॥ ११.१६.१ ॥
श्री-उद्धव उवाच—
त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् ।
सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षोडशे तु हरेर् आविर्भाव-युक्ता विभूतयः ।
ज्ञान-वीर्य-प्रभावादि- विशेषेणोपवर्णिताः ॥
अन्तश्-चित्तेन यद् ध्यानम् अशक्यम् अकृतात्मनाम् ।
अतस् तद्-योग्यतापत्त्यै विभूत्य्-आदि-निरूपणम् ॥
एवं तावन् नवाध्यायाम् अष्ट-प्रश्ना निरूपिताः ।
ब्रह्मत्व-सम्भवे तावत् सप्तमादि-चतुष्टये ॥
बन्ध-मुक्त्योस् तु निर्धारे सद्-भक्त्योश् च ततः परे ।
द्वादशेऽनन्तरं कर्म कृति-त्याग-व्यवस्थितौ ।
हंसेतिहासतो योग-निष्ठायां च त्रयोदशे ॥
श्रेयः-साधन-निर्धारे ध्याने चैव चतुर्दशे ।
धारणासिद्धि-भेदे च प्रसङ्गेन निरन्तरे ॥
उद्धव-प्रश्नतो दत्तम् उत्तरं हरिणोचितम् ।
षोडशे भूति-विस्तारे द्वयोर् वर्णाश्रम-व्रते ॥
ज्ञानादि-निर्णये चातो यमादीनां च निर्णये ।
योग-त्रयाधिकारे तु विंशे च तद्-अनन्तरे ॥
सत्त्व-सङ्ख्या-विवादे च पुं-प्रकृत्योर् विवेचने ।
जन्म-मृत्यु-प्रकारे च द्वविंशे दत्तम् उत्तरम् ॥
परापराध-सहने चतुर्भिस् तद्-अनन्तरैः ।
सप्तविंशे क्रिया-योग-प्रश्ने तद्-उपवर्णनम् ॥
अष्टाविंशे ततः प्रोक्ता ज्ञान-योगोपसंहृतिः ।
संसारासम्भव-प्रश्ने तन्-मध्ये दत्तम् उत्तरम् ॥
तद्-अशक्त्या पुनः प्रश्ने भक्ति-योगोपसंहृतिः ।
एवं प्रश्नोत्तराण्य् अत्र क्रमेणैतानि विंशतिः ॥
अहम् आत्मान्तरो बाह्योऽनावृतः सर्व-देहिनाम् ।
यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥ [भा।पु। ११.१५.३६] इत्य् उक्तम्
तत्र भूतानि यथा क्वचित् केनचिद् गुण-विशेषेणोद्रिक्तानि वर्तन्ते, क्वचित् सामान्य-रूपेणैव, तथा त्वम् अपि क्व कथं वर्तसे ? इति विभूतीः प्रष्टुं प्रथमं तावद् उक्तम् एव सर्वात्मकत्वम् अनुवदति—त्वं ब्रह्मेति । अपावृतं निरावरणं स्वतन्त्रं वा । अत एव सर्वेषाम् अपि त्राणं रक्षणम् । स्थितिर् जीवनम् । त्राण-स्थिति-सहितावप्ययोद्भवौ यस्मात् । सत्त्वम् उपादान-कारणम् इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायां नवाध्याय्याम् इति सप्तमादि-नवाध्याय्याम् इति ज्ञेयम् । आदि-षण्णाम् उक्त-तात्पर्यत्वात् अष्ट-प्रश्नान् निरूपयति ब्रह्मत्वेति सप्तमादि-चतुष्टये दशम-पर्यन्ते ततः परे एकादशे निरन्तरे पञ्चदशे द्वयो सप्तदशाष्टादशयोः । अत ऊनविंशे तद्-अनन्तरे एकविंशे चतुर्भिः षड्विंश-पर्यन्तैः तत्र- (१) ब्रह्मत्वेति, (२) बन्ध-मुक्त्योर् इति, (३) सद् इति, (४) कर्मेति, (५) हंसेति, (६) श्रेय इति, (७) ध्यान इति, (८) धारणेति, इत्यष्टौ प्रश्नाः । (९) भूतीति, (१०) वर्णेति, (११) ज्ञानेति, (१२) यमेति, (१३) योगेति, (१४) तत्त्वेति, (१५) जन्मेति, (१६) परेति, (१७) क्रियेति, (१८) ज्ञानेति, (१९) संसारेति, (२०) भक्तीति इति विंशतिः ।
सर्वेषां सर्व-वैभवं मत्त एवेति सर्वासाम् अपीत्य् आदिना पुर्वम् उक्तम् । तच् छ्रुत्वा प्राकृताप्राकृत-तद्-वैभवास्पदानि प्रश्नेन ज्ञातुं तस्य सर्वाश्रयत्वम् अनुवदति—त्वं ब्रह्मेति । त्वं ब्रह्म बृहत् सर्व-कारणत्वात् । तत्रापि परमं भगवद्-रूपत्वात् । तत्रापि साक्षात् स्वयं भगवत्त्वात् तत्राप्राकृतानन्त-वैभवाश्रयत्वम् आह—अनाद्यन्तं, न तु पुरुषादिवत् परिच्छिन्न-वैभवम् । अपावृतं, न तु तद्वन् माया-संवलितं प्राकृत-वैभवाश्रयत्वम् आह—सर्वेषां भावानां महद्-आदीनां त्राण-स्थित्य्-अप्ययोद्भवो यः पुरुषः सोऽपि त्वम् इति । यस्यांशांशांश-भागेन विश्व-स्थित्य्-अप्ययोद्भव [भा।पु। १०.८५.३१] इत्य् आदेस् तस्यापि त्वम् अंशीत्य् अर्थः ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
यद् यन् मुख्यं येषु येषु प्रभाव-ज्ञान-शक्तिभिः ।
तत् तद् विभूति-शब्दोक्तं वस्तु षोडश उच्यते ॥
सर्वासां सिद्धीनाम् इत्य्-आदिना सर्वेषां सर्व-वैभवं मत्त एवेत्य् उक्तम् । तत् श्रुत्वा प्राकृताप्राकृत-तद्-वैभवास्पदानि जिज्ञासमानस् तस्य सर्वाश्रयत्वम् अनुवदति—त्वं ब्रह्मेति । तत्रापि परमं भगवद्-रूपत्वात् । तत्रापि साक्षात् स्वयं-भगवद्-रूपं । तत्राप्य् अनाद्य् अनन्तम् अपावृतम् इति परिच्छिन्न-मानुषाकारत्वेऽपि सर्व-काल-देश-व्यापकम्। यः सृष्ट्य्-आदि-कर्ता विष्णुः सोऽपि त्वद्-अंशत्वात् त्वम् एवेत्य् आह—विपद्भ्यो रक्षणं त्राणं जीविका-प्रदानं स्थितिः, सर्वेषाम् अपीति ॥१॥
———————————————————————————————————————
॥ ११.१६.२ ॥
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः ।
उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र सद्-आचारं प्रमाणम् आह—याथातथ्येन यथार्थत्वेन । सर्व-भूत-कारणं त्वाम् । ब्राह्मणा वेद-तात्पर्य-विदः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्राकृतीर् विभूतीस् तावत् पृच्छति—उच्चावचेष्व् इति । भूतेषु प्रधान-कार्येषु त्वां गुण-सामादि-रूपम् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यश् च त्वं विष्णु-रूपेण सर्वेषां कारणं, अत एव सर्वेषु भूतेषु तत्-कार्येषु उच्चावचेषु च उत्कृष्ट-निकृष्टेषु त्वां सन्तं, अकृतात्मभिः त्वय्य् अकृत-मनस्कैः, ब्राह्मणा ब्रह्म वेदं विदन्तीति वेदज्ञा उपासते । याथातथ्येन यत्र यत्र त्वं यथा यथा वर्तसे, तत्र तत्र तथा तथैव त्वां तारतम्येनोपासत इत्य् अर्थः ॥२॥
———————————————————————————————————————
॥ ११.१६.३ ॥
येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः ।
उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं कारणत्वेन सर्वात्मत्वम् अनूद्य विभूतीः प्रच्छति—येष्व् इति । उपासीनाः सेवमानाः सन्तः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अप्राकृतीः पृच्छति । येषु येषु चेति । भावेषु भूतेषु परमार्थ-सत्येषु भगवद्-आदिषु, अस्य महतो भूतस्य [बृ।आ।उ। २.४.१०] इत्य्-आदि श्रुतेः । त्वां श्री-वासुदेवादि-रूपम् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वत्रोपासनायाम् अप्य् आधिक्येनोपासनार्थं विभूतीः पृच्छति—येषु येष्व् इति। प्रपद्यन्ते संसिद्धिं प्राप्नुवन्ति ॥३॥
———————————————————————————————————————
॥ ११.१६.४ ॥
गूढश् चरसि भूतात्मा भूतानां भूत-भावन ।
न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्ज्ञेयत्वम् एवाह—गूढः अस्फुटः । भूतानां प्राणिनां मध्ये । अत्र हेतुः—भूतानाम् आत्मा अन्तर्यामी । अत्रापि हेतुः—हे भूत-भावनेति । ते त्वया ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : चरसि क्वचित् साक्षाद्-रूपेण क्वचित् शक्त्य्-आवेश-रूपेण चेति ज्ञेयम् ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्ज्ञेयत्वम् एवाह—गूढ इति । भूतात्मा सर्व-भूतान्तर्यामी भवन्न् अपि भूत-भावनः प्राणि-श्रेयस्कर-रूपस् त्वं भूतानां गूढ एव । अत एव त्वां न पश्यन्ति। निर्विसर्ग-पाठे हे भूत-भावनेति ॥४॥
———————————————————————————————————————
॥ ११.१६.५ ॥
याः काश् च भूमौ दिवि वै रसायां
विभूतयो दिक्षु महा-विभूते ।
ता मह्यम् आख्यह्य् अनुभावितास् ते
नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ता एव साकल्येन पृच्छति—ह्हे महा-विभूते, याः काश्चिद् भूम्य्-आदिषु ते विभूतयः । रसायां रसातले अनुभावितास् त्वयैव केनचिच् छक्ति-विशेषेण संयोजिताः तीर्थानां पदं च तद्-अङ्घ्रि-पद्मं च ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भूमाव् इत्य्-आदि-त्रयेण मध्योर्ध्व-तल-लोकाः प्राकृता अप्राकृताश् च सर्व एव गृहीताः । ते त्वयैकेन स्वयं भगवता अनुभाविताः अनुभावं तत्-तन्-माहात्म्यं प्रापिताः । अत एव तीर्थानां सर्वासां गुरु-परम्पराणां पदम् आश्रयः अङ्घ्रि-पद्मं यस्य तं श्रोतसां समुद्रम् इव ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् गूढाह् स्व-विभूतीः स्वयम् एव प्रकाशयेत्य् आह—या इति । ते त्वयैव अनुभाविता अनुभव-गोचरीकारितास् ताः । आख्याहि ब्रूह्य् अनुभावय चेत्य् अर्थः । चिन्मयस्य भगवतश् चिन्मया विलासा अंशा उच्यन्ते, माया-मयास् तु विभूतय इति सर्वत्र व्यवहारः । अत्र तु विभूति-शब्देनैश्वरं प्राकृताप्राकृत-वस्तु-मात्रम् एव, तथा प्राकृताप्राकृत-वस्तु-सारश् आग्रिम-ग्रन्थ-दृष्ट्या उच्यते इति विवेचनीयम् ॥५॥
———————————————————————————————————————
॥ ११.१६.६ ॥
श्री-भगवान् उवाच—
एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर ।
युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नरावतार-भूतार्जुन-प्रश्न-संवादित्वात् तवायं प्रश्नः साधीयान् इति तावद् अनुमोदते, एवम् इति त्रिभिः । प्रश्नं प्रष्टव्यम् । सपत्नैर् योद्धुम् इच्छता । विनशने कुरु-क्षेत्रे ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो आश्चर्यं यन् मित्र-द्वयस्य प्रश्न-संवादितेति स-श्लाघम् आह—एवम् इति ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्नं प्रष्टव्यम् । सपत्नैर् योद्धुम् इच्छता । विनशने कुरुक्षेत्रे ॥६॥
———————————————————————————————————————
॥ ११.१६.७-८ ॥
ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् ।
ततो निवृत्तो हन्ताहं हतोऽयम् इति लौकिकः ॥
स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः ।
अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युयुत्सोर् विभूति-प्रश्ने कः प्रसङ्गः ? तत्राह—ज्ञात्वेति । लौकिकः प्राकृत-मतिः सन् ॥७॥
स च यदा ततो ज्ञाति-वधान् निवृत्तस् तदा मय प्रतिबोधितः सन् । यथा त्वम् अभिभाषसे, एवं सङ्ग्राम-मुखे माम् अभ्यभाषत । तद्वद् एव तवापि कथयिष्यामीति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युयुत्सोर् अर्जुनस्य विभूति-प्रश्ने कः प्रसङ्गः ? तत्रह—ज्ञात्वेति । राज-हेतुकं ज्ञाति-वधम् अधर्मं ज्ञात्वा तस्मान् निवृत्तः । कीदृशः ? अस्य हन्ता अहं मयायं हत इत्य् एवं लौकिकं प्राकृत-लोके भवं चेष्टितं यस्य सः ॥७-८॥
———————————————————————————————————————
॥ ११.१६.९ ॥
अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः ।
अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सृष्टि-स्थित्य्-आदि-हेतुत्वाद् भूताणां हरिर् उच्यते ।
न तु भूत-स्वरूपत्वात् स इ सर्वेश्वरेश्वरः ॥ इति वस्तु-तत्त्वे ।
स्व-स्व-जात्य्-उत्तमत्वं तु हवेद् यद्-रूप-सन्निधेः ।
विभूति-रूपं तत् प्रोक्तम् इन्दिरादिषु संस्स्थितम् ॥
तथा बहिः स्थितः रूपं विभूतीत्य् एव शब्दितम् ।
सर्व-साधारणं रूपम् अन्तर्यामीति चोच्यते ॥
यथा कृष्णात्मना दुष्ट-हन्ताव्यासात्मना समः ।
अस्मोऽप्य् एक-रूपोऽपि सामर्थ्यात् पूर्वुत्तमोत्तमः ॥ इति च ।
ब्रह्म-रुद्रेन्द्र-जीवेभ्यः पृथग् एव व्यवस्थितम् ।
विभूति-रूपं विष्णोस् तु तद्-ग-श्रेष्ठ्यैक-कारणम् ॥
तदे व ब्रह्म-रुद्रादि नामभिर् वाच्यम् अञ्जसा ।
तद् एव देवेष्व् इन्द्रोऽस्मि ततो रुद्रेषु शङ्करः ।
इत्य्-आदिनोक्तं कृष्णेन नेन्द्राद्या जीव-सञ्चयाः ॥ इति गीत-कल्पे ॥९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ता विभूतीः कथयति—अहम् इति । अस्मच्-छब्द-समानाधिकरणाः प्रथमान्ता द्वितीयान्ताश् च सर्वा विभूतयः, तास् ताश् चोपासनार्थं कथ्यन्ते । षष्ठी च क्वचिन् निर्धारणे, सम्बन्धे च क्वचित्, यथा-योग्यं द्रष्टव्या । ततश् चामीषां भूतानाम् आत्मेति ते सुहृद् इति ईश्वर इति च सामान्येनाहम् उपास्य इत्य् अर्थः । एवं सर्वत्र । तेषां स्थित्य्-उद्भवाप्ययः, तत्-तद्-धेतुर् इत्य् अर्थः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्राकृतेष्व् अप्राकृतीम् आह—अहम् आत्मेति । आत्मा परमात्मा । सुहृत् स्वतो हित-कारी । ईश्वरः सर्व-प्रवर्तकश् च । तेष्व् एव प्राकृतीम् आह—अहम् इति । भूतानां मध्ये भूतानि मद्-वैभव-विशेषानुभावितैस् तैर् एव व्यवहार-सिद्धेः । तेष्व् एवाप्राकृतीम् आह—तेषाम् इति । स्थितीति महत्-स्रष्टृ-पुरुषः सर्वकारणम् इत्य् अर्थः । एवम् अन्यत्रापि ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ता विभूतीः सामायतः कथयति ॥९॥
———————————————————————————————————————
॥ ११.१६.१०-११ ॥
अहं गतिर् गति-मतां कालः कलयताम् अहम् ।
गुणानां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥
गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् ।
सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : गतिर् ज्ञानम् ।
प्रधानो ज्ञानिनां ब्रह्मा ज्ञान-मानी हृदि-स्थितः ।
स एव काल-मानी तु संहर्तॄणां प्रभुः स्मृतः ॥ इति विभूतौ ।
आनन्दानुभवस् तु य उत्कृष्टानुभवात् स्मृतः ।
तद्-युक्तत्वं यथा सौम्यं गुणानाम् अधिकं हि तत् ॥
भक्त्य्-आदि-गुण-पूगोऽपि दुःख-हेतुत्व-भावनात् ।
निष्कलो भवति ह्य् अद्धा प्रीतस्य सफलो भवेत् ॥
तस्माद् आनन्द-मानस् तु गुणेषूत्कृष्टम् उच्यते ।
तस्याभिमानी ब्रह्मैको भक्ति-ज्ञानादिकस्य च ॥
श्रद्धाभिमानिनी देवी तथैव तु सरस्वती ।
तद् अन्येषां गुणानां तु तद् अन्ये विबुधाः स्मृताः ॥
गुणानां तु प्रभुर् ब्रह्मा तस्माद् एकश् चतुर्मुखः ।
औत्पत्तिक-गुणो नाम शुभ-प्राप्त्यैक-योग्यता ॥
तस्याभिमानी प्राणस् तु स हि सर्व-गुणाधिकः ॥ इति च ।
गुणिनां गुण-योग्यत्वं यत् सर्व-गुणिषु स्थितम् ।
वायुस् तद्-अभिमान्य् एकः सर्व-गुण्य्-अधिकस् ततः ॥ इति प्रभञ्जने ।
रूपान्तरत्वाद् एकस्यापि बहु-स्थानेषु प्राधान्योक्तिर् नो विरुद्ध्यते । गुणान्तरोक्तेश् च । रामः शास्त्र-भृताम् अहम् । वृष्णीनां वासुदेवोऽस्मि इत्य्-आदिवत् ॥१०-११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विशेषतो विभूतीर् आह—कलयतां वशीकुर्वताम् । गुणानां मध्ये साम्यं सर्वत्र समत्वम् । गुणानां सत्त्वादीनां साम्यम् अव्याकृतं वा । गुणिनि धर्मिणि औत्पत्तिकः स्वाभाविको यो गुणः सोऽहम् ॥१०॥
सूत्रं प्रथम-कार्यम् । महत्-तत्त्वं महान् । सूक्ष्मोपाधित्वाद् दुर्ज्ञेयत्वाच् च जीवस्य सूक्ष्मत्वं—बुद्धेर् गुणेनात्म-गुणेन चैव आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः [श्वे।उ। ५.८] इति श्रुतेः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गतिः फलं शरणागतिर् वा ॥१०॥
सूक्ष्माणाम् इति सूक्ष्मता-पराकाष्ठां प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वम् । तद् अत्र न विवक्षितम्—महतां च इति । सूक्ष्माणाम् अपि इति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्तर्योक्तौ स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि सर्व-कारणत्वान् महत्-तत्त्वस्य महत्त्वं नाम व्यापकत्वं, न तु पृथिव्य्-आद्य्-अपेक्षया सुज्ञेयत्वं, यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यम् । श्रुतयश् च—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेशेति [मु।उ। ३.१.९] ।
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वे।उ। ५.९] इति ।
आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट [श्वे।उ। ५.८] इति च ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशेषतो विभूतीर् आह—अहम् इति । अत्र प्राकृताप्राकृत-वस्तु-सारा एव विभूतय उच्यन्ते । ताश् च क्वचिन् निर्धारण-षष्ठ्या, क्वचित् सम्बन्ध-षष्ठ्या, चास्मच्-छब्द-समानाधिकरणाः प्रथमान्ता द्वितीयान्ताश् च ज्ञेयाः । गतिमतां कर्मि-ज्ञानि-प्रभृतीनां गतिः प्राप्य-फलं, कलयतां वशीकुर्वतां मध्ये कालः । साम्यं प्रकृतिः । गुणिनि धर्मिणि औत्पत्तिकः स्वाभाविको यो गुणः सोऽहम् । यथा आकाशे शब्दः ॥१०॥
सूत्रं सूत्र-तत्त्वं प्राण इत्य् अर्थः । महतां महत्-तत्त्ववताम् अन्तःकरणानां मध्ये महांश् चित्तम् इत्य् अर्थः । जीव इति एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु।उ। ३.१.९] इति । बालाग्र-शतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः [श्वे।उ। ५.९] इति । आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः [श्वे।उ। ५.८] इत्य्-आदि श्रुतेः । अत्र जीवस्य परमाणु-प्रमाणत्वेऽपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं, जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य च शिरसि धृतस्य पूर्ण-देह-पुष्टीकरिष्णु-शक्तित्वम् इव न विरुद्धम् ॥११॥
———————————————————————————————————————
॥ ११.१६.१२ ॥
हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् ।
अक्षराणाम् अ-कारोऽस्मि पदानि च्छन्दसाम् अहम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पदानि वाच्यानि छन्दसाम् ।
स्व-यूथाणां अथाधिक्ये स्व-जातीनाम् अथापि वा ।
यत्-कारणं विभूत्य्-आक्यं विष्णोस् तद्-रूपम् उच्यते ॥ इति प्राधान्ये ।
वर्णेशानि पदान्य् आहुः पादाश् चापि तद्-ईश्वराः ।
पादाणां ईश्वरार्धर्चा तद्-ईशा ऋक्षु एव च ॥
ऋचाम् अधीशा वर्गाश् च तेषां सूक्तम् अधीश्वरम् ।
सूक्ताधीशास् तथाध्यायास् तद्-अधीशास् तथाष्टकाः ॥
तद्-अधीशास् तथा शाखा वेदाश् चापि तद्-ईश्वराः ।
वेदाणां ईश्वरा वाच्या वाच्याणां ईश्वरो हरिः ॥
न हरेर् ईश्वरः कश्चित् कदाचित् क्वापि विद्यते ॥ इति च ॥
पद्यन्ते इति पदानि वाच्यानि ।
पदं पद-सहस्रेण चेश्वरान् नापराध्यत इतिवत् ।
पदं तु वाचकं प्रोक्तं क्वचिद् वाच्यम् अपीष्यते ॥ इति शब्द-निर्णये ।
सर्वा वेदाभिमानिन्यो देव्यो लक्ष्मीस् ततोऽधिका ।
वेदाहिमानिनी साक्षात् सा विष्णोर् दूरतः स्थिता ॥
यज्ञाख्या सैव विष्णोस् तु या तूरु-स्थलम् आश्रिता ।
हरिणारतियोगस्था दक्षिणाख्यापि सैव तु ॥
उत्तरोत्तरतः सापि विशिष्टा दक्षिणा-मुखे ।
एवं वेदाभिमानिभ्यो देवीभ्यः सर्व एव उ ।
तद्-अर्थ-रूपाः पतयस् तस्यास् तस्यास् तथोत्तमाः ॥
शच्या इन्द्रस् तथा चोमा तस्या रुद्रस् ततस् तथा ।
भारती-प्राण एवास्यास् ततः श्रीस् तद्-वरो हरिः ॥ इति वैशिष्ट्ये ॥१२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वेदानां सम्बन्धी तेषाम् अध्यापकः । पदानि त्रिपदा गायत्रीत्य् अर्थः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सूक्ष्माणाम् इति सूक्ष्मता-पर-काष्ठां प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत् सूक्ष्मत्वं, तद् अत्र न विवक्षितम् । महतां चेति सूक्ष्माणाम् अपीति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्तर्योक्तौ स्वारस्य-भङ्गात् प्रपञ्च-मध्ये सर्व-कारणत्वान् महत्-तत्त्वस्य महत्-तत्त्वं नाम व्यापकत्वं, न तु पृथिव्य्-आद्य्-अपेक्षया सुज्ञेयत्वं यथा तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यं श्रुतयश् च—एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु।उ। ३.१.९] इति, बालाग्र-शत-भागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः [श्वे।उ। ५.९], आराग्र-मात्रो ह्य् अवरोऽपि दृष्ट [श्वे।उ। ५.८]इति च ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेदाणां वेदाध्यापकाणां मध्ये हिरण्यगर्भो ब्रह्मा । पदानि त्रिपदा गायत्रीत्य् अर्थः ॥१२॥
———————————————————————————————————————
॥ ११.१६.१३ ॥
इन्द्रोऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् ।
आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ऋते रुद्रादिकान् इन्द्रः सर्व-देवाधिकः स्मृतः ।
ऋते भीमं फल्गुनश् च पाण्डवेभ्यो वरस् तथा ॥
तथा शक्रः कवीशस् तु बृहस्पत्य्-आदिकान् ऋते ।
यमः संयमताम् ईशः शङ्करादीन् विनैव तु ॥ इति गीता-कल्पे ॥१३॥
अन्यैर् न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१६.१४ ॥
ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः ।
देवर्षीणां नारदोऽहं हविर्धान्य् अस्मि धेनुषु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हविर्धानी काम-धेनुः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१६.१५ ॥
सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् ।
प्रजापतीनां दक्षोऽहं पितॄणाम् अहम् अर्यमा ॥
न कतमेनापि व्याख्यातम् ।
———————————————————————————————————————
॥ ११.१६.१६ ॥
मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् ।
सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नक्षत्रौषधीनां प्रभुं सोमम् । यक्ष-रक्षसां प्रभुम् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१६.१७ ॥
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।
तपतां द्युमतां सूर्यं मनुष्याणं च भू-पतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यादसां प्रभुम् । तपतां तापयताम् । द्युमतां दीप्ति-मतां च मध्ये ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गजेन्द्राणां मध्ये यादसां तु प्रभुम् ॥१७॥
———————————————————————————————————————
॥ ११.१६.१८ ॥
उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् ।
यमः संयमतां चाहं सर्पाणाम् अस्मि वासुकिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संयमतां दण्डयताम् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संयमतां दण्डयताम् ॥१८॥
———————————————————————————————————————
॥ ११.१६.१९ ॥
नागेन्द्राणाम् अनन्तोऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् ।
आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमोऽनघ ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
गार्हस्थ्यं च यतित्वं च देव्ष्व् एकत्वम् आगतम् ।
प्राधान्योक्तिर् यतित्वस्य आर्हस्थ्यस्य क्वचित् क्वचित् ॥ इय् आश्रम-विवेके ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शृङ्गिणां दंष्ट्रिणां च मध्ये तेषां प्रभुर् वा । तुर्यः सन्न्यासः । प्रथमो ब्राह्मणः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शृङ्गिणां मध्ये मृगेन्द्रः कृष्णसारः । दंष्ट्रिणां मृगेन्द्रः सिंहः । तुर्यः सन्न्यासः । प्रथमो ब्राह्मणः ॥१९॥
———————————————————————————————————————
॥ ११.१६.२० ॥
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् ।
आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्-मताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्रोतसां प्रवाहाणां च । सरसां स्थिरोदकाशयानाम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरसां स्थिर-जलाशयानाम् ॥२०॥
———————————————————————————————————————
॥ ११.१६.२१ ॥
धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः ।
वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धिष्ण्यानाम् निवास-स्थानानाम् । गहनानां दुर्गमानाम् ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धिष्ण्यानाम् आश्रय-स्थानानाम् । गहनानां दुर्गमानाम् ॥२१॥
———————————————————————————————————————
॥ ११.१६.२२ ॥
पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।
स्कन्दोऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : वशिष्ठोऽभ्यधिकस् तेषु माणुषाणां पुरोधसाम् ॥ इति त्रैलोक्ये ॥२२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मिष्ठानां वेदार्थ-निष्ठानाम् । सेनान्यां चमूपतीनाम् । अग्रण्यां सन्-मार्ग-प्रवर्तकानाम् । अजो ब्रह्मा ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मिष्ठानां वेद-निष्ठानाम् । सेनान्यां चमू-पतीनाम् । अग्रण्यां श्रेष्ठानाम् । अजो ब्रह्मा ॥२२॥
———————————————————————————————————————
॥ ११.१६.२३ ॥
यज्ञानां ब्रह्म-यज्ञोऽहं व्रतानाम् अविहिंसनम् ।
वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुचीनां शोधकानाम् अपि मार्जन-तक्षण-घर्षणादीनां मध्ये वाय्व्-आदि-रूपः शोधकोऽहम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-यज्ञो वेद-पाठः । शुचीनां शोधकाणां मध्ये वाय्व्-अग्न्य्-आदि-रूपः । शुचिः शोधकोऽहम् ॥२३॥
———————————————————————————————————————
॥ ११.१६.२४ ॥
योगानाम् आत्म-संरोधो मन्त्रोऽस्मि विजिगीषताम् ।
आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : जीएशादि-भेद-वादी विकल्पः । ख्याति-वादिनां ज्ञान-वादिनाम् ।
जीवेशादि-विशेषं यो याथार्थ्येन प्रकल्पयेत् ।
कलिम् आरभ्य वा विष्णोर् आधिक्याद् उत्तरोत्तरम् ॥
नियमेनैव एनापि न हेयं न विकल्पकः ।
सर्व-ज्ञानि-विशेषेभ्यः स ज्ञानी सर्वर्थाधिकः ॥ इति विज्ञाने ।
भेद-दृष्ट्याभिमानेनेत्य् उक्तम् । विद्यात्मनि भिदा-बोधः1 [भा।पु। ११.१९.४०] इति च वक्ष्यति ॥२४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योगानां योगाङ्गानाम् अष्टानां मध्ये आत्म-संरोधः समाधिर् अहम् । मन्त्रो नीतिः । कौशलानां विवेकादि-नैपुणानां मध्ये आन्वीक्षिकी आत्मानात्म-विवेक-विद्या अख्यात्य् अन्यथाख्याति-शून्य-ख्यात्य्-असत्-ख्यात्य्-अनिर्वचनीय-ख्याति-वादिनाम् एवम् इदं वेति यो दुरन्तो विकल्पः सोऽहम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ख्याति-वादिनाम् इति । तथा हि—
आत्म-ख्यातिर् असत्-ख्यातिर् अख्यातिः ख्यतिर् अन्यथा ।
तथानिर्वचन-ख्यातिर् इत्य् एतत् ख्याति-पञ्चकम् ।
विज्ञान-शून्य-मीमांसा-तर्काद्वैत-विदां मतम् ॥ इति ।
तत्रान्तर्-वृत्ति-रूप-विज्ञान-परम्परैव तत्-तद्-विषयाकारतया बहिर् भासते स्वाप्निक-विषयवद् इति विज्ञान-वादिनः । ते च शुक्ति-रजतादाव् आत्म-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं विषयाकारकेऽपि वैशिष्ट्यासंसर्ग आत्म-ख्यातिर् इति विषयो रजतादि-वस्त्व् एवाकारो यस्य तस्मिन् विज्ञानेऽपि सति स्वप्नवद् एवान्ततो रजता-पादक-वैशिष्ट्याग्र-वैशिष्ट्याग्रहणम् आत्म-ख्यातिर् इत्य् अर्थः ।
अथ शून्याद् एव सर्वम् अविद्यया जायत इति शून्य-वादिनः । ते च शुक्ति-रजतादाव् अप्य् असत्-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं अलीक-पदार्थतया भासमानत्वम् असत्-ख्यातिर् इति । यथासद्-आख्यं शून्यम् एव शुक्त्य्-आत्मना भासते, तथा रजतात्मनापि भासते, किन्तु यत्र रजतादिकम् अर्थ-क्रिया-कारि न स्यात्, तत्रालीक-पदार्थतया व्यवह्रियत इत्य् अर्थः ।
अथ शुक्त्य्-आदि-परम्परा-रूपं रजतादि-परम्परा-रूपम् अपि वस्तु-जातम् अस्तीति मीमांसकाः । ते च शुक्ति-रजतादाव् अख्यातिं मन्यन्ते । तस्याश् च लक्षणं परस्पर-संश्लेषेण यज् ज्ञान-द्वयं तद् अख्यातिर् इति । विज्ञानानां च विज्ञेयानं च विवेकाग्रहणम् इति वा । इदन्ता-परामर्शेन शुक्त्य्-आदिकं गृह्यते । तत्ता-परामर्शेन तु रजतम् अभेदेन ग्रहणं तु मानस-दोषाद् इत्य् अर्थः ।
अथ द्व्य्-अणुकाद्य्-आरम्भेण तत्-तद्-द्रव्यं जायते इति तार्किकाः । ते च शुक्ति-रजतादाव् अन्यथा-ख्यातिं मन्यन्ते । तस्याश् च लक्षणम् अतद्वति तत्-संसर्गोऽन्यथा-ख्यातिर् इति पूर्ण-रजतादिक-धर्माभाववति शुक्त्य्-आदि-वस्तुनि पूर्ण-तद्-धर्मारोपोऽन्यथा-ख्यातिर् इत्य् अर्थः । विरुद्ध-प्रकारकं ज्ञानम् एक-वृत्त्यान्यथा-ख्यातिर् इति प्राचीन-तार्किकाः
अथ सर्वम् एव द्वैतम् अनिर्वचनीयम् इत्य् अद्वैत-वादिनः । ते च तस्य दृष्टान्ते शुक्ति-रजतादाव् अनिर्वचनीय-ख्यातिं मन्यन्ते । तस्याश् च लक्षणं सद्-असद्-भिन्नत्वे सति सद्-असद्-अनात्मकं ज्ञानम् अनिर्वचनीय-ख्यातिर् इति । ज्ञान-बाधितत्वात् सतो भिन्नः तथाप्य् आपातत उपलभ्यमानत्वाद् असतो भिन्नं तथात्वे सति सद्-असद्-अनात्मकं ज्ञानम् अनिर्वचीय-ख्यातिर् इत्य् अर्थः ।
स्व-मते तु "विकल्पः ख्याति-वादिनाम्" इत्य् उक्त्या ते च विकल्पा मम शक्ति-मया एवेति न परस्परम् अद्यापि व्युच्छिद्यन्ते, ततस् तत्-प्रतिपाद्यस्य शक्तेश् चाचिन्त्यत्वं विज्ञाप्य तन्-मयत्वात् सर्वत्राचिन्त्य-ख्यातित्वम् एव प्रतिपादितम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगानां योगाङ्गानाम् अष्टानां मध्ये आत्म-संरोधः समाधिर् अहम् । मन्त्रो विग्रहादि-प्रयोजकः । कौशलानां विवेक-सम्बन्धि-नैपुण्यानां मध्ये आन्वीक्षिकी आत्मानात्म-विवेक-विद्या । ख्याति-वादिनाम् इति—
आत्म-ख्यातिर् असत्-ख्यातिर् अख्यातिः ख्यतिर् अन्यथा ।
तथा निर्वचन-ख्यातिर् इत्य् एतत् ख्याति-पञ्चकम् ।
विज्ञान-शून्य-मीमांसा-तर्काद्वैत-विदां मतम् ॥
पञ्चाणां एएषां ख्याति-वादिनाम् एवम् इदम् एवं वेति यो दुरन्तो विकल्पः सोऽहम् ॥२४॥
———————————————————————————————————————
॥ ११.१६.२५ ॥
स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः ।
नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
शतरूपा वर-स्त्रीणां पुंसाम् अभ्यधिको मनुः ।
तयोर् अप्य् अधिकौ नित्यं इन्द्राणीन्द्रौ शुभैर् गुणैः ॥ इति वैशिष्ट्ये ॥२५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमारः सनत्-कुमारः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१६.२६ ॥
धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः ।
गुह्यानां सूनृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सन्न्यासो भूताभय-दानम् । क्षेमाणाम् अभय-स्थानानां मध्ये अबहिर्-मतिर् अन्तर्-निष्ठा । सूनृतं प्रिय-वचनं मौनं च । न हि प्रिय-भाषणे मौने च पुरुषस्याभिप्रायो ज्ञायते । अजः प्रजापतिः । यस्य देहार्धाभ्यां मिथुनम् अभूत्, स एव मुख्यं मिथुनम् । अर्धो ह वा एष आत्मनो यत् पत्नी इति श्रुतेः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्न्यासस् त्यागो दानम् इति यावत् । अबहिर्-मतिर् अन्तर्-निष्ठा । गुह्याणां मध्ये सूनृतं प्रिय-वचनं मौनं चेति, तद् द्वयं न पुंसोऽभिप्राय-ज्ञापकम् । अतोऽतिगुह्यम् इत्य् अर्थः । अजः प्रजापतिः । यस्य देहार्धाभ्यां मिथुनम् अभूत्, स एव मुख्यं मिथुनम् । अर्धो ह वा एष आत्मनो यत् पत्नी इति श्रुतेः ॥२६॥
———————————————————————————————————————
॥ ११.१६.२७ ॥
संवत्सरोऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ ।
मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिमिषाम् अनिमिषाणाम् अप्रमत्तानाम् । मधु-माधवौ वसन्त इत्य् अर्थः । अभिजिद् उत्तराषाढा-चतुर्थ-पादः श्रवण-प्रथम-पादश् च । तथा च श्रुतिः, अभिजिन् नाम नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस् ताच् छ्रोणायाः इत्य्-आदिः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायाम् अभिजिद् इत्य् आदौ उत्तरः श्रवणः आषाढा चोत्तराषाढा तयोश् चतुर्थः पाद इति व्याख्येयम् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिमिषाम् कालानां मध्ये वत्सरः मधु-माधवौ वसन्त इत्य् अर्थः । अभिजिद् उत्तराषाढा चतुर्थ-पादः श्रवण-प्रथम-पादश् च । तथा च श्रुतिः, अभिजिन् नाम नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस् ताच् छ्रोणायाः इत्य्-आदिः ॥२७॥
———————————————————————————————————————
॥ ११.१६.२८ ॥
अहं युगानां च कृतं धीराणां देवलोऽसितः ।
द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतं कृत-युगम् । देवलोऽसितश् च । व्यासानां वेद-विभाग-कर्तॄणाम् । कवीनां विदुषां काव्यः शुक्रः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कवीनां दण्ड-नीत्य्-आद्य्-आत्म-ज्ञान-पर्यन्त-शास्त्र-विदुषां मध्ये अहं काव्यः । यतोऽसौ आत्मवान् आत्मानात्म-विवेक-ज्ञः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृतं सत्य-युगं, देवलोऽसितश् च, काव्यः शुक्रः ॥२८॥
———————————————————————————————————————
॥ ११.१६.२९ ॥
वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् ।
किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ऐश्वर्यादि-गुणैः षड्भिः सामग्र्यात् सर्व-देवताः ।
भगवच्-छब्द-वाच्याश् च साक्षात् तु भगवान् हरिः ।
निरपेक्षं तु सामग्र्यं तस्य सर्वाधिकं यतः ॥ इति च ।
अतो भगवतां देवाणां ।
सर्व-भागवताधीश उद्धवो भगवत्-प्रियः ।
तस्माद् अभ्यधिको जिष्णुः प्रियत्वे भक्तितो हरेः ॥
तस्माद् अभ्यधिको रामः कृष्णा त्व् अभ्यधिका ततः ।
तस्या अभ्यधिको भ्ंईमो न तु तत्-सदृशः क्वचित् ॥ इति च ।
यत् किञ्चिद् आत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्र-गुणम् अप्य् एतत् त्वयि सम्भावयाम्य् अहम् ॥
धर्मो ज्ञानं तथा मोक्षो यशः कीर्तिस् तथैव च ।
तथ्यायत्वम् इदं सर्वं लोकस्यापि न संशयः ॥ इति भारते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवताम्—
उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ इत्य् एवं लक्षणानाम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवतां षड्गुण-युक्त-भगवद्-आविर्भावानां मध्ये वासुदेवश् चतुर्व्यूहान्तरस्यादि-रूपः अनेन स्वस्य ततोऽपि परत्वं दर्शितम् उत्पत्त्य्-आदि-युक्तानम् इति व्याख्यायां मुन्य्-आदित्वे प्राप्ते विजातीयत्वेन निर्धारणानुपपत्तेः ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासुदेवः प्रथम-व्यूहः ॥२९॥
———————————————————————————————————————
॥ ११.१६.३० ॥
रत्नानां पद्मरागोऽस्मि पद्म-कोशः सुपेशसाम् ।
कुशोऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःस्व् अहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपेशसां सुन्दराणाम् । दर्भ-जातीनां काश-दूर्वादीनाम् । हविःषु चरु-पुरोडाशादिषु घृतेषु वा ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रत्नानां पद्मरागोऽस्मीत्य् अनेन स्व-कौस्तुभस्य तज्-जातीयत्वं व्यञ्जितम् । अत एव क्रम-दीपिकायां कौस्तुभं भानुमन्तम् [क्र।दी। ३.११] इति तद् ध्यानम् दर्शितम् । इन्द्रनील-जातीयत्वं तु नारायण-व्यूह-स्तवे यत् तद् अन्यत्र ज्ञेयम्॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुपेशलां सुन्दराणाम् ॥३०॥
———————————————————————————————————————
॥ ११.१६.३१ ॥
व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः ।
तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्व-वताम् अहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लक्ष्मीर् धनादि-सम्पत् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लक्ष्मीः सम्पत्तिः । सत्त्वतां सात्त्विकानां सत्त्वम् ॥३१॥
———————————————————————————————————————
॥ ११.१६.३२ ॥
ओजः सहो बल-वतां कर्माहं विद्धि सात्वताम् ।
सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विष्णोः श्रियो ब्रह्मणश् च वायोः सङ्कर्षणस्य च ।
सुपर्णस्य च सम्प्रोक्ताः प्रत्येकं नव-मूर्तयः ॥
पूज्याः सात्वत-तन्त्रेषु तत्राद्या मूर्तयो हरेः ।
प्रधानास् ता हि सर्वासां मूर्तीनां हरि-मूर्तयः ॥
अभेदाद् एव मूर्तीनां एक-मूर्तिश् च सा स्मृता ॥ इति सहस्रावरणे ।
श्रियादि-नव-मूर्तीनां पूजा च नवधेयते ॥ इति च ।
अतो स्व-नव-मूर्तीनाम् अन्येभ्योऽन्य-नव-मूर्तीनाम् अपि प्राधान्य-कारणं सन्निधानम् आत्मनस् तास्व् अप्य् अस्तीति पुरेति विशेषणम् । प्रथम-पूज्यास् ता इत्य् अर्थः ।
नारायणः परं ब्रह्म वासुदेवादिकास् तथा ।
नरसिंह-वराहौ च परं ज्योतिर् हरेर् नव ॥
इन्दिरा च रमा लक्ष्मीर् हिरण्या गगना तथा ।
रक्ता रक्ततरा भूतिर् विभूतिश् च श्रियो नव ॥
ब्रह्मा चतुर्मुखो धाता विधाता विधिर् एव च ।
कर्ता विरिञ्चो भूतेशः शतानन्दश् च ता नव ॥
धनञ्जयम् ऋते चैव वायोस् तु नव मूर्तयः ।
शेषोऽनन्तो नरश् चैव लक्ष्मणो बल एव च ।
सङ्कर्षणो नील-वासा जगद्-रक्षो जलेशयः ।
सुपर्णो गरुडश् चैव वैनतेयो महाशनः ।
नव-वर्णः पञ्च-वर्णः पन्नगाशोऽमृताकरः ।
तथैव सर्व-वेदात्मा सुपर्णो नवधा स्मृतः ॥ इति च ॥३२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बलवताम् ओजश् च सहश् च । सात्वतां भागवतानां भक्त्या कृतं कर्माहम् इत्य् अर्थः । तेषाम् एव नव-व्यूहार्चने वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या नव-मूर्तयस् तासां मध्ये वासुदेवाख्या ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नवसु मूर्तिषु ब्रह्मायं साक्षाच्-छ्री-भगवद्-रूपः यः खलु तादृश-जीवासद्-भावे तत्-कर्मार्थं स्वयम् आविर्भवति यज्ञ-रूपेणेन्द्रवत् ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलवताम् ओजश् च सहश् च । सात्वतां वैष्णवाणां कर्म श्रवण-कीर्तनादिकं, तेषाम् एव नव-व्यूहार्चने वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या नव-मूर्तयः, तासां मध्ये आदि-मूर्तिर् वासुदेव-नाम्नी । अत्र स्वायम्भुवे मन्वन्तरे यथा विष्णुर् एवेन्द्रो यज्ञ-संज्ञोऽभूत्, तथैव क्वचिन् महा-कल्पे विष्ण्र् एव ब्रह्माभवद् इत्य् अतो वासुदेवादीनाम् अन्तिमो ब्रह्मा विष्ण्र् एव ज्ञेयः ॥३२॥
———————————————————————————————————————
॥ ११.१६.३३ ॥
विश्वावसुः पूर्व-चित्तिर् गन्धर्वाप्सरसाम् अहम् ।
भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
यस्य यस्य स्वभावो यस् तस्य नाम हरिः परः ।
नियामकः स्वभावस्य तत्-तच्-छब्दादि नामवान् ॥
वैशेषाख्या विभूतिश् च विभूतिश् च स्वभावजा ।
द्विधा विभूतिर् विज्ञेया विष्णोस् तु परमात्मनः ॥ इति च ॥३३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गन्धर्वाणां विश्वावसुः । अप्सरसां पूर्वचित्तिः । गन्ध-मात्रम् अविकृतम् ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीकायाम् अविकृतम् इति कुत्सितं व्यावर्तयति पुण्यो गन्धः पृथिव्यां च [गीता ७.९] इति श्री-गीताभ्यः । अपां रसश् च [भा।पु। ११.१६.३४]इत्य् उत्तरेभ्यश् च ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गन्धर्वाणां विश्वावसुः । अप्सरसां पूर्वचित्तिः । गन्ध-मात्रम् इति मात्र-पदोपादानात् । पुण्यो गन्धः पृथिव्यां च [गीता ७.९] इति श्री-गीताभ्यः ॥३३॥
———————————————————————————————————————
॥ ११.१६.३४ ॥
अपां रसश् च परमस् तेजिष्ठानां विभावसुः ।
प्रभा सूर्येन्दु-ताराणां शब्दोऽहं नभसः परः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परमो मधुरः परः पराख्य-शब्दः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमो मधुर इत्य् अत्रापि कट्व्-आदि-रस-व्यावृत्तिः । परः श्रेष्ठ-शब्दोऽतिमधुरः परः पराख्यो वा ॥३४॥
———————————————————————————————————————
॥ ११.१६.३५ ॥
ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः ।
भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्जुनः पार्थः । भूतानां प्राणिनां प्रतिसङ्क्रमः प्रलयः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिसङ्क्रमः प्रलयः ॥३५॥
———————————————————————————————————————
॥ ११.१६.३६ ॥
गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षणम् ।
आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गत्य्-आदयः पञ्च कर्मेन्द्रिय-व्यापाराः । स्पर्शादयो ज्ञानेन्द्रिय-व्यापाराः । तत्र लक्षणं दर्शनम् । सर्वेन्द्रियाणाम् इन्द्रियं तत्-तद्-अर्थ-ग्रहण-शक्तिर् अप्य् अहम् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वेन्द्रियाणाम् इन्द्रियम् इति तच्-छक्ति-हेतुर् इत्य् अर्थः । चक्षुषश् चक्षुर् [के।उ। १.२] इत्य्-आदि श्रुतेः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गत्य्-आदयः पञ्च कर्मेन्द्रिय-व्यापाराः । स्पर्शादयो ज्ञानेन्द्रिय-व्यापाराः । तत्र लक्षणं दर्शनम् । सर्वेन्द्रियाणाम् इन्द्रियम् इति चक्षुषश् चक्षुर् [के।उ। १.२] इत्य्-आदि श्रुतेः, तत्-तद्-अर्थ-ग्रहण-शक्तिर् अप्य् अहम् ॥३६॥
———————————————————————————————————————
॥ ११.१६.३७ ॥
पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ।
अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सत्त्वादि-नाम विष्णोस् तु सत्त्वदि-स्थस्य केवलम् ।
जीवस्थस्य च तन्-नाम जीवादेर् उपचारतः ॥ इति च ॥३७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं तत्र तत्र निर्धारणेन तत् तत् सम्बन्धेन च विशेषतो विभूतीर् निरूप्येदानीं सामान्यतः सर्वा अपि निरूपयति—पृथ्वीति सार्ध-द्वयेन । पृथिव्य्-आदि-शब्दैस् तन्-मात्राणि विवक्षितानि । अहम् अहङ्कारः । महान् महत्-तत्त्वम् । एताः सप्त प्रकृति-विकृतयः । विकारः पञ्च-महा-भूतानि एकादशेन्द्रियाणि चेत्य् एवं षोडश-सङ्ख्याकः । पुरुषो जीवः । अव्यक्तं प्रकृतिः । एवं पञ्च-विंशति-तत्त्वानि । तद् उक्तम्—
मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त ।
षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ इति ।
किं च, रजः सत्त्वं तम इति प्रकृतेर् गुणाश् च परं ब्रह्म च । तद् एतत् सर्वम् अहम् एव । किं चैतत् प्रसङ्ख्यानम् एतेषां परिगणनम् एतेषां लक्षणतो ज्ञानं च तत् फलं तत्त्व-निश्चयश् चाहम् एव ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पृथिवीति सार्धकं परं ब्रह्म चेति । ब्रह्मणोऽपि स्व-विभूतित्वं दर्शितं युक्तं च तत् । विशिष्टतयाविर्भावाच् छ्री-भगवतो धर्मि-रूपत्वम् अविशिष्टतयाविर्भावाद् ब्रह्मणो धर्म-रूपत्वं च । ततः पूर्वस्य मण्डल-स्थानीयत्वम् इति भावः । अत्र श्री-विष्णु-पुराणम् अपि सम्प्रवदते— शुभाश्रयः स चित्तस्य सवर्गस्य तथात्मनः [वि।पु। ६.७.७६] इति । व्याख्यातं च तत्रापि स्वामिभिः—स-वर्गस्यात्मनः पर-ब्रह्मणोऽप्य् आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । अत्र च तैर् व्याख्यातम् । ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । इति ।
श्री-मत्स्य-देवेनापि तथैवोक्तं—मदीयं महिमानं च परं ब्रह्मेति शब्दितम्[भा।पु। ८.२४.३८] इति ब्रह्म-संहितायां च—
यस्य प्रभा प्रभवतो जग-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।सं। ५.४०] इति ॥
श्री-यामुनाचार्य-चरणैर् अपि—
यद् अण्ड-मण्डान्तर-गोचरं च
यद् दशोत्तराण्य् अवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म ते विभूतयः ॥ इति ॥
अत एवाह श्री-ध्रुवः—
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ इति [भा।पु। ४.९.१०]
अत एव श्री-भगवद्-गुणेनात्मारामाणाम् अप्य् आकर्षणं सम्भवति, यथा आत्मारामाश् च मुनय [भा।पु। १.७.११] इत्य् आदौ स्व-सुख-निभृत-चेता[भा।पु। १२.१२.६८] इत्य् आदौ दृष्टश् च, तथैव श्री-व्यास-नारद-संवादः प्रथमे अत्र विशेषः श्री-भगवत्-सन्दर्भे दृश्यः ॥३७॥ (भगवत्-सन्दर्भः ८६)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं तत्र तत्र निर्धारणेन तत्-तत्-सम्बन्धेन च विभूतीर् निरूप्य इदानीं पुनर् अपि सामान्यतः सर्वा निरूपयति—पृथिवीति सार्ध-द्वयेन । पृथिव्य्-आदि-शब्दैस् तन्-मात्राणि विवक्षितानि । अहं अहङ्कारः, महान् महत्-तत्त्वं, एताः सप्त प्रकृति-विकृतयः । विकारः पञ्च-महा-भूतानि, एकादशेन्द्रियाणि चेत्य् एवं षोडश-सङ्ख्याकः । पुरुषो जीवः । अव्यक्तं प्रकृतिः । एवं पञ्च-विंशति-तत्त्वानि । तद् उक्तम्—
मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त ।
षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ इति ।
किं च, रजः सत्त्वं तम इति प्रकृतेर् गुणाश् च परं ब्रह्म च । तद् एतत् सर्वम् अहम् एव । एतत् प्रसङ्ख्यानम् एतेषां परिगणनम्, एतेषां लक्षणतो ज्ञानं च, तत्-फलं तत्त्व-निश्चयश् चाहम् एव ॥३७॥
———————————————————————————————————————
॥ ११.१६.३८ ॥
मयेश्वरेण जीवेन गुणेन गुणिना विना ।
सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव सङ्क्षिप्याह—मयेति । जीवेश्वर-रूपो द्वि-विधो यो भावो यश् च गुणि-गुण-रूपो यश् च क्षेत्र-ज्ञ-क्षेत्र-रूपः स सर्वोऽपि मया विना मद्-व्यतिरेकेण नास्ति, अहम् एव सर्वम् इत्य् अर्थः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भया विना भावः पदार्थ-मात्रं क्वचिन् न विद्यते । सर्व-कारणं मां विना तस्य शश-शृङ्गादि-गणान्तः-पातात् ।
ननु महत्-स्रष्टृ-पुरुषादि-लक्षणेश्वरादयः कारणानि सन्ति । ततस् तैर् एव तत् सेत्स्यति ? तत्राह—मयेवेश्वरादि-रूपेणेत्य् अर्थः । कारणव्यतिरेके कार्य-व्यतिरेकाद् इति भावः । अनेनानन्त-कोटि-ब्रह्माण्डेश्वरावस्थातोऽपि स्वस्य परत्वं दर्शितं यथैवोक्तं श्री-गीतासु ईश्वरः सर्व-भूतानाम् [गीता १८.६१] इत्य्-आदिभिः ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थं किञ्चिद् विशिष्य सङ्क्षिप्याह—ईश्वरेण जीवेन च विना चेतनात्मको भावो न विद्यते, गुणेन सत्त्वादिना गुणिना महद्-आदिना च विना जडात्मको भावो न । सर्वेषां आत्मना व्यष्टि-समष्टिय्-उपहितेन जीवेन सर्वेण व्यष्टि-रूपोपाधिना च विना । चिज्-जडात्मको भावो नास्ति, स सर्वोऽपि मया विना नास्तीत्य् अहम् एव सर्वम् इत्य् अर्थः ॥३८॥
———————————————————————————————————————
॥ ११.१६.३९ ॥
सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।
न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : कालेन सर्व-[गुण]{।मर्क्}केन मया असङ्ख्यत्वात् तथा न क्रियते, माविज्ञानात् ॥३९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सामान्यतः किम् एवं सङ्क्षिप्य कथयसि पूर्ववन् निर्धारण-सम्बन्धाभ्यां विशेषतः सर्वाः कथयेति चेत् तत्राह—सङ्ख्यानं पृथिव्य्-आदि-परमाणूनां कालेन महता तद् अपि मयैव क्रियते कृत्वा च वक्तुं शक्यते, तथा मे विभूतीनां सङ्ख्यानं कर्तुं न शक्यते । कुतः ? इत्य् अत आह—सृजतोऽण्डानीति । यदा मया सृज्यमानानां ब्रह्माण्डानाम् एव तावत् सङ्ख्या नास्ति, तदा कुतस् तद् गतानां विभूतीनां सङ्ख्येत्य् अर्थः ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कालेन सर्वान्तर्यामिणा मया सङ्ख्यानं पृथिव्य्-आदि-परमाणुनां सङ्ख्यानं क्रियते ज्ञायत इत्य् अर्थः । सर्वज्ञत्वाद्य्-अव्यभिचाराद् इति भावः । तथापि मे विभूतीनां सङ्ख्यानं न तथेति तासाम् अनन्तत्वाद् इति भावः । कृ-धातोः सर्व-धात्व्-अर्थानुगतत्वात् तथा व्याख्यातम् । शिष्ट-कीर्ति सहस्र-नामवत् तत्रास्तु तावन्-महा-वैकुण्ठेश्वर-रूपस्य मम ब्रह्माण्ड-कोटि-स्रष्ट्र्-अवस्थस्यापि न ज्ञायत इत्य् आह—सृजत इति ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सामान्यतः किम् एवं सङ्क्षिप्य कथयसि पूर्ववन् निर्धारण-सम्बन्धाभ्यां विशेषतः सर्वाः कथयेति चेत्, तत्राह—सङ्ख्यानं पृथिव्य्-आदि-परमाणूनां कालेन महता तद् अपि मयैव क्रियते । इति कृत्वा वक्तुं शक्यते, तत्रापि मे विभूतीनाम् इति एतावत्य एव मे विभूतय इति विशिष्य मयापि वक्तुं न शक्यत इत्य् अर्थः । कुतः ? इत्य् अत आह—सृजतोऽण्डानीति । यदा मया सृज्यमानानाम् अण्डानाम् एव तावत् सङ्ख्या नास्ति, तदा कुतस् तद् गतानां विभूतीनां सङ्ख्येत्य् अर्थः ॥३९॥
———————————————————————————————————————
॥ ११.१६.४० ॥
तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः ।
वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेऽंशकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि विशेषत एव सर्वा अपि सङ्क्षेपतः कथयामीत्य् आह—तेजः प्रभावः । श्रीः सम्पत् । सौभगं मनो-नयनाह्लादकत्वम् । भगो भाग्यम् । वीर्यं बलम् । अंशको विभूतिः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं त्व् एवं रीत्या विशेषतोऽपि सर्वा विभूतयो वक्तुं शक्या इत्य् आह—तेजः प्रभावः । श्रीः सम्पत् । सौभगं मनो-नयनाह्लादकत्वम् । भगो भाग्यम् । वीर्यं बलम् । अंशको विभूतिः ॥४०॥
———————————————————————————————————————
॥ ११.१६.४१ ॥
एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।
मनो-विकारा एवैते यथा वाचाभिधीयते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यथा वाचाभिधीयतेऽनयिर् नामादिकं जीवादीनां ते सर्वे शब्दा मनो-विकाराः ।
स्वतो मय्य् एव सर्व-शब्दास् तस्मान् मय्य् एव वाचं यच्छ ।
आत्मानं परमात्मानं मय्य् एव लक्ष्यत्वेन यच्छ ॥
यो मयि न संयच्छति तस्य ज्ञानं स्रवति ।
वाङ्-मनः प्राण-बुद्ध्य्-आदीन् नियच्छेत् केशवे परे ॥
सर्व-शब्दाभिधेयत्वं तस्य ज्ञात्वा विशेषतः ।
मुख्य-वृत्त्याभिधेयत्वम् अन्येषां मनसो भ्रमात् ।
तस्मात् तथा चिन्तयतः स्रवेज् ज्ञानं यथा तथा ॥
तस्मान् मनो वचः प्राणान् माधवैक-परायणान् ।
कुर्यात् तद् धि तपो ग्राह्यं महा-धर्मोत्तमश् च सः ॥ इति धर्म-विवेके ।
यच्छेत् वाङ्-मनसी प्राज्ञस् तद् यच्छेज् ज्ञानम् आत्मनि ।
ज्ञानम् आत्मनि महति तद् यच्छेच् छान्त आत्मनि ॥ इति च ॥४१-४३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—एता इति । एते च विभूति-भेदा मयि चित्तावताराय कल्पिताः । अतो नात्रातीवाभिनिवेशः कर्तव्य इत्य् आह—मनो-विकारा एव, न तु परमार्थाः । यथा किञ्चित् स्व-पुष्पादि वाङ्-मात्रेणाभिधीयते, तत्-तुल्याः ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एता इति । छत्रि2-न्यायेन परमात्मादीनां मनो-विकारत्वाभावात् । यद् वा, एता विभूतयः सङ्क्षेपेण कीर्तिता अपि सामान्य-विशेषाभ्यां सर्वा एव कीर्तिताः । तत्र ते पौरुषेय-प्रमाणातीताः परमात्म-वासुदेव-नारायण-पर-ब्रह्म-रूपा अपि कीर्तिताः, किन्तु एते पौरुषेय-प्रमाण-गोचराः सर्व-भूतादयस् तु मनो-विकारा एव । मच्-छक्ति-लेशाभासावेशित्वेन मनसैव मन्यमानाः, यथा राजाश्रिते राजत्वं वाचा गौण्या वृत्त्याभिधीयते, तत्-तुल्याः, न तु परमात्मादिवद् यथावद् रूपा इत्य् अर्थः ।
यद् वा, मनो विकारयन्तीति मनो-विकाराः, तर्हि कथं स्व-विभूतित्वेन निःश्रेयस-हेतुत्वम् उपदिश्यते ? तत्राह—यथेति । यथा येन मद्-गुणांशाभिव्यक्ति-प्रकारेण वाचा मन्-निगम-लक्षणयाभिधीयते प्रतिपाद्यते तथा तत्-प्रकारेणैव ते मान्याः, न बहिर्-दृष्ट्येत्य् अर्थः ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—एता इति । सर्वाः सामान्य-भूता विशेष-भूताश् च कीर्तिता एव, किन्तु एते प्रसिद्धा लोकेषु दृश्यमाना मनसो विकाराः, स्नेह-द्वेषाभिमानादयो यथा येन प्रकारेण वर्तन्ते, तथा तेनैव प्रकारेणाभिधीयन्ते, तत्र तत्र लोकैर् अभिधीयन्ते, न तु मद्-विभूतित्वेऽपि यत्र यस्य मनसः स्नेह-मयो विकारस् तत्र तेन, अयं मे पुत्र इति, अयं मे पितेति, अयं मे पितृव्य इति, अयं मे भ्रातुष्पुत्र इति, अयं मे मित्रम् इत्य् एवम् एवाभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । तथा यत्र द्वेष-मयो मनो-विकारस् तत्रायं ममापकर्ता इति—अयं ममापकार्य इति, अयं द्वेष्टा इति, अयं द्वेष्य इति, अयं हन्तेति, अयं वध्य इत्य् एवम् अभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । एवम् इन्द्रो विशेषतो मद्-विभूतिर् अपि, शच्या मद्-भर्तेति, अदित्या मत्-पुत्र इति, जयन्तेन मत्-पितेति, बृहस्पतिना मच्-छिष्य इति, असुरैर् अस्मद्-द्वेष्टेत्य् एवम् एवाभिधीयते, न त्व् अयं भगवद्-विभूतिर् इति । निष्परिग्रहैर् मद्-भक्तैस् तु सर्वत्रैवायं भगवद्-विभूतिर् इत्य् एवाभिधीयत इति । अप्राकृत-विभूतिस् तु विभूतित्वेन पुत्र-भ्रात्रादित्वेन अवध्यायतां सर्वथैव कृतार्थम् एव, तत्-तद्-अवतार-तत्-तत्-परिकराणां तथा-दृष्टत्वात् विभूतयः इत्य् अनूद्य, मनो-विकारा इति विधीयते इति न व्याख्येयं, विभूति-मध्य एव श्री-वासुदेवादीनां तथा निर्विशेष-ब्रह्मणश् च परिपठितत्वात्, तेषाम् अपि खपुष्पायमाणस् ते सति शून्यवाद-प्रसक्तेः । श्लोकेऽप्य् अत्र एत इतस्य वैयर्थ्याच् च ॥४१॥
———————————————————————————————————————
॥ ११.१६.४२ ॥
वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च ।
आत्मानम् आत्मना यच्छ न भूयः कल्पसेऽध्वने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् वगादीन् नियच्छ । आत्मानं बुद्धिम् आत्मना सत्त्व-सम्पन्नया तयैव नियच्छ । अध्वने संसार-मार्गाय ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : बहिर्-दृष्टिम् एव सर्वथा वारयति । वाचम् इति द्वाभ्याम् । तस्मान् मनो-विकार-मय-वाग्-आदिकं नियच्छेत्य् अर्थः । आत्मानं बुद्धिः सत्त्व-सम्पन्नया तयैव आत्मना नियच्छ अध्वने संसार-मार्गाय ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतः सर्व एव पदार्था मद्-विभूतयः, ततः सर्व एव वाचा मनसा कायेनापि सम्माननीया एव, न तु केऽपि तिरस्करणीया इत्य् आह—वाचम् इति । तथा च पुनः पुनर् उक्तिः—
अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ इति ।
आत्मानं बुद्धिं आत्मना सात्त्विक्या तयैव बुद्ध्या नियच्छ, अध्वने संसार-मार्गाय ॥४२॥
———————————————————————————————————————
॥ ११.१६.४३ ॥
यो वै वाङ्-मनसी सम्यग् असंयच्छन् धिया यतिः ।
तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : असंयमने दोषम् आह—य इति । असंयच्छन्न् असंयच्छति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यतिरेके दोषम् आह—य इति ॥४३॥
———————————————————————————————————————
॥ ११.१६.४४ ॥
तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः ।
मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परिसमाप्यते कृत-कृत्यो भवतीत्य् अर्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वयम् एव तथैव स्पष्टयन्न् उपसंहरति—तस्माद् इति । मयि श्री-कृष्ण-रूपे परमात्मादि-रूपे वा भक्तिः या श्रद्धा तद्-युक्तया बुद्ध्या अहम् एव वचो-मन-आदीनां परम् अयनम् आश्रयो यस्य तथा-भूतः सन्, प्राकृत-वच-आदीन् नियच्छेत् तत ऊर्ध्वं न किञ्चिज्-ज्ञानादिना कृत्यम् अस्तीत्य् अर्थः ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिसमाप्यते कृत-कृत्यो भवतीत्य् अर्थः ॥४४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे षोडशोऽपि सङ्गतः सङ्गतः सताम् ॥ईश्वर्॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
श्री-भगवद्-उद्धव-संवादे महा-विभूतिः
षोडशोऽध्यायः ।
॥११.१६॥