॥ ११.१९.१ ॥
श्री-भगवान् उवाच—
यो विद्या-श्रुत-सम्पन्न आत्मवान् नानुमानिकः ।
माया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
त्रिगुणा प्रकृतिर् माया पश्येत् तन्-मात्रकं जगत् ।
निर्मिमीते जगत् सर्वम् अतो मायेति सा स्मृता ॥ इति प्रभवे । > इयं ज्ञानं हरेः पूजा हरेर् एवोदितं सदा । > हर्षाधीनं च सर्वत्रेत्य् एवं न्यासौ हरौ स्मृतः ॥ इति च > ॥१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ज्ञानादेर् निर्णयः पूर्वं कृतो ह्य् आश्रम-धर्मतः ।
अत्रोनविंशतितमे ज्ञानादिस् त्याग उच्यते ॥
तद् एवं तर्कतो बाधितोऽपि देहादि-प्रपञ्चो यावद् अपरोक्षानुभवेन दिङ्-मोहादिर् इव न लीयते, तावज् ज्ञानाभ्यासः, ततो मुक्तिर् इत्य् उक्तम् आ-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया [भा।पु। ११.१८.३७] इत्य्-आदिना । यस्य त्व् अपरोक्षानुभवेन प्रपञ्चो लीन-प्रायः, तस्य न किञ्चित् कृत्यम् अस्तीत्य् आह—य इति ।
विद्या अनुभवस् तत्-पर्यन्तेन श्रुतेन सम्पन्नः, अत एव आत्मवान् प्राप्तात्म-तत्त्वो नानुमानिकः, केवल-परोक्ष-ज्ञानवान् न भवति । अन्-अ-कार-पाठे प्राक् श्रुत्य्-अनुकूल-तर्कतो निर्णीतार्थ इत्य् अर्थः । स इदं द्वैतं तन्-निवृत्ति-साधनं च मयि माया-मात्रम् इति ज्ञात्वा, ज्ञानं च तत्-साधनं सन्न्यसेत् । अयम् एव विद्वत्-सन्न्यासो नाम ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : माया-मात्रं माययैवात्मन्य् अध्यस्तं, न तु स्वाभाविकम् इदं जगत् ज्ञानं मयि सन्न्यसेत्, विजयार्थं दत्तम् अस्त्रम् इव विजयानन्तरं राज्ञि समर्प्य पुनस् तम् इव माम् एवोपासीतेत्य् अर्थः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
ज्ञानिनः साधन-त्यागो भक्तिर् भक्तस्य शाश्वती ।
लक्षणं च यमादीनाम् ऊनविम्शे निरूप्यते ॥
तद् एवम् अनाद्य्-अविद्या-दूरीकरणार्थम् एव निष्कर्म-ज्ञान-योग-वैराग्यादीनि जीवस्य कर्तव्यत्वेनोक्तानि । तैः साधनैर् दूरीभूतायाम् अविद्यायां विद्यायां चोत्पन्नायां न तैः साधनैः कोऽप्य् उपयोगः । यथा सर्प-व्याघ्र-भूताद्य्-आविष्टः पुरुषः स्वं विस्मृत्य सर्पोऽहं भूतोऽहम् इत्य् एव यावद् आत्मानं मन्यते, तावद् एव मणि-मन्त्र-महौषधादीनां प्रयोग उपयुज्यते । तत्-तद्-आवेशे तैस् तैर् उपायैर् उपशान्ते सति अमूकोऽहम् अमूकस्य पुत्र इति स्व-स्वभावे प्राप्ते सति न पुनस् तैर् मन्त्रौषधादिभिः कृत्यम् इत्य् आह—य इति
विद्या साङ्ख्य-योग-तपो-वैराग्य-मयं ज्ञानम् अविद्या-निवर्तकं, श्रुतानि तत्-तत्-प्रतिपादक-शास्त्राणि, तैः सम्पन्नः । अत एव तत्-तत्-साधन-वशाद् आत्मवान् प्राप्तात्म-तत्त्वं, नानुमानिकः केवल-परोक्ष-ज्ञानवान् न भवति—किन्त्व् अपरोक्षानुभव-सहित एव । इदं देह-दैहिक-सर्व-वस्तुषु स्वाभिमननं माया-मात्रम् आविद्यकम् एव ज्ञात्वा । यद् वा, इदं इदङ्कारास्पदं जगन् मायिकं, मायिकत्वाद् अस्थिरम् एवेति ज्ञात्वा, ज्ञानं च ज्ञान-साधनं मयि सन्न्यसेत्, मत्-प्राप्त्य्-अर्थं त्यजेत् । अयम् एव विद्वत्-सन्न्यासो नाम ॥१॥
———————————————————————————————————————
॥ ११.१९.२ ॥
ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः ।
स्वर्गश् चैवापवर्गश् च नान्योऽर्थो मद्-ऋते प्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुम् आह—ज्ञानिनस् त्व् इति । यस्माद् अहम् एव तस्य इष्टोऽपेक्षितः, स्वार्थः फलम्, हेतुस् तत्-साधनं च संमतः । स्वर्गोऽभ्युदयश् च । अपवर्गः संसार-निवृत्तिश् च । अतस् तस्य न प्राप्यं कृत्यं वा किञ्चिद् अस्तीत्य् अर्थः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यतः सम्यग् अनुभवे सति ज्ञानिनः परम-साधन-साध्य-रूपोऽहम् एव विस्फुरामि, न तु ब्रह्म-कैवल्यादिर् इत्य् आह—ज्ञानिनस् त्व् इति । तु-शब्दः पक्षान्तर-निरसनार्थः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ज्ञानम् इव किं भक्तिम् अपि सन्न्यसेत् ? तत्र न हि न हीत्य् आह—ज्ञानिन इति । अहम् एवेष्टः यजन-विषयी-भूतः, कथं मद्-यजनं त्यजेत् ? स्वार्थः स्वापेक्षितं फलम् अहम् एव, हेतुस् तत्-साधनं चेति कथं मद्-भक्तिं त्यजेत् ? सम्मत इत्य् एतत् प्रमाणम् एव । यद् उक्तं मयैव—ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इत्य् अनन्तरं,
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । > ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५५] इति > ।
वक्ष्यते चात्रापि—भज मां भक्ति-भावतः [भा।पु। ११.१९.५] इति । स्वर्गः सुख-हेतुः । अपवर्गः दुःखाभाव-हेतुश् च । ज्ञानिनः परम-साधन-साध्य-रूपोऽहम् एव स्फुरामीति सन्दर्भः ॥२॥
॥ ११.१९.३ ॥
ज्ञान-वैराग्य-संसिद्धाः पदं श्रेष्ठं विदुर् मम ।
ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र विद्वद्-अनुभवं प्रमाणयति—ज्ञान- इति । यथोक्तं ज्ञानिनम् अभिनन्दति—ज्ञानी इति । यतोऽसौ ज्ञानेन मां धारयति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्राचीन-ज्ञानिनाम् अनुभवं प्रमाणयति—ज्ञान- इति । श्री-सनकादयः श्री-शुकदेवादयश् च मम पदं चरणारविन्दम् एव श्रेष्ठं जानन्ति, न तु ब्रह्म-तत्त्वं, तस्यारविन्द-नयनस्य पदारविन्द [भा।पु। ३.१५.४३] इत्य्-आदेः, स्व-सुख-निभृत-चेता [भा।पु। १२.१२.६९] इत्य्-आदेश् च । यस्माद् एवं विदूरत एव ज्ञानी प्रियतमः, अत एव ज्ञानेन मां बिभर्ति पुष्णाति सुखयतीत्य् अर्थः । तथा च गीतं मयैव, तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [गीता ७.१७] इति, ज्ञानी त्व् आत्मैव मे मतम् [गीता ७.१८] इति, प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१७] इति चेति भावः ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र प्राचां ज्ञानिनाम् अनुभवं प्रमाणयति—ज्ञान- इति । श्रेष्ठं पदं मत्-स्वरूपम् इत्य् अर्थः । मम पदं चरणारविन्दम् एव श्रेष्ठं विदुर् जानन्ति, न तु ब्रह्म-तत्त्वं । तस्यारविन्द-नयनस्य पदारविन्द [भा।पु। ३.१५.४३] इत्य्-आदेर् इति सन्दर्भः । एतादृश-ज्ञानी तु मम प्रियतमः ॥३॥
॥ ११.१९.४ ॥
तपस् तीर्थं जपो दानं पवित्राणीतराणि च ।
नालं कुर्वन्ति तां सिद्धिं**1 या ज्ञान-कलया कृता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य ज्ञानं स्तौति—तप इति । अलम् अत्यर्थम् । ज्ञानस्य कलया लेशेन ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव तप इति तां सिद्धिं भक्ति-रूपां नालं कुर्वन्ति न विशेषयन्ति । शुद्धिम् इति पाठे भक्तौ योग्यताम् ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञानस्य कलया लेशेन ॥४॥
॥ ११.१९.५ ॥
तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानेन सहितं तत्-पर्यन्तं यथा भवति तथा ज्ञात्वा, तत्-सम्पन्नः सन् माम् एव भज । अन्यत् सर्वं त्यजेत्य् अर्थः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विवक्षितम् उपसंहरति—तस्माद् इति । स्वात्मानं जीव-स्वरूपं ज्ञानं विज्ञानं च ब्रह्म ॥५॥ [भगवत्-सन्दर्भ ७३]2
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माम् एव भज, अन्यत् सर्वं त्यजेति स्वामि-चरणाः ॥५॥
॥ ११.१९.६ ॥
ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि ।
सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयोऽगमन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य प्रत्ययार्थं पूर्वेषां वृत्तम् आह—ज्ञानेति । माम् एव संसिद्धिं प्राप्ताः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-विज्ञान-सम्पन्न एव कः ? तत्राह—ज्ञान-विज्ञान-यज्ञेन परोक्ष-ज्ञान-रूप-यज्ञेन सर्व-यज्ञ-पतिं माम् आत्मानं परमात्मानम् आत्मन्य् एवेष्ट्वा मुनयः संसिद्धिम् अन्वगमन् । एवम्-भूताः संसिद्धिं गताः प्राचीना मुनय एव ज्ञान-विज्ञानाभ्यां सम्पन्ना उच्यन्ते इत्य् अर्थः ॥६॥
॥ ११.१९.७ ॥
त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो
मायान्तरापतति नाद्य्-अपवर्गयोर् यत् ।
जन्मादयोऽस्य यद् अमी तव तस्य किं स्युर्
आद्य्-अन्तयोर् यद् असतोऽस्ति तद् एव मध्ये ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अन्यस्थं निर्मितं जीवे जन्मादि-हरिणा यतः ।
तस्मान् मायेति तत् प्राहुर् मायणिर्माणम् उच्यते ॥ > न हि जीवस्य जन्माद् स्वतो नित्यस्य सम्भवेत् । > सृष्टेः प्राक् प्रलये चैव यतो जन्मादिनास्य हि ॥ > तस्मान् मध्येऽपि नास्यास्ति देहादि-स्थं तु विष्णुना । > कर्मभिर् निर्मितं जीवे प्रलये यन् न जीवगम् । > यन् न विद्यते हि लये यन् न विदयते मुक्तिगे । > जीवस्य न स्वभावासौ प्रायेणेति विनिश्चितः ॥ इति प्रकाशिकायाम् ॥
मां प्रति वद । तस्य देहादेर् जन्मादयोऽस्य चद्-आनन्द-रूपस्य तव स्युः किम् ? अस्वतन्त्रत्वाद् अवस्तुनो जगतः आद्यन्तयोः यज् जीवस्यास्ति तद् एतस्य स्वाभाविकी । संसारोऽपि अन्यद् अभिमान-निमित्तं प्रलयेऽपि विद्यमानस्य कथं जन्मादि स्याद् इति भावः ।
तदानाशाद् देहादेस् तु युज्यते । मुक्तिगम् एव जीवस्य स्वाभाविकम् । किम् उ लयेऽप्य् अविद्यमानं स्वतः स्याद् इत्य् अर्थः ।
आद्य्-अन्तयोर् अनुगमाद् आद्य्-अन्त-रहितस्य तु । > आद्य्-अन्ते भाविनो मध्ये कथम् अन्यादृशं वपुः ॥ इति ब्रह्म-तर्के > । > अनित्यत्वात् तु देहस्य तस्य जन्मादिकं भवेत् । > मुक्ति-प्रलय-सम्बन्धे कथं जीवे तद् इष्यते ॥ इति च । > अनित्यस्य गुणामध्ये भवेयुः स्वत एव तु । > न तु स्वतस् तु नित्यस्य कादाचित्क-गुणैर् युतिः ॥ इति च ॥७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव ज्ञानं सङ्क्षेपत उपदिशति—त्वयीति । त्रि-विध आध्यात्मिकादिर् विकारो देहादिः स माया, न तु परमार्थः । यद् यस्माद् अन्तरा मध्य एवापतति । रज्जौ सर्पम् आलादि-वत् । नाद्य्-अपवर्गयोर् न त्व् आदाव् अन्ते चास्ति । अतो यद् यदा अस्य विकारस्यामी जन्मादयः स्युः, तदा तस्य तवाधिष्ठानभूतस्य किं ? न किञ्चिद् इत्य् अर्थः ।
ननु तस्यापि वस्तुतो न सन्ति, तस्यासत्त्वाद् इत्य् आह—आद्य्-अन्तयोर् इति । असतः सर्पादेर् आद्य्-अन्तयोर् यद् अस्ति रज्ज्व्-आदि तद् एव मध्येऽपि न तु सर्पादि, तद्वद् अयं विकारो नास्तीत्य् अर्थः । यद् वा, आद्य्-अन्तयोर् यद् अस्ति तन्-मध्येऽप्य् अस्त्य् एव । न तस्य जन्मादयः सन्ति, अतस् त्वं निर्विकारं ब्रह्मेति ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उक्त-लक्षणो ज्ञान-विज्ञान-सम्पन्नो मां भजन ज्ञानी परां काष्ठां प्राप्ता ह्य् अतिदूरे वर्ततां, त्वं तु त्वं-पदार्थंज्ञात्वैवाविद्योत्तीर्णो भवेत्य् उद्धवं लक्ष्यीकृत्य सर्व-लोकम् आह—त्वयीति । हे उद्धव ! त्वयि जीवात्मनि यस् त्रि-विधस् त्रि-गुण-मयो विकारो देहाध्यास आश्रयति, त्वाम् आश्रितोऽयम् अध्यासो यो वर्तत इत्य् अर्थः । स माया अविद्यैव अविद्या-कार्य इत्य् अर्थः । अन्तरा मध्य एवापतति प्राप्तो भवतीति नायं तवौपत्तिको धर्म इति भावः । यतो नाद्यापवर्गयोर् आदाव् अन्ते च स नास्तीत्य् अर्थः । तव चिद्-रूपत्वात् तस्य जड-रूपत्वाद् इति भावः । यद् अमी देहस्य जन्मादयस् ते तस्य चिद्-आत्मनस् तव स्युः, न स्युर् एव । कथं त्वं जातोऽहं मृतोऽहम् अहं सुखी दुःखीत्य् आत्मानं मन्यसे इति भावः ।
ननु यदा मे देह-सम्बन्धोनासीत्, यदा च ज्ञानेनापयास्यति तदैवाहं देहातिरिक्तो भवितुं शक्नुयाम्, अधुना तु देह एवाहम् इत्य् अत आह—असतो भ्रम-प्रतीतत्वाद् असत्यस्य वस्तुनः आद्य्-अन्तयोर् यत् सत्यं वस्तु मध्येऽपि तद् एव । यथा व्यघ्राविष्ट-पुरुषस्य व्याघ्रत्वं प्रतीति-कालेऽपि पुरुषत्वम् एव सत्यं, न तु व्याघ्रत्वम् । अत्र जीवस्याविद्या-सम्बन्ध-समयाज्ञानाद् एवानाद्य्-अविद्या-सम्बन्ध इति सर्व-लोक-प्रसिद्धिः । अन्यथा अविद्या-सम्बन्धस्य सर्वथैवानादित्वे सति स्वरूपत्व-प्रसक्तौ ज्ञानेनापि न तद्-अपगमः स्यात् । मुक्तिर् नाम जीवस्य स्वरूप-हानिर् इति मतं तु सद्भिर् नादृतम् ॥७॥
———————————————————————————————————————
॥ ११.१९.८ ॥
ज्ञानं विशुद्धं विपुलं यथैतद्
वैराग्य-विज्ञान-युतं पुराणम् ।
आख्याहि विश्वेश्वर विश्व-मूर्ते
त्वद्-भक्ति-योगं च महद्-विमृग्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानादेर् विशेषं जिज्ञासुः पृच्छति—ज्ञानम् इति । विशुद्धम् एतज् ज्ञानं विपुलं निश्चितं यथा भवति तथा कथयेति । महद्भिर् ब्रह्मादिभिर् विमृग्यम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वयीत्य् अनेनापात-बोधार्थं त्वम्-पदार्थ-ज्ञानम् एवोक्तम् इत्य् अपरितुष्य तत्-पदार्थ-ज्ञान-विज्ञाने स-वैराग्ये पृच्छंस् तन्-मात्रेणाप्य् अपरितुष्य तत्-तत्-फलं भक्ति-योगम् अपि पृच्छति—ज्ञानम् इति ।
ननु पूर्वम् अपि विशुद्ध-ज्ञानम् उक्तं ? तत्राह—विपुलं तत्-पदार्थ-विषयत्वाद् अतिमहत्तरं यत् तद् अपीत्य् अर्थः, तत् कथं विवर्त-वादाद्य्-अनुरूपं ? नेत्य् आह—पुराणं, श्रुतेस् तु शब्द-मूलत्वात् इत्य् अनुसारेणानादि-सिद्धं यत् तद् एव तद्-अनुसारेणैवाह विज्ञानानन्तरं त्वद्-भक्ति-योगं चेति विवर्त-वादस् तु भक्ति-योग-नाशक इति भावः । विज्ञानानन्तर-भावित्वं प्रमाणयति—महद्भिः सनकादिभिर् अपि विमृग्यम् इति ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं-पदार्थ-ज्ञानं श्रुत्वा तत्-पदार्थ-ज्ञान-विज्ञाने स-वैराग्ये पृच्छंस् तन्-मात्रेणाप्य् अपरितोषात् सर्व-दुर्लभं भक्ति-योगं च पृच्छति—ज्ञानम् इति । विशुद्धं त्वं-पदार्थ-ज्ञानातीतं, विपुलं तत्-पदार्थ-विषयत्वात् बृहत्तरं, पुराणं प्राचीन-ज्ञानि-सम्मतं, तथैव सम्बोधयति—हे विश्वेश्वर विश्व-मूर्ते इति । विश्वस्य मिथ्यात्वे तद्-ऐश्वर्यं तन्-मूर्तित्वं च वृथैवेति भावः । महद्भिः शुक-सनकादिभिर् अपि विशेषतो मृग्यं, ज्ञानाद्य्-अमिश्रं शुद्धम् इत्य् अर्थः ॥८॥
॥ ११.१९.९ ॥
ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महद्-विमृग्यत्वम् अभिनयेनाह—ताप-त्रयेणेति । ताप-त्रयेणाभितो हतस्य । अतः सन्तप्यमानस्य । अङ्घ्रि-द्वन्द्वम् एवातपत्रं तस्मात् । न केवलम् आतपात्रातुः किन्त्व् अमृतम् अप्य् अभितो वर्षति यत् तस्मात् ॥९॥
कैवल्य-दीपिका : शरणम् आश्रयः अमृतं सुधा मोक्षश् च ॥९॥ [मु।फ। ६.५४]
सनातन-गोस्वामी : [ह।भ।वि। ११.६७१] ताप-त्रयेणाभितस्य, अतः सन्तप्यमानस्य । अङ्घ्रि-द्वन्द्वम् एवातपत्रं, तस्मात् । न केवलम् आतपात्रात्, किन्त्व् अमृतं परमानन्द-रसम् अप्य् अभितो वर्षति यत् तस्मात् । एवं शरणागतानां सर्व-दुःख-हानिः, सुख-प्राप्तिश् चोक्ता ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शरणापत्तिं तस्य श्लाघते—सर्वेषाम् अनन्य-शरणत्वाद् इत्य् आह—ताप-त्रयेणेति द्वाभ्याम् । अमृतम् अत्र या निर्वृतिस् तनु-भृताम् [भा।पु। ४.९.१०] इत्य्-आदि न्यायेन ब्रह्मानन्दतोऽप्य् अधिक आनन्दः । शरणागतानां सर्व-दुःख-दूरीकरणं निज-माधुरीणां सर्वतो-वर्षणात्राभिहितम् ॥९॥ [भक्ति-सन्दर्भः २३६]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ज्ञानेनैव कृतार्थीभव, किं शुद्ध-भक्ति-योग-प्रश्नेन ? इत्य् आह—ताप-त्रयेणेति । अमृतं ब्रह्मानन्दाद् अप्य् अधिकं सुख-प्रदं माधुर्यम् अभितो वर्षतीति तस्मात् । यद् उक्तं या निर्वृतिस् तनु-भृतां तव पाद-पद्म-ध्यानात्, सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् [भा।पु। ४.९.१०] इति । तेन ज्ञानं विनापि संसार-क्षयस्य ज्ञान-साध्य-ब्रह्मानन्दाद् अप्य् अधिकानन्दस्य च लाभाद् भक्तिः पृच्छ्यते इति भावः ॥९॥
॥ ११.१९.१० ॥
दष्टं जनं सम्पतितं बिलेऽस्मिन्
कालाहिना क्षुद्र-सुखोरु-तर्षम् ।
समुद्धरैनं कृपयापवर्ग्यैर्
वचोभिर् आसिञ्च महानुभाव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिकृपाम् उत्पादयन्न् आह—दष्टम् इति । अस्मिन् बिले संसार-कूपे पतितं तत्र च कालाहिना दष्टम्, एवम् अपि क्षुद्र-सुखेष्व् एव उरुस् तर्षस् तृष्णा यस्य तम् । दह्यमानः कथं समुद्धरणीयः ? इति चेत् तत्राह—आपवर्ग्यैर् अपवर्ग-बोधकैर् वाग्-अमृतैर् आसिञ्चेति ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आपवर्ग्यैर् भक्ति-योग-तात्पर्यकैः वाग्-अमृतैर् आसिञ्च, यथा-वर्ण-विधानम् अपवर्गश् च भवति [भा।पु। ५.१९.१८] इत्य्-आदि पञ्चम-स्कन्ध-गद्यात् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु तर्हि शुद्ध-भक्ति-योगेनैव कृतार्थीभव, किं ज्ञान-योग-प्रश्नेन ? इति अत आह—दष्टम् इति । अयम् अर्थः—शुद्ध-भक्ति-योगस्य यादृच्छिक-महत्-कृपैक-लभ्यत्वान् न पुरुष-प्रयत्न-मूलकत्वम् । ज्ञान-योगस् तु निष्काम-कर्म-जन्य-ज्ञानेन ज्ञात-त्वत्-पदार्थैर्ः स्वत एव सुलभः । इत्य् अयं पुरुष-प्रयत्न-साध्यः, तस्माद् अप्राप्त-शुद्ध-भक्ति-योगा अप्य् एवं निस्तरेयुर् इत्य् अतो ज्ञानं पृच्छ्यत इति । आपवर्ग्यैर् अपवर्गार्हैर् वचनामृतैर् वासिञ्चेति त्वन्-मुख-चन्द्रादितः ज्ञानामृतम् एव सम्यग् अपवर्ग-जनकं भवतीति भावः ॥१०॥
॥ ११.१९.११ ॥
श्री-भगवान् उवाच—
इत्थम् एतत् पुरा राजाभीष्मं धर्म-भृतां वरम् ।
अजात-शत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-विश्वासार्थं विद्वत्-सभायां निर्णीतम् अहं वक्ष्यामीत्य् आशयेनाह—इत्थम् इति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तस्य विस्तरेण शुश्रूषाम् आशङ्क्य विस्तारार्थम् एव सङ्क्षेपेण कथयिष्यामीति विस्तरं सूचयन्न् आह—इत्थम् इति त्रिभिः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ११.१९.१२ ॥
निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः ।
श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत ॥**
न कतमेनापि व्याख्यातम् ।
॥ ११.१९.१३ ॥
तान् अहं तेऽभिधास्यामि देव-व्रत-मुखाच् छ्रुतान् ।
ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञानादिभिर् उपबृंहितान्, तत्-सहितान् इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ ११.१९.१४ ॥
नैवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै ।
ईक्षेताथैकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : एतद् एव विज्ञानं तथापि न तथैव ।
ज्ञात्वा तत्त्वानि तेष्व् ईशां सर्व-तत्त्वेश्वरं प्रभुम् । > जानन् ज्ञानी भवेत् स्वस्य योग्यं ज्ञानं विशेषतः । > पूर्वोक्त एव यो जानन् स विज्ञानी भवत्य् उत ॥ इति प्रभासे ।
नः तत्त्वानां मध्ये येन यद्य् अत्र स्थित्त्वा च स्युः । तद् एव सत् ।
सत्त्वं स्वातन्त्र्यम् उद्दिष्टं तच् च कृष्णेन चापरे । > अस्वातन्त्र्यान् न चान्येषाम् असत्त्वं विद्धि भारत ॥ इति भारते > ॥१४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र ज्ञानं कथयति—नवेति । प्रकृति-पुरुष-महद्-अहङ्कार-पञ्च-तन्-मात्राणि, एकादशेन्द्रियाणि, पञ्च-महा-भूतानि, त्रयो गुणाः, एतान् भावान् अष्टा-विंशति-तत्त्वानि भूतेषु ब्रह्मादि-स्थावरान्तेषु कार्येष्व् अनुगतानि येन ज्ञानेनेक्षेत। अथ एष्व् अपि भावेष्व् एकं परमात्म-तत्त्वम् अनुगतं येनेक्षेत । कार्य-कारणात्मकं जगत् पश्यन्, परम-कारणात्मकम् एवैतत्, न तु ततः पृथग् इति येन पश्येत् तज् ज्ञानम् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र ज्ञानम् आह—नवेति । प्रकृति-पुरुष-महद्-अहङ्कार-पञ्च-तन्-मात्राणि, एकादशेन्द्रियाणि, पञ्च-महा-भूतानि, त्रयो गुणाः, एतान् भावान् अष्टा-विंशति-तत्त्वानि भूतेषु ब्रह्मादि-स्थावरान्तेषु कार्येष्व् अनुगतानि येन ज्ञानेनेक्षेत। अथ एष्व् अपि भावेष्व् अष्टाविंशति-तत्त्वेषु एकं परमात्म-तत्त्वम् अनुगतं येनेक्षेत । कार्य-कारणात्मकं जगत् पश्यन्, परम-कारणात्मकम् एवैतत्, न तु ततः पृथग् इति येन पश्येत् तज् ज्ञानम् इत्य् अर्थः ॥१४॥
॥ ११.१९.१५ ॥
एतद् एव हि विज्ञानं न तथैकेन येन यत् ।
स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विज्ञानम् आह—एतद् एवेति श्लोकार्धेन । यद् यदा येनैकेनानुगतान् एकात्मकान् । भावान् पूर्वम् ऐक्षत तांस् तथा पूर्ववन् नेक्षेत । किन्तु तद् एकं परम-कारणं ब्रह्मैव । तदा एतद् एव विज्ञानम् उच्यते । एतद् उक्तं भवति—परोक्ष-ज्ञणेनापरोक्ष-भ्रमस्य दिङ्-भोहादिष्व् इव निवृत्त्य्-अभवात् तद् आत्मकं जगत् पश्यन्न् अप्य् आत्मनः पृथक् सद् इति मन्यते, अपरोक्ष-ज्ञाने तु बाधितम् एव दग्ध-पट-वज् जीवन्-मुक्तः संस्कार-शेषं पश्यति—ततः परं न पश्यति चातः परोक्षापरोक्ष-ज्ञाने ज्ञान-विज्ञान-शब्दाभ्याम् उच्येते इति । एकेन सर्व-कार्याणाम् अनुगतिं कार्याणां कारणात् पृथग् असत्त्वं चोपपादयति सार्धेन । तत्र यदि न कदाचिद् अनीदृशं जगद् इत्य्-आदि-मतेनैतेषां भावानाम् उत्पत्त्य्-आदयो न स्युस् तर्हि कारणस्यैकस्याभावाद् एकात्मकता मिथ्यात्वं च न स्याद् अतस् तेषाम् उत्पत्त्य्-आदीन् साधयति—स्थितीति । त्रि-गुणात्मनां सावयवानाम् इत्य् अर्थः । विमता भावा उत्पत्त्य्-आदिमन्तः, सावयवत्वात्, घटादिवद् इति पश्येत् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तदा एतत् पूर्वोक्तं यज् ज्ञानं, तद् एव विज्ञानम् उच्यते। कद ? इत्य् अपेक्षायाम् आह—न तथेति । अयं भावः—शब्देन परोक्ष-ज्ञाने हि आधाराधेयत्वेन कार्य-कारणत्वेन वा द्वयोर् अप्य् अवधानं भवत्य् एवेति तस्य ज्ञानत्वम् । निदिध्यासने शब्द-मात्रेणैव वा परमात्मनोऽपरोक्ष-स्फुरणे तु नान्यत् स्फुरेद् इत्य् अस्य विज्ञानत्वम् इति ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञानम् आह—एतद् एवेति अर्धेन । एतद् एव एतज् ज्ञानम् एव विज्ञानं भवति । कथम् ? इत्य् आह—न तथेति । येन परमात्मना एकेन यद् विश्वं अनुगतं यथा पूर्वं ईक्षितं तथा नेक्षते । अयम् अर्थः—ज्ञान-दशायां परोक्षी-भूतेन परमात्मना अनुगताः सर्वे परोक्षाः परोक्षी-भूता भावा दृष्टाः । विज्ञान-दशायां तु एकः परमात्मैवापरोक्षी-भूत ईक्षितो भवति, तद्-अनुभवानन्दाद् एव तत्-कार्याणां भावानां ईक्षणेऽवकाशो न भवेद् इत्य् अद्वितीयात्मानुभवः । ज्ञान-दशायां एकेन परमात्मनैवानुगतानां कार्याणां सर्वेषां परम-कारणात्मकत्वात् परमात्मैक्यम् एव यद् उक्तं तद् उपपादयति—स्थितीति चार्धेन । त्रिगुणात्मनां भावानां कार्याणां स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् इत्य् उत्पत्ति-स्थिति-प्रलयवत्त्वात् तेषाम् अनित्यत्वं पश्येद् इत्य् अर्थः । अनित्यत्वाद् एव सार्वकालिक-सत्यत्वाभावात् तेषाम् असत्यत्वं ज्ञानिनो मन्येरन्न् इति भावः ॥१५॥
॥ ११.१९.१६ ॥
आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् ।
पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत आदाव् उत्पत्तौ अन्ते परिणामान्तरापत्तौ च कारणत्वेन मध्ये चाश्रयत्वेन सृज्यात् सृज्यं कार्यात् कार्यान्तरं प्रति यद् अन्वियाद् अनुगच्छेत् तत्-प्रतिसङ्क्रामे तेषां प्रलये च यद् अवशिष्यते, तद् एव सद् इति पश्येद् इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सृज्यात् सृज्यम् इति, श्रुतेस् तु शब्द-मूलत्वात् इति न्यायेन परिणाम एव स्वीकृतः, न तु विवर्तः । "कल्प्यात् कल्प्यम्" इत्य् अनुक्तेः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यः पुनर् एकः परमात्मैवेत्य् आह—आदौ उत्पत्तौ, अन्ते परिणामान्तरापत्तौ च कारणत्वेन मध्ये चाश्रयत्वेन सृज्यात् सृज्यं कार्यात् कार्यं प्रति यद् अन्वियात् अनुगच्छत् । तत्-प्रतिसङ्क्रामे तेषाम् प्रलये च यद् अवशिष्येत तद् एव सत् । यथा महद्-आदीनां स्व-स्व-कार्यं प्रति कारणत्वेऽपि सर्व-कारणत्वाभावान् न कारणत्वम् । किन्त्व् एकः परमात्मैव कारणम् । तथैव तेषां सत्यत्वेऽपि सार्वकालिक-सत्यत्वाभावान् न सत्यत्वं किन्त्व् एकः परमात्मैव सत्य इति ज्ञान-दशायाम् अपि तस्याद्वयत्वं पश्येद् इति भावः ॥१६॥
॥ ११.१९.१७ ॥
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) : विकल्पनात् विरुद्ध-कल्पनात् ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैराग्यम् आह—श्रुतिर् इति द्वाभ्याम् । श्रुतिः, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१५] इत्य्-आदिः । प्रत्यक्षम्—पटादि-कार्यं तन्त्व्-आदि-व्यतिरेकेण न दृश्यते । ऐतिह्यम्—मह-जन-प्रसिद्धिः । अनुमानम्—विमतं मिथ्या, दृश्यत्वात्, शुक्तिर् अजतादिवद् इत्य्-आदि । एवं प्रमाण-चतुष्टयम् । एतेष्व् अनवस्थानाद् एतैर् बाधितत्वात् । स एवं सर्वानुगतं सत्यम् आत्म-तत्त्वं पश्यन् विकल्पस्य च मिथ्यात्वत् ततो विरज्यते विरक्तो भवतीत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र भेद-मात्रं निषिध्यते, विकल्प-शब्दस्य संशयार्थत्वात् । विकल्पात् संशयात् संशयम् अनादृतेत्य् अर्थः । विरज्यते—संशयं परित्यज्य वस्तुन्य् एव निष्ठाम् करोतीत्य् अर्थः ।
यद् वा, तेषु प्रमाणेष्व् अनवस्थानात्, तैः प्रमाणैः सम्बन्धानवगमाद् धेतोर् विकल्पात् विशेषेणात्मात्मीयत्वेन कल्प्यत इति प्रपञ्चात् । विरज्यते विरक्तो भवति । तत्र श्रुतिः—असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ। ४.३.१५]इत्य्-आदि । प्रत्यक्षं—प्रकाश्य-प्रकाशकत्व-वैलक्षण्येन सर्वानुभवात् । ऐतिह्यं—तत्-तच्-छास्त्र-प्रवर्तक-महाजन-सम्प्रदाय-प्रसिद्धिः । अनुमानं—यथाग्नेर् दारुणो दाह्याद् दाहकोऽन्यः प्रकाशक इत्य्-आदि लक्षणम् । तथानुमानं विमतं, प्रपञ्चत्वं प्रपञ्च-समवायश् चात्मनि मिथ्या कदाचिद् एव दृश्यत्वाच् छुक्तौ रजतत्ववत् समवायवद् इति च सुषुप्त्य्-आदौ न दृश्यत इति । कदाचिद् ग्रहणं तद् उक्तम् आदाव् अन्ते च मध्ये च [भा।पु। ११.१९.१६] एति ॥१७॥ [परमात्म-सन्दर्भ ४४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-विज्ञाने उक्त्वा वैराग्यम् आह द्वाभ्याम् । श्रुतिः—यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्ति [तै।उ। ३.१.१] इति । प्रत्यक्षं—घटादीनां मृद्-उद्भूतत्वं मृद्-अवसानत्वं च दृष्टम् एव । ऐतिह्यं महाजन-प्रसिद्धिः । न कदाचिद् अनीदृशं जगद् इत्य्-आदिकं वदतां तु न महाजनत्वं ज्ञेयम् । अनुमानं जगद् इदम् असार्वकालिकम् आद्यन्तवत्त्वाद् इति । एवं चतुर्षु प्रमाणेषु सत्सु अनवस्थानात् सार्वकालिकावस्थानाभावाद् धेतोर् विकल्पात् स्वर्गादि-भोग-मयात् द्वैत-प्रपञ्चाद् विरक्तो भवेत् ॥१७॥
॥ ११.१९.१८ ॥
कर्मणां परिणामित्वाद् आ-विरिञ्च्याद् अमङ्गलम् ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु वेदोक्त-स्वर्गादि-सुखाशया न विरज्येतेत्य् आह—कर्मणाम् इति । आ विरिञ्च्याद् ब्रह्म-लोक-पर्यन्तम् अदृष्टम् अपि सुखम् अमङ्गलं दुःख-रूपं नश्वरं च पश्येत् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र विरिञ्च्यम् एवावधिं कृत्वा नश्वरत्व-दृष्टिर् उपदिष्टा, न तु वैकुण्ठादिकम् अपीति ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स्वर्गादीनां सार्वकालिक-सुखदत्वाभावेऽपि कञ्चित्कालिक-सुखदत्वम् अस्त्य् एव ? अत आह—कर्मणाम् इति । कर्मणां परिणामित्वात् कर्म-परिणामवत्त्वात् कर्म-परिणतत्वाद् इति यावत् । आ विरिञ्च्यात् ब्रह्म-लोक-पर्यन्तम् अदृष्टं स्वर्गादि दृष्टवत् दृष्टं राज्यादिकम् इव स्पर्धासूयादिमत्त्वेन सङ्कटकत्वाद् अमङ्गलं नश्वरम् ॥१८॥
॥ ११.१९.१९ ॥
भक्ति-योगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।
पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-योगं स-कारणम् आह—भक्ति-योगः पूर्वम् उक्त एव तथापि तस्मिन् प्रीतिं प्राप्नुवते तुभ्यं पुनश् च कथयिष्यामि ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मत् मम भक्ति-योगः प्रेमोपायः पुरैवोक्त एव । पुनश् च मद्-भक्तेः प्रेम्णः कारणम् उपायं कथयिष्यामीत्य् अर्थः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् पृष्टं त्व-भक्ति-योगं च महद्-विमृग्यम् आख्याहीति तत्राह भक्ति-योग इति । पुरैवोक्त इति तद् अपि त्वं श्रुत्वापि तत्र तृप्य-भावाद् एव पुनः पृच्छसीति भावः । पुनर् अपि कथयिष्यामि, यतः प्रीयमाणाय तस्मिन्न् एव प्रीतिं प्राप्नुवते तत्रापि हेतुः अनघेति । अपराधे सत्य् एव तत्र प्रीतिर् ह्रसति नान्यथेति भावः । कारणं परं श्रेष्ठं मङ्गलम् ॥१९॥
॥ ११.१९.२०-२४ ॥
श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥**
आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् ।
मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥**
मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् ।
मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥**
मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥**
एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रद्धा श्रवणादरः । शश्वद् इति सर्वत्रानुषज्जते । मद्-अनुकीर्तनं श्रवणानन्तरं मत्-कथा-व्याख्यानम् इत्य् अर्थः ॥२०-२१॥
अङ्ग-चेष्टा लौकिकी क्रिया । वचसा लौकिकेनापि मद्-गुणानाम् ईरणं कथनम् ॥२२॥
मद्-अर्थे मद्-भजनार्थम् । तद्-विरोधिनोऽर्थस्य परित्यागः । भोगस्य तत्-साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादि-वैदिकं यत् कर्म तद् अपि मद्-अर्थं कृतं भक्तेः कारणम् इत्य् अर्थः ॥२३॥
भक्तिः प्रेम-लक्षणा सञ्जायते । अस्य भक्तस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वा अवशिष्यते । सर्वोऽपि स्वत एव भवतीत्य् अर्थः ॥२४॥
कैवल्य-दीपिका : अथ पञ्चदश-वर्गम् आह—शुद्धेति । अनुकीर्तनं नामोच्चारणं परिकर्या पुष्प-चन्दनादि । सर्वाङ्गैर् अष्टभिः । तथा च,
दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥
अङ्ग-चेष्टा सम्मार्जनोपलेपादि । ईरणम् उच्चारणम् ॥ भोगो विषयार्जनम् । उखम् उपभोगः । इष्टादेश् च मद्-अर्थम् । आत्म-निवेदनं ज्ञानम् । आत्मनि वेदनम् इत्य् अलुक् । तद् यथा स्यात् तथा भक्तिर् जायत इति क्रिया-विशेषणम् । आत्म-समर्पणम् इति व्याख्याने समर्पणं च मनन इत्य् अनेन पौनरुक्त्यम् ॥२०-२४॥ [मु।फ। ७.५५-५९]
सनातन-गोस्वामी : [ह।भ।वि। १०.५१४-५१७] पुनश् च कथयिष्यामि मद्-भक्तेः कारणम् इति प्रतिज्ञातम् एवाह—श्रद्धेति चतुर्भिः । श्रद्धा श्रवणादरः । शश्वद् इति सर्वत्रानुषज्जते । मद्-अनुकीर्तनं श्रवणानन्तरं मत्-कथा-व्याख्यानम् इत्य् अर्थः । अङ्ग-चेष्टा लौकिकी क्रिया । वचसा लौकिकेनापि मद्-गुणानाम् ईरणं कथनम्। मद्-अर्थे मद्-भजनार्थम् । तद्-विरोधिनोऽर्थस्य परित्यागः । भोगस्य तत्-साधनस्य चन्दनादेः । सुखस्य च पुत्रोपलालनादेः ।
यद् वा, अर्थो धनं, भोगो विषयोपभोगः । सुखं मोक्षानन्दः । तेषां परित्यागः । इष्टादि वैदिकं यत् कर्म तद् अपि मद्-अर्थं चेद् भक्तेः कारणम् इत्य् अर्थः । अत्रादौ प्रायो भक्तेर् मुख्यान्य् अङ्गान्य् उक्तानि । सर्व-काम-विवर्जनादीनि च प्रायः साधनान्य् एव ॥२०-२३॥
एवम् ईदृशैर् एतैर् वा आत्म-निवेदिनां सतां भक्तिः प्रेम-लक्षणा सम्यग् जायते । अस्य भक्तस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ? सर्वोऽपि स्वत एव भवतीत्य् अर्थः । यद् वा, अस्य मम, ततश् च सतां मद्-भक्ति-सम्यग्-आविर्भावे सति ममैव कृतार्थता स्याद् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (भक्ति-सन्दर्भः २२८) : तद् एवं कैवल्य-कामायां ज्ञान-मिश्रोक्ता । अथ भक्ति-मात्र-कामायां कर्म-मिश्रा यथा—श्रद्धेति चतुष्कम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रद्धेति चतुष्कम् । अभ्यधिका मत्-पूजातोऽपि तत्र मम सन्तोष-विशेषात् सर्व-भूतेष्व् अपि दृश्यमानेषु ममैव मतिः तत्र तत्र स्फुरणं सर्व-कामेत्य् आदिकं कथा-निष्ठा-सम्पादन-द्वारा कारणम् ॥२१॥
एवं काय-वाङ्-मनोभिस् तद्-अर्थ-मात्र-चेष्टावत्त्वेनानुष्ठितैर् भगवद्-धर्मैर् आत्म-निवेदिनाम् । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदि-न्यायेनास्य भक्ति-मात्र-कामस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ? सर्वोऽर्थोऽसाव् अनादृतोऽपि भवतीत्य् अर्थः । इति परम-पुरुषार्थ-शिरोमणौ तत्र सर्व-सुखान्तर्भावात् ॥२४॥ [भक्ति-सन्दर्भ २२८]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमृत-रूपा या कथेति । तत्-कथायाः सर्वस्या अमृतत्वेऽप्य् अतिमाधुर्यवती रासादि-सम्बन्धिनीत्य् अर्थः । श्रद्धा अतिश्रद्धा । अभ्यधिका मत्-सन्तोष-विशेषं ज्ञात्वा मत्-पूजातोऽपीत्य् अर्थः ।
अङ्ग-चेष्टा दन्त-धावनादि-दैहिकी क्रियापि मद्-अर्थे मत्-सेवार्थम् । वचसा अपभ्रंश-वाक्येनापि गीत-बन्धेन मद्-गुण-कथनम् । मद्-अर्थे मदीय-यात्रोत्सवाद्य्-अर्थे अर्थ-परित्यागः श्री-गुरु-वैष्णवादि-सम्प्रदानकः । यद् वा, भजन-विरोधिनोऽर्थस्योपेक्षा भोगस्य स्त्री-सम्भोगादेस् त्यागः सुखस्य पुत्रोपलालनादेर् दत्तं दानं हुतं, ब्राह्मण-वैष्णव-मुखे तिलाज्य-निक्षेपो वा ।
जप्तं सहस्र-लक्षादि-भगवन्-नाम-मन्त्र-जपः । एतत् त्रितयम् एव इष्टं भक्तानां यागः । मद्-अर्थं मत्-प्राप्त्य्-अर्थं व्रतम् एकादश्य्-उपवासादिकं यत् तद् एव भक्तानां तपः । अस्य निष्काम-भक्तस्य कोऽन्योऽर्थोऽतोऽपरं किं फलम् अवशिष्टं भवति । किन्तु तद् एव पुनः पुनर् अमुत्र कथा-श्रवणादिकम् एव फलम्। तेन ज्ञानिनो यथा-साध्य-प्राप्तौ सत्यां साधनस्य त्याग उक्तः । तथा भक्तस्य साध्य-भक्ति-प्राप्तौ सत्यां साधन-भक्तेः श्रवण-कीर्तनादिकाया नैव त्यागः । प्रत्युत प्रेम-रस-रूपायाः साध्य-भक्तेर् अनुभाव-रूपा श्रवण-कीर्तनादि-भक्तिः पूर्वतोऽपि सहस्र-गुणिता भवतीति ॥२०-२४॥
॥ ११.१९.२५ ॥
यद् आत्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।
धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं बहुना, चित्तम् एवान्तर्-बहिर्-निष्ठम् अर्थानर्थयोः कारणम् इत्य् आह—यद् आत्मनीति द्वाभ्याम् । यदा आत्मनि मयि ईश्वरे चित्तम् अर्पितं, तदा पुमान् धर्मादीन् प्राप्नोत्य् एव ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य तटस्थ-लक्षणं दर्शयन् धर्मादयश् च तद्-अनुगता भवन्तीत्य् आह—यदेति । यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदेः ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कोऽन्योऽर्थोऽस्यावशिष्यते ? इत्य् अपेक्षायां भगवद्-उक्तेर् इयम् उक्त-लक्षणा केवला निर्गुणा भक्तिर् ज्ञानाङ्गत्वेन न व्याख्येया । ज्ञानाद्य्-अङ्ग-भूता भक्तिस् त्व् इतोऽन्या सात्त्विकी वर्तत एव । तयैव सकाम-भक्तः स्वापेक्षितं धर्म-ज्ञानादिकं प्राप्नोतीत्य् एवेत्य् आह—यद् इति । यत् शान्तं चित्तं आत्मनि परमात्मनि मयि अर्पितं सात्त्विक्या भक्त्या मद्-विषयी-कृतं भवति, तद् धर्मादि-युक्तं भवतीत्य् अर्थः ॥२५॥
॥ ११.१९.२६ ॥
यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति ।
रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव व्यतिरेकेण द्रढयति—यद् यदा तच् चित्तं विकल्पे देह-गृहादाव् अर्पितं सत् विषयेषु परिधावतितदाधिकं रजस्-वलम् असन्-निष्ठं च भवति । ततश् च विपर्ययम् अधर्मादिकं विद्धि ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : व्यतिरेकेण च लक्षयति—यद् इति । यच्-चित्तं विकल्पे देह-गृहादाव् अर्पितं सत् परिधावति, तद् रजस्वलम् असन्-निष्ठं च । चित्तं विपर्ययं विपरीतं मत्-प्रेम-रहितं विद्धीति ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यतिरेकं दर्शयति—यच् चित्तं विकल्पे देह-गेहादाव् अर्पितं तत् रजस्वलम् सत् विषयान् परिधावति, असन्-निष्ठं निषिद्ध-विषयासक्तं च भवति । तच् चित्तं विपर्ययं प्राप्तं विद्धि । अधर्म-ज्ञानम् अवैराग्यम् अनैश्वर्यं प्राप्नोतीत्य् अर्थः ॥२६॥
॥ ११.१९.२७ ॥
धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् ।
गुणेष्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
एकः प्रधानम् उद्दिष्टो विष्णोः प्राधान्य-दर्शनम् ।
ऐकात्म्य-दर्शनं प्रोक्तं सर्व-ज्ञानोत्तमं च तत् ॥ इति त्रैकाल्ये > ॥२७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वाभिप्रेतान् धर्मादीन् व्याचष्टे—धर्मो मद्-भक्ति-कृत्, यतः स एव प्रोक्तः प्रकृष्ट उक्तः शास्त्रेषु ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-भक्ति-कृद् एव धर्मः प्रकर्षेणोक्तो, नान्यः । ततः स एव मुख्य-वृत्त्या धर्म-शब्देन वाच्य इत्य् अर्थः । एवम् एव भक्ताव् अपि धर्म-शब्दः । एवं धर्मैर् इतीति भावः । ऐकात्म्यं सर्वेषां परम-स्वरूपं मद्-रूपेणैक-रूपत्वम् । यद् वा, एक एव सर्वेषाम् आत्मा योऽहं स्वयं भगवान्, स एकात्मा स्वार्थे ष्यञ् तद्-दर्शनम् एव ज्ञानं प्रोक्तम् इति पूर्ववत् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मादीन् व्याचष्टे—धर्म इति । मद्-भक्ति-कृत् मद्-भक्तेः कृत् करणं यत्र वस्तुनि भवेत्, स धर्मः ॥२७॥
॥ ११.१९.२८ ॥
श्री-उद्धव उवाच—
यमः कति-विधः प्रोक्तो नियमो वारि-कर्षण ।
कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्मादीनां महाजन-प्रसिद्धानाम् अन्यथा व्यख्यातत्वाद् यमादिष्व् अपि सङ्ख्यातः स्वरूपतो वा किञ्चिद् वैलक्षण्य स्याद् इत्य् एवं सम्भावनया तद् विशेषं जिज्ञासुः पृच्छति—यम इति पञ्चभिः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मादीनाम् अन्यतो विलक्षणं लक्षणं श्रुत्वा यमादीनां सङ्ख्यातः स्वरूपतश् च वैलक्षण्यं सम्भाव्यं पृच्छति—यम इति पञ्चभिः ॥२८॥
॥ ११.१९.२९ ॥
किं दानं किं तपः शौर्यं किं सत्यम् ऋतम् उच्यते ।
कस् त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इष्टम् अभ्यर्हितं धनं च किम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
॥ ११.१९.३०-३१ ॥
पुंसः किं स्विद् बलं श्रीमान् भगो लाभश् च केशव ।
का विद्या ह्रीः परा का श्रीः किं सुखं दुःखम् एव च ॥**
कः पण्डितः कश् च मूर्खः कः पन्था उत्पथश् च कः ।
कः स्वर्गो नरकः कः स्वित् को बन्धुर् उत किं गृहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : परेति विद्यादीनां विशेषणम् । श्रीर् मण्डनम् ॥३०-३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रीर् मण्डनम् ॥३०-३१॥
॥ ११.१९.३२ ॥
क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ।
एतान् प्रश्नान् मम ब्रूहि विपरीतांश् च सत्-पते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्नान् पृष्टान् अर्थान् । विपरीतान् अशमादीन् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्नान् पृष्टान् अर्थान् । विपरीतांश् चेति पृष्टार्थानाम् एतेषाम् उक्त्यैव एतद्-विपरीताः स्वत एवोक्ता मया ज्ञाताश् च भविष्यन्तीति भावः ॥३२॥
॥ ११.१९.३३ ॥
श्री-भगवान् उवाच—
अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः ।
आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यम-नियमान् आह—अहिंसेति त्रिभिः । अस्तेयं मनसापि परस्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहिंसेति त्रिकम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यम-नियमान् आह—अहिंसेति द्वाभ्याम् ॥३३॥
॥ ११.१९.३४ ॥
शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् ।
तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शौचं बाह्यम् अभ्यन्तरं चेति द्वयम् । अतो द्वदश नियमाः । श्रद्धा धर्मादरः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शौचं बाह्यम् आभ्यन्तरं चेति द्वयम् । अतो द्वदश नियमाः ॥३४॥
॥ ११.१९.३५ ॥
एते यमाः स-नियमा उभयोर् द्वादश स्मृताः ।
पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उभयोः श्लोकयोर् ये स्मृतास् ते यमा नियमाश् च । यद् वा, उभयोः प्रवृत्त-निवृत्तयोः मुमुक्षोर् यमा मुख्याः, स-कामस्य नियमा मुख्याः स्मृता इत्य् अर्थः । अत्र हेतुम् आह—हि यस्माद् उपासिताः सेविताः सन्तः पुंसां प्रवृत्तानां निवृत्तानां च यथा-कामं कामानुसारेण मोक्षम् अभ्युदयं च दुहन्तीति ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : उभयोर् इति यमे नियमे चेत्य् अर्थः ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभयोः श्लोकयोर् ये स्थिता ते यमा नियमाश् च । यथा यथावद् एव कामं पूरयन्तीति यम-नियमौ तन्-मते, अन्य-मते च तुल्य-साङ्ख्याकौ तुल्य-लक्षणौ च । अनयोर् अपि भगवन्-मते वैलक्षण्यं सम्भवेद् इत्य् आशङ्क्यानिवृत्त्य्-अर्थम् एवैतत्-प्रश्नोत्तरे ज्ञेये ॥३५॥
॥ ११.१९.३६ ॥
शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः ।
तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुमुक्षोर् उपादेयान् शमादीन्, हेयांश् च दुःखादीन् महाजन-प्रसिद्धेभ्यो विलक्षणान् आह—शम इत्य्-आदिन यावत् समाप्ति । एतेनैव तद्-विपरीता अशमादयोऽप्य् उन्नेयाः । शमोमन्-निष्ठता बुद्धेः, न तु शान्ति-मात्रम् । दमैन्द्रिय-संयमः, न चौरादि-दमनम् । तितिक्षा विहित-दुःखस्यसंमर्षः सहनं, न भारादेः । जिह्वोपस्थयोर् जयो वेग-धारणं धृतिः, न त्व् अनुद्वेग-मात्रम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्तः-करणस्य स्व-निष्ठत्वम् एव शमम् उक्त्वा, अन्तः-करणाधीनाम् इन्द्रियादीनां च स्व-स्व-सम्बन्धेनैव यमादिकं मेने ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधकाणां उपादेयान् शमादीन् आचार्यान्तर-वैलक्षण्येन लक्षयति—शम इत्य्-आदिना यावद्-अध्याय-परिसमाप्तिः । बुद्धेर् मन्-निष्ठता शमः इति मन्-निष्ठता-बुद्धित्वं विना केवला शान्तिर् विगीतैव । इन्द्रिय-संयम इति स्वेन्द्रिय-दमनं विना स्व-शिष्यादि-दमनं हास्यास्पदम् एव । दुःख-संमर्ष इति परावमाननोत्थस्य दुःखस्य शास्त्र-विहितस्य दुःखस्य वा सहनं तितिक्षा । तेन विना तु स्वेच्छयैव शीतोष्णादि-दुःख-सहनं मौढ्यम् एव । जिह्वोपस्थ-जयं विना अन्यत्र धीरता व्यर्थैव ॥३६॥
॥ ११.१९.३७ ॥
दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् ।
स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दण्डो भूत-द्रोहस् तस्य त्यागो दानं, न धनार्पणम् । काम-त्यागो भोगोपेक्षा तपः, न कृच्छ्रादि । स्वभावो वासना तस्य विजयः प्रतिबन्धः शौर्यं, न विक्रान्तिः । समं ब्रह्म तस्य दर्शनम् आलोचनं सत्य-विषयत्वात् सत्यं, न यथार्ह-भाषणा-मात्रम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम-दर्शनं नारायण-पराः सर्वे [भा।पु। ६.१७.२८] इत्य्-आदि रीत्या ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दण्ड-न्यासो भूत-मात्रस्यैव द्रोह-त्यागो दानं, न धनार्पण-मात्रं तु किम् अपि । भोगोपेक्षा एकादशी-कार्त्तिक-व्रतादौ या विहिता सैव तपः, न तु कृच्छ्रादि । स्वभावः स्वीय-पाण्डित्यादि-प्रख्यापनं तस्य स्वाभाविकयोः काम-क्रोधाद्योश् च राजस-तामसयोर् भावयोश् च विजयः प्रतिबन्धः शौर्यं, न तु विक्रमः । सत्यं सम-दर्शनम् ईर्ष्यासूयादि-वैषम्य-परित्यागेन सर्वत्र स्व-सम-दुःखालोचनं,
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । > सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ [गीता ६.३२]
इति श्री-गीतोक्तेः । न तु यथार्थ-भाषण-मात्रम् ॥३७॥
॥ ११.१९.३८ ॥
ऋतं च3 सूनृता वाणी कविभिः परिकीर्तिता ।
कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यच् च, ऋतंसूनृता सत्या प्रिया च वाक् । एवं च ऋत-सत्ययोः स्फुट एव विवेकः। क्रम-प्राप्तं त्यागं व्याख्यातुम् आदौ ततोऽर्थ-भेदेन शौचं व्याचष्टे, तस्यापि मल-त्याग-रूपत्वे त्यागाभेद-प्रतीतेः । कर्मस्व् असङ्गमोऽनासक्तिः शौचं, त्यागस् तु सन्न्यास इति तयोर् भेद इत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूनृता वाणी सत्या प्रिया च वाणी सैव, न तु यथार्थ-भाषण-मात्रम् । तथात्वे दोषवतां दोष-कीर्तनम् अपि प्रसज्जेत् । तस्मिंश् च सति निन्दा स्यात् । सा च सतां श्रोतॄणाम् अप्रियेति तस्याः सूनृत-वाणीत्वाभावः स्यात् । ऋतं यथार्थ-भाषणम् इत्य् अनयोर् लक्षणं चक्रुः ।
कर्मसु अनासक्तिः शौचं, न तु केवलं शुचित्वम् एवेति पूर्वम् अपृष्टस्य त्रेता-युग-धर्मस्य शौचस्य लक्षणम् इदम् । अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः इति न्यायात् । एवं भगो म ऐश्वरो भावः [भा।पु। ११.१९.४०] इत्य् अत्रापि ज्ञेयम् । त्यागः सन्न्यासः कलत्र-पुत्रादि-ममता-त्यागः, न तु भोग-त्याग एव त्यागः ॥३८॥
॥ ११.१९.३९ ॥
धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः ।
दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नॄणाम् इष्टं धनं धर्मः, न पश्व्-आदि-साधारणम् । भगवत्तमः परमेश्वरोऽहम् एव यज्ञः, मद्-बुद्ध्या यज्ञोऽनुष्ठेयः, न क्रिया-बुद्ध्येत्य् अर्थः । यज्ञार्थं दानं दक्षिणा, सा च ज्ञानोपदेशः, न हिरण्यादि-दानम् । तेन हि यज्ञ-रूपो विष्णुः प्राप्यते । दुर्दम-दमनं बलम्, तच् च मनो-दमन-हेतुत्वात् प्राणायाम इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दक्षिणा ज्ञान-सन्देश इत्य् अस्य टीकायां—सा च ज्ञानोपदेश इति ज्ञानस्योपदेशो यस्मात् स ज्ञानोपदेश-प्राप्ति-हेतुर् आचार्ये भक्ति-विशेष इत्य् एवार्थः। न हि यजमानो ज्ञानोपदेशं करोति, यथा हिरण्यादि-दक्षिणाम् इति । यद् वा, भगवत्तमः स्वयं भगवद्-रूपः श्री-कृष्णाख्योऽहम् एव यज्ञः, मज्-ज्ञानेनैव यज्ञ-फल-प्राप्तेः।
सर्वे वेदाः सर्व-विद्याः स-शास्त्राः > सर्वे यज्ञाः सर्व ईज्यश् च कृष्णः । > विदुः कृष्णं ब्राह्मणास् तत्त्वतो ये > तेषां राजन् सर्व-यज्ञाः समाप्ताः ॥ इति महाभारतोक्तेः ।
तस्मिम्श् च ज्ञाने यः सन्देशः संवाद आचार्यानुकूलं वचः, तद्-आज्ञानुष्ठानं वा स एव दक्षिणा, तत्-सन्तोष-करत्वात्, ज्ञान-पर्यायकत्वाच् च ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म एव इष्टं धनं, न गवाश्वादिः । अहं भगवत्तमो वसुदेव-नन्दन एव यज्ञः, मज्-जन्म-मात्राद्य्-उत्सव एव यज्ञ-बुद्ध्या अनुष्ठेय इत्य् अर्थः, न तु नश्वर-फलोऽश्वमेधादिः । ज्ञानस्य उत्सवान्ते मत्-कीर्तनादि-रसानुभवस्य सन्देशः स्वेष्ट-मित्रेषु ज्ञापनैव दक्षिणा, न तु धन-रत्नाद्य्-अर्पणम् । दुर्दम-दमनं बलं, तच् च मनो-दमन-हेतुत्वात् प्राणायामः ॥३९॥
॥ ११.१९.४० ॥
भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः ।
विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : लाभं व्यशिख्यासुः प्रथमं भगं ततो भेदेन व्याचष्टे । लोके तयोर् अभेद-प्रसिद्धेः । भगो भाग्यं । तच् च मे ऐश्वरो भावो मदीयम् ऐश्वर्यादि-षाड्गुण्यम् इत्य् अर्थः । उत्तमोलाभस् तु मद्-भक्तिः, न पुत्रादिः । विद्याचात्मनि प्रतीतस्य भेदस्य बाधः, न ज्ञान-मात्रम् । अकर्मसु जुगुप्सा हेयत्व-दर्शनं ह्रीः, न लज्जा-मात्रम् ॥४०॥
सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.७.६७] अस्यार्थः—अकर्मसु विकर्मसु जुगुप्सा निन्द्यतया हेयत्वालोचनं यत्, सा ह्रीर् उच्यते, न तु लज्जा-मात्रम् इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भिदा मर्त्योऽहं देवोऽहं बालोऽहं युवाहम् इत्य्-आदि बुद्धिस् तस्या बाधः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दया लोक-प्रसिद्धैवेति न सा लक्षिता । मम ऐश्वरो भावो ममैव ईश्वरत्वं भगः, न तु जीवाणां ब्रह्मेन्द्रादीनां ईश्वरत्वम् इत्य् अर्थः । **मद्-भक्ति-**लाभ एव लाभो, न तु पुत्रादि-लाभः । आत्मनि जीवात्मनि अविद्या-कृता भिदा अनात्मत्वं, तस्या बाध एव विद्या । यद् उक्तम्—त्रिगुण-मयः पुमान् इति भिदा यद् अबोध-कृता [भा।पु। १०.८७.२५] इति, न त्व् अधीता व्याकरणाद्या । अकर्मसु पापेषु जुगुप्सा लोक-निन्दोत्थैव तत्राप्रवृत्ति-हेतुर् ह्रीः, न तु लज्जा-मात्रम् ॥४०॥
॥ ११.१९.४१ ॥
श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः ।
दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुणा एव श्रीर् मण्डनं, न किरीटादि । दुःख-सुखयोर् अत्ययोऽतिक्रमो ऽननुसन्धानं सुखं, न भोगः । विषय-भोग्आपेक्षैवदुःखं, नाग्नि-दाहादि । बन्धान् मोक्षं द्वयं वा यो वेत्ति स पण्डितः, न विद्वन्-मात्रम् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणा एव श्रीर् मण्डनं, न किरीटादि । दुःख-सुखयोर् अत्ययोऽतिक्रमो ऽननुसन्धानम् एव सुखं, न विषय-भोगः । विषय-भोग्आपेक्षैवदुःखं, नाग्नि-दाहादि । बन्धान् मोक्षं च यो वेत्ति स एव पण्डितः, न शास्त्र-व्याख्यातैव ॥४१॥
॥ ११.१९.४२ ॥
मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः ।
उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहं-बुद्धिर् इत्य् उपलक्षणम्, देह-गेहादिष्व् अहं-ममेत्य् अभिमानवान् मूर्ख इत्य् अर्थः । मन्-निगमो मां नितरां गमयति प्रापयति यो निवृत्ति-मार्गः, स तु पन्थाः सन्-मार्गः, न कण्टकादि-शून्यः । चित्त-विक्षेपः प्रवृत्ति-मार्गः स उत्पथः कुमार्गः, न तु चौराद्य्-आकुलः । सत्त्व-गुणस्योदय उद्रेकः स्वर्गः, नेन्द्रादि-लोकः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्-निगमो मां नितरां गमयति प्रापयतीति स भक्ति-ज्ञान-योगः, न तु कण्टकादि-शून्यो मार्गः । चित्त-विक्षेपः प्रवृत्ति-मार्गः । सत्त्व-गुणस्योदय उद्रेकः स्वर्गः, नेन्द्रादि-लोकः ॥४२॥
॥ ११.१९.४३ ॥
नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे ।
गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमस उन्नाह उद्रेकः स नरकः, न तामिस्रादिः । गुरुर् एव बन्धुः, न भ्रात्रादिः; स चाहम् एव, यथाहं जगद्-गुरुः—
एक एव परो बन्धुर् विषमे समुपस्थिते । > गुरुः सकल-धर्मात्मा यत्राकिञ्चन-गो हरिः ॥ इति ।
स-साधनं भोगायतनं गृहं, तच् च मानुष्यं मानुष-रूपं शरीरम् एव, न हर्म्यादि । गुणैः सम्पन्न आढ्य उच्यते, न धनी ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमस उन्नाह उद्रेको नरकः । गुरुर् एव बन्धुः, न भ्रात्रादिः । स चाहम् एव ॥४३॥
॥ ११.१९.४४ ॥
दरिद्रो यस् त्व् असन्तुष्टः कृपणो योऽजितेन्द्रियः ।
गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विषये दोष-बुद्धिः सन्न् इन्द्रियाणां वशे स्थितः ।
कृपणः स तु सम्प्रोक्तो गुण-बुद्धि-विपर्ययः ॥ इति विवेके । > पुरुषार्थ-मतिर् यस्य विसायेष्व् एव देहिनः । > विपरीतः स विज्ञेयः स्वात्मनो विपरीततः ॥ इति निवृत्ते ।
वित्ता सन्तोष-मात्राद् दरिद्रः । सर्व-विषय-सङ्गी विपरीतः ॥४४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : असन्तुष्टो यः स दरिद्रः, न निःस्वः । योऽजितेन्द्रियः स कृपणः शोच्यः, न दीनः । विषयेष्व् अनासक्त-धीर् यः स ईशः स्वतन्त्रः, न राजादिः । गुण-सङ्गो गुणेषु सङ्गो यस्य स विपर्ययोऽनीशः । एतच् च शमादि-विपर्ययोपलक्षणार्थम् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-सङ्गः गुणासङ्ग्य् एवानीशः ॥४४॥
॥ ११.१९.४५ ॥
एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।
किं वर्णितेन बहुना लक्षणं गुण-दोषयोः ।
गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—एत इति । साधु मोक्षोपयोगितया । एतच् च सर्वं गुण-दोषयोर् विवेकायोद्धवेन पृष्टम्, इति तयोः सङ्क्षेपतो लक्षणम् आह—किं बहुनावर्णितेन ? गुण-दोषयोर् लक्षणम् एतावद् एव । तद् आह—गुण-दोषयोर् दृशिर् दर्शनं दोषः, गुणस् तु तद्-उभय-दर्शन-विवर्जितः स्वभाव इति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं त्वत्-प्रश्नम् अनुसृत्यैव प्रपञ्चितं तद् एतच् च मम प्रायो नातिस्वहृद्यम् इति व्यञ्जयन् परम-स्वहृद्यं पूर्वोक्तं यमादि-फल-भूतं गुणं लक्षयन् व्यतिरेक-ज्ञानाय दोषम् अपि लक्षयति—किम् इति । बहुना व्यवहार-मयत्वाद् असार-प्रचुरेण परमार्थ-प्रचुर-मयत्वान् मुख्यम् एकम् एव गुण-दोषयोर् लक्षणम् इत्य् अर्थः । तद् आह—गुणेति । गुणो विहितत्वं दोषो निषिद्धत्वं तत् तयोर् दृशिर् विवेको दोषः किन्तूभय-वर्जितो यः स्वभाव-विशेषः, स गुणः, तत्-तद्-दृष्टिम् अतिक्रम्य स्वभावत एव परम-श्रेयसी प्रवृत्ति-गुण इत्य् अर्थः। एतद् अपेक्षयोभयोर् अप्य् अपकृष्टत्वात् ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधु मोक्षोपयोगितया । एतच् च सर्वं त्वया गुण-दोषयोर् विवेकायैवाहं पृष्टस् तस्मात् तयोः सङ्क्षेपतो लक्षणं ब्रवीमि शृण्व् इत्य् आह—किम् इति । गुण-दोषयोर् लक्षणम् एतावद् एवेत्य् आह—गुण-दोषयोर् दृशिर् दर्शनं दोषः । गुणस् तु तद्-उभय-दर्शन-रहित-स्वभाव इति । अस्यार्थः—उत्तराध्यायान्ते स्पष्टीभविष्यति ॥४५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे एकोनविंशः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां एकादश-स्कन्धे > श्री-भगवद्-उद्धव-संवादे
श्रेयो-भेद-निर्णयः
ऊनविंशोऽध्यायः ।
॥ ११.१९ ॥
———————————————————————————————————————