०८ पिङ्गलोपाख्यानं

॥ ११.८.१ ॥

श्री-ब्राह्मण उवाच

सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च ।
देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

अष्टमेऽजगरादिभ्यो नवभ्यः शिक्षितं हरिः ।

अवधूत-गिरा प्राह विवेकायोद्धवं प्रति ॥

प्रारब्ध-कर्म-भोगस्यावश्यं भावित्वात् तद्-अर्थोद्यमैर् नायुर् व्ययो वृथा कर्तव्य इत्य् अजगराच् छिक्षितम् इत्य् आह—सुखम् इत्य्-आदिना । यद् ऐन्द्रियकं सुखं तत् स्वर्गे नरके च भवत्य् एव, यथा दुःखम् । तस्माद् बुद्धस् तन् नेच्छेत ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

अष्टमेऽजगरादाद्याश् च गुरवो नव वर्णिताः ।

पिङ्गलायाः कथा यत्र नैराश्य-सुखदोदिता ॥

स्व-देह-निर्वाहार्थं वृथा नातिचेष्टितव्यम् इत्य् अत्राजगर एव गुरुर् इत्य् आह—सुखम् इति चतुर्भिः । यथा दुःखम् अवाञ्छितम् अपि स्यात्, तथा सुखम् अपि भवेद् एवेति किं तद्-इच्छयेत्य् अर्थः ॥१॥

———————————————————————————————————————

॥ ११.८.२ ॥

ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा ।
यदृच्छयैवापतितं ग्रसेद् आजगरोऽक्रियः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : शरीर-निर्वाह-मात्रं तु यथा-लब्धेन कर्तव्यम् इत्य् आह—ग्रासम् इति । आजगरोऽजगर-वृत्तिः । अक्रिय उदासीनः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आजगरः अजागर-वृत्तिः । अक्रियः अल्प-चेष्टः ॥२॥

———————————————————————————————————————

॥ ११.८.३ ॥

शयीताहानि भूरीणि निराहारोऽनुपक्रमः ।
यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा नापतति तदा किं कर्तव्यं ? तत्राह—शयीतेति । अनुपक्रमो निरुद्यमः । दिष्ट-भुक् दैवम् एव प्रापकम् इति धैर्यवान् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.८.४ ॥

ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् ।
शयानो वीत-निद्राश् च नेहेतेन्द्रिय-वान् अपि ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु समर्थोऽपि शयीतैव किं ? ॐ इत्य् आह—ओज इति । ओज इन्द्रिय-बलम् । सहो मनो-बलम् । बलं शारीरम् एव । तद् युक्तम् अपि देहम् अकर्मकम् एव बिभ्रच् छयान एव भवेत् । वीत-निद्रः स्वार्थे दत्त-दृष्टिश् च भवेन् न पुनर् ईहेत । इन्द्रियवान् अपीति दर्शनादि-व्यापारम् अपि निवरयति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीत-निद्र इति स्वार्थे भगवच्-चिन्तनादौ तु सर्वदा सावधान एव भवेत्, यस्मात् देह-निर्वाहार्थोद्यमेन समयो मा वृथा यात्व् इत्य् एतद्-अर्थम् एवाजगरी वृत्तिर् आश्रिता, न पुनः सैव स्वार्थो ज्ञेय इति भावः ॥४॥

———————————————————————————————————————

॥ ११.८.५ ॥

मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः ।
अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : समुद्राच् छिक्षितम् आह—मुनिर् इति । बहिः प्रसन्नश् चासाव् अन्तर् गम्भीरश् च । दुर्विगाह्य एवं-भूत इति परिकलयितुम् अशक्यः, अलक्ष्याभिप्रायत्वात् । दुरत्ययो ऽनतिक्रमणीयः, तेजस्वित्वात् । अनन्त-पारः कालतो देशतश् चापरिच्छेद्यः, स्वरूपाविर्भावात् । अक्षोभ्योऽविकार्यः, रागाद्य्-अभावात् । स्तिमितोदो निश्चलोदकोऽर्णवो यथा तद्वद् एतैर् गुणैर् भवेद् इत्य् अर्थः ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रसन्न-गम्भीरः—अर्णव-पक्षे जल-प्रसत्तावपि सत्यां दृष्ट्याप्य् अतल-स्पर्शः । मुनि-पक्षे, सर्वत्र चित्त-प्रसत्ताव् अपि निज-रहस्योपास्याप्रकाशकः । अत एवोभयोर् अपि दुर्विगाह्यः, अनिर्णेयान्तस्-तत्त्वः । एवं क्रमेण तत्-तत्-पक्षे दुरत्ययः आक्रान्तुम् अशक्यः जलादि-मयत्वात् अभिभवितुम् अशक्यः, तेजस्वित्वात् । अनन्त-पारः उभयत्रापरिच्छेद्य-स्वरूपाविर्भावात् अक्षोभ्यः, निश्चल-महाजलत्वात् । साधारणैश् चालयितुम् अशक्यः तथा रागाद्य्-अभावाद् विषय-लाभादिभिर् इति ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समुद्राच् छिक्षितम् आह—मुनिर् इति द्वाभ्याम् । गम्भीरोऽपि पुरुषः सुसमर्थ-धिया केनापि नावगताभिप्रायो भवेत्, तस्मात् योगी दुर्विगाह्यः, सर्वथैवालक्ष्य-मनोऽन्तस्-तत्त्वः स्यात् । दुरत्ययस् तेजस्वित्वाद् अनतिक्रम्यः । अनन्त-पारः कदाप्य् अस्वास्थ्य-समयेऽपि क्वाप्य् अतिकष्ट-देशेऽपि वैवश्य-राहित्याद् एवानुद्गीर्ण-स्व-तत्त्वः स्याद् इत्य् अर्थः । विजित-कामादित्वाद् अक्षोभ्यः ॥५॥

———————————————————————————————————————

॥ ११.८.६ ॥

समृद्ध-कामो हीनो वा नारायण-परो मुनिः ।
नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, वर्षासु सरिद्भिः समृद्धोऽपि सागरो यथा नोत्सर्पेत, ग्रीष्मे तद्-विहीनोऽपि न शुष्येत । तथा समृद्ध-कामस् तद्-विहीनो वा न हृष्येन् न शोचेद् इत्य् अर्थः । अत्र हेतुः—नारायण-परो न तु विषय-पर इति ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, वर्षासु सरिद्भिः समृद्धोऽपि सागरो यथा नोत्सर्पेत, ग्रीष्मे तद्-विहीनोऽपि न शुष्येत । तथा समृद्ध-कामोऽपि मुनिर् न कामेन हृष्येत्, दीनोऽपि न दैन्येन शोचेत् । ते नारायण-परास् तन्-माधुर्यानुभव-लाभाभ्याम् एवास्य हर्ष-शोकौ स्याताम् ॥६॥

———————————————————————————————————————

॥ ११.८.७ ॥

दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः ।

प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

महतां वनिता-कामः पतत्य् अन्धे तमस्य् अलम् ।

अन्यत्र निरयं याति दुःखवान् स्याद् विपर्ययः ॥ इति > धर्म-संहितायाम् । > मोह-कारण-भावास् तु मायेत्य् आहुर् मनीषिणः । > अविद्यमानं मे त्यक्तुं तज् ज्ञापयति यत् स्वयम् ॥ > कुत्राचिज् ज्ञान-रूपं सल्-लाभ-रूपं च भण्यते । > अयं प्राच्युर्यम् उद्दिष्टं माया स्यात् प्रचुरेत्य् अपि ॥ इति > तन्त्र-निरुक्ते । > स्वतन्त्रं परमार्थाख्यं स्वतन्त्रैकाहरेर् मतिः । > सैव माया समुद्दिष्टा मुख्यतस् तत्-स्वरूपका ॥ > मतिमन् मतिभेदोऽपि न विष्णौ क्वचिद् इष्यते । > पारमार्थेन नास्त्य् एव तद् अन्यत् तद्-वशं यतः ॥ > अनाद्य्-अनन्त-कालेषु विद्यमानम् अपि ध्रुवम् । > अतो माया-मयं प्राहुः सर्वं तद्-वशगं यतः ॥ इति माया-विभवे > । > स्वाधीनं सद् इति प्रोक्तं पराधीनम् असत् स्मृतम् । > अविद्यमानम् एतस्माज् जगद् आहुर् विपश्चितः ॥ > अनाद्य्-अनन्त-कालेषु विद्यमानम् अपि ध्रुवम् । > अस्वातन्त्र्यात् तु नास्त्य् एवेत्य् एवं वाच्यं जगत् सदा ॥ > सदा वृत्तेर् विद्यमानम् इति ब्रूयाद् यदि क्वचित् । > तथापि नाशवद् धीदं प्रवाहाद् यस्य नित्यता ॥ > अतो निर्भव्यम् इत्य् आहुः प्रपञ्चं ह्य् अस्ति यद्यपि । > विष्णोर् इच्छा-वशत्वाच् च माया-मात्रम् इति स्फुटम् ॥ > परमार्थं त्व् एकम् एव स्वातन्त्र्याद् विष्णुम् अव्ययम् । > यदि कल्पयातीदं सः स एव विनिवर्तयेत् ॥ > विष्णुस् तस्मात् तद्-वशत्वान् नास्तीति द्वैतम् उच्यते । > स्वातन्त्र्येण हरौ ज्ञाते पराधीनत्व-निश्चयात् ॥ > इत्य् आहुर् उपदेष्टार आचार्यास् तत्त्व-वेदिनः । > यथैव राजन् विज्ञाते नान्योऽस्तीति स्फुतं वचः ॥ > स्वातन्त्र्यात् पारतन्त्र्याच् च तद्-भृत्यादिषु सत्स्व् अपि । > यथैक-च्छत्रवांश् चैव एक-वीर इतीव च । > तथैव सर्व-प्राधान्याद् अद्वितीयो हरिः स्मृतः ॥ > एवं मुक्ता विजानन्ति सायुज्यं प्रापिता विभोः । > अनन्त-कालं पश्यन्तो जगद् एतच् चराचरम् ॥ > तस्यैतस्य ह्य् अविज्ञानात् केवल-श्रान्ति-रूपकम् । > जगद् उक्त्वा तमो यान्ति ईशितव्ये शशापत ॥ इति च । > पुत्रा मे यदि विद्यन्ते मरिष्यन्त्य् एव ते ध्रुवम् । > यदि राज्यं करोत्य् एष नश्यत्य् एतद् असंशयम् ॥ इति > धृतराष्ट्र-वचनम् । > प्रपञ्चो यदि विद्येत इत्य्-आदि । > यदि शब्दस् त्व् अवस्तुत्वे चार स्वातन्त्रे च संशये । > अवस्तु-शब्दश् चाशाक्ते ह्य् अल्प-शक्तौ च कीर्त्यते ॥ इति > शब्द-निर्णये ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : रूप-गन्ध-स्पर्श-शब्द-रसैः पञ्चभिर् विषयैर् मोहिताः पतङ्ग-मधुकर-गज-हरिण-मीना हताः, अतस् तेष्व् अनासक्तौ पञ्चैते गुरवः । तद् उक्तम्,

पतङ्ग-मातङ्ग-कुरङ्ग-भृङ्ग- > मीना हताः पञ्चभिर् एव पञ्च । > एकः प्रमादी स कथं न हन्यते > यः सेवते पञ्चभिर् एव पञ्च ॥ इति ।

तत्र रूप-विलास-मोहितो नश्यतीति पतङ्गाच् छिक्षितम् आह—दृष्ट्वेति । तस्या भावैः प्रलोभितः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रसासक्तिर् नाश-हेतुर् इति पतङ्गाच् छिक्षितम् आह—दृष्ट्वेति द्वाभ्याम् ॥७॥

———————————————————————————————————————

॥ ११.८.८ ॥

योषिद्-धिरण्याभरणाम्बरादि-

द्रव्येषु माया-रचितेषु मूठः ।

प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या

पतङ्ग-वन् नश्यति नष्ट-दृष्टिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रियम् उपलक्षणी-कृत्यैतत् प्रपञ्चयति—योषिद् इति ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि स्त्री-हिरण्यादिषु मध्ये स्त्रियां पञ्चापि विसायाः सन्ति, तद् अपि योषिद्-आदिषु प्रथमं दृष्टिर् एव पततीति रूपस्यैव प्राधान्यम् ॥८॥

———————————————————————————————————————

॥ ११.८.९ ॥

स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता ।

गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधु-करीं मुनिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मधुकराच् छिक्षितम् आह—स्तोकम् इति । गृहान् गृह-स्थान् अहिंसन्न् अपीडयन् । अयं भावः—यथा मधुकरो विशिश्ट-गन्ध-लोभेनैकस्मिन्न् एव पद्मे वसन्न् अस्त-मय-समये मुकुलिते तस्मिन् बध्यते, एवं मुनिर् अपि गुण-लोभेनैकम् एव गृहम् आश्रितस् तन्-मोहेन बध्यत इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधुकराच् छिक्षितम् आह—स्तोकम् इति द्वाभ्याम् । मधुकरो यथा विशिष्ट-गन्ध-लोभेनैकस्मिन्न् एव पद्मे वसन्न् अस्त-मय-समये तस्मिन् मुकुलिते सति बध्यते। एवं मुनिर् अपि गुण-लोभेनैकम् एव गृहम् आश्रितस् तन्-मोहेन बध्यत । तस्मात् स्तोकं स्तोकम् अल्पम् अल्पं ग्रासं गृहाद् गृह्णन् ग्रसेत् यावता देहो वर्तेतेति ग्रषानाम् आधिक्य-न्यूनत्वे सिद्धे गृहान् गृहस्थान् अहिंसन् अपीडयन् ॥९॥

———————————————————————————————————————

॥ ११.८.१० ॥

अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः ।

सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अणुभ्यश् चेति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अणुभ्यश् चेति । त्रिविधो मधुकृत्—एको भ्रमर-जातिः, असङ्ग्रहित्व-सङ्ग्रहित्व-भेदेन द्वयी च मक्षिका-जातिर् इति पद्य-त्रयेण क्रमाद् उदाहरणानि ज्ञेयानि ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधुकरात् सारग्राहित्वम् अपि धर्मं शिक्षेद् इत्य् आह—अणुभ्यश् चेति ॥१०॥

———————————————————————————————————————

॥ ११.८.११ ॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् ।

पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वि-विधो मधु-कृत् । मधु कृन्तति पुष्पाद् आच्छिद्य गृह्णातीति मधु-कृद् भ्रमरः । मधु करोत्य् आहारत्वेन स्वरूपेण चेति मधु-मक्षिका च । तत्र प्रथमाच् छिक्षितम् उक्तम्, द्वितीयाच् छिक्षितम् आह—सायम् इदं भोक्ष्यामि, श्व इदं भोक्ष्यामीति भिक्षितम् अन्नादि न सङ्गृह्णीत, किन्तु पाणि-पात्रस् तन्-मात्र-ग्राही । यद् वा, उदरम् एवामत्रं पात्रं यस्य सः । एक-भिक्षायाम् उदर-मात्र-ग्राही भवेत् । सङ्ग्रही तु मक्षिकेव न भवति न जीवतीत्य् अर्थः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मधु करोइईति मधुकर-शब्देन मक्षिकाप्य् उच्यते इति । ततः शिक्षितम् आह—सायन्तनम् इति । सायम् इदं भोक्ष्ये श्व इदं भोक्ष्ये इति भिक्षितम् अन्नादि न संगृह्णीतेति किं पुनर् ह्यस्तनं पौर्वमासिकं पौर्वराकं वेति भावः । अत्र सायं श्वो वा भविष्यति यद् वस्तु दृश्यम् अन्नादि, तस्य साङ्ग्रहो न सम्भवेत्, अतः सायन्तनं श्वस्तनं वा निमन्त्रणं सङ्गृह्णीयाद् इति केचिद् आहुः । केन पात्रेण गृहे गृहे भिक्षां कुर्याद् इत्य् अत आह—पाणि-पात्र इति । सर्वतो भिक्षित-ग्रासान् आनीय कुत्र स्थापयेद् इत्य् अत आह—उदरामत्र इति । उदरम् एव अमत्रं भिक्षा-निधान-भाण्डं यस्य सः ॥११॥

———————————————————————————————————————

॥ ११.८.१२ ॥

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः ।

मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् विवृणोति, पुनः सायन्तनम् इति ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साङ्ग्रहे कृते सति किं भवेत् ? इत्य् अत आह—सायन्तनम् इति ॥१२॥

———————————————————————————————————————

॥ ११.८.१३ ॥

पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि ।

स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पर्शासक्तिर् नाश-हेतुर् इति गजाच् छिक्षितम् इत्य् आह—पदापीति । पादेनापि दारवीं दारुमयीम् अपि । गजो हि करिणीं प्रदर्श्य निखात-तृण-पिहित-गर्ते निपात्य बध्यते ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्पर्शासक्तिर् नाश-हेतुर् इति गजाच् छिक्षितम् इत्य् आह द्वाभ्याम् । पदा पादेनापि दारवीं दारुमयीम् अपि । गजो हि करिणीं प्रदर्श्य तृणादि-पिहित-गर्ते निपात्य बध्यते ॥१३॥

———————————————————————————————————————

॥ ११.८.१४ ॥

नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः ।

बलाधिकः स हन्येत गजैर् अन्यैर् गजो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, नाधिगच्छेद् इति । नोपगच्छेत् ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इयं ममैव भोग्येति स्त्रियं नाधिगच्छेत् न विश्वस्तः स्यात् । यतस् त्वया आनीतैर् बलाधिकैर् जारैः स किल हन्येत् ॥१४॥

———————————————————————————————————————

॥ ११.८.१५ ॥

न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् ।

भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थ-विन् मधु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्याग-भोग-विहीनो धन-सञ्चयः परगामी भवतीत्य् अत्र मधु-हा गुरुर् इत्य् आह—न देयम् इति । तद् अन्यो बलवान् भुङ्क्ते तद् अप्य् अन्यस् तच् चान्यः । मधु-हा मक्षिकाभिः सञ्चितं मधु यथा भुङ्क्ते तद्वत् । ननु सुगुप्तं धनं कथम् अन्यो ज्ञास्यति हरिष्यति चेति तत्राह—अर्थ-वित् लिङ्गैर् अर्थं तद् उपायं च वेत्तीत्य् अर्थ-वित् । यथा मधु-हा तरु-कोटरादि-गतं मधु वेत्ति हरति च ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्याग-भोग-हीनो धन-सञ्चयः पर-गामी भवतीत्य् अत्र मधु-हा गुरुर् इत्य् आह—न देयम् इति । तद्-अन्यो बलवान् भुङ्क्ते, तेनापि सञ्चितम् अन्यः, मधुहा मक्षिकाभिः सञ्चितं मधु यथा भुङ्क्ते तद्वत् । ननु सुगुप्तं धनं कथम् अन्यो ज्ञात्वा हरेद् इत्य् अत आह—अर्थ-वित् लिङ्गैर् अर्थं तद्-उपायं च वेत्तीत्य् अर्थ-वित् । यथा मधु-हा तरु-कोटरादि-गतं मधुमक्षिकानुगमनेन वेत्ति ॥१५॥

———————————————————————————————————————

॥ ११.८.१६ ॥

सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः ।

मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वोद्यमं विनापि भोगः संभवतीत्य् अत्रापि स एव गुरुर् इत्य् आह—सुदुःखेति। आशासानानाम् इति वक्तव्ये वर्ण-लोप आर्षः ।

यतिश् च ब्रह्मचारी च पक्वान् न स्वामिनाव् उभौ । > तयोर् अन्नम् अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥

इति गृहिणाम् आवश्यकत्वेन दान-विधानात् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सुदुःखेति । स्वशादि-देश-गृह्य-मधु-मक्षिका-सङ्ग्रहीतृ-विषयकं वाक्यम् । कामयमानानां गृहमेधिनां वित्तैर् हेतुभिः सिद्धा गृहाशिषोऽन्नादीन् अर्थान् यतिर् अग्रतो भुङ्क्ते ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वोद्यमं विनापि भोगः संभवेद् इति । अत्रापि स एव गुरुर् इत्य् आह—सुदुःखेति। आशासानानाम् इति वक्तव्ये वर्ण-लोप आर्षः ।

यतिश् च ब्रह्मचारी च पक्वान् न स्वामिनाव् उभौ । > तयोर् अन्नम् अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ इति ॥१६॥

———————————————————————————————————————

॥ ११.८.१७ ॥

ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् ।

शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिणाच् छिक्षितम् आह—ग्राम्येति । भगवद्-गीतं तु शृणुयाद् एव । मृगयोर् लुब्धकस्य ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राकृत-गान-माधुर्यासकित्र् अनर्थ-हेतुर् इति हरिणाच् छिक्षितम् आह—ग्राम्य-गीतम् इति । तेन भगवद्-गीतं शृणुयाद् एव ॥१७॥

———————————————————————————————————————

॥ ११.८.१८ ॥

नृत्य-वादित्र-गीतानि जुषन् ग्राम्यानि योषिताम् ।

आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगी-सुतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरिण-शब्दाद् एव हरिणी-सुतः ऋष्यशृङ्गोऽपि गुरुर् ज्ञातव्य इत्य् आह—नृत्येति । वश्यो बभूवेति शेषः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ग्राम्य-गीतासक्तेर् उदाहरणम् आह—नृत्येति ॥१८॥

———————————————————————————————————————

॥ ११.८.१९ ॥

जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः ।

मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : रसासक्तिर् नाश-हेतुर् इति मीनाच् छिक्षितम् इत्य् आह—जिह्वयेति । अतिप्रमाथिन्या अतिक्षोभिकया दुर्जयया । ऋच्छति प्राप्नोति । बडिशैर् आमिष-लिप्तैर् लोह-कण्टकैः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राकृत-रसासक्तिर् अनर्थ-हेतुर् इति मीनाच् छिक्षितम् आह—जिह्वयेति । अतिप्रमाथिन्या अतिक्षोभिकया दुर्जयया । ऋच्छति प्राप्नोति । बडिशैर् आमिष-लिप्तैः ॥१९॥

———————————————————————————————————————

॥ ११.८.२०-२१ ॥

इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः ।

वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते ॥

तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।

न जयेद् रसनं यावज् जितं सर्वं जिते रसे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्जयत्वम् उपपादयति—इन्द्रियाणीति द्वाभ्याम् । अयं भावः—यद्य् आहारस् त्यज्यते, तर्ह्य् अन्येन्द्रिय-जयः केवलं भवति, रसनेन्द्रियं तु वर्धते । यदि तु भुज्यते, तर्हि पुनश् च रसासक्त्या सर्वेन्द्रिय-क्षोभः स्यात् । अतो रसासक्तिं परित्यज्यौपधवद् भुञ्जीतेति, प्राण-वृत्त्यैव सन्तुष्येद् इत्य् अत्रोक्तम् अपि रसनस्याति-दुर्जयत्व-ज्ञापनायोच्यत इति विशेषः ॥२०-२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : रसे जिते सति सर्वं जितम् इति तादृशस्य तस्य योग्यत्वात् भूतवन् निर्देशः ॥२०-२१॥ [अत्रानुरूपार्थकं ७.१५.२० पद्यं द्रष्टव्यम्]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं रूप-गन्ध-स्पर्श-शब्द-रसैः पञ्चभिर् विषयैः पतङ्ग-मधुकर-गज-हरिण-मीनाः पञ्च मोहिता हताः । तद् उक्तं—

कुरङ्ग-मातङ्ग-पतङ्ग-भृङ्ग- > मीना हताः पञ्चभिर् एव पञ्च । > एकः प्रमादी स कथं न हन्यते > यः सेवते पञ्चभिर् एव पञ्च ॥ इति ।

किन्त्व् अन्येन्द्रियाणां वृत्ति-प्रदं रसनेन्द्रियम् एवानर्थ-कारीत्य् अतस् तस्य जये प्रयत्नं कुर्वीतेत्य् आह—इन्द्रियाणीत्य् द्वाभ्याम् । अयं भावः—यद्य् आहारस् त्यज्यते, तर्ह्य् अन्येन्द्रिय-जयः केवलं भवति, रसनेन्द्रियं तु वर्धते । यदि तु भुज्यते, तर्हि पुनश् च रसासक्त्या सर्वेन्द्रिय-क्षोभः स्यात् । तस्मात् तथा रसनेन्द्रियं जेतव्यं यथा तद्-अनुवर्तीन्य् अपीन्द्रियाणि जितानि स्युः । तादृशो रसनेन्द्रियस्य जयस् तु रसनयैव भगवद्-उच्च-नाम-कीर्तन-रसास्वादाद् भवेत् । यद् उक्तं—रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते [गीता २.४७] इति ॥२०-२१॥

———————————————————————————————————————

॥ ११.८.२२ ॥

पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा ।

तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पिङ्गलाया नैराश्यं शिक्षितम् इति वक्तुं तद्-आख्यानम् आह—पिङ्गलेत्य् आदिना । मे मया शिक्षितम् ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञान-प्रकरणेऽप्य् अस्मिन् प्रसङ्गात् परम-भक्तिम् अपि दर्शयति पिङ्गला-नामेति ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पिङ्गलाया नैराश्यं शिक्षितम् इति । तद्-उपाख्यानम् आह—पिङ्गलेति ॥२२॥

———————————————————————————————————————

॥ ११.८.२३ ॥

सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती ।

अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वैरिणी काम-चारिणी । सङ्केते रति-स्थाने ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सङ्केते रति-स्थाने । उपनेष्यती स्व-समीपम् आनेष्यन्ती आनेतुम् इत्य् अर्थः ॥२३॥

———————————————————————————————————————

॥ ११.८.२४ ॥

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ।

तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थ-कामुकी ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् वित्तवतः सधनान्, अत एव शुल्कदान् मूल्यदान् । कान्तान् सुरतार्हान् ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुल्कदान् मूल्यं दत्त्वा सुरत-ग्राहिणः ॥२४॥

———————————————————————————————————————

॥ ११.८.२५-२६ ॥

आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी ।

अप्य् अन्यो वित्तवान् कोऽपि माम् उपैष्यति भूरिदः ॥

एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती ।

निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपिः सम्भावनायाम् । अन्योऽपि माम् उपैष्यत्य् एवं दुराशयेत्य् उत्तरेणान्वयः । द्वार्य् अवलम्बाना पुनः प्रविशती पुनर् निर्गच्छन्ती एवं कुर्वती । निशीथम् अर्घ-रात्रं प्राप ॥२५-२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निशीथम् अर्घ-रात्रं प्राप ॥२५-२६॥

———————————————————————————————————————

॥ ११.८.२७ ॥

तस्या वित्ताशया शुष्यद्-वक्त्राया दीन-चेतसः ।

निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्वेदोऽलं-बुद्धिः वित्त-चिन्तैव हेतुर् यस्य सः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वित्त-चिन्तैव हेतुर् यस्य सः ॥२७॥

———————————————————————————————————————

॥ ११.८.२८ ॥

तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम ।

निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा यथावत् । मम मत्तः शृणु । ननु किं निर्विण्णाया गीत-श्रवणेन? तत्राह—हि यस्मात् पुरुषस्याशा-पाशानां निर्वेदोऽसिर् यथा तथा छेत्ता ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा मम यथावन् मत्तः आशा एव संसार-बद्धस्य पाशाः स्युस् तासां छेदने निर्वेद एव असिर् भवेत् ॥२८॥

———————————————————————————————————————

॥ ११.८.२९ ॥

न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति ।

यथा विज्ञान-रहितो मनुजो ममतां नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र हेतुः—न हीति । अङ्ग हे राजन् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यावश्योपादेयत्वम् आह—न हीति ॥२९॥

———————————————————————————————————————

॥ ११.८.३० ॥

पिङ्गलोवाच

अहो मे मोह-विततिं पश्यताविजितात्मनः ।
या कान्ताद् असतः कामं कामये येन बालिशा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अविजितात्मत्वे हेतुः, याहं बालिशा विवेक-शून्या तस्याः । कुतः ? येन कारणेनासतस् तुच्छान् नरात् कामं कामये ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कामं कन्दर्पं कामये, येन कामेन हेतुना अहं बालिशा मूढा ॥३० ॥

———————————————————————————————————————

॥ ११.८.३१ ॥

सन्तं समीपे रमणं रति-प्रदं

वित्त-प्रदं नित्यम् इमं विहाय ।

अकाम-दं दुःख-भयाधि-शोक-

मोह-प्रदं तुच्छम् अहं भजेऽज्ञा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बालि-शत्वं प्रपञ्चयति—सन्तम् इति चतुर्भिः । समीपे सन्तम् अन्तर्यामित्वत् । इमम् अपरोक्षम् ईश्वरम् ॥३१॥


कैवल्य-दीपिका : सन्तम् इति । अहम् अज्ञा इमम् आत्मानं विहाय । अन्यं रमणं भजामि । सेव्यासेव्यत्व-द्योतनाय द्वयोर् विशेषणानि । वित्तं विचारः । विद् विचारणे इत्य् अस्य भावे निष्ठायां रूपम् । नुद् विदेति वा णत्वम् । मोहः भोगासङ्गाद् विवेकाभावः अज्ञम् एवाह—अहो इत्य्-आदि ॥३१॥ [मु।फ। १६.९]


जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्वेदेन झटिति पूर्वोक्त-संस्कारोदयाच् छ्री-दत्तात्रेय-कृपा-प्रभावेण तादृश-स्फूर्तेर् वा सन्तं समीप इत्य्-आदिनोक्तं रति-प्रद-प्रीति-विशेषस्य च दातारं सैरिन्ध्र्य्-आदिभ्य इव वित्त-प्रदं सर्व-काम-प्रदं च ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समीपे ममान्तर्-हृदये एव सन्तं रमणम् इति इमम् एव कथम् अहं न रमयामीति भावः । रति-प्रदम् इति । अयम् एव कथम् अहं मां न रमयतु ? किम् अन्येन पापिष्ठ-पुरुषेण ? इति भावः । वित्त-प्रदम् इति मद्-दत्त-रति-तुष्टोऽयं वित्तम् अपि प्रचुरं दास्यत्य् एवेत् भावः । अकामदं काम-पूर्तिं दातुम् असमर्थं भगवत् एतादृशी मतिर् अस्यास् तदा तस्यां रजन्यां तद्-अङ्गने यदृच्छयागत-शयितस्य श्री-दत्तात्रेयस्य कृपा-भराद् अभूद् इति प्राञ्चः ॥३१॥

———————————————————————————————————————

॥ ११.८.३२ ॥

अहो मयात्मा परितापितो वृथा

साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया ।

स्त्रैणान् नराद् यार्थ-तृषोऽनुशोच्यात्

क्रीतेन वित्तं रतिम् आत्मनेच्छती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिविगर्ह्या अतिनिन्द्या या वार्ता जीविका, तया । कुतः ? साङ्केत्येन या वृत्तिः, तया । बहुव्रीहिणा स्व-विशेषणं वा । परितापं प्रपञ्चयति--स्त्रैणाद् इति। स्त्री-लम्पटाद् अथ च अर्थ-तृषो लुब्धाद् अत एव अनुशोच्यान् नराद् याहं वित्तं रतिंइच्छतीमया वृथा आत्मा परितापितः । केन वित्तम् इच्छती ? तेन नरेण क्रीतेन स्वयं विक्रीतेन आत्मना देहेन ॥३२॥


कैवल्य-दीपिका : अहो इति । धर्मेण अतिविगर्ह्यया वार्तया जीविकया दुर्लभस्य वस्तुनः प्राप्तौ सुखं भवति तद् अपि नास्तीत्य् आह—स्त्रैणाद् इति । स्त्रीणां वश्यान् नरान् न तु देवाद् इत्य् अर्थः । न च वित्त-मयी अर्थेति । अर्थ-तृष्णा-युक्तात् कृपणाद् इत्य् अर्थः । न चैवं विधेनापि सह सदैव सम्भोगोऽस्तीत्य् आह—अनुशोच्याद् इति । मृत्यु-ग्रस्ताद् इत्य् अर्थः । क्रीतेन विक्रीतेन आत्मना देहेन रतिं वित्तं चेच्छति । योऽहं त्वयेत्य् अर्थः ॥३२॥ [मु।फ। १६.१०]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या अहं क्रीतेन विक्रीतेन आत्मना स्व-देहेन स्त्रैणात् स्त्री-लम्पटान् नरात् वित्तं रतिंइच्छन्ती अभूवम् । यद् वा, नरेण क्रीतो य आत्मा मद्-देहस् तेन ॥३२॥

———————————————————————————————————————

॥ ११.८.३३ ॥

यद् अस्थिभिर् निर्मित-वंश-वंश्य-

स्थूणं त्वचा रोम-नखैः पिनद्धम् ।

क्षरन्-नव-द्वारम् अगारम् एतद्

विण्-मूत्र-पूर्णं मद् उपैति कान्या ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो धिङ् मां, याहम् अतिबीभत्सितं भजामीत्य् आह—यद् इति । वंशो नाम स्थूणासु निहितस् तिर्यग् वेणुः । वंश्यास् तस्मिन्न् उभयतो निहिता वेणवः । अस्थिभिर् एव निर्मिता वंशादयो यस्मिंस् तत् । तत्र पृष्ठे दीर्घम् अस्ति यत् स वंशः । पार्श्वास्थीनि वंश्यानि । वंश्यानि स्थूणा हस्त-पादास्थीनि । तथा रोमभिर् नखैश्पिनद्धं छादितम् । तथापि क्षरन्ति नव-द्वाराणि यस्मिंस् तत् । एवं-भूतागार-रूपं नृ-शरीरम् एतन् मत् मत्तोऽन्या का वा कान्त-बुद्ध्या उपैति सेवते ॥३३॥


क्द् : यद् इति । यत्र विवेकात् पूर्वं वस्तु-बुद्धिः तस्यैव विचार्यमाणत्वे बीभत्सतेत्य् आह—यद् इत्य्-आदि । एतद् आगारं गृहं यद् अन्या का उपैति न कापीत्य् अर्थः । एतत् किं ? यद् यद् इत्य्-आदि । वंशा वेणवः वंश्यं तद्-आधार-भूतं काष्ठं स्थूणाः स्तम्भाः । पिनद्धं बद्धम् । चरन्ति नव-द्वाराणि यस्मिन् तत् ॥३३॥ [मु।फ। १६.११]


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अतिबीभत्सं विष्ठा-गृहम् एवाहं शृङ्गार-रसं स्व-भोग्यम् अविदम् इत्य् आह—यद् अगारम् अस्थिभिर् एव निर्मितो वंशो वंश्याः स्थूणाश् च यस्मिंस् तत्, तत्र पृष्ठे दीर्घम् अस्थि यत्, स वंशः । पार्श्वादीनि वंश्यानि, हस्त-पादास्थीनि स्थूणाः । मत् मत्तोऽन्या का उपैति ? ॥३३॥

———————————————————————————————————————

॥ ११.८.३४ ॥

विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः ।
यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्मदात् कामम् अच्युतात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सत्-सङ्गतौ सत्याम् अप्य् अहो मम मोह इत्य् आह—विदेहानाम् इति । याहम् असती अच्युताद् अन्यं कामं भोगम् इच्छन्ती, सा ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या अहम् असती अच्युताद् अस्मात् तृष्णा आत्म-प्रदाद् अप्य् अन्यं पुरुषं कामं भोगम् इच्छन्ती याचमाना ॥३४॥

———————————————————————————————————————

॥ ११.८.३५ ॥

सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं निर्विण्णा सती अतः परम् एवं करिष्यामीत्य् आह—सुहृद् इति । अयम् ईश्वरः । आत्मनैव आत्मानम् एव निवेद्य तं विक्रीय विशेषेण क्रीत्वा, अनेनैव सह रमेरमा लक्ष्मीर् यथा ॥३५॥


जीव-गोस्वामी (भक्ति-सन्दर्भः ३१०) : तत्र रागात्मिकायां रुचिर् यथा—सुहृत् प्रेष्ठतमो नाथ इति । अत्र स्वाभाविक-सौहृद्यादि-धर्मैस् तस्मिन्न् एव स्वाभाविक-पतित्वं स्थापयित्वा परस्यौपाधिक-पतित्वम् इत्य् अभिप्रेतम् । अन्यत्र पत्याव् एकत्वं सा गता यस्माच् चरु-मन्त्राहुति-व्रता इति छान्दोग्य-परिशिष्टानुसारेण कृत्रिमम् एवात्मत्वम् । तस्मिन् परमात्मनि तु स्वभावत एवेत्य् आत्म-शब्दस्याप्य् अभिप्रायः । इदं यद्यपि तस्मिन् पतित्वम् अनाहार्यम् एवास्ति, तथापि आत्मनैव मूल-भूतेनैव तं विशेषतः क्रीत्वा यथान्यापि कन्या विवाहात्मकेन स्वात्म-समर्पणेन कञ्चित् पतित्वेनोपादत्ते, तथाभावेनाश्रित्यानेन परमम् अनाहर-रूपेण तेन सह रमे, रमा लक्ष्मीर् यथा । तद् एवं तस्याः पिङ्गलाया रागे स्व-रुचिर् द्योतिता ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मना मूल्य-भूतेन विशेषतः क्रीत्वा ॥३५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किम् अतः परं चिकीर्षसीति चेद् एवं करोमीत्य् आह—सुहृद् इति । आत्मना स्व-देहेनानेन दत्तेन तं विक्रीय विशेषेण क्रीत्वा अहं प्राप्तेन तेन प्रेष्ठतमेन सह रमे॥३५॥

———————————————————————————————————————

॥ ११.८.३६ ॥

कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः ।
आद्य्-अन्तवन्तो भार्याया देवा वा काल-विद्रुताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यस्यासेव्यत्वं दर्शयति—कियद् इति । आद्यन्तवन्तो ये कामा विषयाः काम-दा नरा वा देवा वा काल-कलिता भार्यायाः कियत् प्रियं कृतवन्तः ? न किञ्चित् । अतो नेहामुत्र च तद्-व्यतिरिक्तः कोऽपि सेव्योऽस्तीत्य् अर्थः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये कामा विषयाः । ये कामदा वा नरा देवा वा, ते सर्वे आद्यन्तवन्तः कालेनैव विद्रुताः । अतो भार्यायाः कियत् प्रियं व्यभजन् कृतवन्तः ? न किंचित् । अत इहामुत्र च तद्-व्यतिरिक्तः कोऽपि मया न सेव्य इति भावः ॥३६॥

———————————————————————————————————————

॥ ११.८.३७ ॥

नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा ।
निर्वेदोऽयं दुराशाया यन् मे जातः सुखावहः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं निश्चित्य स्व-भाग्यम् अभिनन्दति—नूनम् इति । दुष्टा आशा यस्यास् तस्या मे॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं निश्चित्य स्व-भाग्यम् अभिनन्दति—नूनम् इति । केनापि कर्मणेति भो विरक्त-वर्य, कृपया अद्य मद्-अङ्गनम् एव सफलीकुरु । अत्रैवास्स्व शेस्व किंचिद् भुङ्क्ष्व पिब चेति यदृच्छयैवागतं श्री-दत्तात्रेयम् उक्त्वा तत्-स्थान-संस्कार-मार्जन-लेपनादिकं सायं-काले तया कृतम् इति प्राञ्चः ॥३७॥

———————————————————————————————————————

॥ ११.८.३८ ॥

मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः ।
येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु धनाप्राप्त्या क्लिष्टासि, कथं विष्णुः प्रीतः ? तत्राह—मैवम् इति । मन्द-भाग्य चेद् अहं स्यां तर्ह्य् एव निर्वेद-हेतवः क्लेशा न स्युर् इत्य् अर्थः । येन निर्वेदेन अनुबन्धं गृहादिकं निर्हृत्य परित्यज्य ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु धनाप्राप्त्या क्लिष्टासि, कथं ते विष्णुः प्रीतः ? तत्राह—मैवम् इति । यदि मे विष्णुर् न प्रीतस् तदा मे मन्द-भाग्याया वेश्यायाः क्लेशा निर्वेदे हेतवो न स्युःयेन निर्वेदेन अनुबन्धं गृहादिकं निर्हृत्य परित्यज्य ॥३८॥

———————————————————————————————————————

॥ ११.८.३९ ॥

तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः1

त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतस् तेन श्री-विष्णुनोपकृतं कृतम् उपकारं निर्वेद-लक्षणम् । ग्राम्येषु नरेषु विषयेषु वा सङ्गताः ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतस् तेन विष्णुना उपकृतं कृतम् उपकारम् इमं निर्वेद-लक्षणं शिरसा गृहीत्वा ग्राम्येषु विषयेषु सङ्गताप्य् अहम् ॥३९॥

———————————————————————————————————————

॥ ११.८.४० ॥

सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती ।
विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथं व्रजसि तद् आह—सन्तुष्टेति ॥४०॥


जीव-गोस्वामी (भक्ति-सन्दर्भः ३१२) : रागानुगायां प्रवृत्तिर् अपीदृशी—सन्तुष्टेति । अमुनेति भाव-गर्भ-रमणेन सह । आत्मना मनसैव तावद् विहरामि, रुचि-प्रधानस्य मार्गस्यास्य मनः-प्रधानत्वम् । तत् प्रेयसी-रूपेणासिद्धायास् तादृश-भजने प्रायो मनसैव युक्तत्वात् । अनेन श्रीमत्-प्रतिमादौ तादृशीनाम् अप्य् औद्धत्यं परिहृतम् । एवं पितृत्वादि-भावेष्व् अप्य् अनुसन्धेयम् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शरणं गता सति कीदृशी बुभूषसि ? इत्य् अत आह—सन्तुष्टेति । एतत् श्रद्दधती विश्वसती एतद् एव किं ? तत्राह—विहरामीति ॥४०॥

———————————————————————————————————————

॥ ११.८.४१ ॥

संसार-कूपे पतितं विषयैर् मुषितेक्षणम् ।
ग्रस्तं कालाहिनात्मानं कोऽन्यस् त्रातुम् अधीश्वरः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ब्रह्मादीन् हित्वा अमुनैवेति कोऽयं नियमस् तत्राह—संसारेति । मुषितेक्षणम् अपहृत-विवेकम् ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् एव शरणं यामीत्य् अत्र हेतुः संसारेति ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु ब्रह्मादीन् हित्वा अमुनैवेति कोऽयम् आग्रहस् तत्राह—संसारेति ॥४१ ॥

———————————————————————————————————————

॥ ११.८.४२ ॥

आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् ।
अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हि किम् आत्म-त्राणोपाधिना तं भजिष्यसि, न, तत्र सर्वतो निर्विद्य भगवद्-भजने प्रवृत्तस्यात्मन एव समर्थत्वाद् इत्य् आह—आत्मैवेति । यदा एवं जगत् पश्येत् ततश् चाप्रमतः सन्निखिलाद् इहामुत्र च भोगान् निर्विद्येत तदा ह्य् आत्मनैवात्मनो गोप्तेत्य् अन्वयः । अतः केवलं प्रेम्णैव भजामीति भावः ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मा परमात्मा आत्मनो जीवस्य अखिलात् परमात्म-व्यतिरिक्तात् निर्वेदे हेतुः अप्रमत्त इति ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि किम् आत्म-त्राणोपाधिना भजिष्यसीति तत्र नैवेत्य् आह—आत्मैवेति । यदा ह्य् आत्मा अखिलाद् भोगान् निर्विद्येत, तत्र हेतुः इदं जगत् कालाहिना ग्रस्तं पश्येत् । तदा आत्मैव आत्मनः स्वस्य गोप्ता संसाराद् रक्षिता भवेत् । ममात्मा च सम्प्रत्य् एतादृश एवाभूद् अतोऽहं स्वत एव निस्तीर्ण-संसारा अभूवम् एव । तेनातः परं केवलं प्रेम्णैव तत् भजिष्ये इति भावः ॥४२॥

———————————————————————————————————————

॥ ११.८.४३ ॥

श्री-ब्राह्मण उवाच

एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् ।

छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कान्तस्य तर्षोऽभिलाषस् ततो जातम् ।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.८.४४ ॥

आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संच्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : फलितम् आह—आशा हीति ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : सुष्वाप भगवद्-एकाश्रयेण निर्वृत्ता बभूवेत्य् अर्थः ॥४४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशऽस्कन्धेऽष्टमः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > पिङ्गलोपाख्यानेऽष्टमोऽध्यायः ।

॥११.८॥

———————————————————————————————————————

(११.९)


  1. -सङ्गता ↩︎