॥ ११.६.१ ॥
श्री-शुक उवाच—
अथ ब्रह्मात्मजैर् देवैः प्रजेशैर् आवृतोऽभ्यगात् ।
भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षष्ठे ब्रह्मादिभिः स्तुत्वा गन्तुं विज्ञापितं हरिम् ।
उद्धवः प्रार्थयाम् आस स्व-धाम नय माम् इति ॥
अतः परम् अतिविस्तरेणात्म-विद्यां निरूपयितुं तत्-प्रस्तावम् आह—अथेति । आत्मजैः सनकादिभिः । अभ्यगात् द्वारकाम् इति चतुर्थेनान्वयः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः परम् अतिविस्तरेण भगवद्-विद्यां निरूपयितुं तत् प्रस्तावम् आह—अथेति ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
ब्रह्मादिभिः स्तुतं संहृतान्तर्-धित्सुं कुलं प्रभुम् ।
ज्ञात्वा न्यवेदयत् प्रेष्ठः षष्ठे स्वाभीष्टम् उद्धवः ॥
आत्मजैः सनकादिभिः । भूताणां प्राणिनां भव्यस्य कल्याणस्य ईशो दाता । अभ्यगात् द्वारकाम् इति कर्म-पदेन चतुर्थ-श्लोक-स्थेनान्वयः ॥१॥
———————————————————————————————————————
॥ ११.६.२-३ ॥
इन्द्रो मरुद्भिर् भगवान् आदित्या वसवोऽश्विनौ ।
ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः ॥
गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः ।
ऋषयः पितरश् चैव स-विद्याधर-किन्नराः ॥
द्वारकाम् उपसङ्गम्य सर्वे कृष्ण-दिदृक्षवः ।
श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव विवृणोति—इन्द्र इत्य्-आदिना । तत्र इन्द्र इति सार्ध-युग्मकम् ॥२-३॥
———————————————————————————————————————
॥ ११.६.४ ॥
वपुषा येन भगवान् नर-लोक-मनोरमः ।
यशो वितेने लोकेषु सर्व-लोक-मलापहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तेषाम् उपेन्द्रादि-रूपं भगवन्तं नित्यं पश्यतां केयम् अति-दिदृक्षा अत आह—वपुषेति । येन वपुषा नर-लोक-मनोरमः सन् सर्व-लोकेषु यशो वितेने तद् अतिसुन्दरं वपुर् दिदृक्षवः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : येन कृष्णाख्येनान्तर्-भूतोपेन्द्रादि-रूपेण ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येन वपुषा नर-लोक-मनोरमः, तं कृष्णं दिदृक्षव इत्य् अभेदोक्त्या वपुषः सकाशाज् जीवस्य यथा भेदः, तथा नेश्वरस्येति ज्ञापितम् । यद् उक्तम्—देह-देहि-विभागश् च नेश्वरे विद्यते क्वचित् इति ॥४॥
———————————————————————————————————————
॥ ११.६.५ ॥
तस्यां विभ्राजमानायां समृद्धायां मह-र्द्धिभिः ।
व्यचक्षतावितृप्ताक्षः कृष्णम् अद्भुत-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यचक्षत अपश्यन् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णम् अद्भुत-दर्शनम् इति—स्वस्यापि विस्मापनं [भा।पु। ३.२.२२] इत्य् उक्तेः ॥५॥ [प्रीति-सन्दर्भ ७९]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यां द्वारकायां व्यचक्षत अपश्यन् ॥५॥
———————————————————————————————————————
॥ ११.६.६ ॥
स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो यदूत्तमम् ।
गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्गोद्यान-स्थैर् माल्यैः । चित्राणि शृङ्खला-बन्ध-प्रायाणि पदान्य् अर्थाश् च यासु ताभिर् गीर्भिः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वर्गोद्यान एवोपगैर् उपगतैः । चित्राणि शृङ्खला-बन्ध-प्रायाणि पदान्य् अर्थाश् च यासु ताभिर् गीर्भिः ॥६॥
———————————————————————————————————————
॥ ११.६.७ ॥
श्री-देवा ऊचुः—
नताः स्म ते नाथ पदारविन्दं
बुद्धीन्द्रिय-प्राण-मनो-वचोभिः ।
यच् चिन्त्यतेऽन्तर् हृदि भाव-युक्तैर्
मुमुक्षुभिः कर्म-मयोरु-पाशात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बुद्धीन्द्रियादिभिर् दर्शनादिना प्राणेन च बल-हेतुना दण्ड-वत्-प्रणिपातेन नता वयं नमस्-कृतवन्तः । स्मेति विस्मये । यथाहुः—
दोर्भ्यां पदाभ्यां जानुभ्याम् उरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ इति ।
स्म-शब्दोक्त-विस्मयाय विशेषणम् । कर्म-मयाद् उरु-पाशान् मुमुक्षुभिर् भाव-युक्तैर् अपि यत् केवलम् अन्तर्-हृदि चिन्त्यते न तु दृश्यते तद् वयं नताः । अहो भाग्यम् इत्य् अर्थः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बुद्ध्या बुद्ध्याधिष्ठानेन हृदयेनेन्द्रियेणेति दृग्भ्यां पद्भ्यां दोर्भ्यां चेत्य् अर्थः । प्राणेन प्राणवता देहेनेति जान्व्-आद्य्-अङ्गान्य् अपि लब्धानि । यथाहुः—
दोर्भ्यां पदाभ्यां जानुभ्याम् उरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ इति ।
यच् चरणारविन्दं केवलम् अन्तर्-हृदि चिन्त्यते, न तु दृश्यते, तद् वयं दृष्ट्वा नताः स्म इत्य् अहो भाग्यम् इति भावः ॥७॥
———————————————————————————————————————
॥ ११.६.८ ॥
त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं
व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः ।
नैतैर् भवान् अजित कर्मभिर् अज्यते वै
यत् स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु ममापि दृष्टादृष्ट-कर्म-करणात् कुतो मत्-पदारविन्द-चिन्तनं कर्म-पाशान् मुमुक्षुभिः क्रियते ? तत्राहुः—त्वम् इति । हे अजित ! आस्ताम् इदानीन्तनम् इदम् अत्यल्पं कर्म, त्वं व्यक्तं महद्-आदि-प्रपञ्चं सृजसि पालयसि संहरसि च तद् अप्य् आत्मन्य् एवं न पृथक् । दुर्विभव्यं मनसाप्य् अवितर्क्यम् । तद् गुण-स्थस् तस्या मायाया गुणेषु नियन्तृत्वेन स्थितः । अत एव तैः कर्मभिर् भवान् नाज्यते न लिप्यते । कुतः ? यो भवान् अनवद्यो रागादि-रहितः । यतः स्वे आत्म-रूपे सुखेऽव्यवहितेऽनावृते अभिरतः । अतस् त्वं कर्म कुर्वन्न् अप्य् आत्मारामः परमेश्वर इति मुमुक्षुभिश् चिन्त्यस इति भावः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वम् इति । स्वे स्वरूप-भूत-ह्लादिनी-शक्ति-प्रकाशिते ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मद्-आदिभिर् ईश्वरैर् अपि नमस्यत्वे तव दुर्वितर्क्य-परम-परमेश्वरत्वम् एव हेतुर् इत्य् आहुः—त्वम् इति । व्यक्तं विश्वं तद्-गुणस्थः तस्या मायया गुणेषु नियन्तृत्वेन स्थितः । सृष्ट्य्-आदिकं कुर्वन्न् अपि एतैः कर्मभिर् भवान् नाज्यते न लिप्यते । तत्र हेतुः—यः स्वीये सुखेऽव्यवहितेऽनावृतेऽभिरतः । न तु जीव इव स्व-सुखे, अविद्ययावृते यति रमणाभावाद् अदीनः । अत एव स्व-कर्मभिर् लिप्तः । एवं च त्वम् अनवद्यः, स तु सावद्यः ॥८॥
———————————————————————————————————————
॥ ११.६.९ ॥
शुद्धिर् नृणां न तु तथेड्य दुराशयानां
विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः ।
सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध-
सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् आत्मारामस्य किं कर्म-करणेन ? अत आहुः—शुद्धिर् इति । हे ईड्य ! हे ऋषभ ! दुराशयानां रागिणाम् । विद्या उपासना । विद्यादिभिस् तथा शुद्धिर् न भवति । सत्त्वात्मनां सतां ते यशसि श्रवणेन संभृतया परिपुष्टया अभिवृद्धया सच्-छ्रद्धया यथा स्यात् । परम-पावनस्य यशसो वितानाय तव कर्माचरणम् इति भावः ॥९॥
कैवल्य-दीपिका : वस्तु-सामर्थ्यम् एवाह—शुद्धिर् इति । हे ईड्य स्तुत्य ! विद्या वैश्वानराद्य्-उपासना । श्रुतं शास्त्रम् । अध्ययनं वेदाक्षर-ग्रहणं । दानं हिरण्यादेः सत्-पात्रेऽर्पणम् । जपो मन्त्रावृत्तिः । क्रिया अग्निहोत्रादि कर्म । सत्त्वात्मनाम् ऋषभः सात्त्विक-श्रेष्ठः विशुद्धोर्जित-सत्त्व-कारणात् ॥९॥ [मु।फ। ६.२९]
जीव-गोस्वामी (क्रम-सन्दर्भः) : विद्यादि-सद्-भावेऽपि दुराशयानाम् इति शुद्ध-भक्ति-श्रद्धाया अभावात् । विद्याद्य्-असद्-भावेऽपि सत्त्वात्मनाम् इति तद्-भक्ति-सद्भावात् । तद् एवं शृण्वताम् अपि तथात्वे, किम् उत पश्यताम् इति । भक्त-सुखार्थम् एव त्वल्-लीलेति भावः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो यथा त्वच्-चरणम् एव नमस्यं, तथैव त्वद्-यश एव, श्रवण-स्मरणादि-विषयीकर्तव्यम् इत्य् आहुः—शुद्धिर् इति । हे ईड्य ! नु भो विद्यादिभिस् तथा शुद्धिर् न भवति, यतस् ताभिर् एव दुराशयानां विद्यादिभिर् गर्वेण दुष्ट एव आशयः प्रायः स्याद् इत्य् अर्थः । सत्त्वात्मनां शुद्ध-सत्त्व-वपुषाम् अवताराणां मध्ये ऋषभ ! हे श्रेष्ठ ! ते तव यशसि श्रोतुं स्मर्तुं कीर्तयितुं च प्रवृद्धा सती श्रेष्ठा या श्रद्धा, तया शुद्धिः स्यात् । कीदृश्या ? श्रवणेन शास्त्रादि-श्रवणेन सम्भृतया परिपुष्टया ॥९॥
———————————————————————————————————————
॥ ११.६.१० ॥
स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः
क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः ।
यः सात्वतैः सम-विभूतय आत्मवद्भिर्
व्यूहेऽर्चितः सवनशः स्वर्-अतिक्रमाय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं त्वद्-यशः-श्रद्धैव शुद्धि-हेतुः, अस्माभिस् तु तवाङ्घ्रिर् दृष्टोऽतस् तवाङ्घ्रिर्नोऽस्माकम् अशुभाशयानां विषय-वासनानां धूम-केतुस् तद्-दाहकः स्यात् । कथं भूतः ? यः क्षेमाय मोक्षाय मुनिभिर् मुमुक्षुभिः प्रेम्आर्द्र-हृदा ऊह्यमानश् चिन्त्यमानः । यश् च सात्वतैर् भक्तैः सम-विभूतये समानैश्वर्याय वासुदेवादि-व्यूहेऽर्चितः । तेषु च कैश्चिद् आत्म-वद्भिर् धीरैः स्वर्-अतिक्रमाय स्वर्गम् अतिक्रम्य वैकुण्ठ-प्राप्तये सवनशस् त्रि-कालम् अर्चितः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुनिभिर् आत्मारामैर् अपि क्षेमाय परम-सुखाय । सात्वतैर् भक्तैः । आत्मा त्वम् एव नाथत्वेन विद्यते येषां, तादृशैः । समानां स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनां [भा।पु। ६.१७.२८] नारायण-पारायणानां विभूतये परम-सुख-स्वरूपाय, स्वर्-अतिक्रमायेतर-सुख-भोगातिक्रमाय चार्चितः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथैव त्वच्-चरण एव ध्येयोऽर्चनीयश् च यः, स चास्माभिर् दृष्ट इत्य् अत इदम् आशास्महे इत्य् आहुः—स्याद् इति । अशुभाशयानां विषय-वासनानां धूमकेतुर् दाहकः स्यात् । अस्तु, प्रेमार्द्र-हृदा ऊह्यमानश् चिन्त्यमानः । यश् च सात्वतैर् भक्तैः सम-विभूतये सार्ष्टि-लक्षण-मोक्षाय । यद् वा, समानां स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनां[भा।पु। ६.१७.२८] नारायण-पराणां या विभूतिः प्रेम-सम्पत्तिस् तस्यै आत्मा त्वम् एव नाथत्वेन वर्तसे येषां तैः । स्वर्-अतिक्रमाय स्वर्गादि-वासना-त्यागाय चार्चितः । यद् उक्तं प्रह्लादेन—कामाणां हृद्य् असंरोहं भवतस् तु व्र्णे वरं [भा।पु। ७.१०.७] इति ॥१०॥
———————————————————————————————————————
॥ ११.६.११ ॥
यश् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ
त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा ।
अध्यात्म-योग उत योगिभिर् आत्म-मायां
जिज्ञासुभिः परम-भागवतैः परीष्टः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, प्रयत-पाणिभिः संयत-हस्तैर् हविर् गृहीत्वाध्वराग्नौ आहवनीयादौ याज्ञिकैर् यश् चिन्त्यते । ननु, यस्यै देवतायै हविर् गृहीतं स्यात् तां ध्यायेद् वषट् करिष्यन् इति वचनात् तत्-तद्-देवताश् चिन्त्यन्ते अत आहुः—त्रय्या निरुक्तेन विधिनेन्द्रादि-रूपेणैव यज्ञ-पुरुषश् चिन्त्यत इत्य् अर्थः । उत किं च । अध्यात्म-योगे आत्माधिकारे योगे योगिभिर् अप्य् आत्मनस् तव माया अणिमादिस् तां जिज्ञासुभिस् तत् तत् कामैर् यश् चिन्त्यते । परम-भागवतैस् तु मुक्तैर् यः परीष्टः सर्वतः पूजितः स तवाङ्घ्रिर् नोऽशुभाशय-धूमकेतुः स्याद् इति पूर्वेणान्वयः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यश् चिन्त्यत इति तत्-तद्-अधिकारि-परम् । अत एव त्रय्या निरुक्त-विधिनेति त्रयी-तात्पर्य-पर्यवसित-विधिनेत्य् अर्थः । एतद् अज्ञानिनः प्रत्य् एव सा सा देवता पृथग् विधीयते इति भावः । तथा च सर्वार्थदत्वेन चरणस्य चरणोपनिषद् उदाहृता—चरणं पवित्रम् इत्य्-आदिका ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं सात्वतैर् एव त्वम् इष्टः, किन्तु कर्मि-ज्ञानिभिर् अपीत्य् आहुः—य इति । प्रयत-पाणिभिः संयत-हस्तैर् हविर् गृहीत्वाध्वराग्नौ आहवनीयादौ याज्ञिकैर् यश् चिन्त्यते, त्वद्-भुजादि-विभूतय एवेन्द्रादयो, न ते त्वद्-अन्ये इति भाव्यत इत्य् अर्थः । उत तथा अध्यात्म-योगे आत्माधिकारे योगे योगिभिर् अप्य् आत्मनस् तव माया-तरणार्थं जिज्ञासुभिश् चिन्त्यते । परम-भागवतैस् तु परि सर्वतो-भावेन निष्कामतयैव इष्टः, स तवाङ्घ्रिर् अस्माकम् अशुभाशय-धूमकेतुः स्याद् इति पूर्वेणान्वयः ॥११॥
———————————————————————————————————————
॥ ११.६.१२ ॥
पर्युष्टया तव विभो वन-मालयेयं
संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः ।
यः सु-प्रणीतम् अमुयार्हणम् आददन् नो
भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेषां च मुनि-सात्वतादीनां षण्णां सेवकानां मध्ये परम-भागवतेषु लक्ष्म्या अपि तव प्रीतिर् अधिकेति संस्तुवन्ति—पर्युष्टयेति । इड-भावश् छान्दसः । अहं यत्र वसामि, तत्रैव वक्षसि पर्युषितापीयं वसतीति प्रतिपत्निवत् सपत्नीवच् छ्रीः संस्पर्धमाना भवति । तथापि स्पर्धमानां श्रियम् अनादृत्य यो भवान् पर्युषितयापि अमुया वन-मालया भक्तैर् अर्पितेयम् इति प्रीत्या सुप्रणीतं सुष्ठु सम्पादितं यथा भवति, तथार्हणं पूजाम् आददत् स्वीकृतवान् । सुप्रणीतम् इत्य् अर्हण-विशेषणं वा । तस्य तवाङ्घ्रिर् नोऽशुभाशय-धूमकेतुर् भूयात् ।
यद् वा, योऽङ्घ्रिर् अमुया सुप्रणीतम् अर्हणम् आददत्, स नोऽशुभाशय-धूमकेतुर् भूयाद् इत्य् अन्वयः । अथवैवं संबन्धः, एतेभ्यो ध्यानार्चनादि-निष्ठेभ्योऽपि त्वद्-यशसि प्रवृद्ध-सच्-छ्रद्धावन्त एव कृतार्थः । भगवतो यशः-प्रियत्वाद् इत्य् आहुः—पर्युष्टया । “वश कान्तौ” इत्य् अस्मात् परितः सर्वाङ्गे उष्टया कान्तया शोभितया वन-मालया वक्षस्य् एक-देशे वर्तमाना श्रीः संस्पर्धमाना भवति । तथाप्य् आम्नाय-मधुव्रतैर् बहुधा वर्णितया कीर्ति-मय्या वैजयन्त्या वन-मालयैव यो भवान् सुप्रणीतम् अर्हणम् आददद् इत्य्-आदि पूर्ववत् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृशस्यापि चरणस्य स्वेषु परमानुग्रहं दर्शयितुम् आहुः—पर्युष्टयेत्य् अर्धेन । तद् एवं पर्युष्टापि लक्ष्मीर् दुःसहापि कथं सा न त्यज्यते ? इति पूर्व-पक्षम् उत्थाप्य तम् एव सिद्धान्तेन दर्शयन्ति—य इत्य् अर्धेन । यो हि नोऽस्मत्-कर्तृकम् अमुया वन-मालया करण-भूतया अर्हणं सुष्ठु प्रणय-युक्तं यथा स्यात् तथा ददत् स्वीकृतवान् इति । अनेन स्वैः कदाचिद् यद् दत्तासीत् ताम् एव तदा श्री-भगवान् धृतवान् इति ज्ञापितम् । यद्यपि तस्या मालाया दिव्यत्वात् पर्युष्टत्वं न सम्भवति, लक्ष्म्याश् च तत्रेर्ष्या-प्रेष्ठ-भूषणत्वान् न सम्भवति, तथापि स-प्रणय-विनोदोक्ति-मात्रम् इदम् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐकान्तिक-स्व-भक्त-निवेदितं पत्र-पुष्पादिकं पर्युषितम् अपि सर्वोत्कृष्टतया लक्ष्म्याः सकाशाद् अप्य् उत्कृष्टः करोषीत्य् एवं तव भक्त-वात्सल्यम् इत्य् आहुः—पर्युष्टयेति । इड-भाव आर्षः । अहं यत्र वसामि, तत्रैव वक्षसि पर्युषितापीयं वसतीति प्रतिपत्निवत् सपत्नीवच् छ्रीः स्पर्धमाना भवति । तथापि तां स्पर्धमानां श्रियम् अनादृत्य यो भवान् पर्युषितयापि अमुया मद्-ऐकान्तिक-भक्तेनार्पितेयं तद् इयं त्यक्तुम् अनर्हेति बुद्ध्यैवाद्रियमाणया सुप्रणीतं सुष्ठूपपादितम् अर्हणं पूजाम् अददत् स्वीकृतवान् । तस्य तवाङ्घ्रिर् अत्र स्पर्धिनीत्य् उत्प्रेक्षैव द्रष्टृ-लोक-कृता, न तु श्रियः कयाचित् क्वापि स्पर्धा दृष्टा ॥१२॥
———————————————————————————————————————
॥ ११.६.१३ ॥
केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको
यस् ते भयाभय-करोऽसुर-देव-चम्वोः ।
स्वर्गाय साधुषु खलेष्व् इतराय भूमन्
पादः पुनातु भगवन् भजताम् अघं नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वच्-चरणस्य भक्त-पक्ष-पातः प्रसिद्ध एवेति स्तुवन्तः प्रार्थयन्ते—केतुर् इति । बलि-बन्धने त्रिभिर् विक्रमैर् युतः । तत्र द्वितीय-विक्रमे सत्य-लोकं गतस् तव पादः केतुर् अत्युच्छ्रितो विजय-ध्वज इव । तत् सम्पादयन्ति । त्रि-पतत्-पताकः त्रिधा पतन्ती, त्रिषु लोकेषु वा पतन्ती गङ्गा पताका यस्य । तथासुर-देव-चम्वोस् तत् सेनयोर् उभयोर् भयाभय-करः । साधुषु सुरेषु स्वर्गाय खलेष्व् असुरेष्व् इतरायेतरस्मै अधो-गमनाय । य एवं केतु-रूपस् ते पादः स भजतां नोऽघं पुनातु शोधयतु । “अघात्” इति पाठे, भजतां नः इति कर्मणि षष्ठ्यौ । अघाद् भजतोऽस्मान् पुनात्व् इति । तथा च श्रुतिः—
चरणं पवित्रं विततं पुराणं
येन पूतस् तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता
अतिपाप्मानम् अरातिं तरेम ॥ [महानारायणोपनिषद् १.५१]
लोकस्य द्वारम् अर्चिमत्-पवित्रं
ज्योतिष्मद्- भ्राजमानं महस्वत् ।
अमृतस्य धारा बहुधा दोहमानं
चरणं नो लोके सुधितां दधातु ॥ इति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च तवाङ्घ्रिः प्रायः सर्व-लोकानुभव-प्रसिद्ध एवेत्य् आहुः—केतुर् इति । केतुर् अत्युच्छ्रितो विजय-ध्वज इव तव पादः पुनातु । त्रिविक्रमेऽवतारे युतः महा-विभूति-युक्त इत्य् अर्थः । त्रिधा पतन्ती, त्रिषु लोकेषु वा पतन्ती गङ्गैव पताका यस्य सः । असुर-देव-चम्वोस् तत् सेनयोर् उभयोर् भयाभय-करः । साधुषु सुरेषु स्वर्गाय, खलेष्व् असुरेष्व् इतराय अधो-गमनाय । एवं-भूतस् ते पादः भजतां नोऽघं पुनातु शोधयतु । “अघात्” इति पाठे षष्ठी आर्षी । अघाद् भजतोऽस्मान् पुनात्व् इति । तथा च श्रुतिः—
चरणं पवित्रं विततं पुराणं
येन पूतस् तरति दुष्कृतानि । [महानारायणोपनिषद् १.५१] इति ॥१३॥
———————————————————————————————————————
॥ ११.६.१४ ॥
नस्य् ओत-गाव इव यस्य वशे भवन्ति
ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः ।
कालस्य ते प्रकृति-पूरुषयोः परस्य
शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु युद्धे देवासुरादयः परस्परं जयन्ति, जीयन्ते च किम् अहं तत्रेत्य् अत आहुः—नसीति । मिथुर् मिथोऽर्द्यमाना युद्धादिभिः पीड्यमाना ब्रह्मादयोऽपि यस्य तव वशे भवन्ति, न तु जये पराजये वा स्व-तन्त्राः । के इव ? नसि नासिकायाम् ओता नासिकाम् आविध्य वद्धा गावो बली-वर्दा इव । कुतः ? कालस्य कलयितुः प्रवर्तकस्य । तद् एव कुतः ? प्रकृति-पुरुषयोर् अपि परस्य । तस्य ते पुरुषोत्तमस्य पादो नः शं तनोतु ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
युद्धे देवासुरादयः परस्परं जयन्ति, जीयन्ते च किम् अहं तत्रेत्य् अत आहुः, नसीति । मिथुर् मिथोऽर्द्यमाना युद्धादिभिः पीड्यमाना ब्रह्मादयोऽपि यस्य तव वशे भवन्ति, न तु जये पराजये वा स्व-तन्त्राः । के इव । नसि नासिकायाम् ओता नासिकाम् आविध्य वद्धा गावो बली-वर्दा इव । कुतः । कालस्य कलयितुः प्रवर्तकस्य । तद् एव कुतः । प्रकृति-पुरुषयोर् अपि परस्य । तस्य ते पुरुषोत्तमस्य पादो नः शं तनोतु ॥१४॥
———————————————————————————————————————
॥ ११.६.१५ ॥
अस्यासि हेतुर् उदय-स्थिति-संयमानाम्
अव्यक्त-जीव-महताम् अपि कालम् आहुः ।
सोऽयं त्रि-नाभिर् अखिलापचये प्रवृत्तः
कालो गभीर-रय उत्तम-पूरुषस् त्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रकृति-पुरुषाभ्यां परत्वम् उपपादयन्तः कालत्वेन पुरुषोत्तमत्वम् आहुः—अस्येति । अस्य जगत उदयादीनां हेतुर् असि । कुतः ? अव्यक्तं प्रकृतिः, जीवः पुरुषः, महान् महत्-तत्त्वं, तेषां कालं नियन्तारं त्वाम् आहुः—
अक्षरात् परतः परः । महतः परम-व्यक्तम् । अव्यक्तात् पुरुषः परम् । पुरुषान् न परं किञ्चित् । सा काष्ठा सा परा गतिः ॥ इत्य् आद्याः श्रुतयः ।
किं च, अयं संवत्सरात्मको यः कालस् त्रिणाभिस् त्रीणि चातुर्-मास्यानि नाभयो यस्य सोऽपि त्वम् एव । अतस् त्वम् उत्तम-पुरुष इति । तथा च गीतासु—
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमाह् ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमाह् ॥ [गीता १५.१८] इति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एव पुरुषोत्तमत्वम् उपपादयति—अस्य जगत उदयादीनां हेतुर् असि। तथा अव्यक्तं माया-कारणोपाधिः, जीव उपाहितः, महान् महत्-तत्त्वादिः, कार्योपाधिस् तेषाम् अपि कालं कलयितारं नियन्तारं त्वाम् आहुः । तथायं संवत्सरात्मको यः कालः त्रिनाभिः त्रीणि चातुर्मास्यानि नाभयो यस्य सः । तव गभीर-रयः गभीर-वेगश् चेष्टा । अतः कार्य-कारणातीतत्वात् जीवाद् उत्तमत्वाच् च त्वम् एवोत्तमः पुरुषः । यद् उक्तं गीतासु—
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमाह् ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमाह् ॥ [गीता १५.१८] इति ॥१५॥
———————————————————————————————————————
॥ ११.६.१६ ॥
त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं
धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः ।
सोऽयं तयानुगत आत्मन आण्ड-कोशं
हैमं ससर्ज बहिर् आवरणैर् उपेतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एव प्रकृत्य्-आदि-द्वारा जगत्-सृष्ट्य्-आदि-द्वारा जगत्-सृष्ट्य्-आदि-हेतुर् इत्य् उक्तम् । तत् केन प्रकारेण ? तद् आहुः—त्वत्त इति । त्वत्तः पुरुषो वीर्यं शक्तिं समधिगम्य प्राप्य यया मायया सह महान्तं धत्ते । कम् इव ? अस्य विश्वस्य गर्भम् इव । सोऽयं महांस् तयैव माययानुगतः सन्न् आत्मनः सकाशाद् आण्ड-कोशं ससर्ज । त्वयऽनुगत इति पाठेऽपि तया मायया त्वयाधिष्ठितः सन्न् इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवात् पुरुषाद् उत्तमत्वेन पुर्षोत्तमत्वं व्यज्य प्रकृति-द्रष्टृतोऽप्य् उत्तमत्वेन व्यञ्जयति—त्वत्त इति । ययेति यस्यां मायायाम् इत्य् अर्थः । अन्यत् तैः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जीवात् पुरुषाद् उत्तमत्वम् उक्त्वा प्रकृति-द्रष्टुः पुरुषाद् अप्य् उत्तमत्वम् अभिव्यञ्जयन्ति—त्वत्तः सकाशात् पुमान् आदि-पुरुषः समधिगम्य शक्तिं प्राप्य यया मायया द्वारा वीर्यं वीर्य-रूपं महान्तं धत्ते । कम् इव अस्य विश्वस्य गर्भम् इव सोऽयं महान् तयैव मायया अनुगतः सन् आत्मनः सकाशाद् अण्ड-कोषं ससर्ज ॥१६॥
———————————————————————————————————————
॥ ११.६.१७ ॥
तत् तस्थूषश् च जगतश् च भवान् अधीशो
यन् माययोत्थ-गुण-विक्रिययोपनीतान् ।
अर्थाञ् जुषन्न् अपि हृषीक-पते न लिप्तो
येऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं-भूतम् ईश्वरत्वं मम कुतोऽवगतं ? तद् आहुः—तद् इति । तत् तस्मात् तस्थूषः स्थावरस्य जगतो जङ्गमस्य च भवान् अधीशः । यद् यस्माद् माययोत्था उज्जृम्भिता या गुण-विक्रिया इन्द्रिय-वृत्तिस् तयोपनीतान् अर्थान् विषयान् जुषन् जुषमाणोऽपि हे हृषीक-पते, न लिप्तस् त्वम् । ये त्व् अन्ये जीवा योगिनो वा स्वतः परिहृताद् अप्य् अविद्यमानात् त्यक्ताद् वा विषय-जोषणाद् बिभ्यति । वासना-मात्रेण बध्यन्त इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एव दर्शयति—तद् इति । यस्माद् एवं तवांशः पुरुषः स्रष्टृत्वाद् ईशः । तत्र चेश-रूपेण जुषन् जोषयन्न् अपीत्य् अर्थः । न लिप्तः कर्म-फलं प्रयोक्तरि इति न्यायेनेति भावः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं च फल-भूतं परमेश्वरस् त्वम् एवेत्य् आहुः—तद् इति । यस्माद् एवं, तत् तस्मात् तस्थूषः स्थावरस्य जगतो जङ्गमस्य च भवान् अधीशः । स्रष्टा पुरुष ईशस् त्वं तु तम् अप्य् अधिकरोषीत्य् अर्थः । यद् यस्मान् मायया उत्था उत्थिता या गुण-विक्रिया इन्द्रिय-वृत्तिस् तयोपनीतान् अर्थान् विषयान् जुषन् मर्त्यादि-शरीरेषु जीव-द्वारा परमात्मैव त्वं जुषमाणः सन्न् अपि हृषीक-पते, हे इन्द्रिय-नियन्तः ! न लिप्तः । ये त्व् अन्ये योगिनस् ते स्वतः स्वेन परिहृताद् अपि विषय-जोषणाद् बिभ्यति । वासना-मात्रेण बध्यन्त इत्य् अर्थः ॥१७॥
———————————————————————————————————————
॥ ११.६.१८ ॥
स्मायावलोक-लव-दर्शित-भाव-हारि-
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर्
यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अलिप्तत्वम् आहुः—स्मायेति । स्मायावलोको मन्द-स्मित-विलसितोऽवलोकः, तस्य लवः कटाक्षः, तेन दर्शितो यो भावोऽभिप्रायः, तेन मनो-हारि यद् भ्रू-मण्डलं, तेन प्रहिता ये सौरता मन्त्राः, तैः शौण्डैः प्रगल्भैर् अनङ्ग-बाणैः कामस्य बाणैः संमोहनैः करणैः काम-कलादिभिः षोडश-सहस्रं पत्न्यो यस्येन्द्रियं मनो विमथितुं क्षोभयितुं न विभ्व्यो न समर्थाः, स भवान् न लिप्त इति पूर्वेणान्वयः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् अहम् अत्र तु कामीव लक्ष्ये ? नेत्य् आहुः—स्मायेति । अनङ्ग-बाण-रूपैः करणैर् स्वाधिक-प्रेमवती स्पर्धया कृत्रिमैर् भाव-हावादिभिर् विशेषेण सोत्तम-प्रेमवती-तुल्यत्वेन मथितुम्, किन्तु यावांस् तत्र प्रेमांशस् तावद् एवेत्य् अर्थ इति प्रथम-स्कन्ध-पद्यवत् [१.११.३७] प्रेम-वश्य एव त्वम्, न तु कामीत्य् अर्थः ॥१८॥1
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वयं भगवद्-रूपः साक्षात् त्वं त्व् अप्राकृत-विषयेष्व् अपि न लिप्त इत्य् आहुः—स्मायावलोको मन्द-स्मित-विलसितोऽवलोकस् तस्य लवः कटाक्षस् तेन दर्शितो यो भावोऽभिप्रायस् तेन मनोहारि यद् भ्रू-मण्डलं तेन प्रहिता ये सौरता मन्त्रास् तैः शौण्डैः प्रगल्भैः अनङ्गस्य बाणैर् बाण-तुल्यैः करणैः काम-कलाभिः षोडश-सहस्रं पत्न्यः विमथितुं क्षोभयितुं न शेकुः, पत्नीनां चिछक्ति-वृत्तित्वात् तासां काम-कला अप्य् अप्राकृत्यश् चिन्मया एव ताभिर् अप्य् अवशीकार-दर्शनाद् अलिप्त एव त्वम् । किं च पारिजाताद्य्-आहरण-ज्ञापित-वशीकार-दर्शनात् ताश् च कदाचित् तासां चिद्-विशेष-प्रेम-मय्योऽपि भवन्तीत्य् उज्ज्वल-नीलमणौ प्रतिपादितम् । ततश् च त्वं प्रेम-वश्य एव, न तु प्राकृताप्राकृत-काम-वश्य इति भावः । यद् वा, विमथितुं व्रज-सुन्दर्य इव विशेषेण मथितुं न शेकुः । किन्तु यावांस् तत्र प्रेमांशस् तावद् एवेत्य् अर्थः ॥१८॥
———————————————————————————————————————
॥ ११.६.१९ ॥
विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः
पादाव् अनेज-सरितः शमलानि हन्तुम् ।
आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस्
तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् तवामृत-रूपा या कथा, तद् एव उदकं वहन्तीति तथा कीर्ति-नद्यः । तथा पादाव् अनेज-सरितो गङ्गाद्याश् च त्रि-लोक्याः शमलानि हन्तुं विभ्व्यः । केन प्रकारेण ? आनुश्रवं गुरोर् उच्चारणम् अनुश्रूयत इत्य् अनुश्रवो वेदस् तत्र भवं कीर्ति-रूपं तीर्थं श्रुतिभिः श्रवणेन्द्रियैर् अङ्घ्रि-जं चाङ्ग-सङ्गैः । एवं शुचि-षदः स्वाश्रम-धर्म-स्थितास् तव तीर्थ-द्वयम् उपस्पृशन्ति सेवन्त इति ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र किं वक्तव्यं तव चरितं ? कामम् अयम् इति यतस् त्वत्-कथापि कामादि-शमलम् अपहन्तीत्य् आहुः—विभ्व्य इति । अत्रोद-वहा-शब्दस्य नद्यां रूढिर् ज्ञेया यौगिकत्वेऽमृतत्वं तिरस्कृतं स्यात् । पादाव् अनेज-सरित इति तु दृष्टान्तत्वेनोक्तं शमलं निहन्तुं विभ्व्य इत्य् अपि किं वक्तव्यं यतस् तत्-तीर्थ-द्वयं सुख-विशेष-प्राप्त्य्-अर्थः शुचि-षदो निर्मल-चित्ता अपि उपस्पृशन्ति सदा सेवन्ते ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि त्वम् एवम् अलिप्तः, तथापि तव लीलामृतं, चरणामृतं च संसार-बद्धालोकान् मोचयत्य् एवेत्य् आहुः—विभ्व्य इति । तवामृत-रूपा याः कथाः, ता एव उदवहाः पुण्य-नद्यः, पादाव् अनेज-सरितो गङ्गाद्याश् च, शमलान्य् अविद्या-मलिन्यानि हन्तुं विभ्व्यः समर्थाः । केन प्रकारेण ? आनुश्रवं गुरोर् उच्चारणम् अनुश्रूयन्त इत्य् अनुश्रवाः पुराणाद्यास् तत्र भवं लीलामृतं तीर्थं श्रुतिभिः श्रवणेन्द्रियैर् अङ्घ्रि-जं तीर्थं च अङ्ग-सङ्गैः । एवं शुचि-षदः शुद्ध-चेष्टा जनास् तीर्थ-द्वयम् उपस्पृशन्ति अधिकं सेवन्ते ॥१९॥
———————————————————————————————————————
॥ ११.६.२० ॥
श्री-बादरायणिर् उवाच—
इत्य् अभिष्टूय विबुधैः सेशः शतधृतिर् हरिम् ।
अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विबुधैः सह ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.२१-२२ ॥
श्री-ब्रह्मोवाच—
भूमेर् भारावताराय पुरा विज्ञापितः प्रभो ।
त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् ॥
धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया ।
कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विक्षिप्ता विस्तारिता ॥२१-२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भूमेर् इति युग्मकम् । उपपादितं त्वयेत्य् उत्तरेणान्वयः ॥२१-२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु युष्माभिः क्षीरोदशाय्य् एव विज्ञापितः, न त्व् अहं ? तत्राह—अशेषात्मन् ! हे सर्वावतारावतारि-स्वरूप ! तस्यापि त्वत्-स्वरूपत्वाद् इत्य् अर्थः । विक्षिप्ता विस्तारिता ॥२१-२२॥
———————————————————————————————————————
॥ ११.६.२३ ॥
अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् ।
कर्माण्य् उद्दाम-वृत्तानि हिताय जगतोऽकृथाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्दामानि वृत्तानि विक्रमा येषु तानि कर्माणि ।
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.२४ ॥
यानि ते चरितानीश मनुष्याः साधवः कलौ ।
शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.२५ ॥
यदु-वंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।
शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शरच्-छतं वर्ष-शतम् ॥२५॥
———————————————————————————————————————
॥ ११.६.२६ ॥
नाधुना तेऽखिलाधार देव-कार्यावशेषितम् ।
कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : नष्ट-प्रायम् अदर्शन-गत-तुल्यम् ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न देव-कार्यावशेषितं देव-कार्यस्यावशेषो नास्त्य् अधुनेत्य् अर्थः । नष्ट-प्रायम् अन्तर्हित-प्रायं नशेर् अदर्शनार्थत्वात् ॥२६॥
———————————————————————————————————————
॥ ११.६.२७ ॥
ततः स्व-धाम परमं विशस्व यदि मन्यसे ।
स-लोकान् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-धाम प्रापञ्चिकाप्रकटीभूतं द्वारकाया एव प्रकाश-विशेषं श्री-कृष्ण-रूपेण प्रविश । श्री-विष्णु-रूपेण तु सलोकांल् लोक-पालान् नः पाहि—नाना-वैकुण्ठ-नाथ-रूपैश् च वैकुण्ठ-किङ्करान् पाहीति सर्वांशम् आदायावतीर्णत्वात् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-धाम प्रपञ्चागोचरीभूतं द्वारकायाः प्रकाश-विशेषं कृष्ण-स्वरूपेण प्रविश वैकुण्ठ-श्वेतद्वीपादिकं तु नारायणादि-स्वरूपेण सर्वांशम् आदायावतीर्णत्वात् ॥२७॥
———————————————————————————————————————
॥ ११.६.२८ ॥
श्री-भगवान् उवाच—
अवधारित एतन् मे यद् आत्थ विबुधेश्वर ।
कृतं वः कार्यम् अखिलं भूमेर् भारोऽवतारितः ॥
न कतमेनापि व्याख्यातम् ।
———————————————————————————————————————
॥ ११.६.२९ ॥
तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् ।
लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वीर्य-शौर्य-युक्तया श्रिया ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : उद्धतम् अवध्यं लोकं जगद् एव जिघृक्षद् अनन्तत्वाद् व्याप्तुम् इच्छत् ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीर्यं बलिष्ठत्वं शौर्यं युद्धोत्साहस् तयोः श्रिया सम्पत्त्या उद्धतं हतात् हननाद् उद्गतम् अवध्यम् इत्य् अर्थः । लोकं जिघृक्षुम् अनन्तत्वाद् व्याप्तुम् इच्छत् मया अचिन्त्य-शक्तिना द्वारकायाम् एव रुद्धम् अन्यथा सर्व-भूर्लोकेऽपि मातुम् अपर्याप्तम् इति भावः ॥३०॥
———————————————————————————————————————
॥ ११.६.३० ॥
यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् ।
गन्तास्मि अनेन लोकोऽयम् उद्वेलेन विनङ्क्ष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्वेलेन लङ्घित-मर्यादेन ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् एतेषां ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनां व्याप्त्या सर्वत्र भद्रम् एव भवेत् तत्राह—यदीति उद्वेलेन मद्-वियोगाद् उन्मत्त-चेष्टेन ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृप्ताणां मामकत्वेन धृताहङ्काराणाम् उद्वेलेन अतिक्रान्त-मर्याद-समुद्रोपमेनेत्य् अर्थः । लोको भूर्लोकः यद्यपि मत्-परिजनाणाम् एषां परम-धार्मिकाणां यदूनां भारं पृथिवी-भारं न मन्यते, तद् अपि तस्याः स्वामिना मयायं भारोऽवतारणीय एव । सुकुमार्या वनिताया अतिबहुतर-भूषण-भारो यथा तत् कान्तेनावतार्यते, तथा । यद्यपि स्पृहणीयस्य वस्तुनो प्राप्तोऽपि कनक-राशि-भारो गृधुनापि वणिजा दुर्वह एव । धृत-रथ-चरणोऽभ्ययाच् चलद्गुर् [भा।पु। १.९.३७] इति व्यास-वर्णनात् तद्-भावेऽपि पृथिव्या दुःसह एव दृष्ट इति ॥३०॥
———————————————————————————————————————
॥ ११.६.३१ ॥
इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः ।
यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : नाशः अदर्शनं निगूढायां द्वारकायां प्रवेशनम् इत्य् अर्थः । एतस्य प्रवेशनस्यान्ते तव भवनं विकुण्ठा-सुत-रूपेण यास्यामि तद्-उपरिगं तद् वैकुण्ठं यास्यन्न् इत्य् अर्थः ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नाशोऽदर्शनं निगूढायां द्वारकायां प्रवेशम् इत्य् अर्थः । एतस्य प्रवेशनस्यान्ते तव भवनं विकुण्ठा-सुत-रूपेण यास्यामि । तद्-उपरिगं तद् वैकुण्ठं यास्यन्न् इति सन्दर्भः ॥३१॥
———————————————————————————————————————
॥ ११.६.३२ ॥
श्री-शुक उवाच—
इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् ।
सह देव-गणैर् देवः स्व-धाम समपद्यत ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.३३ ॥
अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् ।
विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तस्यां महोत्पातान् इति तद्-इच्छयैव । मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनं [भा।पु। १०.५७.३१] इति तद्-असम्भवात् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महोत्पातान् भगवद्-इच्छयैवाविर्भूतान् । मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनं [भा।पु। १०.५७.३१] इत्य् उक्तस् तत्र तद्-असम्भवात् ॥३३॥
———————————————————————————————————————
॥ ११.६.३४ ॥
श्री-भगवान् उवाच—
एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः ।
शापाश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.३५ ॥
न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः ।
प्रभासं सुमहत्-पुण्यं यास्यामोऽद्यैव मा चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभासं यास्याम इति वदतोऽयम् अभिप्रायः—एते देवांशाः स्वाधिकारान् एवार्हन्ति, न तु सद्यो मोक्षम् । द्वारवत्यां मृता मुच्येरंस् तस्माद् अभ्युदय-फल प्रभासं नेष्यामीति ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अस्माभिर् इति । तेषां स्व-साम्यम् एव निर्दिष्टम् । तत्र जिजीविषुभिर् इत्य् आत्मवद् एव तेषाम् उत्पात-निरसनम् अभिप्रेतम् । तत्र व्याज-मात्रं प्रभासम् इत्य्-आदि । मङ्गल-रूपायां स्व-पुर्याम् अमङ्गलानुकरणम् अपि माभूद् इत्य् अभिप्रायकं च, अनुकरण-मात्रत्वं च जिजीविषुभिर् इत्य् अनेनैव व्यञ्जितम् । अन्यथा श्री-भगवद्-अङ्गीकार-भङ्गः स्यात् ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रभासम् इति । मन्-नित्य-परिकरैर् विशिष्टतैव द्वारका सदा विराजतु । तेषु प्रविष्टान् देवान् एव यादव-रूपान् अलक्षितं तेभ्यः सकाशात् योग-बलेन निष्काश्य प्रभासं नीत्वा तत्रैव तान् मायया मौषल-सङ्ग्रामं प्रापय्य स्वर्गं प्रस्थाप्य विकुण्ठासुतादि-स्वरूपोऽहम् अपि वैकुण्ठादि-धामनि यास्यामि । पूर्ण-स्वरूपेण तु स-परिकरोऽहं द्वारकायां सदैवास्म्य् एवेति भगवन्-मनो-गतं ज्ञेयम् ॥३५॥
———————————————————————————————————————
॥ ११.६.३६ ॥
यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोडु-राट् ।
विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दक्ष-शापाद् यक्ष्मणा गृहीत उडु-राट् चन्द्रो यत्र स्नान-मात्रं कृत्वा किल्बिषात् तस्माद् रोग-दुःखात् सद्यो विमुक्तः सन् भूयः कला-वृद्धिं भेजे ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र च तीर्थे ब्रह्म-शापस्यापि शमन-योग्यतां दर्शयति—यत्रेति । अन्यथा श्री-भगवतो युक्ति-भङ्गः स्यात् ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यक्ष्मणा रोगेण गृहीतोऽपि यत्र स्नान-मात्रं कृत्वा तस्मात् दुःखात् विमुक्तः कला-वृद्धिं भेजे ॥३६॥
———————————————————————————————————————
॥ ११.६.३७-३८ ॥
वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् ।
भोजयित्वोशिजो विप्रान् नाना-गुणवतान्धसा ॥
तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै ।
वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उशिजः कमनीयान् । अन्धसा अन्नेन । उप्त्वेति यथा सुक्षेत्रे बीजम् उप्तं बहु-फलं भवति, तथा दानं सत्-पात्रे इति द्योतयति ॥३७-३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स नौका-दृष्टान्तेन साधनेन तद् एव द्रढयति—वयम् इति युग्मकेन । एतद्-व्याख्या-निदान-विवरणं श्री-कृष्ण-सन्दर्भ-सप्तदशोत्तर-शततम-वाक्य-चूर्णिकाम् आरभ्य चतुस्त्रिंशद्-उत्तर-तत्-पर्यन्त-ग्रन्थे दृश्यम् ॥३७-३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऊशिजः कमनीयान् अन्धसा अन्नेन । उप्त्वेति यथा सुक्षेत्रे बीजम् उप्तं बहु-फलं भवति, तथा दानं सत्-पात्रे इति द्योतयति ॥३७-३८॥
———————————————————————————————————————
॥ ११.६.३९ ॥
श्री-शुक उवाच—
एवं भगवतादिष्टा यादवाः कुरु-नन्दन ।
गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन् ॥
न कतमेन व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.४०-४१ ॥
तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् ।
दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥
विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिस् तम् अभाषत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : तन् निरिक्ष्येति । प्रथमं यादवानां प्रभास-यात्रोऽद्यम-दर्शनं, पश्चाद् एव श्री-भगवतस् तेभ्यस् तादृग्-उपदेश-श्रवणम् इति । तस्मात् परोक्षीकृत्य तेभ्यस् तेन तद्-उपदिष्टं परम्परयैव तच्-छ्रवणम् इति लभ्यते । तादृश-तत्-प्रतिज्ञायाम् अपि दृष्ट्वारिष्टानीति । वस्तुत उत्पाताभावेऽपि बहिर्-दृष्ट्या तद्-आभासः स्याद् एवेति निर्णीतम् इति गम्यते॥४०-४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.६.४२ ॥
श्री-उद्धव उवाच—
देव-देवेश योगेश पुण्य-श्रवण-कीर्तन ।
संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् ॥
विप्र-शापं समर्थोऽपि प्रत्यहन् न यद् ईश्वरः ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकं मर्त्य-लोकम् । न प्रत्यहन् प्रतिहतवान् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : देवदेवेति सार्धकम् । अत एव नूनम् इति वितर्कोक्तिः संहृत्य संहार-मुद्रया स्वङ्गेन नीत्वेत्य् अर्थः ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवानाम् अपि देवा ब्रह्मादयस् तेषाम् ईशेति देव-कार्यं ब्रह्म-प्रार्थितं च त्वया सर्वं सम्पादितम् इति भावः । न केवलम् एतद् अर्थम् एवावतीर्णस् त्वम् अभूः, किन्तु दुर्वितर्क-विचित्र-रस-मय-रूप-गुण-चरित्र-प्रकाशनया भक्त-जनानन्दनार्थम् अपीत्य् आह—हे योगेशेति । यद् उक्तं—यन् मर्त्य-लीलौपायिकं स्व-योग-माया-बलं दर्शयता गृहीतं [भा।पु। ३.२.१२] इति जनिष्यमाण-जनता-निस्तारार्थम् अपीत्य् आह—पुण्येति । अत एतत् त्वदीय-सर्व-विधित्सितस्य निष्पन्नत्वाद् इदानीम् इमं लोकं सन्त्यक्ष्यते । नूनम् इति वितर्के, भवान् अन्तर्धास्यतीति तर्कयामि । किं च, शाप-निवर्तकं प्रभास-स्नानम् उपदिशसि, किं त्वद्-दर्शनाद् अपि प्रभास-स्नानम् अधिकं भवेत् ? विप्र-शाप एषां मा फलत्व् इति तव मनो-गते सत्य् अपि किं शापः प्रभवितुं शक्नुयात् ? तस्मात् तवात्रान्तर्वित्सैव दृश्यते, यत् यतः समर्थोऽपि भवान् विप्र-शापं न प्रत्यहन् न प्रतिहतवान् ॥४२॥
———————————————————————————————————————
॥ ११.६.४३ ॥
नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव ॥
त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (कृष्ण-सन्दर्भ १३०) : यम् एव संवासं पूर्वम् अपि प्रार्थयामास—
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः स्वस्मिंस् तद्-गोपनम् अनयनं च दृष्ट्वा प्रार्थयते—नाहम् इति। स्व-धाम-द्वारकाया एव प्रापञ्चिकाप्रकट-प्रकाश-विशेषम् अपीति । यथा यादवान् अन्यान् नयस्य् एव, तथा माम् अपि नयेत्य् अर्थः । अर्थान्तरे त्व् अपि-शब्द-वैयर्थ्यं स्यात् ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् ईश्वरोऽहं यथेच्छामि तथा करोमि तेन तव किम् इति चेत् तत्राह—नाहम् इति ॥४३॥
———————————————————————————————————————
॥ ११.६.४४ ॥
तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-कर्तृक-त्यागाशक्यत्वं कैमुत्येन दर्शयति—तवेति ॥४४॥ [भक्ति-सन्दर्भ १६३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्य-स्पृहां पुत्र-कलत्रादि-मोक्षान्त-स्पृहां त्यजन्ति, न तु विक्रीडितं त्यक्तुं शक्नुवन्ति । अहं तु त्वाम् अपि त्यक्तुं कथं शक्नुयाम् ? इति भावः ॥४४॥
———————————————————————————————————————
॥ ११.६.४५ ॥
शय्यासनाटन-स्थान- स्नान-क्रीडाशनादिषु ।
कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शय्यादिषु त्वां भक्ता नित्यं सेवितवन्तो वयं कथं त्यजेम ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवाह—शय्येति ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, शय्यादिषु त्वां भक्ताः पाद-संवाहनाद्यैर् नित्यं सेवितवन्तो वयं कथं त्यजेम ॥४५॥
———————————————————————————————————————
॥ ११.६.४६ ॥
त्वयोपभुक्त-स्रग्-गन्ध- वासो-ऽलङ्कार-चर्चिताः ॥
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्यक्तुम् अशक्नुवन् प्रार्थयते, न माया-भयाद् इत्य् आह—त्वया इति । चर्चिता अलङ्कृताः । हि निश्चितं जयेम ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्यक्तुम् अशक्नुवन्न् एव प्रार्थये, न माया-भयात्, यतः साधक-भक्तानाम् अपि तत्-तरणम् आरोपित-त्वत्-सम्बन्धि-सम्बन्धेनापि सुख-साध्यम् इति दर्शयन् सजातीय-वासनत्वेन तेष्व् अपि स्वाभेदम् अङ्गीकुर्वन्न् अस्मत्-प्रयोगेनैव तेषां तदाह—त्वयोपयुक्तेति । परोक्ष-पूजादाव् अपीति भावः । जयेम जेतुं शक्नुमः ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्यक्तुम् अशक्नुवन्न् एव प्रार्थये, न तु माया-भयाद् इत्य् आह—त्वयेति । मायां जयेम इति सा यद्य् अस्मान् प्रति विक्राम्यन्ती आयाति, तर्ह्य् एतैर् एवास्त्रैः प्रबलीभूय तां जयेम, न तु ज्ञानादिभिर् इत्य् अर्थः ॥४६॥
———————————————————————————————————————
॥ ११.६.४७ ॥
वात-वसना य ऋषयः श्रमणा ऊर्ध्व-मन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : संन्यासिनो हि ब्रह्मचर्यादि-क्लेशैः कथञ्चित् तरन्ति, वयं त्व् अनायासेनैव तरिष्याम इत्य् आह—वात-रशना2 इति । ऊर्ध्व-मन्थिन ऊर्ध्व-रेतसः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वात-वसनाद्यास् तैस् तैर् ज्ञान-वैराग्यादिभिः साधनैर् ब्रह्माख्यं तव धाम—
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ।
ममैव तत् घनं तेजो ज्ञातुम् अर्हसि भारत ॥
इत्य् अर्जुनं प्रति त्वद्-उक्तेस् तवैव तेजो विशेषं ते यान्ति । सत्यं ते यान्तु, वयं तु न तत् यियासामः, किन्तु त्वन्-मुख-चन्द्र-मधुर-स्मित-सुधा-पान-मत्ता एव तिष्ठासाम् इति भावः ॥४७॥
———————————————————————————————————————
॥ ११.६.४८-४९ ॥
वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥
स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च ।
गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तावकैर् भक्तैः सह त्वद्-वार्तया दुस्तरं तमः संसारम् । क्ष्वेली परिहासः । द्वन्द्वैकत्वम् ॥४८-४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वयम् इति युग्मकम् । तरयिष्यामस् तर्तुं शक्नुमेत्य् अर्थः ॥४८-४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वद्-एकान्तिनो महा-भक्ता माया-तरणं भक्तेः फलत्वेन नैवानुसन्दधत्ते, वयं तु न तादृशा इति तादृशीं प्रौढिं कथं कुर्मः ? इति दैन्येनैवात्मनि मायातितीर्षाम् आरोप्याह—वयं त्व् इति । तुर् भिन्नोपक्रमे । वयं तु दासा अपि सख्य-रसालम्बिनस् त्वद्-आज्ञयापि ज्ञानाभ्यासम् अचिकीऋसव एवेति भावः । तावकैस् त्वद्-भक्त-जनैः सहेति ते खल्व् अस्मत्-तुल्य-स्वभावा एवेति तैर् एवास्माकं साहित्यम् उपप्द्यते, न वात-वसनाद्यैर् इति भावः । तत्-तरणे वः कः प्रकार इत्य् अत आह—स्मरन्त इति । त्वदीय-चरित्र-स्मरण-कीर्तनादि-सुदर्शनास्त्र-तेजसैवास्माकं तत्-तमस्-तरणं सुगमम् एवेति भावः । क्ष्वेलिः प्रेयस्या सह सौरत-परिहासः ॥४८-४९॥
———————————————————————————————————————
॥ ११.६.५० ॥
श्री-शुक उवाच—
एवं विज्ञापितो राजन् भगवान् देवकी-सुतः ।
एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकान्तिनम् इत्य्-आदि स्वाभिप्रायावञ्चने हेतुः ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकान्तिनम् इत्य्-आदिकं स्वाभिप्रायावञ्चने हेतुः ॥५०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे च षष्ठोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे
भगवद्-उद्धव-संवादे
षष्ठोऽध्यायः ।
॥११.६॥
———————————————————————————————————————
(११.७)