०२ श्री-नारद-वसुदेव-संवादः

॥ ११.२.१ ॥

श्री-शुक उवाच—

गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।

अवात्सीन् नारदोऽभीक्ष्णं कृष्णोपासन-लालसः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

द्वितीये निमिजायन्त-संवादेन नारदः ।

धर्मान् भागवतान् भक्त्या वसुदेवाय पृच्छते ॥ओ॥

अभीक्ष्णं प्रस्थापितोऽपि पुनः पुनर् अवात्सीद् इत्य् अर्थः । ननु नारदस्य दक्ष-शापान् नैकत्र-वासः सम्भवतीत्य् आशङ्क्याह—गोविन्द-भुज-गुप्तायाम् इति । न तस्यां शापादेः प्रभाव इत्य् अर्थः । कृष्णोपासने लालसा औत्कण्ठ्यं यस्य सः ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ तद्-आनन्तर्य-प्राप्तं श्री-वसुदेव-नारद-संवादं वक्तुं श्री-भगवद्-इच्छा तादृशानर्थ-सहकारित्वेऽपि श्री-नारदस्य द्वारकायाम् एव वास आसीद् इति स-हेतुकम् आह—गोविन्देति । अभीक्ष्णं लोक-वृत्त-जिज्ञासादि-लीलया श्री-भगवता मुहुस् तत्र तत्र प्रस्थापितोऽपि, पुनः पुनर् अवात्सीद् इत्य् अर्थः । कृष्णस्य उप समीपे आसने स्थितौ लालसा यस्य तादृशः । तद्-भुज-गुप्तायाम् इति स्थान-सौख्यम् अपि दर्शितम् ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

द्वितीये वसुदेवेन पृष्टोऽभून् नारदो निमेः ।

प्रश्ने कवि-हवी धर्मान् वैष्णवान् प्रोचतुः क्रमात् ॥ओ॥

अभीक्ष्णम् अवात्सीद् इति । कृष्ण-प्रभावाद् एव न तत्र दक्ष-शापः प्रभवतीति भावः ॥१॥

———————————————————————————————————————

॥ ११.२.२-३ ॥

को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् ।

न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः ॥

तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् ।

अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद्-भजने मुक्तानाम् अपीदृशम् औत्सुक्यं तं को नाम न भजेत् ? इत्य् आह—को न्व् इति । इन्द्रियवान् इति इन्द्रियवत्त्व-मात्रम् एव यत्राधिकारि-विशेषणम् इत्य् अर्थः । सर्वतः सर्वेष्व् अपि लोकेषु मृत्युर् यस्य सः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र तस्य वासे कैमुत्यं—को नु इति । अन्योऽपि क इन्द्रियवान् इत्य् अनिन्द्रियवत्सु तरु-गुल्मादिष्व् अपि तद्-भजन-सौख्यं वर्णितम् । ततः सेन्द्रियवान् को न भजेत् ? इति स्वभावत एव तद् योग्यं सर्वेषाम् इत्य् अर्थः । विचारतः सर्वतो-मृत्युर् इति । न चेदं साधारण-जनानाम् एव तद् भजनीयम् इत्य् आयातम्, अपि तु मुक्तानाम् अपीत्य् आह—उपास्यम् इति । तद् एवं विषयि-मुमुक्षु-मुक्तानाम् अपि तद् भजनीयम् इति स्थिते महा-भक्त-राजः श्री-नारदो वा कथं न भजेत् ? इति भावः ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्-भजने मुक्तानाम् अपीदृशम् औत्सुक्यं, तं बद्धः खलु को नु न भजेद् इत्य् आह—को न्व् इति । इन्द्रियवान् इति श्रोत्रादीन्द्रियवत्त्वे एव तद्-भजनेऽधिकार इति भावः । न केवलम् ईशितव्या जीवा एव तं भजन्ति, किन्त्व् अमरोत्तमैः रुद्राद्यैर् अपि ॥२॥

———————————————————————————————————————

॥ ११.२.४ ॥

श्री-वसुदेव उवाच—

भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् ।

कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा पित्रोर् यात्रा आगमनम् अपत्यानां स्वस्तये मङ्गलाय । यथा च उत्तम-श्लोकस्य वर्त्म-भूतानां महतां यात्रा कृपणानां स्वस्तये, तथा भगवद्-रूपस्य भवतो यात्रा सर्व-देहिनां स्वस्तय इति ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्व-देहिनां साधारणानां, कृपणानां सर्व-निकृष्टानाम्, उत्तम-श्लोक-वर्त्मनां सर्वोत्कृष्टानाम् अपि स्वस्तये भवतो यात्रा भवति, यथा पित्रोर् आगमनं त्रिविधानाम् अपि पुत्राणां स्वस्तये भवति ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-देहिनां साधारणानां, कृपणानां सर्व-निकानां, उत्तमः-श्लोक-वर्त्मनां सर्वोत्कृष्टानां भक्तानाम् अपि स्वस्तये भवतो यात्रा आगमनं भवति, यथा पित्रोर् यात्रा त्रिविधानाम् अपि पुत्राणाम् इति सर्व-भूत-वात्सल्यं नारदस्य दर्शितम् ॥४॥

———————————————————————————————————————

॥ ११.२.५ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवैर् अपि महताम् उपमानम् अनुचितम् इत्य् आह—भूतानाम् इति । देवानां चरितम् अतिवृष्ट्य्-आदिना भूतानां दुःखायापि भवति । त्वादृशां त्वया सदृशानाम् । अच्युते आत्मा येषां तेषाम् ॥५॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२०८] देवैर् अपि महताम् उपमानम् अनुचितम् इत्य् आह—भूतानाम् इति । देवानां चरितम् अतिवृष्ट्य्-आदिना भूतानां दुःखायापि भवति । त्वया सदृशानाम् अपि । अतः अच्युते आत्मा मनो-मात्रं, न तु सर्वेन्द्रिय-वृत्तिर् येषां तेषाम् अपि ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—भूतानाम् इति ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देवैर् अपि साधूनाम् उपमानम् अनुचितम् इत्य् आह—भूतानाम् इति । देव-चरितम् अतिवृष्ट्य्-आदिना दुःखायापि भवति ॥५॥

———————————————————————————————————————

॥ ११.२.६ ॥

भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।

छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आत्मनो भजने बुद्धिम् उत्पाद्य फलदाः सुराः ।

उत्तमानां जनानां तु निकृष्टानां विपर्ययः ॥ > शुभाशुभ-फलानां तु कर्मणां विबुधाः सदा । > प्रवर्तका यथा-योग्यम् ऋषयः करुणाः सदा ॥ > सुखम् इच्छन्ति भूतानां प्रायो दुःखासहा नृणाम् । > तथापि तेभ्यः प्रवरा देवा एव हरेः प्रियाः ॥ इत्य् > उद्दाम-संहितायाम् ॥६॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, सुखं कुर्वन्तोऽपि देवा भजनानुसारेण कुर्वन्ति, न तथा साधव इत्य् आह—भजन्तीति । छायेव यथा पुरुषो यावत् करोति, तावद् एव तस्य छायापि, तथा कर्म-सचिवाः कर्म-सहायाः ॥६॥


**सनातन-गोस्वामी : [**हरि-भक्ति-विलास १०.२०९] किं च, सुखं कुर्वन्तोऽपि देवा भजनानुसारेणैव कुर्वन्ति, न तथा साधव इत्य् आह—भजन्तीति । छायेव यथा पुरुषो यावत् करोति, तावद् एव तस्य छायापि, तथा कर्म-सचिवाः कर्म-सहायाः । दीनाः सत्-कर्मादि-राहित्येन सदार्ताः, तेषु वत्सलाः ॥६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्म चात्र भगवद्-भजनम् एव साधवस् तु न कर्मानुगताः प्रत्युत स्वातन्त्र्येण तद्-धीनेष्व् एव दयालव इत्य् आह—साधव इति ॥६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, देवाः स्वार्थ-परतयैव सुखयन्ति साधवस् तु न तथेत्य् आह—भजन्तीति । छायेव यथा पुरुषो यावत् करोति छायापि तस्य तथा । कर्म-सचिवाः कर्म-सहायाः ॥६॥

———————————————————————————————————————

॥ ११.२.७ ॥

ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव ।

यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं यद्य् अपि भवत आगमन-मात्रेणैव वयं कृतार्थाः, तथापि पृच्छामः। तवेति, तव यैर् धर्मैः प्रसन्नो भगवांस् तान् इत्य् अर्थः ॥७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु, कृतार्थस्य तव तत्-पृच्छायां नास्ति प्रयोजनम् इत्य् आशङ्क्याह—यान् इति । मत्-प्रसङ्गेन श्रुत्वा मर्त्योऽपि ॥७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथापीति । यद्यपि तव दर्शन-मात्रेणैव वयं कृतार्था अभूमैव, तथापि इत्य् अर्थः । यान् श्रुत्वा इति त्वद्-दर्शन-सम्भावना रहितो\ऽपि मर्त्यो यान् श्रुत्वापि किम् उताचर्य ॥७॥

———————————————————————————————————————

॥ ११.२.८ ॥

अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् ।

अपूजयं न मोक्षाय मोहितो देव-मायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्वत्तोऽपि किम् अन्यो भगवत्-प्रसाद-पात्रम् अस्ति ? तत्राह—अहं किलेति । भुवि प्रजार्थोऽपूजयं पुत्र-लाभ-प्रयोजनः सन् पूजितवान् । किल इति सूती-गृहे भगवद्-उक्तम् अनुस्मरति (च्फ़्। १०.३.३२-४२) ॥८॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ५०) : सुतपो-नाम्ना निजांशेन अहम् अनन्तम् अन्यत्र मुक्तिदम् अपि तल्-लक्षण-प्रजा-प्रयोजनक एवापूजयम्, न तु मोक्षायापूजयम् । यतो देवे तस्मिन् तद्-दर्शनोत्थिता या माया कृपा पुत्र-भावस् तेन मोहितः । माया दम्भे कृपायां च इति विश्व-प्रकाशात्। किल इति सूती-गृहे श्री-कृष्ण-वाक्यम् अपि प्रमाणीकृतम् (च्फ़्। १०.३.३२-४२) ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ ब्रह्म-शाप-श्रवणेन श्री-कृष्णान्तराय-भ्रमः व्यग्रः स्व-प्रयोजनम् अपि निवेदयति—अहम् इति द्वाभ्याम् । देवस्य भगवतो मायया कृपया मोहितस् तन्-माधुरी-वशी-भूतो मोक्षायापि नापूजयं, किम् उतान्यस्मै, किन्तु प्रजार्थं तद्-रूप-पुत्र-प्राप्तय एव ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु त्वं तु कृतार्थ एवासि ? तत्राह—अहं किल इति प्रजार्थ एव, न तु मुक्त्य्-अर्थः ॥८॥

———————————————————————————————————————

॥ ११.२.९ ॥

यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् ।

मुच्येमह्य् अञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो यथा मुच्येमहि, तथा नोऽस्मान् शाधि शिक्षय । विचित्राणि व्यसनानि यस्मिन् संसारे, तस्मात् संसारात् । तथा विश्वतः सर्वतो भयं यस्मिंस् तस्मात् । भवद्भिर् हेतु-भूतैः । अञ्जसा अनायासेन । अद्धा साक्षात् ॥९॥


जीव-गोस्वामी (प्रीति-सन्दर्भः ५०): अथ यथा विचित्र-व्यसनाद् इत्य्-आदि-तद्-वाक्यान्तरेषु च । व्यसनं श्री-कृष्ण-विच्छेद-हेतुः । भयं भावि-तद्-विच्छेद-शङ्केति व्याख्येयम् । तत्र मन्येऽकुतश्चिद् [भा।पु। ११.२.३३] इत्य्-आदि-श्री-नारदोदाहृत-वाक्यम् उत्तरं गम्यम् । अत्र हि विश्व-शब्दाद् उक्त-भय-निवर्तनम् अपि प्रतिपद्यामहे । संवादान्ते त्वम् अप्य् एतान् [भा।पु। ११.५.४५] इत्य्-आदि-द्वयं चातिदेशेन साक्षात् श्री-कृष्ण-प्राप्ति-गमकम् एव तयोर् इति ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वतो-भयात् सर्वतो\ऽपि भय-हेतोर् अपि ब्रह्म-शापात् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विश्वतो-भयात् संसारात् ॥९॥

———————————————————————————————————————

॥ ११.२.१० ॥

श्री-शुक उवाच—

राजन्न् एवं कृत-प्रश्नो वसुदेवेन धीमता ।

प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हरेर् गुणैर् वर्णनीयत्वेन प्रस्तुतैर् हरिः संस्मारित इत्य् अर्थः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : हरेर् गुणैस् तस्मिन्न् अवतीर्णत्वात् तद्-दर्शने प्रकाशितैः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हरेर् इति अधीग्-अर्थ-दयेशां कर्मणीति षष्ठी । गुणैः सहितं हरिं संस्मारित इत्य् अर्थः ॥१०॥

———————————————————————————————————————

॥ ११.२.११ ॥

श्री-नारद उवाच—

सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ ।

यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीतिम् आविष्करोति—सम्यग् इति त्रिभिः । पृच्छसे पृच्छसि । विश्व-भावनान् सर्व-शोधकान् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र तदीय-स्व-प्रयोजनस्योत्तरं सर्वान्ते दास्यति भगवद्-धर्मस्योत्तरम् आह—सम्यग् इति ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.१२ ॥

श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।

सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहोऽपि हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आदृत आस्तिक्येन गृहीतः । अनुमोदितः परैः क्रियमाणः संस्तुतः । सद्-धर्मो भागवतो धर्मः । देव ! हे वसुदेव ! इत्य् अर्थः । यद् वा, देवेभ्यो विश्वस्मै च द्रुह्यन्ति ये, तान् अपि ॥१२॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.५२३] आदृत आस्तिक्येन गृहीतः । अनुमोदितः परैः क्रियमाणः संस्तुतः सद्-धर्मःदेव हे वसुदेव ! यद् वा, देवेभ्यो विश्वस्मै च द्रुह्यन्ति ये, तान् अपि ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————


॥ ११.२.१३ ॥**

त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः ।

स्मारितो भगवान् अद्य देवो नारायणो मम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, त्वया महान् उपकारः कृत इत्य् आह—त्वयेति । पुण्ये श्रवण-कीर्तने यस्य सः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नारायणस् तादृश-धर्मे मदीय-गुरु-रूपो नारायण-र्षिः स्मारित इति कृष्णोपासनावेशेन तस्यापि विस्मरणात् ॥१३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.१४ ॥

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।

आर्षभाणां च संवादं विदेहस्य महात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्रापि भगवद्-धर्म-निर्णयेऽपि । विदेहस्य जनकस्य ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र श्री-नारायणोपदिष्ट-धर्मे\ऽप्य् उदाहरन्ति स्मरन्ति तच्-छिष्या इति माहात्म्य-विशेषायोक्तम् ॥१४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ११.२.१५ ॥

प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः ।

तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आर्षभाणाम् उत्पत्तिं सान्वयां विविच्य कथयति—प्रियव्रत इति सप्तभिः ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आर्षभाणाम् इत्य् उक्तं, तत्र ऋषभ एव कः ? इत्य् अत आह—प्रियव्रत इति ॥१५॥

———————————————————————————————————————

॥ ११.२.१६ ॥

तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया ।

अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पार-गम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मोक्ष-धर्म-विवक्षया मोक्ष-धर्माणां प्रवर्तनेच्छया अवतीर्णं वासुदेवांशम् आह—तस्य च वेद-पारगं सुत-शतम् आसीत् ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.१७ ॥

तेषां वै भरतो ज्येष्ठो नारायण-परायणः ।

विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषाम् ऋषभ-सुतानां मध्ये नव-योगीश्वराणां चरितं वक्तुम् इतरेषां चरितं ततो विविच्याह—तेषाम् इति । एतद् अजनाभं नाम वर्षं यस्य नाम्ना भारतम् इत्य् अद्भुतं विख्यातम् आसीत् । एतेन तस्य धर्मातिरेको निरूपितः ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.१८ ॥

स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् ।

उपासीनस् तत्-पदवीं लेभे वै जन्मभिस् त्रिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इमां पृथ्वीम् । गृहान् निर्गतः । हरिम् उपासीनः सेवमानः सन् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.१९ ॥

तेषां नव नव-द्वीप-पतयोऽस्य समन्ततः ।

कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्विजातयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नव सुताः नव-द्वीप-पतयो नवानां ब्रह्मावर्तादि-भू-खण्डानां पतयः । अस्य भारतस्य वर्षस्य । एकाशीतिः सुताः कर्म-मार्ग-प्रवर्तका ब्राह्मणा अभूवन् ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषाम् ऋषभ-पुत्राणां मध्ये नवद्वीप-पतयो नवानां ब्रह्मावर्तादि-भू-खण्डानां पतयः । अस्य भारतवर्षस्य । एकाशीतिः पुत्राः कर्म-मार्ग-प्रवर्तका ब्राह्मणा अभवन् ॥१८॥

———————————————————————————————————————

॥ ११.२.२०-२१ ॥

नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः ।

श्रमणा वात-वसना आत्म-विद्या-विशारदाः ॥

कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश् चमसः करभाजनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थ-शंसिनः परमार्थ-निरूपकाः । श्रमणाः श्रमवन्तः, आत्माभ्यासे कृत-श्रमा इत्य् अर्थः । वात-वसना दिग्-अम्बराः । आत्म-विद्यायां विशारदा निष्णाताः ॥२०-२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। [कविर् हविर् इत्य् एते यथा-श्लोकं ५.४.११ श्लोके च द्रष्टव्याः]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थ-शंसिनः परमार्थ-निरूपकाः । श्रमणाः आत्माभ्यासे कृत-श्रमा इत्य् अर्थः । वात-वसना इति रसना पदेन वसनं लक्ष्यते दिग्-अम्बरा इत्य् अर्थः ॥२०-२१॥

———————————————————————————————————————

॥ ११.२.२२ ॥

त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् ।

आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेषां पारमहंस्य-चरितम् आह—त एत इति द्वभ्यम् । भगवद्-रूपं विश्वं पश्यन्तः । सद्-असद्-आत्मकं स्थूल-सूक्ष्म-रूपम् । तच् च स्वाव्यतिरेकेण पश्यन्तः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवतो रूपं स्फूर्तिर् यत्र तादृशं पश्यन्तः । सद्-असद्-आत्मकं स्थूल-सूक्ष्म-रूपम् । तच् चात्मनोऽव्यतिरेकेण आत्मानम् अपि तद्-अनुगतं पश्यन्त इत्य् अर्थः ॥२२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः परमात्मनः सकाशाद् अव्यतिरेकेण, विश्वस्य तच्-छक्तिमयत्वाद् इति भावः ॥२२॥

———————————————————————————————————————

॥ ११.२.२३ ॥

अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य-

गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् ।

मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ-

विद्याधर-द्विज-गवां भुवनानि कामम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्याहता अप्रतिहता इष्टाभिप्रेता गतिर् येषां ते । मुक्ता अनासक्ताः ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मुन्य्-आदीनां भुवनानि च ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ ११.२.२४ ॥

त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया ।

वितायमाना ऋषिभिर् अजनाभे महात्मनः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : महात्मनो निमेः । वितायमानम् अनुष्ठीयमानम् । अजनाभे भारत-व्र्षे ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.२५ ॥

तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप ।

यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यजमानो निमिः । अग्नय आहवनीयादयः । विप्रा क्रत्विगादयः ।


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.२६ ॥

विदेहस् तान् अभिप्रेत्य नारायण-परायणान् ।

प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य ज्ञात्वा ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथार्हतः यथोचितम् इत्य् अर्थः ॥२६॥

———————————————————————————————————————

॥ ११.२.२७ ॥

तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव ।

पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-रुचा एव रोचमानान्, न त्व् आभरणादि-प्रकाशैः । ब्रह्म-पुत्रोपमान् सनत्-कुमारादि-सदृशान् ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.२८ ॥

श्री-विदेह उवाच—

मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विषः ।

विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : परम-प्रीत्या तद्-दर्शनम् अभिनन्दति द्वाभ्याम्—मन्य इति । ननु भगवतः पार्षदानां कथम् अत्रोपलब्धिः ? तत्राह—विष्णोर् इति । विष्णु-भक्ता लोक-पावनार्थं सर्वत्र पर्यटन्तीत्य् अर्थः ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विष्णोर् भूतानि पार्षदा एव रूपान्तरेणेति भावः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां दर्शनम् अभिनन्दति द्वाभ्याम्—मन्य इति । ननु विष्णु-पार्षदत्वे किम्-अर्थम् अत्रागमनं ? तत्राह—विष्णोर् भूतानि जनाः । पावनाय कृपया पवित्रीकर्तुम् इत्य् अर्थः ॥२८॥

———————————————————————————————————————

॥ ११.२.२९ ॥

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।

तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मया दुर्लभं लब्धमहो भाग्यम् इत्य् आह—दुर्लभ इति । बहवो देहा भवन्ति येषां ते देहिनो जीवास् तेषां क्षण-भङ्गुरोऽपि मणुषो देहो दुर्लभः, परम-पुरुषार्थ-साधनत्वात् । वैकुण्ठः प्रियो येषां, वैकुण्ठस्य वा प्रियास् तेषां दर्शनम् ॥२९॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२८९] बहवो देहा भवन्ति येषां ते देहिनो जीवाः । तेषां क्षण-भङ्गुरोऽपि मणुषो देहो दुर्लभः, परम-पुरुषार्थ-साधनत्वात् । वैकुण्ठः प्रियो येषां, वैकुण्ठस्य वा प्रियास् तेषां दर्शनम् अपि, किम् उत सङ्गादिकम् ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतो\ऽद्य मया स्व-भाग्यम् एव प्रत्यक्षीकृतम् इत्य् आह—दुर्लभो मोक्ष-साधनत्वात् । तत्रापीति वैकुण्ठ-प्रियाणां मोक्षाद् अप्य् अधिकस्य भक्ति-योगस्य प्रदायकत्वात् ॥२९॥

———————————————————————————————————————

॥ ११.२.३० ॥

अत आत्यन्तिको क्षेमं पृच्छामो भवतोऽनघाः ।

संसारेऽस्मिन् क्षणार्धोऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे अनघाः ! निरवद्याः ! भवतो युष्मान् आत्यन्तिकं क्षेमं पृच्छामः । यतः क्षणार्ध-काल-भवोऽपि सत्-सङ्गः शेवधिर् निधिः । निधि-लाभे यथानन्दो भवति, तथात्र परमानन्द इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्यन्तिकं क्षेमम् इति यस्मिन् सति भय-मात्रं न स्पृशतीत्य् अर्थः । यतः संसार इति शेवधिः सर्वाभीष्टदः ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत आत्यन्तिकम् इति । अयं भावः—अतिथिष्व् आयातेषु कुशल-प्रश्न आवश्यकः । स च तावत् स्वात्मारामेषु साक्षात् कुशल-स्वरूपेष्व् अनुचितः । स्वस्यापि व्यवहारिक-कुशल-प्रश्नो भवत्सु व्यर्थः । अत आत्यन्तिकं पारमार्थिकम् एव । हे अनघाः ! न विद्यन्ते अघानि यत इति । दर्शन-दान-मात्रेणैव मद्-अघानि दूरी-कृतान्य् एव, किन्त्व् अभीष्ट-लाभो\ऽस्मद्-अपेक्षितो वर्तत इत्य् अतः पृच्छामः

ननु विलम्ब्य पृच्छतां, तत्रातिशैघ्र्यं किम्-अर्थं ? इत्य् अत आह—क्षणार्धो\ऽपि क्षणार्ध-काल-परिमितो\ऽपि । शेवधिर् निधिः । अत आकस्मिकं निधिं प्राप्य स्वाभीप्सित-प्रार्थने कः खलु सोत्कण्ठे विलम्बः ? इति भावः । मम तु कुतस् तावान् भाग्य-विशेषो येन भवन्तो\ऽत्र चिरं स्थास्यन्ति ? इति भावः ॥३०॥


॥ ११.२.३१ ॥

धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् ।

यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद्-अर्थं च भागवतान् धर्मान् ब्रूत, यदि नोऽस्माकं श्रुतये श्रवणाय क्षमं योग्यं भवति । कथं-भूतान् ? यैर् धर्मैः प्रपन्नाय भक्ताय अजो हरिर् आत्मानम् अपि दास्यति, तान् ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तादृश-क्षेम-पर्यवसानात् धर्मांश् च ब्रूत । ननु, सर्वे एव धर्माः क्रमेण तत्-पर्यवसानाः ? तत्राह—भागवतान् एव, किम् अन्यैर् व्यवहितैः ? इत्य् अर्थः । आत्यन्तिकं क्षेमम् इत्य् एव विशदयति—यैर् इति । दास्यतीति वर्तमान-सामिप्य-प्रयोगात् शीघ्रम् एव आत्मानम् अनवरत-स्फूर्त्य्-आदि-वशं कुर्याद् इत्य् अर्थः ॥३१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हि पृच्छतां किं तवाभीष्टं ? अत आह—धर्मान् इति । श्रुतये तेषां धर्माणां श्रवणाय यदि नो\ऽस्माकं क्षमं योग्यं कर्णेन्द्रियम् इति शेषः । ते च धर्माः सार-भूता एव वक्तव्या इत्य् आह—यैर् इति ॥३१॥

———————————————————————————————————————

॥ ११.२.३२ ॥

श्री-नारद उवाच—

एवं ते निमिना पृष्टा वसुदेव महत्तमाः ।

प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्य-र्त्विजं नृपम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सह सदस्यै ऋत्विग्भिश् च वर्तमणम् । तेऽपि भगवद्-धर्म-श्रवण-परा बभूवुर् इत्य् अर्थः ।

भगवद्-धर्म-तद्-भक्त-माया-तत्-तरणानि च । > ब्रह्म-कर्मावतारेहा-भक्त-प्राप्य-युग-क्रमान् ॥ > ज्ञातुं क्रमेण कृतवान् नव प्रश्नान् निमिर् नव । > एकैकस्योत्तरं प्रोचुः कवि-मुख्या मुनीश्वराः ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रमेण सर्वेऽप्य् अब्रुवन्, तत्र प्रथमं कविर् उवाचेत्य् अर्थः ॥३२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.२.३३ ॥

श्री-कविर् उवाच—

मन्येऽकुतश्चिद्-भयम् अच्युतस्य

पादाम्बुजोपासनम् अत्र नित्यम् ।

उद्विग्न-बुद्धेर् असद्-आत्म-भावाद्

विश्वात्मना यत्र निवर्तते भीः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमम् आत्यन्तिकं क्षेमं [११.२.३०] कथयति—मन्य इति । न कुतश्चिद् भयं यस्मात् तद् अकुतश्चिद्-भयम्अत्र संसारेऽसद्-आत्म-भावाद् असति देहादाव् आत्म-भावनातो नित्यं सर्वदोद्विग्न-बुद्धेर् विश्वात्मना सर्वथा निःशेषं यत्र पादाम्बुजोपासने भीर् निवर्तते, तत् ॥३३॥


कैवल्य-दीपिका : मन्ये इति । असति देहादाव् आत्म-भावाद् उद्वेगः । नन्व् अमरत्वम् अप्य् अकुतश्चिद्-भयं ? नेत्य् आह—विश्वात्मना कार्त्स्न्येन, अमरत्वं तु सावधिकम् इत्य् अर्थः । आभूत-सम्प्लवं स्थानम् अमृतत्वं च भास्यते इति वचनात् ॥३३॥ [मु।फ। ६.५५]


सनातन-गोस्वामी : [हरि-भक्ति-विलास ११.२५८] आत्यन्तिकं क्षेमं [११.२.३०] कथयति—मन्य इति । न कुतश्चिद् अपि भयं यस्मात् तद् अकुतश्चिद्-भयम्अत्र संसारेऽसद्-आत्म-भावाद् असति देहादाव् आत्म-भावनातो नित्यं सर्वदोद्विग्न-बुद्धेर् जनस्य विश्वात्मना सर्वथा निःशेषं यत्र पादाम्बुजोपासने भीर् निवर्तते

यद् वा, यत्र यस्मिन् सति, रसदात्म-भावात्, रसदश् चासाव् आत्मा च हरिः श्री-कृष्ण इत्य् अर्थः । तस्मिन् भावः प्रेमा, तस्माद् धेतोर् नित्यम् उद्विग्न-बुद्धेर् अपि विश्वात्मना भीर् न वर्तते। अन्यत् समानम् ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत आत्यन्तिकं क्षेमं पृच्छामः [११.२.३०] इत्य् अस्योत्तरं तन्-मतम् एव मन्यमान आह—मन्य इत्य्-आदिना । न कुतश्चिद् भयं यस्मात् तद् अकुतश्चिद्-भयम् आत्यन्तिकं क्षेमम् । नित्यं पादाम्बुजोपासनम् अनवरत-स्फूर्त्य्-आदि । विश्वात्मनेति तत्-साधनावस्थायाम् अपि क्रमशो भय-निवृत्तिर् दर्शिता ॥३३॥ [भक्ति-सन्दर्भ ५९]


जीव-गोस्वामी (प्रीति-सन्दर्भः ५२) : अत्र हि विश्व-शब्दाद् उक्त-भय-निवर्तनम् अपि प्रतिपद्यामहे । संवादान्ते त्वम् अप्य् एतान् [भा।पु। ११.५.४५] इत्य्-आदि-द्वयं चातिदेशेन साक्षात् श्री-कृष्ण-प्राप्ति-गमकम् एव तयोर् इति ॥९॥ [११.२.८-९ पद्ये द्रष्टव्ये।]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो राजन् ! सर्वे धर्मा एव स-भया दृष्टाः, किन्तु भागवत-धर्म एव निर्भयः, इत्य् आह—मन्य इति । अत्र संसारे न कुतश्चिद् अपि काल-कर्म-विघ्नादिभ्यो भयं, यतस् तत्-पादाम्बुजोपासनम् । तत्र मुख्यम् अधिकारिणम् आह—असति असाधौ देहे गृह-कुटुम्बादौ च आत्मा इति आत्मीय इति यो भावः भावना दुस्त्यजा, अत एव उद्विग्ना धीर् यस्य, तस्य भक्ति-प्रतिकूल-देह-गेहादिष्व् आसक्तिं त्यक्तु-कामस्येत्य् अर्थः । यत्र उपासने सति विश्वात्मना सर्वात्मनैव भीर् निवर्तते ॥३३॥

———————————————————————————————————————

॥ ११.२.३४ ॥

ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।

अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भागवत-धर्म-लक्षणम् आह—ये वै इति । मन्व्-आदि-मुखेन वर्णाश्रमादि-धर्मान् उक्त्वा अतिरहस्यत्वात् स्व-मुखेनैव भगवताअविदुषाम् अपि पुंसाम् अञ्जः सुखेनैव आत्म-लब्धये ये वै उपायाः प्रोक्ताः, तान् भागवतान् धर्मान् विद्धि ॥३४॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.४९७] सामान्येन भागवत-लक्षणम् आह—ये वै इति। मन्व्-आदि-मुखेन वर्णाश्रमादि-धर्मान् उक्त्वा, अतिरहस्यत्वात् स्व-मुखेनैव भगवता अविदुषाम् अपि पुंसाम् अञ्जः सुखेनैव आत्म-लब्धये जीवस्य स्वरूप-स्फूर्त्यै, भगवतः प्राप्तये वा, ये वै उपायाः, यत् करोषि यद् अश्नासि यज् जुहोषि [गीता ९.२७] इत्य्-आदिना सर्व-कर्मार्पण-रूपाः प्रोक्ताः, तान् विद्धि । एते च प्रायः साधनान्य् एव । यद् वा, अन्तरङ्गत्वाभावेन मुख्याः । यद् वा, दास्यान्तर-गता बाह्याः । यद् वा, मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु [गीता १५.६५] इत्य्-आदिना स्मरणादयः ये अर्जुनं प्रति, तथा, श्रद्धामृत-कथायां मे [भा।पु। ११.१९.२०] इत्य्-आदिना ये चोद्धवं प्रति स्वयं श्री-भगवता प्रोक्ताः, तान् । ततश् च सर्वे प्रायो मुख्या एवेति ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भागवत-धर्म-लक्षणम् आह—ये वै इति । अविदुषां पुंसां तन्-माहात्म्यम् अविद्वद्भिर् अपि कर्तृभिः । आत्मनो ब्रह्म परमात्मा भगवान् इत्य् आविर्भाव-भेदवतः स्वस्य धर्म-भूतस्य अञ्जः अव्यवधानेन, अनायसेनैव वा, लब्धये लाभाय ये उपायाः साधनानि स्वयं भगवता,

कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता । > मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भा।पु। > ११.१४.३]

इत्य् अनुसारेण प्रोक्ताः, तान् उपायान् भागवतान् धर्मान् विद्धि, भागवतीं भक्तिं जानीहीत्य् अर्थः । हि प्रसिद्धौ । तत्र साक्षाद् भक्तेर् अपि भागवत-धर्माख्यत्वं, एतावान् एव लोकेऽस्मिन् [भा।पु। ११.३.२३] इत्य् अत्र परम-धर्मत्व-ख्यापनया दर्शितम् । अत्र आत्म-लब्धये प्रोक्ता इति तटस्थ-लक्सणम् । [भागवत-धर्म-व्यतिरिक्तेन] अन्येन [धर्मेण] तद्-अलाभाद् अव्यभिचारि । [आत्मनोऽलाभात् तत्-तटस्थ-लक्षणम् अव्यभिचार्य् एव] आत्म-लब्धय उपाया इति स्वरूप-लक्षणम् । तल्-लाभोपायो हि तद्-अनुगतिर् एव ॥३४॥ [भक्ति-सन्दर्भ २१६]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भागवत-धर्म-लक्षणम् आह—ये वै इति । मन्व्-आदि-मुखेन वर्णाश्रमादि-धर्मान् उक्त्वा अतिरहस्यत्वात् स्व-मुखेनैव भगवता अविदुषाम् अपि पुंसाम् अञ्जः शीघ्रम् एव आत्म-लब्धये स्व-प्राप्त्यै ये उपायाः प्रोक्तास्तान् भागवतान् धर्मान् विद्धि ॥३४॥

———————————————————————————————————————

॥ ११.२.३५ ॥

यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अञ्जः-पदेनोक्तं सुकरत्वं विवृणोति—यान् इति । यान् आस्थाय आश्रित्य योगादिष्व् इव न प्रमाद्येत, विघ्नैर् न विहन्येत । किं च, निमील्य नेत्रे धावन्न् अपि । इह एषु भागवत-धर्मेषु न स्खलेत् । निमीलनं नामाज्ञानम् । यथाहुः—

श्रुति-स्मृती उभे नेत्रे विप्राणां परिकीर्तिते । > एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥ इति अज्ञात्वापीत्य् > अर्थः ।

यथा पद-न्यास-स्थानम् अतिक्रम्य शीघ्रं परतः पद-न्यासेन गतिर् धावनं, तद्वद् अत्रापि किञ्चित् किञ्चिद् अतिक्रम्यातिशीघ्रानुष्ठानं धावनम् । तथानुतिष्ठन्न् अपि न स्खलेत्, न प्रत्यवायी स्यात् । तथा न पतेत्, फलान् न भ्रश्येत् । [ब्राह्मणादीनाम् उक्तान् अपि धर्मान् कांश्चिद् अकुर्वाणो भागवतान् धर्मान् श्रवण-कीर्तनादीन् कुर्वाणस् तत्-फलं प्राप्नुयाद् इत्य् अर्थः ।] ॥३५॥


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.५२४] यान् भगवद्-धर्मान् आस्थाय आश्रित्य योगादिष्व् इव न प्रमाद्येत, विघ्नैर् न विहन्येत । किं च, निमील्य नेत्रे धावन्न् अपि इह एषु भागवत-धर्मेषु न स्खलेत् । निमीलनं नामाज्ञानं, यथाह—

श्रुति-स्मृती उभे नेत्रे विप्राणां परिकीर्तिते ।

एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥ इति ।

अज्ञात्वापीत्य् अर्थः । यथा पद-न्यास-स्थानम् अतिक्रम्य शीघ्रं परतः पद-न्यासेन गतिर् धावनम्, तद्वद् अत्रापि किञ्चित् किञ्चिद् अतिक्रम्य अतिशीघ्रम् अनुष्ठानं धावनम् । तथानुतिष्ठन्न् अपि न स्खलेत्, न प्रत्यवायी स्यात् । तथा न पतेत्, फलान् न भ्रश्येत् ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्। भक्ति-सन्दर्भे तु २१८-परिच्छेदो, ३१२-परिच्छेदश् च द्रष्टव्यः ।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेषां प्रभावम् आह—यान् आस्थाय आश्रित्य । आस्था विश्वासः । यान् धर्मान् आस्तिक्येन विश्वास-विषयीकृत्यापि, किं पुनर् आचर्य ? इत्य् अर्थः । न प्रकर्षेण माद्येत, मदो गर्वः, तद्वान् कर्मीव योगीव न भवेद् इत्य् अर्थः । यद् वा, प्रमादोऽनवधानता असावधानो न भवेद् इत्य् अर्थः । अतोऽत्र विघ्नानां न प्रभविष्णुतेति भावः ।

किं च, यान् भगवन्-मार्ग-भूतान् धर्मान् आश्रित्य, नेत्रे निमील्य उन्मील्य वा धावन्, न स्खलेत् न वा पतेत्, यथा केनापि कश्चिद् अतिसमीचीनम् अतिसुगमं मार्गम् आनीतो जनः ।

उच्यते—मद्-उपदिष्टेनानेन मार्गेण नेत्रे मुद्रयित्वा सुखेनाभिद्रवन्न् एव याहि । न कश्चिद् अपि ते संशय इति । यथा पाद-न्यास-स्थानम् अतिक्रम्य परतः पाद-न्यासेन गतिर् धावनं, तस्याल्पत्वे स्खलनं बहुतरत्वे पतनम् अपि सम्भवेत् । अत्र तु भक्ति-मार्गे भजन-धर्मस्याङ्गिनो विहिताङ्गानाम् अल्पतरातिक्रमे बहुतरातिक्रमे वा कर्म-मार्ग इव न प्रत्यवायी भवेत् । अतः फलान् न भ्रश्येत् । तत्रापि नेत्रे निमील्येति वर्तमानेऽपि नेत्रे मुद्रयित्वेत्य् अनेन ज्ञात्वाप्य् अतिक्रमे न दोषः । किम् उत, ज्ञात्वेति ज्ञापितम् । यान् धर्मान् आस्थायेत्य् उक्तत्वाद् अङ्गिनस् त्व् अतिक्रमो दोष एव । तथा सति मार्ग-च्युत एव स्यात् । भगवत्-प्राप्त्य्-अर्थं पृथङ्-मार्ग-करणस् त्व् अतिदूषणावहम् एव ।

श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना । > ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ इत्य् उक्तेः ।

अत्र भागवत-धर्मे प्रवर्तमानस्य वर्णाश्रम-धर्मेऽधिकार एव नास्तीति तद्-अनुष्ठानाननुष्ठान-विचारो नात्र प्रवेशयितव्यः ।

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । > मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु। > ११.२०.९]

इति भगवद्-उक्तेः । भक्त्यैकयेशं गुरु-देवतात्मा [भा।पु। ११.२.३७] इत्य् अग्रिम-वाक्ये भक्त्येत्य् अस्य एकयेति विशेषणोपन्यासात् कर्मादि-मिश्रा भक्तिर् नात्र प्रस्तुतेत्य् अवसीयते॥३५॥


विश्वनाथ-चक्रवर्ती (माधुर्य-कादम्बिनी ३.३): अत्र निमील्येति कर्तृ-व्यापार-लिङ्गेन विद्यमाने एव नेत्रे मुद्रयित्वा, तत्रापि धावन्, पाद-न्यास-स्थलम् अतिक्रम्यापि व्रजन्, न स्खलेद् इत्य् अक्षरार्थ-लब्धेर् भगवद्-धर्मम् आश्रित्य तद्-अङ्गानि सर्वाणि ज्ञात्वाप्य् अज्ञ इव कानिचिद् उल्लङ्घ्यापि अनुतिष्ठन्, न प्रत्यवायी स्यात्, नापि फलाद् भ्रश्येद् इत्य् एव व्याख्या उपपद्यते।निमीलनं नामाज्ञानं तस्यापि श्रुति-स्मृति-विषयाव् इत्य् एषा तु न सङ्गच्छते, मुख्यार्थ-बाधा-योगात् ।

न च धावन् निमील्येत्य् एतद् एव द्वात्रिंशद्-अपराधाभावम् अपि क्रोडीकरोत्व् इति वाच्यम्, यान् भगवता प्रोक्तान् उपायान् आश्रित्येत्य् उक्तत्वात् ।यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे [आगमे, ह।भ।वि। ८.४४१] इत्य्-आदयस् तु तत्र निषिद्धा एव । सेवापराधे तु हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांशनः [पाद्म-पुराणे, ह।भ।वि। ११.५१९] इत्य्-आदिषु श्रूयन्त एव निन्दाः । किं च, ते नामापराधाः प्राचीना अर्वाचीना वा यदि सम्यग्-अनभिज्ञात-प्रकाराः स्युः, किन्तु तत्-फल-लिङ्गेनानुमीयमाना एव, तदा तेषां नामभिर् एवाश्रान्त-प्रयुक्तैर् भक्ति-निष्ठाम् उत्पद्यमानायां क्रमेणोपशमः । यदि ते ज्ञायन्त एव, तदा त्व् अस्ति क्वचित् कश्चिद् विशेषः ॥३॥

———————————————————————————————————————

॥ ११.२.३६ ॥

कायेन वाचा मनसेन्द्रियैर् वा

बुद्ध्यात्मना वानुसृत-स्वभावात् ।

करोति यद् यत् सकलं परस्मै

नारायणायेति समर्पयेत् तत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु के ते भागवता धर्माः ? ईश्वरार्पितानि सर्व-कर्माण्य् अपीत्य् आह—कायेन इति। आत्मना चित्तेनाहङ्कारेण वा । अनुसृतो यः स्वभावस् तस्मात् । अयम् अर्थः—न केवलं विधितः कृतम् एवेति नियमः । स्वभावानुसारि लौकिकम् अपीति । तथा च श्री-गीतासु—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । > यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति > ।

यद् वा, ननु कायादीनाम् एव कर्म नात्मन इत्य् आशङ्क्याह—अध्यासेनानुसृताद् ब्राह्मणत्वादि-स्वभावाद् यद् यत् करोति इत्य् अर्थः । तत् सकलं परस्मै परमेश्वराय नारायणाय इति समर्पयेत् । तथा सति सकलम् अपि कर्म भागवतो धर्मो भवतीति भावः ॥३६॥


कैवल्य-दीपिका : [अथ विष्णु-भक्त्य्-अङ्ग-वर्ग-प्रकरणम् । तत्र विष्णु-भक्त्य्-अङ्ग-वर्ग-लक्षणं भेदाश् च1] तद् एवं भक्ति-प्रकरणम् उपायत्वेनेत्य् उक्तम् । तत्रेति कर्तव्यतां वक्तुम् इदम् आरभ्यते—अथेति । तत्राप्य् अङ्ग-सामान्यं लक्षयति—कायेन इति । मनसा संशयः । इन्द्रियैश् चक्षुर्-आदिभी रूपोपलम्भादि-बुद्ध्या निश्चयः, आत्मना अहङ्कारेणाभिमानः । वा-शब्दश् चार्थे । तेनानुक्तस्य सङ्कल्प्य-हेतोर् महत्तत्त्वस्य समुच्चयः । इन्द्रियैर् इत्य् एव सिद्धे कायाद्य्-उक्तिर् एकैक-व्यापारस्याप्य् अङ्गत्वार्थम् । अत एव तुल्य-कक्षाणां विकल्पार्थः प्रथमो वा-शब्दः । यद् यद् इति । वीप्सया सर्वस्य यावद् देहं क्रियमाणस्य अर्पणम् इत्य् उक्तम् । तत् किं निषिद्धम् अप्य् अनुमतम् ? नेत्य् आह—स्वभावम् इति । स्वस्य भाव्यते प्राप्यते शास्त्रेनेति स्वभावं, स्व-विहितम् इत्य् अर्थः । तथापि किं विशिष्ट-निस्तार-बुद्धार्पयेत् ? नेत्य् आह—अनुसृत इति । आत्मेश्वरयोः स्व-स्वामि-भावानुसन्धानम् अनुसरणं परस्मै भगवद्-आदि-रूपाय । इति-शब्दः प्रकारे । तेनेदं नारायणाय इत्य् अनेन प्रकारेणार्पयेत्, नान्यथेत्य् अर्थः । अत्र हि चतुर्थी-निर्देशात् तादर्थ्यावगमात् सङ्कल्पम् इत्य् अन्वयः । ततश् च भगवद्-अर्थत्वेन सर्वस्य सत्-कर्मणः करणं भक्त्य्-अङ्गम् इति लक्षणार्थः ॥३६॥ [मु।फ। ७.१]


सनातन-गोस्वामी : [ह।भ।वि। ११.४४] आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस् तस्मात् । अयम् अर्थः—न केवलं विधितः कृतम् एवेति नियमः स्वभावानुसारि-लौकिकम् अपीति । तथा च श्री-भगवद्-गीतासु—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । > यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति > ।

यद् वा, ननु कायादीनाम् एव कर्म नात्मन इत्य् आशङ्क्याह—अध्यासेनानुसृताद् ब्राह्मणत्वादि-स्वभावाद् यद् यत् करोतीत्य् अर्थः । यद् वा, अनुसृतः आश्रितो यः स्वभावः वैष्णवत्वं, तस्माद् धेतोः कायादिना य यत् भगवद्-आराधन-कर्मेत्य् अर्थः । तत् सकलं परस्मै परमेश्वराय नारायणाय समर्पयेत् इत्य् अनेन वचनेन कायेनेत्य्-आदि नारायणायेत्य् अन्त-पद्यम् इदं पठित्वेत्य् अर्थः । यद् वा, नारायण-प्रीत्य्-अर्थं भवत्व् इति समर्पयेत् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सा भक्तिस् त्रिविधा—आरोप-सिद्धा, सङ्ग-सिद्धा, स्वरूप-सिद्धा च ।

(१) तत्रारोप-सिद्धा स्वतो भक्तित्वाभावेऽपि भगवद्-अर्पणादिना भक्ति-मातृत्वं प्राप्ता कर्मादि-रूपा ।

(२) सङ्ग-सिद्धा स्वतो भक्तित्वाभावेऽपि तत्-परिकरतया संस्थापनेन,तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भा।पु। ११.३.२२] इत्य्-आदि-प्रकरणेषु,सर्वतो मनसोऽसङ्गं [भा।पु। ७.५.१८] इत्य्-आदिना लब्ध-तद्-अन्तः-पाता ज्ञान-कर्म-तद्-अङ्ग-रूपा [ज्ञानाकारा वा, कर्माकारा वा, ज्ञान-कर्माङ्गाकारा वा] ।

(३) स्वरूप-सिद्धा चाज्ञानादिनापि तत्-[श्री-भगवत्-]प्रादुर्भावे भक्तित्वाव्यभिचारिणी साक्षात् तद्-अनुगत्यात्मा [अव्यवधानेन श्री-भगवद्-अनुकूल्य-मय-तद्-अनुवर्तन-स्वरूपा]-तदीय-श्रवण-कीर्तनादि-रूपा । श्रवणं कीर्तनं विष्णोः [भा।पु। ७.५.२३] इत्य् आदौ विष्णोः श्रवणं विष्णोः कीर्तनम् इति विशिष्टस्यैव विवक्षितत्वत् । तेषाम् अपि नारोप-सिद्धत्वं, प्रत्युत मूढ-प्रोन्म्मत्तादिषु तद्-अनुकर्तृष्व् अपि कथञ्चित् भक्ति-सम्बन्धेन [भक्त्य्-आकार-भक्त्य्-आभासत्वात्] फल-प्रापकत्वात् स्वरूप-सिद्धत्वं, यथा श्री-प्रह्लादस्य पूर्व-जन्मनि श्री-नृसिंह-चतुर्दश्य्-उपवासः । यथा कुक्कुर-मुख-गतस्य श्येनस्य भगवन्-मन्दिर-परिक्रमः । एवम् अन्य-दृष्ट्य्-आदिना मूढादिभिः कृतस्य वन्दनस्यापि ज्ञेयम् ।

तद् एवं त्रिविधापि सा पुनर् अकैतवा सकैतवा चेति द्विविधा ज्ञेया । तत्रारोप-सङ्ग-सिद्धयोर् यस्या भक्तः सम्बन्धेन भक्ति-पद-प्राप्त्यां सामर्थ्यं तन्-मात्रापेक्षत्वं चेद् अकैतवत्वं स्वीयान्यदीय-फलापेक्ष-परिकरत्वं चेद् अकैतवत्वं प्रयोजनान्तरापेक्षया कर्म-ज्ञान-परिकरत्वं चेत् सकैतवत्वम् । स्वरूप-सिद्धायाश् च यस्य भगवतः सम्बन्धेन तादृशं माहात्म्यं तन्-मात्रापेक्ष-परिकरत्वं चेद् अकैतवत्वं प्रयोजनान्तरापेक्षया कर्म-ज्ञान-परिकरत्वं चेत् सकैतवत्वम् । इयम् एवाकैतवाकिञ्चनाख्यत्वेन पूर्वम् उक्ता । धर्मः प्रोज्झित-कैतवोऽत्र परमः [भा।पु। १.१.२] इत्य् अत्र चास्यास् तद्-उभय-विधत्वे प्रमाणं ज्ञेयम् । तथोक्तं—प्रीयतेऽमलया भक्त्या हरिर् अन्यद्-विडम्बनं [भा।पु। ७.७.५२] इति ।

अथारोप-सिद्धा—एतद्-अर्थम् एव नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य् आदौ सकाम-निष्कामयोर् द्वयोर् अपि कर्मणोर् निन्दा । भगवद्-वैमुख्याविशेषात् । तत्र यादृच्छिक-चेष्टाया अपि भगवद्-अर्पितत्वे भगवद्-धर्मत्वं भवति, किम् उत वैदिक-कर्मण इति वक्तुं तस्या अपि तद्-रूपत्वम् आह—कायेनेति । पूर्वं हि धर्मान् भागवतान् ब्रूत [भा।पु। ११.२.३१] इति प्रश्नानन्तरं, ये वै भगवता प्रोक्ता [भा।पु। ११.२.३४] इत्य्-आदिना मुख्यत्वेन साक्षात्-तल्-लब्धये उपाय-भूताः श्रवण-कीर्तनादयो भागवता धर्मा लक्षिताः । ते चात्रैव शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् [भा।पु। ११.२.३९] इत्य्-आदिना कतिचिद् दर्शयिष्यन्ते । उत्तराध्याये च—तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भा।पु। ११.३.२२] इत्य् उपक्रम-वाक्याद् अनन्तरम् इति भागवतान् धर्मान् शिक्षयन् भक्त्या तद्-उत्थया [भा।पु। ११.३.३३] इत्य् उपसंहार-वाक्यस्य प्राग् भागवत-धर्मत्वेनान्य-सङ्ग-त्यागादिकम् अपि वक्ष्यते—सर्वतो मनसोऽसङ्गं [भा।पु। ११.३.२३] इत्य्-आदिना ।

तस्माल् लौकिक-कर्माद्य्-अर्पणम् इदं यथा कथञ्चित् तद्-धर्म-सिद्ध्य्-अर्थम् एवोच्यते । अर्थश् चायं टीकायाम्—आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस् तस्मात् । अयम् अर्थः—न केवलं विधितः कृतम् एवेति नियमः स्वभावानुसारि लौकिकम् अपीति । श्री-गीतासु च—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् । > यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति > । इत्य् एषा ।

इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतः इत्य्-आदि-मन्त्रश् च तथा । अत्र स्वाभाविक-कर्मणोऽर्पणे दुष्कर्मणो द्विविधा गतिः । ज्ञानेच्छूनाम् अविशेषेण । भक्तीच्छूनां तु अनेन दुर्वासन-दुःख-दर्शनेन च स करुणामयः करुणां करोत्व् इति वा ।

या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । > त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [वि।पु। १.२०.१९]

इति विष्णु-पुराणोक्त-प्रकारेण ।

युवतीनां यथा यूनि यूनां च युवतौ यथा । > मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥ [प।पु। ६.१२८.२५८]

इति पाद्मोक्त-प्रकारेण च मम सुकर्मणि दुष्कर्मणि यद्-राग-सामान्यं तत् सर्वतो-भावेन भगवद्-विषयम् एव भवत्व् इति समाध्येयम् । कामिनां तु न सर्वथैव सर्व-दुष्कर्मार्पणम् । वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे [भा।पु। ११.३.४] इत्य् अत्र पुनर् वैदिकम् एवेश्वरेऽर्पितं कुर्वाण इत्य् उक्तम् ॥३६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शृण्वन् सुभद्राणि [भा।पु। ११.२.३९] इत्य् उपरिष्टाद् वर्णयितव्येषु भागवत-धर्मेषु प्रवर्तमानेन सुधिया जनेन कायिकादि-व्यापारा अपि भगवद्-धर्माः, तैर् एव प्रवेशनीया इत्य् आह—कायेनेति । अयम् अर्थः—यथा विषयिणः प्रातर् आरभ्य मुत्र-पुरीषोत्सर्ग-मुख-क्षालन-दन्त-धावन-स्नान-दर्शन-श्रवण-कथनादि-व्यापाराः विषय-सुख-भोगार्थम् एव, कर्मिभिस् तु देव-पित्रादि-पूजार्थम् एव क्रियन्ते । तथैव भगवद्-भक्तेन ते ते भगवत्-सेवार्थम् एव क्रियन्ते । तथैव भगवद्-भक्तेन ते ते भगवत्-सेवार्थम् एव कर्तव्या इति ते तेऽपि तेषां भक्त्य्-अङ्गानि भवेयुर् इति । अनुसृत-स्वभावात्, देहाध्यासेन अनादिनैव योऽनुसृतः अनुवृत्तः स्वभावः, तस्मात् । कायादिभिर् यद् यत् करोति, तत् सर्वं नारायणार्थम् एव, नारायणं सेवितुम् एवेति वा, समर्पयेत् विनियोजयेत्। तादर्थ्ये क्रियार्थोपपदेत्य् अनेनैव चतुर्थी ॥३६॥

———————————————————————————————————————

॥ ११.२.३७ ॥

भयं द्वितीयाभिनिवेशतः स्याद्

ईशाद् अपेतस्य विपर्ययोऽस्मृतिः ।

तन्-माययातो बुध आभजेत् तं

भक्त्यैकयेशं गुरु-देवतात्मा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु किम् एवं परमेश्वर-भजनेन ? अज्ञान-कल्पित-भयस्य ज्ञानैक-निवर्तकत्वात्, इत्य् आशङ्क्याह—भयम् इति । यतो भयं तन्-मायया भवेत्, ततो बुद्धिमान् तम् एव आभजेद् उपासीत ।

ननु भयं द्वितीयाभिनिवेशतः स्यात् । स च देहाद्य्-अहङ्कारतः । स च स्वरूपास्फुरणात्। किम् अत्र तस्य माया करोति ? अत आह—ईशाद् अपेतस्येति । ईश-विमुखस्य तन्-मायया अस्मृतिः स्वरूपास्फूर्तिर् भवति । ततो विपर्ययो देहोऽस्मीति । ततो द्वितीयाभिनिवेशाद् भयं भवति । एवं हि प्रसिद्धं लौकिकीष्व् अपि मायासु । उक्तं च भगवता—

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया । > माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४] इति ।

एकया अव्यभिचारिण्या भजेत् । किं च, गुरु-देवतात्मा गुरुर् एव देवता ईश्वर आत्मा प्रेष्ठश् च यस्य, तथा-दृष्टिः सन्न् इत्य् अर्थः ॥३७॥


कैवल्य-दीपिका : एकया इत्य् उक्तम् । तत्र हेतुम् आह—भयम् इति । द्वितीये देहादाव् अभिनिवेशाद् यद् भयं तत् तन्-मायया स्यात् । किं तद् भयम् ? इत्य् अत आह—ईश्वराद्य्-उपाधिना पृथग्-भूतस्य । विपर्ययः संसारित्वम्2 भ्रम ईश्वरत्व्आस्मृतिश् चेति । गुरौ देवता-बुद्धिः ॥३७॥ [मु।फ। ६.४२]


जीव-गोस्वामी (क्रम-सन्दर्भः) : मन्ये\ऽकुतश्चित् इत्य् एव स्थापयन् क्रमेण तत्रैव निष्ठापयति—भयम् इति । यतो भयं तन्-माययाभवेद् अतो बुधो बुद्धिमान् तम् एवाभजेत् । प्रथमतः कायेन इत्य्-आद्य्-उक्त-प्रकारेणेषद् अपि भजेत्, ततो गुरु-देवतात्मा सन् भक्त्या साक्षाद् भागवत-धर्म-रूपया । तत एकया [अनन्ययाव्याभिचारिण्या] नित्यं पादाम्बुजोपासन-रूपयेति विशेषतो\ऽर्थः ॥३७॥ [अत्र विस्तारः भक्ति-सन्दर्भे १-परिच्छेदे द्रष्टव्यः]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं चात्र भक्तैः संसार-बन्धाय भेतव्यं ? स हि भक्तौ प्रवर्तमानस्य स्वत एवापयातीत्य् आह—भयम् इति । द्वितीये देहेन्द्रियादाव् उपाधि-भूतेऽभिनिवेशतोऽभिमानात्, ईशाद् अपेतस्य ईश-विमुखस्य जीवस्य भयं संसारः स्यात् । न त्व् ईशोन्मुखस्य—

तावद् रागादयः स्तेनाः तावत् कारा-गृहं गृहम् ।

तावन् मोहोऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः॥ [भा।पु।१०.१४.३६] इति ब्रह्मोक्तेः ।

तच् च भयं द्विविधं—विपर्ययोऽस्मृतिश् च, विपर्यय-रूपम् अस्मृति-रूपं चेत्य् अर्थः । तत्र विपर्ययः आत्म-भिन्ने देहादौ आत्म-बुद्धिः । अस्मृतिर् आत्मनि स्मृति-भ्रंशः । कोऽहं ? किं करोमि ? पूर्वं कीदृश आसं ? अग्रे वा कीदृशो भविष्यामि ? इति पूर्वापरानुसन्धान-राहित्यम् । एतद् एव तस्य भगवतो मायया भयम् । यद् उक्तम्, स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति [गीता २.६१] इति ।

अत एव हेतोर् बुधः श्री-गुरु-चरण-प्रसादाल् लब्ध-विवेकः, तम् एव सम्यक् कामनान्तर-राहित्येन एकया केवलयैव, न तु ज्ञान-कर्मादि-मिश्रया, भक्त्या भजेत्गुरुर् एव देवता ईश्वर, आत्मा प्रेष्ठश् च यस्य, तथा-दृष्टिः सन्न् इत्य् अर्थः ॥३७॥

———————————————————————————————————————

॥ ११.२.३८ ॥

अविद्यमानोऽप्य् अवभाति हि द्वयो

ध्यातुर् धिया स्वप्न-मनोरथौ यथा ।

तत् कर्म-सङ्कल्प-विकल्पकं मनो

बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

आत्मनो देह-गेहादि द्वय-शब्देन भण्यते ।

अविद्यमानं जीवस्य प्रतिभाति तदीयवत् ॥

जाग्रद् वस्तु यथा स्वप्नः प्रतिभाति मनोरथः ।

विद्यमानवद् एवैतद् देहाद् ईश-वशे स्थितम् ॥

विभाति स्व-वशत्वेन सैषा संसृतिर् उच्यते ।

तस्मात् तद्-विषयं त्यक्त्वा मनो विष्णौ निवेशयेत् ॥ इति हरि-वंशेषु ॥३८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु विषय-विक्षिप्त-चित्तस्य कुतोऽव्यभिचारिणी भक्तिः संभवति ? कुतस्तराम् अभयं ? तत्र न तावद् विषयो नाम वास्तवोऽस्ति, किन्तु मनो-विलास-मात्रम् । अतो मनो-नियमनेन भजनाद् अभयं स्याद्, इत्य् आह—अविद्यमानोऽपीति । द्वयः द्वैत-प्रपञ्चः । ध्यातुः पुंसो धिया मनसा स्वप्नश्मनो-रथश् च यथेत्य् अर्थः । तत् तस्मात् कर्माणि सङ्कल्पयति विकल्पयति च यन् मनस् तन् निरुन्ध्यान् नियच्छेत् । ततश् चैकया भक्त्या भजनाद् अभयं स्याद् इत्य् अर्थः ॥३८॥


कैवल्य-दीपिका : यदा चैवं भक्तिर् जायते, अत एव सगुणोपासनाद् उपास्य-साक्षात्कारे सति तस्यात्मतया स्फुरणात् तत्रैवानुपाधिः प्रेमा । अविद्यायाश् चावरकत्व-निवृत्तिर् आत्म-कामता च भवतीत्य् आह—भक्तिर् इति । भक्तिः प्रेमात्मिका । यया विष्णुं विना क्षणम् अपि न वितिष्ठते । तत आत्मनो ब्रह्मत्वानुभवः । तस्य च परमानन्द-रूपातया अन्यत्र विरक्तिः अरुचिः । प्रपद्यमानस्य भक्त्य्-अङ्ग-वर्गेण भजतः । एक-कालत्वे दृष्टान्तः--यथा इति । यया भुञ्जानस्य प्रतिग्रासं मुख-लब्धिः क्षुड्-निवृत्तयः स्युः ॥३८॥ [मु।फ। ६.४३]


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ साक्षात्-तद्-धर्म-रूपाम् एव ग्राहयन् मनो-निरोधोक्त्या कायेन इत्य्-आद्य् उक्तम् इति त्रयम् इति । तत्र यद्यपि कायेन वाचा मनसेन्द्रियैर् वा [भा।पु। ११.२.३६] इत्य्-आदि-प्राक्तन-वाक्ये लौकिकस्यापि कर्मणो भगवद्-अर्पणाद् भागवत-धर्मत्वं सिध्यतीति यथोक्तं तस्य नैरन्तर्यम् अपि सम्भवति, तथापि श्रवण-कीर्तनादि-लक्षण-मात्रत्वं व्याहन्येत । तस्मात् तत्राव्यभिचारित्वं, तन्-मात्रत्वं च यथा भवेत्, तथोपायं तद्-अनन्तरम् आह द्वाभ्याम् । तत्र प्रथमम् अव्यभिचारित्वोपायम् आह प्रथमेन—अविद्येति ।

द्वयः प्रधानादि-द्वैत-प्रपञ्चः । यद्यप्य् अविद्यमान आत्मनि शुद्धे न विद्यत एवेत्य् अर्थः, तथापि ध्यातुर् अविद्या-मय-ध्यान-युक्तस्य सतस् तस्य धियावभाति, तस्मिन् शुद्धेऽपि कल्पत एवेत्य् अर्थः । यथा स्वप्नो मनोरथश् च, तथेत्य् अर्थः । तत् तस्मात् कर्माणि सङ्कल्पयति विकल्पयति च यन् मनः, तन् नियच्छेत्ततश् चाव्यभिचारिण्या भक्त्या भजनाद् अभयं स्याद् इति भावः ॥६०॥ [भक्ति-सन्दर्भ ६०]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स्रक्-चन्दन-वनितादि-भोग-प्रपञ्चो यस्य नैव विद्यते, विद्यमानम् अपि तं परित्यज्य यो वा वने वसति, तस्य भयं न भवेद् इति चेत्, मैवं वादीर् इत्य् आह—अविद्यमान इति । द्वयो भोग्य-प्रपञ्चो ह्य् अविद्यमानोऽपिध्यातुः पुंसोऽवभाति मानस-प्रत्यक्षो भवति । धिया मनसा स्वप्नश्मनोरथश् च यथेत्य् अर्थः । सर्वो द्वन्द्वो विभाषयैकवद् भवतीत्य् एकत्वम् । तत् तस्मात् कर्माणि सङ्कल्पयति विकल्पयति च यन् मनस् तन् निरुन्ध्यात् । स च मनो-निरोधो गुरु-चरण-भक्त्या विना प्रकारान्तरेण न भवेत् । यद् उक्तं श्रुतिभिः—विजित-हृषीक-वायुभिर् अदान्त-मनस् तुरगं [भा।पु। १०.८७.३३] इत्य् अत्र समवहाय गुरोश् चरणम् इति । सप्तमे च, एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् [भा।पु। ७.१५.२३] इति । अत एव गुरु-देवतात्मा इत्य् अत्राप्य् उक्तम् ॥३८॥

———————————————————————————————————————

॥ ११.२.३९ ॥

शृण्वन् सुभद्राणि रथाङ्ग-पाणेर्

जन्मानि कर्माणि च यानि लोके ।

गीतानि नामानि तद्-अर्थकानि

गायन् विलज्जो विचरेद् असङ्गः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् अत्यत्नाशक्यम् इत्य् आशङ्क्य सुगमं मार्गम् आह—शृण्वन्न् इति । तद्-अर्थकानि तान्य् एव जन्मानि कर्माणिचार्थो येषां, तानि । एतान्य् अपि साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह—यानि लोकेगीतानि प्रसिद्धानि, तानि शृण्वन् गायंश्विचरेत्असङ्गो निःस्पृहः ॥३९॥


कैवल्य-दीपिका : त्रिषु जातेषु कृतकृत्यताम् आह—इति इति । अनुवृत्तिर् अविच्छेदः ॥३९॥ [मु।फ। ६.४४]


सनातन-गोस्वामी- [ह।भ।वि। ११.६४०] तद्-अर्थकानि तानि जन्मानि कर्माणिचार्थो येषां नाम्नाम् । अनेन च नाम-गानेनैव जन्म-कर्म-गान-सिद्धेर् नाम-गानस्य प्राधान्यम् अभिप्रेतम् । यद् वा, तद्-अर्थकानि रथाङ्ग-पाण्य्-अर्थम् एव, तत्-प्राप्तये इत्य् अर्थः । एतान्य् अपि साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह—यानि लोके गीतानि प्रसिद्धानि । यद् वा, लौकिक-गाथाः । यद्यपि तासां जन्माद्य्-अन्तर्गतत्वेन पृथग्-उक्तिर् न घटते, तथापि शास्त्रोक्त-व्यतिरिक्त-लोक-प्रसिद्ध-कर्माद्य्-अपेक्षया राग-तालादि-रसाद्य्-अपेक्षया वा ज्ञेयाः । तानि शृण्वन् गायंश् च विचरेत्असङ्गो निःस्पृहस् त्यक्त-परिग्रहो वा इति साधनम् उद्दिष्टम् ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तथापि मनो-निरोध-रूपेण योगाभ्यासेन भक्ति-कैवल्य-व्यभिचारः स्याद् इत्य् आशङ्क्य भक्त्यैव क्रियमाणया तद्-आसक्तत्वेन स्वत एव मनो-निरोधोऽपि स्याद् इति । तन्-मात्रत्वोपायम् आह द्वितीयेन—शृण्वन्न् इति । तद्-अर्थकाणि तानि जन्मानि कर्माणि चार्थो येषां तानि नामानि । एतान्य् अपि साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह—यानि लोके गीतानि प्रसिद्धानि, तानि शृण्वन् गायंश् च विचरेत् । असङ्गो निःस्पृहः ॥३९॥ [भक्ति-सन्दर्भ ६१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकया भक्त्या तम् आभजेद् इत्य् उक्तम् । सैव भक्तिः का भवेत् ? इत्य् अत आह—शृण्वन्न् इति । यानि शास्त्र-द्वारा सत् परस्परा द्वारा च जन्मानि कर्माणि वर्तते, यानिलोके लोक-मात्रे गीतानि, अपभ्रंश-भाषयापि निबद्धानि, तथा नामान्य् अपि तद्-अर्थकानि नाना-देश-भाषा-भेदेनापि स एव अर्थो वाच्यो येषां तानि । काह्ना इति कानड इतिकान् इत्य् एवम्-आदीन्य् अपि गायन्असङ्गः वस्त्व्-अन्तरासक्ति-शून्यः ॥३९॥

———————————————————————————————————————

॥ ११.२.४० ॥

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या

जातानुरागो द्रुत-चित्त उच्चैः ।

हसत्य् अथो रोदिति रौति गायत्य्

उन्माद-वन् नृत्यति लोक-बाह्यः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

केचिद् उन्मादवद् भक्ता बाह्य-लिङ्ग-प्रदर्शकाः ।

केचिद् आन्तर-भक्ताः स्युः केचिच् चैवोभयात्मकाः ।

मुख-प्रसादाद् दार्ढ्याच् च भक्तिर् ज्ञेया न चान्यतः ॥ इति वाराहे ॥४०॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं च भजतः सम्प्राप्त-प्रेम-लक्षण-भक्ति-योगस्य संसार-धर्मातीतां गतिम् आह—एवम् इति । एवं-व्रतं वृत्तं यस्य सः । स्व-प्रियस्य हरेर् नाम-कीर्त्या जातोऽनुरागः प्रेम यस्य सः । अत एव द्रुत-चित्तः श्लथद्-धृदयः । कदाचिद् भक्त-पराजितं भगवन्तम् आकलय्य उच्चैर्हसति । एतावन्तं कालम् उपेक्षितोऽस्मीति रोदिति । अत्यौत्सुक्याद् रौति क्रोशति । हे हरे ! माम् अनुगृहाणेति अतिहर्षेण गायति । जितं जितम् इति नृत्यति । किं दाम्भिकवत् परान् प्रति प्रकाशयितुम् ? न, उन्मादवद् ग्रह-गृहीतवत् । लोक-बाह्यो विवशः ॥४०॥


कैवल्य-दीपिका : आविर्भूत-धर्म-वीरस्यानुभावान् आह—एवम् इति । स्व-प्रियो विष्णुः । द्रुतं भक्ति-रसेन क्लिन्नम् । निरीहस्य जगज्-जननाद्य्-अघातमानम् इव पश्यन् हसति रोदित्य् आनन्दाश्रूणि मुञ्चति । रौतीति भगवन्तं पुरः-स्थिताम् इव मन्यमानो गोष्ठीं कुरुते । भक्त्यावेशाद् गायति उत्तीर्णोऽस्मि भवाम्बुधिम् इति नृत्यति । तत् किं नटवत् ख्यापनाय ? नेत्य् आह—उन्मादवद् इति । उन्माद इत्य् अर्थः । आद्यच् प्रत्ययः । लोक-बाह्य इत्य् अनेनासङ्गादित्वम् उक्तम् ॥४०॥ [मु।फ। १९.२०]


**सनातन-गोस्वामी : [**ह।भ।वि। ११.६४१] एवं भजतः सम्प्राप्त-प्रेम-लक्षण-भक्ति-योगस्य संसार-धर्मातीतां गतिम् आह—एवम् इति । एवं-व्रतं वृत्तं नियमो यस्य सः । स्व-प्रियस्य हरेर् नाम-कीर्त्या । यद् वा, स्व-प्रियं यत् कृष्ण-नाम, तस्य कीर्तनेन जातोऽनुरागः प्रेमा यस्य सः । नाम-कीर्तनस्य पुनर्-उक्तिः प्रेम-सम्पत्तौ प्रिय-नाम-कीर्तनस्यात्यन्तान्तरङ्गत्व-विवक्षया । किं वा, प्रेम-सम्पत्तेर् लक्षण-विशेष-विज्ञापनाय तेन तस्य फले पर्यवसानार्थम् । ततश् च कीर्त्या विशिष्ट इत्य् अर्थः । अत एव द्रुत-चित्तः श्लथ-हृदयः । कदाचिद् भगवन्तं भक्त-पराजितं, बाल्यादि-विनोदम् अनुसन्धाय वा उच्चैर् हसति । एतावन्तं कालम् उपेक्षितोऽस्मीति, यद् वा, प्रेम-भाव-स्वभावित-विरहि-भावेन रोदिति । अत्यौत्सुक्याद् तेनैव वा रौति आक्रोशति । अतिहर्षेण आर्ति-विशेषेण वा गायति, सुस्वरेण करुण-स्वरेण वा गुणादिकं कीर्तयति । जितं जितम् इति नृत्यति । यद् वा, साक्षद्-भूतम् इव दृष्ट्वा नृत्यति । किं दाम्भिकवत् परान् प्रति प्रकाशयितुं ? न, उन्मादवत् ग्रह-गृहीतवत् । लोक-बाह्यो विवशः । यद् वा, उन्मादवद् इत्य् अनेन हासादेर् अनियतत्वं, लोक-बाह्य इत्य् अनेन चालौकिकत्वं दर्शितम् ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततोऽञ्जसा तृतीया फल-रूपा भक्तिः स्याद् इत्य् आह—एवं-व्रत इत्य्-आदि । तत एवं शृण्वन् इत्य्-आदि-प्रकारं व्रतं यस्य तथाभूतोऽपि सन् । स्व-प्रियाणि तन्-नाम-स्व-सङ्ख्येषु मध्ये स्वाभीष्टानि—स्व-वासना-पोषकाणि यानि नामानि तेषां कीर्त्या कीर्तनेन मुख्येन कारणेन जातानुराग आविर्भूत-महा-प्रेमेत्य् अर्थस् तत एव चित्त-द्रवाद् द्रुत-चित्तः सन् तत्रोचित-भाव-वैचित्रीभिर् हसतीत्य् आदि । हासादीनां कारणानि भक्ति-भेदानन्त्याद् अनन्तान्य् एव ज्ञेयानि । अत्र नाम-कीर्त्या इति तृतीया-श्रुत्या तत्राप्य् अतिशय-साधकतमत्वं लब्धम् ॥४०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं भजतः सम्प्राप्त-फल-भूत-प्रेम-भक्ति-योगस्य संसार-धर्मातीतां चेष्टाम् आह एवम् इति । एवम् एव व्रतं नियमो यस्य सः । भक्तिष्व् अपि मध्ये नाम-कीर्तनस्य सर्वोत्कर्षम् आह स्व-प्रियस्य कृष्णस्य नाम-कीर्त्या, स्व-प्रियं वा यद् भगवन्-नाम तस्य कीर्त्या कीर्तनेन जातोऽनुरागः प्रेम यस्य सः । दर्शनोत्कण्ठाग्नि-द्रुतीकृत-चित्त-जाम्बुनदः । अये हैयङ्गवीनं चोरयितुं यशोदा-सुतश् चौरः गृहं प्रविष्टस् तद् अयं ध्रियताम् आव्रियताम् इति बहिर् जरती-गिरम् आकर्ण्य पलायितुं प्रवृत्तः कृष्णं स्फूर्ति-प्राप्तम् आलक्ष्य हसति । स्फूर्ति-भङ्गे सत्य् अहो प्राप्तो महा-निधिर् मे हस्त-च्यूत इति विषीदन् रोदिति । हे प्रभो ! क्वासि देहि मे प्रत्युत्तरम् इति फुत्कृत्य रौति । भो भक्त ! त्वत्-फुत्कारं श्रुत्वैवायातोऽस्मीति पुनः स्फूर्ति-प्राप्तं तम् आलक्ष्य गायति । अद्याहं कृतार्थोऽस्मीत्य् आनन्देन उन्माद उन्मत्तवन् नृत्यति । लोक-बाह्यः लोकानां हास्य-प्रशंसा-संमानावमानादिष्व् अवधान-शून्यः ॥४०॥

———————————————————————————————————————

॥ ११.२.४१ ॥

खं वायुम् अग्निं सलिलं महीं च

ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।

सरित्-समुद्रांश् च हरेः शरीरं

यत् किं च भूतं प्रणमेद् अनन्यः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

सर्वं हरेर् वशत्वेन शरीरं तस्य भण्यते ।

अनन्याधिपतित्वाच् च तद्-अनन्यम् उदीर्यते ।

स चाप्य् अभेदो जगतां विष्णोः पूर्ण-गुणस्य तु ॥ इति हरि-वंशेषु ॥४१॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, खम् इति । सत्त्वानि भूतानि । आकाशादि यत् किञ्चिद् भूत-मात्रं हरेः शरीरम् इति मत्वा प्रणमेत् । सम्भावनायां लिङ् ॥४१॥


कैवल्य-दीपिका : खम् इति । ज्योतींषि नक्षत्राणि । सत्त्वानि गवाश्व-प्रभृतीनि । हरेः शरीरम् इति बुद्ध्या यत् किञ्च भूतं प्रणमति अनन्यः सर्वत्र हरिं दृष्ट्वा ॥४१॥ [मु।फ। १९.२१]


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततः श्री-भगवतः सर्वत्र स्फूर्तेः खं वायुम् इति सत्त्वानि भूतान्य् आकाशादिकं यत् पश्यति, तत् त्व् अनुरागातिशयेन जगद्-धन-मयं लुब्धाः कामुकाः कामिनी-मयम् इतिवत्, हरेः शरीरं श्यामसुन्दर-पीतवसनादि-रूपम् एव पश्यन् प्रणमेत् । तत्र तत्र भक्त्या नम्रात्मा भवतीत्य् अर्थः । तत्र हेतुः—अनन्यः स्फूर्त्य्-अन्तर-रहित इत्य् अर्थः । या निशा सर्व-भूतानाम् इत्य् आदेः ॥४१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च—

नारायण-मयं धीराः पश्यन्ति परमार्थिनः ।

जगद्-धन-मयं लुब्धाः कामुकाः कामिनी-मयम् ॥

इति पौराणिक-वाक्यस्योदाहरणी-भवतीत्य् आह । खम् इति प्रणमेद् इति सम्भावनायां लिङ् । ख-वाय्व्-आदिषु यत्र यत्र दृष्टिः पतेत् तत्र हरेः शरीरं श्यामसुन्दराकारम् एव स्फुरितं पश्यतीत्य् अर्थः । यद् वा, भक्तस्य फल-प्राप्ति-दशां निर्वर्ण्य पुनः साधन-दशायां किंचिद् विदधाति । खम् इति हरेः शरीरम् अधिष्ठानं ज्ञात्वा प्रणमेते प्रणम्रो भवेत् । न विद्यतेऽन्यः कृष्णं विना सेव्यो यस्य सः ॥४१॥

———————————————————————————————————————

॥ ११.२.४२ ॥

भक्तिः परेशानुभवो विरक्तिर्

अन्यत्र चैष त्रिक एक-कालः ।

प्रपद्यमानस्य यथाश्नतः स्युस्

तुष्टिः पुष्टिः क्षुद्-अपायोऽनुघासम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इयम् आरूढ-योगानाम् अपि बहुभिर् जन्मभिर् दुर्लभा गतिः कथं नाम कीर्तन-मात्रेणैकस्मिन्न् एव जन्मनि भवेत् ? इत्य् आशङ्क्य स-दृष्टान्तम् आह—भक्तिर् इति प्रपद्यमानस्य हरिं भजतः पुंसो भक्तिः प्रेम-लक्षणा । परेशानुभवः प्रेमास्पद-भगवद्-रूप-स्फूर्तिः । तया निवृत्तस्य ततोऽन्यत्र गृहादिषु विरक्तिर् इत्य् एष त्रिक एक-कालो भजन-सम-काल एव स्यात् । यथाश्नतो भुञ्जानस्य तुष्टिः सुखं पुष्टिर् उदर-भरणं क्षुण्-निवृत्तिश्प्रतिघासं स्युः । उपलक्षणम् एतत् । प्रतिसिक्थम् अपि यथा स्युस् तद्वत् । एवम् एकैकस्मिन् भजने किंचित् प्रेमादि-त्रिके जायमानेऽनुवृत्त्या भजतः परम-प्रेमादि जायते । बहु-ग्रास-भोजिन इव परम-तुष्ट्य्-आदि ॥४२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु पूर्वं पादाम्बुजोपासनम् [भा।पु। ११.२.३३] इत्य्-आदिना तत्-स्फूर्ति-मयं फलम् उद्दिष्टम् । एवं व्रतः [भा।पु। ११.२.४०] इत्य्-आदिना तत्-प्रेम । लोक-बाह्यः इत्य् अनेन वैराग्यं चेति क्रमो गम्यते । स च न सम्भवति, मिथः सापेक्षत्वात् । यौगपद्ये च परस्पराश्रयो दोषः स्यात् । तद् एतद् आशङ्क्य यौगपद्यम् एव दृष्टान्तेन साधयति—भक्तिर् इति । अत्र भक्त्य्-आदीनां तुष्ट्य्-आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः, भक्ति-तुष्ट्योः सुखैक-रूपत्वात्, पुष्ट्य्-अनुभवयोर् आत्म-भरणैक-रूपत्वात्, विरक्ति-क्षुद्-अपाययोः शान्त्य्-एक-रूपत्वात् साम्यम्। यद्यपि भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते, भगवद्-अनुभविनस् तु विषयान्तर एवेति वैधर्म्यम्, तथापि वस्त्व्-अन्तर-वैतृष्ण्यांश एव दृष्टान्तो गम्य इति ॥४२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्ति-मार्गेऽस्मिन्न् अतिसुखदे साधन-दशायाम् अपि फल-प्राप्तिं स-दृष्टान्तम् आह—भक्तिर् इति । भक्तिः श्रवण-कीर्तनादिः परेशस्य इष्ट-देवस्य कृष्णस्य यदा भवेत्, तदैव अनुभवो माधुर्यास्वादोऽपि तद्-अनुरूपो भवेत् । तदैव अन्यत्र मायिक-विषय-सुखे विरक्तिर् अपि तद्-अनुरूपा भवेद् एवेत्य् एष त्रिक एक-कालः सम-कालोत्पन्न एव प्रपद्यमानस्य कृष्णं भजतो जनस्य भवति । यथाश्नतो भुञ्जानस्य जनस्य तुष्टिः सुखं पुष्टिर् उदर-भरणं क्षुन्-निवृत्तिश् चानुघासं प्रतिग्रासं स्युः । उपलक्षणम् एतत्, प्रतिसिक्थम् अपि यथा स्युः, तद्वत् । यथा भुञ्जानस्य किञ्चिन्-मात्र्यां तुष्टौ सत्यां किञ्चिन्-मात्री पुष्टिः किञ्चिन्-मात्र एव क्षुद्-अपायस्, तथैव भजतो जनस्य किञ्चिन्-मात्रे श्रवण-कीर्तनादि-भजने वृत्ते किञ्चिन्-मात्र एव परेशानुभवः, किञ्चिन्-मात्र्य् एव विरक्तिश् च भवेत् । यथैव च बहु-भोजिनः सम्पूर्णा एव तुष्टि-पुष्टि-क्षुद्-अपायास्, तथैव बहु-भजतः सम्पूर्णा एव भक्ति-परमेश्वरानुभव-विरक्तय इति । किन्तु बहु-भोजिनासामर्थ्यं भवति, बहु-भजतस् तु भजन-सामर्थ्यातिशयो भवतीति विशेषो द्रष्टव्यः ॥४२॥

———————————————————————————————————————

॥ ११.२.४३ ॥

इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या

भक्तिर् विरक्तिर् भगवत्-प्रबोधः ।

भवन्ति वै भागवतस्य राजंस्

ततः परां शान्तिम् उपैति साक्षात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ततश् च भगवत्-प्रसादेन कृतार्थो भवतीत्य् आह—इत्य् अच्युताङ्घ्रिम् इति ॥४३॥


जीव-गोस्वामी (भक्ति-सन्दर्भः ३४०): शान्तिं कृतार्थत्वम्, साक्षाद् अन्तर् बहिश् च प्रकटित-परम-पुरुषार्थत्वाद् अव्यवधानेनैवेत्य् अर्थः । पूर्व-पद्य-भक्त्य्-आदीनां तुष्ट्य्- आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः । उत्तरत्राप्य् एतत्-क्रमेण भक्ति-तुष्ट्योः सुखैक-रूपत्वात्। पुष्ट्य्-अनुभवयोर् आत्म-भरणैक-रूपत्वात्, क्षुद्-अपाय-विरक्त्योः शान्त्य्-एक-रूपत्वात् । यद्यपि भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते, भगवद्-अनुभविनस् तु विषयान्तर एवेति वैधर्म्यम्, तथापि वस्त्व्-अन्तर-वैतृष्ण्यांश एव दृष्टान्तो गम्य इति ॥४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : परां शान्तिं कृतार्थत्वम् आत्यन्तिकं क्षेमं—साक्षाद्-अन्तर्-बहिश् च प्रकटित-परम-पुरुषार्थत्वाद् अव्यवधानेनैवेत्य् अर्थः ॥४३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थम् एव पुष्टीकुर्वन्न् आह—इतीति । परां शान्तिम् आत्यन्तिकं क्षेमम् ॥४३॥

———————————————————————————————————————

॥ ११.२.४४ ॥

श्री-राजोवाच—

अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् ।

यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भागवतस्य भवन्तीत्य् उक्ते तस्य लक्षणं पृच्छति—अथेति । यद्-धर्मो यस्मिन् धर्मे परिनिष्ठितः । यादृशो यत्-स्वभावः । यथा चरति वर्तते ब्रूते वा । यैश् च लिङ्गैर् भगवतः प्रियो भवति ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र भक्ति-सिद्धास् त्रिविधाः—प्राप्त-भगवत्-पार्षद-देहाः, निर्धूत-कषायाः, मूर्च्छित-कषायाश् च । यथा श्री-नारदादयः, श्री-शुकादयः, प्राग्-जन्म-गत-नारदादयः । प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुं [भा।पु। १.६.२९] इत्य् आदौ, स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावः [भा।पु। १२.१२.६९] इत्य् आदौ, हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति [भा।पु। १.६.२२] इत्य् आदौ च प्रसिद्धेः।

श्री-नारदस्य पूर्व-जन्मनि स्थित-कषायस्य प्रेम वर्णितं स्वयम् एव—प्रेमातिभर-निर्भिन्न-पुलकाङ्गोऽतिनिर्वृतः [भा।पु। १.६.१८] इत्य् आदौ । श्री-भरत एवात्रोदाहरणीयः । तस्य च भूत-पिपालयिषा-रूपः प्रारब्धालम्बनः सात्त्विक-कषायो निगूढ आसीत्, प्रेमा च वर्णित इति । तद् एवं समान-प्रेम्णि त्रिविधे पूर्व-पूर्वाधिक्यं ज्ञेयम् । क्वचित् स्थितेऽपि प्राकृत-देहादित्वे यदि प्रेम्णः परिमाणतः स्वरूपतो वाधिक्यं दृश्यते, तदा प्रेमाधिक्येनैवाधिक्यं ज्ञेयम् । तच् च भजनीयस्य भगवतोऽंशांशित्व-भेदेन भजतश् च3 दास्य-सख्यादि-भेदेन स्वरूपाधिक्यं, प्रेमाङ्कुर-प्रेमादि-भेदेन परिमाणाधिक्यं च प्रीति-सन्दर्भे[९८-१०४ परिच्छेदे] विवृत्य दर्शयिष्यामः । साक्षात्कार-मात्रस्यापि यद्यपि पुरुष-प्रयोजनत्वं तथापि तस्मिन्न् अपि साक्षात्कारे यावान् यावान् श्री-भगवतः प्रियत्व-धर्मानुभवस् तावांस् तावान् उत्कर्षः । निरुपाधि-प्रीत्य्-आस्पदता-स्वभावस्य प्रियत्व-धर्मानुभवं विना तु साक्षात्कारोऽप्य् असाक्षात्कार एव माधुर्यं विना दुष्ट-जिह्वया खण्डस्येव । अत एवोक्तं श्री-ऋषभदेवेन—प्रीतिर् न यावन् मयि वासुदेवे; न मुच्यते देह-योगेन तावत् । [भा।पु। ५.५.६] इति ।

ततः प्रेम-तारतम्येनैव भक्त-महत्त्व-तारतम्यं मुख्यम् । अत एव मयीशे कृत-सौहृदार्थाः [भा।पु। ५.५.३] इत्य् एव तल्-लक्षणत्वेनोक्तम् । यत्र तु प्रेमाधिक्यं साक्षात्कारः कषायादि-राहित्यादिकम् अप्य् अस्ति स परमो मुख्यः । तत्रैकैकाङ्ग-वैकल्ये न्यून4 इति ज्ञेयम् । तद् एवं ये वा मयीशे [भा।पु। ५.५.३] इत्य्-आदिना ये उक्तास् ते तु प्राप्त-पार्षद-देहा न भवन्ति, तथा विषय-वैराग्योऽपि निगूढ-संस्कारवन्तोऽपि सम्भवन्ति। ततस् तद्-विवेचनाय प्रकरणान्तरम् उत्थाप्यते—अथेति ।

अथानन्तरं भागवतं ब्रूत तज्-ज्ञानार्थं स च नॄणां मध्ये यद्-धर्मो यत्-स्वभावस् तं स्वभावं ब्रूत । यथा च स आचरति अनुतिष्ठति तद्-अनुष्ठानं ब्रूत । यद् ब्रूते तद्-वचनं च ब्रूतेति मानस-कायिक-वाचिक-लिङ्ग-पृच्छा ।

ननु पूर्वं शृण्वन् सुभद्राणि रथाङ्ग-पाणेः [भा।पु। ११.२.३७] इत्य्-आदिना ग्रन्थेन तत्-तल्-लिङ्गं श्री-कविनैवोक्तं ? सत्यम् । तथापि पुनस् तद्-अनुवादेन तेषु लिङ्गेषु यैर् लिङ्गैर् भगवत्-प्रियो यादृश उत्तम-मध्यमतादि-भेद-विविक्तो भवति तानि लिङ्गानि विविच्य ब्रूतेत्य् अर्थः ॥४४॥ [भक्ति-सन्दर्भ १८७]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भागवतस्य भवन्तीत्य् उक्ते तस्य लक्षणं पृच्छति—अथेति । यद्-धर्मो यत्-स्वभाव इति मानस-लिङ्ग-प्रश्नः । यादृश इति तस्यैव तारतम्य-प्रश्नः । यथा आचरतीति कायिक-लिङ्ग-प्रश्नः । यद् ब्रूते इति वाचिक-लिङ्ग-प्रश्नः । किम् एतैः प्रश्नैर् इति चेद् अत आह—यैर् मानसादि-लिङ्गैर् भगवत्-प्रियोऽनुमीयते ॥४४॥

———————————————————————————————————————

॥ ११.२.४५ ॥

श्री-हविर् उवाच—

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।

भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् धर्म इत्य् अस्योत्तरम् आह त्रयेण—सर्व-भूतेष्व् इति । आत्मनः स्वस्य सर्व-भूतेषु ब्रह्म-भावेन समन्वयं पश्येत् । तथा ब्रह्म-रूपे आत्मन्य् अधिष्ठाने भूतानि च यः पश्येत् । यद् वा—आततत्वात् प्रमातृत्वाद् आत्मा हि परमो हरिः इति तन्त्रोक्तेर् आत्मनो हरेः सर्व-भूतेषु मशकादिष्व् अपि नियन्तृत्वेन वर्तमानस्य भगवद्-भावं निरतिशयैश्वर्यम् एव यः पश्येत्, न तु तस्य तारतम्यम् । तथात्मनि हराव् एव भूतानि च यः पश्येत् । कथम्भूते ? भगवति अप्रच्युतैश्वर्यादि-रूपे । न पुनर् जड-मलिन-भूताश्रयत्वेन जाड्यादि-प्रसक्त्या ऐश्वर्यादि-च्युतिं पश्येत् । स सर्वत्र परिपूर्णं भगवत्-तत्त्वं पश्यन् भागवतोत्तम इत्य् अर्थः ॥४५॥


कैवल्य-दीपिका : एवम् कर्म-मिश्रां नव-भेदाम् उक्त्वा कर्म-ज्ञान-मिश्रां त्रि-भेदम् आह—कर्मेति । त्रित्व-हेतुम् आह—सत्त्वाद् उत्पद्यते, सत्त्वात् सञ्जायते ज्ञानम् [गीता १४.१७] इति वचनात् । अतः सत्त्वस्य प्रकर्ष-साम्यापकर्षौ । ज्ञानस्य त्रि-रूपत्वात् भक्तेस् त्रैविध्यम् ॥

अथोत्तमा—सर्व- इति । सर्व-भूतेषु स्थितस्य आत्मनो जीवस्य भगवत्त्वम् । उत्तम-भक्ति-योगात् । एवं मध्यम-प्राकृताः । अत्र यः पश्येत् दर्शनं कुर्याद् इति कर्मा दर्शनस्य चात्म-विषयत्वं ज्ञानम् । आत्मनश् च भगवत्त्वं भक्तिः । उत्तमत्वं चास्याः सर्व-भूत-स्थितैकात्म-विशेषित्य् आह— ज्ञानेन मिश्रत्वात् ॥८॥ [मु।फ। ५.८]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२२] श्री-हवि-योगेश्वरस्य उत्तरे—

अथ भागवतं ब्रूत यद् धर्मो यादृशो नृणाम् । > यथा चरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥ [११.२.४४]

इति श्री-निमि-प्रश्नस्य प्रतिवचने । तत्र यद् धर्मो यस्मिन् धर्मे परिनिष्ठिते इत्य् अस्योत्तरम्—सर्व-भूतेष्व् इति । आततत्वात् प्रमातृत्वाद् आत्मा हि परमो हरिः इति तन्त्रोक्तेः, आत्मनो हरेः सर्व-भूतेषु मशकादिष्व् अपि नियन्तृत्वेन वर्तमानस्य भगवद्-भावं निरतिशयैश्वर्यम् एव यः पश्येन् न तु तारतम्यम् । अयं चात्म-ज्ञान-पर इति ज्ञेयं प्रकरण-बलात् । एवम् अग्रे ईश्वरे इत्य्-आदि पद-द्वयेऽपि । अत एव पश्येद् इति सम्भावनायां सप्तमी । आत्म-ज्ञान-परस्य तादृश-भगवज्-ज्ञानासम्भवात् तथात्मनि हराव् एव भूतानि च यः पश्येत् । कथम्भूते ? भगवति अप्रच्युतैश्वर्यादि-रूपे । न पुनर् जड-मलिन-भूताश्रयत्वेन जाड्यादि-प्रसक्त्या ऐश्वर्यादि-च्युतिं पश्येत् । स सर्वत्र परिपूर्णं भगवत्-तत्त्वं पश्यन् भागवतोत्तम इत्य् अर्थः ॥४५॥

स्वेष्ट-देवस्य भावं यः सर्व-भूतेषु पश्यति । > भावयन्ति च तान्य् अस्मिन्न् इत्य् अर्थः सम्मतः सताम् ॥ [ह।भ।वि। > १०.७२]


जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्-धर्म इत्य् अत्रोत्तरं त्रयेण । तत्र तत्-तद्-अनुभव-द्वारावगम्येन मानस-लिङ्गेन महा-भागवतं लक्षयति सर्व-भूतेष्व् इत्य्-आदि । एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः [भा।पु। ११.२.३८] इति श्री-कवि-वाक्योक्त-रीत्या यश् चित्त-द्रव-हास-रोदनाद्य्-अनुभावकानुराग-वशत्वात् खं वायुम् अग्निं [भा।पु। ११.२.३९] इत्य्-आदि-तद्-उक्त-प्रकारेणैव चेतनाचेतनेषु सर्व-भूतेषु आत्मनो भगवद्-भावम् आत्माभीष्टो यो भगवद्-आद्य्-अनुभवस् तम् एवेत्य् अर्थः । पश्येद् अनुभवति । अतस् तानि च भूतानि आत्मनि स्व-चित्ते तथा स्फुरति यो भगवान् तस्मिन्न् एव तद्-आश्रितत्वेनैव अनुभवति, एष भागवतोत्तमो भवति । इत्थम् एव श्री-व्रज-देवीभिर् उक्तम्—वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः [भा।पु। १०.३५.९] इत्य्-आदि।

यद् वा, आत्मनो यो भगवति भावः प्रेमा, तम् एव चेतनाचेतनेषु भूतेषु पश्यति। शेषं पूर्ववत् । अत एव भक्त-रूप-तद्-अधिष्ठान-बुद्धि-जात-भक्त्या तानि नमस्करोतीति । खं वायुम् इत्य् आदौ पूर्वम् उक्तम् इति भावः । तथैव चोक्तं ताभिर् एव—

नद्यस् तदा तद् उपधार्य मुकुन्द-गीतं > आवर्त-लक्षित-मनो-भव-भग्न-वेगाः ॥ [भा।पु। १०.२१.१५] > इत्य्-आदि ।

यद् वा, श्री-पट्ट-महिषीभिर् अपि कुररि विलपसि त्वं [भा।पु। १०.९०.७] इत्य्-आदि । अत्र न ब्रह्म-ज्ञानम् अभिधीयते, भागवतैस् तज्-ज्ञानस्य तत्-फलस्य च हेयत्वेन जीव-भगवद्-विभागाभावेन च भागवत्व-विरोधात् । अहैतुक्य् अव्यवहिता [भा।पु। ३.२९.१०] इत्य् आदौ ह्य् ऐकान्तिक-भक्ति-लक्षणानुसारेण सुतराम् उत्तमत्व-विरोधाच् च । न च निराकारेश्वर-ज्ञानं प्रणय-रशनया धृताङ्घ्रि-पद्मः [भा।पु। ११.२.५३] इत्य् उपसंहार-गत-लक्षण-परम-काष्ठा-विरोधाद् एवेति विवेचनीयम् ॥४५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनः स्वस्य उपास्यो यो भगवांस् तस्य भावं विद्यमानतां सर्व-भूतेषु यः पश्येत्, यथा स क्व इति हिरण्यकशिपुना पृष्टः प्रह्लादः सर्वत्रैवेत्य् उक्त्वा स्तम्भेऽपि मत्-प्रभुर् दृश्यत इति स्वोपास्यं भगवन्तं दृष्टवान् एवेत्य् अर्थः । तथा आत्मन्य् आत्मीये आत्मोपास्ये भगवति च भूतानि पश्येत्, यथा श्री-यशोदा कृष्णस्य जठर एव सर्व-भूतान्य् अपश्यत् ।

यद् वा, आत्मनि स्व-मनसि स्फुरति यो भगवांस् तस्मिन्न् एव भूतानि तद्-विषयक-प्रेमवन्ति यः पश्येत्, यथा वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फुलाढ्याः [भा।पु। १०.३५.९] इति नद्यस् तदा तद् उपधार्य मुकुन्द-गीतं [भा।पु। १०.२१.१५] इत्य्-आदिकं व्रज-सुन्दर्यः । कुररि विलपसि त्वं [भा।पु। १०.९०.१५] इति क्षिति-धर चिन्तयसे॥। स्तनैर् विधर्तुं [भा।पु। १०.९०.२२] इत्य्-आदिकं पट्ट-महिष्याश् चोक्तवत्य एव । अत एवात्मनो भगवद्-भावं सर्व-भूतेषु पश्यति भावयन्ति च । भूतानीत्य् अस्यार्थः सम्मतः सताम् इति श्रीमत्-सनातन-चरणानां कारिका प्रसिद्धा ।

अत्र पश्येद् इति तथा दर्शन-योग्यतैव विवक्षिता, न तु तथा दर्शनस्य सार्व-कालिकता । तथात्वे नारद-व्यास-शुकादाव् अप्य् अव्याप्तिः स्यान्, नहि ते सर्वदैव सर्वत्र भगवन्तं पश्यन्ति, किन्तु तद्-दिदृक्षाधिक्य एवातस् तद्-दर्शनौत्कण्ठ्यम् अत्यधिकं यदा वर्धते, तदैव कामुकाः कामिनी-मयम् इति न्यायेन सर्व-जगद् एव भगवन्-मयं पश्येत् । तथैव आत्मवन् मन्यते जगद् इति न्यायेन सर्व-भूतान्य् एव प्रेमौत्कण्ठ्य-व्याकुलान्य् एव पश्येद् इति ज्ञेयम् । अत्र दृशेर् ज्ञानार्थत्वे व्याख्याते भगवतः सर्व-भूताधेयत्वाधारत्व-ज्ञानवतः शास्त्रज्ञ-मात्रस्यैव भागवतोत्तमत्वं स्याद् इति तन् न व्याख्यातम्॥४५॥


**सिद्धान्त-सरस्वती : [**अनुभाष्य तो चै।च। २.८.२७५] यः सर्व-भूतेषु चेतनाचेतनात्मकेषु सर्वेषु आत्मनः भोग-जडातीतस्य अप्राकृतस्य भगवद्-भावं भूतानां भगवत्-सेवोपयोगि-सिद्ध-स्वरूपादिकं पश्येत्, आत्मनि भगवति निज-सिद्ध-रूपेण अप्राकृत-नित्य-सेवा-पराणि भूतानि पश्येत्, स एष भागवतोत्तमः । अप्राकृत-भाव-प्राबल्येन महा-भागवताः सर्वत्र सेव्य-सेवक-भावावस्थिताः कृष्ण-कार्ष्णान् पश्यन्ति बहिर्-दृष्टेर् अभावात् ॥४५॥

———————————————————————————————————————

॥ ११.२.४६ ॥

ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।

प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रेममैत्रीकृपाउपेक्षा च, ता ईश्वरादिषु चतुर्षु यः करोति स मध्यमो भागवतः । एवम्-भूतस्य भेदस्य दर्शनात् ॥४६॥


कैवल्य-दीपिका : अथ मध्यमा—ईश्वर इति । अत्रेश्वरादीनां प्रेमादिभिः क्रमात् सम्बन्धः । ईश्वरे प्रेम्णा विषय-रागः पराक्रियते । मैत्र्या ईर्ष्या । कृपया गर्वः । उपेक्षया द्वेषः । ईश्वरो जगत्-कारणं मायोपाधिः पुरुषः । तद्-अधीना ईश्वरार्पित-प्राणाः । बालिशा मूर्खाः । अत्रेश्वरस्य जगत्-कारणत्वाद्य्-अनुसन्धानं ज्ञानं तथा प्रेम-भक्तिः । तत्-सिद्धये तद्-अधीनादिषु मैत्र्य्-आदि-करणं कर्म । अस्याश् च मध्यमत्वम् ईश्वरस्य सर्वात्मकत्वे नावगमात् ॥४६॥ [मु।फ। ५.९]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२५] ईश्वरे भगवति प्रेम, तद्-अधीनेषु तद्-भक्तेषु मैत्री सख्यम्, बालिशेषु अज्ञेषु कृपाम्, द्विषत्सु चोपेक्षां यः करोति, **स मध्यम-**भागवत इत्य् अर्थः, तादृश-भेद-दर्शनात् ।

यद् वा, सर्व-भूतेषु [भा।पु। ११.२.४५] इत्य् अस्यायम् अर्थो द्रष्टव्यः—आत्मनो यो भगवान् इष्ट-देवः श्री-कृष्णः, तस्य भावं प्रेम सर्व-भूतेषु यः पश्येत्, तया यानि भूताणि सर्वाणि तेषां च भावं भगवति यः पश्येत् । तेषां तद्-भावे हेतुः—आत्मनि आत्मवत् स्वतो जगतः प्रेमास्पदे । यद् वा, चेतयितरि तत्-प्रेरण-प्रसादेनैव तद्-भाव इत्य् अर्थः ।

किं वा, आत्मकोऽपि चेतयितृत्वेन तस्य परमात्मतयात्मनोऽपि सकाशात् परम-प्रेमास्पदत्वं युक्तम् एवेति । एवं च स्वयं परम-प्रेम-रस-प्लुततया स्वानुमानेनान्येष्व् अपि तथादृष्ट्यासौ भागवतोत्तम एव इत्य् अर्थः इति । तद्-अपेक्षया चास्य मध्यमत्वम् उचितम् एव । तादृश-प्रेम-राहित्येन सर्वत्र तादृश-दृष्ट्य्-अभावात् । इत्थं व्याख्याय च पद्यम् इदं प्रेम-परतादौ द्रष्टव्यम् ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ मानस-लिङ्ग-विशेषणेनैव मध्यम-भागवतं लक्षयति—ईश्वरे इति । परमेश्वरे प्रेम करोति । तस्मिन् भक्ति-युक्तो भवतीत्य् अर्थः । तथा तद्-अधीनेषु भक्तेषु च मैत्रीं बन्धु-भावम् । बालिशेषु तद्-भक्तिम् अजानत्सु उदासीनेषु कृपाम् । यथोक्तं श्री-प्रह्लादेन—

शोचे ततो विमुख-चेतस इन्द्रियार्था > माया-सुखाय भरम् उद्वहतो विमूढान् । [भा।पु। ७.९.४२] इति ।

आत्मनो द्विषत्सु उपेक्षाम् । तदीय-द्वेषे चित्ताक्षोभेनोदासीन्यम् इत्य् अर्थः । तेष्व् अपि बालिशत्वेन कृपांश-सद्-भावात् । यथैव श्री-प्रह्लादो हिरण्यकशिपौ । भगवतो भागवतस्य वा द्विषत्सु तु सत्य् अपि चित्त-क्षोभे तत्रानभिनिवेश इत्य् अर्थः । अस्य बालिशेषु कृपायाः स्फुरणं द्विषत्सूपेक्षाया एव । न तु प्राग्वत् सर्वत्र प्रेम्णा वा स्फुरणम् । ततो मध्यमत्वम् ।

अथोत्तमस्यापि तद्-अधीन-दर्शनेन तत्-स्फुरणानन्दोदयो विशेषत एव । ततश् च तस्मिन्न् अधिकैव मत्री यद् भवति, तन् न निषिध्यते किन्तु सर्वत्र तद्-भावावश्यकता विधीयते । परमोत्तमेऽपि तथा दृष्टम्—

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । > भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। > ४.२४.५७]

अथ भागवता यूयं प्रियाः स्थ भगवान् यथा [भा।पु। ४.२५.३०] इति च रुद्र-गीतात् ।

हरेर् गुणाक्षिप्त-मतिर् > भगवान् बादरायणिः । > अध्यगान् महद् आख्यानं > नित्यं विष्णु-जन-प्रियः ॥ [भा।पु। १.७.११] इति सूत-वाक्याच् च ।

एवं भोजानां कुल-पांसनाः [भा।पु। १०.१.२४] इत्य् आदौ तत्र बादरायणि-प्रभृतीनां द्वेषोऽपि दृश्यते । किन्तु मध्यमानां तत्रानाभिनिवेश एव स्फुरति । तेषां तु तत्रापि तद्-विध-शास्तृत्वेन निजाभीष्ट-देव-परिस्फूर्तिर् न व्याहन्येत इति विशेषः । तद्-दृष्ट्यैव च श्रीमद्-उद्धवादीनाम् अपि श्री-दुर्योधनादौ नमस्कारः ।

सत्त्वं विशुद्धं वसुदेव-शब्दितं > यद् ईयते तत्र पुमान् अपावृतः । [भा।पु। ४.३.२१] इत्य्-आदि > श्री-शिव-वाक्यवत् ।

उक्तं च लक्ष्मणा-हरणे—सोऽभिवन्द्याम्बिका-पुत्रं [भा।पु। १०.६८.१७] इत्य् आदौ दुर्योधनश् चेति । यत्र पक्षे च स्वकीय-भावस्यैव सर्वत्र परिस्फूर्तेः श्री-भगवद्-आदि-द्विषत्स्व् अपि सा पर्यवस्यति, तत्र च नायुक्तता, यतस् ते निज-प्राण-कोटि-निर्मञ्छनीय-तच्-चरण-पङ्कज-पराग-लेशास् तेषां दुर्व्यवहार-दृष्ट्या क्षुभ्यन्ति । स्वीय-भावानुसारेण त्व् एवं मन्यन्ते—अहो ईदृशश् चेतनो वा कः स्याद् यः पुनर् अस्मिन् सर्वानन्द-कदम्बके निरुपाधि-परम-प्रेमास्पदे सकल-लोक-प्रसादक-सद्-गुण-मणि-भूषिते सर्व-हित-पर्यवसायि-चर्यामृते श्री-पुरुषोत्तमे तत्-प्रिय-जने वा प्रीतिं न कुर्वीत । तद्-द्वेष-कारणं तु सुतराम् एवास्मद्-बुद्धि-पद्धतिम् अतीतम् । तस्माद् ब्रह्मादि-स्थावर-पर्यन्ता अदुष्टा दुष्टाश् च तस्मिन् बाढं रज्यन्त एवेति । तद् उक्तं श्री-शुकेन—

गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह । > अवात्सीन् नारदोऽभीक्ष्णंकृष्णोपासन-लालसः ॥ > को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् । > न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः ॥ [भा।पु। > ११.२.१-२] इति ॥४६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरे स्वोपास्ये भगवति प्रेम करोति, तस्मिन्न् आसक्तो भवतीत्य् अर्थः । तद्-अधीनेषु च अधीनो येषां तेषु भक्तेषु मैत्रीं बन्धु-भावम् । बालिशेषु भक्तिम् अजानत्सु कृपाम् इति भरत-व्यास-शुकादीनाम् अपि कृपायाः सार्वत्रिकत्वादर्शनात् येषु बालिशेषु कृपा स्वयम् उदेति तेष्व् इति व्याख्येयम् । गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवं [भा।पु। १०.२०.३६] इति गिरि-दृष्टान्तात् । भगवन्तं द्विषत्सु उपेक्षां तत्र कृपाया वैफल्य-दर्शनाद् इति भावः । आत्मानं द्विषत्सु तु बालिशत्व-मननात् दूरतः स्थित्यैव तच्-छुभानुध्यान-मात्रम् इति सद्-आचारः । अत्र सर्व-भूतेषु भगवद्-दर्शन-योग्यता यस्य कदाचिद् अपि न दृष्टा तस्यैवैतल्-लक्षण-चतुष्टयवत्त्वे मध्यमत्वम् । यस्य तु सा दृष्टा तस्य तूत्तमत्वम् एवेति विवेचनीयम् । अत एव भागवतोत्तमेषु नारदादिष्व् अपि प्रेम-मैत्री-कृपोपेक्षा दृश्यन्त एव ॥४६॥


सिद्धान्त-सरस्वती : [आनन्द्नुभाष्य तो मात्रध्य २२.७०] य ईश्वरे भगवति कृष्णे प्रेमाणं करोति, तद्-अधीनेषु उत्तम-मध्यम-कनिष्ठाधिकारिषु भगवद्-भक्तेषु मैत्रीं शुश्रूषा-प्रणति-समादरादि-यथोचित-सख्यतां करोति, बालिशेषु भक्त्य्-अनभिज्ञेषु कृपां करोति, द्विषत्सु भगवद्-भागवत-विरोधि-जनेषु उपेक्षां करोति वीत-रागं प्रदर्शयति, तेषां सङ्गं सर्वथा वर्जयतीत्य् अर्थः । स भागवतः मध्यमः मध्यम-संज्ञकः । एवम्भूतस्य भेदस्य दर्शनात् ॥४६॥

———————————————————————————————————————

॥ ११.२.४७ ॥

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।

न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

पूर्णत्वाद् आत्म-शब्दोक्तः कश्चित् सर्व-नरोत्तमः ।

सोऽपि नारायणो नान्यः स च सर्वेषु संस्थितः ॥ > तद्-वशा इतरे सर्वे श्री-ब्रह्मेश-पुरःसराः । > स एव तु स्वभक्तेषु स्थित्वानुग्रह-कारकः ॥ > अज्ञेष्व् अज्ञा न यन्ता च द्विषत्सु द्वेष-कारकः । > तत्-प्रेरितास् तद्-अन्येषु प्रिय-द्वेषादि-कारिणः ॥ > अतस् तत्-प्रेरणाद् एव प्रेमाद्या मम जज्ञिरे । > इति पश्यति यो बुद्ध्या स तु भागवतोत्तमः ॥ > सर्वाधिकं पृथग्-विष्णुं क्षीर-सागर-वासिनम् । > ज्ञात्वा तत्र प्रेम-युक्तस् तद्-भक्तेषु च मैत्र्-युक् ॥ > कृपावांश् च तद्-अज्ञेषु तद्-द्वेषिणाम् उपेक्षकः । > तद्-वशत्वं न जानाति सर्वस्य जगतोऽपि तु ॥ > तम् आहुर् मध्यमं भक्तम् अर्चायाम् एव संस्थितम् । > विष्णुं ज्ञात्वा तद् अन्यत्र नैव जानाति यः पुमान् ॥ > तारतम्यं च तद्-भक्तेर् न जानाति कथञ्चन । > अवजानंश् च तद्-भक्तान् आत्मनो भक्ति-दर्पतः ॥ > उपेक्षकोऽपि वा तेषु न स्मरेद् अथवापि तान् । > मानुषेषु यथा कश्चित् किञ्चिद् उच्चः प्रदृश्यते ॥ > एवम् एवोच्चतां विष्णोर् अल्पां पश्यति चान्यतः । > ते तु भक्ताधमाः प्रोक्ताः स्वर्गादि-फल-भागिनः ॥ > तैर् विघ्निता अधो यान्ति तद्-भक्तानाम् उपेक्षकाः । > कुर्युर् विष्ण्वाव् अपि द्वेषं देवादेवाव् अमानिनः ॥ > पूजितां विष्णु-भक्तिं च नावज्ञेयास् ततः सुराः । > उपेक्षकेषु देवानां भक्ति-नाशां स्वयं हरिः ॥ > करोति तेन विभ्रष्टाः संसरन्ति पुनः पुनः । > अधो या यान्ति तद्-द्वेषात् पूज्याद् एवान्ततः सदा ॥ > यस् तां द्वेष्टि स तं द्वेष्टि यस् ताद् अनु स चानु तम् । > एकात्म्यम् आगतं विद्धि देवैस् तद्-भक्ति-पूरितैः ॥ > उपेक्षकस् तु देवानां यदैव निरयोपगः । > तदा तु किम् उ वक्तव्यम् उपेक्षायां जनार्दने ॥ > विष्णोर् उपेक्षकं सर्वे विद्विषन्त्य् अधिकं सुराः । > पतत्य् अवश्यं तमसि हरिणा तैश् च पातितः ॥ > भुङ्क्ते स्वर्ग-फलं नित्यं निरयं नैव गच्छति । > विष्णोस् तु मध्यमो भक्तो जायते मानुषेषु च ॥ > अस्मरन् देवता यस् तु भजते पुरुषोत्तमम् । > योग्यः संस्मरते देवा न योग्यो द्वेष्टि केशवम् ॥ > यस् तूत्तमो भागवतः स मुक्तिं परमां व्रजेत् । > विष्णुना सर्व-देवैश् च मोदते स नित्यदा ॥ इति च ॥ ४५-४७॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्चायां प्रतिमायां पूजामीहते करोति, न तद्-भक्तेष्व् अन्येषु च सुतरां न करोति । प्राकृतः प्रकृत-प्रारम्भः । अधुनैव प्रारब्ध-भक्तिः शनैर् उत्तमो भविष्यतीत्य् अर्थः ॥४७॥


कैवल्य-दीपिका : अथाधमा—अर्चायाम् इति । ईहते करोति । अत्र अर्चायाम् एव हरिर् अस्तीति बोधो ज्ञानम् । श्रद्धया तत्-पूजनं भक्तिः । तद्-भक्तेषु पूजाया अकरणं कर्म । अधमत्वं चास्यास् तु ज्ञान-मिश्रत्वात् ॥४७॥ [मु।फ। ५.१०]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२६] अर्चायां प्रतिमायां पूजाम् ईहते करोति,न तद्-भक्तेष्व् अन्येषु च सुतरां न करोति । प्राकृतः प्रकृति-प्रारम्भः । अधुनैव प्रारब्ध-भक्तिः शनैर् उत्तमो भविष्यतीत्य् अर्थः। अर्चायाम् इत्य् अनेन च तस्य तत्रार्चा-बुद्ध्य्-अपगम-सूचनात् । पूज्ये विष्णौ शिला-धीः इत्य्-आदि वचन-प्रामाण्येन दोष-विशेषापत्तेस् तथा वैष्णवासम्माननाच् च कनिष्ठत्वं दर्शितम् ।

यद् वा, अर्चायाम् इति निमित्त-सप्तमी । पूजार्थम् एव हरेः पूजां श्रद्धया करोति, तथा अन्येषु च देवतान्तरेषु भक्तः । न च तद्-भक्तेषु वैष्णवेषु भक्तः, स प्राकृतः कनिष्ठो भागवत इत्य् अर्थः । सोऽपि भगवत्-पूजा-प्रवृत्त्या कालेनोत्तमो भवतीति ज्ञेयम् । अस्य च देवोत्तमादि-ज्ञानेनैव । किं वा, हरेः पूजनेनैव लोकेषु निज-पूजा स्याद् इत्य् अनेन तत्-पूजायां प्रवृत्तेर् ज्ञानित्वं गमयति ॥४७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ भगवद्-धर्माचरण-रूपेण कायिकेन किञ्चिन् मानसेन च लिङ्गेन कनिष्ठं लक्षयति—अर्चायाम् इति । अर्चायां प्रतिमायाम् एव तद्-भक्तेषु अन्येषु च सुतरां न भगवत्-प्रेमाभावाद् भक्त-माहात्म्य-ज्ञानाभावात् सर्वादर-लक्षण-भक्त-गुणानुदयाच् च । स प्राकृतः प्रकृति-प्रारब्धोऽधुनैव प्रारब्ध-भक्तिर् इत्य् अर्थः । इयं च श्रद्धा न शास्त्रार्थावधारण-जाता ।

यस्यात्म-बुद्धिः कुणपे त्रि-धातुके > स्व-धीः कलत्रादिषु भौम इज्य-धीः । > यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् [भा।पु। १०.८४.१३] इत्य्-आदि > शास्त्र-ज्ञानात् ।

तस्माल् लोक-परम्परा-प्राप्तैवेति पूर्ववत् । अतश् चाजात-प्रेमाशास्त्रीय-श्रद्धा-युक्तः साधकस् तु मुख्यो कनिष्ठो ज्ञेयः ॥४७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्चायां प्रतिमायाम् । हरये हरिं प्रीणयितुं, न तद्-भक्तेष्व् अपि अन्येषु च सुतरां न करोति । प्राकृतः प्रकृतिः प्रारम्भः । अधुनैव प्रारब्ध-भक्तिः शनैर् उत्तमो भविष्यतीत्य् अर्थः इति श्री-स्वामि-चरणाः । तद् एव त्रिभिर् यद् धर्मो यादृश इति प्रश्नस्योत्तरम् उक्तम् ॥४७॥


सिद्धान्त-सरस्वती : यो हरये भगवते गुरवे आत्मानं निवेद्य अर्चायां श्री-विग्रहे श्रद्धया दीक्षितः सन् मिश्रत्वेन भक्त्य्-आभासेन पाञ्चरात्रिक-विधानेन पूजाम् ईहते करोति, तद्-भक्तेषु हरि-जनेषु पूजां न ईहते भक्त-तारतम्य-ज्ञानाभावात् अन्येषु च हरि-विमुख-सङ्गं च वर्जयतीत्य् अर्थः, स भक्तः प्राकृतः कनिष्ठः वैष्णव-प्रायः, न तु शुद्ध इत्य् अर्थः स्मृतः कथितः ॥४७॥ (अनुभाष्य तो मध्य २२.७१)

———————————————————————————————————————

॥ ११.२.४८ ॥

गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति ।

विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : विष्णोर् मायां विष्ण्व्-इच्छाधीनाम्


विष्णोर् इच्छानुसार्य् एतज् ज्ञात्वा योग्यं न चाधिकम् । > हृष्यति द्वेष्टि वा यस् तु स वै भागवतोत्तमः ॥ इति च । > सतां वृद्धि-करो धर्मस् त्व् असतां ह्रास-कारकः । > अयं तु निश्चितो धर्मो ह्य् अधर्मोऽन्यो विनिश्चितः ॥ > हर्षः सत्सु तथासत्सु धर्मोऽधर्म-विपर्ययः । > तेषां वृद्धौ तथा हानौ सर्वं ज्ञेयम् अशेषतः ॥ > एतद्-अर्थं च धर्माणां मर्यादा वैदिकादिका । > मूल-धर्म-विरुद्धा तु सा न ग्राह्या कथञ्चन ॥ इति च ॥४८॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : पुनर् अष्टभिः श्लोकैर् अभ्यर्हित-त्वद्-उत्तम-भागवतस्यैव लक्षणान्य् आह—गृहीत्वापीति । श्री-वासुदेव-विष्ट-चेता न गृह्णाति तावद् इन्द्रियैर् अर्थान्गृहीत्वापीत्य् अपि-शब्दार्थः । इदं विश्वम् ॥४८॥


कैवल्य-दीपिका : गृहीत्वेति । एवं वै भजमानस्य विदेह-कैवल्यम् उक्त्वा सम्प्रत्य् आरब्ध-कर्म-वशात् देहे सत्य् अपि विष्णु-पाद-प्राप्ति-लक्षणां जीवन्मुक्तिं दर्शयितुम् उत्तर-ग्रन्थम् आरभते कविः ॥४८॥ [मु।फ। १९.३१]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२७] श्री-कृष्णाविष्ट-चित्तो न गृह्णात्य् एव, इन्द्रियैर् अर्थान् विषयान् गृहीत्वापीत्य् अपि-शब्दार्थः । न द्वेष्टि तेषां दोषवत्त्वेऽपि सति न निन्दादिकं करोतीत्य् अर्थः । न काङ्क्षति गुणवत्त्वेऽपि सति न कामयते, यथोत्पन्नम् एव तान् सेवते इत्य् अर्थः । भोगानासक्तत्वात् । तत्रैव हेतुः—इदम् अर्थादिकं सर्वम् अपि विष्णोर् मायां मायेति पश्यन्न् इति ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ टीका—पुनर् अष्टभिः श्लोकैर् अभ्यर्हित-त्वद्-उत्तम-भागवतस्यैव लक्षणान्य् आह—गृहीत्वापीति इत्य् एषा । तथा हि गृहीत्वेति । पूर्वोक्त-प्रकारेण मायां बहिरङ्ग-शक्ति-विलासत्वाद् धेयम् इत्य् अर्थः । अत्रापि कायिक-मानसयोः साङ्कर्यम् ॥४८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लक्षितस्योत्तम-भागवतस्य जाति-भेदाद् अन्यान्य् अपि लक्षणानि सम्भवन्तीत्य् आह पुनर् अष्टभिः—गृहीत्वेति ॥४८॥

———————————————————————————————————————

॥ ११.२.४९ ॥

देहेन्द्रिय-प्राण-मनो-धियां यो

जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः ।

संसार-धर्मैर् अविमुह्यमानः

स्मृत्या हरेर् भागवत-प्रधानः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) :

देहेन्द्रिय-प्राण-धियां त्रिधैव त्व् अभिमानिनः ।

तत्रोत्तमा देवतास् ताः सर्व-दोष-विवर्जिताः ॥ > गुणैः सर्वैः सुसम्पन्ना विरिञ्चाद् उत्तरोत्तरम् । > मध्यमा गुण-दोषेता असुरा अधमा मताः ॥ > ते सर्वे दोष-संयुक्ता आचित्ताद् उत्तरोत्तरम् । > तेभ्योऽन्यो मानुषो जीवस् ताभ्यां देवासुराव् अपि ॥ > जीवाभिमानिनश् चैव त्रिविधाः सम्प्रकीर्तिताः । > जीव-मान्य् उत्तमो ब्रह्मा मध्यमः स्वयम् एव तु । > अधमः कलिर् उद्दिष्टस् तत्र मध्यम-नीचयोः । > मृति-जन्म-क्षुधा-दुःख-प्रभृत्य् अखिलम् एव तु । > नोत्तमस्य तु जीवस्य देहादेश् च कथञ्चन । > जन्मादि-कृत-दुःखं तु देह-मान्य् असुरस्य ह । > सुप्ताद्य् अप्य् अजजं दुःखम् असुरेन्द्रिय-मानिनः । > क्षुन्-निमित्तं तु मद्-दुःखं प्राण-मान्य् असुरस्य तत् । > भय-तर्षादिजं दुःखं मनो-मान्य् असुरस्य च । > केवलं त्व् आन्तरं दुःखं बुद्धि-मान्य् असुरस्य तत् । > नीचोऽस्मीति तु यद् दुःखम् अहं-मान्य् असुरस्य तत् । > अतीतादि-स्मृतेर् दुःखं चित्त-मान्य् असुरस्य च । > जीव-मान्य् असुरस्य स्यात् सर्वं तत् समुदायतः । > एवम् एव सुखं देवेषु भयं मध्यमेषु च । > असुराणाम् अधर्मस्य वृद्ध्या सुखम् अपीष्यते । > देवानां नैव केनापि दुःखं प्रीतिस् तु धर्मतः । > अधर्मोऽपि प्रीतये स्याद् असुराणाम् अधो-गतेः । > देवानां पुण्य-पापाभ्यां सुखम् एवोत्तरोत्तरम् । > तेषां दुःखादिकं किञ्चिद् असुरावेशतो भवेत् । > प्राणस्य नासुरावेशे आनखाश्म-समो हि सः । > सम्पूर्णानुग्रहाद् विष्णोः प्राणः पूर्ण-गुणो मतः । > असुराणां सुखाद्याश् च देवावेशाद् उदीरिताः । > स्वतस् तु निर्गुणाः सर्वे सर्व-दोषात्मको मताः । > विविच्यैवं जगत् सर्वं स्वात्मानं च पृथक् स्थितम् । > सर्वतश् च पृथक् सन्तं विष्णुं सर्वोत्तमोत्तमम् । > जानन्ति ये भागवतास् ते उक्ता उत्तमा इति ॥ इति ब्रह्म-तर्के ।

देहेन्द्रिययोर् जन्माप्ययौ ॥४९॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च देहादीनां संसार-धर्मैर् जन्माप्य् अयादिभिर् यो हरेः स्मृत्याऽविमुह्यमानः स भागवत-प्रधानः । तत्र देहस्य जन्माप्ययौ । प्राणस्य क्षुत्-पिपासे । मनसो भयम् । बुद्धेस् तर्पस् तृष्णा । इन्द्रियाणां कृच्छ्रं श्रमस् तैः ॥४९॥


कैवल्य-दीपिका : स्पष्टं देहीति । इदं जगत् देहस्य जन्माप्ययौ इन्द्रियाणां तर्षो विषय-लिप्सा-रूपः प्राणः क्षुत् मनसो भयं धियः कृच्छ्रम् खिन्नत्वं विवेचना-शक्तिर् इत्य् अर्थः ॥५२॥

[मु।फ। १९.३२]


सनातन-गोस्वामी : [ह।भ।वि। १०.५२] अन्य-विजयेन अन्य-वैराग्येण च । आदि-शब्दात् श्रद्धादिना च यत् स्मरणं, तत् तत्रान्य-विजयेन स्मरणम्—देहेन्द्रियेति । हरेः स्मृत्या हेतुना देहादीनां संसार-धर्मैर् जन्माप्ययादिभिः कृत्वा योऽविमुह्यमानः, न बाधितो भवति । तथा सर्वेन्द्रिय-वृत्त्य्-आदि-जयेनान्य-विस्मरणात् स भागवत-प्रधानः । तत्र देहस्य जन्माप्ययौ, प्राणस्य क्षुत्, मनसो भयं, बुद्धेस् तर्षस् तृष्णा, इन्द्रियाणं कृच्छ्रं श्रमः ।

यद् वा, देहादीनां जन्मादिभिर् अन्यैश् च संसार-धर्मैः, सुख-दुःखादिभिर् अविमुह्यमानः सन्, यः स्मृत्वा विशिष्टो भवति । एवं बहु-विघ्न-जयेन स्मरण-परो भागवत-श्रेष्ठ इत्य् अर्थः ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ केवल-मानस-लिङ्गेनाह यावत्-प्रकरणम्—यो हरेः स्मृत्या देहादीनां संसार-धर्मैर् जन्माप्ययादिभिर् विमुह्यमानो न भवति, स भागवत-प्रधानः । उक्तं च श्री-गीतासु—

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । > ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥ इति ॥४९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देहादीनां जन्मादिभिः संसार-धर्मैर् अविमुह्यमानः । तत्र देहस्य जन्माप्ययौ । प्राणस्य क्षुत्-पिपासे । मनसो भयम् । बुद्धेस् तर्पस् तृष्णा । इन्द्रियाणां कृच्छ्रं श्रमस् तैः ॥४९॥

———————————————————————————————————————

॥ ११.२.५० ॥

न काम-कर्म-बीजानां यस्य चेतसि सम्भवः ।

वासुदेवैक-निलयः स वै भागवतोत्तमः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कामश् च कर्माणि च वीजानि च वसनास् तेषाम् । वसुदेव एवैक-निलय आश्रयो यस्य सः । एतेन गृहीत्वापि [भा।पु। ११.२.४८] इत्य्-आदि-श्लोक-त्रयेण द्वेष-हर्ष-मोह-कामादि-रहितश् चरतीति यथा चरतीत्य् एतस्योत्तरम् उक्तम् ॥५०॥


कैवल्य-दीपिका : न काम- इति । कामा एव कर्म-बीजानि । अथवा बीजम् अविद्यादि5 । नित्य-निरतिशय-सुखात्मक-स्वरूपस्य अन्यथा-ग्रहणम् इति यावत् । ततो बाह्य-सुखाभिलाषः कामः । तत्-सिद्धये व्यापारः कर्म ॥५०॥ [मु।फ। १९.३३]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.६१] एवं पृथक् पृथक् भगवद्-भक्तानां लक्षणं लिखित्वा, इदानीं तैः सर्वैर् अपि समुचितैर् भगवद्-एक-निष्ठता-रूपं सख्यात्मनि वेदन-विशेषात्मकं लक्षण-विशेषं लिखति—न कामेति द्वादशभिः । तत्र एकान्तितायाः सामान्य-लक्षणं—वासुदेवः वसुदेव-नन्दनः श्री-कृष्ण एवैको निलय आश्रयो यस्येति । तल्-लिङ्गम् एव दर्शयति—कामाश् चाभिलाषा विषय-भोगा वा, कर्माणि तत्-कारणानि तत्-सिद्ध्य्-अर्थ-चेष्टा वा, बीजानि च वासनाः, तन्-मूल्यानि तेषां यस्य चेतस्य् अपि सम्भव उत्पत्तिर् न स्याद् इति । सर्वथा भगवद्-एक-निष्ठया तद्-अन्य-बाह्यान्तर-चेष्टादि-रहितो य इत्य् अर्थः ॥५०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा न कामेति । बीजानि वासनाः । वासुदेवैक-निलयो वासुदेव-मात्राश्रयः । अत्र टीका च—एतेन गृहीत्वापि [भा।पु। ११.२.४८] आदि श्लोक-त्रयेण द्वेष-हर्ष-मोह-कामादि-रहितश् चरतीति यथा चरतीत्य् एतस्योत्तरम् उक्तम् । इत्य् एषा ॥५०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न कामेति । चेतस्यादौ बीजानि वासना उत्पद्यन्ते । ततः स्त्र्य्-आदि-विषयकः कामस् ततः कर्म इन्द्रिय-द्वारा तत्-तद्-व्यापारः । एतत्-त्रितयस्य यच् चेतसि न सम्भवः । तद् एवं गृहीत्वापि [भा।पु। ११.२.४८] आदि श्लोक-त्रयेण द्वेष-हर्ष-मोह-कामादि-रहितश् भवतीति यथा चरतीत्य् अस्योत्तरम् उक्तम् । अतः परम् अध्याय-समाप्ति-पर्यस्तं यद् धर्म इत्य् अस्योत्तरम् एव प्रपञ्चयिष्यति ॥५०॥

———————————————————————————————————————

॥ ११.२.५१ ॥

न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः ।

सज्जतेऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : यैर् लिङ्गैर् भगवत्-प्रिय इत्य् अस्योत्तरम् आह—न यस्येति । जन्म सत्-कुलम् । कर्म तप-आदि । जातयोऽनुलोम-प्रतिलोम-ज मूर्धाव् असिक्तादयः । अस्मिन् देहे । अहङ्कार-रहितैः सत्-कुल-कर्मादि-लिङ्गैर् हरेः प्रियो भवतीत्य् अर्थः ॥५१॥


कैवल्य-दीपिका : नेतिजन्मना कुलं लक्ष्यते । अहं-भावो गर्वः ॥५२॥ [मु।फ। १९.३५]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.२८] जन्म सत्-कुलं, कर्म तप-आदि । वर्णो विप्रत्वादि । आश्रमः ब्रह्मचर्यादिः । जातिर् मूर्धाभिषिक्ताम्बष्ठताद्य्-अनुलोमजत्वं, तैर् अप्य् अस्मिन् ईदृश-गुणवत्य् अपि देहे यस्याहं-भावः महा-कुलीनोऽहम् इत्य् आद्य् अभिमानो न सज्जते, स हरेः प्रियो भगवद्-भक्तोत्तमो ज्ञेय इत्य् अर्थः ॥५१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा न यस्येति । अत्र टीका च—यैर् लिङ्गैर् भगवत्-प्रिय इत्य् अस्योत्तरम् आह—न यस्येति । जन्म सत्-कुलम् । कर्म तप-आदि । जातयोऽनुलोम-प्रतिलोम-ज मूर्धाव् असिक्तादयः इत्य् एषा । एताभिर् यस्य अस्मिन् देहे अहम्-भावो न सज्जते, किन्तु भगवत्-सेवौपयिके साध्ये देह एव सज्जत इत्य् अर्थः । स हरेः प्रियो भागवतोत्तम इति पूर्वेणैवान्वयः । प्रकरणार्थत्वात् हरेः प्रिय इति हि भागवत-मात्र-वाचि-भागवतत्वाद् एव ॥५१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्म सत्-कुलोद्भवत्वम् । कर्म जप-ध्यानादि । जातयोऽम्बष्टाद्याः । एताभिर् यस्य देहेऽहम्-भावोऽहङ्कारो न भवति ॥५१॥

———————————————————————————————————————

॥ ११.२.५२ ॥

न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा ।

सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥

मध्वाचार्यः (भागवत-तात्पर्यम्) : चित्ते विद्यमाने । स्वात्मनि केवलात्म-भावे मोक्षे च । यस्य जीव-परयोर् अभेदो नास्ति ।

न क्वापि जीवं विष्णुत्वे संसृतौ मोक्ष एव च । > यः पश्यति सुरादींश् च यथोत्कर्षं प्रपश्यति ॥ > स सर्व-भूत-समदृग् विष्णुं सर्वोत्तमं स्मरन् ॥ इति हरि-वंशेषु > । > नैवं त्वयानुमन्तव्यं दृष्टो जीवो मयेति ह । > सर्व-भूत-गुणैर् युक्तं देवं त्वं ज्ञातुम् अर्हसि ॥ इति > मोक्ष-धर्मेषु । > नैवं त्वयानुमन्तव्यं जीवात्माऽहम् इति क्वचित् । > सर्वैर् गुणैः सुसम्पन्नं दैवं मां ज्ञातुम् अर्हसि ॥ इति च वाराहे > ॥५२॥


श्रीधर-स्वामी (भावार्थ-दीपिका) : वित्तेषु स्वीयं परकीयम् इति आत्मनि स्वः पर इति ॥५२॥


कैवल्य-दीपिका : नेतिआत्मनि शरीरे स्वः अहं परो नाहम् इति भिदा जाताव् एक-वचनम् । स्वः मम परो न ममेति ॥५२॥ [मु।फ। १९.३५]


सनातन-गोस्वामी : [ह।भ।वि। १०.२३] वित्तेषु स्वीयं परकीयम् इति आत्मनि स्वः परो वेति भेदो यस्य नास्ति, यतः सर्व-भूतेषु समः । भगवद्-दृष्ट्या भगवत्-तत्त्व-दृष्ट्या वा, व्यवहारादिना तुल्यः। अत एव शान्तः भगवन्-निष्ठ-बुद्धिः । शमो मन्-निष्ठया बुद्धिः [भा।पु। ११.१९.३६] इति भगवद्-उक्तेः । वै प्रसिद्धौ । अस्य च सदा भगवन्-निष्ठत्वे सर्वत्र सद्-व्यवहारादिना पूर्वोक्ताद् अपि श्रैष्ठ्यं ऊह्यम् । अत एव तस्माद् उत्तरो लेख्यः, एवम् अग्रेऽपि ॥५२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा न यस्येति । वित्तेषु ममतास्पद-मात्रेषु अत्र वित्तवद् आत्मनि च स्व-पक्षपात-मात्रं निषिध्यते न व्यक्ति-भेदः ॥५२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वः स्वपक्षः । परो विपक्षः । वित्तेष्व् अपि स्वस्यैवेदं वित्तं, न परस्येति आत्मनि स्व-शरीरे एव प्रीतिर् न पर-शरीर इति ॥५२॥

———————————————————————————————————————

॥ ११.२.५३ ॥

त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-

स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।

न चलति भगवत्-पदारविन्दाल्

लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, त्रि-भुवन-विभव-हेतवेऽपि त्रैलोक्य-राज्यार्थम् अपि लवार्धम् अपि निमिषार्धम् अपि भगवत्-पदारविन्द-भजनाद् यो न चलति स वैष्णवाग्र्यः

ननु लवार्ध-मात्र-भजनोपरमे चैतावान् लाभो भवेत् । तत् कुतो न चलेत् ? तत्राह—अकुण्ठ-स्मृतिः भगवत्-पदतोऽन्यत् सारं नास्तीत्य् एवं-रूपाकुण्ठानपगता स्मृतिर् यस्य सः।

भगवत्-पदारविन्दाद् अन्यत् सारं नास्तीति कुतः ? अत आह—अजिते हराव् एवात्मा येषां तथाभूतैः सुरादिभिर् अपि दुर्लभात्, किन्तु केवलं विमृग्यात् । तद्-अपेक्षया सर्वस्य तुच्छत्वं स्मरन् यो न चलतीत्य् अर्थः ॥५३॥


कैवल्य-दीपिका : त्रिभुवन- इति । त्रिभुवन-विभुर् ब्रह्मा । तद्-धेतवे ब्रह्म-पदार्थम् अपि न चलति । यतो भगवत्-पदं ब्रह्म-पदाद् अपि अधिकं तद् आह—अजित- इति । अजिते विष्णौ आत्मा मनो येषां तैः ॥५३॥ [मु।फ। १९.३६]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.५३] अन्य वैराग्यादिना स्मरणम्—त्रि-भुवन इति । त्रैलोक्य-राज्यार्थम् अपि । यद् वा, त्रीणि भुवनानि यस्माद् विधातुस् तस्य विभवः पारमेष्ठ्यं पदं, तद्-अर्थम् अपि । यद् वा, त्रिभुवनस्यापि, किम् उतात्मनो यो विभवः भावाभावो मोक्षः । तद्-अर्थम् अपि लवार्धम् अपि निमिषार्धम् अपि भगवत्-पदारविन्द-भजनाद् यो न चलति, स वैष्णवाग्र्यः ।

ननु लवार्ध-निमिषार्ध-भजनोपरमे चैतावान् लाभो भवेत् । तत् कुतो न चलेत् ? तत्राह—अकुण्ठ-स्मृतिः । भगवत्-पदारविन्दतोऽन्यत् सारं नास्तीत्य् एवं-रूपा अकुण्ठा अनपगता स्मृतिर् यस्य सः ।

भगवत्-पदारविन्दाद् अन्यत् सारं नास्तीति कुतः ? अत आह—अजिते हराव् एवात्मा येषां तथाभूतैः सुरादिभिर् अपि दुर्लभात् । किन्तु केवलं विमृग्यात् । तद्-अपेक्षया सर्वस्य तुच्छत्वं स्मरन् यो न चलतीत्य् अर्थः ।

यद् वा, भगवत्-पदारविन्दाद् हृदि गृहीतात् न चलति न स्मरणाद् विरमतीत्य् अर्थः । त्रिभुवन-विभवार्थः लव-निमिषार्धम् अपि ततोऽचलने हेतुः—अकुण्ठा अनवच्छिन्ना स्मृतिर् यस्य । सदैव भगवत्-स्मृत्या अन्यस्य मनसि प्रवेशाभावाद् इति स्मरणस्यैव परम-पुरुषार्थताम् आह—अजितम् अपरिच्छेदादिना अवशीकृतं ब्रह्म तदात्मानस् तत्-स्वरूपा मुक्ता इत्य् अर्थः । तादृशा ये सुरा ब्रह्मादयः । आदि-शब्दात् मुन्य्-आदयश् च, तैर् अपि विमृग्याद् विशेषतः प्रार्थ्याद् इति । अन्यत् समानम् ॥५३॥


जीव-गोस्वामी (भक्ति-सन्दर्भः १९६) : अचलनत्वे हेतुः—त्रिभुवनेति । तत्र हेतुः—अजिते हराव् एव आत्मा येषां तैर् ब्रह्मेश-प्रभृतिभिः सुरादिभिर् अपि विमृग्याद् दुर्लभाद् इत्य् अर्थः ॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : किं च, त्रिभुवनेति । त्रिभुवन-विभवायापि, किम् उत तद्-धेतवे इत्य् अर्थः । सर्वोऽपि द्वन्द्वो विभाषयैकवद् भवति इति न्यायाद् एक-वचनम् । किं विचारात् ? न, किं त्व् आवेशाद् एवेत्य् अचलने हेतुम् आह—अकुण्ठा सङ्कोच-मात्र-रहिता स्मृतिर् यस्य सः । तच् च तस्य युक्तम् एवेत्य् आह—अजिते हराव् एवात्मा येषां तैर् ब्रह्मेश-प्रभृतिभिः सुरादिभिर् अपि विमृग्याद् दुर्लभाद् इत्य् अर्थः ॥५३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रि-भुवन-विभव-हेतवेऽपि त्रैलोक्य-राज्य-प्रयोजनायापि । न कुण्ठा प्रलोभयितुम् अशक्या स्मृतिर् यस्य सः । न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यम् इत्य् आदौ वाञ्छन्ति यत् पाद-रजः-प्रपन्ना इत्य्-आदि वचनात् । अत एव लवार्धम् अपि निमिषार्धम् अपि भगवच्-चरणारविन्दाद् अन्यत्र न चलति । कीदृशात् अजिते हराव् एवात्मा येषां तथा-भूतैर् अपि सुरादिभिर् दुर्लभत्वात् । किन्तु केवलं विमृग्यात् । यद् वा, अजितात्मानोऽजितेन्द्रिया ये सुरादयस् तैस् तु त्रिभुवन-राज्यार्थं विमृग्यात् ॥५३॥

———————————————————————————————————————

॥ ११.२.५४ ॥

भगवत उरु-विक्रमाङ्घ्रि-शाखा-

नख-मणि-चन्द्रिकया निरस्त-तापे ।

हृदि कथम् उपसीदतां पुनः स

प्रभवति चन्द्र इवोदितेऽर्क-तापः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत्, स तु भगवत्-सेवा-निर्वृतौ न संभवतीत्य् आह—भगवत इति । उरु-विक्रमौ च ताव् अङ्घ्री च तयोः शाखा अङ्गुलयस् तासु नखानि च तानि मणयश् च तेषां चन्द्रिका शीतला दीप्तिस् तया निरस्तः कामादि-तापो यस्मिंस् तस्मिन्न् उपसीदतां भजतां हृदि कथं पुनः सन्तापः प्रभवति ? चन्द्रे उदिते सत्य् अर्कस्य ताप इव । न यस्य स्वः पर इत्य्-आदिना श्लोक-त्रयेण यादृश इत्य् अस्योत्तरम् उक्तं वेदितव्यम् । यद् ब्रूते [११.२.४४] इत्य् अस्य च हरि-नामानीति ज्ञातव्यम् ॥५४॥


कैवल्य-दीपिका : भगवत इति । सन्तप्तस्य चलनं स्याद् इति चेत्, तत्राह—भगवत इति । उरुर् विक्रमो यस्य अङ्घ्रिस् तस्य शाखा अङ्गुलयः तासां तस्यां नखा एव उज्ज्वलत्वाद् धृतत्वाद् वा मणयः, तेषां चन्द्रिका प्रभा उपसीदतां भजतां स-सन्तापः ॥५४॥ [मु।फ। १९.३७]


सनातन-गोस्वामी : [हरि-भक्ति-विलास १०.५४] किं च, विषयाभिसन्धिना चलनम् अपि कामेनातिसन्तापे सति भवेत्, तत् तु भगवत्-सेवा-निर्वृतौ न संभवतीत्य् आह—भगवत इति । उरु-विक्रमौ च ताव् अङ्घ्री च तयोः शाखा अङ्गुलयः, तासु नखानि तानि मणयः, तेषां चन्द्रिका शीतला दीप्तिः, तया निरस्तः कामादि-तापो यस्मिन् । उपसीदतां भजतां हृदि कथं पुनः सन्तापः प्रभवति ? चन्द्रे उदिते सत्य् अर्कस्य ताप इव ।

यद् वा, अहो इतः पूर्वं चिरं वञ्चित आसम्, "अहो बत किञ्चित् तावद् भगवद्-अन्तर्धानं भविता, हा हन्त कदा साक्षाद् इमं द्रक्ष्यामि ?" इत्य्-आदि तापोऽपि तस्य सदा तत्-स्मरणानन्दतो न स्यात् कुतोऽन्य-काम-दुःखम् इत्य् आह—भगवत इति । उरवो महान्तो विक्रमाः शकट-परिवर्तन-कालीय-मर्दनाद्या यस्य तस्यैकस्याप्य् अङ्घ्रैः । शाखा-शब्देन कल्प-द्रुमत्वं रूप्यते । श्री-चरण-कल्प-द्रुमस्य शाखा स्वल्पांशवत् कनिष्ठाङ्गुलिः । तन्-नख-मणि-चन्द्रिक्यैवैकया तत् सकृत्-स्मरण-मात्रानन्द-विशेषणैवेत्य् अर्थः । निरस्तः तापः—इतः पूर्वं चिरं वञ्चितोऽस्मि इत्य्-आदि-रूपोऽपि यस्मात् तस्मिन् हृदि स तापः कथम् उपसीदतां समीपम् आयातु ? तत्र तत्र दृष्टानेत्नार्थान्तरम् उपन्यस्यति—चन्द्रे उदिते इव उद्गत-प्रायेऽपि सति अर्क-तापः प्रभवति । किं ? काक्वा । अपि तु सन्ध्यायाम् अपि न किञ्चित् कर्तुं शक्नोतीत्य् अर्थः । एवं स्मरणानन्द-निष्ठया यः केनापि तापेन नाभिभूतः । स च वैष्णवाग्र्य इति भागवत-लक्षणान्तर्-उक्तत्वात् पूर्ववद् इदम् अपि लक्षणम् एवं ऊह्यम् ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्र टीका-चूर्णिका—अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत्, स तु भगवत्-सेवा-निर्वृतौ न संभवति इत्य् एषा । तद् एव दृष्टान्तेन उपपादयति—भगवत इति । उरु-विक्रमौ च ताव् अङ्घ्री च, तयोः शाखा अङ्गुलयस् तासु नकह्-रूपा मणयस् तेषां चन्द्रिका ताप-हारिणी दीप्तिः, तया निरस्तस् तापः कामादिना सन्तापो यस्मिंस् तत्र । अत्र न यस्य स्वः परः इत्य्-आदिना श्लोक-त्रयेण यादृश इत्य् अस्योत्तरम् उक्तं वेदितव्यम् इति टीका च ॥५४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपि च विषयाभिसन्धिना चलनं काम-सन्तापे सति भवेत्, स च काम-सन्तापो महा-भागवतानां न सम्भवेद् इत्य् आह—भगवत इति । उरु-विक्रमौ च ताव् अङ्घ्री च, तयोः शाखा अङ्गुलयः, तासु नखानि, तान्य् एव मणयः, तेषां चन्द्रिका शीतला दीप्तिः, तया निरस्तः कामादि-तापो यस्मिंस् तस्मिन्न् उपसीदतां जनानां हृदि कथं पुनः तापः प्रभवति ? चन्द्रे उदिते अर्कस्य ताप इव ॥५४॥

———————————————————————————————————————

॥ ११.२.५५ ॥

विसृजति हृदयं न यस्य साक्षाद्

धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ।

प्रणय-रशनया धृताङ्घ्रि-पद्मः

स भवति भागवत-प्रधान उक्तः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव स्वयं साक्षाद् यस्य हृदयं न विसृजति न मुञ्चति । कथं-भूतः ? अवशेनाप्य् अभिहित-मात्रोऽप्य् अघौघं नाशयति यः, सः । तत् किं न विसृजति ? यतः प्रणय-रशनया धृतं हृदये निबद्धम् अङ्घ्रि-पद्मं यस्य स भागवत-प्रधान उक्तो भवति ॥५५॥


कैवल्य-दीपिका : विसृजति इति । यस्य हृदयं साक्षाद् अनाच्छन्न-रूपो हरिर् न विसृजति, यतः प्रणय-रशनया प्रेम-गुणेन धृताङ्घ्रि-पद्मः ॥५५॥ [मु।फ। १९.३८]


सनातन-गोस्वामी : [ह।भ।वि। १०.७४] सर्व-भूतेषु यः पश्येत् [भा।पु। ११.२.४५] इत्य्-आदिना बहुधा भागवतस्य लक्षणम् उक्त्वा इदानीम् उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव साक्षाद् स्वयं यस्य हृदयं न विसृजति न मुञ्चति । कथं-भूतः ? **अवशेनाप्य् अभिहित-**मात्रेऽप्य् अघौघं पाप-समूहं संसार-वेगं वा नाशयति यः सः । तत् किम् इति न विसृजति? यतः प्रणय-रशनया प्रेम-शृङ्खलया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य सः । एव भागवत-प्रधान उक्तो भवति तत्त्व-विद्भिर् इति। प्रधान-शब्दः, कोषे अस्त्रियाम् इत्य् उक्तः । यद् वा, वैष्णवाग्र्य इति पूर्वेण सम्बन्धः । प्रकरण-बलाद् अध्याहार्यम् एव वा । भागवतो भगवद्-भक्तो भागवताख्य-शास्त्रं वा प्रधानं यस्य स इति बाह्य-लक्षणं तस्येति ॥५५॥


सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा। २.७.१४] हरिर् एव साक्षात् स्वयं यस्य हृदयं न विसृजति न मुञ्चति । यद् वा, साक्षाद् धरिः श्री-कृष्णः, कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् उक्तेः । कथम्भूतः ? अवशेन ऋतु-स्खलनादि-वैवश्येनापि अभिहित-मात्रो\ऽपि अघौघं पाप-समूहं नाशयतीति तथा सः । तत् किं न विसृजति ? यतः प्रणयः प्रेमैव रशना वशी-करण-हेतुत्वात् तया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य सः । भागवत-प्रधानः महान् इत्य् अर्थः, स भक्तो भवति


यद् वा, कीदृशः ? अघासुरस्य ओघं वेगं मुक्ति-दानेन नाशयतीति तथा सः, दुर्वितर्क्य-माहात्म्यः श्री-वृन्दावन-विहारीत्य् अर्थः । अत एव हरिः परम-मनोहरः । अन्यत् समानम् ।

स भागवत-प्रधान इत्य् एकत्वं च तादृशानां बाहुल्यासम्भवात् । तद् उक्तं

एवं सल्-लक्षणा लोके दुर्लभा मानवाः कलौ । > न हि सिंह-समूहा वै दृश्यन्ते यत्र कुत्रचित् ॥ इति ।

श्री-हरि-भक्ति-सुधोदये च धरणी-वाक्ये—सुदुर्लभा भागवता हि लोके [ह।भ।सु। १३.२] इति । एकादश-स्कन्धे\ऽपि—

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । > तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ [भा।पु। > ११.२.२९] इति ।

यतः स-मूलाशेष-पाप-क्षयाद् एव तथा सम्पूर्ण-सत्-कर्म-गण-सम्पत्त्यैव श्री-कृष्णे भगवति भक्तिर् जायते । तथा च श्री-भगवद्-गीतासु—

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । > ते द्वन्द-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥ [गीता ७.२८] > इति ।

श्री-दशम-स्कन्धे च—

दान-व्रत-तपो-होम-जप-स्वाध्याय-संयमैः । > श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा।पु। > १०.४७.२४] इति ।

योग-वाशिष्ठे च—

जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः । > नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते ॥ इति ।

अतो येषु भगवद्-भक्तिर् न दृश्यते, ते पापिनो एव ज्ञेयाः । न चात्म-तत्त्व-ज्ञान-पराणां ज्ञानम् एव भक्तिर् इति वाच्यम् योग-वाशिष्ठादि-वचनेषु तपो-ज्ञान-समाधीनां भक्ति-साधनतोक्तेः । तथा श्री-भगवद्-गीता-तात्पर्य-निर्धारे श्रीधर-स्वामि-पादैर् अन्ते टीकायां लिखितम् इदम्—ज्ञानस्य भक्त्य्-अवान्तर-व्यापारत्वम् एव ।

तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । > ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ [गीता १०.१०] > मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते [गीता १३.१८] > इत्य्-आदि-वचनात् ।

न च ज्ञानम् एव भक्तिर् इति युक्तम्—

समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् । > भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ॥ [गीता > १८.५४-५५] इत्य्-आदौ भेद-दर्शनाद् इत्य्-आदि ।

अत एवात्म-तत्त्वोपासका यतयो भक्तेभ्यो भिन्ना एव । यथोक्तं चतुर्थ-स्कन्धे श्री-पृथुं प्रति सनत्कुमारेण—

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या > कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । > तद्वन् न रिक्त-मतयो यतयो निरुद्ध- > स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ [भा।पु। ४.२२.३९] इति > ॥५५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा विसृजतीति । टीका च—उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव स्वयं साक्षाद् यस्य हृदयं न विसृजति न मुञ्चति । कथं-भूतः ? अवशेनाप्य् अभिहित-मात्रोऽप्य् अघौघं नाशयति यः सः। तत् किं न विसृजति ? यतः प्रणय-रशनया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य स भागवत-प्रधान उक्तो भवति इत्य् एषा ।

अत्र कामादीनाम् असम्भवे हेतुः—साक्षाद् इति पदम् । तद् उत्तर-कालत्वात् साक्सात्-कारस्य । तथा हरिर् अवशाभिहितोऽपीत्य्-आदिना य एतादृश-प्रणयवांस् तेनानेन तु सर्वदा परमावेशेनैव कीर्त्यमानः सुतराम् एव अघौघ-नाशः स्याद् इत्य् अभिहितम् । उक्तं च—एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयं [भा।पु। २.१.११] इत्य्-आदि । तस्माद् उभयथैव तेषाम् अघ-संस्कारोऽपि न स्थातुम् इष्ट इति ध्वनितम् । हरिः स्वयं न विसृजति, तेन धृताङ्घ्रि-पद्मश् च [असौ भागवत-प्रधानश् चापि] इति परस्पर-परमासक्तिर् दर्शिता। सर्वत्र तत्-प्रेम-स्फूर्ति-पक्षे तु तादृश-गुणे तत्र श्री-भगवति को न रज्येद् इति तद्-अभिप्राय इति भावः । अनेन वाचिक-लिङ्गम् अपि निर्दिश्य यद् ब्रूते [भा।पु। ११.२.४२] इत्य् अस्योत्तरम् उक्तम् ।

प्रकरणेऽस्मिन् गृहीत्वापि [भा।पु। ११.२.४३] इत्य्-आदीनाम् उत्तम-भागवत-लक्षण-पद्यानाम् अमीषाम् अपृथक् पृथक् च वाक्यत्वं ज्ञेयम् । तथा-भूत-भगवद्-वशीकारवति भागवतोत्तमे तत्-तल्-लक्षणानाम् अन्तर्-भावात् । क्वचित् द्वित्रादि-मात्र-लक्षण-दर्शनाच् च । तत्रापृथग्-वाक्यतायाम् एकैक-वाक्य-गतेनैकैकेनैव लक्षणेन अयम् एव सर्व-भूतेषु [११.२.४५] इत्य्-आद्य्-उक्तो महा-भागवतो लक्ष्यते । तत्-तद्-धर्म-हेतुत्वेन तु विसृजतीत्य्-आदिना सर्व-लक्षण-सारोपन्यासः । या च तत्रापि स्मृत्या हरेर् इत्य्-आदिना हेतुत्वेन स्मृतिर् उक्ता । तस्या एव विवरणम् इदम् अन्तिम-वाक्यम् इति समर्थनीयम् । अत एव पृथक् पृथग् भागवतोत्तम इत्य्-आद्य्-अनुवादोऽपि सङ्गच्छते । पृथग्-वाक्यतायां यत्र साक्षाद्-भगवत्-सम्बन्धो न श्रूयते, तत्र भागवत-पद-बलेनैव प्रकरण-बलेनैव वा ज्ञेयः । पूर्वोत्तर-पद्य-स्थ-स्मृत्येत्य्-आदि पदं वा योजनीयम् । तथात्र पक्षे चापेक्षिकम् एवान्यत्र भागवतोत्तमत्वम् ।

तत्रोत्तर-श्रैष्ठ्य-क्रमोऽयम्—कनिष्ठ-भागवतत्वे सर्व-कनिष्ठः अर्चायाम् एव [भा।पु। ११.२.४७] इति6 । मध्यम-भागवतोत्तमत्वे पुनः न यस्य जन्म-कर्माभ्यां [भा।पु। ११.२.५१] इति7 । न यस्य स्वः परः [भा।पु। ११.२.५२] इति । गृहीत्वापीन्द्रियैः [भा।पु। ११.२.४८] इति । देहेन्द्रिय-प्राण [भा।पु। ११.२.४९] इति8 । अस्य संस्कारोऽस्ति किन्तु तेन विमोहो न स्याद् इति मूर्च्छित-संस्कारोऽयं जात-नवीन-प्रेमाङ्कुरः स्यात् ।


तथा, न काम-कर्म-बीजानां [भा।पु। ११.२.५०] इत्य् अस्यैव विवरणं त्रिभुवन-विभव-हेतवेऽपि [भा।पु। ११.२.५३] इति । इयम् एव नैष्ठिकी भक्तिर् ध्यानाख्या ध्रुवानुस्मृतिर् इत्य् उच्यते। अस्य प्रेमाङ्कुरोऽप्य् अनाच्छाद्यतया जातोऽस्ति । अन्यथा तादृश-स्मरण-सातत्य-भावः स्यात् । अयं हि निर्धूत-कषायो निरूढ-प्रेमाङ्कुर इति लभ्यते । तत ऊर्ध्वं साक्षात्-प्रेम-जन्मतः, ईश्वरे तद्-अधीनेषु [भा।पु। ११.२.४६] इति । अस्य मैत्र्य्-आदिकं त्रयम् अपि भक्ति-हेतुकम् एवेति, न कषाय-स्थितिर् अवगन्तव्या । [उत्तम-महा-भागवतोत्तमत्वे] निर्धूत-कषाय-महा-प्रेम-सूचकस्य सर्व-भूतेषु [भा।पु। ११.२.४५] इति । अस्य तु विवरणं—विसृजति [भा।पु। ११.२.५५] इति ॥५५॥ (भक्ति-सन्दर्भ १९८)


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव स्वयं साक्षाद् यस्य हृदय-कन्दरं न विसृजति न मुञ्चति । तत्र कल्मष-कुञ्जराणां कुतो वार्ता ? इत्य् आह—यः खल्व् अवशेनापि कदाचिद् अभिहित-मात्रोऽपि अघौघं नाशयति । किं पुनः स-रसास्वादं येन प्रतिक्षणम् अभिभावितः ? इति भावः । एतेन यद् ब्रूत [११.२.४४] इत्य् अस्योत्तरम् अभिव्यञ्जितम् ।

ननु कथं तदीय-हृदय-मन्दिरान् न निर्गच्छति ? तत्राह—प्रणय-रशनया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य सः । यथा प्रेम-वशीकृत्य यशोदया उदरे उदूखले बद्धः, तथा सर्व-जीव्[आन् माया]{।मर्क्}-शृङ्खलया निबध्नन् स भक्त-जीवैः प्रेम-शृङ्खलया निबध्यते इति भावः ॥५५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशे द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं > संहितायां वैयासिक्याम् एकादश-स्कन्धे > श्री-नारद-वसुदेव-संवादे > द्वितीयोऽध्यायः ।

॥११.२॥


(११.३)


  1. इति वोपदेवः सप्तमाध्ययस्य प्रकरणे॥ ↩︎

  2. विपर्ययो मिथ्या-ज्ञानम् अतद्-रूप-प्रतिष्ठम् [यो।सू। १.८] ↩︎

  3. भजनस्य [भावस्य] ↩︎

  4. न्यून-न्यून ↩︎

  5. अतस्मिंस् तद्-बुद्धिर् अविद्या । आदि-पदेन अस्मितादेर् ग्रहणं । सा त्रिधा—पारमार्थिकी, व्यवहारिकी, प्रातिभासिकी चेति । ↩︎

  6. अर्चायाम् एवेति श्लोकोक्त-साधोर् अप्य् अस्य पाप-प्रवृत्ति-सम्भावनायाः कदाचित् पापाचरणाद् वा, वर्णाश्रमादि-विधि-शासनार्हत्वात् शास्त्रीय-श्रद्धा-राहित्यात् लौकिक (लौकिक-परम्परा-प्राप्त) श्रद्धा-युक्तत्वात् सर्व-भूतेष्व् अन्तर्यामि-पुरुष-नारायण-स्फुरणाभावावाद् भूतानुकम्पा-हीनत्वाच् चास्यावर-कनिष्ठ-सत्त्वम् । परन्तु न जातु कदापि गोखरत्वम् इत्य् अतोऽस्य सङ्गो न कर्तव्यः ॥ ↩︎

  7. पाप-प्रवृत्ति-राहित्याच् छास्त्रीय-श्रद्धोदयारम्भेण सर्वत्र पुरुषान्तर्यामि-नारायण-स्फुरणम् अतिक्रम्य भगवद्-वैभव-स्फुराणारम्भ-हेतोर् अस्य कनिष्ठ-भागवतत्वेऽपि मध्यम-सत्तरत्वम् इत्य् एवम् अस्माद् उत्तरोत्तरोन्नत-भागवत-सतां सङ्ग एव करणीयः स्यात् । ↩︎

  8. सर्वथा पाप-प्रवृत्ति-राहित्यत्वात् शास्त्रीय-श्रद्धा-सद्भावात् शरणागतत्वात् स्वरूपत एव स्वधर्मस्य वर्णाश्रमस्य परित्याग-पूर्वकोपासन-सातत्यात् सर्वत्र भगवद्-वैभव-स्फुरणाच् चास्य कनिष्ठ-भागवतत्वेऽपि मुख्यत्वं मध्यम-सत्तमत्वम् इति विवेच्यं विज्ञेयं चेत्य् अर्थः ↩︎