१२ सत्-सङ्ग-महिमा कर्म-त्याग-विधिश् च

॥ ११.१२.१-२ ॥

श्री-भगवान् उवाच—

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥**

व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सङ्गस् तु गुण-सम्प्रीतिर् गुणवत्त्वेऽतिनिश्चयात् ।

स चेद् धरौ भवेत् तेन मुच्यते नात्र संशयः ॥ > अपरोक्ष-दृशोर् हेतुर् भवेत् स स्याद् यदि क्षयः । > अन्यथा सुख-भाग् एव यद् दृष्टिर् मोक्ष-कारणम् ॥ इति दर्शने । > ज्ञात्वापि हरि-विद्वेषी तमो याति न संशयः । > विशेष-रूपस्याज्ञोऽपि गुणवत्त्वेऽतिनिश्चितः ॥ > गुण-सम्प्रीतिमान् नित्यं तं दृष्ट्वा मुक्तिम् एष्यति । > अथवा सुख-भाग् एव स्याद् यावद् दर्शनोपगः ॥ इति व्यक्ते । > हरि-सङ्ग-विहीनस् तु हरेर् दर्शनवान् अपि । > न मुच्यतेऽखिलज्ञोऽपि तमो याति च निश्चयात् ॥ > गुणैर् अन्यैर् विहीनोऽपि तद्-भक्तेष्व् अपि च क्रमात् । > सङ्गवान् सुख-भाग् एव स्याद् गुणैर् मुक्तिम् एति वा ॥ > स्व-भक्त-सङ्ग-हीनस्य व्युत्क्रमात् सङ्गिनोऽपि वा । > स्व-सङ्ग-विघ्न-कृद् विष्णुस् तत्-सज्ये तेषु तत्र च ॥ इति सत्सङ्गे > ॥१-२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वादशे साधु-सङ्गस्य महिमा वर्णितः पुरा ।

कर्मानुष्ठान-तत्-त्याग-व्यवस्था च ततः परम् ॥

न रोधयति न वशीकरोति । योग आसन-प्राणायामादिः । साङ्ख्यं तत्त्वानां विवेकः । धर्मः सामान्यतोऽहिंसादिः । स्वाध्यायो वेद-जपः । तपः कृच्छ्रादि । त्यागः सन्न्यासः । इष्टापूर्तम् इष्टं च पूर्तं च । तत्रेष्टम् अग्निहोत्रादि । पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि एकादश्य्-उपवासादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । अवरुन्धे वशीकरोति ॥१-२॥

सनातन-गोस्वामी [ह।भ।वि। १०.२८१-२८२] न रोधयति न वशीकरोति । योगोऽष्टाङ्गः, साङ्ख्यं तत्त्वानां विवेकः, धर्मः सामान्यतोऽहिंसादिः । वर्णाश्रमाचारो वा, स्वाध्यायो वेद-जपः, तपः कृच्छ्रादि, त्यागः सन्न्यासः, इष्टा-पूर्तम् इष्टं पूर्तं च । तत्र इष्टम् अग्निहोत्रादि, पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि एकादश्य्-उपवासादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । नियमा बाह्येन्द्रिय-निग्रहादयः, यमा अन्तः-करण-संयमादयः ।

यद् वा,

अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । > आस्तिक्यं ब्रह्म-चर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ > शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् । > तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥ [भा।पु। ११.१९.३४]

इति भगवद्-उक्त-लक्षणा ग्राह्याः । अत्र अस्तेयं मनसापि परस्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः । भयं पापादिभ्यः । शौचं बाह्यम् आन्तरश् चेति द्वयम् । अतो द्वादश-नियमाः श्रद्धा-धर्मादय इति । अवरुन्धे वशीकरोति । सर्व-सङ्गापहः बाह्यान्तराशेषासक्ति-निरस्तः ॥१-२॥

सनातन-गोस्वामी (दिग्-दर्षिनी) : बृ।भा। २.७.१४]: एतयोर् अर्थः—न रोधयति मां न वशीकरोति । योग आसन-प्राणायामादि-शमादि-समाधि-पर्यन्तः, सांख्यं तत्त्वानां विवेकः, धर्मः सामान्यतो\ऽहिंसादि वर्णाश्रमाचारो वा, स्वाध्यायो वेद-जपः, तपः कृच्छ्रादि, त्यागः सन्न्यासः इष्टापूर्ते इष्टम् अग्निहोत्रादि पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि एकादश्य्-उपवासादीनि, यज्ञो देवता-पूजा, छन्दांसि रहस्य-मन्त्राः, तीर्थानि गङ्गादीनि तद्-आश्रयाणाम् इत्य् अर्थः । नियमाः शौचादयो द्वादश, यमाश् चाहिंसादयो द्वादशैव, ते च तत्र तेनैव उक्ताः सन्ति ।

अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । > आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमा भयम् ॥ > शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् । > तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥ [भा।पु। > ११.१९.३३-३४] इति ।

तत्र अस्तेयं मनसापि परस्वा-ग्रहणम्, आस्तिक्यं धर्म-विश्वासः, शौचं च बाह्याभ्यन्तरं चेति द्वयम् इति । अवरुन्धे वशीकरोति । सर्वत्र गुणमये गुणातीते च सङ्गं मनो\ऽभिनिवेशम् अपहन्तीति तथा सः । यद् वा, ममैव सर्व-सङ्गापहः वैकुण्ठादि-विषयक-क्रीडासक्तितो\ऽप्य् आकर्षक इत्य् अर्थ इति । अत एव महतां सङ्गतः कृतार्थता स्याद् इति किं वक्तव्यम् ? ॥१-२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ सर्वस्यैव भागवत-चिह्न-धारि-मात्रस्य तु यथा-योग्यं सेवा-विधानम् । तत्र महा-भागवत-सेवा द्विविधः—प्रसङ्ग-रूपा, परिचर्या-रूपा च । तत्र प्रसङ्ग-रूपा यथा—न रोधयतीति । पूर्वाध्यायान्ते—इष्टा-पूर्तेन इत्य् आदौ मत्-स्मृतिः साधु-सेवया [भा।पु। ११.११.४७] इत्य् अनेन सत्-सङ्गस्य नाम साधु-सेवाया भक्ति-निष्ठा-जनने साधनानन्तर-सव्यपेक्षत्वम् इवोक्तम् ।

पुनश् च तत्रैव तस्य स्वातन्त्र्येण यथेष्ठ-फल-दातृत्वं सर्वापेक्षया परम-सामर्थ्यं च वक्तुं परम-गुह्यत्वम् उपदिष्टम्, अथैतत् [भा।पु। ११.११.४९] इत्य्-आदिना । एतादृश-महिमत्वेनानूक्तत्वात् तद् एतत् परम-गुह्यत्वम् आह—न रोध्यतीति । त्यागः सन्न्यासः । दक्षिणा दान-मात्रम् । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । ततश् च, यथा सत्-सङ्गो माम् अवरुन्धे वशीकरोतीति, तथा योगो न वशीकरोति, न च साङ्ख्यम् इत्य्-आदिकोऽन्वयः । ततस् तेऽपि किञ्चिद् वशीकुर्वन्तीत्य् अर्थ-लब्धेर् भगवत्-परा एव ज्ञेयाः, न साधारणाः । अत एव च व्रतान्य् एकादश्य्-आदीनि ईति टीका-काराः ।

न चैतावता तेषां नित्यानां वैष्णव-व्रतानाम् अकर्तव्यत्वं प्राप्तम्—एकस्य फलातिशय-सामर्थ्य-प्रशंसयेतरस्य नित्यत्व-निराकरणायोगात् । यथा कर्माधिकारिणः—

न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् । > इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥ [भा।पु। ७.१४.१७]

इति श्रुत्वापि पूर्वोक्तम् अग्निहोत्रादिना यजेत [भा।पु। ७.१४.१६] इति विधिं न परित्यक्तुं शक्नुवन्ति, तद्वत् । भक्त्य्-अधिकारिणश् च यथाग्रे, मद्-भक्त-पूजाभ्यधिका [भा।पु। ११.१९.२९] इत्य् वक्ष्यमाण-श्रुत्यापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्-पूजां त्यक्तुं न शक्नुवन्ति तद्वद् इति । अत एव स्कान्दे—

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् । > विष्णोर् नैवेद्य-सिक्थेन तत् फलं भुञ्जतां कलौ ॥ इत्य् अपि न > बाधकम् ।

एकादश्य्-आदौ हि नित्यत्वेऽप्य् आनुषङ्गिकम् एव महाफलदत्वं तत्र तत्र मतम् । अत एव नित्यत्व-रक्षणार्थम् अपि तादृशं वैष्णवं व्रतम् अवश्यम् एव कर्तव्यम् इत्य् आगतम् । नित्य-वैष्णव-व्रतत्वादिकं चैकादश्यादाव् अर्चन-प्रसङ्गे किञ्चिद् दर्शयिष्यामः । अत एव पूर्वाध्याये टीकाकारैर् अपि आज्ञायैव गुणान् दोषान् [भा।पु। ११.११.३२] इत्य् अत्र विद्धैकादशी-कृष्णैकादश्य्-उपवासानुपवासानिवेद्य-श्राद्धादयो ये भक्ति-विरुद्धा धर्मास् तान् सन्त्यज्य इत्य् अर्थ इत्य् उक्तम् । प्रथमे च श्री-भीष्म-युधिष्ठिर-संवादे भगवद्-धर्मान् [भा।पु। १.९.२४] इत्य् अत्र हरि-तोषणाद् द्वादश्य्-आदि-नियम-रूपान् इत्य् व्याख्यातम् । व्रतानि चेरे हरि-तोषणानि [भा।पु। ३.१.१९] इत्य् अत्र तृतीय एकादश्यादीनीति । अत एव भगवन्-महा-प्रसादैक-व्रतस्य श्रीमद्-अम्बरीषस्य सच्-छिरोमणेर् आचार-दर्शनाय तद् एव निश्चीयत इति ।

अत एव श्री-गौतमेनापि निर्णीय स्व-तन्त्रे लिखितम्—

वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः । > विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥ इति ॥१-२॥ > (भक्ति-सन्दर्भ २३८)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वादशे साधु-सङ्गस्य महिमोक्तो व्रजौकसाम् ।

प्रेम्णः सर्व-महोत्कर्षः सूचितः संशय-च्छिदा ॥

योग आसन-प्राणायामादिः । साङ्ख्यम् आत्मानात्म-विवेकः । धर्मोऽहिंसादिः । स्वाध्यायो वेद-पाठः । तपः कृच्छ्रादि । त्यागः सन्न्यासः । इष्टापूर्तम् इष्टं च पूर्तं च । तत्रेष्टम् अग्निहोत्रादि । पूर्तं कूपारामादि-निर्माणम् । दक्षिणा-शब्देन सामान्यतो दानं लक्ष्यते । व्रतानि चातुर्मास्यादीनि । यज्ञो देव-पूजा । छन्दांसि रहस्य-मन्त्राः । न रोधयति प्रत्येकेनान्वयाद् एकत्वम् ।

व्रतानीत्य् आदौ वचन-विपरिणामेन न रोधयन्तीत्य् अर्थः, रुधेर् वशीकरणार्थकत्वात् । योगादयो न मद्-वशीकार-प्रयोजका इति तैर् अहम् अष्टाङ्ग-योगि-प्रभृतिभिर् न वशीकृतः, न प्राप्तः स्याम् इति फलितोऽर्थः ।

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । > न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ [भा।पु। > ११.१४.२०]

भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२०] इत्य् अग्रिम-वाक्येनैकार्थात् । योगादयो न मत्-प्राप्त्य्-उपाया इत्य् अतो नोपायो विद्यते इति पूर्वोक्तिर् एव दृढीकृता । सत्-सङ्गो यथावरुन्धे वशीकरोतीत्य् अनन्त-प्रयोगेण भक्त्य्-उत्पत्तेः पूर्वम् अपि स एव स्वयं मां विशेष्शक्तुर्यात्, किं पुनर् भक्तिं जनयित्वा इत्य् अर्थो लभ्यते । अत्र यथा-शब्दस् तत्र च यथा-शब्दस् च यथावद् इत्य् अर्थ एव प्रयुक्तः । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२०] इत्य् अग्रिम-वाक्ये एकयेति पद-प्रयोगाद् इत्य् एके । योगादीनाम् अपि भक्ति-मिश्रत्वात् । किञ्चिद् विशेष्शक्तारत्वम् अस्त्य् एवेत्य् अतो यथा-शब्दः सार्थकः इत्य् अपरे आहुः । सर्व-सङ्गापहः सार्वत्रिकासक्ति-निरासक इति विशेष्शक्तारे हेतुः ॥१-२॥

———————————————————————————————————————

॥ ११.१२.३-६ ॥

सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥**

विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे ॥**

बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः ।
वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥**

सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यातुधाना राक्षसाः । त्वाष्ट्रो वृत्रः । कायाधवः प्रह्रादः । ऋक्षो जाम्बवान् । गृध्रो जटायुः । वणिक्-पथस् तुलाधारः । व्याधो धर्म-व्याधः । यज्ञपत्न्यो दीक्षित-भार्याः ॥३-६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ प्रस्तुतम् अनुसरामः । वशीकरणम् अत्र द्विविधम्—मुख्यं गौणं च । तत्र मुख्येन प्रेम लभ्यते ।

अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो > मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इति > न्यायेन ।

अत एव गौणेनान्यत् फलम् । अत्र मुख्यं श्री-गोप्यादौ, गौणं बाणादौ । उत्तरत्र वशीकरणत्वं च फल-दानोन्मुखीकरणतयोपचर्यते । तद् एतद् वशीकरणे दृष्टान्तम् आह—सत्सङ्गेनेत्य् आदि-चतुर्भिः । तत्र सत्सङ्गेनेति सार्ध-युग्मकम् । दैतेयास् तद्-उपलक्षितासुर-दानवाश् च । यातुधाना राक्षसाः । रजस्-तम इत्य् असुर-राक्षसादि-जातिषु दिग्-दर्शनम्—त्वाष्ट्रेत्य् आदि । त्वाष्ट्रा वृत्रासुरः । वृतासुरस्य सत्-सङ्गः प्राग्-जन्मनि श्री-नारदाङ्गिरसोः सङ्गः श्री-सङ्कर्षण-सङ्गश् च प्रसिद्धः ।

कायाधवः कयाधु-पुत्रः प्रह्लादः । अस्य गर्भे श्री-नारद-सङ्गः । आदि-शब्द-गृहीतान् पूर्वोक्त-जाति-क्रमेण कतिचिद् गणयति वृषेति । वृष-पर्वा दानवः । अयं हि जात-मात्र-मातृ-परित्यक्तो मुनि-पालिता विष्णु-भक्तो बभूवेति पुराणान्तर-प्रसिद्धिः ।

बलेः श्री-प्रह्लाद-सङ्गः श्री-वामन-सङ्गश् च । तद्-अनन्तरम् एव भक्त्य्-उद्बोध-दर्शनात् । बाणस्य बलि-महेश-भगवत्-सङ्गः । अस्य भुज-कर्तनानन्तरं ज्ञात-विष्णु-महिम्नो महा-भागवत-महेश-प्राप्तिर् एव स्व-प्राप्तिर् इत्य् उच्यते । मयो दानवः। अस्य सभा-निर्माणादौ पाण्डव-सङ्गो भगवत्-सङ्गश् च । अन्ते तत्-प्राप्तिस् तु ज्ञेया । विभीषणो यातुधानः । अस्य हनूम-सङ्गो भगवत्-सङ्गश् च ।

सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान् । अस्य भगवत्-सङ्गः । गजो गजेन्द्रः । अस्य पूर्व-जन्मनि सत्-सङ्ग उन्नेयः । उत्तर-जन्मान्ते भगवत्-सङ्गश् च । गृध्रो जटायु-नामा खगः । अस्य श्री-गरुड-दशरथादि-सङ्गः । श्री-सीता-दर्शनं श्री-भगवद्-दर्शनं च ।

गन्धर्वादीस् त्व् अनति-प्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन् उदाहरति । वणिक्-पथस् तुलाधारः । अस्य भारते जाजलि-मुनि-गन्धर्व-प्रसङ्गे प्रोक्त-महिम्नः सत्-सङ्गोऽन्वेषणीयः ।

व्याधो धर्म-व्याधः शूद्रोऽन्त्यजोऽपि । अत्र आदिवाराहे कथेयम्—क्वचित् प्राचीन-कलि-युगे वसु-नाम्ना वैष्णवेन राज्ञा प्राग्-जन्मनि मृग-भ्रान्त्या निहतो ब्राह्मणो ब्रह्म-राक्षसतां प्राप्तः । तस्य राज्ञः प्रापञ्चिक-विष्णु-लोक-गमन-समये तच्-छरीरं प्रविष्टः । पुनश् च तस्य तद्-भोगान्ते राजतां प्राप्तस्य देहात् तत्-कर्तृक-ब्रह्म-पाराख्य-स्तव-पाठ-तेजसा निर्गतस् तत्-कृत-धर्म-व्याध-संज्ञो हिंसातिशय-विमुखः पर्यवसाने दृष्ट-नीलाद्रि-नाथस् तं च स्तुतवान् । प्राप्त-तद्-आलिङ्गनस् तत्-सायुज्यम् अवापेति ।

कुब्जाया भगवत्-सङ्गः पूर्व-जन्मनि च नारद-सङ्ग इति माथुर-हरि-वंश-प्रसिद्धम्। गोप्योऽत्र साधारण्यः श्री-कृष्ण-व्रजे तदानीं विवाहादिना समागताः । आसां तन्-नित्य-प्रेयसी-वृन्द-सङ्गः श्री-कृष्ण-दर्शनादि-रूपो भगवत्-सङ्गश् च । यज्ञ-पत्नीनां श्री-कृष्ण-गुण-कथक-लोक-सङ्गस् तत्-सङ्गश् च । अपरे दैतेयादयोऽन्ये च ॥३-६॥ (भक्ति-सन्दर्भ २३९)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वशीकरणम् अत्र गौणम् । मुख्यं च यथा-सम्भवं बाणादौ श्री-गोप्य्-आदौ च दर्शयति—सत्-सङ्गेनेति चतुर्भिः । सन्तः प्रधानी-भूत-भक्तिमन्तः । केवल-भक्तिमन्तश् च । अत्र पूर्वेषां सङ्गिभिर् भगवद्-वशीकारो गौणः, उत्तरेषां तु मुख्य इति ज्ञेयम् ।

यातुधाना राक्षसाः । त्वाष्ट्रो वृत्रः । कायाधवः प्रह्लादः । अनयोर् जन्मतः प्राग् एव नारद-सङ्गः । वृष-पर्वेत्य् अयं जात-मात्र एव मातृ-परित्यक्तो मुनि-पालितो विष्णु-भक्तोऽभूद् इति पौराणिकी प्रसिद्धिः । बलेः प्रह्लाद-सङ्गः । बाणस्य बाहु-च्छेद-समये कृपालोर् महादेवस्य सङ्गः । सुग्रीवादीनां त्रयाणां लक्ष्मण-सङ्गः । गजो गजेन्द्रः, अस्य पूर्व-जन्मनि नारदादि-सङ्गः । गृध्रो जटायुः, अस्य गरुड-दशरथादि-सङ्गः । वणिक्-पथस् तुलाधारो भारते प्रसिद्धः । अस्य सत्-सङ्गो मृग्यः । व्याधो धर्म-व्याधः । अस्य प्राग्-ब्रह्म-राक्षसतां प्राप्तस्य वराह-पुराण-दृष्टेन वैष्णवेन राज्ञो सह सङ्गः । कुब्जायाः पूर्व-जन्मनि नारद-सङ्ग इति माथुर-हरि-वंशे प्रसिद्धम् । गोप्यो मुनि-चर्य्-आदयः पूर्व-जन्मनि कृत-बहु-साधु-सङ्गा एव । एतज्-जन्मनि नित्य-सिद्ध-गोपी-सङ्गिन्यः। यज्ञ-पत्नीनां व्रजस्थ-श्री-कृष्ण-दूतीभिर् मालिक-ताम्बूलिकादि-स्त्रीभिः क्रय-विक्रयाद्य्-अर्थं मथुरा-प्रस्थान-समये सङ्गः ॥३-६॥

———————————————————————————————————————

॥ ११.१२.७ ॥

ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः सत्**1-सङ्गान् माम् उपागताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां सत्-सङ्ग-व्यतिरिक्त-साधनान्तराभावम् आह— इति । न अधीताः श्रुति-गणा यैः, तद्-अर्थं च नोपासिता महत्तमा यैः, ते तथा । किं च, अव्रतातप्त-तपसः—न व्रतानि येषां, न तप्तानि तपांसि यैस् ते च ते च तथा । सत्-सङ्गात् इति सद्भिः सङ्गो नाम मयैव सङ्ग इत्य् अभिप्रेत्योक्तम् । यद् वा, स्व-सङ्गस्यापि सत्-सङ्गत्वं विवक्ष्यते, स्वस्यापि सत्त्वात् । यद् वा, मदीय-सङ्गाद् इत्य् अर्थः ॥७॥


कैवल्य-दीपिका : उक्तेऽर्थे निदर्शनम् आह—ते न इति । ते दैत्यादयः । अव्रताश् च ते अतप्त-तपसश् च । श्री-कृष्ण उद्धवम् ॥७॥ [मु।फ। ६.३०]


जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां सत्-सङ्ग-व्यतिरिक्त-साधनाभावम् आह—ते नाधीतेतिनाधीताः श्रुति-गणाः यैः । तद्-अर्थं च नोपासिता महत्तमा यैः । किं च, अकृत-व्रता अकृत-तपस्काश् च । पूर्ववद् अध्ययनादिकं भगवत्-प्रीणनम् एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्-जन्मादौ साधनानन्तरं यत्, तद् अपि सत्-सङ्गान्उषङ्ग-सिद्धम् इत्य् अभिप्रेत्य सत्-सङ्गस्यैव तत् तत् फलम् उक्तम् । धर्म-व्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् ।

सत्-सङ्ग-शब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्य् अभिधाप्यते । उभयत्रापि मत्-सम्बन्धित्वाद् इत्य् अभिप्रायेण । तत्र स्वस्यापि सत्त्वात् सत्-सङ्गोऽप्य् अन्तर्भावितः । यत् तु पुरा भागवत-सङ्गेनैव भगवत्-कृपा भवतीत्य् उक्तं, तत् तु तत्-साम्मुख्य-जन्मन्य् एव । अत्र तु स एव भागवत-सङ्गः साधन-विशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित् साम्मुख्य-जन्म-कारणम् अपि भगवत्-सङ्गो भवेत्, तदाप्य् एवम् आचक्ष्महे । सच्-छब्दार्थम् अवतार-सङ्गी-कृत्य यत् कदाचित् सर्वत्र कृपां वितनोति भगवान् तच् च सत्-सम्बन्धेनैवेत्य् अतो नाभ्युपगम-हानिर् इति ॥७॥ (भक्ति-सन्दर्भ २४०)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां साधु-सङ्गोत्था यथा-प्रकृति प्रधानीभूता केवला च भक्तिर् एव, न तु साधनान्तरम् इत्य् आह—ते इति । न अधीताः श्रुति-गणा यैस् तद्-अर्थं च उपासिता महत्तमाः श्रुत्य्-अर्थ-ग्राहयितारो मुनयो यैस् ते, न व्रतानि येषां, न तप्तानितपांसि यैस् ते च ते च तथा । किन्तु सत्-सङ्गेनैव हेतुना भक्त्या, मत्-सङ्गात् मत्-सङ्गं प्राप्य मां उपागताः प्राप्ताः । सद्भिः सङ्गो नाम ममैव सङ्ग इत्य् अर्थः ॥७॥

———————————————————————————————————————

॥ ११.१२.८ ॥

केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र वृत्रादीनां भवतु नाम कथञ्चित् साधनान्तरं, गोपी-प्रभृतीनां तु नान्यद् अस्तीत्य् आह—केवलेनेति । सत्-सङ्ग-लब्धेन केवलेनैव भावेन प्रीत्या नगा यमलार्जुनादयः । नागाः कालियादयः । यद् वा, तदानीन्तनानां सर्व-तरु-गुल्मादीनाम् अपि भगवति भावोऽस्तीति गम्यते । तद् उक्तं भगवतैव,

अहो अमी देव-वरामरार्चितं > पादाम्बुजं ते सुमनः-फलार्हणम् । > नमन्त्य् उपादाय शिखाभिर् आत्मनस् > तमो-ऽपहत्यै तरु-जन्म यत् कृतम् ॥ [भा।पु। १०.१५.५] इत्य्-आदि > ।

सिद्धाः कृतार्थाः सन्त ईयुः प्रापुः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ मुख्यं वशीकरणम् असम्भावित-साधनान्तरेण सत्-सङ्ग-मात्रेण श्री-गोप्य्-आदीनां दर्शयति—केवलेनेति । भावेन प्रकरण-प्राप्त-मत्-सङ्गमात्र-जन्मना प्रीत्या । भावोऽत्र वशीकार-मुख्यत्वे चिह्नम् । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा [भा।पु। ९.४.४८] इत्य् आदेः । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२०] इत्य् आदेश् च । गावोऽपि गोपीवद् आगन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः । मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुन-कालिययोः प्राप्तिस् तदानीन्तन-तत्-क्षणिक-भगवत्-प्राप्त्य्-आवश्यम्भावि-नित्य-प्राप्तिम् अपेक्ष्योक्ता । सिद्धाः पूर्ववद् द्विविधात् सत्-सङ्गात् । स तु तेषां भावो योगादिभिर् अप्राप्य एवेति । यथावरुन्धे [भा।पु। ११.१२.२] इत्य् अत्र यथा-शब्दार्थस्य पराकाष्ठा ॥८॥ (भक्ति-सन्दर्भ २४१)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि गोपी-प्रभृतीनां सर्वतोऽप्य् अतिवैशिष्ट्यम् आह—केवलेन ज्ञान-कर्माद्य्-अमिश्रेण निष्कामेण भावेन शृङ्गार-वात्सल्य-सख्य-दास्य-भाव-शालिना भक्ति-योगेन गोप्यः शृङ्गार-रसेन, गावो वात्सल्य-रसेन, नगा गोवर्धनादि-पर्वताः सख्य-रसेन, मृगा अपि, मूढ-धियो वृन्दावनीय-तरु-गुल्माद्या, नागाः कालियाद्याः दास्य-रसेनम् माम् ईयुः । अत्र गोप्य्-आदयः सिद्धा एव पूर्व-रागाद्य्-अनन्तरं माम् ईयुर् इति केवलेन भावेन तेषां मत्-प्राप्तिमत्त्वम् अनादितो नित्य-सिद्धम् एवेत्य् अर्थोऽवसीयते । अन्यथा सिद्धा इति पदस्य वैयर्थ्यं स्यात् ॥८॥

———————————————————————————————————————

॥ ११.१२.९ ॥

यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-प्राप्तेर् दुर्लभताम् आह—यम् इति । योगादिभिः कृत-प्रयत्नोऽपि यं न प्राप्नुयात् तं माम् ईयुर् इति पूर्वेणान्वयः । अत्र च प्रथमं या गोप्यः पश्वादयो वा श्री-कृष्णेन सह सङ्गतास् ते सन्तस् तत्-सङ्गोऽन्येषां सत्-सङ्गस् तेन च तेषां भक्तिर् इति ज्ञातव्यम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ताम् एव व्यनक्ति—यम् इति । यं भावम् । अत्रापि योगादयो भगवत्-परा एव । योगादिभिर् यत्नवान् अपीत्य् अनेन तत्-प्राप्त्य्-अर्थं प्रयुज्यमानत्वावगमात् । एष्व् अपि श्री-गोपीनां परमकाष्ठा-प्राप्तिं दर्शयितुम्—अस्यैतत् परमं गुह्यं शृण्वतो यदुनन्दन इत्य् एतत्-पूर्वोक्त-परम-गुह्यत्वस्य [भा।पु। ११.११.४८] परम-काष्ठां दर्शयितुं रामेण सार्धं [भा।पु। ११.१२.९]इत्य्-आदि-प्रकरणम् अनुसन्धेयम् ॥९॥ [भक्ति-सन्दर्भ २४२]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केवलस्य भक्ति-योगस्य सत्-सङ्ग एव हेतुर् न तु सुकृतान्तरं किम् अपीत्य् आह—यम् इति । यत्नवान् अपि योगादीनां सम्यग् अनुष्ठान-निरतोऽपि ॥९॥

———————————————————————————————————————

॥ ११.१२.१० ॥

रामेण सार्धं मथुरां प्रणीते

श्वाफल्किना मय्य् अनुरक्त-चित्ताः ।

विगाढ-भावेन न मे वियोग-

तीव्राधयोऽन्यं ददृशुः सुखाय ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गोपीनां भावं प्रपञ्चयति—रामेण इति चतुर्भिः । श्वाफल्किना अक्रूरेण मयि प्रणीते सति मे मत्तोऽन्यं सुखाय न ददृशुः । कुतः ? वियोगेन तीव्रो दुःसह आधिर् यासां, ताः । अत्र हेतुः--मयि विगाढेन अतिदृढेन भावेन प्रेम्णा अनुरक्तानि संसक्तानि चित्तानि यासां, ताः ॥१०॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४३] अधुना अशेष-सत्तम-गण-पूजितं साधुत्व-चरम-काष्ठा-प्राप्तं परम-माहात्म्यं चतुर्भिः श्री-द्वारकायां श्रीमद्-उद्धवं प्रति सत्सङ्ग-महिम-प्रसङ्गेन हृदयाक्रान्त-सज्जन-गण-शिरश्-चूडामणि-श्री-गोपिका वर्णयन् तत्-प्रेम-रसाकृष्टचेताः प्रस्तुतं विहायैव तासाम् एव परम-गाढ-भाव-महिमानं श्री-भगवान् आह—रामेण [भा।पु। ११.१२.१०] इति ।

श्वाफल्किना अक्रूरेण मथुरां प्रति मयि प्रसह्य नीते सति, एवं मथुरा-गमने मद्-इच्छा न स्यात्2, तत्रापि न त्वरयेति ध्वनितम् । श्वाफल्किना इति केवलं मुनि-वर-सदृश-यादव-पुत्रत्वेनैव तद्-अपराधो मया तत्रत्यैश् च सोढव्य इति भावः । किं वा, यदु-वंशस्य तस्य कंसात् स्व-कुल-रक्षार्थं तथाचरणम् उचितम् एवेति भावः । रामेण सार्धम् इति तस्मिन्न् अपि तत्र स्थिते सति तच्-चातुर्येण कालिय-ह्रद-क्रीडायाम् इव तासां किञ्चिज् जीवनाश्वासो\ऽभविष्यत्, तच् च नाभूद् इति ध्वनितम् ।

यद् वा, रामं प्रत्य् अक्रूरेण पितृ-मातृ-प्रभृतीनां यादव-वंश्यानां बन्धु-वर्गाणां परम-भय-दुःख-वेगम् अस्मद्-धेतुकं प्रतिपाद्य तेन सह मिलित्वा मयि प्रणीते सति अन्यथा मया नागतं स्याद् इति भावः । मे मत्तो\ऽन्यं जनं कम् अपि न ददृशुः दृग्भ्यां नावलोकयामासुर् अपि । किम्-अर्थम् ? सुखाय [यतो मयि प्रणीते] मद्-अन्य-दर्शने\ऽपि [-नमपि] तासां दुःखोत्पत्तिः स्यात् परम-दृश्य-वियोगेऽप्य् अतितुच्छ-दर्शने चक्षुः-प्रवृत्तेः तन् न भवत्व् इत्य् एतद्-अर्थम् । यद् वा, अन्यं कञ्चिद् अपि पदार्थं सुख-हेतुकत्वेन न विदुः दृशेर् ज्ञानार्थकत्वात् अपि तु परम-दुःख-करम् इति विदुः । तत्र हेतुः—वियोगेन मद्-विरहेन तीव्राः परम-दारुणाः सुदुःसहा आधयो मनःपीडा यासां ताः । तत्रैव हेतुः—मयि विगाढेण भावेन अतिदृढेन भावेन मत्-प्रेम्णा मय्येवानुरक्तानि अनुनिरन्तरम् आसक्तानि चित्तानि यासां ताः । यद् वा, पूर्वम् एव प्रकृत्या मय्य् अनुरक्त-चित्ताः सम्प्रति च वियोग-तीव्राधयः, तत एव जातेन दृढभाव-विशेषेण हेतुना अन्यं सुखाय न ददृशुः

अथवा परम-सर्वज्ञ-गण-पूजित-पादाभिस् ताभिः कथम् ईदृशाधि-हेतौ त्वयि चित्तम् अनुरञ्जितम् ? तत्राह—मम विगाढ-भावेन तद्-विषयकेन, यथाह श्री-पराशरः—

स तथा सह गोपीभी रराम मधुसूदनः । > यथाब्द-कोटि-प्रतिमः क्षणस् तेन विना\ऽभवत् ॥ [वि।पु। > ५.१३.३८] इति ।

अस्यार्थः—येन प्रकारेण क्षण-परिमितो\ऽल्पको\ऽपि कालः, तेन मधुसूदनेन विना अब्द-कोटि-तुल्यो गोपीनाम् अभवत् भवेत् । मैत्रेयं प्रति कथन-कालाद् अतीतत्वेनातीत-प्रयोगः । तेन प्रकारेण गोपिभिः सह रेमे । गोपीभिर् इति शब्द-श्लेषेण गा इन्द्रियाणि पान्ति विषयेभ्यो रक्षन्तीति तथा-भूताभिर् अपि निज-मोहनतर-भावेनैव तादृशम् अक्रीडद् इत्य् अर्थः । एवं विरह-दुःखाधिक्य-विस्तारणायैव तादृशी तस्य क्रीडेति भावः । अत एव मधुसूदनः पद्मिनीनां लम्पट-लील-भ्रमर इव प्रिय-जनानां मधु सुख-कारण-सर्वस्वम् एव सूदयति नाशयतीति तथा स इति । "एवं ममैव स्वभावो\ऽयम् येन विचित्र-चातुर्य-माधुर्या लोकानां चित्तम् आकृष्य रमयामि । सा च मत्-क्रीडा पश्चात् परमाधि-पर्यवसायिन्य् एवेति । तासां तत्र को दोषः ?" इत्य् अभिप्रायः


इत्थं च मद्-आत्मिका इत्य् अनेन ताभिः सह विरह-दुःखादौ सन्देशार्थं स्वस्य साम्यं यद् उद्दिष्टं तद् अप्य् अधुना निरस्तम् इति ज्ञेयम् । यतस् ता एवेदृश्यः, न त्व् अहम् इति । एवं पर-श्लोक-द्वये\ऽप्य् ऊह्यम् । अतः सकल-सल्-लोक-शिरोमणेर् मत्तोऽप्य् अधिकतरास् ताः काठिन्याकृतज्ञत्वादि-राहित्येन तादृश-भाववत्त्वाद् इत्य् उक्तं भवति ॥१४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-कृष्णस्य गोकुलागमनं दन्तवक्त्र-वधानन्तरम् एव श्री-भागवत-सम्मतं, यतः ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति कंस-वधान्ते—अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया [भा।पु। १०.८२.४१] इति कुरुक्षेत्र-यात्रायां च श्री-भगवद्-वाक्येन तद्-आगमने दन्तवक्त्र-वधान्तं तच्-छत्रु-पक्ष-क्षपण-लक्षणं सुख-दानम् एवापेक्षितम् आसीत् ।

तद् एवं मास-द्वयं प्रकटं क्रीडित्वा श्री-कृष्णोऽपि तान् आत्म-विरहार्ति-भय-पीडितान् अवधाय पुनर् एवं माभूद् इति भू-भार-हरणादि-प्रयोजन-रूपेण निज-प्रिय-जन-सङ्गमान्तरायेण संवलित-प्रायां प्रकट-लीलां तल्-लीला-बहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्-अन्तराय-सम्भावना-लेश-रहितया तया निज-सन्तता-प्रकट-लीलयैकीकृत्य पूर्वोक्ताप्रकट-लीलावकाश-रूपं श्री-वृन्दावनस्यैव प्रकाश-विशेषं, तेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भा।पु। १०.२८.१८] इत्य् आद्य्-उक्त-दिशा स्वेन नाथेन स-नाथं श्री-गोकुलाख्यं पदम् आविर्भावयामास। एकेन प्रकाशेन च द्वारवतीं च जगामेति । तथा पाद्मोत्तर-खण्ड एव तद्-अनन्तरं गद्यम्—

अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः > पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् > आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु > नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा > दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प।पु। > ६.२५२.२८-२९] इति च ।

इत्थं माथुर-हरि-वंशेऽपि प्रसिद्धिर् अस्तीति श्रूयते । तत्र नन्दादयः पुत्र-दार-सहिताः इत्य् अनेन पुत्राः श्री-कृष्णादयः । दाराः श्री-यशोदादय इति लब्धे पुत्रादि-रूपैर् एव श्री-कृष्णादिभिः सह तत्-प्राप्तेः कथनात् । प्रकाशान्तरेण तत्र तेषां स्थितिश् च तैर् अपि नावगतेति लभ्यते । वासुदेव-प्रसादेनाकस्मात् आगमन-रूपेण परम-प्रसादेन दिव्य-रूप-धरास् तदानन्दोत्फुल्लतया पूर्वतोऽप्य् आश्चर्य-रूपाविर्भावं गता इत्य् अर्थः । विमानम् आरूढा इति गोलोकस्य सर्वोपरि-स्थिति-दृष्ट्य्-अपेक्षया वस्तुतस् त्व् अयम् अभिसन्धिः । कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य इति गद्यानुसारेण यमुनाया उत्तर-पारे एव व्रज-वासस् तदानीम् इत्य् अवगम्यते । स च तेषां वृन्दावन-दर्शनाक्षमतया एव तत्-परित्यागेन तत्र गतत्वात् । ततश् च विमान-शिरोमणिना स्वेनैव रथेन पुनः तस्याः दक्षिण-पार-प्रापण-पूर्वकं श्रीमद्-गोपेभ्यः श्री-वृन्दावन एव पूर्वं गोलोकतया दर्शिते तत्-प्रकाश-विशेष एव निगूढं निवेशनं वैकुण्ठावाप्तिर् इति । अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेद् इति न्यायेन । समीपार्थेऽव्ययम् अक्के-शब्दः । न वेद स्वां गतिं भ्रमन्न् [भा।पु। १०.२८.१४] इति वदता श्री-भगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः । तस्माद् वृन्दावने निगूढ-प्रवेश एव समञ्जसः । अत्र वृन्दावन-नित्य-लीला-वाक्य-वृन्दं चाधिकम् अप्य् अस्ति प्रमाणम् ।

एवम् एव श्री-गर्ग-वाक्यं कृतार्थं स्यात्—एष वः श्रेय आधास्यद् [भा।पु। १०.८.१६] इति । अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्व-वधार्थं निर्गतैः श्री-भगवत्-प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री-भागवतवद् एव लभ्यते । तं विना स्वयं गृह-प्रवेशानौचित्यात् । क्षणार्धं मेनिरेऽर्भकाः [भा।पु। १०.१४.४३] इतिवद् अल्प-काल-भावनेन वा । तद् एवं पुनः श्री-गोकुलागमनाभि-प्रायेणैव श्री-वृन्दावन-नाथोपसना-मन्त्रे निहत-कंसत्वेन तद्-विशेषणं दत्तम् । यथा बोधायनोक्तेः—गोविन्दं मनसा ध्यायेद् गवां मध्ये स्थितं शुभम् इति ध्यानानन्तरं, गोविन्दं गोपी-जन-वल्लभेश कंसासुर-घ्न त्रिदशेन्द्र-वन्द्य इत्य्-आदि । अन्यत्र च, गोविन्द गोपी-जन-वल्लभेश विध्वस्त-कंस इत्य्-आदि ।

तत्र तत्रेत्थम् एव पुनः प्राप्त्य्-अभिप्रायेणोक्तम्—अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ [भा।पु। १०.४७.३६] इति, दिष्ट्या यद् आसीन् मत्-स्नेहः [भा।पु। १०.८२.४४] इति, अथानुगृह्य भगवान् गोपीनां [भा।पु। १०.८३.१] इति च ।3

अथ केवलेन हि भावेन [भा।पु। ११.१२.८] इत्य्-आदि-पद्य-द्वय-कृतेन साधक-चरीणां गोपीनां प्रथमं तत्-प्राप्ति-प्रस्तावेन नित्य-प्रेयसीनाम् अपि तन्-महा-वियोगानन्तर-प्राप्तिं तस्य वियोगस्यातीतत्व-निर्देशाद् द्रढयति—रामेण इति द्वाभ्याम् । विगाढ-भावेन वियोग-तीव्राधयः सत्यो मत्तोऽन्यं निज-सख्य्-आदिकम् अपि न सुखाय ददृशुः । प्रिय-सखी-मालापि ज्वालायत इतिवत् । ततश् चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः ॥१०॥ (कृष्ण-सन्दर्भ १७५)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापि गोपीनां भावस्य सर्वोपरि-विराजमानत्वम् आह—रामेण इति चतुर्भिः । शाफल्किना अक्रूरेण मयि मथुरां प्रकर्षेण नीते सति, मे मत्तोऽन्यं सुखाय न ददृशुः, यतोऽनुरक्त-चित्ताः । प्रेम्णः षष्ठी भूमिका योऽनुरागः, तन्मयी-भूतानि चित्तानि यासां, ताः । तत्रापि विशिष्टो गाढो भावः । अनुरागोत्तर-भूमिका-गतो महा-भाव-भेदो रूढाभिधः, तेन हेतुना वियोगे सति तीव्र आधिर् यासां, ताः । अत्र ददृशुर् इति भूत-निर्देशाद् अधुना तु दन्तवक्र-वधान्ते मया सह संयुक्ता एव वर्तन्ते इति द्योतितम् ॥१०॥

———————————————————————————————————————

॥ ११.१२.११ ॥

तास् ताः क्षपाः प्रेष्ठतमेन नीता

मयैव वृन्दावन-गोचरेण ।

क्षणार्ध-वत् ताः पुनर् अङ्ग तासां

हीना मया कल्प-समा बभूवुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तीव्राधित्वं व्यनक्ति—तास् ता इति । मया सह या एव क्षपा रात्रयः क्षणार्धवन् नीतास् ता एव पुनर् मया हीनास् तासां कल्प-समा बभूवुः । कथं-भूताः ? तास् ताः वाचाम् {?} अगोचरा इत्य् अर्थः ॥११॥


सनातन-गोस्वामी (दिग्-दर्षिनी): [बृ।भा। २.७.१४४] तीव्राधित्वम् एव दर्शयति—तास् ताः [भा।पु। ११.१२.११] इति । हे अङ्ग ! मम गात्रवत् प्रिय मया सह या एव क्षपा बह्व्यो रात्रयः क्षणार्धवत् अत्यल्प-कालवन् नीताः रास-क्रीडादि-परमानन्द-भरेण गमिताः । पुनर् इति वाक्यालङ्कारे, पश्चाद्-अर्थे वा । ता एवाधुना मया हीनाः सत्यः कल्प-समाः परम-शोक-दुःख-भरेण बभूवुः

कथम्-भूताः ? तास् ताः निर्वक्तुम् अशक्या इत्य् अर्थः । प्रेष्ठतमेन इति क्षणार्धत्वे कल्प-समत्वे च हेतुः । एवं रात्रि-शब्देन स्मृति-शास्त्राद्य्-अनुसारेण अहो-रात्राणीत्य् अप्य् उक्तं स्यात् । ततश् च कदापि कदापि भगवच्-छक्ति-विशेषेणाहो-रात्राणि व्याप्य रास-क्रीडैकैवाखण्डा अन्यैर् अलक्षितासीद् इति वितर्क्यं स्यात् । अत एव बह्वीनाम् अपि रात्रीणाम् एक-क्षणार्धवन् नयनेन4 भगवत्-सङ्ग-सुख-महिमा सम्पद्येत, न त्व् एक-मात्र-रात्रेः क्षणार्धत्वेन ।

अथवा, अस्याः कल्पनाया अप्रसिद्धत्वेन रात्रीणां तासां प्रत्येकम् एव क्षणार्ध-तुल्यत्वम् इति वक्तव्यम् । इत्थं च यासु शरज्-ज्योत्स्नावतीषु रात्रिषु मया सह रास-क्रीडासीत् । ता एव तथा बभूवुः, न त्व् अन्या इति तादृश-मदीय-क्रीडैव तासां तादृश-दुःख-हेतुर् इति पूर्ववत् सूचितम् । यद् वा, सर्वास्व् अपि क्षपासु तेन सह तासां क्रीडा वृत्तैवेति ता इत्य् अनेन रात्रयो न व्यवच्छेदनीयाः । काश्चित् किन्तु दिवसा एव प्रायो रात्रिष्व् एव तादृश-क्रीडा-सम्यक्-सिद्धेः ।

तथा चायम् अर्थः—पूर्वं मया सह क्षपाः सर्वा एव क्षणार्धवन् नीताः, मया हीनास् ताः पुनः सर्वा एव प्रत्येकं कल्प-समा बभूवुर् इति । एवम् अपि प्रेष्ठतमेन इति विशेषणान् मयि प्रेम-भरेणैव तासां तादृशं दुःखम् इत्य् उक्तं स्याद् एव ।

नन्व् अहो बत भगवन् परम-दुःख-कातर कथम् अत्र ताः समानाय [पूर्ववत्र]{।मर्क्} रमन्ते? तत्राह—वृन्दावन-गोचरणेति मम वृन्दावन-निवासिनैव तादृशी क्रीडा तासाम् अपि तादृशानन्दः सम्पद्यते, न त्व् अन्यत्रेत्य् अर्थः । गोभिश् चरतीति गोचरेण इत्य् एवं श्लेषेण च गवां चारणेन तादृश-गोप-वेशादिनैव परमानन्देन तथा भवेन् नान्यथेत्य् अपि सूचितम् । एवं कथम् अपि मम तादृक्त्वं नास्तीति दारुणत्वम् अकृतज्ञत्वं च पर्यवस्यतीति । ता एव साधुत्वे मत्तोऽप्य् अधिकतरा इति पूर्ववद् एव तात्पर्यम् ॥१४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तास् ताः क्षपाः मया हीनाः सत्यः कल्प-समा बभूवुः, अधुना तु तादृश्यो न भवन्तीति नास्त्य् एव वियोग इत्य् अर्थः । पूर्वं त्व् एतम् एवोद्धवं प्रति—

मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । > स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ > धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । > प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भा।पु। > १०.४६.५-६]

इत्य् अत्र वर्तमान-प्रयोग एव कृत इति सोऽयम् अर्थः स्पष्ट एव प्रतिपत्तव्यः ॥११॥ (कृष्ण-सन्दर्भ १७५)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कल्पस्य क्षणता योगे वियोगे तद्-विपर्ययः इति प्रेम्णः सप्तम्या भूमिकाया महाभाव-भेदस्य रूढ-भावस्य लक्षणं5 सर्वतो विलक्षणं दर्शयति—तास् ता इति । मया सह रास-क्षपा ब्रह्म-रात्रि-परिमिता अपि क्षणार्धवत् याभिर् नीताः, तासां मया वृन्दावन-गोचरेण वृन्दावन-स्थेन, अथ च वृन्दावने गोभिः सह चरता, हीनास् ताः क्षपाः प्रहर-चतुष्टय-परिमिता अपि यापयितुम् अशक्यत्वात् कल्पैर् बहुभिः समाः ॥११॥

———————————————————————————————————————

॥ ११.१२.१२ ॥

ता नाविदन् मय्य् अनुषङ्ग-बद्ध-

धियः स्वम् आत्मानम् अदस् तथेदम् ।

यथा समाधौ मुनयोऽब्धि-तोये

नद्यः प्रविष्टा इव नाम-रूपे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एवं तीव्राधयस् ता मोह-मिषेण समाधिं प्राप्ता इत्य् आह—ता इति । मय्यनुषङ्गेण आसक्त्य बद्धा धियो याभिस् ताः स्वम् आत्मानं स्व-देहम् । अदो दूर-स्थम्, इदं सन्निहितं च नाविदन् । यद् वा, स्वं पति-पुत्रादि-ममतास्पदम्, आत्मानम् अहङ्कारास्पदं देहम् । अदः परं लोकम्, इदम् इमं लोकं च नाविदन्न् इति । यथा मुनयः समाधौ नाम-रूपे न विदुः, तद्वत् । किन्त्व् अब्धि-तोये नद्यैव मयि प्रविष्टा इत्य् अन्वयः ॥१२॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४५] नन्व् आसां पति-पुत्रादि-सङ्गो वर्तते, तत् कथं सर्व-सङ्ग-परित्यागिभ्यः सिद्धात्म-समाधिभ्यः, तद्-भक्तेभ्यः सकाशाद् आसां सत्त्वे महत्त्वं घटताम् ? तत्राह—ता न [भा।पु। ११.१२.१२] इति । यथा मुनयो मनन-शीलाः यमनियम् आसन-प्राणायाम-प्रत्याहार-ध्यान-धारणाभिर् वैष्णवाष्टाङ्ग-योगेन साधिते सति समाधौ नाम-रूपे नाम-रूपात्मकं जगत् परम् अन्यम् आत्मानं च न विदुः । तथैव ता अपि मयि नित्य-वर्तमानेनानुषङ्गेण सहज-सम्बन्धेन बद्धा धियो\ऽन्तःकरण-वृत्तयो याभिस् ताः । स्व-पति-पुत्रादि देहं वा आत्मानम् अहङ्कारास्पदं क्षेत्रज्ञं वा । अत एव अदः पर-लोकम् इदं च इमं लोकं नाविदन्, किन्तु अब्धि-तोये नद्य इव मयि ताः प्रविष्टाः

एवं गृहे पति-पुत्रादि-सङ्गे स्थितानाम् अपि तादृग्-भावेन तासां मुनिभ्यो महान् विशेषः अग्न्य्-अन्तः-स्थित्याप्य् अग्नि-दाहाभावात्, प्रत्युत निजेष्ट-साधन-सम्पत्तेः । किं च, तासां स्वतः सदा संसिद्धेन मत्-सङ्गेनाकृष्ट-चित्तत्वात् स्वयम् एवान्यत् सर्वं विस्मृतं भवति । मुनीनां तु परम-दुःसाध्याष्टाङ्ग-योग-सम्पत्त्या मननादिना महा-दुर्निग्रहस्य मनसः कदाचित् समाधौ सम्पन्न एव नाम-रूप-विस्मृतिः स्याद् इत्य् एवं तासां सुखेनायत्नतो\ऽनारत-सम्यक् समाधि-सिद्धेर् मुनिभ्यो\ऽपि महत्त्वं सङ्गच्छत एवं ।

अथवा, ननु परम-साधुत्वे प्रसिद्धा आत्मारामा एव सनकादयस् तत्राह—अब्धि-तोये प्रविष्ट-नदीवन् मयि प्रविष्टा मुनय आत्मारामाः समाधौ, यथा नाम-रूपे मम नाविदन्, ता अपि तथैव किम् अपि तु नैव किन्तु स्वादिकं न विदन्ति, मदीये नाम-रूपे विदन्त्य् एवेति काक्वा व्याख्येयम् । अस्मिन् पक्षे आत्म-शब्देन देहो वाच्यः


किं च, तेषां समुद्र-प्रविष्ट-नदी-दृष्टान्तेनाभिहितया सायुज्य-मुक्त्याल्पकं सुखम् । आसां चार्थ-सत्तया6 भेदस्य वर्तमानत्वेन भक्ति-सिद्धेस् तत्र च मय्य् आसक्त्याबद्ध-बुद्धितया कदाचिद् अपि मन्-नाम-रूपाविस्मरणात् प्रेम-भरेण परम-महा-सुखं स्वयम् एव सत् पद्यत इति मुनिभ्यस् ता एव श्रेष्ठा इति भावः ।

अथवा ननु,

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना । > श्रियम् आत्यन्तिकीं वापि7 येषां गतिर् अहं परा ॥ [भा।पु। > ९.४.६४]

इत्य्-आदि त्वद्-वचन-प्रामाण्यात् किल सर्वतः श्रेष्ठास् तद्-भक्ता एव गोप्यस् तु श्री-तुल्या एव कुतस् तासां सर्वतः श्रेष्ठ्यं घटताम् ? इत्य् आशङ्कां परिहरन् पूर्वं गोपी-माहात्म्य-वर्णने8 तत्-प्रातिकूल्येनैव गोपितम् तद्-विषयक-निज-भाव-महिमानम् इदानीम् उद्धव-सन्तोषणार्थं निज-हृदय-काठिन्यादि-दोष-परिहाराय प्रकाशयन् तात्पर्य-वृत्त्या तासाम् एव सर्वतो विशिष्टं साधुत्वं वर्णयति ।

तत्र अविदन्न् इति शतृङ्-प्रत्यये प्रथमा-निर्देशः । ततश् च प्रकरण-बलात् पूर्व-श्लोकस्थ-मयेति विभक्ति-विपरिणामेनाहम् इति प्राप्तं स्याद् एव । तथा तद्-बलाद् भवामीत्य् अपि ।

ततश् चाविदन्न् इत्य् अस्य मुनय इत्य् अनेन सम्बन्धाद् विभक्ति-विपरिणामेनाविदन्त इति च । एवं चायम् अर्थः—अब्धि-तोये प्रविष्ट-नदीवन् मयि प्रविष्टा अपि, समाधौ नाम-रूपे मदीये अविदन्तो यथा मुनयो न भवन्ति सर्वेन्द्रिय-वृत्ति-लयेन शून्यतावाप्त्या परमानन्दानुभवान् मनन-शीलता-राहित्यादिना मुनय एव ते यथा न कथ्यन्त इत्य् अर्थः । तथा ता गोपीर् अविदन् नानुसन्धानो\ऽचिन्तयन्न् अहं न भवामि, भगवान् श्री-कृष्ण एव न स्याम् । किन्तु निज-प्रकृति-विपर्ययेणेतर एवाहम् अभिधेय इत्य् अर्थः ।

यद् वा, न भवामि न जीवामि । अश्लीलत्वादिना श्रीमद्-उद्धव-दुःख-शङ्क्या स्पष्टतया न तथोक्तम् । तत्र हेतुः—मयि अनुषङ्गेण निरन्तर-परमासक्त्या बद्ध-धियः ग्रथितान्तःकरणाखिल-वृत्तीः । अहो भ्रातर् ममेदृशो भावस् तु नान्यत्र कुत्राप्य् अस्तीत्य् आह—स्वं पितृ-मातृ-भातृ-पत्नी-पुत्रादिकम् आत्मानं श्री-कृष्ण-रूपम् इदम् अदः स-परिकर-परिवारं श्री-वैकुण्ठ-पदम् इदं च श्री-द्वारका-श्री-मथुरादि-स्थानम् अविदन् विस्मरन् तथा न भवामि । किम् ? काक्वा अपि भवाम्य् एव तत्-तद्-विस्मरणेनेदृशीं मर्म-पीडां न प्राप्नोमीत्य् अर्थः । किं वा, नञः पूर्वेणैव सम्बन्धः । अतस् तद्-भावेनेयं व्याख्या । तत् तद् विदन् तथा किम् अपि तु नैव यथा गोपी-विस्मरणेन परम-पीडा भवति तथा स्वादि-विस्मरणेन न हीत्य् अर्थः । अतः परमासक्त्या प्रेम-भरेणाहं ता ध्यायामीति भावः । यथोक्तं महद्भिर् गोपी-विषयकोद्धव-वचनं--

वियोगिनीनाम् अपि पद्धतिं वो > नो योगिनो गन्तुम् अपि क्षमन्ते । > यद् ध्येय-रूपस्य परस्य पुंसो > यूयं गता ध्येय-पदं दुरापम् ॥ [पद्या। ३४७] इति ।

योगिनो नित्य-भक्ति-योग-युक्ता एवं मद्-भक्त-वर्गाणाम् अहम् एव ध्येयः । तास् तु ममापि सदानुध्येयाः । अतस् ता एव सर्वतः श्रेष्ठतमा इति तात्पर्यम् ॥१४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च, प्रकटाप्रकट-लीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकट-भावम् आपद्य स्व-नाम-रूपयोर् एव ताः स्थिता इत्य् आह—ता इति । तास् तथाभूत-विरहौत्कण्ठ्यातिशयेनाभिव्यक्त-दुर्धर-महा-भावाः सत्यः, तथा आगमिष्यत्य् अतिदीर्घेन कालेन व्रजम् अच्युतः [भा।पु। १०.४६.३४] इति भगवद्-उक्त्य्-अनुसारेण यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वा [भा।पु। १.११.९] इति द्वारका-वासि-प्रजा-वचनानुसारेण च, कदाचित् तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महा-मोदन-भावाभिव्यक्ति-कारी पुनश् च संयोगस् तेन बद्धा धीर् यासां तथाभूताः सत्यः स्वं ममतास्पदम् आत्मानम् अहङ्कारास्पदं चादः अप्रकट-लीलानुगतत्वेनाभिमतं वा तथेदं प्रकट-लीलानुगतत्वेनाभिमतं वा यथा स्यात् तथा नाविदन्, किन्तु द्वयोर् ऐक्येनैवाविदुर् इत्य् अर्थः ।

प्रकटाप्रकटतया भिन्नं प्रकाश-द्वयम् अभिमान-द्वयं लीला-द्वयं चभेदेनैवाजानन्न् इति विवक्षितम् । ततश् च नामरूपं च तस्मिन् तत्-तन्-नाम-रूपात्मनि अप्रकट-प्रकाश-विशेषे प्रविष्टा इव, न तु प्रविष्टा वस्त्व्-अभेदाद् इत्य् अर्थः । नाम-रूप इति समाहारः ।

तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः—यथा समाधौ मुनयः इति। समाधिर् अत्र शुद्ध-जीवस्येति गम्यम् । तयोर् लीलयोर् भेदावेदने दृष्टान्तः—यथाब्धि-तोये नद्य इति । यथा नद्यः पृथिवी-गताम् अब्धि-तोय-गतां च स्व-स्थितिं भेदेन न विन्दन्ति, किन्तूभयस्याम् अपि स्थितौ समुद्र-तोयानुगताव् एव प्रविशन्ति, तथा मद्-अनुषङ्गे सति प्रकटाम् अप्रकटां च लीला-स्थितिं ताश् च भेदेन न विदुः, किन्तु मय्य् एवाविविशुर् इत्य् अर्थः । दृष्टान्तस् त्व् अयम् लीला-भेदावेदनांश एव, न तु सर्वावेदनांशे, लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इतिवत् ॥१२॥ (कृष्ण-सन्दर्भ १७६)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मोहाद्य्-अभावेऽपि सर्व-विस्मरणम् इति विगाढ-भावस्यापरम् अप्य् अनुभावम् उज्ज्वल-नीलमण्य्-उक्तं दर्शयति । मयि अनुषङ्गेन नितरां सङ्गेन, बद्धा धियो याभिस् ताः । अत्र बद्ध-पदेन कृष्णस्य त्रिजगन्-मोहन-विचित्र-लील-स्तम्भत्वं अनुषङ्गस्य बलवद्-दामत्वं, धी-वृत्तीनां कृष्ण-वाञ्छित-सम्पादक-काम-धेनु-घटत्वम् आरोपितम् । स्वम् आत्मानं देहं न विदुः, रासाभिसारादौ क्व स्थितं क्व वायान्तम् इति नानुसन्दधुः । तथा अदः पर-लोकं धर्मातिक्रमाद् इति भावः । समाधौमुनय इति तेषां यथा सर्व-विस्मरणे ब्रह्मानुभवोऽतिरिच्यते, तथैतासां मद्-अनुभव इति सर्व-विस्मरणांशे दृष्टान्तः, न तु प्राप्यांशे । गोपी-प्राप्य-प्रेम-मुनि-प्राप्य-निर्वाणयोर् अहो महद् एवान्तरम्, यस्मान् ममत्वाममत्वे तयोः ।

तथा हि, सर्व-सन्ताप-निवर्तकात् परमाह्लादकात् दृश्यमानात् चन्द्राद् अपि, सकाशात् सर्व-गुण-हीनोऽपि दृश्यमानः पति-पुत्रादिको यत् सुखम् अधिकं दत्ते, तत्र ममतैव यदि कारणं, तदा किं पुनः सर्व-गुण-मण्डिते स्वभावाद् एव निरवधिक-सुख-प्रदे श्री-कृष्णे पर-ब्रह्मणि निरवधिकैव ममता सुधाधिक्य-कारणं भक्तानाम् इति । अत एवोक्तं—

ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः । > नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ [भ।र।सि। > १.१.३८] इति ।

ब्रह्म च भक्तेष्व् आसक्तं तद्-वश्यं च मुनिषु तु नैवासक्तं न तद्-वश्यं चेति । नद्यो यथा अब्धि-तोये प्रविष्टा नाम-रूपे स्वीये न विदुर् इति रस-चर्वणांशे दृष्टान्तः ॥१२॥

———————————————————————————————————————

॥ ११.१२.१३ ॥

मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गोपिकाद्या दिवं गत्वा हरिं ज्ञात्वा यथा तथा ।

पदं पदं ययुः पूर्व-सङ्गाद् एव शोभोचिता ॥ इति च ॥१३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं ता अबलाः केवलं मत्-कामा अस्वरूप-विदः स्वरूपं तु न जानन्ति, तथापि सत्-सङ्गाज्जारंब्रह्म जार-बुद्धि-वेद्यम् अपि ब्रह्म-स्वरूपम् एव मां परमं प्रापुर् इत्य् अर्थः ॥१३॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४६] अहो सखे किं वर्णयानि ? गोपीनां तासाम् अभीष्ट-सिद्ध्य्-आदि-माहात्म्यम् तासां सङ्ग-प्रभावेण पुलिन्दी-प्रभृतयो\ऽपि वन्य-नीच-जना लक्ष-शस्तादृशीम् एव परम-दुर्लभ-गतिं प्राप्ता इत्य् आह—मत्-कामा [भा।पु। ११.१२.१३] इति ।

अबला जाति-क्रिया-ज्ञान-भक्त्य्-आदि-बल-हीनाः पुलिन्दाद्या अपि । अत एव अस्वरूप-विदः आत्म-तत्त्व-ज्ञान-रहिता अपि । किं वा, दर्शनाद्य्-अभावान् मम सौन्दर्यादिकम् अजानन्त्यो\ऽपि कदाचिद् गृहाद्य्-आगमनेन तृणादि-लग्न-कुच-कुङ्कुम-स्पर्शनादिना वा गोपीनां तासां सङ्गात् मत्-कामाः सत्यः । यद् वा, तासां सङ्गाद् एव अस्वरूप-विदः व्रज-भू-वासावान्तर-फलतया स्वरूपं ज्ञानं प्राप्ता अपि गोपी-सङ्ग-प्रभाव-जानितया परम-भक्त्या चात्म-तत्त्वानुसन्धान-शून्याः सत्य इत्य् अर्थः । यद् वा, विवर्णत्व-मलिनत्वादि-युक्तं निज-रूपम् अननुसन्धाना अत एव मत्-कामाः सत्यः । अबलाः अन्त्यज-स्त्रियः परमं ब्रह्म पर-ब्रह्म-घन-रूपं तत्र च मां श्री-नन्दनन्दनं तत्रापि रमणं स्वामिभावेनेत्य् अर्थः । तत्रापि च जारम उपपतित्वेन सङ्गोपनादिना भाव-विशेषेण प्रतिक्षण-नूतन-मधुर-मधुर-परम-महा-सखान्त्य-काष्ठा-प्रदत्वेन तद्-धन-रूपत्वेन चेत्य् अर्थः । गोपी-सङ्गाद् एव हेतोर् गोपीवत् प्राप्ता देहान्तरे तस्मिन्न् एव देहे वेति ॥१४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं प्रकटाप्रकट-लीलयोर् द्वयोर् अपि तासां स्व-प्राप्तौ भाव एव कारणं दर्शितम् । ततश् चाप्रकट-लीलायां प्रविष्टा अपि यादृशं तस्य स्वरूपं प्राप्तास् तद् दर्शयन्न् अन्यद् अप्य् अनुवदति—मत्-कामा इति ।

अयम् अर्थः—यथा “भीष्मम् उदारं दर्शनीयं कटं करोति” इत्य् अत्र क्रिया खलु विशेष्यस्य कृतिं प्रत्यायन्ती विशेषणानाम् अपि प्रत्याययति, "कटं करोति तं च भीष्मम्" इत्य्-आदि-रीत्या । तथात्रापि प्रतीयते विशेष्यं चात्र ब्रह्मैव । सर्व-विशेषणाश्रयणीय-परम-वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमात् एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.१.१] इति श्रुतेः । तद् एवं स्थिते [कुमारिल-भट्ट-कृत-तन्त्र-वार्तिके] अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेत् इत्य्-उक्त-दिशा पाठान्तरोधेनात्र न विधेयं निर्णीयते, किन्त्व् अर्थानुरोधेन—तस्यैव बलवत्त्वात् । यथा यस्य पर्णमयी जुहुर् भवति, न स पापं श्लोकं शृणोति इत्य् अत्र, पच्यन्तां विविधाः पाकाः [भा।पु। १०.२४.२६] इत्य् आदौ, सर्व-दोहश् च गृह्यताम् इत्य् अत्र अग्नि-होत्रं जुहोति, यवागं पचति इत्य् अत्र च पर्ण-मयी इत्य्-आदीनाम् एव विधेयत्वं, तद्वत्। तस्मिन्न् एवाकाङ्क्षा-पूर्तेर् अर्थानुरोधस्य बलवत्त्वम् ।

ततश् च, पूर्वोक्त-रीत्या ता ब्रह्म प्रापुः । किं निर्विशेषतयाविर्भूतम् ? न, किन्तु परमं परा मा लक्ष्मीर् यस्मिन् तद् इति भगवद्-रूपम् इत्य् अर्थः । परमं यो महद् ब्रह्म इति सहस्र-नाम-स्तोत्रात् । तादृशत्वं च— शुभाश्रयः स्व-चित्तस्य सर्वगस्य तथात्मनः [वि।पु। ६.७.७५] इति विष्णु-पुराण-रीत्यान्यत्रापि भगवद्-आविर्भावे सम्भवतीत्य् आशङ्क्याह—मां श्री-कृष्णाख्यम् एव प्रापुः । यथोक्तं तासु स्वयम् एव—मय्य् आवेश्य मनः कृत्स्नं [भा।पु। १०.४७.३६] इति, मयि भक्तिर् हि [भा।पु। १०.८२.४४] इति ।

तत्र च मां निज-भाव-विशेष-मय-भेदेन द्विधा प्रापुर् इति बोधयितुं तासां तत्-तद्-विशेषण-साहित्येन विशेषण-द्वयम् आह—मत्-कामा रमणं जारम् इति । रमणं जारम् अस्वरूप-विद इति रमण-शब्देनात्र पतिर् एवोच्यते । नन्दन-शब्देन पुत्र इव रूढ्या यौगिकत्व-बाधात् । यथा मित्रा-पुत्रो मित्रा-नन्दन एवोच्यते, न तु मित्रा-पतिः । मित्रा-रमण-शब्देन च मित्रा-पतिर्, न तु मित्रा-पुत्रः, तद्वद् अत्रापि जार-शब्देनोपपतिर् एवोच्यते, न तु पतिः । कोष-कार-मते च तत्र तत्रैव रूढः । रमणं स्यात् पटोलस्य मूलेऽपि रमणं तथा इति विश्व-प्रकाशात् । स्त्री-जाति-सम्बन्धेन रमण-शब्दवत् प्रिय-शब्देन पतिर् एवोच्यते, तथैव प्रसिद्धेः, धवः प्रियः पतिर् भर्ता इत्य् अमर-कोषाच् च । जारः पाप-पतिः समौ इति त्रिकाण्डा-शेषाच् च । पतित्वं तूद्वाहेनैव कन्यायाः स्वीकारित्वम् इति लोक एव, भगवति तु स्वभावेनापि दृश्यते, परम-व्योमाधिपस्य महा-लक्ष्मी-पतित्वं ह्य् अनादि-सिद्धम् इति ।

ततश् च अस्वरूप-विद इति स्वरूपं नित्यम् एव मत्-प्रेयसीत्व-लक्षणम् अवतार-समये मदीय-लीला-शक्त्या मोहितत्वान् न विदन्ति यास् तथा सत्यो जारं जार-बुद्धि-वेद्यं सन्तं मां प्रापुः । तथापि रमणतया प्राप्तौ हेतुः—मत्-कामा इति । मयि कामः कथम् अस्माकम् अन्यस्मिन् पतित्वं स्वप्नवद् विलीयेत, श्री-कृष्ण एव जागरवत् तत् प्रादुर्भवेद् इत्य् अभिलाषो यासां तथा सत्यो मां रमणं प्रापुः । तादृग् अभिलाषश् चासां स्पष्टम् एवोपलभ्यते । यथा—अपि बत मधु-पुर्याम् आर्य-पुत्रोऽधुनास्ते [भा।पु। १०.४७.२१] इत्य् अनेन तस्य स्वीया एव वयम् इति व्यज्य तत्र च किङ्करीणाम् इति, स्यम सुन्दर ते दास्यः [भा।पु। १०.२२.१५] इतिवद् दैन्यात् किङ्करीत्वेनापि निश्चित्य, भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु [भा।पु। १०.४७.२१] इत्य् अनेन तद् एवासावसङ्कोचाङ्गीकारेण कदा साङ्गीकरिष्यतीति श्री-राधा स्वयम् एव प्रार्थितवतीति, तथा कात्यायनि महामाये [भा।पु। १०.२२.४] इत्य् आदौ, गोप्यः किम् आचरयत् [भा।पु। १०.२१.९] इत्य् आदौ, यत् पत्य्-अपत्य्-सुहृदाम् [भा।पु। १०.२९.३२] इत्य् आदौ च । श्री-भगवता च स्व-मतं तद् एव श्रीमद्-उद्धवायोपदिष्टम्—वल्लव्यो मे मद्-आत्मिकाः [भा।पु। १०.४६.६] इति । अत्र यात यूयं [भा।पु। १०.४५.२३] इत्य् आद्य्-अनुसारेण श्रीमन्-नन्द-राजे निज-पितृत्वाभिमननेन स्वस्मिन् गोपत्व-मननात्, ब्राह्मणस्य मम ब्राह्मणी इतिवत् खलु वल्लभस्य मम वल्लवी-रूपास् ता इति । श्री-शुकदेवेन च कृष्ण-वध्वः [भा।पु। १०.३३.७] इत्य् एवोक्तम् ।

तद् एवं जार-बुद्धेर् हेयत्वं रमण-बुद्धेस् तूपादेयत्वं इति व्याख्याय श्री-स्वामिभिर् अवगमितम् । भर्त्राभिलाष-प्राप्तिश् चावश्यम् अवगन्तव्या । अन्यथा—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता। ४.११] इति श्री-गीतोपनिषद्भ्यो, यथा इति यद् अभिलाषेणेत्य् एवार्थात्, तस्माद् रमणतया विद्यते इति प्रतिज्ञा-हानिर् न स्यात्, तत्-क्रतु-न्यायात् । अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इति प्रतिज्ञा-हानिश् च स्यात् । स्वयम् एवेदं दृष्टान्त-द्वारा बोधितम् । मय्य् आवेश्य मनः कृत्स्नम् [भा।पु। १०.४७.३६] इत्य् आद्य्-अनन्तरं,

या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः ।

अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भा।पु। १०.४७.३७]

अथ खल्व् अन्तर्-गृह-गतानां तासां तान् पतीन् तांश् च देहांस् त्यक्तवतीनाम् औपपत्यं न सम्भवतीति, हे कल्याण्यः इत्य् अनेन भवतीनां न तद्वद् देह-परित्याग इति वैशिष्ट्यम् अवगमितम् । तद् एतद् अभिप्रेत्यैव पूर्वम् अपि तं श्रीमद्-उद्धवं प्रति, धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैः [भा।पु। १०.४६.६] इत्य् उक्त्वा तासां प्राण-धारणे आग्रहो दर्शितः । जारतया प्रतीतत्वेन रमणत्वेन च मत्-प्राप्तौ मम कारुण्यं तु परम-सहायम् इत्य् आह—अबला इति । तादृश-मत्-प्रेमैक-बल्येन तासु स्व-स्वरूपानुसन्धान-बल-तिरोधानान् न विद्यते बलं मत्-साहाय्यं विनान्यद् यासां तादृश्य इत्य् अत एव ममातिकारुण्योदयाद् इति भावः । अहो आस्तां नित्य-प्रेयसीनां वार्ता, तासां सङ्गाद् अन्या अपि शत-सहस्रशस् तथा मां प्रापुर् इति । किं च ब्रह्मत्वं परमत्वं च तत्र स्वाभाविकम् एवेति तादृश-प्रेम-विशेषेण तयोर् आवरणम् एव, न तु निर्धूननम् । पर-माधुर्यस्य तु परमोल्लासः । अथ जारत्वं तु तत्रासत्यं दुःख-मय-जुगुप्सितान्य-सम्बन्धाद् धिक्कृतं चेति तेन प्रेम-विशेषेण तस्य निर्धूननम् एव, न तु पूर्ववद् आवरण-मात्रम् । परम-रमणत्वस्य तु परमोल्लास इति । अत्र पद्ये विशेषः श्री-कृष्ण-सन्दर्भे द्रष्टव्यः ॥१३॥ (कृष्ण-सन्दर्भ १७७)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च ता मां प्रापुर् इत्य् आह—मत्-कामा मां कामयन्ते इति ताः । मां परमं ब्रह्म प्रापुः । कीदृशं ? रमणं ताभिः सह रममाणं ता रमयन्तं च । वीक्ष्य रन्तुं मनश् चक्रे [भा।पु। १०.२९.१] इति शुकोक्तेः । किं पति-स्वरूपं न जारं उपपति-स्वरूपं ? कीदृश्यः ? अस्वरूप-विदः मन्-महा-माधुर्य-मात्रानुभवित्वाद् ऐश्वर्य-लक्षणं मत्-स्वरूप-विशेषं न विदन्तीति ताः ।

यद् वा, अन्ये भक्त-जना इव मत्-स्वरूपं मत्-सारूप्यं न विदन्ति, न प्राप्नुवन्ति । तत्-प्राप्तौ ताभिर् मद्-विहारासिद्धेर् इति । यद् वा, ताः स्वस्य रूपं सौन्दर्यादिकं न जानन्ति, किन्तु मत्-सौन्दर्यादिकम् एवानुभवन्तीति ताः । यद् वा, न विद्यन्ते स्वरूपविदः स्वरूपज्ञा यासां ताः ॥१३॥

———————————————————————————————————————

॥ ११.१२.१४-१५ ॥

तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥**

माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥**

मध्वाचार्यः (भागवत-तात्पर्यम्) :

श्रोतव्यं च श्रुतं चैव वक्तव्यं कार्यम् एव च ।

निवर्त्यं च हरेः पूजेत्य् एवं कुर्यान् न चाक्रमात् ॥ > एवं कृत्वा तु सन्न्यासी सर्वोत्सङ्गाद् धरौ स्मृतः । > अन्यथा नैव सन्न्यासी निष्क्रियोऽपि शिला यथा ॥ इति कर्म-विवेके । > नाहं कर्ता तु सर्वस्य कर्तैको विष्णुर् अव्ययः । > इति वित्त्वा तु सन्न्यासी नान्यथेति कथञ्चन ॥ इति निवृत्ते । > मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । > निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥ इति च ॥१४-१५ > ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्माद् एवं-भूतो मद्-भजन-प्रभावस् तस्मात् त्वं चोदनां श्रुतिम् प्रतिचोदनां स्मृतिं च। यद् वा, विधिं च निषेधां चोत्सृज्य मां शरणं याहि ॥१४॥ मयैवाकुतोभयः स्याः भव ॥१५॥


सनातन-गोस्वामी : [ह।भ।वि। ११.६४८-९] यस्माद् एवम्भूतो मदीय-जन-प्रभावस् तस्मात् । चोदनां श्रुतिम् । प्रतिचोदनां स्मृतिं च। यद् वा विधि-निषेधां चोत्सृज्य सर्वम् एव परित्यज्येत्य् अर्थः । माम् एवैकं शरणं याहि । मयैवाकुतोभयः स्या भव । सर्व-देहिनाम् आत्मानम् अन्तर्यामित्वेन हृदि नित्य-सन्तम् इत्य् अर्थः । अनेन त्वदीय-क्षेत्र-विशेषाश्रयण-नियमो निरस्तः । सर्वेणात्मनो भावेन भावनया इति तद्-एक-निष्ठोक्त्यान्याखिल-परित्यागेन सुकरत्वम् अपि दर्शितम् इति दिक् । केचिच् च भगवतः सर्वात्नर्यामित्व-दृष्ट्या सर्वेषु जीवेषु योऽपृथग्-भावो भगवद्-दृष्टिर् वा । तद् एव शरणागतत्वं मन्यन्ते । तच् च ज्ञान-भक्त्य्-अन्तर्गतम् एवेति ज्ञान-भक्ति-लक्षणे सर्व-भूतेषु यः पश्येत् [भा।पु। ११.२.४५] इत्य् अत्र विवृतम् एवास्ति । एवं साक्षात्-श्री-भगवद्-वाक्येन शरणागतत्वस्य विधेयत्वं लिखितम् ॥१४-१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तद्-अभीष्टतमां श्री-गोपीनाम् अपि स्व-प्राप्तिं कथयित्वा तस्यापि तां क्रोडीकुर्वन्न् उपसंहरति—तस्माद् इति युग्मकेन । यस्मान् मदीयत्वेन लब्ध-सम्भावनानां तेषां श्री-नारदाङ्गिरः-प्रभृतीनाम् अपि सङ्ग-मात्रस्यैतावन्-महिमा, तस्मात् तद्-गण-परमाश्रयत्वेन परमं सन्तं तद् अभीष्टं माम् एकम् एव शरणं याहि—शरणागति-पर्यन्ततया भजेत्य् अर्थः । ततश् च हि निश्चितं मया त्वम् अकुतोभयः स्याः, भविष्यसि । तत्र कैमुत्य-न्यायात्मनः स्वभावतः सर्व-हितत्वं दर्शयति—सर्व-देहिनाम् आत्मानं परमात्मानम् इति । एकम् एव शरणम् इत्य् एव दर्शयति—सर्वात्म-भावेनेति, तद् एव विवृणोति—उत्सृज्येत्य् आदिना । श्रोतव्यं श्रुतम् एवेति ज्ञानाश्रयत्वम् अपि निराकरोति—तत्रैकम् इति । तदात्वे एवेति कालान्तरे च आश्रयान्तरस्य भावनाम् अपि निषेधति स्म ॥१४-१५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं श्रीमद्-उद्धवेन साधु-लक्षणं पृष्टः श्री-भगवांस् तारतम्येन त्रिविधं साधुं लक्षयित्वा तत्-तत्-सङ्ग-प्रादुर्भूतां प्रधानीभूतां केवलां च भक्तिं सामान्यतो निरूप्य भक्तेः स्व-वशीकारं विवक्षुः कैमुत्येन सत्-सङ्गस्यैव वशीकारित्वम् उक्त्वा सत्-सङ्गिनो भक्तांश् च निर्दिश्यान्ते गोप्य्-आदि-निष्ठं केवलं भक्ति-योगं दुर्लभत्वेन स्तुत्वा सहसैव रामेण सार्धम् इत्य्-आदिना तत्रापि गोपी-विषयक-स्व-प्रेम-बाष्पं सदा जाज्वल्यमानं गाम्भीर्येण हृदि मुद्रितम् अप्य् अधीरतयैवोद्घटय्य तासाम् एव साधुत्वस्यापि सर्व-महा-महोकृष्ट-कक्षा-विश्रामित्वम् अभिव्यज्य केवले तद्-अनुष्ठिते भक्ति-योगे एवोद्धवं प्रवर्तयितुम् आह—तस्माद् इति । चोदनां विधिं प्रतिचोदनां प्रतिषेधं च । विहितं कर्म निषिद्धं च कर्म त्यक्त्वा इत्य् अर्थः । तर्हि किं सन्न्यासं कुर्वे ? न, प्रवृत्तं गृहस्थानां धर्मं च निवृत्तं सन्न्यासिनां धर्मं च त्यक्त्वा तत्रापि श्रोतव्यं श्रुतं च त्यक्त्वा इति भावि-धर्म-श्रवणम् अनाकाङ्क्ष्य भूत-श्रवणं च विस्मृत्येत्य् अर्थः । सर्वात्म-भावेन सर्वोपाय आत्मनो मनसो भावो दास्य-सख्यादिस् तेनैकम् एव माम् आलम्बनीकृत्य शरणं याहि । मयैव अकुतोभयः स्या इति । तव नास्ति कर्माधिकारो नापि ज्ञानाधिकारस् तद् अपि तं तम् आत्मन्य् आरोप्य प्रत्यवाय-भयं संसार-भयं च मन्यसे चेत् तदा तद्-भय-द्वयात् त्राता अहं विद्यमान एवास्मीत्य् अर्थः ॥१४-१५॥

———————————————————————————————————————

॥ ११.१२.१६ ॥

श्री-उद्धव उवाच—

संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।

न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : वायौ मुख्य-धियेत्य् उक्त्वा विशेषतो गोपिका प्रशंसनात् संशयः । शृण्वत इति चोदयति । गोपिका अपि माम् आपुः किम् उ वाय्व्-आद्या इति दर्शयितुं गोपिका-प्रशंसनम् ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्वं तावत्—मयोदितेष्व् अवहितः स्व-धर्मेषु इत्यादिना कर्म कर्तव्यम् इत्य् उक्तम् । इदानीं तु सर्वं त्यक्त्वा मां शरणं याहीत्य् उच्यते । तत्र किम् आत्मनः कर्तृत्वाद्य् अस्ति नास्ति वेत्य् आत्मस्थ आत्म-विषयः संशयो न निवर्तते । यद् वा, कर्म कार्यं त्याज्यं वेत्य् आत्मस्थो हृदिस्थः संशयो न निवर्तत इति पृच्छति संशय इति । येन संशयेन ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वोक्त एवाप्रकट-लीला-प्रवेश-प्रकट-लीलाविष्कार-रूपोऽर्थस् तद्-अनन्तर-प्रश्नोत्तराभ्याम् अप्य् अभिप्रेतोऽस्ति । प्रश्नस् तावत् श्री-उद्धव उवाच—संशय इति । तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्व् अवहित इत्य्-आदिकाध्याय-त्रय-गत-महा-वाक्यार्थ-पर्यालोचनासामर्थ्यं न निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भा।पु। ११.१२.१०] इत्य्-आदि लक्षणात् तव वाक्यान् मम मनो भ्राम्यति । "हन्त ! तासाम् अनेन सङ्गमः कुत्र कथं विद्यते ?" इति चिन्तया न स्वस्थं वर्तते इत्य् अर्थः ॥ (कृष्ण-सन्दर्भ १७८)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संशयो न निवर्तेत इत्य् एतत् पूर्व-लक्षण एव—मयि सर्वाणि कर्माणि निरपेक्षः समाचर [भा।पु। ११.११.२२] इति वदता त्वया मह्यं कर्माधिकारो दत्तः । तत्-पूर्वं तु—

यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः > नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् ॥ [भा।पु। ११.७.७] > इति, > तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदं जगत् । > आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥ [भा।पु। ११.७.९]

इत्य् उक्तवता मह्यं ज्ञानाधिकार एव दत्तः । अधुना तु सर्वं त्यक्त्वा मां शरणं याहीति भक्त्य्-अधिकारं ददासि । न जाने पुनर् अग्रे कर्माधिकारं मह्यं दास्यसीति सख्य-रसोद्भूता वक्रोक्तिर् द्योतिता ॥१६॥

———————————————————————————————————————

॥ ११.१२.१७ ॥

श्री-भगवान् उवाच—

स एष जीवो विवर-प्रसूतिः

प्राणेन घोषेण गुहां प्रविष्टः ।

मनो-मयं सूक्ष्मम् उपेत्य

रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सर्वैर् गुणैः सर्वोत्तमस् तु वायुर् एव । स एव च हिरण्यगर्भ इति दर्शयितुम् आह—स एष जीव विवर-प्रसूर् इत्य्-आदि ।

विशेषेण वराणां अहङ्कारादीनाम् अपि प्रसूति-कर्ता । > प्राणेन विष्णुना घोषेण वेदात्मिकया प्रकृत्या ॥

मनो-मात्रादयश् च हिरान्यगर्भस्य देव्याः परमात्मनश् च स्थानानीत्य् उक्तम् । प्राणेन घोषेण सह विवर-प्रसूतिर् मनोमयं रूपम् अपैति इत्य्-आदिना ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तरम्, स एष इत्य् अष्टभिः । अयं भावः—ईश्वरस् तावत् स्व-माया-वशात् प्रपञ्चात्मना भाति, तत् प्रपञ्चाध्यासाच् च जीवानाम् अनाद्य्-अविद्यया कर्तृत्वादि, ततो विधि-प्रतिषेधाधिकारस् तदानीं सत्त्व-शुद्ध्य्-अर्थं कर्माणि कुर्व् इत्य् उक्तम् । सत्त्वे च शुद्धे पुनः कर्म-जाड्य-परिहाराय भक्ति-विक्षेपक-कर्मादरं परित्यज्य दृढ-विश्वासेन भजेत्य् उक्तम् । जातायां तु विद्यायां न किञ्चित् कर्तव्यम् अस्तीति । तत्र तावद् ईश्वराद् वाग्-आदीन्द्रिय-द्वारा जीव-संसृति-कारण-भूतं प्रपञ्चोद्गमम् आह सार्धैश् चतुर्भिः ।

स एषोऽपरोक्षः । जीवयतीति जीवः परमेश्वरः । अपरोक्षत्वे हेतुः, विवरेष्व् आधारादि-चक्रेषु प्रसूतिर् इव प्रसूतिर् अभिव्यक्तिर् यस्य सः । ताम् एवाभिव्यक्तिम् आह—घोषेण इति । घोषेण पराख्येन नादवता प्राणेन सह गुहाम् आधार-चक्रं प्रविष्टः सन्, मनो-मयंसूक्ष्मंरूपं पश्यन्त्य्-आख्यं मध्यमाख्यं च मणिपूर-चक्रे विशुद्धि-चक्रे च उपेत्य प्राप्य, वक्त्रे मात्रा ह्रस्वादिः, स्वर उदात्तादिः, वर्णः क-कारादिर् इत्य् एवं वैखर्य्-आख्यः स्थविष्ठोऽतिस्थूलो नाना-वेद-शाखात्मको भवति । तथा च श्रुतिः,

चत्वारि वाक्-परिमिता पदानि > तानि विदुर् ब्राह्मणा ये मनीषिणः । > गुहा त्रीणि निहिता नेङ्गयन्ति > तुरीयं वाचो मनुष्या वदन्ति ॥ [ऋ।वे। १.१६४.२४]इति9

अभियुक्त-श्लोकश् च,

या सा मित्रा-वरुण-सदनाद् उच्चरन्ती त्रि-षष्टिं > वर्णान् अन्तः-प्रकट-करणैः प्राण-सङ्गात् प्रसूते । > तां पश्यन्तीं प्रथमम् उदितां मध्यमां बुद्धि-संस्थं > वाचं वक्त्रे करण-विशदां वैखरीं च प्रपद्ये10 ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथोत्तरं तत्र तस्य संशयम् अपनेतुं द्वाभ्यां तावत् तच्-चित्तं स्वस्थयन् श्री-भगवान् उवाच—स एष जीव इति । स एष मल्-लक्षणो जीवो जगतो जीवन-हेतुः, विशेषतो व्रजस्य जीवन-हेतुर् वा परमेश्वरः । प्राणेन मत्-प्राण-तुल्येन घोषेण व्रजेन सह विवर-प्रसूतिर् विवराद् अप्रकट-लीलातः प्रसूतिः, प्रकट-लीलायाम् अभिव्यक्तिर् यस्य, तथाभूतः सन् पुनर् गुहाम् अप्रकट-लीलाम् एव प्रविष्टः । कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्-आदीनि स्वरो भाषा-गानादि वर्णो रूपम् इति । इत्थं स्थविष्टः स्व-परिजनानां प्रकट एव सन्, अन्येषां सूक्ष्मम् अदृश्यं, बहिरङ्ग-भक्तानां च मनो-मयं कथञ्चिन् मनस्य् एव गम्यं । यद् रूपं प्रकाशस् तद् उपेत्य ॥१७॥ (कृष्ण-सन्दर्भ १७९)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो प्रिय-सखोद्धव ! मैवं मंस्थाः । सर्वेषाम् एव जीवानां उपकारार्थं भक्ति-ज्ञान-वैराग्य-योग-तपो-धर्मादीनि मत्-प्राप्त्य्-उपाय-रत्नानि, तत्त्वतस् त्व् अनन्य-ज्ञेयानि, त्वयि विन्यासत्वेनैवार्पयामि । त्वं तु तत्र तत्र वस्तुनि सत्त्वम् आरोप्य ममैवैतद् इत्य् अभिमन्यमानो लज्जाम् अपि किं न अनुभवसि । अहं तु, भो उद्धव, त्वया ज्ञानम् अभ्यस्यतां, कर्माणि क्रियन्तां, भक्तिः कर्तव्या, योगो अनुष्ठेयः, तपश् चरणीयम् इत्य्-आदिकं सर्व-जीवान् उद्दिश्यापि त्वाम् एकम् एव लक्ष्यी-कृत्य यद् अवोचं वच्मि, वक्ष्यामि वा, तेनैव किं त्वं तत्-तद्-अनुष्ठानाधिकारी खल्व् अभूः ? त्वं तु मे योऽपि सोऽस्य् एव । साम्प्रतं तु न ते क्वापि साधकतेति स-नर्माश्वासम् अभिव्यञ्जन्न् एकस्यापि जीवस्य दशा-भेदेन कर्माधिकारो ज्ञानाधिकारो भक्त्य्-अधिकारश् च, यतो ज्ञायते, तस्य वेदस्यार्थं सम्यग् अहम् एव जानामि, नान्यः । यतो वेद-स्वरूपेण चतुर्मुख-वक्त्रेभ्योऽहम् एव प्रादुरभूवम् इत्य् आह—स इति ।

जीवयतीति जीवः परमेश्वरः, स प्रसिद्ध एव मल्-लक्षणः पुरुष एवेति स्व-तर्जन्या स्व-वक्षः स्पृशति । विवरेषु चतुर्मुख-शरीर-स्थाधारादि-चक्रेषु प्रसूतिर् इव प्रसूतिर् अभिव्यक्तिर् यस्य सः । ताम् एवाभिव्यक्तिम् आह—घोषेण पराख्येन नादवता प्राणेन सह गुहाम् आधार-चक्रं प्रविष्टः सन् । मनो मनो-मयं सूक्ष्मं रूपं पश्यन्त्य्-आख्यं मध्यमाख्यं च मणिपूर-चक्रे विशुद्धि-चक्रे चोपेत्य प्राप्य वक्त्रेषु मात्रा ह्रस्वादिः, स्वर उदात्तादिः, वर्णः क-कारादिर् इत्य् एवं वैखर्य्-आख्यः स्थविष्ठोऽतिस्थूलो नाना-वेद-शाखात्मको भवति ॥१७॥

———————————————————————————————————————

॥ ११.१२.१८ ॥

यथानलः खेऽनिल-बन्धुर् उष्मा

बलेन दारुण्य् अधिमथ्यमानः ।

अणुः प्रजातो हविषा समेधते

तथैव मे व्यक्तिर् इयं हि वाणी ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : तत्रापि विशेषतो भगवत एव व्यक्ति-स्थानम् इत्य् आह—यथानल इत्य्-आदिना ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्यक्तस्य सतः सूक्ष्म-मध्यम-क्रमेणाभिव्यक्तौ दृष्टान्तः—यथेति । यथाग्निः खे ऊष्मा अव्यक्तोष्म-रूपः । दारुण्य् अधिकं मथ्यमानोऽनिल-सहायः सन्न् अणुः सूक्ष्म-विस्फुलिङ्गादि-रूपो भवति । पुनः प्रकृष्टो जातो हविषा संवर्धते । तथैवेयं वाणी ममाभिव्यक्तिः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र प्रथमेऽर्थे—यथानल इति । तथैव मम व्यक्ति-रूपा वाणी चेत्य् अर्थः । द्वितीयेऽर्थे प्रकट-लीलाविष्कारं च स-दृष्टान्तं स्पष्टयति—यथानल इति । दृष्टान्तोऽयं गर्भादि-क्रमेणाविर्भाव-मात्रांशे । तृतीयेऽपि तद् उक्तं श्रीमद्-उद्धवेनैव—अजोऽपि जातो भगवान् यथाग्निः [भा।पु। ३.२.१५] इति । व्यक्तिर् आविर्भावः । हि यस्माद् इयं स्वरहस्यैक-विज्ञस्य ममैव वाणी, नात्रासम्भावना विधेयेत्य् अर्थः । ततश् चानन्तरं वक्ष्यमाण एवं गदिर् [भा।पु। ११.१२.१९] इत्य्-आदि ग्रन्थस् तु संशयापत्तोदने व्याख्येयः । एवं पूर्वोक्त-वाक्यस्यैवार्थ-भेदेन गदिर् लौकिक-भाषणम् इति ज्ञेयम् । तस्याप्य् उत्पत्तिर् ज्ञेयेत्य् अर्थः । स च स-तात्पर्यकोऽर्थ-भेदष् टीकायाम् एव दृश्यते इति ॥१८॥ (कृष्ण-सन्दर्भ १८०)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रमेणाभिव्यक्तौ दृष्टान्तो—यथेति । यथाग्निः खे दारु-गताकाशे उष्मा प्रथम-मथने अव्यक्तोष्म-रूपं, ततो दारुण्य् अधिकं मथ्यमानोऽनिल-सहायः सन्न् अणुः सूक्ष्म-विस्फुलिङ्गादि-रूपो भवति । ततश् च प्रजातः प्रकर्षेण स्थूलतया जातो हविषा समेधते प्रवर्धते । तथैव मे व्यक्तिर् मद्-आविर्भाव-रूपेयं वेद-लक्षणा वाणी । अतोऽस्या अतिगूढम् अर्थं माम् विना को ज्ञास्यति ज्ञात्वा च जीवस्य संसार-निस्तारणार्थान् भक्ति-ज्ञान-कर्माद्य्-उपायान् को व्यवस्थास्यतीत्य् अतस् त्वयि परम-योग्ये पात्रे स्व-तुल्ये तान् उपायान् साम्प्रतं कृपया न्यस्यामि, त्वत्तो बदरिकाश्रम-स्था मुनयः प्राप्य कृतार्था भविष्यन्तीति भावः ॥१८॥

———————————————————————————————————————

॥ ११.१२.१९ ॥

एवं गदिः कर्म गतिर् विसर्गो

घ्राणो रसो दृक् स्पर्शः श्रुतिश् च ।

सङ्कल्प-विज्ञानम् अथाभिमानः

सूत्रं रजः-सत्त्व-तमो-विकारः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्ताः वाग्-वृत्तिम् उपसंहरन्न् इतरेन्द्रिय-वृत्तिष्व् अतिदिशति । एवं गदिर् गदनं भाषणं मे व्यक्तिर् इत्य् उपसंहारः । कर्म-हस् तयोर् वृत्तिर् गतिः पादयोर् विसर्गः पायूपस्थयोर् इति कर्मेन्द्रियाणाम् । घ्राणोऽवघ्राणं रसो रसनं दृक् दर्शनं स्पर्शः स्पर्शनं श्रुतिः श्रवणम् इति ज्ञानेन्द्रियाणाम् । सङ्कल्पो मनसो विज्ञानं बुद्धि-चित्तयोर् अभिमानोऽहङ्कारस्य सूत्रं । प्रधानस्य सत्त्व-रजस्-तमसां विकारोऽधिदैवादिस् त्रिविधः प्रपञ्चो मे व्यक्तिर् इति पूर्वेणान्वयः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं वेदस्य स्वाविर्भावत्वं दर्शयित्वा तद्-अर्थ-द्वारा जीवानां जगद्-आवेशं त्याजयितुं जगति लौकिक-वाग्-आदि-वृत्तीनाम् अपि तत उद्भवं दर्शयति—एवं गदिर् इति । यथा पराख्यादि-क्रमेण वैदिकी वाग्-वृत्तिर् उत्पन्ना । तथैवं पूर्वोक्त-वाक्य-द्वयस्यैवार्थ-भेदेन गदिर् लौकिक्य् अप्य् उत्पन्ना । किन्तु पूर्वा स्वरूप-शक्त्या । परा तु माययेति ज्ञेयम् इत्य् अर्थः । ततश् च यथा गदिस् तथा कर्मादयोऽपीत्य् अर्थः ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, मत्-स्वरूप-भूता वेद-लक्षणा वाणी यथा ब्रह्म-शरीराद् उद्भूता, तथैव प्राकृत्य् अपि वाणी प्राकृत-लोक-शरीराद् अपभ्रंशादि-रूपा सम्भवतीत्य् आह—एवं गदिर् वाग्-इन्द्रिय-व्यापारो भाषणम् । तथा च श्रुतिः—

चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । > गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ [ऋ।वे। > १.१६४.२२]

अस्या अर्थः—वाक् वचनानि चत्वारि परिमिताः परिमितानि पदानि सुप्-तिङस् तानि । अत्र त्रीणि परा पश्यन्ती मध्यमाख्यानि प्राण-मनो-बुद्धि-स्थानि आधार-नाभि-हृदयेषु स्फुरन्त्य् अपि नेङ्गयन्ति स्वरूपं न प्रकाशयन्ति । तुरीयं वैखर्य्-आख्यं वाग्-इन्द्रिय-गतं वाचो वचनम् इति, यथा गदिर् एवम् एव समष्टि-व्यष्टीनां सर्वेन्द्रिय-व्यापारो ममैव प्राकृती व्यक्तिर् इत्य् आह—कर्म हस्तयोर् व्यापारः । गतिः पदयोः । विसर्गः पायूपस्थयोर् इति कर्मेन्द्रियाणां, घ्राणोऽवघ्राणं, रसो रसनं, दृक् दर्शनं, स्पर्शः स्पर्शनं, श्रुतिः श्रवणम् इति ज्ञानेन्द्रियाणां, सङ्कल्पो मनसः, विज्ञानं बुद्धि-चित्तयोः, अभिमानोऽहङ्कारस्य, सूत्रं प्रधानस्य, रजः-सत्त्व-तमसां विकारो अध्यात्मादिस् त्रिविधः प्रपञ्चः व्यक्तिर् मायिकीति पूर्वेणान्वयः ॥१९॥

———————————————————————————————————————

॥ ११.१२.२० ॥

अयं हि जीवस् त्रि-वृद् अब्ज-योनिर्

अव्यक्त एको वयसा स आद्यः ।

विश्लिष्ट-शक्तिर् बहुधेव भाति

बीजानि योनिं प्रतिपद्य यद्वत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विशेषेण श्लिष्ट-शक्तिः । अनपगत-सामर्थ्यः । यथैकं कलम् आदि-बीजम् । भूमाव् उप्तं बह्व-अङ्कुरं भवति । एवं परमात्मानुगृहीतो ब्रह्माहंकारादिषु बहुधा व्यक्तीभवति ।

सुपर्ण-शेष-रुद्रादि प्रसूतिश् च चतुर्मुखः । > सर्व-जीवोत्तमो जीवो गुणैर् ज्ञान-सुखादिभिः ॥ > विष्णु-भक्त्यादिभिः सर्वैर् नियमात् सर्व-कालिकम् । > मुक्ताव् अपि न सन्देहः स हि देवेन विष्णुना ॥ > प्राण-प्राणेन जगताम् ईशेन रमया तथा । > वेदात्मिक्या च सहितः सूक्ष्म-सन्-मनसि स्थितः ॥ > वीन्द्रादीनां तु सर्वेषां मात्रा-वर्णः स्वरेषु च । > स्थूल-रूपी सदा तिष्ठन्न् एवं श्रोत्रादिखेषु च ॥ > सर्वेषां प्रेरको हे एको ज्ञानानन्दा बलैस् त्रिवृत् । > नित्य-शक्तिः सर्वगः सन् बहुधैव प्रतीयते ॥ > तस्मिन्न् ओतम् इदं सर्वं पटे लक्षण-तन्तुवत् । > स एव वायुर् उद्दिष्टो वायुर् हि ब्रह्मताम् अगात् ॥ > विशेषतो हरेर् व्यक्ति-स्थानान्य् एतानि सर्वशः । > मन-आदिन्य् अहङ्कारो ब्रह्मा वेदात्मिका रमा ॥ > त्रिगुणात्मिका च सैव श्रीः सैवोक्ता संविदात्मिका । > तस्या अपि नियन्तैको विष्णुः सर्वेश्वरेश्वरः ॥ > यथा दारुषु सूक्ष्मः सन् मथितोऽग्निः समिध्यते । > तथा वेदादिषु हरिर् मथितः वेदादीनि हरेर् विदुः ॥ इति > तन्त्र-भागवते । > मनसि व्यक्ततां यामि तस्मात् व्यक्तिर् हि मे मनः ॥ इति भारते > ॥२०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् ईश्वरादि-व्यक्ति-रूपः प्रपञ्चो नेश्वराद् भिन्नोऽस्तीत्य् आह—अयम् इति । अयं जीव ईश्वर आदाव् अव्यक्त एक एव । वयसा कालेन विश्लिष्टा विभक्ता वागादीन्द्रिय-रूपाः शक्तयो यस्य । यद् वा, विशेषेण श्लिष्टा आलिङ्गिता माय शक्तिर् येन सः । बहु-प्रकार इवाभाति । यतः स एवाद्यः । त्रि-वृत् त्रि-गुणाश्रयः । अब्ज-योनिर् लोक-पद्मस्य कारण-भूतः । एकस्य बहुधा भाने दृष्टान्तः, योनिं क्षेत्रं प्रतिपद्य प्राप्य बीजानि यद्वद् इति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव दर्शयति—अयं हीति सार्धकम् । बीजानीति बीजानां मध्ये यद् एकम् अपीत्य् अर्थः । अत एव यस्मिन्न् इति ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् ईश्वराभिव्यक्ति-रूपः प्रपञ्चो नेश्वराद् भिन्न इति वक्तुं प्रथमम् ईश्वरम् आह—अयं जीव ईश्वरस् त्रिवृत् त्रिगुण-मायाश्रयं, त्रिवृत्-रूपत्वेनैव अब्ज-योनिः अजस्य लोक-पद्मस्य कारण-भूतः । प्रथमं सृष्टेः पूर्वम् अव्यक्त एक एव, वयसा कालेन स एव आद्य ईश्वरः प्रपञ्चात्मको भवतीत्य् आह—विश्लिष्ट-शक्तिर् विश्लिष्टाः पृथक् पृथग् विभक्ता वागादीन्द्रिय-रूपाः शक्तयोः यस्य तथा-भूतः सन् बहुधा देव-मनुष्यादि-बहु-प्रकारको भाति । एकस्य बहुधा भाने दृष्टान्तः—योनिं क्षेत्रं प्रतिपद्य प्राप्य बीजानि यद्वत् । एकैकस्यापि बीजस्य बहुशः उद्गमा भवन्तीत्य् अर्थः ॥२०॥

———————————————————————————————————————

॥ ११.१२.२१ ॥

यस्मिन्न् इदं प्रोतम् अशेषम् ओतं

पटो यथा तन्तु-वितान-संस्थः ।

य एष संसार-तरुः पुराणः

कर्मात्मकः पुष्प-फले प्रसूते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् तन्-माया-विलसितत्वात् तद्-आश्रयम् इदं जगन् न ततः पृथग् इति स-दृष्टान्तम् आह—यस्मिन्न् इति । तन्तु-विताने संस्था स्थितिर् यस्य स पटो यथा तथा यस्मिन्न् इदं विश्वम् ओतं दीर्घ-तन्तुषु पट इव, प्रोतं तिर्यक् तन्तुष्व् इव । एवं-भूतं समष्टि-व्यष्ट्य्-आत्मकं विश्वम् अविद्ययात्मन्य् अध्यस्तं वृक्ष-रूपं जीवस्य कर्तृत्वादि-संसार-हेतुर् अतस् तद्-विवेक-ज्ञानेन कर्मादि सर्वं त्याज्यम् इत्य् उक्तम् इत्य् आशयेनाह—य एष इति सार्धैस् त्रिभिः । पुराणोऽनादिः । कर्मात्मकः प्रवृत्ति-स्वभावः । पुष्प-फले भोगापवर्गौ कर्म तत्-फले वा । प्रसूते जनयति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विशेष-बोधाय जगद् एव रूपकेण वर्णयति—य एष इति सार्धकेन ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-माया-विलसितत्वात् तद्-आश्रयम् इदं जगन् न ततः पृथग्, इति स-दृष्टान्तम् आह—यस्मिन्न् इति । तन्तु-विताने संस्था स्थितिर् यस्य स पटो यथा, तथा यस्मिन्न् इदं विश्वम् ओतं दीर्घ-तन्तुषु, प्रोतं तिर्यक् तन्तुषु, पट इव । एवं-भूतं समष्टि-व्यष्ट्य्-आत्मकं विश्वम् शरीरम् एव संसार-हेतुत्वात् संसारस् तं तरु-रूपकेण वर्णयति—य इति । पुराणोऽनादिः । कर्मात्मकः कर्म-प्रवाह-मयः । पुष्पं फलस्यादिमो भागः । शुभादृष्ट-दुरदृष्टे—फलं सुख-दुःखे ॥२१॥

———————————————————————————————————————

॥ ११.१२.२२ ॥

द्वे अस्य बीजे शत-मूलस् त्रि-नालः

पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः ।

दशैक-शाखो द्वि-सुपर्ण-नीडस्

त्रि-वल्कलो द्वि-फलोऽर्कं प्रविष्टः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

यथैव वस्त्रे दीर्घं च तिर्यक् चापि सुसंस्थिताः ।

तन्तुभिः क्रियमाणैव पद्माद्य्-आकार-संस्थितिः ॥ > यथा जीर्णानि वस्त्राणि तन्त्व्-आधाराणि वा पुनः । > कन्थावयव-भूतानि तद् एतच् चतुर्मुखे । > सोऽपि तद्वद् धरौ नित्यं संस्थितः श्रीर् अपि स्फुटम् ॥ इति > प्रातिस्विके । > जगद्-वृक्षस्य बीजे द्वे ब्रह्मा चैव सरस्वती । > मूल-भूतानि कर्माणि मनो-बुद्धिर् अहङ्कृतिः ॥ > नालत्वेन समुद्दिष्टाः स्वमाद्याः स्कन्ध-संज्ञिताः । > एकादशेन्द्रियाण्य् एव शाखास् तु तिर्गुणास् त्वचः ॥ > प्रवृत्तं च निवृत्तं च फले अस्य प्रकीर्तिते । > पुष्पम् ऐहिकम् उद्दिष्टं रसाः शब्दादयस् तयोः ॥ > प्रवृत्ताश् च निवृत्ताश् च पक्षिणस् तत्र संस्थिताः । > वृक्षस्य पृथिवीवच् छ्रीर् विष्णुर् आकाश-वायुवत् । > तस्या अपि सदाधार एवं ज्ञात्वा किम् उच्यते ॥ इति निवृत्ते । > बीज-भूतानि ह्य् अस्य ब्रह्मा चैव सरस्वती । > नरिष्यतो जगत्-सृष्टौ बट-वृक्षादि-बीजवत् ॥ > स्व-कार्यतो महान्तौ च गुणतो रूपतस् तथा । > पृथिव्य्-उदकवत् तस्मात् बीजत्वं न तु बीजवत् ॥ > व्यञ्जकत्वान् न चाल्पत्वान् महान् क्ष्मावद् रमा-स्मृताः । > अन्तो महान् क्ष्मा-सम्प्रोक्तस् ततः पृथ्व्य्-उदकस् तथा ॥ > जायते नित्यशस् तस्माद् भुक्तं भुक्तं न हीयते । > तत्राप्य् उदकवत् ब्रह्मा मृद्वच् चापि सर्वस्वती ॥ > जल-धारा यतो मृच् च सर्वत्रापि व्यवस्थिता । > अन्यथा तु रजो-भूता नीयते वायुनाखिला । > अथवा सर्व-नाशः स्याज् जल-धारा ततः स्मृताः ॥ > बटादि-बीजवत् तस्य पुण्यापुण्यम् उदीरितम् । > बाह्योदवच् चाग्निवच् च विष्णुर् एव प्रकीर्तितः ॥ इति > सत्य-संहितायाम् ।

श्रियादेर् अप्ययनत्वाद् बाह्योदवत् । ब्रह्मादेर् अपि लय-कर्तृत्वाद् अग्निवत् । आधारत्वात् सुखदत्वाच् च वायुवत् । अवकाश-प्रदत्वात् व्योमवद् विष्णुः ।

ब्रीह्य्-आदिवत् तु मूलत्वं कर्मणां जगतः स्मृतम् । > उदवत् पृथिवीवच् च ब्रह्मणो वाच एव वा ॥ > मूल-भूवच्-छ्रियश् चैव मूल-भूर् अण्डम् उच्यते । > बाह्योदाग्नीर् अखंवत् तु विष्णोर् बीजत्वम् इष्यते ॥ इति > विश्व-संहितायाम् । > देहेन्द्रिय-मनो-वाक्षु स्थितो भक्त्य्-आदि-साधकः । > सुपर्ण-शेष-रुद्रादेर् अपि ब्रह्मा चतुर्मुखः ॥ > अतो भक्त्य्-आदिकाः सर्वे गुणास् तस्यैव सर्वगाः । > अतिरिक्ताश् च सम्पूर्णाः सुपर्णादेः शताधिकाः ॥ > सुपर्णादिभिर् अज्ञातास् तद्-अभिमान-वर्जिताः । > ब्रह्मणस् तु पुनः सन्ति तेषां कर्ता जनार्दनः ॥ > तस्मात् सर्वाधिको ब्रह्मा गुणैः सर्वैर् न संशयः । > वर्णस्थो वर्ण-नामासौ स्वरस्थः स्वर-नामकः ॥ > मनस्थश् च मनो-नामा तन्-न्ंआ चक्षुर्-आदि-गः । > तस्मात् सर्वाणि नामानि मुख्यतः कवयो विदुः ॥ > तत्-स्थानत्वाद् इन्द्रियादेर् वर्णादेश् चोपचारतः । > एतस्योपचारेण विष्णोः साक्षात् तु मुख्यतः ॥ इति शब्द-निर्णये । > कृष्ण-प्रियाभ्यो गोपीभ्यो भक्तितो द्विगुणाधिकाः । > महिष्योऽष्टौ विना यास् ताः कथिताः कृष्ण-वल्लभाः ॥ > ताभ्यः सहस्र-मिता यशोदा-नन्द-गेहिनी । > ततोऽप्य् अभ्यधिका देवी देवकी भक्तिस् ततः ॥ > वसुदेवस् ततो जिष्णुस् ततो रामो महा-बलः । > न ततोऽभ्यदिकः कश्चित् भक्त्य्-आदौ पुरुषोत्तमे । > विना ब्रह्माणम् ईशेशं स हि सर्वाधिकः स्मृतः ॥ इत्य् > अन्तर्यामि-संहितायाम् । > पाप-द्वेषादिका दोषा अवराणां न संशयः । > भक्त्य्-आदि-गुण-पूगस् तु पराणाम् आविरिञ्चतः ॥ > स्वातन्त्र्यं सर्व-देहेषु स्थितानाम् अपि सर्वशः । > स्पृश्यन्ते नैव दोषैस् ते गुण-दानैक-तत्-पराः ॥ इति विवेके ।

यद् उ किं चेमाः प्रजाः शोच्यन्त्य् अमैवासां तद् भवति । पुण्यम् एवामुं गच्छति, न ह वै देवान् पापं गच्छति इति च ॥२१-२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वृक्ष-रूपकं प्रपञ्चयति, द्वे इति । द्वे पुण्य-पापे अस्य बीजे । स च शत-मूलः शतम् अपरिमिता वासना मूलानि यस्य । त्रयो गुणा नालानि प्रकाण्डा यस्य । पञ्च-भूतानि स्कन्धा यस्य । पञ्च-रसाः शब्दादि-विषयास् तेषां प्रसूतिर् यस्मात् । दश च एका च शाखा इन्द्रियाणि यस्य । द्वयोः सुपर्णयोर् जीव-परमात्मनोर् नीडं यस्मिन् । त्रीणि वल्कलानि त्वचो वात-पित्त-श्लेष्माणो यस्य । द्वे सुख-दुःखे फले यस्य सः । अर्कं प्रविष्टः सूर्य-मण्डल-पर्यन्तं व्याप्तः, तन् निर्मिद्य गतस्य संसाराभावात् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपकं विवृणोति—द्वे इति । द्वे पुण्य-पापे अस्य बीजे, शतं अपरिमिता वासना मूलानि यस्य । त्रयो गुणा नालानि प्रकाण्डा यस्य । पञ्च भूतानि स्कन्धा यस्य । पञ्च रसाः शब्दादि-विषयस् तेषां प्रसूतिर् यस्मात् । दश एका च शाखा इन्द्रियाणि यस्य । द्वयोः सुपर्णयोर् जीव-परमात्मनोर् नीडं वासो यस्मिन् । त्रीणि वल्कलानि त्वचो वात-पित्त-श्लेष्माणो यस्य । द्वे सुख-दुःखे फले यस्य सः । अर्कं प्रविष्टः सूर्य-मण्डल-पर्यन्तं व्याप्तः । तं निर्भिद्य गतस्य संसाराभावात् ॥२२॥

———————————————————————————————————————

॥ ११.१२.२३ ॥

अदन्ति चैकं फलम् अस्य गृध्रा

ग्रामे-चरा एकम् अरण्य-वासाः ।

हंसा य एकं बहु-रूपम् इज्यैर्

माया-मयं वेद स वेद वेदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-फल-भोक्तॄन् आह—गृध्यन्तीति गृध्राः कामिनः । ग्रामे-चरा गृह-स्थाः । अस्य वृक्षस्यैकं फलं दुःखम् अदन्ति । परिणामतः स्वर्गादेर् अपि दुःख-रूपत्वात् । हंसा विवेकिनोऽरण्य-वासाः सन्न्यासिन एकं फलं सुखम् अदन्ति । एकं परमात्मणं माया-मयम् एव बहु-रूपम् इज्यैर् गुरुभिः कृत्वा यो वेद स वेदं वेद तत्त्वार्थं वेद ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं वेद जगच् च निरूप्य तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१९] इति पर्यवसानं पूर्वोक्तम् एव समासेन दर्शयति द्वाभ्याम् । तत्र वेदोक्त-साधन-साध्येष्व् अधिकारि-भेदम् आह—अदन्तीत्य् एकेन । तत्रारण्य-वासाः सन्न्यासिनो हंसा सारासार-विवेकिनः खलु एकं फलं विद्या-मयं सुखम् अदन्ति, तत्-फलेन ब्रह्म-लोक-गतास् तत्रैव ब्रह्मणा सह मोक्षं प्राप्नुवन्ति, ज्ञान-वस्तुनः सर्वथा दुःख-पाताभावात् । एकम् एव स्वरूप-शक्ति-वैचित्र्या बहु-रूपं, चतुर्व्यूहादि-लक्षणं, क्वचिन् माया-मयं, माया-शक्त्या जगद्-रूपं च, यो वेद माम् इति शेषः, स वेदं वेद-तत्त्वार्थं वेदेति ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-फल-भोक्तॄन् आह—गृध्र्यन्तीति गृध्र्याः कामिनः । ग्रामे-चरा गृह-स्थाः। अस्य वृक्षस्यैकं फलम् अविद्या-मयं दुःखम् अदन्ति । अविद्या-मयस्य नरक- स्वर्गादेर् अपि दुःख-रूपत्वात् । अरण्य-वासाः सन्न्यासिनो हंसा विवेकिन एकं फलं विद्यामयं सुखम् अदन्ति । ज्ञान-वस्तुनः सर्वथा सुख-रूपत्वात् । एवं बहु-रूपं माया-शक्त्या समुद्भूतत्वात् माया-मयं इज्यैः पूजैर् गुरुभिः कृत्वा यो वेद स वेदं वेद तत्त्वार्थं वेद ॥२३॥

———————————————————————————————————————

॥ ११.१२.२४ ॥

एवं गुरूपासनयैक-भक्त्या

विद्या-कुठारेण शितेन धीरः ।

विवृश्च्य जीवाशयम् अप्रमत्तः

सम्पद्य चात्मानम् अथ त्यजास्त्रम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

प्राकृतान्तःकरणं ज्ञानम् अस्त्रं सृति-च्छिदं ।

तद् एव तेन सञ्छेद्यं चित्तं प्रकृति-सम्भवम् ॥ > तेनैव सह सन्त्यज्य नैव पूर्वं कदाचन । > ज्ञानं प्रकृतिजं वापि मूल-नाशे विनश्यति । > ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् । > वेत्ति मुक्तस् तथात्मानं जीवान् अन्यांश् च सर्वशः ॥ इति माहात्म्ये > ॥२४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं चैव ज्ञात्वा कृत-कृत्यः सर्वं साधनं त्यजेत्य् आह—एवम् इति । एकान्त-भक्त्या शितेन तीक्ष्णेन ज्ञान-कुठारेण । स्वतन्त्रता वा द्वयोर् ज्ञान-भक्त्योः जीवोपाधिं त्रि-गुणात्मकं लिङ्ग-शरीरं विवृश्च्य छित्त्वा परमात्मानं च संपद्य प्राप्याथास्त्रं साधनं त्यजेति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एतद् विद्या-फलम् आह—एवम् इति । एवम् उक्त-प्रकारेण सद्-गुरूपासनया प्रधान-भक्त्या निशितेन विद्या-कुठारेण प्राकृतान्तः करण-जन्य-ज्ञान-परशुना जीवाशयं बाह्यान्तः-करणं विवृश्च्य छित्त्वा निर्मलीकृत्य प्राकृतान्तः-करण-जन्य-ज्ञानम् अस्त्रं संसार-निरासकरं त्यज । अथ तज्-ज्ञान-त्यागानन्तरं निज-ज्ञानेनात्मानं परमात्मानं सम्पद्य मुक्तो यथा-योग्य-सुखम् अनुभवसि चेति भावः । वक्ष्यते च—

सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण- > ज्ञानासिना भजत माखिल-संशयाधिम्[भा।पु। ११.१३.३३] इति ।

11प्राकृतान्तःकरणं ज्ञानम् अस्त्रं सृति-च्छिदं ।

तद् एव तेन सञ्छेद्यं चित्तं प्रकृति-सम्भवम् ॥ > तेनैव सह सन्त्यज्य नैव पूर्वं कदाचन । > ज्ञानं प्रकृतिजं वापि मूल-नाशे विनश्यति । > ततः परं स्वरूपेण ज्ञानेनैव जनार्दनम् । > वेत्ति मुक्तस् तथात्मानं जीवान् अन्यांश् च सर्वशः ॥

इति वाक्यान् न ज्ञान-मात्रोच्छेदो विवक्षितः, किन्तु प्राकृतस्येति ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं चैव ज्ञात्वा कृत-कृत्यः सन् सर्व-साधनं सन्त्यज्येत्य् आह—एकया गुण-भूतयापि मुख्यया भक्त्या शितेन तीक्ष्नीकृतेन ज्ञान-कुठारेण जीवोपाधिं त्रि-गुणात्मकं लिङ्ग-शरीरं विवृश्च्य छित्त्वा परमात्मानं च सम्पद्य प्राप्य, अथास्त्रं ज्ञान-रूपं साधनं त्यजेति सर्व-वाक्यानां मया त्वम् एव लक्ष्यी-क्रियसे, यथा गीता-शास्त्रे पूर्वम् अर्जुन । इत्य् अतः स्वस्यानिष्टं नाशङ्कनीयम् इति भावः ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे द्वादशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > श्री-भगवद्-उद्धव-संवादे > द्वादशोऽध्यायः ।

॥११.१२॥

———————————————————————————————————————


  1. मत्* ↩︎

  2. नासीत् ↩︎

  3. थे एन्तिरे प्रेचेदिन्ग् सेच्तिओन् इस् नोत् फ़ोउन्द् इन् अल्ल् एदितिओन्स् ओफ़् क्रम-सन्दर्भ। नोर् इस् इत् इन् अल्ल् एदितिओन्स् ओफ़् थे कृष्ण-सन्दर्भ, १७५। ↩︎

  4. रात्रीणाम् एक-क्षणवन् नयनेन ↩︎

  5. उज्ज्वल-नीलमणौ १४.१६८ द्रष्टव्यः । ↩︎

  6. चात्म-सत्तया ↩︎

  7. प्रियमात्यन्तिकं वापि ↩︎

  8. वर्णनेन ↩︎

  9. श्रुतेर् अर्थः—वाक्-परिमितानि वाचः परिमितानि शास्त्र-निर्णीतानि चत्वारि पदानि स्थानानि—परा, पश्यन्ती, मध्यमा, वैखरीति । तानि च, ये ब्राह्मणा मनीषिणोऽध्यात्म-कुशलाः, ते विदुः । तेषां मध्ये आदौ त्रीणि पदानि गुहायां शरीरे आधानाभिहृदयेषु निहितानि नेङ्गयन्ति न जानन्ति । तुरीयं चतुर्थं वैखर्य्-आख्यं मनुष्या वदन्ति । मनुष्याणां वदने वर्तमानोऽर्थ-बोधकः शब्दो भवतीत्य् अर्थः । ↩︎

  10. श्लोकार्थश् च—तां त्रि-विधां भारतीं प्रपद्ये । या सा भारती मित्रा-वरुण-सदनाद् अग्नि-सोम-स्थानाद् उच्चरन्ती उद्भवन्ती । मित्रोऽग्निर् वरुणः सोमस् तयोः सदनम् आवासमास्थानं परमात्मा यतः श्वासस्य शीतोष्णत्वं तस्माद् उच्चरन्ती त्रि-षष्टिं वर्णान् जनयति । अडल-वर्ण ह्रस्व, दीर्घ, प्लुत-भेदेन त्रि-विधा नव । ऋकारः प्लुत-हीनो द्वि-विधः, लृ-कारोऽपि द्वि-विधो दीर्घ-हीनः । सन्ध्य्-अक्षराणि ह्रस्व-हीनान्य् अष्ट । एवम् एक-विंशति-स्वराः । स्पर्शाः पञ्च-विंशतिः कादयो मान्ताः । यादयोऽष्टाव् अन्त-स्था ऊष्माणश् च । अनुनासिकाः पञ्च । अनुस्वार-विसर्गौ जिह्वा-मूलीयोपध्मानीयौ चेति त्रि-षष्टिः । एतान् वर्णान् वायु-सङ्ग-जान् । प्रकट-करणैर् बुद्धिं गतैः प्रत्यक्ष-रूपैर् इन्द्रियैर् अन्तः पश्यति न तूच्चारयति सा पश्यन्त्य् अख्या तं प्रथमम् उदिताम् उत्पन्नाम् । बुद्धि-संस्थाम् उच्चारयामीति विचार-युक्तां मध्यमाम् । मुखेऽवस्थितां करण-विशदां स्थान-प्रयत्न-निर्मलां वैखरीं च प्रपद्ये । ↩︎

  11. थे वेर्सेस् थत् फ़ोल्लोw, क़ुओतेद् फ़्रोम् मध्वऽस् चोम्मेन्तर्य्, अरे नोत् फ़ोउन्द् इन् थे पुरिदस् एदितिओन्, बुत् इन् थे तेxत् एन्तेरेद् ब्य् दुर्मद दस्। इ हवे नो इन्फ़ोर्मतिओन् अबोउत् हिस् सोउर्चेस्। थिस् wओउल्द् बे थे फ़िर्स्त् तिमे थत् इ हवे सेएन् जिव ओर् अन्य् ओथेर् गौदिय चोम्मेन्ततोर् दिरेच्त्ल्य् चिते मध्व, एवेन् थोउघ् हेरे नेइथेर् हे नोर् हिस् सोउर्चे (माहात्म्य) हवे बेएन् नमेद्। ↩︎