०१ विप्र-शापः

॥ ११.१.१ ॥

श्री-शुक उवाच—

कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः ।

भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : शृई-गणेशाय नमः । श्री-कृष्णाय नमः । ॐ नमः श्री-परम-हंसास्वादित-चरण-कमल-चिन्-मकरन्दाय भक्त-जन-मानस-निवासाय श्री-रामचन्द्राय ।

विजयन्ते परानन्द-कृष्ण-पाद-रजः-स्रजः ।

या धृता मूर्ध्नि जायन्ते महेन्द्रादि-महः-स्रजः ॥१॥

उक्तैक-त्रिंशताध्यायैर् मुक्तिर् एकादशे ततः ।

जायन्तेयेतिहासाद्यैः समास-व्यास-रूपतः ॥२॥

नारदो वसुदेवाय समासेन न्यवर्णयत् ।

भगवान् उद्धवायाथ विस्तरेणोपपत्तिभिः ॥३॥

तत्र तु प्रथमेऽध्याये यदु-वंशस्य सङ्क्षयः ।

उपक्षिप्तो विरागाय मौसल-व्यपदेशतः ॥४॥

प्रवृत्तितः परानन्द- कृष्ण-क्रीडानुवर्णिता ।

तन्-निवृत्त्या परानन्द-पदारोहोऽनुवर्ण्यते ॥५॥

एवं तावद् दशम-स्कन्धे भू-भारावतारणाय निज-विभूति-विभूषित-यदु-वंशस्य यदु-वंशावतारित-सकल-सुरांशस्य भगवतः श्री-कृष्णस्य तद्-उचित-प्रवृत्ति-विडम्बनेन तच्-छ्रवण-स्मरणादि-पराणां परेषाम् आनन्द-कारणं क्रीडा निरूपिता । अथेदानीम् अपरिमित-योगमाया-वैभवस्य भक्तानाम् आत्म-तत्त्वोपदेश-पूर्वकं क्रीडार्थं भू-तलेऽवतारितानां चाधिकारिणां सुरांशानां मौसलापदेशेन तत्-तद्-अधिकार-पद-प्रापण-पूर्वकं च ब्रह्माद्य्-अनुग्रहाय निज-पदारोहो निरूप्यते ।

तत्र कुरुक्षेत्र-यात्रायाम् अविरक्तस्य वसुदेवस्य, कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यतां [भा।पु। १०.८४.२९] इत्य् एवं कर्म-योगं पृष्टवतो नारदादिभिः कर्म-योगो निरूपितः—

कर्मणा कर्म-निर्हार एष साधु निरूपितः ।

यच्-छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ [१०.८४.३७] इत्य्-आदिना ।

तेन च विशुद्ध-सत्त्वस्य श्री-कृष्ण-रामौ परमेश्वरत्वेन ज्ञातवतः षड्-गर्भानयनाध्याये श्री-कृष्णेनात्म-तत्त्वम् उपदिष्टम्—

वचो वः समवेतार्थं तातैतद् उपमन्महे ।

यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥ [भा।पु। १०.८५.२२] इत्य्-आदिना ।

तच् च विषय-भोगातिशयेन पुनस् तिरो-हितम् आसीत् तद् एवेदानीं नारद-मुखेन प्रथमं पञ्चाध्याया निरूप्यते ।

तत्र प्रथमेऽध्याये वैराग्योत्पादनाय यदु-कुलस्य ब्रह्म-शापापदेशेनात्युन्नत-विषय-सुखानाम् अप्य् अनित्यता प्रतिपाद्यते । ततश् चतुर्भिर् निमि-जायन्तेय-संवादेन स-परिकरं परम-तत्त्व-निरूपणम् । ततः षष्ठे भगवद्-उद्धव-संवाद-प्रस्तावः । ततस् त्रयो-विंशत्या उद्धवं प्रति भगवतस् तत्त्व-निरूपणम् । ततो द्वाभ्यां मौसल-क्रीडेत्य् एवम् एक-त्रिंशताध्यायैर् एकादश-स्कन्धस्य प्रवृत्तिः । तस्य च यथामति व्याख्यणम् आरभ्यते ।

तत्र मौसल-प्रसङ्गार्थं पूर्व-स्कन्धार्थम् अनुवदति श्लोक-द्वयेन—कृत्वेति । अवतारयत् अवतारयद् इत्य् अड्-आगमो द्रष्टव्यः । जविष्ठं वेगवत्तरम् अतिशीघ्रम्, हिंसा-पर्यवसायिनम् इत्य् अर्थः । कलिं कलहम् ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) :

अथैकादश-सन्दर्भे सन्दर्भाणां समाहृतिः ।

क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥

जयेतां मथुरा-भूमौ श्रील-रूप-सनातनौ ।

यौ विलेखयतस् तत्त्वं ज्ञापकौ पुस्तिकाम् इमाम् ॥1

अथैकादश-स्कन्धस्य क्रम-सन्दर्भः । तत्र प्रथमत तावद् इदं विवेचनीयम्—पूर्वं श्रीमति दशम-स्कन्धे श्री-कृष्ण-लीला वर्णिता । तस्याश् च फलं साधारणानाम् अपि तद्-भक्ति-लाभ-पूर्विका तत्-प्राप्तिर् एवेत्य् अन्ते निर्दिष्टम्—

इत्थं परस्य निज-धर्म-विवक्षयात्त-

लीला-तनोस् तद्-अनुरूप-विडम्बनानि ।

कर्माणि कर्म-कषणानि यदूत्तमस्य

श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥

मर्त्यस् तयानुसव-मेधितया मुकुन्द-

श्रीमत्-कथा-श्रवण-वर्णन-चिन्तयेति ।

तद्-धाम दुस्त्यज-कृतान्त-जवापवर्गं

ग्रामाद् वनं क्षिति-भुजोऽपि ययुर् यद्-अर्थाः ॥ [भा। १०.९०.४९-५०] इति द्वयेन ।

तच् च तत्-पदं भुवि प्रकाशमानानां द्वारकादीनां लौकिकत्वानुकरणेनान्यथा प्रतीतानाम् अपि नित्य-सिद्धालौकिक-प्रकाश-विशेष एव । यथास्यैव स्कन्धस्यान्ते वक्ष्यते—

द्वारिकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।

वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥

नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।

स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ [११.३१.२३-२४] इति द्वयेन ।

अतोऽत्र स्कन्धे तज्-ज्ञापनार्थं स-परिकरस्य श्री-भगवतस् तत्र प्रवेशो वर्ण्यते, मौसलादिकं त्व् अनुकरण-मात्रम् एव यथैव दर्शितं श्री-कृष्ण-सन्दर्भे प्रथम-तृतीय-क्रम-सन्दर्भयोश् च । यच् चात्र श्री-वासुदेव-नारद-संवादेन श्री-भगवद्-उद्धव-संवादेन च तत्त्वं निरूपयिष्यते, तत् खलु तद्-द्वारा बहिर्मुखानाम् अन्यावेश-त्याजनेन तल्-लीला-प्रवेशनार्थम् एव । श्री-वासुदेवोद्धवौ च तन्-मतादरार्थं तत्रोपलक्षणाव् एव कृतौ, न तूलेश्यौ—

शय्यासनाटनालाप-कृईडा-स्नानाशनादिषु ।

न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [भा।पु। १०.९०.४६]

इत्य्-आदि सामान्यतः,

वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिं [भा।पु। ९.२४.३०] इति,

नोद्धवोऽण्व् अपि मन्-न्यूनो यद्-गुणैर् नार्दितः प्रभुः ।

अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठति ॥ [भा।पु। ३.४.३१] इति ।

विशेषतश् च तन्-माहात्म्यात् । अतस् तादृशानां तत्-तत्-पृच्छा तु लीला-मात्रम् अन्येषाम् उपकाराय कल्पते, यथैव भगवत इति । तद् एव तद् दर्शयितुम् उपक्रमते—कृत्वेति ॥१॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

॥ श्री-कृष्ण-चैतन्य-चन्द्राय नमः ॥

गोवर्धन-धरा-धारं श्रीमद्-गोवर्धन-प्रभुम् ।

प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ॥

लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ।

गोप-रामाजन-प्राण-प्रेयसे\ऽतिप्रभुष्णवे ॥

तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ।

एकेन मोषलारम्भो जायन्तेय-कथा ततः ॥

चतुर्भिः स्तुतिर् एकेण ब्रह्मेशादि-दिवौकसाम् ।

श्री-कृष्णोद्धव-संवादो विंशत्या त्रियुजा ततः ॥

एकेन कुल-संहार एकेनान्तर्धिर् ईशितुः ।

एवम् एकोत्तर-त्रिंशद्-अध्यायैस् तत्त्व-बोधकैः ॥

मुक्तिर् एकादश-स्कन्धे कीर्तिता पूर्व-लक्षिता ।

तत्र तु प्रथमेऽध्याये स्व-कुल-क्षय-चिन्तनम् ।

हरिणा ब्रह्म-शापोऽभूत् मौषल्य् अप्य् एरकातति ॥

तद् एवं दशम-स्कन्धे दशमाश्रय-तत्त्वं विचित्र-चरितामृत-वितरण-विस्मापित-प्रीणित-स्व-भक्त-सुमनसं स्वयं भगवन्तं श्री-कृष्णं निरूप्य, तच्-चरण-परिचरणाश्रितां मुक्तिम् एकादशेऽत्र स्कन्धे निरूपयन्, किञ्चिद् अवशिष्टं तच्-चरित्रं वक्तुं पूर्वोक्तानु-वादेनोपक्रमते—कृत्वेत्य् आदिना । अवतारयद् इत्य् अत्राड्-आगमाभाव आर्षः । जविष्ठं वेगवत्तरं । कलिं कुरु-पाण्डवादि-कलहम् ॥१॥

———————————————————————————————————————

॥ ११.१.२ ॥

ये कोपिताः सुबहु पाण्डु-सुताः सपत्नैर्

दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् ।

कृत्वा निमित्तम् इतरेतरतः समेतान्

हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् विवृणोति—ये कोपिता इति । सपत्नैर् दुर्योधनादिभिः कोपिताः कोपं कारिताः । सुबहु यथा भवति, तथा बहु-वारान् इत्य् अर्थः । तद् एवाह—दुर्द्यूत-हेलन-कच-ग्रहणादिभिर् इति । दुर्द्यूतं कपट-द्यूतम्, हेलनम् अवज्ञा, कच-ग्रहणं दुःशासनेन द्रौपद्याः केशाकर्षणम्, एतान्य् आदिर् येषां [गर]{।मर्क्}-दान-जतु-गृह-दाहादीनां तैः कृत्वा, ये कोपिताः, तान् पाण्डु-सुतान् निमित्तं कृत्वा इतरेतरत उभयोः पक्षयोः समेतान् मिलितान् नृपान् हत्वा क्षितेर् भारं निरहरज् जहार ।

यद् वा, ये कोपिताः, यैश् च कोपिताः, तान् इतरेतरतः परस्परं निमित्तं कृत्वेत्य् अन्वयः । ये तावत् प्रकट-दैत्याः पूतनादयस् तान् स्वयम् एव हतवान् । ये तु दैत्या बान्धव-च्छद्मना स्थिताः, तान् परस्परं निमित्तं विधाय हत्वा भू-भारम् अपाकृतवान् इत्य् अर्थः ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : निरहरत् प्रायः स्व-हृत-भारान्ते निःशेषेणाहरद् इत्य् अर्थः । तद् एवं टीकायाः प्रथम-पक्षस्य सङ्गतिः स्यात्, द्वितीय-पक्षे तस्यां प्रायिकत्वं ज्ञेयं, शिशुपालादौ व्यभिचारात् ॥२॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कलिम् एव विवृणोति—ये पाण्डु-सुताः सपत्नैर् दुर्योधनादिभिः सुबहु अत्यधिकं यथा स्यात् तथा दुर्द्यूतादिभिः करणैः कोपिताः, तान् एवार्जुनादिन् निमित्तं कृत्वा परस्परतः समेतान् उभयोः पक्षयोर् मिलितान् नृपान् हत्वा क्षितेर् भारं निरहरत् जहार॥२॥

———————————————————————————————————————

॥ ११.१.३ ॥

भू-भार-राज-पृतना यदुभिर् निरस्य

गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः ।

मन्येऽवनेर् ननु गतोऽप्य् अगतं हि भारं

यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च, भू-भारेत्य्-आदि । अन्याश् च भुवो भार-भूता राज-पृतना राज्ञां पृतनाः सेनाः, राज्ञस् तेषां पृतनाश् चेति वा, स्व-बाहुभिर् गुप्तैः परिरक्षितैर् यदुभिर् विवाहादि-च्छलेन निरस्य हत्वा । बाहुभिर् इति बहु-वचनं, वस्तुतश् चतुर्-भुजाभिप्रायेण ।

नन्व् एवं कृष्णश् चिकीर्षतीति ज्ञात्वा कथं तस्मै यादवा न द्रुह्यन्ति स्म ? तत्राह—अप्रमेयः प्रमातुम् अशक्यः । चिन्ताम् आह—मन्य इति । नन्व् इति वितर्के । अवनेर् भूमेर् भारो यद्यपि लोक-प्रतीत्या गतस् तथाप्य् अहम् अगतम् एव मन्ये । हि निश्चितम् । यद् यस्माद् अविषह्यं सोढुम् अशक्यम् । यादवं कुलम् इत्य् अनेनैव स्व-वंशत्वत् स्वयं हननम् अनुचितम् इति सूचितम् ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : भू-भारेत्य् आदि । अत्र मौषलादि-लीला मायिक्य् एवेति पूर्वम् एव दर्शितम् । वस्तुतस् श्री-गोकुल-मथुरावद् द्वारकायाम् एव स-परिकरस्य श्री-भगवतो निगूढतया स्थितिः ।2 अत्र च यादवानां च नित्य-परिकरत्वात्, तत्-त्यागेन स्वयं भगवत एवान्तर्धाने तैर् अतिक्षोभेणोन्मत्त-चेष्टैर् उपमर्दिता पृथिव्य् एव नश्येद् इति प्रथमं तेषाम् अन्तर्धापनम् । अत एवोक्तं—यद् यादवं कुलम् अहो इति ।

तद् एवाह—स्व-बाहुभिर् इति । बहु-वचनं तत्र चतुर्-भुजत्व-प्रकाशनाभिप्रायेण नैतावान् एतस्याभिप्रायः किन्त्व् अन्योऽप्य् अन्योऽपि भवेद् इति भावः । अत्र तेषाम् अधार्मिकतया तु पृथ्वी-भारत्वं न मन्तव्यम्—

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।

विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥ [भा।पु। ११.१.८]

इत्य्-आदौ, शय्याशनाटनालाप- [भा।पु। १०.९०.४६] इत्य्-आदौ च परम-साधुत्व-प्रसिद्धः पृथिव्याः भारश् च व्यक्ति-बाहुल्य-मात्रेणेष्यते पर्वत-समुद्रादीनाम् अनन्तानां विद्यमानत्वात् ॥३॥ [कृष्ण-सन्दर्भ १८१]


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदुभिः कीदृशैः ? स्व-बाहुभिर् गुप्तैः स्व-भुज-बल-पालितैः । अचिन्तयत् पराममर्श । तच्-चिन्तनस्य तत्रत्यैर् ज्ञातुम् अशक्यत्वाद् अप्रमेयः । चिन्तनम् आह--मन्य इति। नन्व् इति वितर्के । यद्यपि लोक-प्रतीत्या भारो गतस् तद् अप्य् अहं भारम् आगतम् एव मन्ये । कुतः ? इत्य् अत आह--यद् इति । यादव-कुलस्य परम-धार्मिकस्यापि भारत्व-प्रकारः [प्रथम-स्कन्धे]{।मर्क्} व्याख्यातः ॥३॥

———————————————————————————————————————

॥ ११.१.४ ॥

नैवान्यतः परिभवोऽस्य भवेत् कथञ्चिन्

मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् ।

अन्तः कलिं यदु-कुलस्य विधाय वेणु-

स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तर्हीदम् अप्य् अन्यैर् घात्यतां ? तत्राह—नैवेति । अन्यतो देवादिभ्योऽपि यादव-कुलस्य परिभवस् तिरस्कारो न भवेत् । कुतः ? मत्-संश्रयस्य मां संश्रयत इति मत्-संश्रयं कुलं तस्य । किं च, नित्यं विभवोन्नहनस्य विभवैर् गज-तुरगादिभिर् उच्छृङ्खलस्य । यद् वा, तर्हीदं किम् इति संहर्तव्यं ? तत्राह—विभवोन्नहनस्येति । तस्माद् एवं करिष्यामीत्य् आह—अन्तः कलिम् इति । शान्तिम् उपशमम् उपैमि, वर्तमान-सामीप्ये वर्तमानवद् व उपैष्यामि । तद्-अनन्तरं धाम च वैकुण्ठाख्यम् उपैष्यामीत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : नैवेति । अन्यतः परिभवोऽपि न भवेत्, किन्तु स्वेभ्य एव नाशस् तु स्वतोऽपि न भवेद् इत्य् अर्थः । तत्र हेतुः—नित्यं मत्-संश्रयस्यैव स्वतो विभवोन्नहनस्य निरवधि-वैभवस्येति । अतः परिभावोऽत्र भुवि प्रकाशाद् विमुखी-करणं धाम निज-नित्य-द्वारकाख्यम् । दृष्टान्तश् च—नाशानुकरण-नाशयोः साम्य-प्रतीतिः तथान्तर्-नाशानुकरणं च न स्यात् । कालान्तरे बहिश् च प्राकट्यं भावीत्य् एतद्-अंशेनैक्य-प्रायत्वाद् घटयामासेति । विवर्त-वादिभिर् अपि लोहादि-दृष्टान्तः परिणाम-परिहारायैक-देशेनैव मन्यन्ते । परिणाम-वादिभिर् अपि मूलानुच्छेदेनैवेति । वह्निं मिथः-सङ्घट्टनेनोत्थापितम् अग्निम् ॥४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तर्हीदम् अप्य् अन्यैर् घात्यतां ? तत्राह—नैवेति । परिभवस् तिरस्कारोऽपि न सम्भवेत्, किम् उत हननम् इति भावः । तत्र हेतुः—मद् इति । अतः स्वेनापि हननम् उचितम् इति भावः । तर्हि कोऽत्र समाधिः ? तत्राह—अन्तर् इति । यदु-कुलस्य प्रभासं गमितस्य कलिं कलहं विधाय, तेनैव तस्य शान्तिं नाशं विधाय धाम वैकुण्ठम् उपैमि नारायण-स्वरूपेण स्वांशेन यास्यामि ॥४॥

———————————————————————————————————————

॥ ११.१.५ ॥

एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः ।

शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यवसितः कृत-निश्चयः । सञ्जह्रे उपसंहृतवान् ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विप्राणां शाप-व्याजेन इति ब्राह्मण-माहात्म्य-दर्शनम् अप्य् अत्र प्रयोजनम् इति भावः । सञ्जह्रे पूर्वोक्त-स्वपदे सामस्त्येन नीतवान् प्रवेशितवान् इत्य् अर्थः ॥५॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेणु-स्तम्बस्य वंश-सद्-वंश्य-मथनोत्थं वह्निं विधाय, तेनैव वंश-संघस्य नाशं विधाय, पवनो यथा धाम अन्तर्धानं याति, तथा । एवम् एव व्यवसितं मनो-निश्चये यस्य सः । शाप-व्याजेन विप्राणाम् इति ब्राह्मण-माहात्म्य-प्रख्यापनम् अप्य् एकम् अत्र प्रयोजनम् इति भावः ॥५॥

———————————————————————————————————————

॥ ११.१.६-७ ॥

स्व-मूर्त्या लोक-लावण्य-निर्मुक्त्या लोचनं नृणाम् ।

गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः ॥

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्य् अञ्जसा नु कौ ।

तमोऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवम् अवतार-प्रयोजनं सर्वं सम्पाद्य स्वं लोकं जगामेत्य् आह श्लोक-द्वयेन—स्व-मूर्त्येति । लोकानां लावण्यस्य निर्मुक्तिस् त्यागो यया । याम् अपेक्ष्य लोकेषु लावण्यं नास्तीत्य् अर्थाह् । यद् व, लोकेभ्यो लावण्यस्य निर्मुक्तिर् दानं यतः । यत्-सम्पर्केण लोका लावण्यवन्तो भवन्तीत्य् अर्थः । तया स्व-मूर्त्या नृणां लोचनम् आच्छिद्य आकृष्य ततोऽन्यस्यावलोकने लोचनस्याप्रवृत्तेः । तथा स्व-गीर्भिस् ता गिरः स्मरतां चित्तंआच्छिद्य । तथा पदैस् तत्र तत्राङ्कितैस् तानि पदानि ईक्षताम् ईक्षमाणानाम् अन्यतो गमनादिकाः क्रियाश् चाच्छिद्य । तदानीन्तनानां सर्वेषां चक्षुर्-आदि-प्रवृत्तीः स्वैक-निष्ठाः कृत्वेत्य् अर्थः ।

किं च, इत उपरि जनिष्यमाणानां संसार-तरणाय कौ पृथिव्यां शोभनाः श्लोकाः सुश्लोकाः कवीनां यस्यां तां स्व-कीर्तिं वितत्य विस्तार्य, अनया कीर्त्या अञ्जसा सुखेनैव नु निश्चितं तमस् तरिष्यन्तीत्य् अभिप्रेत्य ईश्वरः स्वं पदं स्थानम् अगाद् इति ॥६-७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् ईदृशं यत् पदं तद् एव श्री-दशम-स्कन्धोक्त-लीला महा-भक्ति-प्राप्ति-पूर्वकं फलम् इत्य् आह—स्व-मूर्त्येति युग्मकेन । तमस् तद्-अज्ञान-मयः संसारः, तरिष्यन्ति तीर्त्वा तत्-पदं प्राप्स्यन्तीत्य् अर्थः । तद् एवं तटस्थानाम् अप्य् एवम् अवस्था चेत्, तर्हि सुतरां यादवानाम् अभवद् इति भू-भारेत्य् अत्र दर्शित एव सिद्धान्तः स्थापितः ॥६-७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं स्वाविर्भाव-प्रयोजनं सर्वं सम्पाद्यान्तरधाद् इत्य् आह—लोकेभ्यो लावण्यस्य निर्मुक्तिस् त्यागो दानं यतस् तया मूर्त्या, पश्यतां लोचनम् आच्छिद्य इति ततोऽन्यस्यावलोकने लोचनस्याप्रवृत्तेर् लोचनेन्द्रियम् अपहृत्येत्य् अर्थः ।

तथ स्व-गीर्भिस् ता गिर आच्छिद्येति वाग्-इन्द्रियापहार उक्तः । वाग्-इन्द्रिय-रहितानां च कर्णेन्द्रियाभाव-दर्शनात् गीर्भिः कर्णेन्द्रियं वाग्-इन्द्रियं चापहृतेत्य् अर्थः । तथा स्मरतां चित्तम् आच्छिद्य, तथैव पदैश् चरण-चिह्नैस् तानि ईक्षताम् ईक्षमाणानाम् अन्यतो गमनादिकाः क्रियाश् चाकृष्य गृहीत्वा अगात् । कृष्णोऽवतीर्य नृणां चक्षुर्-आदि सर्वस्वं हृत्वा तान् अन्ध-मूक-वधिरोन्मत्त-जडान् एवाकरोद् इत्य् अतः कस् तं दयालुं वदेन् महा-चौर एव स इति व्याज-स्तुतिः । वस्तुतस् तु दैत्येभ्योऽपि संहृत्य मुक्तिं ददौ, तद्-अन्येभ्यस् तु स्व-सौन्दर्यादि-लावण्य-सिन्धौ निमज्ज्य प्रेमाणम् एव ददाव् इत्य् एतावान् निरुपाधिर् दयालुर् नास्ति कोऽपीति भावः ।

किं च, शोभनाः श्लोकाः कवीनां यत्र तां वितत्य विस्तार्य, अतः परं कौ पृथिव्यां जनिष्यमाणा जनाः, तमः संसार-समुद्रम् अनया नौकयेव सुखेन तरिष्यन्तीति मत्वैव अगाद् इति भविष्यज्-जनेष्व् अप्य् एतावति दयेति भावः । स्वं पदं स्वीयं व्यवसायम् अगात्, पदं व्यवसिति-त्राण-स्थान-लक्ष्म्य्-अङ्घ्रि-वस्तुषु इत्य् अमरः । स-पाद-शत-वर्षान्ते सर्वस्मिन्न् एव स्वीय-चिकीर्षिते निष्पण्णे सति साम्प्रतं प्रापञ्चिक-लोकादृश्यो भविष्यामीत्य् उपस्थितो यः स्व-व्यवसायः, तं प्रापेत्य् अर्थः । न तु सर्वांशेनैव स्वीयं पदं प्रसिद्ध-वैकुण्ठम् अगाद् इति व्याख्यातुं शक्यं, तस्य द्वारकादि-धाम-त्रयं नित्य-विहारित्वस्य पूर्व-स्कन्धान्ते च श्रुति-स्मृत्य्-आदि-प्रमाणतो व्याख्यास्यमानत्वाच् च । तृईत्यादाव् उद्धवोक्तौ च, कृष्ण-द्युमनि निम्लोचे [भा।पु। ३.२.७] इत्य् अत्राजोऽपि जातो भगवान् यथाग्निर् इत्य् अत्र च द्युमण्य्-आदि-दृष्टान्तेन तस्य द्वारकादि-स्व-धाम-त्यागाभावस्य दृढीकृतत्वाच् च ॥६-७॥

———————————————————————————————————————

॥ ११.१.८ ॥

श्री-राजोवाच—

ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।

विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अब्रह्मण्येभ्योऽदातृभ्यो वाऽसेवकेभ्यो वा विप्राः कुप्यन्ति, वृष्णयस् तु न तथेत्य् आह—ब्रह्मण्यानाम् इत्य्-आदिना । किं च, कोपे जातेऽपि कृष्ण-चेतसां कथम् अभूत्? कथं प्रादुरभूद् इत्य् अर्थः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ यो विप्र-शाप-व्याजः कृतः, स एव न सम्भवति दोषासम्भवाद् इत्य् आह—ब्रह्मण्यानाम् इति । विप्राणां विदुषां तत् तया श्री-भगवद्-आत्मीय-जन-परिभव-दोषम् अपि जानतां तेषां शापः कथम् अभूत् ? इत्य् अर्थः । तद्-आत्मीयत्वम् एवाह—वृष्णीनां कृष्ण-चेतसाम् इति । तच्-छापाप्रभुत्वेऽपि हेतुर् अयम् ॥८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१.९ ॥

यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम ।

कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः स्पष्टस्य निमित्तस्य भवान् निमित्तान्तरं पृच्छति—यन्-निमित्त इति । एकात्मनाम् एक-चित्तानां कथं भेदः कलहः ? ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कथम् इति यथा चेत्य् अर्थः । एकः कृष्ण एव आत्मा परम-प्रेष्ठः परम-प्रवर्तकश् च येषाम् ॥९॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकात्मनाम् एक-मनसां तेषां भेदः संहार-हेतुः कलहः ॥९॥

———————————————————————————————————————

॥ ११.१.१० ॥

श्री-बादरायणिर् उवाच—

बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं

कर्माचरन् भुवि सुमङ्गलम् आप्त-कामः ।

आस्थाय धाम रममाण उदार-कीर्तिः

संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरेच्छैवात्र निमित्तम् इति परिहरति—बिभ्रद् इति । सकलानां सुन्दर-वस्तूनां सन्निवेशो विन्यास-विशेषो यस्मिंस् तद् वपुर् बिभ्रत् । तर्हि किम् अतिसौन्दर्याद् विषय-परः ? न, सु-मङ्गलं कर्माचरन् । तत् किं, कयापि कामनया ? न, आप्त-कामः । तर्हि किम् इति कर्माचरति ? धाम द्वारवत्य्-अख्यं गृहम् आस्थाय रममाणः गृहे रममाणान् कर्म ग्राहयितुम् इत्य् अर्थः ।

ननु, किम् आप्त-कामस्य गृह-रत्या कर्मभिर् वा ? तत्राह—उदार-कीर्तिः उदारा बहु-फल-प्रदा कीर्तिर् यस्य सः, कीर्ति-वितानार्थम् इत्य् अर्थः । एवं परमैश्वर्येण वर्तमान एव कुलं संहर्तुम् ऐच्छत् । तत् कस्य हेतोः ? स्थितः कृत्ये भू-भार-हरणे शेषो यस्य सः ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वत्र कारणं भगवद्-इच्छैवेति वदन्न् इच्छायाः कारणान्तरम् अप्य् आह—बिभ्रद् इति । सकलानां सुन्दर-वस्तूनां सन्निवेशो यस्मिन् तादृशं वपुर् भुवि बिभ्रत् प्रकटयन् सुमङ्गलं च कर्म भूव्याचरन् आप्त-कामः तेन तेन निज-भक्त-जनानाम् अभीष्ट-दानात् सिद्ध-मनोरथो जातः । तद्-अनन्तरं च धाम प्रपञ्चातीत-प्रकाश-तत्-तन्-निज-धामैव आस्थाय अधिष्ठाय रमण-हेतोः कुलं संहर्तुं तत्रैव सम्यङ् नेतुम् ऐच्छत्

नन्व् आप्त-कामश् चेत् पुनः किम् अन्य-क्रीडेच्छा ? तत्राह—स्थितः सर्वदा स्थायी कृत्य-शेषः स्व-प्रेष्ठ-जनैः सह लीला-विशेषो यस्य सः । अवतार-गत-लीलेच्छैव पूर्णा, न तु सर्वैर् एवेत्य् अर्थः । अत एव उदारा भक्त-सुखद-स्वभाव-मयी कीर्तिर् यस्य सः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वीयान् रूप-लीला-विलासान् सर्वोत्कृष्टान् दर्शयित्वा जनान् कृतार्थीकृतवता स्व-चिकीर्षित-निष्पत्ति-समाप्तौ तैर् वृष्णीभिः सहान्तर्धित्सता भगवतैव ब्रह्म-शापः स्वेच्छया विप्र-द्वारा कल्पित इत्य् आह—बिभ्रद् इति ।

सकलानां सुन्दर-वस्तूनां सन्निवेशो विन्यास-विशेषो यस्मिन् तद् वपुर् इति रूपम् उक्तम् । कर्मेति लीला चोक्ता । धाम द्वारकादिकम् आस्थाय तत्र स्थितो रममाणः, तत्र तत्रत्याभिः प्रियाभिर् विहरन्न् इत्य् अद्भुतो विलासश् चोक्तः । आप्त-कामः सिद्ध-स्व-चिकीर्षितः उदार-कीर्तिर् जनिष्यमाण-लोकेभ्योऽप्य् उदारा प्रेम-भक्ति-दायिनी कीर्तिः स्वीय-रूप-लीला-विलास-प्रथा-मयी यस्य सः । ब्रह्म-शाप-द्वारैव कुलं संहर्तुम् ऐच्छत्स्थितः कृत-शेषः किञ्चिन् मात्रम् अवशिष्ट-कृत्यं यस्य सः । तच् च यदुषु प्रवेशितानां देवानां दिवि प्रस्थापनम्, स्वांशानां वैकुण्ठ-श्वेतद्वीपवद् अर्याश्रमादिषु प्रस्थापनम् । नित्य-पार्षद-सहितस्य स्वस्य प्रापञ्चिक-लोक-चक्षुर्भ्योऽन्तर्धानं चेति त्रितयम् ॥१०॥

॥ ११.१.११ ॥

कर्माणि पुण्य-निवहानि सुमङ्गलानि

गायज्-जगत्-कलि-मलापहराणि कृत्वा ।

कालात्मना निवसता यदु-देव-गेहे

पिण्डारकं समगमन् मुनयो निसृष्टाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरेच्छयोत्थितं ब्रह्म-शाप-निमित्तं वक्तुम् आह—कर्माणीति । कर्मार्थम् आहूताः कर्माणि कृत्व निसृष्टा मुनयः पिण्डारकं समगमन्न् इत्य् अन्वयः । निसृष्टाः प्रस्थापिताः पूर्वोक्ताम् उदार-कीर्तितां विवृण्वन् कर्माणि विशिनष्टि—पुण्य-निवहानि इत्य्-आदि त्रिभिः पदैः । कानिचिद् अश्वमेधादि-कर्माणि पुण्यम् एव जनयन्ति । पुत्रोपलालनादीनि तु तत्-काले सुखम् एव कुर्वन्ति । प्रायश्चित्तादीनि तु पापम् एव हरन्ति । एतानि तु सर्वतो-मुखानीत्य् आह पुण्य-निवहानि । कीर्तनादिन पुण्यानि निवहन्ति प्रापयन्तीति । तथा सुमङ्गलान्य् अतिसुखात्मकानि । गायतो जगतः कलि-मलापहराणि कृत्वा

मुनि-प्रस्थापने हेतुः—कालात्मना संहारक-रूपेण यदु-देव-गेहे वसुदेव-गृहे निवसता स्व-कुलं सञ्जिहीर्षतेत्य् अर्थः । पीण्डारकं ततो नातिदूरं तीर्थ-विशेषम् ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कालोऽन्तर्यामी आत्मा रूपं यस्येति सर्वस्य तद्-इच्छाधीनत्वं दर्शितम् ॥११॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च प्रभुः प्रथमं ब्रह्म-शाप-प्रकारं ससर्जेत्य् आह—कर्माण्य् अश्वमेधादिकानि कृत्वा तद्-अर्थम् आहूता मुनयो दक्षिणादिभिः प्रीणयित्वा पिण्डारकं तत्-समीप-वर्ति-तीर्थ-विशेषं निसृष्टाः प्रस्थापिताः । कालात्मना एषां यादवानाम् उपसंहारोऽयम् एव प्रकार इति काल-स्वरूपेण स्व-कुलं सञ्जिहीर्षुणा ॥११॥

———————————————————————————————————————

॥ ११.१.१२-१३ ॥

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुर् अङ्गिराः ।

कश्यपो वामदेवोऽत्रिर् वसिष्ठो नारदादयः ॥

क्रीडन्तस् तान् उपव्रज्य कुमारा यदु-नन्दनाः ।

उपसङ्गृह्य पप्रच्छुर् अविनीता विनीतवत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसङ्गृह्य पाद-ग्रहणं कृत्वा ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्वामित्रेति युग्मकम् ॥ अविनीता इति तद्-इच्छयैव तदानीं तथा-भूता इत्य् अर्थः ॥१३॥

———————————————————————————————————————

॥ ११.१.१४-१५ ॥

ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतः ।

एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा ॥

प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः ।

प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रश्न-प्रकारम् आह—ते वेषयित्वेति द्वयेन । हे अमोघ-दर्शना विप्राः ! एषा अन्तर्वत्नी गर्भिणी ॥ वो युष्मान् साक्षात् प्रष्टुं विलज्जती लज्जमानास्मन्-मुखेन पृच्छति । प्रसोष्यन्ती आसन्न-प्रसवा । किं स्वित् सञ्जनयिष्यति ? कन्यां वा पुत्रं वा, तत् प्रब्रूत ॥१४-१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं स्वित् कन्यां पुत्रं वा ॥१५॥

———————————————————————————————————————

॥ ११.१.१६ ॥

एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप ।

जनयिष्यति वो मन्दा मुषलं कुल-नाशनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रलब्धा वञ्चिताः ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : कुपिता इति कुपिता इव । अत्र च तद्-इच्छयैव हेतुः मुसलं जनयिष्यति तद् उत्पादयिष्यति ॥१६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रलब्धा ज्ञान-परीक्षया उपस्थापिताः ॥१६॥

———————————————————————————————————————

॥ ११.१.१७ ॥

तच् छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् ।

साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्-मयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मिन्न् उदरे । अयस्-मयं लोह-मयम् ॥१७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : विमुच्य उच्छून-वस्त्र-सङ्घात् पृथक्-कृत्य साम्बस्य स-भारतया स-संशय-वचनतयेति भावः ॥१७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१.१८ ॥

किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः ।

इति विह्वलिता गेहान् आदाय मुषलं ययुः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मन्द-भाग्यैर् नोऽस्माभिः किम् एतत् कृतम्नोऽस्मान् किं वदिष्यतीति विह्वलिताः सन्तो मुसलम् आदाय गेहान् ययुः ॥१८॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१.१९ ॥

तच् चोपनीय सदसि परिम्लान-मुख-श्रियः ।

राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञे उग्रसेनाय, न तु श्री-कृष्णाय ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राज्ञे उग्रसेनायैव, न तु कृष्णाय, लज्जा-भयाभ्याम् इति भावः ॥१९॥

———————————————————————————————————————

॥ ११.१.२० ॥

श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप ।

विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः ॥

न कतमेन व्याख्यातम्।

———————————————————————————————————————

॥ ११.१.२१ ॥

तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः ।

समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आहुक उग्रसेनः । सोऽपि श्री-कृष्णम् अपृष्ट्वैव प्रास्यत् प्रक्षिप्तवान् । अस्य मुसलस्य चूर्णी-क्रियमाणस्य अवशेषितं लोहं च प्रास्यत् ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साम्बादीनां लज्जा-भये मा भूताम् इति सोऽप्य् आहुकः कृष्णम् अपृष्ट्वैव तन्-मुषलस्य चूर्णयित्वा अवशेषितं लोहं च किञ्चिन्-मात्रम् एतत् तु अकिञ्चित्-करम् इति मत्वा सलिले प्रास्यत् ॥२१॥

———————————————————————————————————————

॥ ११.१.२२ ॥

कश्चिन् मत्स्योऽग्रसील् लोहं चूर्णानि तरलैस् ततः ।

उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तरलैस् तरङ्गैः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।

———————————————————————————————————————

॥ ११.१.२३ ॥

मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे ।

तस्योदर-गतं लोहं स शल्ये लुब्धकोऽकरोत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यैर् मत्स्यैः सह शल्ये शराग्रे ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यैर् मत्स्यैः सह शल्ये शराग्रे प्रसिद्धो लुब्धकः ॥२३॥

———————————————————————————————————————

॥ ११.१.२४ ॥

भगवाञ् ज्ञात-सर्वार्थ ईश्वरोऽपि तद् अन्यथा ।

कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्ञाताः सर्वेऽर्था येन स ईश्वरोऽपि समर्थोऽपि सन्न् अन्यथा कर्तुं नैच्छत्, किन्त्व् अन्वमोदत, यतः काल-रूपी ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशस्य प्रथमः सङ्गतः सङ्गतः सताम् ॥*॥

———————————————————————————————————————

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् एकादश-स्कन्धे

विप्र-शापो नाम प्रथमोऽध्यायः ।

॥११.१॥

———————————————————————————————————————

(११.२)


  1. थिस् सेचोन्द् वेर्से दोएस् नोत् अप्पेअर् इन् मोस्त् मनुस्च्रिप्त्स्। ↩︎

  2. थिस् फ़िर्स्त् सेन्तेन्चे इस् नोत् इन् ↩︎