———————————————————————————————————————
॥ ११.३.१ ॥
श्री-राजोवाच—
परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् ।
मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
माया-तत्-तरण-ब्रह्म-कर्म-प्रश्न-चतुष्टये ।
तृतीये तूत्तरं दत्तम् आर्षभैर् मुनिभिः पृथक् ॥
विष्णोर् मायाम् इदं पश्यन्न् इत्य् उक्त-मतो मायां पृच्छति—परस्येति । हे भगवन्तः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
माया-तत्-तरणाधीश-लिङ्ग-कर्माणि पृच्छते ।
राज्ञे प्रत्युत्तराण्य् एषां तृतीये ददुर् आर्षभः ॥
विष्णोर् मायाम् इदं पश्यन्न् इत्य् उक्तम् अतो मायां पृच्छति । परस्येति ॥१॥
———————————————————————————————————————
॥ ११.३.२ ॥
नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् ।
संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननूक्त-लक्षणो भागवतो भूत्वा कृतार्थः स्याः, किं बहु-प्रश्नैर् अत आह—नानुतृप्य इति । संसार-तापैर् नितरां तप्तोऽहं तस्य तापस्य भेषजं हरि-कथामृत-रूपं युष्मद्-वचो जुषमाणो नानुतृप्यामि ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हरि-कथामृतम् इति तत्-स्वभावत्वान् माया-वर्णनेऽपि तत्-प्रधानम् एव तव वचो भवेद् इति भावः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नानुतृप्ये इति । युष्मत्-सङ्गार्थिनो मे युष्मद्-वचोऽमृत-पान-लोभय्स दुर्वारत्वम् एव प्रश्ने कारणं ज्ञेयम् इति भावः ॥२॥
———————————————————————————————————————
॥ ११.३.३ ॥
श्री-अन्तरीक्ष उवाच—
एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज ।
ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : आत्म-प्रसिद्धये भूतानां भगवज्-ज्ञानार्थम् ॥३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मायायाः स्वरूपतो निरूपणासम्भवात् सृष्ट्य्-आदि-कार्य-द्वारेण निरूपयितुम् आह—एभिर् इति । आद्यः पुरुषो यया शक्त्या भूतानाम् आत्मा कारण-भूत एभिः स्व-सृष्टैर् महा-भूतैरुच्चावचानि भूतानि ससर्ज । एषा माया भगवत [भा।पु। ११.३.१७] इति चरम-श्लोक-पादस्य प्रतिश्लोकम् अनुषङ्गः । किम्-अर्थं ससर्ज ? स्व-मात्रात्म-प्रसिद्धये, स्वं मिमीते प्रमिमीते उपास्ते यः स स्व-माता, तस्य आत्मनो जीवस्य प्रकृष्टायै सिद्धये ।
यद् वा, स्वांश-भूतानां जीवानां मात्रा-प्रसिद्धये विषय-भोगाय आत्म-प्रसिद्धये मोक्षाय चेत्य् अर्थः। तद् उक्तं वेद-स्तुतौ—
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः । > मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ [भा।पु। > १०.८७.२] इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र एषा माया भगवतः [भा।पु। ११.३.१७] इत्य् उत्तरयिष्यमाणस्य सोपानम् आह—एभिर् इत्य्-आदि । एभिर् महद्-आदिभिः क्रमेण सृष्टौ । स्व-मात्रा इत्य् अस्य टीकायाम्—भक्तार्थ एव सृष्टौ मुख्यः प्रयत्न इति प्रथमार्थे दर्शितम् । एतद् एव च वास्तवम्, प्रयत्नान्तरस्यानुषङ्गिकत्वात् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-कार्याणां सृष्टि-स्थिति-संहाराणां निरूपणेनैव गुणा निरूपिताः स्युः । गुणैश् च निरूपितैः स्वत एव गुण-त्र्यी माया निरूपिता स्याद् इत्य् अभिप्रायेणाह—एभिर् इति । भूतात्मा परमेश्वरः उच्चावचानि भूतानि देव-तिर्यग्-आदीनि ससर्ज । किम्-अर्थं ? स्व-मात्रात्म-प्रसिद्धये स्वीयानां जीवानां मात्राणां विषय-प्राप्तीनाम् आत्मनः स्व-प्राप्तेश् च या प्रकृष्टा सिद्धिस् तद्-अर्थम् । यद् उक्तं वेद-स्तुतौ—
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः । > मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ [भा।पु। > १०.८७.२] इति ॥३॥
———————————————————————————————————————
॥ ११.३.४ ॥
एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः ।
एकधा दशधात्मानं विभजन् जुषते गुणान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं जीवोपकरणार्थं पञ्च-धातुभिर् महा-भूतैः सृष्टानि भूतान्य् अन्तर्यामि-रूपेण प्रविष्ट एकधा मनसा दशधा बाह्येन्द्रिय-रूपेणात्मानं विभजन् गुणांस् तत्-तद्-विषयान् जुषते जोषयतीत्य् अर्थः । यद् वा, तम् आत्मानं प्रति गुणान् विभजन् जुषते प्रीयत इत्य् अर्थः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव जुषते गुणान् इति ।
गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः । > न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ॥ [भा।पु। > ११.२०.३६]
इत्य्-आदि-न्यायेन तादृश-भक्तानां स्व-प्रेम-तद्-विलास-रूपाण्य् एव प्रीत्या सेवत इत्य् अर्थः॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सृष्टिम् उक्त्वा स्थितिम् आह—एवम् इति त्रिभिः । पञ्च-धातुभिर् महा-भूतैः सृष्टानि भूतान्य् अन्तर्यामितया प्रविष्टः सन् एकधा मनसा, दशधा बाह्येन्द्रिय-रूपेण, आत्मानं विभजन्, गुणान् तत्-तद्-विषयान् जुषते जीवं जोषयते भोजयतीत्य् अर्थः ॥४॥
———————————————————————————————————————
॥ ११.३.५ ॥
गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः ।
मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : एवं गुणान् भुञ्जानो भगवान् । तं सृष्टं मन्यमानो जीव इह सज्जते ।
शरीरे दोष-हानेन गुण-भोक्तारम् ईश्वरम् । > शरीरस्थतया जीवं मन्यमानः पतत्य् अधः ॥ > तत्-सृष्टा हि सदा जीवा देहादेर् जनिमत्त्वतः । > नित्यानन्दैक-देहोऽसौ विष्णुस् तत्त्वैक-तानयोः ॥ इति च > ॥४-५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स च जीव आत्मनान्तर्यामिणा प्रद्योतितैर् गुणैर् इन्द्रियैर् गुणान् विषयान् भुञ्जान इदं सृष्टं शरीरम् आत्मानं मन्यमान इह शरीरादौ सज्जते । अत एव संसरतीति भावः॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स तु जीवः प्रभुः प्रभ्व्-अंशत्वाद् यत्-किञ्चिज्-ज्ञानादि-शक्ति-युक्तोऽपीत्य् अर्थः । तत्र कारणं तु भयं द्वितीयाभिनिवेशतः [भा।पु। ११.२.३७] इत्य् आदाव् एव दर्शितम् । यद् वा, स आद्यः पुरुषः आत्मना प्रकाशितैर् गुणैः कारुण्यादिभिर् हेतुभिर् उदितान् गुणान् भक्त-प्रेम-तद्-विलासान् भुञ्जान आस्वादयन् इदं सृष्टं भक्त-शरीरम् आत्मानम् आत्म-देहम् एव मन्यमान इह भक्त-शरीरे सज्जते, साधवो हृदयं मह्यं [भा।पु। ९.४.६८] इत्य् आदेः ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स च जीव आत्मना अन्तर्यामिना प्रद्योतितैर् गुणैर् इन्द्रियैर् गुणान् विषयान् भुञ्जान इदं सृष्टं शरीरम् आत्मानं मन्यमान इह शरीरादौ सज्जते, प्रभुः प्रकर्षेण देव-तिर्यग्-आदिषु भवतीति सः ॥५॥
———————————————————————————————————————
॥ ११.३.६ ॥
कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् ।
तत्-तत्-कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भुञ्जानः कथं सज्जते ? भुञ्जानो भोग-समाप्तौ मुच्यत इति चेत् तत्राह—कर्माणीति । कर्मभिः कर्मेन्द्रियैश् च स-निमित्तानि स-वासनानि कर्माणि कुर्वंस् तत्-तत्-पूर्व-कर्म-फलं च गृह्णन्न् अयं देह-भृद् भ्रमतीह संसारे, न तु मुच्यते । कथं-भूतं कर्म-फलम् । सुखेतरं सुख-दुःखात्मकम् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : साधारण-जीवानां गतिम् आह—कर्माणीति ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च संसरतीत्य् आह—कर्मभिः कर्मेन्द्रियैः सनिमित्तानि सवासनानि कर्माणि कुर्वन् सुखेतरं सुख-दुःखात्मकं कर्म-फलं प्राप्नुवन् रमते इति नारक-योनाव् अपि रमण-दर्शनात् ॥६॥
———————————————————————————————————————
॥ ११.३.७ ॥
इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् ।
आ-भूत-सम्प्लवात् सर्ग-प्रलयाव् अश्नुतेऽवशः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
आभूत-सम्प्लवाज् जन्म जीवेशत्वं विजानतः ।
ततः पतत्य् अधो यस्माद् उत्थणं नैव तु क्वचित् ॥ इति च > ॥७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कियन्तं कालं भ्रमति तद् आह**—**इत्थम् इति । बहून्य् अभद्राणि वहन्तीति तथा ताः सर्ग-प्रलयाव् उत्पत्ति-मरणे ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानाम् उद्भूत-वस्तूनां सम्प्लवः प्रलयस् तत्-पर्यास्तम् ॥७॥
———————————————————————————————————————
॥ ११.३.८ ॥
धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् ।
अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : कालाख्यः कलनाद् विष्णुर् व्यक्तम् अव्यक्तगं नयम् इति च ॥८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं मायामयीं सृष्टिम् उक्त्वा प्रलयं दर्शयितुम् आरभते । धातूनां महा-भूतानाम् उपप्लवे नाश-हेताव् आसन्ने व्यक्तं कार्यं द्रव्यं स्थूलं गुणः सूक्ष्मं तद्-आत्मकम् अव्यक्तायाव्यक्तं प्रति नेतुम् आकर्षति ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संहारम् आह—सार्धैर् अष्टभिः । धातूनां महा-भूतानाम् उपप्लवे नाश-हेतौ प्रलये आसन्ने सति व्यक्तं कार्यं द्रव्य-गुणात्मकं द्रव्यं स्थूलं गुणः सूक्ष्मं तद्-आत्मकम् अव्यक्ताय अव्यक्तं कारणं प्रति नेतुम् आकर्षति ॥८॥
———————————————————————————————————————
॥ ११.३.९ ॥
शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि ।
तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाश-हेतून् आह—शत-वर्षेति । तस्मिन् काले उपचितश् चासाव् उष्णश् चासाव् अर्कश् च । यद् वा, तेन कालेनोपचितम् उष्णत्वं यस्य सः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपचितः प्रवृद्धः । उष्णोऽत्युष्णः ॥९॥
———————————————————————————————————————
॥ ११.३.१० ॥
पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः ।
दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊर्ध्व-शिख ऊर्ध्व-ज्वालः । विष्वक्-परितः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
———————————————————————————————————————
॥ ११.३.११ ॥
संवर्तको मेघ-गणो वर्षति स्म शतं समाः ।
धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विराट् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सांवर्तकः प्रलय-कर्ता । धाराभिर् न तु बिन्दुभिः । हस्ति-हस्ताभिस् तत्-प्रमाणाभिः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : संवर्तस् तद्-अग्नि-धूमाभ्यां सूर्याकृष्टा-रसेन च जातः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : संवर्तकः प्रलय-कर्ता । हस्ति-शुण्ड-प्रमाणाभिः ॥११॥
———————————————————————————————————————
॥ ११.३.१२ ॥
ततो विराजम् उत्सृज्य वैराजः पुरुषो नृप ।
अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अव्यक्तं विशतीत्य् उक्त्वा तस्य विस्तरो वायुना हृत-गन्धेत्य् आदि ।
सङ्क्षेप-विस्तराभ्यां तु कथयन्ति मनीषिणः । > बहु-वार-स्मृतेस् तस्य फल-बाहुल्य-कारणात् ॥ इति शब्द-निर्णये > ॥१२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत उपाधि-लयाद् वैराजः पुरुषोऽव्यक्तं कारणं प्रविशति । ननु
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । > परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मृतेर्,
यावद् अधिकारम् अवस्थितिर् अधिकारिणाम् इति न्यायाच् च वैराजशब्दाभिधेयस्य च ब्रह्मणः परम-भागवतत्वान् मोक्ष एव सङ्गच्छते नान्येषाम् इव कारण-मात्र-प्रवेशः, सत्यम् । अश्वमेधादिना स्वर्ग-लोकं गतानाम् अप्य् अभक्तानाम् आवृत्ति-श्रवणाद् अभक्तत्वे च ब्रह्मणोऽपि प्रकृतौ लयः पुनर् उत्पत्तिश् चेति मोक्ष-दौर्लभ्य-सूचनायैवम् इत्य् अविरोधः । यद् वा, केनापि प्रमाणेन न व्यज्यत इत्य् अव्यक्तं ब्रह्मैव तत्-प्रवेशेन च मोक्ष एवोक्त इति द्रष्टव्यम् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत इति पूर्वं तु व्यष्टि-जीवानाम् अपि वैराज एव लयो ज्ञेयः । वैराजोऽत्र समष्टि-जीवः ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चोपाधि-लयाद् वैराजः समष्टि-जीवो ब्रह्मा, व्यष्टि-जीवानां तु वैराज एव पूर्वं लयो ज्ञेयः । अव्यक्तं प्रकृतिम् । अत्र ब्रह्मणोऽपि कर्मि-ज्ञानि-भक्तत्वेन त्रैविध्यात् कस्यचित् पुनर् आवृत्तिः, कस्यचिन् मुक्तिः, कस्यचित् प्रेमवत्-पार्षदत्व-प्राप्तिश् चेति द्रष्टव्यम् । आ-ब्रह्म-भुवना लोकाः पुनर् आवर्तिनोऽर्जुन [गीता ८.१०] इति विपर्ययश् च भवति । ब्रह्मत्व-स्थावरत्वयोर् इति ।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । > परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इत्य्-आदि वचनेभ्यः > ॥१२॥
———————————————————————————————————————
॥ ११.३.१३ ॥
वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते ।
सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं विराजो लयम् उक्त्वा तत्-कारणणां महद्-आदि-पृथिव्य्-अन्तानां प्रातिलोम्येन लयम् आह—वायुनेति । वायोर् हि गन्ध-रस-हारित्वं प्रसिद्धम् । सांवर्तकेन वायुना हृत-गन्धः, अत एव गन्धस्य व्यवर्तकस्य गतत्वात् सलिलत्वाय कल्पते, सलिले लीयते इत्य् अर्थः । तद् धृत-रसं तेन वायुनैव हृतो रसो यस्य तत् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वायुना तद्-बहिर्-आवरण-रूपेण हृत-गन्धेति काठिन्यस्य तु स्पर्श-विशेष-रूपत्वाद् वायु-गुणत्वेन । स च तत्रैव प्रविशतीति भावः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं कार्यस्य समष्टि-विराजो लयम् उक्त्वा, तत्-कारणणां महद्-आदि-पृथिव्य्-अन्तानां तत्त्वानां प्रातिलोम्येन लयम् आह—वायुनेति । वायोर् हि गन्ध-रस-हारित्वं प्रसिद्धम् । सांवर्तकेन वायुना हृत-गन्धः, भूः पृथिवी सलिलत्वाय कल्पते, सलिले लीयते इत्य् अर्थः । तद्-धृत-रसस् तेन वायुनैव हृतो रसो यस्य तत् सलिलं सर्वम् एव ॥१३॥
———————————————————————————————————————
॥ ११.३.१४ ॥
हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते ।
हृत-स्पर्शोऽवकाशेन वायुर् नभसि लीयते ।
कालात्मना हृत-गुणं नभ आत्मनि लीयते ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : नत आत्मनि लीयत इत्य् उक्त्वेन्द्रियाणीत्य् आद्य् अपि विस्ताराय । आत्मनि बुद्धौ ॥१४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमसश् च रूप-तिरस्-कारित्वं प्रसिद्धम् । सांवर्तकेन तमसा । अवकाशेनाकाशेन स्व-कारणेन कालात्मना, शब्दस्य हि कालत एव नाशः प्रसिद्धस् तद् रूपेणात्मना ईश्वरेण । आत्मनि तामसाहङ्कारे ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तमसेति वाय्व्-आवरणम् आरभ्य प्रकृत्य्-आवरण-व्यापकेनेति ज्ञेयम् ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसा संवर्तकेन हृत-रूपम् इति तमसो रूप-तिरस्कारित्वं प्रसिद्धम् एवेति भावः । अवकाशेन आकाशेन स्व-कारणेन । कालात्मना काल-स्वरूपेणेति शब्दस्य कालत एव नाशः प्रसिद्धः । आत्मनि तामसाहङ्कारे ॥१४॥
———————————————————————————————————————
॥ ११.३.१५ ॥
इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप ।
प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियाणि बुद्धिश् च राजसाहङ्कारम् । मनो वैकारिकैर् देवैः सह सात्त्विकाहङ्कारम् । एवं त्रि-विधैः स्व-गुणैः स्व-कार्यैः सहितोऽहम् अहङ्कार आत्मनि महति स च प्रकृताव् इति द्रष्टव्यम् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाणि बुद्धिश् च राजसाहङ्कारम् । मनो वैकारिकैर् देवैः सह सात्त्विकाहङ्कारम् । एवं त्रि-विधैः स्व-गुणैः स्व-कार्यैः सहितोऽहम् अहङ्कार आत्मनि महति, स च महान् प्रकृताव् इति द्रष्टव्यम् ॥१५॥
———————————————————————————————————————
॥ ११.३.१६ ॥
एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी ।
त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रि-वर्णा त्रि-गुणा । माया-श्रवण-भीतं राजानं तन् निवृत्त्य्-उपाय-श्रवणे स्वयं छन्दयति, किं भूय इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एषा ईदृश-कार्य-रूपेत्य् अर्थः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रि-वर्णा त्रि-गुणा माया प्रधान-रूपा वर्णिता लक्षिता । अविद्या-रूपायास् तु तस्या लक्षणं, ऋतेऽर्थं [भा।पु। २.९.३३] इत्य् अनेन द्वितीय-स्कन्धे प्रोक्तम् ॥१६॥
———————————————————————————————————————
॥ ११.३.१७ ॥
श्री-राजोवाच—
यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः ।
तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
त्रिवर्णावरणाद् उक्ता त्रिगुणानां हरेर् मतिः ।
गुणात्मकत्वात् प्रकृतिस् त्रिवर्णेति प्रकीर्त्यते ॥ > तत्र तु प्रकृतिस् तार्या तारिका तु हरेर् मतिः । > उभयं विष्णु-मायोक्तं ज्ञातव्यम् उभयस् तथा ॥ इति च ॥१७॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अनुकम्पितस् तन्-निवृत्त्य्-उपायम् एव पृच्छति—यथैताम् इति । यद्यपि तन्-माययातो बुध आभजेत् तं [भा।पु। १०.२.३७] इति भक्तिस् तत्-तारकत्वेनोक्तैव तथापि किं भक्तिर् एवान्योऽपि वा तत्रोपायोऽस्तीति ज्ञातुं पुनः प्रश्नः । अकृतात्मभिर् अवशीकृतान्तः-करणैः । स्थूल-धियः स्थूले शरीरे अहं-धीर् येषां ते ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वयं तावत् शृण्वन् सुभद्राणीत्य् आदिना तद् उपायं ज्ञातवन्त एव स्थूल-धियः स्थूले कर्मण्य् अश्वमेधादाव् एव धीः प्रतीतिर् येषां ते यथा अञ्जस् तरन्तीत्य् अर्थः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्यपि तन्-माययातो बुध आभजेत् तं [भा।पु। १०.२.३७] इत्य् उक्तेर् भक्त्यैव मायां तरन्तीति राज्ञा निश्चितम् एव, तद् अपि तत्रत्यान् विद्वन्-मानिनः कर्मिणो दृष्ट्वा पृच्छति—यथेति । अकृतात्मभिर् इति युग-पर्यन्ताप्तयोः कृतम् इति, पर्याप्तिः परिपूर्णता इत्य् अमरोक्तेर् अपूर्णत्वं मन्दत्वम् अतो मन्द-धीतिर् दुस्तराम् अपि स्थूल-धियः कर्मि-प्रभृतयोऽञ्जः सुखेनैव यथा तरन्ति इदम् उच्यताम् इति । शुनः पुच्छम् आलम्ब्य दुस्तरम् ऐ समुद्रं सुखेन यथा तरन्ति, तद् उच्यताम् इति कश्चित् कम् अपि यथा पृच्छति तथैव तत्रत्यान् कर्मिणः प्रति सकटाक्ष-भङ्गीकः प्रश्नोऽयं राज्ञो ज्ञेयः ॥१७॥
———————————————————————————————————————
॥ ११.३.१८ ॥
श्री-प्रबुद्ध उवाच—
कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च ।
पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
बहूनां सह निर्देश एकयाभिधयैव तु ।
तयैवाभिधया तेषां परामृश्यैव्कम् उच्यते । > ताम् एताम् आस्तरीं रीतिं विदुः शब्द-विदो जनाः ॥ इति च ॥१८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्ति-व्यतिरेकेण नास्त्य् अन्य उपाय इत्य् अभिप्रेत्य भक्तिम् एव स-साधनां निरूपयति । तत्र प्रथमां वैराग्य-द्वारा गुरूपसत्तिम् आह चतुर्भिः—कर्माणीति । दुःख-हत्यै दुःख-प्रतीकाराय । पाक-विपर्यासं फल-वैपरीत्यम् । मिथुनी-चारिणां मिथुनीभूय प्रवर्तमानानाम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ प्रथमतस् तेषां तत्र कर्मण्य् अनादरं जनयति—कर्माणीति त्रिभिः । अत्र दृष्टान्तो द्वाभ्यां, दार्ष्टान्तिकम् एकेनेति ॥१८-२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मिणो नैव मायां तरन्तीति साक्षाद् एव विवेकेन पश्येद् इत्य् आह—कर्माणीति त्रिभिः । पाक-विपर्यासं फल-विपर्ययम् ॥१८॥
———————————————————————————————————————
॥ ११.३.१९ ॥
नित्यार्ति-देन वित्तेन दुर्लभेनात्म-मृत्युना ।
गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कर्मभिः साधिता अपि वित्तादयो न सुख-हेतव इति च पश्येद् इत्य् आह—नित्यार्तिदेनेति । आत्मनः स्वस्य मृत्यु-रूपेण । चलैर् अनित्यैर् अपायिभिश् च ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वित्तेन का प्रीतिः ? न कापीत्य् अर्थः, तथैव तेन वित्तेनापिसाधितैर् गृहादिभिश् च का प्रीतिर् यतश् चलैः ? ॥१९॥
———————————————————————————————————————
॥ ११.३.२० ॥
एवं लोकं परं विद्यान् नश्वरं कर्म-निर्मितम् ।
स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
मण्डल-वर्तिनः युद्ध-रङ्गस्थाः ।
देवाः सजाया मुच्यन्ते मानुषा उभयात्मकाः । > विजाया एव योगेशास् तेषां या यैव योग्यता । > तथा तथैव मुच्यन्ते नान्यथा तु कथञ्चन ॥ इति सन्दृश्ये > ॥२०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं लोकं परम् इति । कर्म-निर्मितत्वान् नश्वरम् । तथा च श्रुतिः—तद् यथेह कर्म-चितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छा।उ। ८.१.६] इति । किं च, वर्तमान-समयेऽपि दुःख-युक्तं पश्येद् इत्य् आह—स-तुल्यातिशय-ध्वंसं सह तुल्येनातिशयेन ध्वंसेन च वर्तमानम् । अतस् तुल्ये स्पर्धातिशयेऽसूया-ध्वंसालोचने भयादिकं चापरिहार्यम् इत्य् अर्थः । यथाखण्ड-मण्डल-पतीनां मिथः स्पर्धादि, तद्वत् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं लोकं परम् इति । तथा च श्रुतिः—तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छा।उ। ८.१.६]इति । किं च, भोग-समयेऽपि दुःख-युक्तं पश्येद् इत्य् आह—स-तुल्यातिशय-ध्वंसं तुल्येनातिशयेन ध्वंसेन च सह वर्तमानम् । तत्र तुल्ये स्पर्धे अतिशयेऽसूया ध्वंसे लोकः यथा मण्डलेश्वराणां मिथः स्पर्धादि-दुःखम् ॥२०॥
———————————————————————————————————————
॥ ११.३.२१ ॥
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तमं श्रेयो ज्ञातुम् इच्छुः शाब्दे ब्रह्मणि वेदाख्ये न्यायतो निष्णातं तत्त्वज्ञम्, अन्यथा संशय-निरासकत्वायोगात् । परे च ब्रह्मण्य् अपरोक्षानुभवेन निष्णातम्, अन्यथा बोध-सञ्चारायोगात् । पर-ब्रह्म-निष्णातत्व-द्योतकम् आह—उपशमाश्रयम् इति ॥२१॥
कैवल्य-दीपिका : तत्र षड्-विंश-वर्गं दर्शयन् द्वाभ्यां पूर्व-रङ्गम् आह—तस्माद् इति । तस्माल् लोक-द्वयस्यापि सदोषत्वात् प्रपद्येत निर्विन्नः, समित्-पाणिर् आचार्यम् उपतिष्ठेत् । श्रेय उत्तमम् । श्रेयःसु सत्-कर्मसु मध्ये उत्तमं भक्त्य्-अङ्गाख्यम् । शाब्दे ब्रह्मणि वेद-तात्पर्य-विचारेण । परे चापरोक्षानुभवेन, निष्णातं निष्ठा-प्राप्तम् । उपशमाश्रयम् इत्य् अनेनैव शिष्य-वात्सल्यादयोऽन्येऽपि गुणाः ज्ञेयाः ॥२१॥ [मु।फ। ७.२]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत एवम् एव कुर्वीतेत्य् आह—तस्माद् इत्य्-आदिना । शाब्दे ब्रह्मणि वेदे तात्पर्य-विचारेण, परे ब्रह्मणि भगवद्-आदि-रूपाविर्भावे त्व् अपरोक्षानुभवेन, निष्णातं तथैव तत्र तत्र निष्ठां [नैष्ठिक-भक्त्य्-आख्यां ध्रुवानुस्मृतिम्, भगवत्-तत्त्व-विज्ञान-संज्ञकम् उपशमम् इत्य् अपर-पर्यायम् अन्त्य-पारमहंस्य-रूपां श्री-भगवद्-रतिम् इति यावत्, १.२.२०, १.५.२७, १.१८.२२, ४.२४.५८ श्लोकोक्त-लक्षणाम्] प्राप्तम् । यथोक्तं श्री- पुरञ्जनोपाख्यानाद्य्-उपसंहारे श्री-नारदेन—
स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि । > इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ [भा।पु। > ४.२९.५१]
इति ॥२१॥(भक्ति-सन्दर्भ २०२, श्रवण-गुरु-लक्षणम्)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः पूर्व-प्रोक्ता भक्तिर् एव संसार-तारिणी, सैव विव्रियते शृण्व् इत्य् आह—तस्माद् इति । शाब्दे ब्रह्मणि वेदे वेद-तात्पर्य-ज्ञापके शास्त्रान्तरे च निष्णातं निपुणम् । अन्यथा शिष्यस्य संशय-च्छेदाभावे वैमनस्ये च सति कस्यचित् श्रद्धा-शैथिल्यम् अपि सम्भवेत् । परे ब्रह्मणि च निष्णातम् अपरोक्षानुभव-समर्थम् । अन्यथा तत्-कृपा सम्यक् फलवती न स्यात् । पर-ब्रह्म-निष्णातत्व-द्योतकम् आह—उपशमाश्रयं क्रोध-लोभाद्य्-अवशीभूतम् ॥२१॥
———————————————————————————————————————
॥ ११.३.२२ ॥
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
कैवल्य-दीपिका : तत्र इति । तत्र गुरुकुले । गुरुर् एव आत्म-दैवतं च यस्य । आत्मवद् देवं च गुरुं संस्कुर्याद् इत्य् अर्थः । गुरु-भक्त्या हि सर्वं सफलं, तद् उक्तं—
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इति ।
माया कपटम् । अनुवृत्तिः शुश्रूषा । यैर् धर्मैर् हरिस् तुष्येत ।
ननु कथं ज्ञेया हरि-तुष्टिः ? तत्राह—आत्मा तुष्येत् । आत्म-तुष्ट्या विष्णु-तुष्टिर् अनुमेया । विष्ण्व्-आत्मनोर् बिम्ब-प्रतिबिम्बत्वाद् इत्य् अर्थः । ननु हरौ तुष्टे किम् ? तत्राह—आत्मद इति ॥२२॥ [मु।फ। ७.३]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र भागवतान् इत्य् अष्टकम् । अथ श्रवण-गुरु-भजन-शिक्षा-गुर्वोः प्रायिकम् एकत्वम् इति तथैवाह—तत्रेति । तस्माद् गुरुं प्रपद्येत [भा।पु। ११.३.२१] इति पूर्वोक्तेस् तत्र श्रवण-गुरौ । गुरुर् एव आत्मा जीवनं दैवतं निजेष्ट-दैवततयाभिमतश् च यस्य तथा-भूतः सन् । अमायया निर्दम्भयानुवृत्त्या तद्-अनुगत्या शिक्षेत् । यैर् धर्मैः । आत्मा सर्व-मूल-रूपत्वाद् असमोर्ध्वानन्द-रूपः, आनन्दाद् धीमानि भूतानि जायन्ते [तै।उ। ३.६.१] इति श्रुतेः, तस्यापि दाता, भक्तेभ्य आत्म-प्रदः श्री-बलि-प्रभृतिभ्य इव भक्त-सात्कर्ता ॥२२॥ (भक्ति-सन्दर्भ २०६)
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तुष्येद् इत्य् अस्य द्योतकम् आह—आत्मात्मद आत्मनः स्वस्य आत्मानं श्री-विग्रहं ददाति । द्रष्टुं स्प्रष्टुं साक्षात् परिचरितुं चेति भावः ॥२२॥
———————————————————————————————————————
॥ ११.३.२३ ॥
सर्वतो मनसोऽसङ्गम् आदौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
सन्तस् तु त्रिविधाः प्रोक्ता उत्तम-मध्यमाधमाः ।
उत्तमा देवतास् तत्र ऋष्याद्या मध्यमा मताह् ॥ > अधमा मानुषोत्कृष्टास् ते चापि त्रिविधा मताः । > अत्राधमेषु येषां तु सङ्गो विघ्नाय वै भवेत् ॥ > तेषाम् उत्तम-सङ्गस्य तेषां सङ्गं परित्यजेत् । > आदौ तु तेषाम् अपि च सङ्ग उत्तम-सङ्गतेः ॥ > साधनत्वान् न तु त्याज्यो यदि त्यक्तुं न शक्यते । > तदा तेऽपि तथा नेया यथा विघ्नो न वै भवेत् ॥ > तद्-उच्च-सङ्गतेः क्वापि तदा दोषो न जायते । > प्रयोजनाय तेषां तु सङ्गः सर्वात्मनेष्यते ॥ > सर्वथा चैव देवेषु सङ्गो मुनि-गणेषु च । > भाव्यो हि तं विना नैव पुरुषार्थं क्वचिद् भवेत् ॥ > विशेषतः स्वोत्तमेषु विना सङ्गं न मुच्यते । > स्व-नीचेषु तु देवेषु विना सङ्गं न पूर्यते । > तस्मात् सत्सूत्तमेष्व् एषु सङ्गः कार्यो विशेषतः ॥ > अनाद्य्-अनन्त-कालेषु न च हाप्यः कथञ्चन । > सतां तद्-उत्तमेशेशे किम् उ विष्णौ परात्परे ॥ इति गारुडे । > बह्व्-अपेक्षो हि जिज्ञासुर् अतो देहादि-वृत्तये । > किञ्चित् सत्स्व् अपि सङ्गी स्याद् अशक्ये सति वर्तने ॥ > कृत-कृत्यस् त्यजेत् सङ्गं सदा गुरु-सुरादिषु । > सङ्गी स्यान् न हि तत्-सङ्गं विना तु सुख-भाग् भवेत् ॥ > तस्माद् अनाद्य्-अनन्तैव सक्तिर् गुरु-सुरादिषु । > अन्यत्र कृत्यापेक्षा स्याद् इति सङ्ग-विनिर्णयः ॥ इति > भविष्यत्-पर्वणि ।
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथोचितम् इति हीनेषु दयां समेषु मैत्रीम्, उत्तमेषु प्रश्रयं च शिक्षेद् इत्य् अर्थः ॥२३॥
कैवल्य-दीपिका : अथाङ्गान्य् आह—सर्वत इति । सर्वत्र इहामुत्र भोगेषु । असङ्गम् अनासक्तिं शिक्षेद् इति सर्वैर् द्वितीयान्तैः सम्बध्यते । सङ्गः सान्निध्यं यथोचितम् इति क्रमाद् दुःखि-सुखि-पुण्यवत्सु ददातीति त्रीणि । प्रश्रयो विनयः । अद्धा तत्त्वतः ॥२३॥ [मु।फ। ७.४]
**सनातन-गोस्वामी : [**ह।भ।वि। १०.४९८] तत्र भागवतान् धर्मान् शिक्षेत् [भा।पु। ११.३.२२] इत्य् उक्तान् दर्शयति—सर्वत इत्य् अष्टभिः । यथोचितम् इति हीनेषु दयां, समेषु मैत्रीम्, उत्तमेषु प्रश्रयं च शिक्षेद् इति सर्वतः पूर्व-श्लोक-स्थेनान्वयः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : काम्य-कर्माधिकार-विषयम् इदं प्रकरणम् इत्य् आपाततोऽश्रद्धाम् आशङ्क्य श्रद्धा-द्वार-भूतान् आह—सर्वत इत्य्-आदिना॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथोचितम् इति हीनेषु दयां समेषु मैत्रीम् उत्तमेषु विनयं शिक्षेद् इत्य् अर्थः ॥२३॥
———————————————————————————————————————
॥ ११.३.२४ ॥
शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् ।
ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शौचं बाह्यं मृज्-जलादिभिः । आभ्यन्तरं चादम्भ-मानादिभिः शिक्षेत् । तपः स्व-धर्माचरणम् । तितिक्षां क्षमाम् । मौनं वृथा-वाचाम् अनुच्चारणम् । स्वाध्यायम् अधिकारानुरूपं वेद-पाठादिकम् । आर्जवं स्वच्छताम् । ब्रह्मचर्यं यस्य यादृग् उचितम् ऋतु-काले स्व-दार-नियमादि । अहिंसां भूतेष्व् अद्रोहम् । द्वन्द्व-संज्ञयोः शीतोष्ण-सुख-दुःखादि-रूपयोः । समत्वं हर्ष-विषाद-राहित्यम् ॥२४॥
कैवल्य-दीपिका : शौचम् इति । शौचं मृज्-जलाद्यैर् बाह्यं, राग-द्वेषादि-राहित्यम् आन्तरम् । तप एकादश्य्-उपवासादि स्व-धर्म-निष्ठा वा । मौनम् अभाषणं मित-भाषणं वा क्षमा स्वाध्यायो द्वादशाक्षरादि-मन्त्र-जपः । आर्जवम् सरलता । ब्रह्मचर्यम् यस्य यथा-योग्यम् । गृहस्थानाम् ऋतौ स्व-दार-गमनम् । अन्येषां तु—
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्य-भाषणम् ।
सङ्कल्पोऽध्यवसायश् च क्रिया-निर्वृतिर् एव च ॥ इति ।
अष्टाङ्ग-मैथुनं वर्जं ब्रह्मचर्यम् । अहिंसा द्रोहाद्य्-अकरणम् । द्वन्द्व-संज्ञयोर् मानापमानादिकयोः समत्वं तुल्य-बुद्धित्वम् ॥२४॥ [मु।फ। ७.५]
सनातन-गोस्वामी : [ह।भ।वि। १०.४९९] शौचं बाह्यं मृज्-जलादिभिः । आभ्यन्तरं चादम्भ-मानादिभिः शिक्षेत् । तपः स्व-धर्माचरणम् । तितिक्षां क्षमाम् । मौनं वृथा-वाचाम् अनुच्चारणम् । स्वाध्यायं यथाधिकारं वेद-पाठादि । आर्जवं स्वच्छताम् । ब्रह्मचर्यं यस्य यादृग् उचितम् ऋतुषु स्व-दार-नियमादि । अहिंसां भूतेष्व् अद्रोहः । द्वन्द्व-संज्ञयोः शीतोष्ण-सुख-दुःखादि-रूपयोः । समत्वं हर्ष-विषाद-राहित्यम् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शौचं बाह्यं मृज्-जलादिभिः । आभ्यन्तरं चादम्भ-मानादिभिः शिक्षेत् । तपः काम-क्रोधादि-वेग-धारणम् । तितिक्षां क्षमाम् । मौनं वृथा-वाग्-अप्रयोगम् । स्वाध्यायं भक्ति-विधायक-श्री-गोपाल-तापिन्य्-आदि-पाठम् । आर्जवं सारल्यम् । ब्रह्मचर्यं स्त्री-सङ्ग-त्यागम् । अहिंसाम् अद्रोहम् । द्वन्द्व-संज्ञयोर् मानावमानयोः । समत्वं हर्ष-विषाद-राहित्यम् ॥२४॥
———————————————————————————————————————
॥ ११.३.२५ ॥
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् ।
विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मेश्वरान्वीक्षाम् सच्-चिद्-रूपेणात्मान्वीक्षां नियन्तृ-रूपेणेश्वरान्वीक्षां च । कैवल्यम् एकान्त-शीलत्वम् । अनिकेततां गृहाद्य्-अभिमान-राहित्यम् । विविक्त-चीर-वसनं विजन-पतितानां वस्त्र-खण्डानां शुद्धानां वा वल्कलानां परिधानम् ॥२५॥
कैवल्य-दीपिका : सर्वत्र इति । सर्व-भूतेषु आत्मनः आत्मन ईश्वरत्वे नानुवृत्त्या दर्शनम् । कैवल्यम् एकाकिता । अनिकेततां स्थानाभिमान-राहित्यम् । विविक्त-चीर-वसनं पूत-वस्त्र-खण्ड-परिधानम् । यदृच्छा-लब्धेनालं-बुद्धिः सन्तोषः ॥२५॥ [मु।फ। ७.६]
सनातन-गोस्वामी : [ह।भ।वि। १०.५००] आत्मेश्वरान्वीक्षां सच्-चिद्-रूपेणात्मेक्षां नियन्तृ-रूपेणेश्वरेक्षां च । कैवल्यम् एकान्त-शीलत्वम् । अनिकेततां गृहाद्य्-अभिमान-राहित्यम् । विविक्त-चीर-वसनं विजन-पतितानां वस्त्र-खण्डानां शुद्धानां वा वल्कलानां परिधानम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मेश्वरस्य स्वेष्ट-देवस्य अन्वीक्षाम् ईक्षणाभ्यासम् । कैवल्यम् एकान्त-चारित्वम् । अनिकेततां गृहाद्य्-अभिमान-राहित्यम् । विविक्तानानां शुद्धानां चीर-वल्कलादीनां वसनं परिधानम् ॥२६॥
———————————————————————————————————————
॥ ११.३.२६ ॥
श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि ।
मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भागवते भगवत्-प्रतिपादके । अन्यत्र शास्त्रादौ या अनिन्दा ताम् । मनसः प्राणायामैर् वचो मौनेन कर्मणोऽनीहया दण्डम् । सत्यं यथार्थ-भाषणम् । शम-दमाव् अन्तः-करण-बाह्येन्द्रिय-निग्रहौ ॥२६॥
कैवल्य-दीपिका : श्रद्धाम् इति । भगवत्-प्रतिपादके शास्त्रे श्रद्धाम् । अन्य-प्रतिपादके चानिन्दाम् इत्य् एकम् । दण्डं दुःसङ्कल्प-पारुष्य-चापलानां त्यागः । सत्यं मृषा-वाद-वर्जनम् । शमः विषयेभ्यो बुद्धेर् उपरतिः । दमश् चक्षुरादीनाम् । च-शब्दो भिन्न-क्रमः ॥२६॥ [मु।फ। ७.७]
सनातन-गोस्वामी : [ह।भ।वि। १०.५००] भागवते भगवत्-प्रतिपादके श्री-भागवते वा । अन्यत्र शास्त्रादौ अनिन्दाम् । मनसः प्राणायामैः, वचो मौनेन, कायस्यानीहया दण्डम् । सत्यं यथार्थ-भाषणम् । शम-दमाव् अन्तः-करण-बाह्येन्द्रिय-निग्रहौ । इमानि च प्रायः साधनान्य् उक्तानि ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यत्र शास्त्रादौ या अनिन्दा ताम् । मनो-वाक्-काय-दण्डं मानस-वाचिक-कायिक-विकर्म-राहित्यम् । सत्यं यथार्थ-भाषणम् । शम-दमौ अन्तः-करण-बाह्येन्द्रिय-निग्रहौ ॥२७॥
———————————————————————————————————————
॥ ११.३.२७ ॥
श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः ।
जन्म-कर्म-गुणानां च तद्-अर्थेऽखिल-चेष्टितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् जन्म-कर्म-गुणानां श्रवणादि तद्-अर्थे । हर्य्-उद्देशेन सर्वं कर्म विशेषतश् च यजनादि यत् तद्-अर्थे शिक्षेत् ॥२७॥
कैवल्य-दीपिका : श्रवणम् इति । हरेर् जन्मादीनां श्रवणादि-त्रयं, तद्-अर्थे हरेर् अर्थे सर्व-चेष्टा ॥२७॥ [मु।फ। ७.८]
सनातन-गोस्वामी : [ह।भ।वि। १०.५०२] भक्तेर् मुख्याङ्गान्य् आह—श्रवणम् इति चतुर्भिः । हरेर् जन्म-कर्म-गुणानां श्रवणादि, अद्भुत-कर्मण इति जन्मादीनि सर्वाण्य् एवाद्भुतानीति सर्वेषाम् अपि जन्मादीनाम् अद्भुतत्वम् इत्य् अर्थः । यद् वा, अद्भुतानि जगद्-आश्चर्य-कराणि कर्मानि पूतना-वधादीनि यस्य तस्य हरेः श्री-कृष्णस्य । तद्-अर्थे हर्य्-उद्देशेन श्री-कृष्ण-प्रेमार्थं वा सर्वं कर्म विशेषतो यजनादि यत् तद्-अर्थे शिक्षेत् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः शुद्धान्तःकरणतया जात-श्रद्धांस् तान् प्रति साक्षाद्-भक्ति-रूपान् आह—श्रवणम् इत्य्-आदिना । तत्र श्रवणम् इत्य्-आदि युग्मकम् ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् जन्म-कर्म-गुणानां च-कारात् नाम्नां तद्-अर्थे तत्-परिचर्याद्य्-अर्थम् एव अखिल-चेष्टितं दन्त-धावनादिर् आह्निकः सर्व एव व्यापारः ॥२७॥
———————————————————————————————————————
॥ ११.३.२८ ॥
इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् ।
दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इष्टं दत्तम् इत्य्-आदयो भावे निष्ठाः । वृत्तं सद्-आचारः । आत्मनः प्रियं गन्ध-पुष्पादि । दारादीन् अप्य् आलक्ष्य परस्मै परमेश्वराय निवेदनं तत् सेवकतया समर्पणं यत् तच् छिक्षेत् ॥२८॥
कैवल्य-दीपिका : इष्टम् इति भावे क्तः । वृत्तम् आचारतः प्राप्तस्याचरणम् । षष्ठी विषये द्वितीये । इष्टादेर् दारादेश् च तादर्थ्यम् । परस्मै इन्द्रादये स-निवेदनं समर्पणम् । यत् तस्यापि तादर्थ्यं शिक्षेत् । अत्राखिल-चेष्टित-शब्देन निर्देशात् । एकैकत्वं दारादीनां तादर्थ्यं शुश्रूषया ॥२८॥ [मु।फ। ७.९]
सनातन-गोस्वामी : [ह।भ।वि। १०.५०३] इष्टं दत्तम् इत्य् आदयो भावे निष्ठाः । वृत्तं सद्-आचारः । आत्मनः प्रियं गन्ध-पुष्पादि । दारादीन् अप्य् आलक्ष्य परस्मै परमेश्वराय निवेदनम् । तत् सेवकतया समर्पणं यत् तच् छिक्षेत् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, पूर्वं यद् यज्ञादि-कर्म कृतं, यच् च दारादिकं द्रव्यं सञ्चितं तत् तत् किं कर्तव्यं ? तत्राह—इष्टम् इति ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इष्टं विष्णु-सम्प्रदानको यागः, दत्तं विष्णु-वैष्णव-सम्प्रदानकं दानं तप एकादश्य्-आदिकं व्रतम् । जप्तं विष्णु-मन्त्र-जपः । वृत्तं सदाचारः यच् चात्मनः स्वस्य प्रियं वस्तु तस्य परस्मै परमेश्वराय निवेदनं, तच् च निवेदनं दारान् इति दारादीन् यत् व्याप्नुवत्, इनः शत्रस् तस्य रूपं, दारादीनां तत्-सेवार्थम् एव नियोजनं यत् तच् छिक्षेद् इत्य् अर्थः ॥२८॥
———————————————————————————————————————
॥ ११.३.२९ ॥
एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : कृष्णात्म-नाथेषु मनुष्येष्व् अपि सौहृदं किं देवेषु ॥२९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृष्ण एवात्मा नाथश् च येषाम् । कृष्ण आत्मनो जीवस्य नाथो येषाम् इति वा तेषु । उभयत्र स्थावरे जङ्गमे च या परिचर्या ताम् । विशेषतो नृषु तत्रापि साधुषु स्व-धर्म-शीलेषु । ततोऽपि महत्सु श्री-भागवतेषु ॥२९॥
कैवल्य-दीपिका : एवम् इति । एवं यथा कृष्णे तथेत्य् अर्थः । कृष्ण आत्मा नाथो धीर् येषां तेषु । सौहृदम् अनिमित्तं बन्धुत्वम् । मनुष्येष्व् इति जाति-विशेष-विवक्षार्थम् । किं तद् उभयं ? तद् आह—महत्स्व् इति । महान्त उत्कृष्टाः साधवः सद्-आचाराः । उभय-ग्रहणम् अभेदेन परिचर्यार्थम् ॥२९॥ [मु।फ। ७.१०]
सनातन-गोस्वामी : [ह।भ।वि। १०.५०४] कृष्ण एवात्मा नाथश् च येषाम् । श्री-कृष्ण आत्मनः स्वय्स नाथो येषाम् इति वा । यद् वा, कृष्णो जीवन-स्वामी येषां तेषु । उभयत्र स्थावरे जङ्गमे च या परिचर्या ताम् । विशेषतो नृषु, तत्रापि साधुषु स्व-धर्म-शीलेषु । ततोऽपि महत्सु श्री-भागवतेषु । यद् वा, विशेषतः साधुषु दयालुषु महत्सु नृष्व् इति ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं पूर्व-रीत्यावस्थायोभयत्र स्थावर-जङ्गमेषु परिचर्यां, तत उत्कर्षेण नृषु1, ततः पर-तत्त्वोन्मुख-ब्राह्मणादि-साधुषु, ततः श्री-भागवत-मात्रेषु यथार्हं शिक्षेत् । कृष्ण एवात्मा नाथः परम-प्रेमास्पदं येषां तेषु श्री-भागवत-विशेषेषु तु सौहृदं शिक्षेत् । तत्-तद्-विशेषानुसन्धानेन क्रमेण मनस्य् आनयेद् इत्य् अर्थः2॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण एवात्म-नाथः प्राण-नाथो येषां तेषु मनुष्येषु सौहृदं स्नेह-विशेषः । उभयत्र श्री-भगवति तद्-भक्तेषु च । तेषु महत्सु स्वस्याद्रणीयेषु तथा नृषु साधुषु साधु-लोकेषु स्व-तुल्येषु यथोचितं या परिचर्या तां शिक्षेद् इत्य् अर्थः ॥२९॥
———————————————————————————————————————
॥ ११.३.३० ॥
परस्परानुकथनं पावनं भगवद्-यशः ।
मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : कृष्णात्म-नाथेषु मनुष्येष्व् अपि सौहृदं किम् उ देवेषु ॥३०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तैश् च सह सङ्गम्य यत् पावनं भगवद्-यशस् तस्य परस्परानुकथनं शिक्षेत् । यद् वा, यशः प्रति तत्र संस्पर्धादि-परित्यागेन मिथो या रतिः रमणम्, या च तुष्टिः सुखं, या च निवृत्तिः समस्त-दुःख-निवृत्तिस् तां च शिक्षेत् ॥३०॥
कैवल्य-दीपिका : परस्पर- इति । अनु अनुवृत्त्या विच्छेदेन कथनं शिक्षेत् । किं-भूतं कथनं ? भगवद्-यशः भगवतो यशो यस्मिन् अनु कथने । किम् इति परस्परम् ? तत्राह—मिथ इति । रतिर् भगवति इत्य् अर्थात् सिद्धम् । तुष्टिः सुखम् । निवृत्तिस् तापापगम इति द्वयम् आत्मनः । एतत् त्रयं परस्परम् अनुकथनादौ स्यात् । नैकाकीतयेति वक्तुं मिथः-शब्द-त्रयम् ॥३०॥ [मु।फ। ७.११]
सनातन-गोस्वामी : [ह।भ।वि। १०.५०५] तैश् च सह सङ्गम्य यत् पावनं भगवद्-यशः, तस्य परस्परानुकथनं शिक्षेत्। यद् वा, यशः प्रति, तत्र संस्पर्धादि-परित्यागेन मिथो या रतिः रमणम्, या च तुष्टिः सुखं, या च निवृत्तिः समस्त-दुःख-निवृत्तिस् तां शिक्षेत्॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परस्परम् एवानुकथनं यत्र तथा-भूतं पावनं यद् भगवतो यशस् तद् आलम्ब्य मिथो रतिः स-स्पर्धादि-परित्यागेन तत्रैव परस्पर-रमणं, मिथस् तुष्टिः परस्पर-सङ्गोत्थं सुखम् । आत्मनो मिथो-निवृत्तिर् इति भक्ति-प्रतिकूल-विषय-भोगात् स्वस्य स्त्री-सम्भोगादि-लक्षणात् त्वया चेन् निवृत्तं, तर्हि मयाप्य् अद्यारभ्य निवृत्तम् इत्य् एवं या भोग-निवृत्तिस् तां च शिक्षेत् ॥३०॥
———————————————————————————————————————
॥ ११.३.३१ ॥
स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं वर्तमानानां परमानन्द-प्राप्तिम् आह—स्मरन्त इति द्वयेन । भक्त्या साधन-भक्त्या सञ्जातया प्रेम-लक्षणया भक्त्या ॥३१॥
कैवल्य-दीपिका : स्मरन्त इति । स्मरन्तः स्वयम् । यतोऽन्येषाम् अथ षट्-त्रिंश-वर्गानुष्ठानस्य फलम् आह—भक्त्या इति । भक्तिर् अङ्ग-वर्ग-भजनम् । तथा भक्तिः प्रेम । उत्पन्न-भक्तेश् चिह्नान्य् आह—बिभ्रति इति । उत्पुलकाम् उद्भूत-रोमाञ्चाम् ॥३१॥ [मु।फ। ७.१२]
जीव-गोस्वामी (प्रीति-सन्दर्भ ६७) : तद् एवं तस्याः स्वरूप-लक्षणम् उक्तम् । तटस्थ-लक्षणम् अप्य् आह— स्मरन्त इति । स्पष्टम् ॥३१॥
जीव-गोस्वामी (प्रीति-सन्दर्भ १५८) : अथैतत्-संवलनात्मको भगवत्-प्रीतिमयो रसोऽपि व्यञ्जित एव—स्मरन्त इति द्वाभ्याम् । अत्र हरिर् आलम्बनो विभावः । स्मरणम् उद्दीपनः । स्मारणादिक उद्भास्वराख्यो ऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः । संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परम् एत्य निर्वृता इति तत्-संवलनम् । परं परम-रसात्मकं वस्त्व् इत्य् अर्थः ।]
जीव-गोस्वामी (क्रम-सन्दर्भः) : साक्षाद् भक्ति-फलम् आह—स्मरन्त इति द्वयेन ॥३१-३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं साधन-भक्त्या साध्य-भक्ति-प्राप्तिम् आह—स्मरन्त इति । भक्त्या साधन-भक्त्या सञ्जातया भक्त्या प्रेम-भक्त्या ॥३१॥
———————————————————————————————————————
॥ ११.३.३२ ॥
क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजं हरिम् अनुशीलयन्ति तल्-लीलाम् अभिनयन्ति । एवं परम् एत्य प्राप्य निर्वृताः सन्तस् तूष्णीं भवन्ति ॥३२॥
कैवल्य-दीपिका : क्वचिद् इति रुदन्ति आनन्दाश्रूणि विमुञ्चन्ति । नन्दन्ति सुखम् अनुभवन्ति । अलौकिकाः लोक-व्यावृत्ताः । अजं विष्णुम् । अनुशीलयन्ति तल्-लीलाम् अभिनयन्ति । अतः परं विष्णुम् एत्य साक्षात्-कृत्य तूष्णीं भवन्ति उपशाम्यति । यतो निर्वृताः सम्पात-परमानन्दाः ॥३२॥ [मु।फ। ७.१३]
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : "**अद्यापि कृष्णो न प्राप्तः, तर्हि किं करोमि ? क्व गच्छामि ? कं पृच्छामि ? को मां तं प्रापयेत् ?" इत्य् एवं चिन्तया रुदन्ति । क्वचिद् धसन्ति इति गोप-वधू-चौर्यार्थं तामस्यां रात्रौ कस्यचिद् गोपस्य प्राङ्गणे कोणस्थ-तरु-तले निह्नुत्य स्थितं, "कोऽसि त्वं रे ? कोऽसि ?" इति तस्या गुरु-जन-वाचा पलायितुं प्रवृत्तं कृष्णं स्फूर्ति-प्राप्तम् आलक्ष्येत्य् अर्थः । नन्दन्ति तद्-अपरोक्षानुभवेनानन्दं प्राप्नुवन्ति । "हा प्रभो ! एतावद्भिर् दिनैस् त्वाम् अहं प्राप्तोऽस्मि" इति वदन्ति । अलौकिका लोकातीताः । अजं श्री-कृष्णम् अनुशीलयन्ति स्वीय-श्रोत्रादीन्द्रिय-विषयी-कुर्वन्ति । एवं परं परमेश्वरम् एत्य प्राप्य निर्वृताः सन्तस् तूष्णीं भवन्ति ॥३२॥
———————————————————————————————————————
॥ ११.३.३३ ॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया ।
नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसंहरति—इतीति । भागवत-धर्मोत्पन्नया भक्त्या ॥३३॥
कैवल्य-दीपिका : कुतः पुनर् एषाम् अङ्गत्वम् ? इत्य् अत आह—इति इति । तद्-उत्थया भागवत-धर्मोत्थया भक्तेर् अङ्गत्वे लिङ्गम् इति भावः ॥३३॥ [मु।फ। ७.१४]
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-आनुषङ्गिक-फलम् आह—इतीति ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति धर्मान् शिषन्न् इति स्मारयन्तश् च [भा।पु। ११.३.३१] इत्य् एतद् अन्तानाम् अनुष्ठानस्य शिक्षणम् । तद्-उत्तरेषां पुलकित-तनुत्व-रोदनादीनां त्व् अभिलाषस्य शिक्षणं, कदाहम् उत्पुलकित-तनुर् भवेयं ? इत्य् एतत्-प्रकारकम् । तद्-उत्थया शिक्षित-भक्ति-जनितया भक्त्या उक्त-लक्षण-प्रेम-भक्त्या मायां तरतीत्य् आनुषङ्गिकं फलम् उक्तम् ॥३३॥
———————————————————————————————————————
॥ ११.३.३४ ॥
श्री-राजोवाच—
नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नारायण-परो मायां तरति इत्य् उक्ते पृच्छति—नारायणाभिधानस्येति । निष्ठां स्वरूपम् । अयं भावः, ब्रह्मैव तवन् नारायण इति भगवान् इति परमात्मेति चोच्यते । तद् उक्तम्,
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् । > ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा।पु। १.२.११]इति > ।
तथा,
नारायणे भगवति तद् इदं विश्वम् आहितम् । > गृहीत-मायोरु-गुणः सर्गादाव् अगुणः स्वतः ॥ [भा।पु। २.६.३०] > इत्य्-आदिषु ।
तत्र किम् एभिः शब्दैर् निर्विशेषं तद् एव वस्तूच्यते, अस्ति वा कोऽपि विशेषांशः ? इति ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणाभिधानस्येति तैः तत्र नारायण इति भगवान् इति नारायण इति नामा भगवान् इत्य् अर्थः । यद् वा, नारायणाभिधानस्य भगवतः ब्रह्मेति परमात्मेत्य् आदि-प्रसिद्ध-तत्-समुदाय-तृतीयतया पाठात्, नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते [भा।पु। ११.१५.१६]इत्य् अत्र स्पष्टी-भावित्वाच् च निष्ठां तत्त्त्वम् ॥३४॥ [भगवत्-सं। २]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नारायण-पर इति श्रुत्वा नारायणस्य स्वरूपं पृच्छति—नारायणेति । नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते [भा।पु। ११.१५.१६]इत्य् उक्तेर् नारायणाभिधानो यो भगवांस् तस्य निष्ठां स्वरूपम् ।
ननु स तवेष्ट-देव एव भवति, गुरूपदिष्ट-ध्यान-मार्गेण तत्-स्वरूपं त्वं जानास्य् एव? इति तत्राह—ब्रह्मण इति । से एव नारायणो ब्रह्म, स एव परमात्मा । अत एव स्वरूपस्यैव तस्य त्रितयत्वेन कथने कः प्रकारस् तम् अहं जिज्ञासे इति भावः ॥३४॥
———————————————————————————————————————
॥ ११.३.३५ ॥
श्री-पिप्पलायन उवाच—
स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य
यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च ।
देहेन्द्रियासु-हृदयानि चरन्ति येन
सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अहेतुः स्वस्य हेतुर् अन्यो नास्ति । बहिः प्रलये मुक्तौ च ॥३५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रोत्तरम्—स्थित्य्-उद्भवेति । अयम् अर्थः—अस्य विश्वस्य स्थित्य्-उद्भव-प्रलयानां हेतुः स्वयं चाहेतुर् हेतु-रहितः स नारायण इति परम् एव तत्त्वम् अवेहि स्वप्न-जागर-सुषुप्तिषु सद्-अनुवर्तमानं यत् । वक्ष्यति च—तुरीयं त्रिषु सन्ततं [भा।पु। ११.२५.२०] इति । बहिश् च समाध्य्-आदौ यत् सत् तद् ब्रह्मेति परम् एव तत्त्वम् अवेहि । देहेन्द्रिय-प्राण-मनांसि येन सञ्जीवितानि सन्ति चरन्ति प्रवर्तन्ते तत् परमात्मेति परम् एव तत्त्वम् अवेहि । एवं लक्षण-भेदैर् नारायणादि-नामभिर् उच्यमानम् अपि परम् एकम् एव तत्त्वं जानीहि ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रश्न-क्रमेणैवोत्तरम् आह—स्थितीति । यत् स्थित्य्-आदि-हेतुर् अहेतुश् च भवति, यच् च जागरादिषु सद् बहिश् च भवति, येन च देहादीनि सञ्जीवितानि सन्ति चरन्ति, तद् एकम् एव परं तत्त्वं स्व-प्रश्न-क्रमेण नारायणादि-रूपं विद्धीति योजनीयम् । तथापि ब्रह्मत्व-स्पष्टीकरणाय विपर्ययेन व्याख्यायते । तत्रैकस्यैव विशेषण-भेदेन तद्-अविशिष्टत्वेन च प्रतिपादनात् तथैव तत्-तद्-उपासक-पुरुषानुभव-भेदाच् चाविर्भाव-नाम्नोर् भेद इत्य् उत्तर-वाक्य-तात्पर्यम् ।
एतद् उक्तं भवति—स्वयम् अहेतुः स्वरूप-शक्त्यैक-विलासमयत्वेन तत्रोदासीनम् अपि प्रकृति-जीव-प्रवर्तकावस्थ-परमात्मापर-पर्याय-स्वांश-लक्षण-पुरुष-द्वारा यद् अस्य सर्ग-स्थित्य्-आदि-हेतुर् भवति, तद् भगवद्-रूपं विद्धि । अनेनास्य पूर्ण-स्वरूप-शक्तित्वेन भगवत्तैवोपस्थापिता ।
परमात्मता चैवम् उपतिष्ठतीत्य् आह—येन हेतु-कर्त्रा आत्मांश-भूत-जीव-प्रवेशन-द्वारा सञ्जीवितानि सन्ति देहादीनि तद्-उपलक्षणानि प्रधानादि-सर्वाण्य् एव तत्त्वानि येनैव प्रेरिततयैव चरन्ति स्व-स्व-कार्ये प्रवर्तन्ते तत् परमात्म-रूपं विद्धि ।
तस्मै नमो भगवते ब्रह्मणे परमात्मने [भा।पु। १०.२८.६] इत्य् अत्र वरुण-कृत-श्री-कृष्ण-स्तुतौ टीका च—परमात्मने सर्व-जीव-नियन्त्रे इत्य् एषा । जीवस्यात्मत्वं तद्-अपेक्षया तस्य परमत्वम् इत्य् अतः परमात्म-शब्देन तत्-सहयोगी स एव व्यज्यते इति । तत् तद् अविशिष्टत्वेन ब्रह्मत्व-मात्रं चैवम् उपतिष्ठतीत्य् आह, स्वप्नेति । यद् एव तत् तत्त्वं स्वप्नादौ अन्वयेन स्थितं यच् च तद्-बहिः शुद्धायां जीवाख्य-शक्तौ तथा स्थितं चकारात् ततः परत्रापि व्यतिरेकेण स्थितं स्वयम् अविशिष्टं तद् ब्रह्म-रूपं विद्धीति ॥३५॥ [भगवत्-सन्दर्भः २]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्न-क्रमेणैव प्रथमं नारायणं लक्षयति—स्थितीति ।
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः । > सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ [भा।पु। १.३.१]
इत्य् आद्य् उक्तेपुरुष-रूप एव अस्य विश्वस्य स्थित्य्-उद्भव-प्रलयाणां हेतुः । स्वयम् अहेतुर् हेतु-शून्यः श्यामसुन्दराकारश् चतुर्भुजाष्ट-भुज-सहस्र-भुज-सच्चिदानन्द-मूर्तिः पर-व्योम-नाथ-भूम-वासुदेव-महाविष्णु-क्षीरोद-नाथ-नृसिंह-राम-कृष्णादि-नामा नारायणो यो भगवच्-छब्द-वाच्यः । स्वप्न-जागर-सुसुप्तिषु सत् अनुवर्तमानं बहिश् च समाधौ सत् व्यापकं वस्तु यद् एव ब्रह्म-शब्द-वाच्येन तत् परं परमेश्वरम् एकम् एव तत्त्वम् अवेहि ॥३५॥
———————————————————————————————————————
॥ ११.३.३६ ॥
नैतन् मनो विशति वाग् उत चक्षुर् आत्मा
प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः ।
शब्दोऽपि बोधक-निषेधतयात्म-मूलम्
अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
त्रिगुणात्मकं प्रधानं च रजः सत्त्वं तमस् तथा ।
प्राणो महान् अहङ्कारो जीवास् तद्-अभिमानिनः ॥ > ज्ञानात्मकानीन्द्रियाणि तथा कर्मात्मकानि च । > शब्दाद्य्-अर्थाः सुखं दुःखम् इति प्रोक्तं द्विधा फलम् ॥ > एतत् सर्वं हरेर् उपमित्य् आहुर् ज्ञान-दुर्बलाः । > स एव बहु-शक्तित्वाद् भाति चैषां तथा तथा ॥ > एवं कारण-कार्याख्यं समस्तं हरिम् एव तु । > केचित् पश्यन्ति च व्यस्तं केचिद् आहुर् अपण्डिताः ॥ > एवं कारण-कार्येभ्यः परमानन्दित-रूपितम् । > अज्ञानाद् बहुधा प्राहुर् एकं सन्तं सुदुर्जनाः ॥ > रूप्यत्वात् तद्-वशत्वाच् च तद्-रूपं चैतद् ईर्यते । > न तु तस्य स्वरूपत्वान् निर्दोषानन्द-रूपिणः ॥ > कथं जडाजडैक्यं स्यात् कुतः पूर्णाल्प-मोदयोः । > पूर्णाल्प-ज्ञानयोश् चैव पूर्ण-शक्त्य्-अल्प-शक्तयोः ॥ > निर्दुःख-दुःखान्वितयोः स्वतन्त्र-परतन्त्रयोः । > अतः सर्व-गुणैर् युक्तं सर्व-दोष-विवर्जितम् ॥ > अन्याभेदेन विज्ञाय तम एव प्रपद्यते । > निष्कृष्टं सर्वतो विष्णुः सर्वतश् च विलक्षणम् । > ज्ञात्वा पूर्ण-गुणं यान्ति मुक्तिं नास्त्य् अत्र संशयः ॥ > इति तन्त्र-भागवते॥३६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवेहीत्य् अनेन विषयत्वं प्राप्तं निषेधति—नैतद् इति । एतत् परं तत्त्वं मनो न विशति न विषयी-करोति । वागुत चक्षुश् चात्मा बुद्धिश् च प्राणश् च क्रिया-शक्त्या न प्राप्नोत्य् अन्यानि चेन्द्रियाणि । यथानलं स्वाः स्वांश-भूता अर्चिषो विस्फुलिङ्गादयो न प्रकाशयन्ति न दहन्ति च, तथा जडासु मन आदि-वृत्तिष्व् अभिव्यज्यमानस्यात्म-प्रकाशस्य तत् तद् वृत्ति-प्रकाशकस्य न तत् प्रकाश-विषयत्वम् । प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् अन्नस्यान्नं मनसो ये मनो विदुः [के।उ। १.२] इति । तथा, यतो वचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१] इत्य्-आदि श्रुतेः ।
ननु, तं त्व् औपनिषदं पुरुषं पृच्छामि इति श्रुतेः । शब्द-गोचरत्वं प्रतीयते तत्राह—शब्दोऽपीति । शब्दोऽप्य् आत्म-मूलम् आत्मनि प्रमाणं सद्-अर्थोक्तम् अर्थाद् उक्तं यथा भवति तथा आह—न साक्षात् । कुतः । बोधक-निषेधतया स्वस्यैव बोधकस्य निषेध-रूपत्वत् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१], यद् वाचानभ्युदितं येन वाग् अभ्युद्यते । तद् एव ब्रह्म त्वं विद्धि, यन् मनो न मनुते, न चक्षुषा पश्यति कश्चनैनम् इत्य्-आदि श्रुतेः । ननु तर्हि नैवाह श्रुतिः किम् इदम् उच्यते अर्थोक्तम् आहेति तत्राह—यद् ऋत इति । अथात आदेशो नेति नेति, अस्थूलम् अनणु, यतो वाचो निवर्तन्ते [तै।उ। २.४.१], यद् वाचानभ्युदितम् इत्य्-आदि निषेधस्य यद् अवधि-भूतं ब्रह्म ऋते विना सिद्धिर् नास्ति । सर्वस्य निषेधस्य सावधित्वात् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : परत्वम् एवाह—नैतद् इति । वाक् लौकिकी शब्दो वेदोऽपि अर्थैः स्वाभिधादि-वृत्तिभिर् उक्ततया यद् आह तद् अपि बोधकानां मन-आदीनां निषेधो यत्र तत् तया तेषाम् अविषयतयैवेत्य् अर्थः । अप्राकृतानन्त-स्वरूप-गुणत्वाद् इति भावः । न तु सर्वथैव निःस्वरूपं निर्गुणं वेत्य् आह—आत्मनः स्वस्य मूलं कारणम् इति यद् ऋत इति यदि च सर्वथैव वक्ति तदा निषेधो वा कुत्र कथं वां कुर्याद् इत्य् अर्थः ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-तत्त्वं मयोपास्यं मद्-अभ्यस्तम् एवास्ति किन्तु दुर्ज्ञेयं ब्रह्म-तत्त्वं विस्तार्य कथयेत्य् अपेक्षायां ब्रह्म-तत्त्वम् आह—नैतद् इति चतुर्भिः । एतत् ब्रह्म मनो न विशति न विषयी-करोति । वाग् उत वाग् अपि । चक्षुश् चात्मा जीवश् च प्राणश् च इन्द्रियाणि च, यथा अनलं स्वाः स्वांश-भूता अर्चिषो विस्फुलिङ्गादयो न प्रकाशयन्ति, यतो वचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१] इत्य्-आदि श्रुतेः ।
ननु, तं त्व् औपनिषदं पुरुषं पृच्छामि इति श्रुतेः । शब्द-गोचरत्वं प्रतीयते तत्राह—शब्दोऽपीति । शब्दोऽप्य् आत्मनः स्वस्य मूलं ब्रह्म-बोधकं किम् अपि नास्ति, तद् ब्रह्मेत्य् एवं रीत्यैवार्थाद् उक्तम् अर्थत एवोक्तं, न तु शब्दत इदं तद् इति निर्देशेनाहेत्य् अर्थः । यद् वाचानभ्युदितं येन वाग् अभ्युद्यते । तद् एव ब्रह्म त्वं विद्धि [क।उ। १.४], यन् मनो न मनुते, न चक्षुषा पश्यति कश्चनैनं [क।उ। २.३.९] इत्य्-आदि श्रुतेः ।
ननु तर्हि नैवाह श्रुतिः, किम् इदम् उच्यते अर्थोक्तम् आह ? इति तत्राह—यद् ऋत इति । अथात आदेशो नेति नेति, अस्थूलम् अनणु, यतो वाचो निवर्तन्ते [तै।उ। २.४.१]इत्य्-आदि निषेधस्य अवधि-भूतं यद् ब्रह्म ऋते विना सिद्धिर् नास्ति । सर्वस्य निषेधस्य सावधित्वाद् इति ।
ननु,
तत् परं परमं ब्रह्म सर्वं विभजते जगत् । > ममैव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [ह।वं। > २.११४.१२।
इति हरिवंशोक्तेः, ब्रह्म-ज्योतिः सनातनं [भा।पु। १०.२८.१२] इति दशमोक्तेः । यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नं तद् ब्रह्म [ब्र।सं। ५.४०] इति ब्रह्म-संहितोक्तेर् भगवद्-अङ्ग-ज्योती-रूपं चेद् ब्रह्म, तर्हि कथं न मन आदिकं विषयीकरोतीति उच्यते—भगवद्-अङ्ग-ज्योतिर् हि न मायिकं तृतीयं भूतं, किन्तु मायातीतं सच्चिदानन्द-रूपम् एव, वाङ्-मन-आदिकं तु मायिकं, तत् कथं स्व-विषयीकर्तुं शक्नोतु । शब्दं ब्रह्म वपुर् दधत् इति, यन् मित्रं परमानन्दं पूर्णं ब्रह्म [भा।पु। ] इति, तव ब्रह्ममयस्येश किम् उतेक्षाभिमर्षिणः इति, सच्चिदानन्द-विग्रह इत्य् आद्य् उक्तेर् भगवद्-वपुर् अपि ब्रह्मैव यद्यपि, तद् अपि तत्-कृपा-शक्त्या अतर्क्ययैव प्रापञ्चिक-लोक-गोचरीकृतम् ।
अत एव नीलोत्पल-दल-श्यामादि-शब्द-वर्णितं यत् तद् अप्य् अप्राकृत-नीलोत्पल-दल-श्यामम् अपि प्राकृत-नीलोत्पल-वर्णत्वेन भक्तैर् ध्यातम् अतादृशम् अपि तद्-वपुः केवलम् अतर्क्यया तत्-करुणयैव भक्त-नयनयोर् आविर्भवति । अतः प्रापञ्चिक-लोकैर् मनो-वचो-गोचरीकर्तुम् अशक्यं केवलं ब्रह्मोपासकैर् एव साधन-परिपाके सत्य् अपि भगवद्-अनुग्रह-प्राप्त्यैव ब्रह्माकारेऽन्तः-करणेऽनुभूयत इत्य् अतो वेदेऽपि, यन् मनो न मनुते इत्य्-आदि दृश्यते त्व् अग्र्यया बुद्ध्येत्य् आद्य् अप्य्प्य् आहेति विवेचनीयम् ॥३६॥
———————————————————————————————————————
॥ ११.३.३७ ॥
सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ
सूत्रं महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति
ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु तर्हि प्रमाणाविषयत्वान् नास्ति ब्रह्मेति प्रसज्जेतात आह—सत्त्वम् इति । सत् स्थूलं कार्यम्, असत् सूक्ष्मं कारणं, तत् सर्वं ब्रह्मैव भाति । कुतः ? यद् यस्मात् तयोः सद्-असतोः परं कारणं कार्यं कारणाद् भिन्नं न भवति, वाचारम्भणम् [छा।उ। ६.१.४] इति श्रुतेः ।
ननु कथम् एकं बहु-विधस्य कारणं ? तत्राह—उरु-शक्ति अनेक-शक्तिमत् । उरुर् महती माया-लक्षणा शक्तिर् यस्य तद् इति वा । बहुधा भानम् एव दर्शयति—आदौ यद् एकं ब्रह्म तद् एव सत्त्वं रजस् तम इति त्रि-वृत् प्रधानं प्रवदन्ति । ततः क्रिय-शक्त्या सूत्रं ज्ञान-शक्त्या महान् इति तद् एव प्रवदन्ति, ततोऽहम् इति जीवं जीवोपाधिम् अहङ्कारं च तद् एव प्रवदन्ति । ततश् च ज्ञान-क्रियार्थ-फल-रूपतया, ज्ञान-शब्देन देवताः, क्रिया इन्द्रियाणि, अर्था विषयाः, फलं तत्-प्रकाशः सुखादि वा तद्-रूपतया ब्रह्मैव भाति । न हि सर्व-स्वरूपेण स्वतो भासमानस्य ब्रह्मणः स्व-सिद्धौ प्रमाणापेक्षेति भावः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शक्तेस् तु स्वाभाविक-रूपत्वम् आह—सत्त्वम् इति । ब्रह्मैवोरू-शक्तिर् अनेकात्मक-शक्तिमद् भाति । एव-कारेण ब्रह्मण एव सा शक्तिः, न तु कल्पितेति स्वाभाविक-रूपत्वं शक्तेर् बोधयति । तत्र हेतुः—यद् ब्रह्म सत् स्थूलं कार्यं पृथिव्य्-आदि-रूपम्, असत् सूक्ष्मं कारणं प्रकृत्य्-आदि-रूपं, तयोर् बहिरङ्ग-वैभवयोः परं स्वरूप-वैभवं श्री-वैकुण्ठादि-रूपं, तटस्थ-वैभवं शुद्ध-जीव-रूपं च । अन्यथा तत्-तद्-भावासिद्धिः
किं-रूपतया तत्-तद्-रूपं ? तत्राह—ज्ञान-क्रियार्थ-फल-रूपतया महद्-आदि-लक्षण-ज्ञान-शक्ति-रूपत्वेन, सूत्रादि-लक्षण-क्रिया-शक्ति-रूपत्वेन, तन्-मात्रादि-लक्षणार्थ-रूपत्वेन, प्रकृति-लक्षण-तत्-तत्-सर्वैक्य-रूपत्वेन सद्-असद्-रूपम्, फल-रूपत्वेन तयोः परम् । तत्र फलं पुरुषार्थ-स्वरूपं स-वैभवं भगवद्-आख्यं चिद्-वस्तु तद्-अनुमतत्वात्3 शुद्ध-जीवाख्यं चिद्-वस्तु च । एतेन ज्ञान-क्रियादि-रूपेणोरू-शक्तित्वं व्यञ्जितम् ।
शक्तेः स्वाभाविक-रूपत्वं स-प्रमाणं स्पष्टयति—आदौ यद् एकं ब्रह्म तद् एव सत्त्वं रजस् तम इति त्रि-वृत्-प्रधानम् । ततः क्रिया-शक्त्या सूत्रं ज्ञान-शक्त्या महान् इति । ततोऽहम् अहङ्कार इति । तद् एव च जीवं शुद्ध-स्वरूपं जीवात्मानं तद्-उपलक्षणकं वैकुण्ठादि-वैभवं च प्रवदन्ति वेदाः । ते च—सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य् आद्याः ।
आदाव् एकं, ततस् तत्-तद्-रूपम् इति शक्तेः स्वाभाविकत्वम् आयातम् अन्यस्यासद्-भावेनौपाधिकत्वायोगात् । स्वरूप-वैभवस्याङ्ग-प्रत्यङ्गवन् नित्य-सिद्धत्वेऽपि, सूर्य-सत्तया तद्-रश्मि-परमाणु-वृन्दस्येव, तत्-सत्तया लब्ध-सत्ताकत्वात् तद्-उपादानकत्वं तदादिकत्वं च स्यात् । तस्य भासा सर्वम् इदं विभाति [क।उ। २.२.१५] इति श्रुतेः ।
शक्तेर् अचिन्त्यत्वं स्वाभाविकत्वं चोक्तं श्री-विष्णु-पुराणे—
निर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः । > कथं सर्गादि-कर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ [वि।पु। १.३.१]
इति मैत्रेय-प्रश्नानन्तरं श्री-पराशर उवाच—-
शक्तयः सर्व-भावानाम् अचिन्त्य-ज्ञान-गोचराः । > यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः । > भवन्ति तपसां श्रेष्ठपावकस्य यथोष्णता ॥ [वि।पु। १.३.२]
अत्र श्री-स्वामि-टीका च—
तद् एवं ब्रह्मणः सृष्ट्य्-आदि-कर्तृत्वम् उक्तम् । तत्र > शङ्कते—निर्गुणस्येति । सत्त्वादि-गुण-रहितस्य, अप्रमेयस्य > देश-कालाद्य्-अपरिच्छिन्नस्य शुद्धस्य अदेहस्य सहकारि-शून्यस्येति वा, > अमलात्मनः पुण्य-पाप-संस्कार-शून्यस्य, रागादि-शून्यस्येति वा । > एवम्-भूतस्य ब्रह्मणः कथं सर्गादि-कर्तृत्वम् इष्यते ? > एतद्-विलक्षणस्यैव लोके घटादिषु कर्तृत्वादि-दर्शनाद् इत्य् अर्थः । > परिहरति—शक्तय इति सार्धेन । लोके हि सर्वेषां भावानां > मणि-मन्त्रादीनां शक्तयो\ऽचिन्त्य-ज्ञान-गोचराः । अचिन्त्यं तर्कासहं > यज्-ज्ञानं कार्यान्यथानुपपत्ति-प्रमाणकं तस्य गोचराः सन्ति । > यद् वा, अचिन्त्या भिन्नाभिन्नत्वादि-विकल्पैश् चिन्तयितुम् अशक्याः केवलम् > अर्थापत्ति-ज्ञान-गोचराः सन्ति । यत एवम् अतो ब्रह्मणोऽपि तास् > तथा-विधाः शक्तयः सर्गादि-हेतु-भूताः भाव-शक्तयः > स्वभाव-सिद्धाः शक्तयः सन्त्य् एव । पावकस्य दाहकत्वादि-शक्तिवत् > । अतो गुणादि-हीनस्याप्य् अचिन्त्य-शक्तिमत्त्वाद् ब्रह्मणः > सर्गादि-कर्तृत्वं घटत इत्य् अर्थः । श्रुतयश् च— > न तस्य कार्यं करणं च विद्यते > न तत्-समश् चाभ्यधिकश् च दृश्यते । > परास्य शक्तिर् विविधैव श्रूयते > स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] > मायां तु प्रकृतिं विद्यान् > मायिनं तु महेश्वरम् ॥ [श्वे।उ। ४.१०] इत्य् आदयश् च । > यद् वा, एवं योजना—सर्वेषां भावानां > पावकस्योष्णता-शक्तिवद्-अचिन्त्य-ज्ञान-गोचराः शक्तयः सन्त्य् एव । > ब्रह्मणः पुनस् ताः स्वभाव-भूताः स्वरूपाद् अभिन्नाः शक्तयः । > परास्य शक्तिर् विविधैव श्रूयते [श्वे।उ। ६.८]इति श्रुतेः । > अतो मणि-मन्त्रादिभिर् अग्नौष्ण्यवन् न केनचिद् विहन्तुं शक्यन्ते । अत > एव तस्य निरङ्कुशम् ऐश्वर्यम् । तथा च श्रुतिः—स वा अयम् अस्य > सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिर् [बृ।आ।उ। > ४.४.२२]इत्य्-आदिः। यत एवं अतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति > नात्र काचिद् अनुपपत्तिः इत्य् एषा ।
अत्र प्रश्नः—सोऽयं ब्रह्म खलु निर्विशेषम् एवेति पक्षम् आश्रित्य, परिहारस् तु स-विशेषम् एवेति पक्षम् आश्रित्य कृत इति ज्ञेयम् । अत एव प्रश्ने शुद्धस्येत्य् अपि व्याख्यातम् । शुद्धत्वं ह्य् अत्र केवलत्वं मतम्, तच् च युक्तं, परिहारे ब्रह्मणि शक्ति-स्थापनात् । पूर्व-पक्ष-मते ब्रह्मणि शक्तिर् अपि नास्तीति गम्यते । ततः प्रश्न-वाक्येऽप्य् एवम् अर्थान्तरं ज्ञेयम्—निर्गुणस्य प्राकृताप्राकृत-गुण-रहितस्य, अत एव प्रमाणागोचरस्य, तत एवामलात्मनोऽपि शुद्धस्य, न तु स्फटिकादेर् इव परच्छाययान्यथा-दृष्टस्य । तद् एवं निर्विशेषताम् अवलम्ब्य प्रश्ने सिद्धे । परिहारे तु प्रथम-योजनायां निर्विशेष-पक्षम् अनादृत्य ब्रह्मणि कर्तृत्व-प्रतिपत्त्य्-अर्थं शक्तयः साधिताः । द्वितीय-योजनायां तत्र च विशेष-प्रतिपत्त्य्-अर्थं, यथा जलादिषु कदाचिद् उष्णतादिकम् आगन्तुकं स्यात्, तथा ब्रह्मणि न स्याद् इति निर्धारितम् । न तत् समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति श्रुतेः।
तथा मणि-मन्त्रादिभिर् इति व्यतिरेक एव दृष्टान्त इत्य् अतो ब्रह्म-शक्तयस् तु नान्येन पराभूता इत्य् एतच् च दर्शितम् । किं च, ब्रह्म-पदेन सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१]इतिप्रसिद्धिं व्यज्य सत्त्वादि-गुणमय-मायायास् तद्-अनन्यत्वेऽपि, निर्गुणस्येति प्राकृत-गुणैर् अस्पृष्टत्वम् अङ्गीकृत्य तेषां बहिरङ्गत्वं स्वीकृतम् ।
तद् एतद् एव मायां तु प्रकृतिं विद्याद् [श्वे।उ। ४.१०] इत्य् एषा श्रुतिः > स्वीचकार । मायां च तद्-अपाश्रयाम्[भा।पु। १.७.४] इतिवन् > महेश्वरत्वान् मायाया बहिरङ्गाया आश्रय इति तां पराभूय स्थितम् इति > च लभ्यते । तस्मात् पूर्ववद् अत्रापि शक्ति-मात्रस्य स्वाभाविकत्वं > माया-दोषास्पृष्टत्वं च साधितम् ।
अत एव श्री-गीतोपनिषत्सु च—
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वाऽमृतम् अश्नुते । > अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥ > सर्वतः पाणि-पादं तत् [गीता १३.१२-१३] इत्य्-आदि ।
अत्रेयं प्रक्रिया—एकम् एव तत् परम-तत्त्वं स्वाभाविकाचिन्त्य-शक्त्या सर्वदैव स्वरूप-तद्-रूप-वैभव-जीव-प्रधान-रूपेण चतुर्धावतिष्ठते । सूर्यान्तर्-मण्डलस्थ-तेज इव मण्डल-तद्-बहिर्गत-रश्मि-तत्-प्रतिच्छवि-रूपेण । एवम् एव श्री-विष्णु-पुराणे—-
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । > परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ [वि।पु। > १.२२.५६] इति ।
यस्य भासा सर्वम् इदं विभाति [मु।उ। २.२.११] इति श्रुतेः । अत्र व्यापकत्वादिना तत्-तत्-समावेशाद्य्-अनुपपत्तिश् च शक्तेर् अचिन्त्यत्वेनैव पराहता । दुर्घट-घटत्वं ह्य् अचिन्त्यत्वम् ।
शक्तिश् च सा त्रिधा—अन्तरङ्गा बहिरङ्गा तटस्था च। तत्रान्तरङ्गया स्वरूप-शक्त्याख्यया पूर्णेनैव स्वरूपेण वैकुण्ठादि-स्वरूप-वैभव-रूपेण च तद् अवतिष्ठते । तटस्थया रश्मि-स्थानीय-चिद्-एकात्म-शुद्ध-जीव-रूपेण, बहिरङ्गया मायाख्यया प्रतिच्छवि-गत-वर्ण-शावल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-प्रधान-रूपेण चेति चतुर्ध्वात्वम् । अत एव तदात्मकत्वेन जीवस्येव तटस्थ-शक्तित्वं प्रधानस्य च मायान्तर्-भूतत्वम् अभिप्रेत्य शक्ति-त्रयं श्री-विष्णु-पुराणे गणितम्—
विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा । > अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६१] > तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता । > सर्व-भूतेषु भूपाल तारतम्येन वर्तते ॥ [वि।पु। ६.७.६३] इति > ।
अविद्या कर्म कार्यं यस्याः सा तत्-संज्ञा मायेत्य् अर्थः । यद्यपीयं बहिरङ्गा तथाप्य् अस्यास् तटस्थ-शक्तिमयम् अपि जीवम् आवरितुं सामर्थ्यम् अस्तीत्य् आह तयेति । तारतम्येन तत्-कृतावरणस्य ब्रह्मादि-स्थावरान्तेषु देहेषु लघु-गुरु-भावेन वर्तते इत्य् अर्थः । तद् उक्तम्—यथा सम्मोहितो जीवः [भा।पु। १.७.५] इति । ययैवाचिन्त्य-मायया ज्ञेयम् । प्रधानस्य माया-व्यङ्ग्यत्वं चाग्रे दर्शयिष्यते । अत्रान्तरङ्गत्व-तटस्थत्व-बहिरङ्गत्वादिनैव तेषाम् एकात्मकानां तत् तत् साम्यम्, न तु सर्वात्मनेति तत् तत् स्थानीयत्वम् एवोक्तम् । न तु तत्-तद्-रूपत्वं, ततस् तत्-तद्-दोषा अपि नावकाशं लभन्ते इति । अत्र विशेषः श्री-भगवत्-सन्दर्भे दृश्यः ॥३७॥ [भगवत्-सन्दर्भ १४]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चैतद् ब्रह्मणः स्वरूपानुभव एव लोकैर् दुष्करस्य प्रामाण्ये तु नास्ति कोऽपि संशयो यतो ब्रह्मैवेदं सर्वम् इति यस्य भासा सर्वम् इदं विभाति इति श्रुत्य्-उक्तं वस्तु-मात्रम् एव सर्वं ब्रह्म-कार्यत्वाद् ब्रह्मैवेति यत् तद् एव विवृणोति—सत्त्वम् इति । यद् एकं प्रसिद्धं ब्रह्म तद् एवादौ माया-शक्ति-रूपं सत्त्वं रजस् तम इति त्रिवृत्-प्रधानं वदन्ति, ततः क्रिया-शक्ति-रूपं सूत्रं, ज्ञान-शक्ति-रूपं महान् इति तद् एव वदन्ति, ततोऽहम् इति जीवं जीवोपाधिम् अहङ्कारं च तद् एव प्रवदन्ति, ततश् च ज्ञान-क्रियार्थ-फल-रूपतया ज्ञान-शब्देन देवताः, क्रिया इन्द्रियाणि, अर्था विषयाः, फलं सुखादि, तद्-रूपतया उरवः शक्तयोऽविभूताध्यात्माधिदैव-संज्ञाः, यतस् तद् ब्रह्मैव वदन्ति ।
तद् एव सत् स्थूलं कार्यम् असत् सूक्ष्मं कारणं तत् सर्वं ब्रह्मैव भाति । कुतः ? यद् यस्मात् तयोः सद्-असतोः परं कारणं, अत एव—
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् । > ममैव तद्-घनं तेजो ज्ञातुम् अर्हसि भारत ॥ इति > हरिवंश-वाक्यम् ।
तस्य चायम् अर्थः—तत्-परं सर्वस्मात् परं यत् परमं ब्रह्म, सर्वं जगद् विभजते, स्वत एव महद्-आदि-रूपेण विभक्तं करोति तन् ममैव तेजो ज्ञातुम् अर्हसीत्य् अतो ब्रह्मणो हि प्रतिष्ठाहम् इति भगवद्-उक्तेः सूर्यस्य घनं तेज इतिवत् तस्य वपुस् तेज एव ब्रह्मेत्य् अभ्युपगन्तव्यम् । अत एव यस्य भासा सर्वम् इदं विभाति इति श्रुतौ यस्य कृष्णस्येति व्याचक्षते ॥३७॥
———————————————————————————————————————
॥ ११.३.३८ ॥
नात्मा4 जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवन-विद् व्यभिचारिणां हि ।
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
अहं हि जीव-संज्ञो वै मयि जीवः सनातनः ।
मैवं त्वयानुमन्तव्यं दृष्टो जीवो मयेति ह ॥ > अहं श्रेयो विधास्यामि यथाधिकारम् ईश्वरः ॥ इति मोक्ष-धर्मेषु । > यथेन्द्रिय-गतः प्राणस् तेषां शक्त्या विकल्प्यते । > दृष्टिदं श्रुतिदश् चेति मतिदो ज्ञानदस् तथा ॥ > इत्य्-आदि-भेदतो वाच्य एक एव महा-बलः । > दृष्ट्य्-आदि-शक्तिस् तस्यैव ततो नान्यस्य कस्यचित् ॥ > एवं सद्-रूपकं ब्रह्म तत्-तच्-छक्त्या विकल्प्यते । > एकम् एव महा-शक्ति प्राणस्यापि बल-प्रदम् ॥ इति हरिवंशेषु > ॥३८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्वात्मकं चेद् ब्रह्म, तर्हि सर्वस्य कार्यस्य जन्मादि-विकारवत्त्वाद् ब्रह्मणोऽपि तत्-प्रसङ्गः स्यात् ? अत आह—मात्मेति । आत्मा ब्रह्म न जजान, न जातः । जन्माभावाद् एव तद्-अनन्तरास्तिता-लक्षणोऽपि विकारो नास्ति । नैधते न वर्धते । वृद्ध्य्-अभावाद् एव विपरिणामोऽपि निरस्तः । कुतः ? हि यस्माद् व्यभिचारिणाम् आगमापायिनां बाल-युवादि-देहानां सवन-वित् तत्-तत्-काल-द्रष्टा । न ह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीत्य् अर्थः ।
ननु निरवस्थः कोऽसाव् आत्मा ? अत आह—उपलब्धि-मात्रम् इति । नन्व् आयातं तर्हि क्षणिकत्वं ? नेत्य् आह—सर्वत्रेति । सर्वत्र देशे शश्वत् सर्वदा अनपाय्य् अनुवर्तमानम् । ननु नील-ज्ञानं जातम्, पीत-ज्ञानं नष्टम् इति प्रईतेर् न ज्ञानस्यानपायित्वं ? अत आह—इन्द्रिय-बलेनेति । सद् एव ज्ञानम् इन्द्रिय-बलेन विविधं कल्पितम् । नीलाद्य्-आकार-वृत्तय एव जायन्ते नश्यन्ति च, न ज्ञानम् इति भावः । व्यभिचारिष्व् अव्यभिचारे दृष्टान्तः—प्राणो यथेति॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र यदि त्वम्-पदार्थस्य जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो विचार-गोचरः स्यात्, तदैव तत्-पदार्थस्य तादृशत्वं सुबोधं स्याद् इति । तद् बोधयितुम् अन्यार्थश् च परामर्शः [ब्र।सू। १.३.२०] इति न्यायेन जीवात्मनस् तद्-रूपत्वम् आह—नात्मेति । टीका च—
आत्मा शुद्धो जीवः । न जजान न जातः । जन्माभावाद् एव > तद्-अनन्तरास्तिता-लक्षणो विकारोऽपि नास्ति । नैधते न वर्धते । > वृद्ध्य्-अभावाद् एव विपरिणामोऽपि निरस्तः । हि यस्मात् । > व्यभिचारिणाम् आगमापायिनां बाल-युवादि-देहानां > देव-मनुष्याद्य्-आकार-देहानां वा । सवनवित् तत्-तत्-काल-द्रष्टा । > नह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीत्य् अर्थः । निरवस्थः > कोऽसाव् आत्मा । अत आह उपलब्धि-मात्रं ज्ञानैक-रूपम् । कथम्भूतं > ? सर्वत्र देहे, शश्वत् सर्वदा अनुवर्तमानम् इति। > ननु नील-ज्ञानं नष्टं पीत-ज्ञानं जातम् इति प्रतीतेर् न > ज्ञानस्यानपायित्वम् । तत्राह इन्द्रिय-बलेनेति । सद् एव ज्ञानम् एकम् > इन्द्रिय-बलेन विविधं कल्पितम् । नीलाद्य्-आकारा वृत्तय एव जायन्ते > नश्यन्ति च न ज्ञानम् इति भावः । अयम् आगमापायितदवधि-भेदेन > प्रथमस् तर्कः । द्रष्टृ-दृश्य-भेदेन द्वितीयोऽपि तर्को ज्ञेयः । > व्यभिचारिष्व् अवस्था-व्यभिचारे दृष्टान्तः प्राणो यथेति ॥३८॥ > [तत्त्व-सन्दर्भः ५३]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य ब्रह्मणस् तत्-पदार्थस्यापरोक्षानुभवो न सर्वस्य, किन्तु शुद्ध-त्वं-पदार्थस्य जीवस्यापरोक्षानुभवानन्तरम् एवेत्य् अतः शुद्ध-जीवम् आह—नात्मेति त्रिभिः । आत्म शुद्ध-जीवः । न जजान न जातः इत्य् आद्यो विकारो निषिद्धः । न मरिष्यतीत्य् अन्तः षष्ठः । जन्माभावाद् एव तद्-अनन्तरास्तिता-लक्षणोऽपि विकारोऽपि द्वितीयः । नैधते न वर्धत इति तृतीयः । वृद्ध्य्-अभावाद् एव विपरिणामोऽपि चतुर्थः । न क्षीयते इत्य् अपक्षय इति पञ्चमः । हि यस्मात् । व्यभिचारिणाम् आगमापायिनां बाल-युवादि-देहानां देव-मनुष्यादि-देहानां वा । सवन-वित् तत्-तत्-काल-द्रष्टा । नह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीति भावः ।
तर्हि निरवस्थः कोऽसाव् आत्मा ? इत्य् अत आह—उपलब्धि-मात्रं ज्ञानैक-रूपम् । कथम्भूतं ? सर्वत्र देहे, शश्वत् अनपायि सदानुवर्तमानम् ।
ननु नील-ज्ञानं जातं, पीत-ज्ञानं नष्टम् इति प्रतीतेर् न ज्ञानस्यानपायित्वं ? तत्राह—इन्द्रिय-बलेनेति । सदैव ज्ञानम् एकम् इन्द्रिय-बलेन विविधं कल्पितम् । नीलाद्य्-आकारा वृत्तय एव जायन्ते नश्यन्ति च, न ज्ञानम् इति भावः । व्यभिचारिष्व् अवस्थितस्याप्य् अव्यभिचारे दृष्टान्तः—प्राणो यथेति ॥३८॥
———————————————————————————————————————
॥ ११.३.३९ ॥
अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु
प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : पेशो जरायुर् उद्दिष्टः सुवर्णं पेश उच्यते ।
मृदु पिण्डश् च पेशं स्यात् क्वचिद् भद्रम् अपीष्यते ॥इत्य् अभिधानम् > ।
अवनी-स्थितेषु स्वेदजेषु । भू-स्वेदेन हि प्रायो जायन्ते । तदा कूटस्थे परमातन्य् आस जीवः ।
यं परमात्मानम् ऋते सुप्तानुस्मृतिर् एव न ।\ > देहाद् देहान्तर-गतौ प्रविशेत् प्राणम् एव तु ॥ > जीवः प्राणः परमात्मानम् एवं सुप्ताव् अपि स्फुटम् । > तद् अन्या देवताः सर्वाः प्राणस्यैव वशे स्थिताः ॥ > ईषच् च सुप्तवद् यान्ति नैव मानुष्य-जीववत् । > स्वर्ग-स्थानां न तु स्वापः प्रायो देहेऽपि नाज्ञता ॥ > मृति-सुप्ति-प्रबोधादेर् नियन्ता हरिर् एक-राट् । > तम् ऋते नैव चावस्था नावस्थावान् न च स्मृतिः ॥ > ततस् तु देव-देवेशः प्राणः प्राणेश्वरो हरिः । > न हरेर् ईशिता त्व् अन्यः स हि सर्वाधिको मतः ॥ इति हरि-वंशेषु > ॥३९॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दृष्टान्तं विवृण्वन्न् इन्द्रियादि-लयेन निर्विकारात्मोपलब्धिं दर्शयति—अण्डेष्व् इति । अण्डेषु अण्डजेषु । पेशिषु जरायुजेषु । तरुषु उद्भिज्जेषु । अविनिश्चितेषु स्वेदजेषु । उपधावति अनुवर्तते ।
एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य दार्ष्टान्तिकेऽपि दर्शयति । कथम् ? तदैवात्मा सविकार इव प्रतीयते यदा जागरे इन्द्रिय-गणः । यदा च स्वप्ने तत्-संस्कारवान् अहङ्कारः । यदा तु प्रसुप्तं तदा तस्मिन् प्रसुप्त इन्द्रिय-गणे सन्ने लीने। अहमि अनङ्कारे च सन्ने लीने । कूटस्थो निर्विकार एवात्मा । कुतः ? आशयम् ऋते लिङ्ग-शरीरम् उपाधिं विना । विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः ।
नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते । क्व तदा कूटस्थ आत्मा ? अत आह तद्-अनुस्मृतिर् नः । तस्याखण्डात्मनः सुषुप्ति-साक्षिणः स्मृतिः नः अस्माकं जाग्रद्-द्रष्टॄणां जायते । कालं सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति । अतोऽननुभूतस्य तस्यास्मरणाद् अस्त्य् एव सुष्प्तौ ताद्र्ग्-आत्मानुभवः । विषय-सम्बन्धाभावाच् च न स्पष्ट इति भावः । अतः स्व-प्रकाश-मात्र-वस्तुनः सूर्यादेः प्रकाशवद् उपलब्धि-मात्रस्याप्य् आत्मन उपलब्धिः स्वाश्रयेऽस्त्य् एवेत्य् आयातम् ।
तथा च श्रुतिः—यद् वै तन् न पश्यति, पश्यन् वै द्रष्टव्यान् न पश्यति, न हि द्रष्टुर् दृष्टेर् विपरि-लोपो विद्यतेऽपरिणामित्वात् [बृ।आ।उ। ४.३.२३] इति ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : टीका च—
दृष्टान्तं विवृण्वन्न् इन्द्रियादि-लयेन निर्विकारात्मोपलब्धिं > दर्शयति—अण्डेष्व् इति । अण्डेषु अण्डजेषु । पेशिषु जरायुजेषु । > तरुषु उद्भिज्जेषु । अविनिश्चितेषु स्वेदजेषु । उपधावति अनुवर्तते > । > एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य दार्ष्टान्तिकेऽपि दर्शयति । > कथम् ? तदैवात्मा सविकार इव प्रतीयते यदा जागरे इन्द्रिय-गणः > । यदा च स्वप्ने तत्-संस्कारवान् अहङ्कारः । यदा तु प्रसुप्तं तदा > तस्मिन् प्रसुप्त इन्द्रिय-गणे सन्ने लीने । अहमि अनङ्कारे च सन्ने > लीने । कूटस्थो निर्विकार एवात्मा । कुतः ? आशयम् ऋते लिङ्ग-शरीरम् > उपाधिं विना । विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः । > नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते । क्व > तदा कूटस्थ आत्मा ? अत आह—तद्-अनुस्मृतिर् नः । तस्याखण्डात्मनः > सुषुप्ति-साक्षिणः स्मृतिः नः अस्माकं जाग्रद्-द्रष्टॄणां जायते । कालं > सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इति । अतोऽननुभूतस्य > तस्यास्मरणाद् अस्त्य् एव सुष्प्तौ ताद्र्ग्-आत्मानुभवः । > विषय-सम्बन्धाभावाच् च न स्पष्ट इति भावः । अतः > स्व-प्रकाश-मात्र-वस्तुनः सूर्यादेः प्रकाशवद् उपलब्धि-मात्रस्याप्य् > आत्मन उपलब्धिः स्वाश्रयेऽस्त्य् एवेत्य् आयातम् ।
एतावन्तं इत्य्-आदि, न स्पष्टम् इत्य् अन्तम् । अन्यत् तैः । अतः स्व-प्रकाशवद् उपलब्धि-मात्रस्याप्य् आत्मन उपलब्धिः स्वाश्रयेऽस्त्य् एवेत्य् आयातम् इति ज्ञेयम् । यद् वै तन् न पश्यति, पश्यन् वै द्रष्टव्यान् न पश्यति,न हि द्रष्टुर् दृष्टेर् विपरि-लोपो विद्यतेऽपरिणामित्वात् [बृ।आ।उ। ४.३.२३] इत्य् एषा ।
अण्डेष्व् इति । तद्-अनुस्मृतिर् न इति तस्याखण्डात्मनः सुषुप्ति-साक्षिणः स्मृतिर् नोऽस्माकं जाग्रद्-द्रष्टॄणां जायते । अन्यत् तैः । तत्र न स्पष्ट इति भाव इत्य् अन्ते अतः प्रकाश-मात्र-वस्तुनः सूर्यादेः प्रकाशवद् उपलब्धि-मात्रस्याप्य् आत्मनः उपलब्धिः । स्वाश्रयम् अस्त्य् एवेत्य् आयातम् इति ज्ञेयम् । विपरिलोपो विद्यत इत्य् अन्ते अयं साक्षि-साक्ष्य-विभागेन तृतीयः । सुखावशेषात् दुःखि-प्रेमास्पदत्व-विभागेन च चतुर्थोऽपि तर्कोऽवगन्तव्यः । तद् उक्तम्—
अन्वय-व्यतिरेकाख्यस् तर्कः स्याच् चतुरात्मकः ।
आगमापायि-तद्-अवधि-भेदेन प्रथमो मतः ॥
द्रष्टृ-दृश्य-विभागेन द्वितीयोऽपि मतस् तथा ।
साक्षि-साक्ष्य-विभागेन तृतीयः सम्मतः सताम् ॥
दुःखि-प्रेमास्पदत्वेन चतुर्थः सुख-बोधकः ॥ इति ॥३९॥ [तत्त्व-सन्दर्भ ५३-५४ (७)]
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दृष्टान्तं विवृण्वन्न् इन्द्रियादि-लयेन निर्विकारात्मोपलब्धिं दर्शयति—अण्डेष्व् इति । पेशिषु जरायुजेषु । तरुषु उद्भिज्जेषु । अविनिश्चितेषु स्वेदजेषु । उपधावति जीवम् आददान एव जीवम् अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य, दार्ष्टान्तिकेऽपि दर्शयति—सन्ने इति ।
अयम् अर्थः—जागरे इन्द्रिय-गण एवात्मनः स-विकारत्व-प्रयोजकः । स्वप्ने तु तत्-संस्कारवान् अहङ्कार एवात्मेति । प्रसुप्ते सुषुप्त्य्-अवस्थायाम् इन्द्रिय-गणे सन्ने अहमि लीनेसति, अनङ्कारे च सन्ने कूटस्थो निर्विकार एवात्मा । कुतः ? आशयम् ऋते लिङ्ग-शरीरम् उपाधिं विना । विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः ।
नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते । क्व तदा कूटस्थ आत्मा ? अत आह—तद्-अनुस्मृतिर् नः । तस्य विशेष-ज्ञान-शून्यस्य सुखात्मनः सुषुप्ति-साक्षिणः स्मृतिर् अस्माकं भवति । एतावन्तं कालं सुखम् अहम् अस्वाप्सं, न किञ्चिद् अवेदिषम् इति । अतोऽननुभूतस्यास्मरणाद् अस्त्य् एव सुष्प्ताव् आत्मानुभवः । विषय-सम्बन्धाभावात् तु न स्पष्ट इति भावः । तथा च श्रुतिः—यद् वै तन् न पश्यति पश्यन् वै द्रष्टव्यान् न पश्यति, न हि द्रष्टुर् दृष्टोर्विपरि-लोपो विद्यते [बृ।आ।उ। ४.३.२३] इति ॥३९॥
———————————————————————————————————————
॥ ११.३.४० ॥
यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या
चेतो-मलानि विधमेद् गुण-कर्म-जानि ।
तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं
साक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि सुषुप्तौ कूट-स्थात्मानुभवो भवेत्, कथं पुनर् अपि संसारः स्यात् ? अविद्या-तत्-संस्काराणां विद्यमानत्वद् इति चेत् कदा तर्हि तन्-निवर्तकोऽनुभवो भवेद् अत आह—यर्हीति । वित्तैषणादि विहाय केवलम् अब्ज-नाभस्यैव चरणेच्छया या उरु-भक्तिस् तया पुमांश् चेतसो मलानि विधमेन् नाशयेत् । चेत एव व कर्तृ स्व-गतानि मलानि तया भाक्त्या क्षालयेत् । तदा तस्मिन् विशुद्धे चेतसि सति साक्षाद् अव्यवधानेनात्म-तत्त्वम् उपलभ्यते । अमलयोर् दृशोः सत्योर् यथा पूर्वम् एव सिद्धः सवितृ-प्रकाश इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु यदि सुषुप्तौ निर्विकारात्मानुभवो भवेत्, कथं पुनर् अपि संसारः, अविद्या-तत्-संस्काराणां विद्यमानत्वात् ? इति चेत्, भवतु नाम केवल-ज्ञानिनां तु ज्ञानेनाहङ्कार-पर्यन्त-लये महत्-तत्त्व-प्रधानयोर् लयः । कथं स्यात् सुषुप्तिवत् प्रयत्नान्तरासम्भवात् आश्रयाव्याघातश् च ? तद् एवं सति शुद्ध-त्वं-पदार्थस्य जीवस्याप्य् उपलब्धि-सम्भवात् किम् उत तत्-पदार्थस्य श्री-भगवतः ? इति सत्यं, तत एवेदम् उच्यते इत्य् आह—यर्हीति । यदा पुरुषार्थ-चतुष्टयैषणां विहाय अब्जनाभ-चरणैषणा-प्राप्तीच्छा यस्यां तया भक्त्या भक्ति-प्रभावेण चेतो-मलानि विधमेत् तदा तस्मिन् चित्ते तत्-प्रभावेणैवात्मनो जीवस्य तत्त्वम् आश्रयः श्री-भगवान् उपलभ्यते किम् उतात्म-मात्रम् इत्य् अर्थः ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि सुषुप्तौ निर्विकारात्मानुभवो भवेत्, कथं पुनर् अपि संसारः स्यात्, अविद्या-तत्-संस्काराणां विद्यमानत्वत् ? इति चेत्, कदा तर्हि तद्-रहित-शुद्धात्मानुभवो भवेत् ? तत्र भक्ति-मिश्र-ज्ञान-परिपाकेन प्रथमं शुद्ध-जीवानुभवः स्यात्, ततो
ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति । > समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥ > भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः । > ततो मां तत्त्वतो ज्ञात्वा विशते तद् अनन्तरम् ॥ [गीता १८.५५-५६]
इति भगवद्-उक्त्या भक्त्य्-उत्थ-ज्ञानेन तत्-पदार्थस्य ब्रह्मणोऽपरोक्षानुभवस् ततो ब्रह्म-सायुज्यम् इति क्रमः । यदि तु, यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भा।पु। ११.२०-३२-३३] इति वाक्य-बलात् ब्रह्मानुबुभूषुः केवलाम् एव भक्तिं कुर्यात्, तदा
सत्यं दिशत्य् अर्थितम् अर्थितो नृणाम् > नैवार्थदो यत् पुरर् अर्थितो यतः । > स्वयं विधत्ते भजताम् अनिच्छताम् > इच्छापिधानं निज-पाद-पल्लवम् ॥ [भा।पु। ५.१९.२७]
इति न्यायेन ब्रह्मानुभवं प्राप्य भगवद्-अनुभवम् अपि प्राप्नोतीत्य् आह—यर्हीति । यदा ऊरुः केवला भक्तिस् तया चेतसो मलानि गुण-कर्मजानि विधमेत् नाशयेत् । त्रैगुण्यापगमे नैष्कर्म्यं यदा भवेद् इत्य् अर्थः । कीदृश्या ? अब्जनाभस्य चरणात् चरणोपासनाद् एव एषणा कामना ध्रुवादीनाम् इवान्य-कामनापि भवेद् यतस् तया । तदा तस्मिन् विशुद्धे चेतसि आत्मनस् तत्-पदार्थस्य ब्रह्मणस् त्तत् प्रतिष्ठा-रूपस्य भगवतोऽपि तत्त्वम् उपलभ्यते । यथा अमल-दृशोर् दृशोः पटलापगमे सति निर्मलयोः सत्योः सवितुः सूर्यस्य प्रकाशः । साक्षाद् इति पदेन भक्ति-महिम्ना तत्-प्रतिष्ठा-रूपः । सवितापि सवितृ-भक्तेन स्व-दृग्भ्यां पाणि-पादादि-विशिष्टो वाहनादि-परिकर-सहितोऽप्य् उपलभ्यते ॥४०॥
———————————————————————————————————————
॥ ११.३.४१ ॥
श्री-राजोवाच—
कर्म-योगं वदत नः पुरुषो येन संस्कृतः ।
विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तेः कर्म-योगाधीनत्वात् तं पृच्छति, कर्म-योगम् इति । नैष्कर्म्यं कर्म-निवृत्ति-साध्यं ज्ञानम् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : पूर्वं कर्माण्य् आरभमाणानाम् इत्य्-आदिना श्री-प्रबुद्धेन काम्य-कर्माण्य् एव त्याजितानि, न तु नित्य-नैमित्तिकानि फलस्यैव निन्दितत्वात् । ततस् तेषां परमार्थोपयोगित्वं मनसि कृत्वाह—कर्म-योगम् इति ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुण-कर्मजानि विदमेद् इति श्रुत्वा भक्त्या ज्ञानेन च नैष्कर्म्यं स्याद् इति मया ज्ञायत एव । कर्मणापि नैष्कर्म्यं यथा स्यात् तद् अहं जिज्ञासे इत्य् आह—कर्म-योगम् इति ॥४१॥
———————————————————————————————————————
॥ ११.३.४२ ॥
एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके ।
नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
जानन्तोऽपि हि दुर्ज्ञेयः प्रश्नोऽयं ज्ञानिनाम् अपि ।
इति वेदयितुं ब्रह्म-पुत्रा नोचुर् निमेः पुरा ॥ इति तन्त्र-भागवते > ॥४२॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्नान्तरम् आह—एवम् इति । प्रश्नं प्रष्टव्यम् अर्थम् । पितुर् इक्ष्वाकोः । ब्रह्मणः पुत्राः सनकादयः सर्व-ज्ञा अपि नाब्रुवन् ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्रैव संशयान्तरम्—एवम् इति । तत्र पितुर् अन्तिक इत्य् उक्त्या बालत्वाद् भवतः खल्व् अयोग्यत्वम् एव ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्नं प्रष्टव्यम् अर्थम् । पितुर् इक्ष्वाकोः । ब्रह्मणः पुत्राः सनकादयः । सर्वज्ञा अपि ॥४२॥
———————————————————————————————————————
॥ ११.३.४३ ॥
श्री-आविर्होत्र उवाच—
कर्माकर्म विकर्मेति वेद-वादो न लौकिकः ।
वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : ईश्वरात्मत्वात् ईश्वर-विषयत्वात् ॥४३॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गहनत्व-द्योतनाय प्रथमं द्वितीय-प्रश्नस्योत्तरम् आह—कर्मेति । कर्म विहितम् । अकर्म तद्-विपरीतं निषिद्धम् । विकर्म विगतं कर्म विहिताकरणम् । एतत् त्रयं वेद-वादो वेदैक-गम्यम्, न लौकिकः । वेदस्येश्वरात्मत्वाद् ईश्वराद् उद्भूतत्वाद् अपौरुषेयत्वाद् इत्य् अर्थः । पुं-वाक्ये हि वक्तुर् अभिप्रायतोऽर्थ-ज्ञानं शक्यम् अपौरुषेये तु केवलं वाक्य-पौर्वापर्येणैव तात्पर्यावधारणं, तच् च दुष्करम् इति तत्र कर्मादौ विद्वांसोऽपि मुह्यन्ति किम् उतान्ये । अतस् तव तदा बालत्वान् नैवाब्रुवन्न् इति ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्म-पुत्राणाम् [अहत्तोत्तरत्वे]{।मर्क्} कारणम् आह—कर्माकर्मेति । नाचरेद् यस् त्व् [भा।पु। ११.३.४६] इति वक्ष्यमाणाद् विकर्मणो विहिताकरणत्वम् इत्य् एवार्थः । वेदस्येश्वरात्मत्वाद् इति शब्द-रूपेण तद्-आविर्भाव-विशेष-रूपत्वाद् इत्य् अर्थः, शब्द-ब्रह्म पर-ब्रह्म ममोभे शाश्वती तनू [भा।पु। ६.१६.५१] इति, वेदो नारायणः साक्षात् स्वयम्भूर् इति शुश्रुम [भा।पु। ६.१.४०] इत्य्-आद्य्-उक्तेः । यदि च, अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [बृ।आ।उ। २.४.१०] इत्य्-आदिना, तस्माद् यज्ञात् सर्व-हुतः ऋचः सामानि जज्ञिरे, छन्दांसि जज्ञिरे तस्माद् [ऋ।वे। १०.९०.१०] इत्य्-आदिना च तत उद्भूतत्वम्, तथापि तत्रैव तात्पर्यम् अवतारान्तरवत् अपौरुषेयत्वं त्व् अजीव-जातत्वम् एव प्रमादादि-दोष-चतुष्टय-निरसनं हि तावतैव च स्यात् । तद् एवं तस्य परमाचिन्त्यस्यात्मत्वं परम-पण्डित-शिरोमणेर् वचनत्वं वा भवतु, भवेद् एव तावद् अचिन्त्य-दुर्ज्ञेयाभिप्रायत्वम् ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म खलु शास्त्र-विहिताचरणम् । अकर्म शास्त्र-विहितानाचरणम् । विकर्म तु शास्त्र-निषिद्धाचरणम् । **ईश्वरात्मत्वात्,**शब्द-ब्रह्म पर-ब्रह्म ममोभे शाश्वती तनू [भा।पु। ६.१६.५१] इति भगवद्-उक्तेर् अपौरुषेय-वाक्यत्वाद् इत्य् अर्थः । तत्र मुह्यन्तीति पुं-वाक्ये हि वक्तुर् अभिप्रायतोऽर्थ-ज्ञानं [सूशक्यम्]{।मर्क्} । अपौरुषेये हि केवलं वाक्य-पौर्वापर्येणैव तात्पर्यावधारणम् । तच् च दुष्करम् इति तत्र कर्मादौ विद्वांसोऽपि मुह्यन्ति, किम् उतान्ये । अतस् तव बालत्वात् तदा ते नाब्रुवन् ॥४३॥
———————————————————————————————————————
॥ ११.३.४४ ॥
परोक्ष-वादो वेदोऽयं बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्ज्ञेयं वेद-तात्पर्यम् आह—परोक्ष-वाद इति । यत्रान्यथा-स्थितोऽर्थः सङ्गोपयितुम् अन्यथा कृत्वोच्यते स परोक्ष-वादः । तथा च श्रुतिः—तं वा एतं चतुर्-हूत ॐ सन्तम् । चतुर्-होतेत्य् आचक्षते परोक्षेण । परोक्ष-प्रिया इव हि देवाः । इति, परोक्ष-वादत्वम् एवाह—कर्म-मोक्षायेति ।
ननु स्वर्गाद्य्-अर्थं कर्माणि विधत्ते, न कर्म-मोक्षार्थं तत्राह—बालानाम् अनुशासनं यथा भवति, तथा । अत्र दृष्टान्तः, अगदम् औषधम् । यथा पिता बालम् अगदं पाययन् खण्ड-लड्डुकादिभिः प्रलोभयन् पाययति, ददाति च तानि । नैतावतागद-पानस्य तल्-लाभः प्रयोजनम्, अपि त्व् आरोग्यम् । तथा वेदोऽप्य् अवान्तर-फलैः प्रलोभयन् कर्म-मोक्षायैव कर्माणि विधत्ते ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तद् एव व्यञ्जयन् क्रमेण नित्य-नैमित्तिकान्य् अपि त्याजयित्वा श्री-भगवद्-अर्चनं ग्राहयितुम् आह—परोक्षेति । बालानां नातिप्रज्ञानाम् अशान्तानां च्आनुशासन-रूपोऽयं कर्म-काण्ड-लक्षणोऽपि वेदः कर्म-मोक्षाय अनाद्य्-अदृष्ट-परम्परा-शान्ताय एव कर्माणि सर्वाण्य् एव विधत्ते, यतः परोक्ष-वादः स्वयम् ईश्वरात्मा वेदो हि यन् नित्य-नैमित्तिकाकरणेऽन्य-करणे च लोकं भीषयते, यच् च [नित्य-नैमित्तिक-कर्मणि] आनुषङ्गिकं फलं दिशते, तत् तत् खलु तत्-करणेन तद्-अकरणेन च शोधयित्वानादि-दुःख-मय-कर्म-मोक्षार्थम् एव प्रवर्तयितुं, न तु भयम् एव तादृश-तुच्छ-फलम् एव वा दातुम् इति गम्यते, परम-सुहृत्त्वात् तस्येत्य् अर्थः । तत्र दृष्टान्तः—बालानां तादृश-स्वभावानाम् अगदं पित्रा तद्-दानं, यथेति पिता च रोग-शान्त्य्-अर्थम् एवौषधं पाययितुं तांस् तथा प्रवर्तयति, न त्व् औषध-पानम् एव तस्योद्देश्यम् इत्य् अर्थः ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्ज्ञेयं वेद-तात्पर्यम् आह—परोक्ष-वाद इति । यत्रान्यथा-स्थितोऽर्थो भगवद्-अभिप्रायाभिज्ञैः ऋषिभिः सङ्गोपयितुम् अन्यथा कृत्वोच्यते, स परोक्ष-वादः । यद् उक्तं भगवता—परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३५] इति। परोक्ष-वादत्वम् एवाह—कर्म-मोक्षायेति ।
ननु स्वर्गाद्य्-अर्थं कर्माणि विधत्ते, न कर्म-मोक्षार्थं ? तत्राह—यथा अगदम् औषधम् । बालानाम् अनुशासनम् आज्ञापनं येन तत् । तथा हि, यद्य् एतद् औषधं पिबसि, तदा ते खण्ड-लड्डुकं दास्यामीति प्रलोभ्य, पिता बालान् निम्ब-रसं पाययति, लड्डुकं च तेभ्यो ददात्य् अन्यथा पुनस् तत्-पानाशक्तेः, किन्त्व् अगद-पानस्य न तल्-लाभ एव । प्रयोजनम् अपि त्व् आरोग्यम् । एवं वेदोऽपि फलैः प्रलोभयन् कर्म-मोक्षायैव कर्माणि विधत्ते ॥४४॥
———————————————————————————————————————
॥ ११.३.४५ ॥
नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अज्ञः सन्न् आचरन्न् अपि विकर्मणा मृत्योर् मृत्युम् उपैति ॥४५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कर्म-मोक्षश् चेत् पुरुषार्थस् तर्हि प्रथमम् एव कर्म त्यज्यताम् ? अत आह—नाचरेद् इति । अजितेन्द्रियत्वाद् अज्ञः स्वयं यदि नाचरेत्, तर्हि विकर्मणा कर्मानाचरण-लक्षणेन अधर्मेण मृत्योर् अनन्तरं मृत्युम् एव प्राप्नोति । तथा च श्रुतिः, मृत्वा पुनर् मृत्युम् आपद्यन्ते अर्द्यमानाः स्व-कर्मभिः इति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र यथा बालानां बाल-चिकित्सैव हिताय स्यात्, तद्-अतिक्रमस् त्व् अहिताय तथा तेषां कर्म-तद्-अतिक्रमौ ज्ञेयाव् इत्य् आह—नाचरेद् इति । बालवद् अजितेन्द्रिय इहामुत्र भोगाविरक्तोऽपि वेदोक्तं यो नाचरेत् तथा अज्ञः न विद्यते ज्ञा भगवत्-कथादौ श्रद्धा-रूपा धी-वृत्तिर् यस्य, स च यो नाचरेत् सोऽपि नित्य-नैमित्तिक-कर्माकरण-जातेनाधर्मेणैव मृत्योर् अनन्तरं मृतुम् उपैति, न तु पुण्येनेत्य् अर्थः । वक्ष्यते च तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य्-आदि ।
यद् वा, अज्ञः, न विद्यते ज्ञा श्री-भगवतः कथा-श्रवणादौ श्रद्धा-लक्षणा धी-वृत्तिर् यस्य सोऽत एव तस्मिन् न प्रवर्तते इत्य् अर्थः । तथैवाजितेन्द्रियो ब्रह्म-जिज्ञासया पारमेष्ठ्य-पर्यन्त-भोगे विरक्तो वा न भवतीत्य् अर्थः । तावत् कर्माणि कुर्वीत [भा।पु। ११.२०.९] इत्य् आदौ परस्पर-निरपेक्षयोः श्रद्धा-विरक्त्योर् द्वयोर् एव तत्-तन्-मर्यादात्वेनोक्तेः । विकर्मणा विहिताकरण-रूपेण मृत्योर् अनन्तरं मृत्युं मरण-तुल्यां यातनाम् उपैति, पुनः पुनर् मरणम् उपैति, यातनां चोपैतीत्य् अर्थः । अतस् तेषां विहित-कर्म-त्यागे कथञ्चिन् न निस्तारः ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कर्म-मोक्षश् चेत् पुरुषार्थस् तर्हि प्रथमम् एव कर्म त्यज्यताम् अत आह—नाचरेद् इति । यदि वेदोक्तं प्रातः-स्नान-सन्ध्या-वन्दनादिकं कर्म नाचरेत्, तदा न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् [गीता ३.६] इति भगवद्-उक्तेर् दैहिक-व्यापारं विना स्थातुम् अशक्यत्वात् अजितेन्द्रिय इतीन्द्रिय-जयाभावात् पशुर् इव प्रातर् आरभ्यानियत-भोजन-स्त्री-सङ्गादि-विविध-पाप-निरत एव स्यात् । यतोऽज्ञः विवेक-शून्यः, ततश् च विकर्मणा निषिद्धाचरण-लक्षणेनाधर्मेण मृत्योर् यमात् सकाशात् मृत्युं नरकम् एव प्राप्नोति । तथा च श्रुतिः—मृत्वा पुनर् मृत्युम् आपद्यन्ते अर्द्यमानाः स्व-कर्मभिः इति ॥४५॥
———————————————————————————————————————
॥ ११.३.४६ ॥
वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
स एवेश्वरार्पितं कर्म कुर्वानः सिद्धिं लभते ।
अज्ञात्वा कुर्वतः कर्म स्खलनात् पाप-कारणम् ॥ > तद् एवार्पयतो विष्णौ नैव पापाय तद् भवेत् । > मनो-दोष-विहीनस्य न तु दोषवतः क्वचित् ॥ > सत्सु केशव-पूर्वेषु क्रमशो भक्ति-हीनता ॥ > असद्-भक्तिस् तथा स्नेहो बहु-मानम् अथापि वा । > स्वोत्तमानां प्रिय-त्यागाद् आत्म-प्रिय-चिकीर्षया । > अधिकेष्व् एव नीचोच-भक्ति-व्यत्यास एव वा । > स्वोत्तमस्यात्मनश् चैव सम-स्नेहोऽथवा भवेत् । > कार्येषु बहु-माने वा स्वात्मानः समतापि वा । > आधिक्ये किम् उ वक्तव्यम् आत्मनः शक्ति-हापनम् । > शक्तस्याशक्तवत् कर्म मनो-दोषो इतीरिताः ॥ इति कर्म-तन्त्रे > ॥४६॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् वेदोक्तम् एव कुर्वाणो न तु निषिद्धम् । ननु कर्मणि क्रियमाणे तस्मिन्न् आसक्तिस् तत् फलं च स्यान् न तु नैष्कर्म्य-रूपा सिद्धिर् अत आह—निःसङ्गोऽनभिनिवेशवान् । ईश्वरेऽर्पितं न तु फलोद्देशेन । ननु फलस्य श्रुतत्वात् कर्मणि कृते फलं भवेद् एव, न, रोचनार्थेति । कर्मणि रुच्युत् पादनार्थम् अगद-पाने खण्ड-लड्डुकादि-वत् । ततश् च कर्माभिरुच्या वेदार्थं सम्यग् विचारयति । तदा च, यो वा एतद् अक्षरम् अविदित्वा गार्ग्य् अस्माल् लोकात् प्रैति स कृपणः [बृ।आ।उ। ३.८.१०] इत्य् अनात्म-ज्ञस्यैव कृपणताम् ।
तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति । > ब्रह्म-चर्येण तपसा श्रद्धया यज्ञेनानाशकेन ॥ [बृ।आ।उ। > ४.४.२२]
इति यज्ञादीनां ज्ञान-शेषतां चावधार्य निष्कामेषु कर्मसु प्रवर्तते । ततश् च, स्वर्ग-कामो यजेत इत्य्-आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमाद् अकामितोऽसौ न भवतीति नैष्कर्म्य-सिद्धिर् भवतीति भावः ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कर्म खलु सजातीयत्वात् कर्म वृद्धये एव भवेत्, प्रत्युत कथं तन्-मोक्षाय भवतु ? इत्य् आशङ्क्योभयत्रापि समाधत्ते—वेदोक्तम् एवेति । तत्र क्रियमाण-कर्मण्य् आसङ्गं निरस्यति—निःसङ्ग इति । तत्-फलावाप्तिं निरस्यति—रोचनार्थेति। तद् एतद् धेतु-द्वयं कर्म-वृद्धये दर्शितं तन्-मोक्षाय हेतुः ईश्वरेऽर्पितम् इति तत्-सम्बन्ध-प्रभावेण संस्कृतत्वाद् इति भावः । आमयो येन भूतानाम् इत्य् आदेः ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव परम-कारुणिको वेदो भक्ति-विमुखानां नरानां पशूनाम् इवेन्द्रियारामत्वातिशय-वारणायैव तान् उद्दिश्य कर्माणि फल-दर्शनया रोचयंस् तथा विधत्ते, यथा प्रातर् आरभ्य स्नानादिभिर् विहितानुष्ठानैर् विकर्मण्य् अवसरम् एव ते न प्राप्नुवन्ति । अनिषिद्ध-भोजन-व्यवायादिषु प्रवर्त्यैव पापेभ्यो भीषयमाणः स्व-दत्तां भीषणां ताम् आसक्तिम् आनयत्य् अन्यथा तद्-आज्ञा-पालनासामर्थ्याद् एव ते नामानयिष्यन्न् इत्य् एवं वेद-तात्पर्यम् अवधार्य स्वस्याजितेन्द्रियत्वं दुर्वारम् आलक्ष्य विवेकी कर्मैव कर्तुम् अर्हतीत्य् आह—वेदोक्तम् एव ।
ननु कर्मणि क्रियमाणे तस्मिन्न् तत्-फले चासक्तिस् तत्-फलं च स्यात्, न तु नैष्कर्म्य-रूपा सिद्धिः, अत आह—निःसङ्गः कर्मणि फले चानभिनिवेशवान् ईश्वरेऽर्पितम् एव ।
ननु फलस्य श्रुतत्वात् कर्मणि कृते फलं भवेद् एव, न, रोचनार्थेति । कर्मणि रुच्य्-उत्पादनार्थम् अगद-पाने खण्ड-लड्डुकादिवत् । ततश् च, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च [बृ।आ।उ। ४.४.२२]इति यज्ञादीनां ज्ञान-शेषतां चावधार्य निष्काम-कर्मणि प्रवर्तते । ततश् च, स्वर्ग-कामो यजेत इत्य्-आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमाद् अकामितोऽसौ न भवतीति परमेश्वरे कर्मार्पण-महिम्ना भक्ति-मिश्र-ज्ञान-जनकेन कर्मणापि नैष्कर्म्य-सिद्धिर् भवेद् इति भावः ॥४६॥
———————————————————————————————————————
॥ ११.३.४७ ॥
य आशु हृदय-ग्रन्थिं निर्जिहीर्षुः परात्मनः ।
विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैदिकं कर्म-योगम् उक्त्वा तान्त्रिकम् आह—य आश्व् इति । परात्मनः परस्यैव सत आत्मनो जीवस्य हृदय-ग्रन्थिम् अहङ्कार-बन्धं निर्हर्तुमिच्छुः सन् तन्त्रोक्तेन च विधिना प्रकारेण भजेत् । तन्त्रम् आगमः । च-काराद् वैदिकेन सह समुच्चयम् आह ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अपि बालान् प्रत्य् एवोक्तं विज्ञान् प्रति तु श्रूयताम् इति श्री-भगवद्-अर्चनम् एव ग्राहयति—य आश्व् इति । च-कारेण पादाद्य्-उपचरणैर् वैदिक-मन्त्रादीनपि गृह्णाति ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् अपि बालान् प्रत्य् एवोक्तं, विज्ञान् प्रति तु श्रूयताम् इति श्री-भगवद्-अर्चन-जिग्राहयिषयाह—य आश्व् इति । परात्मनः वस्तुतो देहात् परश् चासाव् आत्मा जीवश् चेति तस्य हृदय-ग्रन्थिम् अहङ्कारं निर्हर्तुम् इच्छुर् भवेत् । तत्र आगमः, तद्-उक्तेन । च-काराद् वैदिकेन च ॥४७॥
———————————————————————————————————————
॥ ११.३.४८ ॥
लब्धानुग्रह आचार्यात् तेन सन्दर्शितागमः ।
महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : अव्यग्रत्वेनाचार्यं लब्ध्वा ।
परीक्ष्यैव गुरुः शिष्यं शिष्योऽपि गुरुम् आव्रजेत् । > अन्यथा नरकायैव प्रायश्चित्तं गुरोस् तथा ॥ इति च ॥४८॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एव विधिम् आह—लब्धानुग्रह इत्य्-आदिना । तेन आचार्येण सन्दर्शित आगमो\ऽर्चन-प्रकारो यस्य सः ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्त्र-गुरुस् त्व् एक एवेत्य् आह—लब्धानुग्रह इति । अनुग्रहो मन्त्र-दीक्षा-रूपः । आगमो मन्त्र-विधि-शास्त्रम् । अस्यैकत्वम् एक-वचनत्वेन बोध्यते ।
बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् । > गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥
इति ब्रह्म-वैवर्तादौ तत्-त्याग-निषेधात् । तद्-अपरितोषेणाप्य् अन्यो गुरुः क्रियते ततोऽनेक-गुरु-करणे पूर्व-त्याग एव सिद्धः । एतच् चापवाद-वचन-द्वारापि श्री-नारद-पञ्चरात्रे बोधितम्—
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । > पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ इति ॥४८॥ >
[भक्ति-सन्दर्भः २०७]
महा-पुरुषाभ्यर्चने सामान्यतः सर्वस्या यस्याः कस्याश्चिद् वा मूर्तेः प्राप्तौ विशिष्याह—मूर्त्या इति एकयाप्य् अभिमतया इति ॥४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं विधिम् आह—लब्धेति । सन्दर्शित आगमोऽर्चन-प्रकारो यस्मै सः ॥४८॥
———————————————————————————————————————
॥ ११.३.४९ ॥
शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः ।
पिण्डं विशोध्य सन्न्यास- कृत-रक्षोऽर्चयेद् धरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मूर्तेः संमुखम् आसीनः । आदि-शब्देन भूत-शुद्ध्य्-आदिभिः । पिण्डं देहं विशोध्य सन्न्यासैः सद्भिर् न्यासैः कृता रक्षा येन सः ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्राण-संयमनं प्राणायामः । आदि-शब्दात् भूत-शुद्ध्य्-आदि । पिण्डं देहम् । सद्भिर् न्यासैः कृता रक्षा येन सः ॥४९॥
———————————————————————————————————————
॥ ११.३.५०-५१ ॥
अर्चादौ हृदये चापि यथा-लब्धोपचारकैः ।
द्रव्य-क्षित्य्-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥
पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः ।
हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
द्रव्य-लिल्ङ्गं शिलाद्यं स्याद् आत्म-ल्लिङ्गं मनोमयम् ।
अथवा स्थण्डिले चैव विष्णोर् लिङ्गं प्रकीर्तितम् ॥ इति च > ॥५०॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आदाव् एव द्रव्याणि पुष्पादीनि जन्त्वादि-शोधनेन, क्षितिं संमार्जनादिना, आत्मानम् अव्यग्रतया, लिङ्गं मूर्तिम् अनुलेप-क्षालनादिना, निष्पाद्य योग्यानि कृत्वा । पाद्यादि-पात्राण्य् उपकल्प्य सन्निधाप्य हृदि संपूजितं श्री-मूर्तौ ध्यात्वा हृदादिभिः हृदय-शिरः-शिखा-कवच-नेत्रास्त्र-मन्त्रैर् मूल-मन्त्रेण च देवे कृत-न्यासो मूल-मन्त्रेणार्चयेत् ॥५०-५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अर्चादाव् इति युग्मकम् । पाद्यादीन्य् एव सन्निधाप्य यथा-योग्य-स्थाने स्थापयित्वा मानसान्तरं श्री-मूर्ति-रूपेण श्री-कृष्णं सन्निधाप्येति वा ॥५०-५१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा यथावद् द्रव्याणि पुष्पादीनि जन्त्व्-आदि-शोधनेन, क्षितिं संमार्जनादिना, आत्मानम् अव्यग्रतया, लिङ्गं मूर्तिम् अनुलेप-क्षालनादिना निष्पाद्य, योग्यानि कृत्वा, पाद्यादि-पात्राण्य् उपकल्प्य, हृद्-आदिभिः हृदय-शिरः-शिखा-कवच-नेत्रास्त्र-मन्त्रैर् मूल-मन्त्रेण च कृत-न्यासः ॥५०-५१॥
———————————————————————————————————————
॥ ११.३.५२-५३ ॥
साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः ।
पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः ॥
गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः ।
साङ्गं सम्पूज्य विधि-वत् स्तवैः स्तुत्वा नमेद् धरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्गानि हृदयादीनि । उपाङ्गानि सुदर्शनादीनि । तत्-सहितां स-पार्षदां स-परिवाराम् । कैर् उपचारैर् अर्चयेत् ? तद् आह—पाद्येति । आदि-शब्देन मधुपर्कम् आचमनं च । अक्षतास् तिलकालङ्कारे, न तु पूजायाम् । नाक्षतैर् अर्चयेद् विष्णुं न केतक्या महेश्वरम् इति निषेधात् । अपहारो नैवेद्यम् ॥५२-५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : साङ्गोपाङ्गाम् इति युग्मकम् ॥५२-५३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अङ्गानि हृदयादीनि । उपाङ्गानि सुदर्शनादीनि तत्-सहिताम् । माल्यानि स्वर्ण-मुक्तादि-हाराः । नाक्षतैर् अर्चयेद् विष्णुं न केतक्या महेश्वरम् इति निषेधात् । अक्षता अनुपहताः स्रजः पुष्प-मालाः ॥५२-५३॥
———————————————————————————————————————
॥ ११.३.५४ ॥
आत्मानं तन्-मयं ध्यायन् मूर्तिं सम्पूजयेद् धरिम् ।
शेषाम् आधाय शिरसा स्व-धाम्न्य् उद्वास्य सत्-कृतम् ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) : तन्-मयं तत्-प्रधानम् ।
विष्णोर् भृत्योऽहम् इत्य् एव सदा स्याद् भगवन्-मयः । > नैवाहं विष्णुर् अस्मीति विष्णुः सर्वेश्वरो ह्य् अजः ॥ इति च > ॥५४॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शेषां निर्माल्यम् । स्व-धाम्नि स्व-स्थाने । देवं हृदि मूर्तिं करण्डके उद्वास्य स्थापयित्वा पूजा-विधिं समापयेद् इति शेषः ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानं तन्मयं तद्-आविष्टं कामुकाः कामिनी-मयम् इतिवत् । स्व-धाम्नि श्री-कृष्ण-मूर्तेः स्थाने उद्वास्य उत्थाप्य शयनादि-मुद्रया स्थापयित्वा । यद् वा, स्व-धाम्नि प्रदेश-विशेषे उद्वास्य इत उत्थाप्य शयन-लीलायमानत्वेन ध्यात्वा ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तन्-मयम् उपास्य भगवद्-आकारम् इत्य् अहङ्ग्रहोपासनोक्ता । शेषां निर्माल्यम् । सत्-कृतं देवं स्व-धाम्नि उद्वास्य स्थापयित्वा पूजा-विधिं समापयेद् इति शेषः ॥५४॥
———————————————————————————————————————
॥ ११.३.५५ ॥
एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः ।
यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥
मध्वाचार्यः (भागवत-तात्पर्यम्) :
स्वादानात् स्वात्मनो व्याप्त्या विष्णुः स्वात्मेति कथ्यते ।
न तु जीव-स्वरूपत्वात् स हि जीवेश्वरः प्रभुः ॥ इति शब्द-निर्णये ॥५५॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तान्त्रिकं कर्म-योगम् उपसंहरति—एवम् इति ॥५५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सम्भवेनान्यान्य् अपि पूजाङ्गान्य् आह—एवम् इति ॥५५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अचिराद् इति । पूर्व-प्रोक्तात् कर्म-योगाद् अयम् अहङ्ग्रहोपासना-भक्ति—मयस् तान्त्रिकः कर्म-योगः श्रेष्ठः । किन्तु, ये वै भगवता प्रोक्ताः [भा।पु। ११.२.३४] इत्य् अनन्तरं, तत्र भागवतान् धर्मान् शीक्षेत् [भा।पु। ११.३.२२] इत्य् अनन्तरं च शुद्ध एव भक्ति-योगः प्रोक्तो ज्ञेयः ॥५५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकादशे तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥
———————————————————————————————————————
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां
एकादश-स्कन्धे जायन्तेयोपाख्याने
विदेह-प्रश्नस् तृतीयोऽध्यायः
॥ ११.३ ॥
———————————————————————————————————————
(११.४)
-
एतावता वैध-वर्णाश्रम-परः परमात्म-वैभव-दृष्ट्या चेतन-प्रकाशतारतम्य-विचार-क्रमेण सर्व-भूतेषु यथा-शक्ति मान-दानानुकम्पा-सहितो लौकिक-श्रद्धया हर्य्-अर्चायां चारोप-सिद्ध-भक्ति-रीत्या हरि-सन्तोषक-कर्म-फलार्पणेन कनिष्ठ-कनिष्ठ-सत्त्व-लक्षण-भागवताधिकारः ज्ञेयः ॥ (पुरिदासः) ↩︎
-
अत्रानुरूपाभिप्रायकं अथ मां [भा।पु। ३.२९.२७] इत्य्-आदि, भगवान् इति [भा।पु। ३.२९.३५] इत्य् अन्तं पद्य-जातम्, तथा पात्रं तत्र [भा।पु। ७.१४.३४] इत्य्-आदि, उत्तराध्याये च द्वितीय-पदं यथार्हतः इत्य् अन्तं पद्य-जातं च सुविचार्यम् । (पुरिदासः) ↩︎
-
तद्-अनुगतत्वात् (क्रम-सन्दर्भ) ↩︎
-
आत्मा ↩︎