् एव ज्ञानाद्य्-अपेक्षा ॥३१॥ [भक्ति-सन्दर्भ ८३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो हेत्व्-अन्तर-निरपेक्षया भक्त्यैव हृदय-ग्रन्थि-भेदाद्याः स्वत एव स्युस् तस्माद् भक्त्य्-अर्थं वा । हृदय-ग्रन्थि-भेदाद्य्-अर्थं वा । मद्-भक्तेन ज्ञान-वैराग्ये नैवोपादेये । स्वस्मिंस् तयोः श्रेयस्करत्वादर्शनाद् इत्य् आह तस्माद् इति । मद्-आत्मनः मयि आत्मा मनो यस्य तस्य । देहाद्य्-अतिर्क्तत्वानुसन्धान-लक्षणं ज्ञानम् । विषयाग्रहण-लक्षणं वैराग्यं च । न श्रेयः तयोः शात्त्विकत्वात् तस्यास् तु गुणातीतत्वात् तस्यां सत्यां तयोः स्वस्मिन् आनिनीषैव दोष इति भावः । प्रत्युत अविद्या-वृत्तीनां राग-द्वेषादीनाम् इव विद्या-वृत्ति-रूपयोर् अपि ज्ञान-वैराग्ययोर् भक्ते स्वत एव वर्तमानयोर् अपि भक्त्यैव निर्जर एवाग्रे पञ्चविंशतितमाध्याये वक्ष्यते । किं च, भगवद्-अनुभव-रूपं ज्ञानं विषयारोचकत्व-लक्षणं वैराग्यं च भक्त्य्-उत्थत्वाद् गुणातीतं तस्य स्वत एव स्यात् । यद् उक्तं—भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य [भा।पु। ११.२.४०] इति । प्राय-ग्रहणेन क्वचिच् छान्त-भक्तेः प्रथम-दशायां तयोर् ग्रहोऽपि नाश्रेयस्करः । भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तता [भ।र।सि। ३.१.१५] इति तन्-मतम् उक्तं भक्ति-रसामृत-सिन्धौ ॥३१॥


॥ ११.२०.३२-३ ॥

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥**

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः—यत् कर्मभिर् इत्य्-आदि । इतरैरपि तीर्थ-यात्रा-व्रतादिभिः । श्रेयः-साधनैर् यद् भाव्यं सत्त्व-शुद्ध्य्-आदि, तत् सर्वम् अञ्जसा अनायासेनैव स्वर्गम् अपवर्गं मद्-धाम वैकुण्ठं लभत एव । वाञ्छा तु नास्तीत्य् उक्तम्, यदि वाञ्छति इति ॥३२-३३॥


सनातन-गोस्वामी : [ह।भ।वि। ११.५७३-४] इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि श्रेयः-साधनैर् यद् भाव्यं सत्त्व-शुद्ध्य्-आदि, तत् सर्वम् अनायासेनैव लभते । तथा स्वर्गम् अपवर्गं मद्-धाम च वैकुण्ठं लभत एव । यदि वाञ्छतीति वाञ्छा तु नास्तीत्य् उक्तम् । तत्र कथञ्चिद् इति स्वर्गापवर्गयोस् तुच्छताम् अनुभवितुम् । किं वा, स्वर्गे देवताः श्री-विष्णुं द्रष्टुं स्वर्गं भक्ति-विघ्न-सांसारिक-दुःख-तरणार्थं चापवर्गं वैकुण्ठ-लोके साक्षात् मत्-सेवार्थं चेत्य् एवं-प्रकारेण वाञ्छन्ति चेद् इत्य् अर्थः । वैकुण्ठ-वाञ्छा च तत्रत्य-विभूति-श्रवणाद् भक्ति-रस-प्लुतत्वेनानन्यापेक्ष्यत्वाद् वा ॥३२-३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अर्थं भक्तेर् माहात्म्यम् एव विशेषतो दर्शयति—यद् इति। युग्मकेन । अपवर्गो मोक्ष-सुखं च तद्-अतिक्रम-सुखं च भवतीत्य् आह—मद्-धाम वैकुण्ठं चेति कथञ्चिद् भक्त्य्-उपकरणत्वेनैव यदि वाञ्छति कश्चित् तत्र श्री-चित्रकेत्व्-आदिकवत् स्वर्ग-वाञ्छा, तस्य भक्त्य्-उपकरणत्वं चोक्तं—रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् [भा।पु। ६.१७.३] इति श्री-शुकादिवद् अपवर्ग-वाञ्छा-तत्-प्रार्थनया श्री-कृष्णेन दूरीकृतायां मायायां सत्यां मातृ-गर्भान् निश्चक्रामेति हि ब्रह्म-वैवर्तीय-कथा । तत्र च भक्त्य्-उपकरणत्वं ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५५] इत्य्-आदि श्री-गीता-वचनवत् तथा प्राप्त-भगवत्-पदीय-वृन्द-विशेषवद् वैकुण्ठेच्छा तर्हि प्रेम्णा साक्षाच्-छ्री-भगवच्-चरणारविन्द-सेवेच्छयैव तत्-प्रार्थ्य-प्राप्त-वस्तु यच् च व्रजन्त्य् अनिमिषामृष-भानु-वृत्येत्य् आदिवत् ॥३२-३३॥ [भक्ति-सन्दर्भ ८४]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि कश्चित् त्वत्-कथादाव् एव श्रद्धालुर् न तु कर्म-ज्ञानादिषु तद्-अरोचकत्वाद् च तत्-फलेषु स्वर्गापवर्गादिषु स्पृहावांश् च स्या तदा किं भवेद् अत आह**—**यद् इति द्वाभ्याम् । इतरैर् अपि श्रेयः-साधनैस् तीर्थ-यात्रा-व्रतादिभिर् मद्-धाम सालोक्यम् । इतरैस् तीर्थ-यात्रादिभिर् अपि यद्-भाव्यं तत् सर्वं भक्ति-योगेन मद्-भक्तो लभते । तत्राप्य् अञ्जसा अनायासेनैव । किं तत् ? सर्वं तद् आह स्वर्गापवर्गम् इति । स्वर्गः प्रापञ्चिक-सुखं सत्त्व-शुद्ध्य्-आदि-क्रमेण ॥३२-३३॥


॥ ११.२०.३४ ॥

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : मद्-भक्ति-युक्तस्य भक्त्य्-अनुसारि-ज्ञान-वैराग्येण विनान्यस्माज् ज्ञानाद् वैराग्याच् च न श्रेयो भवेत् ।

रागिणोऽपि विमुच्यन्ते देवा नास्त्य् अत्र संशयः । > रागापनोदनार्थं च ज्ञानं साध्यं यतीश्वरैः ॥ इति च । > स्मर्तव्या विषये दोषा यतिभिर् न तु दैवतैः । > हरिर् एव सदा पूज्य इत्य् अर्थं देवतैर् अपि ॥ इति च ।

वैराग्यार्थम् अपि विषय-दोषादि-ज्ञानं सनकादीनां भाव्यं, देवानां तद् अपि भगवद्-भजनस्यैव सारता-परिज्ञानार्थम् एवेत्य् अर्थः ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुम् आह—न किञ्चिद् इति । धीरा धीमन्तः, यतो ममैकान्तिनो मय्य् एव प्रीति-युक्ताः । अतो मया दत्तम् अपि न गृह्णन्ति, किं पुनर् वक्तव्यं न वाञ्छन्ति इत्य् अर्थः। अपुनर्-भवम् आत्यन्तिक-कैवल्यम् ॥३४॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२१५] धीरा धीमन्तः । यतो ममैकान्तिनः, मय्य् एव प्रीति-युक्ताः। यद् वा, भक्त्यैक-निष्ठा-युक्ताः । अतो मया दत्तम् अपि न गृह्णन्ति, किं पुनर् वक्तव्यं न वाञ्छन्ति इत्य् अर्थः । यद् वा, वाञ्छन्त्य् अपि किं पुनर् वक्तव्यं, न गृह्णन्तीति । कैवल्यम् आत्यन्तिकम् अपि । अपुनर्-भवं मोक्षम् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादि-त्रयम् अपि तद्-वैमुख्य-प्रतियोगि भवेत्, तथापि श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा।पु। १०.१४.४] इत्य्-आदिना भक्तिं विना केवल-ज्ञानस्याकिञ्चित्करत्वात्, तत्रापि च तस्मान् मद्-भक्ति-युक्तस्य [भा।पु। ११.२०.३१] इत्य् आदौ भक्तेस् तन्-निरपेक्षत्वात्, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य् आदाव् आनुसङ्गिक-सर्व-फलत्वाच् च ज्ञानम् अपि न्यक्कृतम् ।

ततोऽवशिष्टायां स-विशेषोपासन-रूपायां भक्तौ च श्री-विष्णु-रूपम् अबहु-मन्यमानाः केचिन् निराकारेश्वरस्य वोपासनां यां मन्यन्ते सापि न्यक्कृतास्ति । यतो हिरण्यकशिपोर् अपि नित्य आत्माव्ययः शुद्धः [भा।पु। ७.२.१८] इत्य्-आदि-तद्-वाक्येन यदृच्छयेशः सृजतीदम् अव्ययः [भा।पु। ७.२.३४] इत्य्-आदि-तद्-उदाहृतेतिहास-वाक्येन तत्-कृत-ब्रह्म-स्तवेन च ब्रह्म-ज्ञानं निराकारेश्वर-ज्ञानम् अन्याकारेश्वर-ज्ञानं तस्यास्तीति वर्ण्यते । श्री-विष्णौ देवता-सामान्य-दृष्टेर् निन्द्यते च स इति ।

तथान्यत्राहंग्रहोपासना च न्यक्कृता, पौण्ड्रक-वासुदेवादौ यदुभिर् इव शुद्ध-भक्तैर् उपहास्यत्वात् । सालोक्य-सार्ष्टि-सारूप्य- [भा।पु। ३.२९.११] इत्य्-आदिषु तत्-फलस्य हेयतया निर्देशात् । तद् उक्तं श्री-हनुमता को मूढो दासतां प्राप्य प्राभवं पदम् इच्छति इति ।

तद् एतत् सर्वम् अभिप्रेत्य निष्किञ्चनां भक्तिम् एव तादृश-भक्त-प्रशंसा-द्वारेण सर्वोर्ध्वम् उपदिशति—न किञ्चिद् इति । तैर् ईदृशानाम् एकान्तिनाम् एव परम-महिमा गारुडे—

ब्राह्मणानां सहस्रेभ्यः सत्र-याजी विशिष्यते । > सत्र-याजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः ॥ > सर्व-वेदान्त-वित्-कोट्यां विष्णु-भक्तो विशिष्यते । > वैष्णवानां सहस्रेभ्यः एकान्त्य् एको विशिष्यते ॥ इति ॥३४॥ > [भक्ति-सन्दर्भ १७६]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथंचिद् इत्य् एतद् विवृनोति**—**नेति ॥३४॥


॥ ११.२०.३५ ॥

नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् ।
तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) : रागिनोऽपि ते भक्ति-योगिनो भक्ति-फलत्वेन किम् अपि नापेक्षन्ते ।

यदि दद्यद् भक्ति-योग-फलं मोक्षम् अपीश्वरः । > भक्ति-योग-फलत्वेन न तद् गृह्णीयुर् एव ते ॥ > कामिनोऽपि स्वयं कामान् भुञ्जते न फलात्मना । > तस्माद् विरागेऽप्य् अधिका देवा एव हि तादृशाः ॥ इति च । > उत्तमो भक्ति-योगस् तु ज्ञान-योगस् तु मध्यमः । > अधमः कर्म-योगश् च ब्रह्मैको मुख्य-भक्ति-भाक् ॥ > ज्ञानम् अप्य् अधिकं तेषां नियतं भक्ति-योगिनाम् । > उदेति भगवद्-भक्त्या तद्वन् न ज्ञान-योगिनः ॥ > भक्त्य्-अंशकं यतो ज्ञानं ज्ञान-स्नेहात्मिका च सा । > तथापि ज्ञान-योगित्वं मानुष-ज्ञानतोऽधिकम् । > भक्ति-योगे ततो यत्नः कार्यो विद्वद्भिर् अञ्जसा ॥ इति च ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उपपादयति—नैरपेक्ष्यम् एव परम् उत्कृष्टम् अनल्पकं महन् निःश्रेयसं फलं तत् साधनं च प्राहुः । मे भक्तिर् निराशिषः प्रार्थना-शून्यस्य निरपेक्षस्य प्रार्थना-कारण-भूतापेक्षा-रहितस्य पुंसो भवेत् । यद् वा, मे निरपेक्षस्य या भक्तिः सा निराशिषो भवेद् इत्य् अर्थः ॥३५॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.१.१०] परं केवलम् उत्कृष्टं वा नैरपेक्ष्यं विषय-भोगादि-निरपेक्षत्वम् एव । यद् वा, विषय-भोगादि-निरपेक्षेण जनेन साध्यं यत् परमं वस्तु, तद् एव अनल्पकं महत् निःश्रेयसं मोक्षम् इत्य् अर्थः । तस्मान् निःश्रेयसात् सकाशात् निराशिषो निष्कामस्य, अत एव निरपेक्षस्य तद्-उपाय-ज्ञान-वैराग्याद्य्-अपेक्षा-हीनस्य जनस्य मे मदीया भक्तिर् भवेत् सिध्यतीति । यच् च श्री-विष्णु-पुराणे सगरं प्रत्य् और्वेणोक्तं—

वर्णाश्रमाचारवता पुरुषेण परः पुमान् । > विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ [वि।पु। ३.८.९] > इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृश-भक्तेः साधनम् अपि तादृशम् इत्य् आह—नैरपेक्ष्यम् इति ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नैरपेक्ष्यं साधनान्तर-फलान्तरापेक्षा-राहित्यं हि परं जात्या श्रेष्ठम् अनल्पकं प्रमाणेनाप्य् अधिकं निःश्रेयसं भवति । निराशिषः फलान्तर-कामना-शून्यस्य निरपेक्षस्य ज्ञान-वैराग्याद्य्-अपेक्षा-शून्यस्य ॥३५॥

———————————————————————————————————————

॥ ११.२०.३६ ॥

न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ।
साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेन प्रकारेण सिद्धानां न गुण-दोषा इति विरोध-परिहारम् उपसंहरति—न मयीति । गुण-दोषैर् विहित-प्रतिषिद्धैर् उद्भवा येषां ते गुणाः पुण्य-पापादयः । साधूनां निरस्त-रागादीनाम् अतः सम-चित्तानाम्, अत एव बुद्धेः परम् ईश्वरं प्राप्तानाम् ॥३६॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२१०] भक्ति-निष्ठानां तु न गुण-दोषा इत्य् आह—मयीति । मयि ये एकान्त-भक्ताः, कर्म-ज्ञानाद्य्-अशेष-नैरपेक्ष्येण भक्ति-निष्ठां प्राप्ताः, तेषां गुण-दोषैर् विहित-प्रतिषिद्धैर् उद्भवो येषां ते गुणाः पुण्य-पापादयः । साधूनां निरस्त-रागादीनाम्, अतः सम-चित्तानाम्,तत एव बुद्धेः परम् ईश्वरं प्राप्तानाम् ।

यद् वा, गुणाः सत्-कर्माचरणादयः, तद्-उद्भवा ये गुणाः सत्त्व-शुद्ध्य्-आदयः, दोषाः सत्-कर्म-त्यागादयस् तद्-उद्भवाश् च ये गुणा ज्ञान-निष्ठादयः । ज्ञान-निष्ठार्थं श्री-भगवत्-पादादिभिर् ज्ञान-कर्म-समुच्चय-दोष-दर्शनेन कर्म-त्यागोपपादनात्, ते न सन्ति । किं काक्वा, अपि तु सन्त्य् एव । एकान्त-भक्तत्वेन पूर्वम् एव स्वतः सर्व-गुण-सिद्धेः । तद् उक्तं—यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदि ।

तद् एवाभिव्यञ्जन् विशिनष्टि—साधूनाम् इत्य्-आदि । यद् वा, गुण-दोषोद्भवा येऽर्थाः सत्त्व-शुद्ध्य्-आदयः ज्ञान-निष्ठादयश् च, ते तेषां गुणा उपकारका महिमानो वा न भवन्ति । किं दोषा एवेत्य् अर्थः । एकान्त-भक्ततायाः साधनत्वेन पूर्वम् एव तद्-गुणानां सिद्धेर् अधुना पुनः साधन-प्रवृत्त्या भक्ति-निष्ठा-हान्य्-आपत्तेः ।

यद् वा, गुणा बहुलोपचार-समर्पणादयस् तद्-उद्भवा ये गुणाः साधन-विशेषाश् च मया नापेक्ष्यन्ते, न चापराधा गृह्यन्त इत्य् अर्थः । अन्यत् सर्वत्र समानम् । अलम् अतिविस्तरेण ॥३६॥


जीव-गोस्वामी (भक्ति-सन्दर्भ १७६) : यस्माद् एवं सर्वानन्दातिक्रम-लिङ्गेन परमानन्द-स्वरूपासौ भक्तिस् तस्मात् तत्र स्वभावत एव प्रवृत्तिर् गुणः, तथाभूताम् अपि तन्-माधुरीं स्वदोषेणानुभवितुम् असमर्थानां तु केवल-विधि-निषेध-सम्भव-गुण-दोष-दृष्ट्यैव प्रवृत्तिर् अपि पूर्वापेक्षया दोष एव । यथोक्तम् एतत् पूर्वाध्याये, शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.३६] इत्य्-आदौ, साक्षाद्-भक्तेर् अपि विधानाविधानयोर् गुण-दोषतां, किं वर्णितेन बहुना [भा।पु। ११.१९.४५] इत्य्-अन्तेन ग्रन्थेन प्रतिपाद्य गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४३] इति । अत एव लब्ध-तन्-माधुर्यानु-भवानां तद्-विधि-निषेध-कृत-गुण-दोषौ न स्त एवेत्य् आह—न मयीति । टीका च—गुण-दोषैर् विहित-प्रतिषिद्धैर् उद्भवा येषां ते गुणाः पुण्य-पापादयः ॥ इत्य् एषा ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं स-काम-कर्मोक्त-गुण-दोषैर् यथा निष्काम-कर्मा न लिप्यते, तत्र तत्रोक्तैस् तैश् च न ज्ञानाधिकारी, तथा तत् त्रयोक्तैर् न भक्त्य्-अधिकारी, तच् चतुष्टयोक्तैश् च न तादृश-भक्ति-सिद्ध इति वदन्—गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४५] इत्य् अस्य पराकाष्ठां दर्शयति—न मयीति ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यन् मयोक्तं गुण-दोष दृशिर् दोषो गुणस् तूभय-वर्जितः [भा।पु। ११.१९.४५] इति तद् एतादृशेषु भक्तेष्व् इत्य् आह**—नेति । गुण-दोषयोर् उद्भवो येभ्यः सत्त्व-रजस्-तमोभ्यस् ते गुणा एकान्त-भक्तानां न सन्ति,** किन्त्व् अप्राकृता एव गुणाः । यतो बुद्धेः प्रकृतेः परं सच्-चिद्-आनन्दम् एव वस्तु उपेयूषां न तु गुण-मयं किंचिद् अपि, मम इन्द्रियादिकं निर्गुणो मद्-अपाश्रयः [भा।पु। ११.२५.२६] इत्य् अग्रिमोक्तेः ।

यद् वा**,** गुण-दोषोद्भवा विधि-प्रतिषेध-निबन्धना गुण न भवन्तीति नैषां शिष्टाचारेण कोऽपि गुणो भवति, नापि निषिद्धाचारेण कोऽपि दोष इत्य् अर्थः । सम-चित्तानाम् इति भक्तानां सम-चित्तत्वम् उक्तं चित्रकेतूपाख्याने शम्भुना, यथा—

नारायण-पराः सर्वे न कुतश्चन बिभ्यति । > स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [भा।पु। ६.१७.२८] > इति ।

बुद्धेः प्रकृतेः परं भगवन्तम् उपेयुषां, भक्त्या सिद्धेस्व् एतेषु दोष-दृष्टिर् न कर्तव्येति किं वक्तव्यं, साधकेषु दुराचारेष्व् अपि न कार्येति भगवता गीतं, यथा—

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । > तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता ९.२२] इति > ॥३६॥

———————————————————————————————————————

॥ ११.२०.३७ ॥

एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः ।

क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : काम्य-कर्म-निष्ठां निन्दिष्यन्न् एतान् मुक्ति-मार्गान् उपसंहरति—एवम् इति । मे पथो मत्-प्राप्त्य्-उपायान् येऽनुतिष्ठन्ति, ते क्षेमं काल-मायादि-रहितं [मत्-स्थानं] मम लोकं विन्दन्ति, यत् परमं ब्रह्म तच् च विदुः ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रेयो-मार्गानुपसंहरति**—**एवम् इति । येऽनुतिष्ठन्ति ते यथा-योगं निष्काम-कर्मिणः क्षेमं विन्दन्ति । भक्ता मत्-स्थानं वैकुण्ठं विन्दन्ति । ज्ञानिनो ब्रह्म विदुर् इति ॥३७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे त्व् अयं विंशः सङ्गतः सङ्गतः सतां ॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये > पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे > भगवद्-उद्धव-संवादे > विंशतितमोऽध्यायः ।

॥११.२०॥



  1. योगास् त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मकाः इति पाठो योग-वार्तिकायां दृश्यते। ↩︎

  2. वीत-राग-जन्मादर्शनात् [न्याय-सूत्र ३.१.१५], वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते [गीता २.५६]। ↩︎

  3. रूपाद्य्-अबुद्धि-पूर्वक-कृता (भक्तिस् १७२) ↩︎

  4. अनादर-दोष (भक्ति-सन्दर्भ १७२) ↩︎