११ बद्ध-मुक्त-लक्षणम्

॥ ११.११.१ ॥

श्री-भगवान् उवाच—

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः ।

गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मे गुणतः । मद्-वशत्वादेः ।

अमायत्वान् निर्गुणोऽहं बन्ध-मोक्षौ न चापि मे ।

मद्-अधीनस्य जीवस्य बन्ध-मोक्षौ सदैव तु ॥ इति स्वाभाव्ये ॥१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) :

एकादशे तु बद्धानां मुक्तानां चाथ लक्षणम् ।

साधूनां च तथा भक्तेर् लक्षणं हरिणेरितम् ॥

नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः [भा।पु। ११.१०.३७]इति यद् उक्तं, तत् किं वस्तुतो विरोधः, प्रतीतितो वा ? नाद्यः, बन्ध-मोक्षयोर् वास्तवत्वाभावाद् इत्य् आह—बद्धो मुक्त इति द्वाभ्याम् । आत्मा बद्धो मुक्तश्मे गुणतो मद्-अधीन-सत्त्वादि-गुणोपाधितः, तु वस्तुतः

नन्व् औपाधिकत्वेऽपि तण्डुल-पाकादिवद् वास्तवत्वं किं न स्यात् ? तत्राह—गुणस्य माया-मूलत्वाद् बन्धनं नास्ति । अत एव मोक्षश् च नास्ति ।

ननु कथं सर्व-शास्त्र-विरुद्धम् उच्यते ? तत्राह—इति मे व्यख्येति । एवं मत्-कृतो निर्णयः, अलम् अतिकुतर्कैर् इत्य् अर्थः ।

अथवैवम् अन्वयः, आत्मा बद्धो मुक्त इति या व्याख्या उक्तिः, सा मे गुणतो मद्-गुण-पारतन्त्र्यात् । अत्र हेतुत्वेन गुण-नियन्तरि स्वस्मिंस् तद्-व्यतिरेकम् आह—अत एव न मे बन्धनं मोक्षो वेति । अन्यत् समानम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणस्य माया-मूलत्वाद् इति मायया तत्-सम्बन्धस्य मिथ्यैव स्फोरणाद् इत्य् अर्थः । अन्यत् तैः । तत्र द्वितीय-व्याख्याने मे मतम् इति शेषः ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

एकादशे बद्ध-मुक्त-वैलक्षण्यस्य शिक्षणम् ।

साधूनां लक्षणं भक्तेर् अङ्गान्य् अप्य् उक्तवान् हरिः ॥ओ ॥

कथं बन्धः कथं मोक्षः ? इति तव प्रश्नोऽपि वस्तुतो न घटते इत्य् आह—बद्ध इति । मे गुणतः मद्-अधीन-सत्त्वादि-गुणैर् बद्ध इति ततो मुक्तैति व्याख्या वस्तुतो न सम्भवति । कुतः ? गुणस्य गुण-सम्बन्धस्य माया-मूलत्वान् मायया अविद्यया तर्क-शक्त्या दुर्घटस्य देहेन्द्रियादि-गुण-सम्बन्धस्य मिथ्यैव स्फोरणाद् इत्य् अर्थः । अत एव मे मम मते इति शेषः । न बन्धनं, बन्धनाभावाद् एव न मोक्षश् च ॥१॥

———————————————————————————————————————

॥ ११.११.२ ॥

शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया ।

स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वप्नोऽयम् इत्य् अविज्ञानात् स्वप्ने दुःखम् उपाश्नुते ।

निज-स्वरूपानुभव-राहित्यात् तद्वद् एव तु ॥

जाग्रद्-दुःखम् अपि प्रोक्तं विष्णु-तत्त्वं न पश्यतः ।

तस्मात् त्व् अस्वभावत्वात् सद् अप्य् एतद् अवास्तवम् ॥ इति लोक-संहितायाम्**॥२॥**


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं कारण-भूत-गुणानां माया-मयत्वात् तत्-कार्य-संसृतिर् मायेति प्रपञ्चयति—शोक-मोहाव् इति । यथा स्वप्न आत्मनो बुद्धेर् एव ख्यातिर् विवर्तः, तद्वत् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र बन्धस्य मिथ्यात्व-प्रकारं दर्शयति—लोक-मोहाव् इति । देहापत्तिर् देहाद् देहान्तर-प्राप्तिः । देहस्यापत्तिर् आपन् मृत्युर् वा । मायया मायिकोपाधि-सम्बन्धेन अविद्यया । मायिकोपाधिर् अन्तःकरणे सूक्ष्म-देहे जीवस्य अभिमानाद् एव तदीय-धर्माणां शोक-मोहादीनाम् अपि स्वीयत्वेन ग्रहणम् इत्य् अर्थः । अतः शोक-मोहादिमत्त्व-लक्षणा संसृतिर् न वास्तवी न वस्तु-भूता । शोक-मोहादीनां माया-सृष्टत्वेन सत्यत्वेऽपि तत्-सम्बन्धस्य जीवे अविद्या-कल्पितत्वान् मिथ्यात्वम् इत्य् अर्थः । यथा आत्मनो बुद्धेः ख्यातिर् विवर्तः स्वप्नो मिथ्या, तथा ॥२॥

———————————————————————————————————————

॥ ११.११.३ ॥

विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् ।

मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

विद्याविद्ये मम तनू प्रतिमावत् सदोदिते ।

सदा तद्-व्यतिरिक्तस्य नित्य-ज्ञान-सुखात्मनः ॥

मद्-इच्छा-वशगे नित्यम् अविद्या-निर्मिता गुणाः ।

सत्त्वाद्या मद्-अधीनत्वाद् अविद्याया न मे गुणाः ॥

अविद्या चैव विद्या च गुणाः सत्त्वादिका अपि ।

देहोत्पत्तिः सुखं दुःखं सर्वम् एतन् मद्-इच्छया ॥

अतोऽहं बन्ध-मोक्षाभ्यां रहितो नित्यम् एव तु ।

मुक्त-शब्दोदितो बन्ध-राहित्यान् न विमोकतः ॥ इति काल-संहितायाम् ।

श्रीस् तु विद्या समुद्दिष्टा दुर्गाविद्या प्रकीर्तिता ।

ते त्व् अनादि हरेर् इच्छा नियते सर्वदैव तु ॥ इति माया-वैभवे ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो वस्तु-विरोधस् तावन् नास्ति, प्रतीतिस् त्व् औपाधिकी घटत इत्य् आह—तन्येते बन्ध-मोक्षाव् आवाभ्याम् इति तनू शक्ती मे मायया विनिर्मिते । माया-वृत्ति-रूपत्वाद् बन्ध-मोक्ष-करी इत्य् एक-वचनं द्वि-वचनार्थे ।

ननु तत्-कार्यत्वे बन्ध-मोक्षयोर् अनादित्व-नित्यत्वे न स्याताम् ? तत्राह—आद्ये अनादी । ततो यावद् अविद्यां प्रेरयामि, तावद् बन्धः । यदा विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः ।तथा च, स्कन्द-पुराणे—

बन्धको भव-पाशेन भव-पाशश् च मोचकः ।

कैवल्य-दः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ॥३॥


जीव-गोस्वामी (परमात्म-सन्दर्भ ५४) : अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व् अपरानन्त-वृत्तिकया तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः । तथा स्फुरतीत्य् अस्य मोक्ष इत्य् अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम् एव । बन्धस् त्व् अविद्या-मात्रेण प्रतीतः । विद्योदये तु तत् प्रकाशते मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यम् एषा मायेत्य् आदौ सामान्य-लक्षणो मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् असम्यक्त्वम् इति । अन्तकारित्वेनात्यन्त-प्रलय-रूपस्य मोक्षस्याप्य् उपलक्षितत्वात् । अत्र व्दियाख्या वृत्तिर् इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव न तु स्वयम् एव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती । आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं स्वाभाविकं ज्ञानम् आवृण्वाना । उत्तरा च तं तद्-अन्यथा-ज्ञानेन सञ्चयन्ती वर्तत इति ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कथम् ? तत्राह—विद्येति । अतो वस्तुतो नित्य-मुक्तोऽपि प्रतीतितो नादि-बद्ध इति युगपद् उभयत्वं घटत इत्य् अर्थः । अत्र मे मम मायया शक्त्या कर्त्र्या तनू स्व-दृष्टान्त-रूपत्वात् स्वांश-रूपे, अत एवानादी । ये निर्मिते प्रसारिते, त एव मम शरीरिणां मदीयानां मोक्ष-बन्ध-कर्यौ भवतः इति स्थिते, सा धर्मराजवद् भक्ता भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इति न्यायेन यस्य यावन् मद्-वैमुख्यं, तस्य तावद् अविद्यां प्रसार्य स्वरूपावरण-पूर्वकं गुणावेशं कुर्वती बन्धं करोति । मत्-साम्मुख्ये तु गुणावेश-त्याजन-पूर्वकं स्वरूप-स्फुरणं कुर्वती मोक्षं करोतीति ज्ञेयम् । अतस् तस्या एव तयोः कर्तृत्वेऽपि मद्-धेतुकत्वाद् बन्धकोभव-पाशेन इत्य्-आद्य् उच्यत इति भावः । बन्ध-मोक्ष-करी इति “सुपां सुलुक् पूर्व-सवर्ण” इत्य्-आदिना पूर्व-सवर्णश् छान्दसः ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु केयम् अविद्या यया मिथ्या-भूतेऽपि गुण-सम्बन्धः स्फोरितस् तत्राह—विद्याविद्ये मम तनू तन्येते बन्ध-मोक्षाव् आभ्याम् इति तनू शक्ती । शरीरिणां बन्ध-मोक्ष-करी बन्ध-मोक्ष-कर्षौ विद्या मोक्ष-करी, अविद्या बन्ध-करीत्य् अर्थः । इमे च मे मम मायया महा-शक्त्या विनिर्मिते सृष्टे । किं च, माया-वृत्तित्वाद् एव तयोर् माया-सृष्टत्वम् औपचारिकम् एवोच्यते इत्य् आह आद्ये अनादी । अनाद्य्-अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् [भा।पु। १२.४.१९] इति द्वादशोक्तेः । पुंसोऽस्ति प्रकृतिर् नित्या इति वैद्यकौक्तेश् च माया-शक्तिर् इव तद्-वृत्ती विद्याविद्ये अपि नित्ये एव । तद् एवं मायायास् तिस्रो वृत्तयः प्रधानम् अविद्या विद्या च । प्रधानेनोपाधिः सत्य एव सृज्यते । अविद्यया तद्-अध्यासो मिथ्या-भूतः । विद्यया तद्-उपराम इति तिसृणां कार्यम् ॥३ ॥

———————————————————————————————————————

॥ ११.११.४ ॥

एकस्यैव ममांशस्य जीवस्यैव महा-मते ।

बन्धोऽस्याविद्ययानादिर् विद्यया च तथेतरः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भिन्नांशस्यैव जीवस्य बन्ध-मोक्षौ न मे क्वचित् ।

अभिन्नांशास् तु मत्साद्यास् तेजसः काल-वह्निवत् ॥

जीवाभिन्नांशकास् तत्र तेजसः प्रतिबिम्बवत् ॥ इति वैलक्षण्ये ।

मुक्तस्य तु न मे मोक्षो बन्धाभावात् कथञ्चन ।

मुक्त इत्य् अपि नामैतद् दीप्यतेऽसौ दिवाकरः ॥

इति बन्ध-राहित्यान् न तु वृक्षादि-दीप्तिवत् ।

कादाचित्कतया वाच्यं बन्धाभावाद् अमोक्षतः ।

जीवस्य बन्ध-मोक्षस् तु मत्-प्रसादात् कदाचन ॥ इति तत्त्वोदये ॥४ ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र शरीरिणाम् इति बहु-वचन-निर्देशाद् विषय-भेदेनाविरोध उक्त इति भ्रान्तिं व्यावर्तयन् बन्ध-मोक्ष-व्यवस्थाम् उपपादयति—एकस्यैवेति ।

तर्हि किम् आत्माभेदात् तवापि बन्धः ? नहीत्य् आह—अस्य जीवस्यैवेति । नन्व् आत्माभेदे जीवो नाम कोऽन्योऽस्ति पृथक् ? कथं च बन्ध-मोक्ष-सुख-दुःखादि-व्यवस्था ? तत्राह—ममांशस्येति ।

अयं भावः—यथैकस्यापि चन्द्रादेर् जलाद्य्-उपाधिना बिम्ब-प्रतिबिम्ब-रूपो भेदः, यथा च तत्र जल-कृताः कम्पादयः प्रतिबिम्बस्यैव, यथा च प्रतिम्बिमानाम् अप्य् उपाधि-भेदेन भेदाद् एकस्मिन्न् उदकुम्भे भग्ने तद्-गत-प्रतिबिम्बस्यैव बिम्बैक्यं नान्य-गतस्य तथाविद्यायां प्रतिम्बिम्बस्य मद्-अंशस्य जीवस्यैव तत्-कृतो बन्धस् तस्य चोपाधितो भेदान् नाव्यवस्थेति । तथा चाहुः—

यथैकस्मिन् घटाकाशे रजो-भूमादिभिर् युते ।

न सर्वे सम्प्रयुज्यन्ते तथा जीवा सुखादिभिः ॥ इति ।

एतच् चातिरहस्यं स्व-बुद्ध्या निश्चेतव्यम् इति सम्बोधयति—हे महामते ! इतरो मोक्षः॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं शरीरिणाम् प्रातीतिके बन्धे सति प्रत्येकम् एवं व्यवस्थेत्य् आह—एकस्यैवेति । ममांशस्य रश्मि-परमाणु-स्थानीयस्य । अत एव तस्य जीवस्यैव, न तु मण्डल-स्थानीयस्य मम । अत एव चैकस्यैव, न तु सर्वस्येत्य् अर्थः । इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी कश्चित् समष्टिर् इति ज्ञेयम् ॥४॥ [परमात्म-सन्दर्भ ३८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ताभ्याम् एव मदीय-शक्तिभ्याम् अविद्या-विद्याभ्यां मदीय-जीव-शक्तेर् देहाध्यास-प्रसारणाप्रसारणाभ्याम् अवस्तु-भूताव् अपि बन्ध-मोक्षौ प्रत्यायितौ मदीय-सृष्ट्य्-आदि-लीला-शक्ति-प्रेरण-वशाद् एवेत्य् आह—एकस्यैवेति । अंशस्य विभिन्नांश-शब्द-वाच्यस्य प्रकृतिं विद्धि मे पराम् जीव-भूतां महा-बाहो ययेदं धार्यते जगत् [गीता ७.५] इति मद्-उक्तेर् जीवस्य मच्-छक्तित्वेऽपि ममैवांशो जीव-लोके जीव-भूतः सनातन-गोस्वामी : गीता १५.७] इति मद्-उक्तेर् एवांशत्वं चेत्य् अर्थः

नन्शरीरिणाम् इति पूर्वोक्तेः, नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् इति श्रुतेश् च, जीवानां बहुत्वेऽपि कथम् एकस्येत्य् उक्तम् ? उच्यते—एकस्या अपि तटस्थाख्य-जीव-शक्तेर् वृत्ति-बाहुल्याद् एव बहवो जीवा इत्य् उच्यन्ते । यथा एकस्या अपि बहिर्-अङ्गाख्याया माया-शक्तेः प्रथमं अविद्या विद्या चेति द्वे वृत्ती, तयोश् चापि प्रति जीवं वृत्ति-बाहुल्याद् बहुत्वम् एव । यथा च माया-वृत्तीनां माया-शब्द-वाच्यत्वं, तथैव जीव-वृत्तीनाम् अपि नित्यत्वम् एव ज्ञेयम् । नित्यो नित्यानाम् इति, बन्ध-मोक्ष-करी आद्ये इत्य्-आदि-वचनेभ्यः अविद्या-ध्वंसे सति जीवस्य निर्वाण इत्य्-आदि-वाक्येषु ध्वंस-निर्वाण-शब्दाभ्याम् उपराम-ब्रह्म-सायुज्ये उच्यते । ब्रह्मणा सह युज्यत इति स-युक् तस्य भावः सायुज्यम् इति जीवस्य न तत्र स्वरूप-ध्वंसः । किं च—

विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा ।

अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६१]

यया क्षेत्र-शक्तिः सा तारतम्येन वर्तते ॥

इति विष्णु-पुराणोक्तेर् जीव-शक्तिर् माया-शक्तेः प्रायो वशीभूता सृष्टि-लीला-सिद्ध्य्-अर्थम् इत्य् आह—बद्ध इति । अस्य जीवस्य अविद्यया बन्धः, स च कर्मणोऽनादिः मोक्ष-सम्भवात् शान्तः । इतरो मोक्षः । स च जन्यत्वात् सादिर् अनश्वरत्वान् निरस्तो ज्ञेयः ॥४ ॥

———————————————————————————————————————

॥ ११.११.५ ॥

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।

विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : मुक्तस्य विष्णोः ॥ नित्य-शुद्ध-बुद्ध-मुक्त-सत्य-सुखाद्वय-प्रत्यग्-एक-पूर्ण इत्य् अतः पदान्वयादित्य्-आदि-वचनात् । बद्धो जीवः ।

बद्धा जीवा इमे सर्वे पूर्व-बन्ध-समन्वयात् ।

नित्य-मुक्तत्वतो विष्णुर् मुक्त-नामा सदोदितः ।

अबद्धत्वाद् अमोक्षोऽपि दीप्यतेऽसौ रविर् यथा ॥ इति ब्रह्म-संहितायाम् ॥५ ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं व्यवस्थाम् उपपाद्य कथं वर्तेतेत्य्-आदि-वैलक्षण्य-प्रश्नस्योत्तरम् आह—अथेति । तच् च वैलक्षण्यं द्वि-विधम् । जीवेश्वरयोर् एकं जीवानां चैकम् । तत्र् जीवेश्वरयोर् वैलक्षण्य-गाह—विरुद्ध-धर्मिणोर् इति सार्ध-द्वयेन । शोकानन्द-धर्म-वतोर् एकस्मिन् धर्मिणि शरीरे नियम्य-नियन्तृत्वेन स्थितयोः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं—कैर् वा ज्ञायेत लक्षणैः? इति तत्रसर्व-सुज्ञेयानि मुक्त-लक्षणान्य् आह—यस्येति त्रिभिः । हिंस्रैर् दुर्जनिर् यस्यात्मा देहो हिंस्यते, उपानत्-प्रहारादिभिः पीड्यते । यदृच्छया हेतुना विनैव येन केनापि स्रक्-चन्दनादिना किञ्चिद् अर्च्यते वा, तत्र न व्यतिक्रियते नातिविक्रियते दुर्जनान् प्रति न क्रुध्यति, सुजनान् प्रति न तुष्यति चेत्य् अर्थः । यद् उक्तं याज्ञवल्क्येन—

यः कण्टकैर् वितुदति चन्दनैश् च विलिम्पति ।

अक्रुद्धोऽपरितुष्टश् च समस्तस्य च तस्य च ॥

अथेति । अयं जीवो बद्धः, अयं जीवो मुक्त इति यथोच्यते, तथा जीवात्मा बद्धः परमात्मा मुक्त इत्य् अप्य् अयम् आत्मा अपहत-पाप्मेतिवद् उच्यत एवेत्य् अतः प्रथमं जीवात्म-परमात्मनोर् वैलक्षण्यम् आकर्णयेत्य् आह—सार्ध-द्वयेन । विरुद्ध-धर्मिणोः शोकानन्द-धर्मवतोर् एकस्मिन् धर्मिणि शरीरे नियम्य-नियन्तृत्वेन स्थितयोः ॥१५॥

———————————————————————————————————————

॥ ११.११.६ ॥

सुपर्णाव् एतौ सदृशौ सखायौ

यदृच्छयैतौ कृत-नीडौ च वृक्षे ।

एकस् तयोः खादति पिप्पलान्नम्

अन्यो निरन्नोऽपि बलेन भूयान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अनत्तृत्वं हरेर् दुःखान् अत्तृत्वाद् उच्यते सदा ।

विषयान् विनापि पूर्णत्वात् स्वरूपानन्द-भोगिनः ॥

सुख अत्त्य् एव हि सदा सर्वत्रापि स्थितं विभुः ।

स्वादोरोदनबद्ध्यात्ति जीवोऽस्वाद्व् अपि यत् सदा ।

अनारतं पारवश्यात् स्वाद्वतीति ततः श्रुतिः ॥ इति भोग-निर्णयः ।

अस्वादु स्वादुवद् ध्य् अत्ति जीवो नैवं जनार्दनः ।

अतो नातीति वचनम् अश्नतोऽपि सुखं सदा ॥ इति पर-भोगे ।

साशनानशनत्वेन नर-देवौ यथोदितौ ।

अत्तिं विनाप्य् अदौर्बल्य तथानत्तिर् हरेर् भुजः ॥ इति स्वाभाव्ये ।

तदैव प्रोक्तं निरन्नोऽपि बलेन भूयान् इति । स्वयं त्व् अत्त्य् एव तथापि नादन-निबन्धनं तस्य बलम् इत्य् अर्थः ॥

यत्रासुपर्णा अमृतस्य भागम्

अनिमेषं विदथाभिस्वरन्ति ।

इनौ विश्वस्य भुवनस्य गोपाः

समाधीरः पाकम् अत्राविवेश ॥

यस्मिन् वृक्षे मध्व-दः सुपर्णानि विशन्ते सुवते चाधिविश्वे । तस्येदाहुः पिप्पलं स्वाद्व्-अग्रे तन् नोन्न शद्यः पितरं न वेदेत्य् आदि-वाक्य-शेषात् । वृक्षे स्थित्वा मध्वदः सुपर्णायम् अस्मिन्न् अशन्न्ति । सुपर्णे निविशन्ते तस्यैव सुपर्णस्य स्वादु पिप्पलं अन्यस् तु स्वादुवद् अश्नाति न स्वादु यावत् पितरं परमात्मानं न वेदेत्य् अर्थः ।

सुपर्णौ द्वौ शरीरस्थौ जीवश् च परमस् तथा ।

पारवश्याद् अनज् जीवस् तत्रात्तीति श्रुतौ श्रुतः ॥

स एव हि शुभस्यात्ता जीवोऽत्तास्येव वेदनात् ॥ इति कर्म-संहितायाम् ।

सर्वं वा अत्तीति तददिते त्वं यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । अत्ता चराचर-ग्रहणात् ॥ अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च इत्य् आदेश् च ॥६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सुपर्णौ वृक्षात् पक्षिणाव् इव देहात् पृथग् भूतौ । सदृशौ चिद्-रूपत्वात् । सखायौ अवियोगाद् ऐकमत्याच् च । यदृच्छया निरुक्तया मायया । वृच्छ्यत इति वृक्षो देहः, ऊर्ध्व-मूलम् अवाक्-शाखं वृक्षं यो वेद संप्रति [क।उ। २.३.१] इति श्रुतेः,

ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् ।

छन्दांसि यस्य पर्णानि यस् तं वेद स वेद-वित् ॥ [गीता १५.१] इति स्मृतेश् च ।

तस्मिन् कृतं नीडं निकेतनं हृदय-रूपं याभ्यां तौ । तयोर् मध्ये एको जीवः पिप्पलान्नं पिप्पलोऽश्वत्थो देहस् तस्मिन्न् अदनीयं कर्म फलम् इत्य् अर्थः । खादति भक्षयति । अन्य ईश्वरो निरन्नोऽभोक्तापि निजानन्द-तृप्तो बलेन ज्ञानादि-शक्त्या भूयान् अधिकः । श्रुतिश् च—

द्वा सुपार्णा सयुजा सखाया

समानं वृक्षं परिषस्वजाते ।

तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्

अनश्नन्न् अन्यो अभिचाकशीति ॥ इति [मु। ३.१.१, श्वे।उ।४.६] ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृश-भेदं वैलक्षण्येनैव दर्शयति—सुपर्णाव् इति द्वाभ्याम् । अत्र सदृशाव् इति तदैवम् एवाभेद-निर्देशः क्वचिद् इति भावः । श्रुतौ सयुजेति समानं रूपं चिद्-रूपत्वं युङ्क्ते भजत इति समानोऽर्थः ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुपर्णौ वृक्षात् पक्षिणाव् इव देहात् पृथग्-भूतौ, सदृशौ चिद्-रूपत्वात्, सखायौ सह-योगात् । यदृच्छयेति । वृक्षयोर् आसक्त्य्-अनासक्ति-पूर्वक-नीड-करणे तदीय-पिप्पलान् नभोजित्वाभोजित्वे च हेत्व्-अभाव उक्तः । मायया वृश्च्यत इति वृक्षो देहः— ऊर्ध्व-मूलम् अवाक्-शाखं वृक्षं यो वेद सम्प्रति [क।उ। २.३.१] इति श्रुतेः । ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् [गीता १५.१] इति स्मृतेश् च । तस्मिन् वृक्षे आसक्त्य्-अनासक्ति-पूर्वकं कृतं नीडं निकेतनं हृदय-रूपं याभ्यां तौ तयोर् मध्ये एको जीवः पिप्पलान्नं पिप्पलोऽश्वत्थो देहस् तस्मिन्न् अदनीयं कर्म-फलम् इत्य् अर्थः । खादति भुङ्क्ते । अन्यः परमात्मा निरन्न अभोक्तापि निजानन्द-तृप्तो बलेन ज्ञानादि-शक्त्या भूयान् अधिकः । श्रुतिश् च—

द्वा सुपर्णा सयुजा सखाया

समानं वृक्षं परिषस्वजाते ।

तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्

अनश्नन्न् अन्यो अभिचाकशीति ॥ [मु। ३.१.१, श्वे।उ।४.६] इति ॥६॥

———————————————————————————————————————

॥ ११.११.७ ॥

आत्मानम् अन्यं च स वेद विद्वान्

अपिप्पलादो न तु पिप्पलादः ।

योऽविद्यया युक् स तु नित्य-बद्धो

विद्या-मयो यः स तु नित्य-मुक्तः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवो मुक्तोऽपि नो जीवान् परमात्मानम् एव च ।

वेत्ति सर्वात्मना विष्णुर् वेत्य् एकः पुरुषोत्तमः ॥

तस्य प्रसादतः किंचित् ब्रह्माद्या अपि जानते ।

अन्य-जीवान् अपेक्ष्यैको जानाति च चतुर्मुखः ॥

सामस्त्येन तद् अन्ये तु लेश-ज्ञानाः क्रमात् स्मृता ॥ इति विनिर्णये ॥

तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ इत्य्-आदि च ।

अज्ञा जीवास् तु कथ्यन्ते मुक्ता अप्य् अल्प-वेदनात् ।

अज्ञा इत्य् एवोच्यते नित्यं सर्व-वेत्तृत्वतो हरिः ॥ इति विशेष्ये ।

अनाद्य्-अविद्ययान्धत्वं जीवस्य यदि योग्यता ।

प्रयत्नश् चानुकूल्यस्य दन्तवद् भवति ध्रुवम् ॥

नित्यम् एवान्यथान्धत्वम् अयोग्या मानुषादयः ।

बद्धत्वं सर्व-जीवानां नियमां नित्यम् एव तु ॥

बद्धत्वं विष्ण्व्-अधीनत्वम् अन्धत्वं तद् दर्शनम् ।

अतः क्वचिद् अनित्यत्वम् अद्न्हताया भविष्यति ॥

मुक्तस्यापि तु बद्धत्वम् अस्ति यत् स हरेर् वशः ।

मुक्ताख्या दुःख-मोक्षात् स्याद् बद्धाख्या हर्ष्य् अधीनता ।

नित्य-बद्धा अपि ततो मुक्ता दुःख-विमोक्षतः ।

नित्य-मुक्तस् त्व् एक एव हरिर् नारायणः प्रभुः ।

स्वतन्त्रत्वात् स्वतन्त्रत्वं तस्यैकस्य न चापरः ॥ इति मुक्त-विवेके ।

शतम् सहस्राणि चतुर्दशेह परा गतिर् जीव-गणस्य दैत्य ।

आरोहणं तत्-कृतम् एव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥

कृष्णो मुक्तैर् इयते वीत-मोहैः । मुक्तानां परमा गतिर् इत्य्-आदि भारते ॥

कलाः पञ्चदश त्यक्त्वा श्वतद्वीप-निवासिनाम् ।

मुक्ताख्या विष्ण्व्-अधीनास् ते स्वाधिकानां वशे स्थिताः ॥

न चास्माद् अधिकं किञ्चित् सुखम् अस्ति हरिं विना ।

नित्य-मुक्तः स एवैकः स्वतन्त्रः स यतः सदा ॥ इति माहात्म्ये ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : बलाधिक्यम् एवाह—आत्मानम् इति । अतो योऽविद्यया युग् युक्तः स तु नित्य-बद्धोऽनादि-बद्धः । यस् तु विद्य-प्रधानः स तु नित्य-मुक्तः, मायाया अनावरकत्वाद् आश्रयाव्यामोहकत्वाच् च ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विद्या-मय इत्य् अत्र विद्या स्वरूप-शक्ति-वृत्तिर् एव । व्याख्यातं चाक्रूर-स्तुतौ [१०.३९.५५-टीका द्रष्टव्या] ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स परमात्मा आत्मानं स्वम् अन्यं जीवं च वेद, न पिप्पलं कर्म-फलम् अत्तीति सः । पिप्पलादो जीवस् तु न तु स्वम् अन्यं च वेद, युक् युक्तः स नित्य-बद्धो जीवः । विद्यामय इति विद्या-शब्देनात्रान्तरङ्ग-चिच्-छक्तिर् उच्यते । न तु बहिरङ्ग-माया-शक्ति-वृत्तिः, तथा च गोपाल-तापनी श्रुतिः (२.१९-२०)—द्वा सुपर्णौ भवतो ब्रह्मणोऽंश-भूतस् तथेतरो भोक्ता भवति । अन्यो हि साक्षी भवतीति । वृक्ष-धर्मे तौ तिष्ठतः । \॥। यत्र विद्याविद्ये न विदामो विद्याविद्याभ्यां भिन्नः । विद्यामयो हि यः स कथं विषयी भवति इति । स्मृतिश् च—छायातपौ यत्र न गृध्र-पक्षाव् इति छायातपौ अविद्या-विद्ये इति व्याख्या ॥७॥

———————————————————————————————————————

॥ ११.११.८ ॥

देह-स्थोऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः ।

अदेह-स्थोऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

शरीर-स्थोऽपि विद्वत्त्वान् न विष्णुर् बध्यते क्वचित् ।

अविद्वत्त्वात् तु तत्रैव देहे जीवस् तु बध्यते ॥

स्वप्न-दृग्वद् इमे जीवा हरिः स्वप्नोत्थितो यथा ।

सदा तम् एवाहिईनोऽपि ज्ञापनार्थम् उदीर्यते ॥ इति विवेके ॥८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं बद्ध-मुक्त-जीवानाम् एव मिथो वैलक्षण्यम् आह—देह-स्थोऽपीति दशभिः । विद्वान् मुक्तः संस्कार-वशेन देह-स्थोऽपि देह-स्थो न भवति । यथा स्वप्नाद् उत्थितः स्मर्यमाने स्वप्न-देहे स्थितोऽपि तत्र-स्थो न भवति, तद् गत-सुख-दुःखाद्य्-अभावात्, तद्वत् । तथा च वस्तुतोऽदेह-स्थोऽपि कु-मतिर् अविद्वान् देह-स्थस् तन् निमित्त-सुख-दुःख-भाक् । यथा स्वप्न-देह-गत इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ बद्ध-मुक्तयोर् जीवयोर् मिथो वैलक्षण्यम् आह—देह-स्थोऽपीति दशभिः । तत्र त्रिभिः कथं वर्तेतेत्य् अस्योत्तरम् आह—विद्वान् मुक्तः संस्कार-वशेन देह-स्थोऽपि देह-स्थो न भवति । यथा स्वप्नाद् उत्थितः बाधितानुवृत्ति-न्यायेन स्मर्यमाने स्वप्न-देहे स्थितोऽपि तत्र-स्थो न भवति, तद् गत-सुख-दुःखयोः स्व-निष्ठत्वेनाप्रतीतेः । तथा वस्तुतो न देह-स्थोऽपि कुमतिर् अविद्वान् देह-स्थस् तन् निमित्त-सुख-दुःख-भाक् । यथा स्वप्न-दृक् स्वप्नान् पश्यन् स्वप्न-देह-गतः ॥८॥

———————————————————————————————————————

॥ ११.११.९ ॥

इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च ।

गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गुणैर् अपि गुणेषु । अप्रधानैर् जीवैर् अप्रधानेषु विषयेषु ।

आत्मनो वशगैर् जीवैर् आत्मनो वशगेषु च ।

दुःखेषु गृह्यमाणेषु मन-आदिभिर् इन्द्रियैः ॥

अहं दुःखीति नैवेशस् त्व् अहं पराह् पुमान् ।

जीवगं चेति तद् दुःखं विष्णुः पश्यति सर्वदा ॥

पारतन्त्र्याद् अहं दुःखीत् एवं जीवः प्रपश्यति ।

तस्मात् स दुःखभाग् उक्तो यावद् ईशः प्रसीदति ॥ इति स्वातन्त्र्ये ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुत्वेन वैलक्षण्यान्तरम् आह द्वभ्याम् । इन्द्रियैर् इन्द्रियार्थेषु गृह्यमाणेष्व् अपि यस् तु विद्वान्, स नाहङ्कुर्याद्, अहं गृह्णामीति मतिं न कुर्याद् इत्य् अर्थः। कुतः ? गुणैर् गुणेषु गृह्यमाणेषु । अत एवाविक्रियो रागादि-शून्यः । तद् उक्तं गीतासु—

तत्त्व-वित् तु महा-बाहो गुण-कर्म-विभागयोः ।

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ [गीता ३.२८] इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियैर् इन्द्रियार्थेष्व् अपि गुणेषु गृह्यमाणेषु न अहं कुर्यात्, अहं गृह्णामीति मतिं न कुर्यात् । निरहङ्कारित्वे लिङ्गं अविक्रियस् तत्-तद्-विकार-रहितः । विकारवत्त्वेऽपि अहं न किम् अपि करोमीति वाचैव बुर्वन् कपटी महा-बद्धो ज्ञेयः ॥९॥

———————————————————————————————————————

॥ ११.११.१० ॥

दैवाधीने शरीरेऽस्मिन् गुण-भाव्येन कर्मणा ।

वर्तमानोऽबुधस् तत्र कर्तास्मीति निबध्यते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : गुण-भाव्ये न कर्मणा गुण-भूतः अस्वतन्त्रोऽहम् अस्मिन् कर्मणीति भावनीयेन ।

अस्वतन्त्रः स्वतन्त्रोऽस्मीत्य् एवं जीवः प्रभावयन् ।

बध्यते हीश-कोपेन राज-भावेन भृत्यवत् ॥ इति च ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अबुधस् तु पूर्व-कर्माधीनेऽस्मिन् शरीरे वर्तमानो गुणैर् इन्द्रियैर् भाव्येन कर्मणा तत्र देहादौ निवध्यते । कुतः ? कर्तास्मीत्य् अहङ्कारेण । तद् उक्तं तत्रैव—

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता ३.२७] इति ।

एतैस् त्रिभिः श्लोकैः कथं वर्तेतेत्य् अस्य प्रश्नस्य सुख-दुःख-शून्यो निरभिमानश् च देहे वर्तत इत्य् उत्तरम् उक्तं भवति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैवाधीने पूर्व-कर्माधीनेऽस्मिन् शरीरे वर्तमानः गुणैर् इन्द्रियैर् भाव्येन कृतेन कर्मणा निबध्यते । कुतः कर्तास्मीत्य् अहङ्कारेण । यद् उक्तं, अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता ३.२७] इति ॥१०॥

———————————————————————————————————————

॥ ११.११.११ ॥

एवं विरक्तः शयन आसनाटन-मज्जने ।

दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु ।

न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : एवं विरक्तः शयने । एवम् अस्वातन्त्र्येण नित्य-बद्धोऽपि । एवम् आत्मनोः स्वातन्त्र्य-पारतन्त्र्ययोर् विद्वान् जीवोऽप्य् अविद्वज् –जीववन् न बध्यते । एवं विद्वान् इत्य् अन्वयः ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वैलक्षण्यान्तरं वदन् “किं भुञ्जीत” इत्य्-आदि-प्रश्नोत्तरम् आह—एवम् इति त्रिभिः । अन्य-गतम् एव कर्म मां बध्नातीत्य् एवं विरक्तो विद्वान् । तथा अविद्वान् इव शयनासनादिषु न बध्यते । कुतः ? तत्र तत्र विषयेषु गुणान् इन्द्रियाण्य् आदयन् भोजयंस् तत्-साक्षित्वेन वर्तमानः, न तु स्वयम् अदन् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं भुञ्जीतेति यद् उक्तं तत्राह—एवम् इति त्रिभिः । न तथा बध्यते इति शयनासनादिषु यथा अविद्वांस् तत्र तत्रासक्त्या तत्-तद्-उपायोत्थाभ्यां हर्ष-शोकाभ्यां बध्यते, तथा तेन बाधितानुवृत्ति-न्यायेन, किञ्चिन्-मात्र-हर्ष-शोकवत्त्वेऽपि न क्षतिः । यतो विरक्तः तत्र तत्र विषयेषु गुणान् इन्द्रियाण्य् आदयन् भोजयंस् तत्-साक्षित्वेन वर्तमानः, न तु स्वयम् अदन् ॥११॥

———————————————————————————————————————

॥ ११.११.१२-१३ ॥

प्रकृति-स्थोऽप्य् असंसक्तो यथा खं सवितानिलः ।

वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः ।

प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

नित्य-बद्धोऽपि जीवो य आत्मनो नित्य-बद्धताम् ।

विष्णुना नित्य-मुक्तत्वं तस्य वेत्ति समुच्यते ॥

तद्-अधीनत्व-ब्न्धे तु विद्यमानेऽप्य् अदुःख-भाक् ।

देह-स्थोऽपि न दुःखी स्याद् अन्यवत् किम् उ मुक्तिगः ॥ इति परायणे ।

नानात्वम् इति वै मिथ्या-ज्ञानं कुत्रचिद् उच्यते ।

वस्तु-याथाथ्यतोऽन्यत्वात् ज्ञानस्योज्झो विवक्षितः ॥ इति वाक्गभ्ये ॥१२-१३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव कुतः ? तत्राह—प्रकृति-स्थोऽपीति सार्धेन । यथा खं सर्वत्र स्थितम् अपि न सज्जते । यथा सविता जले प्रतिबिम्बितोऽपि । यथानिलः सर्वत्र सञ्चरन्न् अपि तद्वत् । असङ्गेन वैराग्येण शितय तीक्ष्णया छिन्नाः संशय असम्भावनादयो यस्य सः । नानात्वाद् देहादि-प्रपञ्चात् ॥१२-१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतद् एव कुतः ? तत्राह—प्रकृति-स्थोऽपीति सार्धेन । यथा खं सर्वत्र स्थितम् अपि न सज्जते । यथा सविता सर्वत्र किरण-जालं प्रसारयन्न् अपि, यथा च अनिलः सर्वत्र सञ्चरन्न् अपि तद्वत् । असङ्गेन वैराग्येण शितय तीक्ष्णया छिन्नाः संशया असम्भावनादयो यस्य सः । नानात्वान् नाना-देह-प्रपञ्चात् ॥१२-१३॥

———————————————————————————————————————

॥ ११.११.१४ ॥

यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-मनो-धियाम् ।

वृत्तयः स विनिर्मुक्तो देह-स्थोऽपि हि तद्-गुणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं विहरेत् ? इत्य् अस्योत्तरत्वेन वैलक्षण्यान्तरम् आह—यस्य स्युर् इति । तद्-गुणैर् देह-गुणैः सङ्कल्प-शून्याभिः प्राणादि-वृत्तिभिर् विहरन् मुक्त इत्य् अर्थः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं कथं विहरेत् ? इति तत्राह—यस्येति । तद्-गुणैर् देह-धर्मैः शोक-मोहादिभिर् विनिर्मुक्तः सन् सङ्कल्प-शून्याभिः प्राणादि-वृत्तिभिर् विहरतीति भावः॥१४॥

———————————————————————————————————————

॥ ११.११.१५ ॥

यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया ।

अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् बद्ध-मुक्तयोः स्व-संवेद्यम् एव वैलक्षण्यम् उक्तम् इदानीं कैर् वा ज्ञायेत लक्षणैः" इत्य् अस्योत्तरतया परैर् अपि सुज्ञेयं वैलक्षण्यम् आह—यस्यात्मेति त्रिभिः । हिंस्रैर् दुर्जनैर् अन्यैर् वा प्राणिभिर् यस्यात्मा देहः पीड्यते । यदृच्छया येन केनापि क्वचित् किञ्चिद् अर्च्यते वा स बुधश् चेत् तत्र न व्यतिक्रियते, नातिविक्रियते इत्य् अर्थः । तद् उक्तं याज्ञवल्क्येन, “यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति । अक्रुद्धोऽपरितुष्टश् च समस् तस्य च तस्य च ।” इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं कैर् वा ज्ञायेत लक्षणैर् इति तत्र सर्व-सुज्ञेयानि मुक्त-लक्षणान्य् आह-यस्येति त्रिभिः । हिंस्रैर् दुर्जनैर् यस्यात्मा देहो हिंस्यते । उपानत्-प्रहारादिभिः पीड्यते । यदृच्छया हेतुना विनैव येन केनापि स्रक्-चन्दनादिना किंचिद् अर्च्यते वा । तत्र न व्यतिक्रियते नातिविक्रियते दुर्जनान् प्रति न क्रुध्यति सुजनान् प्रति न तुष्यति चेत्य् अर्थः । यद् उक्तं याज्ञवल्क्येन—

यः कण्टकैर् वितुदति चन्दनैश् च विलिम्पति ।

अक्रुद्धोऽपरितुष्टश् च समस् तस्य च तस्य च ॥ इति ॥१५ ॥

———————————————————————————————————————

॥ ११.११.१६ ॥

न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा ।

वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

दोषश् चैव गुणश् चोभाव् ईश-तन्त्रौ न मे वशौ ।

इति जानन् न दोषः स्याद् वर्जितोऽल्प-गुणेन च ॥ इति प्राथम्ये ॥१६


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च साध्व् असाधु वा कुर्वतो वदतो वा जनान् न स्तुवीत न च निन्देत । यो लौकिक-व्यवहारे विमुखः स मुक्त इत्य् अर्थः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साध्व्-असाधू कुर्वतो वदतो वा जनान् न स्तुवीत न च निन्देत् ॥१६ ॥

———————————————————————————————————————

॥ ११.११.१७ ॥

न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा ।

आत्मारामोऽनया वृत्त्या विचरेज् जड-वन् मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, न कुर्याद् इति । यो दैहिकेऽपि कर्मण्य् उदासीनः स मुक्तः । इतरो बद्ध इत्य् अर्थः । एतान्य् एव सर्वानि मुमुक्षोः साधनानि ज्ञातव्यानि ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनया वृत्त्या अनेन स्वभावेन मुक्त-लक्षण-भिन्नं बद्ध-लक्षणं च ज्ञेयम् ॥१७॥

———————————————————————————————————————

॥ ११.११.१८ ॥

शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि ।

श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यस् तु केवलं शब्द-ब्रह्मण्य् अभिज्ञः पाण्डित्य-मात्र-श्लाघी न तूक्तैः साधनैस् तद् अर्थ-निष्ठो भवेत्, तं निन्दति । शब्द-ब्रह्मणि निष्णातोऽर्थतः पारं गतोऽपि परे ब्रह्मणि न निष्णायाद् ध्यणाद्य्-अभियोगं न कुर्यात्, तस्य शास्त्र-श्रमःश्रमैक-फलः, न तु पुरुषार्थ-पर्यवसायी । अधेनुं चिर-प्रसूताम् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं ज्ञान-योगम् उक्त्वाधुना भक्ति-योगम् उद्भावयितुम् आह—शब्द-ब्रह्मणीति । अत्र पर-ब्रह्म-पदेन परत्व-मात्रम् उच्यते, न तु ब्रह्मत्व-भगवत्त्वादि-विवेकेनेति ज्ञेयं । सर्वत्र तत्-सामान्यात् ॥१८॥ [भक्ति-सन्दर्भ ६७]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, भगवति सच्चिदानन्द-मयाकारत्व-भावनया भक्तिं कुर्वीत । तदैवायम् उक्त-लक्षणो मुक्त-जीवः सिद्ध्येत्, अन्यथा तु पतेद् इत्य् आह—शब्दे वेद-शास्त्रे ब्रह्मणि तत्-प्रतिपाद्ये निर्विशेषे ब्रह्मणि च । निष्णातः विशिष्ट-ज्ञान-कुशलः । किन्तु परे ताभ्यां सकाशाद् अपि परमाश्रयत्वेन श्रेष्ठे भगवति, ननिष्णायात् भक्ति-कौशलवान् न भवेत् । निष्णात-शब्दस्य कुशलार्थत्वाद् भगवति सच्-चिद्-आनन्दाकारत्व-भावनया भक्तिर् एवात्र कुशलता । यां विना तस्य श्रमः साधन-श्रमः श्रमैक-फलो व्यर्थ एव, न तु पुरुषार्थ-प्रापकः । दुग्ध-कामस्य अधेनुं बन्ध्यां चिर-प्रसूतां वा रक्षतो यथा श्रमः । अत्र शब्द-ब्रह्मणि वेदे निष्णातोऽपि परे ब्रह्मणि निर्विशेषे इति व्याख्यायाम् एक-देशान्वय उत्तर-श्लोकार्थ-तात्पर्य-विरोधश् च स्यात् ॥१८ ॥

———————————————————————————————————————

॥ ११.११.१९ ॥

गां दुग्ध-दोहाम् असतीं च भार्यां

देहं पराधीनम् असत्-प्रजां च ।

वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं

हीनं मया रक्षति दुःख-दुःखी ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

दुग्ध-दोहां तु गां रक्षेत् क्षीर-मात्र-प्रयोजनः ।

यथा तद्वद् धरेऽन्य-वाचो धारणम् इष्यते ॥ इति हरि-वंशेषु ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एवान्यार्थ-निदर्शनैः प्रपञ्चयति—गाम् इति । दुह्यत इति दोहः पयः । दुग्धो दोहो नोत्तरत्र दोह्योऽस्ति यस्यास् ताम् अर्थ-शून्याम् । असतीं भार्यां काम-शून्याम् । देहं पराधीनं प्रतिक्षणं दुःख-हेतुम् । असत्-प्रजां दृष्टादृष्ट-साधन-शून्यं पुत्रम् । अतीर्थी-कृतम् आगते पात्रेऽदत्तं वित्तं दुष्कीर्ति-दुरितापादकम् । अङ्ग हे उद्धव ! दुःखानन्तरं दुःखम् एव यस्य स रक्षति ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं शब्द-ब्रह्माभ्यासस्य पर-ब्रह्माभ्यासः प्रयोजनम् इत्य् उक्तम् । सर्वेष्व् एवांशेषु विशेषत उपनिषद्-भागे शब्द-ब्रह्मणस् तत्-प्रतिपादकत्वे स्थितेऽपि तद्-विचार-कोटिभिर् अपि पर-ब्रह्म-निष्ठा न जायते, किन्तु यस्य तस्मिन्न् अंशे श्री-भगवद्-आकार-पर-ब्रह्म-लीलादिकं प्रतिपाद्यते, तद्-अभ्यासेनैव भगवद्-आकारे च निष्ठा जायते । तद् उक्तं, संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर् नान्यः प्लव [भा।पु। १२.४.४०] इत्य्-आदि, श्रेयः-सृतिं भक्तिम् उदस्य ते [भा।पु। १०.१४.४] इत्य्-आदि च । अत एव मदीय-लीला-शून्यां वैदिकीम् अपि वाचं नाभ्यसेद् इत्य् आह द्वाभ्याम्—गाम् इति । मया श्री-भगवता हीनां मम लीलादि-शून्याम् ॥१९॥ [भक्ति-सन्दर्भ ६८]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृश्य-श्रव्यादीन् विषयान् मत्-सम्बन्धान् एव स्वीकुर्यात्, न तु मत्-सम्बन्ध-शून्यान्, एतद् एव मयि निष्णातत्वम् इति वक्तुं सर्वेन्द्रिय-व्यापारोपलक्षणकम् एकं वाग्-इन्द्रिय-व्यापारम् एव लक्षीकृत्य स बहुतर-दृष्टान्तम् आह—गाम् इति ।

दुह्यत इति दोहः पयः दुग्धो दोहो नोत्तरत्र दोह्योऽस्ति यस्यास् तां । कस्माच्चित् मूल्य-दानेन विनैव प्राप्तां रक्षति पाति । गौर् इयं मद्-दत्त-बहुतर-घासादि-चारणैर् दुग्धवती पुनः प्रसूतिमती च भविष्यतीति बुद्ध्या दुग्ध-लोभी दुःख-दुःखी । ऐहिक-दुःखवान् आयत्यां तस्या गोर् दुग्ध-लाभ-दर्शनाद् उपेक्षणात्, उपेक्षण-जन्य-पापात् पारत्रिकं च यद् दुःखं, तद्वान् । एवं असतीं भार्यां, सती-जन-कृत-धर्मोपदेशाद् इयम् आयत्यां सती भविष्यतीति बुद्ध्या सन्तान-काम-लोभी रक्षतीति । एवम् असत्-प्रजाम् इत्य् आदाव् अपि व्याख्येयम् । देहं पराधीनं प्रतिक्षणं दुःख-हेतुं, असत्-प्रजां दृष्टादृष्ट-फल-शून्यं पुत्रम् । आगते पात्रे अदत्तं वित्तं दुष्कीर्ति-दुरितापादकम् । अङ्ग, हे उद्धव ! दुःखानन्तरं दुःखम् एव यस्य, स एव रक्षति ॥१९॥

———————————————————————————————————————

॥ ११.११.२० ॥

यस्यां न मे पावनम् अङ्ग कर्म

स्थित्य्-उद्भव-प्राण-निरोधम् अस्य ।

लीलावतारेप्सित-जन्म वा स्याद्

बन्ध्यां गिरं तां बिभृयान् न धीरः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्थिति-शब्देन नियमः क्वचिज् जीवनम् उच्यते ।

उत्थितत्वं क्वचिच् चैव क्वचिद् गति-विरोधिता ॥ इति शब्द-निर्णये ॥२० ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मया हीनां वाचम् [११.११.१९] इत्य् उक्तं विवृणोति--यस्यां वाचि मे जगतः शोधकं चरित्रं न स्यात् । किं तत् ? अस्य विश्वस्य स्थित्य्-आदि-रूपम्, तद् धेतुर् इत्य् अर्थः । लीलावतारेष्व् ईप्सितं जगतः प्रेमास्पदं श्री-राम-कृष्णादि-जन्म वा स्यात् । तां निष्फलां गिरं धीरो धीमान् न धारयेत् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्याम् इति । तां निष्फलां गिरं वेन-लक्षणाम् अपि तद् उक्तं श्री-नारदेन—इदं हि पुंसस् तपसः श्रुतस्य वा [भा।पु। १.५.२२] इत्य्-आदि । अत एव गीतं कलि-युग-पावनावतारेण श्री-भगवता—

श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतात् ।

यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकोद्गमा ॥ [पद्या। ३९] इति ॥२०॥

[भक्ति-सन्दर्भ ६९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, त्वत्-सहितैव सा वाक् का किं तत्त्वम् अस्यादि-जीव-ब्रह्मैक्य-प्रतिपादिका वा काचिद् अन्यैवेवेति तां स्पष्टम् आवेदयेत्य् अपेक्षायाम् आह—यस्यां मम कर्म-चरितं विश्वस्य स्थितिर् उद्भवः प्राण-निरोधः संहारश् च यत्र, तत् । ततोऽप्य् उत्कृष्टतमत्वेन विमृश्याह—लीलावतारेषु ईप्सितं सर्व-जगत्-सुभगं जन्म मत् जन्मोपलक्षित-बाल्य-लीलादिकं यत्र, तत्र चरित्रं न स्यात्, तां गिरं वेद-लक्षणाम् अपि बन्ध्यां विफलां धीरः पण्डितो न बिभृयात्, पण्डित एव बिभृयात् ॥२०॥

———————————————————————————————————————

॥ ११.११.२१ ॥

एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि ।

उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अर्थाद् अन्यथात्वेन मनसः परिवर्तनं, नानात्व-भ्रमः ।

जीवस्येशत्व-विज्ञानं जीवानाम् एकता तथा ।

ईशस्य बहुता ज्ञानम् ईशस्यानीशता तथा ।

जगतो सत्यता-ज्ञानं नानात्व-भ्रम उच्यते ॥ इति विवेके ॥२१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्तं ज्ञान-मार्गम् उपसंहरति—एवं निश्चित्य विचारेण आत्मनिनानात्व-भ्रमं देहाद्य्-अध्यासं निरस्य निर्मलं मनो मयिसर्वगे परिपूर्णे समर्प्य सन्धार्य उपारमेत, न शास्त्र-पाण्डित्य-मात्रेणेत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं भक्त्यैव ज्ञानं सिद्धयतीत्य् उक्त्वा, तं च ज्ञान-मार्गम् उपसंहरति—एवम् इति । जिज्ञासया, बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भा।पु। ११.११.१] इत्य्-आदि-पूर्वोक्त-प्रकारक-विचारेण । आत्मनि शुद्ध-जीवे नानात्वं देवत्व-मनुष्यत्वादि-भेदम् अपोह्य एवं मल्-लीलादि-श्रवणेन मनो मयि ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत ॥२१॥ [भक्ति-सन्दर्भ ७०]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-मार्गम् उपसंहरति—एवं जिज्ञासया उक्त-लक्षण-प्रकारेण विचारेण, आत्मनि स्वस्मिन् नानात्व-भ्रमं देह-द्वयाभिमान-लक्षणं देवत्व-मनुष्यत्वादि-भेदम् अपोह्य निरस्य उक्त-लक्षणया भक्त्या च मयि विरजं विपक्व-माया-कषायं मनःसमर्प्य भक्त्य्-उत्थेन विज्ञानेन उपारमेत मत्-सायुज्यं प्राप्नुयात् । तथा चोक्तं—

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।

ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥[गीता ११.५५] इति ॥२१॥

———————————————————————————————————————

॥ ११.११.२२ ॥

यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।

मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्य् अनीशोऽशक्तस् तर्ह्य् आस्ताम् इदं मद्-भक्त्यैव कृतार्थो भविष्यसि ? इत्य् आह—मयीति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं ज्ञान-मिश्रां भक्तिम् उपदिश्य तद्-अनादरेणानुषङ्ग-सिद्ध-ज्ञान-गुणां शुद्धाम् एव भक्तिम् उपदिशति चतुर्भिः । यदीति निश्चये,यथा टीकायां धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। ११.४.१०] इत्य्-आदिवत् । अत्र ज्ञानेच्छुर् एव प्रकृतेः । श्रीमद्-उद्धवं प्रति च तादृशत्वम् आरोप्यैवेदम् उच्यते । ततश् च, श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति [भा।पु। १०.१४.४] इत्य्-आदिप्रमाणेन भक्तिं विना केवल-ज्ञान-मार्गेण मनो ब्रह्मणि धारयितुं निश्चितम् एवानीशो भवसि । ततोऽपि स्वतो ज्ञानादि-सर्व-गुण-सेवितं भक्ति-योगम् एवाश्रयेति तत्-सोपानम् उपदिशति मयीत्य्-आदिना ।

अथवा प्राक्तन-भक्ति-बलाभावात् ब्रह्म-ज्ञानेच्छुर् यदि तत्र मनो धारयितुम् अनीशः स्यात्, तदाधुनाप्य् एवं कुर्व् इति योज्यम् । समाचर अर्पय निरपेक्षः वाञ्छान्तर-रहितः । किं वा, तद् एवम् अपि यस्य लीला-कथायां श्रद्धा न स्यात्, तस्य ब्रह्म-धारणायाम् अप्य् अशक्तिः स्यत्, किम् उत भगवद्-धारणायाम् इति लक्ष्येण शुद्ध-भक्ताव् एव पर्यवसाययितुम् आह—यद्य् अनीश इति ॥२२॥ [भक्ति-सन्दर्भ ७१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च मद्-अर्पित-निष्काम-कर्मणैवान्तः-करण-शुद्धिर् अन्तःकरण-शुद्ध्य्-अधीनम् एव भक्ति-सहित-ज्ञानं, तेन च ब्रह्मणि निश्चल-मनो-धारणा, ततो ब्रह्म-भूतः प्रसन्नात्मा [गीता १८.५५] इत्य्-आदि मद्-उक्तेर् विद्योपराम-समये विद्योत्तीर्णाया मद्-भक्तेः प्राप्तिस् तया च विपक्व-कषायस्य मनसो मयि सम्यङ् निदिध्यासनं, ततो भक्त्य्-उत्थेन शुद्ध-ज्ञानेन सायुज्यम् इति क्रमः । तत्र कश्चिद् यदि निश्चल-मनो-धारणात्मिकां चतुर्थीं भूमिकाम् अप्य् अधिरोढुं न शक्नुयात् तदा स्वान्तःकरणस्य सम्यक् शुद्ध-भावम् अनुमाय तच्-छुद्ध्य्-अर्थं पुनर् अपि मद्-अर्पित-निष्काम-कर्मैव कुर्याद् इति उद्धवं लक्ष्यीकृत्याह—यद्य् अनीश इति । सर्वाणि नित्य-नैमित्तिक-निवृत्त-कर्माणि ॥२२॥

———————————————————————————————————————

॥ ११.११.२३-२४ ॥

श्रद्धालुर् मत्-कथाः शृण्वन् सुभद्रा लोक-पावनीः ।

गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥

मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः ।

लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मद्-अर्पणेन कर्मणा विशुद्ध-सत्त्वस्यान्तरङ्गां भक्तिम् आह—श्रद्धालुर् इति द्वाभ्याम् । अभिनयन् स्वयम् अनुकुर्वन् । आचरन् सेवमानः ॥२३-२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रद्धालुत्वे च सति शुद्धां भक्तिम् आह—श्रद्धालुर् इति युग्मकेन । अभिनयन्जन्म-कर्म-लीलयोर् मध्ये येऽंशा निजाभीष्ट-भाव-भक्त-गतास् तान् स्वयम् अनुकुर्वन् भगवद्-गतान् भक्तान्तर-गतांश् च तान् अन्य-द्वारानुकुर्वन्न् इत्य् अर्थः ॥२३॥

किं च, यो धर्मो गो-दानादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-जन्मादि-महोत्सवाङ्गत्वेनैव, यश् च कामो महा-प्रासाद-वासादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-सेवार्थ-मन्-मन्दिर-वासादि-लक्षणत्वेनैव, यश् चार्थो धन-सङ्ग्रहस् तम् अपि मद्-अर्थे मत्-सेवा-मात्रोपयोगित्वेनैवाचरन् सेवमानः मद्-अपाश्रय आश्रयान्तर-शून्य-चेताश् च सन्, ताम् एव कथा-श्रवणादि-लक्षणां भक्तिं मयि निश्चलां सर्वदाप्य् अव्यभिचारिणीं लभते । तत्-सुखेन कैवल्यादाव् अप्य् अनादरात्, न च भजनीयस्य चलतया वा सा चलिष्यतीति मन्तव्यम् इत्य् आह—सनातन इति ॥२४॥ [भक्ति-सन्दर्भ ७२-७३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सार्धैश् चतुर्भिर् ज्ञान-योगम् उक्त्वा, भक्ति-योगम् आह—श्रद्धालुर् इत्य्-आदिना, मया स्या ह्य् अकुतो-भय [भा।पु। ११.१२.१५] इत्य् अन्तेन । अत्र शीलार्थकेनालुच्-प्रत्ययेन भक्ताव् औपाधिक-श्रद्धावन्तो ज्ञानि-प्रभृतयो व्यावृत्ताः । प्रथमत एव श्रद्धालुर् इति पदोपन्यासो भक्ताव् ईदृश-श्रद्धावान् एवाधिकारीति ज्ञापयति । यद् वक्ष्यते—

यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धि-दः ॥

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु। ११.२०.८-९]

इति ज्ञान-कर्माधिकारि-भेदोऽस्य भेदाश् च सुभद्राः दधि-पयः-पर-स्त्री-चौर्य-वेणु-गान-रासाद्या गायन्न् अनुस्मरन्न् इति गानस्य पौनःपुन्येन स्मरणस्यापि पौनःपुन्यं स्वत एव भवेद् इति भावः । कर्म कालिय-दमनादिकं, जन्म नन्दोत्सवादिकं, नाटकादि-रीत्या अभिनयन् । च-कारात् गायन्न् अनुस्मरंश् च ।

मद्-अर्थे मत्-सेवार्थं मज्-जन्म-यात्रादि-दिवसे, मत्-स्वरूप-श्री-गुरु-देवाराधन-दिवसे च, धर्मा ब्राह्मण-वैष्णव-सम्प्रदानकान्न-वस्त्रादि-दानानि । कामा वैष्णव-समाज-प्राप्त-मधुर-महा-प्रसादान्न-भोजन-स्रक्-चन्दन-ताम्बूलोपयोग-वसन-परिधानाद्याः । अर्था विष्णु-वैष्णव-सेवार्थ-द्रव्याहरणानि आचरन् कुर्वन् । निश्चलां साधन-साध्य-दशयोः स्थिरां नैष्ठिकीं [भक्तिं लभते] । सनातने इति तद्-आराध्यस्य मद्-विग्रहस्यास्य सनातनत्वात् तद्-भक्तिर् अपि सनातनी निश्चलैवेति भावः ॥२३-२४॥

———————————————————————————————————————

॥ ११.११.२५ ॥

सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता ।

स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् चानेन प्रकारेण मयिसत्-सङ्गेन लब्धया भक्त्या स भक्तो मामुपासिता ध्याता भवति । च ध्यान-शीलः सद्भिर् दर्शितं, वै निश्चितं, सुखेनैव मे पदं स्वरूपं प्राप्नोति ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एवं भूत-भक्ति-मार्गे प्रवृत्तिर् निष्ठा वा कथं स्यात् ? इत्य् आशङ्क्य तत्र हेतुम् आह—सत्-सङ्गेति । भक्त्या भक्ति-रुच्या भक्तो माम् उपासिता भजमानो भवति । तस्य च भक्तस्य मदीयं ब्रह्माकारं भगवद्-आकारं च सर्वम् अपि स्वरूप-विज्ञानम् अनायासेनैव भवतीत्य् आह—स वै म इति । अञ्जसाभक्त्य्-अनुषङ्गेनैव । पदं स्वरूपम् ॥२५॥ [भक्ति-सन्दर्भ ७३-७४]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं-भूतायां भक्तौ कः प्रवर्तकः ? इत्य् अपेक्षायाम् आह—सत्-सङ्गेति । भक्त्या उक्त-लक्षणया नैष्ठिक्या उपासिता भजमानो भवति । ततश् च सद्भिर् एव दर्शितंपदं मच्-चरणं मद्-धाम वा अञ्जसा शीघ्रं रुच्य्-आसक्ति-रति-प्रेम-भूमिकारूढः सन् विन्दते प्राप्नोति ॥२५॥

———————————————————————————————————————

॥ ११.११.२६-२७ ॥

श्री-उद्धव उवाच

साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो ।

भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता ॥

एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो ।

प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्ग-लब्धया भक्त्येत्य् उक्तं तत्र सतां भक्तेश् च विशेषं पृच्छति—साधुर् इति । साधवः स्व-स्व-मति-कल्पिताः सन्ति बहवः, तव तु कीदृशः संमतः । भक्तिर् अपि बहु-विधा लोके, कीदृशी पुनस् त्वय्य् उपयुज्येत । सद्भिश् च नारदादिभिर् आदृता ॥२६॥

एतच् च कथ्यताम् । इदं चातिगुह्यं त्वयैव वक्तव्यम् इत्य् ऐश्वर्यम् आविष्करोति—हे पुरुषाध्यक्षेत्य् आदिना । ब्रह्मादि-नियन्तः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : उप आधिक्येन युज्येत, सैव सद्भिर् आदृता, साधूनां स्व-भक्तानां माहात्म्यं त्वम् एव सुष्ठु जानासि । भक्तेस् तत्त्वं तु ते साधव एवेति भेदेन पृष्टम्—हे पुरुषाध्यक्ष! महत्-स्रष्ट्राद्य्-अवतारिन् ! लोको वैकुण्ठः । जगच् चानन्त-ब्रह्माण्डात्मकं प्रणताय भक्ताय अनुरक्ताय स्निग्धाय प्रपन्नाय स्वैक-शरणाय ॥२६-२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ति-प्रादुर्भावकं साधुम् एव श्रुत्वा तल्-लक्षणं पृच्छति साधुर् इति । मतस् तव संमतः । सद्भिर् आदृतापि भक्तिस् त्वयि कीदृश्य् उपयुज्येत ॥२६-२७॥

———————————————————————————————————————

॥ ११.११.२८ ॥

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।

अवतीर्णोऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : स्वेच्छोपात्त-पृथग्-वपुः ।

वसुदेवादि-शरीरं स्वेच्छयानेन स्वीकृतम् इति ।

नित्यानन्द-शरीरोऽपि वसुदेवादि देहगः ॥

प्रदर्शयेज् जनिं स्वस्य नित्यं देह-विवर्जितः ।

वसुदेवादि-देहेषु प्रवेशस् तस्य भण्यते ॥

देहोपादानम् इति तु न ह्य् अन्यो देह इष्यते ।

अन्याभिमत-देहेषु प्रविष्टः सर्वदा हरिः ॥

नान्यानभिमतो देहो विष्णोर् अस्ति कदाचन ।

अतो शरीरो भगवान् पुत्रताभिमतिस् तु या ।

वसुदेवादि-कानां तु सैव मिथ्या-मतिर् भवेत् ॥

अन्याहं भाव-युग् देह एवासौ हरिर् आस्थितः ।

न तद् अन्येषु देहेषु क्वचित् तस्य प्रवेशनम् ।

मम पुत्रस् त्व् अयम् इति भ्रमणाय यदा हरिः ।

वसुदेवादि-देहेषु तनूपात्तिस् तु सा गतिः ॥

अनुपात्त-शरीरस्य तनूपातिर् इतीष्यते ।

तद्-देहं पितृ-देहत्वे उपादत्ते यतो हरिः ॥ इति प्रकाश-संहितायाम् ॥२८ ॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र हेतुः, त्वम् इति । व्योम-वद्-असङ्गः । यतः प्रकृतेः परः । स्वेषां भक्तानाम् इच्छयोपात्तं पृथक् परिमितं वपुर्येन सः ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : साक्षाद्-भगवान् एव त्वम् अवतीर्णोऽसि । भगवत एव वैभवम् आह—ब्रह्म त्वं परम-व्योमाख्यो वैकुण्ठस् त्वम् । प्रकृतेः परः पुरुषोऽपि त्वम् इति । भगवान् अपि कथंभूतः सन्न् अवतीर्णः ? स्वेच्छा-मयस्य [भा।पु। १०.१४.२] इत्य् अनुसारेण स्वेषां सर्वेषाम् एव भक्तानाम् इच्छायै तां पूरयितुम् उपात्तानि । ततस् तत आकृष्टानि पृथग्-वपूंषि निज-तत्-तद्-आविर्भावा येन तथाभूतः सन्न् इति तं प्रति यथाह जाम्बवान्—यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैः [भा।पु। १०.५६.५८] इत्य्-आदि । तथा च देवाः— केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताकः[भा।पु। ११.६.१३] इत्य्-आदि । यथा च ब्रह्मा—नारायणस् त्वम् इत्य् आदौ नारायणोऽङ्ग नर-भू-जलायनात् [भा।पु। १०.१४.१४] इति । यथा च देवाः—स्यान् नस् तवाङ्घ्रिः [भा।पु। ११.६.१०] इत्य्-आदि । अत एवाक्रूरः—अद्भुतानीह [भा।पु। १०.४१.४] इत्य्-आदि । अत एव गोविन्द-भुज-गुप्तायाम्[भा।पु। ११.२.१] इत्य्-आदि ॥२८॥ [कृष्ण-सन्दर्भ ९०]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वद्-भक्ति-प्रवर्तकः साधुस् त्वत्-स्वरूपाद् भिन्नोऽपि तत्-स्वरूप-भूत एवेत्य् आह त्वम् इति । व्योमवद् असङ्गः । यतः प्रकृतेः परः । तद् अपि प्राकृतेऽस्मिन् लोके कृपया जीवोद्धारार्थम् अवतीर्णोऽसि । कीदृशः ? स्वैर् भक्तैर् इच्छयोपात्तानि गृहीतानि पृथग् भूतानि वपूंषि यतः सः, स्वरूप-भूतानि वपूंष्य् एव त्वं स्व-भक्ति-प्रवर्तनार्थं भक्तेभ्यो ददासीत्य् अर्थः । यद् उक्तं नारदेन प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भा।पु। १.६.२९] इति । अत एव त्वद्-भक्तं गुरुं लोकास् त्वत्-स्वरूपत्वेनैव ध्यायन्तीति भावः । यद् वा, त्वम् आत्मारामत्वात् जगत्य् अस्मिन्न् उदासीनोऽपि स्वभक्ति-प्रचारणार्थम् अवतरस्य् एवेत्य् आह – त्वम् इति । स्वेच्छया उपात्तानि पृथक् पृथग् वपूंषि श्री-कपिल-दत्तात्रेय-श्री-नारदाद्याकारा येन सः । यद् उक्तं बहु-मूर्त्यैक-मूर्तिकम् इति ॥२८॥

———————————————————————————————————————

॥ ११.११.२९-३१ ॥

श्री-भगवान् उवाच

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।

सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥

कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।

अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥

अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः ।

अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र त्रिंशल्-लक्षणैः साधुं निरूपयति—कृपालुर् इति पञ्चभिः । कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-द्रोहः। तितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः । अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति सर्वेषाम् अप्य् अकारकः । कामैर् अक्षुभित-चित्तः । दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-क्रिया-शून्यः । मितभुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः स्थिरः स्व-धर्मे । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय एते जिता येन सः । अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः मैत्रः अवञ्चकः। कारुणिकः करुणयैव प्रवर्तमानो न तु दृष्ट-लोभेन । कविः सम्यक् ज्ञानी ॥२९-३१॥


सनातन-गोस्वामी [ह।भ।वि। १०.१८-२०] श्री-भगवता प्रकर्षेण दत्ते उद्धव-कृत-प्रश्नस्य—साधुस् तवोत्तमः-श्लोकम् अतः कीदृग्-विधः प्रभो [भा।पु। ११.११.२६] इत्य् अस्योत्तरे प्रतिवचने । कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-द्रोहः। यद् वा, सर्व-देहिनाम् उत्तम-मध्यम-नीचानां तितिक्षुः अपराध-सहिष्णुः । सत्यं सारं स्थिरं बलं यस्य सः । अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति सर्वेषाम् उपकारकः । कामैर् अक्षुभित-चित्तः । दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । शुचिः सदाचारः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-क्रिया-शून्यः । मित-भुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः । स्थिरः स्व-धर्म-नियमादौ । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः, वृथा-वार्ता-त्यागी वा । अप्रमत्तः सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय एते जिता येन सः । अमानी मानाकाङ्क्ष-रहितः । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः। मैत्रः अवञ्चकः। कारुणिकः करुणयैव सर्वत्र प्रवर्तमानः, न तु दृष्ट-लोभेन । कविः सम्यग्-ज्ञानी भगवद्-वर्णन-शीलो वा ।

यद्यप्य् एते पर-दुःख-सहिष्णुतादयो गुणाः कतिचिद् अन्येष्व् अपि सम्भवेयुः, तथापि यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आदि न्यायेन सर्वेषाम् एषां गुणानां भगवद्-भक्तिष्व् एव सम्यग्-वृत्तेः । किं वा, भगवद्-भक्तानां शुद्ध-सात्त्विकतया तेष्व् एव निष्ठा-व्याप्त्या तैर् गुणैर् भगवद्-भक्तत्वं बोध्यते इति दिक् । एवम् अग्रेऽप्य् ऊह्यम् ॥२९-३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतह् साधन-तारतम्येन साधूनां तारतम्यम् आह पञ्चभिः । तत्रावरं मिश्र-भक्तेः [कर्माकारायाः ज्ञानाकारायाः वा] साधकम् आह—कृपालुर् इति त्रिकेण । अत्र मच्-छरण इति विशेष्यम् । उत्तरत्र स च सत्तम इति च-कारेण तु पूर्वोक्तो यथा सत्तमः तथायम् अपि सत्तम इति व्यक्तिर् एवम् एवम्भूतो मच्-छरणः सत्तम इत्य् आक्षिप्यते । अन्यत् तैः तत्र स्थिरः स्वधर्मे इति स्वकान् धर्मान् सन्त्यज्य इत्य् उत्तरोक्ताद् भिन्नत्वापादनार्थम् । अत्रैव मूले सर्वान् इति पदेन कोऽपि न त्यक्तः । अस्तु तावद् विरुद्धानां [धर्माणां] वार्तेति भावः ॥२९-३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-ज्ञानादि-मिश्रा, केवला चेति मद्-भक्तेर् द्वैविध्यात् तत्-प्रवर्तकः साधुर् अपि द्विविधस् तत्र प्रथमम् आह कृपालुर् इति त्रिभिः । कृपालुः पर-संसार-दुःखासहिष्णुः । स्वद्रोहिण्य् अपि जने अकृत-द्रोहःसर्व-देहिनाम् स्वन् अवजानताम् अपि तितिक्षुर् अपराध-क्षमन्ता । सत्यम् एव सारो बलं यस्य सः । अनवद्यात्मा असूयादि-दोष-रहितः । समः सुख-दुःखाभ्यां मानापमानाभ्यां च तुल्यः । सर्वोपकारकः सर्वेषां हित-कारी सुहृत् । कामैर् अक्षुभित-चित्तः। दान्तः संयत-बाह्येन्द्रियः । मृदुर् अकठोर-चित्तः । शुचिः सद्-आचारः । अकिञ्चनः अपरिग्रहः । अनीहः व्यवहारिक-क्रिया-शून्यः। मित-भुक् पवित्र-लघ्व्-आहारः । शान्तः शान्ति-रतिमान् । स्थिरः स्व-धर्मे स्व-कृत्येषु फलोदय-पर्यन्तम् अव्यग्रः । आ-फलोदय-कृतः स्थिर इति तल्-लक्षणात् । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः सावधानः । गभीरात्मा अन्यैर् दुरवगाह-स्वभावः । धृतिमाञ् निर्विकारः । जित-षड्-गुणः क्षुत्-पिपासाद्य्-ऊर्मि-रहितः । अमानी मानाकाङ्क्षा-शून्यः । अन्येभ्यो मान-प्रदःकल्यः पर-बोधने दक्षः । मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानः । कविर् बद्ध-मोक्ष-ज्ञः । इत्य् अष्ट-विंशति-गुणवान् अयं सत्तमः इत्य् उत्तरस्यानुषङ्गः ।

अत्र शान्त इति जित-षड्-गुण इति पदाभ्याम् अयं सिद्ध-भक्तो निर्वाण-वाञ्छा-शून्यत्वात् भक्तात्मारामः शान्त-भक्त इति संज्ञाभ्याम् उच्यते । अयं स्व-पूर्व-दशायां ज्ञान-मिश्र-भक्तिमान् । तत्-पूर्व-दशायां कर्म-मिश्र-भक्तिमान् आसीद् अतस् तदा तद् आस्य भक्तेः प्राधान्यं सिद्धि-दशायां तु कर्म-ज्ञानाद्य्-अनावरणाच् छुद्ध-भक्त एवायम् उच्यते इत्य् अतः सत्तम इति ज्ञान-मिश्र-भक्तिमान् सत्तरः, कर्म-मिश्र-भक्तिमान् सन्न् इत्य् अवगम्यते । अतोऽयं स्व-सङ्गिनं स्व-तुल्यं चिकीर्षुः । प्रथमं कर्म-मिश्रां भक्तिम् उपदिशति, ततस् तेनोपदिष्टः स च निष्कामः । कर्म-मिश्राम् एव भक्तिं कुर्वन् । न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते हि सः इति न्यायेनारूढ-दशायाम् अनादृतत्वात् स्वत एवकर्मणाम् उपरामे सति ज्ञान-मिश्रां भक्तिं लभते । ततस् तत्-पादक-दशायां भक्तेः प्राबल्ये सति ज्ञानेऽप्य् अनादृतत्वाद् उपारमत् प्राये सति भक्तात्माराम इति शान्त-भक्त इति संज्ञाभ्यां सदाप्य् उच्यमानो भवति तस्य ज्ञानेऽनादरो यथा भक्ति-रसामृत-सिन्धु-धृता तद्-उक्तिः –

अस्मिन् सुख-घन-मूर्तौ
परमात्मनि वृष्णि-पत्तने स्फुरति
आत्मारामतया मे
वृथा गतो बत चिरं कालः ॥ [भ।र।सि। ३.१.३४] इति ।

हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः [भा।पु। १.७.११] इति ।

प्रथमे च तद्-दशायां भक्ति-बाधितस्य ज्ञानस्य सत्त्वेऽपि तस्य भक्त्य्-अनावरकत्वात् –

अन्याभिलाषिता‑शून्यं ज्ञान‑कर्माद्य्‑अनावृतम् ।
आनुकूल्येन कृष्णानु‑शीलनं भक्तिर् उत्तमा ॥ [भ।र।सि। १.१.११]

इति शुद्ध-भक्ति-लक्षणस्य तत्र नाव्याप्तिर् ज्ञेया ॥२९-३१ ॥

———————————————————————————————————————

॥ ११.११.३२ ॥

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः ॥

(मां भजेत् स च सत्तमः (जीव गोस्वामी\ऽस् रेअदिन्ग्), ओथेर्स् हवे तु इन् थे प्लचे ओफ़् च।)

श्रीधर-स्वामी (भावार्थ-दीपिका) :
किं च, मया वेद-रूपेण आदिष्टान् अपि स्व-धर्मान् सन्त्यज्य
यो मां भजेत
सोऽप्य् एवं पूर्वोक्तवत् सत्तमः
किम् अज्ञानात् ? नास्तिक्याद् वा ? न,
धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान्,
विपक्षे नरक-पातादीन् दोषांश् चाज्ञाय ज्ञात्वापि
मद्-ध्यान-विक्षेपकतया मद्-भक्त्यैव सर्वं भविष्यतीति
दृढ-निश्चयेनैव धर्मान् सन्त्यज्य ।
यद् वा, भक्ति-दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य ।
अथवा, विद्धैकादश्य्-उपवास-कृष्णैकादश्य्-अनुपवासानिवेद्य-श्राद्धादयो
ये भक्ति-विरुद्धा धर्माः,
तान् सन्त्यजेत्य् अर्थः ॥३२॥

सनातन-गोस्वामी [ह।भ।वि। १०.६२] सा च सर्व-नैरापेक्ष्येण तद्-एक-निष्ठता-रूपा एकान्तिता चतुर्धा चतुर्भिः प्रकारैः—एको धर्मानादरः, अन्यश् च कर्म-ज्ञानाद्य्-अशेष-निरपेक्षता, अपरो विघ्न-मूलत्वेऽपि रति-परता, अपरश् च प्रेमैक-परतेति । तत्र धर्मानादरेणैकान्तितां लिखति—आज्ञायैवम् इति । मया वेद-रूपेणादिष्टान् स्व-धर्मान् सन्त्यज्य सम्यक् त्यक्त्वा यो मां भजेत, त्व्-अर्थे च-कारः, स तु सत्तमः, पूर्वोक्त-साधुतः श्रेष्ठ इत्य् अर्थः । किम् अज्ञानात्, नास्तिक्याद् वा ? न, धर्माचरणे एवम् ईदृशान् कृपालुतादि-सदृशान् सत्त्व-शुद्ध्य्-आदीन् गुणान्, विपक्षे दोषांश्आज्ञाय सम्यक् ज्ञात्वापि मद्-भक्त्यैव सर्वं भविष्यतीति दृढ-निश्चयेनैव सर्व-धर्मान् मन्-निष्ठता-विक्षेपकतया सन्त्यज्येत्य् अर्थः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मध्यमं मिश्र-साक्षाद्-भक्ति-साधकम् आह—आज्ञायैवम् इति । भक्ति-दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य इत्य्-अन्ता टीका ग्राह्या । तथा च हायशीर्ष-पञ्चरात्रोक्त-नारायण-व्यूह-स्तवे—

ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः ।

ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ इति ।

व्यक्त्यानन्य-भक्तस्य पूर्वत आधिक्यं दर्शितम् ।

अत्र त्व् एवं व्याख्या—यदि च स्वात्मनि तत्-तद्-गुण-योगाभावः, तथाप्य् एवं पूर्वोक्त-प्रकारेण गुणान् कृपालुत्वादीन् दोषांस् तद्-विपरीतांश् चाज्ञाय हेयोपादेयत्वेन निश्चित्यापि,यो मया तेषु गुणेषु मध्ये तत्र आदिष्टानपि स्वकान् नित्य-नैमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-विहितान् धर्मान् तद्-उपलक्षणं ज्ञानम् अपि मद्-अनन्य-भक्ति-विघातकतया सन्त्यज्य मां भजेत्, स च सत्तमः । च-कारात् पूर्वोक्तोऽपि सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यं बोधयति । ततो यस् तु तत्-तद्-गुणान् लब्ध्वा धर्म-ज्ञान-परित्यागेन मां भजति केवलं, स तु परम-सत्तम एवेति व्यक्त्य्-अनन्य -भक्तस्य पूर्वत आधिक्यं दर्शितम् ।

अत्र [मिश्र-भक्तेर् अवर-साधकत्व निरूपणे] अद्वेष्टा सर्व-भूतानां [गीता १२.१२] इत्य्-आदि श्री-गीता-द्वादशाध्याय-प्रकरणम् अप्य् अनुसन्धेयम् । सत्तम इत्य् अनेन तद् अवरत्रापि [अवर-साधकत्वेऽपि] सत्तरत्वं सत्त्वम् अप्य् अस्तीति दर्शितम् । अस्तु तावत् सदाचारस्य तद्-भक्तस्य सत्त्वम् । अनन्य-देवता-भक्तत्व-मात्रेणापि दुराचारस्यापि सत्त्वान्य-पर्यायं साधुत्वं विधीयते,अपि चेत् सुदुराचारः [गीता ९.३०] इत्य्-आदौ । अत्र च साधु-सङ्ग-प्रस्तावे यत् तादृशं लक्षणं नोत्थापितं, तत् खलु तादृश-सङ्गस्य भक्त्य्-उन्मुखत्वे [भक्त्य्-उन्मुख-जनने]ऽनुपयुक्तताभिप्रायेण । यथोक्तं श्री-प्रह्लादेन— सङ्गेन साधु-भक्तानाम् [भा।पु। ७.७.२५] इति । साधुर् अत्र सद्-आचारः ॥३२॥ [भक्ति-सन्दर्भ २००]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ केवलाया भक्तेः प्रवर्तकं साधुं लक्षयति आज्ञाय इति । यथा धर्मान् नैव सन्त्यज्य सत्तम उक्तः ।
एवं मया वेद-रूपेणादिष्टान् अपि सर्वान् सन्त्यज्य
मद्-भक्ताव् एव श्रद्धा-विशेषवत्तया सम्यक्-प्रकारेणैव त्यक्त्वा यो मां भजेत्, किम् अज्ञानान् नास्तिक्याद् वा ? न, धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान्, विपक्षे दोषांश् च आज्ञाय सम्यग् एव ज्ञात्वापि, भक्त्यैव मे सर्वं भविष्यतीति दृढ-निश्चयेनैव । धर्मान् सन्त्यज्येति स्वामि-चरणाः । स च सत्तम इति पूर्वाधिकारी धर्मान् न सन्त्यज्य भजेद् अयं तु सन्त्यज्यैवेति भेदः । तथा पूर्वः कृपालुत्वादि सम्पूर्ण-गुणवान् एव सत्तमः । अयं तु विशेषणान्तरानुपादानात् तावत् सङ्ख्यक-गुणवत्त्वाभावेऽपि सत्तमः । न चास्य तावद्-गुणाभाव एवेत्य् आशङ्कनीयम् ।

भक्तिः परेशानुभवो विरक्तिर्

अन्यत्र चैष त्रिक एक-कालः [भा।पु। ११.२.४२] इति ।

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना

सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य्-आदि ।

श्रवणादि-चिरेणैव सर्व-दोषोपशम-पूर्वक-सर्व-गुणत्वात् सिद्ध-दशावस्थ एव सत्तमः । अयं तु तादृशत्वायुक्तेः साधक-दशावस्थोऽपि सत्तमः । इत्य् अस्य पूर्वत एतावान् व्यञ्जित उत्कर्षः प्रथमत एव शुद्ध-भक्ति-मत्त्वाज् ज्ञेयः ॥३२॥

———————————————————————————————————————

॥ ११.११.३३ ॥

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः ।

भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यावान् देश-कालापरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्दादि-रूपः । तं मां ज्ञात्वा अज्ञात्वापि । यद् वा, विशेषतः पुनः पुनर् ज्ञात्वा एकान्त-भावेन ये भजन्तीति ॥३३॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२४, ६१] यावान् देश-कालापरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्दादि-रूपः । तं मां ज्ञात्वा अज्ञात्वापि । यद् वा, विशेषतः पुनः पुनर् ज्ञात्वा एकान्त-भावेन ये भजन्तीति । यदि चैवं व्याख्येयम्, यावान् नित्य-कैशोरादि-रूपः, यश् च श्री-देवकी-नन्दन-यशोदा-वत्सलेत्य्-आदि-रूपो यादृशः सहज-परम-सौन्दार्य-गुण-लीला-रस-विशेषाश्रयः । अन्यत् समानम् ।

भावः प्रेम्ण एव पूर्वावस्था, तत्रापीश्वर-दृष्ट्या भय-गौरवादिना विशुद्धत्वाभावाद् विशुद्ध-परम-पुरुषार्थ-रूप-प्रेम्णो न्यूनः । अत एव श्री-स्वामि-पादैश् च तद्-व्याख्यातं सर्व-लक्षण-सारम् आहेति । यद् वा, प्रथमं ज्ञात्वा अथानन्तरम् अज्ञात्वा भक्ति-परिपाकेनानुसन्धायेति । यद् वा, अप्य्-अर्थे अथ-शब्दः । ज्ञात्वा त्व् अज्ञात्वापि केवलम् एकान्तित्वेन ये भजन्ति परिचरन्त्य् एव, तदा प्रेम-परतादौ पद्यम् एतद् द्रष्टव्यम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् ईश्वर-बुद्ध्या विधि-मार्ग-भक्तयोः [अनन्य-शरणागत-मात्र-भक्तस्य तथा स्व-धर्म-ज्ञान-परित्याग-पूर्वक-भगवद्-भजन-मात्र-रत-भक्तस्य चेत्य् एतयोस्] तारतम्यम् उक्तम् । तत्रैवोत्तरस्यानन्यत्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चन-मार्गे त्रिविधत्वं लभ्यते पाद्मोत्तर-खण्डात् । तत्र महत्त्वं—

तापादि-पञ्च-संस्कारी नवेज्या-कर्म-कारकः ।

अर्थ-पञ्चक-विद् विप्रो महा-भागवतः स्मृतः ॥ [६.२५३.२७] ।

इत्य्-आदौ ज्ञेयम् असिद्ध-प्रीतित्वात् । अत्र तापादि-पञ्च-संस्कारित्वं—

तापं पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः ।

अमी पञ्चैव संस्काराः परमैकान्ति-हेतवः ॥

इत्य्-आदिना तत्रैव दर्शितम् । नवेज्या-कर्म-कारकत्वं चानेन वचनेन दृश्यते—

अर्चनं मन्त्र-पठनं योगो यागो हि वन्दनम् ।

नाम-सङ्कीर्तनं सेवा तच्-चिह्नेर् अङ्कनं तथा ॥

तदीयाराधनं चेज्या नवधा भिद्यते शुभे ।

नव-कर्म-विधानेज्या विप्राणां सततं स्मृता ॥ इति ।

अर्थ-पञ्चक-वित्त्वं तु—उपास्यः श्री-भगवान्, तत्-परमं-पदं, तद्-द्रव्यं, तन्-मन्त्रः, जीवात्मा चेति पञ्च-तत्त्व-ज्ञातृत्वम् । तच् च श्री-हायशीर्षे विवृतं सङ्क्षिप्य लिख्यते—

एक एवेश्वरः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।

पुण्डरीक-विशालाक्षः कृष्ण-च्छुरित-मूर्धजः ॥

वैकुण्ठाधिपतिर् देव्या लीलया चित्-स्वरूपया ।

स्वर्ण-कान्त्या विशालाक्ष्या स्वभावाद् गाढम् आश्रितः ॥

नित्यः सर्व-गतः पूर्णो व्यापकः सर्व-कारणम् ।

वेद-गुह्यो गभीरात्मा नाना-शक्त्योदयो नव1 ॥इत्य्-आदि ।

स्थान-तत्त्वम् अतो वक्ष्ये प्रकृतेः परम् अव्ययम् ।

शुद्ध-सत्त्व-मयं सूर्य-चन्द्र-कोटि-सम-प्रभम् ॥

चिन्तामणि-मयं साक्षात् सच्-चिद्-आनन्द-लक्षणम् ।

आधारं सर्व-भूतानां सर्व-प्रलय-वर्जितम् ॥ इत्य्-आदि ।

द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।

सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥

भवन्ति तादृशा वल्ल्यस् तद्-भवं चापि तादृशम् ।

गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ॥

हेयांशानाम् अभावाच् च रस-रूपं भवेद् धि तत् ।

त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ॥

सर्वं तद् भौतिकं विद्धि न ह्य् अभूतमयं च तत् ।

रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद् भवेत् ॥

तस्मात् साध्यो रसो ब्रह्मन् रसः स्याद् व्यापकः परः ।

रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।

वाच्यत्वं वाचकत्वं च देव-तन्-मन्त्रयोर् इह ।

अभेदेनोच्यते ब्रह्मंस् तत्त्वविद्भिर् विचारितः ॥ इत्य्-आदि ।

मरुत्-सागर-संयोगे तरङ्गात् कणिका यथा ।

जायन्ते तत्-स्वरूपाश् च तद्-उपाधि-समावृताः ॥

आश्लेषाद् उभयोस् तद्वद् आत्मनश् च सहस्रशः ।

सञ्जाताः सर्वतो ब्रह्मन् मूर्तामूर्त-स्वरूपतः ॥ इत्य् आद्य् अपि ।

अत्र मध्यमत्वम्—तापं पुण्ड्रं इत्य् अत्र ।

कनिष्ठत्वं च—

शङ्ख-चक्राद्य्-ऊर्ध्व-पुण्ड्र-धारणाद्य्-आत्म-लक्षणम् ।

तन्-नमस्करणं चैव वैष्णवत्वम् इहोच्यते ॥ इत्य् अत्र ।

किं च श्री-भगवद्-आविर्भावादिषु स्व-स्वोपासना-शास्त्रानुसारेणापरोऽपि विशेषः कश्चिज् ज्ञेयः।

जीव-निरूपणं चेदम्—न घटत उद्भवः [भा।पु। १०.८७.३१] इत्य् आद्य्-अनुसारेणोपाधि-सहितम् एव कृतम् । निरुपाधिकं तु—

विष्णु-शक्तिः परा प्रोक्ता

क्षेत्रज्ञाख्या तथापरा ।

अविद्या-कर्म-संज्ञान्या

तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६१] इति विष्णु-पुराणानुसारेण ।

तथा—

अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता ७.५] इति ।

ममैवांशो जीव-लोके जीव-भूतः सनातन-गोस्वामी : गीता १५.७] इति च गीतानुसारेण । तथा—

यत् तटस्थं तु चिद्-रूपं

स्व-संवेद्याद् विनिर्गतम् ।

रञ्जितं गुण-रागेण

स जीव इति कथ्यते ॥ इति श्री-नारद-पञ्चरात्रानुसारेण ज्ञेयम् ॥

अथ शुद्ध-दास्य-सख्यादि-भाव-मात्रेण योऽनन्यः स तु सर्वोत्तम इत्य् आह—ज्ञात्वेति । टीका च—यावान् देश-कालाद्य्-अपरिच्छिन्नः । यश् च सर्वात्मा । यादृशः सच्चिदानन्द-रूपः इत्य् एषा । तं मां ज्ञात्वाज्ञात्वा वा ये केवलम् अनन्य-भावेन श्री-व्रज-राज-नन्दनाद्य्-आलम्बनो यः स्वभीप्सितो दास्यादीनाम् एकतरो भावोऽभिमानस् तेनैव भजन्ति, न कदाचिद् अन्येनेत्य् अर्थः, ते तु मया भक्ततमा मताः । अत्र साधुस् तव [११.११.२६] इत्य् आद्य्-अनुसारेण, “ते मे भक्ततमा मताः” इत्य् अन्तिमस्यैव स्व-मतस्यातिशयो दर्शितः । अत एव श्री-योगेश्वरैर् अपि चतुर्थे प्रार्थितम्—प्रेयान् न तेऽन्यः [भा।पु। ४.७.३८] इति ।

“ज्ञात्वाज्ञात्वा” इत्य् अत्र ज्ञानाज्ञानयोर् हेयोपादेयत्वं निषिद्धम् । भक्ततमा इत्य् अत्र पूर्व-वाक्य-स्थं [सत्तम इति पद-स्थितं] सत्-पद-निर्देशम् अतिक्रम्य विशेषतो भक्त-पद-निर्देशाद् भक्तेः स्वरूपाधिक्यम् अत्रैव विवक्षितम् । ते मे मता इत्य् अत्र मम तु विशिष्टा सम्मतिर् अत्रैवेति सूचितम् ईदृशानुक्त-चरत्वात् । अत एव प्रकरण-प्राप्तिम् एक-वचन-निर्देशम् अप्य् अतिक्रम्य गौरवेणैव ये त इति बहु-वचनं निर्दिष्टम् । ततः किम् उत तद्-भाव-सिद्ध-प्रेमाण इति भावः ॥३३॥ [भक्ति-सन्दर्भ २०१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयं सिद्ध-दशावस्थत्वे तु परम-महोत्कृष्ट एवोच्यते इत्य् आह—ज्ञात्वाज्ञात्वेति । वीप्सा भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति मद्-उक्तेर् भक्ति-तारतम्येन मन्-माधुर्यम् अधिकं प्रतिक्षणम् अनुभव-गोचरीकृत्येत्य् अर्थः । यावान् काल-देशाभ्याम् अपरिच्छिन्नोऽप्य् अहं भक्तेच्छा-वशात् परिच्छिन्नश् च । यश् च साक्षात् पर-ब्रह्माप्य् अहं श्यामसुन्दराकारो वसुदेव-पुत्रश् च, यादृश आत्माराम आप्त-कामोऽप्य् अहं भक्त-प्रेम-वैवश्याद् अनात्मारामोऽनाप्त-कामश् च । अनन्य-भावेन ऐकान्तिकत्वेन अनन्य-ममताकत्वेनेति वा ते इति गौरवेण बहुत्वम् । भक्ततमा मता इति पूर्वोक्त-लक्षणः सत्तम एव मया मद्-भक्त-शब्देनोच्यते । अयं तु मे भक्ततमो मया संमत इत्य् अर्थः ॥३३॥

———————————————————————————————————————

॥ ११.११.३४-४१ ॥

मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् ।

परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥

मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव ।

सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥

मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् ।

गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥

यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु ।

वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥

ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।

उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि ॥

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः ।

गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥

अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् ।

अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥

यद् यद् इष्टतमं लोके यच् चातिप्रियम् आत्मनः ।

तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : साधु-लक्षणम् उक्तम्, भक्तेर् लक्षणम् आह—मल्-लिङ्गेत्य् अष्टभिः । लिङ्गानि प्रतिमादीनि । सर्व-लभोपहरणं सर्वस्य लब्धस्य समर्पणम् । पर्वाणि जन्माष्टम्य्-आदीनि तद्-अनुमोदनम् । बलि-विधानं पुष्पोपहारादि-समर्पणम् । सर्व-वार्षिक-पर्वसु चातुर्मास्यैकादशादिषु विशेषतः । उद्यानादिकरणे सामर्थ्ये सति स्वतः । असति चान्यैः संभूयोद्यमः । उद्यानं पुष्प-प्रधानम् । उपवनं फल-प्रधानं वनम् । आक्रीडं क्रीडा-स्थानम् । संमार्जनं रजसोपाकरणम् । उपलेपो गो-मयादिभिर् आलेपनम् । सेकस् तैर् एव प्रोक्षणम् । मण्डल-वर्तनं सर्वतोभद्रादि-करणम् । मह्यं मम ॥३४-३९॥

कृतस्य धर्मस्यापरि-कीर्तनम् । स्वयम् अन्येन वा निवेदितं न स्वीकुर्यात् । एतच् च साधारणं स्थावर-विषयं राग-प्राप्त-विषयं वा । भक्त्या तु ग्राह्यम् एव ।

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् ।

विष्णोर् नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥

हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।

पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य्-आदि वचनेभ्यः ।

यद् वा, अन्यस्मै निवेदितं मे नोपयुञ्ज्यात् । मह्यं न निवेदयेद् इत्य् अर्थः—

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् ।

पितृभ्यश् चैव तद् देयं तद् आनन्त्याय कल्पते ।

पितृ-शेषं तु यो दद्याद् धरये परमात्मने ।

रेतोधाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ इत्य्-आदि वचनेभ्यः ॥४०॥


कैवल्य-दीपिका : मल्-लिङ्गेति मल्-लिङ्गानि ये मद्-भक्तास् तेषां दर्शनादि-त्रयम् । येषां दर्शनाद् अहं स्फुरामीति ते तथा यत्र-श्रुते च लिङ्गं मद्-भक्त-विषयत्वेन दर्शनादेः षट्त्वाच् चतुर्विंशतित्वानुपपत्तिः । परिचर्या पुष्प-गुम्फनादि । प्रह्वो नम्रता ॥३०॥ अनु अनुवृत्त्या ॥३१॥ पर्व जन्माष्टम्य्-आदि ॥३२॥ यात्रा द्वारकादि-गमनम् । बलि-विधानं पुष्पोपहारादि वार्षिक-पर्वस्व् इति विशेष-निर्देशः । तत्र फलाधिक्याद् इत्य् अर्थः । तन्त्रं पञ्चरात्रम् । व्रतं देवतार्चनादि-नियमः ॥३३॥ मम प्रतिमा-स्थापने उद्यानादि-करणे च श्रद्धा उद्यमश् च असामर्थ्य् तु संहृत्य मिलित्वा उद्यानं पुष्पाणाम् । उपवनं तु फलानाम् । आक्रीडं जलादि-क्रीडा-थानम् ॥३४॥

सम्मार्जनम् अवकर-निरसनम् । उपलेपो गोमयादिना । सेको जल-सेचनम् । मण्डल-वर्त्तनं चतुष्करङ्ग-मालिकादि वा एतैर् एवाकपटेन गृह-शुश्रूषणम् ॥३५॥

मानो दर्पः । दम्भः पर-वञ्चनम् । यत्रापि-शब्दस् ततोऽन्यत्र तात्पर्यम् । यथा—अश्नीयाद् विषम् अप्य् उग्रं ब्रह्मस्वं तु न कर्हिचित् इत्य्-आदौ अतो दीपावलोकम् अपीत्य् अस्य देवाय स्वयम् । अन्येन दत्तं वस्तु-देवोपभोगम् आच्छिद्य नोपयुञ्जीतेत्य् अत्र तात्पर्यम् । प्रसाद-बुद्ध्या निवेदितं गृह्णीयात् । अन्यथा—निर्माल्यं शिरसा धार्यं नैवेद्यम् उदरे हरेः ॥

त्वयोपभुक्त-स्रग्-गन्ध- वासो-\ऽलङ्कार-चर्चिताः ।

उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ [भा।पु। ११.६.४६]

इत्य् आदिषु वाक्य-विरोधो दीपावलोक-दोष-परिहारार्थं देवस्याग्रे वत्ति-द्वयेन दीपः कार्यः ॥३६॥ सर्व-लाभार्पणस्य फलम् आह—यद् यद् इति । इष्टं धर्म-साधनम् । श्री-कृष्ण उद्धवम् ॥३४-४१॥ [मु।फ। ७.३०-३७]


सनातन-गोस्वामी : [ह।भ।वि। १०.५०६-५११] कृपालुर् [भा।पु। ११.११.२९-३३] इत्य्-आदिभिः पञ्चभिः श्लोकैः साधु-लक्षणम् उक्त्वा, इदानीं भक्तेर् लक्षणम् आह—मल्-लिङ्गेत्य् अष्टभिः । लिङ्गानि प्रतिमादीनि । मल्-लिङ्ग-मद्-भक्त-जनानां एव परिचर्यादि । तत्र प्रह्वो नमस्कारः । पर्वाणि जन्माष्टम्य्-आदीनि तद्-अनुमोदनम् । बलि-विधानं पुष्पोपहारादि-समर्पणम् । सर्व-वार्षिक-पर्वस्व् इति चातुर्मास्यैकादशादिषु विशेषत इत्य् अर्थः । उद्यानादिकरणे सामर्थ्ये सति स्वतः । असति चान्यैः सम्भूय चोद्यमः । उद्यानं पुष्प-प्रधानम्, उपवनं फल-प्रधानं वनम् । आक्रीडं क्रीडा-स्थानम् । संमार्जनं रजसोपाकरणम् । उपलेपो गो-मयोदकादिभिर् आलेपनम् । सेकस् तैर् एव प्रोक्षणम् । मण्डल-वर्तनं सर्वतोभद्रादि-करणम् । मह्यं मम ॥३४-३९॥


सनातन-गोस्वामी : [ह।भ।वि। ४.७] संमार्जनं रजसोऽपाकरणम् । उपलेपः गोमयोदकादिभिर् आलेपनम् । सेकः तैर् एव प्रोक्षणं । मण्डल-वर्तनं सर्वतो-भद्रादि-रचनम् । मह्यं मम गृह-शुश्रूषणम् आलय-संस्कारः ॥७॥


सनातन-गोस्वामी : [ह।भ।वि। १०.५१२-५१३] कृतस्य धर्मस्यापरि-कीर्तनम् । स्वयम् अन्येन वा निवेदितं न स्वीकुर्यात् । एतच् च साधारणं स्थावर-विषयं राग-प्राप्त-विषयं वा भक्त्या तु ग्राह्यम् एव ।

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् ।

विष्णोर् नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥

हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।

पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य्-आदि वचनेभ्यः ।

यद् वा, अन्यस्मै निवेदितं मे नोपयुञ्ज्यात्, मह्यं न निवेदयेद् इत्य् अर्थः—

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् ।

पितृभ्यश् चैव तद् देयं तद् आनन्त्याय कल्पते ।

पितृ-शेषं तु यो दद्याद् धरये परमात्मने ।

रेतोधाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ इत्य्-आदि वचनेभ्यः ।

यद् वा, पूर्वं मे निवेदितं सन्तं पुनर् न निवेदयेद् इत्य् अर्थः । एतच् च स्थावरातिरिक्त-निर्माल्य-विषयकं ज्ञेयं, भूषणादीनां पुनर् अर्पणे दोषाभावात्, स च पूर्वम् एव तत्-तत्-प्रकरणे लिखितोऽस्ति [हरि-भक्ति-विलासे द्रष्टव्यम्] । आनन्त्याय श्री-विष्णु-लोकाय । मल्-लिङ्गेत्य् आदिषु चात्र भक्तेर् अङ्गान्य् एव प्रायेणोक्तानि । तत्र कानिचिन् मुख्यानि कानिचिद् अमुख्यानि च । अमानित्वम् इत्य् आदौ च साधनान्य् एवेति विवेचनीयम् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद् यद् इति च-कारान् मम प्रियं च ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं भक्तिस् त्वयि कीदृश्य् उपयुक्तेति तत्राह मल्-लिङ्ग-मद्-भक्त-जनेत्य् अत्र षष्ठी-लुग् आर्षः उत्तरार्धेऽप्य् अन्वयात् । प्रह्वेति प्रह्वत्वं नमस्कारः । सर्व-लोभोपहरणं भगवतैव स्व-सेवार्थं स्वयम् आनीतम् इति बुद्ध्या सर्वस्य लब्ध-वस्तुनो ममतास्पदस्य तस्मै समर्पणं । दास्येन हेतुना आत्मनो जीवस्य देहस्य चाहन्तास्पदस्यापि समर्पणम् । जन्म-कर्म-कथनम् इति । अनुकीर्तन-कथनयो राग-स्वर-तालादि-युक्तत्वाभ्यां भेदो ज्ञेयः । पर्वाणि जन्माष्टम्य्-आदीनि तेषाम् अनुमोदनम् एवाह द्वाभ्यां गीतादिभिः । मद्-गृहाधिकरणक उत्सवः ।

सर्वेषु वार्षिकेषु वत्सर-सम्बन्धिषु पर्वसु फाल्गुन-पूर्णिमादिषु या दोलादि-यात्रास् तासु बलि-विधानं विविध-वस्त्रालङ्कार-मिष्टान्न-स्रक्-चन्दन-पुष्पादि-पूजोपहार-करणं व्रतान्य् एकादश्य्-आदीनि । अर्चा प्रतिमा उद्यानादि-करणे सामर्थ्ये सति स्वत एव असति अन्यैः सम्भूयाप्य् उद्यमः । आक्रीडं क्रीडा-स्थानं पुरं चक्र-वेष्टनम् । संमार्जनं तृण-धूल्य्-आद्य्-अपसारणं प्रथमं गोमय-मृज्-जलैर् उपलेपो, द्वितीयः स्थले शुष्के सति सेकः पुष्पोदकैस्, तृतीयः मण्डल-वर्तनं सर्वतोभद्रादि-निर्माणं, चतुर्थं तैर् मह्यं मम गृहस्य शुश्रूषणं सेवा । दासवत् लौकिकेन राजकीय-दासेन राज्ञो गृहस्य यथा यद् अन्यद् अपि तद् अपि तथेत्य् अर्थः ।

अमानित्वम् अनहङ्कारः । अदम्भित्वं लोके मिथ्या स्वभक्ति-ख्यापन-राहित्यम् । मे मह्यं निवेदितं दीपावलोकम् अपि नोपयुञ्ज्यात् । मह्यं दत्तस्यान्नादेर् दीपस्य च स्व-व्यवहार-मात्रे उपयोगो न कर्तव्य इत्य् अर्थः । किन्तु परमार्थ-सिद्ध्य्-अर्थं वैष्णवेभ्यो दत्त्वा स्वयम् उपभुञ्जीतैवेत्य् अर्थः ।

षड्भिर् मासोपवासैश् च यत् फलं परिकीर्तितम् ।

विष्णु-नैवेद्य-सिक्थेन पुण्यं तद् भुञ्जतां कलौ ॥

हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः ।

पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ इत्य्-आदि वचनेभ्यः ।

लोके शास्त्रे च यद् इष्टतमं तन् मह्यं निवेदयेत् । तेन दर्भ-मञ्जर्य्-आदीनि शास्त्र-विहितान्य् अपि लोके इष्टतमत्वाभावान् न निवेदयेद् इति भावः । तत्रापि यच् च आत्मनः स्वस्यातिप्रियं तत् तु विशेषतो निवेदनीयम् इत्य् अर्थः ॥३४-४१ ॥

———————————————————————————————————————

॥ ११.११.४२-४३ ॥

सूर्योऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।

भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।

आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्व-देवोत्तमो वायुर् इति ज्ञानान् न चापरम् ।

प्रियम् अस्ति हरेः किञ्चित् तथा वायोर् हरेर् विदः ॥

भारती वायु-लक्ष्मीणाम् आत्मनश् च यथा क्रमम् ।

आधिक्य-ज्ञानतो विष्णुः सर्वतः सत्-प्रसीदति ॥ इति माहात्म्ये ।

वायुर् भीमो भीम-नादो महौजाः

सर्वेषां च प्राणिनां प्राण-भूतः ।

नाना-वृत्तिर् देहिनां देह-भेदे

तस्माद् वायुर् देव-देवो विशिष्ट ॥ [म।भा। १२.२५०.३९] इति मोक्ष-धर्मेषु ।

तस्माद् वायुर् व्याष्टिर् वायुः समष्टिर् अथ पुनर् मृत्युं जयति य एवं वेदेति च ॥

पञ्च-भूत-मनो-बुद्धि-रुद्राणां प्रति देहकम् ।

बाह्यतश् चापि नेतृत्वाद् वायुर् व्यष्टि समष्टि कः ॥ इति प्रभञ्जने ॥४२-४४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीम् एकादश पूजाधिष्ठानान्य् आह—सूर्य इति । हे भद्र ! अधिष्ठान-भेदेन पूजा-साधनान्य् आह—सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैर् उपस्थानादिना । अङ्ग हे उद्धव । यवसादिना तृणादिना ॥४२-४३॥


सनातन-गोस्वामी : ह।भ।वि। ५.२५२-२५३] मे मम भद्राणि उत्तमानि पूजायाः पदानि अधिष्ठानानि । भद्रेति यन्त्राद्य्-अपेक्षया । यद् वा, हे भद्र हे कल्याण-रूपोद्धवेति पृथक् पदम् ॥४२॥

तत्रैवाधिष्ठान-भेदेन पूजा-साधन-भेदान् आह—सूर्ये त्व् इति त्रिभिः । त्रय्या विद्यया । सूक्तैर् उपस्थानादिना च । अङ्ग हे उद्धव ! ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं वा, सूर्य इति युग्मकम् । सूर्यान्तर्यामि-तोषणार्थं त्रयी-पठितव्येत्य् अर्थः । यथा तिथौ क्रियते तथैवाहरहश् च गृहागते विप्राग्र्ये कर्तव्यम् इत्य् अर्थः । विप्राग्र्यं तु भागवत-शास्त्राद् विचार्य विप्राद् द्वि-षड्गुण-युतात् [भा।पु। ७.९.१०] इत्य् आदेः, अन्यत्रादर-मात्रं कार्यम् इति ज्ञेयम् । वैष्णव इति विप्रत्वादि-रहितेऽपि तत्-सामान्येऽपि, न तु पूर्ववत् तद्-अग्र्य एवेत्य् अर्थः । वायोर् यत् सर्व-जीवन-हेतुत्वं, तत् तु तद्-अन्तर्यामि-शक्त्येति भावनयेत्य् अर्थः । स्वादिषु भूतेषु तेजसोऽनुक्तिः सूर्याग्निभ्यां चरितार्थत्वात् ॥४२-४३॥ [भक्ति-सन्दर्भ २९५]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वां कुत्र पूजयेद् इत्य् अपेक्षायाम् एकादश-पूजाधिष्ठानान्य् आह—सूर्य इति ॥४२॥ तत्र तत्राधिष्ठितं स्वेष्ट-देवं केन प्रकारेण पूजयेद् इत्य् अपेक्षायाम् आह—सूर्य इति त्रिभिः । त्रय्या विद्यया सूक्तैर् अपस्थान-नमस्कारादिना यवसादिना तृण-प्रदान-कण्डूयादिभिः ॥४३॥

———————————————————————————————————————

॥ ११.११.४४ ॥

वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।

वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्धु-सत्-कृत्या बन्धु-वत्-संमानेन । हृदि खे हृदयाकाशे । मुख्य-धिया प्राणदृष्ट्या । तोये तोयादिभिर् द्रव्यैस् तर्पणादिना ॥४४॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.३६४] वैष्णवेऽधिष्ठाने मत्-पूजनं च तस्मिन्न् एव बन्धुवत् सम्माननेत्य् अर्थः ॥४४॥


सनातन-गोस्वामी : [ह।भ।वि। ५.२५४] बन्धु-सत्-कृत्या बन्धु-सम्मानेन, मुख्य-धिया प्राण-दृष्ट्या । तोयादिभिर् द्रव्यैस् तर्पणादिना तोये ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अयं ममात्मा तद् अधिष्ठानम् इति बुद्ध्या भोगैर् इत्य्-आदि क्षेत्रज्ञम् अन्तर्यामि-रूपं मां समत्वेन सुख-दुःखयोः स्वयोः समत्व-दृट्या ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बन्धु-सत्-कृत्या स्वीय-बन्धाव् इवासक्ति-पूर्वक-संमानेन । हृदि खे हृदयाकाशे । ध्यानेन मुख्य-धिया प्राणोऽयं मुख्य इति बुद्ध्या । तोये द्रव्यैर् जल-पुष्प-तुलस्य्-आदिभिः ॥४४॥

———————————————————————————————————————

॥ ११.११.४५ ॥

स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।

क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वामिनि स्थो हरिः पूजा आत्मनाम् अशनादिकैः ।

तत्-सम्बन्धात्म-शब्दो जीवे स्याद् उपचारतः ॥ इत्य् आत्म-संहितायाम् ॥४५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्थण्डिले भुवि । मन्त्र-हृदयैः रहस्य-मन्त्र-न्यासैः ॥४५॥


सनातन-गोस्वामी : [ह।भ।वि। ५.२५५] स्थण्डिले भुवि । मन्त्र-हृदयैः रहस्य मन्त्र-न्यासैः । यद्यपि तत्-तत्-पूजायां गन्धादिकम् अपेक्षते, तथापि तत्र तत्र त्रयी-विद्यादीनां प्राधान्याभिप्रायेण तान्य् एवोक्तानि ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्थण्डिल इति भूमौ । अयं ममात्मा तद्-अधिष्ठानम् इति बुद्ध्या भोगैर् इत्य्-आदि क्षेत्रज्ञम् अन्तर्यामि-रूपं मां समत्वेन सुख-दुःखयोः स्व-समत्व-दृष्ट्या ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थण्डिले प्रलिप्त-संस्कृतायां भुवि । मन्त्र-हृदयैः रहस्य-मन्त्र-न्यासैर् आत्मनि देहे आत्मानं जीव-भोगैर् अयं ममात्मनि मत्-प्रभोर् अधिष्ठानम् इति बुद्ध्यैव दत्तैर् भोगैर्, न तु लोभेन । सर्व-भूतेषु क्षेत्रज्ञम् अन्तर्यामिनां यजेत ॥४५॥

———————————————————————————————————————

॥ ११.११.४६ ॥

धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।

युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वाधिष्ठानेषु ध्येयम् आह—धिष्ण्येष्व् इति । इत्य् अनेन मन्त्र-प्रकारेण । एषु धिष्ण्येषु ॥४६॥


सनातन-गोस्वामी : [ह।भ।वि। ५.२५६] सर्वाधिष्ठानेषु मध्ये ध्येयम् आह—धिष्ण्येष्व् इति । इति अनेनोक्त-प्रकारेण । एषु धिष्ण्येषु मद्-रूपम् एव ध्यायन्न् अर्चयेत् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : धिष्ण्येति । अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्य् अपि द्विधा गतिः एकाधिष्ठान-परिचर्ययैवाधिष्ठातुर् उपासना-लक्षणा मन्दिर-लेपनादिना तद्-अधिष्ठातृ-प्रतिष्ठाया इव यथा वैष्णवे बन्धु-सत्कृत्या गोष्व् अङ्ग-यवसादिनेत्य् आदि । यतो बन्धु-सत्कारो वैष्णव-विषयकः, ईश्वरे तु प्रभु-भाव उपदिश्यते—ईश्वरे तद्-अधीनेषु [भा।पु। ११.२.४६] इत्य् आदौ । तथा गो-सम्प्रदानकम् एव यवसादि-भोजन-दानं प्रयुज्यते, न तु श्री-चतुर्भुज-सम्प्रदानकम्, अभक्ष्यत्वात् । यद् यद् इष्टतमं लोके [भा।पु। ११.११.४१]इत्य्-आदि-पूर्वम् उक्तम् ।

अथान्या तु साक्षाद्-अधिष्ठातुर् उपासना-लक्षणा, यथा हृदि खे ध्यान-निष्ठया [भा।पु। ११.११.४४], तोये द्रव्यैस्तोय-पुरस्कृतैः [भा।पु। ११.११.४४] इत्य्-आदि । अत्राग्न्य्-आदौ तद्-अन्तर्यामि-रूपस्यैव चिन्तनं कार्यं, न जातु-निज-प्रेम-सेवा-विशेषाश्रय-स्वाभीष्ट-रूप-विशेषस्य । स तु सर्वथा परम-सुकुमारत्वादि-बुद्धि-जनितया प्रीत्यैव सेवनीयः । यथोक्तं श्री-भगवतैव वस्त्रोपवीताभरण [भा।पु। ३८.१६.३९] इत्य्-आदि । तेषां यथा भक्ति-रीतिः, परमेश्वरस्यापि तथा भावः2 श्रूयते । यथा नारदीये—

भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर ।

भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥

तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः ।

जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ [ना।प। २.३.३-४] इति ।

अत्रैष दृष्टान्त उपजीव्यः । वैपरीत्ये तु दोषश् च । यथा ग्रीष्मे जलस्य पूजा प्रशस्ता, वर्षासु निन्दिता । यद् उक्तं गारुडे—

शुचि-शुक्र-गते काले येऽर्चयिष्यन्ति केशवम् ।
जलस्थं विविधैः पुष्पैर् मुच्यन्ते यम-ताडनात् ॥

धनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् ।

ये जना नृपति-श्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति ।

एवम् अन्यत्रापि परिचर्या-विधौ तद्-देश-काल-सुखदानि शतशो विहितानि । तद्-विपरीतानि निषिद्धानि च । विष्णु-यामले— विष्णोः सर्व-र्तु-चर्याम् इति । अत एवोक्तं यद् यद् इष्टतमो लोके [भा।पु। ११.११.४०] इत्य्-आदि । तत्र तत्रेष्ट-मन्त्र-ध्यान-स्थलं च सर्वर्तु-मुख-मय-मनोहर-रूप-रस-गन्ध-स्पर्श-शब्द-मयत्वेनैव ध्यातुं विहितम् अस्ति । अन्यथा तत्-तद्-आग्रहस्य वैयर्थ्यं स्यात् । तस्माद् अग्न्य्-आदौ तत्-तद्-अन्तर्यामि-रूप एव भाव्य इति स्थितम् ॥ [भक्ति-सन्दर्भ २९५]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एषु इत्य् अनेन प्रकारेण एषु धिष्ण्येषु चतुर्भुजम् इति प्रायिकत्वेनोक्तम् । वस्तुतस् तु श्री-रामाद्य्-उपासका अपि स्व-स्व-मन्त्र-ध्येयं स्वरूपम् एव ॥४६॥

———————————————————————————————————————

॥ ११.११.४७ ॥

इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः ।

लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्ताया भक्तेः फलम् आह—इष्टा-पूर्तेनेति । सद्-भक्तिं दृढां भक्तिम् । अस्या भक्तेर् अन्तरङ्ग-साधनम् आह—इत्थं मत्-स्मृतिः साधु-सेवया भवति । यद् वा, स्मृतिर् ज्ञानम् । ततश् च दृढ-भक्ति-मतः पुंसः साधु-सेवया मज्-ज्ञानं भवतीत्य् अर्थः॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इष्टापूर्तेनेति । अत्रेष्ट-शब्देन सप्तम-स्कन्धोक्त-रीत्याग्निहोत्र-दर्शपौर्णमास-चातुर्मास्य-याग-पशु-याग-वैश्वदेव-बलिहरणान्य् उच्यन्ते । पूर्त-शब्देन सुरालयाराम-कूप-वापी-तडाग-प्रपान्न-सत्राण्य् उच्यन्ते । एवम् उक्त-प्रकारेणेष्टा-पूर्तेन यो मां यजेत स मत्-स्मृतिस् तत्र साधु-सेवया सतां प्रसङ्गेन सद्-भक्तिम् अन्तरङ्ग-भक्ति-निष्ठां प्राप्नोतीत्य् अर्थः । तत्राग्निहोत्रादीनां भक्तौ प्रवेशो ऽग्न्य्-अन्तर्यामि-रूप-भगवद्-अधिष्ठानत्वेनाग्न्य्-आदि-सन्तर्पणात् कूपारामादीनां च तत्-परिचर्यार्थ-क्रियमाणत्वात् तत्र प्रवेशः ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इष्ट-पूर्तेनेति इष्टं हविषाग्नौ यजेत माम् इत्य् उपलक्षितं पूजादिकं, पूर्तं उद्यानोपवनेत्य् आद्य् उक्तं, तेन मद्-भक्तिं सतीम् उत्तमां प्रेम-लक्षणां, मत्-स्मृतिर् मत्-कर्तृका स्मृतिः । साधु-सेवयेति यस् तु साधनाधिक्येन सेवेत तत् त्व् अहं सदा स्मरामीत्य् अर्थः ॥४७॥

———————————————————————————————————————

॥ ११.११.४८ ॥

प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव ।

नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञान-भक्ति-मार्गाव् उक्तौ, तत्र ज्ञान-मार्गाद् अपि भक्ति-मार्गः श्रेष्ठ इत्य् आह—प्रायेण इति । सत्-सङ्गेन यो भक्ति-योगः, तेन विना उपायः संसार-तरणे न विद्यतेसत्-सङ्गेन इत्य् अत्र हेतुम् आह—हि यस्मात् सताम् अहं प्रायणं प्रकृष्टम् अयनम् आश्रयः । अतः सत्-सङ्गो मय्य् अन्तरङ्ग इत्य् अर्थः ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रायेण इति वितर्के । यद् वा, सर्वत्र साधारणेन भक्ति-योगेन विना उपायो न विद्यते, तल्-लक्षणश् चोपायः सत्-सङ्गेन विना न विद्यत इत्य् एवार्थः । तत्र हेतुः प्रायणम् ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-भक्ति-मार्गाव् उक्तौ । वस्तुतस् तु संसार-तरणाद्य्-उपेय-वस्तुना भक्तिर् एवोपाय इत्य् आह— प्रायेण इति वितर्के इति सन्दर्भः । यद् वा, सत्-सङ्गेन हेतुनैव यः प्रायेण भक्ति-योगः, तेन विना नोपायो विद्यते । प्रधान-भूता केवला चेति द्विविधा भक्तिः साधु-सङ्गेनैव भवेद् इति व्याख्यातम् एव । यच् च मोक्ष-साधकं भक्ति-मिश्र-ज्ञानं, तत्र गुण-भूता भक्तिर् या सा तु साधु-सङ्गं विनापि भवेद् इत्य् अतोऽत्र प्राय-ग्रहणं, तस्या भक्तेस् तज् ज्ञानम् एव कारणं, यथा कर्षकस्य कर-दानादिना यत् पृथ्वीश्वरोपासनं, तस्य कारणं कृषिर् एव, अन्यथा तस्या वैफल्याद् इति प्रथम-स्कन्ध एव व्याख्यातम् [रेफ़्] ।

एवं च, यत् कर्मभिर् यत् तपसा [भा।पु। ११.२०.३२] इत्य्-आदि भगवद्-उक्तेर् ज्ञानादिकं विनापि भक्तिः सर्व-फल-दात्री, भक्त्या तु विना ज्ञानादिकं, न मोक्षादि-साधकम् इति । तत्र तत्रापि भक्तिर् एव तत्-तत्-फल-दायिनी व्याख्येयेत्य् अतोऽन्ये उपायोऽजागलम्भन-न्यायेनैवेति केचिद् आहुस् तत्रेयं भगवद्-उक्तिर् अपि प्रमाणम् ।

ताप-त्रयेणाभिहतस्य घोरे

सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच् छरणं तवाङ्घ्रि-

द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ [भा।पु। ११.१९.९] इत्य् उद्धवोक्तिर् अपि ।

संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्

नान्यः प्लवो भगवतो पुरुषोत्तमस्य ।

लीला-कथा-रस-निषेवनम् अन्तरेण

पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ [१२.४.४०] इति शुक्तोक्तिर् अपि ।

किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।

किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ [भा।पु। ४.३१.१२]

इति नारदोक्तिर् अपि सम्यक् प्रायणं सम्यक् प्रकृष्ट आश्रयः ॥४८॥

———————————————————————————————————————

॥ ११.११.४९ ॥

अथैतत् परमं गुह्यं शृण्व् अतो यदु-नन्दन ।

सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं साङ्ख्य-योगादीनि साधनान्तर-स-व्यपेक्षाणि स-व्यभिचाराणि च, सत्-सङ्गस् तु स्वतन्त्र एव समर्थः फलाव्यभिचारी चेति वर्णयितुम् आह—अथ इति । एतद् वक्ष्यमाणं परमं गुह्यमतः शृण्व् इत्य् अर्थः ॥४९॥


सनातन-गोस्वामी : [ह।भ।वि। १०.२८०] साङ्ख्य-योगादीनि साधनान्तर-स-व्यपेक्षाणि स-व्यभिचाराणि च, सत्-सङ्गस् तु स्वतन्त्र एव समर्थः फलाव्यभिचारी चेति वर्णयितुम् आह—अथ इति । एतद् वक्ष्यमाणं परमं गुह्यं शृणु, यतस् त्वं मम भृत्यः सुहृत् ज्ञातिः, सखा च । अतः सुगोप्यम् अपि वक्ष्यामि ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत [भा।पु। १.१.८] इति स्मृतेस् तुभ्यम् अहम् अनन्य-प्रकाश्यम् अपि वस्तु वाच्मीत्य् आह—अथैतद् इति । साङ्ख्य-योगादीनि साधनान्तर-सापेक्षाणि स-व्याभिचाराणि च । सत्-सङ्गस् तु स्वतन्त्र एव समर्थः फलाव्यभिचारी च इति स्वामि-चरणाः ॥४९॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे सङ्गतोऽत्र एकादशः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे

भगवद्-उद्धव-संवादे

एकादशोऽध्यायः ।

॥११.११॥



  1. नरः (भक्तिस् १९८) ↩︎

  2. बुद्धिर् इति क्वचित् पाठः । ↩︎