०७ श्री-भगवद्-उद्धव-संवादारम्भः

॥ ११.७.१ ॥

श्री-भगवान् उवाच—

यद् आत्थ मां महा-भाग तच् चिकीर्षितम् एव मे ।

ब्रह्मा भवो लोक-पालाः स्वर्-वासं मेऽभिकाङ्क्षिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्तमे तूद्धवस्यात्म-ज्ञान-सिद्ध्यै हरिः स्वयम् ।

अवधूतेतिहासोक्त-गुरुष्व् अष्टाव् अवर्णयत् ॥

यद् आत्थ संहृत्यैतत् कुलम् इति । स्वर्-वासं वैकुण्ठ-वासं प्रति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यत् कुल-संहारादिकं स्व-धाम्नि तव नयनं चात्थ ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वर्-वासं वैकुण्ठ-वासं प्रति ॥१॥1

———————————————————————————————————————

॥ ११.७.२ ॥

मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः ।

यद्-अर्थम् अवतीर्णोऽहम् अंशेन ब्रह्मणार्थितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अंशेन बलदेवेन सह ॥२॥

———————————————————————————————————————

॥ ११.७.३ ॥

कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् ।

समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं च सर्व-त्यागेनात्म-निष्ठो भवेति वक्तुम् आह—कुलम् इति त्रयेण ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शाप-निर्दग्धम् इत्य् अनुकरणाभिप्रायं वस्तुतस् तु शापेऽपि निर्गतं दग्धं दाहो यस्मात् तथा-भूतं सत् नङ्क्ष्यति अदर्शनम् एव प्राप्स्यतीत्य् अर्थः । प्लावयिष्यति चतुर्दिक्ष्व् आवरिष्यति, न तु मध्येऽपि वर्जायत्वा महाराज श्रीमद्-भगवद्-आलयं [भा।पु। ११.३१.२३] इति वक्ष्यमाणात् ॥३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.४ ॥

यर्ह्य् एवायं मया त्यक्तो लोकोऽयं नष्ट-मङ्गलः ।

भविष्यत्य् अचिर्तात् साधो कलिनापि निराकृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैवायं नष्ट-मङ्गलो भविष्यति । निराकृतो नितराम् आक्रान्तः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तव स्वधामनयनं तु किञ्चिद् विलम्बेनैव करिष्यामि, यतो मुनिषु मद्-उपदेश-ग्रहणाय सम्प्रति त्वां स्थापयिष्यामीत्य् अभिप्रेत्य तथोपदेष्टुम् उपक्रमते—यर्ह्य् एवेति ।

नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । > अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥ [भा।पु। ३.४.३१]

इति तृतीयस्य तद्-उक्तेः ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.५ ॥

न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले ।

जनोऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न वस्तव्यम् एव त्वया ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

———————————————————————————————————————

॥ ११.७.६ ॥

त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु ।

मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : अतस् तम् उपलक्ष्य तद् उपदेश्यान् प्रत्य् एवाह—त्वं त्व् इति । नोद्धवोऽण्व् अपि मन्-न्यूनः [भा।पु। ३.४.३१] इत्य्-आदिभिः श्रीमद्-उद्धवस्य सिद्धत्वेनैव प्रसिद्धत्वात् तं लक्ष्यीकृत्य तद्-द्वारान्येभ्य एवोपदेशोऽयम् । एवम् अन्यत्र च ज्ञेयम् । ततश् च जहल्-लक्षणया त्वं त्वदीय-मार्गानुगतो भक्तो विचरस्व—विचरत्व् इत्य् अर्थः । सम-दृक्त्वं च मां विनान्यत्र हेयोपादेयत्वाभावात् । तु-शब्दो बहिर्मुख-निवृत्त्य्-अर्थः ॥६॥2 [भक्ति-सन्दर्भ ६६]3


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रान्तरे मनसि भगवान् किञ्चित् पराममर्श । रुक्मिण्य्-आदि-विवाह-बाणाद्य्-असुर-वध-प्रसङ्गतस् तत्र तत्र बन्धु-मिलन-प्रसङ्गतश् चेन्द्रप्रस्थ-मिथिलादिषु च यातायातैर् मां दिदृक्षूणां भूतल-स्थ-भक्तानां मनोरथो मया प्रायः सम्पादित एव । पृथिव्या अधः-स्थितानां बलि-रवि-नन्दनादीनाम् अपि षड्-गर्भानयन-गुरु-पुत्रानयन-प्रसङ्गेन ऊर्ध्व-स्थानाम् अदिति-कश्यपादीनाम् अपि पारिजाताद्य्-आहरण-प्रसङ्गेन महा-वैकुण्ठ-स्थानाम् आदि-पुरुष-भूमादीनाम् अपि विप्र-बालकानयन-प्रसङ्गेन वाञ्छितं मद्-दर्शनं निष्पादितम् एव, किन्तु बदरिकाश्रम-वासिनां नर-नारायणादि-परमहंस-महा-मुनीन्द्राणाम् एव सन्दर्शनौत्सुक्यं न सफलीभूत्तं बभूव । सम्प्रति तु सपाद-शत-वर्ष-पर्यन्त-मत्-प्राकट्य-मर्यादा च वृत्तेत्य् अतस् तत्र प्रस्थापयितुम् अयम् उद्धव एव निरूपयितव्यः । अयं हि मत्-तुल्यत्वान् मत्-प्रतिमूर्तिर् एव । तेभ्य उपायनत्वेन देयं मदीय-भग-शब्द-वाच्ययोर् ज्ञान-वैराग्ययोर् एकम् एकं कणं मद्-भक्ति-योगं च महानर्घ्यं रत्नम् इवादाय यास्यंस् तेषां मनोऽभीष्टं स्पष्टम् एव पूरयिष्यति । यद्यप्य् अस्य मत्-प्रेम-परिपूर्णस्य तद्-उत्थे ज्ञान-वैराग्ये वर्तेते, एवं सम्प्रति मयोपदेष्टव्ययोः पृथक्-ज्ञान-वैराग्ययोर् नास्त् एवास्य जिघृक्षा, तद् अपि मद्-इच्छायां सत्यां तत्राप्य् अस्य जिघृक्षा खल्व् अधुनैवोत्पत्स्यते । तथैव यद्यप्य् अस्य मद्-विच्युतौ सद्य एव प्राण-हानिस् तद् अपि मद्-इच्छा-शक्तिर् एव बलवती प्राणानस्य पालयित्वा तावद् दूरम् अप्य् एनं यापयिष्यति, प्रापञ्चिक-लोकालक्षितं मद्-अन्तिकेऽपि स्थापयिष्यतीति परामृश्य च श्रीमद्-उद्धव-चेतसि ज्ञान-वैराग्ययोर् भक्ति-योगस्य च जिघृक्षां सञ्चार्याह—त्वं त्व् इति ।

स्वजन-बन्धुषु यादवादिषु स्नेहं परित्यज्येति । तेषु तत्-स्नेहो द्विविधः—मति-परिचयात् प्रथमत एव स्व-देह-सम्बन्धेनैकः, मत्-सम्बन्धोत्थो द्वितीयः । तत् पूर्व एव त्वया त्यक्तुं शक्यः, स एव मया त्यागे विधीयते, न तूत्तरः, त्वद्-अशक्यत्वाद् अविगीतत्वाच् चेति भगवद्-आशय उद्धवेन ज्ञायत एव ॥६॥

———————————————————————————————————————

॥ ११.७.७ ॥

यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः ।

नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विद्धि मायां मनो-मयीम् । मन्-मनः प्रधान-प्रकृति-निमित्तम् ।

प्रकृतिः सापरा मह्यं रोदसी-लोक-धारिणी । > ऋता सत्यामरा जय्या लोकानाम् आत्म-संज्ञिता ॥ इति मोक्ष-धर्मेषु > ॥७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु गुण-दोषाभ्यां विषमे लोके कुतः समदृष्टिः स्यां ? अत आह—यद् इदम् इति । मन-आदिभिर् गृह्यमाणं मनो-मयत्वान् मायेति विद्धि । तद् अपि न स्थिरं, किन्तु नश्वरं विद्धि ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : जागरे माया-प्रधानं स्वप्नो मनः-प्रधानं विद्धि । अत एव नश्वरं विद्धीत्य् अर्थः ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कीदृशं सम-दृक्त्वं ? तत्राह—यद् इदम् इति । मन-आदिभिर् गृह्यमाणं यद् इदं पृथिव्य्-आदिकं वर्तते, तत् सर्वं जागरे माया-मयं माया-कल्पितत्वांशेन तुल्यम् एव । स्वप्ने मनो-मयं मनः-कल्पितत्वांशेन सर्वं तुल्यम् एव ॥७॥

———————————————————————————————————————

॥ ११.७.८ ॥

पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् ।

कर्माकर्म-विकर्मेति गुण-दोष-धियो भिदा ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

स्वर्गाद्याश् च गुणाः सर्वे दोषाः सर्वे तथैव च ।

आत्मनः कर्तृता-भ्रान्त्या जायन्ते नात्र संशयः ॥ > परमात्मानम् एवैकं कर्तारं वेत्ति यः पुमान् । > स मुच्यतेऽस्मात् संसारात् परमात्मानम् एति च ॥ इति भारते > ॥८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो-मयत्वे हेतुः—पुंस इति । अयुक्तस्य विक्षिप्त-मनसः । नानार्थो भेद-विषयो भ्रमः । स भ्रम एव गुण-दोष-भाक् । ननु वेदेनैव विधि-निषेधाभ्यां भेदस्य सत्यतोक्ता ? न, भ्रम-विजृम्भित-गुण-दोष-बुद्धेः पुंसः कर्म विहितम् । अकर्म तल्-लोपः, विकर्म निषिद्धम् इति भेदः । अविद्यावद् विषय एव वेद इत्य् अर्थः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अयुक्तस्य । असमाहित-चित्तस्य भ्रम एव तावन् नानार्थः । बहु-विधार्थो यत्र तथा-विधः स एव च गुण-दोष-भाक् गुण-दोष-बुद्धि-हेतुर् इत्य् अर्थः । अतः कर्माकर्मेति ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं प्रपञ्चयति—पुंस इति । नानार्थो नाना-विधोऽर्थो यो गुण-दोष-भाक् । अयम् अर्थो दोषं भजत इति निकृष्टः । पुंसोऽयुक्तस्याज्ञानिन भ्रमः भ्रम-प्रतीत इत्य् अर्थः । गुण-प्रवाह-पतितानां को वार्थ उत्कृष्टः ? को वा निकृष्टः ? तेषां वा क उत्कर्षः ? को निकर्षः ? यद् उक्तं चित्रकेतुना—

गुण-प्रवाह एतस्मिन् कः शापः को न्व् अनुग्रहः । > कः स्वर्गो नरकः को वा किं सुखं दुःखम् एव वा ॥ [भा।पु। > ६.१७.२०] इति ।

ननु, वेदेनैव विधि-निषेधाभ्यां गुण-दोषाव् उक्तौ ? सत्यम्, वेदोऽप्य् अविद्यावद् विषय एवेत्य् आह—कर्म विहितम् । अकर्म तल्-लोपः । विकर्म निषिद्धम् इति भिदा भेदो गुण-दोष-धियो गुण-दोषयोर् एव धीर् यस्य तस्याज्ञानिन एवोक्तेर् इत्य् अर्थः ॥८॥

———————————————————————————————————————

॥ ११.७.९ ॥

तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदं जगत् ।

आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आत्म-शब्दोदितो ब्रह्मा परमात्माभिधो ह्य् अहम् ।

सर्वं ब्रह्मणि विक्षेत मयि ब्रह्माणम् एव च ॥ इति काल-संहितायाम् > ॥९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् आत्मनि परिच्छिन्ने विततं जगद् ईक्षणीयं तत्राह—आत्मानम् इति । मयि ब्रह्मणि तद् रूपेणेक्षस्व ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् युक्तेन्द्रिय-ग्रामः निरुद्धेन्द्रिय-वृन्दः निरुद्ध-चित्तः सन्, इदं सुख-दुःख-मयं जगत् आत्मनि भोक्तरि जीवे भोग्यत्वेन स्थितं पश्य । तं च भोक्तारम् आत्मानं मय्य् अधीश्वरे परमात्मनि नियन्तरि नियम्यत्वेन स्थितम् ईक्षस्व ॥९॥

———————————————————————————————————————

॥ ११.७.१० ॥

ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् ।

आत्मानुभाव-तुष्टात्मा नान्तरायैर् विहन्यसे ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्म-भूतः आत्मवद् भूतः । आत्मौपम्येन सर्वत्र समं पश्यति सोऽर्जुन [गीता ६.३३] इति वचनात् ॥१०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं युक्त-चित्तत्वेन कर्माकरणे देवादयो विघ्नान् करिष्यन्ति ? तत्राह—ज्ञानेति । ज्ञानं वेद-तात्पर्य-निश्चयो विज्ञानं तद्-अर्थानुभवस् ताभ्यां सम्यग्-युक्तः । तत आत्मानुभवेनैव तुष्ट-चित्तोऽतः शरीरिणां देवादीनाम् आत्म-भूतोऽन्तरायैर् न प्रतिहन्यसे ।

अयं भावः—यावद् अनुभवं यथाश्रमं कर्माणि कुर्याद् एव । तद् अनन्तरं सर्वेषाम् आत्म-भूतत्वान् न कोऽपि विघ्नान् आचरति । तथा च श्रुतिः—तस्य ह न देवाश् च नाभूत्या ईशते। आत्मा ह्य् एवैषां स भवति इति ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ज्ञानेत्य् अत्रात्मा ब्रह्म ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् एवं युक्त-चित्तत्वेन कर्माकरणे देवादयो विघ्नान् करिष्यन्ति ? तत्राह—ज्ञानेति । ज्ञानं वेद-तात्पर्य-निश्चयः । विज्ञानं तद्-अर्थानुभवस् ताभ्यां सम्यग्-युक्तः । तत आत्मानुभवेनैव तुष्ट-चित्तः । ततश् च शरीरिणां देवादीनाम् अप्य् आत्म-भूतः प्रीति-पात्री-भूतः स्याः । तथा च श्रुतिः—तस्य ह न देवाश् च नाभूत्या ईशते । आत्मा ह्य् एवैषां स भवति इति । ततश् च नैव ते विघ्नान् कुर्युः इति भावः ॥१०॥

———————————————————————————————————————

॥ ११.७.११ ॥

दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते ।

गुण-बुद्ध्या च विहितं न करोति यथार्भकः

मध्वाचार्यः (भागवत-तात्पर्यम्) :

कर्तृत्वम् आत्मनो यस्माज् ज्ञान-निष्ठो न मन्यते ।

अतः कुर्वन्न् अपि सदा दोष-बुद्ध्या न निन्दितम् ॥ > गुण-बुद्ध्या न विहितं किन्त्व् ईश-प्रेरितोऽस्म्य् अहम् । > स एव च मयि स्थित्वा निन्द्यानिन्द्ये करोत्य् अजः ॥ > न मे दोषो न च गुणः कर्तृत्वाभावतः स्फुटम् । > स्वतन्त्रत्वान् न चेशस्य येऽज्ञास् तेषु भवेद् अपि । > इति मत्वा निवर्तेत निन्द्यात् कुर्याद् गुणान् अपि ॥ इति बोद्धव्ये । > अनित्या मे गुणा न स्युर् दोषा नैव कथञ्चन । > इति मत्वा शुभं कुर्यान् निवर्तेद् अशुभाद् अपि ॥ > ज्ञानित्व-कर्तृत्वा-मानाद् ईश-कर्तृत्व-निश्चयात् । > किन्तु पूर्ण-गुणायैव न तु दोषापनुत्तये । > न चाल्प-गुण-सिद्ध्य्-अर्थं बालवत् कृत-निश्चयः ॥ इति वैशारद्ये > ॥११॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : न चोत्पन्न-ज्ञानस्यापि यथेष्टाचरण-प्रसङ्ग इत्य् आह—दोष-बुद्ध्येति । गुण-दोष-बुद्ध्य्-अतीतोऽपि प्राक्तन-संस्कारान् निषेधान् निवर्तत एव किन्तु न दोष-बुद्ध्या विहितं च प्रायशः करोति, न गुण-बुद्ध्या । यथार्भकः सङ्कल्प-विकल्प-रहितः किञ्चित् करोति कुतश्चिन् निवर्तते तद्वत् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चोत्पन्न-ज्ञानिनोऽपि यथेष्टाचरणो भवति इत्य् आह—दोषेति । गुण-दोष-बुद्ध्य्-अतीतोऽपि ज्ञानी प्राक्तन-संस्कारतो निषेधान् निवर्तत एव, किन्तु न दोष-बुद्ध्या । विहितं च प्रायशः करोति, न तु गुण-बुद्ध्या । यथार्भकः सङ्कल्प-विकल्प-रहितः किञ्चित् करोति, कुतश्चिन् निवर्तते च, तद्वद् इति ॥११॥

———————————————————————————————————————

॥ ११.७.१२ ॥

सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः ।

पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

वैलक्षण्याद् धरेर् भिन्नं तत्-तन्त्रत्वात् तद्-आत्मकम् ।

इति विश्वं प्रपश्यन्ति ज्ञान-निष्ठा हरेः प्रियाः ॥ इति सार्वज्ञे > ॥१२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-भूतस्य न पुनः संसार इत्य् आह—सर्व-भूतेति । न विपद्येत न पुनः संसरेत् ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.१३ ॥

श्री-शुक उवाच—

इत्य्-आदिष्टो भगवता महा-भागवतो नृप ।

उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रीमान् उद्धवोऽपि महा-भागवतत्वात् श्री-भगवतस् तथोपदेश-गौरवेण तत्त्वं जिज्ञासुर् इव श्री-भगवता स्व-त्यागात् स्व-योग्यतातिशयम् अनेन तत्राप्य् अतिनिकृष्ट इव स-दैन्यम् आहेत्य् आह—इतीत्य् आदिभिः ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.१४ ॥

श्री-उद्धव उवाच—

योगेश योगविन्-न्यास4 योगात्मन् योग-सम्भव ।

निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : योगो देवादिषु तेन न्यस्त इति योग-विन्यासः ।

ज्ञानं तु योग-शब्दोक्तं युज्यतेऽनेन यत् सुखम् । > क्वचिद् योग उपायः स्यात् क्वचिच् चित्त-निरोधनम् ॥ इति > दत्तात्रेय-योगे ।

अत्र ज्ञानम् उपायश् च ॥१४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं तु सर्वं परित्यज्येत्य् आद्य् उपदेशम् आत्मनोऽयोग्यं मन्वानः पृच्छति—योगेशेति । योग-फल-दायिन् । योग-विदां न्यासो नामातिगोप्यो निक्षेप-विशेषः । यद् वा, योगो विन्यस्यते क्रियते यस्मिन् । योगात्मन् योगे आत्मा प्रकटो भवति यस्य, योग-स्वरूपेति वा । योगस्य सम्भवो यस्मात् । चतुर्भिर् एतैः सम्बोधनैः स्व-महिम्ना केवलं त्वयोपदिष्टं न तु मद्-अधिकारं पर्यालोच्येति द्योतितम् । तद् आह—निःश्रेयसायेति । न चारोग्याद्य् अर्थं सर्वस्व-दानादिवद् अयं त्यागः, किन्तु सन्न्यास-लक्षणोऽप्रत्यापत्ति-रूपः॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैव यस्य वाक्यं दर्शयति । योगेशेति त्रिभिः ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे योगेश ! योगानां कर्म-योग-ज्ञान-योग-भक्ति-योगानाम् ईश्वर ! अत एव योग-विन्यास ! अनधिकारिण्य् अपि मयि योगं ज्ञानं सम्प्रति स्व-प्रभावाद् एव विन्यस्यसीत्य् अर्थः । योगात्मन् ! हे योग-स्वरूप ! यदि त्वं मया प्राप्तः, तर्हि सर्वे योगाः प्राप्ता एवेति भावः । किं च, योगाद् भक्ति-योगाद् एव त्वं सम्भवसि भक्तेष्व् आविर्भवसीति मह्यं भक्ति-योगो विशेषतो देय इति भावः ॥१४॥

———————————————————————————————————————

॥ ११.७.१५ ॥

त्यागोऽयं दुष्करो भूमन् कामानां विषयात्मभिः ।

सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः ॥

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.१६ ॥

सोऽहं ममाहम् इति मूढ-मतिर् विगाढस्

त्वन्-मायया विरचितात्मनि सानुबन्धे ।

तत् त्व् अञ्जसा निगदितं भवता यथाहं

संसाधयामि भगवन्न् अनुशाधि भृत्यम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यं प्रति त्यागाद्य् उपदिष्टं, सोऽहं मूढ-मतिः । कुतः ? ममेत्य् अहम् इति च सानुबन्धे पुत्रादि-सहिते त्वन्-मायया विरचिते । आत्मनि देहे विगाढो निमग्नः, अतस् तत् तु भवता निगदितं यथाहम् अञ्जसा संसाधयामि, तथा भृत्यं माम् अनुशाधि, शनैः शिक्षय ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च विषयाविष्ट-चित्तोऽहम् एव यतस् तन्-मायया विरचिते आत्मनि देहे सानुबन्धे पुत्र-कलत्रादि-सहिते विगाढो निमग्न इति देहस्यान्ध-कूपत्वम् आरोपितम्, तेन तद्-आवेश-त्याजनम् एव तस्माद् उद्धारः । प्रथमं कार्यस् तद्-अनन्तरम् एव ज्ञानाद्य्-उपदेश इति ध्वनिः तत् तस्मात् ॥१६॥

———————————————————————————————————————

॥ ११.७.१७ ॥

सत्यस्य ते स्व-दृश आत्मन आत्मनोऽन्यं

वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे ।

सर्वे विमोहित-धियस् तव माययेमे

ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : अभगवत्-स्वरूपत्वात् तनुभृत्त्वं बहिरर्थापेक्षयैव च तेषां मोहः परम-सुख-साधनाद् अन्योऽर्थो बहिर्-अर्थः ।

अशरीरः सदा विष्णुः पूर्णानन्दत्वतः सदा । > इच्छा च क्रीडयैवास्य न फलाय यतो विभुः ॥ > अतो बाह्यार्थ-कामोऽपि निष्काम इति कथ्यते । > ब्रह्मा निरभिमानित्वाच् छरीर्य् अप्य् अशरीरवान् ॥ > नित्यानन्दोपयोगान्य-कामस्योज्झितितः सदा । > बहिर्-अर्थ-विनिर्मुक्तस् तथापि तनु-धारणात् ॥ > अमूढो मूढ इतिवद् उच्यते च सरस्वती । > रुद्राद्यास् तन्व्-अभिमानाद् बहिर्-अर्थ-युजस् तथा ॥ > सर्वेषां ब्रह्म-पदवी योग्यानां पूर्वम् एव तु । > अभावस् त्व् अपरोक्षस्य मोहो ज्ञानस्य भण्यते ॥ > ब्रह्मणस् त्व् अंश-रूपेषु भारत्याज्ञान-वर्जनम् । > ब्रह्म-गायत्री-भावे तु नांशावतरंणं क्वचित् ॥ > शत-जन्मसु पूर्वं तु ज्ञानोदय उदीर्यते । > आपरोक्ष्येण पारोक्षात् पूर्ण-ज्ञानं सदैव तु ॥ > शत-जन्म-गतायाश् च आपरोक्षोज्झितिर् भवेत् । > क्वचित् क्वचित् सरस्वत्याम् अंशावतरणेष्व् इति ॥ इति शक्ति-विवेके > ॥

अशरीरो वायुर् अभ्रं विद्युत्-स्तनयित्नुर् अशरीराणि वा एतानीति च श्रुतिः


श्रुतिभिस् तनितत्वात् तु स्तनयित्नुर् हरिः स्मृतः । > अभ्रं भूतानि भरणाच् छ्रीर् वायुर् भरतः स्मृतः ॥ > विद्युत् तु भारती प्रोक्ता एत एवाशरीरिणः । > व्यत्यासेनापि नाम स्याद् एतेषां महतां सदा ॥ इत्य् उभय-निरुक्ते > ॥१७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : मया सङ्क्षेपत उक्तं विस्तरतस् त्व् अन्यान् पृच्छेति चेद् अत आह—सत्यस्येति । स्व-दृशः स्व-प्रकाशस्य सत्यस्यात्मन आत्मनो मां प्रति वक्तारं ते त्वत्तोऽन्यं नानुचक्षे न पश्यामि । स्व-दृशः स्वतः-सिद्ध-ज्ञानात् त्वत्तोऽन्यम् इति वा कुत इत्य् अत आह—सर्व इति । बहिर् अर्थ-भावा विषयेष्व् अर्थ-बुद्धयः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सत्यस्येति षष्ठी आर्षी । सत्यात् सर्व-काल-देश-सत्ताकात् सद्भ्यो हि तद् वा ते त्वत्तः स्वस्य मम दृक् ज्ञानं यतस् तस्मात् आत्मनो मम आत्मनः परमात्मनस् त्वत्तः सकाशाद् अन्यम् ॥१७॥

———————————————————————————————————————

क्वचिद् इदम् अधिकं पद्यम् अत्र दृश्यते—

यावत् पदाब्ज-रसिकैर् नहि सङ्गता ये

तद् युक्तिभिर् विमृशताम् अपि नापयाति ।

सत्-सङ्गमो गृह-जुषाम् अपि दम्पतीनां

तप्तात्मनां खलु नृणां हत-रंहसां स्यात् ॥

———————————————————————————————————————

॥ ११.७.१८ ॥

तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं

सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् ।

निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो

नारायणं नर-सखं शरणं प्रपद्ये ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

विष्णोर् वायोर् अनन्तस्य तिर्भिर् अंशैर् नरः स्मृतः ।

सेन्द्रैश् चतुर्भिः पार्थस् तु द्वाभ्यां तु बल-लक्षणौ ॥ इति > अंशविवेके ॥१८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : केचिद् दुःशीला भवन्ति, केचित् सेविताः फल-काले विनश्यन्ति, केचिद् अज्ञाः, केचिद् रक्षणेऽसमर्थाः, केचित् तु स्थानाद् भ्रष्टाः, तद् व्यावृत्त्य्-अर्थम् अनवद्यम् इत्य् आदीनि पञ्च विशेषणानि । न अन्तः कालतः पारं देशतश् च यस्य तम् । कालादिभिर् अकुण्ठो विकुण्ठ-लोको धिष्ण्यं स्थानं यस्य तम् । उ हे भगवन्, ह स्फुटम् । निर्वेदे हेतुः, वृजिनैर् दुःखैर् अभितप्तः । ह-कार-गौरवाय वृ-कारो युक्त इव पठनीयः । नन्व् अनवद्यत्वादीनि कुतो मम तद् आह—नारायणम् इति । अनुकम्पिताम् आह—नरो5 जीवस् तस्य सखायं भवन्तं शरणं प्रपद्ये ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणं नरस्य महत्-स्रष्ट्र्-आदि-पुरुष-समूहस्यापि परमाश्रयम्, तथापि नर-सखं नर-भावानुग्रहायावतीर्णम् ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् भवन्तम् एवाहं प्रपद्ये । तत्र कश्चित् सर्व-गुण-मण्डितोऽपि दुराचारो भूथ् इति तद् व्यावृत्त्य्-अर्थम् आह—अनवद्यम् । कश्चित् सेवितः फल-काले विनश्यतीति तद् व्यावृत्त्य्-अर्थम् आह—अनन्त-पारं न विद्यतेऽन्तः कालतो, न च पारं देशतश् च यस्य तम् । कश्चिद् अकृतज्ञो भवति, न च त्वम् इत्य् आह—सर्वज्ञम् । कश्चिद् असमर्थो रक्षणे न च त्वम् इत्य् आह—ईश्वरम् । कश्चिद् अभद्रास्पदः, न च त्वम् इत्य् आह—कालादिभिर् अकुण्ठो विकुण्ठ-लोको धिष्ण्यं स्थानं यस्य तम् । उ हे भगवन् ! निर्वेदे हेतुः वृजिनैर् दुःखैर् अभितप्तः । अत्र ह-कार-गौरवाय वृ-कारो युक्त इव पठनीयः । परमाश्रयं परम-कृपालुत्वम् आह—नर-सखं नर-मात्रानुग्रहायावतीर्णम् इत्य् अर्थः ॥१८॥

———————————————————————————————————————

॥ ११.७.१९ ॥

श्री-भगवान् उवाच—

प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः ।

समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : लोके तत्त्वे च विचक्षणा ।

पारोक्ष्येणैव तत्त्वं तु लोकं चापि विदन्ति ये । > तेऽपि सत्-स्नेह-निर्मुक्तास् तमो यान्ति विनिश्चयात् । > आपरोक्ष्यान् न च ज्ञानं तेषाम् उत्पाद्यते क्वचित् ॥ इति षाड्गुण्ये > ॥१९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् असम्भावना-विपरीत-भावनाभ्याम् उपदिष्टं तत्त्वम् अनवगाहमानं प्रति तन्-निवृत्तये गुरूपदेशं विनापि स्वान्वय-व्यतिरेकाभ्याम् एव तत्त्व-प्रतिपत्तिर् भवतीति दर्शयितुम् आह—प्रायेण इति । लोक-तत्त्वस्य विचक्षणाः परीक्षकाः अशुभाशयाद् विषय-वासनातः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा चैवम् उद्धवेन प्रार्थितं, तथैव श्री-भगवान् उवाच—प्रायेण इति ॥१९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो उद्धव ! त्वम् आत्मानं मूढ-मतिं मन्यसे । अहं तु त्वादृशं सुधियं विबुधेष्व् अपि नावलोके । लोकेऽप्य् अत्र त्वत्तो निकृष्टा अपि गुरूपदेशं विनापि स्वीय-बुद्धि-बलाद् एव तत्त्वं जानन्तो दृश्यन्ते । किं पुनस् त्वं सर्व-सुधी-मुकुट-मणिर् मादृश-गुरूपदिष्ट-निखिल-तत्त्व इत्य् आह—प्रायेण इति । लोक-तत्त्व-विचक्षणा दृश्यमान-लोक-भद्राभद्र-हेतु-विचार-प्रवीणाः । अशुभाशयात् विषय-वासनात् ॥१९॥

———————————————————————————————————————

॥ ११.७.२० ॥

आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः ।

यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसाव् अनुविन्दते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उपपादयति--आत्मनः पश्व्-आदि-शरीरेऽप्य् आत्मैव हिताहित-ज्ञाने गुरुः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मनो गुरुर् इति । गुर्व्-अनुसरणे प्रवर्तक इत्य् अर्थः ॥२०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :आत्मा किञ्चित् श्रेयः-प्रत्यक्षेण विन्दते, किञ्चित् परामृश्य अनुमानेन अपि ॥२०॥

———————————————————————————————————————

॥ ११.७.२१ ॥

पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः ।

आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र प्रत्यक्षं दर्शयति—पुरुषत्वे च इति । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं पश्यति वेद श्वस् तनं वेद लोकालोकौ मर्त्येनामृतम् ईप्सत्य् एवं सम्पन्नोऽथेतरेषां पशूनाम् अशनापिपासे एवाभिविज्ञानं [ऐतरेयारण्यक २.३.२.५] इति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पुरुषत्वे मानुष्य-प्राप्तौ सत्याम् आविस्तरां प्रकटतर-ज्ञानाः सन्तः, तत्र च धीराः शास्त्र-विचक्षणाः सन्तो माम् अपि पश्यन्ति इत्य् अर्थः ॥२१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रापि मनुष्य-देह-गता एव जीवाः प्रायो मां ज्ञातुं प्रभवन्तीत्य् आह—पुरुषत्वे च इति । अत्रापि धीरा निर्मत्सराः, तत्रापि साङ्ख्यं ज्ञान-योग-भक्ति-योगः, तयोर् विचक्षणाः । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा स हि प्रज्ञानेन सम्पन्नतमो विज्ञातं पश्यति, वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतम् ईप्सत्य् एवं सम्पन्नोऽथेतरेषां पशूनाम् अशनापिपासे एवाभिविज्ञानं [ऐतरेयारण्यक २.३.२.५] इति ॥२१॥

———————————————————————————————————————

॥ ११.७.२२ ॥

एक-द्वि-त्रि-चतुष्-पादो बहु-पादस् तथापदः ।

बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः पुरुषत्वं स्तौति—एक- इति ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.२३ ॥

अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् ।

गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुमानम् आह—अत्र पौरुष्यां पुरि । युक्ता अप्रमत्ता अग्रह्यं ग्राह्येभ्योऽहङ्कारादिभ्यो व्यतिरिक्तं माम् अद्धा साक्षान् मृगयन्ति । मार्गणे प्रकार-द्वयम् आह—गृह्यमाणैर् बुद्ध्य्-आदिभिर् गुणैर् हेतुभिः । जडानां प्रकाशः स्व-प्रकाशम् एकं विना न घटत इत्य् अनुपपत्ति-मुखेन लक्षकैः । तथा तैर् एव लिङ्गैर् व्यप्ति-मुखेनानुमानत ईश्वरं प्रवर्तकं मृगयन्ते, बुद्ध्य्-आदि-करणानि कर्तृ-प्रयोज्यानि करणत्वाद् वास्यादिवद् इति । तद् उक्तम्,

भगवान् सर्व-भूतेषु लक्षितः स्वात्मना हरिः । > दृश्यैर् बुद्ध्य्-आदिभिर् द्रष्टा लक्षणैर् अनुमापकैः ॥ [भा।पु। > २.२.३५] इति ।

न चैतावता आनुमानिक आत्मेति मन्तव्यम् । देहादि-व्यतिरिक्तत्वं पदार्थ-शुद्धि-मात्रस्यैवानुमानेन विवक्षितत्वात् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : इश्वरम् इति जीवस्यापि तच् च तत्र स्वातन्त्र्याभावात् न चैतावतानुमानिक ईश्वर इति मन्तव्यम् अनुमानस्यास्य शास्त्रानुगतत्वेन विवक्षितत्वात् ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र पौरुष्यां पुरि स्थिता अद्धा साक्षान् मां कृष्ण-रूपिणम् अपीश्वरं मार्गयन्ति । युक्ता भक्ति-योगवन्तः । हेतुभिः श्रवण-कीर्तनाद्यैः—भक्त्याहम् एकया ग्राह्यः [गीता ११.१४.२०] इति मद्-उक्तेः ।

ननु बुद्ध्य्-आदि-प्रवर्तकं त्वाम् अनुमानेन मार्गयन्तो दृश्यन्ते ? इत्य् अत आह—गृह्यमाणैर् बुद्ध्य्-आदिभिर् गुणैर् लिङ्गैर् व्याप्ति-मुखेन यद् अनुमानं तस्माद् अग्राह्यं, बुद्ध्य्-आदि-करणानि कर्तृ-प्रयोज्यानि करणत्वाद् वा स्याद् इत्य् अनुमानेनास्वतन्त्रःकर्ता जीवोऽनुमीयते, तथा प्रयोजकः स्वतन्त्रोऽन्तर्यामी च कथञ्चिद् अनुमीयते, न तु कृष्णः स्वयं भगवान् अहं, मम तर्कातीतत्वान् मद्-रूप-गुण-लीलैश्वर्याणाम् अप्य् अतर्क्यत्वाद् इति ॥२३॥

विवृतिः- केचित् कार्य-कारण-मयस्यास्य सद्-असद्-धेतु-मूलकस्य जड-जगतः अप्रकाशित-बाह्य-कार्यम् अन्तः-स्थित-कारणं च प्रत्यक्षानुमानाभ्यां भगवद्-अनुष्ठानं लक्षन्ते ॥

———————————————————————————————————————

॥ ११.७.२४ ॥

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।

अवधूतस्य संवादं यदोर् अमित-तेजसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भूयोऽन्वय-व्यतिरेकभ्याम् असम्भावनादि-निवृत्ताव् इतिहासम् आह—अत्रापीति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रापि अनुमान-गम्यत्वेऽप्य् अन्तर्यामि-स्वरूपस्य मम प्राप्ताव् अपि ॥२४॥

———————————————————————————————————————

॥ ११.७.२५ ॥

अवधूतं द्विजं कञ्चिच् चरन्तम् अकुतो-भयम् ।

कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित् ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.२६ ॥

श्री-यदुर् उवाच—

कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सुविशारदा ।

याम् आसाद्य भवान् लोकं विद्वांश् चरति बालवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सुविशारदा अतिनिपुणा सर्व-लोक-विलक्षणा ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.२७ ॥

प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः ।

हेतुनैव समीहन्त आयुषो यशसः श्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-लोक-वैलक्षण्यम् एवाह—प्राय इति । धर्मादिषु विवित्सायाम् आत्म-विचारे च मानवाः समीहन्ते प्रवर्तन्ते । तत्राप्य् आयुर् आदेर् हेतुना कामनयैव ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विवित्सा जिज्ञासा-मात्रम् ॥२७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्मार्थ-कामेषु विवित्सायां विविदिषायाम् आत्म-विचारे च आयुर्-आदेर् हेतुना कामनयैव समीहन्ते प्रवर्तन्ते ॥२७॥

———————————————————————————————————————

॥ ११.७.२८ ॥

त्वं तु कल्पः कविर् दक्षः सुभगोऽमृत-भाषणः ।

न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वं तु न कस्यचित् कर्मणः कर्ता भवसि, न किञ्चिद् ईहसे इच्छसि । नन्व् अशक्त्याज्ञानेन वानैपुण्येन वा विरूपत्वेन वावाग्मितया वा औदासीन्यं घटत एव, नेत्य् आह—कल्प इत्य्-आदिना ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं तु न कस्यचित् कर्मणः कर्ता, न च किम् अपीहसे । तत्र कल्प इति न त्व् असामर्थ्येन इत्य् अर्थः । कविर् इति नाज्ञानेन, दक्ष इति न त्व् अनैपुण्येन, सुभग इति न तु कौरूप्येन हेतुना, वनितादिकम् इच्छसीत्य् अर्थः । मित-भाषण इति न त्व् अवाग्मितया, केनापि सह संलापम् इच्छसीत्य् अर्थः । किन्त्व् एतादृशोऽपि जडादिवद् वर्तसे ॥२८॥

———————————————————————————————————————

॥ ११.७.२९ ॥

जनेषु दह्यमानेषु काम-लोभ-दवाग्निना ।

न तप्यसेऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महान् आनन्दश् च तव कुतः ? इति पृच्छति—जनेष्व् इति ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, तरुणस्यापि तव कामादि-सन्तापो न कुतः ? इति पृच्छति—जनेष्व् इति॥२९॥

———————————————————————————————————————

॥ ११.७.३० ॥

त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् ।

ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : केवलात्मनः शरीर-मात्र-परिग्रहस्य ॥३०॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्पर्श-विहीनस्य विषय-भोग-रहितस्य । अत्र हेतुः, केवलात्मनः कलत्रादि-शून्यस्य ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुखम् एव वार्तां कथयतीति न्यायेन दृश्यमान एतावान् आनन्दश् च तव कुत इति पृच्छति त्वं हीति । स्पर्शो विषय-भोगः, केवलात्मनः एकाकिनः ॥३०॥

———————————————————————————————————————

॥ ११.७.३१ ॥

श्री-भगवान् उवाच—

यदुनैवं महा-भागो ब्रह्मण्येन सुमेधसा ।

पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्मण्येन इति तत्-परिचर्ययैव तद्-वशीकरिष्णुनेत्य् अर्थः । सुमेधसा इति स्व-बुद्धि-प्रणीत-तन्-मनस्केनेति तत्-प्रतिवचने हेतुः ॥३१॥


विवृतिः : कृष्ण-विमुखा अनर्थ-जीविनः जीवाः ब्रह्माण्डावस्थितानां नाना-वस्तूनां प्रभुत्वं कर्तुं चेष्टन्ते । धर्मार्थ-काम-रूप-त्रिवर्ग-सेवायां दिनानि यापयित्वा स्वायुः-कीर्ति-रूपादि वर्धयन्ति । अत्रावधूतस् तु तथा न कृत्वा तेषाम् अन्यथा-व्यवहारं प्रदर्शयति स्म । तद् दृष्ट्वा यदुस् तस्मात् तत्-कारणं पृच्छति । तद्-उत्तरे अवधूत-महाशय उवाच—“अहं सङ्कल्प-विकल्पात्मकं विचारं परिहृत्य दृश्य-जगतः वक्ष्यमाणानां चतुर्विंशति-वस्तूनां भोग्य-ज्ञानं न कृत्वा, तेषां शिक्षा-गुरु-रूपत्वे वृणोमि । संसार-मध्ये साधारण-दृष्ट्या न भ्रमामि अन्य-मनुष्यवत्, न मनो-धर्म-चालितो गुरु-दास्यतो वञ्चितोऽस्मि वा । स्थिर-बुद्धिम् आश्रित्य पृथिवीं भ्रमामि । सतत-युक्तः प्रेम-सेवायाया उद्देशे अनर्थातिक्रमण-बुद्धितः वक्ष्यमाणान् चतुर्विंशति गुरून् लब्ध आसम्


———————————————————————————————————————

॥ ११.७.३२ ॥

श्री-ब्राह्मण उवाच—

सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपाश्रिताः ।

यतो बुद्धिम् उपादाय मुक्तोऽटामीह तान् शृणु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : बुद्ध्यैवोपाश्रिताः स्वीकृताः, न तूपदेशेन । अटामि पर्यटामि ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्ध्यैवोपाश्रिताः, न तूपदेशेन । सांसारिक-सन्तापान् मुक्ताः ॥३२॥

———————————————————————————————————————

॥ ११.७.३३-३४ ॥

पृथिवी वायुर् आकाशम् आपोऽग्निश् चन्द्रमा रविः ।

कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः ॥

मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः ।

कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरून् आह—पृथिवीति ॥३३॥ शोभनं रूपं कीटस्य करोतीति सुपेशकृत् ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.३५ ॥

एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः ।

शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मे मयाश्रिताः । तद् आह—एतेषां वृत्तिभिर् आत्मनः शिक्षाः शिक्षणीयान् अर्थान् हेयोपादेयादीन् अन्वशिक्षम् अनुशिक्षितवान् अस्मि ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतेषां वृत्तिभिर् एवात्मनः शिक्षाः शिक्षणीयान् अर्थान् अन्वशिक्षम् ॥३५॥

———————————————————————————————————————

॥ ११.७.३६ ॥

यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज ।

तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नाहुषो ययातिः ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.३७ ॥

भूतैर् आक्रम्यमाणोऽपि धीरो दैव-वशानुगैः ।

तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षितेः क्षमां शिक्षितवान् इत्य् आह—भूतैर् इति । आक्रम्यमाणः पीड्यमानः । तद् विद्वान् भूतानां दैव-वश-वर्तित्वं विद्वान् । व्रतं नियमम् ।


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षितेः क्षमां शिक्षितवान् इत्य् आह—भूतैर् इति । दैव-वशाः पित्रादयस् तेषाम् अनुगैः तद्-विदान् भूतानां दैव-वश-वर्तित्वं जानन् ॥३७॥

———————————————————————————————————————

॥ ११.७.३८ ॥

शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः ।

साधुः शिक्षेत भूभृत्तो नग-शिष्यः परात्मताम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : परार्थैकान्त-सम्भवः । आत्मनो वृद्धिश् च परार्थेति ।

सज्जनार्थेऽनुमन्येत ऐहिकीं वृद्धिम् आत्मनः । > पारत्रिकीम् ऐहिकीं च प्रीतये गुरु-देवयोः । > देवतानां च सर्वेषां स्वोत्तमानां च सर्वशः ॥ इति च ॥३८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्वत-रूपा वृक्ष-रूपा वृक्ष-रूपा च या पृथिवी तस्याः शिक्षितम् आह—शश्वद् इति । सर्वदा परार्थाः परोपकारार्थाः सर्वा ईहा यस्य सः । परार्थ एव एकान्ततः सम्भवो यस्य सः । भूभृत्तः पर्वतात् । तस्य हि वृक्ष-तृण-निर्झर-प्रसव-क्रियाः परार्था एव यथा तद्वत् । तथा नग-शिष्यो वृक्ष-शिष्यः सन् परात्मतां पराधीनात्मताम् । वृक्षो यथा परैर् अवखण्ड्योत्पाट्य वा नयनम् अप्य् अनुमन्यते तद्वत् ॥३८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर्वत-रूपा वृक्ष-रूपा च या पृथिवी, तस्याः शिक्षितं क्रमेणाह—शश्वद् इति । सर्वदा परार्थाः सर्वा ईहा भू-धारण-निर्झरोत्क्रमण-स्वोत्पन्न-रत्नादि-प्रदान-रूपाश् चेष्टा यस्य सः । भूभृत्तः शिक्षेत शिक्षया च एवम्-भूतो भवेद् इत्य् अन्वयः । नगस्य वृक्षस्य शिष्यः सन् परात्मतां शिक्षेत । परेष्व् अर्पित आत्मा येन तसय भावस् तत्ता । तं वृक्षं खलु स्थानात् स्थानान्तरं नीत्वा यद् आरोपयति सेचनादिकं च करोति, तत्र सोऽनुमन्यते एव, न तु विप्रतिपद्यते इति । तथा योगी भवेद् इति पर्वताद् अत्र विशेषो द्रष्टव्यः ॥३८॥

———————————————————————————————————————

॥ ११.७.३९ ॥

प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः ।

ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : वायुर् अपि द्वि-विधः, प्राणो बाह्यश् च । तत्र प्राणस्य गुरुत्वम् आह—प्राण-वृत्त्येति । प्राणो ह्य् आहारादि-मात्रेण प्रवर्तते, रूप-रसादीन् इन्द्रिय-विषयांस् तु नापेक्षते तथा मुनिर् अपि भवेद् इत्य् अर्थः । प्राण-वृत्तेर् अकरणे मनो-वैकल्येन ज्ञान-नाशः स्याद् अतो देह-निर्वाहः कर्तव्यः । गुण-लिप्सायां तु वाङ्-मनश् च विषिप्येत, अतो नाधिकं लिप्सेद् इत्य् आह—ज्ञानम् इति । नव-कीर्येत न विक्षिप्येत ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वायुर् अपि द्विविधः प्राणो बाह्यश् च । अत्र प्राणाच् छिक्षितम् आह प्राण-वृत्त्येति । प्रानो ह्य् आहारादि-मात्रेण प्रवर्तते । रूप-रसादीन् इन्द्रिय-विषयांस् तु नापेक्षते इत्य् आह इन्द्रिय-प्रियैर् विषयैः । तथा मुनिर् अपि भवेद् इत्य् अर्थः । प्राण-वृत्तेर् अकरणे मनो वैकल्येन ज्ञान-नाशः स्याद् अतो देह-निर्वाहः कार्यः । किं च, वाङ्-मनो यथा नावकीर्येत न विक्षिप्येतेत्य् अतिरूक्षेणासंस्कृतेनाहारेण वाङ्-मनो निःसरेत् मनोऽपि विक्षिप्तं स्याद् एवम् अतिस्निग्धेनाप्य् आलस्य-शुक्रादि-वृद्ध्या वाङ्-मनो-विक्षोभ इति तथा न कुर्यात् ॥३९॥

———————————————————————————————————————

॥ ११.७.४० ॥

विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः ।

गुण-दोष-व्यपेतात्मा न विषज्जेत वायुवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विषयान् सेवमानोऽपि तेष्व् अनासक्तिं बाह्याद् वायोः शिक्षेद् इत्य् आह—विषयेष्व् इति । नाना-धर्मेषु शीतोष्णादि-धर्मकेषु । न हि वायुर् वने दहने वा सज्जते तद्वत् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विषयान् सेवमानोऽपि तेष्व् अनासक्तिं बाह्याद् वायोः शिक्षेतेत्य् आह—विषयेष्व् इति । नाना-धर्मेषु लघुत्व-गुरुत्वोत्कर्ष-निकर्षादिमत्सु । न हि वायुर् गहने दहने वा सज्जते तद्वत् ॥४०॥

———————————————————————————————————————

॥ ११.७.४१ ॥

पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः ।

गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा वायुर् गन्धादि-धर्म-योगेन प्रतीयमानोऽपि वस्तुतो न तद् योगी, एवं देहादि-धर्म-योगेनाहं प्रत्ययेन प्रतीयमानोऽप्य् आत्मा न तद् धर्मवान् इति सम्भावितम् इति वायोर् एव शिक्षितम् इत्य् आह—पार्थिवेष्व् इति । तद् गुणाश्रयो देह-धर्मान् वाल्यादीन् आश्रित्य वर्तमानो गुणैस् तैर् एव ॥४१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं देह-धर्मानासक्तिम् अपि तस्माद् एव शिक्षेतेत्य् आह—पार्थिवेष्व् इति । सुगन्धो दुर्गन्धोऽयम् इति तत्-तद्-योगित्वेन प्रतीयमानोऽपि वायुर् यथा न तत्-तद्-योगी एवं देह-धर्म-योगेनाहं-प्रत्ययेन प्रतीयमानोऽपि योगी न तद्-धर्मा यत आत्म-दृक् आत्मानं ततः पृथक्तया पश्यतीति सः ॥४१॥

———————————————————————————————————————

॥ ११.७.४२ ॥

अन्तर्हितश् च स्थिर-जङ्गमेषु

ब्रह्मात्म-भावेन समन्वयेन।

व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो

मुनिर् नभस्त्वं विततस्य भावयेत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवान्तर्यामको विष्णुर् आत्म-नाम समीरितः ।

तस्य तु ब्रह्म-रूपत्वाद् धरिर् अन्तस् तथैव च । > पश्येद् आकाशवद् व्याप्तिम् असङ्गत्वं च नित्यशः ॥ इति > तन्त्र-भागवते ॥४२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आकाशाच् छिक्षितं सम्भावनाद् वयम् आह—अन्तर्हितश् चेति द्वयेन । अन्तर्हितश् च देहान्तर्गतोऽपि मुनिर् आत्मनो देहाद्य् असङ्गम् अत एवाव्यवच्छेदं च भावयेत् । कुतः ? स्थिर-जङ्गमेषु समन्वयेन या व्याप्तिस् तया । किं मणिषु सूत्रस्येव व्याप्तिः, न, विततस्य सर्व-गतस्य । तत् कुतः ? ब्रह्मात्म-भावेन ब्रह्म-स्वरूप-भावनया । तत् त्वम् असि इति श्रुतेः । नन्व् एतत् सर्वं कथं सम्भवति तत्राह—नभस् त्वं तत् तुल्यत्वं भावयेत् । यथा नभसः सर्व-गतस्य न घटादिभिः सङ्गः परिच्छेदो वा एवम् आत्मनोऽपि सम्भवतीति ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमातनोऽन्तर् बहिर् अपि वर्तमानत्वम् असङ्गत्वं चाकाशस्येवेत्य् आकाशं दृष्ट्वा शिक्षेतेत्य् आह—अन्तर् इति द्वयेन । अन्तर्हितश् च देहान्तर्गतोऽपि मुनिर् योगी विवेकेन आत्मनः परमात्मनो विततस्य सर्व-व्यापकस्य नभस्त्वम् आकाश-सादृश्यं भावयेत् । तद् एवाह—स्थिर-जङ्गमेषु ब्रह्मात्म-भावेन ब्रह्म-स्वरूपत्वेन या समन्वयेन व्याप्तिस् तया अव्यवच्छेदम् अनवच्छिन्नत्वं यथा नभसः सर्व-गतत्वाद् वस्तुतो न घटादिभिः सङ्गः परिच्छेदो वा, एवम् आत्मनोऽपि ॥४२॥

———————————————————————————————————————

॥ ११.७.४३ ॥

तेजो-ऽब्-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः ।

न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान् ॥४३॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

गुणान् जीवस्य चेष्टव्यान् सिद्धान् विष्णोर् गुणांस् तथा ।

तत्-तद्-दृष्ट्या विचिन्वीत पृथग् एव सुधीः सदा ॥ इति लोक-तत्त्वे > ॥४३॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, कूट-स्थस्यात्मनो नागमापायि-देहादि-सम्बन्ध इत्य् आह—तेजो-ऽब्-अन्न-मयैः तेजश् च आपश् चान्नं पृथिवी च, तन्-मयैः काल-सृष्टैर् गुणैर् देहादिभिः पुमान् न स्पृश्यत इति नभोवत् सम्भवतीति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेजश् च आपश् च अन्नं पृथिवी च, तन्-मयैः काल-सृष्टैर् गुणैर् देहादिभिः पुमान् न स्पृश्यते । यद्वद् आयुनेरितैर् मेघाद्यैर् नभो न स्पृश्यते तद्वत् ॥४३॥

———————————————————————————————————————

॥ ११.७.४४ ॥

स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् ।

मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

मधु-नाम सुखं विन्द्यान् माधुर्यं सुख-हेतुता ।

सुखे रतिर् वासं प्रोक्ता शब्द-तत्त्व-विचक्षणैः ॥ इति > शब्द-निर्णये ॥४४॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वच्छत्वादिभिर् गुणैर् उदकं जगत् पुनातीति तद् गुणा मया शिक्षिता इत्य् आह—स्वच्छो निर्मलः प्रकृतितः स्वभावतः । स्निग्धो जनेष्व् अनुरागवान् । माधुर्यो मधुरालापी । तीर्थ-भूस् तीर्थ-स्थानम् । अपां मित्रम् उदक-तुल्यः । अघाद् इति पाठे सखायं पापात् पुनाति । स्वच्छत्वादि-गुणैर् अर्थाद् उदक-सादृश्यं ज्ञातव्यम् ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जलाच् छिक्षितम् आह—स्वच्छो निर्मलः प्रकृतितः स्वभावतः स्निग्धः, जनेषु स्नेहकृत् । माधुर्यो मधुरालापी । तीर्थ-भूर् भक्त्य्-उपदेशेन लोक-पावनः । अपां मित्रं जल-तुल्यः । अघाद् इति पाठे मित्रं सखायं पुनाति । स्वच्छत्वादि-गुणैर् अर्थाज् जल-सादृश्यं ज्ञेयम् ॥४४॥

———————————————————————————————————————

॥ ११.७.४५ ॥

तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः ।

सर्व-भक्ष्योऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : दूरत एव भजनीयः ।

पराभवो धर्षणः स्याद् अवज्ञानम् अथापि वा । > ततः सत्सु सदा कुर्यात् सह-शय्यासनं न च ॥ इति षाड्गुण्ये > ॥४५॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्नेः शिक्षितम् आह—तेजस्वीति । ज्ञानातिशयात् । विशेषतस् तपसा दीप्तः । दुर्धर्षोऽक्षोभ्यः स चासाव् उदर-भाजनश् चापरिग्रहः । युक्तात्मा मुनिः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वह्नेः शिक्षितम् आह—तेजस्वीति त्रिभिः । दुर्धर्षः क्षोभयितुम् अशक्यः । स चासाव् उदर-भाजनश् च । युक्तात्मा योगिई एवं भवेद् इत्य् अर्थः ॥४५॥

———————————————————————————————————————

॥ ११.७.४६ ॥

क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् ।

भुङ्क्ते सर्वत्र दातॄणां दहन् प्राग्-उत्तराशुभम् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

जीवस्य छन्नतां शिक्षेत् प्रविष्टत्वं परात्मनः ।

तत्-तद्-गुण-विडम्बं च वह्नेः सर्वम् अथापि वा ॥४६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्नेर् एव शिक्षान्तरम् आह—क्वचिद् इति । यथाग्निः परेच्छयैव हविर् गृह्णाति, तथा मुनिः, इत्य् आह—दातॄणाम् इति । प्राग् उत्तराशुभं भूतं भविष्यच् च पापम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.४७ ॥

स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः ।

प्रविष्ट ईयते तत्-तत्- स्वरूपोऽग्निर् इवैधसि ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अल्प-दारे यथाल्पोऽग्निर् एवम् अल्प-शरीरगः ।

दृश्यते परमात्मापि स्थूलः स्थूल-शरीरगः ॥ इति वैभवे > ॥४७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो देहोपाधिकम् एवोच्च-नीचत्वादि न स्वाभाविकम् इत्य् अप्य् अग्नि-दृष्टान्तेन सम्भावितम् इत्य् आह—स्व-मायया स्वाविद्यया सृष्टं सद्-असल्-लक्षणं देव-तिर्यग्-आदि-रूपं विप्र-शूद्रादि-रूपं वा ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्निर् यथा एधसि प्रविष्ट ईयते मन्थनात् तु प्रकटीभवति, तथैव भगवान् इदं जगत् प्रविष्ट ईयते, श्रवण-कीर्तनादि-भक्त्य्-अभ्यासात् प्रत्यक्षीभवति ॥४७॥

———————————————————————————————————————

॥ ११.७.४८ ॥

विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।

कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मनो जन्मादि-षड्-विकारा-भावश् चन्द्र-दृष्टान्तेन सम्भावित इत्य् आह—विसर्गाद्या इति । विसर्गो जन्म । श्मशानं नाशः । तत्रेयं ज्योतिः-शास्त्र-प्रक्रिया । आप्य-मण्डलं चन्द्रस् तेजो-मयं मण्डलम् आदित्यः, तयोर् एक-नक्षत्रावस्थाने चन्द्रो न दृश्यते, चक्षुष आदित्य-मण्डलेन समदेश-स्थितेन व्यवधानात्, सा अमावास्या । अथ षष्टि-घटिकाभिश् चन्द्रो नक्षत्रान्तरं गच्छति । आदित्यस् तु त्रयोदशभिर् अहो-रात्रैः । अतः प्रतिपदम् आरभ्य विषम-स्थितस्यादित्य-मण्डलस्य पञ्चदशः पञ्चदशो भाग आप्य-मण्डले प्रतिबिम्बतो दृश्यते, सा कलेत्य् उच्यते । एवं पञ्चदशेऽह्नि त्रयोदशभिर् नक्षत्रैर् अन्तरम् इति राशि-चक्रस्य सप्त-विंशति-नक्षत्रात्मकस्य मध्ये संमुखौ चन्द्रादित्यौ तिष्ठतः, तदा सम्पूर्णं प्रतिबिम्बं भू-च्छायालाञ्छितं दृश्यते, सा पौर्णिमा । तस्याम् अमावास्याप्रतिबिम्बेन सह षोडश-कलश् चन्द्र उपचर्यते । ततः पुनः प्रतिपदम् आरभ्य मण्डलयोर् विषमी-भावात् कलाह्रासः । तत्र यथा कलानाम् एवोत्पत्त्य्-आदयो नाप्य-मण्डलस्य तथात्मनोऽपीत्य् आह कलानाम् इवेति ॥४८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चन्द्राच् छिक्षितम् आह—विसर्गो जन्म श्मशानं मृत्युस् तद्-अन्ता दशा देहस्यैव नात्मनः, चन्द्रस्य पञ्चदश-कलानाम् एव यथा उत्पत्त्य्-आदयः, न तु षोडशस्याम् आकला-रूपस्य चन्द्रस्य ॥४८॥

———————————————————————————————————————

॥ ११.७.४९ ॥

कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ ।

नित्याव् अपि न दृश्येते आत्मनोऽग्नेर् यथार्चिषाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सिंहावलोकनेनाग्नि-दृष्टान्तेनैव देहानां क्षण-भङ्गुरतया वैराग्यं शिक्षितम् इत्य् आह—कालेनेति । ओघ-वद्-वेगो यस्य तेन । आत्मनः सम्बन्धिनां भूतानां देहानाम् इत्य् अर्थः । अर्चिषां ज्वालानाम् ॥४९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सिंहावलोकन-न्यायेन पुनर् अप्य् अग्नेः सकाशाद् वैराग्यं शिक्षितम् आह—कालेनेति । ओघ-वेगेन ओघवतां मारुतादीनाम् इव वेगो यस्य तेन । आत्मनः सम्बन्धिनां भूतानां देहानाम् इत्य् अर्थः । अर्चिषां ज्वालानाम् ॥४९॥

———————————————————————————————————————

॥ ११.७.५० ॥

गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति ।

न तेषु युज्यते योगी गोभिर् गा इव गो-पतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदित्याच् छिक्षितम् आह द्वयेन—गुणैर् इति । गुणैर् इन्द्रियैर् गुणान् विषयान् उपादत्ते यथा-कालम् अर्थिन्य् आगते सति विमुञ्चति, च, न तेषु युज्यते लब्धम् इति दत्तम् इति वाभिनिवेशं न करोति । गोभी रश्मिभिर् गाः जलानि गोपतिः सूर्यो यथा ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा-कालम् इत्य् उभयत्राप्य् अन्वयः क्षुधाद्य्-अवसरानुरूपेणेत्य् अर्थः । विमुञ्चति त्यजति ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूर्याच् छिक्षितम् आह द्वाभ्याम् । गुणैर् इन्द्रियैर् गुणान् विषयान् उपादत्ते । यथा-कालम् अर्थिन्य् आगते सति विमुञ्चति ददाति च । न तेषु युज्यते, मया लब्धम्, मया दत्ता, इति वाभिनिवेशं न करोति । गोभी रश्मिभिर् गाः जलानि गोपतिः सूर्यो यथा ॥५०॥

———————————————————————————————————————

॥ ११.७.५१ ॥

बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः ।

लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितोऽर्कवत् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

अवय-व्यवयवानां च गुणानां गुणिनस् तथा ।

शक्ति-शक्तिमतोश् चैव क्रियायास् तद्वतस् तथा ॥ > स्वरूपांशांशिनोश् चैव नित्याभेदो जनार्दने । > जीव-स्वरूपेषु तथा तथैव प्रकृताव् अपि । > चिद्-रूपायाम् अतोऽनंशा अगुणा अक्रिया इति । > हीना अवयवैश् चेति कथ्यन्ते ते त्व् अभेदतः । > पृथग्-गुणाद्य्-अभावाच् च नित्यत्वाद् उभयोर् अपि । > विष्णोर् अचिन्त्य-शक्तेश् च सर्वं सम्भवति ध्रुवम् । > क्रियादेर् अपि नित्यत्वं व्यक्त्य्-अव्यक्ति-विशेषणम् । > भावाभाव-विशेषेण व्यवहारश् च तादृशः । > विशेषस्य विशिष्टस्याप्य् अभेदस् तद्वद् एव तु । > सर्वं चाचिन्त्य-शक्तित्वाद् युज्यते परमेश्वरे । > तच्-छक्त्यैव तु जीवेषु चिद्-रूप-प्रकृताव् अपि । > भेदाभेदौ तद् अन्यत्र ह्य् उभयोर् अपि दर्शनात् । > कार्य-कारणयोश् चापि निमित्तं कारणं विना ॥ इति ब्रह्म-तर्के ॥

आत्मनि चैवं विचित्राश् च हि । सर्वोपेता च तद्-दर्शनात् । सर्व-धर्मोपपत्तेश् च । स्वाभाविकी ज्ञान-बल-क्रिया च । यत्र सप्त ऋषीन् पर एकम् आहुर् इत्य् आदेश् च । नैवासत्यं क्वचिद् अस्मिन् परेशे सर्वं युक्तं पूर्ण-शक्तेः सदैव इतिच विश्वम्भर-श्रुतिः ।

तस्माद् एकस्मिन्न् अपि शरीरे भेदाभेदात् प्रभवाप्ययौ युज्यते, न च विरोधः । स्थूल-सूक्ष्मवत् । आपेक्षिकम् अत्रापि युज्यते ।

बुद्धि-संस्थस् त्व् आत्म-भेदोऽव्यक्तस्थो जीव उच्यते । > तेनैव सह संस्थानात् परात्मा स्थूल-बुद्धिभिः । > जीववल् लक्ष्यते विष्णुर् यथैवाम्बुस्थितार्कवत् । > परमार्कः पारिमाण्याड्द् वर्तुलत्वादिना तथा ॥ > अर्क-स्वरूपानभिज्ञैः शिरः पादादि-वर्जितः । > अचेतनश् च कल्पेत तत्-तेजो-मात्र-दर्शिभिः ॥ > सूर्य-देहादि-भिन्नंन् हि तेजो-मण्डलम् एव तु । > दृश्यते स्थूल-मतिभिर् एवम् एव जनार्दन ॥ इति प्रभासके > ॥५१॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वतो भेद-शून्यस्याप्य् आत्मनो भेद-प्रतीतिरुपाधि-वशादित्यादित्यदृष्टान्तेनैव सम्भावितम् इत्य् आह—बुध्यत इति । स्वे स्व-स्वरूपेऽवस्थित आत्मा भेदेन न बुध्यते । अभिव्यनक्तीति व्यक्तिर् उपाधिः । व्यक्ति-स्थ उपाधौ प्रतिबिम्बितस् तु तद्-गत इव उपाधि-प्रविष्ट इव भेदेन स्थूल-मतिभिर् लक्ष्यते । अर्कवद् इत्य् अन्वयः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : बुध्यत इति । आत्मा जीवः परमात्मा वा शक्ति-शक्तिमत्त्वादि-रूपेण स्वेन भेदेनावस्थितो बुद्ध्यत एव सूक्ष्म-मतिभिः । स्थूल-मतिभिस् तु व्यक्ति-स्थ उपाधिस्थोऽसौ तद्-गतस् तद्-आसक्त इव लक्ष्यते, यथार्को विचित्रान्तः-पुरादि-शोभावन्-मण्डल-रश्म्य्-आदि-रूपेण स्वेन भेदेनेत्य् आदि पूर्ववत् ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म परमात्मा स्वेन भेदेन स्वरूप-शक्ति-माया-शक्ति-जीव-शक्त्य्-आत्मकेनावस्थितोऽर्कवद् बुध्यते । अर्को यथा स्व-मण्डल-मेघ-किरणात्मकेन भेदेनावस्थितो बुध्यते इत्य् अर्थः । स्थूल-मतिभिस् तु व्यक्तिस्थो जाति-पदार्थ इव तद्-गतः । व्यक्ति-गत उपाध्य्-अवच्छिन्न आत्मा लक्ष्यते, अर्कवत् अर्को यथा जलादि परिच्छिन्नः॥५१॥

———————————————————————————————————————

॥ ११.७.५२ ॥

नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् ।

कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कपोताच् छिक्षितम् आह—नाति-स्नेह इति । स्नेहः प्रीतिः । प्रसङ्गः उपलालनाद्य्-आसक्तिः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कपोताच् छिक्षितम् आह—नातीति । प्रसङ्ग उपलालनादि ॥५२॥

———————————————————————————————————————

॥ ११.७.५३ ॥

कपोतः कश्चनारण्ये कृत-नीडो वनस्पतौ ।

कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्टान्तं प्रपञ्चयति—कपोतः कश्चनेति ॥५३॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.५४ ॥

कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ ।

दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तयोर् मिथः स्नेह-प्रसङ्गौ दर्शयति—कपोताव् इति त्रयेण । स्नेहेन गुणितं बद्धं हृदयं ययोस् तौ ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.५५ ॥

शय्यासनाटन-स्थान-वार्ता-क्रीडाशनादिकम् ।

मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्रब्धौ निःशङ्कौ ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.५६ ॥

यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता ।

तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्पयन्ती सुरतालाप-वीक्षितादिभिः प्रीणयन्ती ॥५६॥

———————————————————————————————————————

॥ ११.७.५७ ॥

कपोती प्रथमं गर्भं गृह्णन्ती काल आगते ।

अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सा कपोती तर्पयन्ती सहासवीक्षितालापादिभिः प्रीणयन्त्य् अत एव तेनानुकम्पिता सती यं यं वाञ्छति तं तं कामं समनयत् सम्पादयाम् आस । राजन्न् इति त्वं यथेति सूचितम् ॥५७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.५८ ॥

तेषु काले व्यजायन्त रचितावयवा हरेः ।

शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषु जल-भरितेष्व् अण्डेषु हरेः स्वभाव-कर्मादि-शक्तिभी रचितावयवाः पक्षिणः कोमलान्य् अङ्गानि तनूरुहाश् च येषां ते ॥५८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रजाः व्यजायन्त ॥५८॥

———————————————————————————————————————

॥ ११.७.५९ ॥

प्रजाः पुपुषतुः प्रीतौ दम्-पती पुत्र-वत्सलौ ।

शृण्वन्तौ कूजितं तासां निर्वृतौ कल-भाषिणः ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.६० ॥

तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः ।

प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पतत्रैः पक्षैः । अदीनानां हृष्टानाम् ॥६०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदीनानां हृष्टानाम् ॥६०॥

———————————————————————————————————————

॥ ११.७.६१ ॥

स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया ।

विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिशून् बालान् । प्रजाः पुत्रान् ॥६१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शिशून् बालान् प्रजा अपत्यानि ॥६१॥

———————————————————————————————————————

॥ ११.७.६२ ॥

एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ ।

परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.६३ ॥

दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः ।

जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वालयान्तिके चरतः क्रीडतः तान् कपोत-पुत्रान् । आतत्य प्रसार्य ॥६३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वालयान्तिके स्व-नीड-तल-निकटे चरतस् तान् बालान् जग्राह ॥६३॥

———————————————————————————————————————

॥ ११.७.६४ ॥

कपोतश् च कपोती च प्रजा-पोषे सदोत्सुके ।

गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्सुकत्वाद् एव तत्-पोषणार्थं गतौ सन्तौ । पोषणं भक्ष्यम् ॥६४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पोषणं भक्ष्यम् ॥६४॥

———————————————————————————————————————

॥ ११.७.६५ ॥

कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-संवृतान् ।

तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.६६ ॥

सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया ।

स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शिचा जालेन ॥६६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बद्धान् स-बालान् पश्यन्ती अपस्मृतिः शोकेनाचेन्तना सती पतन्ती शिचा जालेनाबध्यत ॥६६॥

———————————————————————————————————————

॥ ११.७.६७ ॥

कपोतः स्वात्मजान् बद्धान् आत्मनोऽप्य् अधिकान् प्रियान् ।

भार्यां चात्म-समां दीनो विललापाति-दुःखितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मानुरूपां भार्यां च विललाप शुशोच ॥६७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : च-कारात् शुशोच ॥६७॥

———————————————————————————————————————

॥ ११.७.६८ ॥

अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः ।

अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः

श्रीधर-स्वामी (भावार्थ-दीपिका) : विलापम् आह त्रयेण, अहो इति । अतृप्तस्य दुष्ट-सुखे अकृतार्थस्यादृष्टम् असम्पादयतः ।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.६९-७० ॥

अनुरूपानुकूला च यस्य मे पति-देवता ।

शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः ॥

सोऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः ।

जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.७१ ॥

तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः ।

स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधोऽपतत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् अवृतान् पश्यन्न् अपि । शिक्षु जालेषु ॥७१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विचेष्टमानान् पश्यन्न् अपतत् ॥७१॥

———————————————————————————————————————

॥ ११.७.७२ ॥

तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् ।

कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दार्ष्टान्तिके योजयति, एवम् इति ॥७२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.७.७३ ॥

एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् ।

पुष्णन् कुटुम्बं कृपणः सानुबन्धोऽवसीदति ॥

न कतमेनापि व्याख्यातम् ।

———————————————————————————————————————

॥ ११.७.७४ ॥

यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् ।

गृहेषु खग-वत् सक्तस् तम् आरूठ-च्युतं विदुः

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं गृहासक्तिस् तिरश्चाम् अप्य् अनर्थ-हेतुर् मनुष्यस्य त्व् अतिनिन्दितेत्य् आह—यः प्राप्येति ॥७४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे सप्तमोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > भगवद्-उद्धव-संवादे > सप्तमोऽध्यायः ।

॥११.७॥

———————————————————————————————————————

(११.८)


  1. थे एदितिओन् उसेद् हेरे दोएस् नोत् हवे थे उसुअल् इन्त्रोदुच्तोर्य् वेर्सेस्। ↩︎

  2. ब्ब्त् त्रन्स्च्रिप्त्- (अफ़्तेर् त्वं त्व् इति ।) यदि सर्व-निजोपदेशेन तत्र ज्ञान-योग्यान् प्रत्य् एवाह—त्वं त्व् इति सप्तभिः ॥६॥ ↩︎

  3. फ़ोल्लोwएद् ब्य् तेनापि पूर्वम् अभिप्रेतम्—त्वयोपयुक्त-स्रग्-गन्धरि इत्य्-आदि पञ्चभिः ॥ ↩︎

  4. योग-विन्यास इति पाठः विश्वनाथ-सम्मतः । ↩︎

  5. "नर-सखं नीयते विक्षिप्यते दुःखैर्" इति नर-शब्द-व्युत्पत्तिः अत्र टीकायाम् प्रक्षिप्ता । ↩︎