१० श्री-भगवद्-उद्धव-संवादे ज्ञान-साधनम्

॥ ११.१०.१ ॥

श्री-भगवान् उवाच—

मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः ।

वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

चतुर्-विंशति-गुर्व्-आख्या लब्ध-संभावनाभुवः ।

उद्धवस्यात्म-तत्त्वाप्त्यै साधनोक्तिर् अतः परैः ॥

दशमे देह-संबन्धात् संसृतिर् नात्मनः स्वतः ।

इत्य् एतद् वर्णयाम् आस मतान्तर-निरासतः ॥

तद् एवम् अन्वय-व्यतिरेकाभ्याम् उत्पन्न-विवेक-ज्ञानस्य तत्त्व-ज्ञानायादित आरभ्य साधनान्य् उपदिशति भगवान्—मयेति । मया पञ्चरात्राद्य्-उक्त-वैष्णव-धर्मेष्व् अवहितोऽप्रमत्तः संस् तद् अविरोधेन वर्णाद्य्-आचारम् अनुतिष्ठेत् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं श्रीमद्-उद्धवम् उपलक्षणीकृत्योपदिष्टम् इति यथोक्तं, तथा स्फुटम् एवान्यान् प्रत्य् उपदिशति—मयेति ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

ज्ञानस्य साधनं देह-सम्बन्धाद् बद्ध आत्मनः ।

दशमे जैमिनीयाणां मतस्योक्तं च खण्डनम् ॥

शिक्षाम् उक्त्वा साधनम् उपदिशति । मया स्व-धर्मेषु पञ्चरात्राव् उक्तेषु मदीय-धर्मेषु ॥१॥

———————————————————————————————————————

॥ ११.१०.२ ॥

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।

गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् अकामात्मता संभवति ? तत्राह—अन्वीक्षेतेति । स्व-धर्मैर् विशुद्ध-चित्तः सन् देहिनां विषयेषु सत्यत्वाभिनिवेशेन ये सर्वे आरम्भाः, तेषां फल-वैपरीत्यं पश्येत् । एवं फल-वैपरीत्याद् अकामः स्यात् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथम् अकामात्मता संभवेत् ? तत्राह—अन्व् इति । गुणेषु विषय-सुखेषु तत्त्व-ध्यानेन पुरुषार्थ-बुद्ध्या ये सर्वे आरम्भास् फल-वैपरीत्यम् अन्वीक्षेत, पुनः पुनः पश्येत् । अत एव विवेकी तत्-प्राप्ति-निश्चयाभावान् निष्कामः स्याद् इति भावः ॥२॥

———————————————————————————————————————

॥ ११.१०.३ ॥

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः ।

नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

बुद्धि-गुणैः काम-क्रोधादिभिर् अभेदो विफलः ।

वस्तु-स्थितेर् अन्यथात्वं नानात्वम् इति कीर्तितम् ॥

ज्ञानस्यैव तु नानात्वान् न स्यात् कामाद्य्-अहं-मतिः ।

कामादिषु स्वधीस् तेषु केवलं जीव-संस्थितिः ।

इति बुद्धिर् अभेदः स्यात् सनकार्थ्यं कथञ्चन ॥

अदुष्ट-कामश् चिद्-रूपो जीवाद् भिन्नः स्वरूपतः ।

दुष्ट-कामो मनो-धर्मस् तस्माद् ध्येयः सदैव सः ॥ इति विवेके ॥३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, काम्य-विषयाणां मिथ्यात्वाद् अपीत्य् आह—सुप्तस्येति । विफलोऽर्थ-शून्यः। अत्रैव प्रयोगः, इन्द्रियैर् या बहिर् नाना-बुद्धिः सा विफला, नानात्मकत्वात् ऐन्द्रियकत्वाच् च । मनो-जन्य-स्वप्न-मनोरथ-वद् इति ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणैर् इन्द्रियैः भेदात्म-धीर् बहिर् नाना-बुद्धिः भक्ति-रूपाभेदात्म-धीस् तु नानात्मिका न भवति, श्री-भगवद्-रूपालम्बनैकात्मत्वाद् इति ज्ञेयम् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यवहारिक-फलस्य नश्वरत्वात् प्राप्तिर् अप्य् अप्राप्ति-तुल्यैव, पारमर्थिक-फललं तु कदिन्द्रियैर् नैव प्राप्यते इत्य् आह—सुप्तस्येति । नानात्मकत्वात् नाना-पदार्थालम्बनत्वाद् विफलः पारमार्थिक-फल-शून्यो यथा, तथैव गुणैर् इन्द्रियकैर् भेदात्मसु नान-विषयेषु धीः नाना-पदार्थानाम् आलम्बनीकृत्य या धीः, सेत्य् अर्थः । अत्रैवं प्रयोगः इन्द्रियैर् गुणमय-वस्तुषु पृथक् पृथक् बुद्धिः पारमार्थैक-फल-शून्या, भद्राभद्रात्मक-नाना-पदार्थालम्बना बुद्धिर् एव पारमार्थिक-फला । तद्-रूप-गुण-लीला-भक्तादीनां ततः पार्थकाभावात् चिद्-एक-मयत्वात् केवल-भद्रात्मकत्वाच् च तदैक्यम् एव ज्ञेयम् । अत एवोक्तम्—

व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन ।

बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥ [गीता २.४७] इति ॥३॥

———————————————————————————————————————

॥ ११.१०.४ ॥

निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् ।

जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

निष्कामं ज्ञान-पूर्वं तु निवृत्तम् इह चोच्यते ।

निवृत्तं सेवमानं तु ब्रह्माभ्येति सनातनम् ॥ इति भारते ॥४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) :

मोक्षर्थी न प्रवर्तेत तत्र काम्य-निषिद्धयोः ।

नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ॥ इति स्मृतिः ।

अतः प्रवृत्तं काम्यं कर्म त्यजेन् निवृत्तं नित्य-नैमित्तिकम् एव कुर्यात् । आत्म-विचारे तु सम्यक्-प्रवृत्तो निवृत्त-कर्म-चोदनाम् अपि नाद्रियेत ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मत्-पर इति क्रिया-त्रयेऽपि योज्यम् । मद्-आश्रयं विना सर्वम् अपि तत्-तद्-व्यर्थम् इत्य् अभिप्रायात् । सं-शब्देन परम-वैराग्य-पूर्वकत्वं सूचयति । यथोक्तं श्री-गीतासु—

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।

योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।

सर्व-सङ्कल्प-सन्न्यासी योगारूढस् तदोच्यते ॥ [गीता ६.३-४] इति ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् एवं तस्मान् मत्-परः मद्-एकालम्बन-धीर् निष्कामः निवृत्तं नित्यं कर्म, प्रवृत्तं काम्यं कर्म जिज्ञासायां सम्यग् एव प्रवृत्तो जिज्ञासोत्तर-दशा-स्थो योगारूढश् चेद् इत्य् अर्थः । कर्म-चोदनां नित्य-नैमित्तिकादि-कर्म-विधिम् अनधिकारान् नाद्रियेत । यद् उक्तं—

आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।

योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।

सर्व-सङ्कल्प-सन्न्यासी योगारूढस् तदोच्यते ॥ [गीता ६।३-४] इति ॥४॥

———————————————————————————————————————

॥ ११.१०.५ ॥

यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् ।

मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : माम् एव नित्यं ध्यायेद् यो मद्-आत्मा स प्रकीर्तितः इति च ॥५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यमान् अहिंसादीन् अभीक्ष्णम् आदरेण सेवेत, शौचादींस् तु नियमान् क्वचित् यदा शक्तिस् तदा आत्म-ज्ञानाविरोधेन । यमान् द्वादशे, नियमांश् चैकोनविंशे ऽध्याये वक्ष्यति । किं च, यमेष्व् अप्य् आदरं परित्यज्य गुरुम् उपासीतेत्य् आह—मद्-अभिज्ञम् इति । मद्-आत्मकं मद्-रूपम् ॥५॥


सनातन-गोस्वामी : [ह।भ।वि। १.३३] माम् अभितो भक्त-वात्सल्यादि-माहात्म्यानुभव-पूर्वकं जानातीति तथा तम् । अत एव मयि आत्मा चित्तं यस्य तं, बहुव्रीहौ कः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यमान् इत्य् अर्धकम् । मद्-अभिज्ञम् इत्य् अर्धकम् ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, यमान् अहिंसादीन् अभीक्ष्णम् आदरेण सेवते, नियमान् शौचादींस् तु क्वचित् यथा-शक्ति । तांश् चैकोनविंशोऽध्याये वक्ष्यति । किं च, सर्वतोऽप्य् अधिकेनाग्रहेण गुरुम् उपासीतेत्य् आह—मद्-अभिज्ञम् इति ॥५॥

———————————————————————————————————————

॥ ११.१०.६ ॥

अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः ।

असत्वरोऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरु-सेवकस्य धर्मान् आह—अमानीति । दक्षोऽनलसः । निर्ममो जायादिषु ममता-शून्यः । गुरौ तु दृढ-सौहृदः । असत्वरोऽव्यग्रः । अमोघ-वाक् व्यर्थालाप-रहितः । एतान्य् एव शिष्यस्य लक्षणानि ज्ञेयानि ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरु-सेवकस्य धर्मान् आह—अमानीति । निर्ममः ममता-शून्यः गुराव् इष्ट-देवे च दृढ-सौहृदः । असत्वरः साध्य-वस्तु-प्राप्तौ त्वराम् अकुर्वन् ॥६॥

———————————————————————————————————————

॥ ११.१०.७ ॥

जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु ।

उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स्व-जायादिषु कथं निर्ममः स्यात् तत्राह—जायेति । औदासीन्य-हेतुं विवेकं दर्शयति—आत्मनोऽर्थं प्रयोजनं सर्वत्र समम् इव पश्यन्न् इति । अयं भवः, सर्व-देहेष्व् आत्मन एकत्वाज् जायादि-देहेऽस्मिंश् च स्व-देहे आत्मनोऽर्थः सुखादिः सम एव केन विशेषेणैतेष्व् एव ममत्वाभिनिवेश इत्य् एवम् उदासीनः सन् गुरुं प्रपद्येतेति ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीदृशेन विचारेण अन्यत्र निर्ममः स्याद् इत्य् आह—जायेति । आत्मनः स्वस्य अर्थं स्वर्ण-रूप्यादि-मुद्रा-रूपं धनम् इव, समं पश्यन्, तत् यथा व्यवहारिकं यावत् यस्य कर-गतं स्यात् तावद् एव तस्य मम्तास्पदं, न तु सर्वदैव, तत् तद् एव जायादिकम् अपीति । तत्र तत्र ममताया अनैकान्तिकत्व-दर्शनात् निर्ममतैवोचिता । यद् उक्तं चित्रकेतु-पुत्रेण—

यथा वस्तूनि पण्यानि हेमादीनि ततस् ततः ।

पर्यटन्ति नरेष्व् एवं जीवो योनिषु कर्तृषु ॥

नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु ।

यावद् यस्य हि सम्बन्धो ममत्वं तावद् एव हि ॥ [भा।पु। ६.१६.६-७] इति ।

श्री-गुरु-देवेष्ट-देवयोस् तु तादृशत्वासम्भवात् तत्र दृढ-सौहृद्यम् एवोचितम् ॥७॥

———————————————————————————————————————

॥ ११.१०.८ ॥

विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् ।

यथाग्निर् दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो कोऽसौ देहादि-व्यतिरिक्त आत्मा यस्यैक्याद् अर्थः सर्वेषु समः स्यात् ? तम् आह—विलक्षण इति । स्थूल-सूक्ष्म-देह-द्वयाद् आत्मान्यो यतो विलक्षणः । द्वेधा वैलक्षण्यं दर्शयति—ईक्षिता स्व-दृग् इति । द्रष्टा हि दृश्याद् विलक्षणः । स्व-प्रकाशश् च जडाद् विलक्षणः । तयोर् अन्यत्वे दृष्टान्तः—यथाग्निर् दाहकः प्रकाशकश् च, दाह्यात् प्रकाश्यश् च दारुणः काष्ठात् । अन्यस् तद्वद् इति ॥८।


जीव-गोस्वामी (क्रम-सन्दर्भः) : जायादिषूदासीनो ममता-विशेषम् अभावयन् । यतः सर्वेषु जीवेषु सुख-रूपं दुःख-हानि-रूपं चार्थम् आत्मन इव पश्यन् वाञ्छन् । अतः समं च पश्यन्न् इति ॥८॥

देहादित्वं निरस्यन्न् आह—विलक्षण इति । विलक्षणत्वे हेतुर् ईक्षिता तस्य द्रष्टा प्रकाशकश् च स्वयं तु स्वदृक् स्व-प्रकाश इति ॥८॥ [परमात्म-सन्दर्भ १९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वदेहे चाहन्तां नैव कुर्याद् इत्य् अत्र विचारम् आह—विलक्षण इति । स्थूल-सूक्ष्म-देह-द्वयात् जडात् दृश्याच् च आत्मा चेतयिता ईक्षिता द्रष्टा च विलक्षण जीवात्मनोऽपि किञ्चित् किञ्चित् चेतयितृत्वादिकम् अस्त्य् एव । यतः स्व-दृक् स्वप्रकाशः स्वप्रकाशो ह्य् आत्मा प्रकाश्यात् जडाद् दृश्याद् देहाद् अन्य एवेत्य् अतस् तत्र कथम् अहन्तां कुर्याद् इति भावः । यद्यपि परमात्मैव स्वप्रकाशः जीवात्मा तु परमात्म-प्रकाश्य एव प्रसिद्धस् तद् अपि तस्य परमात्म-प्रकाशितत्वे सति किञ्चित् स्वप्रकाशत्वम् अपि स्यात् । यथा सूर्य-प्रकाशितत्वे सत्य् एव कनक-रजतादेर् अपि किञ्चित् स्व-पर-प्रकाशकत्वं स्याद् इति । विलक्षणयोर् अन्यत्वे दृष्टान्तः—यथाग्निर् दाह्यात् दारुणः काष्ठात् सकाशात् दाहको ह्य् अन्यः यतः प्रकाशकः प्रकाशकोऽग्निर् हि स्वतोऽन्यात् प्रकाश्यात् काष्ठाद् अन्य एव । यद्यप्य् अविद्याद् अशायां जीव इव अग्निः काष्ठस्यादाहकः काष्ठावृत एव तिष्ठेत् तथापि विद्या-दशायां विद्वान् जीवो विद्या-द्वारा अविद्याया दाहकोऽपि स्यात् काष्ठानावृतः प्रकटोऽग्निर् इवेत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ११.१०.९ ॥

निरोधोत्पत्त्य्-अणु-बृहन्-नानात्वं तत्-कृतान् गुणान् ।

अन्तः-प्रविष्ट आधत्त एवं देह-गुणान् परः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अदेह-धर्मवान् विष्णुर् देह-धर्मवद् ईर्यते ।

जीव-स्व-देह-धर्मापि परतो देह-धर्मवान् ॥

स्वयं त्व् अनभिमानः सन्न् अज्ञानाम् एव दर्शयेत् ।

विष्णुर् जीवस् त्व् अभिमानी यावद् विष्णुपदं व्रजेत् ॥ इति विष्णु-संहितायाम् ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अनेनैव दृष्टान्तेन नित्यत्वानादित्व-विभुत्वैकत्वादयोऽपि सिध्यन्तीत्य् आह—निरोधेति । यथा दारुष्व् अन्तः-प्रविष्टोऽग्निस् तत्-कृतान् नाशादीन् प्राप्नोति, न तु स्वतो नाशादिमान्। एवं देह-गुणान् अनित्यत्वादीन् देहात् परो नित्यादि-स्वरूपोऽप्य् आत्मानुभवति । ततश् च नित्यत्वादिभिर् अपि वैलक्षण्याद् अन्यत्वम् इति भावः ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किन्तु दारु-धर्मा नाशादयो वह्नौ यथा भ्रमाद् आरोप्यन्ते एव, न तु ते तत्र वर्तन्ते, एवम् एव देह-धर्मा अपि नाशादय आत्मनीत्य् आह—निरोधेति । निरोधो नाशः दारुषु प्रविष्टोऽग्निस् तत्-कृतांस् तन्-निष्ठान् नाशादीन् गुणान् पुरुष-भ्रमाद् एव धत्ते, एवं देह-गुणान् देह-धर्मान् नाशादीन् देहात् पर आत्मा धत्ते, यथा अग्निर् नष्ट उत्पन्नोऽल्पो महान् नाना-कार इत्य् उच्यते तथैवात्मा नष्ट उत्पन्न इत्य् आदीति । अत्र जीवात्मनां नानात्वे वास्तवेऽपि एकस्यापि जीवस्य देवादेर् युगपत् क्रमेण वा नाना-देह-गतत्वेन यन् नानात्वं तत्त्व-वास्तवम् एव्वेति ज्ञेयम् ॥९॥

———————————————————————————————————————

॥ ११.१०.१० ॥

योऽसौ गुणैर् विरचितो देहोऽयं पुरुषस्य हि ।

संसारस् तन्-निबन्धोऽयं पुंसो विद्या च्छिद् आत्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अग्नेर् दारु-संयोगात् तद् धर्म-भाक्त्वं घटते, आत्मनस् त्वसङ्गत्वात् कथं देहेन तद् धर्मैर् वा संबन्धः, संबन्धे वा कुतस् तन् निवृत्तिस् तत्राह—योऽसाव् इति । पुरुषस्येश्वरस्याधीनैर् माया-गुणैर् योऽसौ सूक्ष्मोऽयं च स्थूलो देहो विरचितः पुंसो जीवस्यायं संसारस् तन् निबन्धनस् तद् अध्यास-कृतः । हि यस्माद् एवं तस्माद् आत्म-विद्या तन् निवर्तिकेत्य् आह—आत्मनो विद्य विज्ञानं तस्य छित् छेत्त्री । आच्छिद् इति वा पद-च्छेदः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अग्नेर् दारु-संयोगात् तद्-धर्म-भाक्त्वं घटते आत्मनस् त्व् असङ्गतत्वात् कथं देहेन तद्-धर्मैर् वा सम्बन्धः । सम्बन्धे वा कुतस् तस्मिन् निवृत्तिः ? तत्राह—सोऽसाव् इति । पुरुषस्येश्वरस्याधीनैर् माया-गुणैर् योऽसौ सूक्ष्मो देहः । अयं च स्थूलो देहो विरचितः पुंसो जीवस्यायं संसारस् तन्-निबद्धस् तत्-सम्बन्धाभावेऽपि तद्-अध्यास-कृतः । तदीयातर्क्य-शक्त्या अविद्यया निष्पादितो यो देहाध्यास-रूपो नितरां बद्धस् तत्-कृत इत्य् अर्थः । यस्माद् एवं तस्मात् तत्-प्रसादाद् एव विद्या तदीयैव विद्या-शक्तिश् छित् तद्-बन्ध-च्छेत्री आत्मनो जीवस्य ॥१०॥

———————————————————————————————————————

॥ ११.१०.११ ॥

तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् ।

सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अवस्त्व्-अशक्तम् उद्दिष्टं शक्तं वस्त्व् इह भण्यते ।

तस्माद् एकं परं ब्रह्म वस्तु शब्दोदितं सदा ॥ इति लक्षणे ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्माद् एवं तस्माज् जिज्ञासया विचारेण । आत्म-स्थम् आत्मनि कार्य-कारण-सङ्घात एव स्थितं सम्यग् ज्ञात्वा एतद् एतस्मिन् देहादौ वस्तु-बुद्धिं स्थूल-सूक्ष्म-क्रमेण निरसेत् त्यजेत् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माज् जिज्ञासया विचारेणात्म-स्थम् आत्मनि स्थूल-सूक्ष्म-देहान्तर एव स्थितम् आत्मानं परं केवलम् असङ्गिनम् अतिशयेन सङ्गम्य ज्ञात्वा एतस्मिन् देह-बन्धे वस्तु-बुद्धिं यथा-क्रमं साधन-बाहुल्यतः क्रमेण क्रमेण निरसेत् त्यजेत् ॥११॥

———————————————————————————————————————

॥ ११.१०.१२ ॥

आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।

तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरोर् लब्धा विद्या अविद्या-तत्-कार्य-निरसन-क्षमेति स्फुटी-कर्तुं विद्योत्पत्तिम् अग्न्य्-उत्पत्ति-रूपकेण निरूपयति—आचार्य इति । आद्योऽधरः । तत्-सन्धानं तयोर् मध्यमं मन्थन-काष्ठम् । प्रवचनम् उपदेशः । विद्या तु सन्धिः, सन्धौ भवन्न् अग्निर् इव । तथा च श्रुतिः—आचार्यः पूर्व-रूपम् । अन्तेवास्य् उत्तर-रूपम् । विद्या सन्धिः । प्रवचनं सन्धानम्1 [तै।उ। १.३.३] इति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र टीका दृश्या । अत एव तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् [मु।उ। १.२.१२] इति, आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति, नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठः [क।उ। १.२.९] इति च ॥१२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरोर् लब्धा विद्या अविद्या-तत्-कार्य-निरसन-क्षमेति स्पष्टी-कर्तुं विद्योत्पत्तिम् अग्न्य्-उत्पत्ति-रूपकेण निरूपयति—आचार्य इति । आद्योऽधरः । तत्-सन्धानं तयोर् मध्यमं मथन-काष्ठम् । प्रवचनम् उपदेशः । विद्या तु सन्धिः, सन्धौ भवन्न् अग्निर् इव । तथा च श्रुतिः—आचार्यः पूर्व-रूपम् । अन्तेवास्य् उत्तर-रूपम् । विद्या सन्धिः । प्रवचनं सन्धानं [तै।उ। १.३.३] इति ॥१२॥

———————————————————————————————————————

॥ ११.१०.१३ ॥

वैशारदी साति-विशुद्ध-बुद्धिर्

धुनोति मायां गुण-सम्प्रसूताम् ।

गुणांश् च सन्दह्य यद्-आत्मम् एतत्

स्वयं च शांयत्य् असमिद् यथाग्निः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पिशाचवत् स्थिता माया तूच्यते जीवगा सदा ।

दह्यन्ते तद्-गुणाः सर्वे सा च प्रातिस्विकी नरः ॥ इति वैभाव्ये ।

एतच्-छब्देन दुःखादिर् अपरोक्षतयोच्यते ।

क्वचिद् विश्वं क्वचिद् ब्रह्म क्वचिन् निन्द्यम् उदीर्यते ॥ इति तन्त्र-निरुक्ते ।

बाह्यान्तः-करणाज् जन्यं ज्ञानं नश्यति मुक्तिगे ।

स्वरूप-ज्ञानतो भोगान् मुक्तौ भुङ्क्ते यथेष्टतः ॥ इति मुक्ति-तत्त्वे ॥१३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्नि-सादृश्यम् एवाह—वैशारदीति । विशारदोऽति-निपुणस् तेन शिष्येण प्राप्ता तेन गुरुणोपदिष्टा वा अति-विशुद्धा बुद्धिर् गुण-कार्य-रूपां मायां निवर्तयति । यदात्मकम् एतद् विश्वं जीवस्य संसृति-निमित्तं तान् गुणंश् च दग्ध्वा असमिन् निरिन्धनः, तस्मात् कार्येण2 कारणेन विद्यय च व्यवधानाभावात् साक्षात् परमानन्द-रूपो भवतीति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : असमिद् यथाग्निर् इति । स यथा भूत-सूक्ष्म-रूपेण तिष्ठन् स्पष्टं न तिष्ठति । तथेत्य् अर्थः—न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते [बृ।आ।उ। ४.३.२३] इति श्रुतेः ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्नि-सादृश्यम् एवाह—वैशारदीति । विशारदो भगवांस् तदीया अतिविशुद्ध-ज्ञान-रूपा विद्या । मायाम् अविद्यां यद्-आनन्दम् एतद्-देह-द्वयाध्यास-रूपं संसार-बन्धनं, तान् गुणांश् च दग्ध्वा असमित् निरिन्धनोऽग्निर् यथा निर्वाति, तथा स्वयं विद्यापि शाम्यति । ततः केवलयैव भक्त्या अभ्यस्तया शान्ति-रतिं प्राप्य भगवत्-सालोक्यं प्राप्नोति । यद् उक्तं—भक्तिर् मुक्त्यैव निर्विघ्नेत्य् आत्त-युक्त-विरक्तता [भ।र।सि। ३.१.१५] इति शान्त-रतिमतां मतं, गुणीभूत-भक्तिमतां ज्ञानिनां तु विद्याविद्ययोर् उपरमे, ततो मां तत्त्वतो ज्ञात्वा [गीता १८.५५] इति गीतोक्तेर् भक्त्य्-उत्थ-ज्ञानेन परमात्मैक्यम् ॥१३॥

———————————————————————————————————————

॥ ११.१०.१४ ॥

अथैषां कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः ।

नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् स्व-प्रकाश-ज्ञान-स्वरूपो नित्य एक एवात्मा, कर्तृत्वादयश् च धर्मास् तस्य देहोपाधिकास् तद्-व्यतिरिक्तं सर्वम् अनित्यं माया-मयं च । अतः सर्वतो विरक्तः सन्न् आत्म-ज्ञानेन मुच्यत इत्य् उक्तं, विलक्षणः स्थूल-सूक्ष्मात् [भा।पु। ११.१०.८] इत्य्-आदिना, तद् एव श्रुति3-समन्वयेन निर्णीतेऽपि । अथ मतान्तर-विरोधेन सन्देहो मा भूद् इति तन्-मतं निराकर्तुम् उद्भावयति—अथेति ।


अथ मन्यसे एषां जीवात्मनां कर्म-कर्तॄणां सुख-दुःखयोर् भोक्तॄणां च नानात्वम् इति । एवं हि जैमिनीया मन्यन्ते । अहं प्रत्यय-विज्ञेय एवात्मा स च प्रति शरीरं भिन्नः कर्तृ-भोक्तृ-रूपश् च न तु तत् स्वरूप-भूतो निर्विकार एकः परमात्मास्तीति । यथाहुः—

अहं प्रत्यय-विज्ञेयो ज्ञातव्यः सर्वदैव हि इति । तथा वैराग्यं च न संभवति । तथा हि, भोग-स्थणानाम् अनित्यत्वाद् वा वैराग्यं भवेत्, भोग-कालस्य वा तद् उपाय-कर्म-बोधकागमस्य वा भोक्तुर् आत्मनो वा । नन्व् एतद् अस्तीत्य् आह—अथ नित्यत्वं लोक-कालागमात्मनां मन्यस इति ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथेति युग्मकम् । आत्मा एषां मतः । स चास्मन्-मते तद्-उपहितं लिङ्ग-शरीरम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : व्यवस्थापितेऽप्य् अत्रार्थे ये विवदन्ते, तेषां जैमिनीयानां मतम् आश्रित्य विप्रतिपद्यसे चेत्, तर्हि शृणु तत्त्वम् इत्य् आह—अथेत्य् आदिना गुण-व्यतिकरे सतीत्य् अन्तेन एषां कर्म-कर्तॄणां सुख-दुःखयोः कर्म-फलयोश् च भोक्तॄणां जीवानां ये लोक-कालागमात्मानस् तेषां नानात्वं नाना-विधत्वम् । अथ नित्यत्वं नित्यत्व-विशिष्टानाम् एव नानात्वम् इत्य् अर्थः । एवम् अपि देहिनाम् असकृज् जन्मादयः सन्त्य् एवेति तृतीयेनान्वयः । एवं हि ते वदन्ति—वैराग्यम् एव तावन् न सम्भवति । तथा हि, भोग-स्थानानां नाना-विधानाम् अपि नित्यत्वाद् वैराग्यं भवेत् । भोग-कालस्य वा तद्-उपाय-बोधकागमस्य वा भोग-साधनस्य लिङ्ग-देहस्य वा न त्व् एतद् अस्तीत्य् आह—अथ नित्यत्वं लोक-कालागमात्मना इति॥१४॥

———————————————————————————————————————

॥ ११.१०.१५ ॥

मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा ।

तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न च सर्व-भोग्यानां विच्छेदान् मायामयत्वाद् वा वैराग्यं स्याद् इत्य् आह—सर्व-भावानां स्रक्-चन्दनादीनां संस्था स्थितिर् औत्पत्तिकी प्रवाह-रूपेण नित्या । तथा च वदन्ति—न कदाचिद् अनीदृशं जगत् इति । अतस् तत्-कर्ता कश्चिद् ईश्वरो नास्तीति भावः । किं च, यथा यथावत् । न तु मायामयीत्य् अर्थः । न चात्म-स्वरूप-भूतं नित्यम् एकं ज्ञानम् अस्तीत्य् आह—तत् तद् इति । घट-पटाद्याकार-भेदेन धीर् जायते, अतोऽनित्या भिद्यते च । अयं गूढोऽभिप्रायः । नहि नित्य-ज्ञान-रूप आत्मा, अपि तु ज्ञान-परिणामवान्, न च विकारित्वेनानित्यत्व-प्रसङ्गः । यथाहुः—विक्रिया-ज्ञान-रूपस्य न नित्यत्वे विरोत्स्यते इति । अतो मुक्ता-विनिद्र्यादि-रहितस्य परिणामासंभवाज् जडत्वेन तत्-प्राप्तेर् अपुरुषार्थत्वात् प्रवृत्तिर् एव श्रेयसी, न निवृत्तिर् इति ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्यस इति । पूर्वम् अन्यान् प्रत्य्पदिशतीति यद् उक्तम्, तद् एतद् अत्रापि व्यक्तम् । न ह्य् असाव् अनीश्वर-वादी च भवतीति । अत्र टीकायां—विक्रिया इति यथा सूर्यो धूमाद्य्-उपाधिं प्राप्य रश्मि-द्वारा मेघ-रूपेण परिणमते, नित्यं च तिष्ठति, तद्वद् इति ज्ञेयम् ॥१५॥।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न च भोग्य-वस्तूनां विच्छेदान् मायामयत्वाद् वा वैराग्यं स्याद् इत्य् आह—सर्व-भावानां स्रक्-चन्दन-वनितादीनां संस्था सम्यक् स्थितिः । औत्पत्तिकी प्रवाह-रूपेण नित्येत्य् अर्थः । तथा च वदन्ति, न कदाचिद् अमीदृशं जगत् इति । अतस् तत्-कर्ता कश्चिद् ईश्वरोऽपि नास्तीति भावः । किं च, यथा यथावद् एव, न तु मायामयीत्य् अर्थः । न चात्म-स्वरूप-भूतं नित्यम् एकं ज्ञानम् अस्तीत्य् आह—तत्-तद् इति । घट-पटाद्य्-आकार-भेदेन धीर् जायते । अतोऽनित्या भिद्यते च । अयं गूढोऽभिप्रायः—न हि नित्य-ज्ञान-रूप आत्मा, अपि तु ज्ञान-परिणामवान्, न च विकारित्वेनानित्यत्व-प्रसङ्गः । यथाहुः—विक्रिया-ज्ञान-रूपस्य न नित्यत्वे विरुध्यते इति । अतो मुक्ताव् इन्द्रियादि-रहिततस्य परिणामासम्भवाज् जडत्वेन तत्-प्राप्तेर् अपुर्षार्थत्वात् प्रवृत्तिर् एव श्रेयसी, न निवृत्तिर् इति ॥१५॥

———————————————————————————————————————

॥ ११.१०.१६ ॥

एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः ।

कालावयवतः सन्ति भावा जन्मादयोऽसकृत् ॥4

मध्वाचार्यः (भागवत-तात्पर्यम्) :

देहापक्षम् अनित्यत्वं जीवानां जननं तथा ।

स्वतस् त्व् अजाश् च नित्याश् च बहवः सुख-रूपिणः ।

उत्तमा जीव-सङ्घास् तु नीचा वै नित्य-दुःखिनः ॥ इति जीव-तत्त्वे ॥१६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र तावद् उक्तम् अङ्गीकृत्य वैराग्योपपादनाय प्रवृत्ति-मार्गस्यानर्थ-हेतुत्वं प्रपञ्चयति—एवम् अपीत्य् आदिना लोकानां लोक-पालानाम् इत्य् अतः प्राक्तनेन ग्रन्थेन । अङ्ग हे उद्धव ! कालावयवतः संवत्सरादि-रूपात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र तावत् तद् उक्तम् अङ्गीकृत्य वैराग्यम् उपपादयितुं प्रवृत्ति-मार्गस्यानर्थ-हेतुत्वं प्रपञ्चयति—एवम् अपीत्य् आदिना ॥१६॥

———————————————————————————————————————

॥ ११.१०.१७ ॥

तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते ।

भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

साधिकानां वशत्त्वात् तु परमं सुखम् एव तु ।

तद् अन्येषां वशे यस् तु किं-सुखस् तस्य भण्यताम् ॥

स्वाधिकानां वशत्वं च तेषु भक्तिमतः सुखम् ।

तद् अन्येषां तु दुःखाय तस्माद् भक्तोऽधिको भवेत् ॥ इति च ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रापीति । स्वातन्त्र्य-पक्षे दुष्कर्मणो दुःक-भोगस्य वासम्भवाद् इत्य् अर्थः॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्मात् को नु अर्थः पुरुषार्थो विवशम् अस्वतन्त्रं तं भजेत् ? तत्र स्थिरीभवेद् इत्य् अर्थः ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मणां कर्तुर् इति कर्म-करणे सुख-दुःखयोर् भोक्तुर् इति भोगेऽप्य् अस्वातन्त्र्यं लक्ष्यते, स्वातन्त्र्ये हि कः खलु दुःखं भुञ्जीत ? को वा विवेकी दुष्कर्म कुर्याद् इति भावः । ततश् च विवशम् अस्वतन्त्रम् ॥१७॥

———————————————————————————————————————

॥ ११.१०.१८ ॥

न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि ।

तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विदुषाम् अपि देह-मानिनां यदा न विद्यते सुखम्, तदा दुःखं मूढानाम् अहङ्कारिणां च किम् इत्य् अर्थः । पुनः-शब्दे प्रस्तुतार्थे तथा-शब्द उदीर्यते इति स्कान्दे ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ये सम्यक् कर्म कर्तुं जानन्ति ते सुखिन एव । ये तु न जानन्ति त एव दुःखिन । इति चेत् तत्राह—नेति । विदुषाम् अपि क्वचित् सुखं न विद्यते, तथा मूढानाम् अपि दुःखं न विद्यते । अतो वयं कर्म-कुशलत्वात् सुखिन इति तेषां केवलं वृथैवाहङ्कार इत्य् अर्थः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न देहिनाम् इति । तैः [श्री-स्वामि-पादैः] तत्र विदुषाम् अपीत्य् आदौ प्रमादेनापि कर्म-वैगुण्याद् इति भावः । मूढानाम् अपीत्य् आदाव् अकस्मात् तीर्थादि-सम्बन्ध-जात-पुण्यत्वाद् इति भावः ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यो दुष्कर्म कुर्यात् स विदान् एव नोच्यते, तस्य दुःख-भोगो न्याय्य एव । यस् तु कर्माकुर्वन् कर्म कर्तुं जानीयात्, तस्य न कदापि दुःखम् इति चेन्, मैवं वादीर् । देह-धारिणां मध्ये सर्वदैव सुखी सर्वदैव दुःखी वा कोऽपि न दृष्ट इत्य् आह—नेति । विदुषाम् अपि कदाचित् सुखं न विद्यते किञ्चिद् अपि । न तथैव मूढानाम् अपि कदाचिद् दुःखं किञ्चिद् अपि भवेत्, इत्य् अतो वयं कर्म-कुशलत्वात् सदा सुखिन इति तेषां वृथैवाहङ्कार इत्य् अर्थः ॥१८॥

———————————————————————————————————————

॥ ११.१०.१९ ॥

यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः ।

तेऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : ये तु विद्वत्त्वेन प्रसिद्धाः प्राकृतानां, तेऽप्य् अद्धा न विदुर् देहाभिमानिनश् चेत्, दुःख-मूढा [अधः]{।मर्क्}राहङ्कारिणो विशेषतोऽप्य् अविद्यमान-गुणाभिमानिनः ॥१९॥।


श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्गीकृत्याप्य् आह—यदीति । तं योगम् उपायं न विदुर् यथा साक्षान् मृत्युर् न प्रभवेत् ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विज्ञत्वम् अङ्गीकृत्याप्य् आह—यदीति । योगम् उपायं तथा न विदुर् यथा साक्षान् मृत्युर् न प्रभवेत् ॥१९॥

———————————————————————————————————————

॥ ११.१०.२० ॥

कोऽन्व् अर्थः5 सुखयत्य् एनं कामो वा मृत्युर् अन्तिके ।

आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि यावज् जीवं सुखं भविष्यतीति चेन् नेत्य् आह—को न्व् इति । यतोऽन्तिके वर्तमानो मृत्युः न तुष्टिदो न तुष्टिं ददाति । आघातं वध-स्थानं प्रति नीयमानस्य वध्यस्य स्रक्-चन्दनादि यथा न सुखयेत् ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मृत्योः पूर्वं तु सुखं वर्तेतेति चेत्, मैवम् इत्य् आह—किं न्व् इति । अर्थस् तज्-जन्यः कामो वा यतः खल्व् अन्तिके मृत्युर् न तुष्टिदः, आघातं वध-स्थानं नीयमानस्य वध्य-जनस्य सम्प्रति त्वं पायसापिष्टकादिकं यथेष्टं भूङ्क्ष्वेति दीयमानोऽर्थो भोगः स च न यथा सुख-प्रद इत्य् अर्थ-कामौ पुरुषार्थौ खण्डितौ ॥२०॥

———————————————————————————————————————

॥ ११.१०.२१ ॥

श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः ।

बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अस्मिल् लोके सुखं नास्तीत्य् उक्तं लोकान्तरेऽपि तथैवेत्य् आह—श्रुतम् इति । श्रुतं स्वर्गादि तद् अपि दुष्टम् । स्पर्धा पर-सुखासहनम् । असूया पर-गुणे दोषाविष्करणम् । अत्ययो नाशः । व्ययोऽपक्षयस् तैर् दुष्टम् । यद् वा, व्ययो नाशः, अत्ययोऽन्यस्यातिशयः, तं दृष्ट्वा तद्-अप्राप्त्या दुःखम् इत्य् अर्थः । किं च बहवोऽन्तराया वैगुण्यादि-रूपा विघ्ना यस्मिन् कामे सुखे तस्य भावस् तत्त्वं तस्मात् । कृषिर् यथा बहु-विघ्ना तद्वत् । बहु-सुखत्वेन श्रुतम् अपि निष्फलम् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इह लोके सुखं नास्तीत्य् उक्तम् । पर-लोकेऽपि नास्तीत्य् आह—श्रुतं च स्वर्गाद्य् अपि दृष्टम् । स्पर्धा पर-सुखासहनम् । असूया पर-गुणे दोषारोपः । अत्ययो नाशः । व्ययो भोगेन भोक्ष्यमाणस्य स्वर्गस्याल्पता-प्रतिपादकः किञ्चित् किञ्चिन् नाशस् तैः बहवोऽन्तराया वैगुण्यादि-रूपा विघ्ना यस्मिन् तस्मात् यज्ञादिकात् कामः सुखं यत्र तस्य भावस् तत्त्वम् । तस्मात् कृषिर् यथा कदाचिन् निष्फला भवेत् तद्वत् ॥२१॥

———————————————————————————————————————

॥ ११.१०.२२ ॥

अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः ।

तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विघ्न-वैगुण्याद्य्-अभावम् अङ्गीकृत्यापि नाश-दुःखं दुष्परिहरम् इत्य् आह—अन्तरायैर् इति पञ्चभिः । निर्जितं साधितम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१०.२३ ॥

इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः ।

भुञ्जीत देववत् तत्र भोगान् दिव्यान् निजार्जितान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञैर् देवता इन्द्रादि-रूपा इष्ट्वा ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१०.२४ ॥

स्व-पुण्योपचिते शुभ्रे विमान उपगीयते ।

गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-पुण्यैर् उपचिते सर्व-भोग-सम्पन्ने देवीनां मध्ये विहरन् गन्धर्वैर् उपगीयते ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवीनाम् अप्सरसाम् ॥२४॥

———————————————————————————————————————

॥ ११.१०.२५ ॥

स्त्रीभिः कामग-यानेन किङ्किणी-जाल-मालिना ।

क्रीडन् न वेदात्म-पातं सुराक्रीडेषु निर्वृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कामेनेच्छया गच्छता विमानेन । किङ्कणी-जाल-मालिना क्षुद्र-घण्टिका-समूह-शोभिना । सह स्त्रीभिः सुरा-क्रीडेषु नन्दनादिषु क्रीडन्न् आत्म-पातं न वेद ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामेन इच्छया गच्छता विमानेन ॥२५॥

———————————————————————————————————————

॥ ११.१०.२६ ॥

तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते ।

क्षीण-पुण्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कालेन चालितः पतितः ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१०.२७-२९ ॥

यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः ।

कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः ॥

पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् ।

नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः ॥

कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः ।

देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रवृत्तिर् द्वि-विधा । विष्यनुसारेण काम्ये कर्मणि वा तल् लङ्घनेषु तल् लङ्घनेनाधर्मे वा । तत्र काम्य-प्रवृत्तेर् गतिर् उक्ता अधर्म-प्रवृत्तेर् गतिम् आह—यदीति । यदि वेत्य् अन्वयः । अजितेन्द्रियत्वात् कामात्मातः कृपणोऽतो लुब्धो भोग-तृष्णाकुलोऽतः स्त्रैणः स्त्री-लम्पटस् तद्-अर्थं भूत-विहिंसकः ॥ किं च, दुष्ट-जन-प्रलोभितो धनाद्य्-अर्थं पशून-विधिना हत्वा । तमः स्थावरतां याति ॥ एवं कर्मसु प्रवृत्तस्य न सुखं न च दुःख-निवृत्तिर् इत्य् उपसंहरति—कर्माणीति ॥२७-२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मणाम् अधिकारी द्विविधः—धार्मिकोऽधार्मिकश् च । अत्र प्रथमस्य गतिर् उक्ता, द्वितीयस्य गतिम् आह—यदीति । वा-शब्दात् स्वतोऽपि कश्चिद् अजिएन्द्रियः स्याद् इत्य् अर्थः। कामात्मा तत एव कृपणो दीनः । अत एव लुब्धो भोग-तृष्णाकुलः । स्त्रैणः स्त्री-लम्पटः, तद्-अर्थं भूत-विहिंसकः ॥ अविधिना, श्येनेनाभिचरन् यजेत इत्य्-आदि विरुद्ध-विधिना । उल्बणं तमः स्थावरत्वम्। एवं कर्मसु प्रवृत्तस्य नास्ति सुखम् इत्य् उपसंहरति—कर्माणीति ॥२७-२९॥

———————————————————————————————————————

॥ ११.१०.३० ॥

लोकानां लोक-पालानां मद्-भयं कल्प-जीविनाम् ।

ब्रह्मणोऽपि भयं मत्तो द्वि-परार्ध-परायुषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तथापि लोकानां नित्यत्वाद् अमर्त्य-धर्मत्वाच् च लोक-पालानां सुखम् अस्तीति चेत् तत्राह—लोकानाम् इति । द्वौ परार्धौ परमायुर् यस्य तस्य ब्रह्मणोऽपि । तथा च श्रुतिः—

भीषाऽस्माद् वातः पवते, भीषोदेति सूर्यः ।

भीषाऽस्माद् अग्निश् चेन्द्रश् च, मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ।

अतः प्रवृत्ति-मार्गस्यैवम् अनर्थ-हेतुत्वाद् विरक्त्या ततो निवृत्तिर् एव युक्तेति तात्पर्यार्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न देहिनाम् इति तैः तत्र विदुषाम् अपीत्य् आदौ प्रमादेनापि कर्म-वैगुण्याद् इति भावः । मूढानाम् अपीत्य् आदाव् अकस्मात् तीर्थादि-सम्बन्ध-जात-पुण्यत्वाद् इति भावः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यच् च तुष्यतु दुर्जन इति न्यायेनाङ्गीकृतं स्वर्गादीनां नित्यत्वं तन् निराकरोति—लोकानाम् इति । स्वर्ग-लोकस्य तत्-पालानां च नैव नित्यत्वम् इत्य् आह—लोकानाम् इति । मत् मत्तः । तथा च श्रुतिः—

भीषाऽस्माद् वातः पवते, भीषोदेति सूर्यः ।

भीषाऽस्माद् अग्निश् चेन्द्रश् च, मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ।

एतेनैव स्वयम् ईश्वरत्वाविष्कारेणेश्वराभावाङ्गीकारः परित्यक्तः ॥३०॥

———————————————————————————————————————

॥ ११.१०.३१ ॥

गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् ।

जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेनैव स्वयम् ईश्वरत्वाविष्कारेण ईश्वराभवाङ्गीकारः परित्यक्तः । अन्यद् अपि प्रौढ्या पूर्वम् अङ्गी-कृतं निराकरोति चतुर्भिः । तत्र यद् उक्तं कर्तृ-भोक्तृ-रूप एवात्मेति तन् निराकरोति—गुणा इति । गुणा इन्द्रियाणि कर्माणि सृजन्ति, न त्व् आत्मा । आत्मैवेन्द्रियाणि प्रवर्तयन् कर्माणि करोतीति चेत्, नेत्य् आह—गुण इति । गुणः सत्त्वादिर् गुणान् इन्द्रियाण्य् अनुसृजते प्रवर्तयति, न त्व् आत्मा । अत आत्मनः कर्तृत्वं तावन् नास्ति । भोक्तृत्वम् अप्य् औपाधिकम् इत्य् आह—जीवस् त्व् इति । गुण-संयुक्त इन्द्रियादि-संयुक्तः । कुतः ? इत्य् अत आह—असौ तेष्व् अहङ्कारवान् इत्य् अर्थः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणा इति तैः तत्र एतेन इति पूर्व-दर्शित-भीषास्माद्-इत्य्-आदि-श्रुत्य्-आत्मक-पुराण-स्वरूप-स्व-वाक्य-प्रामाण्येनेत्य् अर्थः, न त्व् आत्मेति । अयस्कान्तस्येवात्मनः सान्निध्येनैव तत्-तत्-प्रेरकत्वान्, न तु स्वेच्छयेति भावः । यद् वा, अथ जीवस्य स्वतः कर्म-कर्तृ-भोक्तृ-रूपत्वं तन्-मतं साङ्ख्य-मतेन निराकरोति—गुणा इति । तत्-तत्-स्वभाव एव तत्र तत्र कारणम् इति भावः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरकानवशो जन्तुर् गत्वा [भा।पु। ११.१०.२८] इत्य् उक्तम् । तत्र जीवस्यैवं वैवश्यं किं-प्रयुक्तम् इत्य् अपेक्षायाम् आह—गुणा इति । गुणा इन्द्रियाणि कर्तॄणि कर्माणि देह-पूजादीनि स्व-पर-स्त्री-सम्भोग-शब्दादि-ग्रहण-कृषि-वाणिज्यादीनि चादृष्ट-दृष्ट-फलानि सृजन्ति कुर्वन्ति । तांश् च गुणान् सद्-असद्-इन्द्रियाणि गुणः सत्त्वादिः सृजते । जीवं तु गुणैः सद्-असद्-इन्द्रियैः सत्त्वादिभिश् च संयुक्तो भद्राभद्राणि कर्म-फलानि भुङ्क्ते ॥३१॥

———————————————————————————————————————

॥ ११.१०.३२ ॥

यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः ।

नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : यावत् स्याद् गुण-वैषम्यम् इत्य्-आदि य उपासीरंस् ते मुह्यन्ति । गुण-संयुक्तः कर्म-फलानि भुङ्क्ते ॥३२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् चोक्तम् आत्मनो नानात्वं तद् अप्य् औपाधिकम् इत्य् आह—यावत् स्याद् इति । गुणानां वैषम्यम् अहङ्कारादि-कार्य-रूपम् । नन्व् आत्मन एकत्वे कथं पारतन्त्र्यम् उक्तं ? कथं वा लोक-पालादीनाम् अपि मद्-भयम् इत्य् उक्तं ? तत्राह—नानात्वम् इति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यावद् इति सार्धकम् । नानात्वं चाद्वय-वादि-मतेन निराकरोति—यावद् इत्य् अर्धेन । तत्रैवाद्वय-वादिनां सिद्धान्त-निर्वाहं दर्शयति—नानात्वम् इत्य् एकेन । अयम् अर्थः—एक एव खलु चिद्-एक-लक्षण-सत्ता-मात्र-स्वरूप आत्मा । स एवात्मन्य् अनाद्य्-अविद्यया गुण-मयीं मायां तद्-वैषम्य-जात-कार्य-वर्गं च कल्पयन्न् अस्मद्-अर्थम् एकं युष्मद्-अर्थांश् च बहून् कल्पयति स्वप्नवत् । तत्रास्मद्-अर्थः स्व-स्वरूपः पुरुषः। युष्मद्-अर्थास् त्रिविधाः पुरुषान्तर-रूपाः जड-रूपा ईश्वराख्य-पुरुष-विशेष-रूपाश् चेति । ततस् तस्याम् अविद्यायां गतायां नानात्वाभावाद् ईश्वरो नाम यो वस्तुतो नास्ति स नास्त्य् एव किम् उत तत्-पारतन्त्र्यं, किम् उततरां ततो भयं, किम् उततमां वान्य-पारतन्त्र्यादिकम् इति तद् एवं मत-द्वयेन, नहि कदाचिद् अनीदृशं जगद् इति ज्ञानं नित्यं नास्तीति परिहृतं तत्-तद्-उपाधेर् जन्म-नाश-दर्शनाज् ज्ञानस्य त्व् अनाश-दर्शनाद् इति भावः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणैर् इन्द्रियैः कृत्वा उच्च-नीच-गति-प्राप्ति-लक्षणं वैषम्यं यावत् स्यात्तावदात्मनः एकस्यापि जीवस्य नानात्वं देव-तिर्यग्-आदि-रूपत्वं स्यात् । यावद् एवं नानात्वं तावत् पारतन्त्र्यं कर्माधीनत्वम् ॥३२॥

———————————————————————————————————————

॥ ११.१०.३३ ॥

यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् ।

य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यच् च गूढम् अभिप्रेतं प्रवृत्तिर् एव श्रेयसीति तत्राह—य एतद् इति । एतद् गुण-वैषम्यं तत् कृतं भोगं कर्म चेत्य् अर्थः । उपासीरन् सेवेरन् । ते लोकादीनाम् अनित्यत्वाच् छुचार्पिताः प्रोताः सन्तो मुह्यन्ति ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एतत् पूर्वोक्तं त्रयम् अपि मतानन्तरं निन्दति—य एतद् इत्य् अर्धकेन ॥३३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् प्रवृत्तिर् एव श्रेयसीति ये आहुस् तान् आक्षिपति—य एतत् कर्मैव उपासीरन् सेवेरन् ते शुचार्पिताः शोक-प्रोताः सन्तो मुह्यन्ति ॥३३॥

———————————————————————————————————————

॥ ११.१०.३४ ॥

काल आत्मागमो लोकः स्वभावो धर्म एव च ।

इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : असति गुण-व्यतिकरे कालादि-नामानं माम् एवाहुर् इति स्व-सिद्धान्तः ।

कालः सर्व-गुणोद्रेकाद् आप्तत्वाद् आत्मनामकः ।

आगमेऽवगतेर् अस्य लोके ज्ञान-स्वरूपतः ॥

स्व-वशत्वात् स्वभावोऽयं धारणाद् धर्म इत्य् अपि ।

उपासते सदा मुक्ताः परानन्दैक-भागिनः ॥

तद् एतत् तत्त्वम् अज्ञात्वा प्राहुर् दुर्मतयः परे ।

यावत् तु गुण-वैषम्यं तावन् नानात्वम् आत्मनः ॥

भेद-बुद्धिस् तु यावत् स्यात् तावद् ईश्वर-तन्त्रता ।

यावद् ईश्वर-तन्त्रत्वं तावत् तस्माद् भयं भवेत् ॥

उपासते य एवं तु नित्य-शोके पतन्ति ते ।

महा-तमस्य्य्यनानन्दे तस्मान् नैवं विचिन्तयेत् ॥

तस्मान् नित्यं तु नानात्वं जीवानाम् ईश-तन्त्रता ।

साधिकानां वशत्वं च मुक्ताव् अपि सदेष्यते ।

एवं ज्ञात्वा विमुच्यन्ते परानन्दं व्रजन्ति च ॥ इति तन्त्र-भागवते ॥३४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : न केवलम् अनित्यता-मात्रं किन्तु माया-मयत्वम् अपीत्य् आह—काल इति । स्वभावो देवत्वादि-परिणाम-हेतुः । धर्मस् तद् भोग-कारणम् । गुण-व्यतिकरे माया-क्षोभे सति माम् एव प्राहुर् न तु मद्-व्यतिरिक्ताः सन्ति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यतः इति कालादि-चतुष्टयं जैमिनि-मतानुवादोक्तं विश्व-व्यवहार-सिद्धि-निमित्तं तत्-पारिशेष्यात् । स्वभावः [साङ्ख्य-मतं] गुणादेः प्रत्येकं विलक्षण-कार्य-करत्वम् । धर्मस् तु [अद्वय-मतं] सत्ता-मात्रम् । अपूर्व-वाचित्वे तु कर्मेत्य् एवावक्ष्यत्—सुख-दुःख-भोग-कारणत्वस्य विवक्षितत्वात् । ततश् च माम् एव ते प्राहुः, किन्तु काल इत्य्-आदि रूपेण तद् यथावन् मद्-रूपेण, तत्रापि बहुधा प्रत्येकं कारणं प्राचुर्येण मिथश् च कैमुत्येन, न त्व् अखण्ड-कारणत्वेन, माम् एकं प्राहुर् इत्य् अर्थः।

तेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।

न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता ९.२३-२४]इतिवत् ।

तत्र हेतुः—गुण-व्यतिकरे गुणैस् तम-आदिभिर् आसङ्गे पराभूतत्वे सतीति तत्-पराभवाद् एव श्रुति-स्मृति-युक्ति-विरुद्धानीश्वर-वादिनो भूत्वा ते तथा वदन्तीत्य् अर्थः । ईश्वर-कारण-वादिनां तु प्रायस् तान्य् अपि न दूषणायेति भावः । तथा हि,

यदंशविद्धाः प्रचरन्ति कर्मसु

नैवान्यदा लौहम् इवाप्रतप्तम् ॥ [भा।पु। ६.१६.२४]

इति न्यायेन परमात्म-स्वरूपेश्वरांशत्वात् स्व-स्व-जड-वर्ग-प्रवर्तकत्वात् चिद्-आत्मनां जीवानां स्वरूप-सिद्धे अपि कर्तृत्व-भोक्तृत्वे उपाधिं विना न स्पष्टीभवतः । तत्-सान्निध्येनोपाधितो जाते च ये ताभ्यां न साक्षात् सम्बन्धः किन्त्व् अज्ञानेनैव तस्माद् अथैषातित्य् अत्र कर्मेति सुख-दुःखयोर् इति च विशेषितं, तथा प्रत्यात्मं नानात्वं भवतु, किन्तु परमात्म-रूपेणैकत्वम् एव । तथ लोकस्याव्यक्ताख्य-कारण-रूपेण भवतु नाम, नित्यत्वं किन्तु स्थूल-रूपेणानित्यत्वम् एव तथात्मनाम् उपाध्य्-अंशेन नास्ति सर्वथा नित्यत्वं, किन्तु स्वरूपेणैव । तथा कालस्य तत्-प्रभाव-रूपतया आगमस्य च तन्-निश्वासात्मतया नित्यत्वम् अस्तु प्रलये यत्र प्रचारो नास्त्य् एव तथा गुणादेर् अपि स्वभावः कारणं भवतु अविद्योपहित आत्मा वा किन्तु सर्व-कारणेश्वर-शक्त्य्-आत्मकत्वेनैवेति । तद् एवं सर्वस्येश्वराश्रयैक-सिद्धितया तस्य चेश्वरस्य च श्रुति-स्मृति-विद्वद्-अनुभव-प्रामाण्येन सद्-रूपतया मत्तोऽन्यत्र रक्तानां भयम् इति वैराग्यम् एव श्रेयः तद् एतज्-जैमिनि-मत-निरासायात्रैवोक्तं लोकानां लोक-पालानाम् इत्य् अनेन मतान्तर-निरासाय चान्यत्रोक्तं—

आरुह्य कृच्छ्रेण परं पदं ततः

पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः [भा।पु। १०.२.३२]

इत्य् अनेनेति तात्पर्यम् ॥३४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोक-कालागमात्मनां सर्वेषाम् एव नित्यत्वं यत् परमतम् अङ्गीकृत्योक्तं, तत्राह—काल इति । स्वभावो देवत्वादि-परिणाम-हेतुः । धर्मस् तद्-भोग-हेतुः । इति गुण-व्यतिकरे माया-क्षोभे सत्य् एव माम् एव भौधा-भूतं तेषां मन्-माया-शक्ति-कार्यत्वाद् आहुः । तस्माद् अस्य जीवस्य कर्म-बन्ध-विमोचनार्थं यतनीयम् इति मतं साधितम् ॥३४॥

———————————————————————————————————————

॥ ११.१०.३५ ॥

श्री-उद्धव उवाच—

गुणेषु वर्तमानोऽपि देह-जेष्व् अनपावृतः ।

गुणैर् न बध्यते देही बध्यते वा कथं विभो ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अदेही परमात्मा । बध्यते चेत् कथं बध्यते । नित्य-मुक्तो नित्य-बद्ध इत्य् एक-जीव-वादि-मतानुसारेण चोदयति ।

शिष्योऽपि पूर्व-पक्षस्थस् तद् एवात्मवतं ब्रुवन् ।

नैव दुस्पत्यसत्येन स्थिरत्वार्थं हि तद्-वचः ॥ इति विक्षेपे ।

न मे मोक्षो न बन्धनम् ।

एकस्यैव ममांशस्य जीवस्यैवं महा-मते ।

बन्धो स्याद् विद्ययानादिर् विद्यया च तथेतरत् ।

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ॥ इति परिहारात् ॥३५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ततो निवृत्तिर् एव मुक्ति-हेतुत्व-च्छ्रेयसीति सिद्धम् । एवं तावद् एक एवात्मा, तस्य च गुण-कार्य-देह-संबन्ध-कृतः संसारः, आत्म-ज्ञानाच् च मुक्तिर् इत्य् उक्तं, विलक्षणः स्थूल-सूक्ष्मात् [भा।पु। ११.१०.८] इत्य्-आदिना । तद् एव च मतान्तर-निरासेन दृढी-कृतम् अथैषां [भा।पु। ११.१०.१४] इत्य्-आदिना । तत्र पृच्छति—गुणेष्व् इति । अयम् अर्थः—गुणेष्व् असत्सु मुक्तिः सत्स्व् एव वा । आद्ये ज्ञान-साधनाभावान् न मुक्तिः । द्वितीये च गुणेषु वर्तमानोऽपि तत्-कार्य-देह-जेषु कर्मसु सुखादिषु च कथं न बध्येत । तथापि तैर् आकाश-वद् अनावृतत्वान् न बध्यत इति चेत् तर्हि बन्धो न संभवतीत्य् आह—अनपावृतः कथं बध्यत इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : देहजेषु गुणेषु वर्तमानोऽपि कथं तैर्न बध्यते इत्य् अन्वयः । वर्तमानत्वेऽप्य् अनावृतश् चेत् कथं वा बध्यत इत्य् अन्वयः । अन्यत् तैः । तत्र गुणेष्व् असत्सु मुक्तिर् इत्य् अत्र बन्धस् तु स्तब्धत्व-न्यायेन स्वत एव ज्ञेयः ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु च भवन्-मते मोक्ष एव पुरुषार्थोऽवगतः । स च भक्ति-ज्ञान-विशेष्गुणाभ्यासाद् भवति, तस्मिन् सति पुरुषो मुक्त उच्यते, इति मया न बुध्यते इत्य् आह—गुणेष्व् इति । मुक्तस्यापि दत्तात्रेय-भरतादेर् भोजन-शयनाटनादि-श्रवणात् स्थूल-सूक्ष्म-देह-द्वयं तिष्ठत्य् एव । तस्मिंश् च स्थिते सति देहजेषु गुणेषु वर्तमानोऽपि तैर् गुणैर् देही कथं न बध्यते ? तथापि तैर् आकाशवत् चिन्मयत्वाद् अनावृतो जीवो न भद्यते इति चेत्, तर्हि बन्धो न सम्भवतीत्य् आह—अनावृतः कथं बध्यत इति ॥३५॥

———————————————————————————————————————

॥ ११.१०.३६ ॥

कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः ।

किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदि तु सत्स्व् एव तद्-अहङ्कारेण बध्यते, तन्-निवृत्त्या च मुच्यत इति मतं तर्हि तत् कथं ज्ञातव्यं ? इति पृच्छति । बद्धो मुक्ता वा कथं वर्तेत्य् आदि । किं भुञ्जीत कथं भुञ्जीत ? इत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि तु सत्स्व् एव गुणेषु विषयेन्द्रियादिषु तद्-अभिमानेन बध्यते, तन्-निवृत्त्या च मुच्यत इति मतं, तर्हि मया तथा कथं ज्ञातव्यं ? इति पृच्छति—कथं वर्तेत्य् आदिना । वर्तन-विहरण-भोजन-मुत्र-पूरीष-विसर्जन-शयनासन-गमनानि कर्माणि साभिमानानीति मया कैर् वा लक्षणैर् ध्यायत इति ॥३६॥

———————————————————————————————————————

॥ ११.१०.३७ ॥

एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर ।

नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् एतद् विषयं प्रश्नम् । किं च एक एवात्माऽनादि-गुण-संबन्धान् नित्य-बद्धः । मुक्ते जन्यत्वेऽनित्यत्व-प्रसङ्गान् नित्य-मुक्त इत्य् अप्य् अङ्गी-कार्यं स्यात् । तत्र मे भ्रमो भवतीत्य् आह—नित्य-बद्ध इति ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नित्य-मुक्ता दत्तात्रेय-भरतादिर् नित्य-बद्धो देवदत्त-यज्णदत्तादिस् तुल्य-दैहिक-क्रियत्वाद् एक एवेति भ्रम इति कैवल्यं तु मया ग्रहीतुम् अशक्यम् अप्य् अस्त्य् एवं, तत् त्वयाहं ज्ञापयितव्य इति भावः । अत्र नित्य-पदम् अनधिकार्थम् ॥३७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽत्र दशमे सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे

श्री-भगवद्-उद्धव-संवादे

दशमोऽध्यायः ।

॥११.१०॥


(११.११)


  1. आचार्यः पूर्व-रूपम् अधः-काष्ठम् । अन्तेवासी उत्तर-रूपम् उपरिकाष्ठम् । विद्या ज्ञानं सन्धिः सन्धौ जातोऽग्निः । प्रवचनम् उपदेशः सन्धीयते मध्य-सन्धौ स्थाप्यते इति सन्धानं मध्यवर्ति-मन्थन-काष्ठम् इति । ↩︎

  2. कार्येण देहेन्द्रियादिना । कारणेनाज्ञानेन, विद्यया वाक्यजैक्य-ज्ञानेन ॥ ↩︎

  3. श्रुति-समन्वयेन श्रुतीनां तात्पर्य-वृत्त्या ब्रह्मणि पर्यवसानेन ↩︎

  4. एवम् अपि गूढाभिप्रायेण मीमांसक-मत-स्वीकारेऽपि । भावा विकाराः ॥ ↩︎

  5. किं न्व् इति पाठश् चक्रवर्तिना स्वीकृतः । ↩︎