१४

॥ ११.१४.१ ॥

श्री-उद्धव उवाच—

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः ।

तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्दशे परं श्रेयो भक्तिर् एव न चेतरत् ।

इत्य् एतद् वर्ण्यते ध्यान-योगश् च सह साधनैः ॥

एवं तावद् भगवतो भक्त्या मोक्ष इत्य् उक्तम् । अन्ये त्व् अन्यानि साधनानि वदन्ति, तत्र विशेष-निर्धारणाय पृच्छति—वदन्तीति । श्रेयांषि श्रेयः-साधनानि । किं विकल्पेन प्राधान्यम् उताहो किं वा एकस्यैव मुख्यता ? ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ भक्ति-योगस्यैव प्राक्-सिद्धता, साक्षाच् छ्री-भगवत्-प्रवर्तितता, स्वयम् एव मुख्यता च, परेषां त्व् अर्वाचीनता, यथा-रुचिनाना-जन-प्रवर्तितता, तुच्छता चेति वदन् पूर्वं यत्, तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१४] इत्य्-आदिभिर् भक्ति-योगस्य नैरपेक्ष्यम् अभ्यस्तम्, तद् एव मतान्तर-निरासेन द्रढयितुं पृच्छति—वदन्तीति । तैः ॥१॥ [भक्ति।सं। ७५]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

भक्तेः कृष्ण-वशीकार-सर्वोत्कर्षश् चतुर्दशे ।

तद्वतां च मुमुक्षोः सम्मतं ध्यानं च वर्णितम् ॥

शतानां श्रोतव्यानां च श्रेयः-साधनानां तारतम्यादिकं पृच्छति—वदन्तीति । श्रेयांसि श्रेयः-साधनानि । किं विकल्पेन प्राधान्यम्, इदं प्रधानम् इदं वा प्रधानम् ? इति । उताहो एकस्यैव मुख्यता, इदम् एव प्रधानम् ? इति ॥१॥


॥ ११.१४.२ ॥

भवतोदाहृतः स्वामिन् भक्ति-योगोऽनपेक्षितः ।

निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एक-मुख्यता-पक्षोत्थापने कारणम्—भवतेति । अनपेक्षितम् न अपेक्षितम्, अपेक्षा यस्मिन् सोऽहेतुकः । अयम् अर्थः—भवता यो भक्ति-योग उक्तः, अन्ये च यानि श्रेयः-साधनानि वदन्ति, तेषां किं साक्षात् फल-साधनत्वेन प्राधान्यम् एव सर्वेषाम् उताङ्गाङ्गित्वम् । प्राधान्येऽपि किं विकल्पेन सर्वेषां तुल्य-फलत्वम् ? यद् वा, कश्चिद् अस्ति विशेष ? इति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निरस्येति फलान्तर-सापेक्षत्वम् अपि निरस्तम् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवन्-मते तु भक्ति-योग एव मुख्य इत्य् आह—भवतेति । अनपेक्षितं निष्कामो भक्ति-योग एव भवता उदाहृतः उत्कर्षेण आहृतः आनीतः, येनमनस् त्वद्-आविष्टं स्यात् । स किं सर्वेषां अपि श्रैष्ठ्ये सम्मतः, उत तवैव? इति निर्धार्योच्यताम् इति भावः ॥२॥


॥ ११.१४.३ ॥

श्री-भगवान् उवाच—

कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।

मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

रुद्रम् इन्दुं कुमारं च विनैवान्याग्रजो मनुः ।

ब्रह्म-पुत्रेष्व् आदि सृष्टाव् अन्यथात्वं पुनर् जनेः ॥ इति स्कान्दे ।

पूर्व-सृष्टौ पूर्व-जायेते\ऽधिकाः सर्वतो गुणैः ।

अनाद्य्-अनन्त-कालेषु मुक्ताव् अपि यथा क्रमम् ॥ इति निबन्धे ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र भक्तिर् एव महा-फलत्वेन मुख्या । अन्यानि तु स्व-स्व-प्रकृत्य्-अनुसारेण पुष्प-स्थानीय-स्वर्गादि-फल-बुद्धिभिः प्रणिभिः प्राधान्येन परिकल्पितानि क्षुल्लक-फलानीति विवेक्तुं प्रकृत्य्-अनुसारेण बहुधा वेदार्थ-प्रतिपत्तिम् आह—कालेनेति सप्तभिः। मद्-आत्मकः मय्य् एवात्मा चित्तं येन सः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कालेनेति सार्धकम् । तैः । कालेन नष्टा, तत्रापि प्रलये कल्पान्ते, बहुधा नष्टेत्य् अर्थः । इयम् इति भवता [११.१४.२] इत्य्-आदिना यथा भवतानूद्यते, तथा निरूपिकेत्य् अर्थः । एतेन ज्ञानादिकं ज्ञानादि-मिश्रत्वं मद्-आवेशान्य-फलत्वं च न मन्-मतम् इति बोधितम् । आदौ ब्राह्म-कल्पादौ ।मद्-आत्मको मत्-स्वरूप-भूतः—ह्लादिनी-सार-रूपत्वात् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो उद्धव ! सर्व-मतानि वेदाद् एवोत्थितानि । तस्य तस्य वेदस्य तु मद्-भक्ति-योग एव तात्पर्यम् इत्य् आह—कालेनेति । मद्-आत्मकः मत्-स्वरूप-भूतः, भक्ति-योगस्य ह्लादिनी-सार-भूतत्वात् । यद् वा, मय्य् एव आत्मा चित्तं यतश् चित्तस्य मद्-आविष्टता मद्-भक्त्यैव भवेत् ।भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति मद्-वचनाद् भक्त्यैवाहम् इन्द्रियैर् ग्रहीतुं शक्यो नान्यथेति तत्रार्थो द्रष्टव्यः । ब्रह्म-वादिभिर् उक्तानां मद्-भक्ति-योगाद् अन्येषां श्रेयसां मत्-प्रापकत्वाभावात् श्रेयस्त्वम् एवं वस्तुतो नास्तीत्य् अतस् तेषां विकल्पतः प्राधान्येन, एकस्य मुख्यत्वेन वा जिज्ञास्येन तव किं प्रयोजनम् ? इति भावः ॥३॥


॥ ११.१४.४ ॥

तेन प्रोक्ता स्व-पुत्राय मनवे पूर्वजाय सा ।

ततो भृग्व्-आदयोऽगृह्णन् सप्त ब्रह्म-महर्षयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भृग्व्-आदयः—भृगुश् चमरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः इत्य् एते च सप्त ब्रह्माणः प्रजापतयस् ते च ते महर्षयश् च ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत इति युग्मकम् । तेभ्यस् तत्-पुत्रास् तत्-परम्परायाम् एवान्येभ्यश् च पितृभ्योऽन्य इत्य् अर्थः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याखातम्।


॥ ११.१४.५-७ ॥

तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः ।

मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः ॥

किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः ।

बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः ॥

याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा ।

यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किन्देवाः क्लम-स्वेद-दौर्गन्ध्यादि-राहित्येन किं देवा मनुष्या वेति सन्देहास्पद-भूता द्वीपान्तर-मनुष्याः । एवं किन्नराः किञ्चिन् नरा इव मुखतः शरीरतो वा । किंपुरुषाः किञ्चित् पुरुषा इव वानरादयः । प्रकृतयो वासना बह्व्यः । कुतः ? रजः-सत्त्व-तमांसि भुवः जन्म-स्थानानि यासां ताः ।भूतानि देवासुर-मनुष्यादीनि । चित्रावाचो वेदार्थ-व्याख्यान-विषयाः ॥५-७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथेत्य् अर्धकम् ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं ततो नाना-मतान्य् उद्भूतानि ? तत्राह—तेनेति सार्धैर् अष्टाभिः । भृग्व्-आदयः भृगुश् च मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुर् इत्य् एते च सप्त ब्रह्माणः प्रजापतयः, ते च महर्षयश् च । किन्देवाः क्लम-खेद-दौर्गन्ध्यादि-राहित्येन किं देवा मनुष्या वेति सन्देहास्पदी-भूता द्वीपान्तर-मनुष्या एव । किन्नराः किञ्चिन् नरा इव मुखतः शरीरतो वा । किंपुरुषाः किञ्चित् पुरुषा इव वानरादयः । प्रकृतयो वासना बह्व्यः। कुतः ? रजः-सत्त्व-तमांसि भुवो जन्म-स्थानानि यासां ताः ।भूतानि देवासुर-मनुष्यादीनि । चित्रा वाचो वेदार्थ-व्याख्यान-रूपाः ॥५-७॥


॥ ११.१४.८ ॥

एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।

पारम्पर्येण केषाञ्चित् पाषण्ड-मतयोऽपरे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अनेन पारम्पर्येण केषांचिद् एव देवादीनाम् ।

मद्-भक्ति-वर्जितो श्रेयो ये मन्यन्ते दुराशयाः ।

तेषाम् अन्ते तमो घोरम् अनन्तं प्राप्यते ध्रुवम् ॥ इति मान्य-संहितायां ॥८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् इत्य् उक्तोपसंहारः केषाञ्चिद् अध्ययनादि-शून्यानाम् अप्य् उपदेश-पारम्पर्येणअपरे पाखण्ड-मतयो वेद-विरुद्धार्थ-मतयः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारम्पर्येण गुरूपदेश-परम्परया पाषण्ड-मतयः अतितमः प्रकृतित्वात् वेद-विरुद्धार्थ-मतयः, तेन भागीरथ्या जलं शुद्धं मधुरम् अपि तत्-तट-वर्तेर् अण्ड-निम्ब-चिञ्चा-कपित्थ-विष-वृक्षादिभिः स्व-स्व-मूल-द्वारा गृहीतं विरसं विरुद्ध-रसं च यथा भवेत्, तथैव तेषां तेषां व्याख्यातॄणां मुखं प्राप्य वेदार्थो विरसो विरुद्ध-फल-प्रदश् च भवेद् इति भावः ॥८॥


॥ ११.१४.९ ॥

मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ ।

श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथ-रुचि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रकृतीनां माया-गुण-मूलत्वान् मन्-माया-मोहित-धियःअनेकान्तं नाना-विधम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं सति तस्यम् एवानेक-विध-श्रेयः-कथने हेतुम् आह—मन्-मायेति । तत्-प्रकृतीनां माया-गुण-मूलत्वान् मन्-माया-मोहित-धियःअनेकान्तं नाना-विधं श्रेयः पुरुषार्थं, तत्-साधनं च ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेकान्तं नाना-विधम् ॥९॥


॥ ११.१४.१० ॥

धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् ।

अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् ।

केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—धर्मम् इति सार्धेन । धर्मं कर्म-मीमांसकाः । यद् उक्तम्,

मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषिद्धयोः ।

नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ॥ इत्य्-आदि ।

यशः काव्यालङ्कार-कृतः । यथाहुः—

यावत् कीर्तिर् मनुष्यस्य पुण्य-लोकेषु गीयते ।

तवद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ इति ।

कामं वात्स्यायनादयः । सत्यं दमं शमं च योग-शास्त्र-कृतः । अन्ये दृष्टार्थ-वादिनो दण्ड-नीति-कृतः । वै प्रसिद्धं । ऐश्वर्यम् एव स्वार्थं पुरुषार्थं वदन्ति । अतः सामाद्य्-उपाया एव श्रेयः-साधनम् इति तेषां मतम् । तथैव त्यागं भोजनं च लोकायतिकाः । यज्ञ-तपो-दानं यज्ञो देवतानां पूजनं तपश् च दानं च ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पाषण्ड-मतानि विवृणोति—धर्मम् इति सार्धकम् । ईश्वरामननाज् जैमिन्य्-आदीनाम् अपि तत्-तत्-प्रवर्तकत्वम् एवेति भावः । धर्मं स्व-धर्मं नित्य-नैमित्तिकम् । एके निवृत्त-कर्म-निष्ठाः सत्यादि-त्रयम् अद्वैता योगिनश् च । केचित् कर्म-निष्ठाः । स्वार्थम् इति स्थान-भेदेन साधनं साध्यं वोच्यते, उभयोर् अपि स्वेनार्थ्यमाणत्वात् । तत्र कामैश्वर्य-त्याग-भोजनानि साध्यानि, अन्यानि तु साधनानि ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवाह—धर्मम् इति सार्धेन । धर्मं कर्म-मीमांसकाः । तद् उक्तम्,

मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषद्धयोः ।

नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ॥ इत्य्-आदि ।

यशः काव्यालङ्कार-कृतः । यथाहुः—

यावत् कीर्तिर् मनुष्यस्य पुण्य-लोकेषु गीयते ।

तवद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ इति ।

कामं वात्स्यायनादयः । सत्यं दमं शमम् इति शान्ति-शास्त्र-कृतः । अन्ये दृष्टार्थ-वादिनो दण्ड-नीति-कृतः । वै प्रसिद्धम् । ऐश्वर्यम् एव स्वार्थं वदन्ति । अतः सामाद्य्-उपाया एव श्रेयः-साधनम् इति तेषां मतम् । तथैव त्यागं भोजनं च लोकायतिकाः । यज्ञादिकं वैदिका नियमान् यमान् तपो-व्रतादि-निष्ठाः ॥१०॥


॥ ११.१४.११ ॥

आद्य्-अन्तवन्त एवैषां लोकाः कर्म-विनिर्मिताः ।

दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां तुच्छ-फलत्वम् आह—आद्य्-अन्तवन्त इति । एषांलोका एतैः साध्यानि फलानि । तमो-निष्ठा मोहावसानाः । भोग-कालेऽप्य् असूयादिभिः शुचार्पिता व्याप्ताः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एषां मध्ये ये वा कर्मणा वेद-विधिना विनिर्मिता लोकाः सुखद-फलानि भवन्ति, तेऽप्य् आद्य्-अन्तवद्-आदि-रूपा एव । वेद-विमुखत्वे तु नारका एवेति भावः॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतेषां लोका एतैः साध्यानि फलानि । तमो-निष्ठा मोहावसानाः ॥११॥


॥ ११.१४.१२ ॥

मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तेर् मुख्यत्वम् आह—मयीति यावत् समाप्ति । हे सभ्य ! मया परमानन्द-रूपेण आत्मना स्वरूपत्वेन स्फुरता ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मना पूर्व-सच्चिदानन्द-लक्षण-परमात्मतया परम-प्रेष्ठ-रूपेण । तत्रापि मया सर्वाश्चर्य-रूप-गुणादि-विशिष्ट-मद्-रूपेण स्फुरतेत्य् अर्थः । विषयात्मनाम् इति मद्-अतिरिक्त-पुरुषार्थिनः सर्व एव विषयात्मान इति भावः ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् भक्ताव् एव वेदस्य तात्पर्यम् । सैव सर्व-श्रेष्ठेति निर्धार्य तयैव मां प्राप्नोतीत्य् आह—मयीत्य्-आदिना उद्धव-प्रश्न-पर्यन्तेन ग्रन्थेन । मयारूप-गुण-समुद्रेण आत्मना प्रेमास्पदेन हेतुना विषयेषु मायिक-वस्तुषु शम-दम-ज्ञानादिष्व् अपि मनो येषां तेषां ज्ञानादीनाम् अपि सात्त्विकत्वेन मायिकत्वात्, न च तत् प्राप्यं ब्रह्मैवेत्य् अपि वाच्यम् ।

किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।

किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ इति नारदोक्तेः ॥१२॥


॥ ११.१४.१३ ॥

अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः ।

मया सन्तुष्ट-मनसः सर्वाः सुख-मया1 दिशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अन्येषां तत्-तल्-लोकादि-परिच्छिन्नं सुखं, भक्तस्य तु परिपूर्णम् इत्य् आह—अकिञ्चनस्येति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्य सुखं प्रपञ्चयति—अकिञ्चनस्येत्य्-आदि स्व-मतम् एव ॥१३॥



जीव-गोस्वामी (प्रीति-सन्दर्भः ९) : अथैतस्यां भगवत्-साक्षात्कार-लक्षणायां मुक्तौ जीवद्-अवस्थायाम् आह—अकिञ्चनस्येति । भगवन्तं विना किञ्चनान्यद् उपादेयत्वेन नास्तीत्य् अकिञ्चनस्य । तत्र हेतुः—मयेति । अकिञ्चनत्वेनैव हेतुना विशेषण-त्रयं—दान्तस्येति । अन्यत्र हेयोपादेयता-राहित्यात् सम-चेतसः । सर्वत्र तस्यैव साक्सात्कारात् सर्वा इत्य् उक्तम् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वानुभव-सुख-माहात्म्यम् एव दर्शयति—अकिञ्चनस्येति द्वाभ्याम्॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तस्य सुखम्, सुखस्यानुभावं च विवृणोति—अकिञ्चनस्येति द्वाभ्याम् । मया ध्यान-प्राप्तेनैवालौकिक-शब्द-स्पर्श-रूप-रस-गन्ध-लीला-कृपादि-महा-माधुर्यवता सन्तुष्टाणि मनः-प्रभृति-सर्वेन्द्रियाणि यस्य तस्य । सर्वा इति स च सा दिशो याति ता एव सुखमय्यः । यथा ग्रन्थि-निबद्धानश्वर-महाधनो मानुषोऽयं देशं याति, तत्रैव तस्य भोगैश्वर्य-सुखानीत्य् अर्थः । अत एवाकिञ्चनस्य मल्-लक्षण-सम्पूर्णानश्वर-महा-धन-प्राप्त्यैव । किञ्चन-शब्द-वाच्य-परिमित-नश्वर-प्राकृत-धन-जनादि-ग्रहण-विमुखस्य बाह्याभ्यन्तर-विषयेष्व् इन्द्रियाणां स्वयम् अरोचकत्वेनैव निवृत्तेः दान्तस्य शान्तस्य शमो मन्-निष्ठता बुद्धेर् [भा।पु। ११.१९.३६] इत्य् अग्रिमोक्तेर् मद्-एक-निष्ठ-बुद्धेः । अत एव सम-चेतसः सर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः॥१३॥


॥ ११.१४.१४ ॥

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं

न सार्वभौमं न रसाधिपत्यम् ।

न योग-सिद्धीर् अपुनर्-भवं वा

मय्य् अर्पितात्मेच्छति मद्-विनान्यत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परिपूर्णताम् एवाह—न पारमेष्ठ्यम् इति । रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्-भवं मोक्षम् अपि । मद्-विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अकिञ्चनत्वम् एवाह—न पारमेष्ठ्यम् इत्य्-आदि ॥१४॥


सनातन-गोस्वामी : [ह।भ।वि। ११.५८०] रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्-भवं मोक्षम् अपि । पारमेष्ठ्याद्य्-अपुनर्-भवान्तेष्व् एषु क्रमेण श्री-भगवद्-भक्तेर् न्यूनतया तेषां न्यूनताभिप्रायेणैवं व्याख्येयम् । पारमेष्ठ्यम् अपि नेच्छति । किं पुनर् महेन्द्र-धिष्ण्यम् इत्य्-आदि । मद्-विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य श्रेष्ठ इत्य् अर्थः । यद् वा, मद्-विना मद्-भक्तिं विना अन्यत् श्री-वैकुण्ठ-वासादिकम् अपि नेच्छतीत्य् अर्थः ॥१४॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४] रसाधिपत्यं पातालादि-स्वाम्यं, अपुनर् भवं मोक्षम् अपि मद् विना मां हित्वा अन्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थ इति । अपि च—

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।

वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर् भवम् ॥ [भा।पु। ११.२०.३४] इति ।

अपुनर् भवम् आत्यन्तिकम् अपि कैवल्यम् इति ॥१४॥


जीव-गोस्वामी (भक्ति-सन्दर्भः १३२) : ज्ञान-वैराग्यादि-सद्-गुण-हेतुत्वम् उक्तं यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भा।पु। ५.१८.१२] इत्य्-आदिना । स्वर्गापवर्ग-भगवद्-धामादि-सर्वानन्द-हेतुत्वम् अप्य् उक्तं, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदिना । स्वतः परम-सुख-दानेन कर्मादि-ज्ञानानन्त-साधन-साध्य-वस्तूनां हेयत्व-कारिताम् आह—न पारमेष्ठ्यम् इति ।

रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्भवं ब्रह्म-कैवल्य-रूपं मोक्षम् । किं बहुना, यत् किञ्चिद् अपि साध्य-जातं तत् सर्वं नेच्छत्य् एव, किन्तु मद् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-पुरुषार्थाधिकम् इच्छतीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । अप्य्-अर्थे वा-शब्द इति मोक्ष-सुखस्याप्य् अपरिपूर्णत्वं दर्शितं पारमेष्ठ्यादि-चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्व-विवक्षया च ततश् चोत्तरोत्तरं कैमुत्यम् अपि योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति पश्चाद् विन्यस्तं अपुनर्-भवस् तूत्तर-श्रैष्ठ्यम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य किञ्चन-शब्द-वाच्य-पदार्थेषु स्पृहा-राहित्यम् आह—नेति । पारमेष्ट्यं ब्रह्म-पदं, अपुनर्भवं सायुज्य-सुखं च । मय्य् अर्पितात्मेति, ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४.११] इति मत्-कृत-नियमाद् अहम् अपि तस्मिन्न् अर्पितात्मा भवामीति । अत एव मद्-विनेति अहम् एव तस्य सर्वेन्द्रिय-ग्राह्यतया सदैव वर्त एव । नहि निरन्तर-दिव्यामृत-रसास्वादिने जनाय मृत्तिका रोचत इति भावः ॥१४॥


॥ ११.१४.१५ ॥

न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।

न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

कृपा-निमित्ता या प्रीतिर् नीच-भक्तेषु साधिका ।

आतरेव तु या प्रीतिः सा तूच्चेषु यथा-क्रमम् ॥

यथा कश्चित् स्वम् आत्मानं प्रियां पुत्रम् अथापि वा ।

अतिहाय कृपा-युक्तो भिक्षवेऽन्नं ददात्य् अपि ॥

कदाचिद् एव न पुनः स्वात्मादेः सार्वकालिकम् ।

योग-क्षेम-वहत्वं च नित्यं स्वात्मादिषु स्फुटम् ।

एवम् एव परेशस्य भक्तेषु श्रियजादिषु ॥ इति प्रिय-विवेके ।

यादवेभ्यश् च सर्वेभ्य उद्धवो भगवत्-प्रियः ।

उद्धवाच् च प्रियतमः प्रद्युम्नस् तु महारथः ॥

तस्माद् अपि प्रियतमो रामः कृष्णस्य सर्वदा ।

नैव तस्मात् प्रियतमो विनैकं तु चतुर्मुखम् ॥

सर्वेभ्योऽपि प्रियतमो हरेः श्रीर् एव वल्लभा ।

नैव तस्याः प्रियतमो विना स्वात्मानम् एव तु ॥ इति यादवाध्यात्मे ॥१५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ममापि स एव प्रेष्ठ इत्य् आह—न तथेति द्वाभ्याम् । आत्म-योनिर् ब्रह्मा पुत्रोऽपि, शङ्करो मत्-स्वरूप-भूतोऽपि, सङ्कर्षणो भ्रातापि, श्रीर् भार्यापि, आत्मा मूर्तिर् अपि, यथा भक्त इति वक्तव्ये अतिहर्षेणाह—भवान् इति ॥१५॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। १.१.७७[[]{दिर्=“र्त्ल्”} आत्मा श्री-मूर्तिर् अपि भक्त इति वक्तव्ये स्व-भक्त-माहात्म्य-विशेषाख्यानाविर्भूत-हर्ष-भर-वैवश्येन भवान् इत्य् उक्तम् ॥१५॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ६४) : भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह—न तथेति । यथा भक्तत्वातिशय-द्वारा भवान् मे प्रियतमः, तथा आत्म-योनिर् ब्रह्मा पुत्रत्व-द्वारा न प्रियतमः । न च शङ्करो गुणावतारत्व-द्वारा, न च सङ्कर्षणो भ्रातृत्व-द्वारा, न च श्रीर् जायात्व-व्यवहार-द्वारा, न च आत्मा परमानन्द-घन-स्वरूपता-द्वारेत्य् अर्थः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह—न तथेति । अत्र आत्म-योनित्वेन पुत्रत्वम् । शङ्करत्वेन सुखकरत्व-सूचनया साहचर्यम् । सङ्कर्षणत्वेन गर्भ-सङ्कर्षण-सूचनया भ्रातृत्वम् । श्रीत्वेन आश्रय-विशेष-सूचनया भार्यात्वं व्यज्यते । आत्मा श्री-मूर्तिर् अपि । ततश् च पुत्रत्वादिना न ते प्रियतमाः, किन्तु भक्त्यैवातो भक्त्य्-आधिक्यात् यथा भवान् प्रियतमस् तथा न ते इत्य् अर्थ इति भक्तानां प्रियतमत्वे निदर्शनम् ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च भक्तस् तव कीदृक् प्रियः ? इत्य् आह—न तथेति । आत्म-योनिर् ब्रह्मा पुत्रोऽपि, शङ्करो मत्-स्वरूप-भूतोऽपि, सङ्कर्षणो भ्रातापि, श्रीर् भार्यापि, आत्मा मूर्तिर् अपि, यथा भक्त इति वक्तव्ये अतिहर्षेणाह—भवान् इति । इति श्री-स्वामि-चरणैः ।

अत्र ब्रह्मादीनां भक्तत्वेऽपि तेषु भक्तत्वांशाद् अपि पुत्रत्वाद् अंशा अधिका वर्तन्ते, अतः प्राधान्येन व्यपदेशा भवन्तीति न्यायेन ते पुत्रादित्वेनैव व्यपदिश्यन्ते, न तु भक्तत्वेन । नन्द-यशोदादिषु तु महा-प्रेमवत्त्वात् पितृत्वाद्य्-अंशेभ्योऽपि भक्तत्व-लक्षणोऽंशोऽधिकतर इति तेषु भक्तत्वम् एवेति ते कृष्णस्यातिप्रियतमा । यद् उक्तं—दर्शयंस् तद्-विदां लोके आत्मनो भक्त-वश्यताम् [भा।पु। १०.११.९] इति तेषां भक्त-शब्द-वाच्यत्वं स्वातिवशीकारकत्वं च ।

नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया ।

प्रसादं लेभिरे गोपी [भा।पु। १०.९.२०] इति सर्वोत्कर्षश् च ।

यद् वा, तादृश-भक्तेष्व् अपि मध्ये भवान् यथा मे प्रियतमः, तथा मन्-मुखाद् एव शृण्व् इत्य् आह—न तथेति । तेन सर्व-भक्तेषु मध्ये उद्धवः श्रेष्ठः, तस्माद् अपि गोप्यः श्रेष्ठाः, तेनापि तासां चरण-धूलि-प्रार्थनाद् इति वैष्णव-सिद्धान्तः ॥१५॥


॥ ११.१४.१६ ॥

निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् ।

अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वाङ्घ्रि-रेणुभिस् तं शोधयामीत्य् अनुव्रजामि ।

अनुगच्छति विष्णुस् तं स्व-भक्तं तस्य शुद्धये ।

तस्याङ्घ्रि-रेणुभिर् वात-नीतैर् अग्रेसरैः शुभैः ॥

अग्रतो गमने विष्णोः पदास्पृष्टं रजो भवेत् ।

अतः स्व-भक्तं पूयेयेत्य् अनुव्रजति केशवः ॥ इति सङ्ख्याने ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पूयेय मद्-अन्तर्-वर्ति-ब्रह्माण्डानि पवित्री-कुर्याम् इति भावेनेत्य् अर्थः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं प्रेम-विशेष-पात्रत्वेन तादृशं भक्तं स्तुत्वा गौरव-विशेष-पात्रत्वेन भक्त-विशेषं स्तौति । निरपेक्षं निष्काम-भक्तम्, अतः क्षोभ-रहितं, मात्सर्यादि-रहितम्, अन्यत्र हेयोपादेय-भावना-रहितं च । मुनिं श्री-नारदादिम् अनुव्रजामि, यतस् तादृश-निष्कपट-भक्ति-मय-साधुत्व-दर्शनेन ममापि भक्ति-विशेषो जायते । कथं गोपनीयः ? इत्य् आह—पूयेयेति । तद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेत्य् अर्थः ॥१६॥ [प्रीति-सन्दर्भ ३८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं बहुना, भक्तो यथा सदा माम् अनुचरति, तथाहम् अपि भक्तः परोक्षः सन् भक्तम् अनुचरामि । भगवान् भक्त-भक्तिमान् इति मदीय-शुकोक्तेर् इत्य् आह—निरपेक्षम् इति । मुनिं मद्-रूप-गुण-लीला-परिकरादि-मनन-परम् । पूयेय मद्-अन्तर्वर्ति-ब्रह्माण्डानि पवित्रीकुर्याम् इति भावनयेत्य् अर्थः इति श्री-स्वामि-चरणाः । तद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेत्य् अर्थः इति सन्दर्भः । वस्तुतस् तु भक्त-चरण-धूलि-ग्रहणं विना भक्तिर् न स्यात् । भक्त्या विना मन्-माधुर्य-रसानुभवो न स्याद् इति मयैव मर्यादा स्थापिता । अतोऽहम् अपि भक्त इव भक्त्या पूर्ण-मन्-माधुर्य-रसो निमग्नो भवेयम् इति भावः ॥१६॥


॥ ११.१४.१७ ॥

निष्किञ्चना मय्य् अनुरक्त-चेतसः

शान्ता महान्तोऽखिल-जीव-वत्सलाः ।

कामैर् अनालब्ध-धियो जुषन्ति ते

यन् नैरपेक्ष्यं न विदुः सुखं मम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, मद्-भक्तानां सुखम् एतावद् एवं-भूतम् इति वा को वक्तुं समर्थः ? यतस् तत् स्व-संवेद्यं निरुपमम्, इत्य् आह—निष्किञ्चना इति । महान्तो निरभिमानाः । अनालब्ध-धियोऽस्पृष्ट-चित्ताः । निष्किञ्चनत्वादीनां यथेष्टं हेतु-हेतुमद्-भावः । एवं-भूता मम मदीया यत् सुखं जुषन्ति सेवन्ते, तत् सुखं त एव विदुर् लभन्ते, नान्ये । कुतः ? नैरपेक्ष्यं नास्त्य् अपेक्षणीयं येषां ते निरपेक्षाः, तैर् एव लभ्यं, न तु मोक्षापेक्षैर् अपीत्य् अर्थः । यद् वा, एवं-भूताः सन्तो ये मम, माम् इत्य् अर्थः, जुषन्ति प्रीणन्ति, त एव यन् नैरपेक्ष्यं सुखं तद् विदुः, नान्य इत्य् अन्वयः ॥१७॥


कैवल्य-दीपिका : निष्किञ्चना इति । अनालब्धाः अस्पृष्टाः । नैरपेक्ष्यं निरपेक्षैर् लभ्यम् ॥१७॥ [मु।फ। १९.३९]


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४] अस्यार्थः—मय्य् अनुरक्त-चेतस एव महान्तः । तेषां बाह्य-लक्षणानि—निष्किञ्चनाः त्यक्त-परिग्रहाः शान्ता रागादि-शून्याः अखिल-जीवेषु वत्सलाः कामैर् विषय-भोगैर् अनालब्ध-धियः अस्पृष्ट-चित्ताः । एषां च यथेष्टं हेतु-हेतुमद्-भावो द्रष्टव्यः ।

आन्तर-लक्षणम् आह—एवम्भूता मम मदीया यत् सुखं जुषन्ति सेवन्ते, तत् सुखं एव विदुर् नान्ये । कुतः ? नैरपेक्ष्यं तद् विदुर् नान्यः इत्य् अन्वयः । अथवा ईदृशा एव सुखं जुषन्तीत्य् अन्वयः परमानन्दम् अनुभवन्तीत्य् अर्थः । यद् वा, जुषन्ति सेवन्ते प्रीणयन्ति वा, अर्थान् माम् एव यद् यस्मात् ते मम नैरपेक्ष्यम् आत्मारामत्वादिना सर्वत्र निरपेक्षतां न विदुः, किन्तु भक्ति-रसापेक्षको भक्त-जन-परवश इत्य् एवं विदुर् इत्य् अर्थः । अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् [ह।भ।सु। १४.२८] इति । अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इत्य्-आदि-श्री-भगवद्-वचन-प्रामाण्याद् एव । अत एव श्रद्धाद्य्-अतिशयोत्पत्त्या भजनेनानुराग-सिद्ध्या महत्ता सम्पद्यते, अत इदम् एवान्तर-मुख्य-लक्षणं ज्ञेयम् इति । तत्रैव योगेश्वरेण श्री-हरिणाप्य् उक्ताखिल-भगवद्-भक्त-लक्षण-सारो\ऽयम् अन्ते प्रोक्तः—

विसृजति हृदयं न यस्य साक्षाद् धरिर्

अवशाभिहितोऽप्य् अघौघ-नाशः ।

प्रणय-रसनया धृताङ्घ्रि-पद्मः

स भवति भागवत-प्रधान उक्तः ॥ [भा।पु। ११.२.५५] इति ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो मद्-रूप-गुणादि-माधुर्यानुभव-सुखं मद्-भक्त्यैव लभ्यं, मान्यथेत्य् आह—निष्किञ्चना इति । निष्किञ्चना ज्ञानिनोऽपि भवन्तीति केचिद् आहुः, तद्-व्यावृत्त्य्-अर्थम् आह—मय्य् अनुरक्त-चेतस इति । अखिल-जीव-वत्सला अखिलेभ्योऽपि जीवेभ्यो भक्ति-रस-दित्सावन्तः । अत एव महान्तस् तत्-संज्ञयैव लोकैर् उच्यमानाः कामैर् दैवाद् आपतितैर् अपि भोगैर् न अलब्धा छिन्ना धीर् येषां ते । यन् मम सुखं जुषन्ति आस्वादयन्ति, तत् सुखं ते एव विदुः, नान्ये । कुतः ? नैरपेक्ष्यं नास्त्य् अपेक्षां मोक्षादिकम् अपि येषां ते नैरपेक्षाः, तेष्व् एव जातम् ॥१७॥


॥ ११.१४.१८ ॥

बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।

प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि चास्तां तावद् उत्तम-भक्त-कथा, यतः प्राकृतोऽपि भक्तः कृतार्थ एवेत्य् आह—बाध्यमान इति द्वाभ्याम् । विषयैर् आकृष्यमाणोऽपि । प्रगल्भया समर्थया ॥१८॥


कैवल्य-दीपिका : अस्यां च प्रवृत्तायां विषयाद्य्-अनर्थश् च शाम्यतीत्य् आह—बाध्य- इति द्वाभ्याम् । भस्मसात् करोति कार्त्स्न्येन भस्मीकरोति । कृत्स्नशः स संस्काराणि ॥१८-१९॥ [मु।फ। ६.३१]


सनातन-गोस्वामी : [ह।भ।वि। ११.५५२] विषयैर् बाध्यमान आकृष्यमाणोऽपि । अतः प्रायोऽजितेन्द्रियःप्रगल्भया समर्थया । परम-पद-प्रदान-शक्ताया अपि भक्तेर् विषयाभिभवतो रक्षणं कतरत् प्रयोजनम् इति भावाह् ॥१८॥


जीव-गोस्वामी (भक्ति-सन्दर्भः ११५) : अबाध्यमानस् तु सुतरां नाभिभूयत इत्य् अपेर् अर्थः ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रायो नाभिभूयते, तद्-बाधायां श्री-भगवति स्व-दैन्य-निवेदन-स्पर्शात् । यतः प्रगल्भया समर्थ-प्रभावया भक्त्या शरणागति-मात्रात्मिकया ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपि च, आस्तां तावद् उत्पन्न-भाव-भक्त-कथा, यतो भक्तौ प्रथम-वर्तमानोऽपि भक्तः कृतार्थ एवेत्य् आह—बाध्यमान इति प्रायःप्रगल्भया प्रायेणैव प्रबलीभवन्त्या, किं पुनः प्रगल्भया ।

यद् वा, ज्ञानि-प्रकरणे यथा दुराचारो ज्ञानी निन्दिष्यते, ज्ञानित्वं च तस्य निषिध्यते, यस् त्व् असंयत-षड्-वर्गः [भा।पु। ११.१८.४०] इत्य्-आदिना, तथात्र भक्त-प्रकरणे दुराचारो भक्तो न निन्द्यो, भक्तत्वं च तस्य न निषिद्धम् इत्य् आह—बाध्यमान इति । यद् उक्तं—

अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।

साधुर् एव स मन्तव्यः सम्यग्-व्यवसितो हि सः ॥ [गीता ९.३०] इति ।

किं चात्र विषयैर् बाध्यमानोऽपि विषयैर् नाभिभूयत इत्य् उभयत्रापि वर्तमान-निर्देशात् विषय-बाध्यत्व-दशायाम् अपि विषयाबाध्यत्वं भक्ति-सद्-भावात्, यथा वैरि-कृत-किञ्चिच्-छस्त्राघातं प्राप्तस्यापि न पराभविष्णुता शौर्य-सद्-भावाद् इति । यथा वा, पीत-ज्वरघ्न-महौषधस्य तद्-दिवसे आयातोऽपि ज्वरो बाधकोऽप्य् अबाधक एव तस्य विनश्यद्-अवस्थत्वात् दिनान्तरे च सम्यङ् नष्टीभावित्वाच् च ॥१८॥


॥ ११.१४.१९ ॥

यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।

तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पाकाद्य्-अर्थं प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा रागादिनापि कथञ्चिन् मद्-विषया सती भक्तिः समस्त-पापानीति । भगवान् अपि स्व-भक्ति-महिमाश्चर्येण सम्बोधयति—अहो उद्धव! विस्मयं शृण्व् इति ॥१९॥


कैवल्य-दीपिका : अथ ज्ञान-मिश्रां त्रिभिः स्तौति—न साधयति इति । न साधयति न वशीकरोति । योगश् चित्त-वृत्ति-निरोधः [यो।सू। १.२] साङ्ख्यं2 प्रकृति-पुरुष-विवेकः, धर्मो नित्य-नैमित्तिकानुष्ठानम् । स्वाध्यायो मन्त्र-जपः3, तपः पराकादि । न्यासः सन्न्यासः । ऊर्जिता उत्कटाः ॥१९॥ [मु।फ। ६.३१]



सनातन-गोस्वामी : [ह।भ।वि। ११.५४९] आस्तां तावद् उत्तम-भक्तेः कथा । यथा कथञ्चित् भक्त्यापि स्वत एव समूलाशेष-पाप-क्षयः स्याद् इत्य् आह—यथेति । पाकाद्य्-अर्थम् अपि प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा रागादिनापि कथञ्चिन् मद्-विषया सती भक्तिः समस्त-पापानीति । भगवान् अपि स्व-भक्तमाश्चर्येण सम्बोधयति—अहो उद्धव विस्तरेण शृण्व् इति ॥१९॥


जीव-गोस्वामी (भक्ति-सन्दर्भः १२५) : अथ पापघ्नत्वे तावद् अप्रारब्ध-पापघ्नत्वम् आह—यथाग्निर् इति । अत्र दृष्टान्ते सुसमिद्धार्चिर् इतिवद् दार्ष्टान्तिके सुदृढा इत्य् अस्य शब्दस्यानुक्तेः, अदृढापि इत्य् उन्नीयते । अथैवोक्तं पाद्म-पाताल-खण्ड-स्थ-वैशाख्य-माहात्म्ये च—

यथाग्निः सुसमृद्धार्चिः करोत्य् एधांसि भस्मसात् ।

पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥ [प।पु। ५.८५.३१] इति ।

यद्यपि हरिर् इत्य् अवशेनापि पुमान् नार्हति यातनार्थम् [भा।पु। ६.२.१५] इत्य् आदौ लिङ्-आदि-प्रत्यय-विरहेऽपि पूषा-प्रविष्ट-भागो यद् आग्नेयाष्टाक-पालो भवति [यजुर्-वेद] इत्य्-आदिवद् विधित्वम् अस्ति । तस्माद् भारत सर्वात्मा [भा।पु। २.१०.५] इत्य्-आदौ च साक्षाद् विधि-श्रवणम् अप्य् अस्ति । “तस्माद्” इति हेतु-निर्देशश् चाकरणे दोषं क्रोडीकरोति । तथापि विधि-सापेक्षेयं न भवतीति तथाभूत-स्वभावाग्नि-लक्षण-वस्तु-दृष्टान्तेन सूचितम् । अत एव यान् आस्थाय [भा।पु। ११.२.३३] इत्य्-आदिकम् अपि दृश्यते । सुसमिद्धार्चिर् इत्य् अनेन साधनान्तर-सापेक्षत्वम् अशक्य-साध्यत्वं विलम्बितत्वं च निराकृतम् । तद् एव व्यक्तं पाद्मेतत्-क्षणाद् इति ।

यद् वा, यथा मद्-विषया भक्तिर् यथा कथञ्चिच् छ्रवणादि-लक्षणा [भक्त्य्-आभास-रूपा] समस्तानि पापानीति ॥१९॥ [भक्ति-सन्दर्भ १२५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः सर्वान् एव भक्ति-भेदान् प्रशंसति—यथेत्य् अष्टभिः । यथा मद्-विषया भक्तिर् यथा कथञ्चित् श्रवणादि-लक्षणा समस्तानि पापानित्य् अर्थः ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्याजितेन्द्रियता-जन्य-पापस्य भक्तिर् एव विनाशिकास्तीत्य् अत्र दृष्टान्तः—यथाग्निर् इति । हे उद्धवेति । त्वम् अत्रोद्धवम् एव लभस्वेति भावः ॥१९॥


॥ ११.१४.२० ॥

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एवंभूतं श्रेयो नान्यद् अस्तीत्य् आह—न साधयतीति द्वाभ्याम् ॥२०॥


कैवल्य-दीपिका : अथ ज्ञान-मिश्रां त्रिभिः स्तौति—न साधयति इति । न साधयति न वशीकरोति । योगश् चित्त-वृत्ति-निरोधः [यो।सू। १.२] साङ्ख्यं4 प्रकृति-पुरुष-विवेकः, धर्मो नित्य-नैमित्तिकानुष्ठानम् । स्वाध्यायो मन्त्र-जपः5, तपः पराकादि । न्यासः सन्न्यासः । ऊर्जिता उत्कटाः ॥ [मु।फ। ६.३२]



सनातन-गोस्वामी : [ह।भ।वि। ११.६०१] न साधयति न वशीकरोति । ऊर्जिता परम-समर्था ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न साधयति न वशीकरोति । तपो ज्ञानम् । त्यागः सन्न्यासः । मत्-साधनार्थं प्रयुक्तोऽपि योगादिस् तथा मां न साधयति । वशयन् नोन्मुखं करोति । यथोर्जिता [ज्ञान-कर्माद्य्-अनावृता तीव्रा प्रबलोत्तमेति यावत्] भक्तिः साधनात्मिका ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भक्तिर् यथा त्वत्-प्राप्ति-साधनं तथा ज्ञान-योगादिकम् अपीति केनांशेन भक्तेर् उत्कर्ष इत्य् अत आह—नेति द्वाभ्याम् । न साधयति न मत्-प्राप्ति-साधनं भवति ऊर्जिता ज्ञान-कर्माद्य्-अनावृतत्वेन प्रबला तीव्रेत्य् अर्थः ॥२०॥


॥ ११.१४.२१ ॥

भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् ।

भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रद्धया या भक्तिस् तया । सम्भवाज् जाति-दोषाद् अपीत्य् अर्थः ॥२१॥


कैवल्य-दीपिका : अपि सम्भवात् सम्भवाद् अपि । सम्भूत-मात्रापि पुनाति । किं पुनः प्रौढा ? श्वपाकोऽन्त्यजः ॥२१॥ [मु।फ। ६.३३]


सनातन-गोस्वामी : [ह।भ।वि। ११.६०२] श्रद्धया या भक्तिस् तया । सतां भक्तानां प्रिय आत्मा, आत्मनोऽपि सकाशात् प्रिय इत्य् अर्थः । यद् वा, आत्मापि अप्रियो यस्मात्, स परम-प्रियतम इत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रद्धया भक्त्या—श्रद्धा-पूर्विकया केवलया भक्त्या त्व् अहम् एव ग्राह्यः, क्रमाद् वशीकार्यः । सैव मन्-निष्ठा मयि दार्ढ्यं गता सती ।

अत्रैव विवेचनीयम् । यद्यप्य् अस्य वाक्यस्यैकादश-चतुर्दशाध्याय-प्रकरणे साध्य-साधन-भक्त्योर् अविविक्ततयैव महिम-निरूपणम् इति साधन-परत्वं दुर्निर्णेयं, तथापि फल-भक्ति-महिम-द्वारापि साधन-महिम-परत्वम् एव यत्रेदृशम् अपि फलं भवतीति । वदन्ति कृष्ण श्रेयांसि [भा।पु। ११.१४.१]इत्य्-आदि-प्रश्नम् आरभ्य साधनस्योपक्रान्तत्वात्,यथा यथात्मा परिमृज्यतेऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः [भा।पु। ११.१४.२६] इत्य्-आदिना तस्यैवोपसंहृतत्वाच् च । विशेषस् तु तत्र बाध्यमानोऽपि मद्-भक्तो [भा।पु। ११.१४.१८] इत्य्-आदिकं, धर्मः सत्य-दयोपेतः [भा।पु। ११.१४.२२] इत्य्-आद्य्-अन्त-तदीयम् उक्त-प्रकरणं प्राय-साधन-महिम-परम् एव । तत्र बाध्यमानोऽपि इति पद्यं साध्य-भक्तौ जातायां बाध्यमानत्वायोगात्—

दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे

न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ [भा।पु। १०.८७.३५] इत्य् उक्तेः ।

विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।

वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥

इति विष्णु-पुराणाच् च तन्-महिम-परत्वेन गम्यते । अत्रैव तद् वक्ष्यते—

कथं विना रोम-हर्षं द्रवता चेतसा विना ।

विनानन्दाश्रु-कलया शुद्ध्येद् भक्त्या विनाशयः ॥ [भा।पु। ११.१४.२३] इत्य् अनेन,

मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इति कैमुत्य-वाक्येन च साध्य-भक्तेः संस्कार-हारित्वम्। ततो विषया एव बाध्यमाना भवन्तीति ।

अथ यथाग्निः सुसमृद्धार्चिः [भा।पु। ११.१४.१९] इति पद्यं नामाभासादेः सर्व-पाप-क्षय-कारित्व-प्रसिद्धेस् तत्-परम् । अथ न साधयति मां योगः [भा।पु। ११.१४.२०] इत्य् एतत् सार्ध-पद्यं योगादीनां साधन-रूपाणां प्रतियोगित्वेन निर्दिष्टत्वात् श्रद्धा-सहायत्वेन विधानाच् च तत्-परम् । साध्यायां श्रद्धोल्लेखः पुनर्-उक्त इति । यद्यपि फल-भक्ति-द्वारैव तद्-वशीकारित्वं तस्यास् तथाप्य् अत्र साधक-रूपाया मुख्यत्वेन प्रातत्वात् तत्रैवोदाहृतम् ।

किं वा—

अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो

मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८]

इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात् तद्-गुणकत्वं ज्ञेयम् । अथ धर्मः सत्य-दयोपेतः [भा।पु। ११.१४.२१] इति पद्यं च धर्मादि-साधन-प्रतियोगित्वेन निर्देशात् । साध्य-भक्तेर् एवान्यत्रापि तत्-फलतयोदाहृतत्वाच् च तत्-परम् । यत् तु कथं विना [भा।पु। ११.१४.२२] इत्य्-आदिकं तच् च साधन-भक्ति-फलस्य शोधकत्वातिशय-प्रतिपादनेन तत्-परम् इति । तस्मात् साध्व् एव बाध्यमानोऽपि [भा।पु। ११.१४.१७] इत्य्-आदि-पद्यानि तत्-प्रसङ्गे दर्शितानि ॥२१॥ [भक्ति-सन्दर्भः १४७]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथेति । स्व-वाक्येन प्राप्तं योगादीनाम् अपि स्व-प्राप्ति-साधनत्वम् आशङ्क्याह—भक्त्येति । एकया न त्व् अन्येन योगादिनेत्य् अर्थः । तेन यद् अन्यत्र ज्ञानादीनाम् अपि ब्रह्म-प्राप्ति-साधनत्वं श्रूयते तत्रस्था गुण-भूता भक्तिर् एव तत्-प्रापिकेति ज्ञेयम्। तद् एवं ज्ञान-सत्-कर्मादिकं भगवन्तं साधयितुम् असमर्थं केवलं पाप-नाशकतयैव सार्थकम् अभूद् इति स्थितम् । तत्रापि भक्तेर् यथा पाप-नाशकता न तथा ज्ञानादीनाम् इत्य् आह—भक्तिर् इति सार्धेन । सम्भवात् जाति-दोषाद् अपीति श्री-स्वामि-चरणाः तेन प्रारब्ध-पाप-नाशकता भक्तेर् बुध्यते ॥२१॥


॥ ११.१४.२२ ॥

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।

मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्त्य्-अभावेऽन्यत् साधनं व्यर्थम् इत्य् आह द्वाभ्यां—धर्म इति ॥२२॥


कैवल्य-दीपिका : धर्म इति । आत्मानं चित्तम् ॥२२॥ [मु।फ। ६.५०]


सनातन-गोस्वामी : [ह।भ।वि। ११.५५७] अपेतं रहितम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : धर्मो निष्कामः । विद्या शास्त्रीयं ब्रह्म-ज्ञानम् । तपसा तद्-ईक्षण-रूप-चित्तैकाग्र्येण । मद्-भक्त्या मत्-प्रीति-कामना-लक्षणया, न सम्यक् प्रपुनाति ।उक्त-पारमेष्ठ्याद्य्-अपुनर्भव-पर्यन्त-सर्व-वासनातो न शोधयति ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, धर्म-ज्ञानादीनां पाप-नाशकत्वम् अपि भक्ति-साहित्येनैव । भक्ति-राहित्येन तु किञ्चिन्-मात्रम् एवेत्य् आह—धर्म इति । विद्या ज्ञानम् ॥२२॥


॥ ११.१४.२३ ॥

कथं विना रोम-हर्षं द्रवता चेतसा विना ।

विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रोमहर्षादिकं विना कथं भक्तिर् गम्यते ? भक्त्याविना कथम् आशयः शुध्येत्? इति ॥२३॥


कैवल्य-दीपिका : पुतात्मनश् चिह्नान्य् आह—कथम् इति । प्रत्येकं विना-शब्दस्य निर्देशाद् रोमहर्षादीनां प्रत्येकं शुद्धि-हेतुत्वम् ॥२३॥ [मु।फ। ६.५१]


सनातन-गोस्वामी : [ह।भ।वि। ११.६४४] रोमहर्षादिकं विना कथं भक्तिः प्रेम-लक्षणा गम्यते? भक्त्याविना कथम् आशयः शुध्येत् ? भक्त्य्-एक-परः सदा सर्वत्र साक्षाद् इव श्री-कृष्ण-परिस्फूर्तिमयो वा स्याद् इत्य् अर्थः ॥२३॥


जीव-गोस्वामी (प्रीति-सन्दर्भ ६८-६९) : []{दिर्=“र्त्ल्”}एवं प्रीतेर् लक्षणं चित्त-द्रवः, तस्य च रोमहर्षादिकम् । कथञ्चिज् जातेऽपि चित्त-द्रवे रोमहर्षादिके वा, न चेद् आशय-शुद्धिः, तदापि न भक्तेः सम्यग् आविर्भाव इति ज्ञापितम् । आशय-शुद्धिर् नाम चान्य-तात्पर्य-परित्यागः प्रीति-तात्पर्यं च । अत एव—अनिमित्ता स्वाभाविका [भा।पु। ३.२५.३२] इति तद्-विशेषणम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव व्यतिरेकेणाह—कथम् इति । रोमहर्षस् तावद् यत् किञ्चिच् चेतो-द्रवस्य चिह्नम् । आनन्दाश्रु-कला तु विशिष्टस्य तस्य [चित्त-द्रवस्य] चिह्नम् । चेतो-द्रवस् तु भक्तेर् अन्तरङ्ग-स्वभाव इति तथा तथोक्तम् । रोमहर्षेणानन्दाश्रु-कलया च विना कथं तारतम्येण चेतो-द्रवोऽवगम्यते ? द्रवता चेतसाविना कथं भक्तिर् आविर्भवति ? भक्त्या च विना कथम् आशयः शुध्येत् ? इति ।[।]{दिर्=“र्त्ल्”}२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तःकरणं तु सम्यक्तया भक्तिर् एव शोधयति, नान्यत् साधनम् । सा च भक्ती रोमाञ्चाद्य्-अनुभाव-गम्येत्य् आह—कथम् इति । भक्त्या हेतुना यद् द्रवच्-चेतस् तेन विना कथं साधनान्तरेण रोमहर्षः, कथं वा आनन्दाश्रु-कला । रोमहर्षं विना आनन्दाश्रु-कलया च विना कथम् आशयः शुध्येद् इत्य् अन्वयः । यद् उक्तं कलि-युग-पावनावतारेण श्री-भगवता—

श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतात् ।

यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकादयः ॥ [पद्या। ३९] इति ।

तेन निष्काम-कर्म-योगादयो बहु-प्रमाण-सिद्धा अन्तः-करणस्य शोधकास् तावद् भवन्तु, किन्तु तस्य येन कषायेण भगवद्-अपरोक्षानुभवो न भवति, तत्[-]{दिर्=“र्त्ल्”}कषायं तु प्रेम-भक्तिर् एव ज्वालयति, न तु ज्ञानाग्निर् अपीति भावः ॥२३॥


॥ ११.१४.२४ ॥

वाग् गद्गदा द्रवते यस्य चित्तं

रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।

विलज्ज उद्गायति नृत्यते च

मद्-भक्ति-युक्तो भुवनं पुनाति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

चित्त-द्रवस् तथा स्थैर्यं प्रसादो भक्ति-लक्षणम् ।

आधिक्ये न तु तत्रापि स्थैर्यम् एव विशेषतः ॥

दम्भस्य चल-भक्तेश् च यन्मादश्चादिकं भवेत् ।

दम्भादि-परिहारार्थं निगृह्णीयाच् च धीर-धीः ॥

अत आध्यात्मिक-क्लेशैर् आधिभूताधिदैविकैः ।

वाक्यैश् च वेद-तन्त्राद्यैर् उपदेशैश् च तादृशैः ॥

बलवच्-छासनैर् वापि यस्य भक्तिर् न चाल्यते ।

स एव परमो भक्तो विष्णोर् हृदय-वल्लभः ॥ इति भक्ति-विवेके ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, भक्तिः स्वाश्रयं शोधयतीति किं वक्तव्यं, यतो गद्गद-वाग्-आदि-लक्षणो मद्-भक्ति-युक्तो लोकं सर्वं पुनातीत्य् आह—वाग् इति ॥२४॥


क्द् : वाग् इति । गद्गदा स्खलिताक्षराः ॥२४॥ [मु।फ। १९.४०]


सनातन-गोस्वामी : [ह।भ।वि। ११.६४५] किं च, भक्तिः स्वाश्रयं शोधयतीति किं वक्तव्यं ? यतो गद्गद-वाग्-आदि-लक्षण-मत्-प्रेम-भक्ति-युक्तो लोकं सर्वं पुनातीत्य् आह—वाग् इति । गद्गदा गद्गद-स्वर-युक्ता, अभीक्ष्णं रुदतीति प्रेम-परिपाक-स्वभावेन निरन्तर-विरहाद्य्-उत्पत्तेः । क्वचित् कदाचित् । अस्य परेणेत्य् अन्वयः । पुनाति संसार-मलात् अद्वैत-दुर्वासन-मलाद् वा शोधयति, भगवद्-भक्ति-प्रवर्तनात्, भगवन्-मयता सम्पादनाद् वा, इति लक्षणं माहात्म्यं चोक्तम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मद्-भक्ति-युक्तो मत्-प्रेमातिशय-पात्रश् चेद् भुवनम् अपि पुनाति, किम् उताशयं, सङ्गिनः, ग्रामं, देशं, मण्डलं, वर्षं, द्वीपादिकं चेत्य् अर्थः ॥२४॥ [प्रीति-सन्दर्भ ३७]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रेम-भक्ति-युक्तो जनस् तु स्वम् उद्धरतीति किं चित्रं, यतो भूर्-लोकम् अप्य् उद्धरतीत्य् आह—वाग् इति । यस्य वाग् गद्गदा गद्गदाकारा अस्पष्टाक्षरेत्य् अर्थः । द्रवते द्रवति, यतश् चित्त-द्रवाच् चित्तम् अभीक्ष्णं रुदति रोदिति । अभीक्ष्णम् औत्कण्ठ्येन जाज्वल्यमानत्वाद् इति भावः । क्वचिच् चेति सर्वत्रान्वेति । द्रवच्-चित्तस् तु सार्वदिक एव ॥२४॥


॥ ११.१४.२५ ॥

यथाग्निना हेम मलं जहाति

ध्मातं पुनः स्वं भजते च रूपम् ।

आत्मा च कर्मानुशयं विधूय

मद्-भक्ति-योगेन भजत्य् अथो माम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च भक्त्यैवात्म-शुद्धिर् नान्यत इति स-दृष्टान्तम् आह—यथेति । यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्-मलं जहाति, न क्षालनादिभिः । स्वं निजं रूपं च भजतेकर्मानुशयं कर्म-वासनाम् । मां भजते मद्-रूपताम् आपद्यते ॥२५॥


कैवल्य-दीपिका : भक्त्या सवासन-चित्त-शुद्धिर् इति । दृष्टान्तेन स्पष्टयति—यथा इति । ध्मातं तप्तम् । कर्मानुशयो लिङ्ग-देहम् । भक्ति-योगेन भजति इति भक्तिर् एव भजन-हेतुर् न फलाकाङ्क्षेत्य् उक्तम् । अथो शुद्ध्य्-अनन्तरम् ॥२५॥ [मु।फ। ६.५२]


सनातन-गोस्वामी : [ह।भ।वि। ११.५९७] भक्त्यैव सकल-मलापगमतो भगवत्-सङ्गमो नान्यथेति स-दृष्टान्तम् आह—यथेति । यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्-मलं जहाति, न क्षालनादिभिः । स्वं निजं रूपं च भजतेकर्मानुशयं कर्म-वासनाम् । मां भजते । मया सङ्गमम् आपद्यते ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तया प्रीत्या तस्य महा-प्रेम्णः प्राप्ति-क्रमं स-दृष्टान्तम् आह—यथेति । तथा मद्-भक्ति-योगेन मत्-प्रीत्या कर्मानुशयं विधूय ततः शोधयित्वाथो कार्त्स्न्येन भजति—महा-प्रेमाविर्भावात् पूर्णां सेवा-पद्धतिं प्राप्नोतीत्य् अर्थः ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, भक्त्यैवात्म-शुद्धिर् नान्यत एवेति स-दृष्टान्तम् आह—यथेति । यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्-मलं जहाति, न क्षालनादिभिः । स्वं निजं रूपं च भजते । तथैवात्मा जीवः कर्मानुशयं कर्म-वासनात्मकं मलं विधूयाथो मदीय-लोके मां भजति साक्षद् एव सेवते ॥२५॥


॥ ११.१४.२६ ॥

यथा यथात्मा परिमृज्यतेऽसौ

मत्-पुण्य-गाथा-श्रवणाभिधानैः ।

तथा तथा पश्यति वस्तु सूक्ष्मं

चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ब्रह्मविद् आप्नोति परम् [तै।उ। २.१.१] तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ६.१५] इत्य्-आदि-श्रुतिभ्यो ज्ञानाद् एवाविद्या-निवृत्त्या त्वत्-प्राप्तिर् अवगम्यते । कुतो भक्ति-योगेन? इत्य् उच्यते । अत्राह—यथा यथेति । आत्मा चित्तं परिमृज्यते शोध्यते मत्-पुण्य-गाथानां श्रवणैर् अभिधानैश् च । भक्तिरेवावान्तर-व्यापारो ज्ञानं न पृथग् इत्य् अर्थम् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आदि-भजनम् आरभ्य क्रमं वदन् महा-प्रेम-पर्यन्ताविर्भावे पूर्ववन् निरपेक्षम् एव कारणम् आह—यथा यथेतितत्त्वं सूक्ष्मं मदीय-स्वरूप-रूप-गुण-लीला-याथार्थ्यं पश्यति । तद्-दर्शन-क्रमातिशयेन महा-प्रेमाप्य् आविर्भवतीति भावः ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदि-भजनम् आरभ्य केवलया भक्त्यैवात्म-शोधन-तारतम्येन श्रवण-कीर्तन-स्मरणादि-तारतम्यात् मन्-माधुर्यानुभव-तारतम्यं प्राप्नोतीत्य् आह—यथा यथेतितत्त्व-सूक्ष्मं तत्त्वं मद्-रूप-लीलादि-स्वरूपं सूक्ष्मं तन्-माधुर्यानुभव-विशेषं तयोर् द्वन्द्वैक्यम् । यद् वा, सूक्ष्मं तत्त्वं पूर्व-निपाताभाव आर्षः । चक्षुर् यथेति प्रथमम् अन्धात् काणोऽप्य् उत्तमः[,]{दिर्=“र्त्ल्”} तस्मात् चक्षुष्मान्[,]{दिर्=“र्त्ल्”} चक्षुष्मतोऽपि सिद्धाञ्जन-रसाञ्जित-नेत्रः सूक्ष्मं पश्यति ॥२६॥


॥ ११.१४.२७ ॥

विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते ।

माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च ज्ञानं नाम चित्तस्य मद्-आकार-परिणामः, स च मां भजतः स्वभावत एव भवति, न च यत्नान्तरम् अपेक्षत इति स-दृष्टान्तम् आह—विषयान् इति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्माद् भक्तिर् एवाभ्यसनीयेत्य् उपसंहरन्न् आह—विषयान् इति द्वाभ्याम् ॥२७॥6


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तादृश-श्रवण-कीर्तन-स्मरणादि-निष्ठानां तद्-भक्तानां चित्तं त्वयि कीदृशं स्यात् ? इत्य् अत आह—विषयान् इति । विषय-ध्यानासक्तं चित्तं यथा विषय-माधुर्य-निमग्नं दृष्टं, तथैव मदीय-ध्यानासक्तं मन्-माधुर्य-मात्र-निमग्नं स्यात् ॥२७॥


॥ ११.१४.२८ ॥

तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् ।

हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्माद् अन्य-साधनं तत्-फलं च स्वप्न-मनोरथवद् असद्-अभिध्यान-मात्रंतस्मात् तद् विहाय मय्य् एव मनः समाहितं कुर्व् इति प्रकरणार्थम् उपसंहरति—तस्माद् इति । मद्-भाव-भावितं मद्-भावेन भजनेनैव शोधितम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् अन्यत् साधनं तत् फलं च स्वप्न-मनोरथवद् असद्-अभिध्यान-मात्रं, तस्मात् तद् विहाय केवलयैव भक्त्या,मय्य् एव मनः समाहितं कुर्व् इति प्रकरणार्थम् उपसंहरति—तस्माद् इति श्री-स्वामि-चरणाः । मद्-भावेन मद्-भावनयैव भाव-युक्ती-कृतम् ॥२८॥


॥ ११.१४.२९ ॥

स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्म-वान् ।

क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

केशवे त्व् अन्यथा बुद्धिः सैव स्त्री सम्प्रकीर्तिता ।

त्रिकाल-दुःखदत्वेन पुंसा सह निवासनात् ॥

जुष्टत्वाद् योषिद् इत्य् उक्ता वननाद् वनितेति च ।

प्रमाद-करणत्वात् तु प्रमदेति च गीयते ॥

त्जजेत् तत्-सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा ।

न तादृशश् क्वचिद् दोषः पुरुषस्यास्खावहः ॥

क्षुद्र-पापानिपापानि चोपपातक-पातके ।

महा-पातक-नामानि सुमहा-पातकान्य् अपि ॥

तथा स्वतिमहान्तीति पातकानि विदो विदुः ।

पिपीलिकावद् आदीनि क्षुद्र-पापोदितानि च ॥

पापम् अस्थिमतां हत्या फल-चौर्यादिर् एव वा ।

परदारादिकं चापि ह्य् उपपातक-संज्ञितम् ॥

पातकं शूद्र-हत्यादि ब्रह्म-हत्यादिकं महत् ।

देवस्व-हरणादीनि सुमहान्ति विदो विदुः ॥

देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा ।

महन्-महत्तरा तस्य अवज्ञा केशवे तु या ॥

केशवस्य समोऽस्तीति केशवोऽहम् इत्य् अपि ।

ब्रह्माद्याः केशवात्मानः श्रीर् वा त्रिगुण इत्य् अपि ॥

मुक्तस्य तद्-भाव-मतिर् अरूपत्व-मतिस् तथा ।

त्रिगुणात्मक-देहोऽस्याप्य् अस्तीत्य् अपि तु या मतिः ॥

जन्म-मृत्य्-आदि-बुद्धिर् वा दुःख-ज्ञानादि-बोधनम् ।

तस्यापि परतन्त्रत्व-विज्ञानं च तद्-उत्तमः ॥

अस्तीति या मतिस् तस्य वशाद् अन्यस्य कस्यचित् ।

अस्तीति भावनेत्य् आद्या अवज्ञा सम्प्रकीर्तिता ॥ इति धर्म-विवेके ॥

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।

परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥ [गीता ९.११] इत्य्-आदि च ।

बाध्यमानोऽपि मद्-भक्तः [भा।पु। ११.१४.१८] इत्य्-आदि च ।

पर-दार-दृशिः प्रोक्ता क्षुद्र-पातक-संज्ञिता ।

उपपातकं तद्-गतिश् च वर्ण-वाहेषु पातकम् ॥

महा-पातक-संज्ञं तु पित्रादेर् दार-धर्षणम् ।

दार-दृष्टि-स्वोत्तमानां मानुषाणां स्वभावतः ॥

सुमहा-पातकं प्रोक्तं तद्-गतिः सुमहत्तरः ।

ऋषि-दारेषु मनस्ये गतिर् एव ततोऽधिकः ।

किम् उ विस्णोस् ततो योषित्-सङ्गस्य व्यत्यय-स्थितेः ।

न समं पातकं क्वापि नहि स्व-स्त्र्य्-अभिगामिनः ॥

अवज्ञाता माधवाद् एतस्मात् तं दूरतस् त्यजेत् ।

मानुषेषु तु दुःखित्वं क्षुद्र- पाप-फलं स्मृतम् ॥

पापात् तु वर्ण-बाह्यत्वं तिर्यग्-योनि-गतिस् तथा ।

सहस्र-वर्ष-नरकं क्षुद्र-पातकजं फलम् ॥

उपपातकतश् चापि नरकं युग-मात्रकम् ।

चतुर्युगावसानं तु पातकस्य फलं स्मृतम् ॥

महा-पातक-जन्यं च कल्पावधि-समीरितम् ।

सुमहा-पातकाच् चापि यावद् ब्रह्म-लयो भवेत् ॥

तत्-पराणां पातकाणां फलम् अन्धस् तमः स्मृतम् ।

अधोऽधो दुःख-बहुलं विष्णु-दाराभिमर्षणात् ॥

वधा अपि हि दारस्य धर्षणं कोप-कारणम् ।

तस्माद् देवाः सदा वन्द्या अग्निवन् नाभिकामत ॥ इति धर्म-तत्त्वे ॥२९-३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : विशेषतो वात्स्यायनाद्य्-उक्त-काम-मार्गाः परित्याज्या इत्य् आह—स्त्रीणाम् इति । आत्मवान् धीरः सन् । क्षेमे निर्भये देशे । विविक्ते विजने ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र पूर्वां प्रक्रियाम् आह—स्त्रीणाम् इति ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशेषतो वात्स्यायनाद्य्-उक्ताः काम-मार्गास् त्याज्या इत्य् आह—स्त्रीणाम् इति । यत आत्मवान् धृति-युक्तः, तेषां सङ्गे सति धृतिर् न तिष्ठेद् इति भावः । क्षेमे निर्भय-देशे । विविक्ते निर्जने ॥२९॥


॥ ११.१४.३० ॥

न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः ।

योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् उपपादयति—न तथेति । अस्य पुंसो यथा तत्-सङ्गि-सङ्गतः क्लेशो भवेत् । यथा च बन्धो योषित्-सङ्गतस् तथान्य-प्रसङ्गतो न भवेद् इति ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्लेशो बन्धश् चेति उभाव् अपि उभयार् योज्यौ तत्-सङ्गि-सङ्गोऽपि ह्य् आदि-कारणम् इति ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा तत् सङ्गि-सङ्गत इति । योषित्-सङ्गि-सङ्ग-त्यागे भूयान् एव यत्नः कर्तव्यः । अतो योषित्-सङ्गे लज्जा स्वीया प्रतिष्ठा च बाधिकास्ति । तत्-सङ्गि-सङ्गे तु प्रायस् ते अपि न बाधिके, परं च योषित्-सङ्गी यथा तत्-कथाभिस् तस्याम् आसञ्जयति लज्जाभयादिकम् अपि त्याजयति, न तथा योषिद् अपीत्य् अत उत्तरत्र तन्-निर्देशः ॥३०॥


॥ ११.१४.३१ ॥

श्री-उद्धव उवाच—

यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् ।

ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मां चिन्तयेद् इत्य् उक्तम् । तत्-प्रकारं पृच्छति—यथेति ध्यानाङ्ग-प्रश्नः, यादृशम् इति ध्येय-विशेषण-प्रश्नः । यद्-आत्मकम् इति यस्य तानि विशेषणानि तत्-स्वरूप-प्रश्नः । एतन् मे ध्यानं मे वक्तुम् अर्हसीति पाठः । तत्रायम् अर्थः—मुमुक्षुस् त्वं यथा ध्यायेत्, तन् मे वक्तुम् अर्हसीति जिज्ञासोः कथनाय । मे पुनर् एतत् त्वद्-दास्यम् एव पुरुषार्थः, न तु ध्यानेन कृत्यम् अस्तीति । तद् उक्तम्, त्वयोपभुक्त-स्रग्-गन्धः [भा।पु। ११.६.४६] इत्य्-आदि । “त्वं वक्तुम् अर्हसि” इति पाथः सुगमः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र मुमुक्षूणां तत्-प्रकारं पृच्छति—यथेति । परार्थः प्रश्नः सर्वेषां मार्गाणां तारतम्य-ज्ञानेन स्व-मार्गोत्कर्ष-ज्ञानं भवतीति भावेन, यथाग्रे सिद्धीनाम् अपि एवम् अन्यत्रापि ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तिं विना किम् अपि साध्यं न सिध्यतीति भगवद्-वाक्यान् निश्चित्य सर्वेषां मार्गाणां प्रकार-ज्ञानं विना स्व-मार्गोत्कर्ष-ज्ञानम् अतिसुखदं न भवतीति भावेन मोक्षाकाङ्क्षिणो ध्यान-भक्तेः प्रकारादीन् पृच्छति । यथेति तत्र प्रकार-प्रश्नः, यादृशम् इति ध्येय-विशेष-प्रश्नः, यद्-आत्मकम् इति ध्येय-स्वरूप-प्रश्नः । तत्र मे इत्य् अस्य पौनरुक्त्याद् एव व्याख्येयम् । यथा मुमुक्षुस् तां ध्यायेत् तन् मे वक्तुम् अर्हति ।

ननु मुमुक्षोर् ध्यानेन पृष्टेन तवैकान्तिक-भक्तस्य किम् ? तस्मात् यथा त्वाम् अहं ध्यायामि, तद्वद् इत्य् एवं पृच्छताम् इत्य् अत आह—मे मम तु एतद्-ध्यानम् इति संहत-पाणि-द्वयेन तस्य चरण-द्वयं दर्शयति । “ध्यानं त्वं वक्तुम् अर्हसि” इति पाठः सुगमः ॥३१॥


॥ ११.१४.३२ ॥

श्री-भगवान् उवाच—

सम आसन आसीनः सह-कायो यथा-सुखम् ।

हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र ध्यानाङ्गत्वेनासन-प्राणायाम-प्रकारम् आह—सम इति चतुर्भिः । समे नात्य्-उच्छ्रिते नाति-नीचे आसने कम्बलादौ समकायः सन् । यथासुखम् आसीन इति नास्ति स्वस्तिकादि-नियम इत्य् उक्तम् । नासाग्र-निरीक्षणं च चित्त-स्थैर्याय, अन्तर् लक्ष्योऽबहिर् दृष्टिः स्थिर-चित्तः सुसंयतः इति योग-शास्त्रोक्तेः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सम इति सार्धकम् । सुखम् आसीन इति तद्-अङ्ग-भूत-स्वस्तिकादिषु मध्ये एकं कुर्याद् इत्य् उक्तम् ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-नासाग्र-कृतेक्षण इति चित्त-स्थैर्याय, अन्तर् लक्ष्योऽबहिर् दृष्टिः स्थिर-चित्तः सुसंयतः इति योग-शास्त्रोक्तेः ॥३२॥


॥ ११.१४.३३ ॥

प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः ।

विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विपर्ययेण रेचक-पूरक-कुम्भक-क्रमेणापि । यद् वा, वामनाड्या पूरितं दक्षिणया त्यजेत् तया वा पूरितं वामयेत्य् एवं विपर्ययेण । यथोक्तं योगे—

इडया पूरयेद् वायुं त्यजेत् पिङ्गलया ततः ।

पिङ्गला-पूरितं वायुम् इडया च परित्यजेत् ॥ इति ।

निर्जितेन्द्रिय इति प्रत्याहार उक्तः ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विपर्ययेणेत्य् अर्धकम् । टीकायाम् इडयेत्य् आदि-वाक्ये च तद्-अनुरुपम् एवावृत्य योजना कार्या ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विपर्ययेण रेचक-पूरक-कुम्भक-क्रमेण ॥३३॥


॥ ११.१४.३४ ॥

हृद्य् अविच्छिन्नम् ॐ-कारं घण्टा-नादं बिसोर्ण-वत् ।

प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्राणायामो द्विविधः—स-गर्भोऽगर्भश् चेति । तत्र श्रेष्ठत्वात् प्रणव-गर्भम् आह—हृदीति द्वभ्याम् । मूलाधाराद् आरभ्याविच्छिन्नं सन्ततं घाण्टा-नाद-तुल्यम् ॐ-कारं हृदि संस्थितं प्राणेनोदीर्योर्ध्वं द्वादशान्त-पर्यन्तं नीत्वा । कथम् ? बिसोर्ण-वत् कमल-नाल-तन्तुवत् । तत्र मात्रातीते स्वरं पञ्चदशं बिन्दुं संवेशयेत् । अथ पुनर् इत्य् अस्य तं च बिन्दु-शिरस्कं कुर्याद् इत्य् अर्थः ।

यद् वा, मूलाधाराद् आरभ्य मूर्धान्त-पर्यन्तं बिस-तन्तुवत् सूक्ष्मम् अविच्छिन्नं सन्ततं हृदि मनसि प्राणेनोदीर्याभिव्यज्याथ पुनस् तत्र ओंकारे घण्टा-नाद-तुल्यं स्वरम् उदात्तं नादं स्थिरीकुर्याद् इति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हृदीति तैः तत्र द्वादशान्तं द्वादशाङ्गुल-पर्यन्तम् अनाहतम् इत्य् अर्थः । बिन्दु-शिरस्कम् इत्य् अत्र नाद-शिरस्कम् इत्य् एव वाच्यम् । पौनरुक्त्यात् नादस्य तद्-अङ्गत्वेनावश्य-वाच्यत्वाच् च ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृदीति । मूलाधाराद् आरभ्य अविच्छिन्नं सन्ततं घाण्टा-नाद-तुल्यम् ओंकारं हृदि स्थितं प्राणेनोदीर्य ऊर्ध्वं द्वादशाङ्गुल-पर्यन्तं नीत्वा । कथम् ? बिसोर्ण-वत् कमल-नाल-तन्तुवत् । अथ पुनस् तत्र स्वरं नादं बिन्दुं वा संवेशयेत् स्थिरीकुर्यात् ॥३४॥


॥ ११.१४.३५ ॥

एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् ।

दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

उपास्य-प्राणतोऽनुज्ञां हृदिस्थात् प्राप्य सेवतः ।

अनुज्ञानन्तरं मासाद् वशे प्राणो भविष्यति ॥

प्रसाद-भाक्त्वं सम्प्रोक्तं प्राण-विष्ण्वोर् जयस् त्व् इति ।

नहि सर्व-विजेतारौ विजयौ केनचित् क्वचित् ॥

अपेक्षितं फलं ये दीयते तज्-जितं त्व् इति ।

यथा जिता वसुमती यथा मोक्ष-पदं जितम् ॥ इति प्रभञ्जने ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मासाद् अर्वाक् जितानिलो भवति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मासाद् अर्वाक् मासाद् बहिर् एव ॥३५॥


॥ ११.१४.३६ ॥

हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् ।

ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं ध्यानाङ्गम् उक्त्वा यादृशम् इत्य् अस्योत्तरं वक्तुं ध्येय-पीठम् आह—हृत्-पुण्डरीकम् इति सार्धेन । अन्तः-स्थं देहान्तर्-वर्ति । ऊर्ध्व-नालम् अधो-मुखं मुकुलितं च कदली-पुष्प-सङ्काशं यद् अस्ति, तद् विपरीतं ध्यात्वेत्य् अर्थः ॥३६॥


कैवल्य-दीपिका : अथ मध्याधिमात्रम् आह—हृद् इति । अन्तस्थं हृन्-मध्यस्थं स्वतोऽधो-मुखम् । सद् अतितीक्ष्णेन प्रणवाग्रेण उच्चलनाद् ऊर्ध्व-मुखं ध्यात्वा इत्य् अर्थः । उन्निद्रम् उत्फुल्लम् अष्टौ भूम्य्-आदि-तत्त्वानि पत्राणि यस्य स तथा ॥३६॥ [मु।फ। २.३३]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हृत्-पुण्डरीकं मन एव कमलम् । तच् च बहिर् अपि यातीति व्यावर्तयति—अन्तःस्थं देहान्तर्वर्ति । ऊर्ध्व-नालम् अधो-मुखं मुकुलितं च कदली-पुष्प-सङ्काशं यद् अस्ति, तद् विपरीतं ध्यायेद् इत्य् अर्थः ॥३६॥


॥ ११.१४.३७ ॥

कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् ।

वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यसेच् चिन्तयेत् । स-विशेषणं ध्यानम् आह—वह्नि-मध्य इति षड्भिः । ध्यान-मङ्गलं ध्यानस्य शुभं विषयम् ॥३७॥


कैवल्य-दीपिका : कर्णिकायां प्रणवं न्यसेद् ध्यायेत् सत्त्वादि-रूपाणि सूर्यादि-बिम्बानि उत्तरोत्तरं क्रमेण एतत् उक्तेषु अन्यतमं ध्यानेषु मङ्गलं स्वस्त्ययनम् ॥३७॥ [मु।फ। २.३४]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यसेत् सञ्चिन्तयेत् । ध्यान-मङ्गलं ध्यानस्य शुभं विषयम् ॥३७॥


॥ ११.१४.३८ ॥

समं प्रशान्तं सुमुखं दीर्घ-चारु-चतुर्-भुजम् ।

सुचारु-सुन्दर-ग्रीवं सुकपोलं शुचि-स्मितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समम् अनुरूपावयवम् । दीर्घाश् चारवश् चत्वारो भुजा यस्मिंस् तत् । सुचारु अति-रम्यम् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समम् अनुरूपावयवम् । प्रशान्तम् अनुग्रम् ॥३८॥


॥ ११.१४.३९ ॥

समान-कर्ण-विन्यस्त-स्फुरन्-मकर-कुण्डलम् ।

हेमाम्बरं घन-श्यामं श्रीवत्स-श्री-निकेतनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समानयोः कर्णयोर् विन्यस्ते स्फुरती मकराकारे कुण्डले यस्मिंस् तत् । श्रीवत्स-श्रियोर् निकेतनं वक्षसि दक्षिण-वामतः । ताभ्यां युक्तम् इत्य् अर्थः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रीवत्स-श्रियौ वक्षो-दक्षिण-वामस्थे नितरां केतने असाधारण-चिह्ने यस्य तम् ॥३९॥


॥ ११.१४.४० ॥

शङ्ख-चक्र-गदा-पद्म- वम-माला-विभूषितम् ।

नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम् ॥

न कतमेनापि व्याख्यातम् ।


॥ ११.१४.४१ ॥

द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् ।

सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षणम् ।

सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्युमद्भिः किरीटादिभिर् आ समन्ताद् युतम् अलङ्कृतम् । प्रसादेन शोभनं मुखम् ईक्षणं च यस्मिंस् तत् । सुकुमारम् अति-कोमलम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आयुतं समन्ताद् अलङ्कृतम् ॥४१॥


॥ ११.१४.४२ ॥

इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः ।

बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : व्योमेति व्याप्त-शब्दः विशेषादु ततायत इति शब्द-निर्णये ।

व्योम्नि धारयेत् सर्वाङ्गेषु धारयेद् इत्य् अर्थः । तच् च धारणं त्यक्त्वा स्वत एव मनसस् तत्रैव समाहितत्वाद् अन्यत् किम् अपि न चिन्तयेत् ।

यावत् समग्र-स्मरणम् अचलं केशवे भवेत् ।

समग्रं चिन्तयेत् तावद् यदा तु विचलेत् ततः ॥

प्रत्यङ्ग-धारणं कुर्यान् मनो यावत् समग्रगम् ।

प्रत्यङ्गाभ्यासतो यावत् समग्रेषु स्थिरं मनः ॥

तदा पुनः समग्रं तु धारयेत् यत्नतो बुधः ।

यदा तु धारणोत्साहं विना तत्राचलं मनः ॥

तिष्ठेत्य् उक्त्वा तद्-उद्योगं शङ्ख-चक्राम्बुजाङ्किते ।

आरूढ-चेताः परमे शृङ्गाराद्य्-एक-धामनि ॥

नैवान्यर्चितयेत् तस्मात् पूर्णानन्दाच् चतुर्भुजात् ।

यतोऽन्य-स्मरणे तस्मान् मनश् चलति सुस्थिरम् ॥

धारणार्थ-प्रयत्नेन तस्मात् तद् उभयं त्यजेत् ।

यावत् स्वारूढ-चेताः स्याद् विष्णो रूपे चतुर्भुजे ॥ इति ध्यान-योगे ॥४२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स-विशेषणं ध्यानम् उपसंहरति—इन्द्रियाणीति । प्रकर्षेण नयेत् । सर्वतः सर्वाङ्ग-युक्ते ॥४२॥


कैवल्य-दीपिका : ध्यानम् उक्तं प्रत्याहारम् आह—इन्द्रियाणि इति । इन्द्रियाणि अश्वान् मनसा प्रग्रहेण धीरो विषयैर् अजितः । सर्वतः सर्वावयव-रूपे मयि ॥४२॥ [मु।फ। २.३५]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सान्द्र-ध्यानार्थं मनस एकाग्र-प्रकारम् आह—इन्द्रियाणि चक्षुर्-आदीनि । विषयेभ्यो रूपादिभ्यः सकाशात् मनसा आकृष्य मनस्य् एव प्रणयेत् । तन् मनो बुद्ध्या आकृष्य मयि सर्वतः सर्वाङ्ग-युक्ते प्रणयेत् प्रकर्षेण नयेत् ॥४२॥


॥ ११.१४.४३ ॥

तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् ।

नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन् मुखम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यादृशम् इत्य् अस्योत्तरत्वेन स-विशेषणम् उक्त्वा यद् आत्मकम् इत्य् अस्योत्तरतया शनैर् विशेषण-त्यागेन ध्यानम् एव समाधि-पर्यन्तम् आह—तद् इति त्रिभिः । एकत्राङ्गे । अन्यान्य् अङ्गानि न चिन्तयेत् । एकत्रेति यद् उक्तं तद् एवाङ्गं दर्शयति—सुस्मितम् इति ॥४३॥


कैवल्य-दीपिका : धारणाम् आह—तद् इति । एकत्र चरणादौ । देश-बन्धश् चित्तस्य धारणा [यो।सू। ३.१] इति हि पातञ्जलम् । एवं प्राग्-उक्त-दिशा स्मितान्तं ध्यायेत् । सुस्मितम् इति हि विशेषणे तात्पर्यम् ॥४३॥ [मु।फ। २.३६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-व्यापकं सर्वाङ्गेषु सञ्चरत् चित्तं आकृष्य एकत्र एकस्मिन्न् अङ्गे, त्द् एवाह—मुखम् इति ॥४३॥


॥ ११.१४.४४ ॥

तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् ।

तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्योम्नि सर्व-कारण-रूपे । तच् च कारणत्वम् अपि त्यक्त्वा मद्-आरोहो मयि शुद्धे ब्रह्मण्य् आरूढः सन् किञ्चिद् ध्यातृ-ध्येय-विभागम् अपि न चिन्तयेत् ॥४४॥


कैवल्य-दीपिका : धारणाम् आह—तद् इति । एकत्र चरणादौ । देश-बन्धश् चित्तस्य धारणा [यो।सू। ३.१] इति हि पातञ्जलम् । एवं प्राग्-उक्त-दिशा स्मितान्तं ध्यायेत् । सुस्मितम् इति हि विशेषणे तात्पर्यम् ॥४४॥ [मु।फ। २.३७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र लब्ध-पदम् इत्य्-आदिकं मुमुक्षु-ध्यानत्वात् । यद् वा, तद्-अनन्तरं ब्रह्मानुसन्धानं माया-वृत्ति-लेशावशेष-लोपेच्छया तल्-लोपे च स्वतः श्री-भगवत्-स्फूर्तिर् भवतीति ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५४] इतिवत् ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लब्ध-पदं ततोऽन्यत्रागच्छत् तत्रैव स्थिरीभूतम् इत्य् अर्थः । ततश् च तत्र मुख-ध्यान एव लब्ध-पदं मुख-ध्यानम् अजहद् एवेत्य् अर्थः । आकृष्य देहेन्द्रियादिभ्यः पृथक्-कृत्य, न तु ध्यान-भक्तेर् अपि पृथक्-कृत्येत्य् अर्थः । व्योम्नि आकाशे धारयेत्, ततश् च तच् च चित्तम् अपि त्यक्त्वा मद्-आरोहो मयि ब्रह्मण्य् आरूढः सन् न किञ्चिद् अपि चिन्तयेत्, किन्तु भक्ति-कर्णिका-युक्तो जीवो ब्रह्मैवानुभवेद् इति भावः । भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् [भा।पु। ३.२८.३३] इति कपिल-देवोक्तेः कर्म-ज्ञानादि-त्यागस्येव ध्यान-भक्ति-त्यागेच्छायाश् च निषिद्धत्वात् ॥४४॥


॥ ११.१४.४५ ॥

एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि ।

विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : परमात्मानं मां स्व-देहे पश्यन्ति । जीव-ज्योतिर्मयि संयुतं प्रपश्यन्ति ।

समाधि-योगे सम्पूर्णे हृदि पश्यन्ति केशवम् ।

जीवं तत्-प्रतिबिम्बं च तेनैव सह संस्थितम् ॥

तद्-आधारं तद्-अन्तःस्थं तेनैव सदृशं तदा ।

आनन्द-ज्ञान-शक्त्याद्यैः सदा तद्-अवरं गुणैः ।

जीवन्-मुक्तौ च मुक्तौ वा सततं तद्-वशे स्थितम् ॥ इति ॥४५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : माम् एवात्मनि विचष्टे आत्मानं च सर्वात्मनि मयि संयुतं विचष्टे । ज्योतिर् ज्योतिषि संयुक्तम् इवेत्य् अन्वयः ॥४५॥


कैवल्य-दीपिका : तस्य फलम् आह—एवम् इति । एवं सप्तभिर् अङ्गैः समाधिं प्राप्ता मतिर् यस्य स तथा । माम् आत्मानं जीवम् । मय्य् आत्मनि परमात्मनि सर्वात्मनि सर्वात्मके विचष्टे विशेषात् पश्यति । मां मयीति जीव-परयोर् अभेदे उक्ते । ज्योतिर् इति दृष्टान्तः । यथा प्रतिबिम्ब-भूतं ज्योतिर्-उपाध्य्-उपरमे बिम्बी स्यात् तथेत्य् अर्थः । अत्रापि फलोक्तिः प्राग्वत् ॥४५॥ [मु।फ। २.३८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्योतिः किरणं ज्योतिषि किरण-मालिनीव संयुतं नित्याश्रितम् इत्य् अन्वयः॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु ध्यानमयी भवेद् इत्य् आह—एवम् इति । समाहिता समाधि-युक्ता मतिर् यस्य सः । माम् एव ब्रह्म आत्मनि जीवात्मनि विचष्टे, आत्मानं च सर्वात्मनि मयि संयतं विचष्टे । ज्योतिर् ज्योतिषि संयुक्तम् इति ब्रह्म-जीवयोर् अप्राकृत-स्वीय-पूर्ण-ज्योतिः-कणत्वं ज्ञापितम् ॥४५॥


॥ ११.१४.४६ ॥

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

संयास्यत्य् आशु निर्वाणं द्रव्य-ज्ञान-क्रिया-भ्रमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्-प्रतिपत्तौ द्रव्य-ज्ञान-क्रिया-विषये भ्रम-रूपं मनो-लयं याति ॥४६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूत-समाधि-पर्यन्त-ध्यानस्य फलम् आह—ध्यानेनेति । मनो युञ्जतः समादधतः । द्रव्य-ज्ञान-क्रिया-भ्रमोऽधिभूताधिदैवाध्यात्म-रूपो दृश्य-द्रष्टृ-दर्शन-रूपो वा भ्रमो निर्वाणं शान्तिं सम्यग् यास्यतीति ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं-भूत-समाधि-पर्यन्त-ध्यानस्य फलम् आह—ध्यानेनेति । युञ्जतः समादधतः । द्रव्य-ज्ञान-क्रियासु अधिभूताधिदैवाध्यात्मसु भ्रमः अध्यास-रूपः निर्वाणं शान्तिं सम्यग् याति यास्यतीति ॥४६॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे चतुर्दशः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे भक्ति-योग-माहात्म्यं नाम

चतुर्दशोऽध्यायः ।

॥ ११.१४ ॥



  1. सुख-मय्यः ↩︎

  2. साङ्ख्य-शास्त्रोक्त-प्रकृतेः सत्त्वाद् वा पुरुषो भिन्नः पुरुषात् प्रकृति-भिन्नावित्य् एवं-रूपो मोक्षोपायः सत्त्व-पुरुषान्यता-ख्यातिर् ज्ञानम् इति ॥ ↩︎

  3. तपः स्वाध्ययेश्वर-प्रणिधानानि नियमाः इत्य् अत्र सूत्रे व्याख्यातं—स्वाध्यायः प्रणवादि-पवित्राणां मन्त्राणां जपः इति ↩︎

  4. साङ्ख्य-शास्त्रोक्त-प्रक्åतेः सत्त्वाद् वा पुरुषो भिन्नः पुरुषात् प्रक्åति-भिन्नावित्य् एवं-रूपो मोक्षोपायः सत्त्व-पुरुषान्यता-ख्यातिर् ज्ञानम् इति ॥ ↩︎

  5. तपः स्वाध्ययेश्वर-प्रणिधानानि नियमाः इत्य् अत्र सूत्रे व्याख्यातं—स्वाध्यायः प्रणवादि-पवित्राणां मन्त्राणां जपः इति ↩︎

  6. भक्ति-सन्दर्भे २७८-परिच्छेदे पञ्च-विध-स्मरणेषु द्वितीयाया धारणाया उदाहरणम् अयं श्लोकः । ↩︎