॥ ११.५.१ ॥
श्री-राजोवाच—
भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः ।
तेषाम् अशान्त-कामानां का निष्ठाविजितात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चमे भक्ति-हीनानां कानिष्ठा को युगे युगे ।
पूजा-विधिर् इति प्रश्न- द्वयस्योत्तरम् उच्यते ॥
त्वां सेवतां सुर-कृता बहवोऽन्तरायाः [भा।पु। ११.४.१] इत्य् अनेन श्री-हरि-भक्ता विघ्न-मूर्ध्नि पदं दत्त्वा परां गतिं यान्ति, अभक्तानां तु विघ्ना भवन्तीत्य् उक्ते, तर्हि तेषां का गतिर् भवति ? इति पृच्छति—भगवन्तम् इति । हे आत्म-वित्तमाः ! अविजितात्मनां, अत एव अशान्त-कामानां का निष्ठा ? किं प्राप्यं ? इत्य् अर्थः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्चमे चमसो विष्णु-विमुखानां सुदुर्गतिम् ।
युग-धर्मावतारांस् तु प्रोवाच कर-भाजनः ॥ओ॥
एवं कृपयावतारैः ख्यापित-यशस्य् अपि भगवति विमुखीभूय किं लिप्सन्ते ? इत्य् उद्भूत-विस्मयं पृच्छति । हे आत्म-वित्तमाः ! का निष्ठा ? किं प्राप्यं ? इत्य् अर्थः ॥१॥
———————————————————————————————————————
॥ ११.५.२ ॥
श्री-चमस उवाच—
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-जनकस्य गुरोर् भगवतोऽनादराद् गुरु-द्रोहेण दुर्गतिं यान्तीति वक्तुं भगवतः सकाशाद् वर्णाश्रमाणाम् उत्पत्तिम् आह—मुखेति । गुणैः सत्त्वेन विप्रः, सत्त्व-रजोभ्यां क्षत्रियः, रजस्-तमोभ्यां वैश्यः, तमसा शूद्र इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मुख-बाह्व् इति विराट् । तद्-अन्तर्यामिणोर् अभेदोक्तिः मुख-बाहूरु-पादेभ्य इत्य् उपलक्षणम् एषु, यथोक्तम्,
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्षः-स्थलाद् वने वासो न्यासश् शिर्षणि च स्थितः ॥ [भा।पु। ११.१७.१४] इति ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भजनीयस्य भगवतोऽभजनाद् दुर्गतिर् एवेति वक्तुं प्रथमं भजनीयत्वे युक्तिम् आह—मुखेति । गुणैः सत्त्वेन विप्राः, सत्त्व-रजोभ्यां क्षत्रिया, रजस्-तमोभ्यां वैश्याः, तमसा शूद्राः । अत्र मुखादिभ्य आश्रमैः सह चत्वारो वर्णा जज्ञिरे इत्य् अन्वये आश्रमाणाम् अपि मुखादिभ्य एवोत्पत्तिः प्रसज्जते, सा च न तथा । यद् वक्ष्यते—
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।
वक्षः-स्थलाद् वने वासो न्यासश् शिर्षणि च स्थितः ॥ [भा।पु। ११.१७.१४] इति ॥२॥
तस्मान् मुख-बाहूरु-पादेभ्य इत्य् अतः प्राग्-जघन-हृद्-वक्षो-मस्तकाद् इत्य् अध्याहार्यम्। ततश् च जघनादिभ्यो मुखादिभ्यश् च आश्रमैः सह क्रमेण वर्णा जज्ञिरे इति सङ्गतम् ॥२॥
तथ्यः : ऋक्-संहितायां [८.४.१९] तथा शुक्ल-यजुर्-वेदे [३४.११], तथा च अथर्व-वेद [१९.६.६]—
ब्राह्मणोऽस्य मुखम् आसीद् बाहू राजन्यः कृतः ।
ऊरु तद् अस्य यद् वैश्यः पद्भ्यां शूद्रोऽजायत ॥ इति ।
॥ ११.५.३ ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एषां मध्ये येऽज्ञात्वा न भजन्ति, ये च ज्ञात्वाप्य् अवजानन्ति । आत्मनः प्रभवो जन्म यस्मात् तम् । तद्-अभजने कृत-घ्नताम् अप्य् आह—ईश्वरम् इति । स्थानाद् वर्णाश्रमाद् भ्रष्टाः ॥३॥
कैवल्य-दीपिका : य इति । एषां ब्राह्मणादीनां मध्ये पुरुषं विष्णुम् । आत्मनः प्रभवं जनकम् । स्थानाद् ब्राह्मणादेः ॥३॥ [मु।फ। १३.४२]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न भजन्ति, अत एव अवजानन्ति इत्य् अर्थः । यद् वा, केचिद् अश्रुत्वा न भजन्ति, केचिच् छ्रुत्वापि न भजन्ति चेद् अवजानन्त्य् एवेत्य् अर्थः । स्थानाद् वर्णाश्रम-रूपात् स्वाश्रमाद् भ्रष्टाः सन्तः क्रमाद् अधोऽधो गच्छन्तीत्य् अर्थः ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एषां मध्ये ये न भजन्ति, आत्मनः प्रभवो यस्मात् तम् आदि-पितरम् इत्य् अर्थः । न भजन्ति, अत एव अवजानन्ति । अवश्य-भजनीयस्य गुरोर् अभजनम् एवावज्ञेति भावः । स्थानाद् आश्रम-लक्षणात् ॥३॥
॥ ११.५.४ ॥
दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः ।
स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र येऽज्ञास् ते भवद्-विधानाम् अनुग्राह्या इत्य् आह—दूर इति । दूरे हरि-कथा-श्रवणं येषां ते । अत एव दूरे चाच्युत-कीर्तनं येषां ते । दूरे अच्युत-कीर्तनाश् चेति वा ॥४॥
कैवल्य-दीपिका : दूरे हरि इत्य्-आदिर् अलुक् । भवादृशां निमि-प्रभृतीनाम् ॥३॥ [मु।फ। १३.४३]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र पूर्वाननुग्राहयति—दूर इति ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्र येऽज्ञास् ते भवद्-विधानाम् अनुग्राह्या एवेत्य् आह—दूर इति । दूरे हरि-कथा येषां ते, ये साधु-सङ्ग-भाग्य-हीना इत्य् अर्थः । दूरे चाच्युतस्य कीर्तनं येषां ते । इति ये च वधिरा इति । ते अनुकम्प्या इति तत्राद्या भक्त्य्-उपदेशेन, द्वितीया मूर्ध्नि चरण-धूलि-दानेन च कृतार्थीकार्या इत्य् अर्थः ॥४॥
॥ ११.५.५ ॥
विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।
श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः ॥
श्रीधरः: ज्ञान-लव-दुर्विदग्धस् त्व् अचिकित्स्यत्वाद् उपेक्ष्या इत्य् आशयेनाह—विप्र इति । श्रौतेन उपनयनाख्येन । उपलक्षणम् एतत् । अध्ययनादिनापि हरेः पदान्तिकं तद्-भजनोत्तमाधिकारं प्राप्ता अपि मुह्यन्ति, कर्म-फलेषु सज्जन्ते । कुतः ? आम्नायेषु ये वादा अर्थ-वादास् ते मोहकतया विद्यन्ते येषां ते । तद् उक्तं गीतासु—
याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥ [गीता २.४२] इत्य्-आदिना ॥५॥
कैवल्य-दीपिका : श्रौतं जन्म उपनयनम् ॥५॥ [मु।फ। १३.४४]
जीव-गोस्वामी (क्रम-सन्दर्भः) : उत्तरान् उपेक्षयति—विप्र इति । आम्नाय-वादिनो जैमिनीयाः आम्नायः कर्म-काण्डं, ते हि तन्-मात्र-वदन-शीलास् तस्य सुतरां तु ब्रह्म-काण्डस्य याथार्थ्यावेदिनोऽनीश्वर-वादिनः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्ञान-लव-दुर्विदग्धस् त्व् अचिकित्स्यत्वाद् उपेक्ष्या एवेत्य् आशयेनाह—विप्र इति । श्रौतेन उपनयनाख्येन । उपलक्षणम् एतत् । अध्ययनादिनापि हरेः पदान्तिकं तद्-भजनोत्तमाधिकारं प्राप्ता अपि मुह्यन्ति कर्म-फलेषु सज्जन्ते । कुतः ? आम्नायेषु ये वादा अर्थ-वादास् ते मोहकतया विद्यन्ते येषां ते । तद् उक्तं गीतासु—
याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥ [गीता २.४२] इति ॥५॥
॥ ११.५.६ ॥
कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः ।
वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-मार्ग-दार्ढ्याय तेषां मोहं प्रपञ्चयन् निन्दन्ति—कर्मणि इत्य्-आदिना । अकोविदा यथा बन्धकं न भवति, तथा कर्तुम् अज्ञाः । न चाभिज्ञान् पृच्छन्ति । यतः स्तब्धा अनम्राः । स्तब्धत्वे हेतुः—यतो मूर्खा अपि पण्डिता वयम् इति मानयन्तः । अतः अपाम सोमम् अमृता अभूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति, यत्र नोष्णं न शीतं स्यान् न ग्लानिर् नाप्य् अरातयः, इत्य्-आदिकया यया माध्व्या गिरोत्सुकाः सन्तो मूढाः, तया चाटुकान् अप्सरोभिः सह विहरिष्याम इत्य्-आदि प्रियान् शब्दान् वदन्ति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां मोहम् एवाह—कर्मण्य् अकोविदा इति ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकोविदाः कर्म यथा बन्धकं न भवति, तथा कर्तुम् अज्ञाः । न चाभिज्ञान् पृच्छन्ति, यतः स्तब्धा अनम्राः, यतो मूर्खा अपि पण्डिता वयम् इति मन्यमानाः। अतः अपाम सोमम् अमृता अभूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति, यत्र नोष्णं न शीतं स्यान् न ग्लानिर् नाप्य् अरातयः, इत्य्-आदिकया यया माध्व्या गिरोत्सुकाः सन्तो मूढाः, तया चाटुकान् हंहो अप्सरोभिः सह विहरिष्याम इत्य्-आदि प्रियान् शब्दान् वदन्ति ॥६॥
॥ ११.५.७ ॥
रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः ।
दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, तेषां कर्माभिनिवेशात् काम-क्रोध-दम्भादयो वर्धन्त इत्य् आह त्रयेण—रजसेति । घोरोऽभिचारादिः सङ्कल्पो येषां ते । अहिवन् मन्युर् येषां ते ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भ्रंशाधः-पातौ च क्रमेण दर्शयति—रजसेति त्रिभिः । तत्र प्रथमेन सर्वेषाम् एव तेषां निन्दा, द्वितीयेन विप्राणां, तृतीयेन राजन्य-वैश्यानाम् इति ज्ञेयम् ॥७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रजसा प्रवर्धमानेन रजो-गुणेन मच्-छत्रुर् अयं म्रियताम् इति घोरः सङ्कल्पो येषां ते । प्रतिक्षणं वर्धमानेन क्रोधेन अह्वन् मन्युर् येषां ते । एते काष्ठ-मालातृतो भिक्षुका उदरम्भरा विष्णुम् आराध्य दुःखम् एव प्राप्स्यतीति अच्युत-प्रियान् विहसन्ति ॥७॥
———————————————————————————————————————
॥ ११.५.८ ॥
वदन्ति तेऽन्योन्यम् उपासित-स्त्रियो
गृहेषु मैथुन्य-परेषु चाशिषः ।
यजन्त्य् असृष्टान्न-विधान-दक्षिणं
वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ये तु विष्णुम् अवज्ञाय श्रियम् एव ह्य् उपासते ।
उपेक्ष्य वा हरिं ते तु भूत्वा याज्याः पतन्त्य् अधः ॥ इति प्रकृति-संहितायाम् ॥८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कामुकत्वं प्रपञ्चयति—वदन्तीति । उपासिताः स्त्रियो यैः, न तु वृद्धाः, ते मैथुन्यं मिथुन-सुखम् एव परं, न त्व् आतिथ्यादि येषु गृहेषु तेष्व् आशिषो वदन्ति—
इदम् अद्य मया लब्धम् इमं प्राप्स्ये मनो-रथम् ।
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥ [गीता १६.१३] इत्य् आकाराः ।
दाम्भकतां प्रपञ्चयति—यजन्तीति । असृष्टान्न-विधान-दक्षिणं न सृष्टा न संपादिताऽन्न-विधान-दक्षिणा यथा तथा यजन्ति । तदा च वृत्त्यै जीविकार्थं परं केवलं पशून् घ्नन्ति । अतद्-विदो हिंसादोपानभिज्ञाः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपासिताः स्त्रियो युवतय एव, न तु महान्तो यैस् ते । स्रक्-चन्दन-वनितादि-सम्पादिकाः सम्पत्तयो वा भवन्त्व् इति अन्योन्यम् आशिषो वदन्ति । मैथुन्य-सुखम् एव परं येषु तेषु गृहेषु । न सृष्टा न सम्पादिता अन्नादि-दान-विधाना दक्षिणा यत्र तत् यथा स्यात् तथा यजन्ति । वृत्त्यै जीविकार्थं केवलं पशून् छागादीन् घ्नन्ति । अतद्-विदः हिंसादोषानभिज्ञाः ॥८॥
———————————————————————————————————————
॥ ११.५.९ ॥
श्रिया विभूत्याभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा ।
जात-स्मयेनान्ध-धियः सहेश्वरान्
सतोऽवमन्यन्ति हरि-प्रियान् खलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मानितां प्रपञ्चयति—श्रियेति । श्रिया धनादि-संपदा । विभूत्या ऐश्वर्येण । श्र्य्-आदिना जातो यः स्मयो गर्वस् तेनान्धा धीर् येषां ते ईश्वर-सहितान् सतोऽवमन्यन्ते ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रिया धनादि-सम्पत्त्या । विभूत्या ऐश्वर्येण । सतः साधून् अवमन्यन्ते ॥९॥
———————————————————————————————————————
॥ ११.५.१० ॥
सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं
यथा खम् आत्मानम् अभीष्टम् ईश्वरम् ।
वेदोपगीतं च न शृण्वतेऽबुधा
मनोरथानां प्रवदन्ति वार्तया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, एवं वर्तमानास् ते वेद-तत्त्वार्थं स्फुटम् अपि न जानन्तीत्य् आह—सर्वेष्व् इति । केन रूपेणावस्थितं ? तद् आह—आत्मानम् ईश्वरम् आत्मतया ईश्वरतया च अवस्थितम् । एवम् अप्य् असङ्गताम् आह—यथा खम् । पुरुषार्थताम् आह—अभीष्टम् । स्फुटत्वम् आह—वेदोपगीतं च इति । तत् कुतः ? यतो मनोरथानां व्यवायामिष-मद्य-सेवा-विषयाणां वार्तया प्रवदन्ति । निवृत्ति-परं सन्तं वेदं प्रवृत्ति-परं वर्णयन्ति॥१०॥
कैवल्य-दीपिका : मुह्यन्तीत्य् उक्तं, तम् एवाह—सर्वेष्व् इति । न शृण्वते च । शृण्वन्त्य् अपि नेत्य् अर्थः अभीष्टम् इति । तस्य पुरुषार्थ-रूपत्वम् उक्तम् । सर्वेष्व् इति । सौलभ्यम् । यार्थम् इति उपाधि-दोषैर् अदूषितत्वम् । ईश्वरम् इति निग्रह-सामर्थ्ये । वेद इति प्रमाण-सिद्धत्वम् । तत् किं ? शुभ-व्यापारानन्तर-वैयग्र्यात् । एवं-विधस्याप्य् अश्रवणम् । नेत्य् आह—मनोरथानाम् इति कर्मणि षष्ठी । कामिनां तद् अपि शोभेत यदि सम्पादयितुं शक्नुयुः । न तु तथेत्य् आह—वार्तया इति । तत् किम् ईश्वरे निरूढः दूषणम् अस्ति ? नेत्य् आह—अबुधा इति ॥१०॥ [मु।फ। १३.४५]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां मोहजं प्रमादम् आह—सर्वेष्व् इति । तत्र शश्वद् इति विद्वद्-अनुभव-सिद्धत्वम्, चेश्वरस्य दर्शितम् ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृढतरं प्रबोध्यमाना अपि ते नैव प्रबोध्यन्ते इत्य् आह—सर्वेष्व् इति । यथा खम् आकाशम् इत्य् असङ्गतम्, अभीष्टम् इत्य् आराध्यत्वम्, ईश्वर इत्य् आराधने सति दण्ड-दातृत्वं, वेदोपगीतं चेति सर्वथा विख्यातत्वं चोक्तं न शृण्वत इति । केन प्रकारेण ? इत्य् अत आह—मनोरथानां व्यवायामिषादि-विषयाणां वार्तया इति भगवत्-कथायां सद्भिः प्रवर्तितायाम् अपि तत्र विषय-भोग-वार्तां बलात् पातयन्तीत्य् अर्थः । प्रवदन्ति इति तदा स्वयम् एव प्रकर्षेण वक्तारो भवन्ति ॥१०॥
———————————————————————————————————————
॥ ११.५.११ ॥
लोके व्यवायामिष-मद्य-सेवा
नित्या हि जन्तोर् न हि तत्र चोदना ।
व्यवस्थितिस् तेषु विवाह-यज्ञ-
सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
व्यवसायामिष-मद्यानि हरेः पूजार्थम् एव तु ।
वामदेवो नाम यतो व्यवायो हरि-पूजनम् ॥
पितृ-यज्ञो देव-यज्ञो मांसेन हरि-पूजनम् ।
व्यवाय-यज्ञे मद्यं तु सोमात्मकतयेष्यते ॥
क्षत्रियादेर् न विप्राणां विप्रो दोषेण लिप्यते ।
अरागतः प्रवृत्तिः स्याद् रागो दोषस्य कारणम् ॥
घ्राण-भक्षोऽथवा यज्ञे देवैः सर्वस्य चेष्यते ।
पैष्ट-मद्यस्य माध्व्य्-आदि क्षत्रियस्य न दुष्यति ॥
दैवे रत्यैव च प्राप्तिर् विष्णोः पुत्रात् तु मानुषे ।
तस्माद् विहित-मात्रेषु रागं मुक्त्वा यथाविधि ।
समाहितो हरिं स्मृत्वा वर्त्म-याजी हरेर् भवेत् ॥ इति क्रिया-विधाने ।
यज्ञान् विहाय न चोदना ॥११॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु व्यवायादीनाम् अपि ऋतौ भार्याम् उपेयात्, हुत-शेषं भक्षयेत् इत्य्-आदिना विहितत्वात् किम् एवं निन्द्यते ? अत आह—लोक इति । व्यवायः स्त्री-सङ्गः । नित्या रागत एव नित्यं प्राप्ताः । जन्तोः प्राणि-मात्रस्य । अतस् तत्र तासु चोदना विधिर् नास्ति ।
ननु ऋताव् उपेयात् इत्य्-आदिना विधिर् दर्शितः ? सत्यम्, न त्व् अयम् अपूर्व-विधिः, रागतः प्राप्तत्वात्, किन्तु नियम-विधि-रूपेण रागिणाम् अभ्यनुज्ञा-मात्रं क्रियते । तद् आह—व्यवस्थितिर् इति । तेषु व्यवायादिषु । कैः ? विवाह-यज्ञ-सुरा-ग्रहैः । विवाह-विषय एव व्यवायः कार्यः । यज्ञ एवामिष-सेवा । सौत्रामण्यां सुरा-ग्रहान् गृःणाति इति श्रुतेः । तत्रैव मद्य-सेवेति नियमः क्रियते ।
ननु च नियम-पक्षेऽप्य् आवश्यकत्वान् न निन्दा युक्ता, अत आह—आसु निवृत्तिर् इति । आसु व्यवायामिष-मद्य-सेवासु निवृत्तिर् इष्टा ।
अयं भावः—नायं नियम-विधिः, अपि नित्य-प्राप्तत्वाद् अतो निवृत्तिः परिसङ्ख्यैव । कथं तर्हि व्यवस्थितिर् इत्य् उक्तं ? उच्यते—न तावत् परिसङ्ख्य-विधिना श्रुत्या निवृत्तिर् उच्यते । तथा सति स्वार्थ-त्यागः, परार्थ-कल्पना, प्राप्त-बाधश् चेति दोष-त्रयं स्यात् । अतः क्वचित् प्राप्स्यतोऽप्य् अर्थस्य प्रापणम् अनर्थकम् इत्य् अपूर्व-विधि-द्वारान्य-निवृत्तिः फलतो भवति । तद् यथा—इमाम् अगृभ्णन् रशनाम् ऋतस्येत्य् अश्वाभिधानीम् आदत्ते इत्य् अत्र रशनालिङ्गतो गर्दभाश्वाभिधानी रशना-द्वये प्राप्स्यतो मन्त्रस्यापूर्व-विधि-द्वारा परिसङ्ख्योच्यते । यथोक्तं तन्त्र-वार्तिके—
अप्राप्त-विधिर् एवायम् अतो मन्त्रस्य निश्चितः ।
परिसङ्ख्य फलेनोक्ता न विशेषः पुनः श्रुतेः । इति ।
क्वचित् तु रागतो नित्य-प्राप्तस्याप्राप्तांश-पूरण-लक्षणस्य नियम-फलस्याप्य् अभावान् नियम-विधि-द्वारा फलतः परिसङ्ख्या भवति, यथा “पञ्च पञ्च-नखा भक्ष्याः” इति । तथा रागतो नित्य-वत्-प्राप्तस्य व्यवायादेर् विवाहादि-नियम-नाभ्य्-अनुज्ञा-द्वारा परिसङ्ख्यैवेति । ननु यद्य् अभ्यनुज्ञा-मात्रम् एतद् भवेत्, तर्हि
ऋतु-स्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूण-हत्यायां पच्यते नात्र संशयः ॥
इत्य्-आदि-दोष-श्रवणं न स्यात् । नैष दोषः । मनसि कामे सत्य् अपि तस्याम् अरुच्या द्वेषादिना वा ताम् अनुपगच्छतो दोष-श्रवणोपपत्तेर् इति सर्वम् अनवद्यम् ॥११॥
कैवल्य-दीपिका : एवं मोह-माहात्म्यात् स्त्री-सेवादयोऽपि, ऋतौ भार्याम् उपेयात् [आश्रमोपनिषत्] इत्य् आदौ वेदेनैव विहिता इत्य् अपि मन्यमानान् बोधयितुम् आह—लोक इत्य्-आदि । व्यवायो मैथुनं, आमिषं मांसम् । मद्यं प्रसिद्धम् । एषां सेवा नित्या रागतः प्राप्ता हि स्फुटम् । तत्र तासु सेवासु चोदना वैदिकी प्रवर्तना नास्ति । अप्राप्ते शास्त्रम् अर्थवद् इति न्यायात् ।
नन्व् एवम् ऋतौ भार्याम् उपेयाद् इत्य् आदेः कोऽर्थः ? इति चेत्, तत्राह—व्यवस्थितिर् नियम इष्टा वेदस्य । तथा हि—यदि व्यवायः कार्यः, तर्हि विवाहेन एव । यथा आमिषं भक्षणं, तर्हि यज्ञेन एव । यदि मद्यं सेव्यं, तर्हि सुरा-ग्रहेण एव, न तु निर्व्यवस्थित्या एव। तत्राह—आश्व् इति । आशु शीघ्रम् । निवृत्तिर् यया व्यवस्थित्या सा तथा ।
अयम् अर्थः——वेदो हि व्यवायादीनाम् अनर्थानुबन्धितां प्रावेक्ष्य सर्वथा ततो निवृत्तिम् इच्छन् स्वरस-वाहिनीम् अनियतां तत्-प्रवृत्तिं विवाहादि-च्छलेन निरुणद्धि ॥११॥ [मु।फ। १३.४६]
जीव-गोस्वामी (क्रम-सन्दर्भः) : लोक इति तैः । तत्र नियम-विधि-रूपेणेति तत्-सदृशेनेत्य् अर्थः । तद् आहेति तत्-समानार्थम् आहेत्य् अर्थः । द्वन्द्वस्य परिवल्-लिङ्गत्वे सति तास्व् इति वक्तव्ये तेष्व् इत्य् एक-शेषत्वान् नपुंसकत्वम् । विवाहेत्य् उपलक्षणं, तत्रापि ऋताव् एवेत्य् अर्थः ।नियम-पक्षेऽप्य् आवश्यकत्वाद् इति यथाश्वाभिधानीम् आदत्त इत्य् अत्रादानमावश्यकं तथेत्यर्थः । सिद्धान्तम् आह—अत आहेति । नियमे आदानस्य विधिप्राप्तत्वान्न सर्वतो निवृत्तौ तात्पर्यं परिसङ्ख्यायां तु भक्षणस्य रागतः प्राप्तत्वात्सर्वत एव निवृत्तौ परमतात्पर्यम् इति युक्तैव निन्देत्यर्थः । आसु व्यवायेत्यादिकमयं भाव इत्यतः पूर्वम् एव युज्यते तत्र तु लेखकभ्रमादिति ज्ञेयं व्यवस्थितिर् इति तच्छब्देन करणभूतेन प्राप्स्यतः पाक्षिकतयेति ज्ञेयं व्यवस्थितिर् इति तच्छब्देन व्याख्यातो नियम इत्य् अर्थः । नियम-द्वारैवेयं परिसङ्ख्येति सिद्धान्तयितुम् आह—उच्यत इति । परिसङ्ख्या-विधिना कर्तृ-भूतेन प्राप्स्यतः पाक्षिकतयेति ज्ञेयम् । क्वचित् त्व् इति रागतो नित्य-प्राप्तस्येत्य् अस्य नियमेत्य् आदिनान्वयः ।
तत्र हेतुः—प्राप्तांशेति । यथा पाक्षिकतयांशेनाप्राप्ताश्वाभिधानी सर्वांशेन पूर्यते, तादृशत्वाभावाद् इत्य् अर्थः । अत्रापि नियम-विधिस् तत्-सदृश एव ज्ञेयः—मनसीति । विध्य्-अभावेऽप्य् अभ्यनुज्ञा-विषयाणां रागिणाम् अभ्यनुज्ञातिक्रमः स्याद् एवेति भावः ।
अथवा लोक इति । तथा हि—
विधिर् अत्यन्तम् अप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र सम्प्राप्तौ परिसङ्ख्या विधीयते ॥
अत्र विधिः, यथा अहर् अहः सन्ध्याम् उपासीत इति । इदं खलु सर्वथैव न प्राप्नोति । अयम् एवापूर्व-विधिर् इत्य् उच्यते । नियमो, यथा इमाम् अगृभ्णन् रशनामृतस्य इति मन्त्रेण ऋतस्य याज्ञिक-पशोः रशनां रज्जुम् अगृभ्णन् अगृह्णन्न् इत्य् अर्थेन गर्दभाश्वाभिधान्योर् एकतरस्यां स्वाच्छन्देन प्राप्तायां ब्राह्मणेन नियम्यते, अश्वाभिधानीम् आदत्त इति । परिसङ्ख्या च, पञ्च पञ्चनखा भक्ष्या इति । अत्र राग-प्राप्तेषु प्रायः सर्वेष्व् एव मांसवत्सु भक्ष्येषु पञ्चैव परिसङ्ख्यावन्तः तद्-अनुरोधेन तावन्त एवाभ्यनुज्ञायन्ते । नात्र तु विधियन्त इत्य् अर्थः । तत्र नियमे प्राप्स्यतोऽप्य् अर्थस्य प्रापणम् अनर्थकम् इति ब्राह्मणेनापूर्व-विधिनाऽन्य-निवृत्तिस् तात्पर्यतो भवति । अतः परिसङ्ख्या चात्र पर्यवसिता, तन्त्र-वार्तिके यथोक्तं,
अप्राप्त-विधिर् एवायम् अतो मन्त्रश् च निश्चितः ।
परिसङ्ख्या फलेनोक्ता न विशेषः पुनः श्रुतेः ॥ इति ।
अयम् अश्वाभधावी विधिर् अप्राप्त-विधिर् एव ल-कार-व्यत्ययात् । तस्माद् अतो विधेर् मन्त्रार्थश् च निश्चितः अश्वाभिधानीम् एवाददीतेति । अतोऽत्र परिसङ्ख्यात्वम् अपि फलेन तात्पर्येण प्राप्तम् ।
ननु, सामान्यतो मन्त्र-प्राप्तस्य रशन द्वयस्याश्वाभिधानीम् इत्य् अनेन विशेष एवोक्तः, अपरोऽपि ज्ञास्यत इति वाच्यम् । तत्राह—पुनः श्रुतेः पुनरुक्तत्वाद् अनर्थकत्वाद् इत्य् अर्थः । अथ परिसङ्ख्यायाम् इदं विविच्यते, न तावत् परिसङ्ख्या-विधि-शब्देनाऽन्य-निवृत्तिं वक्ति, तथा सति पञ्च-नखी-भक्षण-रूपस्य स्वार्थस्य त्यागः, तथान्य-निवृत्ति-रूपस्य परार्थस्य कल्पनं, ततश् च प्राप्तस्य पञ्चनखी-भक्षण-रूपस्य बाधश् च स्यात् । तस्माद् यादृशं नियम-विधौ पाक्षिकतयांशेनाप्राप्ताश्वाभिधानी-सर्वांशेन पूर्यते । रागतो नित्य-प्राप्तेषु नियम-फले तादृशत्वाभावान् नियम-द्वारा तात्पर्यतः परिसङ्ख्या भवतीति ।
तस्माद् अयम् अर्थः—लोके व्यवायादयो जन्तोर् मनुष्यादेर् नित्याः रागत एव नित्य-प्राप्ताः । तत्र व्यवायः स्वभावत एव, आमिष-मद्ये तु मनुष्यस्य परम्परा-प्राप्तत्वाद् इति ज्ञेयम् । अतस् तत्र चोदना अपूर्व-विधिर् नास्ति, किन्तु तेषु रागिषु विवाह-यज्ञ-सुराग्रहैर् व्यवस्थितिः क्रियते । नियम-द्वारा परिसङ्ख्या क्रियते । तद् यथा विवाहेत्य् उपलक्षणं विवाह एव, तत्रापि ऋताव् एव व्यवायः कार्यः । यज्ञ एवामिष-सेवा सुरा-ग्रहे सौत्रामण्याम् इव मद्य-सेवेति ।
ननु, परिसङ्ख्यात्वे सति व्यवायादौ विधित्वम् अस्त्य् एव, लिङ्गादि-सद्भावात् । ततस् ताः कथं निन्दया त्याज्यन्ते ? तत्राह—आसु व्यवायादिषु निवृत्तिर् एवेष्टेति राग-प्राप्तत्वाद् अभ्यनुज्ञा-मात्रं क्रियते । न त्व् अपूर्व-नियमयोर् इव शास्त्र-प्राप्तत्वाद् अवश्यं कार्यत इति । निवृत्ताव् एव तात्पर्याम् इत्य् अर्थः । ऋतु-स्नाताया भार्यायाः परित्याग-दोष-श्रवणं तु विध्य्-अतिक्रमात् विध्य्-अनुपपत्तेः । न च वैराग्येणाभ्यनुज्ञातातिक्रमात् तत्राभ्यनुज्ञाया अभावात्, किन्तु सत्य् अप्य् अभ्यनुज्ञातायाम् अन्यस्यां रागादौ तादृश्यां स्व-भार्यायाम् अरुच्य्-आदिनैवाप्रवृत्तेस् तद्-अतिक्रमात् ततो भ्रूण-हत्या-पर्यवसानाच् च । एवम् आमिष-मद्ययोर् अपि ज्ञातव्यम् इति ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु व्यवायादीनाम् अपि ऋतौ भार्याम् उपेयात्, हुत-शेषं भक्षयेत् इत्य्-आदिना विहितत्वात् किम् एवं निन्द्यते ? तत्राह—लोक इति । व्यवायः स्त्री-सङ्गः । आमिष-मद्ययोर् मांस-मदिरयोः सेवा भक्षणानि नित्या रागत एव नित्यं प्राप्ताः । तत्र व्यवायः स्वभावत एव, आमिष-मद्य-सेवा मानुषस्य कुल-परम्परा-प्राप्तत्वाद् इति ज्ञेयम् । अतस् तत्र तासु चोदना विधिर् नास्ति, अप्राप्त-प्रापणस्यैव विधित्वात् ।
ननु ऋताव् उपेयात् इत्य्-आदिना विधिर् दृष्ट एवेति ? तत्राह—व्यवस्थितिर् इति । तेषु व्यवायादिषु विवाह-यज्ञ-सुरा-ग्रहैर् व्यवस्थितिर् व्यवस्थैव दत्ता । यदि स्त्री-मांस-मद्यादिकं विना स्थातुं न शक्यत, तदा विवाह-विषय एव व्यवायः कार्यः । यज्ञ एवामिष-सेवा । सौत्रामण्यां सुरा-ग्रहान् गृःणाति इति श्रुतेः । तत्रैव मद्य-सेवा कार्येति, तत्र तत्रैवानुज्ञा दत्ता, न तु वस्तुतो विधिः । अत एवासु व्यवायादि-सेवासु निवृत्तिर् एवेष्टा, निवृत्ताव् एव शास्त्रस्य तात्पर्यम् इति
तथा हि, भार्याम् एवोपेयान् न स्त्री-मात्रम्, ऋताव् एवोपेयान् नान्यत्र तत्रापि पञ्च-पर्वातिरिक्त-समय एव, रात्राव् एव, पुत्र-कामनयैवेति क्रम-क्रमतो निवृत्तिर् एवाभिप्रेता ।
अथ,
विधिर् अत्यन्तम् अप्राप्तौ नियमः पाक्षिकेऽसति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या विधीयते ॥ इति ।
अस्यार्थः—प्रवृत्ति-कर्मैक-निष्ठानां मते यथा अत्यन्तम् अप्राप्तौ विधिः, यत्र रागतो विध्य्-अन्तरतो वा सर्वथैव प्राप्तिर् नास्ति, स विधिर् उच्यते । यथा, “अहर् अहः सन्ध्याम् उपासीत” इति, “माघ-स्नानं प्रकुर्वीत” इति, “निशि न स्नायात्, चन्द्र-ग्रहे स्नायात्” इति । अत्यन्ताप्राप्ति-रहिते स्थले तु विधिर् न भवति, किन्तु नियमः परिसङ्ख्या वा । तत्र कुत्र वा नियमः, कुत्र वा परिसङ्ख्या ? इत्य् अत आह—पाक्षिके असति नियमः, पाक्षिके अंशे असति निन्दा प्रायश्चित्तार्हे सति नियमः, यथा, “ऋतौ भार्याम् उपेयात्” इति । ऋतु-समये हि भार्यायां गमनं च राग-प्राप्तम् । तत्रागमनांशे निन्दितो, यथा—
ऋतु-स्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।
घोरायां भ्रूण-हत्यायां पच्यते नात्र संशयः ॥ इति स्मृतेः ।
अत एव नियम एव, “ऋतौ भार्याम् उपेयाद् एव” इति ऋतौ भार्या-गमनायोगो न कर्तव्य इति फलितार्थः । अथ तत्र च तन्-मध्य इत्य् अर्थः । अन्यत्र च अन्यत्र तु अन्यस्मिन् भागे असति सति परिसङ्ख्या, यथा—पञ्च पञ्च-नखा भक्ष्या इति । अत्र राग-प्राप्ते पञ्च-पञ्चनखा-भक्षणे च निन्दा न श्रूयते, किन्तु तद्-इतर-भक्षणे एव । अतः पञ्चैव पञ्चनखा भक्ष्या, नान्य इति परिसङ्ख्यैव, अभ्यनुज्ञा दान-मात्रम् अतो मांस-मात्रस्याप्य् अभक्षणे नास्ति दोष इत्य् आयातम् ।
अथ निवृत्त-कर्मैक-निष्ठानां मतेऽर्थो यथा, अत्यन्तं सर्वथा-प्राप्तौ विधिः, यथा “अहरहः सन्ध्याम् उपासीत” इत्य्-आदि । पाक्षिके प्रापणे सति विधित एव एकत्र कोटौ प्राप्तौ सत्याम् अन्यत्राप्राप्तौ च सत्यां नियम इत्य् अर्थः । यथा, इमाम् अगृभ्नन् रसनामृतस्य इति मन्त्रेण ऋतस्य यज्ञीय-पशो रसनां रज्जूम् अगृभ्नन्न् इतीमाम् इत्य् एक-वचनेन गर्दभाश्वाभिधान्योर् अशनयोर् एकतरस्यां प्राप्तिर् बुध्यत । अत्र किम् अश्वाभिधान्याम् उत गर्दभाभिधान्याम् इति संशये नियम्यते अश्वाभिधानीम् आदत्त इति अश्वाभिधानीम् एवादद्यन्, न गर्दभाभिधानीम् इति नियमे निषेधो वाक्यार्थः । तद् एवम् अपूर्व-विधिर् इति नियम-विधिर् इति द्वाव् अप्य् एतौ विधी एव ।
का खलु परिसङ्ख्या ? इत्य् अपेक्षायाम् आह—तत्र च तन्-मध्ये त्व् इत्य् अर्थः । अन्यत्र विधित इतरत्र राग-स्थले प्राप्तौ सत्यां या परिसङ्ख्या विधीयते । यथा रागतः सर्व-मांस-भक्षण-प्राप्तौ पञ्च पञ्चनखा भक्ष्या इति । पञ्च पञ्चनखेतर-मांसानि सर्वाण्य् एवाभक्ष्याणि भोक्तुः प्रत्यवाय-जनकानीत्य् अर्थः । मांस-भक्षणे पञ्च पञ्चनख-मांसान्य् एव परिसङ्ख्यातानि अभ्यनुज्ञातानीति तत्रैव न प्रत्यवायः परिसङ्ख्याया अभ्यनुज्ञा-दान-मात्रार्थत्वात् सर्व-मांस-भक्षण एव शास्त्र-तात्पर्यम् । एवम् एव भार्याम् एवाभिगच्छेन् न परकीयाम् ऋताव् एव गच्छेन् नान्यत्रेत्य् अभ्यनुज्ञा-मात्र-दानात् स्त्री-मात्रानभिगमन एव शास्त्र-तात्पर्यं, ऋतु-स्नातायां भार्यायाम् अगमन-दोष-श्रवणं तु न विध्य्-अतिक्रमात् विध्य्-अनुपपत्तेर् इति सन्दर्भः । तस्याम् अरुच्या द्वेषादिना वा तद्-अनभिगमन एव दोष-श्रवणम् इति स्वामि-चरणाः ॥११॥
तथ्यः : एतत्-प्रसङ्गे आलोच्यः—
न मांस-भक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महा-फला ॥ [मनु] इति ॥
———————————————————————————————————————
॥ ११.५.१२ ॥
धनं च धर्मैक-फलं यतो वै
ज्ञानं च स-विज्ञानम् अनु प्रशान्तिः ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्त-वीर्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं व्यवायादि-मनोरथाकुलितत्वाद् अभीष्टम् आत्मानं न शृण्वन्तीत्य् उक्तम्, इदानीं धनस्यापि धर्म-द्वारा परमात्म-प्रापकस्य दृष्टोपभोगार्थं विनियोगान् नात्म-ज्ञान-गन्धोऽपीत्य् आह—धनं च इति । धर्म एवैकं फलं यस्य तत् । कुतः ? यतो यस्माद् धर्मात् स-विज्ञानम् अपरोक्ष-ज्ञान-सहितं दृढं परोक्ष-ज्ञानं भवति । कथं-भूतं ? अनु प्रशान्ति अन्व् अनन्तरम् एव प्रकृष्टा शान्तिर् निर्वाण-लक्षणा यस्य तत् । एवं-भूतं धनं गृहेषु देहाद्य्-अर्थं युञ्जन्ति ॥१२॥
कैवल्य-दीपिका : किं च, स-कामाः पुरुषा रागोद्रेकात् काम्यान् अपि त्यक्त्वा दृष्टोपभोगार्थम् एव प्रवर्तन्त इत्य् आह—धनं च इति । धर्मम् एकं केवलं फलं यस्य स तथा । यतो धर्मात् ज्ञान-शास्त्रे विवेकार्थं धारणा-शक्तिः । अनु पश्चात् प्रशान्तिः । सकल-क्लेश-कर्म-क्षयात् कैवल्यावाप्तिः । एवं-विधं परम्परया मोक्ष-फलं धनं गृहेषु स्त्र्य्-आदिषु युञ्जन्ति व्यर्थयन्ति ।
ननु दृष्ट-सुख-त्यागेनादृष्ट-सुखार्थितैव कुबुद्धिर् इति चेत्, तत्राह—कलेवरस्य इति । स एष यज्ञादि-व्याजेन मांसादि-ग्रहः साङ्ख्यविद्भिः शवलो धर्म इत्य् आख्यायते ॥१२॥ [मु।फ। १३.४७]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
धनं च धर्मैक-फलं यतो वै
ज्ञानं च स-विज्ञानम् अनु प्रशान्तिः ।
गृहेषु युञ्जन्ति कलेवरस्य
मृत्युं न पश्यन्ति दुरन्त-वीर्यम् ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथा धनस्यापि दृष्टोपभोगार्थं विनियोगाद् अबुधा एव ते इत्य् आह—धनं च इति । धर्म एवैकम् उत्कृष्टं यस्य तत् । यतो धर्मात् स-विज्ञानम् अपरोक्ष-ज्ञान-सहितं परोक्ष-ज्ञानं भवति । अनु अनन्तरं प्रशान्तिर् मोक्षो यस्मात् तत् । एवं-भूतं धनं गृहेषु देहाद्य्-अर्थं युञ्जन्ति ॥१२॥
———————————————————————————————————————
॥ ११.५.१३ ॥
यद् घ्राण-भक्षो विहितः सुरायास्
तथा पशोर् आलभनं न हिंसा ।
एवं व्यवायः प्रजया न रत्या
इमं विशुद्धं न विदुः स्व-धर्मम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
यज्ञेष्व् आलम्भनं प्रोक्तं देवतोद्देशतः पशोः ।
हिंसा नाम तद् अन्यत्र तस्मात् तां नाचरेद् बुधः ॥
यतो यज्ञे मृता ऊर्ध्वं यान्ति देवे च पैतृके ।
अतो लाभाद् आलभनं स्वर्गस्य न तु मारणम् ॥ इति च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, व्यवस्थयापि व्यवायाद्य् अभ्यनुज्ञानं न यथेष्टम्, अपि त्व् अन्यथैवेत्य् आह—यद् इति । यद् यस्मात् सुराया घ्राण-भक्षोऽवघ्राणं, स एव विहितः, न पानम् । तथा पशोर् अप्य् आलभनम् एव विहितं, न तु हिंसा । अयम् अर्थः—देवतोद्देशेन यत् पशु-हननं तद् आलभनं, वायव्यं श्वेतम् आलभेत इत्य्-आदि श्रुतेः, न तु हिंसा, या वेद-विहित हिंसा न सा हिंसेति कीर्त्यते इति वचनात् । भक्षणोद्देशेन तु क्रियमाणं हननं लौकिक-वर्धिषैव । अत्र ह्य् आलभनम् एव विहितं, न तु हिंसा । अतो न यथेष्ट-भक्षणाभ्यनुज्ञेत्य् अर्थः । व्यवायोऽपि प्रजया निमित्त-भूतया, न तु रत्यै । अतो मनोरथ-वादिन इमं विशुद्धं स्व-धर्मं न विदुर् इति ॥१३॥
कैवल्य-दीपिका : यद् इति । शुद्धं मत्वा यत्-प्राणेति । घ्राणेन नासिका-सञ्चारिणा वायुनैव स्वादयन् विहितं, न तु पानम् । तथा च आश्वलायन1 महर्षिणा स्व-सूत्रे तृतीयेऽध्याये घ्राण-भक्ष्योऽत्र इत्य् उक्तम् । तथा पशोर् अग्निषोमीयादेर् आलम्भनं हिंसा न भवति । किन्तु नालभेत वत्सम् आलभेतिवद् आलभतेः स्पर्शार्थः । न चैवम् अवदानादि-वचन-विरोधः । पिष्ट-पशौ यज्ञे सर्व-कल्पनायां सुकरत्वात् । अत एव महाभारते मोक्ष-धर्मेषु वेद-विवादे ऋषिभिर् उक्तम्—
अजैर् यज्ञेषु यष्टव्यम् इति वै वैदिकी श्रुतिः ।
अज-संज्ञानि बीजानि छागं न मन्तुम् अर्हत ॥
नैष धर्मः सतां देवो यत्रैव विद्यते पशुः ।[म।भा। १२.३२४.४-५]2
अतोऽन्यथा ब्रुवाणश् च पशु-संज्ञ एव राजा तैर् एव शप्तः । अत्रापि च, प्रेत्य खादन्ति ते च तान् [भा।पु। ११.४.१४] इत्य्-आदिना भूयसा तत्र तत्र सा निषिद्धा ।
तच् चायम् अर्थः—सकामेषु क्रतुषु सर्व-साद्गुण्य-सव्यपेक्षत्वात् यथा-श्रुत एवार्थो ग्राह्यः । भगवत्-प्रीत्य्-अर्थेषु चादर्शित-रीत्या तत्र वैगुण्येऽपि दोषाभावात् । यथोक्तं—नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते [गीता २.४०] इति । प्रजया हेतु-भूतया रतिस् त्व् आनुषङ्गिकीति विशुद्धं हिंसादि-कलङ्क-रहितत्वात् ॥१३॥ [मु।फ। १३.४८]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, व्यवस्थयापि व्यवायाद्य्-अभ्यनुज्ञानं न यथेष्टं, अपि त्व् अन्यथैवेत्य् आह, यद् यस्मात् सुरायाः घ्राणं भक्षः अवघ्राणम् एव भक्षो विहितः, न तु यथेष्टं पानम् । तथा पशोर् आलभनं किञ्चिद् अङ्ग-च्छेदनम् एव न तु हिंसा वधः । व्यवायोऽपि प्रजया हेतुना, न तु रमणार्थम् ॥१३॥
———————————————————————————————————————
॥ ११.५.१४ ॥
ये त्व् अनेवं-विदोऽसन्तः स्तब्धाः सद्-अभिमानिनः ।
पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं भगवत्-पराङ्भुखानां बहु-दोषतां प्रपञ्च्य तन् निष्ठां प्रपञ्चयति—ये त्व् इति पञ्चभिः । अनेवं-विदः न एवं धर्मं विदन्ति ये ते । विस्रब्धा निःशङ्काः । अनेन मनो-रथो भविष्यतीति विश्वस्ता वा । तदानीन्तन-पोषणेन वा तैः पशुभिर् विश्वस् ताः । ते च पशवः प्रेत्य अमुत्र तान् खादन्ति,
मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति वचनात् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् उक्त-लक्षणं धर्मं न विदन्तीति ते । या शास्त्र-विहिता हिंसा न सा हिंसेति कथ्यते इत्य्-आदि वाक्यार्थ-तात्पर्यम् अबुद्ध्वा ये पशून् प्राणत एव हिंसन्तीत्य् अर्थः । विश्रब्धाः वध-कालेऽप्य् एतेऽस्मत्-पालका अस्मान् न हनिष्यन्ति, किन्तु शस्त्र-दर्शनया उपहसितुम् अस्माभिः सह खेलन्त्य् एवेति पालितैः पशुभिः कृत-विश्वासाः, तान् द्रुह्यन्ति घ्नन्त्य् एव । ततस् ते च पशवः प्रेत्य् अमुत्र तांश् च स्व-घातकान् खादन्ति ।
मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ इति वचनात् ।
यथा च योग-बलेन यज्ञ-पशून् प्रत्यक्षं प्रदर्श्य प्राचीनबर्हिषं प्रत्य् उक्तं श्री-नारदेन—
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे ।
संज्ञापितान् जीव-सङ्घान् निर्घृणेन सहस्रशः ॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।
सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः ॥ [४.२५.७-८] इति ॥१४॥
———————————————————————————————————————
॥ ११.५.१५ ॥
द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् ।
मृतके सानुबन्धेऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्मानं स्वस्मिन्न् आप्तं च ।
आप्तत्वाद् आत्म-शब्दोक्तं स्वस्मिन्न् अपि परेषु च ।
जीवाद् अन्यं न पश्यन्ति श्रुत्वैवं विद्विषन्ति च ।
एतांस् त्वम् आसुरान् विद्धि लक्षणैः पुरुषाधमान् ॥ इति हरि-वंशेषु ॥१५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिचारादिना द्विषन्तः । मृतके देहे । सानुबन्धे पुत्रादि-सहिते ॥१५॥
कैवल्य-दीपिका : किं च, पशुना यजेत आत्म-घातः स्वामि-घातश् च स्याद् इत्य् आह—द्विषन्त इति । मृतकं देहः । अनुबन्धः पुत्रादिः । गृहादि-चतुर्णाम् ईहा ॥१५॥ [मु।फ। १३.४९]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विषन्त इति । मांसार्थं पशून् हिंसन्ति, लोकान् वा यद् द्विषन्ति तत् स्वात्मानं हरिम् एव द्विषन्ति इत्य् अर्थः । मृतके स्व-देहे ॥१५॥
———————————————————————————————————————
॥ ११.५.१६ ॥
ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् ।
त्रैवर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अज्ञास् तत्त्व-ज्ञैर् अननुकम्पितास् तरन्ति, तत्त्व-ज्ञास् तु स्वतः । ये तु नात्यन्तम् अज्ञा न च तत्त्व-ज्ञास् तेऽन्तराल-वर्तिनः पतन्तीत्य् आह—य इति । कैवल्यं तत्त्व-ज्ञानम् असंप्राप्ताः । मूढताम् अत्यन्त-जडताम् । अत्र हेतुः--**त्रि-वर्ग-**प्रधानाः । अक्षणिका उपशान्ति-क्षण-रहिता देहादि-स्थैर्य-बुद्धयो वा स्वयम् एव आत्मानं घातयन्ति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज्ञास् तत्त्व-ज्ञैर् अननुकम्पितास् तरन्ति, तत्त्व-ज्ञास् तु स्वतः । ये तु नात्यन्तम् अज्ञा न च तत्त्व-ज्ञास् तेऽन्तराल-वर्तिनः पतन्तीत्य् आह—य इति । असंप्राप्ताः कैवल्य-प्रापक-ज्ञान-शून्या इत्य् अर्थः । नापि पश्व्-आदिवन् मूढाः । तर्हि किं ज्ञानार्थिनो भक्त्य्-अर्थिनो वा? न, त्रैवर्गिका धर्मार्थ-काम-पराः, भवन्तु तद् अपि कदाप्य् अवसरं प्राप्य हरि-कथां श्रोष्यन्ति ? न, अक्षणिकास् तत्र क्षण-मात्रम् अप्य् अवकाशं न लभन्ते, तर्हि ते आत्मानम् एव घातयन्ति ॥१६॥
———————————————————————————————————————
॥ ११.५.१७ ॥
एत आत्म-हनोऽशान्ता अज्ञाने ज्ञान-मानिनः ।
सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तद् आह—एत इति । आत्म-हनः आत्मापह्नव-कर्तारः । अज्ञाने कर्मणि । तथा च श्रुतिः,
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईश।उ। ४] इति ।
अन्यैर् न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.१८ ॥
हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः ।
तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : या गृहापत्य-सुहृच्-छ्रियस् ता हित्वा ॥१८॥
कैवल्य-दीपिका : हित्वा इति स्पष्टम् ॥१८॥ [मु।फ। १३.५०]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईश।उ। ४]
इति श्रुतेस् तेषाम् अधोगतिर् एवेत्य् आह—हित्वा इति । या गृहापत्य-सुहृत्-स्त्रियः, ता हित्वा ॥१८॥
———————————————————————————————————————
॥ ११.५.१९ ॥
श्री-राजोवाच—
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।
नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं भगवद्-भक्तिर् एव कर्तव्येति स्थिते, तत्र विशेषं पृच्छति—कस्मिन् काल इति । किं वर्णः ? कीदृग् वर्णवान् ? कीदृशः कीदृग्-आकारः ? केन वा नाम्ना ? केन वा विधिना ? ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कस्मिन्न् इति । नृभिः साधारणैर् इत्य् अर्थः । असाधारणानाम् अन्यावताराणां ह्य् उपासनायाः सर्वदा श्रुतत्वात् ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतादृशाणाम् उद्धारो भगवद्-अवतारं विना न सम्भवेद् इति मनसि कृत्वा पृच्छति, कस्मिन्न् इति । कीदृशः कीदृग् आकारः ? ॥९॥
———————————————————————————————————————
॥ ११.५.२० ॥
श्री-करभाजन उवाच—
कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः ।
नाना-वर्णाभिधाकारो नानैव विधिनेज्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एषु कृतादि-कालेषु । नाना-प्रकारा वर्णाभिधाकारा यस्य सः । नानैव विधिना विधि-धेनैव मार्गेण ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.२१ ॥
कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एव वर्णादि-चतुष्टयम् आह—कृत इत्य्-आदिना । कृष्णाजिनादीन् बिभ्रद् इति ब्रह्मचारि-वेषो दर्शितः ॥२१॥
कैवल्य-दीपिका : युगावतारान् आह—कृतेति । शुक्ल इति नामतो वर्णतश् च । अक्षः अक्ष-सूत्रम् । कृष्णाजिनादीनि बिभ्रत् । ब्रह्मचारि-वेश इत्य् अर्थः ॥२१॥ [मु।फ। ३.६२]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुक्ल इति शुक्ल-वर्णः शुक्ल-नामा कृष्णाजिनं कृष्ण-सार-चर्म उपवीतं यज्ञ-सूत्रः
———————————————————————————————————————
॥ ११.५.२२ ॥
मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः ।
यजन्ति तपसा देवं शमेन च दमेन च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तपसा ध्यानेन ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपसा ध्यानेनेति तदा तेन ध्यानम् एव विधीयते ॥२२॥
———————————————————————————————————————
॥ ११.५.२३ ॥
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।
ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
कैवल्य-दीपिका : तन्-नामान्य् आह—हंस इति । हन्ति गच्छति जानाति सर्वम् इति हंसः । हन्तेर् गत्य्-अर्थस्य कर्तर्य् औणादिकः सः । सुपर्णः परमात्मा । द्वा सुपर्णा [मु।उ। ३.१.१] इति श्रुतेः । विकुण्ठा माया ताम् अधितिष्ठतीति वैकुण्ठः, शैषिकोऽण्3 धारयतीति धर्मः । योगः समाधिः परमात्मा ब्रह्म ॥२३॥ [मु।फ। ३.६३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गीयते इति एतानि नामानि तदा गेयानि ॥२३॥
———————————————————————————————————————
॥ ११.५.२४ ॥
त्रेतायां रक्त-वर्णोऽसौ चतुर्-बाहुस् त्रि-मेखलः ।
हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रि-गुणा दीक्षाङ्ग-भूता मेखला यस्य स यज्ञ-मूर्तिः । हिरण्य-केशः पिशङ्ग-केशः ॥२४॥
कैवल्य-दीपिका : त्रेतायाम् इति । त्रिमेखलः त्रिगुणा मेखला दीक्षाङ्ग-भूता यस्य स तथा । दीक्षित-वेश इत्य् अर्थः । असौ विष्णुः ॥२४॥ [मु।फ। ३.६४]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रक्त-वर्णो रक्त-नामा च । त्रि-गुणा दीक्षाङ्ग-भूत-मेखला यस्य सः । त्रय्यात्मा यज्ञ-स्वरूपं त्रय्या विद्ययेति यज्ञस् तदा विधीयते ॥२४॥
———————————————————————————————————————
॥ ११.५.२५ ॥
तं तदा मनुजा देवं सर्व-देव-मयं हरिम् ।
यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रय्या विद्यया वेद-त्रयोक्त-कर्मभिः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.२६ ॥
विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।
वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पृश्नि-गर्भः पृश्निः सुतपसः प्रजा-पतेः पत्नी तस्याः पुत्रः । वृषाकपिः स्मृतः सन्वर्षति कामान् आकम्पयति क्लेशान् इति तथा । जयत्य् एव सर्वदा जयन्तः ॥२६॥
कैवल्य-दीपिका : विष्णुर् इति । पृश्निः सुतपसः प्रजापतेर् भार्या । तस्याः पुत्रः । सर्ववेदा यस्मिन् स तथा । वर्षति पुण्य-फलम् आकम्पयति च पाप-फलं दानेनेति वृषकपिः । जयत्य् एव सदेति जयन्तः । उरुर् महान् गायी गानं यस्य स तथा ॥२६॥ [मु।फ। ३.६५]
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.२७ ॥
द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः ।
श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्यामोऽतसी-पुष्प-सङ्काशः । निजानि चक्रादीन्य् आयुधानि च यस्य सः । श्रीवत्सो नाम वक्षसो दक्षिण-भागे रोम्णां प्रदक्षिणावर्तः स आदिर् येषां कर-चरणादि-गत-पद्मादीनां तैर् अङ्कैर् आङ्गिकैश् चिह्नैर् लक्षणैर् बाह्यैः कौस्तुभादिभिः ॥२७॥
कैवल्य-दीपिका : निजानि चक्राणि । आदि-शब्दाद् वज्रध्वज-सरोज-यवाङ्कुशादीनि । सहजं चिह्नम् अङ्कः । आगन्तुकं लक्षणं कौस्तुभादि-राज-वेश इत्य् अर्थः ॥२७॥ [मु।फ। ३.६६]
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्वापर-युगावतारं कथयन् श्री-कृष्णाविर्भाव-मय-तद्-युग-विशेषस्य च वैशिष्ट्यातिशयम् अभिप्रेत्य तम् एव तत्-तत्-सर्वमथम् आह—द्वापर इति । सामान्यतस् तु द्वापरे शुक-पत्र-वर्णत्वं कलौ श्यामत्वं विष्णु-धर्मोत्तरे दर्शितं द्वापरे शुक-पत्राभः कलौ श्यामः प्रकीर्तितः इतीदृशेन ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्याम इति श्याम-वर्णः श्याम-नामा च ॥२७॥
———————————————————————————————————————
॥ ११.५.२८ ॥
तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् ।
यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महा-राजोपलक्षणं छत्र-चामरादि-युक्तम् । वेद-तन्त्रभ्यां वैदिकेनागमिकेन च मार्गेण । यजन्ति पूजयन्ति । परम् ईश्वरं ज्ञातुम् इच्छवः ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : महाराजोपलक्षणम् इति श्री-हरिवंश-दर्शित-राजेन्द्राभिषेकात् तादृशं परं पुरुषं यजन्तीत्य् अन्वयः । यजने हेतुः जिज्ञासवः तम् एवानुभवितुम् इच्छव इति ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महाराजोपलक्षणं छत्र-चामरादि-युक्तं वेद-तन्त्राभ्यां वैदिकेनागमिकेन च मार्गेण पूजयन्ति ॥२८॥
———————————————————————————————————————
॥ ११.५.२९-३० ॥
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥
नारायणाय ऋषये पुरुषाय महात्मने ।
विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नामान्य् आह—नमस् त इति ।
कैवल्य-दीपिका : तन्-नामान्य् आह—नम इति । वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाः महद्-अहङ्कार-मनो-बुद्धीनां सङ्कल्पाभिमान-संशय-निश्चय-हेतूनाम् अन्तःकरणानाम् अधिष्ठातारः ॥२९॥ [मु।फ। ३.६७]
जीव-गोस्वामी (क्रम-सन्दर्भः) : चतुर्व्यूहता-लिङ्गेन श्री-कृष्णत्वम् एव विशेषतः स्पष्टयन्न् आह—नमस् त इति ॥२९॥
नामावतार-मयत्वेनाप्य् आह—नारायणायेति । तत्र नारायणाय ऋषय इति दिग्-दर्शनं कृत्वा तत्-तद्-अनन्तावताराकर-पुरुषावतार-मयत्वेनाह—पुरुषाय महात्मन इति । अत एव विश्वेषां तेषाम् ईश्वराय विश्वाय तत्-तद्-रूपाय चेत्य् अर्थः । किं बहुना ? सर्व-भूत-रूपाय सर्वात्म-रूपाय चेति ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नामान्य् आह—नमस् त इति ॥२९-३०॥
———————————————————————————————————————
॥ ११.५.३१ ॥
इति द्वापर उर्वीश स्तुवन्ति जगद्-ईश्वरम् ।
नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु ॥
श्रीधरः- नाना-तन्त्र-विधानेनेति कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शयति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्तुतिश् चेयं तद्-आविर्भावास्पद-द्वापरारम्भत एव तज्-ज्ञैर् ऋषिभिः क्रियत इति सैवानूदिता ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इत्थं नृ-तिर्यग्-ऋषि-देव-झषावतारैर्
लोकान् विभावयसि हंसि जगत्-प्रतीपान् ।
धर्मं महा-पुरुष पासि युगानुवृत्तश्
छन्नः कलौ यद् अभवस् त्रियुगोऽथ स त्वम् ॥ [भा।पु। ७.९.३८]
इति प्रह्लाद-वचनात् कलि-युगीयावतारश् छन्नत्वेन सर्व-लोक-दुर्बोधोऽवगम्यते । अतस् तत्-प्रमापक-वचनम् अपि सोपक्रमम् अर्थान्तरेणाच्छन्नतयैवाह—नानेति । कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शितुम् इत्य् आच्छादकोऽर्थः । तेनाच्छन्नोऽर्थो यथा—नाना कलौ अपि-कारात् आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगस् तनूः इति गर्गोक्ति-प्राप्त-वैवस्वताष्टाविंश-चतुर्युगीय-द्वापरोत्तर-कलाव् अपि ।
तन्त्र-विधानेन तन्त्राख्य-न्याय-विधिना । श्वेतो धावतीतिवद् एक-प्रयत्नोच्चार्येण एकदैवार्थ-द्वय-बोधकेन शब्देनेत्य् अर्थः । अत एव शृण्व् इति, शृण्वन्तम् अपि राजानं प्रति पुनः प्रेरणं रहस्यत्वेन तन्त्रेणोच्यमानम् अर्थं विशिष्यावधापयितुम् ॥३१॥
———————————————————————————————————————
॥ ११.५.३२ ॥
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रूक्षतां व्यावर्तयति—त्विषा कान्त्या अकृष्णम् इन्द्र-नीलमणिवद् उज्ज्वलम् । यद् वा, त्विषा कृष्णं कृष्णावतारम् । अनेन कलौ कृष्णावतारस्य प्राधान्यं दर्शयति । अङ्गानि हृदयादीनि । उपाङ्गानि कौस्तुभादीनि । अस्त्राणि सुदर्शनादीनि । पार्षदाः सुनन्दादयः तत् सहितम् । यज्ञैर् अर्चनैः । सङ्कीर्तनं नामोच्चारणं स्तुतिश् च तत् प्रधानैः । सुमेधसो विवेकिनः ॥३२॥
कैवल्य-दीपिका : कृष्णः कलौ । त्विषा अकृष्णम् इन्द्रनीलोज्ज्वलम् । अङ्गः मुखादि । उपाङ्गं कर्णादि । अस्त्रं चक्रादि । पार्श्वदः सुनन्दादि, तैः सहितम् । वैषस्य च विशेषानिर्देशात् यथाभिमतत्वं गम्यते । यज्ञैर् देवतार्चनैः आराधयन्तीत्य् अर्थः । सङ्कीर्तन-प्रायैः नाम-सङ्कीर्तन-प्रधानैः । द्वापरे तु पूजायाः प्राधान्यम् । तद् उक्तं—
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ [वि।पु। ६.२.१७] इति ॥३२॥ [मु।फ। ३.६८]
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्री-कृष्णावतारानन्तर-कलि-युगावतारं पूर्ववद् आह—कृष्णेति । त्विषा कान्त्या योऽकृष्णो गौरः, तं सुमेधसो यजन्ति । गौरत्वं चास्य,
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा।पु। १०.८.१३]
इत्य् अत्र वारि-शेष्य-प्रमाण-लब्धम् इदानीम् एव तद्-अवतार-पदत्वेनाभिख्याते द्वापरे कृष्णताङ्गत इत्य् उक्तेः, शुक्ल-रक्तयोः सत्य-त्रेता-गतत्वेन दर्शितत्वाच् च । अतीतस्यातीतत्वं प्राचीनावतारापेक्षया अत्र श्री-कृष्णस्य परिपूर्ण-रूपत्वेन वक्ष्यमाणत्वाद् युगावतारत्वं तस्मिन् सर्वेऽप्य् अवतारा अन्तर्-भूता इति तत्-तत्-प्रयोजनं तस्मिन्न् एकस्मिन्न् एव सिध्यतीत्य् अपेक्षया तद् एवं यद् द्वापरे श्री-कृष्णोऽवतरति तदैव कलौ श्री-गौरोऽप्य् अवतरतीति स्वारस्य-लब्धः श्री-कृष्णाविर्भाव-विशेष एवायं गौर इत्य् आयाति, तद्-अव्यभिचारात् ।
तद् एतद् आविर्भावत्वं तस्य स्वयम् एव विशेषण-द्वारा व्यनक्ति—कृष्ण-वर्णं कृष्णेत्य् एतौ वर्णौ च यत्र यस्मिन् श्री-कृष्ण-चैतन्य-देव-नाम्नि कृष्णत्वाभिव्यञ्जकं कृष्णेति वर्ण-युगलं प्रयुक्तम् अस्तीत्य् अर्थः । तृतीये श्रीमद्-उद्धव-वाक्ये समाहृता इत्य्-आदि पद्ये श्रियः सवर्णेन [भा।पु। ३.३.३] इत्य् अत्र टीकायां, श्रियो रुक्मिण्याः समान-वर्ण-द्वयं वाचकं यस्य स श्रियः स-वर्णो रुक्मी इत्य् अपि दृश्यते ।
यद् वा, कृष्णं वर्णयति तादृश-स्व-परमानन्द-विलास-स्मरणोल्लास-वशतया स्वयं गायति, परम-कारुणिकतया च सर्वेभ्योऽपि लोकेभ्यस् तम् एवोपदिशति यस् तम् । अथवा, स्वयम् अकृष्णं गौरं त्विषा स्व-शोभया विशेषेणैव कृष्णोपदेष्टारं च यद्-दर्शनेनैव सर्वेषां कृष्णः स्फुरतीत्य् अर्थः । किं वा, सर्व-लोक-द्रष्टारं कृष्णं गौरम् अपि भक्त-विशेष-दृष्टौ त्विषा प्रकाश-विशेषेण कृष्ण-वर्णं तादृश-श्यामसुन्दरम् एव सन्तम् इत्य् अर्थः । तस्मात् तस्मिन् श्री-कृष्ण-रूपस्यैव प्रकाशात् तस्यैवाविर्भाव-विशेषः स इति भावः।
तस्य भगवत्त्वम् एव स्पष्टयति—साङ्गोपाङ्गास्त्र-पार्षदम् । अङ्गान्य् एव परम-मनोहरत्वात्, उपाङ्गानि भूषणादीनि महा-प्रभावत्वात्, तान्य् एव अस्त्राणि सर्वदैवैकान्त-वासित्वात्, तान्य् एव पार्षदाः बहुभिर् महानुभावैर् असकृद् एव तथा दृष्टोऽसाव् इति गौड-वरेन्द्र-सुह्मोत्कलादि-देशीयानां महा-प्रसिद्धेः । यद् वा, अत्यन्त-प्रेमास्पदत्वात् तत्-तुल्या एव पार्षदाः श्रीमद्-अद्वैताचार्य-महानुभाव-चरण-प्रभृतयस् तैः सह वर्तमानम् इति चार्थान्तरेण व्यक्तम् ।
तद् एवं-भूतं कैर् यजन्ति ? यज्ञैः पूजा-सम्भारैः, न यत्र यज्ञेश-मख महोत्सवाः [भा।पु। ५.१९.२४] इत्य् उक्तेः । तत्र च विशेषेण तम् एवाभिधेयं व्यनक्ति—सङ्कीर्तनं बहुभिर् मिलित्वा तद्-गान-सुखं श्री-कृष्ण-गानं तत्-प्रधणैः । तथा सङ्कीर्तन-प्राधान्यस्य तद्-आश्रितेष्व् एव दर्शनात्, स एवात्राभिधेय इति स्पष्टम् । अत एव सहस्र-नाम्नि तद्-अवतार-सूचकानि नामानि कथितानि, सुवर्ण-वर्णो हेमाङ्गो वराङ्गश् चन्दनाङ्गदी । सन्न्यास-कृच् छमः शान्तः इत्य् आदीनि दर्शितं च । एतत् परम-विद्वच्-छिरोमणिना श्री-सार्वभौम-भट्टाचार्येण—
कालान् नष्ट भक्ति-योगं निजं यः
प्रादुष्कर्तुं कृष्ण-चैतन्य-नामा ।
आविर्भूतस् तस्य पादारविन्दे
गाढं गाढं लीयतां चित्त-भृङ्गः ॥ इति ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण- इति । नाना-कलि-युग-पक्षे कृष्ण-वर्ण-देहम् । रूक्षत्वं व्यावर्तयति—त्विषा कान्त्या अकृष्णम् इन्द्रनील-मणिवद् उज्ज्वलम् इत्य् अर्थः । एकतः कलि-युग-पक्षे कृष्ण-वर्णं, किन्तु त्विषा बहिः-स्फुरन्त्या कान्त्या अकृष्णं शुक्ल-रक्त-श्यामानाम् उक्तत्वात् पारिशेष्येण पीतम् अन्तः-कृष्णं बहिर् गौरम् इत्य् अर्थः । यद् वा, कृष्णावतार-लीलादि-वर्णनात् कृष्ण-वर्णं साङ्गोपाङ्गेत्य्-आदिकम् उभय-पक्षेऽपि स्पष्ट-प्रच्छन्नत्वाभ्यां तुल्य एवार्थः । यज्ञैः परिचर्या-मार्गैः सङ्कीर्तन-प्रधानैर् ये सुमेधसः—शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः [भा।पु। १०.८.१३] इति । छन्नः कलौ [भा।पु। ७.९.३८] इति । कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इत्य्-आदीनां तात्पर्यार्थ-धारणावती येषां बुद्धिः शोभमाना भवेत्, त एव नान्ये इत्य् अर्थः ॥३२॥
———————————————————————————————————————
॥ ११.५.३३ ॥
ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं
तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् ।
भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं
वन्दे महा-पुरुष ते चरणारविन्दम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्तुतिम् आह—ध्येयम् इति । हे प्रणत-पाल हे महा-पुरुष, ते चरणारविन्दं वन्दे । कथं-भूतं ? ध्येयं ध्यातुं योग्यम् । सदेति सर्वत्र संबध्यते । ध्येयत्वे हेतवः, इन्द्रिय-कुटुम्बादिभिर् यः परिभवस् तिरस्-कारस् तं हन्तीति तथा तत् । किं च, अभीष्ट-दोहं मनोरथ-पूरकम् । किं च तीर्थास्पदं गङ्गाद्य्-आश्रयत्वेन परम-पावनम् । शिव-विरिञ्चिभ्यां नुतं स्तुतं महत्तमम् ।
ननु तौ कृतार्थाव् एव, किम् अर्थं ताभ्यां नुतं ? तत्राह—शरण्यम् आश्रय-योग्यं सुखात्मकम् इत्य् अर्थः । तर्हि ब्रह्मादि-स्तुत्यं प्राकृतस्य कथं गोचरः स्यात्, न, भृत्यार्ति-हं यस्य कस्यापि भृत्य-मात्रस्यार्ति-हन्तृ । न केवलम् आगन्तुकार्ति-मात्रं हन्ति किन्तु भवाब्धि-पोतं संसारार्णव-तारकं च ॥३३॥
कैवल्य-दीपिका : कलौ यत् किञ्चिन् महिमानुवर्णनं तत् सर्वं नामावृत्ति-तुल्यम् इति सूचयितुं नामावसरे स्तुतिम् आह—ध्येयम् इति । हे प्रणत-पाल ! ते चरणारविन्दं वन्दे । तत् किम् ? यथा-राजादि-सेवा लघुत्वापादिका तथास्यावनतिर् नेत्य् आह—महा-पुरुषेति । न च योगादिवत् तत्-सेवायाम् आयास इत्य् आह—ध्येयम् इति । सुख-हेतुतया सदा ध्यातुम् उचितम् । तद् उक्तं—
आयासः स्मरणे कोऽस्य स्मृतौ यच्छति यः शुभम् ।
पाप-क्षयश् च भवति स्मरतां तम् अहर्निशम् ॥ [वि।पु। १.१७.७८] इति ।
तर्हि किं तावद् एव फलम् ? नेत्य् आह—परीति । परिभवं हन्ति मनोरथं पूरयतीत्य् अर्थः । यद्यप्य् अन्य-देवता अप्य् एवं तथापि ता नाशेष-पाप-क्षये क्षमा । इदं तु क्षमत इत्य् आह—तीर्थ- इति । तीर्थं गङ्गा । आस्पदम् आश्रयः । अत एव भव-विरिञ्चिभ्याम् अपि स्तुतम्, का वार्तान्य-देवतानाम् ? तस्माद् आश्रयण-योग्यम् इत्य् आह—शरण्यम् इति । महद्भिः सेव्यमानत्वाद् गम्भीरम् । ततश् च नगण्यान् अत्यल्पकान् इत्य् अपि नास्तीत्य् आह—भृत्य- इति । प्रसन्न-गम्भीरं चेत्य् अर्थः । यथा चान्यैः समिताप्य् आर्तिः पुनर् उदेति । न तथात्रेत्य् आह—भवेति ॥॥३३॥ [मु।फ। ३.६९]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयम् अवतारः कलियुग-वर्तिनो जनान् प्रायः कृष्ण-रामयोर् भजन-मार्गम् उपदिशति, अतस् तयोः स्तुति-नती आह द्वाभ्याम् । ध्यातुम् अर्हं सदेति नात्र काल-देश-नियम इति भावः । इन्द्रिय-कुटुम्बादिभिर् यः परिभवस् तिरस्कारस् तं हन्तीत्य् अनुसंहितं फलम् । अभीष्ट-दोहम् इत्य् अनुसंहितं, तीर्थास्पदम् इति ध्यान-मात्रेण गङ्गादि-सर्व-तीर्थ-स्नान-सिद्धेः । कलौ द्रव्य-देश-क्रियादि-जनितं दुर्वारम् अपावित्र्यम् अपि नाशङ्कनीयम् इति भावः । तत्र सदाचारम् आह—शिव-विरिञ्चीति । सुख-सेव्यत्वम् आह—शरण्यम् इति । भक्त-वात्सल्यम् आह—भृत्यार्तिहम् इति । न च भृत्यानां परिचर्यादिकम् अप्य् अपेक्षत इत्य् आह—हे प्रणत-पाल इति । भृत्याभिमानवन्तं प्रणति-मात्रेणैव पालयतीति भावः ।
भवाब्धि-पोतम् इति—
त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि
समाधिनावेशित-चेतसैके ।
त्वत्-पाद-पोतेन महत्-कृतेन
कुर्वन्ति गोवत्स-पदं भवाब्धिम् ॥ [भा।पु। १०.२.३०]
इति ब्रह्माद्य्-उक्तेः, भवाब्धिः कदा निस्तीर्ण इत्य् अपि त्वद्-भृत्यो न जानातीति भावः । श्लेषेण तस्याप्य् अवतारस्याप्य् अनेनैव स्तुति-नती । यथा, हे महा-पुरुष ! हे परमहंस ! महा-मुनीन्द्र ! शिव-विरिञ्चि-नुतम् आचार्य-हरिदासाभ्यां स्तुतम् । अन्यत् समानम् ॥३३॥
———————————————————————————————————————
॥ ११.५.३४ ॥
त्यक्त्वा सुदुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं
धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् ।
माया-मृगं दयितयेप्सितम् अन्वधावद्
वन्दे महा-पुरुष ते चरणारविन्दम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीं स्वयम् आप्त-कामत्वान् नैरपेक्ष्यं भक्तार्थं च सापेक्षतां दर्शयन् श्री-रामचन्द्रं स्तौति—त्यक्त्वा इति । अन्यैः सुदुस्त्यजा या सुरेप्सिता राज्य-लक्ष्मीस् तां त्यक्त्वा । यद् इति, य इत्य् अर्थः । योऽरण्यम् अगात् । किं राज्य-वैकल्य-दर्शनेन, न, धर्मिष्ठः । कुतः ? आर्यस्य गुरोर् दशरथस्य वचसा । किं च, एवं राज्यं त्यक्त्वापि भक्त-वात्सल्येन दयितया सीतया ईप्सितं माया-मृगं स्वर्णाकारं योऽन्वधावत् । तस्य भगवतश् चरणारविन्दं वन्दे । यद् वा, हे धर्मिष्ठ इति संबोधनम् । तथाप्य् अविवक्षितत्वाद् आर्य-पदेन सन्धिर् न भवति । तथा यद् अगाद् इति चरणारविन्दम् एवोच्यते । यन् माया-मृगम् अन्वधावत्, तत् ते चरणारविन्दं वन्द इत्य् अन्वयः । अन्यत् समानम् ॥३४॥
कैवल्य-दीपिका : प्रसन्न-गम्भीरताम् एवाह—त्यक्त्वा इति । अरण्य-गमनम् अपि घटते प्रतिकूल-परिजनाद् उपक्षीणाद् वा राज्याद् इत्य् अत आह—सुदुस्त्यज सुरेप्सित- इति । तर्हि किं ? नित्य-परिज्ञानाद् बलवद्-भयाद् वा ? नेत्य् आह—आर्य- इति । यथा पिता प्रस्थापयितुं शक्नोति, तथा किम् अपि किं निगूढं दूषणम् अस्ति ? नेत्य् आह—धर्मिष्ठ इति । अनिच्छतोऽपि पितुः सत्य-पालनायेत्य् अर्थः ।
गाम्भीर्यम् उक्त्वा प्रसन्नताम् आह—माया- इति । मृग-रूपं मारीचम् । दयिता सीता । धर्मिष्ठत्वादिको राम-व्यापारः । तच्-चरणे समारोप्यतेऽतिशयार्थम् । यथा—
यामि मनो-वाक्-कायैः शरणं करुणात्मकम् ।
जगन्नाथं जन्म-जरा-मरणार्णव-तारण-तरिम् उदाराङ्घ्रियुगम् ॥ इति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः २) : तत्र सदाचार-पालकत्वं कारुण्यं च तव नाधुनिकम् एवेत्य् आह—त्यक्त्वा इति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कलौ श्री-कृष्णस्य परम-पूज्यत्वात् तदीय-लीला-वर्णनेनैव तम् एव स्तौति—त्यक्त्वेति । राज्य-लक्ष्मीं श्री-मथुरा-सम्पत्तिम् । धर्मिष्ठयोः पूर्व-जन्मन्य् एकाग्रतया कृत-भगवद्-आराधन-लक्षण-धर्मयोः । अविवक्षितत्वाद् असन्धिः । आर्ययोः श्री-वसुदेव-देवक्योर् वचसा, अयं त्व् असभ्यः [भा।पु। १०.३.२२] इत्य्-आदिना वसुदेवस्य, जन्म ते मय्य् असौ [भा।पु। १०.३.२९] इत्य्-आदिना देवक्याः । अरण्यं बृहद्-वनादिकम् ।
यद् वा, धर्मिष्ठे भक्ति-लक्षण-धर्मिष्ठे श्री-नन्द-गोप-राजे यद् अरण्यं व्रज-भूमि-लक्षणं तत् । एवं सत्य् अपि महा-पुरुषत्वेनैव सदाचार-प्रवर्तकत्वं भक्त-जनाधीनत्वं च ज्ञेयम् । परम-दुर्लभताम् आह—मायया लक्ष्म्यापि मृग्यत इति मृगम् ।
यद् वा, भक्त-जनाधीनम् इत्य् अर्थः । मायया लक्ष्म्या मृगं क्रीडा-मृगवत् पराधीनम् इत्य् अर्थः । गमने निगूढं हेत्व्-अन्तरम् । दयितया श्री-राधयेप्सितं पूर्वस्मिन्न् इहापि जन्मनि विविधाराधनेन प्राप्तुम् इष्टम् । अत एवान्वधावच् चारण्यम् एव गोपालनादि-क्रीडया सर्वतो धावन्न् इव परिबभ्रामेत्य् अर्थः ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यैः सुदुस्त्यजा या सुरेप्सिता राज्य-लक्ष्मीस् तां त्यक्त्वा यद् इति य इत्य् अर्थः । अरण्यम् अगात् किं राज्य-वैकल्य-दर्शनेन ? न, धर्मिष्ठः आर्यस्य गुरोर् दशरथस्य वचसानेन पितृ-भक्तत्वम् उक्तम् । प्रेयसी-प्रेम-वशत्वं चाह—दयितया सीतया ईप्सितं माया-मृगं स्वर्णाकार-मृगं योऽन्वधावत् तस्य वन्दे । श्लेष-पक्षे असुभ्यः प्राणेभ्योऽपि दुस्त्यजा च सुरैर् अपि ईप्सितं राज्यं स्व-कान्तेन विराज्यमानत्वं यस्याः सा च या लक्ष्मीस् तां त्यक्त्वा यत् यः अरण्यम् अगात् । तत्र हेतुः—आर्यस्य विप्रस्य वचसा तव सर्वम् अपि गार्हस्थ्य-सुखं ध्वस्तं भवत्व् इति यज्ञोपवीत-त्रोटन-पूर्वकं यत् शाप-वचस् तेन । धर्मिष्ठः धर्मवतां मध्ये अतिशयेन श्रेष्ठो विप्र-वाक्यं मा अन्यथा भवत्व् इति कृतं शापं स्वीचकार इत्य् अर्थः । गत्वा किम् अकरोद् इत्य् अत आह—मायां कलत्र-पुत्र-वित्तादि-रूपां मृग्यति अन्वेष्यतीति माया-मृगः संसाराविष्टो जनस् तम् अन्वधावत् । कीदृशं ? दया अतिशयेनास्तीति दयी तस्य भावो दयिता तया हेतुना ईप्सितं स्वाभीप्सितम् आलिङ्गन-मिषेण स्व-स्पर्शं दत्त्वा संसाराब्धौ पतितम् अपि तं प्रेमान्धौ पातयितुम् इति निरुपाधि-महा-कारुण्यं द्योतितम् ॥३४॥
———————————————————————————————————————
॥ ११.५.३५ ॥
एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः ।
मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युगानुरूपाभ्यां नाम-रूपाभ्याम् ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युगानुरूपाभ्यां रूप-नामाभ्याम् । यद् उक्तं भागवतामृते—
कथ्यन्ते वर्ण-नामाभ्यां शुक्लः सत्य-युगे हरिः ।
रक्तः श्यामः क्रमात् कृष्णस् त्रेतायां द्वापरे कलौ ॥ [ल।भा। १.४.२५] इति ।
अत्र सत्य-त्रेता-द्वापरेषु हंस-सुपर्णेति विष्णुर् यज्ञेति वासुदेव-सङ्कर्षणेत्वादि कीर्तनीया भगवन्-नामावली यथोक्ता, तथा कलौ सा वर्तमानापि नोक्ता रहस्योद्घाटनाभावार्थम् इति ज्ञेयम् ॥३५॥
———————————————————————————————————————
॥ ११.५.३६ ॥
कलिं सभाजयन्त्य् आर्या गुण-ज्ञाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्व-स्वार्थोऽभिलभ्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतेषु चतुर्-युगेषु कलिर् एव श्रेष्ठ इत्य् आह—कलिम् इति । गुण-ज्ञाः कलेर् गुणं जानन्ति ये ते । ननु दोषाणां बहुत्वात् कथं सभाजयन्ति ? तत्राह—सार-भागिनो गुणांश-ग्राहिणः । कोऽसौ गुणः ? तम् आह—यत्रेति । तद् उक्तम्,
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वपरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥ इति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गुणज्ञाः कीर्तन-नामोच्चारण-रूपं तद्-गुणं जानन्तः । अत एव तद्-दोषाग्रहणात् सार-भागिनः सार-मात्र-ग्राहिलाः कलिं सभाजयन्ति, गुणम् एव दर्शयन्ति । यत्र प्रचरितेन सङ्कीर्तनेनैव साधनान्तर-निरपेक्षेण तेनेत्य् अर्थः । सर्वः ध्यानादिभिः कृतादिषु साधन-साहस्रैः साध्यः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चतुर्षु सत्यादिषु मध्ये कः श्रेष्ठः ? इत्य् अपेक्षायाम् आह—कलिम् इति । गुण-ज्ञाः कीर्तन-प्रचार-रूपं तद्-गुणं जानन्तस् तद्-दोषाग्रहणात् सार-भागिनस् तस्य सार-भाग एव ग्राह्या वर्तते येषां ते ।
ननु, कलेर् अपार-दोषवत्त्वात् कथं ते सार-भागम् एव गृह्णन्ति ? सत्यं, यथा अपार-दोषवत्त्वं, तथा अपार-गुणवत्त्वम् अपीत्याह—यत्रेति । सर्वः सर्व-युग-प्राप्यः । तद् उक्तम्—
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वपरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ संकीर्त्य केशवम् ॥ इति ॥३६॥
———————————————————————————————————————
॥ ११.५.३७ ॥
न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ध्रुवं तयैव मुच्येत यां मूर्तिं प्रदिशेद् गुरुः ।
शिष्यानां योग्यताभिज्ञो विघ्न-हानिस् तु तद्-युगे ॥
अवतीर्ण-हरेर् मूर्त्या तत्-पूर्व-युगजेन च ।
नृसिंह-मूर्त्या च तथा यां चान्यां प्रदिशेद् गुरुः ॥ इति स्वाभाव्ये ॥३७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् कलाव् अतोऽस्मात् सङ्कीर्तनात् परमो लाभो नास्ति । यतः सङ्कीर्तनात् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कीर्तनस्यैव महिमानम् आह—न ह्य् अत इति । अतः कीर्तनात् यतो यस्मात् कीर्तनात् परमां शान्तिं शमो मन्-निष्ठता-बुद्धेः [भा।पु। ११.१९.३६] इत्य् अनुसारेण ध्यानादिभिर् अप्य् असाध्यां सर्वोत्कृष्टां भगवन्-निष्ठां प्राप्नोति अनुषङ्गेण संसारश् च नश्यति ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-लाभ-सारम् आह—न ह्य् अतः इति । इह श्रेयः-प्राप्त्य्-उपायेषु भ्राम्यतां भ्रमं प्राप्नुवतां परमां शान्तिं भक्तिं, परमाम् इति विशेषणोपन्यासात् ॥३७॥
———————————————————————————————————————
॥ ११.५.३८ ॥
कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायण-परायणाः ।
क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, कृतादिष्व् इति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः कलि-प्रजानां परम-भगवन्-निष्ठतां श्रुत्वा तद्-अर्थं कलाव् एव केवलं निज-जन्म प्रार्थयन्त इत्य् आह—कृतादिष्व् इति सार्धकेन । अत्र हेतुः—कलाव् इति । तत्-तद्-भक्तीच्छायाम् अपि तद्-भक्त-सङ्गं विना सा न सम्पद्येतेति विभाव्येति भावः । तत्-परायणत्वम् अत्र तदीय-प्रेमातिशयवत्त्वम् । एतद् एव परमां शान्तिम् इत्य् अनेन कार्य-द्वारा व्यञ्जितम् । मुक्तानाम् अपि सिद्धानां [भा।पु। ६.१४.५] इत्य् अत्र यद्वत् ।
क्वचित् क्वचित् गौडादौ श्री-कृष्ण-चैतन्य-देवावतारेण । द्रविडेषु च भूरिशः इति श्री-वैष्णवाद्य्-अपेक्षया । अत्र कलि-सङ्गेन कीर्तनस्य गुणोत्कर्ष इति न वाच्यम् । भक्ति-मात्रे काल-देशादि-नियमस्य निषिद्धत्वात् । विशेषतो नामोपलक्ष्य च विष्णुधर्मे क्षत्र-बन्धूपाख्याने—
न देश-नियमस् तत्र न काल-नियमस् तथा ।
नोच्छिष्टादौ निषेधश् च श्री-हरेर् नाम्नि लुब्धक ॥ इति ।
स्कान्दे पाद्म-वैशाख-माहात्म्ये विष्णु-धर्मे च—चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् इति । स्कान्द एव च—
न देश-कालावस्थात्म-शुद्ध्य्-आदिकम् अपेक्षते ।
किन्तु स्वतन्त्रम् एवैदं तन् नाम कामित-कामदम् ॥ इति ।
विष्णु-धर्मे च—
कलौ कृत-युगं तस्य कलिस् तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः ॥ इति ।
न च कलाव् अन्य-साधनासमर्थत्वाद् एव तेनाल्पेनापि महत् फलं भवति, न तु तस्य गरीयस्त्वेनेति मन्तव्यम् ।
यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गोऽपि यच्-चिन्तने
विघ्नो यत्र निवेशितात्म-मनसां ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमल-धियां पुंसां ददात्य् अव्ययः
किं चित्रं यद् अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ [वि।पु। ६.८.५७]
इति समाधि-पर्यन्ताद् अपि स्मरणात् कौमुत्येन कीर्तनस्यैव गरीयस्त्वं श्री-विष्णु-पुराणे दर्शितम् । अत एवोक्तम् एतन्-निर्विद्यमानानां [भा।पु। २.१.११] इत्य्-आदि । तथा च—
अघच्छित्-स्मरणं विष्णोर्
बह्व्-आयासेन साध्यते ।
ओष्ठ-स्पन्दन-मात्रेण
कीर्तनं तु ततो वरम् ॥ इति वैष्णव-चिन्तामणौ ।
येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ इत्य् अन्यत्र ।
सर्वापराध-कृद् अपि इत्य्-आदि-नामापराध-भजन-स्तोत्रे च । तस्मात् सर्वत्रैव युगे श्रीमत्-कीर्तनस्य समानम् एव सामर्थ्यम् । कलौ च श्री-भगवता कृपया तद् ग्राह्यत इत्य् अपेक्षयैव तत्र त-प्रशंसेति स्थितम् ।
अत एव यद्यपि अन्य-भक्तिः कलौ कर्तव्या तदा तत्-संयोगेनैवेत्य् उक्तम्—यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः [भा।पु। ११.५.२९] इति ।
अत्र च स्वतन्त्रम् एव नाम-कीर्तनम् अत्यन्त-प्रशस्तम्—
हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ इत्य् आदौ ।
तस्मात् साधूक्तं कलिं सभाजयन्त्य् आर्याः [भा।पु। ११.५.३] इत्य्-आदि-त्रयम् ॥३८॥ (भक्ति-सन्दर्भ, २७३)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधु-सङ्ग-जनिता केवला भक्तिः कलाव् एव प्रायेण लभ्यत इत्य् आह—कृतादिष्व् इति । यत्र बहवो नारायण-परायणास् तद्-भक्ति-मात्रार्थिनस् तत्रावश्यं तेषां सङ्गमतो भक्तिस् ततः प्रेम-भक्तिश् च सम्भवेद् इत्य् आकाङ्क्षयेति भावः । च-काराद् गौडोड्रयोः ॥३८॥
———————————————————————————————————————
॥ ११.५.३९-४० ॥
ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥
कावेरी च महा-पुण्या प्रतीची च महा-नदी ।
ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।
प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमलाशयाः सन्तः प्रायः प्रायशो भगवति भक्ता भवन्ति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्राय इति तेषु भक्तेष्व् अपराधिनो विनेत्य् अर्थः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.४१ ॥
देवर्षि-भूताप्त-नृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सर्वात्मना हरेर् भक्ता देवेशा एव केवलम् ।
देवास् तु सर्वथाभक्ता भक्ता एवेतरे स्मृताः ॥
हरि-भक्त्याधिकेष्व् एव किङ्करश् चाप्य् ऋणी तथा ।
हरि-भक्तेतरेषां वासुदेव-व्यपाश्रयात् ॥
द्विधैव स्वोत्तमर्णानि दातव्यानीतराणि च ।
दातव्येभ्यो विमुच्येत नेतरेभ्यः कथंचन ॥
कथं देवाद्य्-अनुपकृतो भक्तो मोक्षेऽपि वर्तयेत् ।
बिम्बत्वात् तद्-अधीनं हि स्वरूपं सर्वशो यतः ॥ इति जीव-निर्णये ॥४१ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
भक्तस्य विधि-निषेध-निवृत्तेः कृत-कृत्यताम् आह—देव-र्षि इति ।
आप्ताः पोष्याः कुटुम्बिनः,
इतरे देवादयः पञ्च-यज्ञ-देवताः ।
एतेषां यथा अभक्तः
ऋणी, अत एव तेषां किङ्करः, तद्-अर्थं नित्यं
पञ्च-यज्ञादि-कर्ता । तथा च स्मृतिः—हीन-जातिं परिक्षीणम् ऋणार्थं
कर्म कारयेत् [याज्ञवल्क्य-स्मृति २.४३, अग्नि।पु। २५३.३] इति । अयं तु
न तथा । कोऽसौ ? यः सर्व-भवेन श्री-मुकुन्दं शरणं
गतः । कर्तं कृत्यं परित्यज्य । यद् व, कर्तं भेदं
परिहृत्य । “कृती छेदने” इत्य् अस्मात् वासुदेवः सर्वम् इति [गीता
७.१९] बुद्ध्वेत्य् अर्थः ॥४१॥
कैवल्य-दीपिका : अथ कर्म-ज्ञान-मिश्रं द्वाभ्यां स्तुवन् तत्-कर्तृ-विधि-निषेधातीततां दर्शयति—देवेति । भूताप्त-नॄणाम् अवसरे प्राप्तानाम् अतिथीनाम् इत्य् अर्थः । वैश्वदेव ब्रह्म-यज्ञ भूत-बल्य्-अतिथि-पूजा-नित्य-श्राद्धाख्य पञ्च-महा-यज्ञ-करणेन4 देवादीनां नायम् अधीनः नाप्य् अकरणे ऋणी । सर्वात्मना सर्व-भूतेषु भगवद्-भाव-दर्शनेन कर्त्र्-अभेदं कृती च्छेदने इत्य् अस्य रूपम् ॥४१॥ [मु।फ। ६.२७]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां न किङ्करः, किन्तु भगवत एवेत्य् अनधिकारित्वं कर्तुं भेदम् इत्य् अर्थे, ततो देवतादीनां स्वातन्त्र्यम् इति यावत् । एवम् एवोक्तं गारुडे,
अयं देवो मुनिर् वन्द्य एष ब्रह्मा बृहस्पतिः ।
इत्य् आख्या जायते तावद् यावन् नार्चयते हरिम् ॥ इति ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तस्य नित्य-नैमित्तिक-श्राद्ध-तर्पणादि-कर्म-यन्त्रणा-राहित्यम् आह—देव-र्षि इति । देवादयः पञ्च-यज्ञ-देवता आत्मा नर-पोष्या पितृ-मातृ-भार्यादय एतेषां कर्मी यथा ऋणी अत एव तेषां किङ्करश् च तद्-अर्थं नित्यं पञ्च-यज्ञ-कर्ता, तथा च स्मृतिः—हीन-जातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् [याज्ञवल्क्य-स्मृति २.४३, अग्नि।पु। २५३.३] इति । अयं तु न तथा । कोऽसौ ? यः सर्व-भावेन श्री-मुकुन्दं शरणं गतः । यद् वा, पृथ्वी-पतिना स्व-किङ्करत्वेन गृहीतस्य जनस्य मण्डलेश्वराद्य्-अनुवर्तिर् न सम्भवेत् । कृत्यं वर्णाश्रम-विहितं कर्म त्यक्त्वा । यद् वा, कर्तं भेदं त्यक्त्वेति, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१२] इति न्यायेन विष्णु-पूजने सम्प्रवृत्ते देवर्ष्य्-आदयः साधु-पूजिता एवेति । अत एव मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते [भा।पु। ११.२०.९] इति वदता भगवता स्व-भक्तस्य कर्माधिकारो दूरीकृतः ॥४१ ॥
———————————————————————————————————————
॥ ११.५.४२ ॥
स्व-पाद-मूलं भजतः प्रियस्य
त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
विहित-कर्म-निवृत्तिम् उक्त्वा
निषेध-निमित्त-प्रायश्चित्त-निवृत्तिम् आह— स्व-पाद-मूलम् इति ।
त्यक्तोऽन्यस्मिन् देहादौ देवतान्तरे वा भावो येन,
अत एव तस्य विकर्मणि प्रवृत्तिर् न सम्भवति ।
यच् च कथञ्चित् प्रमादादिना उत्पतितं भवेत्,
तद् अपि हरिर् धुनोति ।
ननु, यमस् तन् न मन्येत ?
तत्राह—परेशः ।
ननु, “श्रुति-स्मृती ममैवाज्ञे” इति भगवद्-वचनात्
स्वाज्ञा-भङ्गं कथं सहेत ?
तत्राह—प्रियस्य ।
ननु, नायं पाप-क्षयार्थं भजते ?
तत्राह—हृदि सन्निविष्टः ।
न हि वस्तु-शक्तिर् अर्थिताम् अपेक्षते इत्य् अर्थः॥४२॥
कैवल्य-दीपिका : विध्य्-अतीतताम् उक्त्वा निषेधातीताम् आह—स्व-पाद- इति । अन्य-भावो भेद-बुद्धिः । विकर्म पापम् । उत्पतितम् अकस्माद् घटितम् । कथञ्चित् प्रमादेन । ननु निष्कामस्य भजनं, न तु पाप-क्षयाथ इत्य् अत आह--हृदि सन्निविष्ट इति । वस्तु-सामर्थ्याद् इत्य् अर्थः ॥४२॥ [मु।फ। ६.२८]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न च विकर्म-प्रायश्चित्त-रूपं कर्मान्तरं कर्तव्यं, तस्य तच्-छरणस्य विकर्म-प्रवृत्त्य्-अभावात् । कथञ्चिद् आपतितेऽपि विकर्मणि तद्-अनुस्मरणेनैव प्रायश्चित्तस्याप्य् आनुषङ्गिक-सिद्धेर् इत्य् आह—स्व-पाद-मूलम् इति । हृदि सन्निविष्टत्वे हेतुः—त्यक्तान्य-भावस्येति । त्यक्तोऽन्यत्र देवतान्तरे भावो भगवतीव भक्तिर् येन विकर्म-धूनने हेतुः हरिः स्वभावत एव सर्व-दोष-हरः परेशः शक्तितश् चेत्य् अर्थः । तत्रापि प्रियस्येत्य् आग्रहतश् चेत्य् अर्थः ॥४२॥ [भक्ति-सन्दर्भ १७३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विहित-कर्म-निवृत्तिम् उक्त्वा, निषेध-निमित्त-प्रायश्चित्त-निवृत्तिम् आह—स्व-पाद-मूलम् इति । त्यक्तोऽन्यस्मिन् देवतान्तरे भावः सेव्य-बुद्धिर् येन, तस्य विकर्मणि प्रवृत्तिर् एव न भवेत् । कथञ्चित् प्रमादादिना उत्पतितं चेत्, तद् अपि हरिर् धुनोति । ननु, विकर्मवति भृत्ये दण्डयन्त एव प्रभवो दृश्यन्त इति हरिर् एव तं दण्डयतु, न प्रियस्य भक्तस्य प्रियत्वाद् एवादण्ड्यत्वम् । परेश इति एतद् एव तस्य पारमैश्वर्यम् इति भावः । ननु, नायं पाप-क्षयार्थं भजते ? तत्राह—हृदि सन्निविष्ट इति । न हि वस्तु-शक्तिर् अर्थिताम् अपेक्षते इत्य् अर्थः॥४२॥
———————————————————————————————————————
॥ ११.५.४३-४४ ॥
श्री-नारद उवाच—
धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः ।
जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् ॥
ततोऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः ।
राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
उदकैश् च नमस्कारैः स्तुतिभिर् मनसा तथा ।
यतिभिश् चापि सम्पूज्या देवा मोक्षम् इयासुभिः ॥
मध्ये विष्णुम् अनुस्मृत्य नान्यथा तु कथञ्चन ॥ इति समयाचारे ॥
प्राधान्येन हरिर् ध्येयस् तत्-सम्बन्धात् सुरादयः ।
ध्येयानान्यं क्वचिद् ध्यायेद् धराव् अनुपयोगि यत् ॥
इति हरि-संहितायाम् ॥४३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जायन्तेयान् जयन्त्याः पुत्रान् ॥४३॥ उपातिष्ठन्न् अनुतिष्ठन् ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जायन्तेयान् जयन्त्याः पुत्रान् ॥४३॥
तथ्यः : मनु-मते,
एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
योऽध्यापयति वृत्त्य्-अर्थम् उपाध्यायः स उच्यते ॥ [मनु २.१४१] इति ।
———————————————————————————————————————
॥ ११.५.४५ ॥
त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् ।
आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निःसङ्गो भूत्वा ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तत्-प्रश्नानुरूपम् अन्य-हितान् भगवद्-धर्मान् उक्त्वा तदीय-स्व-प्रयोजनोत्तरम् आह—त्वम् अपीति । त्वम् अपि परं यास्यसे । काक्वा त्वं तु नेत्य् अर्थः, सर्वतः परस्य श्री-कृष्णस्य नित्य-प्राप्तत्वाद् इति भावः ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-वसुदेवस्य नित्य-सिद्ध-भगवत्-पितृ-भावस्यापि भगवत इव नित्य-मूर्तेर् अपि भवद्-इच्छयैव भक्ति-रसौत्कण्ठ्य-निमग्नस्य स्वस्मिन् प्राकृत-नरत्वाभिमानम् आलक्ष्य तं प्राकृत-नरम् इवोपदिदेश । भाग्य-श्लाघादिभिर् आनन्दयति—त्वम् अपीति षड्भिः । परं परमेश्वरं प्राप्स्यसि ॥४५॥
———————————————————————————————————————
॥ ११.५.४६ ॥
युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् ।
पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शास्त्र-प्रक्रियेयम् उक्ता । युवां तु सङ्गत एव कृतार्थाव् इत्य् आह—युवयोर् इति । वां युवयोः ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : किन्तु युवयोर् इति जगद् अपि पूरितं कृतार्थताम् आपितम् इत्य् अर्थः । तत्र हेतुः—प्रकट-लीलयापि यद् वां युवयोः पुत्रताम् अगात् ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.४७ ॥
दर्शनालिङ्गनालापैः शयनासन-भोजनैः ।
आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न च सर्व-कर्मार्पणादि-भागवत-धर्मैर् अन्येषाम् इव युवयोः सत्त्व-शुद्धिर् आपादनीया, पुत्रोपलालनेनैव भागवत-धर्म-सर्वस्व-निष्पत्तेः । इत्य् आह—दर्शनेति । कृष्णे पुत्र इति स्नेहं प्रकुर्वतोर् वां तस्य दर्शनादिभिर् आत्मा पावितः शोधितः॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, तथापि जय-विजयवद् ब्राह्मणापराधाद् बिभेमि । तत्राह—दर्शनेति । पावितः दोषाभासाद् अपि दूरे रक्षित इत्य् अर्थः । तत्र हेतुः—कृष्ण इति । तत्रापि पुत्र-स्नेहं प्रकुर्वतोर् इति ताभ्याम् । युवयोर् महद् एवान्तरम् इति भावः ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.५.४८ ॥
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।
ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
पौण्ड्रकादिषु दैत्येषु सुरांशाः सन्ति सर्वशः ।
बहु-मान-फलं विष्णोस् ते यान्त्य् आदाय सद्-गतिम् ॥
विद्वेषस्य फलं यत् तु तद् आदायासुरास् तमः ।
यान्त्य् अतो नैव विद्वेषो विष्णोः कार्यः कथञ्चन ॥ इति अंश-विवेकः ॥४८ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव कैमुत्य-न्यायेन स्फुटयति—वैरेणेति । यं शयनासनादौ वैरेणापि ध्यायन्तस् तस्य गति-विलासाद्यैर् आकृत-धियस् तत्-तद्-आकारा धीर् येषां ते तत्-सारूप्यम् आपुः। किं पुनर् वक्तव्यं ? अनुरक्त-धियां तत्-साम्यं भवतीति ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आस्तां युवयोर् वार्ता । श्री-कृष्णस्य सर्वोत्कृष्ट-भगवत्-स्वभावत्वात् साधारणानुरक्त-जनानाम् अपि सुतरां तत्-तुल्या गतिः किं पुनर् यदूनाम् इति तान् प्रति शोचन्तं कैमुत्येनाह—वैरेणेति ॥४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, परमेश्वरे पुत्र-बुद्धिर् एवानर्थ-कारिणी, आवयोर् अपराधोत्पादनात् । इति चेत्, मैवम् । प्रातिकूल्य-भावेन युष्मद्-आदय इत्य् आह—वैरेणेति । गति-विलासाद्यैर् या आकृतिः कृष्णस्याकारस् तन्-मात्र एव, न तु तन्-माधुर्ये धीर् येषां ते । स्वीय**-शयनासनादि**-कर्मणि ध्यायन्तः सन्तः साम्यं सारूप्यं सायुज्यं, किं पुनस् तं ततोऽप्य् अधिकं प्राप्यं स्यात्? अपराधस्य तु सम्भावनैव नास्तीति भावः ॥४८ ॥
———————————————————————————————————————
॥ ११.५.४९ ॥
मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे ।
माया-मनुष्य-भावेन गूढैश्वर्ये परेऽव्यये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु पुत्र-स्नेहश् चेन् मोक्ष-हेतुः, तर्हि सर्वे मुच्येरन् ? तत्राह—मापत्य-बुद्धिम् इति । अपत्यम् इति बुद्धिं मा कृथाः । अड्-आगमश् छान्दसः ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वत्र हेतुः—मापत्येति । अपत्य-साधारण-बुद्धिं मा कुरु, यतः कृष्णे कृषिर् भू-वाचकः इत्य्-आदि-लक्षणे, अत एव सर्वात्मनि सर्वावतारिणि, अत एवेश्वरे सर्व-वशीकर्तरि, अत एव परे, तथापि मायेति कृपा-प्रधान-मनुष्य-लीला-प्रकटनेन गूढं ज्ञातुम् अशक्यम् ऐश्वर्यं यस्य तस्मिन्, अत एवाव्यय इति ।
यद् वा, ननु तर्हि पुत्र-स्नेहं प्रकुर्वतोर् इति कथं पुत्रोचितः स्नेहः तस्मिन् श्लाघितं ? तत्राह—मेति । अपत्य-बुद्धिं मा अकृथाः, किन्तु कुरुष्वेवेत्य् अर्थः । तत्र हेतुः—कृष्ण इत्य्-आदि-लक्षणेऽपि मायेत्य् आदि-रूप इति पूर्ववत् ।*।*४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् त्वया अनुरक्त-धियैव भाव्यं, न तूदासितव्यम् इत्य् आह—मेति । सर्वात्मनीश्वरे मद्-अपत्यत्वम् आरोपितम् एव, न वस्तुतः इत्य् असम्भावनया कृष्णे या अपत्यवद् एव बुद्धिस् तां मा कृथाः । मद्-अपत्यम् एवायम् इति कृष्णे पुत्र-भावं कुर्व् इति भावः ॥४९॥
ननु मनुष्यस्य मम परमेश्वरः कथं पुत्रः स्यात् तत्राह—मायेति । त्वद्-अपत्यत्व-प्राप्त्य्-अर्थं मायया मनुष्यत्वेन गूढः गुप्तीकृतम् ऐश्वर्यं येन तस्मिन्, अतो मनुष्यस्य तव मनुष्यः कृष्णः पुत्रो भवेद् एवेति भावः । परेऽव्यये इति तद् अपि तस्य श्रेष्ठत्वम् ऐश्वर्य-व्यय-राहित्यं च भवेद् एवेति भावः । अत्र वसुदेव-प्रबोधनार्थम् एव माया-शब्दः प्रयुक्तः । वस्तुतस् तु कृष्णो मनुष्य-स्वरूपेणैव, तदापि माया-शब्दः स्वरूप-वाची ॥४९॥
———————————————————————————————————————
॥ ११.५.५० ॥
भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् ।
अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथम् ईश्वरो मानुषः स्यात् ? कथं वा तस्य विश्व-सृष्ट्य्-आदि-कर्तुः पूतना-शोषणादि-कर्माश्चर्यम् इव निरूप्यते ? तत्राह—भू-भार-रूपा असुरा एव राजन्यास् तेषां हन्तवे तान् हन्तुम् । निर्वृत्यै मोक्षाय ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृपा-प्रधानत्वम् एवाह—भू-भारेति ॥५०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भू-भार-रूपा असुरा एव ये राजन्यास् तेषां हन्तवे तान् हन्तुः सतां गुप्तये उभयेषाम् एव तेषां निर्वृत्यै सायुज्य-प्रेम-दानादिभिर् इति वैषम्य-नैर्घृण्ये पराहते ॥५०॥
———————————————————————————————————————
॥ ११.५.५१ ॥
श्री-शुक उवाच—
एतच् छ्रुत्वा महा-भागो वसुदेवोऽतिविस्मितः ।
देवकी च महा-भागा जहतुर् मोहम् आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च एतद् इति । मोहं ब्रह्म-शाप-भय-मयम् ॥५१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मोहम् असुरेभ्योऽपि कृष्णस्य मोक्ष-प्रदत्वाज्ञानं जहतुः ॥५१॥
———————————————————————————————————————
॥ ११.५.५२ ॥
इतिहासम् इमं पुण्यं धारयेद् यः समाहितः ।
स विधूयेह शमलं ब्रह्म-भूयाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इहास्मिन्न् एव देहे शमलं मोहं विधूय ब्रह्मत्वाय कल्पते ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म-भूयाय सर्व-बृहत्तमत्वाय कल्पते परम-भक्तत्वापत्तेः ॥५२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शमलम् अविद्यां विधूय । मोक्षं प्राप्नोति ॥५२॥
———————————————————————————————————————
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे पञ्चमोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
जायन्तेयोपाख्यानं नाम
पञ्चमोऽध्यायः ।
॥११.५॥
———————————————————————————————————————
(११.६)
-
आश्वालयन-कल्प-सूत्रस्य त्åतीयोऽध्यायो द्åश्यः । ह्åदयस्याग्रे इव द्यति अथ जिह्वाया अथ वचसः इत्य् अर्थ-सङ्ग्रहः । षट्-शतीनि नियुञ्जन्ते इत्य्-आदि गौडपादीय-भाष्यं, साङ्ख्य-कारिका १.४, द्रष्टव्यम्। ↩︎
-
बीजैर् यज्ञेषु यस्तव्यम् इति वै वैदिकी श्रुतिः ।
अज संज्ञानि बीजानि छागं न घ्नन्तुम् अर्हथ ॥
नैव धर्मः सतां देवा यत्र वध्येत वै पशुः ।
इदं क्åत-युगं श्रेष्ठं कथं वध्येत वै पशुः ॥ इति आलोचनात्मक-संस्करणे पाठः। ↩︎
-
पाणिनीये शेषे [पा। २.४.९२] शैषिकात् सरूपः शैषिकोऽण् इति सिद्धान्त-कौमुदी । ↩︎
-
अध्यापनं ब्रह्म-यज्ञः पितृ-यज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृ-यज्ञोऽतिथि-पूजनम् ॥
पञ्चैतान् यो महा-यज्ञान् न हापयति शक्तितः ।
स गृहेऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ [मनु। ३.७०-७१} ↩︎