॥ ११.१७.१ ॥
श्री-उद्धव उवाच
यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः ।
वर्णाश्रमाचार-वतां सर्वेषां द्वि-पदाम् अपि ॥**
यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् ।
स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः सप्तदशे पृष्टे स्व-धर्मे भक्ति-लक्षणे ।
हंसोक्तं धर्मम् अन्व् आह ब्रह्मचारि-गृहस्थयोः ॥
कर्माहं विद्धि सात्वताम् [भा।पु। ११.१६.३२] इत्य् अत्र भक्त्या कृतं कर्म मोक्ष-साधनं मद्-विभूतिर् इत्य् उक्तम्, भक्ति-साधनत्वं च कर्मणां, मयोदितेष्व् अवहितः स्व-धर्मेषु [भा।पु। ११.१०.१] इत्य्-आदिना, तत्र तत्रोक्तम्, न च कर्मानुष्ठातॄणां नियमेन भक्तिर् दृश्यते । अतः पृच्छति—यस् त्वयेति सप्तभिः । पूर्वं कल्पादौ त्वद्-भक्ति-लक्षणस् तत्-प्रापकस् तत्-साधनम् इत्य् अर्थः । वर्णाश्रम-हीनानाम् अपि द्वि-पदां नराणाम् । यथा येन प्रकारेणानुष्ठीयमानेन स्व-धर्मेण ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस् त्वयेति युग्मकम् । वर्णादीनां यो धर्मस् त्वया प्रोक्तस् तेन स्वधर्मेण यथानुष्ठीयमानेन सता नृ-मात्राणां त्वयि भक्तिर् भवेत् । तत् तथा मम मां प्रति आख्यातुम् अर्हसीति द्वयोर् अन्वयः त्वद्-भक्ति-लक्षणः त्वद्-भक्तेः साधनं यैव त्वद्-भक्तिः कर्माहं विद्धि सात्वताम् इत्य् अत्रार्चनादि-लक्षणतया प्रशस्तेति भावः॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अथ सप्तदशे धर्मं हंसोक्तं भक्ति-मिश्रितम् ।
पृष्टः प्राहोद्धवं कृष्णो ब्रह्मचारि-गृहस्थयोः ॥ओ॥
ज्ञान-योगं भक्ति-योगम् अष्टाङ्ग-योगं च श्रुत्वा कर्म-योगं जिज्ञास्यमान उक्तानुवाद-पूर्वकं पृच्छति—यस् त्वयेति सप्तभिः । पूर्वं कल्पादौ यद् उक्तं त्वया—
कालेन नष्टा प्रलये > वाणीयं वेद-संज्ञिता । > मयादौ ब्रह्मणे प्रोक्ता > धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। ११.१४.३३] इति ।
स च भक्ति-लक्षणो धर्मस् त्रिविधः—केवलः प्रधान-भूतो गुण-भूतश् च । तत्र यः केवलः सर्व-वर्णाश्रमवताम् वर्णाश्रम-हीनानाम् अपि द्विपदानां नराणां यदृच्छयैव तादृश-साधु-सङ्गाद् एव भवति, न तु धर्मादिभ्यः । यद् उक्तं त्वया—
यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः । > व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा।पु। > ११.१२.९] इति ।
यस्मिंश् च वर्णाश्रमाचारवत्सुजनेषु यदृच्छयैवाभिर् भूते सति ते जना वर्णाश्रमं परित्यज्यैव तम् अनुतिष्ठन्ति । यद् उक्तम्—धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः [भा।पु। ११.११.३२] इति । प्रधान-भूत-गुण-भूतौ तु तौ यथा-योगं तादृश-सत्सङ्गात् स्व-धर्माच् च भवत एव । परन्तु यथा येन प्रकारेणानुष्ठीयमानेनेति तत् त्वद्-अन्यो न जानातीति भावः । भक्तिः प्रधानीभूता गुण-भूता वा ॥१-२॥
॥ ११.१७.३-७ ॥
पुरा किल महा-बाहो धर्मं परमकं प्रभो ।
यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव ॥**
स इदानीं सु-महता कालेनामित्र-कर्शन ।
न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः ॥**
वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।
सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः ॥**
कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।
त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति ॥**
तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः ।
यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सम्प्रदायाद् एव ज्ञास्यते किं पुनर् वर्णनेन ? तत्राह—पुरेति । परमकं परमश् चासौ कं सुख-स्वरूपश् च तम् । यत् यम् । हंस-रूपेण धर्मोऽप्य् उक्त एव, न तु योग-मात्रम्, जानीतम् आगतं यज्ञं युष्मद् धर्म-विवक्षया[भा।पु। ११.१३.३८] इत्य् उक्तत्वात्। प्राग्-अनुशासितोऽपि न भविता न भविष्यति । अत्र हेतुम् आह—वक्तेति द्वाभ्याम् । ते त्वत्तोऽन्यः। कला वेदाद्यः । तत् तस्मान् नोऽस्माकं मनुष्याणां मध्ये यस्य यथा विधीयते ॥३-७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मणेऽभ्यात्थेति । श्री-विष्णु-धर्मोत्तरे तथैव श्रूयते । नस् त्वदीयानाम् अस्माकं सम्बन्धिनो यस्येति योज्यम् ॥३-७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु किं तथा स्वधर्मो मया कापि नोक्तस् तत्राह—पुरेति । परमकं परमं कं मोक्ष-लक्षणं सुखं यस्मात् तं, यत् यं, हंस-रूपेण स्व-धर्मोऽप्य् उक्त एव, न तु योग-मात्रम् । जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया [भा।पु। ११.१३.३८] इत्य् उक्तत्वात् । प्राग्-अनुशासितोऽपि न भविष्यति । कला वेदाद्याष्टादश विद्याः ।
ऋग्-यजुः-सामार्थवाख्या वेदाश् चत्वार एव च । > पुराण-न्याय-मीमांसा-धर्म-शास्त्राणि चेत्य् अपि ॥ > शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । > छन्दश् चेति षड् इत्य् एवं विद्याः प्रोक्ताश् चतुर्दश ॥ > आयुर् धनुर् गानार्थैश् च शास्त्रैर् अष्टदशापि ताः ॥ विनष्टं > धर्मम् ।
त्वद्-भक्तिं लक्षयति, दर्शयतीति सः तद्-धेतुर् इत्य् अर्थः ॥३-७॥
॥ ११.१७.८ ॥
श्री-शुक उवाच—
इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः ।
प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥**
न कतमेनापि व्याख्यातम् ।
———————————————————————————————————————
॥ ११.१७.९ ॥
श्री-भगवान् उवाच—
धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् ।
वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म्यो धर्माद् अनपेतः । कुतः ? नैःश्रेयस-करो भक्ति-जनकः । अतो मे मत्तस् तं धर्मं निबोध ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म्यो धर्माद् अनपेतः । तं धर्मं ॥९॥
———————————————————————————————————————
॥ ११.१७.१० ॥
आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः ।
कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रादौ मद्-उपासना-लक्षण एव मुख्यो धर्म आसीत् । आचार-लक्षणस् तु पश्चात् प्रवृत्तः । स चैवम् अनुष्ठितो भक्ति-हेतुर् इति वर्णयितुम् आह—आदाव् इति । कल्पादौ यत् कृत-युगं तस्मिन् । ते च तदा माम् उपासत एव केवलं नान्यत् कुर्वन्तीति वक्तुं कृत-युग-नाम-निरुक्तम् आह—कृत-कृत्या इति । जात्या जन्मनैव ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र द्विपरार्धादौ ब्राह्म-कल्पे यत् कृत-त्रेतयोर् वर्णाश्रमाचाराणां प्रवृत्ति-क्रमस् तम् आह—आदाव् इति पञ्चभिः । यतो या तु सृष्ट्य्-आदित एव चातुर्वर्ण्यादि-प्रवृत्तिर् वर्णिता सा कल्पान्तरेष्व् एव ज्ञेया ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष त्वत्-पृष्टो वर्णाश्रमाचार-लक्षणो धर्मो यत आरभ्य प्रवृत्तस् तं समयम् अपि श्र्ण्व् इत्य् आह—आदाव् इति ॥१०॥
———————————————————————————————————————
॥ ११.१७.११ ॥
वेदः प्रणव एवाग्रे धर्मोऽहं वृष-रूप-धृक् ।
उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, विधायकाभावाद् अपि तदानीं नान्यत् कर्मास्तीत्य् आह—वेद इति । धर्मश् च मनो-विषयोऽहम् एव वृष-रूप-धृक् चतुष्-पान् न क्रिया-विशेषो यज्ञादिः । अतस् तपो-निष्ठाः, मनसश् चेन्द्रियाणां च स्वैकाग्र्यं परमं तपः इति वचनाद् एकाग्रतया हंसं शुद्धं मां ध्यायन्तीत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तदानीं का निष्ठा विधि-कार्याभावान् नान्ये वेदाः प्रवर्तिताः, किन्तु मुख्य एक एवेत्य् आह—वेद इति ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मश् च मनो-विषयोऽहम् एव वृष-रूप-धृक् चतुष्-पात् । न क्रिया-विशेषो यज्ञादिर् इत्य् अर्थः ॥११॥
———————————————————————————————————————
॥ ११.१७.१२ ॥
त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी ।
विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पश्चात् त्रेता-युग-प्रवेशे मे वैराज-रूपस्य प्राणान् निमित्तात् । हृदयात् सकाशात् । तस्यास् त्रय्याः सकाशात् हौत्राध्वर्य-वौद्गात्रैस् त्रि-वृत् त्रि-रूपः । यज्ञो वै विष्णुः इति श्रुतेः॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रमेण तेषां मुक्तौ सत्यां तान् अन्यान् वेदान् प्रवर्त्यान्येऽधिकारिणः प्रवर्तिता इत्य् आह—त्रेतेति द्वाभ्याम् । मे मम वैराजाख्य-ब्रह्म-रूपस्य व्यष्टि-सृष्टेस् तत्-कारणकत्वात् । अत एव नीचैर् नीचोत्तमोत्तमा [भा।पु। ११.१७.१५] इति नीचत्वेनापि व्यपदेक्ष्यते, श्री-नारायणे तथोक्तेर् अनुचितत्वात् । मखस् तद्-अधिष्ठाता ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मे मम वैराज-रूपस्य प्राणान् निमित्तात्, हृदयात् सकाशात्, त्रयी तस्यास् त्रय्याः, सकाशात् हौत्राध्वर्य-वौद्गात्रैस् त्रि-वृत् त्रि-रूपः । यज्ञो वै विष्णुः इति श्रुतेः॥१२॥
———————————————————————————————————————
॥ ११.१७.१३ ॥
विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः ।
वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वर्णानाम् आश्रमाणां च धर्मान् वक्तुं तेषाम् उत्पत्तिम् आह—विप्रेति द्वभ्याम्। आत्माचारः स्व-धर्म एव लक्षणं ज्ञापको येषां ते ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैराजात् विराड्-अभिमानि-ब्रह्म-रूपात् ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जाता प्राक् सृष्टा एव तदा प्रकटीबभूवुः । आत्माचारः स्व-स्वधर्म एव लक्षणं ज्ञापको येषां ते ॥१३॥
———————————————————————————————————————
॥ ११.१७.१४ ॥
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मम् वैराज-रूपस्य हृदो वक्षसोऽधस्तात् । ब्रह्म-चर्यम् इति नैष्ठिकाभिप्रायम्1 ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मचर्यम् इति तैस् तत्र नैष्ठिकाभिप्रायम् इति । उपकुर्वाणस् तु जघनाद् इति ज्ञेयम् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदो वक्षसोऽधस्तात् ॥१४॥
———————————————————————————————————————
॥ ११.१७.१५ ॥
वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः ।
आसन् प्रकृतयो नॄणां नीचैर् नीचोत्तमोत्तमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषाम् अधिकारि-विशेषेण स्वभावान् आह—वर्णानाम् इति पञ्चभिः । जन्म-स्थानानुसारिण्यः2 । नीचैर्3 इत्य् अव्ययम् । अतोऽयम् अर्थः, मन्दाभिर् जन्म-भूमिभिर् मन्दाः । उत्तमाभिर् उत्तमाश् चेति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्म-भूम्य्-अनुसारिण्य एव प्रकृतयः स्वभावाः नीचैर् इत्य् अव्ययं नीचाभिर् जन्म-भूमिभिर् नीचाः । उत्तमाभिर् उत्तमाः प्रकृतयः । तेन मुख्यस्य शीर्ष्णश् च सर्वोत्तमत्वाद् विप्रस्य सन्न्यासस्य च सर्वोत्तमा प्रकृतिः । पादस्य जघनस्य च नीचत्वात् शूद्रस्य गृहाश्रमस्य च नीचा प्रकृतिः ॥१५॥
———————————————————————————————————————
॥ ११.१७.१६ ॥
शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् ।
मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तप आलोचनम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शमो दम इत्य्-आदिषु वैश्यान्त-त्रयाणाम् आश्रम-धर्मा अप्य् उन्नेयाः। विप्राणां शमादि-प्रधाना ब्रह्मचर्यादयः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम भक्तिर् गुण-भूता ॥१६॥
———————————————————————————————————————
॥ ११.१७.१७ ॥
तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः ।
स्थैर्यं ब्रह्मण्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः ॥**
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विना प्रसादं विष्णोर् न धर्मं ब्रह्माभिवक्ष्यति ।
तत्-प्रसादेन वक्तुं तु ब्रह्मा शक्ष्यति नापरः ॥ इति प्राधान्ये । > कलाः प्राणाद्याः । स प्राणम् असृजत् प्राणाच् छ्रद्धं खं वायुं ज्योतिर् > आपः पृथिवीम् इन्द्रियं, मनोऽयं अन्नाद् वीर्यं तपो मन्त्राः > कर्म-लोकेषु नाम च ता इमाः षोडश-कलाः पुरुषायणा इति श्रुतेः । > प्रतिमावद् धरे रूपं तिर्यङ् नर-सुरादयः । > साक्षाद्-रूपाणि मत्स्यादीन्य् अभिन्नान्य् एव सर्वदा ॥ इति च ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेजः प्रतापः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षत्रियाणां तेज-आदि-प्रधाना ब्रह्मचर्यादयः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.१८ ॥
आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् ।
अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैश्यानाम् आस्तिक्य-प्रधाना ब्रह्मचर्यादयः ॥१८॥
———————————————————————————————————————
॥ ११.१७.१९ ॥
शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया ।
तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतैर् एवाश्रम-स्वभावा अपि ज्ञेयाः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.२० ॥
अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः ।
कामः क्रोधश् च तर्षश् च स्वभावोऽन्त्यावसायिनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-बाह्यानां4 स्वभावान् आह—अशौचम् इति । शुष्क-विग्रहो निर्मूल-कलहः । तर्षस् तृष्णा ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आश्रम-स्वभावा अनुक्ता अप्य् एवं ज्ञेयाः—वर्ण-बाह्यानां स्वभावम् आह—अशौचम् इति । अन्यावसायिनाम् अन्त्यजानाम् ॥२०॥
———————————————————————————————————————
॥ ११.१७.२१ ॥
अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता ।
भूत-प्रिय-हितेहा च धर्मोऽयं सर्व-वर्णिकः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावत् सर्व-साधारणं धर्मम् आह—अहिंसेति । वर्ण-ग्रहणम् उपलक्षणार्थम्5 । वर्ण-धर्मान् गृहस्थ-प्रकरणे वक्ष्यति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तावत् सर्व-साधारणं धर्मम् आह—अहिंसेति । वर्ण-ग्रहणम् उपलक्षणार्थम् । वर्ण-धर्मान् गृहस्थ-प्रकरणे वक्ष्यति ॥२१॥
———————————————————————————————————————
॥ ११.१७.२२ ॥
द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः ।
वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहुतः**6 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावद् आश्रमेषु ब्रह्मचारिणो धर्मा वर्ण्यन्ते । स च द्विविधः, उपकुर्वाणको नैष्ठिकश् च । तत्राद्य् अस्य धर्मान् आह—द्वितीयम् इति नवभिः । द्विजस् त्रैवर्णिकः । आनुपूर्व्याद् गर्भाधानादि-संस्कार-क्रमेण द्वितीयम् उपनयनाख्यं जन्म प्राप्याचार्येणाहूतो ब्रह्म वेदम् अधीयीत । च-कारात् तद्-अर्थं च विचारयेत् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहाश्रम-धर्म-विवरण एव वर्ण-धर्माः स्वयं विवृता भविष्यन्तीत्य् अभिप्रेत्य प्रथमं प्रथमाश्रम-धर्मम् आह—द्वितीयम् इति नवभिः । द्विजस् त्रैवर्णिकः । आनुपूर्व्या इति गर्भाधानादि-संस्कार-क्रमेण प्रथमं शौक्रं द्वितीयं सावित्र्यम् उपनयन्म् उपनयनाख्यं प्राप्य ब्रह्म वेदम् अधीयीत । आहूत आचार्येणाहूतः । च-कारात् तद्-अर्थं च विचारयेत् ॥२२॥
———————————————————————————————————————
॥ ११.१७.२३ ॥
मेखलाजिन-दण्डाक्ष-ब्रह्म-सूत्र-कमण्डलून् ।
जटिलोऽधौत-दद्-वासोऽरक्त-पीठः कुशान् दधत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मेखलादीन् कुशांश् च दधत् । तत्राक्ष-शब्देनाक्ष-माला । कथं-भूतः ? जटिलः अनभ्यङ्गादिना जात-जटः । तथा अधौत-दद्-वासोऽरक्त-पीठः । दन्ताश् च वासश् च दद्-वासांसि न धौतानि तानि यस्य सः अधौत-दद्-वासाः । स चासाव् अरक्त-पीठश् च, न तु कौतुकादिना रक्तं पीठम्7 आसनं यस्य सः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मेखलादीन् कुशांश् च दधत् । तत्राक्ष-शब्देनाक्ष-माला । कथं-भूतः ? जटिलः अनभ्यङ्गादिना जात-जटः । तथा अधौत-दद्-वासोऽरक्त-पीठः । दन्ताश् च वासश् च दद्-वासांसि न धौतानि तानि यस्य सः अधौत-दद्-वासाः । स चासाव् अरक्त-पीठश् च, न तु कौतुकादिना रक्तं पीठम् आसनं यस्य सः ॥२३॥
———————————————————————————————————————
॥ ११.१७.२४ ॥
स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः ।
न च्छिन्द्यान् नख**8-रोमाणि कक्षोपस्थ-गतान्य् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जपश् चोच्चारो मूत्र-पुरीषोत्सर्गो जपोच्चारं तस्मिन् वाग्-यतो मौनी भवेत् ।
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.२५ ॥
रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् ।
अवकीर्णेऽवगाह्याप्सु यतासुस् त्रि-पदीं**9 जपेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रेतो बुद्धि-पूर्वं नावकिरेन् नोत्सृजेत् । ब्रह्म-व्रत-धरो10 गृहस्थः । स्वयम् एव कथञ्चिद्11अवकीर्णे अवगाह्य स्नात्वा यतासुः कृत-प्राणायामस् त्रि-पदीं गायत्रीं जपेत्॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रेतो नावकिरेद् बुद्धि-पूर्वकं नोत्सृजेत् । दैवात् स्वयमवकीर्णे सति अवगाह्य स्नात्वा यतासुः कृत-प्राणायामः । त्रि-पदां गायत्रीम् ॥२५॥
———————————————————————————————————————
॥ ११.१७.२६ ॥
अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुराञ् शुचिः ।
समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्ध्ये च द्वे यत-वाग् जपन्न् उपासीत । मध्याह्ने सन्ध्या-निमित्तं मौनं नास्तीति द्वि-वचनम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्ध्ये प्रातः सायं सन्ध्ये व्याप्य जपन् यत-वाग् भवेद् इति माध्याह्निक-सन्ध्या-निमित्तं मौनं नास्तीति ज्ञापितम् ॥२६॥
———————————————————————————————————————
॥ ११.१७.२७ ॥
आचार्यं12 मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.२८ ॥
सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् ।
यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यद् अपि यत् सम्प्राप्तं तच् च निवेदयेत् । तेनानुज्ञातं तु संयतः सन्न् उपयुञ्जीतेत्य् अर्थः ॥२८॥
जीव-गोस्वामी (भक्ति-सन्दर्भः २११) : अन्यदा स्व-गुरौ कर्मिभिर् अपि भगवद्-दृष्टिः कर्तव्येत्य् आह—आचार्यं मां इति । ब्रह्मचारि-धर्मान्तः-पठितम् इदम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भैक्ष्यं भिक्षा-समूहं यच् चान्यद् अपि प्राप्तं तद् अपि निवेदयेत् । तेनानुज्ञातम् अदनीयं उपयुञ्जीत उपभुञ्जीत ॥२८॥
———————————————————————————————————————
॥ ११.१७.२९ ॥
शुश्रूषमाण आचार्यं सदोपासीत नीचवत् ।
यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यान-शय्यासन-स्थानैः । यान्तं पृष्ठतो यानेन । निद्रितम् अप्रमत्ततया समीप-शयनेन । विश्रान्तं पाद-संवाहनादिभिः समीपासनेन । आसीनं कृताञ्जलिः । नियोग13-प्रतीक्षया नातिदूरेऽवस्थानेनेत्य् अर्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यान-शय्यासन-स्थानैर् उपासीतेति गच्छन्तं गुरुम् अनु पृष्ठतो गच्छेत् । निद्रितस्य तस्यानतिदूरेऽप्रमत्ततया शयीत । आसीनस्य तस्याग्रतः कृताञ्जलिः सन् आज्ञां प्रतीक्षमाणस् तिष्ठेद् इत्य् अर्थः ॥२९॥
———————————————————————————————————————
॥ ११.१७.३० ॥
एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः ।
विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतं वृत्तं यस्य सः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.३१ ॥
यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् ।
गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् उपकुर्वाणकस्य धर्मान् उक्त्वा नैष्ठिकस्य विशेष-धर्मान् आह—यदीति षड्भिः । असौ ब्रह्मचारी यदि छन्दसां लोकं महर्-लोकं ततो ब्रह्म-लोकं चारोक्ष्यन्न्14 आरोढुम् इच्छतीत्य् अर्थः । यद् वा, छन्दसां लोकम् इति ब्रह्म-लोक-विशेषणम्, यत्र मूर्ति-धराः कलाः [भा।पु। ११.१७.५] इत्य् उक्तत्वात् । तर्हि बृहद्-व्रतः सन् बृहन् नैष्ठिकं व्रतं यस्य सः । विन्यसेत् समर्पयेद् अधिक-स्वाध्यायार्थम् अधीत-निष्क्रयार्थं15 च ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उपकुर्वाणस्य धर्मान् उक्त्वा नैष्ठिकस्य विशेष-धर्मान् आह—यदीति षड्भिः । असौ ब्रह्मचारी छन्दसां लोकं ब्रह्म-विष्ठपं ब्रह्म-लोकं च आरोक्ष्यन् भवेत् तर्हि बृहन्नैष्ठिकं व्रतं यस्य सः । गुरवे देहं विन्यसेत् अधिक-स्वाध्यायार्थम् इत्य् अर्थः । विष्टप-शब्दोऽयं पिष्टप-शब्दवद् भुवन-वाची दृष्टः ॥३१॥
———————————————————————————————————————
॥ ११.१७.३२ ॥
अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् ।
अपृथग्-धीर्**16 उपासीत ब्रह्म-वर्चस्य् अकल्मषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-वर्चो वेदाभ्यासजं तेजस् तद्वान् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.३३ ॥
स्त्रीणां निरीक्षण-स्पर्श-संलाप-क्ष्वेलनादिकम् ।
प्राणिनो मिथुनी-भूतान् अगृह-स्थोऽग्रतस् त्यजेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यैव वनस्थ-यति-साधारण-धर्मान् आह—स्त्रीणाम् इति । निरीक्षणं भाव-गर्भम् । क्ष्वेलनं परिहासः । एवम् आदिकं त्यजेत् । मिथुनी-भूतान् अग्रतस् त्यजेत्, न पश्येद् इत्य् अर्थः ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अगृहस्थो ब्रह्मचारी वानप्रस्थः सन्न्यासी च अग्रतः प्रथमत एव मिथुनीभूतान् प्राणिनः पक्षि-कीटादीन् ॥३३॥
———————————————————————————————————————
॥ ११.१७.३४-३५ ॥
शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम्17 ।
तीर्थ-सेवा जपोऽस्पृश्य- भक्ष्यासम्भाष्य-वर्जनम् ॥
सर्वाश्रम-प्रयुक्तोऽयं नियमः कुल-नन्दन ।
मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्यैव सर्वाश्रम-साधारणं धर्मम् आह—शौचम् इति द्वाभ्याम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१७.३६ ॥
एवं बृहद्-व्रत-धरो ब्राह्मणोऽग्निर् इव ज्वलन् ।
मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयोऽमलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : निष्काम-नैष्ठिकस्य तु मोक्षं फलम् आह—एवम् इति । अमलो निष्कामश् चेद् दग्धः कर्माशयोऽन्तः-करणं यस्य तथा-भूतः सन् मद्-भक्तो भवति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं बृहद् इति । मद्-भक्तश् चेत् तेन मद्-भक्तत्वेनैव तीव्रेण सता तपसा स्वधर्मेणामलः शुद्धान्तःकरणो भवति । दग्ध-कर्माशयो मुक्तश् च भवतीत्य् अर्थः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नैष्ठिकस्य नैष्कर्म्य-प्रकारम् आह—एवम् इति ॥३६॥।
———————————————————————————————————————
॥ ११.१७.३७ ॥
अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः ।
गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपकुर्वाणस्य समावर्तन-प्रकारम् आह—अथेति । अनन्तरं द्वितीयाश्रमम् आवेक्ष्यन् प्रवेष्टुम् इच्छन् यथा यथावद्-विचारित-वेदार्थः स्नायात् । अभ्यङ्गादिकं कृत्वा समावर्तेतेत्य् अर्थः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपकुर्वाणस्य समावर्तन-प्रकारम् आह—अथेति । आवेक्ष्यन् गृहाश्रमम् प्रवेष्टुम् इच्छन् यथावद्-विचारित-वेदार्थः स्नायाद् अभ्यङ्गादिकं कृत्वा समावर्तेतेत्य् अर्थः ॥३७॥
———————————————————————————————————————
॥ ११.१७.३८ ॥
गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः ।
आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्याधिकारानुरूपम् आश्रम-विकल्प-समुच्चयाव् आह—गृहम् इति । स-कामश् चेद् गृहम् अन्तः-करण-शुद्ध्य्-आदि-कामश् चेद् वनं प्रविशेत् । शुद्धान्तः-करणः स च द्विजोत्तमो ब्राह्मणश् चेत् प्रव्रजेद् इत्य् अर्थः । द्विजोत्तम इत्य् उक्तेः क्षत्रिय-वैश्ययोर् न प्रव्रज्याधिकार इति सूचयति । यद् वा, आश्रमाद् आश्रमान्तरं गच्छेत् । अन्यथा अनाश्रमी प्रतिलोमं18 च नाचरेद् इत्य् अर्थः । अमत्-पर इति वा छेदः । स्व-भक्तस्याश्रम-नियम-भावस्य वक्ष्यमाणत्वात् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : समुच्चयं वक्तुं पक्षान्तरम् आह—आश्रमाद् इति । अन्यथेति अनाश्रमी न भवेत् प्रतिलोमं च नाचरेद् इत्य् अर्थः । टीकायां वक्ष्यमाणत्वाद् इति ज्ञान-निष्ठो विरक्तो वा [भा।पु। ११.१८.२८] इत्य्-आदिनेति ज्ञेयम् ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याधिकारानुरूपम् आश्रम-विकल्पम् आह—गृहम् इति । स-कामश् चेद् गृहम् अन्तः-करण-शुद्ध्या निष्कामश् चेद् वनं, स च द्विजोत्तमो ब्राह्मणश् चेत् प्रव्रजेद् इत्य् अर्थः । यदि च कस्यचिन् मनोरथः स्यात् तदा समुच्चयम् अपि कुर्याद् इत्य् आह—आश्रमाद् इति । ब्रह्मचर्यानन्तरं गृहाश्रमम्, ततो वनं, ततः सन्न्यासम् इत्य् अनुक्रमेणेत्य् अर्थः । न त्व् अन्यथा व्युत्क्रमेण आश्रम-राहित्येन वा न चरेत्, अमत्-पर इति वा छेदः । स्व-भक्तस्याश्रम-नियमाभावस्य वक्ष्यमाणत्वाद् इति स्वामि-चरणाः । तेन भगवद्-भक्तस्य व्युत्क्रमेणाश्रमितया अनाश्रमितया वा स्थितौ न कोऽपि दोषः इति भावः ॥३८॥
———————————————————————————————————————
॥ ११.१७.३९ ॥
गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् ।
यवीयसीं तु वयसा यां स-वर्णां अनु क्रमात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विवाह-नियम-पूर्वकं वर्ण-धर्मैः सह गृहस्थ-धर्मान् आह—गृहार्थीति। सदृशीं स-वर्णाम् । अजुगुप्सितां कुलतो लक्षणतश् चानिन्दिताम् । कामतस् तु याम् अन्याम् उद्वहेत् तां स-वर्णाम् अनु तस्या अनन्तरम् । तत्रापि वर्ण-क्रमेणोद्वहेद् इत्य् अर्थः।
तिस्रो-वर्णानुपूर्व्येण द्वेतथैका यथा-क्रमम् । > ब्राह्मण-क्षत्रिय-विशां भार्याः स्वाः शूद्र-जन्मनः ॥ इति स्मृतेः > ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गृहार्थीति तैः । तिस्र इत्य्-आदिकं सजातीयां त्यक्त्वा ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहस्थ-धर्मान् वदन् नो वर्ण-धर्मान् अप्य् आह—गृहार्थीति । याम् अन्यां कामत उद्वहेत् ताम् अपि सवर्णाम् अनु प्रथम-व्यूढायाः स-वर्णाया अनन्तरम् एव तत्रापि क्रमाद् एव वर्ण-क्रमेणैवोद्वहेद् इत्य् अर्थः ।
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथा-क्रमम् ।\ > ब्राह्मण-क्षत्रिय-विशाम् भार्याः स्वाह् शूद्र-जन्मनः ॥ इति स्मृतेः > ॥३९॥
———————————————————————————————————————
॥ ११.१७.४० ॥
इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् ।
प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इज्यादयस् त्रैवर्णिकानाम् आवश्यका धर्माः । प्रतिग्रहादि-त्रयं तु वृत्तिः । सा च ब्राह्मणस्यैव ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इज्यादीनि त्रीणि त्रैवर्णिकानाम् आवश्यक-कृत्यानि । प्रतिग्रहादीनि त्रीणि वृत्तिर् ब्राह्मणस्यैव ॥४०॥
———————————————————————————————————————
॥ ११.१७.४१ ॥
प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् ।
अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रापि मुख्यां मुख्यतमां चान्यां वृत्तिम् आह—प्रतिग्रहम् इति । तयोर् यजनाध्यापनयोर् अपि कार्पण्यादि-दोषं पश्यन् शिलैः स्वामि-त्यक्तैः क्षेत्र-पतितैः कणिशैः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्याभ्यां याजनाध्यापनाभ्यां तयोर् अपि दोष-दृक् दोषं चेत् पश्येत् तदा शिलैः स्वामि-त्यक्तैः क्षेत्र-पतितैः कणिशैः ॥४१॥
———————————————————————————————————————
॥ ११.१७.४२ ॥
ब्राह्मणस्य हि देहोऽयं क्षुद्र-कामाय नेष्यते ।
कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं च वृत्ति-कार्श्यं ब्राह्मणेन सोढव्यम् इत्य् आह—ब्राह्मणस्येति ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विप्रैः कथं स्वयम् एवं क्लिश्येत् ? तत्राह—ब्राह्मणस्येति । कृच्छ्राय जीविका-जनितं कृच्छ्रं प्राप्तम् ॥४२॥
———————————————————————————————————————
॥ ११.१७.४३ ॥
शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो
धर्मं महान्तं विरजं जुषाणः ।
मय्य् अर्पितात्मा गृह एव तिष्ठन्
नाति-प्रसक्तः समुपैति शान्तिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उञ्छ-वृत्तिर् नाम विपण्य्-आदि-पतित-कणोपादानं तां शिल-वृत्त्य्-ऐकी-कृत्य तया तुष्ट-चित्तस्य मोक्षं फलम् आह—शिलोञ्छेति । महान्तम् आतिथ्यादि-लक्षणम् । विरजं निष्कामम् । जुषाणः सेवमानः । गृह एव गृहस्थाश्रम एव । नाति-प्रसक्तोऽति-शयेन रागम् अकुर्वन् । शान्तिम् उपैति मोक्षाधिकारी भवति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उञ्छ-वृत्तिर् नाम विपण्य्-आदि-पतितस्य कणिशस्योपादानं महान्तम् आतिथ्यादि-लक्षणम् धर्मम् ॥४३॥
———————————————————————————————————————
॥ ११.१७.४४ ॥
समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् ।
तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अधनस्य महत्-फलम् उक्त्वा सधनानाम् अप्य् आह त्रिभिः । समुद्धरन्ति दारिद्र्याद् उत्तारयन्ति । विप्रम् इत्य् उपलक्षणम् । मत्-परायणं यं कम् अपि॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां सधनानाम् इति ब्राह्मणेतरेषाम् इति ज्ञेयम् । नौर् यथार्णव-पतितान् उद्धरति तथेत्य् अर्थः ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् तादृशं विप्रं भक्त्या धन-वितरणेन सेवमानानां फलम् आह—समुद्धरन्तीति । विप्रम् इत्य् उपलक्षणम् । मत्-परायणं मद्-भक्तं यं कम् अपि॥४४॥
———————————————————————————————————————
॥ ११.१७.४५ ॥
सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः ।
आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञस् त्व् आवश्यकम् एतद् इत्य् आह—सर्वा इति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञोपि धर्मम् आह—सर्वा इति । धीरो धैर्यम् उक्तो राजा ॥४५॥
———————————————————————————————————————
॥ ११.१७.४६ ॥
एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा ।
विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥**
न कतमेनापि व्याख्यातम् ।
———————————————————————————————————————
॥ ११.१७.४७ ॥
सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् ।
खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वेषाम् आपद्-वृत्तीर् आह—सीदन्न् इति त्रिभिः । पण्यैर् विक्रयार्हैर् न तु सुरा-लवणाद्यैः । तत्राप्य् आपदाक्रान्तश् चेत् खड्गेन क्षत्रिय-वृत्त्या वा । यद्य् अपि गौतमोऽनन्तरा पापीयसीं वृत्तिम् आतिष्ठिद् इति स्मरन् खङ्ग-धारणं पण्य-विक्रयाच् छ्रेष्ठं मन्यते तथापि हिंसातो वणिग् वृत्तिर् एव श्रेष्ठेति भगवतो मतम् । न तु श्व-वृत्त्या नीच-सेवया ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषाम् आपद्-वृत्तीर् आह—सीदन्न् इति त्रिभिः । पण्यैर् विक्रयार्हैर् एव, न तु सुरा-लवणाद्यैः । आपद्-आक्रान्तो विपद्-ग्रस्तः, खड्गेन वेति । क्षत्रिय-वृत्त्या वा । यद्य् अपि गौतमोऽनन्तरा पापीयसीं वृत्तिम् आतिष्ठिद् इति स्मरन् खङ्ग-धारणं पण्य-विक्रयाच् छ्रेष्ठं मन्यते तथापि हिंसातो वणिग् वृत्तिर् एव श्रेष्ठेति भगवतो मतम् । न तु श्व-वृत्त्या नीच-सेवया ॥४७॥
———————————————————————————————————————
॥ ११.१७.४८ ॥
वैश्य-वृत्त्या तु राजान्यो जीवेन् मृगययापदि ।
चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्राप्य् आपदि मृगयया । विप्र-रूपेण वा अध्यापनादिना ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्र-रूपेण अध्यापनादिना ॥४८॥
———————————————————————————————————————
॥ ११.१७.४९ ॥
शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् ।
कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : कारवः प्रतिलोम-ज-विशेषा बुरुडादयस् तेषां वृत्तिं कटादि-क्रियाम् । आपद्-उत्तीर्णस् तु नानुकल्पेन वर्तेतेत्य् आह—कृच्छ्राद् इति ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृच्छ्रान् मुक्तः सर्व एव ॥४९॥
———————————————————————————————————————
॥ ११.१७.५० ॥
वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् ।
देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं वृत्ति-व्यवस्थाम् उक्त्वा पुनर् गृहस्थस्यावश्यकान् पञ्च-यज्ञान् आह—वेदाध्ययनं ब्रह्म-यज्ञस् तेन ऋषीन् स्वधा-कारेण पितॄन् स्वाहा-कारेण देवान् बलि-हरणेन भूतानि अन्नाद्यैर् अन्नोदकादिभिर् मनुष्यान् इति ज्ञातव्यम् । यथोदयं विभवानुसारतः । तेष्व् ईश्वर-दृष्टिं विधत्ते, मद्-रूपाणीति ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आपद्-वृत्ति-व्यवस्थाम् उक्त्वा पुनर् गृहाश्रम-धर्मान् आवश्यकान् आह—वेदाध्ययनेन ऋषीन्, स्वधा-कारेण पितॄन्, स्वाहा-कारेण देवान्, बलि-हरणेन भूतानि, अन्नोदकाद्यैर् मनुष्यान् । यथोदयं विभूति यजेत् । तेष्व् अपीश्वर-दृष्टिं विधत्ते, मद्-रूपाणीति ॥५०॥
———————————————————————————————————————
॥ ११.१७.५१ ॥
यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।
धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून्**19 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आवश्यकं धर्मम् उक्त्वा शक्त्य्-अनुसारं धर्मम् आह—यदृच्छया उद्यमं विना । उपार्जितेन वा शुक्लेन स्व-वृत्त्या लब्धेन शुद्धेन वा धनेन भृत्यान् पोष्यान् ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनावश्यकान् धर्मान् आह—यदृच्छयेति ॥५१॥
———————————————————————————————————————
॥ ११.१७.५२ ॥
कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि ।
विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहस्थस्यापि निवृत्ति-निष्ठाम् एवाह—कुटुम्बेष्व् इति त्रिभिः । न प्रमाद्येद् ईश्वर-निष्ठायां प्रमत्तो न भवेत् । ननु दृष्टादृष्टार्थ-कर्मासक्तस्य कथम् अप्रमादो विचारेण ? इत्य् आह—विपश्चिद् इति ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मस्व् अनासक्तस्य ज्ञानि-गृहस्थस्य धर्मान् आह—कुटुम्बेष्व् इति चतुर्भिः। अनासक्तोऽपि भगवत्-स्मरणादौ न प्रमाद्येत्, कुटुम्ब्य् अपि नश्वरं पश्येत्, दृष्टवत् दृष्टं ऐहिकं नश्वरम् इव अदृष्टं पारलौकिकम् अपि नश्वरं पश्येत् । उभयत्रापि निस्पृहो भवेद् इति भावः ॥५२॥
———————————————————————————————————————
॥ ११.१७.५३ ॥
पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः ।
अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रापि दृष्टेष्व् आसक्तेर् अधिकत्वात् तेषां नश्वरतां प्रपञ्चयति, पुत्रादीनाम् एकत्र सङ्गमः पान्थानां प्रपायां सङ्गम इव । तत्र हेतुः, अनु-देहं प्रतिहम् एते वियन्ति नश्यन्ति निद्रानुवर्ती स्वप्नो निद्रापाये यथेति ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पान्थ-सङ्गमः पान्थानां प्रपायां सङ्गम-तुल्यः । अनुदेहं प्रति-देहं, वियन्ति ममतास्पदीभूताः पुत्रादयो नश्यन्ति, निद्रानुगो निद्रानुवर्ती स्वप्नो यथेति नश्वरत्वांशे दृष्टान्तः । ममतास्पदत्वस्य मिथ्यात्वान् मिथ्यात्वे वा ॥५३॥
———————————————————————————————————————
॥ ११.१७.५४ ॥
इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथिवद् वसन् ।
न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिथिवद् उदासीनः ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुक्तः अनासक्तः ॥५४॥
———————————————————————————————————————
॥ ११.१७.५५ ॥
कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्ति-मान् ।
तिष्ठेद् वनं वोपविशेत् प्रजा-वान् वा परिव्रजेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्याप्य् आश्रम-विकल्पम् आह—कर्मभिर् इति । गृहाश्रम एव तिष्ठेत् । यदि प्रजावांस् तर्हि प्रव्रजेद् वा ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रजावानिति । प्रजावत्त्वे प्रायो वैराग्यं भवेद् इति वेदान्तिनाम् अभिप्रायः । कर्मठानां त्व् अन्यथा यथोक्तम्—
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् । > अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ इति ॥५५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि ज्ञाने स्पृहावतस् तथा भक्ताव् अवकाश-प्राप्त्य्-अर्थं कलत्र-पुत्रादि-प्रतारकस्य भक्तस्य वा आश्रम-विकल्पम् आह—कर्मभिर् इति ॥५५॥
———————————————————————————————————————
॥ ११.१७.५६ ॥
यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः ।
स्त्रैणः कृपण-धीर् मूठो ममाहम् इति बध्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहाद्य्-आसङ्गे दोषम् आह—यस् त्व् इति त्रिभिः ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृहाद्य्-आसङ्गे दोषम् आह—यस् त्व् इति त्रिभिः ॥५६॥
———————————————————————————————————————
॥ ११.१७.५७ ॥
अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः ।
अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्धम् एवाभिनयेन दर्शयति—अहो इति । बाला आत्मजा यस्याः सा, आत्म-जाश् च मां विना अनाथाः सन्तः कथं जीविष्यन्तीति ॥५७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बन्धम् एवाभिनयेन दर्शयति—अहो इति । बाल एको मासिक आत्मजो यस्याः सा । अहो मद्-विरहिता पारक्य-पेषणादि-वृत्त्यापि जीवितुम् असमर्थेति भावः । आत्मजा द्वित्र-वार्षिकाः प्रजाश् च । मां विना अनाथाः कथं जीविष्यन्तीति ॥५७॥
———————————————————————————————————————
॥ ११.१७.५८ ॥
एवं गृहाशयाक्षिप्त-हृदयो मूढ-धीर् अयम् ।
अतृप्तस् तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहे य आशयो वासना तेन आ सर्वतः क्षिप्तं हृदयं यस्य सः । अन्धं तमोऽति-तामसीं योनिम् ।
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्यां एकादश-स्कन्धे > श्री-भगवद्-उद्धव-संवादे > वर्णाश्रम-विभागो नाम > सप्तदशोऽध्यायः ।
॥११.१७॥
———————————————————————————————————————
-
नैष्ठिकाभिप्रायम् इति विचारणीयम् । अत्र सिद्धान्त-प्रदीपे—ब्रह्मचर्यं हृदः वक्षसः अधस्तात् उपकुर्वाणस्य गृहस्थावरत्वं, नैष्ठिकस्य तु सर्वथा ग्राम्य-सुख-परित्यागित्वेन सर्व-श्रेष्ठत्वम् । अतो ब्रह्मचर्यस द्वैविध्यान् मध्यस्थान्ते तद्-उत्पत्तिर् इत्य् उक्तैव । ब्रह्मचर्यस्य द्वैविध्यम् अग्रे २२-श्लोके प्रतिपादितम् ॥ ↩︎
-
जन्म-स्थानानि मुखादीनीति भावः ॥ ↩︎
-
नीचैः पादादि-स्थानैर् नीचाः उत्तमैर् मुखादि-स्थानैर् उत्तमाः । ताश् च ताश् चेति कर्मधारयः । वर्णानाम् आश्रमाणां च या जन्म-भूमयस् तद्-अनुसारिण्यो नृणां प्रकृतय आसन्न् इत्य् अन्वयः ॥ ↩︎
-
तद्-बाह्यानां वर्णाश्रम-धर्म-बहिष्कृतानाम् ॥ ↩︎
-
उपलक्षणार्थम् आश्रम-धर्मत्व-ज्ञापनार्थम् ॥ ↩︎
-
अत्र ह्रस्वत्वम् आर्षम् ॥ ↩︎
-
सौन्दर्य-निमित्त-केश-दन्त-वस्त्र-नैर्मल्यासन-वैचित्र्य-शून्य इत्य् अर्थः ॥ ↩︎
-
नखेति पृथक्-पदं सुपां सुलोपश् चेति द्वितीया-लोपः ॥ ↩︎
-
त्रिपदां इति वा पाठः । ↩︎
-
ब्रह्मचारी। ↩︎
-
अवकीर्णे उत्सृष्टे सति । ↩︎
-
आचार्यं मां मदीयं प्रेष्ठं विजानीयात् ॥ ↩︎
-
आज्ञा । ↩︎
-
फलितार्थ-कथनम् एतत् । ↩︎
-
निष्क्रयार्थम् अधीतस्य वेदस्यानृण्य-रूप-दक्षिणार्थम् ॥ ↩︎
-
अपृथग्-धीर् अन्तर्यामि-रूपेण् भेद-बुद्धि-शून्यः । ↩︎
-
सन्ध्योपासनम् आर्जवम् इति च पाठः । ↩︎
-
अनाश्रमी न तिष्ठेत क्षणम् एकम् अपि द्विजः इति स्मृतेः । प्रतिलोमं गृहं वनं वेत्य् आद्य् उक्त-व्युत्क्रमेण ॥ ↩︎
-
माम् यजेताहरन् क्रतून् इति पाठः । ↩︎