१३ हंसोपदेशः

॥ ११.१३.१ ॥

श्री-भगवान् उवाच—

सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः ।

सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

त्रयोदशेऽथ सत्त्वस्य वृद्ध्या विद्योदय-क्रमः ।

हंसेतिहासतश् चित्त-गुण-विश्लेष-वर्णनम् ॥

विद्या-कुठारेण जीवाशयं विवृश्च्य साधनं त्यजेत्य् उक्तम् । ननु तत्र तम-आदि-गुण-त्रय-वृत्ति-प्रतिबन्धे सति कथं विद्योत्पत्तिर् इत्य् आशङ्क्य तन् निवृत्त्या विद्योत्पत्ति-प्रकारम् आह—सत्त्वम् इति सप्तभिः । तत्र यद्य् आनन्दादिवद् आत्म-धर्मा गुणाः स्युस् तर्हि तत् स्वरूपत्वत् तेषाम् अनिवृत्त्या विद्योत्पत्तिर् न स्यात्, न त्व् एतद् अस्तीत्य् आह—बुद्धेः प्रकृतेर् एते गुणा न त्वात्मन इति । अतः सत्त्वेन सत्त्व-वृद्ध्यान्यतमौ हन्यात् । रजस्-तमो-वृत्तीर् जयेद् इत्य् अर्थः । सत्त्वं च सत्य-दयादि-वृत्ति-रूपम् उपशमात्मकेन सत्त्वेनैव हन्यात् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

त्रयोदशे गुणांस् त्यक्तुम् उपयं हंस-गुह्यतः ।

इतिहासाद् धरि-ध्यानाद् ऊचे चित्ताद् गुण-च्युतिम् ॥

विद्या-कुठारेण छित्त्वेत्य् उत्तमतो विद्योत्पत्ति-प्रकारम् आह—सत्त्वम् इति सप्तभिः । न चात्मनः नैव जीवस्य । अतो बन्धका अविद्याया गुणास् ते हन्तव्या इति भावः । अन्यतमौ रजस्-तमो-भागौ, सत्त्वं सत्य-दयादि-रूपं उपशमात्मकेन सत्त्वेन हन्यात् ॥१॥

———————————————————————————————————————

॥ ११.१३.२ ॥

सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः ।

सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गुण-त्रय-वृत्तीनां परस्परोपमर्दन-रूपत्वात् कथं सत्त्व-वृत्त्यैवेतर-वृत्तयो नियमेन हन्तव्यास् तत्राह—सत्त्वाद् इति । मद्-भक्तिं लक्षयति यो धर्मः स मद्-भक्ति-रूप एव वा । सत्त्वम् एव कथं वर्धेत ? तत्राह—सात्त्विकानां पदार्थानाम् उपासया सेवया सत्त्वं वृद्धं भवतीत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वोक्त-रीत्या सत्-सङ्ग-लब्धो मद्-भक्ति-लक्षणो धर्मो वृद्धात् वृद्धिं प्राप्तात् सत्त्वाद् भवेत् मालाकारेणोप्तः चम्पक-बीज-विशेषः क्षीर-सेकेन जाताद् वीर्याद् इवेति भावः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्त्वस्येतर-गुण-पराभावकत्वे बलम् आह—सत्त्वाद् इति । मद्-भक्तिः गुण-भूत-लक्षणं चिह्नं यत्र सः । यद् वा, मद्-भक्त्यैव लक्षणं यस्य सः । तां विना तल्-लक्षणो विगीत एव धर्म इत्य् अर्थः । सत्त्वम् एव कथं वर्धेत ? तत्राह—सात्त्विकानां वस्तूनाम् उपासया सेवया सत्त्वं वृद्धं भवतीत्य् अर्थः ॥२॥

———————————————————————————————————————

॥ ११.१३.३ ॥

धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः ।

आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स च धर्मो रजस् तमश् च हन्यात् । कुतः ? न विद्यते उत्तमो यस्मात् स सर्वोत्तमः, यतः सत्त्व-वृद्धिः सत्त्वस्य वृद्धिर् यस्मिन् कारणे सः । अत एव तत्-कार्यो धर्म-प्रतिबन्धोऽपि नास्तीत्य् आह तस्मिन्न् उभयस्मिन् हते तन्-मूलः । ते रजस्-तमसी राग-द्वेषादिना प्रमादालस्यादिना च मूलं यस्य सः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सत्त्व-वृद्धिर् इति मिथो-वर्धनात् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभये हते रजस्-तमसोर् हतयोः सतोः तन्-मूलः रजस्-तमो-मूलः ॥३॥

———————————————————————————————————————

॥ ११.१३.४ ॥

आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।

ध्यानं मन्त्रोऽथ संस्कारो दशैते1 गुण-हेतवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सात्त्विकोपासया सत्त्वं वर्धत इत्य् उक्तम् । तान् एव सत्त्व-वृद्धि-हेतून् दर्शयितुं सामान्यतो गुण-त्रय-वृद्धि-हेतून् आह—आगमः शास्त्रम् । अपः आपः । क्वचिद् आगमोऽर्थ इति पाठः । (प्रजा सत्-पुत्रः । देशः कृष्णामृग-सञ्चारः । कालो वसन्तादिः । कर्म वर्णाश्रमादि-विहितम् । जन्म उभय-कूल-विशुद्धम् । ध्यानं देवता-विषयम् । मन्त्रो गायत्र्य्-आदिः । संस्कारो गर्भाधानादिः । एते दश त्रिगुणोत्पत्ति-हेतवः ।)2 ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सात्त्विकोपासनयेत्य् उक्त-मतः सात्त्विकानि वस्तूनि ज्ञापयितुम् आह द्वाभ्याम् । आगमः शास्त्रम् । अपः आपः । प्रजा जनः । त्रि-गुण-हेतवः गुण-त्रय-जन्याः । आगमादयः सात्त्विका राजसास् तमसाश् च स्युर् इत्य् अर्थः ॥४॥

———————————————————————————————————————

॥ ११.१३.५ ॥

तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते ।

निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एषु सात्त्विकादि-निर्णयम् आह—एषाम् एव मध्ये यद् यद् वृद्धाः शास्त्र-ज्ञाः प्रचक्षते प्रशंसन्ति, तत् तत् सात्त्विकम् । यच् च निन्दन्ति, तत् तामसम् । यत् तु तैर् वृद्धैर् उपेक्षितं न स्तुतं न च निन्दितं, तद् राजसम् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : वृद्धाः श्री-व्यासादयः सात्त्विकादीनां गुण-दोषौ पाद्मोत्तर-खण्डे दर्शितौ वर्तेते ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एषां मध्ये प्रचक्षते प्रशंसन्ति, तद्-उपेक्षितं तैर् न स्तुतं नापि निन्दितम् इत्य् अर्थः ॥५॥

———————————————————————————————————————

॥ ११.१३.६ ॥

सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये ।

ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सात्त्विकान्य् एवेति । निवृत्ति-शास्त्राण्य् एव सेवेत, न प्रवृत्ति-पाखण्ड-शास्त्राणि । तीर्थाप एव, न गन्धोदक-सुराद्याः । प्रजा-जनाः निवृत्तान् जनान्, न प्रवृत्त-दुराचारान् । विविक्त-देशं, न रथ्या-द्यूत-देशान् । कालं ब्राह्म-मुहूर्तादिकं ध्यानादौ, न प्रदोष-निशीथादीन् । कर्म च नित्यं, न काम्याभिचारादीनि । जन्म च वैष्णव-शैव-दीक्षा-लक्षणं, न शाक्त-क्षुद्र-दीक्षा-रूपम् । ध्यानं श्री-विष्णोः, न कामिनी-विद्विषाम् । मन्त्रं प्रणवादिकं, न काम्य-क्षुद्रान् । संस्कारम् आत्मनः शोधकं, न तु केवलं देह-गृहादीनाम् ।

ननु ज्ञानं महा-वाक्य-श्रवणाद् एवोत्पद्यते, किं तत्र सत्त्व-वृद्ध्या धर्मेण वा ? अत आह—यावत् स्मृतिर् आत्मापारोक्ष्यम् । यावच् च देह-द्वय-तत्-कारण-भूत-गुणापोहः, तवत्-पर्यन्तं ज्ञानं भवतीत्य् अर्थः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सात्त्विकान्य् एवेत्य् अस्य टीकायां तावत्-पर्यन्तं ज्ञानं भवतीत्य् अर्थः, इति तावच्-छास्त्रोत्थ-परोक्ष-ज्ञानम् एवानुवर्तते । तत आत्मा-परोक्षार्थं सात्त्विकान्य् एव सेवेतेत्य् अर्थः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सात्त्विकानि निवृत्ति-शास्त्राण्य् एव, न तु राजस-तामसानि प्रवृत्त-पाषण्ड-शास्त्राणि । तीर्थाप एव, न गन्धोदक-सुरोदकाद्याः । जनान् निवृत्तान् एव, न प्रवृत्त-दुराचारान् । देशान् विविक्तान् एव, न तु रथ्या-द्यूत-सदनानि । कालान् ब्राह्म-मुहूर्त-प्रातर्-आदीन्, न प्रदोष-निशीथान् । कर्माणि च नित्य-नैमित्तिकानि, न काम्याभिचारादीनि । जन्मानि प्रणव-दीक्षादि-लक्षणानि, न शाक्त-क्षुद्र-दीक्षा-लक्षणानि । ध्यानानि यज्ञेश्वर-ज्ञानि-धार्मिकाणां, न तु कामिनी-विद्विषाम् । मन्त्रान् प्रणवादीन्, न तु काम्य-क्षुद्रान् । संस्कारान् आत्म-शोधकान्, न तु देह-गेह-सूनास्थानादि-शोधकान् ।

ततः सत्त्व-वृद्धेर् हेतोर् धर्मः, धर्माच् च ज्ञानम् । किं पर्यन्तम् ? स्मृतिर् आत्मापारोक्ष्यं यावत्, देह-द्वयाध्यास-तत्-कारण-भूत-गुणापोहश् च यावत्, तवत्-पर्यन्तं भवेत् । तद् एव ज्ञानं विद्या, सैव जीवोपाधिं दग्ध्वा निरिन्धनाग्निवद् अन्ते स्वयम् अपिइ शाम्यतीत्य् अर्थः ॥६॥

———————————————————————————————————————

॥ ११.१३.७ ॥

वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद् वनम् ।

एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वेदावृत्ति-ज्ञानम् ।

मुक्ताश् चाधीयते वेदान् जड-ज्ञान-बहिष्कृताः ।

स्वरूप-भूत-ज्ञानेन पश्यन्तः सर्वम् अञ्जसा ॥ इति तत्त्विके ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गुण-व्यतिकराज् जातो देहः कथं स्वाश्रय-भूतान् गुणान् स्वत एवोत्पन्नया विद्ययऽपोह्य स्वयम् अप्य् उपरमेत् तत्राह—वेणूनां सङ्घर्षाज् जातोऽग्निर् यथा स्वत एवोत्पन्नाभिर् ज्वालाभिस् तद् वनं सर्वं दग्ध्वा पश्चात् स्वयं शाम्यति । एवं देहोऽपि तत्-क्रियस् तस्याग्नेर् इव क्रिया-व्यापारो यस्य सः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु गुण-व्यतिकर-मय-बुद्धीन्द्रियादिभ्य एव साधनाभ्यासेनोत्पन्नं ज्ञानं कथं स्व-हेतु-भूतान् गुणान् निरस्येत् ? अत आह—वेणूनां सङ्घर्षाज् जातोऽग्निर् यथा तद् वनं वेणु-वनं दग्ध्वा शाम्यति, एवम् एव गुण-व्यत्ययजो देहो देहोत्थं ज्ञानं, तत्-क्रिया यस्य सः । जीवोपाधिं दग्ध्वा पश्चात् स्वयं शाम्यति ॥७॥

———————————————————————————————————————

॥ ११.१३.८ ॥

श्री-उद्धव उवाच—

विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् ।

तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नियतेन्द्रियतया सात्त्विक-सेवायाम् इयान् अस्ति पुरुषार्थः । तथापि राजसादीन् विषयान् दुःखम् इति जानन्तोऽपि कथं सेवन्ते ? इति पृच्छति—विदन्तीति । पदं स्थानम् । श्वानो यथा भर्त्स्यमाना अपि,3 खरा यथा पद्भ्यां ताड्यमाना अपि खरीम् अनुधावन्तः, अजा यथा निर्लज्जा हन्तुम् आनीता अपि, तद्वत् ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि विदन्ति तथापि श्वादयो ये न विदन्ति तद्वत् कथं भूञ्जते ? प्रायेणेति । ये न विदन्ति ते श्वादि-निर्विशेषास् तावद् भुञ्जताम् इत्य् अर्थः । विषयांस् त्र्य्-आदीन् आपदां भावि-दुःखानां पदम् अव्यभिचारि-स्थानं दुःखोदर्काणि संपश्यन्न् [भा।पु। ११.१३.११] इति वक्ष्यमाणात् । तत्र श्वा मैथुनान्ते शुन्यां बन्धं, खरो रजक-दर्शित-तृण-मुष्टि-भोगान्ते महा-भार-वहनम्, अजो नित्य-नाना-भोजनाद्य्-अन्ते शिरश्-छेदं न जानन्तीति तथा दृष्टान्तितम् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ये न जान्तस् ते दुर्विषयान् भुञ्जतां, सात्त्विक-सेवया इयान् पुरुषार्थः स्याद् इति जानन्तोऽपि तान् कथं भुञ्जते ? इत्य् आह—विदन्तीति । श्वानो यथा भर्त्स्यमानोऽपि उच्छिष्ट-ग्रासं, खरा यथा पद्भ्यां ताड्यमाना अपि खरीम्, अजा यथा हन्तुम् आनीता अपि, तद्वत् ॥८॥

———————————————————————————————————————

॥ ११.१३.९ ॥

श्री-भगवान् उवाच—

अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि ।

उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथ्याभिनिवेशेन भुञ्जत इति स-हेतुकम् आह—अहम् इति त्रिभिः । प्रमत्तस्य विवेक-शून्यस्य देहादाव् अहम् इति मिथ्या-बुद्धिर् हृदि यथावद् उत्सर्पति । ततोऽहं बुद्धेश् च वैकारिकं सत्त्व-प्रधानम् अपि मनः प्रति घोरं दुःखात्मकं रज उत्सर्पति । मनो व्यप्नोतीत्य् अर्थः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रमत्तस्य पूर्व-कर्म-विशेषेण लुप्त-विवेकस्य देहादाव् अहम् इत्य् अन्यथा बुद्धिर् हृदि यथोत्सर्पति अतिशेते तथा रजोऽप्य् उत्सर्पन्ति । ततो हेतोर् वैकारिकं सात्त्विकम् अपि मनः उत्सर्पति दुर्वशं भवति ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये दुर्विषयान् भुञ्जते, ते विद्वांस एव नोच्यन्ते, किन्तु विद्वन्-मानिन एव । ते विषयान् निन्दन्तोऽपि यथा भुञ्जते, तत्र प्रकारं शृणु, इत्य् आह—अहम् इति त्रिभिः । प्रथमं देहादाव् अहम् इति हृदि मिथ्या-बुद्धिर् उत्कर्षेण सर्पति । ततः प्रमत्तस्य तस्य घोरं रजः कर्तृ वैकारिकं सात्त्विकम् अपि मनः प्रति उत्सर्पति, मनो व्यप्नोतीत्य् अर्थः॥९॥

———————————————————————————————————————

॥ ११.१३.१० ॥

रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः ।

ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदम् एवम् इदम् एवं भोग्यम् इति स-विकल्पः सङ्कल्पः स्यात् । ततश् च, अहो रूपम् अहो भाव इति गुणाभिध्यानाद् दुर्धरः कामः स्यात् ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवाह—रजो-युक्तस्येत्य् अर्धकेन ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमम् इदम् भोग्यम् इति सङ्कल्पः, ततश् च इदम् एव भोग्यम् इदम् एवं भोग्यम् इति स-विकल्पः स-विशेषः सङ्कल्पः स्यात् । ततश् च, अहो रूपम् अहो भाव इति गुणाभिध्यानाद् दुर्निरोधः कामः स्यात् ॥१०॥

———————————————————————————————————————

॥ ११.१३.११ ॥

करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः ।

दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो विषयान् भोक्तुं कर्माणि करोति ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : दुःखोदर्काणीति जानन्न् अपि ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततस् तद्-विषय-प्राप्त्य्-अर्थं कर्माणि दृष्टादृष्ट-फलानि तानि च दुःखोदर्काणि पश्यन् जानन् अपि ॥११॥

———————————————————————————————————————

॥ ११.१३.१२ ॥

रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः ।

अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं चेन् न कस्यापि दुःख-निवृत्तिः स्याद् इत्य् आशङ्क्याह । यद् अपि यद्य् अपि रजस्-तमोभ्यां विक्षिप्त-धीर् मूढ-धीश् च तथापि विद्वान् विवेकी पुनर् मनो निरुन्धन् न सज्जते ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विद्वांस् तु यद्यपि रजस्-तमोभ्यां विक्षिप्त-धीः परतन्त्र-धीश् च कथञ्चित् स्यात् तद् अपि ॥१२॥

———————————————————————————————————————

॥ ११.१३.१३ ॥

अप्रमत्तोऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः ।

अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषय-दोष-दृष्ट्यापि मनो-निरोधा-शक्तौ सुखं तन् निरोधोपायम् आह—अप्रमत्त इति । अनिर्विण्णोऽलसः । यथा-कालं त्रिष-वणम् । मयि परमानन्द-रूपेऽर्पयन् समादध्यात् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतन्द्रित इत्य् अस्यार्थम् आचष्टे—अप्रमत्त इति । कुत्र मनो युञ्जन्न् इत्य् अत आह—मयि अनुयुञ्जीतेति । अनिर्विण्ण इति तद् अपि मनो-निरोधो यदि न स्यात्, तद् अपि तत्-प्रयत्नान् न विरमेद् इति भावः ॥१३॥

———————————————————————————————————————

॥ ११.१३.१४ ॥

एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।

सर्वतो मन आकृष्य मय्य् अद्धावेश्यते मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषयैः सङ्ग्रथितस्य मनसस् तद्-वियोगेनेश्वर-निष्ठत्वम् असंभावितं मन्यमानं प्रति तन्-निरूपणायेतिहासम् उपक्षिपति—एतावान् इति । यथा यथावन् मय्य् आवेश्यते एतावान् इत्य् अर्थः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : टीका च—यथा यथावन् मय्य् आवेश्यते एतावान् इत्य् अर्थः इत्य् एषा । अद्धा साक्षात् । तथा च स्कान्दे—

आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।

इदम् एव सुनिष्पण्णं ध्येयो नारायणः सदा ॥ इत्य्-आदि ॥१४॥4


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१३.१५ ॥

श्री-उद्धव उवाच—

यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मच्-छिष्यैर् इत्य् उक्ते तेषाम् अतिज्यायसामनेन रूपेण निरूपणासम्भवात् पृच्छति—यदेति । तं कालं तद् एतद् रूपं च वेदितुम् इच्छामि तत् कथयेति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यदेति । त्वं त्वं नित्य-नराकृति-पर-ब्रह्म-रूपः सर्वावतारी यदा येन रूपेणावतारेण तं समयं तद्-रूपं च वेदितुम् इच्छामि ॥१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१३.१६ ॥

श्री-भगवान् उवाच—

पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मानसाः पुत्राः । सूक्ष्मां दुर्ज्ञेयाम् । ऐकान्तिकीं गतिं परां काष्ठाम् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐकान्तिकीं गतिं परां काष्ठाम् ॥१६॥

———————————————————————————————————————

॥ ११.१३.१७ ॥

सनकादय ऊचुः—

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो ।

कथम् अन्योन्य-सन्त्यागो मुकुक्षोर् अतितितीर्षोः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : प्रश्नो बीजम् अस्येति प्रश्न-बीजं परिहारम् । गुणानां चेतसश् च कर्म-कारणम् इति मन्द्वानः कर्म-धीः ।

ब्रह्मा पृष्टस् तु योगीन्द्रैः सनकाद्यैर् मनो-गतैः ।

कारणं विषयेष्व् अद्धा कर्मेति प्रत्यपद्यत ॥

हेतुर् अन्योऽपि तत्रास्तीत्य् एवं जानन्न् अपि प्रभुः ।

विशेषतो मनस् तत्र नाधाज् जानन् हरेः प्रियम् ॥

स्वात्मना परिहारोक्तिस् तदा ह्य् आसीद् धरे प्रिया ।

अतः स तत्-प्रियं जानन्न् आकरोत् तद्-विचारणम् ॥

तम् एव चिन्तयद् देवः प्रण्च-निर्णय-कारणात् ।

भ्रमतीव मनः क्वापि ब्रह्मणो विष्णु-मायया ॥

सर्वज्ञस्यापि तत्रात्मा वक्तुम् इच्छेद्ज् जनार्दनः ।

तज् ज्ञात्वा चिन्तितं तस्य चिन्तयत्य् अमुम् एष तु ॥

न स्वयं चिन्तयत्य् अर्थं स हि तद्-भाव-वित् सदा ।

अन्ये त्व् अज्ञान-संयुक्ता मोहम् ईयुर् यथा-क्रमम् ।

नैवाज्ञानं यथा सूर्ये तमो नास्ति कदाचन ॥ इति तत्त्व-विवेके ॥१७-१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—गुणेष्व् इति । विषयेषु स्वभावतो रागादि-वशाच् चेतः प्रविशति । ते चानुभूता विषया वासना-रूपेण चेतसि प्रविशन्ति । अतितितीर्षोर् विषयान् अतिक्रमितुम् इच्छोः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणेषु विषयेषु स्वभावतो रागाद् एव चेतः प्रविशति । ते चानुभूता विषयाश् चेतसि प्रविशन्ति । अतितितीर्षोर् विषयान् अतिक्रमितुम् इच्छोः ॥१७॥

———————————————————————————————————————

॥ ११.१३.१८ ॥

श्री-भगवान् उवाच—

एवं पृष्टो महा-देवः स्वयम्-भूर् भूत-भावनः ।

ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् इति । महान् देवोऽपि स्वयंभूर् अपि भूतानां स्रष्टापि ध्यायमानो विचारयन्न् अपि प्रश्नस्य बीजं यद् अज्ञानाद् अयं प्रश्नस् तन् नाविन्दत् । यतः कर्म-विक्षिप्त-धीः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवम् इति,

यावान् अहं यथाभावो यद्-रूप-गुण-कर्मकः ।

तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥ [भा।पु। २.९.३१] इति ।

एतन्-मतं समातिष्ठ परमेण समाधिना ।

भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् ॥ [भा।पु। २.९.३६] इति

ऋषिम् आद्यं न बध्नाति पापीयांस्त्वां रजो-गुण [भा।पु। ३.९.३५] इति लब्ध-भगवद्-वरत्वेऽपि, न भारती मेऽङ्ग मृषोपलक्ष्यते [भा।पु। २.६.३४] इत्य्-आदिना व्यञ्जित-तादृश-स्वानुभवत्वेऽपि, योऽन्तर्हित [भा।पु। ३.१५.४६] इत्य् आदौ पित्रानुवर्णितरहा इति श्री-भगवन्तं प्रति सनकादीनां वाक्यत्वेऽपि च । ब्रह्मणः कर्मधीनत्वं सम्प्रति स्व-महिम-व्यञ्जनाय श्री-भगवद्-इच्छयैव ज्ञेयं हंसोपनिषदि वाय्व्-आदि-शक्ति-स्तम्भनेतिहासवत् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-देवोऽपि स्वयंभूर् अपि भूतानां स्रष्टापि ध्यायमानो विचारयन्न् अपि प्रश्नस्य बीजं यद् अज्ञानाद् अयं प्रश्नस् तत् शुधत्वं पदार्थत्वं नाभ्यपद्यत, ज्ञातुं नाशक्नोद् इत्य् अर्थः । यतः कर्म-धीः, स्वीय-सृष्टि-मात्र-कर्मासक्त-बुद्धिः ॥१८॥

———————————————————————————————————————

॥ ११.१३.१९ ॥

स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया5

तस्याहं हंस-रूपेण सकाशम् अगमं तदा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्नस्य पारम् उत्तरम् अभिप्रायो वा तस्य तितीर्षया जिज्ञासया । हंस-रूपेणेति । यथा हंसो नीरं क्षीरं च पृथक् कर्तुं शक्तः, एवम् अहं गुणांश् चेतश् चेति द्योतयितुं हंस-रूपेण गतोऽस्मीति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हंस-रूपेण गतोऽस्मीत्य् अभिप्राय इति शेषः ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंस-रूपेणेति । यथा हंसो नीरं क्षीरं च पृथक् कर्तुं शक्तः, तथाहं गुणांश् चेतश् चेति द्योतयितुम् इति भावः ॥१९॥

———————————————————————————————————————

॥ ११.१३.२० ॥

दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।

ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : कृत-पादाभिवन्दनत्वात् को भवान् इति प्रश्नो नाज्ञानजः, किन्तु तेनैव तद्-अभिप्राय-ज्ञानार्थः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१३.२१ ॥

इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा ।

यद् अवोचम् अहं तेभ्यस्6 तद् उद्धव निबोध मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अहं मुनिभिः पृष्ट इति पृथग् वाद्यम्, यद् अवोचम् इति च पृथक् । अतोऽस्मच्-छब्दावृत्तिर् अदोषः । तेभ्यो यद् अवोचं तन् मे वचनं निबोध ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एवाह तत्त्व-जिज्ञासुभिर् इति ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहं तेभ्यः अहन्ता अभिमानस् तस्या इभ्यः स्वामी, तन्-नियन्ता, न तु तन्-नियम्यः । इभ्यः आढ्यो धनी स्वामी इत्य् अमरः ॥२१॥

———————————————————————————————————————

॥ ११.१३.२२ ॥

वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः ।

कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मनो वस्तुनः परमात्म-वस्तुन एकं यद्य अङ्गीकृतं, तदा कथं प्रश्नो घटेत । नहि परमात्मनोऽन्योऽत्र ब्रह्मणा पूज्यस्याद् अभिवन्दनादिना । तस्माद् ब्रह्मणे वद्न्यः परमात्मैव स चैक एवातः कथं प्रश्न-परिहारो वा ॥२२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : देहादि-विविक्तात्म-ज्ञाने सति तन्-निष्ठस्य रागाद्य्-असंभवात् स्वयम् एव विषय-चेतसोर् विश्लेषो भवतीति वक्तुं प्रश्न-खण्डन-मिषेणैव तावद् आत्मानात्म-विवेकम् आह—वस्तुन इति त्रिभिः । किम् आत्मनोऽयं प्रश्नस् तद्-उपाधेर् भूत-सङ्घस्य वा । यद्य् आत्मनस् तर्हि तस्य वस्तुतः परमार्थ-रूपस्यानानात्वे सति—हे विप्राः ! वो युष्माभिः कृतः प्रश्न ईदृशो बहुषु निर्धारण-रूपः कथं घटेत ? वक्तुर् उत्तर-दातुर् वा मे मम क आश्रयः? अविशेषे आत्मनि कं जाति-गुणादि-विशेषम् आश्रित्योत्तरं वक्ष्यामीत्य् अर्थः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं मां जीवं ज्ञात्वायं को भवान् ? इति प्रश्नः क्रियते । भौतिक-देहं ज्ञात्वा वा ? किं वेश्वरं ज्ञात्वा ? इति विकल्प्य जीव-पक्षं दूषयति—आत्मनो जीव-रूपस्य वस्तुनो यद्य् अनानात्वं सर्वस्यापि तस्य चिद्-एक-रूपतया विशेषांश-निर्देशायोग्यत्वं तर्हीदृशः प्रश्नः कथं घटेत ? यदीति निश्चये । तस्मात्, हे विप्राः! वो युष्माकं प्रष्टॄणां वक्तुर् वा मम क आश्रयः ? युष्माभिः किं जात्यादि-विशेषम् आश्रित्य कः ? इति प्रोक्तं मया चोत्तरयितव्यम् इत्य् अर्थः ।

अत्र ज्ञानिनो लौकिक-गुरु-रीतिं तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य जीवानन्तर-साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये यत् तु जीवात्मनाम् एकत्वम्, तत् खल्व् अंश-भेदेऽपि ज्ञानोच्छून् प्रति ज्ञानोपयोगित्वेन तम् अविविच्यैव समानाकारत्वेनाभेद-व्यपदेशो यथा वक्ष्यमाण-ग्रन्थे ॥२२॥ [परमात्म-सन्दर्भ ३२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं मां जीवं ज्ञात्वा को भवान् ? इति प्रश्नः क्रियते, भौतिक-देहं ज्ञात्वा वा ? किं परमेश्वरं ज्ञात्वा वा ? इति विकल्प्य प्रथम-जीव-पक्षं दूषयति । वस्तुनो वस्तु-भूतस्य आत्मनो जीवस्य यदि प्रश्नस् तदा सर्वस्यापि तस्य चित्-कणैक-रूपतया जाति-गुणादि-विशेषाभावेन च वस्तुनः खलु नानात्मकस्याय् अनानात्वे सति को भवान् इति वः प्रश्नः कथं घटेत ? वक्तुर् उत्तर-दातुर् वा मे क आश्रयः ? कं जाति-गुणादि-विशेषम् आश्रित्यामुकोऽहम् इत्य् उत्तरं दास्यामीत्य् अर्थः ॥२२॥

———————————————————————————————————————

॥ ११.१३.२३ ॥

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वस्तुतः समानेषु हिरण्यगर्भावरत्वात् तद्-वन्द्यत्वाभावापेक्षया । तस्मात् ब्रह्मणो वन्दनानतरं विचारो न घटते । तस्मात् को भवान् इति वाचा प्रारब्धः प्रश्नो निरर्थकः ॥२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : भूत-सङ्घ-विषयत्वेऽप्य् अयं वः प्रश्नो वाचारम्भो वाङ्-मात्रेणारब्धः, यतोऽनर्थकः । कुतः ? भूतेषु देव-मनुष्यादि-देहेषु मञ्च-भूतात्मकेष्व् अतः समानेष्व् अमिन्नेषु पुनश् च वस्तुतः परम-कारणात्मना अभिन्नेषु । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् इति श्रुतेः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देह-पक्षं दूषयति—पञ्चेति । वस्तुतो वस्तु-विचारे सति भूतानां पञ्चात्मकत्वात् को भवान् इत्य् एकत्वेन प्रश्नोऽयं नार्थवान् । यदि च देह-रूपाणां तेषां मिलितत्वेनैकत्वं मन्यध्वे तथाप्य् आत्मवत् समानत्वात् प्रश्नोऽयं नार्थवान् । ननु विदुषाम् अपि व्यवहारोऽयं दृश्यते, यतो भवतापि विप्रा इति व इति चोक्तम् ? इत्य् आशङ्क्याह—वाचारम्भ इति । वाङ्-मात्रेणारभ्यते मद्-विधेन तद्-अपोहार्थम् एव तद्-अनुवादः क्रियते भवद्भिश् च मद्-विधवद् इति चेत् ज्ञातम् एव तत्त्वं किं पृच्छत इति भावः ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-पक्षं दूषयति—पञ्चेति । वस्तुतो वस्तु-विचारे सति देह-स्थानां भूतानां पञ्चात्मकत्वात् को भवान् इत्य् एकत्वेन प्रश्नो न घटते । तस्मात् के यूयं पञ्चेत्य् उच्यताम् इति भावः । ननु तेषां पञ्चानां मिलितत्वेनैकत्वं मन्यामहे इत्य् अत आह—समानेषु सत्सु समानत्वाद् एव पूर्वो जीववद् ऐक्यात् को भवान् इति पुनर् अपि प्रश्नो न घटते ।

ननु च विदुषाम् अपि प्रश्नोत्तरेष्व् एवम् एव व्यवहारोऽयं दृश्यते, यतो भवतापि वो विप्रा इति चोक्तम् ? इत्य् आशङ्क्याह—वाचारम्भ इति । मम त्व् अयं वाचारम्भो ह्य् अनर्थक एव, मया तु वाङ्-मात्रेणारभ्यते, युष्मद्-वचनानुवाद-रीत्या युष्मत्-प्रश्नवद्-अघटमानत्वाद् अनर्थकम् एव प्रयुक्तम् इत्य् अर्थः । अथैवास्माभिर् अपीति चेद् ब्रूध्वे । तर्हि यूयम् अज्ञानिन एव कथं तत्त्वं जिज्ञासध्वे ? किम् अत्र न लज्जध्वे ? इति भावः॥२३॥

———————————————————————————————————————

॥ ११.१३.२४ ॥

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैर् अपीन्द्रियैः ।

अहम् एव न मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यस्मान् मन-आदिभिर् गृह्यमाणम् अहं न भवाम्य् एव स्वयम् अपि प्रसादात् कथञ्चित् गृह्यत इत्य् अत आह—मत्तोऽन्यद् इति । यन् मन-आदिभिर् विच्यार्य मत्तोऽन्यत्वेनैव ज्ञायते । तद् अहं न भवाम्य् एवेति बुद्ध्यध्वम् । विचारितस्यापि पुनः संशयः कारणं परिकाप्य् असंशयो न कर्तव्यः । अतः को भवान् इति नारध्वव्यः । गुणेष्व् आविशते चेत इत्य् एव प्रश्न आरध्वव्यः ।

न उष्माकम् अपि प्रश्नो घटेतायं कथञ्चन ।

माम् ऋते नहि वन्द्योऽस्ति विरिञ्चैः क्वापि कश्चन ॥

अभिवन्दित-पादं मां विरिञ्चेन कथं पुनः ।

पृच्छथान्ये समाचास्माच् अवरत्वे चतुर्मुखात् ॥

देवा मनुष्याः पितरो गन्धर्वा असुरास् तथा ।

इति पञ्चात्मकं सर्वं ब्रह्मणस् तवरं यतः ॥

यन् मद्-अन्यद्-विचारेण गृह्यते तन् न चास्म्य् अहम् ।

इति जानीध्वम् अवैद्ध मत्-प्रासादाद् धि मद्-दृशि ॥

अन्यस् त्व् अभावतो दृश्यं मम प्रेरणयैव तु ।

तस्मात् विवक्षितार्थे तु प्रश्नारम्भो न मद्-गतः ॥ इति तन्त्र-भागवते ॥

इदं हि सर्वं भगवान् इवेतर इति च ।

प्रकृतेः प्राकृता चैवं व्यतिरिक्तं गुणाधिकम् ।

ये विदुः परमात्मानं ते यान्ति परमं पदम् ॥ इति च ।

नैतद् इच्छन्ति पुरुषम् एकं कुरु-कुलोद्वह ।

बहूनां पुरुषाणां हि यथैका योनिर् उच्यते ।

तथा तं पुरुषं विश्वम् आख्यास्यामि गुणाधिकाम् ॥ इति च ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र पञ्चात्मकत्वं प्रत्यक्षादि-सिद्धम् एवेति परम-कारणाभेदम् एवोपपादयति—मनसेति । मन-आदिभिर् यद् गृह्यते तत् तद् अहम् एवेत्य् अर्थः । अञ्जसा तत्त्व-विचारेण । एतेनैव7 सर्वात्मकोऽहम् इत्य् अञ्जसाप्य् उत्तरम् उक्तं भवति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ईश्वर-पक्षं दूषयति—मनसेति । मन-आदिभिर् यद् गृह्यते तत् सर्वम् अहम् एव । कुतः ? यतो न मत्तोऽन्यत् परम-कारणं । मां विना तन् नास्त्य् एवेत्य् अर्थः । तथापि प्रश्नोऽयं न घटत इति भावः ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेश्वर-पक्षं दूषयति—मनसेति । परमेश्वरान्तराभावान् मम सजातीय-भेदो नास्त्य् एव, यच् च मन-आदिभिर् गृह्यते तद् अहम् एव, न त्व् अन्यत् मच्-छक्ति-कार्यत्वाद् इति विजातीय-भेदोऽपि नास्ति । अतः को भवान् इति प्रश्नो न घटते इति भावः ॥२४॥

———————————————————————————————————————

॥ ११.१३.२५ ॥

गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मय्य् एवात्मा मनो यस्य समदात्मा तस्य भयं देहे । दग्धम् अभवत् ॥२५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रश्न-खण्डन-मिषेणैवात्म-स्वरूपं सामण्यतो निरूप्य ब्रह्मणोऽपि दुष्परिहरं यत् पृष्टं तत्रोत्तरम् आह—गुणेष्व् इत्य्-आदिना यावद् अध्याय-समाप्ति । अयम् अभिप्रायः, यदि कर्तृत्व-भोक्तृत्वादि-रूपतया विषयैः सङ्ग्रथितं चित्तं बुद्ध्यादि-शब्द-वाच्यम् एव जीवस्य स्वरूपं भवेत् ततस् तद्-वियोगो न घटेत । तस्य तु स्वरूपम् अहं ब्रह्मैव । चित्ताध्यासेन तु तत् स्वभावतया विषयैः सङ्ग्रथितम् । अतः स्वस्य ब्रह्मत्व-भावनया विषयाणां च मिथ्यात्वानुसन्धानेन सर्वतो निर्विद्य भगवन्तं भजतो भवत्य् एव परिपूर्ण-स्वरूपावस्थानम् इति । हे प्रजाः पुत्रकाः, सत्यं गुणेषु चेत आविशति गुणाश् च चेतसि एवं गुणाश् चेतश् चोभयं ग्रथितं मद्-आत्मनो ब्रह्म-रूपस्य जीवस्य देहोऽध्यस्त उपाधिर् न तु स्वरूपम् ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं सति गुणाश् चेतश् च मिथः प्रसज्यैव स्थितानि भवन्त्य् अपि प्रसज्जन्ति, किम् उत जीवे ? इत्य् अस्माकं द्विगुणीभूयैव प्रश्नो जातः । इत्य् आशङ्क्य जीवे तेषाम् अस्वाभाविक-सम्बन्धं कथयन् स्वस्मिंस् तत् कैमुत्यं दर्शयति—गुणेष्व् इति । गुणेष्व् इत्य्-आदिकं सत्यम् एव, किन्तु जीवस्य तद्-उभयम् अपि देह उपाधि-मात्रेणैव जीवे सम्बद्धम् इत्य् अर्थः, यतो मद्-आत्मनः अहम् एवात्मा परमांशि-रूपो यस्य तस्य मद्-अंशस्य ततो मयि तु तत्-सम्बद्धः सुतराम् एव नास्तीत्य् अर्थः । अयं भावः—यथा सूर्यांशानां रश्मीनां सूर्य-कार्य-भूतेन मेघेन स्वाभाविक-सम्बन्धो नास्ति, सूर्यस्य तु दूरत एव तद्-वार्ता, तथा जीवानां मम च सम्बन्ध इति ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं चेत् सत्यम् अज्ञानिन एव वयं स्मः, किन्तु भवान् एव चेत् सर्वं तर्हि चेतश् च गुणाश् च त्वम् एव । अतश् चेतो-वृत्तिषु विषयाः प्रविष्टाः, विषयेष्व् अपि चेतो-वृत्तयः प्रविष्टा इत्य् उभयेषाम् एषाम् अन्योन्य-सन्त्यागं भवान् एवास्माभिः प्रष्टव्योऽभूत्। वदत कृपयोत्तरं देहीत्य् आह—गुणेष्व् इति । हे प्रजाः ! हे पुत्रकाः ! सत्यं गुणेषु चेत आविशति, गुणाश् च चेतसि, एवं गुणाश् चेतश् चोभयं मद्-आत्मनश् चिन्मयत्वेन ब्रह्म-स्वरूपस्य जीवस्य देहः अध्यस्त उपाधिर् एव, न तु स्वरूपम् । एवं च चेतसो गुणानां च परस्पर-सन्त्यागार्थं कथं यतध्वे ? उभयम् एव तद्-अनर्थ-कारि दूरतस् त्यक्त्वा कथं न निर्द्वन्द्वीभवतेति ध्वनिः ॥२५॥

———————————————————————————————————————

॥ ११.१३.२६ ॥

गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया ।

गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मत्-स्वरूपे तद् उभयं त्यजेत् । मयि स्थिताश् चेतो गुणाश् चेति ।

विष्णुस्था विषयाः सर्वे विष्णोर् एव मनो मम ।

इति मय्य् अर्पयन् सर्वं त्यजेत् तत् तन् न बाधते ॥ इति साम्ये ॥२६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् अभीक्ष्णं पुनः पुनर् गुण-सेवया तत्-संस्कारेण गुणेष्व् आविशच् चित्तं ते च पुनर् वासना-रूपेण चित्ते प्रकर्षेण भवन्तीति । तथा ते गुणाच् चेतश् च । एवं यद् उभयं तन् मद्-रूपः सन्त्यजेत् ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अपि जीवस् तु स्व-शक्त्या तान् वियोजयितुं न शक्नोति मद्-अभेदोपासनादि-लब्धमच्-छक्त्य्-अंशेनैवेत्य् आह—गुणेषु चेति । मद्-रूपः मद्-अभेद-भावनाविष्टः इति ज्ञानानुसारेणोक्तम् । भक्ति-रूपोपासना चेत् मम रूपं यत्र स ध्यातेति ज्ञेयम् ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् उभय-परस्पर-सन्त्यागश् च दुर्घट एवेत्य् आह—गुणेष्व् इति । अनादित एवाभीक्ष्णं गुण-सेवया दृढतरेण तत्-संस्कारेण गुणेष्व् आविशद् एव चित्तं वर्तते, कथं तांस् त्यक्तुं प्रभवत्व् इति भावः । गुणाश् च पुनः पुनर् वासना-रूपेण चित्ते प्रकर्षेण भवन्ति, सदा तत्र वर्तन्त, इति ते गुणाश् च । कथं वा तत् त्यक्तुं प्रभवन्त्व् इति भावः । किं च, ज्ञानिनां कष्टेन परस्पर-तद्-उभय-त्याजना च निष्प्रयोजनैव । तैर् उभयैर् अपि प्रायः प्रयोजनं तेषां नास्तीत्य् आह—मद्-रूपः मद्-अभेद-भावनावेशान् मन्मयः सन्, ज्ञानी उभयं त्यजेत् । भक्तानां तु मत्-सेवाम् एव परम-पुरुषार्थत्वेन निश्चितवतां मद्-रूप-गुण-लीला-रस-निमग्नाच् चेतसः सकाशात् स्वत एव गुणा अपयान्तीति न तेषां चेतो गुणयोः परस्पर-सन्त्यागो दुर्घटः । मन्मयी-भावस् तु तेषां नेष्ट इति ज्ञेयम् ॥२६॥

———————————————————————————————————————

॥ ११.१३.२७ ॥

जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।

तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु जाग्रद्-आद्य्-अवस्थावतः कुताह् कूटस्थत्व-रूपता तत्राह—जाग्रज् जागरः, स्वपः सुषुप्तं चेति बुद्धेर् एता वृत्तयः, न तु जीवस्य । ताश् च न स्वाभाविक्यः, किन्तु,

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् ।

प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ [भा।पु। ११.२५.२०]

इति वक्ष्यमाण-क्रमेण गुणत एव । जीवस् तु विलक्षणस् तद्-अवस्था-रहित एव विनिश्चितः । कुतः ? तासां साक्षित्वेन ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवस्य तैः स्वाभाविक-सम्बन्धाभावं दर्शयति । जाग्रद् इति तैः ॥२७॥ [परमात्म-सन्दर्भ १८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्तुतस् तु निलेपस्य जीवस्य गुणैश् चित्तादिभिश् च सम्बन्ध एव नास्ति, मिथ्याध्यास-त्याग एव तत्-त्याग उच्यते, इत्य् आह—जाग्रद् इति । जाग्रत् जागरः—

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् ।

प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ [भा।पु। ११.२५.२०]

इति वक्ष्यमाण-गुणत एव हेतोर् बुद्धेर् वृत्तयः । जीवस् तु विलक्षणस् तत्-तद्-अवस्था-रहित एव । कुतः ? तासां साक्षित्वेनैव निश्चितः ॥२७॥

———————————————————————————————————————

॥ ११.१३.२८ ॥

यर्हि संसृति-बन्धोऽयम् आत्मनो गुण-वृत्ति-दः ।

मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गुण-चेतसां त्याग एव बन्ध-त्यागः ॥२८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि कथम् अहं जागर्मि इत्य्-आदि प्रतीतिः ? तत्राह—यर्हि यस्मात् सम्यक् सृतिः सरणम्, अनयेति संसृतिर् बुद्धिस् तया बन्धोऽयम् आत्मनो गुण-वृत्तीर् ददाति । तस्मान् मयि तुर्ये स्थितः सन्न् इमं संसृति-बन्धं जह्यात् । तत् तदा गुण-चेतसां गुणानां चेतसश् चान्योन्यं त्यागो भवति ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवस्य स्वतोऽशक्तिं दर्शयंस् तद् एव द्रढयति—यर्हीति । मयि तुर्य इति—

विराड् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।

ईशस्य यत् त्रिभिर् हीनं तुरीयं तत् पदं विदुः ॥

इति न्यायेन एतद् एव मूल-प्रश्नस्योत्तरम् इत्य् आह—त्याग इति । ततः स्वत एवाचेतनानां तेषां मिथस् त्यागो भवतीति भावः ॥२८॥ [परमात्म-सन्दर्भ १८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च यद्यपि गुणाः सर्वथैव जीवस्य न भवति२, तद् अपि देहाध्यास-प्रसादाद् गुण-वृत्तीः स प्राप्नोति । ततश् च देहाध्यास-भङ्गे सत्य् एव ताः स त्यजतीत्य् आह—यर्हि आत्मनो जीवस्यायं देहाध्यास-रूपः संसार-बन्धोऽभूत् तर्ह्य् एव स-गुण-वृत्तिदः जीवाय तस्मै गुण-वृत्ति-प्रदोऽभूत् । यर्हि च मयि तुर्ये स्थितः सन् जह्यात् इमं संसृति-बन्धं ज्यजेत्, तदा गुण-चेतसां गुणानां चेतसश् चण्योन्यं स्वत एव त्यागो भवति ॥२८॥

———————————————————————————————————————

॥ ११.१३.२९ ॥

अहङ्कार-कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् ।

विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं संसृत्या बन्धः कथं च तं जह्यात् ? तद् आह—अहङ्कारेण कृतं बन्धम् आत्मनोऽर्थ-विपर्ययम् आनन्दाद्य्-आवरणेनानर्थ-हेतुं विद्वान् जानन् सन्, निर्विद्य दुःखम् एतद् इति ज्ञात्वा तुर्ये स्थितो भूत्वा संसार-चिन्तां संसारोऽबुद्धिस् तास्मिंश् चिन्ताम् अभिमानं तत् कृतां भोग-चिन्तां च त्यजेद् इति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुनर् विशिष्य तत्-त्यागम् एव शिक्षयति—अहम् इति । तुर्ये मय्य् एवेति ज्ञेयम् ॥२९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं स्पष्टयन्न् आश्वासयति—अहङ्कारेण देहेऽहं-बुद्ध्यैव कृतं बन्धं विद्वान् जानन् । कीदृशं ? आत्मनोऽर्थ-विपर्ययम् आनन्दाद्य्-आवरणेनानर्थ-हेतुं, निर्विद्य तं त्यक्त्वा, तुर्ये मय्य् आनन्द-रूपे स्थितः सन् संसार-भय-भावनां त्यजेत् ॥२९॥

———————————————————————————————————————

॥ ११.१३.३० ॥

यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः ।

जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भिन्नस्य त्व् एक-भावेन तथैकस्य च भेदतः ।

ज्ञानं नानार्थ-धीः प्रोक्तानानात्वाद् अर्थ-तद्-धियोः ॥ इति ब्रह्म-तर्के ।३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यावद् एव न त्यजेत् तावत् तस्य कर्म ज्ञानादि सर्वं व्यर्थम्, इत्य् आह—यावद् इति। यद्यपि जागर्ति कर्मादिषु, तथापि स्वपन् स्वप्नान् पश्यन्न् इव भवति । यतोऽज्ञः असम्यग् दर्शी । अज्ञ-जागरस्य स्वप्नत्वे दृष्टान्तः—स्वप्न इति ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यावन् नानात्म-धीः नाना-विषय-ग्रहणं न ममेयम् इत्य् आकारक-युक्तिभिर् न निवर्तते, तावत् जागर्त्य् अपि सम्सार-बन्धान् मुक्तोऽपि स्वपन् संसार-बन्ध एव अज्ञः स अज्ञान्य् एवोच्यते । स्वप्न-मध्ये एव स्वप्नाद् यथा जागरणं, तथैव तस्य अज्ञान-मध्य एव ज्ञानम् इत्य् अर्थः ॥३०॥

———————————————————————————————————————

॥ ११.१३.३१ ॥

असत्त्वाद् आत्मनोऽन्येषां भावानां तत्-कृता भिदा ।

गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अभिदा किं कृतैस् तेषां भावानां परमेश्वरे ।

यतो सत्त्वम् अशक्तत्वाद् भावानां तस्य शक्तता ॥

ततः सत्त्वं साधु-भावः सत्त्वम् इत्य् उच्यते बुधैः ।

साधु-भावश् च शक्तस्य ततोऽन्यत् साधु-भावतः ॥

अभेदे जगतो विष्णोर् या वाचो ये च हेतवः ।

स्वप्न-जाग्रत् कल्पकवत् सर्वे ते भ्रम-दर्शिताः ॥ इति सत्य-संहितायाम् ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथं वेद-प्रमित-वर्णाश्रम-कर्मादि-नाना-धीर् निवर्तेत ? तत्राह—असत्त्वाद् इति । भावानां देहादीनां तत् कृता भिदा वर्णाश्रमादि-रूपा । गतयः स्वर्गादि-फलानि । हेतवः कर्माणि चास्यात्मनो मृषा । अविद्या-वद् विषयो वेद इति भावः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कथं वेद-प्रमित-वर्णाश्रम-कर्मादि-नाना-धी-ज्ञानिनो निवर्तेत ? तत्राह—असत्त्वाद् इति । अन्येषां भावानां देहाद्य्-अभिमानानाम् असत्त्वान् मिथ्यात्वात् तत्-कृता देहाद्य्-अभिमान-कृता वर्णाश्रमादि-रूपा भिदा गतयः स्वर्गादि-फलानि च हेतवः कर्माणि चास्य जीवात्मनो मृषा मिथ्यैवेत्य् अर्थः । देहादीनां तद्-अभिमानानां स्वर्गादीनां फलानां तत्-साधनानां च प्राधानिकत्वेन सत्यत्वेऽपि जीवस्य तत्-सम्बन्धाभावात् ते मिथ्यैव । शृङ्गस्य सत्यत्वेऽपि शशस्य शृङ्ग-सम्बन्धाभावात् शश-शृङ्गं मिथ्यैवेत्य् अर्थः । स्वप्न-दृशः स्वप्न-द्रष्टुर् जीवस्य स्वाप्निक-वस्तूनां मिथ्यात्वं पुनश् च स्वप्न-जन्ये स्वप्ने परमान्न-भोजनस्य तत्-साधनस्य दुग्ध-तण्डुलाद्य्-आहरणस्य च मिथ्यात्वं यथा ॥३१॥

———————————————————————————————————————

॥ ११.१३.३२ ॥

यो जागरे बहिर् अनुक्षण-धर्मिणोऽर्थान्

भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् ।

स्वप्ने सुषुप्त उपसंहरते स एकः

स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दक्षिणाक्षि-स्थितो विष्णुर् भुङ्क्तेऽर्थान् जाग्रद् आस्थितान् ।

कण्ठ-संस्थस् तथा स्वप्नात् जीवानन्दं च सुप्तिगः ॥

श्रुत्य्-अन्वयात् स्मृतिभ्यश् च स एकः परमेश्वरः ।

अस्वतन्त्रस्य जीवस्य स्वतन्त्रो जाग्रद्-आदिदः ॥

स्वयं स्वप्नादि हीनः सन् क्रीडते पुरुषोत्तमः ॥ इति तत्त्वे ।

स्वप्नेन शारीरम् अभिप्रहत्यासुप्तः सुप्तान् अभिचाकशीतित्य्-आदि च ॥३२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : युक्तिभिर् इत्य् उक्तं ता एव युक्तीराह—य इति । अर्थान् स्थूलान् देहादीन् समस्त-करणैश् चक्षुर्-आदिभिर् भूङ्क्ते । कथं-भूतान् ? अनुक्षण-धर्मिणः क्षणिक-बाल्य-तारुण्यादि-धर्म-वतो यश् च स्वप्ने हृदि जागर-दृष्ट-सदृशान् वासना-मयान् भूङ्क्ते, यश् च सुषुप्ते, तान् सर्वान् उपसंहरति स एकः । कुतः ? त्रि-गुण-वृत्ति-दृग् अवस्था-त्रय-द्रष्टा

ननु जाग्रद्-अवस्थां सर्वेन्द्रियाणि पश्यन्ति स्वप्नं मनः सुषुप्तिं तत् संस्कार-शेषा बुद्धिः कथम् आत्मा तद् द्रष्टा तत्राह—इन्द्रियेशः ।

ननु इन्द्रियेशा अपि विश्व-तैजस-प्राज्ञा भिन्ना एव ? न । कुतः ? स्मृत्या प्रतिसन्धानेन सर्वावस्थास्व् अन्वयात् । यः स्वप्नान् अद्राक्षं यश् च तद् अनन्तरं न किञ्चिद् अवेदिषं स एवैतर्हि जागर्मीत्य् उपाधि-भेदेन विश्वादि-व्यवहार इति भावः । एतेन बाल-युवाद्य्-अवस्थास्व् अपि प्रतिसन्धानेनात्मैक्यं द्रष्टव्यम् ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युक्तिभिर् इत्य् उक्तं ता एव युक्तीर् आह—य इति । यः खल्व् अर्थान् देहादीन् स-हस्त-करणैश् चक्षुर्-आदिभिर् भूङ्क्ते । कथं-भूतान् ? अनुक्षण-धर्मिणः क्षणिक-बाल्य-तारुण्यादि-धर्म-वशतश् च स्वप्ने हृदि जागर-दृष्ट-सदृशान् वासना-मयान् भूङ्क्ते, यश् च सुषुप्ते तान् सर्वान् उपसंहरति स एकः । कुतः ? त्रि-गुण-वृत्ति-दृग् अवस्था-त्रय-द्रष्टा

ननु जाग्रद्-अवस्थायां सर्वेन्द्रियाणि पश्यन्ति, स्वप्ने मनः, सुषुप्तौ तत्-संस्कार-शेषा बुद्धिः, कथम् आत्मा तद् द्रष्टा ? तत्राह—इन्द्रियेशः

ननु इन्द्रियेशा अपि विश्व-तैजस-प्राज्ञा भिन्ना एव ? न । कुतः ? स्मृत्या प्रतिसन्धानेन सर्वावस्थास्व् अन्वयात् । योऽहं स्वप्नान् अद्राक्षं, पश्चान् न किञ्चिद् अवेदिषं स एवैतर्हि जागर्मीत्य् उपाधि-भेदेनैव विश्वादि-व्यवहार इति भावः । एतत्-क्रमेणैव देहाद् आत्मनः पार्थक्यं द्रष्टव्यम् ॥३२॥

———————————————————————————————————————

॥ ११.१३.३३ ॥

एवं विमृश्य गुणतो मनसस् त्र्य्-अवस्था

मन्-मायया मयि कृता इति निश्चितार्थाः ।

सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण-

ज्ञानासिना भजत माखिल-संशयाधिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततः किम् ? अत आह—एवम् इति । गुणतो य एता मनसस् त्र्य्-अवस्थास् ता मद्-अविद्यया मयि कृता, न तत्त्वतः सन्तीति निश्चित आत्म-रूपोऽर्थो यैस् ते यूयम् अखिल-संशयानाम् आधिं आधीयन्तेऽस्मिन्न् इत्य् आधिर् अहङ्कारः, तं सञ्छिद्य हार्दं हृदि स्थितं मां भजत । केन छित्त्वा ? तद् आह—अनुमानैः सद्-उक्तिभिः सताम् उपदेशैः श्रुतिभिश् च । तीक्ष्णेन ज्ञान-खड्गेन ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१४] इत्य्-आदिना यद् उक्तं, तद् एव खलु एवं गुरूपासनय [भा।पु। ११.१२.२३] इत्य्-आदिना स्थापितं, तद् एव पुनः श्री-हंस-वाक्येन द्रढयति—एवं विमृश्येति । एवं विमृश्य मननं कृत्वा भजत ध्यायत यूयम् ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततः किम् ? अत आह—एवम् इति । गुणतो य एता मनसो बुद्धेस् त्र्य्-अवस्थास् ता मद्-अविद्यया मयि कृता, न तत्त्वतः सन्तीति निश्चित आत्म-रूपोऽर्थो यैस् ते यूयम्, अनुमानैः, सद्-उक्तिभिः सताम् उपदेशैः श्रुतिभिश् च । तीक्ष्णेन ज्ञान-खड्गेन । हार्दं हृद्-भवम् अवस्था-त्रयं संछिद्य मा मां अखिल-संशयानाम् आधिं पीडकं नाशकं भजत॥३३॥

———————————————————————————————————————

॥ ११.१३.३४ ॥

ईक्षेत विभ्रमम् इदं मनसो विलासं

दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् ।

विज्ञानम् एकम् उरुधेव विभाति माया

स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जाग्रद्-आदिषु परमात्म-भेदं विभ्रमं वीक्षेत ।

जाग्रद्-आदि-करो देवः परमात्मैक एव तु ।

इति वीक्षेत सततं मुच्यते संसृतेर् अतः ॥ इति प्रकाश-संहितायाम् ।

यदा विभ्रमोऽयाम् इति दृष्टस् तदैव विनष्टः । श्रुति-युक्तिभिर् विचारितेति लोलः । क्षिप्रं विनश्यतीत्य् अर्थः । अलातस्य चक्राकार-भ्रमवत् । पर्मात्म-भेद-भ्रमः । तिर्गुणैस् तत्-कार्यैः पापादिभिश् च बद्धः सन् विज्ञान-रं परमानं भ्रान्त्या बहुधा पश्यति

देह-भेदेष्व् अवस्थासु प्रादुर्भावेषु चैकलम् ।

ज्ञानात्मैक-सद्-रूपं भ्रान्त्या भिन्नं प्रपश्यति ॥

सा च भ्रान्तिर् विनश्येत यदा भ्रान्तित्व-वेदनम् ।

अतिक्षिप्रं विनश्येच् च न स्थिरं दिग्-भ्रमादिवत् ॥

त्रिगुणैर् बन्धिता जीवाज्ञप्ति-मात्रं जनार्दनम् ॥

पश्यन्ति बहुधा स्वप्ने यथैकं बहुधा क्वचित् ।

अभिन्नोऽपि विभिन्नेषु व्यवहारो यथा भवेत् ।

तथैव व्यवहाराय शक्तत्वान् नैव दूषणम् ।

ईशस्य तु तद् अन्येषाम् अपि यच् छक्ति-दायकः ॥ इति ब्रह्म-तर्के ।

अलात-भ्रामको यदा निवर्तते तदैव भ्रमो निवर्तते । तद्वत् यथा भ्रम-निवृत्तिम् इच्छति, तदैव गुरूपसदनान् निवर्तयितुं शक्यः ।

अशक्योऽप्य् अपि शक्योऽयं विन्विवर्तयितुं भ्रमः ।

ईशस्थो गुरु-सम्पत्त्या यदि शुद्ध-मनः पुमान् ॥ इति सम्यग्-ज्ञाने ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमानादि दर्शयति—ईक्षेतेति । इदं जगद्-विभ्रमम् ईक्षेत । तत्र हेतवः—मनो-विजृम्भितत्वात् दृष्टत्वाद् विनाचित्वाच् च स्वप्नवत् । अतिचञ्चलत्वाच् चालात-चक्रवत् । ननु भ्रमोऽपि निर्विषयः कथं स्यात् ? तत्राह—विज्ञानम् इति निगमनम्8 । तस्मात् त्रिधा योऽयं गुण-परिणाम-कृतो विकल्पो भेदः स मायेति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च ज्ञानोत्पत्ति-प्रकारम् आह—ईक्षेतेति । इदं जगत् विभ्रमं विषेषेण भ्रमो यत्र तद्-रूपम् ईक्षेत, यतो मनो-विलास-मयं तथा दृष्टम् । यद् यद् घटादि तत् तद् विनष्टं नश्वरम् इति सर्वम् ईक्षेत, अलातचक्रवद् अतिलोलं सन्तत-भ्रमणानुकूलं चेक्षेत । यस्माद् विज्ञानं परमात्म-चैतन्यं सर्वत्रैकम् एव । माययैव तु उरुधेव भाति । इव-शब्दस् तस्याः स्वातन्त्र्यं वारयति, परमात्म-सान्निध्य-मात्र-बलत्वात् । तस्माद् गुण-विसर्ग-कृतो विकल्पः स्वप्न इव माया-मात्र-लब्ध-स्फूर्तिर् इत्य् अर्थः ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् अवस्था-त्रयान् निःसम्बन्धस्यात्मनः पार्थक्यम् अनुभूय पूर्वं यद् अहन्तास्पदं ममतास्पदीभूतं वस्त्व् आसीत् तद् इदं जगत् विभ्रमं विशिष्टो भ्रमो यत्र तथा-भूतम् ईक्षेत, कोटि-कोटि-जन्मसु तत्र भ्रमाद् एवाहन्ता-ममतयोर् आरोपित-चरत्वात् मनसो विलासं कौतुकास्पदं, मनसो विशिष्टो लासो नृत्यं यत्र तद् इति वा । विनष्टम् अनित्यं तत्राप्य् अलात-चक्रवद् अतिलोलम् ।

ननु तर्ह्य् एवम्भूत-द्वैत-दर्शनान् निर्भेद-ब्रह्मानुभवो नोपपद्येत, तत्राह—विज्ञानम् एकं यद् ब्रह्म, तद् एव उरुधैव विभाति । ननु परमार्थत उरुधा, यतो माया माययैव त्रिधा गुण-विसर्ग-कृतो विकल्पः, स्वप्नः स्वप्नवद् अचिर-स्थायी ॥३४॥

———————————————————————————————————————

॥ ११.१३.३५ ॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्त-तृष्णस्

तूष्णीं भवेन् निज-सुखानुभवो निरीहः ।

सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या

त्यक्तं भ्रमाय न भवेत् स्मृतिर् आ-निपातात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : निपातम् अन्धं तमः मोक्षम् आरभ्य तावत् पर्यन्तं स्मृतिर् यस्माज् ज्ञानिनो वर्तते । अतो मूढेषु अविद्या-व्यवस्थितो भ्रमो यद्यपि सन्दृश्यते तेन तथापि भ्रमयन् भवत् । [अंअं]{।मर्क्} हि निपातं स्मरति ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् ततो दृश्याद् दृष्टिं प्रति निवर्त्य निज-सुखानुभवो भवेत् । तन्-नैश्चल्यार्थं च निवृत्त-तृष्णस् तूष्णीं निरीहश् च भवेत् । मनो-वाक्-काय-व्यापार-रहित इत्य् अर्थः ।

ननु देहवतः सर्वथा द्वैत-दृष्टि-प्रतिनिवर्तनायोगात् पुनः संसारः स्याद् एव ? तत्राह—सन्दृश्यत इति । क्वचिद् आवश्यकाहारादिषु यद्यपीदं सन्दृश्यते, तथापि पूर्वम् अवस्तु-बुद्ध्या यत् त्यक्तं तत् पुनर् मोहाय न भवेद् एव, किन्तु देह-पात-पर्यन्तं स्मृतिर् इव स्मृतिः संस्कार-मात्रेणावभासो भवेद् इत्य् अर्थः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् एवं तस्मात् ततो दृश्याद् दृष्टिं प्रति निवर्त्य तस्मिन् निवृत्त-तृष्णस् तूष्णीं च भवेत् । मनो-वाग्-व्यापार-रहित इत्य् अर्थः । तत्र सामर्थ्यम् आह—निज-सुखानुभव इति । अतो निरीहः कायिक-व्यापार-रहितश् च ।

ननु देहवतः सर्वथाद्वैत-दृष्टि-प्रतिवर्तनायोगात् पुनः संसारः स्याद् एव ? तत्राह—सन्दृश्यत इति । क्वचिद् आवश्यकाहारादिषु यद्यपीदं सन्दृश्यते, तथापि पूर्वम् अवस्तु-बुद्ध्या, यत् त्यक्तं तत् पुनर् मोहाय न भवेद् एव, किन्तु देह-पात-पर्यन्तं स्मृतिर् इव स्मृतिः संसार-मात्रेणावभासो भवेद् इत्य् अर्थः ॥३५॥

———————————————————————————————————————

॥ ११.१३.३६ ॥

देहं च नश्वरम् अवस्थितम् उत्थितं वा

सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।

दैवाद् अपेतम् अथ दैव-वशाद् उपेतं

वासो यथा परिकृतं मदिरा-मदान्धः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : त्रिगुण-सर्ग-कृतो विकल्प इत्य् उक्तं ज्ञानिनोऽपि देहवत्त्वेन त्रिगुणित्वाद् विकल्पो भवतीत्य् अत आह—देहं च नश्वरम् इति ॥३६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एवोपपादयति—देहम् इति । आसनाद् उत्थितम्, उत्थाय तत्रैव स्थितं, ततः क्वचिद् अपेतं निर्गतं पुनस् तत्रैव उपेतं वा देहम् अपि नानुसन्धत्ते, कुतोऽन्यत् । यतो येन देहेन स्वरूपमध्यगमत् ज्ञातवांस् तं देहम् । यतः कारणाद् इति वा । परिकृतं परिहितं वासो गतं स्थितं वा यथान वेत्ति, तद्वत् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवन्-मुक्तम् आह—देहं चेति द्वाभ्याम् ॥३६॥ (भक्ति-सन्दर्भ १८७)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-सिद्धस्य जीवन्मुक्तस्य दशाम् आह—देहम् इति द्वाभ्याम् । आसनाद् उत्थितं उत्थाय पुनस् तत्रैव स्थितं न पश्यति नानुसन्धत्ते, यतः स्वरूपं ब्रह्मानुभवं अध्यगमत् प्राप्तः । अत्र दृष्टान्तः—दैवाद् अपेतं केनचिन् निष्कासनाद् अपगतं केनचित् परिधापनाद् उपेतं वा वासः परिकृतं परिहितं मदिरा-मदान्धो नानुसन्धत्ते ॥३६॥

———————————————————————————————————————

॥ ११.१३.३७ ॥

देहोऽपि दैव-वश-गः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स-प्रपञ्चम् अधिरूठ-समाधि-योगः

स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आदरो भजनं भक्तिर् बहु-मानं च सेवनम् ।

पर्याय-वाचकाः सर्वे स्मृतिस् तज्-जन्य-कर्म च ॥ इति शब्द-निर्णये ॥३७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु च यः परिपाल्यमानोऽपि मुमूर्षति, तं चेन् न पश्यति तर्हि पतेद् एव ? न, इत्य् आह—देहोऽपीति । देहो दैव-वशेन गच्छन् स्वारम्भकं कर्म यावद् अस्ति तावत् पर्यन्तं प्रतिसमीक्षत एव जीवत्य् एव । सासुः प्राणेन्द्रिय-सहितः । ननु तर्हि तस्मिन् कदाचिद् आसज् जेतापि, नेत्य् आह—तम् इति । स्वाप्नं स्वप्न-तुल्यम् । अधिरूढः प्राप्तः समाधि-पर्यन्तो योगो येनात एव प्रति-बुद्धं ज्ञातं परमार्थ-वस्तु येन सः । तथा च श्रुतिः—तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ संपत्स्ये इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यावत् स्वारम्भकं कर्म तावत् सासुः स-प्राणः सन् प्रति समीक्षते मुक्तस्यापि तस्य कर्म-भोग-प्रतीक्षां कुर्वन् जीवेद् इत्य् अर्थः । ननु तर्हि तस्मिन् कदाचिद् आसज्जेत् ? अपि तत्र नेत्य् आह—तं देहं स-प्रपञ्चं इन्द्रिय-विषय-भोगादि-हितम् अपि न भजते । यथा प्रतिबुद्धवस्तुः प्राप्त-जागरो जनः स्वाप्नं देहं पुनर् न भजते ॥३७॥

———————————————————————————————————————

॥ ११.१३.३८ ॥

मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः ।

जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तार्थे तेषां विश्वासार्थं स्व-स्वरूपम् आह—मयेति । साङ्ख्यम् आत्मणात्म-विवेको योगोऽष्टाङ्गस् तयोर् गुह्यं रहस्यम् । यज्ञं विष्णुम्, यज्ञो वै विष्णुः इति श्रुतेः । युष्मद् धर्म-विवक्षयेत्य् अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् । अत एव, यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव [भा।पु। ११.१७.३] इत्य् अनुवादो भविष्यति ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र निजोक्तम् आदरयति—मयेत्य् अर्धेन । आदरे कारण-विशेषत्वेन स्व-परिचय-विशेषं करोति—जानीतेति । यज्ञं विष्णुं, न त्व् ईश्वरत्वेन ज्ञापितम् अपि शिवादि-रूपं युष्मद्-धर्म-विवक्षयेत्य् अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् ॥३८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तेऽर्थे तेषां विश्वासार्थं स्व-स्वरूपम् आह—मयेति । साङ्ख्यम् आत्मानात्म-विवेकः । योगोऽष्टाङ्गः । धर्मस्य विवक्षया अनेन धर्मा अप्य् उपदिष्टा इति ज्ञेयम् । अत एव यत् तेन हंस-रूपेण ब्रह्मणेऽभ्यात्थ माधव[भा।पु। ११.१७.३] इत्य् अनुवादो भविष्यति ॥३८॥

———————————————————————————————————————

॥ ११.१३.३९ ॥

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋतं प्रमीयमानो धर्मः, सत्यम् अनुष्ठीयमानो धर्मः । तेजः प्रभावः । एतेषां परम् अयनम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-ज्ञानस्यान्तर्-भूत-सर्व-ज्ञानत्वं दर्शयन् सर्वोत्कृष्टत्वं दर्शयति—अहम् इति ॥३९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अद्भुतं ज्ञानम् अश्रौष्मेत्य् अतिचमत्कारवतस् तान् आलक्ष्याह—अहम् इति । ऋतं च सुनृता वाणी सत्यं च सम-दर्शनम् इत्य् अग्रे वक्ष्यते । तेजः प्रभावः एतेषां परायणं परमाश्रयः ॥३९॥

———————————————————————————————————————

॥ ११.१३.४० ॥

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥9

मध्वाचार्यः (भागवत-तात्पर्यम्) :


अपूर्ण-गुण-रूपास् तु सम्पूर्ण-गुण-रूपकम् ।

भजन्ति परमं ब्रह्म देवास् त्रिगुण-वर्जितम् ॥ इति काल-संहितायाम् ॥४०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, माम् इति । कथम्भूताः ? अगुणाः गुण-परिणाम-रूपा न भवन्ति, किन्तु नित्या इत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव स्व-ज्ञानम् उपदिशति—माम् इति । ये त्व् अगुणा गुण-परिणामा न भवन्ति, ते असङ्गादय इति । अत्र आदि-ग्रहण-क्रोडीकृतान् तान् बहून् एव प्रथम-स्कन्धे पृथिव्या—सत्यं शौचम् [भा।पु। १.१६.२८-३१] इत्य्-आदिना बहुधा वर्णिताः । साम्यासङ्गादयो ऽनन्त-गुणाः सर्व एव मां भजन्ति

तत्र हेतुः—आत्मानं सर्वेषाम् आश्रय-स्वरूपम्, अत एव सर्वोत्कृष्ट-स्वरूपास् ते सर्वोत्कृष्ट-स्वरूपं मां विना कथं चान्यं भजन्त्व् इति भावः ।

किं च, तादृशात्मत्वाद् एव निर्गुणं, न तु जीववद् अविद्यया गुण-सम्बद्धम् । निरपेक्षकं स्वेच्छयापि तद् असम्बद्धम् । अतश् चागुण-परिणामास् ते मां विनेत्य् आदि पूर्ववत् । तथा च नारद-पञ्चरात्रे जितं-ते-स्तोत्रे—नमः सर्व-गुणातीत-षड्-गुणायादि-वेधसे इति । तद् उक्तं ब्रह्म-तर्के—

गुणैः स्व-रूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः ।

न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥ इति ।

कालिका-पुराणे देवी-कृत-विष्णु-स्तवे च—

यस्य ब्रह्मादयो देवा मुनयश् च तप-धनाः ।

न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।

नैव जानन्ति यद् रूपं सेन्द्रा अपि सुरासुराः ॥ इति ॥

अत्र विष्णु-पुराणेऽपि—कला-मुहूर्तादि-मयश् च कालो न यद् विभूतेः परिणाम-हेतुः [वि।पु। ४.१.२७] इति ।

किं च, तादृशात्मत्वाद् एव सुहृदं निरुपाधि-सर्व-हित-कारित्वं युक्तम् इति भावः । अतः सर्वोत्कृष्टे मयि प्रेम-भक्तिर् एव साध्येति पर्यवसान-वाक्यार्थः ॥४०॥ [भगवत्-सन्दर्भ २५]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अहं परायणम् इति तद्-वाक्याद् एव स्तवेऽस्मिन् देहेऽभिमानो दृश्यते इत्य् अतः कथं ज्ञानम् अस्मान् अशिक्षयद् भवान् ? इत्य् आशङ्कध्वे चेत्, सत्यम् । नेदं मम शरीरं जीवस्येव स्वस्माद् भिन्नं भौतिकम् । नाप्य् अत्राहङ्कारादिकम् अपि प्राधानिकम्, किन्तु मत्-स्वरूप-भूतं सच्-चिद्-आनन्द-मयम् एवेत्य् आह—मां निर्गुणं मायिक-गुणातीतं सर्वे गुणा भजन्तिनिरपेक्षं मायिक-गुणपेक्षा-शून्यं, किन्तु सुहृदं स्व-भक्त-जनानां हित-कारिणं, यतः प्रियं तेषां प्रेम-विषयीभूतं, तेषु प्रीति-कर्तारं च । इ-गु-प-ध-ज्ञा-प्री-किरः क इति कर्तरि क-प्रत्यय-विधेः ।

के ते गुणाः ? साम्यं सर्वत्र प्राकृत-वस्तुष्व् औदासीन्यात् समत्वं च अप्राकृतेषु स्व-भक्तेषु आसङ्ग आसक्तिश् च तद्-आद्या आदि-शब्दात् प्रथम-स्कन्धे पृठिव्य्-उक्ताः सत्य-शौचादयश् चानन्ताः । कीदृशाह् ? अगुणाः, गुण-परिणाम-रूपा न भवन्ति, किन्तु नित्या इत्य् अर्थः इति श्री-स्वामि-चरणः । एते चान्ये च भगवन् नित्या यत्र महा-गुणाः [भा।पु।१.१६.३१] इति प्रथमे च । अतः स्वरूप-भूता एव गुणा आत्मानं स्वरूपम् एव भजन्ति । न तस्य कार्यं करणं च विद्यते इत्य् आदौ, स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति श्रुतेः ॥४०॥

———————————————————————————————————————

॥ ११.१३.४१ ॥

इति मे छिन्न-सन्देहा मुनयः सनकादयः ।

सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मया । अगृणत मां तुष्टुवुः ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च ते सन्देहं त्यक्तवन्तस् तां च भक्तिं मयि प्राप्तवन्त इत्य् आह—इतीति । परया भक्त्या प्रेम-लक्षणया ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अगृणत अगृणन्त, मां तुष्टुवुः ॥४१॥

———————————————————————————————————————

॥ ११.१३.४२ ॥

तैर् अहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्येयाय प्रत्यागतोऽस्मि ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्येयाय प्रत्यागतोऽस्मि ॥४२॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे सङ्गतः सत्सङ्गतोऽभूत् त्रयोदशः ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां एकादश-स्कन्धे

हंसोपदेशो नाम

त्रयोदशोऽध्यायः ।

॥ ११.१३ ॥



  1. सोमे रेअदिन्ग्स् हवे यजनं इन् थे प्लचे ओफ़् ऽपः प्रजा, अन्द् नवैते इन् थे प्लचे ओफ़् दशैते। थिस् wओउल्द् अप्पेअर् तो बे चोन्त्रदिच्तेद् ब्य् थे चोम्मेन्तर्य् तो वेर्से ६। ↩︎

  2. अत्र प्रकाशकस्य इदं मन्तव्यं—धनुश्-चिह्नान्तर्गतं व्याख्यान्तरं न श्रीधर-सम्मतं, स्वामीप्सितार्थस्य षष्ठ-श्लोक-व्याख्याने तैर् एव स्फुटीकृतत्वात्, प्राचीन-पुस्तकेष्व् अदर्शनाच् चात्र केनचित् प्रक्षिप्तम् इति प्रतीयते । इति ॥ ↩︎

  3. शुनीम् अनुधावन्तो विषयान् भुञ्जते, उत्तरत्र अजाम् अनुधावन्त इति च । इदं प्रकाशकस्य मन्तव्यम् असमीचीनम् इति मन्ये, श्री-जीव-विश्वनाथयोर् असंमतत्वात् । ↩︎

  4. परमो योगःखलु एष वै [भा।पु। ११.२०.२१] इत्य् आदौ, परो हि [भा।पु। ११.२६.२५] इत्य् आदौ च ज्ञातव्यः । ↩︎

  5. विनिश्चयम् इति पाठः, टीकासंमतः । ↩︎

  6. अहन्तेभ्यः इति विश्वनाथस्य पाठः । ↩︎

  7. एतेनैव परम-कारणाभेदोपपादनेनैव । ↩︎

  8. निगमनम् इति । परार्थानुमाने हि पञ्चावयव-वाक्यं—तत्र जगद्-विभ्रमम् ईक्षेतेति प्रतिज्ञा (१), दृष्टत्वादि-हेतुः (२), यद्य् अदृष्टत्वाद्य्-अवच्छिन्ने तत्-तद्-भ्रम-मात्रम्, यथा स्वप्नादि इत्य् उदाहरणं (३), यथा भ्रमत्व-व्याप्य-दृष्टत्वादिमान् स्वप्नादिस् तथा चेदं जगद् इत्य् उपनयः (४), तस्मात् त्रिधा योऽयं गुण-परिणाम-कृतो विकल्पः स माया मिथ्येति साध्योपसंहार-लक्षणं निगमनम् (५) ॥ ↩︎

  9. मां भजन्त्य् अगुणाः सर्वे निर्गुणं निर्विशेषकम् ।

    सुहृदं सर्व-भूतानां साम्यासङ्गादयो गुणाः ॥ इति क्वचित् पाठः ↩︎