॥ ११.१५.१ ॥
श्री-भगवान् उवाच
जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः ।
मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः पञ्चदशे प्रोक्ताः सिद्धयो धारणानुगाः1 ।
श्री-विष्णु-पद-सम्प्राप्ताव् अन्तरायतया मताः ॥
एवं मनो युञ्जतो योगिनोऽन्तराविर्भवन्त्यः सिद्धयोऽप्य् अन्तराय-प्राया एव । अतस् ताः परिहृत्य परमेश्वर-पर एव भवेद् इति वक्तुं सिद्धीर् आह—जितेन्द्रियस्येति । युक्तस्य स्थिर-चित्तस्य ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अणिमाद्याः सिद्धयोऽष्टौ दश गौणास् तथापराः ।
धरणोत्थाः पञ्चदशे योग-विघ्नतयोदिताः ॥
एवं मनो युञ्जतो योगिनोऽन्तराविर्भवन्त्यः सिद्धयोऽप्य् अन्तराय-प्राया एव । अतस् ताः परिहृत्य परमेश्वर-पर एव भवेद् इति वक्तुं सिद्धीर् आह—जितेन्द्रियस्येति । युक्तस्य स्थिर-चित्तस्य ॥१॥
———————————————————————————————————————
॥ ११.१५.२ ॥
श्री-उद्धव उवाच
कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत ।
कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्विद् इति वितर्के । का स्वित् किं नामा ? कथं स्वित् कीदृशी वा ? धारणश् च कतीति प्रश्नान्तरे वा-शब्दः । त्वम् एवैतज् जानासि नान्य इत्य् आशयेनाह—योगिनाम् इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वित् प्रश्ने वितर्के ॥२॥
———————————————————————————————————————
॥ ११.१५.३ ॥
श्री-भगवान् उवाच—
सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पार-गैः ।
तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धारणाश् चाष्टादशेत्य् अनुषङ्गः । योग-पारगैर् इति । त्रि-काल-ज्ञत्वादि-क्षुद्र-सिद्धीर् अन्येऽपि जानन्तीति भावः । अहम् एव प्रधानं मुख्यः स्वभावत आश्रयो यासां ताः। मत्-सारूप्यं प्राप्तेषु किञ्चिन् न्यूना भवन्तीति भावः । गुण-हेतवः सत्त्वोत्कर्ष-हेतुकाः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-प्रधाना इति । स्वरूप-शक्ति-वृत्ति-विशिष्टत्वेनोपामानान् मत्त एव मत्-पार्षदवत् स्वरूप-शक्त्य्-अंश-भूतानां तासाम् आविर्भावात् । अन्यत्र तु तद्-आभासानाम् एवेति ज्ञेयम् । गुण-हेतव इति । मद्-उपहितत्वेनोपास्यमानेभ्योऽपि तत्-कार्येभ्य एव तद्-अंशानां तेषां प्रापञ्चिक-जनेष्व् आविर्भावात् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धारणाश् चाष्टादशेत्य् अनुषङ्गः । मत्-प्रधाना अहम् एव प्रधानानां मुख्यः स्वभावत आश्रयो यासां ताः। मयि ताः पूर्णा एव मत्-स्वरूप-शक्त्य्-उत्थत्वाद् अमायिक्यः । अन्यत्र साधन-वशात् किञ्चिन्-न्यूना मायिक्य एव प्रायो भवन्तीति भावः । अन्या ऊर्मि-राहित्यादयो दश गुण-हेतवः सत्त्वादि-गुण-हेतुका एव ॥३॥
———————————————————————————————————————
॥ ११.१५.४ ॥
अणिमा2 महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः ।
प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताः स्वरूपेणोपदिशति—अणिमेति सार्धैः पञ्चभिः । अणिमा महिमा लघिमा च मूर्तेर् देहस्य तिस्रः सिद्धयः । प्राप्तिर् नाम सिद्धिः । सर्व-प्राणिनाम् इन्द्रियैः सह तत्-तद्-अधिष्ठातृ-देवता-रूपेण सम्बन्ध इत्य् अर्थः । श्रुतेषु पार-लौकिकेषु दृष्टेषु दर्शन-योग्येष्व् अपि सर्वेषु भू-विवरादि-पिहितेष्व् अपि प्राकाश्यं3 भोग-दर्शन-सामर्थ्यं सिद्धिः। शक्तीनां माया-तद्-अंश-भूतानां प्रेरणम् । तत्रेश्वरे मायाया अन्येषु तद्-अंशानां प्रेरणम् ईशिता नाम सिद्धिः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अणिमेति युग्मकम् । अणिम्ना भवत्य् अणुः, यतः शिलाम् अपि प्रविशति । महिम्ना महान् भवति, यतः सर्वं व्याप्नोति । लघिम्ना लघुर् भवति, यतः सूर्य-मरीचीर् अवलम्ब्य सूर्य-लोकं याति । प्राप्त्या अङ्गुल्य्-अग्रेण स्पृशति चन्द्रमसं प्राकाम्यम् इच्छानभिघातः, यतो भूमाव् उन्मज्जति निमज्जति यथोदकम् । ईशित्वं, यतो भूत-भौतिकानां प्रभव-स्थिति-व्ययानाम् ईष्टे । व्यूहो मेलनम् । वशित्वम् उपस्थितेषु दृष्टानुश्रविक-विषयेषु यतमानादि-संज्ञादि-त्रय-वैराग्यादिकम् । कामावसायित्वं सत्य-सङ्कल्पता, यथास्य स्व-सङ्कल्पो भवति, तथैव भूतानि भवन्तीति साङ्ख्य-कौमुद्यां वाचस्पति-मिश्राः अस्माच् छ्री-भगवन्-मतं तु यद् विलक्षणं लक्ष्यते तत् प्राकृताप्राकृतयोर् भेदाद् इति गम्यते । टीकायां भोग-दर्शनेन भोग-प्राप्तिर् उच्यते अनुदर्शनं प्राप्तिर् इत्य् उत्तरानुरोधात् क्रिया-मय-सूत्रोपाधि-साधनत्वेन वक्ष्यमाणात् । अतः प्राकाम्यम् इत्य् एव पाठः सङ्गच्छते । प्राकाश्यम् इति तु चिन्त्यः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तास्व् अष्टसु मध्ये अणिमा महिमा लघिमा चेति तिस्रः सिद्धयो मूर्तेर् देहस्य। इन्द्रियैः सेन्द्रियैः सर्वेन्द्रिय-प्रविष्टैर् अभीष्ट-सर्व-विषय-प्राप्तिर् इति प्राप्तिर् नाम सिद्धिः । श्रुतेषु दर्शनायोग्येषु दृष्टेषु दर्शन-योग्येष्व् अपि सर्वेषु भू-विवरादि-पिहितेष्व् अपि भोग-दर्शन-सामर्थ्यं प्राकाम्यं नाम सिद्धिः । शक्ति-प्रेरणं जीवेषु स्व-शक्ति-सञ्चारणं ईशिता नाम सिद्धिः ॥४॥
———————————————————————————————————————
॥ ११.१५.५ ॥
गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति ।
एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
शक्ति-प्रेरणम् एवेशितृत्वं असङ्ग एव वशित्वम् ।
यादृशानन्द-कामः स्यात् तादृशानन्द-सम्भवः ।
भोगान् विनैव प्राकाम्यम् अणिमादेः पृथक् ततः ॥ इति च ॥५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विषय-भोगेष्व् असङ्गो वशिता सिद्धिः । यत् कामो यद् यत् सुखं कामयते, तत् तद् अवस्यति तस्य तस्य सीमानं प्राप्नोतीति सिद्धिः । औत्पत्तिकाः स्वाभाविक्यो निरतिशयाश् चेत्य् अर्थः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यत्-काम इति कामावसायिता-नाम्न्याः सिद्धेर् अर्थः । ममौत्पत्तिकत्वान् निरतिशयाश् चेति ज्ञेयम् ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणेष्व् असङ्गं विषय-भोगेष्व् अप्य् अनासक्तिर् वशिता नाम सिद्धिः । यत्-कामो यद् यत् सुखं कामयते, तत् तद् अवस्यति तस्य सीमानं प्राप्नोतीत्य् अष्टमी कामावसायिता नाम सिद्धिः । औत्पत्तिकाः स्वभाविक्यो निरतिशयाश् च ॥५॥
———————————————————————————————————————
॥ ११.१५.६ ॥
अनूर्मिमत्त्वं देहेऽस्मिन् दूर-श्रवण-दर्शनम् ।
मनो-जवः काम-रूपं पर-काय-प्रवेशनम् ॥
स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् ।
यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः ॥
त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता ।
अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भोऽपराजयः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अनूर्मिमत्त्वं प्राकाम्ये\ऽन्तर्भूतम् । दूर-श्रवण-दर्शनं त्रिकालज्ञत्वम् । परिचिताद्य्-अभिज्ञता च प्रकाश्यान्तर्भूतानि । मनोजव इत्य्-आदि षट्कं प्राप्त्य्-अन्तर्भूतम् । अन्यत् सर्वम् ईशित्वान्तर्भूतम् अपि । परमेशत्वाभावे पृथग् इत्य् अष्टादश । अग्न्य्-अर्त्काम्बु-विषादीनाम् इत्य्-आदि-शब्दोक्ताः शस्त्रास्त्र-नख-दन्त-ताडन-शापादिभिर् अप्रतिहतिः पृथग् एव सिद्धिः सप्तदशीः अप्रतिहता आसमन्ताद् गतिर् यस्या आज्ञायाः सा प्रतिहता गतिः ।
अद्वन्द्व-प्रतिहतं त्रिकालज्ञत्वम् । अग्न्य्-अर्काम्बु-विषाणां प्रतिस्तम्भाश् चतस्रः सिद्धयः । दूर-श्रवण-दर्शने द्वे सिद्धी ।
गरिम्णः सैव हेतुः स्यान् महिमा-हेतुर् धारणा ।
प्रायोऽष्त-सिद्धि-कथनेष्व् अथो न पृथग् उच्यते ॥ इति च ।
प्राप्तिः प्राकाश्ययोश् चापि धरणैकापि सम्भवे ।
अत ऐक्येन ताव् उक्तौ गरिमाणं पृथक् क्वचित् ॥ इति च ।
मूल-भूतास् तु सिद्धीनां देवानां अष्ट-सिद्धयः ।
सर्व-सिद्धि-प्रधानास् तज्जा अष्टादश स्मृताः ।
अष्टस्व् अन्तर्गतास् तास् तु तद्-अपेक्षतयाल्पकाः ॥ इति च ।
काम-रूपत्वस्याणिमादि त्रयेऽप्य् अन्तर्भावोऽष्ट-सिद्धि-पक्षे अग्न्य्-अर्क-स्तम्भ एकैव सिद्धिः अदाहत्वात् । अग्न्य्-आदि-प्रतिष्टम्भस्य वशित्वेऽपि । अनूर्मिमत्त्वाद् अष्टादश-पृथक्-सिद्धि-पक्षे अग्न्य्-अर्क-स्तम्भयोः पृथक्त्वम् । तस्मिन् पक्षे तासां सकाशात् प्रधानाष्टौ मत्-प्रधाना इति व्याख्या ।
अनूर्मिमत्त्व-सिद्धिस् तु प्राकाम्यान्तर्गता मता ।
दूर-श्रुतिर् दूर-दृष्टिस् त्रिकालज्ञत्वम् एव च ॥
पर-चित्ताद्य्-अभिज्ञानं प्रकाश्यान्तर्गतानि च ।
अणिमादि त्रयान्तश् च काम-रूपत्वम् इष्यते ॥
अग्न्य्-अर्काम्बु-विषादीनां प्रतिस्तम्भो वशित्वत्वः ।
मनोजवः काम-रूपं परकाय-प्रवेशनम् ॥
स्वच्छन्द-मृत्युता देवैः सह क्रीडेष्ट-साधनम् ।
प्राप्ताव् अन्तर्गतान्य् आहुर् आज्ञा प्रतिहतिस् तथा ॥
अग्नि-स्तम्भो रवि-स्तम्भो उदक-स्तम्भ एव च ।
विष-स्तम्भस् तथा शस्त्र-शापादि-स्तम्भ एव च ।
ईशत्वान्तर्गतान्य् आहुर् अपराजय एव च ।
एवम् अष्टादशाष्तभ्यो जायन्ते सिद्धयः क्रमात् ॥
अनूर्मिमत्त्वं दुःखस्याभाव-मात्रम् उदाहृतम् ।
यथेषानन्द-सम्प्राप्तिः प्राकाम्यम् इति कीर्त्यते ॥
दुःखाभावोऽपि प्राकाम्ये नेतरे सुखितेष्यते ।
प्राकाश्यं सर्व-वेदादि ज्ञानम् एव विदो विदुः ॥
सहस्र-योजनान्ते तु दूर-दर्शनम् इष्यते ।
दूर-श्रवणम् अप्य् एवं तस्मिन्न् एव युगे स्थिते ॥
वेदादिकं विना प्रोक्तं त्रिकाल-ज्ञानिता बुधैः ।
शरीर-स्थं विना देहे पर-चित्ताद्य्-अभिज्ञता ।
अन्येन्द्रियैर् दर्शनादि-यथा-सङ्कल्प-वेगिता ॥
प्राप्तिर् इत्य् उच्यते सद्भिः स्व-मनः सम-वेगिता ।
मनोजव इति प्रोक्तः पश्व्-आद्य्-आकारता तथा ।
काम-रूपत्वम् उद्दिष्टं स्व-देह-त्यागतः परे ।
पर-काय-प्रवेशः स्यात् युगाद् अर्वाक्तना स्मृता ।
स्वच्छन्दं मृत्युता देवैः क्रीडा च्नेद्रादिभिर् विना ।
यथा सङ्कल्प-सिद्धिश् चाप्य् अन्न-पान-सुतादिषु ।
चक्षुर् दृश्येष्व् अणुत्वं तु अणिमा सम्प्रकीर्तिता ॥
महिमा चापि सम्प्रोक्ता त्रिलोकान्तर-पूरणात् ॥
चक्षुर् दृशेऽपि बाह्यत्वं लघिमा सम्प्रकीर्तिता ।
त्रिलोक-सम-भारस् तु गरिमा चापि कीर्तिता ।
पूर्व-शक्तेः कोटि-गुण-शक्त्य्-उद्रेकस् तथेशिता ।
भुविष्टैः प्राणिभिश् चोक्त-करणं चापि कीर्त्यते ।
आज्ञाप्रतिहतिर् ब्राह्माद् अर्वाग् अस्त्र-निपातनम् ।
विना महातपस्वींश् च शापा प्रतिहतिः स्मृताः ।
अप्राजयो मनुष्येभ्यो वशित्वं चाप्य् अलोलता ।
दाहादि-सहनं चापि प्रतिस्तम्भ इतीर्यते ।
इति षड्विंशतिः प्रोक्ता गरिमा सह सप्तधा ।
विंशतिश् च सुरेभ्योऽन्यद् देवेष्व् अष्टैव सिद्धयः ।
यतो निःसीमकास् तेषां देवानाम् अष्ट-सिद्धयः ।
अतोऽष्टादश-सिद्धीनां तद्-अन्तर्भाव इष्यते ।
देवेश्वीन्द्रेश-वायु-श्री-विष्णूनाम् उत्तरोत्तरम् ।
सिद्धयः परिपूर्णास् तु विष्णोर् एकस्य नान्यगाः ॥ इत्य् ऐश्वर्ये ।
श्रुतेषु तु यथा योगं क्षिप्र-ग्रहणम् एव तु ।
उक्तं प्राकाश्यम् अन्येषां देवानां अश्रुतेष्व् अपि ॥
ऋषीणां मिश्र-भावेन भासते किञ्चिद् अश्रुतम् ।
विशेष्सर्वेभ्योऽधिक-सुख-व्यक्तिः प्राकाम्यम् एव तु ॥
इतरेषां सुराणां तु निःसीमानन्द्-भोजनम् ।
एवम् एव तु निःसीमा देवानां अष्ट-सिद्धयः ।
उत्तरोत्तरम् अत्रापि यावद् विष्णु-सुपर्ण-भुक् ॥ इति हरि-वंशेषु ।
अग्न्य्-आदि-शक्ति संसम्भस् त्व् अग्नि-संस्तम्भ इष्यते ॥ इति कौर्मे ।
एकस्मात् सिद्धयो विष्णोः स्थान-भेदात् पृथग्-विधाः ।
एकास्थान-गताद् वा स्युः सुस्थिरोपासना यदि ॥ इति भारते ॥६-८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुण-हेतु-सिद्धीर् आह—अनूर्मिमत्त्वं क्षुत्-पिपासादि-राहित्यम् । दूरे श्रवणं दर्शनं चेति द्वे सिद्धी । मनो-वेगेन देहस्य गतिः । कामित-रूप-प्राप्तिः । पर-काये प्रवेशः ॥६॥
स्वेच्छा-मृत्युः । अप्सरोभिः सह देवानां याः क्रीडास् तासाम् अनुदर्शनं प्राप्तिः । सङ्कल्पानुरूप-प्राप्तिः । अप्रतिहता आसमन्ताद् गतिर् यस्याः सा आज्ञा चेत्य् एता दश ॥७॥
क्षुद्र-सिद्धीश् च पञ्चाह—त्रि-काल-ज्ञत्वम् इति । अद्वन्द्वं शीतोष्णाद्य्-अनभिभवः । अग्न्य्-आदीनां संस्तम्भनम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अनूर्मिमत्त्वम् इति सार्धत्रिकम् ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-निबन्धना दश सिद्धीर् आह—अनूर्मिमत्त्वं क्षुत्-पिपासादि-षड्-ऊर्मि-राहित्यम् । दूर-श्रवण-दर्शनम् इति दूर-श्रवणं दूर-दर्शनम् इति द्वे सिद्धी इत्य् एके, एकैवेत्य् अन्ये । मनो-जवः मनो-वेगेन देहस्य गतिः । काम-रूपं कामित-रूप-प्राप्तिः॥६॥
अप्सरोभिः सह सह देवानां याः क्रीडास् तासाम् अनुदर्शनं प्राप्तिः । यथा-सङ्कल्प-संसिद्धिः सङ्कल्पित-पदार्थ-प्राप्तिः । इयं किञ्चित् कायिकादि-प्रयत्न-सापेक्षेति कामावसायिता-भेदः कल्प्यः । अप्रतिहता आज्ञा गतिश् चेत्य् एकैव सिद्धिर् इत्य् एके, अप्रतिहताज्ञत्वम् अप्रतिहत-गतित्वम् इति द्वे सिद्धी इत्य् अपरे ॥७॥
क्षुद्र-सिद्धीश् च पञ्चाह—त्रिकालज्ञत्वम् इति । अद्वन्द्वं शीतोष्णाद्य्-अनभिभवः अग्न्य्-आदीनां स्तम्भनम् ॥८॥
———————————————————————————————————————
॥ ११.१५.९ ॥
एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः ।
यया धारणया या स्याद् यथा वा स्यान् निबोध मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-तद्-धारणाभिः सह विशेषतो निरूपयति—ययेति यावत् समाप्ति ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ययेत्य् अर्धकम् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.१५.१० ॥
भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः ।
अणिमानम् अवाप्नोति तन्-मात्रोपासको मम ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : भूत-सूक्ष्माणाम् आत्मनि परमाणु-स्थितेऽनुरूपे ।
तन्-मात्रावयवे सूक्ष्मे परमाण्व्-अभिधानके ।
प्रत्येकम् अणु-रूपं तु विष्णुं ध्यायन्न् आणुर् भवेत् ॥ इति च कापिलेये ।
आकाशवत् सूक्ष्मतां यो व्यापित्वेनैवम् आप्यते ।
तन्मात्र-व्यापिनं विष्णुं चिन्तयन् स तथा भवेत् ॥ इति च ॥१०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूत-सूक्ष्मोपाधौ मयि तन्-मात्रं भूत-सूक्ष्माकारम् । स तन्-मात्रोपासकः । मम मदीयम् अणिमानम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भूत-सूक्ष्मादयो वैकुण्ठादि-गताः स्वरूप-शक्ति-विलासा ज्ञेयाः । तासाम् अष्टाव् इत्य् आदाव् उभयेषां भेदेनावश्य-व्यवस्थाप्यत्वात् । तन्-मात्रोपासको ममेति पुनर् उक्तेस् तद्-अवधारणार्थत्वाच् च अणिमानम् इत्य् अत्रापि ममेत्य् अन्वयः किन्त्व् अणिमादिकम् इदम् अंशेनैव ज्ञेयम् । जगद्-व्यापार-वर्जम् [वे।सू। ४.४.१७] इति न्यायेन सर्वथा तद्-धर्म-प्राप्त्य्-असम्भवात् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूत-सूक्ष्मात्मनि भूत-सूक्ष्मोपाधौ मयि तन्-मात्रं भूत-सूक्ष्माकारम् । स तन्-मात्रोपासकः । मम मदीयम् अणिमानं परमाण्व्-आकारतां सिद्धिं यया शिलाम् अपि प्रवेष्टुं शक्नोति ॥१०॥
———————————————————————————————————————
॥ ११.१५.११ ॥
महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् ।
महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : महति व्याप्ते महत्-तत्त्वस्य पृथग् उक्तेः अस्मात् स्थूलतां प्राप्नुवानीत्य् अपेक्षायां तस्मात् प्राप्नोति । ततोऽन्यस्माद् इत्य् अपेक्षायां तस्माद् इति पृथक् पृथक् ॥११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञान-शक्ति-महत्-तत्त्वोपाधौ मयि यथा-संस्थं महत्-तत्त्वाकारम् । भूतानां चेति । आकाशादि-भूतोपाधौ च मयि मनो धारयंस् तत्-तद्-भूत-महिमानं प्राप्नोतीत्य् अर्थः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : महिमानं तत्-तच्-छक्त्य्-अलङ्कृत-मूर्तित्वम् इत्य् अर्थः । भूतानां वेति महत्-तत्त्व-धारणायाम् एतद् अपीच्छाया अवान्तर-फलं भवतीत्य् अभिप्रायात् ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महत्य् आत्मनि ज्ञान-शक्ति-महत्-तत्त्वोपाधौ मयि यथा-संस्थं महत्-तत्त्वाकारम् । महिमानं परम-महद्-आकारतां यया सर्वम् अपि व्याप्तुं शक्नोति । भूतानां चेति आकाशादि-भूतोपाधौ च मयि मनो धारयंस् तत्-तद्-रूपं महिमानं प्राप्नोतीत्य् अर्थः ॥११॥
———————————————————————————————————————
॥ ११.१५.१२ ॥
परमाणु-मये चित्तं भूतानां मयि रञ्जयन् ।
काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : परमाणु-मये भूतानां सकाशाद् अतिशयेनानुरूपे । काल-सूक्ष्माणाम् आत्मनि॥१२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वाय्व्-आदि-भूतानां ये परमाणवस् तन्-मये तद्-उपाधौ मयि चित्तं रञ्जयन् योगी काल-सूक्ष्मार्थतां काल-परमाणूपाधि-रूपताम् इति लघुत्व-विवरणम् । तद् उक्तम्, स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् इति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भूतानां मध्ये यः परमाणुर् भाव4-शून्याकाश-परम-सूक्ष्मांशस् तद्-उपाधिके मयि चित्तं रञ्जयन् योगी लघिमानं भार-शून्यत्वम् अवाप्नोति। तम् एव दर्शयति—कालस्य यः सूक्ष्मांशः परमाणुस् तस्यार्थ उपाधिः परम-सूक्ष्म-देशावच्छिन्नाकाशः, तद्-रूपतां तद्वद् अतिलघुताम् इत्य् अर्थः । आत्मेति पाठे आत्मा देह उपाधिर् इत्य् अर्थः ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमाणु-मये वाय्व्-आदि-भूतानां ये परमाणवस् तन्-मये तद्-उपाधौ मयि चित्तं रञ्जयन् काल-सूक्ष्मार्थतां कालस्य यः सूक्ष्मांशः परमाणुः, से एवार्थ उपाधिर् यस्य तत् तां तद्वद् अतिलघुत्व-रूपं लघिमानम् । तद् उक्तम्, स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् इति ॥१२॥
———————————————————————————————————————
॥ ११.१५.१३ ॥
धारयन् मय्य् अहं-तत्त्वे मनो वैकारिकेऽखिलम् ।
सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अहं-तत्त्व-स्थिते मयि ॥१३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैकारिकाहङ्कारोपाधौ मयि । अखिलम् एकाग्रम् । आत्मत्वम् अधिष्ठातृत्वम् । अत्र हेतुः—मन्-मनाः । मयि मनो-धारण-प्रभावाद् एवं भवति, नात्रातीव हेतुर् अनुसन्धेय इति भावः । एवं मद्-धारणानुभावेन मद्-योग-बलम् आश्रय इत्य्-आदिषु द्रष्टव्यम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकारिके शुद्ध-सत्त्व-मये ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वैकारिकाहङ्कारोपाधौ मयि । अखिलम् एकाग्रम् । आत्मत्वम् अधिष्ठातृत्वम् । अत्र हेतुः—मन्-मनाः । मयि मनो-धारण-प्रभावाद् एवं भवति, नात्रातीव हेतुर् अनुसन्धेय इति भावः । एवं मद्-धारणानुभावेन मद्-योग-बलम् आश्रय इत्य्-आदिषु द्रष्टव्यम् ॥१३॥
———————————————————————————————————————
॥ ११.१५.१४ ॥
महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् ।
प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्त-जन्मनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सूत्रे स्थिते मयि । गृहे पीठ इतिवत् । अव्यक्त-जन्मनः अव्यक्तस्यापि किञ्चित् स्थूलत्व-कर्तुः । तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विज-सत्तम इति मोक्ष-धर्मेषु । अजराद् अमराद् अमूर्तितः शाश्वतात् तमसः इति च । अव्यक्तस्याजन्मवतो विकारो जनिर् उच्यते इति हरि-वंशेषु । सकाशान् मे विन्दते परमेष्ठि-प्रसादाद् अन्येषां भवतीति पारमेष्ठ्यम् । सर्व-गुणानां ज्ञान-मूलत्वाद् उपलक्षणत्वेन प्राकाश्यं पारमेष्ठ्यम् इत्य् उक्तम् । सर्वे गुणास् तु प्राण-परमात्म-प्रसादतः ।
प्राण-विष्णोः प्रसादेन भारत्याः सम्प्रकीर्तिताः ।
प्रसादात् तु त्रयाणां वाप्य् अनन्तादेः सदा गुणाः ॥ इति माहात्म्ये ॥१४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रिया-शक्ति-प्रधानं महत्-तत्त्वम् एव सूत्रं तद्-उपाधौ मयि स मे पारमेष्ठ्यं सर्वोत्कृष्टं प्राकाश्यं विन्दते । कथं-भूतस्य ? अव्यक्ताज् जन्म यस्य तस्य सूत्रस्य । तद्-उपाधेर् ममेत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अव्यक्तम् इन्द्रियागम्यं जन्म प्रादुर्भावो यस्य तस्य मम । यद् वा, व्यक्तं जगति च प्रकटम् इत्य्-आदि ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रिया-शक्ति-प्रधानं महत्-तत्त्वम् एव सूत्रं तद्-उपाधौ मयि प्राकाम्यम् ऐश्वर्यं विन्दते । तद् एव किं पारमेष्ठ्यं परमेष्ठिनो भावः, पारमेष्ठ्यं कथं-भूतस्य मे अव्यक्त-जन्मनः अव्यक्ताज् जन्म यस्य तस्य सूत्रस्य । सूत्रोपाधेर् इत्य् अर्थः ॥१४॥
———————————————————————————————————————
॥ ११.१५.१५ ॥
विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे ।
स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्वत्राधीश्वरत्वादौ विद्यमानेऽपि तत्रोक्ताधीश्वरत्वादि-गुण-विशिष्टत्वेन तत्र तत्रोपासनम् इति शेषः । तं यथा यथोपासते तद् एव भवति इति श्रुतेः ।
उपासतः सत्य इति सत्य-सङ्कल्पता भवेत् ।
ईश्वरत्वम् ईश्वर इति गुणं तं तं यथा हरिम् ॥ इति विशेषे ॥१५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्र्यधीश्वरे त्रि-गुण-माया-नियन्तरि । अत एव काल-विग्रहे आकलयितृ-रूपे ऽन्तर्यामीति । ईशित्वं विशिनष्टि—क्षेत्र-ज्ञानां जीवानां क्षेत्राणां तद्-उपाधीनां च चोदनां प्रेरणं, न तु विश्व-सृष्ट्य्-आदि-कर्तृत्व-लक्षणम् इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अधीश्वरे त्रि-गुण-माया-नियन्तरि काल-विग्रहे कालः कलयिता द्रष्टा तत्-स्वरूपे। ईशित्वं विशिनष्टि—क्षेत्र-ज्ञानां जीवानां क्षेत्राणां तद्-उपाधीनां च चोदनां प्रेरणं, तत्र तत्र स्व-शक्ति-सञ्चारणम् इत्य् अर्थः ॥१५॥
———————————————————————————————————————
॥ ११.१५.१६ ॥
नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते ।
मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुरीयाख्ये—
विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।
ईशस्य यन्त्रिभिर् हीनं तुरीयं तत् पदं विदुः ॥
इत्य् एवं-लक्षणे—
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीरणा ॥
तद्वति भगवच्-छब्द-शब्दिते ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुरीयाख्ये—
विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।
ईशस्य यन्त्रिभिर् हीनं तत् तुरीयं प्रचक्षते ॥
इत्य् एवं तुरीय आख्या यस्य तस्मिन्न् इत्य् अनेन भगवच्-छब्द-शब्दित इत्य् अनेन च नारायणस्य तुरीयत्वे षडैश्वर्यवत्त्वे च मनसा धार्यमाणे सत्य् एवेति भावः । अयम् अर्थः—यस्य स्थूलं सूक्ष्मं चेति कार्य-द्वयं नोपाधिः । कारणं माया च नोपाधिः किन्तु तुरीयं सच्चिदानन्द-वस्तु आख्या आख्यागम्य आकारो यस्य तस्मिन् नारायणे । स च केन शब्देनोच्यते ? तत्राह—भगवच्-छब्द-शब्दितम् । वशितां गुणेष्व् असङ्गम् ॥१६॥
———————————————————————————————————————
॥ ११.१५.१७ ॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दम् आप्नोति यत्र कामोऽवसीयते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र परमानन्द-रूपे सर्वोऽपि कामस् तद्-अंश-भूतोऽवसीयते समाप्यते तम्॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्गुणे ब्रह्मणीति । ब्रह्म-सायुज्यम् अपि सिद्धि-मध्ये गणितम् ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वोऽपि कामो यत्रावसीयते समाप्यते तं परमानन्दं ब्रह्म-सायुज्यम् इति सन्दर्भः॥१७॥
———————————————————————————————————————
॥ ११.१५.१८ ॥
श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि ।
धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : शुद्धः श्वेतः सुखी श्वेतः श्वेत-वर्णः क्वचिद् भवेद् इति शब्द-निर्णये ॥१८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः परं गुण-हेतुकाः सिद्धीर् आह—शुद्धे सत्त्वात्मके । श्वेततां शुद्ध-रूपताम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः परं प्राकृत-धर्मोपाधितयोपास्यमानत्वाद् गुण-हेतुत्वं स्वतः शुद्धे गुणातीते उपाधितस् तु धर्म-मये सात्त्विक-धर्माधिष्ठातरि श्वेततां शुद्धतां रजस्-तमो-हीन-सत्त्वात्मताम् ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः परं गुण-हेतुकाः । श्वेततां शुद्ध-रूपताम् इत्य् ऊर्मिमत्त्व-नाम्नी सिद्धिः ॥१८॥
———————————————————————————————————————
॥ ११.१५.१९ ॥
मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् ।
तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आकाशस्यात्मनि तत्राकाशे उपलब्धानां आसमन्तात् स्थितानां भूतानां वचः । हंसो जीवः ।
त्यागात् पूर्व-शरीराणां नवानां सञ्चयेन च ।
जीवं हंस इति प्राहुस् तद्-धेतुत्वाद् धरिं परम् ॥ इति भारते ॥१९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आकाशात्मा यः प्राणः समष्टि-रूपस् तद्-रूपे मयि मनसा घोषं नादं चिन्तयन्न् असौ हंसो जीवस् तत्राकाशे उपलब्धा ज्ञाता सन् तत्र-स्था विचित्रा वाचः शृणोति । यद् वा, तत्राकाशे उपलब्धा अभिव्यक्ता या वाचस् ता दूरतः शृणोतीति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मयीति । तैः तत्र विचित्रा वाच इत्य् अत्र भूतानाम् इवेति ज्ञेयम् ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकाशात्मा यः प्राणः समष्टि-व्यष्टि-रूपस् तद्-रूपे मयि । मनसा घोषं नादं उद्वहन् चिन्तयन्, तत्राकाशे उपलब्धा अभिव्यक्ता या भूतानां वाचस् ता दूरतो हंसः शुद्धः सन् शृणोतीति दूर-श्रवणम् ॥१९॥
———————————————————————————————————————
॥ ११.१५.२० ॥
चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुसि ।
मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वष्टा आदित्यस् तस्मिन्न् अपरिच्छिन्ने चक्षुः संयोज्य तं च चक्षुषि संयोज्य तत्रोभय-संयोगे मां ध्यायन् विश्वं दूरतः पश्यति ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वष्टा सूर्यस् तस्मिन्न् चक्षुः संयोज्य, चक्षुषि तं संयोज्य, तत्रोभय-संयोगे मां ध्यायन् विश्वं सर्वं दूर-स्थितम् अपि पश्यतीति दूर-दर्शनम् ॥२०॥
———————————————————————————————————————
॥ ११.१५.२१ ॥
मनो मयि सु-संयोज्य देहं तद्-अनुवायुना ।
मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मनसि मनस्-तत्त्वे वायूनां संयोज्य मनोऽनुदेहं मनस्-तत्त्वे मद्-धारणात् ॥२१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो देहं च तद्-अनुवर्तिना वायुना सह मयि सुसंयोज्य या मद्-धारणा क्रियते तस्याः प्रभावेण यत्र मनो याति तत्रात्म देहो यातीत्य् अर्थः । यद् वा, मनः कर्तृ आत्मानं वायुना सह देहं च मयि सुसंयोज्य यत्र याति तद् अनु तत्र देहो यातीति ॥२१॥।
जीव-गोस्वामी (क्रम-सन्दर्भः) : मन इति तैः । तत्र मयि मनोऽधिष्ठातरीति ज्ञेयम् ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनो मयि संयोज्य तद्-अनुवर्तिना वायुना सह देहं च संयोज्य या मद्-धारणा क्रियते, तस्याः प्रभावेण यत्र आत्मा मनो याति तत्रैवात्मा स्थूल-देहोऽपि यातीति मनो-जवः ॥२१॥।
———————————————————————————————————————
॥ ११.१५.२२ ॥
यदा मन उपादाय यद् यद् रूपं बुभूषति ।
तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
गजादि-रूपम् आकाङ्क्षन् गजादि-स्थितम् ईश्वरम् ।
ध्यायन् गजादि-रूपः स्यात् परकाय-स्थितं हरिम् ॥
ध्यायन् विशेत् परे काये वायाव् अन्तर्गतः पुमान् ।
प्राण-नामा हरिः प्रोक्तस् तस्मिन् वायुः समाश्रितः ॥
वायाव् अन्तर्गतो जीवो देहाद् देहं प्रयास्यति ।
षड्-आधार-स्थितं विष्णुं ध्यायन् आयु-क्षयं विना ॥
यदि मृत्युम् अभीप्सते तथा प्राप्नोत्य् असंशयम् ।
त्रिकाल-प्रेरकं विष्णुं ध्यातुः काल-त्रय-ज्ञता ।
अग्न्य्-आदिषु हरिं ध्यायन् तत्-प्रतिस्तम्भको भवेत् ॥ इति हरि-संहितायम् ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : मन उपादाय उपादान-कारणं कृत्वा यद् यद् देवादि-रूपं भवितुम् इच्छति तत् तन् मनो-रूपं मनसोऽभीष्ट-रूपं योगी भवेत् । कुतः ? यतो मद्-योग-बलम् । योऽहम् अचिन्त्य-शक्तिर् नानाकारस् तस्मिन् मयि मनसो योगो धारणा, तस्य बलं प्रभावः, स एवाश्रयः कारणम् ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन उपादाय उपादान-कारणं कृत्वा यद् देवादि-रूपं भवितुम् इच्छति तत् तन् मनो-रूपं मनसोऽभीष्ट-रूपं भवेत् । तत्र मयि योगो योग-धारणा तस्य बलं प्रभाव एव आश्रयः साधकम् इति काम-रूपम् ॥२२॥
———————————————————————————————————————
॥ ११.१५.२३ ॥
पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् ।
पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मानं परमात्मानं तत्र पर-काये भावयेत् । तदा वायौ स्थितः प्राणः परमात्मा तत्र गच्छति । तद् अनु जीवोऽपि गच्छति । वायौ भूतो वायु-भूतः । प्राणं परे ब्रह्मणि नीत्वा ॥२३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र प्रविविक्षति तत्रात्मानं चिन्तयेत् । ततः पिण्डं स्व-देहं हित्वा प्राणः प्राण-प्रधान-लिङ्ग-शरीरोपाधिर् वायु-भूतो बाह्य-वायौ भूतः प्रविष्टस् तेन मार्गेणेत्य् अर्थः । षड्-अङ्घ्रि-वत् भृङ्गो यथा पुष्पात् पुष्पान्तरम् अनायासेन प्रविशति तद्वत् ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानम् इति मद्-अधिष्ठित-प्राणाद्य्-उपाधिम् इति शेषः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र पर-काये पिण्डं स्थूल-देहं हित्वा प्राणः प्रधान-लिङ्ग-शरीरोपाधिः सन् वायु-भूतो बाह्य-वायुना भूतः प्राप्तः, विशेत् पर-कायं प्रविशेत् । षडङ्घ्रिर् यथा पुष्पात् पुष्पान्तरं विशति, मद्-योग-धारणा-प्रभावेणेति योज्यम् इति पर-काय-प्रवेशः ॥२३॥
———————————————————————————————————————
॥ ११.१५.२४ ॥
पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु ।
आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
प्राणस्थं प्राण-नामानं वहिष्ठे ब्रह्म-नामके ।
विष्णुं विष्णाव् अनुस्मृत्य विसृजेद् देहम् अञ्जसा ॥ इति प्रभञ्जने ।
अनेयस्य हरेर् नीतिस् तद्-गतस्य हरेः स्मृतिः ।
न हि नेयः क्वचित् क्वापि केनचित् स्व-वशत्वतः ॥ इति च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पिण्डं हित्वेत्य् उक्तं तत् प्रकारं कथयन् स्वच्छन्द-मृत्युम् आह—पार्ष्ण्या पार्ष्णिना गुदं निरुध्य प्राणं प्राणोपाधिम् आत्मानं ब्रह्म-रन्ध्रेण मूर्ध-द्वारेण । ब्रह्मेत्य् उपलक्षणम् । ब्रह्म वा अन्यद्वा अपेक्षितं स्थानं मनसा नीत्वा ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पार्ष्ण्या पार्ष्णिना गुदं निरुध्य प्राणं प्राणोपाधिम् आत्मानं ब्रह्म-रन्ध्रेण मूर्ध-द्वारेण । ब्रह्म निर्विशेषं सविशेषं वा नीत्वा प्रापय्य तनुं त्यजेद् इति स्वच्छन्द-मृत्युः ॥२४॥
———————————————————————————————————————
॥ ११.१५.२५ ॥
विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् ।
विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्-स्थं मन्-मूर्ति-रूपं शुद्धं सत्त्वं चिन्तयेत् । तदा सत्त्व-वृत्तयः सत्त्वांश-भूताः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-स्थम् इति । अहम् एव स्थानम् आश्रयो यस्य तत् । मद्-उपाधि-रूपं सत्त्वं देवाद्य्-उद्भव-हेतु-सत्त्व-वृत्ति-विशेषं चिन्तयेत् । तद् एवाह—सत्त्व-वृत्तीर् इति ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वं स्वीयान्तःकरणं, मत्स्थं मद्-गतं चिन्तयेत् । ततश् च सत्त्व-वृत्तीः सत्त्व-वृत्तयः सुर-स्त्रियस् तम् आगत्य सेवन्ते इति देव-क्रीडा-प्राप्तिः ॥२५॥
———————————————————————————————————————
॥ ११.१५.२६ ॥
यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् ।
मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा व अकालेऽपि । यथा वेति पाठे, यथा वा येन केनापि प्रकारेण बुद्ध्या सङ्कल्पयेत्, तत् तथा यथावत् प्राप्नोतीत्य् अर्थः । यद् वा, यथा सङ्कल्पयेद् यथा वा मत्-परो मयि विश्वासवान् भवति, तथा तद्-अनुरूपं सर्वम् आप्नोतीत्य् अर्थः । किं कुर्वन् ? सत्ये सत्य-सङ्कल्पे मयि मनो युञ्जन् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यदा वेत्य् अत्र यथा वेति पाठे यद्-उपाधित्वेन ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदा व अकाले कालेऽपि वेत्य् अर्थः । यथा वेति पाठे यथा सङ्कल्पयेत् यथा येन वा प्रकारेण मत्-परः स्यात् । सत्ये सत्य-सङ्कल्पे मयि तथा तेनैव प्रकारेण तत्-स्वाभीष्टं वस्तु प्राप्नोतीति सङ्कल्प-सिद्धिः ॥२६॥
———————————————————————————————————————
॥ ११.१५.२७ ॥
यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् ।
कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : मम भावना मद्-भावः । भावो मनश् च भक्तिश् च क्वचिद् अभ्यासयिष्यते इति शब्द-निर्णये ॥२७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मद् इति पृथक् पदम्, ममेत्य् अर्थः । ईशितुः सर्व-नियन्तुर् वशितुः स्व-तन्त्रस्य मम भावं स्वभावं प्राप्तः । एता गुण-हेतवः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-भावं मद्-भावनाम् । ईशितुः संसार-नियन्तुः । वशितुस् तस्य स्वतन्त्रस्य चेति तद्-उपाधित्वं दर्शितम् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत् मत्तः सकाशाद् भावं ध्यानातिशयेन ईशितृत्वं वा । मत्तः कीदृशात् ? ईशितुः वशितुः सर्वान् वशीकर्तुः, न विहन्येत न विहता भवेद् इत्य् अप्रतिहताज्ञत्वम् ॥२७॥
———————————————————————————————————————
॥ ११.१५.२८ ॥
मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः ।
तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः परं क्षुद्राः । धारणा-विद इति त्रि-काल-ज्ञेश्वर-धारणा सूचिता त्रैकालिकी त्रि-काल-वस्तु-विषया । स्व-जन्म-मृत्युभ्याम् उपबृंहिता तत्-सहिता । अनयैव पर-चित्ताद्य्-अभिज्ञतापि व्याख्याता ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः परं गुण-हेतुत्वेऽपि क्षुद्राः धारणेति जगत्-सृष्टि-स्थिति-प्रलय-कालज्ञेश्वर-धारणोच्यते । जन्म-मृत्यूपबृंहितेति जन्मभिर् मृत्युभिर् नापगच्छतीत्य् अर्थः ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः परं क्षुद्राः । धारणा-विद इति त्रि-काल-ज्ञेश्वर-धारणा सूचिता । त्रैकालिकी त्रि-काल-विषया । जन्म-मृत्यूपबृंहिता जन्म-मरणयोर् वृत्तयोर् अपि उपबृंहिता वृद्धिम् एव प्राप्ता भवति, न तु किञ्चिद् अपि ह्रसतीत्य् अर्थः । इति त्रिकालज्ञत्वम् ॥२८॥
———————————————————————————————————————
॥ ११.१५.२९ ॥
अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः ।
मद्-योग-शान्त-चित्तस्य5 यादसाम् उदकं यथा6 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्न्य्-आदि-सर्वोपघात-शून्यो भगवान् इत्य् एवं-भूत-योग-मयम् । तैर् नाभिभूयेत । अत्र हेतुः, मद्-योगेति । यादसाम् उदकं यथाभिघातकं न भवति तथा तस्य वपुषोऽग्न्य्-आदय इत्य् अर्थः । अनयैवाद्वन्द्वतापि व्याख्याता ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-योग-शान्त-चित्तस्य मद्-धारणेन ध्यान-योगेन शान्तम् अविकृतं चित्तं यस्य तस्य । श्रान्त-चेतसः इति पाठे तु मद्-योगेन श्रान्तं कृत-श्रमं कृताभ्यासं चेतो यस्य तस्य ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्न्यादि-सर्वोपघात-शून्यो भगवान् इत्य् एवं-भूत-ध्यान-योगेन शान्त-चित्तस्य मुनेर् योगमयं योग-परिपक्वं वपुर् अग्न्य्-आदिभिर् न हन्येत । यथा यादसाम् उदकम् उपसङ्हातकं न भवति, प्रत्युत क्रीडास्पदम्, तथैव तस्याग्न्य्-आदय इत्य् अग्न्य्-आदि-प्रतिष्टम्भः ॥२९॥
———————————————————————————————————————
॥ ११.१५.३० ॥
मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः ।
ध्वजातपत्र-व्यजनैः7 स भवेद् अपराजितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-विभूतीर् ममावतारान् । ध्वजादिभिः सह ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-विभूतीर् इति । मद्-विभूतीनां मध्ये यां काञ्चित् तां च जगत्य् अपराजयोपाधिम् इत्य् अर्थः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मद्-विभूतीर् मद्-अवतारान् । स-ध्वजादिभिः सहितो भवेत् । अपराजितश् च भवेद् इत्य् अपराजय-नाम्नी सिद्धिः ॥३०॥
———————————————————————————————————————
॥ ११.१५.३१ ॥
उपासकस्य8 माम् एवं योग-धारणया मुनेः9 ।
सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : उपासनया पारोक्ष्यं कृतवतः । पुनर् उपासनं कार्य-काले कुर्वतः । कार्य-सिद्धिर् इत्य् अतो योग-धारणया पुनर् इत्य् उक्तम् ।
उपास्य वायुं प्रथमं वायौ सुष्थ्व् अपरोक्षिते ।
अनुज्ञातस् ततस् तद्गं तत्र तत्र हरिं स्मरेत् ॥
कृत्वापरोक्षं तं चापि काले काले स्मरेत् पुनः ।
अभीष्ट-कार्य-सिद्धिः स्यात् तस्य नास्त्य् अत्र संशयः ॥
अकामो यदि वायुं च ध्यात्वा दृष्ट्वा हरिं तथा ।
न किञ्चित् कामयेत् पश्चात् स क्षिप्रं मुक्तिम् एष्यति ॥
यदि योगैः फलं भुङ्क्ते पुनः कामम् अपास्य तु ।
तेनैव क्रम-योगेन वायुं दृष्ट्वा हरिं तथा ॥
एष्तव्या मुक्ति-पदवी नान्यथा तु कथञ्चन ।
पूर्व-दृष्टीर् हि कामार्थे पश्चान् मोक्षार्थम् इष्यते ।
येषां तु जन्मतः सिद्धिस् तेषां दोषो न विद्यते ॥ इति निवृत्ते ॥३१॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—उपासकस्येति । एवं पृथग् धारणाभिः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसंहरति—उपासकस्येति ॥३१॥
———————————————————————————————————————
॥ ११.१५.३२ ॥
जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः ।
मद्-धारणां धारयतः का सा10 सिद्धिः सुदुर्लभा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् वा, किं नाना-धारणा-प्रयासेन एकयैव सर्वाः सिद्धयो भवन्ति ? इत्य् आह—जितेन्द्रियस्येति । मद्-धारणां नारायणे तुरीयाख्ये इत्य् अत्रोक्ताम् । या सुदुर्लभा स्यात् सा का ? न काचिद् इत्य् अर्थः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-धारणां मम तत्-तद्-उपाधि-रहितस्यापि यत्-किञ्चिद्-रूपस्यापि धारणाम् इत्य् अर्थः । स्वभावतः सर्व-सिद्धि-सेवितात् सर्वतो मम रूपात् कामना-मात्रेण सर्व-सिद्धिर् इति भावः ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दान्तस्य संयत-मनसो जितः श्वासः आत्मा व्यवहारिकः स्वभावश् च येन सः ॥३२॥
———————————————————————————————————————
॥ ११.१५.३३ ॥
अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् ।
मया सम्पद्यमानस्य काल-क्षपण-हेतवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अप्य् एवं तथापि न प्रार्थ्या इत्य् आह—अन्तरायान् इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मया सम्पद्यमानस्य मद्-रूपाम् एव सम्पत्तिम् इच्छत इत्य् अर्थः। अत एव ब्रह्म-सायुज्यम् अप्य् अस्यान्तरायं स्याद् इति युक्तम् एव तत्र गणितम् । उत्तमं निष्कामं भक्ति-योगम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिद्धयो ह्य् एता बालस्यैव चमत्कार-कारिण्यो न त्व् अभिज्ञस्येत्य् आह—अन्तरायान् इति । मया मत्-प्राप्त्या सम्पद्यमानस्य मद्-युक्तस्य, काल-क्षपण-हेतव इति दिने दिने तस्य मत्-प्राप्ति-लक्षण-सम्पत्तिर् ह्रसत्य् एव, तस्मात् योगेनैव कालं यापयेन्, न तु तत्-फल-भूताभिः सिद्धिभिर् इति भावः ॥३३॥
———————————————————————————————————————
॥ ११.१५.३४ ॥
जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः ।
योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यैर् यैः कैश्चित् कैश्चिद् एव जन्मादिभिः योग-गतिं व्रजेत् ।
जन्मादिभिः कैश्चिद् एव प्राप्यते योगजं फलम् ।
योगेन सर्वं प्राप्येत योगे यत्नं ततः कुरु ॥ इति च ।
कश्चिद् अर्थे चयच्-छब्दः प्रश्नार्थे च क्वचिद् भवेत् ।
क्वचित् परामर्श-वाची क्वचिद् आपेक्ष्य-वाचकः ॥ इति तन्त्र-निरुक्ते ॥३४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् अहैतुकीयम् एव धारण कार्या नान्याः काम्या इत्य् आह—जन्मेति । जन्मनैव काश्चित् सिद्धयो भवन्ति । यथा देवानां यथा च यादसाम् उदक-स्तम्भः पक्ष्य्-आदीनां खेचरत्वादि । तद् उक्तं पातञ्जले, जन्मौषधि-तपो-मन्त्र-योग-जाः सिद्धयः [यो।सू। ४.१] इति । योगेन मद्-धारणाम् इत्य् उक्तेन । योग-गतिं मत्-सालोक्यादि-रूपाम् ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथापि पूर्वोक्ता धारणास्तु सर्वतोऽधिका, इत्य् आह—जन्मेति । योगेनेति पूर्वोक्त-धारणानाम् एकतरेणापि ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, जन्मेति । काश्चित् काश्चित् सिद्धयो जन्मादिभिर् अपि भवन्ति, यथा जन्मनैव देवानां सिद्धयः । यथा च जन्मनैव यादसाम् उदक-स्तम्भः । पक्षिणां खेचरत्वम् । प्रेतानाम् अन्तर्धान-परकाय-प्रवेशाद्याः । तद् उक्तं पातञ्जले—
जन्मौषधि-तपो-मन्त्र-योग-जाः सिद्धयः [यो।सू। ४.१] इति । यावतीर् यावत्यः ताः सर्वा एव योगेनाप्नोति । योग-गतिं मत्-सालोक्यादि-मुक्तिम् ॥३४॥
———————————————————————————————————————
॥ ११.१५.३५ ॥
सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः ।
अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतः ? इत्य् अत आह—सर्वासाम् इत्य् अर्धेन । प्रभुत्वोपपादनं हेतुः कारणं पतिः पालयिता चेति । किं च, न केवलं सिद्धीनाम् एव प्रभुः, अपि तु मोक्षादीनाम् अपीत्य् आह—अहम् इति । योगो मोक्षः, साङ्ख्यं तत्-साधनं ज्ञानम् । धर्मस्य तद्-उपदेष्टॄणां ब्रह्म-वादिनां च ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मयि विश्वस्तैस् तु तत्-तत्-सिद्धि-कामनयापि नान्यत् । न च सोपाधि-मद्-धारणं कर्तव्यम् । स्वतः सर्वाश्रयत्वान् ममेत्य् आह—सर्वासाम् इति द्वाभ्याम् । धर्मस्य ज्ञान-साधनस्य ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो मम ध्यानेनैव सर्वाः सिद्धयस् तस्माद् अहम् एव तासां हेतुः । न केवलं हेतुर् एव, पतिः पालयिता च, प्रभुः स्वामी च । न केवलं सिद्धीनाम् एव हेतुः प्रभुतयाहं, यतो योगस्य मदीय-ध्यान-योगस्यापि अहम् एव हेतुः, न केवल-ध्यान-योगस्य साङ्ख्यस्य ज्ञानस्यापि, ज्ञान-साधन-धर्मस्य निष्काम-कर्मणोऽपि ॥३५॥
———————————————————————————————————————
॥ ११.१५.३६ ॥
अहम् आत्मान्तरो बाह्योऽनावृतः सर्व-देहिनाम् ।
यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कुतस् तत्राह—अहम् इति । सर्व-देहिनां जीवानाम् आत्मा । यत आन्तरोऽन्तर्यामी, एष त आत्मान्तर्याम्य् अमृतः [बृ।आ।उ। ३.७३।] इति श्रुतेः । तर्हि किम् अन्तर्-वर्तित्वात् परिच्छिन्ना, न, बाह्यश् च व्यापक इत्य् अर्थः । तत्र हेतुः, अनावृतः । एतत् सदृष्टान्तम् आह—भूतेषु चतुर्-विधेषु महा-भूतानि यथा वहिश् चान्तश् च भवन्ति, स्वयम् अहम् अपि तथेत्य् अर्थः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगिनां ज्ञानिनां च ध्यानस्यालम्बनोऽप्य् अहम् एवेत्य् आह—अहम् आन्तर आत्मा अन्तर्यामी । तर्हि किम् अन्तर्वर्तित्वात् परिच्छिन्नः ? नावृतः । एतत् सदृष्टान्तम् आह—भूतेषु चतुर्विधेषु महा-भूतानि यथा बहिश् चान्तश् च भवन्ति, स्वयम् अहम् अपि तथेत्य् अर्थः ॥३६॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
श्री-भगवद्-उद्धव-संवादे
योग-सिद्धि-प्रसङ्गो नाम
पञ्चदशोऽध्यायः ।
॥ ११.१५ ॥
-
मां तत्-पदार्थम् एव चिद्-रूपत्वेनानुगतं आत्मनि त्वं-पदार्थे विचष्टे । आत्मानं त्व-पदार्थम् ॥ ↩︎
-
योगि-देहस्य शिलादाव् अपि प्रवेश-प्रयोजकोऽणुत्व-लक्षणो गुणोऽणिमा । तथा तस्यैव सर्व-व्यापक-लक्षणो महिमा । येन सूर्य-मरीचिईर् अवलम्ब्य देहस्य सूर्य-लोक-प्राप्तिर् भवति, स लघुत्व-लक्षणो लघिमा । ↩︎
-
अत्र प्राकाम्यम् इति मूले पाठः सङ्गच्छते । ↩︎
-
भार ? ↩︎
-
श्रान्त-चेतस इति जीव-गोस्वामिना धृत-पाठान्तरः । ↩︎
-
उदकैर् यथा इति पाठः । ↩︎
-
व्यजनाः इति पाठः । ↩︎
-
उपासीनस्य इति पाठः । ↩︎
-
पुनः इति पाठः । ↩︎
-
नु इति पाठः । ↩︎