१८ श्री-भगवद्-उद्धव-संवादे यति-धर्म-निर्णयः

॥ ११.१८.१ ॥

श्री-भगवान् उवाच—

वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।

वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टादशेऽवदद् धर्मं वन-स्थ-यति-गोचरम् ।

अधिकार-विशेषेण विशेषं चापि तद् गतम् ॥

क्रम-प्राप्तान् वन-स्थ-धर्मान् आह—वनम् इति । आयुषस् तृतीयं भागं पञ्च-सप्तति-वर्ष-पर्यन्तम् । ततः परं क्षीणेन्द्रियस्येषद् विरागेऽपि सन्न्यासाधिकारः स्याद् इति भावः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टादशेऽब्रवीद् धर्मं वनस्थ-न्यासिनोः क्रमात् ।

भक्तस्यानाश्रमित्वं च धर्मं साधारणं तथा ॥

क्रम-प्राप्तान् वनस्थ-धर्मान् आह—वनम् इति । आयुषस् तृतीयं भागं पञ्च-सप्तति-वर्ष-पर्यन्तम् । ततः परं सन्न्यासेऽधिकारः ॥१॥

———————————————————————————————————————

॥ ११.१८.२ ॥

कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् ।

वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वसीत परिदधीत् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

विवृतिः : अत्र मनु-संहितायाम् अयं श्लोको विचार्यः—

वर्जयेन् मधु-मांसं च भौमानि कनकानि च ।

भूष् तृणं शिग्रुकं चैव श्लेष्मान्तक-फलानि च ॥ [६.१४] इति ॥

———————————————————————————————————————

॥ ११.१८.३ ॥

केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः ।

न धावेद् अप्सु मज्जेत त्रि-कालं स्थण्डिले-शयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दतो दन्तान् न धवेन् न शोधयेत् । त्रि-कालम् अप्सु मज्जेत मुसल-वत् स्नायात् । स्थण्डि-लेशयो भूमि-शायी ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दतो दन्तान् न धवेन् न शोधयेत् । त्रि-कालम् अप्सु मज्जेत मुसल-वत् स्नायात् ॥३॥

———————————————————————————————————————

॥ ११.१८.४ ॥

ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षाव् आसार-षाड् जले ।

आ-कण्ठ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तप्येत पञ्चाग्नीन् सूर्येण सह चतुर्-दिशम् अग्नीन् निधायात्मानं तापयेद् इत्य् अर्थः । आसार-षाट् आसारं धारासंपातं सहत इति तथा अभ्रावकाशं नाम व्रतं चरेत् । जले आ-कण्ठ-मग्नः उदक-वासं नाम व्रतं चरेत् ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.५ ॥

अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा ।

उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उलूखलेन वाश्मना वा कुट्टयति खण्डयतीति तथा । दन्ता एवोलूखलं यस्य स तथा ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उलूखलेनाश्मना वा कुट्टयति खण्डयतीति स दन्ता एवोलूखलं यस्य सः ॥५॥

———————————————————————————————————————

॥ ११.१८.६ ॥

स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् ।

देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सञ्चिनुयाद् आहरेत् । अन्यदा कालान्तरे आहृतं कालान्तरे नाददीत । लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेतिति नारदोक्तेः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वृत्ति-कारणं जीविका-हेतुं फल-पुष्पादि अन्यदा कालान्तरे आहृतं कालान्तरे नाददीत, किन्तु देश-काल-बलाभिज्ञ इति कष्टे द्शे आपत्-काले च अतिदौर्बल्ये च नायं नियमः ॥६॥

विवृतिः : मानवे—

त्यजेद् आश्वयुजे मासि मुन्य्-अन्नं पूर्व-सञ्चितम् ।

जीर्णानि चैव वासांसि शाक-मूल-फलानि च ॥ [६.१५] इति ।

———————————————————————————————————————

॥ ११.१८.७ ॥

वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् ।

न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : काल-चोदितान् आग्रयणादीन् ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.८ ॥

अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्ववत् ।

चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अग्निहोत्रम् इति । मुनेश् च । नैगमैर् वेद-वादिभिः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनेर्वनस्थस्य नैगमैर् वेदज्ञैर् आम्नातानि विहितानि ॥८॥

———————————————————————————————————————

॥ ११.१८.९ ॥

एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः ।

मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य निष्कामस्य फलम् आह—एवम् इति । धमनीभिः शिराभिः सन्ततो व्यप्तः । यावज् जीवं कृतेन तपसा शुष्क-मांस इत्य् अर्थः । ऋषि-लोकान् महर्-लोकादि-क्रमेण । अयं भावः—अन्तः-करण-शुद्धि-भक्ति-द्वारात्रैव तावन् मुच्येत । प्रतिबन्धक-बाहुल्ये त्व् अनेन क्रमेण मुच्यत इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति । टीकायां निष्कामस्येति भगवद्-आराधना-मात्र-कामस्येत्यर्थः । अन्तःकरणेत्यादौ यदि तया मत्-तोषण्या तपस्ययान्तः-करण-शुद्धि-भक्ती स्यातां । तदात्रैव वानप्रस्थत्वे मुच्यते । यदि तु प्रतिबन्धक-बाहुल्यं स्यात्, तर्हि क्रमेणैव मुच्यत इति मां तपोमयमाराध्येति तपसैवाराध्येत्यर्थः । अतः शुद्ध-भक्त्य्-अभावात् क्रमेणैव मां प्राप्नोतीति भावः ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऋषि-लोकान् महर्-लोकं प्राप्य माम् उपैति क्रमेण मुच्येत इत्य् अर्थः ॥९॥

———————————————————————————————————————

॥ ११.१८.१० ॥

यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् ।

कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं स-कामं निन्दति—यस् त्व् इति । निःश्रेयसं मोक्ष-फलम् । अल्पीयसे आविरिञ्च्याद् अत्य्-अल्प एव तस्मै ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : महर्-लोकादि-कामं निन्दति—यस्त्विति । कामानां प्रतिबन्धं च विना तपसा यावज्-जीवं वर्तमानस्य मोक्षः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-कामं तं निन्दति—यैति ॥१०॥

———————————————————————————————————————

॥ ११.१८.११ ॥

यदासु नियमेऽकल्पो जरया जात-वेपथुः ।

आत्मन्य् अग्नीन् समारोप्य मच्-चित्तोऽग्निं समाविशेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं यावज् जीवं वर्तमानस्य मोक्षः । तृतीय-भागावसाने तु मन्द-विरागेऽपि सन्न्यासाधिकारः । यदि तु ततोऽर्वाग् एव स्व-धर्माशक्तो भवेत् तदापि सम्यग् अविरक्तो विरक्तो वा । तत्राविरक्तस्य कृत्यम् आह—यदेति । जातो वेपथुः कम्पो देहे यस्य सः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकल्पः असमर्थः ॥११॥

———————————————————————————————————————

॥ ११.१८.१२ ॥

यदा कर्म1-विपाकेषु लोकेषु निरयात्मसु ।

विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विरक्तं प्रत्य् आह—यदेति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-विपाकेषु धर्म-प्राप्येषु ॥१२॥

———————————————————————————————————————

॥ ११.१८.१३ ॥

इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे ।

अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रादौ कृत्यम् आह—इष्ट्वेति । यथोपदेशं श्राद्धाष्टक-पूर्वकं प्राजापत्येष्ट्या माम् इष्ट्वा । स्वे प्राणे आत्मनि ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इष्ट्वा यथोपदेशं श्राद्धाष्टक-पूर्वकं प्राजापत्येष्ट्या माम् इष्ट्वा ॥१३॥

———————————————————————————————————————

॥ ११.१८.१४ ॥

विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः ।

विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

असम्पूज्य न्यसिषूण्ंस् तु देवा वै पातयन्त्य् अधः ।

सुसम्पूज्य न्यसिषूण्ंस् तु देवा एवानुजानते ॥

अथवा तद्-यशो-वृद्ध्यै निघ्नन्तीव पुनः पुनः ।

तात्पर्याद् विघ्नितो देवैर् नोत्थातुं शक्नुयात् क्वचित् ॥

इति देव-हार्दे ॥१४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्न्यासे विघ्ना भवन्ति तान् अविगणय्य सन्न्यसेद् एवेत्य् अशयेनाह—विप्रस्येति । केनाभिप्रायेण कुर्वन्ति ? तमाह—अयम् इति । परं परं ब्रह्म ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परं ब्रह्म-लोकम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र विघ्नान् न गणयेद् इत्य् आह—विप्रस्येति । दारादिष्व् आविष्टाः केनाभिप्रायेण कुर्वन्तीति तम् आह—अयम् इति । आक्रम्य अतिक्रम्य परं परं ब्रह्म ॥१४॥

———————————————————————————————————————

॥ ११.१८.१५ ॥

बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् ।

त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रव्रजितस्य धर्मान् आह—बिभृयाच् चेद् इति । परं कौपीनाद् अन्यद् वासो यदि धारयितुम् इच्छति, तर्हि कौपीनम् आच्छाद्यते यावता तावन्-मात्रं धारयेद् इत्य् अर्थः । त्यक्तं प्रेषोच्चारात् पूर्वम् एव । अतोऽन्यत् किञ्चिद् अपि न बिभृयात्दण्ड-पात्राभ्याम् इत्य् आवश्यक-जल-पात्रादेर् उपलक्षणम् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्मात् प्रैषाच् चारात् पूर्वम् एव सर्वं त्यक्तं तस्माद् दण्ड-यात्राभ्याम् अन्यत् किञ्चिद् अपि न गृह्णीयात् ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य धर्मान् आह—बिभृयाद् इति । परं कौपीनाद् अन्यद् वासो यदि धारयितुम् इच्छति, तर्हि कौपीनम् आच्छाद्यते यावता तावन्-मात्रम् एव । त्यक्तं प्रैषोच्चारात् पूर्वं दण्ड-पात्राभ्याम् अन्यत् किम् अपि न बिभृयात् ॥१५॥

———————————————————————————————————————

॥ ११.१८.१६ ॥

दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् ।

सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परम-हंसस्य विधि-निषेधागोचरत्वाद् बहूदकादि-धर्मान् भगवान् आह—मनः-पूतं मनसा सम्यग् विचार्य यच् छुद्धं तद् आचरेत् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.१७ ॥

मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् ।

न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मौनं वाचो दण्डः, अनीहा काम्य-कर्म-त्यागो देहस्य, प्राणायामश् चेतसः, एते अन्तस् त्रयो दण्डा यस्य न सन्ति । अङ्ग हे उद्धव । अङ्गे धृतैर् वेणुभिर् इति वा ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मौनं वाचो दण्डः, अनीहा कर्म-त्यागो देहस्य, प्राणायामश् चेतसः, एते अन्तस् त्रयो दण्डा यस्य न सन्ति । अङ्ग हे उद्धव ॥१७॥

———————————————————————————————————————

॥ ११.१८.१८ ॥

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् ।

सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चतुर्ष्व् इति । ब्राह्मणेष्व् एव वृत्ति-भेदेन चतुर्-विधेषु । पूर्व-पूर्वासंभवे वा विगर्ह्यान् अभिशस्त-पतितान् । असङ्कॢप्तान् अत्रायं लाभो भविष्यतीति पूर्वम् अनुद्दिष्टान् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भिक्षाम् इति तैः । तत्र वृत्ति-भेदेनेति । प्रतिग्रहाध्यापनया जन-शिलोञ्छ-रूपेणेत्य् अर्थः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्ष्व् इति । ब्राह्मणेष्व् एव प्रतिग्रहाध्यापन याजन-शिलोञ्छ-लक्षण-जीविका-चातुर्विध्याच् चतुर्-विधेषु विगर्ह्यान् अभिशस्त-पतितान् । असङ्कॢप्तान् अत्रायं लाभो भविष्यतीति पूर्वम् अनुद्दिष्टान् ॥१८॥

———————————————————————————————————————

॥ ११.१८.१९ ॥

बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः ।

विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बहिर् ग्रामात् । पावितं प्रोक्षणादिभिः शोधितम् । विभज्य विष्णु-ब्रह्मार्क-भूतेभ्यः । अशेषम् इत्यधिकाहरणं निरस्तम् । याचितम् इति पाठे माधुकरेण याचितम् अन्नं चेत् तर्हि विभज्य भूञ्जीत, न त्व् अयाचितादि-भैक्ष्य-चतुष्टयम् इत्य् अर्थः ।

माधूकरे तु नैवेद्यं भैक्ष्ये नान्येषु विद्यते ।

नैवेद्यकं क्षिपेद् अप्सु त्रितयं भौतिकं बहिः ॥इति स्मृतेः ।

यद्वातदानीं केनापि याचितं चेन् मध्ये तस्मै किञ्चिद् विभज्य दत्त्वेत्य् अर्थः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : बहिर् इति तैः । तत्र माधुकरमसङ्कॢप्तं प्राक् प्रणीतमयाचितम् । तात्कालिकं चोपपन्नं भैक्ष्यं पञ्च-विधं स्मृतम् इति भक्षा-पञ्चकम् इति ज्ञेयम् ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विभज्य विष्णु-ब्रह्मार्क-भूतेभ्यः । अशेषम् इति । भोजन-पात्रेऽवशिष्टं न वृक्षणीयम् इत्य् अर्थः ॥१९॥

———————————————————————————————————————

॥ ११.१८.२० ॥

एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः ।

आत्म-क्रीड आत्म-रत आत्म-वान् सम-दर्शनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एकश् चरेद् इति । आत्मन्य् एव क्रीडा कौतुकं यस्य सः । आत्मन्य् एव च रतस् तुष्टः । आत्मवान् धीरः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निःसङ्गश्चरन्नपि न कुत्रचिदासक्तः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म-रतः परमात्मनि अनुभव-गोचरीकृते सति तुष्टः । तेनैवात्मना सह क्रीडा यस्य सः । आत्मवान् धृति-युक्तः ॥२०॥

———————————————————————————————————————

॥ ११.१८.२१ ॥

विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः ।

आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विविक्तं विजनं क्षेमं निर्भयं शरणं स्थानं यस्य सः । मयि भावेन विमल आशयो यस्य सः ॥२१॥


जीव-गोस्वामी (भक्ति-सन्दर्भः २२७) : ज्ञान-मिश्राम् आह—विविक्तेति । भावो भावना ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं जीवम् । मया परमात्मना । अभेदेन इति सायुज्यार्थम् ॥२१॥

———————————————————————————————————————

॥ ११.१८.२२ ॥

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया ।

बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्धं मोक्षं च । केन बन्धः केन वा मोक्ष ? इति ताव् आह—बन्ध इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वीक्षेत पुनर् विचारयेति ॥२२॥

———————————————————————————————————————

॥ ११.१८.२३ ॥

तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः ।

विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : षड्वर्गं षड्-इन्द्रिय-वृन्दम् ॥२३॥

———————————————————————————————————————

॥ ११.१८.२४ ॥

पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् ।

पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पुराणि हट्टादिमन्ति । ग्रामास् तद्-रहिताः । व्रजा गोष्ठानि तान् । सार्थान् यात्रिक-जन-समूहान् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.२५ ॥

वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् ।

संसिध्यत्य् आशु असम्मोहः शुद्ध-सत्त्वः शिलान्धसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यतः शिल-वृत्त्या प्राप्तेन तदीयेनान्धसा अन्नेन शुद्ध-सत्त्वं सन् निवृत्त-मोहः संसिध्यति मुच्यते ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः शिलान्धसा शिल-वृत्त्या प्राप्तेन तदीयेनान्धसा अन्नेन शुद्ध-सत्त्वः शुद्धान्तः-करणः ॥२५॥

———————————————————————————————————————

॥ ११.१८.२६ ॥

नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति ।

असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु मिष्टान्नं विहाय कथं शिलान्ने प्रवृत्तिः स्याद् अत आह—नैतद् इति । एतत् दृष्यमानं मिष्टान्नादि वस्तुतया न पश्येत् । यतो विनश्यति । अत इहामुत्र च लोके असक्त-चित्तः संश् चिकीर्षितात् तद्-अर्थ-कृत्याद् विरमेत् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं निसङ्ग इत्युक्तं तद् एव विवृणोति । नैतदिति द्वाभ्याम् । तत्रालब्धत्वे निःसङ्गत्वं प्रथमेन ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मधुर-मिष्टान्नं विहाय कथं रूक्षे शिलान्ने प्रवृत्तिः स्याद्, अत आह—नेति । एतत् स्वाद्व्-अन्नादि वस्तुतया न पश्येत् । यतो विनश्यति । अत इहामुत्र-लोके असक्त-चित्तः संश् चिकीर्षितात् तद्-अर्थ-कृत्याद् विरमेत् ॥२६॥

———————————————————————————————————————

॥ ११.१८.२७ ॥

यद् एतद् आत्मनि जगद् मनो-वाक्-प्राण-संहतम् ।

सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

त्रिगुणा पूर्व्रूपिर् माया तज्जत्वाद् विश्वम् ईदृशम् ।

अनाद्य्-अनन्त-कालेषु मायेत्य् आहुर् विपश्चितः ॥

अचेतनत्वान् नैवैतत् प्रयोजकतया स्मरेत् ।

चेतनत्वं स्वतन्त्रत्वं न चैको विष्णुर् एव तु ।

आयस् तु फलम् उद्दिष्टं प्रोक्तं मायेति निष्फलम् ॥

फलाल्पत्वात् तु मायैषा सम्प्रोक्ता त्रिगुणात्मिका ।

महा-फल-प्रदत्वात् तु विष्ण्-राय इतीरितः ॥ इति निवृत्ते ॥२७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तथापि यावद् विनाशं सुख-हेतुत्वात् तच् चिन्तावतः कुतो विरागः स्यात् ? तत्राह—यद् एतद् इति । एतज् जगन्-ममतास्पदं मनो-वाक् प्राणैः संहतं सहितम्, अहङ्कारास्पदं शरीरं च, सर्वं तज्-जन्यं सुखं चात्मनि माया-मात्रम् इति तर्केण स्वप्नादि-दृष्टान्तेन त्यक्त्वा, स्व-स्थ आत्म-निष्ठः सन्, तन् न स्मरेन् न चिन्तयेत् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वर्तमानेऽतीते च निःसङ्गत्वमाह—यदेतदिति । सर्वं मायेति माय न यैव शुद्ध आत्मनि अध्यासितं तत्-तत्-स्व-कार्यं त्यक्त्वेति पुनर्नस्मरेच्चेत्यर्थः ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माया माया-गुण-कार्यम् इत्य् अर्थः । तर्केण कार्याणां कारणात्मकत्वा, परमात्मैक्यम् एवतस्येति न्यायेन इदं कारास्पदं न स्मरेत् ॥२७॥

———————————————————————————————————————

॥ ११.१८.२८ ॥

ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः ।

स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं बहूदकादि-धर्मान् उक्त्वा परमहंस-धर्मान् आह—ज्ञान-निष्ठ इति सार्धैर् दशभिः । बहिर् विरक्तो मुमुक्षुः सन् ज्ञान-निष्ठो वा मोक्षेऽप्य् अनपेक्षो मद्-भक्तो वा स-लिङ्गांस् त्रिदण्डादि-सहितान् आश्रमांस् तद्-धर्मांस् त्यक्त्वा तद्-आसक्तिं त्यक्त्वा यथोचितं धर्मं चरेद् इत्य् अर्थः । न पुनर् अत्यन्त-त्याग एव विवक्षितः । पुनर् धर्म-विधानात्, अक्रियत्वस्योत्तराध्याये वक्ष्यमाणत्वाच् च । तर्हि पूर्वस्मात् को विशेषः ? तम् आह—अविधि-गोचरो विधि-किङ्करो न स्याद् इति । एतद् एव स्फुटीकरिष्यति—शौचम् आचमनं स्नानं न तु चोदनया चरेत् [भा।पु। ११.१८.३६] इत्य्-आदिना ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्योऽप्येवं कुर्यादिति प्रसङ्गेन विवक्षितं स्त्रीणां निरीक्षणेत्यादिवत् । टीका च,नान्यथा मत्-परश्चरेदित्य् अत्र यथेति2 ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिपक्व-ज्ञानिनो निष्काम-भक्तस्य च वर्णाश्रम-नियमाभावम् आह—ज्ञान-निष्ठः परिपक्व-ज्ञानवान् अनपेक्षकः प्रतिष्ठा-पर्यन्तापेक्षा-रहितः । अत्र सर्वथा नैरपेक्षम् अजात-प्रेम्णो भक्तस्य न सम्भवेत्, अत उत्पन-प्रेमैव भक्तः स-लिङ्गान् आश्रमांस् त्यजेत्, अनुत्पन्न-प्रेम्मा तु निर्लिङ्गाश्रम-धर्मांस् त्यजेद् इत्य् अर्थो लभ्यते । स्व-धर्म-त्यागस् तु, तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इति वाक्यात् भक्ताणां आरम्भत एवावगम्यते । तयोः शुद्धान्तः-करणत्वाद् एव पापे प्रवृत्त्य्-अभावात् दुराचारत्वं नाशङ्क्यम्। तेनाविधि-गोचरः ॥२८॥

———————————————————————————————————————

॥ ११.१८.२९ ॥

बुधो बालकवत् क्रीडेत् कुशलो जडवच् चरेत् ।

वदेद् उन्मत्तवद् विद्वान् गो-चर्यां नैगमश् चरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं चरेत् ? तद् आह—बुधो विवेकवान् अपि बालकवन् मानावमान-विवेक-शून्यः । कुशलो निपुणोऽपि जडवत् फलानुसन्धानाभावेन । विद्वान् पण्डितोऽप्य् उन्मत्तवल् लोक-रञ्जनाभावेन । नैगमो वेदार्थ-निष्ठोऽपि गोचर्याम् अनियताचारम् इव ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोक-प्रतिष्ठोत्थ-विक्षेप-भयात् क्वापि स्वं न प्रकाशयेद् इत्य् आह—बुध इति । नैगमो वेदार्थ-निष्ठोऽपि गोचर्याम् अनियताचारम् इव ॥२९॥

———————————————————————————————————————

॥ ११.१८.३० ॥

वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः ।

शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

वेदेन सह-वादो यो वेदवाद इतीरितः ।

तर्केण व्दस्यान्यार्थ-कल्पनं तं विदो विदुः ॥

तन् न कुर्यात् कदाचिच् च तत् कुर्वन् वेदहा भवेत् ॥ इति च ।

योग-साङ्ख्य-कणादाक्षपादा वै हेतु-वादिनः ।

पश्वीश-शाक्त-बुद्धाद्याः पाषण्डा इति कीर्तिताः ॥ इति च ॥३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वेद-वाद-रतः कर्म-काण्ड-व्याख्यानादि-निष्ठः । पाखण्डी श्रुति-स्मृति-विरुद्ध-धर्मानुष्ठानवान् । हैतुकः केवल-तर्क-निष्ठः । शुष्क-वादे निष्प्रयोजन-गोष्ठ्यां यो विवादस् तस्मिन् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पाषण्डी न स्याद् इति पूर्व-पक्ष-ज्ञानार्थम् अपि पाषण्ड-मतं नाभ्यसेद् इत्य् अर्थः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं त्व् आत्म-गोपनार्थम् एवम्भूतस् त् न भवेद् इत्य् आह—वेद-वाद-रतः कर्म-काण्डादि-व्याख्या-रतः पाषण्डी बौद्धादि-चिह्न-धारी हैतुकः केवल-तर्क-निष्ठः, शुष्को यो वादो विवर्तादि-लक्षणस् तत्र विवादे सति ॥३०॥

———————————————————————————————————————

॥ ११.१८.३१ ॥

नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु ।

अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।

देहम् उद्दिश्य पशुवद् वैरं कुर्यान् न केनचित् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिवादान् दुरुक्तानि ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.३२ ॥

एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः ।

यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्म-दृष्ट्या तावद् वैर-कारणं नास्तीत्य् उक्तम् एक एवेति । देह-दृष्ट्य् अपि नास्तीत्य् आह—भूतानि च देहा अपि कारण-रूपेणैकात्मकानि ॥३२॥


जीव-गोस्वामी (परमात्म-सन्दर्भः ७): भूतेषु जीवेषु एक एव पर आत्मा, न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति इत्य् आह—आत्मनि स्व-स्वरूप एवावस्थितः । भूतानि जीव-देहा अपि येन कारण-रूपेणैकात्मकानीति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देहमितियुग्मकम् । आत्मा परमात्मा भूतेष्वन्येषु आत्मनि च स्वस्मिन् जीवे । यथेन्दुरुद-पात्रेष्वित्येकस्यैव वैभव-मात्रे दृष्टान्तः, नतु प्रतिबिम्बता-मात्रांशे परमात्म-सन्दर्भादौ निर्णीतत्वात् ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैराकरणे विचारम् आह—एक इति । परो ह्य् आत्मा परमात्मा भूतेषु मानुषादि-हेतुषु आत्मनि जीवे च यथा उद-पात्रेषु उदक-पात्र-स्थ-प्रतिबिम्बत्वेन प्रतीतेषु स्व-किरणेषु इन्दुः । स्व-कार्येषु कारणस्य सत्त्वाद् इत्य् आत्म-दृष्ट्या वैर-कारणाभावः । देह-दृष्ट्या तु भूतान्य् एकात्मकानीति क्व वैरं कार्यम् ? इति भावः ॥३२॥

———————————————————————————————————————

॥ ११.१८.३३ ॥

अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् ।

लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव-तन्त्रितम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भूताणां एक एवात्ताथैको भूतेषु सन्ततः ।

घटावयव-रूपस् तु तथैवान्यो घटानुगः ॥

घट-नाशेऽप्य् अनाशः सन् मध्यमाकाश इष्यते ।

एक-देशाभिमानित्वाद् इत्य् आकाशस् त्रयः स्मृताः ॥

महाकाशो विघ्न-राजो विघ्नास् तत्र तु मध्यमाः ।

क्षुद्र-विघ्नास् तद् इतर एवम् आत्मा त्रिधा स्मृतः ॥

महाखवत् परमात्मा जीवा मध्य-खवत् स्मृताः ।

घटानुग-खवत् प्रोक्ता असुरा नित्य-दुःखिनः ।

महाकाश-वशाः सर्वे आकाशा इतरे स्मृताः ।

परमात्म-वशे तद्वज् जीवाः सर्वेऽपि संस्थिताः ।

एवं विष्ण्वात्मकम् इदं जगत् पश्यद् यतिः सदा ॥ इति विनिर्णये ॥३३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : दैव-तन्त्रितं दैवाधीनं यतः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र जले चन्द्र-सूर्ययोः किरणा एव प्रतिबिम्बत्वेन प्रतीयन्ते, न तु वस्तुतः प्रतिबिम्बाः । तेषां ताप-शमकत्व-तापकत्वयोः प्रत्यक्षत एवान्तर्-भूतत्वेनावस्तुत्वाभावात् । दैव-तन्त्रितं दैवाधीनं यतः ॥३३॥

———————————————————————————————————————

॥ ११.१८.३४ ॥

आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् ।

तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अलं तर्हि भिक्षा-प्रयत्नेनापि ? तत्राह—आहार-मात्रार्थं समीहेतैव । यतः तस्य प्राण-धारणं युक्तं सम्यक् । कथम् ? तेन प्राण-धारणेन तत्त्वं विचार्यते । किं तेनापि ? तद् आह—तद् विज्ञायेति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्राप्यधैर्ये जाते आहारार्थं समीहेत । कुतः ? यतस्तस्य प्राणानां मन-आदीन्द्रियाणां धारणं स्थिरीकरणं युक्तम् । अन्यथा त्वपरिपक्वत्वाद्विक्षेपः स्यादेवेत्यर्थः । तद्-धारणे च किं स्यात् ? तत्राह—तत्त्वम् इति ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अपि भिक्षायाः स्वतोऽप्रापौ सत्यां तद्-अर्थं य एतैवेत्य् आह—आहार-मात्रार्थम् इति । यतः प्राण-धारणं युक्तम् उचितम् । यतस् तेनेति तत् तत्त्वम् ॥३४॥

———————————————————————————————————————

॥ ११.१८.३५ ॥

यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् ।

तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किं मिष्टान्नादिकम् अग्राह्यम् एव, केनैवम् उक्तम् ? इत्य् आह—यदृच्छयेति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयत्नाद् उपस्थितं श्रेष्ठं स्वादु अपरं विरसं वा मुनिर् इति तत्र तत्र वचनेनाभिनन्दनं प्रत्याख्यानं वा न कुर्याद् इति भावः ॥३५॥

———————————————————————————————————————

॥ ११.१८.३६ ॥

शौचम् आचमनं स्नानं न तु चोदनया चरेत् ।

अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथाहम् ईश्वरो लीलया चरामि, तथा ज्ञानी ज्ञान-निष्ठोऽनासक्तः कुर्यात्, न तु विधि-किङ्करत्वेन । तस्य ज्ञान-निष्ठाविरोधाद् इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथाहं लिलया स्वेच्छया, नतु कर्म-वश्यत्वेन चरामीति स्व-शक्ति-लेश-प्राप्तिस्तस्य दर्शिता । तत्र हेतुः ज्ञानी मत्-स्फूर्तिमान् ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चोदनया नाचरेत् विधि-कैङ्कर्याभावात्, किन्तु पूर्वाभ्यासेन स्वेच्छया वा ॥३६॥

———————————————————————————————————————

॥ ११.१८.३७ ॥

न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता ।

आ-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विरुद्धत्वेन कल्पनं विकल्पः

निषिद्धं मनसाकल्प्य भीतो विहितम् आचरेत् ।

अज्ञोऽज्ञस्य तु सङ्कल्पः स्वभावाद् विहितानुगः ॥

शरीर-धर्मिणः क्वापि निषिद्धेऽपि मनो व्रजेत् ।

तथापि तस्य नानार्थो मोक्षे चैवान्यथा व्रजेत् ॥ इति धर्म-तत्त्वे ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतो विधि-किङ्करत्वाभावस् तस्य ? तत्राह—न हि तस्य विकल्पाख्या भेद-प्रतीतिः । नन्व् अस्ति सा ? सत्यम्, या चासीत्, सापि मद्-वीक्षया ज्ञानेन हता । ननु न हता, पुनर् दृश्यमानत्वात् ? तत्राह—आदेहान्तात् क्वचित् कदाचिद् बाधितैव ख्यातिर् भवति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तस्य प्रापञ्चिक-शुभाशुभ-स्फूर्तेर् अनुगतत्वाद् विधि-वशतापि स्यात् ? तत्राह—नहीति । विकल्पाख्या मत्तोऽन्य-स्फूर्तिः । ततः मया सम्पद्यते सार्ष्ट्य्-आख्यां मत्-तुल्य-सम्पत्तिं प्राप्नोतीत्य् अर्थः ॥३७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य ज्ञान-परिपाक एव विधि-कैङ्कर्याभावे कारणम् इत्य् आह—न हीति । विकल्पस्य भेदस्य आख्या प्रख्यानं, तस्य नास्ति । नन्व् आत्मैवेदं सर्वम् इति ब्रुवाणस्य तस्य वाचैव नास्ति, मनसा त्व् अस्त्य् एव ?तत्राह-या चास्ति, सापि मद्-ईक्षया मद्-अपरोक्षानुभवेन हता । ननु न हत-प्राया ? तत्राह—क्वचिद् आ-देहान्तात् बाधितैव ख्यातिर् दृश्यते ॥३७॥

———————————————————————————————————————

॥ ११.१८.३८ ॥

दुःखोदर्केषु कामेषु जात-निर्वेद आत्म-वान् ।

अजिज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वभावतो धर्म-परो न विधेश् चकितश् चरेत् ।

अल्पं फलं हि चकिते स्वभावे फलम् उत्तरम् ॥ इति च ॥३८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं विरक्तस्य परोक्ष-ज्ञान-वतः सन्न्यासं तद्-धर्मांश् चोक्त्व केवलं वैराग्यवन्तं विविदिषुं प्रत्य् आह—दुःखोदर्केष्व् इति । न जिज्ञासितो मद्-धर्मो मत्-प्राप्ति-साधनं येन सः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सम्यग्-विदुषः कृत्यम् उक्त्वा विविदिषोः कृत्यम् आह—दुःखोदर्केष्व् इति । न विचारितो मद्-धर्मः परमात्म-तत्त्वं येन सः ॥३८॥

———————————————————————————————————————

॥ ११.१८.३९ ॥

तावत् परिचरेद् भक्तः श्रद्धा-वान् अनसूयकः ।

यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शुश्रूषेत् सहितस् तावद् यावज् ज्ञानोदयो गुरुम् ।

ततः परं च शुश्रूषेत् यथा तस्य प्रियं भवेत् ॥ ३९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : माम् एव मद्-दृष्ट्यैव गुरुं परिचरेत् । ततः परम् एकश् चरेद् इत्य्-आदि धर्मैर् वर्तेतेति भावः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माम् एव गुरुं मद्-रूपम् ॥३९॥

———————————————————————————————————————

॥ ११.१८.४० ॥

यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः ।

ज्ञान-वैराग्य-रहितस् त्रिदण्डम् उपजीवति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनधिकारिणः सन्न्यासं निन्दति द्वभ्याम्--यस् तु इति । प्रचण्डोऽत्यासक्त इन्द्रिय-सारथिर् बुद्धिर् यस्य सः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुराचारं सन्न्यासिनं निन्दति द्वाभ्यां—यस् तु इति । प्रचण्डो\ऽशान्त्[अ]{।मर्क्} इन्द्रिय-सारथिर् बुद्धिर् यस्य, स त्रिदण्डम् उपजीवति जीविकायाम् एव सन्न्यासं पर्यापयतीत्य् अर्थः ॥४०॥

———————————————————————————————————————

॥ ११.१८.४१ ॥

सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा ।

अविपक्व-कषायोऽस्माद् अमुष्माच् च विहीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरान् यष्टव्यान् देवान् आत्मानं च स्वात्मानम् आत्मस्थं मांनिह्नुते प्रसारयति । निह्नव-फलम् आह—अस्माद् इति ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुरान् यष्टव्यान् देवान् स्वात्मानम् आत्मस्थं मांनिह्नुते प्रतारयति । निह्नव-फलम् आह—अस्माद् इति ॥४१॥

———————————————————————————————————————

॥ ११.१८.४२ ॥

भिक्षोर् धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।

गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्णां प्रधान-धर्मान् आह—भिक्षोर् इति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१८.४३ ॥

ब्रह्मचर्यं तपः शौचं सन्तोषो भूत-सौहृदम् ।

गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्य-धर्मान् कांश्चिद् गृह-स्थस्याप्य् अतिदिशति—ब्रह्मचर्याम् इति । शौचं राग-द्वेषादि-राहित्यं च । तस्य ब्रह्मचर्य-प्रकारम् आह—ऋतौ गन्तुर् इति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्य-धर्मान् कांश्चिद् गृह-स्थस्याप्य् अतिदिशति—ब्रह्मचर्याम् इति । शौचं रागादि-राहित्यं च । तस्य ब्रह्मचर्य-प्रकारम् आह—ऋतौ गन्तुर् इति । किं च, मद्-उपासनं सर्वेषां वर्णाश्रम-धर्माणां प्राण-प्रदत्वाद् आवश्यकं, येन विना ते सर्वे विफलाः स्युः । यद् उक्तं—मुख-बाहूरु-पादेभ्यः[भा।पु। ११.५.२] इत्य् अत्र, स्थानाद् भ्रष्टाः पतन्त्य् अधः[भा।पु। ११.५.३] इति ॥४३॥

———————————————————————————————————————

॥ ११.१८.४४ ॥

इति मां यः स्व-धर्मेण भजेन् नित्यम् अनन्य-भाक् ।

सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम्3

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूत-वर्णाश्रम-धर्म-फलम् आह—इति माम् इति । दृढः मद्-भक्तिं विन्दते ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मां स्वधर्मेण भजन् मत्-प्रीत्य्-अर्थं स्वधर्ममाचरन् अनन्य-भाक्, न त्वन्यार्थम् इत्य् अर्थः । ननु स्वधर्मेण देवादीनां यजनात्कथं त्वत्-प्रीतिः स्यात् ? तत्राह—सर्व-भूतेषु च ममैवान्तर्यामित्वेन स्थितस्य भावो भावना यस्य सः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एवं-प्रकारेण मद्-उपासनस्यावश्यकत्वाद् उत्कर्षं निश्चित्य मद्-उपासना-प्रधानेन स्वधर्मेण मां भजन् अनन्य-भाक् सन् मद्-भक्तिं शान्त-भक्तिं विन्दते । ननु स्वधर्मेण देव-पित्रादीनां यजनात्कथम् अनन्य-भाक्त्वं? तत्राह—सर्व-भूतेषु च ममैवान्तर्यामित्वेन भावो भावना यस्य सः ॥४४॥

———————————————————————————————————————

॥ ११.१८.४५ ॥

भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।

सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? अत आह—भक्त्येति । महेश्वरत्वे हेतुः—सर्वोत्पत्त्य्-अप्ययं सर्वस्योत्पत्त्य्-अप्ययौ यस्मात् अत एव तत् कारणं मा मां ब्रह्म-रूपं वैकुण्ठ-निवासिनम् । यद् वा, ब्रह्मणो वेदस्य कारणं माम् उपयाति सामीप्येन प्राप्नोति ॥४५॥


सनातन-गोस्वामी : [ह।भ।वि। ११.५९८] महेश्वरत्वे हेतुः—सर्वस्योत्पत्त्य्-अप्ययौ यस्मात् तम् । अत एव तस्य कारणं मा मां ब्रह्म सच्चिदानन्द-विग्रहम् । यद् वा, ब्रह्मणो वेदस्य जीव-तत्त्वस्य वा कारणं पर-ब्रह्म-रूपं माम् देवकी-नन्दनम् उपयाति सामीप्येन प्राप्नोति, नित्य-सङ्गितया मिलतीत्य् अर्थः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च तया भक्त्या कश्चित् सर्व-लोक-महेश्वरं मां प्राप्नोति । स्व-तुल्यैश्वर्य-प्रदोऽहं तस्मै सार्ष्टि-लक्षणां मुकित्ं ददामीति भावः । कश्चित् सर्वोत्पत्त्य्-अप्ययं मां प्राप्नोति तद्-अभिप्रेत-योग-सिद्धि-ज्ञानानन्दाद् उत्पत्तिं संसाराप्ययं अ तस्मै तावद् अहं ददामीति भावः । कश्चिन् मां ब्रह्मेति तस्मै निर्वाण-मुक्तिं ददामीति भावः ॥४५॥

———————————————————————————————————————

॥ ११.१८.४६ ॥

इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः ।

ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् चासौ मुक्त एवेत्य् आह—इत्य् एवं-भूतेन स्व-धर्मेण निर्णिक्तं शुद्धं सत्त्वं यस्य सः । अत एव निर्ज्ञाता मम गतिर् ऐश्वर्यं येन ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सा च मत्-प्राप्तिर्मद्-भक्त्य्-उदयानुक्रमेण मज्-ज्ञान-पूर्विकैव भवतीत्युपसंहरति—इति स्वधर्मेति । गम्यते ज्ञायते अनया गतिर्भक्तिः, निःशेषेण ज्ञाता तत्त्वतोऽनुभूता गतिर्येन । अत एव ज्ञान-विज्ञान-सम्पन्नः मत्-स्वरूप-रूप-गुण-लीलादीनां परोक्षापरोक्ष-ज्ञान-समृद्धः । यद् वा, ब्रह्म-सायुज्येच्छुश्चेत्तदा तत्-तत्-क्रममाह इति निर्ज्ञात-मद्-गतिः सम्यागधीत-मद्-उपदिष्ट-ज्ञान-शास्त्रः, मां निर्विशेष-ब्रह्माख्यम् ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—इतीति ॥४६॥

———————————————————————————————————————

॥ ११.१८.४७ ॥

वर्णाश्रमवतां धर्म एष आचार-लक्षणः ।

स एव मद्-भक्ति-युतो निःश्रेयस-करः परः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तम् अर्थं सङ्क्षिप्याह—य एष आचार-लक्षणः पितृ-लोक-प्राप्ति-फलः, स एव मद्-भक्ति-युतो मद्-अर्पणेन कृतः ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य च स्वधर्मस्य सर्वत्र भक्तेरेव बलम् इत्याह—वर्णेति ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रधानी-भूतां भक्तिम् उक्त्वा गुणी-भूतां भक्तिम् आह—वर्णाश्रमवताम् इति । मद्-भक्ति-युतः मद्-अर्पणेन कृत एव स निःश्रेयस-करः निर्वाण-मोक्ष-प्रद इत्य् अन्वयः ॥४७॥

———————————————————————————————————————

॥ ११.१८.४८ ॥

एतत् तेऽभिहितं साधो भवान् पृच्छति यच् च माम् ।

यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकरणार्थम् उपसंहरति—एतच् च तेऽभिहितम् । यथा भक्तो भूत्वा मां परं सम्प्राप्नुयाद् इति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशेऽष्तादशोऽयं सङ्गतः सङ्गतः सताम् ॥ईश्वर्॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे

यति-धर्म-निर्णयः

अष्टादशोऽध्यायः ।

॥ ११.१८ ॥



  1. धर्म-विपाकेषु इति पाठः । ↩︎

  2. दोएस् नोत् सेएम् तो बे इन् थे भावार्थ-दीपिका ↩︎

  3. स्रिधर रेअद्स् दृढः ↩︎