॥ ११.४.१ ॥
श्री-राजोवाच—
यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः ।
चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्थे त्व् अवतारेहा प्रश्नस्योत्तरम् उक्तवान् ।
जयन्ती-नन्दनो नाम्ना द्रुमिलो नव-सप्तमः ॥
मूर्त्याभिमतयात्मानः [भा।पु। ११.३.४८] इत्य् अनेनात्मनः प्रियम् अवतारं पूजयेद् इत्य् उक्तेऽवतार-ज्ञानम् अपेक्षितं तथा स्तवैः स्तुत्वा नमेद् धरिं [भा।पु। ११.३.५३] इत्य् उक्ते गुण-कर्म-ज्ञानं चापेक्षितम् अतः पृच्छति—यानि यानीति । कर्ता करिष्यति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं शृण्वन् सुभद्राणि रथाङ्ग-पाणेः [भा।पु। ११.२.३९] इत्य् उक्तम् । तद्-अनुसारेण मूर्त्याभिमतयात्मानः [भा।पु। ११.३.४८] इति, स्तवैः स्तुत्वा [भा।पु। ११.३.५३] इति च ज्ञातुं शक्यते । ततस् तद्-अर्थम् आह—यानि यानीति ॥१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुर्थे द्रविडः प्राख्यद् अवतारान् हरेर् गुणान् ।
लीलाश् च तेषु विस्तार्य नारायणम् अवर्णयत् ॥
मूर्त्याभिमतयात्मानः [भा।पु। ११.३.४८] इति श्रुतेः भगवतः कियत्यो मूर्तय इत्य् अवतार-जिज्ञासा । तथा स्तवैः स्तुत्वा नमेद् धरिं [भा।पु। ११.३.५३] इति श्रुतेः तस्य कियन्ति गुण-चरितानि स्तव्यानीति चरितेऽपि जिज्ञासेति । अतः पृच्छति—यानि यानीति । कर्ता करिष्यति ॥१॥
———————————————————————————————————————
॥ ११.४.२ ॥
श्री-द्रुमिल उवाच—
यो वा अनन्तस्य गुणान् अनन्तान्
अनुक्रमिष्यन् स तु बाल-बुद्धिः ।
रजांसि भूमेर् गणयेत् कथञ्चित्
कालेन नैवाखिल-शक्ति-धाम्नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वया पृष्टानि काल-त्रय-संबन्धि-सकलावतार-गुण-कर्माणि कथयितुम् अशक्यानि । सङ्क्षेपतस् तु कानिचित् कथयिष्यामीत्य् आह—यो वा इत्य्-आदिना । अनुक्रमिष्यन् गणयितुम् इच्छति यः स तु बालानाम् इव बुद्धिर् यस्य स मन्द-मतिः । कालेन महता कोऽपि महा-मतिः रजांसि गणयेद् अपि । अखिल-शक्ति-धाम्नः सर्व-शक्त्य्-आश्रयस्य भगवतो गुणांस् तु नैव गणयेत् । तथा च श्रुतिः—विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि [ऋग्-वेद १.१५४.२४] इत्य्-आदि ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यावतार-गुण-कर्मणां सङ्ख्यातीतत्वात् यथा-शक्त्यैव कथयिष्यामीत्य् आह—य इति । अनुक्रमिष्यन् क्रमेण गणयितुम् इच्छतीत्य् अर्थः ॥२॥
———————————————————————————————————————
॥ ११.४.३ ॥
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदि-देवः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
विष्णोस् तु पुरुषाख्यानि त्रीणि रूपाण्य् अतो विदुः ।
प्रथमं महतः स्रष्ट्र् द्वितीयं त्व् अण्ड-संस्थितम् ।
तृतीयं देहिनां देहे तानि ज्ञात्वा विमुच्यते ॥ इति माहात्म्ये ॥३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रादौ पुरुषावतारम् आह—भूतैर् इति । यदा स्व-सृष्टैर् भूतैर् विराजं ब्रह्माण्डं पुरं निर्माय तस्मिन् लीलया प्रविष्टो, न तु भोक्तृत्वेन । प्रभूत-पुण्यस्य जीवस्य तत्र भोक्तृत्वात् ॥३॥
कैवल्य-दीपिका : पुरुष-लक्षणम् आह—भूतैर् इत्य्-आदि । आत्म-सृष्टैः आत्मना प्रकृतिम् अधिष्ठाय सृष्टैः पुरं देहं विराजं ब्रह्माण्डं विरचय्य निष्पाद्य तस्मिन् स्वांसेन जीव-कलया यदा प्रविष्टः, तदा पुरुष-संज्ञाम् अवाप पुरि-शयनाद् वसनाद् वा पुरुषः1 । अनंशेऽप्य् अंशोक्तिः कल्पनया नारायणो जल-शायी । आदि-देवो निराकारः ॥३॥ [मु।फ। १.१०]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र आमान्यतः पुरुषावतारम् आह—भूतैर् इति । आदि-देवो नारायणः श्री-भगवान् नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दितः [भा।पु। ११.१५.१६] इत्य् आदेः यदा महत्-स्रष्टृत्वेन पुरुषाभिमानम् अवाप, तदा भूतैर् विराजं विरचय्य तस्मिन् स्वांशेन प्रविष्टोऽपि पुरुषाभिधाम् अवापेत्य् अर्थः ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रादौ पुरुषावतारम् आह—भूतैर् इति द्वाभ्याम् । आदि-देवो नारायणः श्री-भगवान् यदा महत्-स्रष्टृत्वेन पुरुषाभिमानम् अवाप, तदा भूतैर् विराजं विरचय्य तस्मिन् स्वांशेनान्तर्यामितया प्रविष्टोऽभूत् ॥३॥
———————————————————————————————————————
॥ ११.४.४ ॥
यत्-काय एष भुवन-त्रय-सन्निवेशो
यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि ।
ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा
सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : यत्-काये ॥४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य गुण-कर्माण्य् आह द्वयेन—यत्-काय इति । यस्य अधिष्ठेयः काय एषः । काय इति सप्तमी वा । तनु-भृतां समष्टि-व्यष्टि-जीवानां ज्ञान-कर्मेन्द्रियाणि यस्य स्वतः स्वरूप-भूतात् सत्त्वात् तनु-भृतां ज्ञानम्, यस्य स्वतः-सिद्धं ज्ञानम् इति वा । यस्य श्वसनतः प्राणाद् बलं देह-शक्तिः, ओज इन्द्रिय-शक्तिः । ईहा क्रिया । याश् च सत्त्वादिभिर् विश्वस्य स्थिति-लयोद्भवे आदि-कर्ता ॥४॥
कैवल्य-दीपिका : पुरुष-लक्षणम् आह—भूतैर् इत्य्-आदि । आत्म-सृष्टैः आत्मना प्रकृतिम् अधिष्ठाय सृष्टैः पुरं देहं विराजं ब्रह्माण्डं विरचय्य निष्पाद्य तस्मिन् स्वांसेन जीव-कलया यदा प्रविष्टः, तदा पुरुष-संज्ञाम् अवाप पुरि-शयनाद् वसनाद् वा पुरुषः2 । अनंशेऽप्य् अंशोक्तिः कल्पनया नारायणो जल-शायी । आदि-देवो निराकारः ॥४॥ [मु।फ। १.११]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र द्वितीयं पुरुषं विवृणोति—यत्-काय इति । यच्-छब्देन ब्रह्माण्ड-प्रविष्टम् उच्यते, विष्णोस् तु त्रीणि रूपाणि इत्य्-आदेः ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य गुण-कर्माण्य् आह । यस्य महा-विष्णोः काये भुवन-त्रयाणां ऊर्ध्वाधो-मध्य-भुवन-मयानां कोटि-कोटि-ब्रह्माण्डानां प्रतिरोम-कूप-गतत्वेन सन्निवेशोऽभवत् । तनु-भृतां समष्टि-व्यष्टि-जीवानां ज्ञान-कर्मेन्द्रियाणि, यस्य स्वतः स्वांश-भावाद् अन्तर्यामित एव तनु-भृतां ज्ञानम्, यस्य श्वसनतः प्राणात् तनुभृतां बलं देह-शक्तिः, ओज इन्द्रिय-शक्तिः, ईहा क्रिया । याश् च सत्त्वादिभिः स्थिति-लयोद्भवे कर्मण्य् आदि-कर्ता ॥४॥
———————————————————————————————————————
॥ ११.४.५ ॥
आदाव् अभूच् छत-धृती रजसास्य सर्गे
विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्य् उद्भव-स्थिति-लयः सततं प्रजासु ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ब्रह्म-स्थोऽसृजद् विष्णुः स्थित्वा रुद्रे त्व् अभक्षयत् ।
पृथक् स्थित्वा जगत् पाति तद् ब्रह्माद्य्-आह्वयो हरिः ॥ इति ब्रह्माण्डे ।
रजसा तमसा च ब्रह्म-रुद्र-देह-सृष्टैः राग-क्रोध-कारणत्वाच् च ॥५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदि-कर्तेत्य् अनेन तत्-पूर्वकं कर्त्र्-अन्तरम् अपि सूचितम् । तद् दर्शयितुं गुणावतार-द्वारा चराचर-सृष्ट्य्-आदि-कर्तृत्वम् आह—आदाव् इति । यस्येत्य् अनुषङ्गः । यस्य रजसास्य जगतः सर्गे कार्ये शत-धृतिर् ब्रह्मा अभूत् । स्थितौ च विष्णुर् यस्य सत्त्वेनेति शेषः। क्रतु-पतिस् तत्-फल-दाता । द्विजातीनां तद्-धर्माणां च सेतुः पालक इत्य् अर्थः । यस्य तमसा अस्य अप्ययायरुद्रोऽभूत् । इत्य् एतैर् ब्रह्मादिभिर् निमित्त-भूतैः प्रजासुउद्भवादयो यतो भवन्ति स आद्यः पुरुष इत्य् अन्वयः ॥५॥
कैवल्य-दीपिका : एवं निराकार-पुरुषौ लक्षयित्वा ब्रह्मादि-त्रयं लक्षयति—ब्रह्मेति । स प्राग् उक्तः पुरुषः ॥ आदौ शतधृतिर् ब्रह्माभूत् । रजसा उपाधिना । सर्गे निमित्ते । स एव स्थितौ विष्णुः सत्त्वेन इत्य् अर्थ-सिद्धम् । स्थिति-कर्तृत्वं च सन्निधि-मात्रेण धर्म-प्रवृत्ति-हेतुत्वात् । तद् आह—क्रत्व् इति । क्रतुः श्रौतो धर्मः । निजः पाञ्चरात्रादिस्थः । सेतुर् विधारकः । स एव तमसा रुद्रः । अप्ययः प्रलय इति एवं-विधाः सृष्ट्य्-आदयः स्युः । सततं प्रतिदिनं प्रतिकल्पं च ब्रह्म-रुद्रयोर् अनुक्तम् अपि सत्त्वं लभ्यते । केवलयोस् तु रजस्-तमसोर् अस्वच्छत्वेन प्रतिबिम्बायोग्यत्वात् । अत एव सत्त्वेन विष्णुर् इति नोक्तम् ॥५॥ [मु।फ। १.१२]
जीव-गोस्वामी (परमात्म-सन्दर्भः ८) : एवम् एकस्य पुरुषस्य नानात्वम् उपपाद्य तस्य पुनर् अंशा विव्रियन्ते । अत्र द्विविधा अंशा स्वांशा विभिन्नांशाश् च । विभिन्नांशास् तटस्थ-शक्त्य्-आत्मका जीवा इति वक्ष्यते । स्वांशास् तु गुण-लीलाद्य्-अवतार-भेदेन विविधाः । तत्र लीलाद्य्-अवताराः प्रसङ्ग-सङ्गत्या श्री-कृष्ण-सन्दर्भे वक्ष्यते । गुणावतारा3 यथा—आदाव् इत्य्-आदि ।
स युगपत् गुण-त्रयाधिष्ठाता आद्यः पुरुषः पृथक् पृथग् अपि तत्-तद्-गुणाधिष्ठान-लीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत-धृतिर् ब्रह्माअभूत् । स्थितौ विष्णुः सत्त्वेनेति शेषः । विष्णुः सत्त्वेनेत्य् अनुक्तिस् तस्य शुद्ध-सत्त्व-रूपत्वात्, सान्निध्येनैव सत्त्व-गुणोपकारकत्वाच् च4 तस्यातिरोहित-स्वरूपतया तत्-सम्बन्धोपचारस्याप्य् उट्टङ्कनम् अयुक्तम् इत्य् अभिप्रायेण । पालन-कर्तृत्वेन क्रतु-पतिस् तत्-फल-दाता । यज्ञ-रूपस् तु लीलावतार-मध्य एव श्री-ब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानां च सेतुः पालक इत्य् अर्थः । तमसा तस्य आप्ययाय रुद्रोऽभूत् इत्य् अनेन प्रकारेण उद्भव-स्थिति-लया भवन्तीति ।
अत्र ब्रह्म-रुद्रयोर् अवतारावसरो मोक्ष-धर्मे विविक्तोऽस्ति5 । यथा—
ब्राह्मे रात्रि-क्षये प्राप्ते तस्य ह्य् अमित-तेजसः ।
प्रसादात् प्रादुरभवत् पद्मं पद्म-निभेक्षण ॥
ततो ब्रह्मा समभवत् स तस्यैव प्रसादजः ।
अह्नः क्षये ललाटाच् च ततो6 देवस्य वै तथा ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः ॥ [म।भा। १२.३२८.१५-१६]7
श्री-विष्णोस् तु तृतीये दृश्यते—
तल्-लोक-पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेद-मयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [भा।पु। ३.८.१५] इति ।
अस्यार्थः8—तल्-लोकात्मकं पद्मम् । सर्व-गुणान् जीव-भोग्यान् अर्थान् अवभासयतीति तथा। तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु-संज्ञः सन् स्थापन-रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त-शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-विष्णुना लब्ध-स्थितौ पद्मं पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत् स्थितस्यैव मृद्-आदेर् घटादितया सृष्टेः । अत एव स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञा[भा।पु। १.२.२३] इत्य् अन्यत्रापि
जीव-गोस्वामी (क्रम-सन्दर्भः)9 : तस्माद् गुणावतारम् आह—आदाव् इति । सर्गे विसर्गे विष्णुः सत्त्वेनेत्य् अनुक्तिस् तस्य शुद्ध-स्वरूपत्वात् सान्निध्येनैव सत्त्व-गुणोपकारकत्वाच् च ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुणावतारम् आह—आदाव् इति । रजसा रजो-गुणेन । सर्गे सृष्टौ कर्मणि शतधृतिर् ब्रह्मा अभूत् । स्थितौ पालने कर्मणि विष्णुः । द्विजातीनां तद्-धर्माणां सेतुः पालक इत्य् अर्थः । अप्ययाय संहारार्थम् इत्य् एवं-प्रकारेण ॥५॥
———————————————————————————————————————
॥ ११.४.६ ॥
धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां
नारायणो नर ऋषि-प्रवरः प्रशान्तः ।
नैष्कर्म्य-लक्षणम् उवाच चचार कर्म
योऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्व-विषय-ज्ञान-रूपः प्रभाव-रूपश् च ॥६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नर-नारायणावतारम् आह—धर्मस्येति । धर्मस्य भार्यायां दक्ष-दुहितरि मूर्ति-संज्ञायां नारायणो नर इति मूर्ति-द्वयेनाजनिष्ट जातः । तच् चरितम् आह—नैष्कर्म्यम् आत्म-स्वरूपं लक्ष्यते येन तत् कर्म कर्म-निर्हार-रूपं वा उवाच नारदादिभ्यः स्वयं चचार च । योऽद्यापि कर्माचरन्न् आस्ते । ऋषि-वर्यैर् निषेविताव् अङ्घ्री यस्य सः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : लीलावतारम् उपक्रमते—धर्मस्येति । नैष्कर्म-लक्षणं कर्मेति भगवद्-आराधन-लक्षणम् इत्य् अर्थः । तन्त्रं सात्वतम् आचष्ट नैष्कर्म्य-कर्मणां यतः [भा।पु। १.३.८] इति प्रथमोक्तेः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारायणो नर इति ऋषि-प्रवरः सन्न् अजनिष्ट । नैष्कर्म्य-लक्षणं कर्म उवाच चचार च ॥६॥
———————————————————————————————————————
॥ ११.४.७ ॥
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति
कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् ।
गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः
स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
ज्ञान-रूपान् अपि सुरान् विना प्राणं क्वचित् परे ।
आविशन्ति ह्य् अतस् तेषाम् अज्ञानादि न तु स्वतः ॥ इति देव-तत्त्वे ।
अथैनम् एवम् आप्नोद् योऽयं मध्यमः प्राणः । एवम् अतो देवताः पाप्माना विद्धाः तं हासुरा ऋत्वा विदध्वसुर् यथाश्मान् माखन-मृत्वा विध्वंसतैवं हैव विध्वंसमाना विश्वञ्चो विनेशुः । सा वा एषा दैवतैतासां देवतानां पाप्मानं मृत्युम् अपहता । अथैनां मृत्युम् अत्यवहत स यदा मृत्युम् अत्य मुच्यत सोऽग्न्र् अभवद् इत्य्-आदि-श्रुतिभ्यश् च ॥७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवद्-अवतारत्व-द्योतकं परमोपशमं दर्शयितुम् इतिहासम् आह—इन्द्र इति दशभिः । धाम स्थानं तपसा ग्रहीतुम् इच्छतीति विशङ्क्य तपो-नाशाय कामं स-परिवारं प्रेषयाम् आस । स कामो बदरीभिर् उपाख्यायते । यस् तं तस्याश्रमम् अप्सरो-गणादिभिः सह गत्वा स्त्रीणां प्रेक्षणान्य् एव इषवो बाणाः, तैः। न तस्य महि महिमानं जानातीत्य् अतन्-महि-ज्ञः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स कामः बदर्य्-उपाख्यम् अप्सरो-गणादिभिः सह बदरिकाश्रमं गत्वा स्त्री-प्रेक्षणान्य् एव इषवो बाणास् तैर् अविध्यत्, न तस्य महिमानं जानातीत्य् अतन्-महिज्ञः॥७॥
———————————————————————————————————————
॥ ११.४.८ ॥
विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः
प्राह प्रहस्य गत-विस्मय एजमानान् ।
मा भैर् विभो मदन मारुत देव-वध्वो
गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्रमम् अपराधम् । अहो ! अहं धीर इति विस्मयो गर्वस् तद्-रहितः । एजमानान् शाप-भिया कम्पमानान् । भो विभो समर्थ ! देव-वध्वः मा भैष्ट । बलिम् आतिथ्यं तान् प्रार्थयते । इमम् अस्माकम् आश्रमम् । आतिथ्याभावे शून्य-प्रायः स्याद् इत्य् अर्थः ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्रमम् अपराधम् । गत-विस्मयः । अहो ! अहं धीर इति विशिष्टः स्मयो गर्वस् तद्-रहित इत्य् अर्थः । एजमानान् शाप-भिया कम्पमानान् । भो विभो समर्थ ! हे देव-वध्वश् च ! मा भैष्ट । बलिं पूजोपहारं शाक-पत्रादिकम् अस्मद्-आतिथ्यं गृह्णीत । वयं सम्पन्ना एव भवेमेति चेत् इमम् आश्रमं शून्य-तुल्यः स्याद् इति भावः ॥८॥
———————————————————————————————————————
॥ ११.४.९ ॥
इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः
स-व्रीड-नम्र-शिरसः स-घृणं तं ऊचुः ।
नैतद् विभो त्वयि परिऽविकृते विचित्रं
स्वाराम-धीर-निकरानत-पाद-पद्मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे नर-देव ! अभय-दे श्री-नारायणे इत्थं ब्रुवति सति, देवाः कामादयः स-व्रीडानि नम्राणि शिरांसि येषां ते । लज्जा-भरेणैवावनत-शिरस्का इत्य् अर्थः । स-घृणं यथा भवति, तथा कृपां जनयन्त इत्य् अर्थः । कृपा-युक्तं तम् इति वा मायातः परे अतोऽविकृते स्वारामाश् च ते धीराश् च ते । तेषां निकरैर् आनतं पाद-पद्मं यस्य तस्मिन् । त्वय्य् एतद् अक्षोभानुकम्पादि न विचित्रम् ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे नर-देव ! अभय-दे श्री-नारायणे इत्थं ब्रुवति सति । देवाः कामादयः । परे परमे निर्विकारे । स्वारामाः एणरामाः ॥९॥
———————————————————————————————————————
॥ ११.४.१० ॥
त्वां सेवतां सुर-कृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान्
धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : स्व-भागं बलिं ददतो विघ्न-मूर्ध्नि यदि भवान् पदं धत्ते, तर्हि नान्यस्य बलिः ॥१०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्माकं चापराधाचरणं स्वभावत्वान् न चित्रम् इत्य् आहुः—त्वाम् इति । त्वां सेवतां सेवमानानां सुरैर् इन्द्रादिभिः कृता अन्तराया विघ्ना भवन्ति । कस्मात् ? इत्य् अत आहुः—स्वौक इति । स्व-स्थानं स्वर्गम् अतिक्रम्य परमं तव स्थानं व्रजताम् । नान्यस्य त्वाम् असेवमानस्य । कुतः ? बर्हिषि यज्ञे स्व-भागान् पुरोडाशादीन् बलीन् करान् कृषिक इव राज्ञे इन्द्रादिभ्यो ददतः प्रयच्छतः । तर्हि किं मद्-भक्तो विघ्नैर् भ्रश्यति? नेत्य् आहुः—धत्ते इति । यदि इति निश्चये । यतस् त्वं सर्व-सुराधीश्वरोऽविता रक्षकोऽतोऽसौ विघ्नानां मूर्ध्नि पदम् अङ्घ्रिं धत्ते । कुतः पुनस् त्वयि विघ्न-शङ्का? इति भावः॥१०॥
जीव-गोस्वामी (भक्ति-सन्दर्भ ६४) : तत्र च यज्ञे स्व-भागान् ददतः सुर-कृता विघ्ना न भवन्ति । त्वां सेवमानानां तु मात्सर्येण तत्-कृतास् ते भवन्ति, किन्तु यदि इति निश्चये यदि वेदाः प्रमाणम् इतिवन् निश्चितम् एव, त्वं तेषाम् अविता इति । त्वां सेवमानो विघ्न-मूर्ध्नि पदं च धत्ते प्रत्युत तम् एव सोपानम् इव कृत्वा व्रजतीत्य् अर्थः । तद् एवं श्रुत्वा संसार एव तिष्ठतां यत् पर्यवसानं भवेत्, तत् पृष्टं भगवन्तम् [११.५.१] इत्य्-आदिना ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-भक्ता अपि त्वत्-प्रसादाद् अस्मान् न गणयन्ति, कुतः पुनस् त्वं गणयिष्यसि ? इत्य् आहुः—त्वां सेवमानानां जनानां सुरैर् इन्द्रादिभिः कृता अन्तराया अस्मद्-आदयो विघ्ना बहवो भवन्ति । इन्द्राद्यैर् विघ्नाः कथं क्रियन्ते ? अत्राहुः—स्वौक इति । स्व-स्थानं स्वर्गम् अतिक्रम्य परमं तव स्थानं व्रजताम् । विघ्न-करणं खलु मात्सर्य-हेतुकम् एवेति भावः । नान्यस्य कर्मि-प्रभृतेः । कुतः ? बर्हिषि यज्ञे बलीन् पुरोडाशादीन् तत्-तद्-भागान् इन्द्रादिभ्यः करान् राज्ञे कर्मकस्येव ददतः ।
तर्हि मद्-भक्तो विघ्नैर् भ्रश्यति? नेत्य् आहुः—धत्ते इति । यदि इति निश्चये । यतस् त्वं सर्व-सुराधीश्वरोऽविता रक्षकः । अतोऽसौ विघ्नानां मूर्ध्नि पदम् अङ्घ्रिं धत्ते । कुतः पुनस् त्वयि विघ्न-शङ्का ? इति भावः॥१०॥
———————————————————————————————————————
॥ ११.४.११ ॥
क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान्
अस्मान् अपार-जलधीन् अतितीर्य केचित् ।
क्रोधस्य यान्ति विफलस्य वशं पदे गोर्
मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद्-अभक्तानां तु केवलं तपश्-चरतां द्वयी गतिः । अस्माकं वा वशं यान्ति क्रोधस्य वा । तत्रास्मद्-वशाः कामोपभोगम् अपि तावद् अनुभवन्ति । क्रोधस्य वशाः पुनर् अतिमन्दा इत्य् आहुः—क्षुत्-तृड् इति । क्षुच् च तृट् च त्रि-काल-गुणाच् च शीतोष्ण-वर्षाणि च मारुतश् च प्राणो बाह्यो वा, जैह्व्या जिह्वा-भोगाश् च, शैश्न्या गुह्योपभोगाश् च, एतान् अस्मान् अपार-जलधि-रूपान् अतितीर्य विलङ्घ्य गोष्पदे मज्जन्ति । कुतः ? यतः क्रोधस्य विफलस्य वशं यान्ति गच्छन्ति । किं च, जले मज्जन्तो यथा विवशाः सन्तो मस्तकारोपितं भारम् उत्सृजन्ति, तथा वृथैव न मोक्षाय न च भोगाय शापादिना दुश्चरं तप उत्सृजन्ति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रोधस्य गोष्पदत्वं स्व-विषय-घात-मात्रेण विच्छिन्नत्वात्, न तु जैह्वादिवद् अविछिन्नत्वम् इति ॥११॥10
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वद्-भक्ति-विमुखानां तपश्-चरतां द्वयी गतिः । अस्माकं वा वशीभवन्ति क्रोधस्य वा । तत्रास्मद्-वशाः कामोपभोगम् अपि तावद् अनुभवन्ति, क्रोधस्य वशाः पुनर् अतिमन्दा इत्य् आहुः—क्षुत्-तृड् इति । क्षुच् च तृट् च त्रि-काल-गुणाच् च शीतोष्ण-वर्षाणि च। मारुतस् त्वग्-इन्द्रिय-भोग्यो मलयानिलश् च, जैह्वो जिह्वा-भोग्यश् च, शैश्नः शिश्न-भोग्यश् च, एतान् अस्मान् अपार-जलधि-रूपान् अतितीर्य विलङ्घ्य गोष्पदे मज्जन्ति । किं च, जले मज्जन्तो यथा विवशी-भूय मस्तकारोपितं धन-भारम् उत्सृजन्ति, तथा वृथा न मोक्षाय, न भोगाय, शापादिना दुश्चरं तपश् च विसृजन्ति ॥११॥
———————————————————————————————————————
॥ ११.४.१२ ॥
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुत-दर्शनाः ।
दर्शयाम् आस शुश्रूषां स्वर्चिताः कुर्वतीर् विभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्त्रियो योग-निर्मिताः स्त्रीः शुश्रूषां कुर्वतीः स्व्-अर्चिताः सुष्ठ्व्-अलङ्कृतास् तेषां स्व-लावण्यादि-दर्पोपशमाय दर्शयाम् आस ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रगृणतां स्तुवतस् तान् अनादृत्य स्त्रियो योग-निर्मिताः स्त्रीः शुश्रूषां स्व-सेवां कुर्वतीर् इव प्राकृतीर् इत्य् अर्थः । तेषां स्व-लावण्यादि-दर्पोपशमाय दर्शयामास ॥१२॥
———————————————————————————————————————
॥ ११.४.१३ ॥
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः ।
गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रूपिणी मूर्ति-मती श्रीर् इव ताः स्त्रियः स्त्रीर् दृष्ट्वा । तासां तु रूपस्यौदार्येण महत्त्वेन हता श्रीः कान्तिर् येषां ते ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.४.१४ ॥
तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव ।
आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वृङ्ध्वं वृणीध्वम् । क्व वयं वराकाः ? क्व चेमाः ? इति चेत् तत्राह—स-वर्णां समान-रूपाम् । नैकाप्य् अस्मद् अनुरूपेति चेत्, मा भवतु । तथापि स्वर्गस्य भूषण-रूपाम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां पराभव-दर्शनेन प्रहसन् इवेत्य् अतिगाम्भीर्येण प्रहास-रोधो व्यञ्जितः । वृङ्ध्वं वृणीध्वम् । क्व वयं वराकाः ? क्व चेमाः ? इति चेत्, तत्राह—स-वर्णां समान-वर्णां स्व-तुल्याम् एतासां विभावि-रूपां प्राकृतीम् अपि काञ्चिद् इत्य् अर्थः । तयापि स्वर्गस्य भूषण-रूपाम् ॥१४॥
———————————————————————————————————————
॥ ११.४.१५ ॥
ॐ इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः ।
उर्वशीम् अप्सरः-श्रेष्ठां पुरस्-कृत्य दिवं ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुर-वन्दिनो देव-भृत्याः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आदेशम् आदाय आज्ञां गृहीत्वा, सुर-वन्दिनो देव-भृत्याः ॥१५॥
———————————————————————————————————————
॥ ११.४.१६ ॥
इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् ।
ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्राय इन्द्रं प्रति नारायण-बलं ऊचुः । शक्रस् तत्रास त्रासं प्राप्तो विस्मितश् च । तत्र विस्मित आसेति वा ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रास अहो मया अपराद्धम् इति त्रासं प्राप्तः ॥१६॥
———————————————————————————————————————
॥ ११.४.१७ ॥
हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं
दत्तः कुमार ऋषभो भगवान् पिता नः ।
विष्णुः शिवाय जगतां कलयावतीर्णस्
तेनाहृता मधु-भिदा श्रुतयो हयास्ये ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
कुमार-नामा तु हरिर् ब्रह्मचारि-वपुः स्वयम् ।
सनत्-कुमाराय परं प्रोवाच जगदीश्वरः ॥ इति स्कान्दे ।
विष्णोः सनत्-कुमाराख्याच् छुश्रुवुर् ज्ञानम् उत्तमम् ।
सनत्-कुमार-प्रमुखा योगेशाः परमेश्वराः ॥ इति प्रकाश-संहितायाम् ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यान् अप्य् अवतारांस् तच् चरितानि चाह—हंस-स्वरूपीति । दत्तो दत्तात्रेयः । कुमारः सनकादिः । नः पिता ऋषभश् च । विष्णुर् एव कलयावतीर्णः सन्न् आत्म-योगम् अवदत्। तेन विष्णुना हयास्ये हयग्रीवावतारे मधु-भिदा सता ततः श्रुतय आहृताः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हंस-स्वरूपी हंसाकारः । दत्तो दत्तात्रेयः । कुमारः । नः पिता ऋषभश् च । विष्णुर् एव कलयावतीर्णः सन्न् आत्म-योगम् अवदत् । तेन हयास्ये हयग्रीवावतारे मधु-भिदा सता ततः श्रुतय आहृताः ॥१७॥
———————————————————————————————————————
॥ ११.४.१८ ॥
गुप्तोऽप्यये मनुर् इलौषधयश् च मात्स्ये
क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् ।
कौर्मे धृतोऽद्रिर् अमृतोन्मथने स्व-पृष्ठे
ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इला पृथ्वी । ओषधयश् च गुप्ताः । क्रौडे च वाराहावतारे । ग्राहाद् गजेन्द्रम् अमुञ्चन् मोचयामास । एवम् आदौ यत्रावतार-नाम नास्ति, तत्र विष्णुः शिवाय जगतां कलयावतीर्ण इत्य् अनुवर्तनीयम् ॥१८॥
कैवल्य-दीपिका : ग्राहाद् इति । प्रपन्नं शरणागतम् । संस्तुन्वतः संस्तुवतः । अब्धि-पतितान् कश्यपस्य समिद्-आहरणे गोष्पदे मग्नान् । श्रमणात् ऊर्ध्व-रेतसो बालखिल्यान् । अपिहिता अवरुद्धाः ॥१८॥ [मु।फ। ३.१८]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्यये प्रलये । मनुः सत्यव्रतः । इला पृथ्वी । ओषधयश् च गुप्ताः । क्रौडे च वाराहावतारे । इभराजं गजेन्द्रम् अमुञ्चन् मोचयामास ॥१८॥
———————————————————————————————————————
॥ ११.४.१९ ॥
संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च
शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् ।
देव-स्त्रियोऽसुर-गृहे पिहिता अनाथा
जघ्नेऽसुरेन्द्रम् अभयाय सतां नृसिंहे ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सुपर्णा ऋषयो व्यासं नाथमाना ययुः सदा ।
ध्वान्तं निवारयास्माकं मुमुग्धीति च वादिनः ॥ इति व्यास-तन्त्रे ।
स्मरणात् तु नृसिंहस्य शक्रो मुक्तो बृहद्-वधात् ।
हिरण्यक-हृताश् चापि तथैवाप्सरसां गणाः ॥ इति प्रभञ्जने ॥१९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संस्तुन्वतः स्तुतिं कुर्वाणान् ऋषीन् वालखिल्यान् कश्यापार्थं समिधाहरणे गोष्पदे निमग्नान् इन्द्रेणोपहसितान् उद्धृत्यापदोऽमोचयत् । तमसि ब्रह्म-हत्यायां प्रविष्टं मोचयाम् आस । असुर-गृहे पिहिता निरुद्धा या देव-स्त्रियस् ताश् चामुञ्चद् अनेकावतारैः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संस्तुन्वतः संस्तुवतः ऋषीन् वालखिल्यान् कश्यापार्थं समिधाहरणे गोष्पदे निमग्नान् इन्द्रेणोपहसितान् उत्थाप्यामोचयत् । शक्रं च तमसि ब्रह्म-हत्यायां प्रविष्टम् अमोचयत् । पिहिता निरुद्धा देव-स्त्रियश् चामोचयत् अनेकावतारैर् इति शेषः ॥१९॥
———————————————————————————————————————
॥ ११.४.२० ॥
देवासुरे युधि च दैत्य-पतीन् सुरार्थे
हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः ।
भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां
याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
उपेन्द्र-रूपी भगवान् प्रति मन्वन्तरं प्रभुः ।
असुरान् हन्ति नियतं श्राद्धदेवे च वामनः ॥ इति वामने ॥२०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तरेषु सर्व-मन्वन्तरेषु कलाभिर् मूर्तिभिर् भुवनान्य् अदधाद् अपालयत् । इमां क्ष्मां समदाद् ददौ ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तरेषु सर्व-मन्वन्तरेषु अदधाद् अपालयत् । कलाभिर् मन्वन्त्रवतारैः॥२०॥
———————————————————————————————————————
॥ ११.४.२१ ॥
निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो
रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः ।
सोऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं
सीता-पतिर् जयति लोक-मल-घ्न-कीर्तिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हैहयानां कुलस्य अप्ययाय भार्गव-रूपेऽग्निः । स रामो दाशरथिः सन् स-लङ्कं लङ्कायां स्थितम् । स च जयति । वर्तमान-कालीनोऽवतार इत्य् अर्थः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सलङ्कम् इति । लङ्का-स्थित-तद्-गण-सहितम् इत्य् अर्थः । जयतीति जयति जननिवासः [भा।पु। १०.९०.४८] इतिवत् ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सलङ्कं लङ्का-स्थ-सर्व-वीर-सहितम् इत्य् अर्थः । जयतीति । कथाया अस्यास् तत्-काल-भवत्वात् तस्मिन्न् आदर-विशेषो व्यक्तः ॥२१॥
———————————————————————————————————————
॥ ११.४.२२ ॥
भूमेर् भरावतरणाय यदुष्व् अजन्मा
जातः करिष्यति सुरैर् अपि दुष्कराणि ।
वादैर् विमोहयति यज्ञ-कृतोऽतद्-अर्हान्
शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भाविनं राम-कृष्णावतारम् आह—भूमेर् इति । बुद्धावतारम् आह—वदैर् इति । अतद् अर्हान् यज्ञान् अर्हान् दैत्यान् विमोहयिष्यति । कल्क्य्-अवतारम् आह—शूद्रान् इति । न्यहनिष्यन् निहनिष्यति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शूद्रानित्य् उभयत्रान्वयः । पूर्वत्र उग्राख्यान् परत्र म्लेच्छानित्य् अर्थः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विमोहयति विमोहयिष्यति बुद्धः । न्यहनिष्यत् निहनिष्यति कल्किः ॥२२॥
———————————————————————————————————————
॥ ११.४.२३ ॥
एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः ।
भूरीणि भूरि-यशसो वर्णितानि महा-भुज ॥
न कतमेन व्याखातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे
निमि-जायतेयोपाख्याने
चतुर्थोऽध्यायः ।
॥११.४॥
(११.५)
-
पुरिस्थल-शरीरे शेते इति पुरुषः । तत्त्व-कौमुदी । ↩︎
-
पुरिस्थल-शरीरे शेते इति पुरुषः । तत्त्व-कौमुदी । ↩︎
-
तत्र द्वितीय-पुरुषस्य गुणावतारा (ख, च, छ)। तस्य गुणावतारान् आह (क्रम-सन्दर्भ) ↩︎
-
एष एव क्रम-सन्दर्भ-पाठः । अत्र परमात्म-सन्दर्भे “तत्र साक्षाद् गुणानुक्तिश् च॥।” इति पाठ्यते। ↩︎
-
विवृत्तो\ऽस्ति (यादवपूर) ↩︎
-
सुत इति क्वचित् पाठः। ↩︎
-
१२.३४१.१६-१८ वुल्गते। ↩︎
-
अस्यार्थस् तत्रैव दर्शितः ॥ ↩︎
-
थेरे अप्पेअर् तो बे त्wओ क्रम-सन्दर्भ एदितिओन्स्, ओने च्लोसेर् तो परमात्म-सन्दर्भ। थे ओथेर् वेर्सिओन् wइल्ल् बे चोम्परेद् तो थे परमत्म-सन्दर्भ रेअदिन्ग्। ↩︎
-
क्रोधस्य गोष्पदत्वं स्व-विषयस्य स्व-लक्ष्यीभूत-पात्रस्य घातन-मात्रेण विच्छिन्नत्वात् नष्टत्वात् खण्डितत्वात् विभक्तत्वाद् वा, न तु जैह्व्यादिवत् लोभ-कामवत् अविच्छिन्नत्वम् अविविक्तत्वं परस्पर-संयोग-संमिश्रणेन स्थितत्वम् इति । अस्यानुरूपाभिप्रायके पद्ये—७.१५.२०, ११.८.२१। ↩︎