०९ अवधूत-गीतम्

॥ ११.९.१ ॥

श्री-ब्राह्मण उवाच—

परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् ।

अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

नवमे कुररादिभ्यो देहतश् चोपशिक्षितम् ।

श्रुत्वा यदुः कृतार्थोऽभूद् इति कृष्णेन वर्णितम् ॥

कुरराच् छिक्षितम् आह—परिग्रहो हीति । यद् यत् प्रियतमं तस्य तस्य परिग्रहः । तद् विद्वान् परिग्रहो दुःखम् इति विद्वान्सन्, यस् त्व् अकिञ्चनस् त्यक्त-परिग्रहो न तु दरिद्रः॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

नवमे सप्त गुरवः कुरराद्याः प्रकीर्तिताः ।

देहोऽष्टमस् तद् एवं स्युर् गुरवः पञ्चविंशतिः ॥

कुरराच् छिक्षितम् आह—परिग्रह इति द्वाभ्याम् । यद् यत् प्रियतमं वस्तु, तस्य तस्य परिग्रहः, तत् तस्मात् यस् त्व् अकिञ्चनो निःस्पृहः, स एव विद्वान्, न तं सुखम् आप्नोति ॥१॥

———————————————————————————————————————

॥ ११.९.२ ॥

सामिषं कुररं जघ्नुर् बलिनोऽन्ये निरामिषाः ।

तदामिषं परित्यज्य स सुखं समविन्दत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—सामिषम् इति ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् आह—सामिषं मांस-ग्राहिणं स कुरर्रः ॥२॥

———————————————————————————————————————

॥ ११.९.३ ॥

न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् ।

आत्म-क्रीड आत्म-रतिर् विचरामीह बाल-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्भक-शिक्षाम् आह—नेति । गेह-पुत्रिणां तद्वतां या भवति चिन्ता, सा च मे नास्ति । आत्मनैव क्रीडा यस्य । आत्मनि रतिः प्रीतिर् यस्य सः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बालकाच् छिक्षितम् आह—नेति ॥३॥

———————————————————————————————————————

॥ ११.९.४ ॥

द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।

यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् अज्ञ-सर्व-ज्ञयोः किं सादृश्यं नैश्चिन्त्यं परम-सुखम् इत्य् आह—द्वाव् इति । विमुग्धोऽज्ञः जडोऽनुद्यमः एवं-भूतो यो बालो यश् च प्रकृतेः परम् ईश्वरं प्राप्तस् तौ द्वौ ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : [अत्रानुरूपार्थकं ३.७.१७-पद्यं, यश् च मूढतम इति द्रष्टव्यम्।]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.९.५ ॥

क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् ।

स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कुमार्याः शिक्षितं वक्तुम् आख्यायिकाम् आह—क्वचिद् इत्य्-आदिना । वृणानान् स्व-वरणायागतान् । बन्धुषु पित्रादिषु ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुमार्याः शिक्षितम् आह तद् आख्यानेन—क्वचिद् इत्य्-आदिना । अर्हयामास आवृत-सर्वाङ्गैव गेहान् निष्क्रम्य दर्भासन-जलादिभिर् आतिथ्यं चक्रे । बन्धुषु पितृ-मात्रादिषु॥५॥

———————————————————————————————————————

॥ ११.९.६ ॥

तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।

अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शङ्खाः शङ्ख-वलयाः । महद् यथा भवति तथा स्वनं चक्रुः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कदा ते आयास्यन्ति ? कदा तण्डुलान् करिष्यन्ति ? इति मनसि कुर्वत्यास् तस्याश् चेष्टितम् आह—तेषाम् इति । शङ्खाः शङ्ख-वलयाः ॥६॥

———————————————————————————————————————

॥ ११.९.७ ॥

सा तज् जुगुप्सितं मत्वा महती व्रीडिता ततः ।

बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सा महती बुद्धिमती । तत् स्वयं शाल्य-वहननम् । जुगुप्सितं दरिद्रता-द्योतकम् । एकैकशः क्रमेणैकम् एकं बभञ्ज स्व-कराद् अपसारितवती ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सा तज् जुगुप्सितम् इति पाद्यार्ध-तर्पणादौ तद्-धस्त-स्थित-शङ्ख-वलयानां तैर् दृष्टत्वात् तच्-छब्दं विना विघात-मात्र-शब्दस्यान्य-कर्तृ-जत्वेन सम्भाव्यत्वाच् च ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् शाल्यव-हननं दारिद्र्य-द्योतकत्वात् जुगुप्सितं महती बुद्धिमती ॥७॥

———————————————————————————————————————

॥ ११.९.८ ॥

उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः ।

तत्राप्य् एकं निरभिदद्1 एकस्मान् नाभवद् ध्वनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निरभिदत् पृथक् कृतवती ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.९.९ ॥

अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम ।

लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कुमार्यास् तव च कथं सङ्गतिः ? तत्राह—लोकान् इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकान् अनुचरन्न् इति । तद्-दिने मया तत्रैव स्थितम् इति सर्वेऽप्य् एते गुरवो मया स्व-चक्षुषैव दृष्ट्वा, न तु सर्वज्ञत्वाज् ज्ञाता इति भावः ॥९॥

———————————————————————————————————————

॥ ११.९.१० ॥

वासे2 बहूनां कलहो भवेद् वार्ता द्वयोर् अपि ।

एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

असज्जनैस् तु संवासो न कर्तव्यः कथञ्चन ।

यावद् यावच् च बहुभिः सज्जनैः स तु मुक्तिदः ॥ इति षाड्गुण्ये ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वास इति प्रथमान्त-पाठे कलह-हेतुः । वार्ता गोष्ठी हेतुर् भवेद् इत्य् अर्थः॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वासो वासे इति च द्वौ पाठौ । अत्र दरिद्र-कुमारी अप्राप्त-पतिका झणत्काराभावार्थं यथा कङ्कणान् दूरीकरोति, तथैव ज्ञान-योगं स्वाश्रितान् मुनीन् निःसङ्गान् एव करोति । यथा च राज-कुमारी पतिमती पतिम् अभिसरन्ती झणत्कार-सिद्ध्य्-अर्थं कङ्कणान् परिधत्ते, तथैव श्रीमती भक्ति-देवी स्वाश्रितान् वैष्णवान् मधु-मधुरतर-नाम-कीर्तन-ध्वनि-रसार्थं तान् परस्पर-सङ्गिन एव विधत्ते । न त्व् असङ्गिन इति ज्ञेयम् । यद् उक्तं भगवता—

नैकात्मतां मे स्पृहयन्ति केचिन्

मत्-पाद-सेवाभिरता मद्-ईहाः ।

येऽन्योन्यतो भागवताः प्रसज्य

सभाजयन्ते मम पौरुषाणि ॥ [भा।पु। ३.२५.३४] इति ॥१०॥

———————————————————————————————————————

॥ ११.९.११ ॥

मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः ।

वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्तैकाग्रता द्वैतास्फूर्ति-लक्षण-समाधि-हेतुर् इति शर-काराच् छिक्षितम् इत्य् आह—मन इति । तत्रोपायम् आह—जितेति । आसन-जये श्वास-जयः । तस्य च जये श्वासाधीनं मनो निश्चलं भवति ।

ननु क्षणं निश्चलं सद् अपि मनो विषय-वासनया यदि विक्षिप्येत सुषुप्ताव् इव सर्वथा लीयेत वा तदा किं ? तत्राह—वैराग्येति । वैराग्येणाविक्षिप्यमाणम् अभ्यास-योगेन लक्ष्ये ध्रियमाणं स्थिरी-क्रियमाणम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चित्तैकाग्र्यं शर-काराच् छिक्षितम् इत्य् आह—मन इति त्रिभिः । राग-बलाद् एव मन इतस् ततश् चलतीत्य् अत आह—वैराग्येति । ध्रियमाणं भक्ति-मिश्राष्टाङ्ग-योगोक्त-धारणाभ्यासेन ॥११॥

———————————————————————————————————————

॥ ११.९.१२ ॥

यस्मिन् मनो लब्ध-पदं यद् एतच्

छनैः शनैर् मुञ्चति कर्म-रेणून् ।

सत्त्वेन वृद्धेन रजस् तमश् च

विधूय निर्वाणम् उपैत्य् अनिन्धनम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

बाह्यं मनो विलीनं स्यात् मुक्तौ चिन्-मात्रकं मनः ।

तेनैवानुभवेत् सर्वं स्वात्माभिन्नेन मुक्तिदः ॥ इति मुक्ति-तत्त्वे ॥१२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एकत्रेति कुत्र ? तद् आह—यस्मिन्न् इति यल् लय-विक्षेपात्मकं मनः, एतद् यस्मिन् परमानन्द-रूपे भगवति लब्धास्पदं सत् कर्म-रेणून् कर्म-वासना मुञ्चति तस्मिन् ।

ननु कर्म-वासना-त्यागेऽपि सुषुप्ति-वल्लयो दुर्वारः ? न, सत्त्वेनेति । वृद्धेनोपशमात्मकेन रजस्-तमसोर् अभावे विक्षेप-लयाभावान् निर्वाणम् अवृत्तिकं ध्येयाकारेणावस्थानम् उपैति । कुतः ? अनिन्धनम् । इन्धनं गुणास् तत्-कार्यं च, तद्-रहितम् । तद् उक्तं योग-शास्त्रे,

मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः ।

यासंप्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्मिन् यन् मनो लब्ध-पदं भवति, तत्रस्थम् एतन् मनः कर्म-रेणून् कर्म-वासना मुञ्चति, ततश् च सत्त्वेन वृद्धेन सता रजस् तमश् च विधूयेति रजस्-तमसोर् अभावे विक्षेप-लय-शून्यं मनो-वृत्त्य्-अन्तर-शून्यं निर्वाणं सत्यस्यापि क्षीणी-भूतत्वात् निर्वाणं परानन्दम् उपैति । इन्धनं गुणास् तत्-कार्यं च तद्-रहितम् ॥१२॥

———————————————————————————————————————

॥ ११.९.१३ ॥

तदैवम् आत्मन्य् अवरुद्ध-चित्तो

न वेद किञ्चिद् बहिर् अन्तरं वा ।

यथेषु-कारो नृपतिं व्रजन्तं

इषौ गतात्मा न ददर्श पार्श्वे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च न द्वैत-स्फूर्तिर् इत्य् आह—तदेति । बहिर् दर्शनादिना । अन्तरं स्मृत्या । इषौ गतात्मा तस्य ऋजू-करणे दत्त-चित्तो भेरी-घोषैर् अन्तिके व्रजन्तं नृपतिम् अपि न वेद तद्वत् ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनि भगवति । इषौ गतात्मा तस्य ऋजु-करणार्थं तद्-एकाग्र-चित्तत्वात् तन्मयी-भवन्-मनाः । भेरी-झङ्कार-घोषैर् अन्तिके व्रजन्तम् अपि नृपतिं न वेद ॥१३॥

———————————————————————————————————————

॥ ११.९.१४ ॥

एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः ।

अलक्ष्यमाण आचारैर् मुनिर् एकोऽल्प-भाषणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्पाच् छिक्षितम् आह—एक-चारीति । योगि-संमर्दस्यापि त्यागे कुमारी गुरुः, जन-सङ्ग-त्यागे सर्पः । स यथा जनाच् छङ्कमान एकाकी विचरति नियत-निकेत-रहितश् च सदाप्रमत्तश् चैकान्तवासी च । आचारैर् गतिभिः सविषो निर्विषो वेति न लक्ष्यते च । असहायश् च मित-भाषी च तद्वन् मुनिर् वर्तेतेत्य् अर्थः ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अप्रमत्तः सावधानः आचारैश् चेष्टाभिर् अलक्ष्यमाणः किं कर्तुम् इच्छतीति ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्पाच् छिक्षितम् आह—एक-चारीति । योगि-संमर्दस्यापि त्यागे कुमारी गुरुः, जन-सङ्ग-त्यागे सर्पः । स यथा जनाच् छङ्कमान एकाकी चरति, नियत-निकेत-रहितश् च सदाप्रमत्तश् च, एकान्त-वासी च । आचारैर् गत्य्-आदिभिः स-विषो निर्विषो वेति जनालक्ष्यश् च । असहायश् च, मित-भाषी च, तद्वन् मुनिर् वर्तेतेत्य् अर्थः ॥१४॥

———————————————————————————————————————

॥ ११.९.१५ ॥

गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः ।

सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, गृहारम्भ इति । अध्रुवात्मनो नश्वर-देहस्य । सुखं यथा भवति तथा वर्धते ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.९.१६ ॥

एको नारायणो देवः पूर्व-सृष्टं स्व-मायया ।

संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः ।

एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कारक-सामग्री-निरपेक्षात् केवलाद् ईश्वराद् विश्व-सृष्टि-संहाराव् ऊर्ण-नाभि-दृष्टान्तेन मया संभाविताव् इति वक्तुं प्रथमं संहार-प्रकारम् आह—एक इति सार्ध-त्रयेण । एकः कारक-निरपेक्षः । पूर्व-सृष्टम् इदं जगत् काल-कलया काल-शक्त्या संहृत्य एक एवाद्वितीयः सजातीय-विजातीय-भेद-शून्योऽभूत् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एक इति सार्धकम् । ईश्वरो नारायणो महत्-स्रष्ट्र्-आख्यः सर्व-ब्रह्माण्डान्तर्यामि-पुरुष एकः स्व-शक्ति-व्यतिरिक्त-कारक-शून्यः । कालोऽपि कला यस्यास् तया स्वाधीनतया मायया, यया स्व-शक्ति-रूपया मायया कल्पादौ पूर्वं सृष्टम् इदम्, तथैव कल्पान्ते संहृत्य अखिलानां तेषाम् आश्रयो लय-स्थानं सत्, अत एव एकः सजातीय-चिद्-रूप-जीव-भेद-रहितः । अद्वितीयः विजातीय-प्रधानादि-भेद-रहितश् च सन्, आत्माधारः स्वांशि-रूप-महा-वैकुण्ठ-नाथानाम् आधारोऽभूत् । तस्मिन्न् एव प्रविष्ट आसीद् इत्य् अर्थः ॥१६॥ [भग्।सं। ५९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरः केन प्रकारेण विश्व-सृष्ट्य्-आदिकं करोतीत्य् एतन् मया ऊर्ण-नाभेः सकाशाज् ज्ञातम् ? इत्य् आह—सार्धैः षड्भिः । एकः स्व-शक्ति-व्यतिरिक्त-कारकान्तर-शून्यः । नारायणः कारणार्णव-शायी, काल-कलया काऌअ-शक्त्या, संहृत्य, एक एव इति ईश्वरान्तराभावाद् एकः सदैव । तदानीं तु महा-समष्टि-व्यष्टीनां नाशाद् अद्वितीयोऽभूत्आत्मा एव आधारो यस्य सः । अखिलानां शक्तीनाम् आश्रयः ॥१६ ॥

———————————————————————————————————————

॥ ११.९.१७-१८ ॥

कालेनात्मनुभावेन साम्यं नीतासु शक्तिषु ॥

सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ।

परावराणां परम आस्ते कैवल्य-संज्ञितः ।

केवलानुभवानन्द- सन्दोहो निरुपाधिकः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

काल-प्रकृति-जीवादौ लयेऽसत्य-प्रवर्तनात् ।

तन्-निमित्तस्य कार्यस्य विष्णुर् एक इतीर्यते ।

स हि कालादिकं सर्वं वर्तयत्य् अमित-द्युतिः ॥ इति तत्त्व-लये ।

प्रकृतिश् च गुणाश् चैव शक्यत्वाच् छक्तयः स्मृताः ।

विष्णोः स्वरूप-भूता तु शकनाच् छक्तिर् उच्यते ॥ इति शक्ति-तत्त्वे ॥१६-१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कारण-भूतासु सत्त्वादिषु शक्तिष्व् अपि साम्यं नीतासु सतीषु । गुण-साम्यं प्रधानं तद्-उपाधिः पुरुषश् च तयोर् ईश्वरःपरावराणां परे ब्रह्मादयः, अवरेऽन्ये च मुक्ता जीवाः, तेषां परमः प्राप्य आस्ते। कुतः ? कैवल्य-संज्ञितो मोक्ष-शब्दाभिधेयः । तत्र हेतुः—केवलेति । केवलो निर्विषयः स्व-प्रकाशः आनन्दानांसन्दोहः समूहः परमानन्द इत्य् अर्थः । कुतः ? निरुपाधिकः ॥१७-१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कालेनेति युग्मकम् । आत्मानुभावेन स्व-प्रभाव-रूपया शक्त्या । आदि-पुरुषः महत्-स्रष्ट्राख्यः प्रथमः पुरुषः । प्रधान-पुरुषेश्वरः प्रकृतेर् जीवानां च नियन्ता ॥१७॥ [भग्।सं। ५९]

परेषां स्वीयांशानां, अवरेषां विभिन्नांशानां च परम आश्रयोऽसौ कैवल्य-संज्ञितस् तद्-आख्यायाम्नातः सन्न् आस्ते, तदानीम् आसीद् इत्य् अर्थः । केवल एव कैवल्यम्, स्वार्थे ष्यञ्, चातुर्वर्ण्यवत् । तत्र केवलत्वे इति स्वगताभेदं दर्शयति—केवलेति । स्वरूप-शक्ति-वैचित्र्यात् केवलानां शुद्धानां स्वरूप-भूतानाम् अनुभवानाम् आनन्दानां च यः सन्दोहो वैचित्री तद्-रूपः । केवलत्वं दर्शयति—निरुपाधिक इति । तद् उक्तं तृतीये—सुप्त-शक्तिर् असुप्त-दृक् [भा।पु। ३.५.२४] इति ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानुभावेन स्व-प्रभाव-रूपेण कालेन शक्तिषु सत्त्वादिषु साम्यं नीतासु सतीषु, प्रधानस्य मायायाः पुरुषाणां जीवानां च नियन्ता, परावरेषां मुक्त-बद्ध-जीवानां परम आराध्यः, केवल एव कैवल्यः, स्वार्थे ष्यञ् । कैवल्य-संज्ञा जाता यस्य सः। जगत्-पालनादि-व्यापाराभावात् केवलश्चानुभवानन्द-सन्दोह-रूपश् च सः । उपाधिर् माया तस्यास् तदानीं सुप्तत्वान् निरुपाधिकः । तद् उक्तं तृतीये—सुप्त-शक्तिर् असुप्त-दृग् [भा।पु। ३.५.२४] इति ॥१७-१८॥

———————————————————————————————————————

॥ ११.९.१९ ॥

केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मकम् ।

सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः केवलाद् एव सृष्टिं दर्शयति—केवलेनात्मानुभावेन कालेन । सूत्रं क्रिया-शक्ति-प्रधानं महत्-तत्त्वं सृजति । जीव-संसार-हेतु-भूते सूत्रे सृष्टेऽपि त्वं मा भैर् इति संबोधयति । अरिन्दम अरीन् रागादीन् दमयितुं समर्थ ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वरूप-शक्तिम् एव स्थापयन् सृष्टिं योजयति—केवलेति । सृष्टि-काले महा-वैकुण्ठ-नाथाद् आविर्भूय स एव शुद्ध-स्वरूप-प्रभाव-रूपया शक्त्या त्रिगुणात्मिकां प्रधानैक-रूपां स्व-मायांसङ्क्षोभयन् सूत्रंसृजति ॥१९॥ [भग्।सं। ५९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संहारं दर्शयित्वा सृष्टिं दर्शयति—केवलेन आत्मानुभावेन चिच्-छक्ति-प्रभावेन, स्व-मायां प्रधानं प्रबोध्य स्वेक्षणेन सङ्क्षोभयन् सूत्रं क्रिया-शक्ति-प्रधानं महत्-तत्त्वं सृजति ॥१९॥

———————————————————————————————————————

॥ ११.९.२० ॥

ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् ।

यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सूत्रस्यैव व्यक्ति-शब्देनोच्यमानस्य ताम् इति स्त्री-लिङ्गेन परामर्शः । त्रि-गुण-व्यक्तिं गुण-त्रय-कार्यम् । अत एव विश्वतो-मुखं नाना-विधं त्रि-गुणात्मकं विश्वम् अहङ्कार-द्वारेण सृजन्तीम् । त्रि-गुण-कार्यस्य सूत्र-संज्ञायां कारणम् आह—यस्मिन्न् इति । कारण-भूते समष्टि-रूपे यस्मिन्न् इदं विश्वं प्रोतं ग्रथितम्, वायुर् वै गौतम, सूत्रं वायुना वै गौतम, सूत्रेणायं च लोकः परश् च लोकः सर्वाणि च भूतानि सन्दृब्धानि [बृ।आ।उ। ३.७.२] इति श्रुतेः । येन वाय्व्-आत्मना प्राण-रूपेण जीवः संसरति ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ताम् इति स्त्री-लिङ्गेन सूत्रस्यैव परामर्शः । तत् सूत्रम् एव त्रि-गुण-व्यक्तिं गुण-त्रय-कार्यम् आहुर् इत्य् अर्थः । कीदृशी ? विश्वतो-मुखं, नाना-विधं त्रि-गुणात्मकं विश्वम् अहङ्कारेण द्वारेण सृजन्तीम् । त्रि-गुण-कार्यस्य महत्-तत्त्वस्य तस्य सूत्र-संज्ञायां कारणम् आह—यस्मिन् कारण-भूते सूत्रे समष्टि-रूपे प्राणे विश्वम् इदं प्रोतम् । तथा च श्रुतिः—वायुर् वै गौतम, सूत्रं वायुना वै गौतम, सूत्रेणायं च लोकः परश् च लोकः सर्वाणि च भूतानि सन्दृब्धानि [बृ।आ।उ। ३.७.२] इति । येन चाध्यात्म-रूपेण जीवः संसरति ॥२०॥

———————————————————————————————————————

॥ ११.९.२१ ॥

यथोर्ण-नाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।

तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं शिक्षितम् अर्थम् उक्त्वा दृष्टान्तम् आह—यथेति । हृदयाद् उद्गताम् । वक्त्रतो वक्त्रेण सन्तत्य प्रसार्य विहृत्य क्रीडित्वा ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एतच् च यत् किञ्चिद् अंशेन कीट-विशेषं गुरुं मत्वावगतम् इत्य् आह—यथेति । ऊर्णनाभिर् अत्र दीर्घ-सूक्ष्म-तन्तु-लता-विशेषस् तस्यैव वक्त्रेणोद्गिरन-निगिरण-दृष्टेः ॥२१॥ [भग्।सं। ५९]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊर्णनाभिर् माकडीति ख्यातः कीट-विशेषः । हृदयाद् उद्गतां वक्त्रतः वक्त्रेण सन्तत्य प्रसार्य विहृत्य क्रीडित्वा ॥२१॥

[अत्र श्रुतिश् च—

यथोर्ण-नाभिः सृजते गृह्णते च

यथा पृथिव्याम् ओषधयः सम्भवन्ति ।

यथा सतः पुरुषात् केश-लोमानि

तथाऽक्षरात् संभवतीह विश्वम् ॥ [मु।उ। १.१.७] इति ।]

———————————————————————————————————————

॥ ११.९.२२ ॥

यत्र यत्र मनो देही धारयेत् सकलं धिया ।

स्नेहाद् द्वेषाद् भयाद् वापि याति तत्-तत्-स्वरूपताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-ध्यान-पराणां तत्-सारूप्यं न चित्रम् इति पेशस्कृतो भ्रमर-विशेषाज् ज्ञातम् इत्य् आह—यत्र यत्रेति । सकलम् एकाग्रम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-ध्यान-पराणां तत्-सारूप्यं न चित्रम् इति पेशस्कृतो भ्रमर-विशेषाज् ज्ञातम् इत्य् आह—यत्रेति द्वाभ्याम् । सकलम् इति मनस एकस्या अपि वृत्तेर् यदान्य-गामित्वं न स्यात् तदैव देही ध्येय-सारूप्यं लभते नान्यथेत्य् अर्थः ॥२२॥

———————————————————————————————————————

॥ ११.९.२३ ॥

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।

याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

भयाद् अपि हरिं भक्त्या चिन्तयंस् तत्-स्वरूपताम् ।

पेशस्कारिवद् आयाति द्विषन् द्वेष-स्वरूपताम् ॥

सुख-रूपस्य हि द्वेषो दुःख-रूप इतीर्यते ।

तस्माद् दुःखं सदा याति द्वेषवान् पुरुषोत्तमे ॥

नृसिंह-द्वेषतो दुःखं रक्षो-रूपेण रावणः ।

अगाच् च राम-विद्वेषात् शिशुपालस् तथैव च ॥

ततो भक्त्या परं यातो द्वेष-रूपस् त्व् अधो-गतिम् ।

तस्मात् सर्वो गुणोद्रेकि-विद्वेषात् सर्व-दोषवान् ।

भवेद् इति स्वरूपत्वं द्वेषादेः पुरुषस्य हि ॥ इति भागवत-तन्त्रे ॥

तं यथा यथोपासते तद् एव भवति

तं भूतिर् इति देवा उपासञ्चक्रिरे ।

ते बभूवुस् तस्माद् वाप्य् एतर्हि सुप्तो भूर् भूर् इत्य् एव ।

प्रश्वसित्य् आभुर् इत्य् असुरास् तेऽप वा बुभूवुर् इत्य्-आदि च ।

सत्य् अप्य् अत्यल्प-विशेषे भोजनं दास्यतीति तु ।

स्नेह-बाहुल्यतः कीटः पेशस्कारि-समो भवेत् ॥

द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धिते ।

स्वरूपताते देवस्यात् कीटस्येवं हरेर् अपि ॥

अत्यल्पोऽपि हरेर् द्वेषः स्नेहस्यानुदयङ्कर ॥

सोऽयं विशेषोऽत्रान्यश् च फल-दाता च केशवः ।

न हि पेशस्कृतः किञ्चित् फल-दातृत्वम् इष्यते ।

स्वातन्त्राद् विद्विषाणां च केशवो न सुख-प्रदः ॥ इति स्वातन्त्र्य-विवेकः ॥२३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कुड्यां प्रवेशितो निरुद्धो भयेन ध्यायन् सात्मतां तत् सारूप्यम् । साम्यताम् इति पाठे त्व् आर्षता । पूर्व-रूपम् असन्त्यजन्न् इत्य् अस्यायम् अभिप्रायः । यदा तेनैव देहेनान्य-सारूप्यं दृश्यते तदा किं वक्तव्यं देहान्तरेण सारूप्यं घटत् इति ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। [अत्रानुरूपाकार-पद्य-जतं ७.१.२८ कीटः पेशस्कृता ॥ तत्-स्वरूपम् इति । तथा भा। ७.१०.३९, एनः पूर्व-कृतं\॥। यथा इति च द्रष्टव्यम् ॥]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कीट इति । तेन पेशस्कृता । तत्-सात्मतां तत्-समान-रूपताम् । साम्यताम् इति पाठे आर्षता । पूर्व-रूपं पूर्व-देहम् असन्त्यजन्न् इति ध्यातृ-देह एव ध्येय-तुल्याकारः स्यात्, यथा ध्रुवादीनाम् । क्वचित् तथा ध्यातॄणां भक्तानां दृश्यमानो देह-त्यागं तु भक्ति-योगस्य रहस्यत्व-रक्षार्थं मतान्तरेओत्खाताभावार्थं च । भगवतैव मायया दर्श्यते । यथा क्वचित् सच्चिदानन्द-मय-स्वदेह-त्यागोऽपि, तथा च तत् प्रमाण-वाक्यं च मुनि-द्वारा तथैव मायया प्रकाश्यते । यथा—प्रारब्ध-कर्म-निर्वाणो न्यपतत् पाञ्चभौतिकः [भा।पु। १.६.२९] इति देह-त्यागं च तस्यैवम् इति च ॥२३॥

———————————————————————————————————————

॥ ११.९.२४ ॥

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।

स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-देहाद् एव शिक्षितम् आह—स्वात्मेति । स्वात्मनो देहाच् छिक्षिताम् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एषां मतिर् इति जाताव् एकत्वम् ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-देहाद् अपि शिक्षितम् आह—स्वात्मेति ॥२४॥

———————————————————————————————————————

॥ ११.९.२५ ॥

देहो गुरुर् मम विरक्ति-विवेक-हेतुर्

बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् ।

तत्त्वान्य् अनेन विमृशामि यथा तथापि

पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : सत्त्व-निधनः सत्त्वं निधीयतेऽस्मिन् परमेश्वरः । इति सतता अतिशयेन उच्चैर् अर्ककं रूप इति सततार्त्य्-उदर्को भगवान् ॥२५॥


कैवल्य-दीपिका : देह इत्य्-आदि । कुतो गुरुः ? यतो विरक्ति-हेतुः । विरक्ति-हेतुत्वं कुतः ? यतः सत्त्व-निधनम् । जन्म-नाशौ बिभ्रद् इति । उदर्क उत्तर-काल-फलम् । विवेक-हेतुत्वम् आह—तत्त्वानि इति । तत्त्वानि पुरुषादीनि यथा यथावत् । यद्यप्य् एवं तथापि पारक्यं श्व-शृगालादि-भक्ष्यम् इदम् इति निश्चितोऽयम् । अतोऽसङ्गो ममत्व-हीनोऽहं विचरामि ॥२५॥ [मु।फ। १६.६]


श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरुत्वे हेतुः--विरक्ति-विवेकयोर् हेतुः । विरक्ति-हेतुत्वम् आह—सत्त्व-निधनम् उत्पत्ति-विनाशौ बिभ्रत् स्म । किं च, सततं सन्ततम् आर्त्य्-उदर्कं दुःस्वम् एवोत्तर-फलं बिभ्रत् । यद् वा, सततार्तिर् एवोदर्क उत्तर-फलं यस्य तत् सत्त्व-निधनं बिभ्रत्। विवेक-हेतुत्वम् आह—तत्त्वानि इति । यथा यथावत् । एवम् अत्युपकारित्वेऽपि देहेनैवास्था कर्तव्येत्य् आह—तथापि इति । पारक्यं श्व-शृगालादि-भक्ष्यम् इति निश्चितवान् ॥२५॥


कैवल्य-दीपिका : देह इत्य्-आदि । कुतो गुरुः ? यतो विरक्ति-हेतुः । विरक्ति-हेतुत्वं कुतः ? यतः सत्त्व-निधनम् । जन्म-नाशौ बिभ्रद् इति । उदर्क उत्तर-काल-फलम् । विवेक-हेतुत्वम् आह—तत्त्वानि इति । तत्त्वानि पुरुषादीनि यथा यथावत् । यद्यप्य् एवं तथापि पारक्यं श्व-शृगालादि-भक्ष्यम् इदम् इति निश्चितोऽयम् । अतोऽसङ्गो ममत्व-हीनोऽहं विचरामि ॥२५॥ [मु।फ। १६.६]


जीव-गोस्वामी (क्रम-सन्दर्भः) : देहो मानुष-लक्षणोऽयम् अनेनैव देहेनैव विमृशामि अन्यत्रैतादृश-बुद्ध्य्-आद्य्-अभावात् ॥२५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरुत्वे हेतुः, विरक्ति-विवेकयोर् हेतुः । तत्र विरक्ति-हेतुत्वम् आह—सत्त्व-निधनम् उत्पत्ति-विनाशौ बिभ्रत् । तत् कीदृशः ? सततार्तिर् एव उदर्क उत्तर-फलं यस्य तत् । देहैक-देशः कुक्षिर् अपि द्वित्र-दिवसीय-भक्ष्यम् असङ्गृह्णन् विरक इवेति तस्माद् अप्य् असङ्ग्रहं शिक्षेत् । विवेक-हेतुत्वम् आह—तत्त्वानि इति । यथा इति । यथा तत्त्वानि विमृशामि, तथैव श्रोत्रादीन्द्रियवता अनेनैव श्री-भगवत्-प्रापक-श्रवण-कीर्तनादि-मयं भक्ति-योगम् अपि प्राप्नोतीत्य् अर्थः । यथा कश्चिद् रसिको महा-भक्तः सर्व-रसास्वादिन्य् अपि रसालिप्तः, किन्तु हरि-रसासक्तोऽनुरागी स्यात् । एवं जिह्वापि घृतादि-सर्व-रसास्वादिन्य् अपि न तत्-तत्-सम्पर्कवती, किन्तु ताम्बूल-रस-सम्पर्कवत्य् एव दृष्टा । यत इयम् अरुणा स्यात्, एवम् अत्युपकारिणि गुराव् अप्य् अस्मिन् देहे स्वीय इति, स्थिर इति, बुद्धिर् न कर्त्वयेत्य् आह—पारक्यम् अद्य श्वो वा श्व-शृगालादि-भक्ष्यम् इत्य् अवसितं निश्चयो यस्मिन् सः । पारक्यम् इति क्लीब्त्वम् आर्षम् । अत एव असङ्गः अत्रासक्ति-रहितश् चरामि ॥२५॥

———————————————————————————————————————

॥ ११.९.२६ ॥

जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान्

पुष्णाति यत्-प्रिय-चिकीर्षया वितन्वन् ।

स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः

सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : बीजार्थम् आरोहणादिकं कुर्वन्न् इति ॥२६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : सततार्त्य्-उदर्कतां प्रपञ्चयति—जायेति द्वाभ्याम् । यस्य देहस्य प्रिय-चिकीर्षया भोग-संपादनेच्छया जायादि-वर्गान् वितन्वन् पुष्णाति पुरुषः । कथं-भूतः ? स-कृच्छ्रं यथा भवति तथावरुद्धानि सञ्चितानि धनानि येन सः, देह-विशेषणं वा । स देहः स्वान्ते स्वस्यायुषोऽन्तेऽवसीदति नश्यति । किं च, देह-नाशेऽपि न दुःख-समाप्तिर् इत्य् आह—अस्य पुरुषस्य देहान्तर-बीजं कर्म सृष्ट्वेति । वृक्षस्येव धर्मो यस्य सः ॥२६॥


क्द् : जन्म-नाशवत् ताम् एवाह—जाया इति । यस्य देहाभिमानेन आत्मनः प्रिय-चिकीर्षया वितन्वन् सम्प्रादयन् सन् पुष्णाति सकृच्छ्रं यथा स्यात् तथा । अवरुद्धम् उपार्जितं धनं येन । पुण्य-पापे । अवसीदति क्लिश्यति । वृक्ष-धर्मः--यथा वृक्षान्तर-जनकं बीजं प्रसूय नश्यति । तथायम् इत्य् अर्थः ॥२६॥ [मु।फ। १६.७]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विरक्ति-विवेक-भक्ति-योग-प्रदातुः सर्वेष्व् अपि गुरुषु श्रेष्ठस्य देहस्यास्य नश्वरस्यापि सेवा परमासक्त्यैव कर्तुं युज्यते, अन्यथा कृतघ्नत्व-लक्षणो दोषः स्याद् इति । अतः कथम् असङ्ग इति ब्रूषे ? सत्यम् । विचित्र-चरित्रोऽयं गुरु यतः परमासक्त्या सेव्यमानो ह्य् अयं विवेक-वैराग्यादिकं किम् अपि नोपदिशति । प्रत्युत संसार-महान्ध-कूप एव निःक्षिपतीत्य् आह—जायेति द्वाभ्याम् । यस्य देहस्य प्रिय-चिकीर्षया जायादीन् वितन्वन् विस्तारयन् सन् पुष्णाति, यस्य देहस्य प्रिय-चिकीर्षया चेद् उपपद्यते, तर्हि जायादीन् सम्पाद्य तान् एव पुष्णातीत्य् अर्थः । स देहः अवरुद्ध-धनः लुप्त-विवेकादि-वित्तः सन् स्वान्ते स्वस्यायुषास्ते स्व-कृच्छ्रं यथा स्यात् तथा अवसीदति नश्यति । किं चास्य पुरुषस्य बीजं देहान्तर-बीजं कर्म सृष्ट्वा येन पुनर्-भव-प्रवाहः स्यात् । वृक्षस्यौषधि-रूपस्येव धर्मो यस्य सः ॥२६॥

———————————————————————————————————————

॥ ११.९.२७ ॥

जिह्वैकतोऽमुम् अपकर्षति कर्हि तर्षा

शिश्नोऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् ।

घ्राणोऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर्

बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, जिह्वेति । अमुं देहं तद् अभिमानिनं पुरुषं वा एकतो रसं प्रति जिह्वा अपकर्षत्य् आच्छिनत्ति । कर्हि कदाचित् तर्षा पिपासा जलं प्रति । शिश्नो व्यवायं प्रति । त्वक् स्पर्शं प्रति । उदरम् अन्न-मात्रं प्रति । श्रवणं शब्दं प्रति । घ्राणो गन्धं प्रति । चपल-दृक् रूपं प्रति । क्व च क्वचित् स्व-स्व-विषयं प्रति कर्म-शक्तिः । अन्यद् अपि कर्मेन्द्रियम् । लुनन्ति त्रोटयन्ति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अस्मै गुरवे देहाय कैवल्यं प्राण-धारण-मात्रं भोजनं देयं तद् अप्य् अनासक्त्यैव, एषैवास्य गुरोर् गुरु-शुश्रूषा । श्रद्धञास्मै भोगाश् चेद् दीयन्ते, तर्हि शृणु तत्त्वम् इत्य् आह—जिह्वेति । अमुं देहासक्तं पुरुषं, एकतः रसं प्रति जिह्वा अपकर्षति, अधः-पातनार्थम् आकर्षत्य् आच्छिनत्ति । कर्हि कदाचित् तर्षा पिपासा जलं प्रति । शिश्नो व्यवायं प्रति । एवं त्वग्-आदयः स्पर्शादीन् प्रति । कर्म-शक्तिं कर्मेन्द्रियाणि च लुनन्ति त्रोटयन्ति ॥२७॥

———————————————————————————————————————

॥ ११.९.२८ ॥

सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या

वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् ।

तैस् तैर् अतुष्टा-हृदयः पुरुषं विधाय

ब्रह्मावलोक-धिषणं मुदम् आप देवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं देहो गुरुर् इत्य्-आदि त्रिभिर् विरक्ति-विवेक-हेतुत्वम् उपपाद्येदानीम् अस्य देहस्यातिदुर्लभत्वं दर्शयन्न् ईश्वर-निष्ठां विधत्ते—सृष्ट्वेति द्वाभ्याम् । पुराणि शरीराणि । पुरुषं पुरुष-देहम् । ब्रह्मणोऽवलोकायापरोक्ष्याय धिषणा बुद्धिर् यस्मिंस् तम् । तद् उक्तम्—तासां मे पौरुषी प्रिया इति । श्रुतिश् च—पुरुषत्वे चाविस्तराम् आत्मा इत्य्-आदि । [ईश्वरो हि करणाधिष्ठात्रीर् अग्न्यादि-देवता वाग्-आदिभिः सह सृष्टवान् । ताश् च तं प्रति भोगार्थं शरीरम् अयाचन्त । स च ताभ्यो गो-शरीरम् आश्व-शरीरं पुरुष-शरीरं यथाक्रमम् आनीतवान् । ततस् ता देवताः सोऽब्रवीद् यथायतनं चक्षुर्-आदि-स्थानम् अस्मिन् देहे प्रविशतेति । तद् आह—ताभ्य इत्य्-आदि ।]3 तथा—ताभ्यो गामानयत्ता अब्रुवन् न वैनोऽयम् अलम् इति ताभ्योऽश्वमानयत्ता अब्रुवन् न वैनोऽयम् अलम् इति ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बत इति च ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्माद् अयम् अपवर्ग-साधक एक एव मनुष्य-देहः सृष्टस् तस्माद् एनं नरक-साधनं न कुर्याद् इत्य् आह—सृष्ट्वेति । पुराणि शरीराणि । पुरुषं मनुष्य-देहं ब्रह्मणः परमेश्वरस्यावलोके साक्षात्कारे धिषणा बुद्धिर् यतस् तम् । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इति । तथा ताभ्यो गाम् आनयनता अब्रुवन् न वै नोऽयम् अलम् इति ताभ्योऽश्वम् आनयन् ता अब्रुवन् न वै नोऽयम् अलम् इति । ताभ्यः पुरुषम् आनयत्ता अब्रुवन् सुकृतं बतेति ॥२८॥

———————————————————————————————————————

॥ ११.९.२९ ॥

लब्ध्वा सुदुर्लभम् इदं बहु-सम्भवान्ते

मानुष्यम् अर्थदम् अनित्यम् अपीह धीरः ।

तूर्णं यतेत न पतेद् अनुमृत्यु यावत्

निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् बहूनां सम्भवानां जन्मनाम् अन्तेमानुष्यम् अनित्यम् अप्य् अर्थदं पुरुषार्थ-प्रापकं दैवाल् लब्ध्वेदम् अनुमृत्यु अन्व् अनु निरन्तरं मृत्यवो यस्य, तद् यावन् न पतेत् तावद् एव तूर्णं शीघ्रं निःश्रेयसाय यतेतविषयः पुनः सर्वतः पश्व्-आदि-योनिष्व् अपि स्याद् एव ॥२९॥


क्द् : विवेक-हेतुत्वं पुनर् आह—लब्ध्वा इति । मानुष्यं मनुष्यत्वम् । बहूनां जन्मनाम् अन्ते यद्यप्य् अनित्यं, तथाप्य् अर्थदं मोक्षदं मोक्षाद् अन्यस्यानर्थत्वात् । निःश्रेयसाय यतेतअनुमृत्युः मृत्योः सम्मुखम् । ननु विषयार्थम् एव प्रयततां किम् अन्येन ? अत्राह—विषय इति । सर्वतो नरकादाव् अपि सुलभत्वात्, अत्र विभावादि । विवेकः प्राग्वत् ॥२९॥ [मु।फ। १६.८]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनित्यम् अपि अर्थदं नित्यस्यापि वस्तुनः प्रापकं, तस्माद् इदं यावन् न पतेत् तावद् एव निःश्रेयसाय यतेत, यत इदम् अनुमृत्यु अन्व् अनुजातस्य पश्चाद् एव वर्तमानो मृत्युर् यस्य, तत् क्षण-भङ्गुरत्वेनैव विश्वस्तम् इत्य् अर्थः । विषयः पुनः सर्वतः श्वादि-योनिष्व् अपि प्राप्तः स्याद् एव ॥२९॥

———————————————————————————————————————

॥ ११.९.३० ॥

एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि ।

विचरामि महीम् एतां मुक्त-सङ्गोऽनहङ्कृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं हेयोपादेय-विवेकं बहुधा निरूप्येदानीं यद् उक्तं, त्वं तु कल्पः कविर् दक्षः [भा।पु। ११.७.२८] इत्य्-आदि तत्रोत्तरम् आह—एवम् इति । एवं बहुभ्यो गुरुभ्यः शिक्षितेन विशिष्टं ज्ञानम् एवालोकः प्रदीपो यस्य सः । सप्तम्य् अन्तं वा आत्म-विशेषणम् । आत्मनि स्थित एव महीं विचरामि ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् उक्तं, त्वं तु कल्पः कविर् दक्षः [भा।पु। ११.७.२८] इत्य्-आदि तत्रोत्तरम् आह—एवम् इति । आत्मनि परमात्मनि यद् विज्ञानम् अपरोक्षानुभवस् तत्रैवालोक दृष्टि-तात्पर्यं यस्य सः॥३०॥

———————————————————————————————————————

॥ ११.९.३१ ॥

न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् ।

ब्रह्मैतद् अद्वितीयं वै गीयते बहुध र्षिभिः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

एकस्माद् गुरोर् ज्ञानं जायते नैव कस्यचित् ।

एकस्माद् एव जायेत योग्याद् ब्रह्म-पदस्य तु ॥

स्वयं चोपदिशेज् ज्ञानं वैरिचि-पद-योगिनि ।

अनुग्रहात् तेन चापि ज्ञानं दत्त्वा विमुक्तिदः ॥

ज्ञानं प्राप्य बहुभ्योऽपि न ते मुक्तिश् चतुर्मुखात् ।

ज्ञानम् अप्राप्य तेषां तु ज्ञानदो विष्णुर् एव हि ॥ इति गुरु-विवेके ॥३१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किं बहुभिर् गुरुभिः ? न हि श्वेतकेतु-भृगु-प्रमुखैर् बहवो गुरव आश्रिताः । तत्राह—न ह्य् एकस्माद् इति । बहुधा स-प्रपञ्च-निष्प्रपञ्च-भेदादिभिः । अयं भावः—नैते परमार्थोपदेश-गुरवः, किन्त्व् अन्वय-व्यतिरेकाभ्याम् आत्मन्य् असम्भावनादि-मात्र-निवर्तकाः, तेषां बहुत्वं युक्तम् एवेति । ज्ञान-प्रदं गुरुम् एकम् एव वक्ष्यति, मद्-अभिज्ञं गुरुं शान्तम् उपासीत [भा।पु। ११.१०.५] इति । उक्तं च, तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं [भा।पु। ११.३.२२] इति ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एक एव योग्यो गुरुः कर्तव्यः । तस्माद् एव स-परिकरं ज्ञानं सेत्स्यति । किं वा, मतान्तर-ज्ञा एवान्ये प्रष्टव्याः ? किं गुर्व्-आभासैर् व्यावहारिक-पदार्थैः ? इत्य् आशङ्क्याह—न हीति । एकस्मान् मुख्याद् गुरोर् लब्धं सुपुष्कलं सुस्थिरं यज् ज्ञानं, तद् अपि न स्यात् न सम्पद्यते । कुतः ? तत्राह—ब्रह्मेति । तत्-तन्-मतेन मति-भङ्गाद् इत्य् अर्थः । तस्मान् महा-गुरूपदिष्ट-मत-पोषाय तद्-विरुद्ध-मत-निरसनाय च स्व-बुद्ध्या मननार्थं व्यावहारिक-पदार्था एव गुरुत्वेन सम्भाविताः, न तु कापिलादि-मतान्तर-स्थापका इति भावः ॥३१॥ [भक्ति-सन्दर्भ २०३]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मद्-अभिज्ञं गुरुं शान्तम् उपासीत [भा।पु। ११.१०.५] इति, तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं [भा।पु। ११.३.२२] इत्य्-आद्य्-उक्तिभ्य एक एव गुरुर् आश्रयणीयोऽवगम्यते । नापि श्वेतकेतु-भृगु-प्रमुखैर् बहवो गुरव आश्रिताः । सत्यं, ममापि मन्त्रोपदेष्टा गुरुर् एक एव उपास्यो वर्तते । किन्तूपासनायाम् आनुकूल्य-प्रातिकूल्य-दृष्टान्ती-भूता एते पदार्थाः परामृश्य गुरूक्र्ता इत्य् अन्वय-व्यतिरेकाभ्यां मे शिक्षा-गुरव एवैते ज्ञेयाः । तथापि स्वामि-चरणैर् उपनिबद्धौ श्लोकौ—

कपोत-मीन-हरिणा कुमारी-गज-पन्नगाः ।

पतङ्गः कुररश् चाष्टौ हेयार्थे गुरुवो मताः ॥

मधुकृन् मधुहर्ता च पिङ्गला च द्वयोस् त्रयः ।

उपादेयार्थ-विज्ञाने शेषाः पृथ्व्य्-आदयो मताः ॥ इति ।

शिक्षा-गुरूणां तु बाहुल्यम् एव प्रायो ज्ञान-दार्ढ्य-प्रयोजकम् इत्य् आह—न हीति ।

ननु शिक्षा-गुरवोऽप्य् अभिज्ञ-जना एव भव्यैर् आश्रियन्ते ? सत्यम्, अभिज्ञ-जनानां हि गौतमादि-नाना-मतानुसारित्वान् मया स्वजातीयस् ते कुत्र कुत्र कत्य् अन्वेष्टव्या ? इत्य् आह—ब्रह्मेति । अद्वितीयं यद् ब्रह्म, एतत् खलु स-विशेष-निर्विशेष-भेद-विभेदैर् बहुधैव ऋषिभिर् गीयते इति । नासाव् ऋषिर् यस्य मतं न भिन्नम् [म।भा ३.३१३.११७] इत्य् अभियुक्त-वाक्याच् च । मया व्यवहारिका एव पदार्थाः शिक्षा-गुरवः क्र्ता इति भावः ॥३१॥

———————————————————————————————————————

॥ ११.९.३२ ॥

श्री-भगवान् उवाच—

इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः ।

वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विप्रो दत्तात्रेयः, योग-र्द्धिम् आपुर् उभयीं यद् उहैहयाद्याः इत्य् उक्तत्वात् । यथागतं तथैव । यदृच्छया ययाव् इत्य् अर्थः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विप्रो दत्तात्रेयो योग-र्द्धिम् आपुर् उभयीं यद् उहैहयाद्याः इत्य् उक्तेः यथैवागतं तथैव यदृच्छया ययौ ॥३२-३३॥

———————————————————————————————————————

॥ ११.९.३३ ॥

अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः ।

सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवान् स्वीयं ब्रह्म-वित् कुलम् इति श्लाघते, नः पूर्वेषां पूर्व-ज इति । अत्र सङ्ग्रह-श्लोकाः—

कपोत-मीन-हरिण- कुमारी-गज-पन्न-गाः ।

पतङ्गः कुररश् चाष्टौ हेयार्थे गुरवो मताः ॥

मधु-कृन् मधु-हर्ता च पिङ्गलाथ द्वयोस् त्रयः ।

उपादेयार्थ-विज्ञाने शेषाः पृथ्व्य्-आदयो मताः ॥

तद् अवान्तर-मेदश् च तत्र तत्र स्फुटी-कृतः ।

अध्याय-त्रितये चाष्ट- नवाष्टाव् ईरिताः क्रमात् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशस्य नवमः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे भगवद्-उद्धव-संवादे

अवधूत-गीतं नवमोऽध्यायः ।

॥११.९॥

———————————————————————————————————————

(११.१०)


  1. निरभिनत् इति क्वचित् पाठः । ↩︎

  2. वासो वा पाठः । ↩︎

  3. थिस् इस् प्रोबब्ल्य् इन्तेर्पोलतेद्। ↩︎