पगे ८२
(१०.८०)
अथाशीतितमो\ऽध्ययः
सुदामोपाख्यानम्-पत्नी-प्रेरणया सुदाम्नो भगवत्-समीपे गमनं भगवता तस्य सत्कारश् च ।
॥ १०.८०.१ ॥
श्री-राजोवाच—
भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।
वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अथाशीतितमे कृष्णः श्री-दामानं गृहागतम् ।
सम्पूज्यापृच्छद् अर्थेप्सुं गुरु-वास-कथां मुदा ॥
सुरारि-मारको हरिः पुरा चकार शं सताम् ।
अतः परं विनैव तन्-निजोपकारम् आचरत् ॥
आचरितानि1 श्रुत्वा पुनर् मुकुन्द-वीर्याणि पृच्छति—हे भगवन् ! श्रोतुम् इच्छामीत्य् अन्वयः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ बलदेव-तीर्थ-यात्रानन्तरम् । अर्थेप्सुं धनार्थिनम् । पुरा पूर्वोपाख्यानेषु । शं कल्याणम् । अतो दैत्य-हननेन सज् जनावनात् । तं सुरारि-नाशम् । निजाभक्ताः । अधुना न केवलं हरि-भक्तानां पारत्रिकम् एव सुखं किन्त्व् ऐहिकम् अप्य् अलौकिकं तद् भवतीत्य् अध्याय-द्वयेनाह—अन्यानि असुर-संहाराद् इतराणि भक्त-वात्सल्य-बोधकानि ॥१-२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च तु । मुकुन्दस्य तु, पूर्वोक्त-श्री-बलदेव-चरितापेक्षया । यद् वा, अपि च श्री-बलदेवस्याशृण्म, एवं मुकुन्दस्यापि श्रोतुम् इच्छामेति तच्-छ्रवणेच्छाधिक्यं द्योतयति । यद् वा, अन्यान्य् अपि यानि वीर्याणि अद्भुत-चरितानि सन्ति, तानि सर्वाण्य् एव श्रोतुम् इच्छाम । यद् वा, आशिषि पञ्चमी, त्वत्-प्रसादात् तच्-छ्रवणेच्छास्माकं भवत्व् इत्य् अर्थः । इच्छामेति बहुत्वं विनयेन श्रोतॄणाम् अन्येषाम् अपि सर्वेषां परिग्रहात् । तानि च भवान् वेत्त्य् एवेत्य् आशयेनाह—भगवन् हे सर्वज्ञेति । आशीः-पक्षे तव कृपया तत् सम्भवेद् एवेत्य् आह—भगवन् ! हे महा-दया-युक्तेति । श्रवणेच्छायां हेतवः—मुकुन्दस्य परमात्मानन्द-प्रदस्य । किं च, महान् अपरिच्छिन्न आत्मा बुद्धिर् वा यस्य तस्य । किं च, अनन्तं वीर्यं प्रभावः सामर्थ्यं वा यस्य तस्य । किं च, प्रभोर् निजेष्टेश्वरस्य । एवं वीर्याणाम् अपि परमात्मानन्द-प्रदत्वम् अपरिच्छिन्नत्वं सर्व-शक्तिमत्त्वं प्रेम-सेव्यत्वं चाभिप्रेतम् । विशेषणानाम् एषां यथोत्तरं श्रवणेच्छा-हेतुत्वे श्रैष्ठ्यम् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कथा-समाप्तिम् इवालक्ष्य सोत्कण्ठः पृच्छति । वस्तुतस् तु विष्णोः स दयितो भवेद् इत्य् अनेनोक्तां तद् दयम् ततस् तज्-जनित-कथा-रुचि-विशेषं च प्राप्य, ताभ्यां पृच्छति—भगवन्! हे सर्वज्ञ! मुकुन्दस्य सर्व-दुःख-विमोचकस्य महात्मनः सर्वोत्तम-स्वभावस्य पूर्वोक्त-श्री-बलदेव-चरितापेक्षया । श्री-बलदेवस्य श्रुत्वैव मुकुन्दस्यापि2 श्रोतुम् इच्छामेति प्रार्थनायां लोट् । तच्-छ्रवणेच्छाधिक्यं द्योतयति । यद् वा, अन्यान्य् अपि यान्य् वीर्याणि अद्भुत-चरितानि सन्ति, तानि सर्वाण्य् एव श्रोतुम् इच्छामः, यद् वा, आशिषि पञ्चमी, त्वत्-प्रसदत् तच्-छ्रवणेच्छास्माकं भवत्वित्य् अर्थः । इच्छामेति बहुत्वं, विनयेन श्रोतॄणाम् अपि सर्वेषां परिग्रहात् । तानि च भवान् वेत्ति एव इत्य् आशयेनाह—भगवन् हे सर्वज्ञेति । शीःपक्षे त कृपया तत् सम्भवेद् इत्य् आह—भगवन् हे महादयायुक्तेति । श्रवणेच्छायां हेतवः—मुकुन्दस्य परमानन्द-प्रदस्य । किं च, महान् अपरिच्छिन्न आत्मा बुद्धिर् वा यस्य तस्य । किम् च, अनन्त-वीर्यां प्रभावः सामर्थ्यं वा यस्य तस्य । किं च, प्रभोः निजेष्टश्वरस्य, यद् वा, आयुंस्यपि यथेष्टं दादुं शक्तस्येत्य् अर्थः । अत्यतृप्ति-विलसितम् एवेदम् । एवं विर्याणाम् अपि परमानन्द-प्रदत्वम् अपरिच्छिन्नत्वं प्रेम-सेव्यत्वं चाभिप्रेतम् । विशेषणानाम् एषां यथोत्तरं श्रवणेच्छा-हेतुत्वे श्रैष्ठ्यम् ॥१॥
ननु द्वित्राण्य् एव दिनानि तव जीवतिम् इति कथम् एतावत्य् आशा सम्पद्येत तत्राह—प्रभोर् इति । आयुष्य् अपि यथेष्टं दातुं शक्तस्येत्य् अर्थः । अन्य-तृप्ति-विलसितम् एवेदम् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अशीतितम आयातः श्री-दामा हरिणार्चितः ।
स-प्रेम-पृष्ट उक्ता च कथा गुरुकुलाश्रया॥
हे प्रभो ! तानि श्रोतुम् इच्छाम इत्य् अन्वयः ॥१॥
॥ १०.८०.२ ॥
को नु श्रुत्वा सकृद्3-ब्रह्मन्न् उत्तमः-श्लोक-सत्-कथाः4 ।
विरमेत विशेष-ज्ञो विषण्णः का5म-मार्गणैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तम-श्लोकस्य श्री-कृष्णस्य सत्यो मनोहरा विषय-वैतृष्ण्य-जनिकाः कथाः । विशेषज्ञः सारवित् । विषण्णो विषादं प्राप्तः ॥२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु युष्माभिर् बहूनि तानि श्रुतान्य् एव, किं पुनस् तद्-इच्छया ? तत्राह—को न्व् इति । असकृद् अपि श्रुत्वा को नु पुमन् विरमेत्, अपि तु न कोऽपि । तत्र हेतुः—उत्तमः सर्वोत्कृष्टः, किं वा, उद्गतं तमः संसारोऽज्ञानं वा यस्मात्, तथा-भूतः श्लोको यशो यस्य, तस्य भगवतः पावनीः कथा इति तासाम् अपि तमो-नाशकत्वं च सूचितम् ।
ननु तथापि मधुर-रस-पान-बाहुल्येनेव मुहुः श्रवणेन तत्र कदाचित् तृप्तिः शङ्क्यते ? तत्राह—विशेषज्ञ इति । सार-ग्राहित्वेन नित्य-नूतनतया तत्र मुहुर् इच्छा वर्धत एव, न तु तृप्तिः स्याद् इति भावः । तथा चोक्तं श्री-शौनकादिभिः प्रथम-स्कन्धे—वयं तु न वितृप्यामः [भा।पु। १.१.१९] इत्य्-आदि ।
अहो आस्तां सारज्ञता-रहित्येन तद्-रसाननुभवाद् विरामः,6 नित्यानुभूयमान-दुःख-ध्वंसार्थम् अपि विरन्तुं न युज्यत इत्य् आह—विषण्ण इति । काम-मार्गणैः स्मर-शरैः । एतद् उपलक्षणम्, क्रोधादि-वेगैर् अपि क्रोधादीनां कामानुगत्वात् । तथा चोकं गीतासु—काम एष क्रोध एष [गीता। ३.३७] इत्य् आदि ।
यद् वा, कामस्य विषय-भोगस्य मार्गणैर् अन्वेषणैः साधनैर् इत्य् अर्थः । बहुत्वं वैविध्याद् बाहुल्याच् च । यद् वा, अ-कार-प्रश्लेषेण काम-मार्गणैर् अविषण्णोऽपि, आत्मारामः पूर्ण-कामोऽपीत्य् अर्थः । विशेषज्ञश् चेत् को नु विरमेत् ? हे ब्रह्मन् ! इति तत् त्वया ज्ञायत एवेति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु युष्माभिर् बहूनि तानि श्रुतान्य् एव, किं पुनस् तद् इच्छया ? तत्राह—को न्व् इति । असकृद् अपि श्रुत्वा को नु पुमान् विरमेत् ? अपि न को\ऽपि । तत्र हेतुः—उत्तमाः उद्गते तमसी अज्ञान-दुःखे यस्मात्, तादृशः उत्तमः सर्वोत्कृष्टो वा श्लोको यस्य, तस्य भगवतः सतीः श्री-कृष्णावतार-सम्बन्धित्वेन तदीय-कथास्व् अपि श्रेष्ठाः कथाः ।
ननु बहवो विरमन्तो\ऽपि दृश्यन्ते ? तत्राह—विशेषज्ञ इति । विशेषौ माहात्म्य-माधुर्य-रूपे वैशिष्ट्ये जानात्य् अनुभवति यः, स इति ।
अहो आस्तां तद्-अनुभवे जाते विरामः नित्यानुभूयमान-दुःख-ध्वंसार्थम् अपि विरन्तुं न युज्यत इत्य् अत आह—विषण्ण इति । कामस्य विषय-भोगस्य मार्गणैर् अन्वेषणैः, श्लेषेण बाणैर् विषण्ण इति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : असकृद् इति । यो विशेषज्ञः, यो वा काम-मार्गणैर् विषण्णः, सोऽपि सोऽपि ॥२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असकृद् अपि श्रुत्वा ननु विरमन्तो\ऽपि बहवो दृश्यन्ते तत्राह—विशेषज्ञ इति । निर्विशेष-तत्त्व-ज्ञानिन एव विरमन्तु, अप्राकृत-गुण-रूप-लीलास्वाद-विशेषज्ञस् तु को विरमेत् ? किं च, नित्यानुभूयमान-दुःख-ध्वंसार्थम् अपि विरमितुं न युज्यते, इत्य् आह—विषण्णः । विषण्णो\ऽपि अन्यथा श्रवण-द्वयं व्यर्थम् एव स्याद् इति भावः ॥२॥
॥ १०.८०.३ ॥
सा वाग् यया तस्य गुणान् गृणीते
करौ च तत्-कर्म-करौ मनश् च ।
स्मरेद् वसन्तं स्थिर-जङ्गमेषु
शृणोति तत्-पुण्य-कथाः स कर्णः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथा-श्रवणं स्तुवन् दृष्टान्ततयान्यार्थान् आह—सा वाग् इति । ताव् एव करौ यौ तत्-कर्म-कर्तारौ । तद् एव मनो यत् स्थिर-जङ्गमेषु वसन्तं स्मरेत् । यस् तस्य पुण्याः कथाः शृणोति स एव कर्णः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यया वाचा । **तत्-**कर्मार्चनादि कुरुत इति । तथा अनेन वाग् आदि-पदानाम् अन्वर्थतोक्ता । वक्तीति वाक् । करोतीति करः । मन्यते जानातीति मनः । कर्णयति शृणोतीति कर्णः । क्रमाद्-वचिकृञ्मनि-कर्णीनां परिभाषण-करण-ज्ञानाकर्णनार्थकानां धातूनाम् एते\ऽन्वर्थकाः प्रयोगाः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्थिर-जङ्गमेषु सन्तम्, वा इवार्थे, तद्-एक-भावनया सर्वत्रैव तत्-स्फूर्तेः ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यया कृत्वा तस्योत्तम-श्लोकस्य गुणान् सौन्दर्य-माधुर्य-कारुण्यादीन् गृणीते उच्चारयति जनः, सैव वाक् । अन्यथा भेक-जिह्वावद् वैयर्थ्येन वाक्-त्व् अस्यैवासिद्धेः, निन्द्यत्वाद् वा । एवम् अग्रेऽपि सर्वं करादीनां सर्वेषां कर्तृत्वेऽपि । ययेति वाचः करणत्वं तस्या जीव-दुर्वशत्व-बोधनार्थम् । सर्वेन्द्रिय-क्षोभिकाया बहु-विधाया वाचो महा-यत्नेनैव भगवद्-गुणोच्चारणे प्रवृत्तेः ।
यद् वा, जीवस्य भगवन्-नामोच्चारणादिना परमात्म-पुरुषार्थ-साधने तस्या एव श्रैष्ठ्य-बोधनार्थं, तत्र तस्याः प्रवृत्त्या सर्वेन्द्रियाणां क्षोभि-निवृत्तेः, निर्वृतेश् चेत् । तथान्येषाम् अपि श्रवण-द्वारा हित-सिद्धेर् इति दिक् । गुणान् इति बहुत्वं स्वभावतस् तेषां बाहुल्यात् । किं वा वार्तान्तर-निरसनार्थं बहूनां तेषाम् उच्चारणापेक्षया गृणीत इति वा, आत्मन इव श्रोतॄणाम् अपि हितस्यापेक्षया कर्म पूजा-परिचर्यादि । स्थिरेषु जङ्गमेषु च जीवेषु वसन्तम् इति सदा सर्वत्रैव स्मरण्णापेक्षया स्थिरतो जङ्गमानां पश्चाद् उक्तिस् तेषु प्रकाश-बाहुल्यात् । यद् वा, वृन्दावनस्य स्थिरेषु कदम्बादिषु7 जङ्गमेषु च गवादिषु सान्निध्येन वसन्तं स्मरेत्, तस्य पुण्याः पुण्य-करीः साक्षात्-पुण्य-रूपा वा मनोज्ञा वा कथाः । कर्णः श्रवणेन्द्रियम् । यद् वा, करयोः साहचर्यात् कर्णाव् इति ज्ञेयम् । तस्य नित्य-द्वित्व-सिद्धेर् एकत्वोक्ताव् अपि द्वित्वं गम्यत एव । तच् च पूर्वं विवृतम् । एवम् अग्रे चक्षुर् अपि । पुण्येति सर्वासाम् अपि कथानां स्वभावतः पुण्यत्वेन स्वरूप-मात्र-निर्देशः, मधुर-लीला-कथापेक्षया वा ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यथा कर्णस्य वैयर्थ्यम् एवेति दर्शयितुं **तत्-**सहयोगेन अन्यान्य् अपीन्द्रियाणि तथा दृष्टान्तयति-सेति । गुणान् इति बहुत्वं प्रीतौ जातायां
नाना-गुणानुसन्धानात् करणतया वाचः-प्रवृत्तेः कर्त्रधीनत्वं निर्दिश्य पुनर् अपरितोषेण सर्वेन्द्रियाणां तत्र स्वतः प्रवृत्तिर् एव समीचीनेति ज्ञापयन् करादीनि कर्तृत्वेनैव निर्दिशति, तत्-कर्मकराव् इत्य्-आदिना । कर्म पूजापरिचर्यादि स्थिरेत्य् आदि सदा सर्वत्रैव स्मरणापेक्षणाम पुण्याः **पुण्य-**करीर् मनोज्ञा वा कथाः कर्णः श्रवणेन्द्रियम् अस्य ज्ञानेन्द्रियत्वाज्-ज्ञानस्य चैकेनापि सिद्धिः करादिवन् न द्वित्वाद्य् अपेक्षत्वम् इत्य् एकत्वं निर्दिष्टम् एवं चक्षुर् अपि वक्ष्यते ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्थिर-जङ्गमेष्व् इति सदा सर्वत्रैव स्मरण्णापेक्षया ॥३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स वाग् इत्य् आदि । स्थिर-जङ्गमेषु वसन्तम्, स्थिराः संसार-वासनयानुत्तरला8 ये जङ्गमाः प्राणिनो महान्तस् तेषु वसन्तं तेषां हृदये सन्तम् ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं कर्णस्यैव किन्तु कृष्ण-सम्बन्धं विना सर्वेषाम् अप्य् अङ्गानां वैयर्थ्यम् आह—सा वाग् इत्य् आदि । अन्यानि वाग् आदीनि तु जिह्वासती दार्दुरिकेव [२.३.२०] इत्य् आदि शौनकोक्तेर् निन्द्यान्य् एव इत्य् अर्थः । तत्-कर्म कराव् एव करौ धन्यौ स्थिरेषु जङ्गमेषु वसन्तं स्मरेत् यन् मनस् तद् एव मन इति यत्र यत्र नेत्रं पतति, तत्र तत्रैव कृष्ण-स्मरण-शीलं मन एव धन्यम् इत्य् अर्थः ॥३॥
॥ १०.८०.४ ॥
शिरस् तु तस्योभय9-लिङ्गम् आनमेत्
तद् एव यत् पश्यति तद् धि चक्षुः ।
अङ्गानि विष्णोर् अथ तज्-जनानां
पादोदकं यानि भजन्ति नित्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उभय-लिङ्गं इति स्थिरं जङ्गमं च तस्यैव लिङ्गं मत्वा आनमेत्तद् एव शिरः । तद् एव तस्य लिङ्गं स्थिरं जङ्गमञ् च तस्यैव लिङ्गम् इत्य् एव यत् पश्यति-तद् एव चक्षुः । तान्य् एवाङ्गानि यानि पादोदकं भजन्तीति ॥४-६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्यैव भगवतो लिङ्गं मूर्तिम् । लिङ्गं चिह्न तु माने च मूर्ति-प्रकृति-हेतुषु । शिश्ने च शिव-लिङ्गे च ज्ञान-ज्ञापकयोर् अपि । इति निरुक्तिः । तज्-जनानां हरि-भक्तानाम् । श्रिञ् सेवायाम् । अस्य नमन-लक्षण-सेवायां शिर इति निपात्यते । चष्टे पश्यतीति चक्षुः । दर्शने\ऽपि चक्षिर् अस्ति । अङ्गन्ति पान-स्नानादि-रूपां सेवां प्राप्नुवन्तीत्य् अङ्गानि । अथ को\ऽर्थो मङ्गलानि शुभानि । अथेति मङ्गलानन्तरारम्भ-कार्त्स्न्याधिकार-समुच्चयेष्व् इति । एतेन शीर्षादीनाम् अप्य् अन्वर्थतोक्ता ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उभय-लिङ्गं भगवन्-मूर्तिं वैष्णवं च । विष्णोः पादोदकं गङ्गा-जलं, शाल-ग्रामादि-जलं च । तज्-जनानां वैष्णवानां पादोदकं च जल-मात्रम् ।*।*४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उभय-लिङ्गं श्री-शाल-ग्रामादि-रूपं तद्-भक्त-रूपं च । यद् वा, चलाचल-मूर्तितया द्वि-रूपम् । आ सम्यक् । भूमि-स्पर्शादिना नमेत् । एव शब्देन विचित्र-रूप-दर्शन-शीलस्य चक्षुषोऽन्यत्र प्रवृत्तिं निरस्यति । हि एव, तद् एव, निश्चये वा । अस्य पूर्वत्र परत्राप्य् अनुषङ्गः । विष्णोः श्री-शालग्रामादि-विविध-रूपेण विश्व-व्यापकस्येति पादोदकस्य सौलभ्यं सूचितम् । अथ अपि । तस्य विष्णोर् जनानाम् अपि । भजन्ति श्रद्धया धारयन्ति, नित्यम् इत्य् अस्य सर्वास् ते प्रयुक्तत्वात् पूर्वैर् अपि सर्वैः सहान्वयः । अङ्गानि नाभेर् ऊर्ध्वानि ज्ञेयानि । अधस् तद्-धारण-निषेधात् । यथा कथञ्चित् तन्-नामोच्चारणादिभिर् वाग् आदीनां सार्थकत्वेऽपि तथा तथा तत्-सिद्ध्य् उक्तिस् तत्-तत्-सम्यक्तयैव साफल्य-सम्यक्त्व-सिद्धेर् इति दिक् । साध्यस्य श्रवणस्य प्रस्तावेऽन्येषाम् उदाहरणाद् दृष्टान्ततयेति तैर् व्याख्यातम् ।
यद् वा, एवम् एव वाग् आदीनि सार्थकानि भवन्ति । मम दुर्भगस्य तत्-तद् अभावेन सर्वाणि तानि व्यर्थान्य् एव । केवलं त्वत्-प्रसादाच् छ्रवणेन्द्रियम् एव सफलं भवत्व् इति भावः । अयं तु भक्त्यातिदैन्याद् एव ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उभय-लिङ्गं विष्णोस् तज्-जनानां चेति व्यक्तीभावित्वात् श्री-मद् अर्चादि-रूपं तद्-भक्त-रूपं च आ सम्यक् भूमि-स्पर्शादिना नमेत् एव शब्देन विचित्र-रूप-दर्शन-शीलस्य चक्षुषो\ऽन्यत्र प्रवृत्ति निरस्यति तद्धि-तद् एव अनेनैव पूर्वत्राप्य् उत्तरत्रापि निर्धारो ज्ञेयः अथानन्तरं तस्य विष्णोर् जनानाम् अपि भजन्ति श्रद्धया धारयन्ति नित्यस्य सर्वान्ते प्रयुक्तत्वापूर्वैर् अपि सर्वैः सहान्वयः । अङ्गानि नाभेर् ऊर्ध्वानि ज्ञेयानि अधस् ताद्-धारण-निषेधाद्-यथा-कथञ्चिन्-नामोच्चारणादिभिर् वाग् आदीनां सार्थकत्वे\ऽपि तथा तत्-सिद्ध्य् उक्तिः तत्-तत्-सम्यक्तयैव साफल्य-सम्यक्तासिद्धेः करादीनां दृष्टान्तत्वे\ऽप्य् अयं भावः एवम् एव वाग् आदीनि सार्थकानि भवन्ति ।
मम तु तत्-तद् अभावेन सर्वाणि तानि व्यर्थान्य् एव केवलं त्वत्-प्रसादाच्-छ्रवणेन्द्रियम् एव सार्थकं भवत्विति । विष्णु-रातेनेति । स्वस्मिस् तादृश-तद् अनुग्रह-भावेनोद्दीप्त-प्रेम्ण इत्य् अर्थः । अत एव सम्यक् सोत्कण्ठं पृष्टः स च स्वतो भगवान् भगवल्-लीला-तत्त्वज्ञत्वेन सर्वज्ञ-शिरोमणिः किं च, बादरायणस्य सर्व-वेदान्त-सारज्ञस्य पुत्रः तेन पुनः सम्प्रश्नेन तु श्री-वसुदेव-नन्दने समग्रैश्वर्यादि-समग्र-कारुण्यादि-गुण-निवासे नितरां मग्न-हृदयः सन्न् अब्रवीत् । तस्य परम-कृपामयं कथास्व् एव विशेष स्मृत्वा कथयामास इत्य् अर्थः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : उभय-लिङ्गं श्री-मद् अर्चादि-रूपं, तद्-भक्तादि-रूपं च ।।४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उभय-लिङ्गं भगवन्-मूर्तिं वैष्णवं च, विष्णोः पादोदकं तज्-जनानां च ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उभय-लिङ्गं विष्णस् तज्-जनानां चेति व्यक्ती-भावित्वात् । विष्णु-प्रतिमा-रूपं च तत् द्वयम् एव यत् पश्यति-तद् एव चक्षुः अङ्गानि नाभेर् ऊर्ध्ववर्तीनि ज्ञेयानि ॥४-६॥
॥ १०.८०.५ ॥
सूत उवाच—
विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः ।
वासुदेवे भगवति निमग्न-हृदयोऽब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निमग्न-**हृदयः प्रविष्ट-चेताः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विष्णुना उत्तरा-गर्भान्तः-प्रविष्टेन भगवता रातो ब्रह्मास्त्रात् रक्षित्वा पाण्डवेभ्यो दत्त इति श्री-भगवन्-महा-कृपा-पात्रत्वं सूचितम् । अत एव सम्यक् सन्यायस-दैन्यादिना पृष्टः । अतः श्रोतृ-रस-विशेषोत्पत्त्या वक्तुर् अपि तद्-उदयात् । वासुदेवे श्री-वसुदेव-नन्दने, अत एव भगवति तादृश-श्री-दाम-विप्रानुग्रहादिना निजाशेष-माहात्म्य-प्रदर्शके, नितरां मग्नम् अमृताब्धौ मज्-जनवत् प्रविष्टं हृदयं यस्य तथा-भूतः सन्, यतो भगवान् श्री-कृष्ण-प्रेम-सम्पत्तिमान् । तत्रैव हेतुः—वादरायणिर् भगवतः श्री-व्यासस्य बदरिकाश्रम-कृत-महा-तपः-फल-रूप इत्य् अर्थः । यद् वा, यथोक्तौ हेतुः—भगवान् सर्वज्ञः, श्रोतुर् भाव-विशेषोदये सति तद् अनुरूप-मधुर-कथा कथ्येत्य् आदिकं जानन्न् इति भावः । अन्यत् समानम् ।
एवं कथायां कालादि-क्रमापेक्षा न कार्या, प्रष्टुर् भावानुसारेण रसोत्पत्त्या वक्तुस् तद्-अनुरूप-कथनाद् इति ज्ञेयम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विष्णु-रातेनेति । स्वस्मिंस् तादृश-तद् अनुग्रह-भावेनोद्दीप्त-प्रेम्णेत्य् अर्थः । अयन्तु भक्ताभिमान-दैन्याद् एव । विष्णुना उत्तरा-गर्भान्तः-प्रविष्टेन भगवता रातः ब्रह्मास्त्राद्रक्षित्वा पाण्डवेभ्यो दत्त इति श्री-भगवन्-महा-कृपा-पात्रत्वं सूचितम् । अत-एव सम्यक् सन्याय-दैन्यादिना सोत्कण्ठं पृष्टः, अतः श्रोतृ-रस-विशेषोत्पत्त्या वक्तुर् अपि तद् उदुयात् वासुदेव श्री-वसुदेव-नन्दने, अत-एव भगवति तादृश-श्रीदाम-विप्रानुग्रहादिना निजाशेष-माहात्म्य-प्रदर्शके नितरां मग्नम् अमृताव्धौ मज्जनवत् प्रविष्टं हृदयं यस्य तथा-भूतः सन् । यतो भगवान्10 श्री-कृष्ण-प्रेम्णि मतिमान्, तत्रैव हेतुः—वादरायणिर् भगवतः श्री-वेदव्यासस्य वदरिकाश्रमे कृत-महातपः-फल-रूप इत्य् अर्थः । यद् वा, तथोक्तौ हेतुः—भगवान् सर्वज्ञः श्रोतुर् भाव-विशेषोदये सति तद् अनुरूप-मधुर कथा-कथनादिकं जानन्न् इति भावः । अन्यत् समानम् ।
एवं कथायां कालादि-क्रमापेक्षया न कार्या, प्रष्टुर्भावानुसारेण रसोत्पत्त्या वक्ता तद् अनुरूप-कथनाद् इति ज्ञेयम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.६ ॥
श्रि-शुक उवाच—
कृष्णस्यासीत् सखा कश्चित् ब्राह्मणो ब्रह्म-वित्तमः ।
विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) :
श्रीदामानौ सखायौ द्वौ लाङ्गलिवासुदेवयोः । > एको गोपाल-लीलायां द्वितीयः शास्त्र-चिन्तने ॥ > आद्यो गोपः परो विप्रो द्वाव् एव परम-प्रियौ । > राम-केशवयो ज्ञेयौ श्री-कृष्णस्य विशेषतः ॥ इति बृहत्-संहितोक्तेः > ।
श्रीदामा नाम गोपालो राम-केशवयोः सखा । इदम् एवार्धं पृथुकोपाख्यानेऽपि मण्डुक-प्लुति-न्यायेनानेयम् । तत्र गोपाल-पदं शॢएषेण गा वेद-लक्षणा वाणीः पालयते तद् उक्तानुष्ठानेनेति गोपाऌओ विप्र इति वक्ति । अत एव स्वामि-चरणैः श्रीदाम-सुहृद इति व्याख्यातम् किम् च, तत्रैव श्रीदाम-पदार्थ्ऽप्य् अयुक्तः—
अमर्त्या लभ्या या सम्पत् सा श्रीर् इत्य् अभिधीयते । > श्रीशेन दत्ता सा यस्मै स श्रीदामाभिधीयते ॥
तच् चेहोक्तं स्वयं भवता—प्राप्तो माम् अस्य दास्यामि सम्पदोऽमर्त्य-दुर्लभाः इति एतेन श्रीदाम-पदं पृथुकोपाख्याने नास्ति प्रत्युक्तं प्राप्तो माम् इति वाक्येन सूचितत्वात् ।
ननु, कश्चिद् इत्य् उक्तेः सुदामेतर एव किं न स्यात् तत्रेदं बोध्यम् । श्रीदामा-नाम-भक्तार्थं भूम्य्-आनीतेन्द्र-वैभव इत्य् अष्टोत्तरशत-नाम-पाठात् स एवेति । साक्षात्-तन् नाम तु श्री-कृष्णस्य ज्येष्ठ-गुरु-भ्रातृत्वेन गुरुत्वाद् एव श्री-योगिन्द्रेण नोपात्तम् ।
आत्म-नाम गुरोर् नाम नामातिकृपणस्य च । > श्रेयस्कामो न गृह्नीयात् ज्येष्ठापत्य-कलत्रयोः ॥ इति स्मृतेः ।
यद् वा, ब्राह्मणो ब्रह्म-वित्तमः इत्य् अनेनैव सुदाम-श्रीदाम-नाम-नाम्नोर् ग्रहणम् अर्थैक्येन पर्यायत्वात्, तथा हि—ब्रह्मणो वेदस्य विल् लाभो यस्मात् स ब्रह्मवित् । वेदनं वित् विल् लाभोऽतो भावे क्विप् । वेदाध्यापकत्वेनात्युदारोऽतिशयेऽर्थे तम् अपो विधानात् ।
सर्वेभ्य एव दानेभ्यो विद्या-दानं विशिष्यते । > अहार्य-धनम् एतद्धि तद्-दाता सर्व-दायकः ॥ इति स्मृतेः ।
सुष्ठु ददातिति सुदामा । श्रिः ददातिति श्रिदामा । सुष्ठु श्रि-शब्द-वाचको वेद एव, सा हि श्रिर् अमृत सताम् इति श्रुतेः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णस्य सर्व-चित्ताकर्षक-सद्-गुण-निधेः कश्चिद् एकः श्रीदाम-नामा ब्रह्म-वित्तमो ब्रह्म वेदस् तद् अर्थ-विदां मध्ये श्रेष्ठ इत्य् अर्थः, भगवद्-भक्त्य्-एक-निष्ठत्वात् । अत इन्द्रियार्थेषु विषयेषु विरक्तः । कुतः ? प्रकर्षेण शान्तः कामादि-क्षोभ-रहित आत्मा चित्तं यस्य सः । तच् च कुतः ? जितानि वशीकृतानि इन्द्रियाणि सर्वाणि येन सः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णस्य इति युग्मकम् । सर्व-चित्ताकर्षक-सद्-गुण-निधेः कश्चिद् एकः श्रीदाम-नामा श्रीदाम-रङ्क-भक्तार्थं भूम्य्-आनितेन्द्र-वैभवः इति बृहत्-सहस्र-नाम-पाठात् । ब्राह्मणत्वेऽपि विशेषम् आह—ब्रह्म-वित्तमः वेदार्थ-विदां श्रेष्ठ इत्य् अर्थः । श्री-भगवद्-भक्त्य्-एक-निष्ठत्वात् । अत एव इन्द्रियार्थेषु विषयेषु विरक्तः । कुतः ? प्रकर्षेण शान्तः कामादि-शोक-रहित आत्मा चित्तं यस्य सः । तच् च कुतः ? जितेन्द्रियः ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भीमेनापि स द्वैरथ एव जेतव्यः शताक्षौहिणी-युतस् तु मा जेतव्यः ॥६॥
॥ १०.८०.७ ॥
11यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।
तस्य भार्या कुचैलस्य12 क्षुत्-क्षामा च तथा-विधा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा-विधा कुचैला । किं च, क्षुत्-क्षामा यत् किञ्चित् सम्पन्नम् अन्नं तस्मै परिविष्य स्वयं क्षुधा जीर्णा ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य विप्रस्य । तथा-विधा भर्तृवन् मलिन-वस्त्रा । न केवलं मलिनाम्बरैर् एवेत्य् आह—किं च इति ॥७-९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो गृहाश्रम्य् अपि यदृच्छया प्रयत्नं विना उपपन्नेन समीपे लब्धेन स्वयम् उपस्थितेन वा द्रव्येण वर्तमानो वृत्तिं कल्पयन् कुचेलस्य जीर्ण-मलिन-क्षुद्र-वस्त्रस्य । च अपि । भार्यापि आसीद् इति पूर्वेणैवान्वयः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो गृहाश्रम्य् अपि यदृच्छया प्रयत्नं विनापि उपपन्नेन समीप-लब्धेन अर्थेन वर्तमानः वृत्तिं कल्पयन् कुचेलस्य जीर्ण-मलिन-क्षुद्र-वर्णस्य भार्या चासीद् इति पूर्वेणैवान्वयः । तथाविधा तादृश-सद्गुणा ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तथा-विधा तादृश-गुण-युक्ता क्षुत्-क्षामा चेति **च-**कारात् क्षुत्-क्षामत्वम् इत्य् एको गुणस् तु तस्माद् अप्य् अधिकस् तस्याः प्राप्तं यत् किञ्चिद् अन्नं तस्मै परिवेष्य स्वयं क्षुधयैव स्थितत्वाद् इति भावः ॥७॥
॥ १०.८०.८ ॥
पति-व्रता पतिं प्राह म्लायता वदनेन सा ।
दरिद्रा13 सीदमाना वै वेपमानाभिगम्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पति-व्रता सती । म्लायता शुष्यता वदनेन । सीदमाना भर्तुर् भोग-सम्पादनाशक्त्यावसीदन्ती । वेपमाना भयेन कम्पमाना ॥८-१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै अपि । भयेन वेपमानापि । अभिमुखे गत्वा । च-कारात् प्रणम्य च । भयेनैव म्लायता वदनेन प्रकर्षेण श्री-भगवत्-सख्य-स्मारणादिना, कीं वा, प्रणयेनाह । कुतः ? पति-व्रता । किं च, दरिद्रं दुःखितम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, क्षुत्-क्षामत्वेनैव सीदमाना सदा-वशा द्रवती, अतो वेपमाना । किं च, म्लायता वदनेन विशिष्टा । यतः पतिव्रता, इति पत्युर् अपि तादृशत्वं ध्वनितम् । तद् एवाभिव्यञ्जयति—दरिद्रं, यतो रङ्कम् इति । अतः प्राह । वै प्रसिद्धौ ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वदन-म्लान्यादि-त्रयं प्रथमतो भर्तृ-भोग-सम्पादनाशक्त्या निरन्तर-बुभुक्षयैव च ततो भगवति भक्तीतर-प्रार्थनानर्हत्व-भावनया **पति-**भयेन सम्भवति ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सीदमाना भर्तृ-भोग-सम्पादनासामर्थ्यात् सीदन्ती वेपमाना भगवति भक्तीतर-प्रार्थनाया अनर्हत्वात् **पति-**भयेन सकम्पा ॥८॥
॥ १०.८०.९ ॥
ननु ब्रह्मन् भ14गवतः सखा साक्षाच् छ्रियः पतिः ।
ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भो ब्रह्मन्! वेद-स्वरूपेति त्वया तत्-सर्वं विज्ञायत एवेति भावः । तद् एवाह—भगवत इत्य्-आदिना । **साक्षाच्-**छ्रियः पतिः स्वयम् एव प्रत्यक्षी-भूतो वा लक्ष्मी-कान्तः भगवतः सखा भवत इति वक्तव्ये भगवत इति गौरवात् । श्रियः पतिर् इति सर्व-विभूति-प्रदान-सामर्थ्यम् उक्तम् ।
ननु तादृशेन सहाधमस्य मम सख्यं कुत इति चेत्-तत्राह—ब्रह्मण्यो ब्राह्मण-हितकारीति ।
ननु ब्राह्मण्यं च मम कुत इति चेत्-तत्राह—शरण्यः शरणागत-वत्सल इति ।
ननु शरणागत-लक्षणम् अपि नास्तीति चेत्-तत्राह—भगवान् परम-दयालुर् इत्य् अर्थः । कुतः? सात्वतर्षभो यादवेन्द्रः कृपयैव यदुकुले\ऽवतीर्णत्वात् ।
यद् वा, तत्रापी सात्वतर्षभः कारुण्याद्य्-अशेष-गुण-प्रकटनार्थं यदुकुले\ऽवतीर्य तत् श्रेष्ठतां प्राप्त इत्य् अर्थः । यद् वा, ननु तथापि केन हेतुना मयि तेन कृपा कार्येति चेत्-तत्राह—सात्वतर्षभः कंस-भयादिनाति-दुःखितानां यादवानां परिपालक इत्य् अर्थः । इति दीन-वात्सल्यं सूचितम् । यद् वा, सात्वतर्षभत्वेन सहज-कारुण्यं अतस् तस्य कृपायां कृपालुत्वम् एव हेतुः न तत्रान्यो\ऽन्वेषणीय इति भावः ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतः पूज्यस्य भवत इत्य् अर्थः । साक्षात्-सर्वेषां प्रकट एव श्रियः पतिः ननु तादृशेन सहाधमस्य मम सख्यं कुत इति चेत्-तत्राह—ब्रह्मण्यः ब्राह्मण-हितकारीति ननु तादृशं ब्राह्मण्यं च मम कुत इति चेत्-तत्राह—शरण्यः शरणागत-वत्सल इत्य् अर्थः । को\ऽसौ? तत्राह—भगवान् सात्वतर्षभः तद्-रूपत्वेनावतीर्णो\ऽयम् इत्य् अर्थः ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु श्री-पतिना दीनस्य मम कुतः सख्यं तत्राह—ब्रह्मण्यः मम तादृशं ब्राह्मण्यम् अपि नास्तीति चेत् शरण्यः भक्त्य् अभावान्-मम शरणागतत्वम् अपि नास्तीति चेत् भगवान् सर्वज्ञतया तव दुःखं दृष्ट्वा दयिष्यत एव इत्य् अर्थः । ननु स्व-कर्म-फल-भोगेषु मद्-विधेष्व् अनन्तेषु दुःखि-जीवेषु मध्ये सर्वत्र समः स मह्यम् एव कथं धनं दद्याद् इति चेन्-मैवम् इत्य् आह—सात्वतां भक्तानाम् ऋषभः पतिर् इति स मा ददातु नाम किन्तु व्यजनादिभिस् तं परिचरन्तः परम-कृपालवस् तद्-भक्तास् तु दास्यन्त्येवेति भावः । सात्वतान् यदुवंश्यान् स पालयत्येव त्वत्-पालने तस्य को भारः को वा दोषो भवितेति भावः ॥९॥
॥ १०.८०.१० ॥
तम्15 उपैहि महा-भाग साधूनां च परायणम् ।
दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं भगवन्तम् । ते तुभ्यम् । सीदते दरिद्राय ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् तम् उपैहि, तत्-समीपे गच्छ । ननु, तथाप्य् अत्यन्तायोग्यत्वाल्-लज्जे विभेमि च, तत्राह—साधूनां भवादृशां परायणं परमाश्रयम्, तद् एकाश्रयत्वेन सतां भयादिना तद् अनाश्रयणम् अयुक्तम् इति भावः ।
ननु, साधुत्वे सति तद् आस्तां नाम, अहन्त्व् असादुर् एव, नेत्य् आह—हे महा-भागेति, अन्यथा तेन सह सख्यानुपपत्तिर् इति भावः । अतो भवता अप्रार्थितम् अपि धनं तच् च भूरि वहुलं ते तुभ्यं दास्यति । कुतः ? सीदते दारिद्र्येण सदा क्षुधादिना दुःखं लभमानाय, किं च, कुटुम्विने, इति दान-पात्रतापि सूचिता ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति सार्धकम् । अतस् तम् उपैहि तत्-समीपे गच्छ । ननु तथाप्य् अत्यन्तायोग्यत्वाल्-लज्जया बिभेमि च तत्राह—साधूनां भवादृशां परायणं परमाश्रयं तद् एकाश्रयत्वेन भयादिना तद् अनाश्रयणं सताम् अयुक्तम् इति भावः ।
ननु साधुत्वे सति तद् आस्तां नाम अहं त्व् असाधुर् एवेत्य् आह—हे **महा-**भागेति । अन्यथा तेन सह सख्यानुपपत्तेर् इति भावः । अतो भवतान् अभ्य् अर्थितम् अपि धनं तच् च भूरि बहुलं ते तुभ्यं दास्यति किं च, सीदते दारिद्रयेण क्षुधादिना सदा दुःखं लभमानाय किं च, कुटुम्बिने इति दान-पात्रता सूचिता ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साधूनां चेति । **च-**काराद्दीनानां च । यदि त्वम् आत्मानं साधुं न मन्यसे तदा दीनं तु भवस्य् एवेति भावः । अतः सीदते कुटुम्बिने इति दान-पात्रत्वं द्योतितम् ॥१०॥
॥ १०.८०.११ ॥
आस्तेऽधुना द्वारवत्यां भोज16-वृष्ण्य-अन्धकेश्वरः ।
स्मर17तः पाद-कमलम् आत्मानम् अपि यच्छति ।
किं न्व् अर्थ-कामान् भजतो नात्यभीष्टान् जगद्-गुरुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोज-वृष्ण्य-अन्धकेश्वर इति तत् स्वीकार-मात्रेण सर्वे ते दास्यन्तीति भावः । नात्यभीष्टान् परिपाक-विरसत्वात् ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते भोजादयः । इति भाव इति-स्वामिना-दृतस्य भृत्याः परमादरं कुर्वन्तीति प्रसिद्धः । परमार्थम् आह--किन्त्व् इति । पाक-विरसान् परिणामे सन्तापकरान् । जगद्-गुरुः सर्व-हित-कर्तेति हेतु-गर्भित-विशेषणम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् असौ निज-बन्धु-सन्तोषणार्थं कदाचिद् इन्द्र-प्रस्थे कदाचिन् मथुरायां कदाचिद्-युधार्थम् अन्यत्रापि गच्छेद् इति दूरं गन्तुम् अशक्तेन मया कथं प्राप्तव्य इति चेत्, तत्राह—आस्त इति । तद् इतोऽनतिदूरे श्री-द्वारकां गच्छेति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, कुत आस्ते ? तद् आह—भोजेति । युद्धादि-निवृत्त्या यदुभिः सह विलासार्थम् अधुना तत्रैव निवासाद् इति भावः । यदूनां बहुल-कुल-भेदेऽप्य् एषाम् एवोक्तिः प्राधान्याद् भक्ति-विशेषाद् वा । यद् वा, भोजादय ईश्वराः सर्व-सम्पत्तिम् अन्तो यस्मात् स इति गमन-मात्रेणैव तव सर्व-सम्पत्तिर् भवितेति भावः ।
ननु तथाप्य् अत्ययोग्याय भूरि न दास्यत्य् एव, तत्राह—स्मरत इति चतुर्थ्यां षष्ठी । पाद-कमलम् एकम् अपि स्मरतस् तच्-चिन्तन-मात्रे प्रवर्तमानायाप्य् आत्मानं सर्वेश्वरम् अपि यच्छति, तद्-वश्यं करोतीत्य् अर्थः । भजतो भजते श्रवणाद्य्-अशेष-भक्तिं कुर्वते यथा-विधि पूजयते वा जनाय ।
यद् वा, सख्येन भजते तुभ्यम् अर्थ-कामान् किमु अर्थान् कामांश् च नात्य् अभीष्टान् परिपाक-विरसत्वेन प्रायोऽनभीष्टान् अपि यच्छतीति किमु वक्तव्यम् । अतो जगतो गुरुः । शास्त्रादि-द्वारार्थादि-दोष-दर्शकोऽपि तद्-इच्छया ददात्य् एवेत्य् अर्थः ।
यद् वा, ननु तर्हि न दास्यत्य् एव, तत्राह—जगद्-गुरुर् इति । अयं भावः—यथा पिता क्रीडनादिकं तुच्छम् अपि प्रार्थयमानाय बालकाय स्नेहेन तद्-इच्छया दत्ते, पश्चाद् रत्नालङ्कारादिकम् अपि, तथा असाव् अर्थ-कामान् आदौ ददाति, पश्चात् परम-पदं चेति ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् असौ निज-बन्धु-सन्तोषार्थं कदाचिद् इन्द्र-प्रस्थे कदाचिद्-वृन्दावने कदाचिद्-युद्धार्थम् अन्यत्रापि गच्छेद् इति दूरं गन्तुम् अशक्तेन मया कथं प्राप्तव्यम् इति चेत्-तत्राह—आस्त इति । तद् इतोऽनातिदूरां श्री-द्वारकां गच्छ । अन्यत्-तैर् व्याख्यातम् । यद् वा, कुत आस्ते ? तद् आह—भोजेति । युद्धादि-निवृत्त्या यदुभिः सह विलासार्थम् अधुना तत्रैव निवासार्हत्वाद् इति भावः । यद् वा, भोजादयः ईश्वराः सर्व-सम्पत्तिम् अन्तो यस्मात् स इति गमनमात्रेणैव तव सर्व-सम्पत्तिर् भवितेति भावः । यद् वा, द्वारकावासतो नतिचिरकाल-गतम् इदं वृत्तं ज्ञेयम् ।
ननु तथाप्य् अत्य् अयोग्याय भूरि न दास्यत्य् एव तत्राह—स्मरत इति । चतुर्थ्यां षष्ठी पाद-कमलम् एकम् अपि स्मरतः तच्-चिन्तन-मात्रे प्रवर्तमानायापि आत्मानं सर्वेश्वरम् अपि यच्छति तद्-वश्यं करोतीत्य् अर्थः । भजतः भजते श्रवणाद्य् अशेष-भक्तिं कुर्वते, यथा-विधि पूजयते वा जनाय यद् वा, सक्येन भजते तुभ्यं अर्थ-कामान् किमु अर्थान् कामांश् च यच्छतीति किमुत वक्तव्यम् इत्य् अर्थः । किमुततरां सख्यसौभाग्ययुक्ताय तुभ्यम् इति भावः । तेषां न्यूनत्वे हेतुः नात्यभीष्टान् परिणाम-विरसत्वेन प्रायो\ऽनभीष्टान् ननु तर्हि तान् अवज्ञया न दास्यत्येव तत्राह—जगतो गुरुः सर्व-धर्मोपदेष्टा ततो भक्तस्य मनोरथं किम् इति न पूरयेद् इति भावः । यद् वा, जगतो गुरुः पितेति अयम्-भावः—यथा पिता क्रीडनकालिकं तुच्छम् अपि प्रार्थयमानाय बालकाय स्नेहेन तदिच्छया दत्ते पश्चाद्-रत्नालङ्कारादिकम् अपि तथासावर्थ**-कामानपि** ददाति पश्चात्-परम-पदं चेति ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स साम्प्रतम् इन्द्रप्रस्थे द्वारकायां वा असुर-मारणार्थम् अन्यत्र क्वाप्य् आस्ते वा तत्राह—आस्त इति । अधुना न्यस्त-शस्त्रः स्व-नगराद् अन्यत्र न यातीत्य् अर्थः । भोज-वृष्ण्य अन्धकेश्वर इति तत्-स्वीकार-मात्रेण ते\ऽपि दास्यन्तीति भावः ।
ननु तद् अपि धनं प्रार्थयितुम् अहं लज्जे तत्राह—स्मरत इति । चतुर्थ्य् अर्थे षष्ठी स्मरण-मात्रं कुर्वते जनाय अप्रार्थकायापि स्व-मात्मानम् अपि ददाति किं पुनर् अकामान् परिणाम-विरसत्वात् । दातुं नात्यभीष्टान् यतो जगतां गुरुर् हितकर्ता याचकानां त्व् इच्छया तान् अप्य् अप्रार्थितो\ऽपि तेन तत्र गत्वा त्वया तूष्णीम् एव स्थेयं स तु त्वद् अभीष्टं बहुधनं त्वद्धित-कारित्वात् स्वाभीष्टं स्व-चरण-पद्म-माधुर्यं च दास्यतीति द्योतितम् ॥११॥
॥ १०.८०.१२ ॥
स एवं भार्यया विप्रो बहुशः प्रार्थितो मु18हुः ।
अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स विप्रः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भार्ययेत्य् आवश्यक-तद्-भरणार्थं तद्-वाक्यं परिपाल्यम् इति भावः । तत्र च विशेषेण प्राति कामं पूरयतीति विप्रः । तत्रापि बहुशश् चिरकालं बहुल-न्यायादि-प्रदर्शनेन वा तत्रापि मुहुर् वारं वारं मुहुर् इति पाठे पाठान्तरे कृपा-कोमल-स्वभाव इत्य् अर्थः । प्रार्थितः सन् मनो दधे इति परेणान्वयः ।
यद् वा, प्रार्थित इत्य् एतत्-क्रिययैव वाक्य-समाप्तिः अतो गमनाय मतिं दधे प्राग्-बहुशः दर्शनेनापि गमने स्थितं संशयं निरस्य निश्चयं कृतवान् इत्य् अर्थः ।
ननु तथाप्य् एकान्तिस् तस्य धनेच्छया यद् अयुक्तं तत्राह—अयम् इति । यद् वा, मतिं मनस् तद् अनिच्छुम् अपि दधे युक्त्या प्रवर्तयामास । कयेत्य् अपेक्षायाम् आह—अयम् इति । हि एव अयम् एव को\ऽसाव् इत्य् अत्राह—उत्तमेति । यस्य यशः श्रवणादिना संसार-ध्वंसादिकं भवति तस्य दर्शनं साक्षात्कार इत्य् अयं परम इति सर्व-पुरुषार्थ-फल-रूपाया भक्तेर् अपि तत्-फलत्वात् । मनसा स्थीरीकृतेन सम्यक् दृढतया चिन्तयित्वा । हे कल्याणीति श्री-भगवद्**-दर्शन-**मङ्गले प्रवर्तनात् । तर्हि तद्दीयतां तत्-प्रार्थनं च रिक्त-पाणिर् न पश्येत राजानं देवतां गुरुम् इत्य्-आदि-न्यायात् सख्य-स्वभावाद् वा ॥१२-१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स एवम् इति सार्धकम् । भार्ययेत्यावश्यक-तद्-भरणार्थं तद्-वचनं पाल्यम् इति भावः । तत्रापि च विशेषेण प्रतिकामं पूरयतीति विप्रः तत्रापि बहुषु बहुल-युक्ति-प्रदर्शनेन तत्रापि मुहुर्वारं वारं मृद्विति पाठे क्रिया-विशेषणम् एवं-प्रार्थितो\ऽपि अयं हीत्य्-आदि मनसा सञ्चिन्त्यैव गमनाय मतिं दधे । दीयताम् इत्य् अस्यानन्तरम् उवाचेति शेषः । हे कल्याणि इति श्री-भगवद्-दर्शन-मङ्गलो प्रवर्तनात् तत्-प्रार्थनं च रिक्त-पाणिता-दोष-निरासाय ॥१२-१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बहुशः प्रार्थित इति तस्याः भार्यात्वात् तस्य च मृदुत्वाद् इति भावः । तस्याः प्रार्थनया अप्रसन्नं मनः परामर्शेन प्रसादयति-अयम् इति ॥१२॥
॥ १०.८०.१३ ॥
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।
अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयता19म् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्य् अस्ति किम् अस्तीति प्रश्नः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति हरि-दर्शन-लाभम् ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अप्य् अस्ति गृहे अस्ति चेद्दीयतां रिक्तपाणिः सख्युस्तस्य गृहं कथं यास्यामीति भावः ॥१३-१४॥
॥ १०.८०.१४ ॥
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् ।
चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पृथुकः स्याच्-चिपिटके इत्य् अमरः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : याचित्वा प्रतिवेशि**-विप्रान्** यतो विप्रान् चतुर इति चतुर्-वर्गस्य चतुर्विध-मोक्षस्य वा सिद्ध्य्-अपेक्षया वा किं वा, चतुर्-दिक्षु वर्तमानांश् चतुरः प्रतिवेशिनः प्रत्येकम् एक-मुष्टि-प्रार्थनात् पृथुकाश् च ते तण्डुलाश् चेति तथा तान् इति प्रतिवेशि-ब्राह्मणीनाम् अपि तादृशतया किं वा, तस्या एव तादृश-क्षुत्क्षामत्वेन प्रार्थ्यानीत-धान्येषु दृढ-कुट्टनाशक्त्या पृथुकानाम् अपि तण्डुल-रूपत्वात् । चेलस्य जीर्ण-वस्त्रस्य खण्डम् एकाल्पभागस् तेन बद्ध्वा उपायन-रूपतया प्रकर्षेण भर्तृ-वस्त्रान्तर्-दृढ-धारणादिनादात् । एतच्-च सर्वं श्री-भगवति निजाकिञ्चनता विज्ञापनार्थं तस्याश्चातुर्यम् इति न ज्ञेयम् । किन्तु अतिदारिद्र्येणाकिञ्चनत्वाद् एव ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : याचित्वा प्रति विप्रान् प्रति चतुर इत्य् अधिक-न्यूनतायां प्रयोजनाभावात् **पृथुक-**तण्डुलाः नवार्ध-भ्रष्ट-धान्य-कुट्टनाज् जाताश्-चिपिट-तण्डुलाः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.१५ ॥
स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल ।
कृष्ण-सन्दर्शनं मह्यं कथं स्याद् स्याद् चिन्तयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मह्यं मम ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् पृथुक-तण्डुलान् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सो\ऽपि तान् एवादाय अन्य-सद्भावात् प्रययौ कृशत्वादिना गन्तुम् अशक्तो\ऽपि प्रयासेन ययौ यतो विप्रेष्व् अग्र्यः श्री-भगवद्-भक्तत्वात् । किल निश्चितम् । इत्य् अशक्त्यादिना मार्गान्-निवृत्तिर् निरस्ता यद् वा, वितर्के ततश् च परेणास्यान्वयः ।
यद् वा, प्रकर्षेण ययौ तद् एवाह—कृष्णस्य साक्षाद्-भगवतः सन्दर्शनं साक्षाद्-दर्शनं मह्यं मां प्रति कथं केन प्रकारेण किं वा किं **स्याद्-**भविता किलेति चिन्तयन् सन्न् इति । सन्-दर्शनम् स्याद् सदा चित्ते दर्शनं सूचितम् एव । तथापि साक्षात्कारस्यैव परम-फलत्वं बोधयति ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सो\ऽपि तान् एवादाय अन्यासद्-भावात् किल वार्तायाम् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कथं स्याद् स्याद् द्वाः-स्थैर् वारयिष्यमाणत्वाद् स्याद् भावः ॥१५॥
॥ १०.८०.१६ ॥
त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः ।
विप्रोऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्यु20त-धर्मिणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुल्मानि रक्षार्थं सैन्य-स्थानानि । कक्षाः प्रतोलीः । अतीयायातिक्रम्य जगाम् । सद्-विजो द्विजैः सहितः । ततश् च अगम्या दुर्गमा येऽन्धका वृष्णयश् च तेषां गृहेषु ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतोलीः रथ्याः रथ्या प्रतोली विशिखाः इत्य् अमरः । ततो गुल्मादि-लङ्घनानन्तरं अच्युत-धर्मिणाम् अनवच्छिन्न-धर्माणां हरि-भक्तानां वा ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुल्म-लक्षण-विशेषश् चोक्तः—
नव-द्विपं नव-रथं सप्त-विंशति सप्तिकम् । > गुल्मं तज्-ज्ञैः स्मृतं पञ्च-चत्वारिंशत्-पदातिकम् ॥
इति तावत् सैन्यस्य स्थानम् एव गुल्मम् इत्य् उपचारात् तादृशानि त्रीणि । नन्व-गम्यानां गृहेषु कथं प्रवेशः? तद् आह—अच्युतः स्थिरः क्षत्रियत्वेन ब्रह्मण्यतादि-लक्षणो यो धर्मस् तद्वताम् ।
यद् वा, अच्युतस्य ब्रह्मण्य-देवत्वादि-निज-माहात्म्ये सदा सुस्थिरस्य भगवत इव धर्मो ब्राह्मण-भक्त्यादिस् तद्वतां वैष्णवत्वेन स्वत एव ब्राह्मणानां वैष्णवाद् अराद् इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रीणीत्य् अर्धकम् । गुल्मलक्षणम् इदम् उक्तन्—
नवद्विपं नव-रथं सप्त-विंशति-सप्तिकम् । > गुल्मं तज्-ज्ञैः स्मृतं पञ्चचत्वारिंशत्-पदातिकम् ॥ इति ।
अत्र तु पुररक्षकतावत् सेना-निवेश-स्थलम् एव गुल्मम् इत्य् उपचारात् तादृशानि त्रीणि । विप्र इति सार्धकम् ।
ननु दुर्गम-गृहाणां गृहेषु कथं प्रवेशः तत्राह—अच्युतस्य ब्रह्मण्य-देवत्वादि-निज-माहात्म्ये सदा सुस्थिरत्वेन तन्-नाम्नस् तस्यैव धर्मः तद्वतां यद् वा, भगवद्-धर्मवतां वैष्णवत्वेन स्वत एव ब्राह्मणानां वैष्णवानां चादराद् इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्रीणि गुणानीत्य् आदि । त्रीणि गुल्मानि तिस्रः कक्षाश् च स-द्विजः द्विजैर् अन्यैः सहितः स-विप्रोऽतीयायेत्य् एकं वाक्यम् । पुनर् उत्तर-वाक्ये स्व्य्-अष्ट-सहस्राणां हरेर् महिषीणां मध्ये एकतमं मुख्यतमं गृहं द्विजो विवेशेति, एक एवेति मनने पुनर् द्विज-शब्दोपादानम् । विवेशैकतमम् इत्य् आदि । एकतमं प्रधानतमं श्री-रुक्मिणी-भवनं यथावद् गतः सन् विवेशेत्य् अन्वयः । कीदृशं ? ब्रह्मानन्दं ब्रह्मानन्द-स्वरूपम् ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुल्मानि पुरबहिर्-द्वर-रक्षक-सेना-निवेश-स्थलानि कक्षाः पुरान्तर्-द्वार-दीर्घ-गृह-प्रकोष्ठान् स द्विजः तत्रत्यद्-विज-सहितः अगम्याः ये अन्धक-वृष्णयस् तेषां गृहेषु तद्-गृह-निकटे इत्य् अर्थः ॥१६॥
॥ १०.८०.१७ ॥
गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः ।
विवेशैकतमं श्री-मद् ब्रह्मानन्दं गतो यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा हरेर् द्व्य्-अष्ट-सहस्राणां महिषीणां च ये गृहास् तेषु मद्ये श्री-मद्-एकतमं गृहं विवेश । तदा च स द्विजो ब्रह्मानन्दं गतो यथा तथा बभूवेति शेषः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा च गृह-प्रवेशावसरे ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विवेशैकतमम् इत्य्-आदि । एक-तमं प्रधानतमं श्री-रुक्मिणी-भवनम् इत्य्-आदि । ब्रह्मानन्दं ब्रह्मानन्द-स्वरूपं यथा यथावद् गतः प्रविष्टः । अतस् तल्-लोक-स्थ-पुरारामादेर् ब्रह्मानन्द-सदृशत्वं प्रतिपादितम् ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरेः सर्व-दुःक-हरस्य सर्व-मनोरहस्य चेति गृहस्य तादृशत्वं तेन विप्रस्यापि तद्-दर्शनेन सर्व-दुःख-निवृत्तिम् आनन्देन\॥। [प्रमोद] न-प्रकाराद्य्-अनुसन्धानं च सूचयति श्री-मद् इति सर्व-महिषी-वर्ग-श्रेष्ठायाः बहु-कुटुम्बिन्याः श्री-रुक्मिण्याः गृहस्य श्रैष्ठ्येन शोभाभरात् । तथा च पाद्मोत्तर-खण्डे गद्यं रुक्मिण्य्-अन्तः-पुर-द्वारि तूष्णीं क्षणं तस्थौ [प।पु। ६.२५२.३२] इत्य्-आदि । अतो\ऽग्रे शैब्या-स्थाने भैष्मीति पाठ एव सङ्गतः । तथा च निरन्तराध्यायेऽपि तावच् छ्री जगृहे हस्तम् [भा।पु। १०.८१.१०] इति । राघवत्वेऽभवत्वे \ऽभवत् सीता रुक्मिणी कृष्ण-जन्मनि [वि।पु। १.९.१४२] श्री-विष्णु-पुराणोक्त्या तस्या एव श्रीर् इति प्रसिद्धः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-मद् इति । श्री-रुक्मिण्या गृहस्य श्रैष्ठ्येन शोभाभरात् तथा च पाद्मोत्तर-खण्डे गद्यं—
स तु रुक्मिण्यान्तः-पुरद्वारि क्षणं तूष्णीं स्थित इत्य्-आदि । अतो\ऽग्रे शैब्या-स्थाने गुर्जरादि-प्रसिद्धः साक्षाद् इति पाठ एव सङ्गतः । तथा-चानन्तराध्याये\ऽपि तावच्-छीर् जगृहे-हस्तम् [भा।१०.८१.१०] इति राघवत्वे\ऽभवत्सीता रुक्मिणी कृष्ण-जन्मनि [वि।पु। १.९.१४२] इति श्री-कृष्ण-पुराणोक्त्वा तस्या एव प्राधान्येन श्री-र् इति प्रसिद्धेः तद् अन्य-सर्व-विस्मारणांशे दृष्टान्तः ब्रह्मेति ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद्-अन्य-सर्व-विस्मरणांशे दृष्टान्तः—ब्रह्मानन्दम् इति ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्व्यष्ट-सहस्रणां हरेर् महिषीणां द्व्यष्ट-सहस्र-महिषी-गृहाणां मध्ये एकतमं मुख्यतमं गृहं विवेश इत्य् अन्वयः । तच् च गृहं रुक्मिणी-गृहम् एव यद् उक्तं पद्मोत्तर-खण्ड-गद्यम्—स तु रुक्मिण्य्-अन्तः-पुर-द्वारि क्षणं तूष्णीं स्थितः इत्य् आदि । तद् अन्य-सर्व-विस्मरणांशे दृष्टान्तः—ब्रह्मेति ॥१७॥
॥ १०.८०.१८ ॥
तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पर्यग्रहीत् पर्यरम्भत ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं विप्रम् ॥१८-१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतः सर्व-सद्-गुण-सद्-व्यवहारेभ्यः किं वा, यथा-कथञ्चिज्-जातात् सख्याद् विच्युति-रहित इति भावः । अतः प्रियायाः पर्यङ्कम् आश्रितो\ऽपि “पर्यङ्क आस्थित” इति चित्-सुखः । अर्थः स एव । दूराद् एव विलोक्य साक्षाद् दृष्ट्वा । किं वा, दूराद् एव सहसा सद्यः सम्भ्रमेण वा उत्थाय अभ्येत्य च अग्रतो गत्वा मुदा दोर्भ्यां प्रसारिताभ्यां परितः सर्वाङ्ग-व्याप्त्या अग्रहीत् गाढं पर्यरम्भत ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युत-देव-सर्व-सद्-गुण-सद्-व्यवहारेभ्यः यथा-कथञ्चिज्-जातात् सख्याच् च विच्युति-रहित इत्य् अर्थः । अतः प्रियायाः पर्यङ्क आस्थितो\ऽपि । “पर्यङ्क आश्रित” इति चित्-सुखः । अर्थः स एव । टीकायां पर्यरम्भत इत्य् अस्यालिङ्गद् इत्य् अर्थः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभ्येत्य प्राङ्गनम् आगत्य पर्यग्रहीत् परिरेभे ॥१८॥
॥ १०.८०.१९ ॥
सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गातिनिर्वृतः21 ।
प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अब्-बिन्दून् आनन्दाश्रूणि ॥१९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सख्युः सहाध्यायित्वात् । किं च, प्रियस्य परम-भक्तत्वात् । यद् वा, प्रिय-सखस्य इत्य् अर्थः । यतो विप्रश् चासौ ऋषिश् च श्री-भगवद्-भक्त्य्-आदि-माहात्म्यज्ञस् तस्य । अतो\ऽङ्ग-सङ्गेन सर्वाङ्ग-गाढालिङ्गनेन अत्य्अन्तं निर्वृतः स्वस्थ-चित्तः प्रीतश् च हृष्टः सन् । यद् वा, अतिनिर्वृतः परम-सुखी, प्रीतश् च प्रेम-सम्पत्ति-परिपूर्णः सन् विशेषेण असाधारणतया अमुञ्चत् । यतः पुष्करवद् विशालायत्एक्षण इति बहुलानन्दाश्रु-विमोके योग्यतोक्ता । यद् वा, तेन श्री-नेत्रयोः सौन्दर्याधिकता सूचिता ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सख्युः स-तीर्थत्वेन सह विहारिणः तेष्व् अपि बहुषु प्रियस्य प्रेम-विशेष-विषयस्य । किं च, विप्रश् चासौ ऋषिश् च श्री-भगवद्-भक्त्य्-आदि-माहात्म्यज्ञः तस्य निर्वृतिर् आनन्दः प्रीतिः स्नेह इति भेदः विशेषेण अमुञ्चत् । तत्र पुष्करेक्षण इति श्री-नेत्रयोः सौन्दर्याधिकता सूचिता ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : निर्वृतिर् आनन्दः । प्रीतिः स्नेहः ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.२० ॥
अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।
उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥
अग्रहीच् छिरसा राजन् भगवाल् लोक-पावनः ।
व्यलिम्पद् दिव्य-गन्धेन च22न्दनागुरु-कुङ्कुमैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समर्हणम् उपायनम् उपहृत्य समर्प्य । पादावनेजनीर् अपः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ अङ्ग-सङ्गानन्तरम् । अस्य विप्रस्य ॥२०-२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ चिर-परिरम्भणानन्तरम् एव उपवेश्य इति भयादिना अनुपविशन्तं बलाद् आकृष्य स्वयम् उपवेश्य इत्य् अर्थः । स्वयम् इत्य् अस्य यथा-योग्यं परैर् अप्य् अन्वयः । अन्यत् तैर् व्याख्यातम् ।
तत्र किञ्चिद् उपायम् आदौ समर्प्य इत्य् अर्थः । यद् वा, उत्तम-पूजोपकरणम् उपहृत्य तत्-प्रकारम् एवाह—अवनिज्य इत्य्-आदिना द्वयेन । अथ वा, स्वयम् एवानीय यतः सख्युर् अवनिज्य स्वर्ण-शृङ्गारेण श्री-रुक्मिण्या दत्तेन जलेन प्रक्षाल्य भगवान् साक्षात् परमेश्वरो\ऽप्य् अग्रहीत् । किम् अर्थम्? लोक-पावनस् तच्-छिक्षणेन लोकान् पावयितुम् इति । यद् वा, लोक-पावनो\ऽप्य् अग्रहीत् । कुतः? भगवान् ब्रह्मण्य-देवत्वाद्य्-अशेष-गुण-प्रकटन-पर इत्य् अर्थः । हे राजन्न् इति श्री-भगवतस् तादृश-व्यवहारेण प्रेम-विवशत्वात् । यद् वा, प्रीत्या राजमानः सत् । दिव्येन गन्धेन अगुर्व्-आदि-साधित-सुगन्धि-द्रव्य-विशेषेण चन्दनादिभिश् च सहैव पिष्टैः । यद् वा, दिव्य-गन्धेन सहितैः पिष्ट-चन्दनादिभिर् विशेषेण भक्ति-च्छेदादिना अलिम्पत् ॥२०-२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ चिर-परिरम्भणानन्तरम् एव उपवेश्य इति भयादिना अनुपविशन्तं बलाद् आकृष्य स्वयम् उपवेश्य इत्य् अर्थः । स्वयम् इत्य् अस्य यथा-योग्यं परैर् अप्य् अन्वयः । समर्हणं पूजा-द्रव्यं स्वयम् एव उपहृत्य, ततः स्वयम् एव अवनिज्य इत्य्-आदि ।
भगवान् साक्षात् परमेश्वरो\ऽप्य् अग्रहीत् । किम्-अर्थं ? लोक-पावनः तच्-छिक्षणेन लोकान् पावयितुम् इति । यद् वा, भगवान् अपि लोक-पावनो\ऽप्य् अग्रहीत् । अहो विनयादि-सौशील्यम् इति भावः। व्यलिम्पद् इत्य् अर्धकम् । दिव्येन गन्धेन अगुर्व्-आदि-साधित-सुगन्धि-द्रव्य-विशेषेण चन्दनादिभिश् च सहैव पिष्टैः विशेषेण भक्ति-छेदादिना अलिम्पत् तम् इति शेषः ॥२०-२१॥ ।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.२२ ॥
धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा ।
अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गां चेति व्याख्यातम् अक्रूरोपाख्याने ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धूपादिभिश् च मुदा अर्चयित्वा यतो मित्रं सखायं ताम्बूलं गां च आवेद्य समर्प्य, भोजनं च यथा-समयं स्नपन-पूर्वकं भावि । तच् च भुक्त्वा [भा।पु। १०.८१.१२] इत्य्-आदिनाग्रे वक्ष्यत्य् एव ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्चित्वा अर्चयित्वा परमान्नादि-भोजनं च यथा-समयं स्नपन-पूर्वकं ज्ञेयम् । तच् च भुक्त्वा [भा।पु। १०.८१.१२] इत्य्-आदिनाग्रे वक्ष्यत्य् एव ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पादावनेजनीर् अपः ॥२०-२२॥
॥ १०.८०.२३ ॥
कुचैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् ।
देवी पर्यचरत् साक्षाच्23 चामर-व्यजनेन वै ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धमनिभिः शिराभिः सन्ततं व्याप्तम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिरा नाडी धमनी तु शिरा हट्ट विलासीन्यस् तु योषिति इति मेदिनी । शैब्या भद्रा । अत्र “पर्यचरत् साक्षात्” इति पाठ एव श्रीधर-सम्मतः । अग्रे पर्यङ्क-स्थां श्रियं हित्वा [१०.८०.२६] इत्य् अत्र तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः [भा।पु। १०.८१.१०] इत्य् अत्र च । श्री-पदोपादानात् स्वामिभिः शैब्या-परत्वेन व्याख्यानाच् च । अत एव चक्रवर्तिना गृहं व्यष्ट-सहस्राणाम् इत्य् अत्र रुक्मिणी-गृहम् इति व्याख्याय तत्र पाद्मोत्तर-खण्ड-वाक्यं प्रमाणत्वेन न्यस्तम् । स तु रुक्मिण्य् अन्तः-पुर-द्वारि क्षणं तूष्णीं स्थितः इति बल-बोधिन्यां शैब्येति पाठम् अङ्गीकृत्य शैब्या लक्ष्मणेति व्याख्या श्री-पदं लक्ष्म्य्-अंश-भूत-लक्ष्मणा-परत्वे तत्र च शैब्या-शब्दस्य लक्ष्मणा-पर्यायत्वे मानम् अन्वेष्यम् । अशीतितमाध्याये शैब्ये रोहिणि लक्ष्मणे [भा।पु। १०.८३.६] इत्य् अत्र शैब्ये मित्रविन्दे इति पर्यायालेखनात्-परस्पर-विरोधो विवेचनीयः सुधीभिर् इति । अतः शैब्येति पाठो\ऽशोभनः प्रतिभाति ॥२३-२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुचेलम् इति वस्त्राप्रदानं सूचयत्य् एव, तच् च सकारणम् अग्रे व्यक्तं भावि । मलिनत्वादिकं च दारिद्र्येण तैलोद्वर्तनाद्य्-अभावाद् एव । विशेषणैश् चैभिः श्री-रुक्मिण्या परिचरायोग्यता तस्योक्ता । एवं तेषां यथोत्तरं श्रैष्ठ्यम् । तथापि, किं च, देवी जगत्-पूज्यापि, किं वा, रूप-गुणादिभिर् विद्योतमाना, पर्यचरत्, यतो भैष्मी श्री-भगवद्-अर्थं कन्यात्वेऽपि त्यक्त-बन्धु-वर्गादिका परमात्म-पतिव्रतेति भावाः । वै प्रसिद्धौ ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुचेलम् इति । वस्त्राप्रदानं सूचयति । तच् च सकारणम् अग्रे व्यक्तं भावि मलिनं विवर्णम् इत्य्-आदिकं शीतादि-दुःखेनैव एभिस् तु विशेषणैः परिचरणीयत्वायोग्यता तस्योक्ता । एवं तेषां यथोत्तरं श्रेष्ठ्यं तथापि पर्यचरत्, का? या साक्षात् स्वयम् एव देवी पट्ट-राज्ञी श्री-रुक्मिणीत्य् अर्थः । इति श्री-भगवद्-वृत्तस्य अपि परम-ब्रह्मण्यत्वं दर्शितम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : देवी पर्यचरच् छैव्येत्य्-आदि । देवी रुक्मिणी । कीदृशी ? शैब्या । शिवं कल्याणं तस्य समूहं शैवम् । तत्र साधुः शैब्या । नयथोत्तराध्याये—तावच् छ्रीर् जगृहे हस्तं [भा।पु। १०.८१.१०] इत्य् अस्यासङ्गतिः । वस्तुतस् तु श्री-रुक्मिण्य् एवैकतमं गृहम् इति च तस्या एव गृहस्य प्राधान्यम् ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साक्षात् देवी रुक्मिणी शैब्येति काचित्कः पाठः पाद्मोत्तर-खण्ड-सम्मतः ॥२३॥
॥ १०.८०.२४ ॥
अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना ।
विस्मितोऽभूद् अति-प्रीत्या अवधूतं सभाजितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवधूतं मलिनम् ॥२४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अमल-कीर्तिनेति । साधु-वर्ग-पूज्यत्वेनावधूत-सभाजनानर्हतोक्ता । तथापि किं च कृष्णेन साक्षात्-भगवताप्य् अति-प्रीत्या परमात्म-प्रेम्णा सभाजितं दृष्ट्वा, जन इति वर्गापेक्षयैकत्वं, अवधूतम् इति तैर् व्याख्यातम् एव । यद् वा, गार्हस्थ्येऽपि तल्-लिङ्गादर्शनात् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अवधूतं श्री-कृष्णेन सभाजितं दृष्ट्वा ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमल-कीर्तिना ततः प्रभृति श्री-दाम-परिचरण-रूपा कीर्तिः सुदाम-दारिद्र-भञ्जन-रूपं नाम चाभूत् अवधूतं मलिन-वेशम् ॥२४॥
॥ १०.८०.२५ ॥
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मयम् आह—किम् अनेनेति द्वाभ्याम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् अनिर्वचनीयम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भिक्षुणा याचकेन । श्रिया धनादि-सम्पत्त्या हीनेन । अतो दरिद्रेणास्मिन् लोके सर्व-जन-मध्ये गर्हितेनाधमेन च, निकृष्टेनेति पुण्य-योग्यता निरस्ता । एवं विशेषणानाम् एषां यथोत्तरं श्रैष्ठ्यम् । अनेनापि किं कतरत् पुण्यं सुकृतं परम्-जन्मनि लोकेऽस्मिन्न् इत्य् अस्यात्रैव वान्वयः । अस्मिन् मर्त्य-लोके जन्मनि वा, कृतं किम् इति तादृश-पुण्यासम्भवात् । ज्ञानं च सद् वयम् अपि तद् एव करवामेति भावः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रिया सम्पत्त्या हीनेन भिक्षुणा याचकेन अतो\ऽस्मिन् लोके गर्हितेन ततश् चाधमेन निकृष्टेन इति पुण्य-योन्यता निरस्ता ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विस्मयम् आह—किम् अनेनेति द्वाभ्याम् । अधम-वेषत्वाद् अधमेन ॥२५-२६॥
॥ १०.८०.२६ ॥
योऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः ।
पर्यङ्क-स्थां श्रि24यं हित्वा परिष्वक्तोऽग्रजो यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सम्भृतः संमानितः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रियं श्य्रंश-भूतां शैब्याम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असौ, अयम् अधुना साक्षात् एवेत्य् अर्थः । त्रिलोक-गुरुणा श्री-ब्रह्मादि-पूयेनापीति गर्हिताधमस्य श्रियो नितरां वासो यस्मिन् वास-स्थानं वा तेनापीति च श्री-हीन्डेः सम्माननानर्हतोक्ता । अहो आस्तां वा विप्रत्वादिना सम्माननं, परिष्वङ्गं तु ईदृशं नार्हत्य् एवेत्य् आशयेनाह—प्रियां **पर्यङ्क-**स्थाम् अपि हित्वा परिष्वक्तः । तच् च महादरेण परमात्म-स्नेहेन चेति सूचयति—यथाग्रज इति । गद-प्रद्युम्नादिषु तादृशस्यादरस्य चाभावाच् छ्री-बलदेवोपमा । पाठान्तरे महिषी-वर्ग-श्रेष्ठां श्री-रुक्मिणीम् अपि । अन्यत् तैर् व्याख्यातम् । यद् वा, सम्मतः स्वीकृतः । तद् एवाह—पर्यङ्कस्थाम् इति । अन्यत् समानम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असौ अयम् अधुना साक्षाद् एव इत्य् अर्थः । त्रिलोक-गुरुणा श्री-ब्रह्मादि-पूज्येनापीति गर्हिताधमस्य श्रियो नितरां वासो यस्मिन् तेनापीति च श्री-हीनादेः सम्मानतान् अर्हतोक्ता अतः आस्तां वा विप्रत्वादिना सन्माननं परिष्वङ्गं त्वीदृशं नार्हत्य् एवेत्य् आशयेनाह—प्रियां श्री-रूपां **पर्यङ्क-**स्थाम् अपि हित्वा परिष्वक्तः श्रियम् इति तु पाठो\ऽनुवृत्तः परिष्वङ्गश् च महादरेण परम-स्नेहेन चेति सूचयति यथाऽग्रज इति तद् इदं श्री-मद् अन्तःपुर-जन-वचनम् इति युक्तम् एव अन्येषां श्री-भगवतस् तथा-विधाने तु नायुक्तताभानम् इति तद्-वचनत्वेनोक्तम् ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.२७ ॥
कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः ।
आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतोर् वसतोः । गृह्य गृहीत्वा ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आत्मनोर् निजयोः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुर-जन-विस्मयापनोदार्थम् इव तत्त्वतस् तस्य सुखार्थं स्व-स्नेह-भरं प्रकाशता । किं वा, सख्य-स्वभावाद् एव तेन सह सङ्गम्य कर-ग्रहण-परम्कं पूर्वाः प्रिय-वार्ताः श्री-भगवता कथिता इत्य् आह—कथयाञ्चक्रतुर् इति । आत्मनोर् गाथाः परमात्माद्भुतत्वेन कविभिर् गीततया निबद्धा लोक-प्रसिद्धा वा वार्ताः । गुरोः कुले गृहे । तथा च विश्वे—कुलं जन-पदे गृहे इत्य् आदि । ललिताः सर्व-लोक-मनोहराः, परस्परं करौ गृहीत्वेति । सख्येति सख्येनात्यन्त-स्नेहात् कथने श्री-भगवतः प्राधान्येऽपि कथयाञ्चक्रतुर् इति साम्येनोकिर् विप्रस्याप्य् अग्रे प्रतिवचनात् । किं वा, अनयैव तस्यात्मनो वा प्रीत्य्-अर्थं मध्ये मध्ये किञ्चिद् अनुक्त्यानुमोदने बलाच् छ्री-भगवतैव तस्य प्रवर्तनं ऊह्यम् । मिथो हस्त-ग्रहणं च श्री-भगवतैव तं प्रति परमात्माग्रहेण स्व-कर-ग्राहणात् । किं वा, श्री-भगवता प्रकाशितेन स्नेह-भरेण तस्य वैवश्यापादनात् । इति प्रेमोद्रेकेण सम्बोधयति—राजन्न् इति ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरजन-विस्मयापनोदनार्थम् इव तत्त्वतो मिथः सख्य-सुखोदयार्थं स्व-स्नेहभरं प्रकाशयन् कर-ग्रहण-पूर्वकं पूर्वाः प्रियवार्ताः गुरोः कुले गृहे तथा च विश्वः कुलं जनपदे गृहे इत्य्-आदि ललिताः सर्व-लोक-मनोहराः परस्परं करौ गृहीत्वेति श्री-भगवता व्याञ्जितेन सख्येन तस्यापि सख्योदयात् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कथयाञ्चक्रतुर् इति विप्रस्यापि मध्ये मध्ये तत्-पूरणाद् इति ज्ञेयम् ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गृह्य गृहीत्वा ॥२७॥
॥ १०.८०.२८ ॥
श्री-भगवान् उवाच—
अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् ।
समावृत्तेन धर्म-ज्ञ भार्योढा सदृशी न वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भार्या ऊढा परिणीता न वेति गृहस्थ-लिङ्ग-दर्शनाद् भोगादर्शनाच् च संशयाद् इव प्रश्नः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहस्थ-लिङ्गम् उष्णीश-बन्धनादि । भुज्यन्ते इति भोगा वस्त्र-भूषणादयः ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपि किं? अनेन लब्ध-दक्षिणत्वादेः सर्वस्यापि प्रश्नो ज्ञेयः । हे ब्रह्मन्न् इति मया सह सर्वे वेदाः साङ्गा भगवता परम्म् अधीता एवेति भावः । सदृशी रूप-गुणादिनात्म-तुल्या । हे धर्मज्ञेति समावर्तनानन्तरम् अनाश्रमित्व-दोष-परिहारार्थम् अवश्यं भार्या परिग्राह्येति धर्मं भवान् वेत्त्य् एवेति भावः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्री-भगवानुवाचेति प्राचुर्यात् अपि किम् अनेन **लब्ध-**दक्षिणत्वादेः सर्वस्यापि प्रश्नो ज्ञेयः । हे **धर्म-**ज्ञेति यदि समावर्तनं कृतं तर्ह्य् अनाश्रमित्व-दोष-परिहारार्थम् अवश्यं भार्या प्रतिग्राह्येति धर्मं भवान् वेत्त्य् एवेति भावः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भार्या ऊढा परिणीता न वेति गृहस्थ-लिङ्ग-दर्शनाद् भोगादर्शनाच् च संशयाद् इव प्रश्नः । हे धर्मज्ञेति । यदि समावर्तनं कृतं तर्ह्य् अनाश्रमित्व-दोष-परिहारार्थम् अवश्यं भार्या परिग्राह्येति धर्मं भवान् वेत्त्य् एवेति भावः ॥२८॥
॥ १०.८०.२९ ॥
प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा ।
नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रतिषेधाद् उद्वाहम् अनुमतं मत्वाह—प्राय इति । तर्हि ते चित्तं नूनम् अकाम-विहतं कामैर् विहतं न भवतीति मे विदितम् । तथा हि, धनेषु वस्त्रादिषु नैवाति-प्रीयसे । हे विद्वन्न् इति । विदुषस् तवैतद् युक्तम् इति भावः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अप्रतिषेधान्मया विवाहो न कृत इत्युत्तराप्रदानात् इति भाव इति-न हि संसारतत्त्वविदो विषयासक्ताभवन्तीत्याशयः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि संशय-लोपात् किं प्रश्नेन ? तत्राह—प्राय इति । तदेत्य् एतद् एव, तर्हीति तैर् व्याख्यातम् । अतोऽयम् एव पाठस् तत्-सम्मतः । हि एव, विदितम् एव । प्राय इत्य् अनेन तथा वि-शब्देनाति-शब्देन च कदाचित् किञ्चित् काम-हतत्वं किञ्चित् प्रीतिं च सूचयति । अत एव संशयेन प्रश्नः । इति सम्यक् कामाद्य्-अभावे सति समावर्तनानन्तरम् अविवाहेऽप्य् अनाश्रमित्व-दोषो निरस्तः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अकाम-विहतम् इति । धनेषु नातिप्रीयस इति चापाततस् तददाने व्याजार्थं तत्र प्राय इत्य् अनेन वि-शब्देनाति-शब्देन च वासनाया मूर्च्छितत्वेन च स्थितिं सूचयित्वा कामम् अपि दास्यामीति निगूढम् आश्वासितं च अन्यत्-तैः तत्र तर्हीति चूर्णिकार्थम् अनुसृत्य अध्याहृतं तथा हीति तथेत्य् अनेन हि-शब्दस्यान्वयात् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वया लज्जया सम्प्रत्य् अवचनाद् अपि सर्वम् अहम् अज्ञासिषम् एवेत्य् आह—प्राय इति । सम्प्रति गृहस्थस्यापि ते चित्तम् अकाम-विहतं, न कामैर् विहन्तुं शक्यम् । हे विद्वन् ! विदितम् अत एव अधुना तानि तानि न दीयन्ते प्राय इत्य् अतीति पादाभ्यां भार्यानुरोधेन धनादिषु प्रीयसे चेत्य् अत एव पश्चात् तानि दास्यन्ते चेति भावः । पश्यत भोः किलायं गृहस्थोऽप्य् अतिनिस्पृहः परस्मात् किम् अपि न कामयते बलाद् दत्तम् अपि न गृह्णातीति द्वारकायां तत्-प्रतिष्ठा-ख्यापनार्थम् एव तस्य सकामत्वं न प्रकटीकृतं नापि किञ्चित् प्रकटं दत्तं चेति ज्ञेयम् ॥२९॥
॥ १०.८०.३० ॥
केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः ।
त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : काम-हतत्वाभावे किं गृह-धर्म-क्लेशेनेत्य् आशङ्क्याह—केचिद् इति । दैवीर् ईश्वर-मायारचिताः प्रकृतीर् विषय-वासनास् त्यजन्तः । कामैर् अनाकृष्ट-चेतसाम् अपि कर्म-करणे दृष्टान्तः—यथाहम् इति । लोक-सङ्ग्रहं लोकस्य सङ्ग्रहो ग्रहणं यथा भवति तथाहम् ईश्वरोऽपि कर्माणि यथा करोमि तद्वत् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयम् आशङ्क्य समाधत्ते—कामह-तत्वेत्य्-आदिना ।
यदि ह्य् अहं न वर्तेयं जातु-कर्मण्य्-अतन्द्रितः । > मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ इति श्री-मुखोक्तेः > ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किन्तु सम्यक् काम-हतत्वाभावेऽपि केषाञ्चिद् विषय-वासना-क्षयणार्थं विवाहो युक्त इत्य् आह—केचिद् इति । विवेकिनः कर्माणि गृहस्थ-धर्मान् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कर्माणि गृहस्थ-धर्मान् केचित् कामैर् अहत-चेतसः केचित्तु दैवीः प्रकृतीस् त्यजन्तः इत्य् आवृत्त्यान्वयः । ननूत्तरः पक्षः सम्भवतु पूर्वस् तु न भवेद् इत्य् आशयाह—यथाहम् इति । लोकस्य सङ्ग्रहो येन तादृशं यथा स्यात् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : केचित् कामैर् अहत-चेतसः, केचित् तु दैवीः प्रकृतीस् त्यजन्त इत्य् आवृत्त्यान्वयः ॥३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वम् अतिविरक्तोऽप्य् अन्य इव सन्न्यासं नाकरोर् इत्य् अत्र तत् त्वाम् अहं जाने इत्य् आह—केचिद् विरक्ताः कामैर् अनाकृष्ट-चेतसोऽपि कर्माणि कुर्वन्ति, केचिच् च दैवीः प्रकृतीर् देव-निर्मितान् चित्तस्य स्वभावान् दुर्लक्ष्य-सूक्ष्म-विषय-वासनात्मक-मालिन्य-मयान् त्यजन्तस् त्यक्तुं च कर्माणि कुर्वनि । तत्र पूर्वेषां दृष्टान्तः यथाहं लोक-सङ्ग्रहं यथा स्यात् तथा कर्म करोमीति ॥३०॥
॥ १०.८०.३१ ॥
क25च्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः ।
द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नौ आवयोः । यतो गुरोः । विज्ञेयं परमात्म-तत्त्वम् । तमसः संसारस्य ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पारं परमात्मानं यस् तस्य पारे\ऽभिविराजते परः इत्य्-आद्य् उक्तेः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मौनं सम्मति-लक्षणम् इति न्यायेन तत्-स्वीकारम् आलक्ष्य मुख्य-हेतु-परम्-गाथा एव कथयितुम् आरभमाणो वक्ष्यमाण-कष्त-वार्ताया दोष-परिहारार्थं सुख-हेतुत्व-बोधनार्थं चादौ गुरु-तत्-सेवादि-माहात्म्यम् आह—कच्चिद् इति चतुर्भिः । नौ वासम् । हे ब्रह्मन्न् इति स्मरण-योग्यतोक्ता । विशेषणानुभव-विश्वासादिना ज्ञाता । विज्ञेयम् इति वि-शब्देन भगवत्-तत्त्वम् अभिप्रेतम् । अनुक्तं तैर् अपि26 व्याख्यातम् । परमात्मत्त्वम् इति, अतोऽनायासेनावान्तर-फलतया संसारं तरति । किं वा, तमसः सर्व-दृश्सर्व-पार-समाप्ति-श्री-वैकुण्ठ-लोकं लभत इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मौनं सन्मति-लक्षणम् इति न्यायेन तत्-स्वीकारम् आलक्ष्य सख्य-हेतु-पूर्व-गाथा एव कथयितुम् आरभमाणो वक्ष्यमाण-कष्टवार्तायां दोष-परिहारार्थं सुख-हेतुत्व-बोधनार्थं चादौ गुरु-तत्-सेवादि-माहात्म्यम् आह—कच्चिद् इति चतुर्भिः । नौ वासं विज्ञाय अनुभूय विज्ञेयम् इति वि-शब्देन श्री-भगवत्-तत्त्व-मभि-प्रेतम् । तमसः सर्वज्ञानदुःख-मयतः प्रकृतेः पारं श्री-वैकुण्ठ-लोकं लभत इत्य् अर्थः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : माम् अतिनीचम् अपि यद् एवं संमानयति, तन् मां परिचित्यान्यस्य कस्यचिद् भानेन वेति मनसि सन्दिहानस्य तस्य सन्देहापगमार्थं **गुरु-**कुल-वासं स्मारयति—कच्चिद् इति द्वादशभिः । नौ आवयोः । विज्ञेयं भगवत्-तत्त्वं तमसः संसारस्य ॥३१॥
॥ १०.८०.३२ ॥
स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः ।
आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रात्म-ज्ञान-प्रदस्य गुरोर् अत्यन्तं पूज्यत्वं वक्तुं पुरुषस्य त्रीन् गुरून् आह—स व इति । इह संसारे यत्र सम्भवो जन्म-मात्रं स पिता तावद् आद्यः प्रथमो गुरुः पूज्यः । कर्म-विद्या-प्रदं गुरुम् आह—द्विजातेः सत्अः पुंसः सत्-कर्मणां यत्र सम्भवः । उपनीय वेदाध्यापक इत्य् अर्थः । स द्वितीयो गुरुः, यथाहम् ईश्वरस् तथा प्रथमाद् अपि पूज्य इत्य् अर्थः । ब्रह्म-विद्या-प्रदं गुरुम् आह—आश्रमिणां सर्वेषाम् अपि ज्ञान-दो यः, स तु साक्षाद् अहम् एवेति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तावत् । इत्य् अर्थ इति-आचार्य इति भावः । इत्य् अर्थ इति—
उत्पादक-ब्रह्म-दात्रोर् गरीयान् ब्रह्मदः पिता । इति मात्स्ये ॥
ब्रह्म गायत्री वेदो वेति ज्ञेयम् । अहम् एवेति—ददामि बुद्धि-योगं तं येनमाम् उपयान्ति ते [गी। १०.१०]। इति गीतोक्तेः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, स एव, प्रसिद्ध इति वा । यत्र यतः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स वै स एव यत्र निमित्ते अस्य त्रिरावृत्त्यान्वयः निमित्ते द्विजातेः सत इति तृतीयस्याप्य् अपेक्षितत्वात् यतः ज्ञानदो मत्-तत्त्वोपदेशकः स्वतो\ऽप्य् उत्तमे ज्ञेयान्तरे सति गुरोस् तुल्यत्वम् एवोच्येत अत एव स्वपरितोष एव फलत्वेनोपसंहरिष्यते नाहम् इत्य्-आदिना ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननूत्तरः पक्षः सम्भवतु नाम, पूर्वं तु न सम्भवेद् इत्य् आशङ्क्याह—यथाहम् इति । स वईत्य् अत्रापि यत्रेत्य् अस्य त्रिर्-आवृत्तिः कार्या । यत्र सम्भवः, यत्र निमित्ते द्विजातेः सतः, यत्रैव च निमित्ते सत्-कर्मणां सम्भव इति ॥३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इह खलु पिता उपनेत्य मदीय-तत्त्वोपदेष्टा चेति त्रय एव गुरवो भवन्ति । तेष्व् अन्त्य एवातिपूजनीय इत्य् आह—स वा इति । इह संसारे यत्र सम्भवो जन्म-मात्रं स आधान-कर्ता पिता तावद् आद्यो गुरुः । यत्र द्विजातेः सत्अः पुंसः सत्-कर्मणां सम्भवः, स उपनेता सावित्र्य्-उपदेष्टा द्वितीयो गुरुः । यस् तु आश्रमिणाम् आश्रमिभ्यश् चतुर्भ्य एव ज्ञानदो मत्-तत्त्वोपदेष्ता, स यथाहं मत्-तुल्यत्वेनातिपूजनीय इत्य् अर्थः ॥३२॥
॥ १०.८०.३३ ॥
नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रमवताम् इह ।
ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतो ज्ञान-प्रदं गुरु-रूपं मामाश्रित्य ये संसारं तरन्ति ते बुद्धिमन्त इत्य् आह—नन्व् इति । हे ब्रह्मन्, ते ननु वर्णाश्रम-वतां मध्येऽर्थ-कोविदाः । इह मनुष्य-जन्मनि, तत्रापि वर्णाश्रमवत्त्वे सति ये मया गुरुणा गुरु-रूपेण वक्त्रा वाचा उपदेश-मात्रेणाञ्जः सुखेनैव भवार्णवं तरन्तीति ज्ञान-प्रदाद् गुरोर् अधिकः सेव्यो नास्तीत्य् उक्तम् ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुरूणां मध्ये ज्ञानद एव श्रेष्ठो\ऽतो हेतोः । तत्रापि मनुष्य-जन्मन्य् अपि ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निश्चये । हे ब्रह्मन्न् इति ब्रह्मानुभवेन वेदार्थ-तत्त्व-ज्ञानेन तत् तवैव सुसिद्धम् इति भावः । अञ्ज इति विज्ञेय-विज्ञानेन भक्ति-सुसिद्ध्यावान्तर-फलतया भवार्णव-तरणस्य सुख-सिद्धेः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु निश्चये अञ्ज इति विज्ञेय-विज्ञानेन भक्तेः सिद्ध्या अवान्तर-फलतया भवार्णव-तरणस्य सुख-सिद्धेः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तृतीय-गुरुर् एव संसारात् तारयतीत्य् आह—ननु निश्चितम् एव वर्णाश्रमवतां मध्ये ते एवार्थ-कोविदाः, ये मया मद्-रूपेण मत्-तत्त्वोपदेष्टा गुरुणा वाचा मन्-मन्त्रोपदेश-मात्रेणैवाञ्जः सुखेनैव भवार्णवं तरन्ति ॥३३॥
॥ १०.८०.३४ ॥
नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव तद्-भजनाद् अधिको धर्मश् च नास्तीत्य् आह—नाहम् इति । इज्या गृहस्थ-धर्मः । प्रजातिः प्रकृष्ट-जन्म उपनयनम्, तेन ब्रह्मचारि-धर्म उपलक्ष्यते, ताभ्याम् । तथा तपसा वाणप्रस्थ-धर्मेण । उपशमेन यति-धर्मेण वा । अहं परमेश्वरस् तथा न तुष्येयं, यथा सर्व-भूतात्मापि गुरु-शुश्रूषया ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत एव ज्ञानप्रद-गुरोर् मद्-रूपत्वाद् एव । मद्-भजनाज्-ज्ञानद-**गुरु-**सेवातः सर्व-भूतात्मापि **गुरु-**सेवातो\ऽहं यथा तुष्ये तथा नान्यैर् धमैर् इति । **गुरु-**सेवा कृता येन तेन सर्वं कृतं शुभम् । इत्य्-आदि-पुराणाद्-**गुरु-**सेवैव परो धर्मो\ऽतोन्यथा **सर्व-**धर्म-वैयर्थ्यं स्याद् इति भावः ॥
नित्यं कार्या गुरोः सेवावसरे कार्य-सङ्कुलैः । > निजोपाधिक-धर्माणां साङ्गतावाप्तये नृभिः ॥ > आषाढ्यां पौर्णमास्यां सा कार्या पूजा प्रयत्नतः । > आषाढ्यां पौर्णमास्यां च व्यास-पूजाकृतो नराः ॥ > सुविद्या-धन-सम्पत्तिं लभन्ते चाक्षयां सदा । > आषाढ्यां च नर-श्रेष्ठ व्यासार्चाविमुखो नरः ॥ > याम्यैः पाशैः परिवृतः कष्टं प्राप्नोति दारुणम् । > कामाल्-लोभात्-तथा मोहाद्-व्यासार्चां न करोति यः । > तस्य सांवत्सरो धर्मो नाशमायाति पाण्डव । > व्यास-पूजा गुरौ कार्या ब्राह्मणे\ऽध्यापके शुचौ ॥ > यद्-वोपनेतरि गुरावलाभे पुस्तकादिषु । > अध्यापके क्षत्रियादौ विप्रे त्यक्त-निजाश्रमे ॥ > सा न कार्या कदाचिच्-च व्यासार्चा शुभम् ईप्सुभिः ॥ > व्यासार्चने पूर्णमासी त्रिमुहूर्ताधिका वरा ॥
त्रि-मुहूर्ताधिका नो चेत्-तदा पूर्वदिने भवेत् । त्यक्त-निजाश्रमे इत्य् उक्तेः कलि-प्रवृत्त नाना-शास्त्रीय-मार्ग-प्रवृत्ते ब्राह्मणोऽपि गुरौ सा न कार्येति भावः । पुस्तकादिष्व् इहादि-पदेन शालिग्रामाक्षत-पुञ्ज-तन्-मूर्त्यादयो ग्राह्या इति ।
धर्मोपदेष्टा सर्वेषां व्यासः सर्व-गुरुर् मतः । > तद् अर्चिते\ऽचिताः सर्वे पितरो गुरवो\ऽमराः ॥
इति सर्वं स्मृतिसारे संहितायां चेह प्रसङ्गाद् उक्तं स्पष्टम् । अलं प्रकृतानुप्रकृतेन ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्व-भूतात्मेति । सर्व-जीवानाम् अन्तर्यामित्वेन तेषां सेवया मत्-सन्तोष-सम्भवेऽपि गुरु-सेवयैव तुष्येयम् । गुरोर् मद्-भक्त-वरत्वात् साक्षाद् मद्-रूपत्वाद् वेति भावः ॥३४॥
**जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-**भूतात्मेति । सर्व-भूतानाम् अन्तर्यामित्वेन तेषां सेवया मत्-संतोष-सम्भवे\ऽपि **गुरु-**सेवया तुष्येयम् इत्य् अतिशय-विवक्षया तां विनान्य-वैयर्थ्यापत्तेश् च मद् आवेशेन साक्षान्-मद्-रूपत्वात् मद्-भक्तवर-रूपत्वाच् चेति भावः । अन्यत्तैः । यद् वा, इज्या मत्-पूजा प्रजातिर्-मद्-दीक्षा तपो मात्-समाधिः उपशमो मन्-निष्ठा तैर् अपीति किन्त्व् अर्थद्वयम् इदं स्व-धर्म-भगवद्-धर्मोपदेष्टृत्वेन यथायथं गुरुद्वय-तारतम्ये ज्ञेयम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मान् मद्-उपदेष्टा गुरुर् एवातिशयेन शुश्रूषणीय इत्य् आह—नाहम् इति । इज्या होमो ब्रह्मचारि-धर्मः । प्रजातिः प्रजा पुत्रोत्पादनं गृहस्थ-धर्मः । ताभ्यां तपसा वनस्थ-धर्मेण उपशमेन यति-धर्मेण वा अहं परमेश्वरस् तथा न तुष्येयं यथा सर्व-भूतानाम् आत्मापि गुरु-शुश्रूषया ॥३४॥
॥ १०.८०.३५ ॥
अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गु27रौ ।
गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, अस्माकं गुरु-शुश्रूषणं किम् अपि दैवाद् एव सम्पन्नं, तत् किं त्वया स्मर्यत इति पृच्छति—अपि न इति । गुरौ निवसताम् अस्माकं यत् किम् अपि वृत्तं तत् । क्वचित् कदाचित् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : घुणाक्षर-न्यायेन जातं गुरु-शुश्रूषणम् आह—किञ्चेति । दैवाद् एवाचिन्तितम् एव । तद् गुरु-सेवनम् । गुरु-दारैर् इति दार-शब्दस्य बहु-वचनान्तत्वात्, तत्-पुरुषस्य परप्रधानत्वाद्-वृत्ताव् अपि बहुत्वम् एवेति ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-गुरु-सेवा-माहात्म्यम् उक्त्वा लोक-शिक्षणार्थं तत्-प्रकारं दर्शयन्न् एकत्रैव दुःकह्-प्राप्त्य्-आदिना सख्यस्य हेतु-विशेषं प्रतिपादयन् दार्ढ्यं बोधयति—अपीत्य् आदिना । नः इति श्री-बलदेवापेक्षया । गुरौ गुरु-गृहे । ब्रह्मन्न् इति पुनः पुनः सम्बोधनेन लज्जा-भयादिकं निरस्यन् सख्यम् एव द्रढयन् स्व-सन्दर्शने मुखम् उन्नमयंस् तं प्रहर्षयति ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-गुरु-सेवामाहात्म्यम् उक्त्वा लोक-शिक्षार्थं तत्-प्रकारं दर्शयन् एकत्रैव दुःख-प्राप्त्य्-आदिना सख्यस्य हेतु-विशेषं प्रतिपादयन् तत्र दार्ढ्यं बोधयति—अपीत्य्-आदिना । न इति श्री-बलदेवापेक्षया पूर्वं सतोर् इति द्विवचनं तु तद् अपेक्षयापि स्वयोर् ऐक्य-व्यञ्जनया तं स्नेहयति स्म, गुरौ गुरु-गृहे ब्रह्मन्न् इति मुहुः सम्बोधनेन लज्जा-भयादिकं निरस्यन् सख्यम् एव दृढयन् स्व-सन्दर्शनाय मुखम् उन्नमयंस् तं प्रहर्षयति ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरौ निवसताम् अस्माकं यद् वृत्तं तत् किं स्मर्यते? ॥३५॥
॥ १०.८०.३६ ॥
प्र28विष्टानां महारण्यम् अपर्तौ सु-महद् द्विज ।
वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपर्तौ अपगते ऋतौ अकाल इत्य् अर्थः । वातश् च वर्षं च तयोः समाहारः । स्तनयित्नवो गर्जितानि चाभवन् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-वर्षाकालम् अन्तरेणेति भावः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रविष्टानां प्रविष्टेष्व् अस्मासु सत्सु । अपर्तौ अवर्षाकालेऽपि । तीव्रं दुःसहम् । हे द्विजेति तद् अद्भुत-वृत्त-स्मरणात् तेन कौतुकाद् वा ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रविष्टानां प्रविष्टेष्व् अस्मासु सत्सु अपर्तु शीतर्तौ प्राप्ते तीव्रं दुःसहम् हे द्विजेति तद् अद्भुत-वृत्त-स्मरणात् तेन कौतुकाद् वा निष्टुरास्तीव्राः स्तनयित्नवो महा-गर्जितं कुर्वाणा विद्युत्पाताश् चाभवन् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपर्तौ अपगत-वर्ष-ऋतौ शीत-काल इत्य् अर्थः । स्तनयित्नवो गर्जनवन्तो मेघाः ॥३६-३७॥
॥ १०.८०.३७ ॥
सूर्यश् चास्तं गतस् तावत् तमसा चा29वृता दिशः ।
निम्नं कूलं 30जल-मयं न प्राज्ञायत किञ्चन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निम्नं कूलं नतम् उन्नतं च स्थानम् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत्-तदा । जलमयं प्रचुर-जलम् । किञ्चन तृण-कण्टकादि च ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च-काराभ्यां द्वयोर् अपि प्राधान्यम्, यौगपद्यात् । निम्नं नीच-स्थानं कूलं च तटम् उन्नतं किञ्चन न प्रकर्षेणाज्ञायत । किञ्चित् सम्यङ् न ज्ञातम् अस्माभिः । यतो जल-मयं जलेन प्लावितम् इत्य् अर्थः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च-काराभ्यां द्वयोर् अपि प्राधान्यं यौगपद्यात् निम्नं नीचं स्थानं कूलं च तटमुन्नतं किञ्चानेन प्रकर्षेणाज्ञायत किञ्चिद् अपि सम्यक् न ज्ञातम् अस्माभिः यतो जलमयं जलेन प्लावितम् इत्य् अर्थः ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.३८ ॥
वयं भृशं तत्र महानिलाम्बुभिर्
निहन्यमाना मुहुर् अम्बु-सम्प्लवे ।
दिशोऽविदन्तोऽथ परस्परं वने
गृहीत-हस्ताः परिबभ्रिमातुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अम्बूनां सम्प्लवो व्यमिश्रणं यस्मिन्न् एकोदके तस्मिन् वन इत्य् अर्थः । परिबभ्रिम भृञ् भरणे इति धातो रूपम् । परि परितो ब31भ्रिम । इड्-आगमश् छान्दसः । भारान् धृतवन्त इत्य् अर्थः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र वने इत्य् अर्थ इति-मार्गादीनां जलाच्छादितत्वेनैकोदकतयाप्रतीयमान इति भावः । इत्य् अर्थ इति-सभारा इतस् ततो अगच्छाम इति भावः ।
गमनस्य परि-शब्दावगतत्वाद् इति ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महद्भिर् अनिलैर् अम्बुभिश् च वृष्टि-जलैर् मुहुर् नितरां हन्यमानाः । अथ अत आतुरा विवशाः सन्तो बभ्रिम बभ्रमिमेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परितो बभ्रिम बभ्रमिम इत्य् अर्थः । भ्रम-धातोष्टिलोप आर्षः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिबभ्रिम परितो भ्रमणं करवाम इन्धन-भारम् अवहाम वा भ्रम-धातोर् भृञ्-धातोर् वा छान्दसः प्रयोगः ॥३८-३९॥
॥ १०.८०.३९ ॥
ए32तद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः ।
अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यद् आतुरान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् इन्धनार्थम् अस्मत्-प्रेषणम् । विदित्वा भार्यातो\ऽवगम्य । आतुरान् क्लिष्टान् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतत् महा-वात-वृष्ट्य्-आदिनास्माकं वने वास-दुःखादिकं ज्ञात्वा, अनुदितेऽप्य् अन्वेषमाण इतस् ततोऽन्व्यिष्यन् । यत आचार्यः सदाचारे साधुः परम-सद्-वृत्त इत्य् अर्थः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् अस्मद्-दुःखं विदित्वा वितर्क्य गुरुर् महान् अपि ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८०.४० ॥
अहो हे पुत्रका यूयम् अस्मद्-अर्थेऽतिदुःखिताः ।
आत्मा वै प्राणिनां प्रेष्ठ33स् तम् अनादृत्य मत्-पराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उवाच कृपया श्लोक-त्रयीम् । यथा वयं कृतार्था इत्य् आह—अहो इति । आत्मा देहः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यया श्लोक-त्रय्या । तमात्मानम् । अनादृत्यागणय ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो खेदे । हे पुत्रकाः ! इत्य् अतिस्नेहात् । अस्माकम् अर्थे प्रयोजनार्थम् । अस्मद् इति भार्याद्य्-अपेक्षया । किं चात्मेति । वै प्रसिद्धौ । मत्-परा बभूविथ ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो इति य आत्मा प्राणिनां प्रेष्ठस् तम् अप्य् अनादृत्य मत्पराः सन्तो यूयम् अस्मद् अर्थे दुःखिता जाता इत्य् अर्थः । मद् इत्य् एकत्वं निर्दिशन्न् अप्य् अस्मद् इति बहुत्वं निर्दिशन् **मत्-**सम्बन्धिष्व् अपि तत्परा जाता इति व्यनक्ति स्म ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उवाच चेत्य् आह त्रिभिः—अहो इति ॥४०॥
॥ १०.८०.४१-४२ ॥ > एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । > यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥ > तुष्टोऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः । > छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गुरोर् निष्कृतं प्रत्युपकारः । सर्वे अर्थाः यस्मात् स आत्मा देहस् तस्यार्पणं विनियोगः ॥४१॥
अयात-यामानि यातो यामो यस्य पक्वस्यान्नस्य तद्-गत-सारं भवति तद्वद् अन्यद् अपि गत-सारं गौण्या वृत्त्या या34तयामम् इत्य् उच्यते । अगत-साराणि छन्दांसि मत्तोऽधीयमानानि भवन्त्व् इत्य् अर्थः ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इयद् एव [एतद् एव-इत्य् अत्र इयद् एव-पाठे\ऽयम् अर्थः] । एतावन्-मात्रम् एव ॥४१॥
गौण्या वृत्त्या-शोणो धावतीतिवत् तत्-तद्-गुण-सम्बन्धाद्गौणी वृत्तिर् भवतीति । इत्य् अर्थ इति-मत्तो\ऽधीतं सकलम् इह परत्र च सफलं भवत्व् इति भावः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो गुरु-सेवा युष्माकम् अधुना सुसम्पन्नेत्य् आह—इयद् इति । हि निश्चये । वै एव । यद् एव । एवाद्य्-अव्यय-त्रयेण तद्-अन्यन् निरस्तम् । अतो वो युष्मान् प्रति तुष्टोऽहम् । हे द्विज-श्रेष्ठाः ! इत्य् अभीष्ट-सिद्धेः । यद् वा, तच् च युष्माकं साद्गुण्येनैवेति भावः । यद् वा, द्विजेषु श्रेष्ठा ये मनोरथा इहास्मिन् लोके परत्र च सत्याः सफलाः सन्तु । कथं ? तद् आह—छन्दांसीति मन्त्रा वेदा वा सर्वे । अन्यत् तैर् व्याख्यातम् ।
यद् वा, इहास्मिन् जन्मनि परस्मिंश् च भवन्तु स्वयं स्फुरन्त्व् इत्य् अर्थः ॥४१-४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो गुरु-सेवा युष्माकं सुसम्पन्नेत्य् आह—इयद् इति ॥४१॥
अतो वो युष्मान् प्रति तुष्टो\ऽहं । हे द्विज-श्रेष्ठाः इत्य् अभिष्ट-सिद्धेः । यद् वा, तच् च युष्माकं साद्गुण्येनैवेति भावः । यद् वा, द्विजेषू श्रेष्ठा ये मनो-रथा इहास्मिन् लोके परत्र च सत्याः साफलाः सन्तु । कथम् ? तद् आह—छन्दांसीति । मन्त्रा वेदा वा सर्वे अन्यत् तैर् व्याख्यातम् । यद् वा, इहास्मिन् जन्मनि परंस्मिश् च भवन्तु स्वयं स्फुरन्तित्य् अर्थः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गुरोर् निष्कृतम् ऋण-शोधनं सर्वेऽर्थाः ममतास्पदम् आत्मा अहन्तास्पदं च तयोर् अर्पणम् ॥४१॥
अयात-यामानि अगत-सारानि । जीर्णं च परिभुक्तं च यातयामम् इदं द्वयम् इत्य् अमरः ॥४२॥
॥ १०.८०.४३ ॥
इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि ।
गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्र35शान्तये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्थं-विधान्य् एवं प्रकाराण्य् अनेकानि वृत्तानि किं त्वया स्मर्यन्त इति शेषः । फलितम् उपसंहरति, गुरोर् इति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फलितं **गुरु-**सेवन-लब्धं वस्तु । प्रशान्तये मोक्षाय । पूर्ण ऐहिकाम् उष्मिक-सुख-भोगेन विरक्तः सन् । एवकारेण—
न यत्-प्रसादायुत-भाग-लेशमन्ये च देवा गुरवो जनाः स्वयम् । > कर्तुं समेताः प्रभवन्ति पुंसस् तम् ईश्वरं त्वां शरणं प्रपद्ये > ॥ [भा।पु। ८.२४.४९] इति सूचितम् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रशान्तये प्रकृष्ट-सुखाय । तेन पूर्णो भवति । किं वा, अनुग्रहेण पूर्ण एव प्रशान्तये भवतीत्य् अर्थः । अस्माभिः कृत्वा किम् अनिर्वृतम् । किन्तु अस्माकं सर्वम् एव सुसम्पन्नम् इत्य् अर्थः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् इत्य् अर्धकम् । गुरोर् इत्य् अपि सर्व-काम-पूर्णो भवति प्रशान्तये प्रकृष्ट-सुख-स्वरूपाय मोक्षाय श्री-भगवद् अनुभवाय च भवतीत्य् अर्थः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनेकानीति वृत्तान्य् अभूवन्न् इति शेषः ॥४३॥
॥ १०.८०.४४ ॥
श्री-ब्राह्मण उवाच—
किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो ।
भवता सत्य-कामेन येषां वासो गुरोर्36 अभूत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्माभिः किम् अनिर्वृत्तम् असम्पन्नं, येषाम् अस्माकं भवता सह वासोऽभूत् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किम् असम्पन्नं ? किन्तु सर्वम् एव सम्पन्नम् एव । सत्य-कामेन सत्य**-**सङ्कल्पेन । गुराव् इति सामीपिकाधारे सप्तमी, गुरु-गृह इत्य् अर्थः॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र हेतुम् आह—देव-देव इत्य् आदि । हे देवानां श्री-ब्रह्मादीनाम् अपि देव ! पूज्येति हे जगतो गुरो ! इति च तथा सत्य-कामेन इच्छा-मात्रेण सद्यः-सिध्यत्-सर्वार्थेन । किं वा, सद्यः-सफल-भक्त-मनोरथकेनेति गुरौ वासायोग्यतोक्ता, तथाप्य् अभूत् ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्क्षेपेण सर्वोत्तरम् आह—किम् इति द्वाभ्याम् । अस्माभिर् हेतुभिः किम् अनिर्वृत्तं ? किन्त्व् अस्माकं भवतां पृष्टम् अपृष्टं सर्वम् एव सुसम्पन्नम् इत्य् अर्थः । तत्र हेतुम् आह—देव-देव इत्य्-आदि-सम्बोधनाभ्याम् । यथा, सत्य-कामेन इति च ॥४४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किम् अनिर्वृत्तम् ? अपि तु सर्वम् एव निर्वृत्तं सुसम्पन्नम् इत्य् अर्थः । सत्य-कामेन सत्य-सङ्कल्पेनेति भवतो गुरुकुल-वासः स्वेच्छाधीनः समिद्-वहने वात-वर्षादि कृच्छ्राम् अपि गुरु-भक्ति-ज्ञापकस्य तव स्वेच्छाधीनम् एवान्यथा वातादीनां का खलु त्वयि शक्तिः, भीषास्माद् वातः पवते [तै।उ। २.८.१] इत्य्-आदि-श्रुतेः ? अस्माकं तु तत्र तत्-साहित्यं महा-भाग्य-फलम् इति भावः ॥४४॥
॥ १०.८०.४५ ॥
यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो ।
श्रेयसां तस्य गुरुषु वासोऽत्यन्त-विडम्बनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भवतस् तु सर्वम् एतद् विडम्बन-मात्रम् इत्य् आह—यस्य इति । छन्दो-मयं वेदाख्यं ब्रह्म । तथा श्रेयसाम् आवपनं तद्-उद्भव-स्थानं देहो मूर्तिर् यस्य, तस्य तव ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् कथनं तु सामान्यत एव, न तु त्वाम् उद्दिश्येत्य् आह—भवत इति । श्रेयसां तपो-यज्ञ-दानादि-फलानाम् । आसमन्ताद् उप्यते बीज-रूपेण सन्तन्यते\ऽन्नादि यत्र तद् आवपनम् । यस्य तवेति अनुकरणं लोक-सङ्ग्रहार्थम् एवेति भावः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव प्रपञ्चयंस् तद्-वासे कारणम् आह—यस्य इति । अनेन तथा विभो ! हे सर्वैश्वर्य-पूर्ण ! इत्य् अनेन च वेदार्थं तत्-फल-श्रेयोऽर्थं च गुरु-गृह-वासः परिहृतः ।
ननु तर्हि किम् अर्थं ? तत्राह—अत्यन्तं विडम्बनम्, ड-लयोर् एकत्वाद् विलम्बनं लोक-शिक्षणाश्रयणम् इत्य् अर्थः । गुरुष्व् इति बहुत्वं श्री-रघुनाथाद्य्-अवतारे श्री-विश्वामित्राद्य्-अपेक्षया । यद् वा, श्री-भगवद्-गुरुत्वेन भक्त्या गौरवात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्रेयसाम् आवपनम् उद्भव-कारणं ब्रह्म देह एका मूर्तिह् । यद् वा, देहे विषये श्री-पुरुषावतारे श्री-ब्रह्मावतारे च वेदस्य तन्-मुखोद्भवत्वात् । अन्यत् समानम् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि ममाध्ययनादिना किं ? तत्राह—यस्य इति । छन्दो-मयं वेद-प्रधानं तद् एक-गम्यम् अत एव श्रेयसां सर्व-पुरुषार्थानाम् उद्भव-स्थानं च यद्-वस्तु तद् एव यस्य देहः अत्यन्त-विडम्बनम् अनुकरण-मात्रं लीला-कौतुकम् एवेति यावत् ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : छन्दो-मयं ब्रह्म एव यस्य तव देहः । श्रेयसां सर्वेषाम् आवपनं क्षेत्रम् ॥४५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
दशमेऽत्राशीतितमः सङ्गतः सङ्गतः सताम् ॥
(१०.८१)**
अथैकाशीतितमोऽध्यायः
सुदाम्नः स्व-पुरी-प्रत्यागमनं तत्र भगवद्-दत्तम् ऐश्वर्यम् उपलभ्य भगवद्-वात्सल्य-गुण-गानम् ।
॥ १०.८१.१ ॥
श्री-शुक उवाच—
स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः ।
सर्व-भूत-मनो-ऽभिज्ञः स्मयमान उवाच तम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
एकाशीतितमे सख्युर् जग्ध्वा पृथुक-तण्डुलान् ।
श्रियं निर्मितवान् इन्द्र- दुर्लभां तु तद्-आश्रमे ॥
सङ्कथयन् सुख-गोष्ठीः कुर्वन् । सर्व-भूतानां मनसोऽभिज्ञः । मद्-अर्थं पृथुकान् आनीय दातुं लज्जित इति जानन्न् इत्य् अर्थः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जग्ध्वा भक्षयित्वा । तद् आश्रये तद्-गृहे । स हरिः । इत्य् अर्थ इति । राज-राजाधिपे भगवति बहु-सु-स्वाद्वन्न् आद्य-शनकर्तरि दरिद्र-जनाशनार्हम् इदम् अन्नम् अहं कथं दास्यामीति व्रीडितो\ऽयं ज्ञातवान् इति भावः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मिन् अध्याये केवलम् अष्टात्रिंश-साङ्ख्यक-श्लोकस्य व्याख्यानं कृतम् ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स निजाशेष-भगवत्ता-प्रकटनेनानिर्वचनीय-माहात्म्यो हरिः सर्वेषां तस्य वा मनोहरो भगवान् । द्विजेषु विप्रेषु मुख्येन तत्-प्रिय-सखत्वाच्-छ्रेष्ठेन सह । अत एव सङ्कथयन्, इत्य् अन्योन्यं प्रहर्षोदय उक्तः । स्मयमानः तावता प्रयत्नेन सन्तोषात् तं ब्राह्मणम् उवाच ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स इति युग्मकम् । सः पूर्व-वर्णित-ब्रह्मण्यत्व-भकत-सौहृद्यादि-गुणः यतो हरिः **सर्वमनो-**हरत्वात्-तन्-नामैवासौ अत एव द्विजेषु मुख्येन तत्-प्रिय-सखत्वाच्-छ्रेष्ठेन तेन सह सङ्कथयन् सङ्कथा-रसेन तमानन्दयन्न् इत्य् अर्थः । तत्र हेतुः, सर्वेति । तत्र हेतुर्-भगवान् इति । तत्र च वैशिष्ट्यं कृष्ण इति सर्व-भूत-मनो \ऽभिज्ञ इति मद् अर्थं दूरस्तावता प्रयासेन पृथुक-तण्डुलाः समानीताः दृष्ट्वापि मद्-वैभवं तद् अर्थम् आनीतं कथं क्षेप्तव्यम् इति प्रेम्णा जलादौ न विक्षिप्ताः सम्प्रत्य् अपि यत्नेनैव रक्षिताः तथापि दातुं लज्जत इति च सङ्कथने जानन्न् इत्य् अर्थः । अत एव स्मयमानः प्रेम्णा तं ब्राह्मणं प्रकर्षेण कौतुक-रस-प्रसाद-सानन्दत्वेन ईक्षन् ईक्षमाणश् च तच् च निरीक्षणेन कदायं दास्यतीत्य् अनुसन्धानेन इत्य् अर्थः । तद्-ग्रन्थि-निरीक्षणेनोपलक्षित इति वा तथापि यतो ब्रह्मण्यः ब्राह्मण-जाताव् एव तावत्-सहजहितः किमुत तादृशीत्य् अर्थः ततो\ऽप्य् अदत्ते प्रहसन् मत्-प्रजावत्या यद् उपायनं दत्तं तद्-भवान् कथं गोपयतीति परिहसन्न् उवाच यतः प्रियं सखायम् इति खलु वाक्यालङ्कारो तद् एवं सतां गतिः स एव सतां परमाश्रय इत्य् अर्थः ॥१-२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्मिन् अध्याये केवलम् अष्टात्रिंश-साङ्ख्यक-श्लोकस्य व्याख्यानं प्राप्यते।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
एकाशीतितमे भुक्त-पृथुको\ऽस्मै परोक्षतः ।
दत्त्वाप्य् अतुल-सम्पत्तिं स्वं मेने ऋणिनं हरिः ॥
सर्व-भूतानाम् अपि किम्-पुनस् तस्य मनसो\ऽभिज्ञ इति मद् अर्थं पृथुकान् आनीयापि दातुं लज्जत इति सहसैव जानन्न् इत्य् अर्थः । स्मयमान इति तवैतत् उपायनम् अहं व्यक्ती-करिष्याम्य् एवेति द्योतयामास तं ब्राह्मणं ब्रह्मण्य इति तस्य ब्राह्मणत्वे स्वयं तस्य भजनीय इत्य् अर्थः । प्रहसन्न् इति मल्-लोभ-नीयमानीतं वस्तु कियन्तं क्षणं त्वं स्वकक्षे निह्रोष्यसीति स्व-प्रागल्भ्य-प्रद्योतकः प्रहासः प्रेम्णा निरीक्षणेनेति प्रेम-पूर्वकं यत् कक्षस्थ-पृथुक-ग्रन्थि-निरीक्षणं तेन उपलक्षितः तं प्रेक्षमाण इति तव् एदं धमनि-सन्ततत्वम् इदं च कुचेलत्वम् अत्रत्य् अजनानां विस्मय-रस-पोषक-मतः-परम् अपि श्वस्तन-प्रहरद्वय-पर्यन्तं स्थास्यति न ततः-परम् इति भावः । सर्वत्र हेतुः सतां गतिर् इति ॥१-२॥
॥ १०.८१.२ ॥
ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।
प्रेम्णा निरीक्ष37णेनैव प्रेक्षन् खलु सतां गतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रहसन् क्ष्वेलीं कुर्वन् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्ष्वेलिङ् क्ष्वेलिस्यात्-सवयोहास्ये इति निरुक्तिः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यतो ब्रह्मण्यो ब्राह्मण-हितकारी किं च, प्रहसन् यतः प्रियम् । सर्व-भूत-मनो\ऽभिज्ञत्वे हेतुः—भगवान् सर्वैश्वर्य-युक्तः, यतः कृष्णः यद् वा, प्रियत्वे हेतुः ब्राह्मणं सहैव वेदार्थ-तत्त्वाभिज्ञम् इत्य् अर्थः । किं च, स्वयं ब्रह्मण्यः प्रहसने हेत्व् अन्तरं-कृष्णः सर्व-चित्ताकर्षक-लीलः । किं च भगवान् सर्व-सद्-गुण-पूर्ण इति । अतः प्रेम्णा यन्-निरीक्षणम् अवलोकनं तेन प्रेक्षन् प्रेक्षमाणः यतः सतां भक्तानां गतिः परमाश्रयः । एतत्-पद्यार्धं न सार्वत्रिकम् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.३ ॥
श्री-भगवान् उवाच—
किम्38 उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् ।
अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भूर्य् एव मे भवेत् ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लज्जया त्व-कथयतस् ताम् अपनुदन्न् आह—अण्व् अपीति द्वाभ्याम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां लज्जाम् । दरिद्रस्य मम भूरि-द्रव्यासत्त्वात् । भवतो महतो\ऽल्पं तुष्टि-करं न स्याद् इति नानीतम् इति चेदाह—आण्वपीति । भक्तैर् भक्ति-युक्तैः प्रेम्णान्तरप्रीत्या । उपाहृतं सम्शङ्कयाह । एतेन-द्रव्य-भूरित्वाभूरित्वे मत्-प्रीतौ न हेतू किन्तु भक्तिर् एवेत्य् उक्तम् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किम् आनीतं तत्-कथय देहि वेति शेषः । हे ब्रह्मन्न् इति । विप्र! स्वाभाविक-वदान्यत्वेन तद्-भवता निह्नितुं नोपयुज्यत इति भावः एवं प्रहसनं वोह्यम् । भक्तैस् तत्रापि प्रेम्णा किं वा, भक्तत्वाद् एव प्रेम्णोपहृतं समर्पितम् । यद् वा, भक्ति-विषयक-मत्-प्रेम्णा भूर्येव भवेत् अभक्तै-रूपहृतं तु न कल्पते योग्यं न समर्थं वा न भवति । पाठान्तरे\ऽपि कथञ्चित् कैश्चिद्-भक्तोपहृतम् अति अर्थः, स एव ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किम् इत्य् अर्धकम् । किमानीतं तत्-कथयेति देहि वेति शेषः । हे ब्रह्मन्न् इति । वेदार्थविदा त्वया मद् अर्थम् आनीतं स्वयं ग्रहीतुं न युज्यत इति स-नर्म-भावः तत्रापि **गृहात्-**पत्नीतः सकाशाद् इति पूर्ववत् किं च, भवान् मित्रोचितं न व्यवहरति यत्-परम-पति-व्रतया पत्न्या-प्रेरितो\ऽपि मां याचितुं सङ्कुचति अहं तु तद् उचित-स्वच्छ-व्यवहारपरः यतो याचित्वैव गृह्णामीति परिहासं परित्यज्य तं प्रोत्साहयन् यथार्थम् आह—अण्वपीति । स्वल्पम् अप्य् अन्नादिकं भक्तैः सादरैः तत्रापि प्रेम-वद्भिः प्रेम्णा यद् वा, भक्त-विषयक-मत्-प्रेम्णा भूर्येव भवेत् तावतैव बहुकाल-तृप्तिः स्याद् इत्य् अर्थः अभक्तैर् उपहृतं मे तोषाय न कल्पते न सम्पद्यते तेषु न किञ्चिद् अपि रोचत इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तैः सादरैः तत्रापि प्रेम-भक्तैः प्रेम्णा ॥३-५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भवता-**गृहाद् इति भवादृशेन प्रियेण मादृशस्य प्रियस्य निकटं प्रति यत्-स्वगृहाच्चिराद् आगमनं तत् किं रिक्त-हस्त्वेन सम्भवेद् इत्य् अनुमानाद् एव विदितम् इति भावः । ननु तदत्य् अल्पम् एवातो\ऽत्र दर्शयितुम् अहं लज्जे इत्य् अत आह अण्वपीति ॥३॥
॥ १०.८१.४ ॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि39 प्रयतात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-दर्शयति-पत्रम् इति । विदुरस्य पत्रं गजेन्द्रस्य पुष्पं शबर्याः फलं रन्तिदेवस्य तोयम् इति एतेषां प्रीत्या समर्पित-पत्रादिभिर् एव तृप्तेः प्रसिद्धत्वात्-तत्-पत्रादि ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अकिञ्चनत्वादिना अन्नाद्य् असद्भावे सति केवलं पत्रादिकम् अपि तोयं वेति विकल्पो\ऽत्रानुसन्धेयः । भक्त्या प्रेम्णा अतः प्रकर्षेण यच्छति अहं स्वयम् एवाश्नामि स्वीकरोमि । कुतः? भक्त्योपहृतं तत्-कुतः? भक्त्या विशुद्ध-चित्तस्य यद् वा, भक्त्यैवोपहृतं स्वीकृतं तद् अश्नामि । तत्र पत्र-पुष्पयोर् अशनायोग्यत्वे\ऽप्य् अशनं भक्ति-सुधासम्बन्ध-बलात् । तोयस्य पेयत्वे\ऽपि तत्-तत् छत्रि-न्यायेन तोयैकाहारापेक्षया वेति दिक् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असद्-भावे सति पत्रादीनां मध्ये यत्-किञ्चिल्-लभ्यते तद् एकम् अपीत्य् अर्थः । अत एव क्रमानुक्तिः भक्त्या प्रेम्णा अतः प्रकर्षेण यच्छति अहं स्वयम् एवाश्नामि स्वीकरोमि कुतः भक्तोपहृतं ततस् तेषाम् उपहरण-मात्रं मद् अशने कारणं न तु मन्त्रादिकम् अपीति भावः । पुनर् उक्ति-भक्तौ स्वलालसां ख्यापयति भक्त्य् उपहृतत्वे हेतुः प्रयतात्मनः विशुद्ध-चित्तस्य कामनान्तरशून्यस्येति यावत् । तत्र पत्र-पुष्पयोर् असनायोग्यत्वम् अप्य् अशननिर् देशस्ते अप्य् अश्नन्न् इवोपभुञ्जे किं वा भोज्याभावे ते अश्नामि फलतोये तु सुतराम् अश्नाम्येवेति गमयति तोयस्य पेयत्वे\ऽप्य् अशननिर् देशस्तोयारवत्-तद् एक-तृप्त्य् अपेक्षया ॥४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु निर्बुद्धिना यदा स्व-गृहादिदं त्व् अदर्थं गृहीतं तद्आ किम् अपि न विचारितम् अधुना तु विमृशामि त्व् अद्भक्षण-योग्यम् इदं न भवत्यतो न दीयत इत्यत आह—पत्रम् इति । अत्र भक्त्य् उपहृतम् इति पौनरुक्त्याद्-भक्त्य् एति न करणे तृतीया किन्तु सहार्थे तेन भक्त्या युक्तो मद्-भक्त-जनो यद्-ददाति तच् च भक्त्यैव उपहृतं चेत्-तर्हय् अश्नामि न तु कस्यचिद् अनुरोधेन इत्य् अर्थः । अयम् अर्थः वस्तु खलु स्वाद्व् अस्वादु वा भवतु किन्तु स्वाद्व् इदम् इति बुद्ध्या मद्-भक्तेन भक्त्यैव यत् दीयते तन्-मे अति स्वाद्व् एव भवेत्-तत्र न मे को\ऽपि विवेकस् तिष्ठतीति अश्नामीति घ्रेयम् अप्य् अनशनीयम् अपि पुष्पम् अहं भक्त-प्रेम-मोहितो\ऽश्नामि ननु देवतान्तर-भक्तस्य भक्त्य् उपहृतं वस्तु किं नाश्नासि यतो मद्-भक्त-जनो यद्-ददातीति ब्रूषे तत्र सत्यं नाश्नाम्येव् एत्य् आह—प्रयतात्मन इति । मद्-भक्त्यैव स शुद्धान्तः-करणो भवति नान्यथा यद् वा, भक्तौ प्रकर्षेण यतमान-मनसः अतस्-तस्यैवाश्नामि नान्यस्य इत्य् अर्थः ॥४॥
॥ १०.८१.५ ॥
इत्य् उक्तोऽपि द्विजस् तस्मै व्रीडितः पतये श्रियः ।
पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मै कृष्णाय । प्रसृतिम् अर्धाञ्जलिम् । अर्धाञ्जलौ तु प्रसृतिः इति यादवः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पृथुकानां प्रसृतिं चतुर्-मुष्टिभिः प्रसृतिस् तत्-परिमितान् चिपिटन् तस्मै प्रयत्नेनापि तदीयेन नायच्छत् । व्रीडितः अतो\ऽवाङ्मुखः सन् व्रीडायां हेतुः—श्रियः पतय इति ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पृथुकानां प्रसृति चतुर्-मुष्टिभिः प्रसृतिः तत्-परिमितान् चिपिटान् तस्मै प्रकर्षेण स्वेच्छया नायच्छत् किन्तु व्रीडितः सन्न् अवाङ्-मुखो बभूव इत्य् अर्थः । व्रीडायां हेतुः श्रियः पतय इति ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पृथुकानां प्रसृतिं मुष्टिचतुष्टयं व्रीडित इत्य् अत्र हेतुह् पतये श्रिय इति श्री-पतिं खलु कठोरविरसांश्चिपिटान् कथं भोजयामीति विमृश्येति भावः । **अवाङ्-**मुख इति भोः प्रभो । मा मां विडम्बय बहुशो याच्यमानो\ऽप्यहं तुभ्यमिदं न दास्यामीति मे सङ्कल्प इति विप्राभिप्रायः गृहादागमनसमये मद्भक्तस्यन् तव यः सङ्कल्पः स नान्यथा भवितुमर्हतीति भगवदभिप्रायः ॥५॥
॥ १०.८१.६ ॥
सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् ।
विज्ञायाचिन्तयन् नायं श्री-कामो माभजत् पुरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्व-भूतानाम् आत्म-दृग् अन्तः-करण-साक्षी ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य सुदाम्नः । अयं सुदामा ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साक्षाद् एव **सर्व-**भूतानाम् आत्म-दृक् यद् वा, अन्तर्याम्य् अपि साक्षाद्-भूतः प्राकट्यं प्राप्तः अतस् तस्य द्विजस्यागमने कारणं धनार्थम् आग्रहेण पत्न्याः प्रेरणं विज्ञाय सम्यग्-ज्ञात्वा अचिन्तयत् । किम्? तदाह—नेत्य् आदिना । **श्री-**कामः सन् पूर्व-जन्मनि मा मां नाभजत् । इति सख्यार्थम् एवाभजद् इति सूचितम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्हि **श्री-**भगवांस् तु किं व्यवसितवान् इत्य् अपेक्षायाम् आह—सर्वेति सार्धैश् चतुर्भिः । साक्षाद् एव सर्वेषां भूतानाम् आत्मनां च दृक् द्रष्टा तद् अन्तर्यामी पुरुषः सो\ऽपि साक्षात्-तुल्यो\ऽन्यूनरूपो यस्य सः विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गी। १०.४२] इति इतर-गृहीताभ्यः **साक्षात्-**प्रत्यक्ष-तुल्ययोः इत्य् अमरः विज्ञाय अपरोक्षतया ज्ञात्वा किम् अचिन्तयत्-तद् आह—नायम् इत्य्-आद्यधिकेनैकेन । **श्री-**कामः सन् पुरा पूर्व-जन्मनि मा मां नाभजन् इति सख्यार्थम् एवाभजद् इति सूचितम् ॥६॥ ।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सर्वेषां भूतानामात्मनां च दृक् द्रष्टा तद् अन्तर्यामी पुरुषः सोऽपि **साक्षात्-**तुल्यो\ऽन्यून-रूपो यस्य सः ॥६-९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्म**-दृक्** अन्तः-करण-साक्षी यद् वा, सर्वेषां भूतानाम् आत्मनां च दृक् द्रष्टा अचीन्तयत् सर्वज्ञो\ऽपि मद्-भक्तस्यास्य कथम् ईदृशं दारिद्र्यम् अभूद् इति तत्-प्रेमम् उग्धश्चिन्तयामास तत्-क्षण एव अधिगत-तत्त्वः स्व-गतम् आह—नायम् इति ।
ननु निष्काम-भक्तस्याप्य् अननुसंहितं फलं सद्-विषय-भोगो भवत्य् एव यद् उक्तं
धर्मस्य ह्य् अपवर्गस्य नार्थो\ऽर्थायोपकल्पते । > नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः । > कामस्य नेन्द्रिय-प्रीतिः [भा।पु। १०.२०.९-१०] इति उच्यते
निष्काम-भक्तस्य स्वभाव-भेदाद् अननुसंहितं फलं द्विधं स्यात् दिष्टम् अदिष्टं च यस्य विषय-भोग-मात्रे एव द्वेषस् तस्य विषय-भोगो नैव स्याद् इति भारतादौ तथा दर्शनाद् अतो\ऽस्य विप्रस्य प्राग्-एतज्-जन्मनि च भोगे द्वेष एव केवलं भार्यानुरोधाद्-भगवद्-दर्शन-लोभाच्-चायात इति ॥६॥
॥ १०.८१.७ ॥
पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया ।
प्राप्तो माम् अस्य दास्यामि सम्पदोऽमर्त्य-दुर्लभाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमर्त्यानां देवानाम् अपि दुर्लभाः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अस्य सख्युः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि कथम् अधुना धनार्थम् आगतः? तत्राह—पत्न्या इति । तत्-**प्रिय-**चिकीर्षायां हेतुः-पतिव्रतायाः इति । ननु तर्हि वदान्यानन्तरं कुतो न गतः? तत्राह—सखेति । मत्-सख्येन मय्य्-एवागमनं योग्यम् इति भावः ।
यद् वा, ननु तथापि स्वयं तद् अर्थम् आगन्तुं नार्हति तत्राह—सखेति । सख्येन ततो मत्-सन्दर्शनम् एव मुख्य-प्रयोजनम् इति । अतो\ऽस्य अस्मै दास्यामि यद् वा, अस्य स्वाधीना एव इत्य् अर्थः । यद् वा, साक्षात्-तं प्रत्यदानेन केवलं तत्-पत्नी-प्रीत्य् अर्थम् एव दानेन सम्बन्ध-मात्रापेक्षया सम्-प्रदानत्वाभावाद् अस्येति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तर्हि कथम् अधुना धनार्थम् आगतः तत्राह—पत्न्या इति । तत्-**प्रिय-**चिकीर्षायां हेतुः—पतिव्रताया इति करुणया धर्म-हानिभिर् याचेतेति भावः । अनेन सो\ऽपि सुष्ठु **पति-**सेवनार्थम् एव तमेनं मद्-याचनार्थं प्रेषितवतीति भावः ।
ननु तर्हि वदान्यान्तरं कुतो न गतः तत्राह सखेति मत्-सख्येन मय्य् एवागमनं योग्यम् अन्यत्र गमने सङ्कोचे च सति सख्यम् एव न स्याद् इति किं च, सख्येन मुख्यतया मत्-सन्दर्शनम् एव प्रयोजनम् इति भावः । अतः अस्य अस्मै दास्यामि यद् वा, अस्य स्वाधीना एव इत्य् अर्थः । यद् वा, साक्षात्-तं प्रत्य-दानेन केवलं तत्-पत्नीप्रीत्य् अर्थम् एव दानेन सम्बन्ध-मात्रापेक्षया सम्प्रदानत्वाभावाद् अस्येति ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव पुनः स्व-गतम् आह—पत्न्या इति । **पति-**व्रताया इत्य् अनेन तस्या अप्य् एतत् प्रेमानुरोधेनैव सकामत्वं स्वतस् तु परम-निःस्पृहत्वम् एवेत्य् अतो\ऽमर्त्यानां देवानाम् अपि दुर्लभाः ॥७॥
॥ १०.८१.८ ॥
इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः ।
स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अति-जीर्णत्वाद् वसनस्य पुनस् तन्-मध्ये चीरेण बद्धान् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-मत्रे वस्त्र-मध्ये । चीरेण वस्त्र-खण्डेन । इदं **चीर-**बद्धं किम् इति **द्वि-**जन्मनो वसनात् कक्षस्थ-सङ्कुचित-जीर्ण-वस्त्रात् स्वयं जहाराददौ ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् ईदृशं सम्यक् चिन्तयित्वेति अदत्तं नोपतिष्ठते इति न्यायेन तत्-सम्पत्-सिद्ध्य् अर्थं स्वयं तदीयं किञ्चित् स्वीकर्तुम् इति भावः । तथा च श्री-रुक्मिणी देवी वक्ष्यति एतावतालम् [भा।पु। १०.८५.१९] इति यद् वा, इत्थं तस्य परम-भक्तत्वं सञ्चिन्त्य स्वयम् एव जहार बलाद्-वृहीतवान् । कथं किम् इदम् इत्य् एवं वदन्न् इति शेषो वो वा । द्विजन्मन इति ब्राह्मण्येन वसनस्य पृथुक-तण्डुलानाम् अपि पावत्र्यादिकं ध्वनितम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् ईदृशं सम्यक् चिन्तयित्वेति अदत्त्वं नोपतिष्ठत इति न्यायेन तत्-सम्पत्-सिद्धय् अर्थं स्वयं तदीयं किञ्चित् स्वीकर्तुम् इति भावः । तथा च श्री-रुक्मिणी देवी वक्ष्यति । एतावतालम् इति । इत्थं तस्य परम-भक्तत्वं सञ्चिन्त्य स्वयम् एव जहार बलात् गृहीतवान् कथं किम् इदम् इत्य् एव वदन् स्वयं जहार बलाद्वृहीतवान् **द्वि-**जन्मन इति ब्राह्मण्येन वसनस्य पृथुक-तण्डुलानाम् अपि पावित्र्यादिकं ध्वनितम् ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतिजीर्णत्वाद्-वसनस्य पुनस् तन्-मध्ये चीरेण बद्धान् स्वयं स्वपाणिना कक्षाद् आकृष्य जहार ॥८॥
॥ १०.८१.९ ॥
नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे ।
तर्पयन्त्य् अङ्ग मां40 विश्वम् एते पृथुक-तण्डुलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अङ्ग हे सखे । मं विश्वं विश्वात्मानं माम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत्**-पृथुक**-तण्डुल-रूपम् अन्नम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु वितर्के । एतद् एवोपनीतम् उपायनत्वेनानीतम्, न च मन्तव्यम् एतद् उपायन-योग्यं न स्याद् इति, मम **परम-**प्रियत्वादित्य् आह—मे **परम-**प्रीतिकरम् इति । तत्र हेतुः—हे सखे! इति सख्या त्वया आनीतत्वाद् इति भावः । न च मन्तव्यम् एतद् अल्पमपीति विश्वस्यापि तृप्तिं जनयितुं समर्थम् इत्य् आह—तर्पयन्तीति । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, मद् अङ्ग-तुल्य-परमात्मीय इत्य् अर्थः । माम् इति किम् उच्यते विश्वम् अपि ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु वितर्के एतद् एव उपनीतं न च मन्तव्यम् एतद् उपायनं योग्यं स्याद् इति मम **परम-**प्रियत्वादित्य् आह मे मम **परम-**प्रीतिकरम् इति तत्र हेतुः—हे सखे इति सख्या त्वयानीतत्वाद् इति भावः । न च मन्तव्यम् एतद् अल्पम् इत्य् अपि विश्वात्मनो मम तर्पकत्वाद्-विश्वस्यापि तृप्तिं जनयितुं समर्थम् इत्य् आह—तर्पयन्तीति । अन्यत्-तैः यद् वा, यतो माम् अतः सुतराम् अपि विश्वं यथा तरोर्-मूल-निषेचनेनेत्य्-आदि-न्यायात् ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विरसमेतन्-मद-योग्यम् इति मा मन्येथा यथो मे परम-प्रीणनं नाप्य् अलं यतस् तर्पयन्तीत्य्-आदि ॥९॥
॥ १०.८१.१० ॥
इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे ।
तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इति वदन्न् एकां मुष्टिं जग्ध्वा । तत्-परा इति । अयं भावः—एतावता पुंस इहामुत्र च मत्-कटाक्ष-विलास-भूतानां सर्व-संपदां समृद्धयेऽलम् । अतः परं द्वितीय-मुष्ट्य्-अदनेन मा माम् एतद् अधीनां कुर्व् इति ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावत् द्वितीय-मुष्टि-ग्रहण-काले । तत्-परा इति भगवद्-एक-निष्ठा । अत्राशयम् आह—अयं भाव इति । एतावता एक-मुष्टि-तण्डुलादनेन अलं पर्याप्तम् ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यावद् आददे तावद् एवेत्य् अतित्वरां बोधयति । अन्यथा भक्षितः स्यात् । परमेष्ठिनः परमेश्वरस्यापि हस्तं जगृहे । अतस् तत्-परा तद्-एकाधीना । यद् वा, परमेष्ठिन इति तावन्-मात्रेणैव सर्व-सम्पत्-सिद्धिः सूचिता । तच् च स्वयम् अभीव्यञ्जितव्यम् एव । अन्यत् तैर् व्याख्यातम् ।
यद् वा, परमेष्ठित्वेन तस्य तादृश-पृथुक-भक्षणायोग्यतोक्ता । किं च, तत्परा सा श्री-रुक्मिण्य् अपि प्रेम्णा तद्-भक्षणं सोढुम् अशक्तेति शीघ्रं हस्तं जगृह इति भावः । अन्यत् समानम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यावद् आददे तावद् एवेत्य् अतित्वरां बोधयति, अन्यथा भक्षिता स्यात् । परमेष्ठिनः परमेश्वरस्यापि हस्तं जगृहे, यतस् तत्-परा । ततः परमेष्ठिनस् तस्य तादृश-कदन्न-भोजनं सोढुम् अशक्तेर् इति भावः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्-परा तादृश-कदन्न-भोजनादि सोढुम् अशक्तेति विवक्षितम् ॥१०-११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जगृहे स्वपाणिना जग्राह मा भुङ्क्ष्व् एति द्योतयामास तत्र स्वस्य सख्युर् गृहाद् आगतम् इदम् अद्भुतं वस्तु स्वयम् एव यदि सर्वं भोक्ष्यसे तदाहं स्व[जा]यातृभ्यः स्व-सपत्नीभ्यः स्व-किङ्करीभ्यः स्वस्मै च विभज्य किं दास्यामि वण्टने खल्व् एकैको\ऽपि पृथुको नायास्यतीति स्वाभिप्रायं श्री-दामानं ज्ञापयामास महा-सौकुमार्यवतो\ऽस्योदर-गताः कठोर-पृथुका अपकरिष्यन्तीति वास्तवं स्वाभिप्रायं स्व-सखीभिर् ज्ञापयामास ॥१०॥
॥ १०.८१.११ ॥
एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये ।
अस्मिन् लोकेऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वत्-तोष-कारणं तव तोषस्य कारणं यथा भवेत्, तथा सर्व-संपत्-समृद्धये । यां भक्तस्य समृद्धिं दृष्ट्वा त्वं तुष्येर् इत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षान्तरम् आह—त्वत्-तोषेति । इत्य् अर्थ इति—यादृश-भक्त-समृद्ध्या तव तोषो भवेत्, तादृशीं त्व् एक-मुष्ट्य्-अशनेनैवाहं सम्पादयिष्यामीति भावः ॥१०-११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उवाच च-यद् वा, कथं जगृहे ? तदाह—एतावतेति । एक-मुष्टि-भक्षणेनैव पुंसस् त्वद्-भकस्य पुं-मात्रस्यैव वा सर्वासाम् एव
सम्पदां विभूतीनां समृद्धये विवृद्धये अलं पर्याप्तं तत्-परिपूर्णताभूद् इत्य् अर्थः । कुतः? हे विश्वस्य आत्मन् ईश्वर! **त्वत्-**प्रभावाद् इति भावः । अथवेति समुच्चये । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, एतावता द्वितीय-मुष्टि-भक्षणेनालं प्रयोजनं नास्तीत्य् अर्थः । कुतः? त्वत्तोयस्य कारणं त्वद्-भक्त्यादिकम् एव सर्व-सम्पत्-समृद्धये भवति । अतो\ऽस्य भक्तिर् एव लोकद्वये **सर्व-**सम्पदः सम्पादयिष्यति तथाप्य् एक-मुष्टि-भक्षणं सख्येन युक्तम् एव अन्येन तु न किञ्चित् प्रयोजनम् इति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवतु तस्या वस्तुत एवम् अभिप्रायः, किम् उक्त्वा जगृहे ? इत्य् अपेक्षायाम् आह—एतावतेति । एतावता द्वितीय-मुष्टि-पर्यन्तेन भोजनेन अलं, प्रयोजनं नास्ति, किम् उतान्येन तेन इत्य् अर्थः । कुतः ? पुंसो जीव-मात्रस्येहामुत्र च सर्वेषां तत्-प्रेम-पर्यन्तानां पुरुषार्थानां या सम्पत्, तस्याः समृद्धये वृद्धये **तत्-तोष-**रूपम् एव कारणं भवति । स तु पूर्वत एव विद्यते परम-भक्त्य्-उपहृत-पृथुकैक-मुष्टि-भोजनेन तु सुतरम् अतो मद्-अंशाभास-रूपाया व्यवहार-सम्पद्-अधिष्ठातृ-लक्ष्म्या दृष्टि-मात्रेण या सम्पत् सिद्ध्यति, तस्याः सिद्ध्य्-अर्थं मदीय-परमाश्रयस्य भवतः प्रयासेनालं, किन्त्व् अस्य गृहे सिद्धैव सा इत्य् अर्थः ।
अतो यदि गार्हस्थ्य-सम्पत्तिं सम्प्रति प्रकटं दातुम् इच्छसि, तदा साप्य् अस्य गृहे सिद्धैव तस्माद् अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भूर्य् एव मे भवेद् इति भवद्-अनुभव-प्रामाण्येन भोजन-प्रयोजनेन तव सन्तोषे जाते तत्-प्रयोजनान्तरे चास्य समृद्धि-भरे जाते किं मुष्ट्य्-अन्तरादनेनेति व्यञ्जनाभाग् अर्थः--हे विश्वात्मन्न् ! इति तत्-परितोषे युक्तैव सर्वा सिद्धिर् इति भावः एतद्-अनन्तरं सखीभिर् विभज्य स्तोकं स्तोकं सा स्वयम् अपि तद्-भोजन-गौरवाद् भुक्तवतीति ज्ञेयं । टीकायां तु तत्-परा इत्य् अयं भाव इत्य्-आदिनैव व्याख्यातम् इदं पद्यम् अयम् एतावतेति पद्यार्थ एव तत्-परेत्य् अस्याभिप्राय इत्य् अर्थः । तम् एव व्यञ्जयति—एतावता पुंस इत्य्-आदिना । एतावता प्रथम-मुष्टि-भक्षणेनैव सर्व-सम्पत्-समृद्धिं दातुम् अलं पर्याप्तं तस्य पूर्तिर् जात इत्य् अर्थः । ताम् एव समृद्धिं विशिनष्टि--त्वत्-तोषेत्य्-आदिना । धात्व्-अर्थस्यैव विशेषणम् इदं, न तु क्तिन्-प्रत्ययान्तस्य अतः क्लीबत्वादिकम् । अलं-शब्दो\ऽत्र धर्म-परत्वेन व्याख्यातः, न तु अलम् अस्त्य् अस्य धनम् इत्य्-आदिवत् धर्मि-परत्वेन, अतो हेतुत्व-विवक्षया तृतीया चेति ज्ञेयम् ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-प्रेयांसं प्रति तु स्वाभिप्रायं ज्ञापयन्ती मनसैवाह—एतावता तु भुक्तेनैवालम् एतावतैव तृप्तो भव अतः परं न भोक्तव्यम् इति भावः । हे विश्वात्मन्! तव तृप्तौ विश्वम् एव तृप्तं भवेद् इति भावः । ननु स्व-प्रिय-सखायास्मै महा-सम्पत्तीर् दातुम् अन्यद् अपि भोक्तव्यं तत्राह—अस्मिन् लोके अमुष्मिन् वा लोके पुंसः **सर्व-सम्पत्-समृद्ध्य्-**अर्थं त्वत्-तोष एव कारणं भवति विसर्जनीय-लोप आर्षः । तस्माद् अलं विरस-कठोर-पृथुल-पृथुक-चर्वणेनेति भावः । एषा रुक्मिण्याः स्व-गतोक्तिर् एव, न तु स्पष्टोक्तिः । तथा चेद् अर्थावगमे सत्य् अधनो\ऽयं धनं प्राप्येत्य् अग्रिम-वाक्यं श्रीदाम्नो न सम्भवेद् इति विवेचनीयम् ॥११॥
॥ १०.८१.१२ ॥
ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे ।
भुक्त्वा पीत्वा सुखं मेन आत्मानं स्वर्-गतं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्-गतं स्वर्ग-वासिनम् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मिन् दिने गतस् तां रात्रिं तद्-दिन-रात्रिम् इत्य् अर्थः । भक्ष्यं भुक्त्वा पेयं दुग्धादि पीत्वा मेने इति शेषः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताम् इति । यस्मिन् दिने गतस् तदीयाम् एकाम् एव व्याप्य इत्य् अर्थः । अच्युतस्य सर्व-सुख-परिपूर्णस्य भगवतो मन्दिरम् इति मन्दिरस्यापि तादृशत्वम् अभिप्रेतम् । अतः सुखं यथा स्यात्-तथा भुक्त्वा पीत्वा च स्वर्गतम् इव मेने । किं वा, य्अथा यथावत् । पाठान्तरे सुप्त्वा च छन्दो-भङ्ग आर्षः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति । यस्मिन् दिने गतस् तदीयाम् एकाम् एव व्याप्य इत्य् अर्थः । अच्युतस्य सर्व-सुख-परिपूर्णस्य भगवतो मन्दिरम् इति मन्दिरस्यापि तादृशत्वम् अभिप्रेतम् । अतः सुखं य्अथा स्यात् तथा भुक्त्वा सायम् अप्य् अशित्वा पीत्वा च स्वर्-गतम् इव मेन इति लोकोक्ति-मात्रम् अच्युत-मन्दिर इत्य् उक्तत्वात् । किं वा, स्वः-शब्देन वैकुण्ठ-लोको\ऽप्य् उच्यते स्व-चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् [भा।पु। २.१५.३९] इति द्वितीयोक्तेः । यथा यथावत् द्वारकायास् तन्-नित्यत्वेन परम-वैकुण्ठत्वात् । पाठान्तरे सुप्त्वा च श्री-भगवतैव सहेति ज्ञेयं छन्दो-भङ्ग आनन्दाद् आर्षः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्वर्गतम् इव मेन इति लोकोक्ति-मात्रम् । वस्तुतस् तु स्व-शब्देन वैकुण्ठो\ऽप्य् उच्यते । यथा यथावत् ॥१२-२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वर्-गतं यथा, स्वर्-गतम् इव ॥१२॥
॥ १०.८१.१३ ॥
श्वो-भूते विश्व-भावेन स्व41-सुखेनाभिवन्दितः ।
जगाम स्वालयं तात पथ्य्42 अनुव्रज्य नन्दितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्वो-भूते उदिते रवौ । विश्वं भावयतीति विश्व-भावस् तेनेति पुरतो भाविनाम् इन्द्र-दुर्लभं विभवं सूचयति । स्व-सुखेन स्वानन्द-पूर्णेनेति दानेऽदीनतां दर्शयति, नन्दितो विनयोक्तिभिः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न हि **विश्व-**कर्तुर्-विप्र-गृहे\ऽलौकिक-सम्पत्-सम्पादनं स्वानन्द-तृप्तस्य च दाने दैन्याभावश् चमत्कृति-हेतुर् इति भावः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्व-भावेनेत्य् अत्र हेतुः—स्वानां सुखं यस्मात् तेनेति । अभितः पाद-स्पर्शादिना वन्दित इति च धनाद्य् अदानं वोधयत्य् एव, केवलादर-मात्रात् हे तातेति महा-कौतुकात् किम्वा तादृश-भगवद्-व्यवहारेण प्रेमोद्रेकात् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह—श्व इति । यतो विश्वेषां भावनः पालकः ततः सुतरां स्वेषां भक्तानां सुखं यस्मात् तथा-भूतः तेन प्रातर् उत्थायाभिवन्दित इति युक्तम् एव ब्रह्मण्यत्वादि-गुण-युक्तत्वम् इति भावः । ततश् च धिक् याञ्चार्थम् अहम् इहागत इत्य् अन्तः-सङ्कोचेनैव श्री-बलदेवम् अप्य् अमिलित्वा शीघ्रं च स्वालयं प्रति जगाम प्रस्थितवान् ततश् च यथा यथावत् आनिजान्तः-पुरसीम् अव्रजन-विनयोक्ति-परिक्रम-नमस्कार-साञ्जलि-तन्-मुख-वीक्षणादि नीति-युक्तं यथा स्यात्-तथानुव्रज्य नन्दितः पथीति पाठे दूरे इत्य् अर्थः । दत्तं तु न किञ्चिद् अपीति कौतुकेन सम्बोधयति हे तातेति ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्वोभूते परदिने विश्वम् एव भावयति सङ्कल्प-मात्रेण सृजतीति **विश्व-**भावस् तेन तस्मात्-तादृश-विचित्र-महा-सम्पन्मय-सुदाम-पुर-सृष्टौ तस्य कः प्रयास इति भावः । स्व-सुखेन स्वानन्द-पूर्णेनेति तस्य तादृश-विषयानन्द-मात्र-दाने च कः प्रयत्न इति भावः । यथा यथोचितम् ॥१३-१४॥
॥ १०.८१.१४ ॥
स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् ।
स्व-गृहान् व्रीडितोऽगच्छन् महद्-दर्शन-निर्वृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रीडितः स्व-वित्तकार्पण्येन लज्जितः । महतः श्री-कृष्णस्य दर्शनेन निर्वृतः सुखं प्राप्तः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च सुदामा । लज्जितो माम् मत्-प्रिया किं वदिष्यतीति सङ्कुचितः । निर्वृतो\ऽवाप्तानन्दः ॥१४-१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्व-भावेनेत्य् अत्र हेतुः—स्वानां सुखं यस्मात्-तेनेति अभितः पादस्पर्शादिना वन्दित इति च धनाद्य् अदानं बोधयत्य् एव केवलादरमात्रात् हे तातेति महा-कौतुकात् किं वा, तादृश-भगवद्-व्यवहारेण प्रेमोद्रेकात् । सख्युः सकाशाद्-धनम् अलब्ध्वापि स्वयम् इति श्री-भगवान् वा केनापि कौतुकेन न दद्यात् स्वयम् अपि नायाचत इत्य् अर्थः । तत्रापि हेतुः—सख्युर् इत्य् एव । श्री-भगवति धनयाचनायोग्यत्वाद् इति भावः । व्रीडितो\ऽपि महद्-दर्शन-निर्वृतः सन्-न-गच्छत् । यद् वा, अयाचने हेतुः—वीर्डित इति लज्जय इत्य् अर्थः । अलब्ध्वापि स्वयम् एवागच्छत् । तत्र हेतुः—मददति यद् वा, **महद्-दर्शन-**निर्वृतो\ऽपि व्रीडितः सन्न् अगच्छत् । धनार्थम् आगतो\ऽपि तद् अलाभात् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सख्युः सकाशाद्-धनम् अलब्ध्वापि स्वगृहानेवागच्छत् न तु स्वयं याचितवान् तत्र हेतुः, व्रीडित इति । **महद्-दर्शन-**निर्वृत इति च ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.१५ ॥
अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया ।
यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निर्वृतिम् एवाह—अहो इति चतुर्भिः । यद् यतः लक्ष्मीम् उरसि बिभ्रता आश्लिष्टोऽहम् ॥१५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मार्गे श्री-भगवन्-माहात्म्यानुस्मरणेन च भाव-विशेषोत्पत्त्या परम-निर्वृत एवाभूत् । न च किञ्चिद्-दुःखीति बोधयंस् तच्-चिन्ताम् आह—अहो इति षड्भिः । अहो आश्चर्ये दृष्टा साक्षाद् अनुभूता दरिद्रतम इत्य् अवश्यापेक्ष-परिधेययोर् अप्य् अभावेनात्मनो महा-दारिद्रयम् उरसि लक्ष्मीं बिभ्रतेति च तस्य पारमैश्वर्यम् । एवं महा-विरोधेनाश्लेषायोग्यत्वञ् च मह-दुक्तं तथाप्य् आश्लिष्टः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यप्य् अहो इत्य्-आदिभिः सार्धैर् अष्टभिः कुलकं स्यात् इति तच्-चिन्तयन्न् इत्य् अनेन तद् अनुषङ्गाद्-विचित्रेत्य्-आदि-सार्धेन चान्वयात् तथापि स्पष्टार्थं पृथग् एवाङ्कयित्वा व्याख्यायते अहो आश्चर्ये लक्ष्मीं पीत-रेखा-रूपाम् ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्वृतिम् एवाह—अहो इति चतुर्भिः । यत् यतो लक्ष्मीम् उरसि बिभ्रता तेनाहम् आश्लिष्टः ॥१५॥
॥ १०.८१.१६ ॥
क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः ।
ब्रह्म43-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पापीयान् नीचः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दरिद्रस्यातिपाप-फलत्वात्-पापीयान् इति । नीचः नीचवत्-परिहार्यः । दरिद्रो\ऽनादृतः क्वचित् इत्य् उक्तेः । ब्रह्म-बन्धुर् ब्राह्मणानां **बन्धुर्-**दायादो\ऽयम् इति स्मृत्व इत्य् अर्थः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विरोधम् एवातिविस्मयेनाभिव्यञ्जयन् उक्त-पोष-ण्यायेना ब्रह्मण्यताम् एवाह—क्वेति । पापीयान् दुर्भगः कृष्णः साक्षाद्-भगवान् एवं
कृष्णत्व-पापीयस् त्वयोस् तथा दारिद्र्य-**श्री-**निकेतनत्वयोर् विरोधः तथापि ब्रह्म-बन्धुर् विप्र-कुल-जात इति बाहुभ्यां द्वाभ्याम् एव परिरम्भितः
परिरब्धः स्म विस्मये । एवं परिरम्भे विप्रत्वम् एव कारणम् उक्तं न तु सख्यम् । तत्रात्मनो\ऽतीवायोग्यत्व-मननात्, अतो भगवतो ब्रह्मण्यतैव श्लाघिता न तु भक्त-वत्सलतापीति ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वार्थम् एव विशदयति—क्वेति । अहं जीव-विशेषस् तावत्-क्व? कृष्णस् तु स्वयं भगवान् क्व? तत्राप्य् अहं दरिद्रो धनादिहीनः पापीयांश् च तद्-भाग्य-हीनः क्व? स तु श्री-निकेतनः स्वभावतस् तत्-सम्पत्तिमान् तत्-तच्-छक्तिमांश् च क्व इत्य् अर्थः ।
तत्र तत्र च स तु **ब्रह्म-**बन्धुः विप्रकुले जात इति मात्राद्-धेतोर् बाहुभ्यां द्वाभ्याम् एव परिरम्भितः परिरब्धः स्म विस्मये एवं परिरम्भे विप्रत्वम् एव कारम् उक्तं न तु सख्यं तत्रात्मनो\ऽतीवायोग्यत्व-मननात् अतो भगवतो ब्रह्मण्यतैव श्लाघिता न तु भक्त-वत्सलतापीति ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इतिर् अप्य् अर्थे ॥१६-१९॥
॥ १०.८१.१७ ॥
निवासितः प्रिया44-जुष्टे पर्यङ्के भ्रातरो यथा ।
महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रा-व्यावहारिक-भारस् तीर्यते\ऽनेति भ्रातरः । ऋदोर् अप् इत्य् अप् । भ्राता भ्रा ब्रह्मा प्रकटो भारः इति सौभरिः । भ्रातर इत्य् अदन्तो\ऽपि भ्रातृ-वाचक-शब्दो व्याकरणार्णव-निष्पन्नो ज्ञेयः । यान्युज्-जहार इति भीमसेनोक्तेः छन्दसो वान्यथा दृष्टान्त-वैषम्यं स्यात् । एकत्व-बहुत्वयोर् असम्बन्धात् ॥१७-१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न केवलं परिरब्ध एव श्रिया श्री-रुक्मिण्या जुष्टे सेव्ये पूर्वं श्री-भगवता सहाधिष्ठिते वा पर्यङ्के निवेशितश् च तच् च परम-स्नेहेनैवेति सूचयति । भ्रातरो यथेति बहुत्वं श्री-गदाद्य् अपेक्षया किं वा, गौरवाद् एव ततश्-चाग्रज इति पूर्ववज्-ज्ञेयम् । किञ् च महिष्येति बालव्य-जनं चामरं वीजने हेतुः—श्रान्तो दूर-गमनादिना जात-श्रमः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं परिरब्ध एव श्रिया रुक्मिण्या जुष्टे सदा भगवता सहाधिष्ठिते पर्यङ्के निवासितश् च प्रियेति क्वचित्-पाठः तच् च परमादर-स्नेहाभ्याम् एवेति सूचयति भ्रातरो \ऽनुजाः श्री-गदादयो यथेति किं च, महिष्येति वाल-व्यजनं चामरं बीजने हेतुः—श्रान्तः दूरागमनादिना जात-श्रम इति करुणां च दर्शयति ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.१८ ॥
शुश्रूषया परमया पाद-संवाहनादिभिः ।
पूजितो देव-देवेन विप्र-देवेन देव-वत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूजितश् चन्दन-लेपनादिभिः ॥१८॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किञ् च शुश्रूषयेति भक्त्या आदि-शब्दात् पूर्वोक्तं **पाद-**प्रक्षालनं दिव्य-गन्धाद्य् अनुलेपनादिकं च देवानां देवेन पूज्येनापि किं च विप्राणां देवेनापि देववत् इष्ट-देवतावत् पूजितः । पूजितश् च दनालेपनादिभिर् इति तेषां व्याख्ययात्र45 [व्याख्याम् अत्र] पाठान्तरम् अनुसन्धेयम् । किं वा, सा टीकैव केनचिन्-मन्द-बुद्धिना कल्पितेति ज्ञेयम्-पूजने **पाद-**संवाहनादीनाम् एव करणत्व-वृत्तेः यद् वा, आदृत इति लेख्ये पूजित इति लेखक-भ्रमात् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, शुश्रूषयेति पाद-संवाहनादिभिः या शुश्रूषा सेवा तया पूजितः सत्कृतः स्वयं तु कीदृशेन देवानाम् आराध्येन विप्राणाम् अप्य् आराध्येन क इव देववत् इष्ट-देव इव ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.१९ ॥
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं संपूज्यापि धनस्यादाने कारणं कल्ययति—स्वर्गापवर्गयोर् इति द्वाभ्यं ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच्-चरणार्चनं कृष्णाङ्घ्रि-पूजनम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुंसं साध्यो यः स्वर्गोपवर्गश् च संसार-दुःख-ध्वंसस् तयोः तथा रसायां भुवि च याः सम्पदो विभूतयस् तासां च यद् वा, स्वर्गादिषु याः सम्पदः सम्पत्-तयस् तासां तत्रापवर्गे सम्पद आत्मारामत्वादयो मूलम् इति तदाश्रितस्यात्मनस् तत्-प्राप्ति-योग्यत्वम् अपि सूचितम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वर्गेति युग्मकम् । पुंसां साध्यो यः स्वर्गो\ऽपवर्गश् च संसार-दुःख-ध्वंसः तयोः [स्था]रसायां भुवि च याः सम्पदो विभूतयस् तासां, च मूलम् इति तद्-विना सुष्ठ्वनुष्ठिते\ऽपि साधनान्तरे विघ्नापातात् वस्तु-विचारे निश्छिद्रत्वार्थ-प्रयुक्त-तत्रत्य् अतत्-स्मरणस्यैव साधकतमत्वाद् इति भावः । चरणार्चनम् इति चरण-शब्द-साहित्यं भक्ति-मात्र-व्यञ्जनाय कृतं यथा-कथञ्चिद् अर्चन-मात्रे तु तात्पर्यं किन्तु तथापि मैवं ज्ञेयं पसक्तत्वात् वक्ष्यते च मयोपनीतं पृथुकैक-मुष्टिम् [भा।पु। १०.८१.३५] इति ॥१९-२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.२० ॥
अधनोऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् ।
इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वर्गादीनां यद्य् अपि तस्य चरणार्चनम् एव कारणं तथापि कारुणिकत्वाद् अभूर्य् अपि स्वल्पम् अपि धनं मह्यं नाददात् ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभूर्यपि स्वल्पम् अपि ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उच्चैर् अतिशयेन माद्यन् धन-मदेन मत्तो भवन् इत्य् अस्माद्-धेतोः नूनं वितर्के तच् च मद्-धितार्थम् एव तस्य सहज-कारुण्यादित्य् आह--कारुणिक इति ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभूर्यपि धनं नादात् यद् वा, यन्मह्यं नादात्तद् एव मे भूरि धनं यद् वा, नु निश्चितम् ऊनम् अल्पधनं न अदात् अपि तु भूर्यदात् ॥२०॥
॥ १०.८१.२१ ॥
इति तच् चिन्तयन्न् अन्तः प्राप्तो निज-गृहान्तिकम् ।
सूर्यानलेन्दु-सङ्काशैर् विमा46नैः सर्वतो वृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् एवं चिन्तयन्-निज-गृहस्यान्तिकं तत् प्रान्तम् । तस्य विशेषणं सूर्येति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य गृहस्य । विमानैः सप्त-भूमि-प्रासादैः
विमानो\ऽस्त्री हये पोते प्रासादे सप्त-भूमिके । > व्योमयाने सार्वभौम-गृहे मान-विवर्जिते ॥ इति निरुक्ति > ॥२१-२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं तत् श्री-भगवन्-माहात्म्यं धनाप्राप्ति-कारणं चान्तर्-निगूढतया चिन्तयन् तत्र च दिव्य-रत्नमयतया तेजसा शुर्यादि-तुल्यैर् विमानस् तत्-सदृशैर् दिव्य-गृहैः सर्वतो वृतं स्थानम् अपश्यद् इति शेषः । अनेन विचित्र-प्र-शब्द-सु-शब्दैश् च हरिणाक्षिभिर् इत्य् अनेनापि परम-दिव्यत्वम् उक्तम् । तथा च बृहत्-सहस्रनाम-स्तोत्रे श्रीदाम-रङ्क-भक्तार्थं भूम्यानीतेन्द्र-वैभव इति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति तच्-चिन्तयन्न् इति सार्धद्वयम् । इति एवं तत् श्री-भगवन्-माहात्म्यं धन-प्राप्तिकरणं चान्तर्-निगूढतया चिन्तयन् तत्र च दिव्य-रत्न-मयतया तेजसा सूर्यादि-तुल्यैर् विमानैस् तत्-सदृशैर् दिव्य-गृहैः सर्वतो वृतं स्थानम् अपश्यद् इति शेषः ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-तदा **निज-**गृहस्यान्तिकं विशिनष्टि-सूर्येत्य्-आदिभिः ॥२१-२२॥
॥ १०.८१.२२ ॥
विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः ।
प्रोत्फुल्ल-कुमुदाम्भोज-कह्लारोत्पल-वारिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विचित्रोपवनादिभिर् वृतम् । कथं भूतैः । कूजद्भिर् द्विज-कुलैः पक्षि-समूहैर् आकुलैर् व्याप्तैः । तथा प्रोत्फुल्लानि कुमुदादीनि येषु तानि वारीणि येषु तानि तथा तैः ॥२२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुमुदोत्पलयोश् च रक्त-नील-वर्ण-भेदेन भेदः अम्भोजं कमलं कह्लारं सौगन्धिकम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनेन प्रकारेण तत् श्री-कृष्ण-कारुण्यम् अन्तश् चिन्तयन् निज-रहस्यम् इदं कुतो\ऽपि को\ऽपि न शृणुयाद् इति शङ्कया न तु मुखे जल्पन् विमानैस् तत्-सदृशैर् गृह-भेदैः तथा बृहत्-सहस्रनाम-स्तोत्रे श्रीदाम-रङ्क-भक्तार्थ-भूम्यानीतेन्द्र-वैभवः इति कुमुदं श्वेतम् उत्पलं नीलम् अम्भोजं कमलं कह्लारं सौगन्धिकं पुम्भिर्-दासादिभिः स्त्रीभिर् दास्यादिभिः हरिणाक्षिभिर् इत्य् उभयेषां युगपद्-विशेषणत्वेन एक-शेषात्-पुंस्त्वं समासान्ताभाव आर्षत्वाद् अनित्यवद् वा अत्रैवं ज्ञेयं तस्य विप्रस्य द्वारका-वास-रात्रौ स्व-गृहे सुप्तायां पत्न्यां तत्-स्थानं तादृशं तद्-रूपादिकं च सर्वं दिव्यम् अभूत् पश्चात्-प्रातः प्रबुद्धया तया तद्-दर्शनात् सुविस्मितया सत्या स्व-विचारेण तत्रत्य-दास्यादि-द्वारा च स्व-भार्तृ-सङ्गतः श्री-भगवत्-प्रभावासिद्धं ज्ञातं ततश् च स्व-पत्यागमनापेक्षया तद्-वर्त्मनि स्थाने स्थाने लोका नियुक्ता इति ॥२२-२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.२३ ॥
जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणा47क्षिभिः ।
किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च जुष्टम् इति । हरिणीनाम् इवाक्षीणि यासां ताभिः । तद् ऐश्वर्यं दृष्ट्वा वितर्कितवांस् तदाह—किम् इदम् इति । प्रथमं तेजः-पुञ्जं दृष्ट्वा किम् इदम् इति पश्चाद् विमानानि दृष्ट्वा कस्य चेति स्थणं स्वीयम् इति ज्ञात्वा कथं तद् इदं स्थानम् इत्य् एवं रूपम् अभूद् इति ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वशेष-सौभाग्यम् आह—किञ्चेति । तत् अलौकिकम् । तत्-तर्कितम् । इदं स्थानं तत् द्वारका-सदृशं कथं जातम् इति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुम्भिर् दासादिभिः स्त्रीभिर् दास्यादिभिः अत्रैवं ज्ञेयम्-तद्-विप्र-द्वारका-वासस्यैव रात्रौ स्वगृहे प्रसुप्तायां तत्-पत्न्यां तत्-स्थानं तादृशं **तद्-**रूपादिकं च सर्वं दिव्यम् अभूत् पश्चात् प्रातः प्रबुद्धया तया तत्-**तद्-**दर्शनात् सुविस्मितया सत्या स्वविचारेण तत्रत्य-दास्यादि-द्वारा वा स्व-भर्तृ-सङ्गत-श्री-भगवत्-प्रभाव-सद्धं ज्ञातम् । ततश् च स्व-पत्यागमनापेक्षया **तद्-**वर्मनि स्थाने स्थाने लोका नियुक्ता इति ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रथमं तेजः पुञ्जं दृष्ट्वा किमिदम् इति ततो विमानानि दृष्ट्वा कस्य वेति तत्-स्थलस्य स्वीयत्वं निश्चित्य् आह--कथं तद् इदिम् इति ।
प्रत्य् अगृह्णन्न् इति एताश् च भगवतैव मह्यं दत्ता इति निश्चित्य तान् स अगृहंणात् मनसा स्वीचकार पश्चाद् एता अपि तं प्रत्य् अगृह्णन् स्वामित्वेन स्वीचक्रुः ॥२३-२४॥
॥ १०.८१.२४ ॥
एवं मीमांसमानं तं नरा नार्योऽमर-प्रभाः ।
प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमर-प्रभास् तत् तुल्यकान्तयः । प्रत्यगृह्णन्न् उपायनादिभिर् आदृतवन्तः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं सुदामानम् । तत्-तुल्या देव-तुल्या कान्तिर् यासां तास् तथा ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-**भागम् इति तादृश-विभूति-सिद्धेः श्री-भगवत्-सख्याद्-वा किं वा, तस्यापि तदानीं रूप-विशेषोदयं द्योतयति ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, ते परम-दिव्य-रूपाः कथं दरिद्र-रूपस्य तस्यानुगतावशोभन्त ? तत्राह—**महा-**भागम् इति । **महा-**भागत्वम् एव सर्वेषां चित्तं चमत्कारयन् शोभा-हेतुत्वाय सम्पद्यत इति भावः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.२५ ॥
पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा ।
निश्चक्राम गृहात् तूर्णं रूपिणी श्री-र् इवालयात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्भूतो हर्षो यस्याः सा । अति-सम्भ्रम आदरो यस्याः । आलयात् कमल-वनाद् रूप-धारिणी श्री-र् इव । स्वर्गस्य तत्र भगवता आनीतत्वात् स्वर्गिणाम् इव तयो रूपं च बभूवेति भावः ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सुदाम्नः स्थाने । तयोस् तत्-स्त्री-सुदाम्नोः । इति भाव इति-यत्-कृपा-कटाक्ष-पाताद् अद्भुतैश्वर्यं जातं तत एव तद्-रूपम् अप्य् अद्भुतम् अभूद् इति तात्पर्यम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आकर्ण्य पूर्व-नियुक्त-लोकेभ्यः श्रुत्वा अन्यत्-तैर् व्याख्यातम् । यद् वा, रूपिणी सौन्दर्यवती पत्नी अत एव श्रीर् इवालयात् वैकुण्ठ-लोकात् इति गृहस्यापि परमोत्कृष्टत्वं ध्वनितम् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आकर्ण्य पूर्व-नियुक्त-लोकेभ्यः श्रुत्वा अन्यत्-तैः यद् वा, रूपिणी **श्री-**रुक्मिनीव सौन्दर्यवती पत्नी अत एव श्री-र् इवालयात् वैकुण्ठ-लोकात् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूपिणी श्री-र् इति भग्नच्छदि भित्तिके गृहे सा कुचेला शुष्क-कुचाद्य् अवयवा निशि सुप्ता आसीत् प्रातर् उत्थाय स्वं श्रियं गृहादिकं च तादृशं दृष्ट्वा क्षणं चमत्कार-सिन्धु-मग्ना पश्चाद्-भगवता दत्तं तद्-वैभवं निश्चित्य ततः पतिम् आनेतुं निश्चक्राम ॥२५॥
॥ १०.८१.२६ ॥
पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना ।
मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बुद्ध्या अयम् एव वन्द्य इति निश्चयेन । मनसा सङ्कल्पेन ॥२६-२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयम् एव पतिर् एव ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रेम्णा उत्कण्ठा परमोत्सुका चासावश्रु-लोचनाश्रुयुक्त-लोचना च किं वा, परमोत्कण्ठयाश्रुलोचना, मीलिताक्षी अश्रु-व्याप्त-नेत्रत्वात् लज्जया वा, हर्षेण वा, नमनाद्य् अशक्त्या वा तत्र बुद्ध्येति नमनाद्-भक्तिं मनसेति च परिष्वङ्गाद्-भावोदयं बोधयति ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेमोत्कण्ठ्याश्रु-लोचना मीलिताक्षी लज्जया अतो बुद्ध्यैव ननाम मनसैव परिषस्वजे न तु साक्षाद् इत्य् अर्थः । तत्र बुद्ध्येति पतिर् एको गुरः स्त्रीणाम् इति विचारांशापेक्षया मनसेति राग-प्राधान्येन सङ्कल्प-मात्रापेक्षया कारण-भेदः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पतिं दृष्ट्वेति । धमनि-व्याप्तं शुष्क-गात्रं कुचेलं स्व-पतिं सा परिचिनोत्वेतद् अर्थम् एव भगवता सख्युस् तस्य तादृशत्वं न दूरीकृतम् इति ज्ञेयम् ॥२६॥
॥ १०.८१.२७ ॥
पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव ।
दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स सुदामा । विस्मितो जाताश्चर्यः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण स्फुरन्तीं द्योतमानाम् अतो वैमानिकिं विमानेश्वरीं देवीम् इव स विप्रो वीक्ष्य साक्षात् दृष्ट्वा विस्मितः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पत्नीम् इति युग्मकम् । स विप्रः प्रथमं प्रीतः ततः स्वयम् अपि युक्तः सहसा जातेन रूपादिना योग्यतां प्राप्तस् सन् तया सह मन्दिरं प्रविष्टः ॥२७-२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स तु स्व-पत्नीं तां न परिचिकाय इत्य् आह--पत्नीं स्वभार्यां देवीम् इव वीक्ष्य स विस्मितः केयं देवाङ्गना माम् अधमम् अप्य् उपैतीति विस्मयाब्धौ पतितः ततश् च तवैवेयं सा भार्येति ताभिर् ज्ञापितस्-तत्-क्षण एव स्व[म् एव]देहं च दिव्य-सौन्दर्य-तारुण्य-वस्त्रालङ्काराद्य् आश्रितं वीक्ष्य प्रीतः महेन्द्र-भवनं यथेति श्रीदाम-रङ्क-भक्तार्थ-भूम्यानीतेन्द्र-वैभव इति बृहत्-सहस्र-नाम-स्तोत्रम् ॥२७-३१॥
॥ १०.८१.२८ ॥
प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् ।
मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तया पत्न्या ॥२८-२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च प्रीति इति स्वयम् एव पद्भ्यां न त्व् अग्रे\ऽभिगतेनापि यानादिना प्रविष्ट इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रथमं प्रीतः ततः स्वयम् अपि युक्तः रूपादिभिर्योग्यतां प्राप्तः सन् ॥२८-३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.२९ ॥
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।
पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्र मन्दिरे पयः फेन-निभाः शय्या आस्तरणानीत्य्-आदि-संपदस् तत्र सर्व-संपदां समृद्धीर् विलोक्य तर्कयाम् आसेति चतुर्थेनान्वयः । यत्र च दान्ता गज-दन्त-मयाः पर्यङ्काः ॥२९॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव दर्शयति-पय इति त्रिभिः । पयसो दुग्धस्य फेनं परमं कोमलं धवलं तत्-तुल्या **रुक्म-**परिच्छदा स्वर्णखचिता इत्य् अर्थः । चामराण्य् एव व्यजनानि यद् वा, चामराणि व्यजनानि च ताल-वृन्तादीनि, च-काराद्-रत्नानि चासनानि ॥२९-३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एव वर्णयति—पय इति चतुष्केण । चामराणि व्यजनानि च तल-वृन्दादीनि स्वच्छनि स्फाटिकानां कुट्यानि भित्तयो येषु तेषु तदीयेषु क्रीडा-गृहेषु महत् मारकतं मरकत-समूहो येषु तेषु यद् वा, महा-मरकत-मयेषु गृहेषु रत्न-रूपा दीपाः भ्राजमानाः सन्ति पाठान्तरे रत्न-दीपैः सह रत्न-संयुता इति रत्न-मयालङ्कारवत्त्वात् ॥२९-३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.३० ॥
आसनानि च हैमानि मृदूपस्तरणानि च ।
मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्रासनानि च मृदून्य् उपस्तरणानि तूलादि-मयानि येषु तानि । यत्र मूक्ता-दाम-विलम्बवन्ति द्युमन्ति च वितानानि ॥३०-३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्युमन्ति द्युतिमन्ति ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.३१ ॥
स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च ।
रत्न48-दीपान् भ्राजमानान् ललना रत्न-संयुताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र स्वच्छस्फटिककुड्येषु विमलस्फाटिकभित्तिषु । रत्नदीपाः सन्ति कुड्यं भित्तौ विलेपनेइति मेदिनी ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वच्छानि स्फाटिकानां कुड्यानि येषु तेषु यदीयेषु क्रीडा-गृहेषु महत् मारकतं मरकत-समूहो येषु तेषु यद् वा, **महा-**मरकतामयेषु च गृहेषु रत्न-रूपा दीपा भ्राजमानाः सन्ति पाठान्तरे **रत्न-**दीपैः सह **रत्न-**संयुता इति रत्नमयालङ्कारमयत्वात् ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.३२ ॥
विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् ।
तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहैतुकीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स ब्राह्मणो निर्व्यग्रः सन् स्थिरः सन् अहैतुकीम् आकस्मिकीं स्वस्य समृद्धिं तर्कयाम् आस कुत एषा समृद्धिर् आगतेति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र मन्दिरे । समृद्धिं वृद्धिम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र स्व-गृहे सर्व-सम्पदां समृद्धीर् इत्य् अतो\ऽनुक्तान्य् अप्य् अन्यानीन्द्र-भवनाधिकानि वैभवानि गृहीतानि स्वस्य समृद्धिं सर्व-सम्पदाम् एव किं वा, विभूतिम् इत्य् अर्थः । तर्कयामास कुतः? कथं जातेति विचारितवान् । एवं कुत एषा समृद्धिर् आगतेति तेषां व्याख्या अत्रैव युक्ता तर्कणस्य प्रकारापेक्ष्यत्वात् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र **स्व-**गृहे सर्व-सम्पदां समृद्धीर् इत्य् अतो\ऽनुक्ताप्य् अन्यानीन्द्र-भवनाधिकानि वैभवानि गृहीतानि स्वस्य समृद्धिं विभूतिम् इत्य् अर्थः । तर्कयामास कुतः? कथं जातेति विचारितवान् एवं कुत एषा समृद्धि-रागतेति तेषां व्याख्यात्रैव युक्ता तर्कणस्य प्रकारापेक्ष्यत्वा ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहैतुकीम् आकस्मिकीम् ॥३२॥
॥ १०.८१.३३ ॥
नूनं बतैतन्-मम दुर्भगस्य
शश्वद् दरिद्रस्य समृद्धि-हेतुः ।
महा-विभूतेर् अवलोक49तोऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निश्चिनोति, नूनम् इति । एतन् ममेति । एष चासाव् अहं च तस्यैतन् मम । महती विभूतिर् यस्य तस्यावलोकाद् अन्यः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बत हर्षे । दुर्भगस्य मन्द-भाग्यस्य । अवलोकः कृपा-कटाक्षः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नूनं वितर्के निश्चये वा । यत हर्षे । एतच्-छब्दार्थम् एव विवृणोति-दुर्भगस्य धनादि-भाग्य-हीनस्य अतः शश्वत् नित्यं दरिद्रस्येति यद् ऊत्तमस्य अशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीर्य तच्-छ्रेष्टतां प्राप्तस्य भगवतः अतो **महा-**विभूतेः यद् वा, महा-विभूतेर् अस्याः समृद्धि-हेतुः अतस् तद् अवलोकनादन्यत् किञ्चिन् न घटते एतत्-तद् अवलोकनेतर-भाग्य-रहितस्य मे सहसैवेदृश-विभूति-सिद्ध्य-सम्भवाद् इति भावः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नूनं निश्चये बत हर्षे यदूत्तमस्यावलोकतो\ऽन्यत् किञ्चिद् अपि एतस्य मम ह सा समृद्धिर् हेतुर् न । अन्य इति तु पाठः सर्वत्र एतच्-छब्दार्थम् एव हेतुत्वेन विवृणोति दुर्भगस्य धनादि-भाग्य-हीनस्य अतः शश्वन्-नित्यं दरिद्रस्येति यदूत्तमस्य तु कीदृशस्य महती सर्वतः पूर्णा विभूतिर् लक्ष्मी-रूपा शक्तिर् यत्र तादृशस्य ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एष चासावहं तस्य एतन्-मम **महा-**विभूतेस् तस्यावलोकाद् अन्यो न अन्यत्रैवेत्य् अपि पाठः ॥३३॥
॥ १०.८१.३४ ॥
नन्व् अब्रुवाणो दिशते समक्षं
याचिष्णवे भूर्य् अपि भूरि-भोजः ।
पर्जन्य-वत् तत् स्वयम् ईक्षमाणो
दाशार्हकाणाम् ऋषभः सखा मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु स चेद् अवलोकन-मात्रेण महद्-ऐश्वर्यं दत्तवांस् तर्हीदं तुभ्यं मया दत्तम् इति किं नावोचदत आह—नन्व् इति । ननु मे सखा समक्षम् अब्रुवाण एव याचिष्णवे याचकाय भूरि बह्व् अपि दिशते ददाति । अत्र हेतुः, भूरि-भोजः स्वयं तद् देयं पर्जन्य-वद् ईक्षमाण इति । अयम् अर्थः, स्वयं तावद् भूरि-भोजो बहु-भोज आप्त-कामत्वाल् लक्ष्मी-पतित्वाच् च । अतो यथा पारावार-परिपूरकोऽति-वदान्यः पर्जन्यः कदाचिद् बह्व् अपि वर्षम् अल्पम् एव च मन्यमानो लज्जयेव समक्षम् अवर्षन्नात्रौ निद्राणे कर्षके तत् क्षेत्रम् आप्लावयति, एव श्री-कृष्णोऽपि स्व-भोगापेक्षया तद् देयम् इन्द्रादि-पदम् अप्य् अति-तुच्छं मन्वानस् तस्य च भजनं बहु मन्यमानः समक्षम् अब्रुवाण एव ददातीति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते-नन्व् इति । अत्राकथने । पर्जन्यो मेघः । अत्राशयम् आह—अयम् अर्थः—आप्त-कामस्य श्री-पतेश् च सर्व-लोकैश्वर्यम् अपि तुच्छं प्रतीयत इति भावः । अत आप्त-कामत्वादेः । एवं पर्जन्य-वत् । तस्य निज-भक्तस्य । यथात्युदारः समक्षम् अल्पवस् तु दातुं लज्जमानस् तद्-गृहे प्रेषयति तथा श्री-कृष्णो\ऽपीति ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु निश्चये । भूरि लोकद्वये बहुलोपभाग्यं भोजयति भक्तान् इति भूरि-भोजः । तत्र सर्वत्रैव हेतुः—दाशार्हाणामृषभो निजाशेषस-गुण-प्रकटनपर इत्य् अर्थः । अतो मे सखा अन्यथा परमाधनेन मया सह तस्य सख्यानुपपत्तिर् इति । यद् वा, हर्ष-भरेणात्मानं बहु-मन्यमानो भक्ति-रसेन माद्यन् स्व-सख्येन50 श्री-भगवतो\ऽत्य् असाधारणं निज-ममतास्पदताधिक्यं द्योतयति-मे सखेति । दाशार्हाणम् इति छन्दो-भङ्ग-परिहारार्थं रेफस्य-पृथुच्चारणं छान्दसम् । दाशार्हकाणाम् इति चित्सुखः । अन्यत्-तैर् व्याख्यातम् । तत्र निद्राणे कर्षक इति व्याख्यानात्-तथा प्रस्तुते\ऽप्य् असाक्षाद् एव दानाद् अकार-प्रश्लेषणासमक्षं विषक इति ज्ञेयम् इति । अथवा याचिष्णवे याचन-शीलायाम् अपि अब्रुवाणस् तत्राप्य् असमक्षम् एव दिशति अयाचकाय तु मह्यं ब्रुवाणः साक्षात् कुतो दास्यतीत्य् अर्थः । अन्यत् समानम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दाशार्हकाणाम् ऋषभो मे मम सखासौ असमक्षं याचिष्णवे साक्षाद्-याचकाय किन्तु निगूढ-तद्-वासना-युक्ताय अब्रुवाणो \ऽपि असमक्षम् अपि भूरि साष्ट्यार्दिकम् अपि दिशते नन्व् असमक्षयाचनं कथं जानीयात् तत्राह तत्स्वयम् एवेक्षमाणः सर्वज्ञ-शिरोमणित्वाद् इति भावः । तत्र भूरिदाने हेतुः भूरि-भोज इति तादृशः स्वयम् अल्पं दातुं लज्जत इति भावः । अनुक्त्वैवासाक्षाद् एव च दाने हेतुः असमक्षं याविष्णव इत्य् एवं तद् एव सारस्याय स्याद् इति भावः । स च निरुपाधिकदातुः स्वभावो\ऽन्य् अत्रापि दृश्यत इति आह—**पर्जन्य-**वद् इति । कदाचित् प्रकटमयाचमानेति सुप्तेति लोक-गर्जनं विनापि वर्षतीति दर्शनात् दाशार्हकाणाम् ऋसभ इति तादृश-भावनायां निज-भाव-विशेषोद्रेकात् तत्रैव सखेति तेन परमानन्दमदोद्रेकाद् उक्तम् ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु स चेद् अवलोकन-मात्रेणैव महद् ऐश्वर्यं दत्तवांस् तर्हि इदं तुभ्यं दत्तम् इति तदैव किं नावोचदत आह—ननु निश्चितम् एव मे सखा समक्षम् अब्रुवाण एव याचिष्णवे मद्-विधयाचक-जनाय भूर्य् अपि बहुतरम् अपि दिशते दिशति ददाति अब्रुवाणत्वे हेतुः भूरि-भोजः लक्ष्मी-कान्तत्वादात्य् अन्तिक-भोगाधिक्यवान् अयं भगवत आशयः मत्-प्रिय-सखो\ऽयं स्व-भोग्य-वस्तुतो\ऽप्य् अधिकान् पृथुकान् मह्यं ददौ स्व-गृहे ह्य् अवर्तमानानाम् अपि तेषां याचित्वैवानीतत्वात् तस्माद् अस्मै मयापि स्व-भोग्यादधिकम् एव दातुं युक्तं किन्तु मद्-भोग्यस्य समम् एव क्वापि नास्ति अधिकं कुतः स्याद् इति अतः स्व-भोग्यादधिकं च स्व-भोग्य-समं च दातुम् असमर्थो देयम् ऐन्द्रपारमेष्ठ्यादि-पदम् अल्पम् एव मन्यमानो लज्जया अब्रुवाण एव परोक्षम् एव ददातीति तत्र दृष्टान्तः पर्जन्यवद् इति यथा पारावार-परिपूरको\ऽपि वदान्यः पर्जन्यः तम्-दत्तं बहुविधं पूजोपहारं सम्भुज्य कर्षकापेक्षया बह्व् अपि वर्षं स्वयं तद् अल्पम् एव देयम् ईक्षमाणः कदाचिल्-लज्जयेव समक्षम् अवर्षन् रात्रौ कर्षकेषु निद्राणेषु **तत्-**क्षेत्राण्याप्लावयति तथ इत्य् अर्थः । दाशार्हकाणाम् ऋषभ इति दाशार्हवंश्या एव वदान्यास् तेषाम् अपि ऋषभः ॥३४॥
॥ १०.८१.३५ ॥
किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं
सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी ।
मयोपनीतं पृथुकैक-मुष्टिं
प्रत्यग्रहीत् प्रीति-युतो महात्मा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—किञ्चिद् इति । उरु बह्व् अपि स्व-दत्तं यत् किञ्चित् करोऽत्य्-अल्पं मन्यते । सुहृत्-कृतं फल्ग्व् अति-तुच्छम् अपि भूरि-कारी बहु-मन्यत इत्य् अर्थः । अत एव मयोपनीतं समीपं नीतम् । प्रीति-युतः स्वयम् एव प्रतिगृहीतवान् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव भक्त-भक्त्य् अपेक्षया **स्व-**दानाल्पमननम् एव । इत्य् अर्थ इति-भक्त-वात्सल्याद् अल्पम् अपि बह्व् एव जानातीति भावः । अत एव **भूरि-**मननाद् एव ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च मन्तव्यं तादृश-दानेनापि तस्य तृप्तिः स्याद् इति भक्तानां भक्तेस् तेन बहुमननादित्य् आह—किञ्चिद् इति । सुहृदां भक्तानां कृतं भजनम् अत एव तेषाम् ऋणी किल भवतीति भावः । महात्मा परं ब्रह्म इति परमेश्वरत्वेन तादृश-पृथुकैक-मुष्टि-ग्रहणायोग्यतोक्ता । तथापि **प्रीति-**युतः सन् प्रत्य् अग्रहीत् साक्षाद्-भक्षितवान् इत्य् अर्थः । यद् वा, प्रीत्या प्रतिग्रहेण हेतुः—महान् आत्मा कृपार्द्रत्वादि-स्वभावो यस्य सः अतो मत्-पृथुकैक-मुष्टेः सकाशात् तुच्छत्व-मनननेन नूनमसौ लज्जित इवास्त इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च मन्तव्यं तावद्-दत्त्वापि तस्य तृप्तिः स्याद् इति स्वल्पे\ऽपि भक्त-कृते बहुमाननाद् इत्य् आह—किञ्चिद् इति । तत् मत्-कृतम् एव मुख्यं प्रमाणम् इत्य् आह—मयेति । पूर्वत्र हेतुः महात्मा महान् पूज्यः आत्मा कृपार्दादि-स्वभावो यस्य सः अतो मत्-**पृथुकैक-**मुष्टेः सकाशात् तुच्छत्वम् अननेन नूनमसौ लज्जितश् चास्ते इति भावः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उरु अपि बह्व् अपि स्वदत्तं मह्यम् ईदृशैश्वर्यं **किञ्चित्-**करोति अल्पं मन्यते सुहृदो मद्-विधस्य फल्गु अतितुच्छम् अपि वस्तु भूरिकारी बहुमन्यत इत्य् अर्थः । यत्ओ मयेत्य्-आदि ॥।३५॥
॥ १०.८१.३६ ॥
तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात् ।
महानुभावेन गुणालयेन
विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णस्य भक्त-वात्सल्यं दृष्ट्वा तद् भक्तिं प्रार्थयते—तस्येति । सौहृदं प्रेम । सख्यं हिताशंसनं च । मैत्री उपकारिकत्वं च । दास्यं सेवकत्वम् । तत्-समाहार एक-वचनम् । तस्य तत् सम्बन्धिनो मे मम स्यान् न तु विभूतिः । किं च महानुभावेन तेनैव विषज्जतो विशेषण सङ्गं प्राप्नुवतस् तद् भक्तेषु प्रकृष्टः सङ्गः स्याद् इति ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अभिलषितम् आह—कृष्णस्येत्य्-आदिना । तस्यैव श्री-कृष्णस्यैव । एव-कारेणान्ययोगव्य-वच्-छेदः । तेषां सौहृदादीनाम् । समाहार-द्वन्द्वे एक-वचनम् । न तु विभूतिरित्य् अर्थावगतं तस्य अग्रिम-पद्येनानर्थ-हेतु-कथनात् । अन्यद् अभिलषितम् आह—किञ्चेति । महान् जदुत्पादकत्वादि-रूपो\ऽनुभावः । प्रभावो यस्य तेन । तद्-भक्तेषु ब्रह्म-रुद्रादिष्व् अपि । एतेन भगवज्-जन-सङ्गं विना भगवद्-भक्तिर् अपि भक्तानां तोषकरी नेत्य् उक्तम् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो भक्त्य् उद्रेकेणाशास्ते—तस्येति । एव-शब्देन देवतान्तरं तस्यावतारान्तरं च निरस्यति । इत्थम् अस्य यथा-पेक्ष्यम् अग्रे\ऽप्य् अन्वयः । स्याद् अस्तु । तत्र सौहृद-दास्ये स्वकर्तृके तद्-विषयके सख्य-मैत्र्यौ च **तत्-**कर्तृके स्वविषये स एव मम हितमाशास् तां स एव ममोपकरोतु च इत्य् अर्थः । एवं सौहृदादीनां यथोत्तरं भावतारतम्येन न्यूनत्वं पुनर् इत्य् अन्यस्मिन् जन्मनि [पुनर् इत्य् अस्मिन् जन्मनि] **तत्-**सत्ता सूचिता यद् वा, त्व् अर्थे जन्मानदिकं यत्र कुत्रापि स्यात् सौहृदादिकं तु तस्यैवास्त्व् इत्य् अर्थः । जन्मनि जन्मनीति वीप्सया मोक्षो निरस्त एव अथवा सौहृदं दैहिक-सम्बन्धः सख्यं विश्वासः मैत्री स्नेहः परमेशां यथोत्तरं श्रेष्ठ्यम् । तत्र मैत्र्याः सकाशाद्-दास्यस्यातिदैन्य-विशेषेण सेवायाः परम-फल-रूपत्वेनैव तेन मननात् स्वदत्ते-दृङ्-महा-विभूतेर् अपि परम-फल-रूप-साक्षात्-सेवापेक्षयेति दिक् । ततश् च पुनर् इति वाक्यालङ्कारे अन्यत् समानम् । महान् अनुभावः प्रभाव ऐश्वर्यं यस्य तेन किञ् च गुणानां रूप-लावण्यकारुण्य-वात्सल्यादीनाम् आलयेन यद् वा, गुणानां श्री-व्रजेश्वर्योदरे बद्धानां दाम्नाम् आलयेन श्री-दामोदरेण इत्य् अर्थः । अतो विषज्जतः हेतौ शतृङ् विशेषेण सामीप्यादिना तत्र च गोपाल-बालकत्वेन सङ्गं प्राप्तुम् इत्य् अर्थः । एवम् अस्य पूर्वेण परेणाप्य् अन्वयः । यद् वा, विषज्जतः प्रेम्णा आसक्तिं प्राप्नुवतः सतः अन्यथा भक्त-जनानुग्रहासम्पत्तिस् **तत्-**सङ्ग-सुखाननुभवश् च । विषज्जने हेतुः—गुणालयेनेति तन्-मधुर-रूप-लीला-कारुण्याद्य् अनुसन्धानेन इत्य् अर्थः । ननु तथापि प्रेमासक्तिर् दुर्घटा सत्यम् । **तत्-**प्रभावाद्-घटेतापीत्य् आशयेनाह—महानुभावेनेति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं तस्मात्-तस्यैवेति येन मम सम्बन्धेन **तत्-**कदन्नम् अपि सास्वादं चर्चितवान् तस्यैव इत्य् अर्थः । सौहृद-दास्ये स्व-कर्तृके तद्-विषयके **सख्य-**मैत्र्यौ च **तत्-**कर्तृके स्व-विषयके तस्मिन्न् एव प्रेम करवाणि तस्यैव च सेवां स एव मम हितम् आशास्तां स एव मामुपकरोतु च इत्य् अर्थः । पुनर् इति पुनर् अपीत्य् अर्थः । यद् वा, त्वर्थो\ऽयं पुनः-शब्दः जन्मादिकं यत्र कुत्रापि स्यात् सौहृदादिकं तु तस्यैवास्त्व् इत्य् अर्थः । सौहृदादिकं तु तैर् व्याख्यातम् अथवा सौहृदं दैहिक-सम्बन्धः सख्यं विश्वासः मैत्री स्नेहः पुनः सदैन्योक्तिर्दास्यम् इति यद् वा, सौहृदं निरुपाधि मिथो हित-कारित्वं सख्यं सह विहारमयः प्रणयः मैत्र-स्निग्धता-मात्रम् अपि दास्यं कर्म-कारत्वम् अपीति पुनर् इति वाक्यालङ्कारे अन्यत्-समानं नन्व् एवकारेण तदीय-सुहृदादयो\ऽपि व्यावर्त्यन्ते नेत्य् आह—महाननुभावः प्रभाव ऐश्वर्यं यस्य तेन किं च, गुणानां रूपतारुण्य-कारुण्य-वात्सल्यादीनाम् आलयेन विषज्जतः विशेषेण सौहृदादिना सङ्गं प्राप्नुवतो मम **तत्-**प्रभावेण तदीय-गुणेनैव च तस्य पुरुषाणां सुहृदादीनां प्रकृष्टः सप्रेमकः सङ्गश् च स्यात् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यैवैतादृश-भक्त-वत्सलस्य सौहृदं स्नेहः सख्यं सहावस्थायित्वमयः प्रणयः मैत्री बन्धु-भावः दास्यं सेवा तेषां द्वन्द्वैक्यं महानुभावेन तेनैव विषज्-जतः विशिष्ट-सङ्गं प्राप्नुवतो मम तद्-भक्तेषु प्रसङ्गः स्यात् ॥३६॥
॥ १०.८१.३७ ॥
भक्ताय चित्रा भगवान् हि सम्पदो
राज्यं विभूतीर् न समर्थयत्य् अजः ।
अदीर्घ-बोधाय विचक्षणः स्वयं
पश्यन् निपातं धनिनां मदोद्भवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु भक्तेः फलं संपदं प्राप्य पुनर् भक्तिं किम् इति प्रार्थयसेऽत आह—भक्तायेति । संपदः कोशादीन् नाज्यम् ऐश्वर्यं विभूतीः कलत्र-पुत्रादीन् न समर्थयति न ददाति, अपि तु दृढां भक्तिम् एव । कुतः । अदीर्घ-बोधाय । अविवेकिनो मम तु भक्त्य्-अभावाद् एवं जातम्, अतस् तद् भक्तिर् एव स्याद् इति भावः ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हरिर् ऐहिकम् ऐश्वर्यदो नेति मन्दानुमित-स्वदोष-मार्जनायेयं सम्पादितेति भावेनाशङ्क्य समाधत्ते-नन्व् इति । अतोऽत्र आदिना गजाश्वादि-ग्रहः । ऐश्वर्यं प्रयोजकत्वं न प्रेर्यत्वम् । आदिना पौत्र-स्नुषादि-ग्रहः । सम्पदाद्य् अदाने हेतुम् आशङ्कते—कुत इति । एवं जातम् ऐश्वर्यादि जातम् । यतोऽहम् अदिर्घ-वोधोऽतो हेतोः । इति भाव इति—मम संस्र्ति-निवर्तक-दीर्घ-बोधाय श्री-कृष्ण-भक्तिर् एवास्त्वित्य् आशयः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भक्त-वत्सलश् चेद् असौ भक्तेभ्यो धनादिकं किं न दत्ते? अनर्थावहत्वाद् इति चेद् अधुना तुभ्यं कुतो दत्तम्? तत्राह—भक्तायेति । चित्रा अद्भुता बहुविधा वा भगवान् सर्वैश्वर्य-पूर्णो\ऽपि अजः सदा स्वयम् एव सिद्धिः अतो दाने\ऽनन्यापेक्षो\ऽपीति भावः । न सम्यक् अर्थयति दत्त इत्य् अर्थः । तत्र हेतुः—धन-मदोद्भवं नितरां पातं स्व-धर्मादिभ्यो नरकेषु पतनं वा स्वयं साक्षाद् एव पश्यन् यतो विचक्षणः सर्वज्ञः ।
ननु तर्हि श्री-ध्रुव-प्रह्लादाम्बरीशादिभ्यः कुतो\ऽदात् ? त्रताह—अदीर्घेति । तेषां स्वतो विवेक-बलेन मदानुद्भवाद् इति भावः । यद् वा, हि यतः सम्पदो \ऽदीर्घ-बोधाय अविवेकाय भवन्तीति चित्रा इत्य् अनेन सम्—शब्देन च भक्तेच्छया किञ्चिद्-दत्ते\ऽपीति सूचयति । अतो निष्कामत्वेन मे पूर्वं किम् अपि दत्तम् अधुना च भार्याग्रहेण जातयेच्छया दत्तम् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अकारे श्री-विष्णौ दीर्घो\ऽकुण्ठो बोधो ज्ञानम् अतो मे भगवद्-विषयक-बोधाभावेन दत्तम् इति भावः । एतच् च भक्ति-स्वभावेन विनयाद्-दैन्याच् चेति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् सर्वैश्वर्य-परिपूर्णो\ऽपि अजः सदा स्वयम् एव सिद्धः अतो दाने\ऽप्य् अनन्यापेक्षो\ऽपीति भावः । तासाम् अदाने हेतुः चित्राः विविध-प्रकाराः ततो नाना-प्रकारं भक्तान्तः-करणं स्याद् इति किं च, धनोपलक्षितत्वात् धनं सम्पादादि-त्रयं तन्-मदोद्भवं नितरां पातं स्व-निष्ठातो भ्रंशं स्वयं स्व-धर्मादिभ्यो नरकेषु पतनं वा साक्षाद् एव पश्यन् यतो विचक्षणः सर्वज्ञः ।
ननु तर्हि श्री-ध्रुव-प्रह्लादाम्बरीषेभ्यः कुतो\ऽददात् तत्राह—अदीर्घेति । दीर्घ-बोधानां तेषां स्वतो विवेक-बलेन मदानुद्भावात् अदीर्घ-बोधाय मह्यं तु दुराग्रह-दर्शनाद् एव दत्तवान् इति भावः ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, तव भक्तिरस्त्य् एव तत्-फलं सम्पत्तिश् च प्राप्ता तत्र नास्ति मे भक्तिर् नापि भक्तेर् वास्तवं फलं सम्पत्तिर् इत्य् आह—भक्तायेति । सम्पदः केषादीन् राज्यम् ऐश्वर्यं विभूतीः कलत्रादीन् न समर्द्धयति न ददाति **अदीर्घ-**बोधायेति दीर्घ-बोधेभ्यः प्रह्लादादि-भक्तेभ्यो यदिह सम्पदो\ऽपि ददाति तत्रापि तेषां नापकारः मम त्व् **अदीर्घ-**बोधस्य भक्त्य् अभावाद् एव सम्पत्-प्राप्तिर् अभूत्-तद् अलम् अनयेति विमृश्य स यावद् अर्थम् एव विषय-भोगं कुर्वन् स्थण्डिलशायी तदीय-व्रतनिष्ठः श्रवण-कीर्तनादिषु परमाग्रहवान् अभूद् इति ज्ञेयं भक्ताय सुखयितुं सम्पदादिकं न समर्द्धयति न सम्यग्-वर्धयति किन्तु तद् अभीप्सित-प्रेम-सेवा-सिद्ध्य् अर्थम् ईषन्-मात्रं वर्धयतीति केचिद् आहुः ऋधु वृद्धौ ॥३७-३८॥
॥ १०.८१.३८ ॥
इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव ज51नार्दने ।
विषयान् जायया52 त्यक्ष्यन् बुभुजे नाति-लम्पटः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्यक्ष्यन् शनैः सनैस् त्यागम् अभ्यस्यन् । जायया सह बुभुजे ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नातिलम्पटः अनासक्तः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : विषयान् बुभुज इति भगवत्प्रसाद-बुद्ध्या बुभुजे, तत्रापि त्यक्ष्यन् अद्य श्वो वा त्यक्ष्यामीति कृत्वा ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बुद्ध्या विचारेण व्यवसितः कृत-निश्चयतः अतो जनेषु निज-भक्तेष्व् अर्देनं किम् उपायनम् आनीतम् [भा।पु। १०.८१.३] इत्य्-आदि-प्रकारेण याचनं यस्य सः परम-भक्त-वत्सलः श्री-कृष्ण इत्य् अर्थः । तस्मिन्न् अतीवा जातप्रेमा, अतो विषयान् त्यक्ष्यन् तथापि बुभुजे । किम् अर्थम्? जायया हेतुना पतिव्रतायास् तस्याः प्रीत्य् अर्थम् इत्य् अर्थः । तथापि **नाति-**लम्पटस् तेष्व् अनासक्त एव बुभुजे ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बुद्ध्या विचारेण व्यवसितः कृतनिश्चयः अतो जनेषु निजभक्तेषु अदर्शनं किमुपायनमानीतम् इत्य्-आदि प्रकारेण याचनं यस्य सः परमभक्तवत्सलः श्री-कृष्ण इत्य् अर्थः । तस्मिन्नतीव भक्तः जातप्रेमा अतो विषयान् त्यक्ष्यन् तथापि बुभुजे किमर्थं जायया हेतुना पतिव्रतायास्तस्याः प्रीत्यर्थम् इत्य् अर्थः अन्यथा धर्मदोषः स्याद् इति भावः । तथापि नातिलम्पटः अतिशयेन नितरामलम्पटः तेष्वनासक्त एव बुभुजे ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : विषयान् जायया त्यक्ष्यन्न् इत्य्-आदि । भगवत्प्रसादबुद्ध्या बुभुजे अत एव नातिलम्पटः तत्रापि त्यक्ष्यन् अद्य श्वो वा त्यक्ष्यामीति कृत्वा ॥३८-४१।
इति श्री-मद्भागवते महापुराणे दशमस्कन्धे श्री-मज्जीवगोस्वामिकृतबृहत्क्रमसन्दर्भे एकाशीतितमो\ऽध्यायः ॥८१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८१.३९ ॥
तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः ।
ब्राह्मणाः प्रभवो दै53वं न तेभ्यो विद्यते परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णस्यैवं ब्रह्मण्यता नाति-चित्रम् इत्य् आह—तस्येति ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मण्यता ब्राह्मण-भक्तिः । तस्य श्री-कृष्णस्य । देव-देवस्य सर्व-पूज्यस्य यज्ञ-पतेः सर्व-कर्म-फलदातुः प्रभोः सर्वेश्वरस्यापि पभवः स्वामिनः । यद् वा, प्रभवः समर्था अशुचीनाम् अपि शोधकत्वात्-तद् उक्तं वशिष्ठ-स्मृतौ—
समाप्ते शौच-काले\ऽपि न शुद्धिर् ब्राह्मणैर् विना । > शोधयन्त्य् असमाप्ते\ऽपि ततस् ते प्रभवो मताः ॥ इति ।
दैवं पूज्याः । वेदाः प्रमाणम् इतिवद्-ब्राह्मणा दैवम् इत्य् उद्देश्य-विधेय-भावत्वाल्-लिङ्ग-सङ्ख्यानियमाभावः । तेभ्यो ब्राह्मणेभ्यः । न ब्राह्मणैस् तुलये भूतम् अन्यत् [भा।पु। ५.५.२३] इति श्री-मद्-ऋषभोक्तेः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देव-देवस्य श्री-ब्रह्मादि-पूज्यस्य किञ् च **यज्ञ-**पतेर् विप्राद्य् अनुष्ठेय-यज्ञानां फल-प्रदस्य किञ् च प्रभोर् जगदीश्वरस्य, विशेषणानाम् एषं यथोतरं विप्र-सेवकत्वायोग्यताधिक्यम् । तस्यापि प्रभवः सेव्याः तेभ्यः परमन्यद्-दैवं देवता च नास्ति त एव भक्त्या पूज्या इत्य् अर्थः । एवं ब्राह्मणानां मनोहरणाद्-धरेर् इति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्येत्य् अस्यावतारिकाटीका श्री-कृष्णत्वम् एव तत्र हेतुर् इत्य् अभिप्रायेण यद् वा, ब्राह्मणस्य तस्य गुणातिशयं वक्ष्यन् श्री-भगवते गुण-विशेषम् आह—तस्येति । देव-देवस्य श्री-ब्रह्मादि-पूज्यस्य किं च, यज्ञपतेः विप्राद्य्-अनुष्ठेयय-ज्ञानां फल-प्रदस्य किं च, प्रभोर्-जगदीश्वरस्य विशेषणानाम् एतेषां यथोत्तरं विप्र-सेवनायोग्यत्वाधिक्यं तस्यापि प्रभवः सेव्याः वै एतत्-प्रसिद्धम् एव इत्य् अर्थः तस्मान्न् आश्चर्यम् इति भावः । तस्मात्-तेभ्यः परम् अन्यद्-दैवं देवता च नास्ति अत एव भक्त्या पूज्या इत्य् अर्थः । एवम् अन्यत्र ग्राम-कतिपयेश्वरम् अन्यादाव् अप्य् असम्भव-सम्भवेन गुणेन सर्व-मनोहरणात् हरेर् इति ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भक्तवत्सलस्यापि कृष्णस्यैषा ब्रह्मण्यतैव लोके प्रसिद्धा अभूदित्य् आह—तस्येति । सर्वेषां प्रभोर् अपि हरेर् ब्रह्मणा एव प्रभवः देव-देवस्यापि तस्य ब्राह्मणा एव दैवं **यज्ञ-**पतेर् अपि ते एव यजनीया इत्य् अर्थः ॥३९॥
॥ १०.८१.४० ॥
एवं स विप्रो भगवत्-सुहृत् तदा
दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् ।
तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस्
तद्-धाम लेभेऽचिरतः सतां गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यैर् अजितम् अपि स्व-भृत्यैः पराजितं दृष्ट्वा तस्य ध्यानं तस्य वेगस् तेनोद्ग्रथितम् आत्म-वन्धनम् अहङ्कारो यस्य सः । गतिम् इत्य्-आविष्ट-लिङ्गं धाम-विशेषणम् । सतां ब्रह्म-विदां प्राप्यम् इत्य् अर्थः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनासक्त-भोगे सुदाम्नः का सिद्धिर् जातेति चेदाह—एवम् इत्थम् ।
तदानासक्त-भोग-पूर्वक-हरि-भक्ति-करण-समये । तस्य श्री-कृष्णस्य । धाम स्वरूपम् । आविष्टं व्याप्तं लिङ्गं यस्मिंस् तत्-तथा । व्यासस्य त्यागासम्भवाद् अजहल्-लिङ्गम् इत्य् अर्थः । इत्य् अर्थ इति-गम्यते प्राप्यते साधन-सम्पत्त्या साक्षात्-क्रियत इति । गतिर् इति निरुक्त्यायम् अर्थः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अनेनोक्त-प्रकारक-तव्यवहारेण यद् वा, ईदृशः शीघ्रम् एव तद्-धाम श्री-वैकुण्ठ-लोकं लेभ इत्य् अन्वयः । यद् वा, द्वारवतीम् । भगवतः सर्वैश्वर्य-युक्तस्य श्री-कृष्णस्य सुहृत् सखेति उक्ते वक्ष्यमाणे च तत्-प्रसादे मूलकारणम् उक्तं स्वेस्तद् एक-निष्ठैर् एव भृत्यैः पराजितं वशीकृतं दृष्ट्वेति अतो ब्राह्मणाभिमान-परित्यागेन भक्त्य् एक-निष्ठो भूत्वेति भावः । अत एव तद्-ध्यानेति सत्ताम् एकान्तिकान्तिकानाम् अन्यत्-तैर् व्याख्यातम् ।
यद् वा, सतां गतिं **स्व-**भक्त-पराजितत्वाद् एव सर्वेषां साधूनाम् आश्रयणीयत्वं च जितम् । अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि स विप्रस् त्व् एवं पूर्वोक्त-प्रकारेण स्व-भृत्यैर् एव पराजितम् अजितं दृष्ट्वा भक्ताय चित्रा इत्य्-आदिना निश्चित्य तस्य भक्त-वशीकृतत्व् अस्य भक्त्या तम् अमुकेनैव वशीकृतो\ऽसाव् अमुकेनैवम् इति सप्रेम-चिन्तनं तस्य वेगः प्रवाहस् तेन उद्ग्रथितम् आत्म-बन्धनं ब्राह्मणत्वाद्य् अभिमानो यस्य सः तद्-धाम श्री-द्वारकाख्यं नित्य-तत्-स्थानम् अचिरतः शीघ्रम् एव लेभे तस्य च तत्-सर्वं नाश्चर्यम् इत्य् आह—**भगवत्-**सुहृद् इति । अन्यत्-तैः यद् वा, सतां नित्य-रूपाणां यादवानां गतिम् इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भक्तायेति । अदीर्घ-बोधाय मह्यं तु दुराग्रह-दर्शनाद् एव दत्तवान् इति भावः । स विप्रस् त्व् एवम् उक्त-प्रकारेण स्वभृत्यैर् एव पराजितं तम् अजितं दृष्ट्वा भक्ताय चित्रा इत्य्-आदिना निश्चित्य तस्य भक्त-वशीकृतत्वस्य यद्-ध्यानम् अमुकेनैवं वशीकृतो\ऽसावमुकेनैवम् इति चिन्तनं तस्य वेगः प्रवाहः नैतद्-ग्रथितम् आत्म-बन्धनं ब्राह्मणत्वाद्य् अभिमानो यस्य सः ब्रह्मण्यताम् इति किमुत मुख्येन तादृश-परिरम्भणादि ॥४०-४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यैहिकीं सम्पदम् उक्त्वा पारलौकिकीं सम्पदम् आह—एवम् इति । सर्वैर् अजितम् अपि **स्व-**भृत्यैः पराजितं वशीकृतं **दृष्ट्वा-तद्-ध्यान-**वेगेति तस्य पूर्ववृत्तम् उक्तम् ॥४०-४१॥
॥ १०.८१.४१ ॥
ए54तद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः ।
लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् पृथुकोपाख्यानं श्रुत्वा तत्र ब्रह्मण्यतां विशेषतः श्रुत्वेति ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच्-चरिताकर्णन-फलम् आह—एतद् इति । लब्धब्-हावः प्राप्त-भक्तिः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो विप्रो\ऽसौ श्री-भगवत्-सखो\ऽचिरात् तद्-धाम प्रापेति चित्रं न मन्तव्यं तत्-कथाश्रवणेनान्यस्यापि तत्-सिद्धेर् इत्य् आह—एतद् इति । ब्रह्मण्यं तम् अपि किं पुनः सख्येन तादृश-परिरम्भणादि नरो यः कश्चिद् अपि मनुष्य इत्य् अधिकारापेक्षा निरस्ता । भगवति कृष्णे लब्धो भावः प्रेमा येन तथा-भूतः सन् **कर्म-बन्धाद्-**विशेषेण मुच्यते । स्वयम् एव प्रारब्ध-भोगाधीनो न स्यात् । स्वेच्छया सुखं भक्तिम् अनुतिष्ठस् तत्-पदं लभत इत्य् अर्थः । अन्यत् तैर् व्याख्यातम्
यद् वा, एष उक्तो यो **ब्रह्मण्य-**देवस् तस्य श्री-कृष्णस्य इत्य् अर्थः । अत एव भगवति सर्वैश्वर्य-प्रकटके तस्मिन्न् एव **लब्ध-**भावः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो भगवन्-मित्रमसौ विप्रः शीघ्रं तद्-धाम प्रापेति चित्रं न मन्तव्यं तत्-कथा-श्रवणेनापि तत्-सिद्धेर् इत्य् आह—एतद् इति । **ब्रह्मण्य-**ताम् अपि किं पुनः सख्येन तादृश-परिरम्भणादि नरो यः कश्चिद् अपि मनुष्य इति अधिकारापेक्षा निरस्ता भगवति श्री-कृष्णे लब्धो भावः प्रेमा येन तथा-भूतस् सन् कर्म-बन्धाद्-विशेषण मुच्यते स्वयम् एव प्रारब्ध-भोगाधीनो न स्यात् स्वेच्छया सुखं भक्तिम् अनुतिष्ठस् तत्-पदं लभत इत्य् अर्थः । अन्यत्-तैः यद् वा, एष उक्तो यो **ब्रह्मण्य-**देवः तस्य श्री-कृष्णस्य इत्य् अर्थः । अत एव भगवति सर्वैश्वर्य-प्रकाशके तस्मिन्न् एव लब्ध-भावः ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
(१०.८२)
अथ द्व्यष्टीतमोऽध्यायः
प्रभासे सूर्योपराग-पर्वणि यदुभिः सह कुरूणां नन्दादि-गोपानां च समागमः ।
॥ १०.८२.१ ॥
श्री-शुक उवाच—
अथैक55दा द्वारवत्यां वसतो राम-कृष्णयोः ।
सूर्योपरागः सुमहान् आसीत् कल्प-क्षये यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
द्व्य्-अशीतितम आगत्य कुरु-क्षेत्रं रवि-ग्रहे ।
वृष्णीन् दृष्ट्वा मुदा भूपाश् चक्रुः कृष्ण-कथा मिथः ॥
श्री-दाम-सु56हृदे कृष्णः प्रकल्प्यैन्द्रं पदं भुवि ।
नन्दादि-सुहृदानन्दी कुरु-क्षेत्रं जगाम सः ॥
कल्प-क्षये यथा सर्व-ग्रास इत्य् अर्थः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रवि-ग्रहे सूर्य-ग्रहणे । स कृष्णः । इत्य् अर्थ इति—कल्प्यते तत्त्व-समूहेनेति कल्पं ब्रह्माण्डं जगद् इति यावत् । तस्य क्षये प्रलयादौ इत्य् अर्थोऽन्यद् अपि सर्व-ग्रास-ग्रहे प्रलय-साम्यं लोके भवतीति भावः । महा-भारतस्य तद्-उत्तर-भावित्वात् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ माङ्गल्ये । चिर-विरहार्ततर-व्रज-जनानां श्री-भगवत्-सन्दर्शन-मङ्गल-हेतूद्गमात् । एकदेत्य् अनेनास्योपाख्यानं पृथु-कोपाख्यानानन्तर्यं निरस्तम् । द्वारकायाम् इति श्री-युधिष्ठिरस्य राजसूयं सम्पाद्य साल्वादींश् च हत्वा सुखं तस्यां निवसतोर् इत्य् अर्थः
एवं तत्रत्यानां रामणेन रामः परमानन्द-प्रदत्वाच् च कृष्णस् तयोः, यद् वा, रमत इति रामः परम-सुखी, कृष्णश् च पर्मानन्द-घन इति तयोः, एतच् च तयोर् भावि-व्रज-जन-समागम-सुख-विशेषस्याभिप्रायेण, तथा सुमहान् इति सर्व-ग्रासस्य, कल्प-क्षये यथेति च, तत्रापि दीर्घ-कालस्येति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ कथान्तरारम्भे पृथुकोपाख्यानाद् अनन्तरं वा एकदेति राज-सूयात् पूर्वं कदाचिद् इत्य् अर्थः । द्वरकायां वसतो श्री-मथुरां त्यक्त्वा कियन्तम् अपि समयम् उषित्वा श्री-बलदेव-व्रज-गमनाद् ऊर्ध्वं कदाचिद् इत्य् अर्थः । द्वरकायां वसतो श्री-मथुरां त्यक्त्वा कियन्तम् अपि समयम् उषित्वा स्थितयोः सतोर् इत्य् अर्थः । सु-शब्दार्थं व्यञ्जयति कल्प-क्षये यथेति आच्छादनस्य कालस्य चातिबाहुल्यात् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
रवि-ग्रहे कुरुक्षेत्रे बन्धूनां सङ्गमो मिथः ।
कृष्णो व्रजस्थ-प्रेमाब्धौ द्व्यशीतितम आप्लुतः ॥
अथेति कर्मानुक्त-कथान्तरारम्भे एकदेति बलदेव-व्रज-गमनाद् ऊर्ध्वं राजसूयात् पूर्वम् एवेयं कुरुक्षेत्र-यात्रा, यद् अस्यां धृतराष्ट्र-विदुर-युधिष्ठिर-भीष्म-द्रोणादीनां सुखम् एकत्रावस्थितानां श्री-कृष्ण-दर्शनानन्द-कथा दृश्यते अस्या यात्राया राजसूयानन्तर्यत्वे त्व् एवं न सम्भवेत् यतो राजसूयानन्तरम् एव मन्यु-ग्रस्तेन दुर्योधनेन द्यूत-प्रवर्तनं, ततो वन-पर्व-दृष्ट्या साल्व-दन्तवक्र-वध-समकालम् एव युधिष्ठिरादीनां वन-गमनं तेषाम् आगमनानतरम् एव भीष्म-द्रोणादि-वध-मय-भारत-युद्धम् इति श्री-वैष्णव-तोषणी कल्प-क्षये यथा सर्व-ग्रास इत्य् अर्थः ॥१॥
॥ १०.८२.२ ॥
तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः ।
समन्त-पञ्चकं क्षेत्रं क्षेत्रं श्रेयो-विधित्सया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ज्योतिर्-विद्भिः कथ्यमानम् आदाव् एव ज्ञात्वा । स्यमन्त-पञ्चकं क्षेत्रं कुरु-क्षेत्रम् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं सूर्योपरागं दृष्ट्वा ज्ञात्वा पञ्चकस्य जामदग्न्य-कृत-ह्रद-पञ्चकस्य समीपे वर्तमानो देशः समन्त-पञ्चकम् । कुरुक्षेत्र-देशोऽष्ट-चत्वारिंश-शत्-क्रोशात्मकस् तम् । सर्वतः सर्व-देशेभ्यः श्रेयः पाप-हानि-पूर्वकं कल्यानावाप्तिस् तस्य विधित्सा कर्तुम् इच्छा तया ॥२॥
ह्रद-कारणम् आह—निःक्षत्रियाम् इति । ननु श्री-भार्गव-रामस् त्रिभिः सप्त-कृत्वः क्षत्रियाणाम् अनेक-देश-हतानां रक्तेन कथं कुरुक्षेत्रे ह्रदांश् चक्रे इत्य् आशङ्क्य ब्रह्माण्ड-पुराण-मध्य-भाग-सप्त-चत्वारिंशत्तमाध्याय-वचनैर् वारयति । तथा हि—
ततो मूर्धावसिक्तानां राज्ञाम् अमित-तेजसाम् । > षट्-सहस्र-द्वयं [१२००००] रामो जीव-ग्राहं गृहीतवान् ॥ > ततो राज-सहस्राणि गृहीत्वा मुनिभिः सह । > स जगाम कुरुक्षेत्रं महा-तेजास् तपोमयः ॥ > सरसां पञ्चकं तत्र खानयित्वा भृगूद्वहः । > सुखावगाह--तीर्थानि तानि चक्रे समन्ततः ॥ > जघान तत्र वै राज्ञस् तच्-छरीर-भवासृजा । > सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥ > स्नात्वा तेषु यथा-न्यायं जामदग्न्यः प्रतापवान् । > पितॄन् सन्तर्पयामास यथा-शास्त्रम् अतन्द्रितः ॥ > पितुः प्रेतस्य श्राद्धादि मातुश् चैव यथोदितम् । > कृत्वा तीर्ण-प्रतिज्ञः स तीर्थानि तानि चाकरोत् ॥ > सन्तुष्ट-पितृ-वरतस् ततः प्रोक्तं हि नाम तत् । > समन्त-पञ्चकम् इति मुनिभिर् दैवतैः सह ॥ इति ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मनुजा इति धर्माधिकारित्वात् । हे राजन्न् इति नर-श्रेष्ठेन त्वया तद् बुद्ध्यत एवेति भावः । यद् वा, सर्वेषां मनुजानां तत्र यानेन व्रज-जनानाम् अपि तेषां तत्र प्रयाणं सङ्केतेन बोधयति, श्रेयः स्नान-दानादि सुकृतम् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे राजन्न् इति । तं पूर्व-कथायाम् आविष्टम् अस्याम् अवधापयति । अत्र पूर्वतोऽपि रस-विशेषोऽस्तीति द्योतनाय श्रेयः स्नान-दानादि-सुकृतम् ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समन्त-पञ्चकं कुरु**-क्षेत्रं** सूर्योपरागे खल्व् अस्यैव क्षेत्रस्य सर्वतः सकाशाद् अपि पुण्य-प्रदत्वाधिक्य-श्रवणाद् इति भावः ॥२॥
॥ १०.८२.३ ॥
निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः ।
नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अब्रह्मण्य् अक्षत्रिय-वध-स्थानत्वेन परशुरामस्याघापनुत्ति-स्थानत्वेन च क्षेत्रस्य पाप-निरासकत्वम् आह—निःक्षत्रियाम् इति द्वाभ्याम् ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र समन्त-पञ्चके ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शस्त्र-भृतां वरत्वेनैव निःक्षत्रियां कुर्वन् यतो रामः रेणुका-नन्दनः महतो ह्रदान् पञ्च चक्रे इति समन्तात् पञ्च ह्रदा यस्मिन्न् इति स्यमन्त-पञ्चकम् इत्य् आख्या-करणं चोह्यम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव गमने हेतुः—निःक्षत्रियाम् इति । द्वयं श्री-परशुराम-प्रभाव एव तस्य तादृशत्वे हेतुर् इति महा-ह्रदान् इत्य् एतत् स्यमन्त-पञ्चकम् इतीत्य् आख्या-कारणम् ऊह्यम् समन्तात् पञ्च-ह्रदा यस्मिन्न् इति ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षेत्रस्यास्य श्री-परशुराम-पराक्रम-द्योतकत्वम् आह—निःक्षत्रियाम् इति ॥३॥
॥ १०.८२.४ ॥
ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा ।
लोक57ं सङ्ग्राहयन्न् ईशो यथान्योऽघापनुत्तये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यो विद्वन् यथा ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरत्वेनाहङ्काराभावाद् अस्पृष्ट-कर्मापि—
यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते । > हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥ [गीता १८.१७] इति > श्री-मुखोक्तेः
लोक-सङ्ग्रहार्थम् ईजे । यथान्यः प्राकृतः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् ईश्वरः । श्री-भगवद्-अवतारत्वात् । अतः कर्मणा विधि-निषेध-लक्षणेनास्पृष्टोऽपि, अघस्य बहुशः सर्व-क्षत्रिय-वध-पापस्यापनुत्तये सङ्क्षपणाय ईजे । तत् प्रयोजनम् आह—लोकम् इति । सम्यग् ग्राहयन् शिक्षयितुम् । तच् च किम्-अर्थम् ? ईशः सर्व-लोकेश्वरः सद्-धर्म-प्रवर्तनेन लोक-हितार्थम् इति भावः । किं वा, सर्वं कर्तुं समर्थः, अतो यथान्यः कर्माधीनस् तथेजे, इति यागस्य यथा-विधि सम्यग् अनुष्ठानं च सूचितम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : लोक-सङ्ग्रहे हेतुः—ईशः सर्व-लोकेश्वरः स धर्म-प्रवर्तनेन सर्व-लोक-हितार्थम् इति भावः । प्रशंसा चेयं श्री-व्रज-वासिनां श्री-कृष्ण-मिलनानन्द-गर्भा ज्ञेया तत् तीर्थ-यात्रा-हेतुकत्वात् तस्य पद्य-द्वये चात्र तदा फलाधिक्य-वशात् ते ययुर् इत्य् अतस् तत्-प्रतिष्ठापनं च ग्रहण-योग एव । तेन कृतम् इति बोधितम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न च यज्ञ-भोक्तुस् तव स्वार्थम् एवेदं कर्म यतो नहीति । न च त्वदीयानाम् अस्माकं स्वाभिमान-मयम् एतत् ॥४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पापापनोदकत्वम् आह—ईजे चेति ॥४॥
॥ १०.८२.५-६ ॥
महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः ।
वृष्णयश् च तथाक्रूर-वसुदेवाहुकादयः ॥
ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः ।
गद-प्रद्युम्न-साम्बाद्याः सु58चन्द्र-शुक-सारणैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आगन्न् आजग्मुः भारतीर् भारत्यः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थ-यात्रायाम् उपस्थितायाम् । तत्र कुरुक्षेत्रे ॥५॥ तत् क्षेत्रं समन्त-पञ्चकम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महत्याम् इति सर्व-ग्रासेन महा-पर्वतत्वात् । अत एव भारत्यो **भारत-**वर्ष-वर्तिन्यः सर्वा एवेत्य् अर्थः । तासाम् एव तत्राधिकारि-विशेषात् प्रजा एव विशेषतो निर्दिशन्, तासु परम-श्रेष्ठत्वाद् आदौ यादवान् आह—वृष्णय इति यादवाः । च-शब्दाद् श्री-राम-कृष्णादयोऽपि । न च राजसूयादाव् इव वृद्धा गृहेषु स्थिता इत्य् आह—तथेति समुच्चये । आदि-शब्दात् शूरान्धकादयः । तेषां विशेषतो निर्देशो वृद्धत्वादिना तेषां सत्-कर्मादर-विशेषात् । तत्राक्रूरस्यादित्वां तस्यात्यन्तादर-विशेषात् । यद् वा, तथा तेन प्रेजानां महा-पर्व-यात्रा-प्रकारेणैवाक्रूरादयो वृष्णयः स्वम् अघं क्षपयिष्णवः क्षपयितुम् इच्छव इत्य् अर्थः । एतच् च—यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः [गीता ३.२१] इति न्यायेन । श्री-जामदग्न्यवल् लोक-शिक्षणार्थम् एव । अत एव श्री-राम-कृष्णयोः साक्षाद् अनुक्तिश् च तयोः श्री-नन्दादि-व्रज-जन-समागमनं तत्र प्रयाणात् । हे भारतेति भारत-वंश्य-प्रधानेन त्वया मुख्यानां कर्म-कारणं तद् यात्रा-मुख्य-प्रयोजनं च बुध्यत एवेति भावः । केवलं पुण्य-परा वृद्धा एव । कुमाराश् च ययुर् इत्य् आह—गदेति । सुचन्द्रः श्री-रुक्मिण्याः पुत्रोऽष्यमश् अश् चारुचन्द्रस् तद्-आदिभिः सह गदादयश् च ययुः ॥५-६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महत्याम् इत्य् अर्धकम् । महत्याम् इति सर्व-ग्रासेन महा-पर्वतत्वात् । अत एव भारत्यः भारत-वर्ष-वर्तिन्यः प्रायः सर्वा एवेत्य् अर्थः । वृष्णय इति युग्मकम् । प्रजास्व् अवतीर्णत्वं तच्-छ्रेष्ठत्वाङ्गीकाराद् आदौ यादवान् आह—वृष्णय इति सपादेन । श्री-कृष्ण-रामादय इत्य् अर्थः । यथा ते तथैवाक्रूरादय इति तेषां प्रायः श्री-कृष्ण-साहित्य-गमनादर्शनात्, तथाक्रूरस्यादित्वं कर्मण्य् अत्यन्तादूरात् स्वम् अघं क्षपयिष्णवः क्षपयितुम् इच्छव इत्य् अर्थः । एतच् च विशेषः सर्वेषाम् एव तत्र वृष्णीनां लीलया तद् अन्य् केषाञ्चित् वस्तुतोऽपि न केवलं पुण्य-परावृद्धा एव कुमाराश् च ययुर् इत्य् आह—गदेत् । ते द्वारका-रक्षणे के आसन् ? तत्राह—सुचन्द्रेति पाद-त्रयेण । सुचन्द्रः श्री-रुक्मिण्याः पुत्रश् चारुदेष्णः ॥५-६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आगन् आजग्मुः भारतीः भारत्यः ॥५-६॥
॥ १०.८२.७-८ ॥
आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।
ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः ॥
गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः ।
व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुचन्द्र-शुक-सारणैः सहानिरुद्धो द्वारका-रक्षायाम् आस्ते । तथा कृत-वर्मा च यूथ-पतिः सेनानीः । देव-धिष्ण्याभैर् विमान-सङ्काशैः । तरलास् तरङ्गास् तद्वत् प्लवो गतिर् येषां तैः ॥७॥
विद्याधर-द्युभिर् विद्याधराणाम् इव द्युतिर् येषां तैः । महा-तेजा महा—तेजसः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते वृष्णयः । तरलश् चञ्चले वक्रे तरङ्गे सुर-षिङ्गयोः इति कोषात् । भेकोडुपगतौ प्लवः इति । भेदादीनां समाहार-द्वन्द्वः ॥७॥
महा-तेजा इति समासान्तो ड-प्रत्ययः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रक्षायां रक्षार्थम् आस्ते आसीत् । तस्याभिनव-वयस्त्वादिना यद् यात्रापेक्षा-विशेषात् । यद् वा, मुख्यतमानां चतुर्णां तेषाम् एकतमस्य तत्रापेक्ष्यत्वात् तत्रापि तस्य सर्व-लघुत्वाद् इति । ते वृष्णयो रथादिभिः सेना-चतुर्-अङ्गैः कृत्वा ॥७॥
कलत्रैः सह पथि विशेषेण श्री-नन्दादि-समागमाशयाधिक्येनारोचन्त अशोभन्तेति द्वाभ्याम् अन्वयः । नदद्भिर् मदेन बृंहमाणैः । किं च, अभ्राभैः स्थौल्यादिना मेघ-तुल्यैः । नृभिः पदातिभिः । काञ्चनस्य माला तत्-पुष्प-माल्यम् । किरीट-कुण्डलादि-रूपेण पङ्क्तिर् वा, तद्वन्तः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रक्षायां रक्षार्थम् आस्ते आसीद् इति अनिरुद्धस्यात्य् अल्प-वयस्त्वादिना लघुत्वेऽपि प्राधानान् महानुभावत्वं ज्येष्ठान्वयत्वात् तादृश-व्यवहारार्हत्वं च दर्शितम् । अनिरुद्धोऽयं श्री-कृष्ण-पुत्रो वा ते इति च युग्मकम् । ते वृष्णयो रथादिभिः सेनायाश् चतुर्भिर् अङ्गैः कारण-भूतैः नृभिः पदातिभिः ॥७-८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिरुद्धो द्वारका-रक्षायाम् आस्ते इति तस्यैव श्वेत-द्वीपस्थस्य पालन-कर्तृ-विष्णुत्वेन प्रसिद्धेः । देव-धिष्ण्याभैर् देव-विमान-तुल्यैः ॥७॥
महा-तेजा महा-तेजसः ॥८॥
॥ १०.८२.९-१० ॥
दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव ।
तत्र स्नात्वा महा-भागा उ59पोष्य सुसमाहिताः ॥
ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः ।
राम-ह्रदेषु विधिवत् पुनर् आप्लुत्य वृष्णयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिव्या अत्युत्तमाः स्रग् वस्त्र-सन्नाहा येषाम् ॥९॥
पुनर् अन्येद्युर् आप्लुत्य । यद् वा, तस्मिन्न् एवाहनि मुक्ति-स्नानं कृत्वा ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र राम-ह्रदेषु ॥९॥
यथान्येद्युर् अन्यस्मिन् दिने द्वितीय-दिवस-स्नाने । पुनः पद-प्रयोगास्वारस्यं मत्वाह—यद् वेति । मुक्ति-स्नानं ग्रहणान्त-स्नानम् । आदौ स्नानं तथा चान्ते मध्ये दानं प्रकीर्तितम् इति स्मृतेः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्रक् पुष्पादि-निर्मिता । सन्नाहः कवचम् । एवं महा-तेजस्त्वादिना शीघ्रग-दिव्य-रथारोहणादिना च खेचराः सिद्धा इव । तथा तेषु ह्रदेषु महान् भागो भाग्यं श्री-भगवद्-बन्धुत्व-कारणम् । किं वा, प्रेम-भक्ति-लक्षणो लाभांशो येषां यादवानां ते, इति बाह्यान्तराशेष-सुसम्पत्तिमत्ता सद्-धर्म-परता च सूचिता । अत उपोष्य सूर्य-ग्रहणापेक्षयैव, न तु तीर्थोपवासापेक्षया । वर्जयित्वा कुरुक्षेत्रम् इति स्मृतेः । सुसमाहिताश् च क्रीडादि-परित्यागेन तद्-एक-चित्ताः सन्तः । स्वन्नम् उत्तमान्नं द्विजाग्रेभ्यः विप्रेभ्यः श्री-भगवद्-भक्ति-परत्वादिना विप्र-श्रेष्ठेभ्यो वा महा-भागत्वम् एव दर्शयन् स्वन्न-दानादौ [स्नान-दानादौ] सुसङ्कल्पितम् आह—कृष्ण इति । श्री-देवकी-नन्दने भगवति, न इति प्रत्येकं स्व-स्व-परिवारापेक्षया ॥९-१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कलत्रैः सह खेचराणां दृष्टान्तत्वं साधारण-जन-चमत्काराय श्री-कृष्णे चन्द्रादीनाम् इव तत्र तेषु ह्रदेषु उपोष्य सूर्य-ग्रहणापेक्षयैव, न तु तीर्थोपवासापेक्षया, मुण्डनं चोपवासश् च सर्व-तीर्थेष्व् अयं विधिः, वर्जयित्वा कुरुक्षेत्रम् इति स्मृतेः ॥९-१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् आप्लुत्य उपराग-मुक्ति-स्नानं कृत्वा ॥१०॥
॥ १०.८२.११-१२ ॥
ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति ।
स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः ॥
भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु ।
तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्निग्धा शीतला छाया येषाम् अङ्घ्रि-पानाम् अङ्घ्रिषु मूलेषु ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-अनुज्ञाता ब्राह्मणादिष्टाः ॥११॥
स्निग्धः शीतल-चिक्कणे इति धरणिः । अङ्घ्रिषु अधस्तात् । तत्र कुरुक्षेत्रे । ते यदवः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं ग्रहण-दिनेऽप्य् आह—स्वयम् इति । च तु स्वयं त्व् इत्य् अन्यतो विशेषं बोधयति—तम् एवाह । तेन कृष्णेनानुज्ञाताः स्व-स्व-स्थाने प्रस्थापिता अनुमोदिता वा सन्तो भूत्वा, यतः कृष्ण एव देवता इष्ट-देवो येषां ते । अतस् तद्-अनुज्ञयैव स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिः बन्धु-वर्ग-समागमापेक्षया कामं यथेष्टम् उपविविशुः । बान्धवा मित्राणि सम्बन्दिनः नृपान् इति पाठः स्पष्टः । पाठान्तरं स्पष्टम् तान् एवाह—मत्स्येति । उशीनरान् आवन्त्यान् ॥११-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वन्नम् उत्तमान्नं महा-भागत्वम् एव दर्शयन् स्नान-दानादौ सुसङ्कल्पितम् आह—कृष्ण इति । न इति प्रत्येकं स्व-स्व-परिवारापेक्षया भक्तिः सादर-प्रेमास्तु भगवतात् लालसा-स्वभावोऽयम् । एवं ग्रहण-दिने कृतम् उक्त्वा तत्-पर-दिनेऽप्य् आह—स्वम् इति । तद्-अनुज्ञाताः व्रत-समाप्तौ तद्-अनुज्ञाम् प्रार्थ्य प्राप्य चेत्य् अर्थः । तत्र हेतुः—कृष्ण इति ॥११॥
तत्रेति सार्ध-द्वयम् । कांश्चिन् निजागमनात् पूर्वम् आगतान् कांश्चित् पश्चाद् आगतान् तत्र कांश्चिद् उपरागात् पूर्वं कांश्चित् तु पश्चाद् ददृशुर् इत्य् अर्थः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्निग्धा छाया येषां तेषाम् अङ्घ्रिपानाम् अङ्घ्रिषु तलेषु ॥१२॥
॥ १०.८२.१३-१४ ॥
मत्स्योशीनर-कौशल्य-विदर्भ-कुरु-सृञ्जयान् ।
काम्बोज-कैकयान् मद्रान् कुन्तीन् आन60र्त-केरलान् ॥
अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप ।
नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आनर्तेत्य् अत्र आरट्टेति पाठोऽपि क्वचित् ॥१३॥
आत्म-पक्षीयाः पाण्डवाद्याः । पराश् च दुर्योधन-पक्षीया गान्धाराद्याः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्दादीन् नन्द-सनन्दोपनन्दादीन् सुहृदो गोपान् दामादीन् गोपीश् चोत्कण्ठिताश् चिरम् इत्य्-आदिना ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काम्बोजान् आरदांश् च सिन्धु-पारीणान् एव । अपि अन्यान् अप्य् आत्म-पक्षीयान् इति । मत्स्यादीनाम् आत्म-पक्षीयत्वम् उक्तम्। च-काराद् उदासीनांश् च । यद् वा, एव इव । आत्म-पक्षीयान् इव । परांश् च विपक्षान् तीर्थे द्वेषाति-त्यागात् शतश इत्य् असोभयेष्व् अप्य् अन्वयः । सुहृदो मित्राणि । सुहृद् इत्य्-आदौ प्राग् उक्तेऽपि पुनर् अप्य् एतद् उक्तिः सौहृद-विशेष-विवक्षया । च अपि । गोपीश् च चिरम् उत्कण्ठिताः श्री-भगवद्-दर्शनोत्सुकाः । अतोऽन्यासां बह्वीनां स्त्रीणां समागमेऽप्य् आसाम् एव दर्शनोक्तिः । सर्व-श्रैष्ठ्यात् श्री-भगवद्-दिदृक्षया व्यग्राणाम् अतोऽग्रतोऽभिस्रुतानां तासाम् एवादौ दर्शनात् । किं च, तासां परम-दुर्लभ-दर्शनत्वेन सर्वान्ते निर्देशः । अत-एव च-कारश् च एवं प्रेमोद्रेकेण सम्बोधयति—नृपेति ॥१३-१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृपान् एवाह—मत्स्येति । उशीनरान् आवन्त्यान् । काम्बोजान् आरदांश् च सिद्नु-पारीयान् श्री-नन्दादींश् च । तत्रागतान् इत्य् अन्वयार्थस्यायं भावः—ज्ञातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति अत्वायां-अभिप्रायेण मथुरा-द्वारकादौ पूर्वम् आगमनं प्रतिपाद्य, ततः परमोत्कण्ठितास् ते कथम् अपि तन्-मिषं लब्ध्वा गता इति सुहृदो मित्राणि सुहृद् इत्य् आदौ प्राग् उक्तेऽपि पुनर् अप्य् एतद् उक्तिः सौहृद-विशेष-विवक्षया गोपीश् च चिरम् उत्कण्ठिताः श्री-भगवद्-दर्शनोत्सुका इत्य् एवम् अत्रान्यत्र च तासाम् ईदृश-विशेषणं विना निर्देश एव न क्रियत इति माहात्म्य-विशेषः सूचितः । एवं प्रेमोद्रेकेण सम्बोधनं नृपेति ॥१३-१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्दादीन् इत्य् आदि । नन्दोपनन्द-सन्नन्दादीन् सुहृदो गोपान् दाम-सुदाम-वसुदामादीन् । गोपीश् चोत्कण्ठिता इत्य् आदिनान्योन्य-सन्दर्शनेनेत्य् अत्र नन्दादयो वसुदेवादिभिः परिष्वङ्गं चक्रुर् इत्य् अर्थः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.१५ ॥
अन्योन्य-सन्दर्शन-हर्ष-रंहसा
प्रोत्फुल्ल-हृद्-हृद्वक्त्र-सरोरुह-श्रियः ।
आश्लिष्य गाढं नयनैः स्रवज्-जला
हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रोत्फुल्लैर् हृद्-हृद्वक्त्र-सरोरुहैः श्री-ः शोभा येषां ते ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्योन्य-सन्दर्शन- इत्य्-आदिना नन्दादयो वसुदेवादयश् च स्त्रियश् च संवीक्ष्य ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रादौ सामान्यतः सर्वेषां पुंसां मिथः समागम-सुखम् आह—अन्योन्येति । अन्योन्यं यत् सन्दर्शनं साक्षाद्-दर्शनं, तेन हर्षस्य रंहो वेगः, तेन कृत्वा प्रकर्षेण उत्फुल्लानि हृद्-रूपाणि हृद्वक्त्र-रूपाणि च सरोरुहाणि, तैः श्री-र् येषां तथा-भूताः सन्तो गाढम् आश्लिष्य मुदं ययुः । तल्-लक्षणम् आह—नयनैर् इत्य् आदि-विशेषणैस् त्रिभिः । येषां यथोत्तरम् तल्-लक्षणत्वे श्रैष्ठ्यम् इत्य् आनन्द-विशेष उक्तः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रादौ श्री-कृष्ण-भक्तानां सामान्यतः सर्वेषां पुंसां समागम-सुखम् आह—अन्योन्येति । अन्योन्यं यत् सन्दर्शनं साक्षाद्-दर्शनं, तेन हर्षस्य रंहो वेगः, तेन कृत्वा प्रकर्षेण उत्फुल्लानि हृदय-पाणि-हृद्वक्त्र-रूपाणि च सरोरुहाणि, तैः श्री-र् येषां तथा-भूताः सन्तो गाढम् आश्लिष्य मुदं ययुः । नयनैर् इत्य् आदि-विशेषणैस् त्रिभिः, एषां यथोत्तरम् उक्त-लक्षणत्वे श्रैष्ठ्यम् इत्य् आनन्द-विशेष उक्तः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.१६ ॥
स्त्रियश् च संवीक्ष्य मिथोऽतिसौहृद-
स्मितामलापाङ्ग-दृशोऽभिरेभिरे ।
स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान्
निहत्य दोर्भिः प्रणयाश्रु-लोचनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतिसौहृदेन यत् स्मितं तेनामला अपाङ्गैर् दृशो दृष्टयो यासां ताः । मिथः परस्परं संवीक्ष्य दोर्भिर् अभिरेभिरे आलिङ्गनं कृतवत्यः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निहत्य संयोज्य ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मिथोऽतिसौहृद-इत्य्-आदिषु स्त्रियश् च कुन्त्य्-आदयो देवक्यादिभिः श्री-गोप्यो रुक्मिण्य्-आदिभिः परिष्वङ्गं चक्रुर् इत्य् अर्थः ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथैव स्त्रीणाम् अप्य् आह—स्त्रियश् चेति । सम्यग् वीक्ष्य साक्षाद् दृष्ट्वा । सं -शब्दार्थम् एव विवृणोति—अतिसौहृदेति । मिथो दोर्भिः प्रसारितैर् अभिरेभिरे । अत एव स्तनैः स्तनान् मिथो नितरां हत्वा गाढालिङ्गनेन पीनोत्तुङ्ग-कुचानाम् अधिक-मर्दनात् । प्रणयेनाश्रु-युक्त-लोचना इत्य् अत्र प्रणय-शब्द-प्रयोगस् तासां स्नेह-विशेषेणाश्रु-स्रावाधिक्यं द्योतयति । च-शब्द-बलात् हृष्यत्-त्वचो रुद्ध-गिर इत्य् अप्य् अत्र बोद्धव्यम् एव । प्रणय-स्वभावात् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैव तद्-भक्तानां स्त्रीणाम् आह—स्त्रियश् चेति । मिथ इति सर्वत्रोपयोज्यं निहत्य गाढालिङ्गनाद् उन्मर्द्य ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.१७ ॥
ततोऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः ।
स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः स्त्री-मेलापोत्तरम् । ते यदवः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सर्व-जनानां सामान्यतः समागमम् उक्त्वा अधुना विशेषत आह—तत इति । हे वृष्णयः ! सर्व एव नृपादयो वा लोकाः वृद्धान् ज्येष्ठान् यविष्ठैः कनिष्ठैर् मिथः पृष्ट्वा कृष्णस्य कथाश् चक्रुर् इत्य् एतस्य किञ्चिद् दूर-स्थित्या परोक्षं किं वान्तिके साक्षाद् एव प्रेम-वैवश्यात्, एवम् अग्रेऽपि ज्ञेयम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सर्व-जनानां सामान्यतः समागमम् उक्त्वा विशेषत आह—तत इति । वृद्धान् ज्येष्ठान् यविष्ठैः कनिष्ठैः मिथः पृष्ट्वा मिथः कथाश् चक्रुः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.१८ ॥
पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि ।
भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सङ्कथया मिथः स-प्रेम-गोष्ठ्या ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-पुत्रान् भ्रातृ-स्वसृ-पुत्रान् । शुचः शोकान् अश्रूणि वा, शोकेऽस्रे शुक् तथा शुद्धौ इति निरुक्तिः । गाथायां च पुराणादेः प्रेम-गोष्ठ्यां च सङ्कथा इति च ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव श्री-कुन्ती-वसुदेवयोर् विशेषं रस-विशेषेण विस्तार्याह—पृथेति पञ्चभिः । भ्रतॄन् श्री-वसुदेवादीन्, स्वसॄः श्रुतदेव्य्-आद्याः, तत्-पुत्रान् बलदेव-गदादीन् सन्तर्दनादींश् च, पितरौ शूरं तत्-पत्नीं च भोज्यां भ्रातृ-पत्नीः श्री-देवक्य्-आद्याः, शुचः चिरादर्शन-शोकान् जहौ तत्याज । यद् वा, अश्रून्य् अमुञ्चत् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव श्री-कुन्ती-वसुदेवयोर् विशेषं रस-विशेषणं विस्तार्याह—पृथेति पञ्चभिः । भ्रतॄन् श्री-वसुदेवादीन् स्वसॄः श्रुतदेव्य्-आद्याः, तत्-पुत्रान् श्री-राम-गदादीन् सन्तर्दनादींश् च पितरौ शूरं तत्-पत्नीं च भोज्या भ्रातृ-पत्नीः श्री-देवक्य्-आद्याः, शुचः चिरादर्शन-शोकान् जहौ तत्याज । यद् वा, अश्रून्य् अमुञ्चन् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.१९ ॥
कुन्त्य् उवाच—
आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् ।
यद्61 वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताम् एव वसुदेव-पृथयोः सङ्कथाम् आह—आर्येत्य्-आदि चतुर्भिः । अकृताशिषम् अपूर्ण-मनोरथम् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताम् एव प्रेम-गोष्ठी-रूपाम् एव । आर्य-भ्रातर् ज्येष्ठ-भ्रातः । यद्यपि अग्रजातेति तां कन्यां शूरोऽनुग्रह-काम्यया । अददत् कुन्ति-भोजाय इति महा-भारतोक्त्या पृथैव ज्येष्ठा, तथापि तद्-भ्रातृषु वसुदेवस्यैव ज्यैष्ठ्यम् इति यत्-तदोर् नित्य-सम्बन्धाद् यतो नानुस्मरथ, ततो हेतोर् अकृतात्मानम् इति योज्यम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र श्री-भगवत्-पितृत्वेन श्री-वसुदेवस्य सर्वतः श्रैष्ठ्यात् तं संबोध्याह—आर्येति । हे गुरो ! ज्येष्ठत्वात् । इत्य् आत्मनस् तत्-पाल्यत्वं सूचयति । हे भ्रातर् इति स्नेहं जनयति । यद् वा, एकम् एव-पदं हे बृहद्-भ्रातर् इत्य् अर्थः । भावः स एव । यद् यस्मात् वै अपि आपत्स्व् अपि सत्तमा बन्धु-वात्सल्य-दीन-वात्सल्यादिना महा-साधु-वरा अपि यूयं नानुस्मरथ अन्वाचयेनापि न स्मरथ, बहुत्वं पुत्राद्य्-अपेक्षया ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्रैष्ठ्यात् श्री-वसुदेवम् संबोध्याह—आर्येति । हे गुरो ! ज्येष्ठत्वात् । इत्य् आत्मनस् तत्-पाल्यत्वं सूचयति । हे भ्रातर् इति स्नेहं जनयति । यद् वा, एकम् एव-पदं हे बृहद्-भ्रातर् इत्य् अर्थः । भावः स एव । यद् यस्मात् । सत्तमाः सत्तमत्वेन बन्धु-वात्सल्य-दीन-वात्सल्य-योग्यापेक्षया ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अकृताशिषम् अकृत-सुकृतम् यद् यतो वै निश्चितम् एव सत्तमा अपि नानुस्मरथेति ममैव भाग्यं नास्ति, युष्माकं कोऽपराध इति भावः ॥१९॥
॥ १०.८२.२० ॥
सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि ।
नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य दैवम् अदक्षिणम् अननुकूलं तं स्व-जनम् अपि सन्तं सुहृदादयो नानुस्मरन्ति । अतो मम दैवं प्रतिकूलं, युष्माकं कोऽपराध इति भावः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य तं नानुस्मरन्तीत्य् अर्थः । प्रतिकूले रमा-कान्ते सरले वक्रता भवेत् इत्य्-आद्य्-उक्तेः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुहृदः सम्बन्धिनः सुहृद्-आदीनां यथोत्तरं सेन्हणुस्मरणे श्रैष्ठ्यम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुहृदः सम्बन्धिनः सुहृद्-आदीनां यथोत्तरं सेन्हणुस्मरणे श्रैष्ठ्यम् ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२१ ॥
श्री-वसुदेव उवाच—
अम्ब मास्मान् असूयेथा द62इव-क्रीडनकान् नरान् ।
ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वसरि मातरि चाम्बा इति व्याडिः । अम्ब हे स्वसः ! ॥२१-२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अम्ब हे मातर् इति कनिष्ठ-भगिनीत्वेन स्नेह-विशेषात् देवस्य ईश्वरस्य क्रीडनं क्रीडा, तेन कातरान् विवशान् देव-क्रीडनकान् नरान् इति पाठे पाठान्तरे क्रीडनकान् क्रीडा-साधनानि तत्रापि नरान् देवाद्य्-अपेक्षया स्वल्प-शक्तिमत इत्य् अर्थः । रोग-जरा-मरणादि-धर्मिणो वा । अयम् एव पाठः । सत्-सम्प्रदाय-सिद्धः । आद्यास् तु चित्-सुख-पाठ-सम्मतः । एवम् उक्तम् अस्वातन्त्र्यम् एव दर्शयति—हि यतः । वशे तिष्ठन्न् एव स्वयं किञ्चित् करोति । अथवा इति समुच्चये । अन्येन किञ्चित् कार्यते च । यद् वा, लोको यत् कुरुते कार्यते वा तत् सर्वम् ईशस्य वशे तद्-अधीनम् एवेत्य् अर्थः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अम्ब हे मातर् इति कनिष्ठ-भगिनीत्वेन स्नेह-विशेषात् देवस्य ईश्वरस्य क्रीडनं क्रीडा, तेन कातरान् विवशान् । देव-क्रीडनकान् नरान् इति पाठे क्रीडनकान् क्रीडा-साधनानि । तत्रापि नरान् देवाद्य्-अपेक्षया स्वल्प-शक्तिमत इत्य् अर्थः । रोग-जरा-मरणादि-धर्मिणो वा । आद्यास् तु पाठः चित्-सुख-सम्मतः । एवम् उक्तम् अस्वातन्त्र्यम् एव दर्शयति—ईशस्येति । हि यतः । अथवा इति समुच्चये । लोकः स्वातन्त्रेय्ण यत् कुरुते कार्यते पारतन्त्र्येण, तत्र नियोजन-विषयो भवति, तत् सर्वम् ईशस्य वशे तद्-अधीनम् एवेत्य् अर्थः । तस्य नियोजकस्यापि नियोजकत्वात् ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्ब हे परम-वत्सले ! कनिष्ठ-भगिनीत्य् अर्थः । दैवस्य क्रीडनकान् क्रीडा-साधनानि कुरुते स्वातन्त्र्येण कार्यते पारतन्त्र्येण ॥२१॥
॥ १०.८२.२२ ॥
कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम्63 ।
एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश-वशत्वम् एवाह—कंस-प्रतापिता इति । हे स्वसः ! एतर्ह्य् एव संप्रत्य् एव ॥२२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कंसेन प्रकर्षेण तापिताः पीडिताः । दैवेनेश्वरेणैव, न तु स्व-शक्त्या इत्य् अस्वातन्त्र्यम् एव दृढीकृतम् । हे स्वसर् इति भगिनीत्वेन तत् सर्वं त्वया श्रुतम् अस्त्य् एवेति भावः । यद् वा, ताम् आश्वासयन् प्रहर्षयति—एतर्ह्य् एवेत्य् अनेनास्या यात्राया कंस-वधस्य पश्चात् श्री-द्रौपदी-विवाहानन्तरं श्री-युधिष्ठिरस्य राज्यार्ध-प्राप्तेर् आनन्तर्य-सम्भवेऽपि राजसूयानन्तरत्वम् एव ज्ञेयम् । युधिष्ठिरम् अनुव्रताः [भा।पु। १०.८२.२६] इति वक्ष्यमाणत्वात् । तथा तत्र जरासन्ध-शिशुपालाद्य्-अभावाच् च । ततश् च चिर-कालेऽतीतेऽत्यतर्ह्य् एवेत्य् आश्वासनार्थम् । यद् वा, कंस-भयेन दूरं गतानां यादवानां तदानीम् एव सर्व-श्रेष्ठत्वेन सर्व-सम्मान-कर्तार्हत्वात् । ततश् चाच्युतस्य सर्व-सौन्दर्यादि-परिपूर्णस्य भगवतः सन्दर्शः साक्षाद्-दर्शनम् । तेनतद् एव परमानन्दो ब्रह्म-सुखाद् अपि सुख-विशेषः, तेन निवृत्तास् तृप्ताः परिपूर्णा इत्य् अर्थः । किं वा, निःशेषेण वृता व्याप्ता आसन् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कंसेति । अयम् अर्थः— पूर्वं तात्कौमारम् आरभ्य वेणस्यैव कंसस्य प्राबल्ये विशेषतश् च केश्य्-अरिष्ट-तृणावर्त-पूतनादि-सङ्ग्रहे जाते, तेन प्रतापिताः नभो-वाणीम् आरभ्य तु ततोऽप्य् अतितरां कीर्तिमद्-आदि-जन्मारभ्य, ततोऽप्य् अधिकतमं प्रतापिताः देवर्षि-वचनम् आरभ्य तु दिशं गताः, तद्-उपलक्षणत्वेन बद्धाश् च प्रस्थापित-बालक-द्वये गोकुले तत्-कृतोपद्रवस्थिति-भीताश् च । तद् एतद् अप्य् उपलक्षणं जरासन्ध-कृत-मुहुर्-अवरोधे तु दिशं दिशं गन्तुम् अप्य् अशक्ता द्वारकाम् आगताः । अपि जतु-गृहे भवतां दाह--प्रतीत्या निरालम्ब-व्यग्र-चित्ता वयम् एतर्ह्य् एव भवत्-पुत्राणां कुर्व्-अर्ध-राज्य-प्राप्ति-समय-रूपे दशां श्रोतुम् आगृह्णत्या भवत्या ज्ञायत इति भावः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कंस-प्रतापिताः सर्वे वयं दिशं दिशं याता [भा।पु। १०.८२.२१] इत्य् अन्यान् इतस् ततः कंस-भयात् पलायितान् यादवान् क्रोडीकृत्योक्तम् । एतर्ह्य् एव समये, हे स्वसः ! ॥२२॥
॥ १०.८२.२३ ॥
श्री-शुक उवाच—
वसुदेवोग्रसेनाद्यैर् यदुभिस् तेऽर्चिता नृपाः ।
आसन्न् अच्युत-सन्दर्श-परमानन्द-निर्वृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते कुरुक्षेत्र-गताः ॥२३-२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आद्य-शब्दाद् अक्रूरान्धकादयः । यद् यात्रायाम् आगताः सर्वे गन्ध-पुष्पादिभिर् अर्चिताः सम्मानिताः । मिथोऽर्चने योग्येऽपि यदुभिर् आर्चनं । तेषाम् एव सर्व-श्रेष्ठत्वेन सर्व-सम्मानकतार्हत्वात् । ततश् चाच्युतस्य सर्व-सौन्दर्यादि-परिपूर्णस्य भगवतः सन्दर्शः साक्षाद्-दर्शनं, तेनतद् एव वा परमानन्दो ब्रह्म-सुखाद् अपि सुख-विशेषः, तेन निर्वृतास् तृप्ताः परिपूर्णा इत्य् अर्थः । किं वा, निःशेषेण वृता व्याप्ता आसन् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मिथोऽर्चने योग्येऽपि यदुभिर् एवार्चनं तेषाम् एव सर्व-श्रेष्ठत्वेन सर्व-सम्मानकतार्हत्वात् । ततश् चाच्युतस्य सर्व-सौन्दर्यादि-परिपूर्णस्य भगवतः सन्दर्शः साक्षाद्-दर्शनं, तेनतद् एव वा परमानन्दः, ब्रह्म-सुखाद् अपि सुख-विशेषः, तेन निर्वृतास् तृप्ताः परिपूर्णा इत्य् अर्थः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२४ ॥
भीष्मो द्रोणोऽम्बिका-पुत्रो गान्धारी स-सुता तथा ।
स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृपान् एव नाम्ना निर्दिशन् परमानन्द-निर्वृतत्व-मूल-कारणं पुनर् अप्य् उक्त-पोष-न्यायेनाह—भीष्मेति चतुर्भिः । अम्बिकायाः पुत्र इति धृतराष्ट्रस्यान्धत्वं सूचितम् । सोऽपि सुता दुर्योधनादयः । तथेति समुच्चये । दाराः श्री-द्रौपद्य्-आदयः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृपान् एव नाम्ना निर्दिशन् परमानन्द-निर्वृति-हेतौ तस्मिन् वैशिष्ट्यम् आह—भीष्मेति चतुर्भिः । अम्बिकायाः पुत्र इति धृतराष्ट्रस्यान्धकत्वं सूचितम् । सुताः दुर्योधनादयः । तथेति समुच्चये । दाराः श्री-द्रौपद्य्-आदयः ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२५ ॥
कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् ।
पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-राट् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् इति । भक्त्या निज-कन्या-दानेन भगवदीय-श्वशुर-वर्गेषु नग्नजितः श्रैष्ठ्यात्, पुरुजित् शैब्यः श्री-मित्रविन्दा-पिता, काशिराट् सुदक्षिण-भ्रातान्यो वा कश्चित्, तेन सह वर्तत इति द्वयोः स्नेहः सूचितः । यद् वा, स काशी-निवासेन शुष्क-ज्ञान-परोऽपि ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महान् इति । भक्त्या निज-कन्या-दानेन भगवदीय-श्वशुर-वर्गेषु नग्नजितः श्रैष्ठ्यात् पुरुजित् शैब्यः श्री-मित्रविन्दा-पिता, काशिराट् सुदक्षिण-भ्रातान्यो वा कश्चित्, तेन सह वर्तत इति द्वयोः स्नेह-विशेषः सूचितः ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२६ ॥
दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ ।
युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशालाक्षो मैथिलो बहुलाश्वः, अन्यो वा तद्-देशाधिपः कश्चित् । आदि-शब्दात् सहदेवादयः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशालाक्षः कश्चित् मैथिलो बहुलाश्वश् च अन्यो वा तद्-देशाधिपः कश्चित् आदि-शब्दात् तद्-अनुयायिनः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२७ ॥
राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः ।
श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : युधिष्ठिरं येऽनुव्रतास् ते, राजसूये जितत्वात् ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ये राजानः ॥२७-२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजेन्द्रेति परम-विस्मयात् । किं वा, तेषां सम्राट् चासौ युधिष्ठिरश् च, तम् । शौरेर् निजाशेष-रूप-गुणादि-प्रकटनार्थं शुर-वंशेऽवतीर्णस्य **श्री-**भगवतः श्रियो लक्ष्म्याः सर्व-शोभाया वा निकेतं नित्य-वसति-स्थानं वीक्ष्य साक्षाद् दृष्ट्वा स्त्रीभिः सह वर्तमानाः सस्त्रीका इति तासां मुख्यतया विस्मयाधिक्यम् उक्तम्, प्रेमार्द्र-स्वभावत्वात् । यद् वा, यथा स्त्रियस् तथा तेऽपीति तुल्यो भाव-विशेषोऽभिप्रेतः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जरासन्ध-शिशुपालयोर् अनुक्तिर् नूनं **श्री-**भगवांस् तत्रागत इति मत्सरेण तयोर् आगमनात् युधिष्ठिरम् अनुव्रता इति तदानीं राज्यार्ध-प्राप्तेः स्वतः श्री-निकेतं सर्व-शोभास्पदाविर्भावाश्रयम् । सस्त्रीकं यथा स्यात् तथा वीक्ष्य साक्षाद् दृष्ट्वा स्त्रीभिः सह वर्तमानाः सस्त्रीका इति तासां मुख्यतया विस्मयाधिक्यम् उक्तम्, प्रेमार्द्र-स्वभावत्वात् । यद् वा, यथा स्त्रियस् तथा तेऽपीति तुल्यो भाव-विशेषोऽभिप्रेतः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सस्त्रीकं यथा स्यात् तथा वीक्ष्य तद् दर्शनम् ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युधिष्ठिरम् अनुव्रताः इति तदानीं तस्य राज्यार्ध-प्राप्तेः ॥२७॥
॥ १०.८२.२८ ॥
अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः ।
प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ तद्-अनन्तरं पूर्वं यदुकुल-श्रेष्ठैः श्री-वसुदेवाधिभिर् एवार्चनम् इति तेषाम् एव तत्र मुख्यता । अधुना च भगवद्भ्याम् एवेति तयोर् एव मुख्यतेति विशेषः । सर्वानन्द-प्रदत्वात् कृष्णः सर्व-रमणाच् च रामः । अतस् ताभ्यां सर्व-श्रेष्ठतमाभ्यां सकाशात् सम्यग् उत्तम-प्रकारेण प्रकर्षेणाधिक्येनाप्तं लब्धं सम्यग् उत्तमम् अर्हणं पूजा तद्-उपकरणं वा यैस् ते । अतो मुदा आ सम्यक् युक्ताः सन्तः प्रशंसस् तुष्टुवुः । कुतः ? कृष्णस्य निजाशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य साक्षाद् भगवतः परिग्रहान् सेवकान् इत्य् अर्थः । यद् वा, कृष्ण एव परिग्रहो मूलं धन-कुटुम्बादिकं वा येषां तान्, परिग्रहः परिजने पत्न्यां स्वीकार-मूलयोः इति विश्वः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरं स्वयं श्री-राम-कृष्णाभ्याम् अपि तत्रापि सम्पत्, परिग्रहः परिजने पत्न्यां स्वीकार-मूलयोः इति विश्वः ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.२९ ॥
अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह ।
यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्म-भाजो नृणां मध्ये स-फल-जन्मानः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् यतः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यदुराजत्वेन श्रैष्ठ्यात् । नरपतित्वेन स्व-साम्याद् वा उग्रसेनं सम्बोध्याह—अहो इति । सादर-सम्बोधने हर्षे वा । यूयम् इति सर्व-यदु-कुलापेक्षया । योगिनां समाधिमताम् अपि सकृद् अपि दुर्दर्शं चित्तेऽपि द्रष्टुम् अशक्यम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदु-राजत्वेन श्रैष्ठ्य-व्यवहारात् नृपत्वेन स्व-साम्यमननाद् वा उग्रसेनं सम्बोध्याह—अहो इति । सादर-सम्बोधने आश्चर्ये वा योगिनां सनकादीनाम् अपि सकृद् अपि दुर्दर्शं कृच्छ्रेणैवान्तः साक्षात् कार्यम् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.३० ॥
य64द्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति
पादाव् अनेजन-पयश् च वचश् च शास्त्रम् ।
भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म-
स्पर्शोत्थ-शक्तिर् अभिवर्षति नोऽखिलार्थान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, न केवलं तस्य दर्शनम् एव, अपि तु अत्यन्त-दुर्लभं बहु युष्माकं स्वतः संपन्नम् इत्य् आहुः—यद् विश्रुतिर् इति द्वाभ्याम् । यद् इति पृथक् पदम् । यस्येत्य् अर्थः। विश्रुतिः कीर्तिः श्रुतिभिर् नुता वेदैः स्तुता इदं विश्वम् अलम् अत्य्-अर्थं पुनाति । यद् विश्रुति-श्रुतिर् अमीवम् अलम् इति पाठे श्रुतिः श्रवणम् अमीवं पापम् इति । यस्य पादाव् अनेजन-पयो गङ्गा च यस्य वचो वाक्य-रूपं शास्त्रं च वेदाख्यं विश्वं पुनाति । किं च, कालेन भर्जितं दग्धं भगं माहात्म्यं यस्याः, सा तथा-विधापि भूर्य् अस्याङ्घ्रि-पद्म-स्पर्शेनोत्था आविर्भूता शक्तिर् यस्याः सा । नोऽस्माकम् अखिलान् अर्थान् अभितो वर्षति ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किं च इति । बहु श्री-कृष्ण-नैकट्यम् । इत्य् अर्थ इति—इत्य् अर्थकः । न केवलं वयं पूता एवापि त्व् अभीष्टम् अपि प्राप्ता इत्य् आहुः—किं च इति । कालेन कलिना । तथा-विधापि नष्ट-सामर्थ्यापि ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रुति-नुतेति सर्वोत्कर्षमयत्वम् । अलम् इति स-वासना-शेष-मल-क्षपणम् उक्तम् । च अपि, शास्त्रम् अपि । एवं विश्रुत्य्-आदीनां यथोत्तरं पावनत्वे न्यूनत्वं कैमुतिक-न्यायेनैव व्याख्या । एवं पौर्विकं सामान्य-माहात्म्यम् उक्त्वाधुनिक-विशेषत्वम् आह—भूर् इति । कालः कलिः । तदानीं तत्-प्रवेशात् पद्म-रूपकेण सुकोमलत्वादिना तस्य भू-स्पर्शनानर्हत्वम्, तथापि स्पर्श-प्राप्त्या परम-सौभाग्यं च सूचितम् । अत एवोत्थ-सर्वार्थ-शक्तिः सती नो दुर्भगाणाम् अप्य् अस्माकम् अखिलान् अर्थान् अभितो वर्षति, अविच्छेदेन सम्पादयति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् इति युग्मकम् । षष्ठ्या लुक् छान्दसः । विश्व-श्रुत्य्-आदीनां यथोत्तरं पावनत्वे न्यूनत्वम् । एवं प्राचीनां साधारणं माहात्म्यम् उक्त्वा साम्प्रतं विशेषम् आह—भूर् इति । कालः कलिः तदानीं तस्य प्रवेशात् पद्म-रूपकेण सुकोमलत्वादिना तस्य भू-स्पर्शार्हत्वं, तथापि स्पर्श-प्राप्त्या परम-सौभाग्यं च सूचितः । अत एव उत्थ-सर्वार्थ-शक्तिः सती नोऽस्माकम् अखिलानर्थान् अभितो वर्षति अविच्छेदेन सम्पादयति । तद् इति तृतीयाया लुक् सयौनः यौन-सम्बन्धेन सहितः सपिण्ड-बन्धः । पक्षान्तरे च सपिण्डं समान-पिण्डता ज्ञातित्वम् इत्य् अर्थः । निरय-वर्त्मनीति लोक-दृष्ट्या स्वर्गापवर्ग-विरमः दर्शनादि-परम-महा-सुख-विशेष-प्रदानेन स्वर्ग-रूप-महा-विषय-भोगे ब्रह्मानुभव-सुखे च वैतृष्ण्यापादकः स्वयम् इति युष्मदीय-प्रयासं विनेत्य् अर्थः । यद् वा, अयनय्मयः संसारः, तस्मान् निर्गतं निरयं वर्त्मापि यस्य तस्मिन् स्वयम् एव विष्णुः सर्व-व्यापकः साक्षाद् भगवान् एवेत्य् अर्थः । अन्यत् तैः ।\
तत्र तद् इति सामान्य-निर्देश इत्य् आदौ तत् किम् अपि वस्त्व् इत्य् अर्थः । विष्णुर् इति तद्-विशेषणम् अजहल्-लिङ्गम् इति स्थितेऽपि तात्पर्य-वृत्त्या स इत्य् अवगम्यत इत्य् अर्थः । यद् वा, तद् इति पुंस्य् अपि प्रथमाया लुक् छान्दसः ॥३०-३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद् इति । पृथक् पदं यस्येत्य् अर्थः । विश्रुतिः कीर्तिः श्रुतिभिर् नुता इदं विश्वम् अलम् अत्य् अर्थं पुनाति यस्य पादाव् एन्जनपयो गङ्गा च यस्य वचो वाक्य-रूपं शास्त्रं वेदाख्यं च विश्वं पुनाति । किं च, कालेन भर्जितं दग्धं भगं माहात्म्यं यस्याः सापि यद्-अङ्घ्रि-पद्मयोः स्पर्शेन उत्तिष्ठति शक्तिर् यस्यास् तथा-भूता सती नोऽस्माकम् अखिलान् अर्थान् पुरुषार्थान् अभितो वर्षति ॥३०॥
॥ १०.८२.३१ ॥
त65द्-दर्शन-स्पर्शनानुपथ-प्रजल्प-
शय्यासनाशन-सयौन-सपिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्मनि वर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दर्शनं च, स्पर्शनं चानुपथोऽनुगतिश् च, प्रजल्पो गोष्ठी च, शय्या शयनं च, आसनं च, अशनं भोजनं च, यौनं विवाह--सम्बन्धस् तेन सह वर्तमानः स-पिण्ड-बन्धो दैहिक-सम्बन्धः, तेन श्री-कृष्णेन सह दर्शनाद्य्-उपलक्षितः स-यौनः स-पिण्ड-बन्धो येषां वोऽस्ति । किं च, येषां वो गृहे विष्णुः स्वयम् आस आविरभूत् । निरय-वर्त्मनि प्रवृत्ति-मार्गे वर्तमानानां स्वर्गापवर्गाभ्यां विरमयति वितृष्णान् करोतीति तथा सः । ते यूयं जन्म-भाज इति ।
यद् वा, तद् इति सामान्य-निर्देशः । स इत्य्-अर्थः । स विष्णुः स्वयं येषां वो निरय-वर्त्मनि संसार-कारणे गृहे वर्तमानानाम् अपि बध्यते सम्बन्ध्यत इति बन्धो दर्शनादिभिः सम्बद्धः सन् स्वर्गापवर्ग-विरम आस । परम-सुख-प्रदो बभूवेत्य् अर्थः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन यौन-बन्ध-स-पिण्ड-बन्धो दैहिक-सम्बन्धेन यौन-स-पिण्ड-बन्धः । दर्शन-स्पर्शनानुपथ-प्रजल्प-शय्यासनाशनइर् उपलक्षितश् चासौ स-यौन- पिण्ड-बन्धस् तथा । पुनस् तेन सह दर्शनादिः स-पिण्ड-बन्धान्तस् तथा । येषाम् इत्य् अस्य पुनर् अन्वयम् आह—किं च इति । पूर्व-व्याख्यायाम् अर्थ-दौर्लभ्यं मत्वाह—यद् वा इति । सामान्य-निर्देशो हि शब्द-मात्र-निर्देशः । इत्य् अर्थ इति—स च प्रकृतार्थ-पर इति । इत्य् अर्थ इति—परम-सुखं भक्ति-सुखम् एव
या निर्वृतिस् तनु-भृतां तव पाद-पद्म- > ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । > सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् > किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भा।पु। ४.९.१०]
इति ध्रुवोक्तिर् इति भावः । तीर्थस् तु स्वर्गापवर्गयोर् विशेषेण रमणं यस्मात् स तथा । ज्ञानाद् एव स्वर्गो ज्ञानाद् एवापवर्गः इति श्रुतेर् इत्य् आह ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सयौनो यौन-सम्बन्धेन सहितः सपिण्ड-बन्धः । पक्षान्तरे च सपिण्डं समान-पिण्डता ज्ञातित्वम् इत्य् अर्थः । निरय-वर्त्मनीति लोकानां गृह-स्वभावाभिप्रायेण, स्वर्गापवर्ग-विरमो दर्शनादि-परम-महा-सुख-विशेष-प्रदानेन स्वर्ग-रूप-महा-विषय-भोगतो ब्रह्मानुभव-सुखाच् चातितुच्छता-ज्ञापनेन वैतृष्ण्यापादकः । स्वयम् इति युष्मदीय-प्रयासं विनैवेत्य् अर्थः । साक्षाद् इति वा । विष्णुर् निजाशेषैश्वर्य-विस्तारणेन विश्व-व्यापको भगवान् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, विष्णुर् विश्वेश्वरोऽपि येषाम् आस यदीय आत्मीयो बभूवेत्य् अर्थः । गृह इत्य् अस्य पूर्वेणान्वयः । स्व-स्व-गृह-मध्ये यद् दर्शनादि स्वर्गापवर्गो विरमयति अतितुच्छत्वादिना भक्तेभ्यो विच्छेदयतीति तथा सः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रिंश-श्लोकस्य व्याख्या द्रष्टव्या ॥
———————————————————————————————————————
जीव-गोस्वामी (कृष्ण-सन्दर्भः१२०): येषां वो युष्माकं वृष्णीनां गृहे विष्णुः श्री-कृष्णाख्यो भगवान् स्वयम् आत्मना स्वभावत एव आस निवासं चक्रे, न त्व् अन्येन हेतुनेति तद्-वासस्य स्वाभाविकत्वं दर्शितम् । कथं-भूते गृहे ? अनिरय-वर्त्मनि—निरयः संसारः, तद्-वर्त्म प्रपञ्चः, ततोऽन्यस्मिन्, प्रपञ्चातीत इत्य् अर्थः । कीदृशानां वः ? तस्मिन्न् एव वर्तमानानाम् । स्वयं कथं-भूतः ? स्वर्गापवर्ग-विरमः स्वर्गस्यापवर्गस्य च विरमो येन । यो निज-भक्तेभ्यस् तद्-बहिर्मुखताकरं स्वर्गं न ददाति, तद्-भक्त्य्-उदासीनं केवलं मोक्षं च न ददाति, किन्तु तान् स्व-चरणारविन्द-तल एव रक्षतीत्य् अर्थः।
येषां युष्माकं तु गृहे स एवं-भूत एवासेत्य् आह—तद्-दर्शनेति । तस्य युष्मत्-कर्तृकं दर्शनं च, अनुपथोऽनुगतिश् च, प्रजल्पो गोष्ठी च, तथा युष्मत्-संवलिता शय्या शयनं च, आसनं च, अशनं भोजनं च, तैर् विशिष्टैश् चासौ स-यौन-स-पिण्ड-बन्धश् चेति शाक-पार्थिवादिवन् मध्य-पद-लोपी कर्मधारयः । तत्र वृष्णिभिः सह यौन-बन्धो विवाह--सम्बन्धः, स-पिण्ड-बन्धो दैहिक-सम्बन्धः, ताभ्यां सह वर्तमानोऽसाव् इति बहुव्रीहि-गर्भता ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् इत्य् अपि पृथक् पदं तेन सहेत्य् अर्थः । दर्शनाद्य्-उपलक्षितः सयौनः सपिण्डो बन्धु-सम्बन्धो येषां वोऽस्ति । किं च, येषां वो गृहे विष्णुः स्वयम् आस आविर्बभूव द्योतते स्मेति वा निर्य-वर्त्म पापं तस्मान् निवर्ततां निवर्तमानानां निष्पापानाम् इत्य् अर्थः । स्वर्गापवर्ग-स्पृहाया विरमो विरामो यस्मात् सः ॥३१॥
॥ १०.८२.३२ ॥
श्री-शुक उवाच—
नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् ।
तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनः-स्थार्थैर् इति । तत्रैव वास-चिकीर्षया शकटेषु स्थापितैर् अर्थैः सहागत इत्य् अर्थः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कुरुक्षेत्रे । तत्र कृष्णादि-पार्श्वे । इत्य् अर्थ इति—तीर्थ-यात्रा-मुख्य-फल-श्री-कृष्ण-दर्शनम् एवेति मत्वा तत्-पार्श्व एवागत इति भावः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कुन्ती-वसुदेवादीनां सम्भाषणादिक-मल्लकतयादौ सूचीकटाह--न्यायेन समाप्याधुना कुरुक्षेत्र-यात्राया मुख्य-प्रयोजनं श्री-नन्दादिभिः सह श्री-भगवत्-समागम-सम्भाषणादिकं विस्तरेणाह—नन्द इत्य्-आदिना यावत्-समाप्ति । तत्र कुरुक्षेत्रे प्रकर्षेण सर्व-परिवार-साहित्य्-आदिना आप्तान् आगतान् चरादि-द्वारा अनुमानेन वा, निजानुभवेन वा ज्ञात्वा ।
ननु तस्य केवलैर् यदुभिः किम् इत्य् आशङ्क्याह—कृष्णो व्रज-चित्ताकर्षकः स्व-पुत्रः पुरोगमोऽग्रतो येषां तान् । यत्र ते वसन्ति, तत्रैव स्वयम् आगमत् । गोपैः श्री-दामादिभिर् वृतः । अत्यन्त-विरह-खिन्नानां स्वभावोऽयं यच् चिराद् आसन्नं प्रेष्ठं द्रष्टुं सर्वैर् बन्धुभिर् मिलित्वा गम्यत इति । गोपैर् इत्य् उपऌअक्षणम्, गोपीभिश् च, दिदृक्षयेति तदानीं तद्-दर्शनस्यैव पर्म-दुर्लभताया महा-लाभताया वा मननात् । किं वा, चिर-विच्छेदेन दर्शन-मात्रस्यैवात्यन्तोपेक्षणात् । यद् वा, अनः-स्थासु शकटोपरि-स्थितासु श्री-गोपीष्व् अर्थः श्री-कृष्णार्थं प्रिय-द्रव्यादि येषां तैः । किं वा, श्री-भगवता सह द्वारकायां गत्वा वस्तुम्, अन्तः-स्थोर्य् यः परिवारादि सर्व-धनं येषां तैः ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-कुन्ती-वसुदेवादीनां सम्भाषणादिकम् अल्पकतयादौ समाप्य कुरुक्षेत्र-यात्राया मुख्य-प्रयोजनम् उष-रागात् प्राग् एवागतैः श्री-नन्दादिभिः पूर्व-युक्त्या दुर्घट-मिलनैः सह तदानीन्तनम् एव श्री-भगवतः समागमं विस्तरेणाह—नन्द इत्य्-आदिना यावद्-अध्याय-समाप्ति । तत्र कुरुक्षेत्र-प्रकर्षेण सर्व-परिवार-साहित्य्-आदिना प्राप्तान् आगतान् चरादि-द्वारा ज्ञात्वा ।
ननु तस्य केवलैर् यदुभिः किम् इत्य् आशङ्क्याह—कृष्णो व्रज-चित्ताकर्षकः स्व-पुत्रः पुरोगमोऽग्रो येषां तान् । गोपैः श्री-मद्-उपनन्दादिभिर् वृतः । एक-शेषेण गोपीभिश् च तत्-पत्न्य्-आदिभिः । तत्र हेतुः—दिदृक्षयेति । भवत्व् अन्येषाम् अन्यत् पारलौकिकम् ऐहिकं च, तेषां तु श्री-कृष्ण-दिदृक्षैव तत्रागमनं निमित्तम् इत्य् अर्थः । इति तेषां तद्-विरहोचित-दशापि सूचिता । अन्यत् तैः ।\
यद् वा, अनः-स्थासु शकटोपरि-स्थासु श्री-गोपीष्व् अर्थः श्री-कृष्णार्थ-प्रिय-द्रव्यादिर् येषां तैः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तः-स्थाः ये अर्थः स्व-पुत्रं कृष्णं भोजयितुं तन्-निकटे वासं कर्तुं च आनीतास् तैश् च वृतः ॥३२॥
॥ १०.८२.३३ ॥
तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः ।
परिषस्वजिरे गाठं चिर-दर्शन-का66तराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं नन्दम् ॥३३-३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्वः कर-चरणाद्य्-अङ्गानि । यथा मुख्यं प्राणम् आगतं प्राप्योत्तिष्ठन्ति, तथोत्थिता इति सद्यो युगपद् उत्थानं वृष्णीनां तद्-एकालम्बन-जीवनत्वं च सूचितम् । गाढं परितः सर्वाङ्ग-व्याप्त्या सस्वजिरे आलिङ्गितवन्तः । कुतः ? चिरेण यद् दर्शनं तेन कातरा विवशाः । यद् वा, चिरं दर्शने कातरा अत्युत्सुकाः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वृष्णयः श्री-कृष्णावास-द्वार-सभोपविष्टाः तन्वः तन्वः कर-चरणाद्य्-अङ्गानि मूर्च्छितानां यथा मुख्यं प्राणम् आगतं प्राप्योत्तिष्ठन्ति तथोत्थिता इति सद्यो युगपद् उत्थानं वृष्णीनां तद्-एकालम्बन-जीवनत्वं च सूचितम् इति तस्य परम-गुणो व्यक्तः । अत एव चिरेण यद् दर्शनं तेन कातराः विवशाः । यद् वा, चिरं दर्शने कातरा अत्युत्सुकाः । अत एव गाढं परिषस्वजिरे ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.३४ ॥
वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः ।
स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वसुदेवस् तं परिष्वज्य प्रेम-विह्वलो बभूवेति शेषः ॥३४॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सामान्येन सर्वेषां समागमम् उक्त्वाधुना विशेषेणाह—वसुदेव इत्य्-आदिना । सम्यक् प्रीतो हृष्टः । सं-शब्देनान्येभ्यो विशेषो द्योतित एव । अत एव प्रेम्णा विह्वलो विवशः । किं वा, कम्प-पुलकादि-विकारैर् आकुलोऽभूद् इत्य् अर्थः । तत्रैव हेतुः—स्मरन्न् इति । क्लेशान् स्व-बन्धन-पुत्र-वधादीन् । पुत्रयोः पुत्रस्य वा न्यासम् । तद्-दर्शनेन पूर्व-वृत्तं स्मृत्वा तत्-क्लेश-वर्ग-निस्तार-हेतु-तदीय-महोपकारानुसन्धानाद् इत्य् अर्थः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सामान्येन सर्वेषां समागमम् उक्त्वा तत्रैव श्री-वसुदेवस्य विशेषेणाह—वसुदेव इति । अन्योन्यतो विशेषात् सम्यक् प्रीतो हृष्टः, पश्चाच् च प्रेम्णा विह्वलः कम्प-पुलकादिभिर् आकुलोऽभूद् इत्य् अर्थः । किं च, स्मरन्न् इति क्लेशान् स्व-बन्धन-पुत्र-वधादीन् पुत्रयोः पुत्रस्य वा न्यासं तद्-दर्शनतः पूर्व-वृत्त-स्मृत्या तत्-क्लेश-वर्ग-निस्तार-हेतु-तदीय-महोपकारानुसन्धानाद् इत्य् अर्थः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परिष्वज्येति । प्रथमम् अतिद्रौत्येन पितृ-कर्तृक-परिष्वङ्ग एव पुत्र-कर्तृक-परिष्वङ्ग-हेतुर् बभूवेति भावः । ततश् च पितृभ्यां चिर-परिष्वङ्गतः परित्यक्तयोर् एव पुत्रयोर् अभिवादनेऽवकाश इत्य् अतः परिष्वङ्गानन्तरम् अभिवादनम् उक्तं, नोचतुर् इत्य् अत्र हेतुः सास्र-कण्ठौ अश्रु-रुद्ध-कण्ठत्वाद् इत्य् अर्थः ॥३४॥
॥ १०.८२.३५ ॥
कृष्ण-रामौ परिष्वज्य पि67तराव् अभिवाद्य च ।
न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : राम-कृष्णयोर् जन-मोहन-विडम्बनम् आह—कृष्ण-रामाव् इति । पूर्वम् अभिवाद्य, ततः परिष्वज्य ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पितुर् गौरवेण चिराश्लेष-सुखार्थं वा । पश्चात् कृतं श्री-कृष्ण-रामयोः समागमोत्सवं स-प्रेम् आह—कृष्णेति । पित्रोः स्नेह-भराकृष्ट-चित्तः कृष्णः, तयोः स्नेह-रमितो रामश् च तौ द्वाव् अपि क्रमेण । किं वा, सम्भ्रमेण युगपद् एव गृहीत्वा परिष्वज्य, एवम् अग्रेऽपि । कृष्णस्यादौ निर्देशः । स्नेह-भाराकृष्टतयाग्रेऽभिगमनात् । किं वा, सुस्निग्धेन श्री-रामेण तस्याग्रे करणात् । पितराव् इति सदा तयोस् तौ प्रत्य् एव माता-पितृत्व-बुद्धेः । नोचतुर् वक्तुं न शक्तौ । कुतः ? साश्रु-कण्ठौ बाष्प-रुद्ध-कण्ठत्वाद् इत्य् अर्थः ।
तत्र हेतुः—प्रेम्णेति । पित्रोः स्व-विषयकेण स्वयोश् च तद्-विषयकेण स्नेह-भरेणेत्य् अर्थः । एवम् अस्य पूर्वत्रापि सर्वत्रान्वयः । तेन कम्प-पुलकादि-विकारादयोऽपि ज्ञेयाः । इति प्रेमोद्रेकेण सम्बोधयति—कुरूद्वहेति । महा-कुल-प्रभावाणां भवादृशाम् ईदृशः स्वभावः आचारश् च युक्त एवेति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तेन सहागतैः श्री-मद् उपनन्दादिभिर् अपि समागमो ज्ञेयः । तावद् एव श्री-व्रजेश्वरीम् अपि तद्-दर्शनोत्कण्ठा-विस्फुट-हृदयां वर्त्मन्य् अपि कृतोपवास-प्रायां कृशातिकृशाम् अश्र्वाविल-मुखीं स्व-सखी-गृहीत-बाहु-मध्यां पटावृत-शकटी-यानेन तद् अदूरत एवागतां निशम्य सहसैव श्री-मद्-आनकदुन्दुभिना तां च तं च तद्-अन्तरीण-परिजनैः समं निजान्तरावासं प्रापय्य तत्रैव श्री-कृष्ण-रामयोर् आहूतयोः सतोर् यद् वृत्तं तद् आह—कृष्णेति ।
अत्र यद्यपि व्रजाद् आगताः पित्रादयः श्री-वसुदेवादिभिः समुपविष्टाः, बहिः कक्षायां मिलिताः मात्रादयस् तु श्री-देवक्य्-आदिभिर् उपविष्टा अन्तः-कक्षायाम् इति महा-जन-व्यवहाराद् गम्यते, तथापि युगपद् इव तत्-तन्-मिलन-वर्णनं द्वयोर् अपि समान-प्रेम-परिपाटी-बोधनार्थं सङ्क्षेपार्थम् एव च कृतं तद् एवम् एव वक्ष्यमाणं श्री-देवकी-यशोदादीनां मिथः परिष्वङ्ग-सम्भाषादिकम् अपि सम्भवतीति विवेक्तव्यम् । पित्रोः स्नेह-भराकृष्ट-चित्तः कृष्णः तयोः स्नेह-रमितो रांअश् च द्वाव् अपि युगपद् एव पितरौ श्री-यशोदानन्दौ परिष्वज्य परिष्वङ्गानन्तरं चिरतः स्वास्थ्ये जात एवाभिवाद्य, तच् च दर्शन-मात्राद् अभिसृत पितृभ्याम् आलिङ्गितयोस् ताभ्यां स्वाभ्यां च मोचनाशक्तेः । ततः कथञ्चित् कृतेऽप्य् उपवेशे किञ्चन नोचतुः । कुशल-प्रश्नादिकं चिरं वक्तुं न शक्तौ । कुतः साश्रु-कण्ठौ बाष्प-रुद्ध-कण्ठत्वाद् इत्य् अर्थः ।
तत्र हेतुः—प्रेम्णेति । पित्रोः स्व-विषयकेण स्वयोश् च तद्-विषयकेण स्नेह-भरेणेत्य् अर्थः । एवम् अस्य पूर्वत्रापि सर्वत्रान्वयः । तेन कम्प-पुलकादि-विकारादयोऽपि ज्ञेयाः । श्री-कृष्णस्यादौ निर्देशः स्नेह-भराकृष्टतयाग्रेऽभिगमनात् । किं वा, सुस्निग्धेन श्री-रामेणैव तस्याग्रे करणात् पितराव् इति सदा तयोस् तौ प्रत्य् एव माता-पितृत्व-बुद्धेः इति प्रेमोद्रेकेण सम्बोधयति । कुरूद्वहेति महा-कुल-प्रभावाणां महत्तमानां भवादृशाम् अपीदृशः स्वभावः आचार-युक्त एवेति भावः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८२.३६ ।।
ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तौ सुतौ परिरभ्य नन्दो यशोदा च विरह-शोकान् विजहतुस् तत्यजतुः । यद् वा, शुचोऽश्रूणि विजहतुर् मुमुचतुर् इत्य् अर्थः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चान् नन्दः । शुक्-पदस्योभयार्थत्वाद् आह—यद् वेति । इत्य् अर्थ इति—मोक्षण-त्य्ङाव् एकार्थकाव् एवेति ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आसनं श्री-वसुदेवेनातिथ्य-रीत्या । किं वा, स्नेहोद्रेक-विह्वलत्वेन तेषां पतन-शङ्कया सद्योऽर्पितम् आरोप्य उपवेश्य । यशोदेति श्री-दामोदर-लीलायां दाम-बन्धनादिना मुनि-जन-गेय-श्री-कृष्ण-भक्त-वश्यतादि-महा-यशो-विस्तारणात् । अतो महा-भागा परम-धन्या । अत एव स्नेह-विशेषापेक्षया तस्या व्यक्तो निर्देशः ।
ननु प्रकटितैश्वर्य-विशेषयोस् तयोः कथं ताभ्यां निःशङ्कं प्रौढयोर् वा स्वयम् आत्मासनारोपणादि ? तत्राह—सुताव् इति । स्नेह-भरेण सदैव तौ प्रति बालक-बुद्ध्येति भावः । विशेषेण जहतुर् इति वि-शब्देनाश्रु-मोचने श्री-कुन्त्य्-आदिभ्यो विशेष उक्तः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च ताव् इति । आसनं श्री-वसुदेवेनातिथ्य-रीत्या । तत्रापि स्नेहोद्रेक-विह्वलत्वेन तेषां पतन-शङ्कया सद्योऽर्पितम् आरोप्य तत्रोपवेश्य । यशोदेति तादृश-प्रेम-वर्णनेनास्मभ्यम् अपि यशः-सौभाग्य-दानतया तन्-नाम्नी सेत्य् अर्थः । अतो महा-भागा परम-धन्या । च-कारात् श्री-नन्दश् च महा-भागस् तत्रोपवेश्य । अत्र श्री-यशोदाया एव साक्षाद्-उक्तिस् तत्रापि तस्या वात्सल्यादित्शय-व्यञ्जार्थम् ।
ननु प्रौढयोः प्रकटितैश्वर्य-विशेषयोस् तयोः कथं ताभ्यां निःशङ्कं प्रौढयोर् वा स्वयम् आत्मासनारोपणादि ? तत्राह—सुताव् इति । स्वाभाविक-वात्सल्येन सदैव तौ प्रति तयोस् तद्-बुद्धेर् इत्य् अर्थः । अतः सर्वतो विशेषेण जहतुः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च श्री-वसुदेवेनैव स्वान्तः-पट-गृहं प्रवेशितौ स-परिजनौ गृहीत-कृष्ण-राम-हस्तौ गत्वा, तत्र किं चक्रतुर् इत्य् अपेक्षायाम् आह—ताव् इति । प्रथमं नन्दस् ततोऽत्युत्कण्ठास्फुट-हृदया यशोदेति क्रमः ।
ननु प्रौढयोः प्रकटितैश्वर्य-विशेषयोस् तयोः कथं ताभ्यां स्वात्मासनारोपणादिकं सम्भवेत् ? अत आह—सुतौ स्वाभाविक-वात्सल्यवतोस् तयोर् दृष्ट-श्रुत-तद्-ऐश्वर्ययोर् अपि तत्र सदैवाष्ट-वार्षिक-स्व-सुत-बुद्धिर् एव इति भावः । शुचः विरह-शोकान् । अत्र कृष्णो यदा नन्द-यशोदाभ्यां परिष्वक्तस् तद्-ऊरु-पीठ-कृतासनो बभूव, तदैव पूर्णतमो गोप-जातिर् एवाभूत् तेनैव सहोपविष्टाद् गोप-स्त्रीणाम् आलिङ्गनादिकं वक्ष्यते ॥३६॥
॥ १०.८२.३७ ॥
शुचः देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।
स्मरन्त्यौ तत्-कृतां मै68त्रीं बाष्प-कण्ठ्यौ समूचतुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रजेश्वरीं यशोदाम् ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-कृतां यशोदा-कृताम् । मैत्रीं पुत्र-रक्षण-रूपाम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ कृष्ण-रामयोः परिष्वङ्गाद्य्-अनन्तरं रोहिण्याः प्राग्-उक्तिः ज्येष्ठत्वात्, चिरं सहवासादिना स्नेह-विशेषाच् च । व्रजेश्वरीम् इति श्री-बादरायणेर् भाव-विशेषेण । ते अप्य् अतिक्रम्य तां प्रति गौरवात् । तथा तयोर् ईश्वरीत्य् अभिमान-त्यागेन तां प्रत्येश्वरी-बुद्ध्या परमादराच् च । मैत्रीं हिताचरणम् सम्यक् स्नेह-भरेण बाष्प-रुद्ध-कण्ठतया गद्गदत्वादिना चोचतुः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-कृष्ण-राम-समागमाद्य्-अनन्तरं किञ्चित् स्वास्थ्ये जाते नानान्य-व्रज-वासि-लक्ष-मिलनार्थं श्री-नन्द-वसुदेवाभ्यां सह तयोर् बहिर् निर्गतयोश् च सतोर् इत्य् अर्थः । देवक्या अपि पूर्वं रोहिण्या निर्देशस् तस्याः पुत्र-मिलनानन्द-वैह्वल्येनेतः किञ्चिद् विलम्बात् । अस्याः श्री-मति व्रजे चिरं सह-वासादि-स्नेह-विशेषाच् च व्रजेश्वरीम् इति श्री-बादरायणेर् भाव-विशेषेण । ते अप्य् अतिक्रम्य तां प्रति महा-गौरवात् मैत्रीं हिताचरणम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च श्री-वसुदेवाहूते नन्दे बहिर् उग्रसेनादि-मिलनार्थं निर्गते सति शुचः-देवक्योर् व्रजेश्वरी-सम्मिलनम् आह—शुचःति । उपविष्टाभ्याम् एव शुचः-देवकीभ्यां सात्मजायाः व्रजेश्वर्याः परिरम्भः ॥३७॥
॥ १०.८२.३८ ॥
का विस्मरेत वां मैत्रीम् अ69निवृत्तां व्रजेश्वरि ।
अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिवृत्तां निवृत्ति-कारणे सत्य् अप्य् अनुवर्तमानाम् । ऐन्द्रम् ऐश्वर्यं प्राप्यापि यस्याः प्रतिक्रिया कर्तुं न शक्यत इत्य् अर्थः ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वां युवयोर् नन्द-यशोदयोः । यस्या मैत्र्याः । इत्य् अर्थ इति—राज-भय-त्यक्तास्मत्-सुत-पालनं भवद्भ्यां विना कोऽपि तदा कर्तुं न समर्थः । क्रूर-कंस-भयात् तच् चाप्रतीकार्यम् एवेन्द्रादि-पद-दानेनापीति भावः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केत्य् आत्मोद्देशेन विस्मरेत ? सदा नानुचिन्तयेद् इत्य् अर्थः । कुतः ? अनिवृत्ताम् अस्माभिर् निकटाद् आगमनेन परित्यक्तयोर् अपि सदानुवर्तमानां, विदूरेऽपि सदा भ्रातृ-द्वय-प्रिय-स्वयम्-उपस्कृत-दिव्य-घृत-क्षीर-सारादि-द्रव्याणां तथा कुशल-वार्ताहरणार्थं निज-जनानां च मुहुः प्रस्थापनात् । अधुनापि तद्-आवासे70 स्वयम् एव सहवासार्थम् आगमनात् । तत्रैव हेतुः—हे व्रजेश्वरीति । सहज-स्नेह-विशेषार्द्र-हृदयत्वाद् इति भावः । यद् वा, हे व्रजेश्वरीति मैत्र्या वैचित्री । किं वा, आत्मन इन्द्रस्य वैश्वर्याद् अधिकताभिप्रेताः ।
यद् वा, ननु तर्हि महद्-आदीनां मां पुत्र-पार्श्वे किं नानयथः ? तत्र हेतुः—व्रजेश्वरीति । हे व्रज-परिपालिके इति । अन्यत्र तव गमनेन सद्योऽशेष-तद्-व्रज-प्रलयापत्तिर् इति भावः ।
ननु तथापीश्वरीभिर् दीनानां स्मरणं कुतो घटते ? तत्राह—अपीति । ऐन्द्रैश्वर्याच् छ्री-द्वारकैश्वर्यस्याधिक्येऽपि तथोक्तिः । ऐन्द्रैश्वर्येण महा-महोदयेन विस्मृत्य्-आधिक्यात् । ननु, तर्हि पुत्रयोः पुनः प्रत्यर्पणेन प्रत्युपकुरुतम् ? तत्राह—यस्या इति । इहास्मिन् लोके जन्मनि वा युष्मत्-पुत्रयोर् युवयोर् एवार्पणेन प्रत्युपकारा-सिद्धेः । अत ऋण-शोधनाशक्त्या युवयोर् मैत्रीं सदानुस्मराम एवेत्य् अर्थः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्री-रोहिण्य् आह—केति स्वोद्देशेन । वां युवयोः दम्पत्योः विस्मरेत । सदा नानुचिन्तयेद् इत्य् अर्थः । कुतः ? अनिवृत्ताम् अस्माभिर् निकटाद् आगमनेन परित्यक्तयोर् अपि सदानुवर्तमानां विदूरेऽपि सदा स्वयम् उपहृत-दिव्य-घृत-क्षीर-सारादि-द्रव्याणां तथा अस्माकं कुशल-वार्ताया हरणार्थं निज-जनानां च मुहुः प्रेषणात् अधुना यात्रा-मिषेण वयम् आगमनाच् च एवं प्रेम व्यज्य आदरं व्यञ्जयति—व्रजेश्वरीति । ऐन्द्रैश्वर्याद् द्वारकैश्वर्यस्याधिक्येऽप्य् अप्राप्येत्य्-आद्य्-उक्तिर् ऐन्द्रैश्वर्येण महा-महोदयेन विस्मृत्य्-आधिक्यात् । भवेद् अप्य् अन्यदीयाया मैत्र्याः प्रत्युपकृतायाः सत्याः विस्मृतिर् न तु भवदीयायाः, तादृश-प्रत्युपकारासम्भवात् इत्य् आह—यस्या इति ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुनर् अपि राम-कृष्णाव् उत्सङ्ग-गतौ परिष्वज्यैवोपविष्टयाम् अश्रु-स्तन्य-पयः-प्रवर्तित-यमुना-गङ्गायाम् आनन्द-स्तम्भ-मोह-महावर्त-विभ्रान्त-चित्तायां व्रजेश्वर्याम् अग्रतः उपविष्टयोस् तयोर् मध्ये प्रथमं रोहिण्य् आह—केति । ऐन्द्रम् ऐश्वर्यम् अपि प्राप्य किं पुनर् द्वारकैश्वर्यम् इति नर-लोक-रीत्यैवोक्तिः ॥३८॥
॥ १०.८२.३९ ॥
एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः
सम्प्रीण71नाभ्युदय-पोषण-पा72लनानि ।
प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर्
न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-कृतां मैत्रीम् आहतुः—एताव् इति । न दृष्टौ पितरौ याभ्याः तौ । वस्तुतस् तु अजन्मत्वाद् एवादृष्ट-पितरौ । हे भवति, युवयोः पित्रोर् न्यस्ताव् एतौ संप्रीणनादीनि प्राप्याकुत्र च भयौ क्वचिद् अपि भय-रहितौ भूत्वोषतुर् वासं चक्रतुः । कथं भूतयोः । अक्ष्णोर् नेत्रयो रक्षकं पक्ष्म यद्वत्तया रक्षकयोः युक्तं युवयोर् एतत् । यतः सतां परः स्व इति नास्ति वैषम्यम् ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-कृतां तयोः कृताम् । एतौ राम-कृष्णौ । पितरौ पितृ-शब्दास्पदाव् आवाम् एव । परमार्थम् आह—वस्तुतस् तु इति । अजन्मत्वात् परमेश्वरत्वेन जन्म-रहितत्वाद् एव । जन्मवतां जीवानाम् एव पितृ-दर्शनं भवति इति भावः । भातीति भवती दीप्ति-युता तत्-सम्बुद्धौ । तथा कुत्र चेत्य् अव्ययम् । किमः सामान्ये इति चान्तं पुत्रार्थे । ततो नञा समासः । तथा च न कुत्र च भयं ययोस् ताव् अकुत्रच-भयौ । वस्तुतस् तु ईषत्त्वाद् एताभ्याम् एव सर्वे बिभ्यति, भीषास्माद् वातः पवते [तै।उ। २.८.१] इत्य् आदि-श्रुतेः । कथं-भूतयोर् वाम् ? तथा तद्वत् रक्षकयोर् इति शेषः । अर्थान्तरं सूचयतः युक्तम् इत्य्-आदिना । सताम् उदाराणाम्। तद् उक्तं—
अयं स्वीयः परो वेति गणना लघु-चेतसाम् । > उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ इति ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न दृष्टाव् अपि , किं पुनर् लालनादि-प्राप्त्य्-अनुभूतौ पितरौ याभ्यां तौ जात-मात्राव् इत्य् अर्थः । अतः पित्रोः साक्षात् पितृत्वं प्राप्तयोः । स्म प्रसिद्धौ । यद् वा, विस्मये । तत्र कारणम् आहतुः—सम्प्रीणेत्य् आदि । सम्यक् प्रीणनं प्रिय-द्रव्य-प्रदानादिना तोषणम् । अभ्युदयं जात-कर्मादि-वृद्धिं वा । किं वा, व्रज-युवराजत्वादि-वैभवं महा-दुष्ट-वर्ग-वधोत्कर्षं वा, पोषणं नवनीतादिना, लालनं च विश्रमणादिना, तानि प्रकर्षेण सर्वोत्कृष्टतया आप्त्वा लब्ध्वा । अन्यत् तैर् व्याख्यातम् ।
यद् वा, युवयोः सम्प्रीणनादीनि प्राप्य, एतौ अदृष्ट-पितरौ, अदृष्टानाम् अपूर्वाणां बाल्य-लीला-चमत्काराणां पितरौ स्रष्टारौ सन्तौ तत्रोषतुः । हे भवतीति परमादरात् । ह हर्षे, स्फुटम् इति वा
ननु, एतावावयोर् एव पुत्रौ, न तु युष्माकम् । यद् वा, कथम् एतौ पित्रोर् विच्छेदेन सुखं लक्ष्येते ? सत्यम् । साधुषु स्व-पर-भेदाभावाद् इत्य् आह—नेति । यद् वा, भो व्रजेस्वरि ! एतौ तादृश-लालनाद्य्-अभावात् नूनं क्लिश्यत इति युवां मा चिन्तां कुरुतम् इत्य् आह—एताव् इति । न दृष्टौ पितरौ युवां याभ्यां ताव् एतौ युवयोर् इव युष्मत्-कर्तृकानीव अस्मत्-कर्तृकानि सम्प्रीणनादीनि प्राप्यात्र कुतश्चनाभयाव् ऊसतुः । कथम्-भूतौ ? पक्ष्म यद्वद् अक्ष्णोर् भवति, अतिनिकटं स्यात् । तद्वद् आवाभ्याम् अक्ष्णोर् न्यस्तौ स्नेह-भरेण सदा निरीक्ष्यमाणौ, क्षणम् अपि दूरे त्यक्तुम् अशक्यमानाव् इत्य् अर्थः । हि यतः । सतां युवयोः सत्-सखी-जनानाम् अस्माकं परः स्व इति नास्ति । युवयोः पुत्राव् एवास्मत्-पुत्राव् इत्य् अर्थः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ श्री-देवक्य् आह—एताव् इति । न दृष्टाव् अपि किं पुनर् लालनादि-प्राप्त्यानुभूतौ पितरौ याभ्यां तौ जात-मात्राव् इत्य् अर्थः । अतः पित्रोः साक्षात् पितृत्वं प्राप्तयोः स्म प्रसिद्धौ स्वेति क्वचित् । तत्र कारणम् आह—सम्प्रीणनेत्य्-आदिना । सम्यक् प्रीणनं प्रिय-द्रव्य-प्रदानादिना तोषणम् । अभ्युदयं जात-कर्मादि-वृद्धिं वा । पोषणं स्तन्यादिना । लालनं च विश्रमणादिना । पालनानीति पाठेऽपि स एवार्थः । तानि प्रकर्षेण सर्वोत्कृष्टतया प्राप्य लब्ध्वा ।
ननु भवतु स्व-पुत्रत्वेनावगते श्री-कृष्णे तत् तत् श्री-रामे वा कथम् ? तत्राह—न सताम् इति । अन्यत् तैः ।
एष चार्थः श्री-देवक्या यद्यपीत्थम् एवाभिप्रेत्य प्रयुक्तः, यथा सुप्रसिद्धम् एव जातं, श्री-कृष्णे अस्मत्-पुत्रत्वं ततोऽनयापि ज्ञायेतैवेत्य् अतस् तद्-अनुरूपम् एव सान्तवनं युक्तम् इति । तथापि श्री-व्रजेश्वरास् तद् दृढतर-संस्कार-रसत्वेनान्यथा-प्रतित्य्-अभावात्, तथा ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इत्य् एकान्तिक-श्री-कृष्ण-मन्त्रानुस्मरणाद् अयम् एवार्थः स्फुरति स्म । तथा हि—एतौ युवयोः पित्रोर् युवाभ्यां पितृभ्याम् एव न्यस्तौ अस्मास्व् अर्पितौ यौ यथा स्वं सम्प्रीणनः सर्व-प्राणि-सुख-करो योऽभ्युदयो जन्म ये च पोषण-लालने तानि अक्ष्णोः पक्ष्म यद्वज् जन्म-स्थानं रक्षकं च तद्वद् यथा स्यात् तथा युवयोर् एव प्राप्यापि अदृष्ट-पितरौ पित्रोर् युवयोर् अकृत-दृष्टी एव सन्तौ ऊषतुर् अस्मासु वासं स्वीकृतवन्तौ यद्यप्य् अत्र तादृग् वैशिष्ट्यं नास्ति यथापि इति भावः । तर्हि कथम् ? तत्राह—न सताम् इति परः आत्मनो भिन्नोऽयं स्वः आत्मा वा तथा परः पित्रादिभ्यो भिन्नः स्वः पित्रादि-रूपो वेति सतां नास्तीत्य् अर्थः । अत्र श्री-रामस्यापि तद्-ग्र्ःए जातत्वात् तयोर् एव जन्मोक्तम् इति प्रतीतम् ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्त ! अस्मत्-पुत्राव् इमौ चिरात् स्व-मातरम् इव प्राप्य परमानन्द-वारिधौ स्नातौ पुरोवर्तिन्याव् अप्य् आवान् नैवेक्षेते । इयम् अपि चिरात् प्राप्त-स्वपुत्रेव प्रेमान्धा मत्तोऽपि कोटि-गुणित-मातृ-भाववती स्नेह-समुद्र-निमज्जिता सख्याव् आवां चिरात् प्रेक्ष्यापि न परिचिनोति । तद् अहं स्निग्ध-सम्भाषण-भङ्ग्यैव रहस्य-तत्त्वाम् इमां ज्ञापयामीति मनसि विमृश्य श्री-देवकी किञ्चिद् उच्चैर् आह—एताव् इति । न दृष्टौ पितरौ याभ्यां तौ युवयोः पित्रोः सम्प्रीणनादीनि प्राप्य, हे भवति! युवयोर् नस्तौ न्यास-रीत्या स्थापितौ अकुत्रच-भयौ न कुतोऽपि बिभ्यतौ भूत्वा ऊषतुर् युवयोर् गृहे वासं चक्रतुः । कथं-भूतयोः ? अक्ष्णोर् नेत्रयोः रक्षकं पक्ष्म यद्वत्, तथा रक्षकयोः युक्तं च युवयोर् एतत् यतः सतां परः स्व इति नास्ति वैषम्यम् । ततश् च चिराद् अपि प्रतिसम्भाषणम् अप्राप्य हे सखि देवकि ! सम्प्रत्य् अस्या आनन्द-निद्रा नोपशाम्यति तद् अलम् अरण्य-रुदितेन पुत्राव् अप्य् अस्याः प्रेम-पाश-बद्धौ वर्तेते, तदावां तावद् बहिर् इत्य् उत्कण्ठितानां पृथा-द्रौपद्य्-आदि-बन्धु-जनतानां सम्मिलनार्थं प्रयावः, नावयोर् अत्र लोक-यात्रा । महा-सम्मर्दः खल्व् एकत्रैवावताव् अवकाशो योग्य इति श्री-रोहिण्य्-उक्त्या देवकी तया सह निष्क्रान्तेति ज्ञेयम् ॥३९॥
॥ १०.८२.४० ॥
श्री73-शुक उवाच—
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति74 ।
दृग्भिर् हृ75दी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभीष्टत्वे लिङ्गम्, यद् यस्य श्री-कृष्णस्य प्रेक्षणे दृशिषु नेत्रेषु व्यवधायकं पक्ष्म-कृतं विधातारं शपन्ति । दृग्भिर् नेत्र-द्वारैर् हृदि कृतं हृदये प्रवेशितं परिरभ्य तद् भावं तद् आत्मतां प्रापुः । अपि नित्य-युजाम् आरूढ-योगिनाम् अपि ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिङ्गं हेतुः । व्यवधायकं व्यवधान-कर्तारम् । प्रेक्षणे तादर्थ्ये सप्तमी प्रेक्षणार्थम् । तदात्मतां तद्-रूपताम् । आरूढ-योगिनाम् इत्य् अनेन भक्त्य्-अतिशयो दर्शितः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गोप्यश् चेति । नित्य-युजां रुक्मिणी-प्रभृतीनाम् अपि दुरापं तस्मिन् श्री-कृष्णे भावं सत्तां स्थितिम् इत्य् अर्थः । यत्र श्री-कृष्णस् तत्रैव तस्थुर् इति । आपुः प्राप्तवत्यः । दृग्भिर् हृदि कृत्वा परिरभ्य दर्शनानन्तरं दृशां निमीलनेन हृदये तम् आवेश्य परिरभ्येत्य् अर्थः ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-युक्तः ऋषिः सर्वज्ञ उवाचेति । श्री-कृष्णस्य च मिथो भाव-तत्त्वादिकं सम्यग् वेत्तीति तद् उक्तौ दृढं विश्वास एव कार्य इति भावः । एवम् अग्रेऽपि ज्ञेयम् । त्व्-अर्थे च-कारः । सर्वतो विशेषात् तम् एवाह । गोप्यः सदा श्री-कृष्णैक-प्रेम-विशेषार्ततराः । कृष्णं निज-चित्तादि-सर्वाकर्षकं श्री-गोपेन्द्र-नन्दनं चिरात् । अभित इष्टम्। सर्वतो-भावेनेष्टं वाञ्छितम् । उप समीपे लब्ध्वा ।
यद् वा, अभीष्टं निज-प्राण-कोटितोऽप्य् अधिक-प्रियं चिराद् उपलभ्य, यस्य प्रकर्षेण नैरन्तर्यादिना ईक्षणे अवलोकने निमित्ते । दृशिष्व् इति बहुत्वं तासां बाहुल्यात् । यद् वा, प्रेम-तृष्णा-स्वभावेन तत्-प्रेक्षकाणां सर्वेषाम् एवापेक्षया, अलम् अत्यर्थं परिरभ्य । अन्तः-परिरम्भने स्वातन्त्र्यात् । सर्वा इति वर्गशो बहुधा भिन्ना अप्य् अविशेषेणैवेत्य् अर्थः । चिर-विरहार्ति-भरेण प्रायः सर्वासाम् एवैक्यापादनात् । तद्-भावं तन्-मयताम् । आत्माद्य्-अशेष-विस्मृत्या तद्-एक-परिस्फूर्तेः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, हृदीकृतं सदा चित्ते धृतम् एवाधुना दृग्भिः परिरभ्य परमासक्त्या सर्वतो निरीक्ष्य तद्-भावं कृष्णत्वं परमानन्द-घनतां चिर-विरह-दुःखोपशान्ति-पूर्वक-परम-काष्ठा-प्राप्त-मधुरानन्द-विशेषम् इत्य् अर्थः । यद् वा, सोऽनिर्वचनीयश् चासौ भावश् च । तेन सह रहः-क्रीडा-जायमान-चित्त-वृत्ति-विशेष-प्रेम्णः परम-काष्ठा-विशेषं वा आपुः । नित्य-युजां नित्य-संयोगवतीनां श्री-रुक्मिण्य्-आदीनाम् अपि दुरापम् । अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्रोभयथापि श्री-व्रजेश्वर्याः प्रत्युत्तरं न युक्तम् इति । किं वा, तदानीं तया चिरात् पुत्र-दर्शन-परमाविष्टया किञ्चिद् अपि न श्रुतम् इति । न किञ्चिद् अप्य् उक्तम् इत्य् एवं तद् अनुक्त्वा श्री-ऋषिः श्री-युक्त ऋषिः सर्वज्ञः उवाचेति श्री-गोपीनां श्री-कृष्णस्य च मिथो भाव-तत्त्वादिकं सम्यग् वेत्तीति । तद् उक्तौ दृढ-विश्वास एव कार्य इति भावः । एवम् अग्रेऽपि ज्ञेयम् ।
ततश् चातिविरह-ताप-क्षीणतमानां प्रतिक्षणम् आश्वासन-सन्तर्पणाभ्यां सन्धुक्षित-प्राणानां चिराद् आगतानां नूनं श्री-भगवतैवोद्धव-द्वारा निजान्तर्वासं नीतानां श्री-गोपीनां समागमम् आह—गोप्यश् चेति ।
न केवलं तेऽन्ये गोप्यश् चेति स्वानन्द-पूर्ति-व्यञ्जनम् । त्व्-अर्थे वा च-शब्दः, सर्वतो विशेषात् चिराद् अभित इष्टं सर्वतो भावेन द्रष्टुं वाञ्छितम् उप समीपे लब्ध्वा । यद् वा, अभीष्टं निज-प्राण-कोटितोऽप्य् अधिकं प्रियं चिराद् उपलभ्य तासां सर्वोऽपि प्रेमाधिक्यं दर्शयति—यद् इति । यस्य प्रकर्षेण नैरन्तर्यादिना ईक्षणे निमित्ते दृशिष्व् इति बहुत्वं तासां बाहुल्यात् । तच् चास्माकम् एकस्या अप्य् एकस्यां दृशौ कथं पक्ष्म न दूरीकृतम् इत्य् अभिप्रायेण ।
यद् वा, अतिप्रेम-तृष्णा-स्वभावेन तत्-प्रेक्षकाणां सर्वेषाम् एवापेक्षया, दृष्टि-मात्रे कथं पक्ष्माणि कृतानीति हृदीकृतम् इति दीर्घश् छान्दसः । अलम् अत्यर्थं परिरभ्य । अन्तः-परिरम्भन-स्वातन्त्र्यात् । सर्वा इति वर्गशो बहुधा भिन्ना अप्य् अविशेषेणैवेत्य् अर्थः । चिर-विरहार्ति-भरेण सर्वासाम् ऐक्यापादनात् । तद्-भावं तन्-मयताम् । आत्मादि-विस्मृत्या तद्-एक-परिस्फूर्तेः । अन्यत् तैः ।
यद् वा, हृदीकृतं सदा चित्ते धृतम् एवाधुना दृग्भिः तं परिरभ्य परमासक्त्या सर्वतो निरीक्ष्य तद्-भावं प्रेम्णः परमं काष्ठा-विशेषम् प्राप्तः, तेन चिरम् आनन्द-मूर्च्छाम् अवापुर् इत्य् अर्थः । नित्य-युजां नित्य-संयोगवतीनां श्री-रुक्मिण्य्-आदीनाम् अपि दुरापम् । अन्यत् समानम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नित्य-युजां नित्य-संयुक्तताद्य्-अभिमानिनीनां पट्ट-महिषीणाम् अपि ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गोप्यश् चेत्य् आदि । गोप्यः कृष्णम् उपलभ्य तद्-भावम् आपुः । तं प्रसिद्धं भावं तद्-भावम् । कीदृशम् ? नित्य-जुषां रुक्मिणी-प्रमुखानाम् अपि दुरापं दुर्लभम् । पुनः कीदृशम् ? अभीष्टं वाञ्छितम् । चिराच् चिर-कालेन । किं कृत्वा ? दृग्भिर् हृदि कृत्वा परिरभ्य ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् चाराद् एव तत्रैव किञ्चिद् व्यवहित-स्थले महोत्कण्ठा-स्फुटद्-धृदयाः कृष्ण-संमिलनम् अप्राप्य प्राणान् जहतीर् इव गोपीर् वीक्ष्य विदग्ध-चूडामणौ श्री-बलदेवेऽप्य् उत्थाय ततो निष्क्रान्ते तासाम् असाधारण-दशा-प्राप्तिम् आह गोप्यश् चेति । अत्र श्री-शुकदेवस्य ऋषि-शब्देन निर्देशस् तद्-वाक्य एव परम-तत्त्व-प्रकाशके दृढ-विश्वासं जनयितुं गोप्यश् चेति त्व्-अर्थे च-कारः । तासां सर्वतो विशेषात् ।
ननु, का गोप्य इत्य् अतस् तासाम् असाधारणं लक्षणम् आह—यस्य श्री-कृष्णस्य प्रेक्षणे दृशिषु नेत्रेषु व्यवधायक-पक्ष्म-कृतं विधातारं शपन्ति यास् ता इति । तेन दर्शने तावन्-मात्र-समय-विरहेऽपि यासां तथा सहिष्णुता यत्हा देव-मात्र-परम-संमान-कर्तृ-स्त्रीणाम् अपि तासां सर्व-देव-मुख्ये विधातर्य् अपि अभिशापो भवेत् ताभ्यो गोपीभ्य एतावान् विरहः कृष्णेन दत्त इति तस्मिन्न् ईर्ष्या ध्वनिता । दृग्भिर् अवलोकनैर् एवाकृष्य दृग्भिर् एव द्वारैर् हृदीकृतं हृदयं प्रविष्टीकृतं परिरभ्य तस्य भावं महाभावं कृष्णोऽहं पश्यत्अ गतिम् इतिवद् रस-तादात्म्यं वा आपुः । नित्य-युजाम् आत्माराम-शिखामणीनां महा-योगेश्वर-श्री-रुद्रादीनाम् अपि दुर्लभम् आपुस् ता अपि गोपीर् अध्यात्म्यं शिक्षयिष्यत्य् अधुनैव कृष्ण इति तस्मिन् पुनर् अपीर्ष्या ध्वनिता । किं वा, नित्य-संयोगिनां श्री-रुक्मिण्य्-आदीनाम् अपि दुर्लभम् ॥४०॥
॥ १०.८२.४१ ॥
भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः76 ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता गोप्यः । तथा-भूताः प्रेम-रताः । इदं वक्ष्यमाणम् ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम् एवार्थं प्रकटयति । भगवान् अचिन्त्य-परमैश्वर्यः । एतेनैतद् उक्तं भवति—ताः सर्वा युगपद् एव परिरेभिरे । अयम् अपि चेत् तथा ताः सर्वा युगपत् परिषजतेतद् एव कौशलम् । तेन भगवत्त्या युगपद् आश्लेष-सूचनम् । तथा-भूताः परिष्वजमाना विविक्त उपसङ्गतः विविक्ते निर्जने वस्तुतस् तदानीं निर्जन-स्थानम् एव नास्ति, महोपरागे विश्वेषाम् एव समागमात् । तथापि भगवन्-महिम्ना तथा-भूत् । आश्लिष्य प्रत्येकं युगपद् अनामयं पृष्ट्वा तत्-पृच्छायाम् एव प्रहसन् मद्-विरहे क्वानामयः ? तद् अपि तं पृच्छामि इति हासः ॥४१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वज्ञः । भक्त-वश्यतादि77 नित्य-युजां भक्तानां प्रेम-वश्यतादि-गुण-निधिर् वा । तथा-भूताः स्व-विरहेणात्यन्त-दुरवस्थां प्राप्ताः विविक्ते दिनान्तरे तद्-दिन एव वा निर्जन-स्ताने उप दाक्षिण्येन सङ्गतः सन् अनामयं देह-नैरुज्यम् एव, न त्व् अन्यत् सुखादिकम् । सुव्यक्तस्य महा-मनो-दुःखस्यापृच्छात्वात् । किं वा, अकार-प्रश्लेषेणाप्रहसन् सदा सुप्रसन्न-मुखोऽपि तासां दुरवस्थावलोकनेन विषण्ण-मुखः सन्न् इत्य् अर्थः । इदम् अत्य् अद्भुतम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च सान्त्वनाय वास-विशेषं नीतानां तासां श्री-भगवता स्वयम् एव यत् सान्त्वनं, तद् आह—भगवान् सर्वज्ञः तथा-भूताः स्व-विरहेणात्यन्त-दुरवस्थां प्राप्ताः विविक्ते नक्तं निर्जनतां गते प्रदेश-विशेषे उप सामीप्ये सङ्गतः सन् आश्लिष्य प्रेम-वैयग्र्येण मूर्च्छा-भङ्गार्थं प्रत्येकं वैभव-विशेषेण युगपद् आलिङ्ग्य, ततश् च मुहू रुदतीर् मूर्च्छन्तीः सान्त्वयित्वाचिरेण स्वस्थायमानाश् च दृष्ट्वेति ज्ञेयम् । अनामयं पृष्ट्वेति पूर्वं मयोद्धव-द्वारा विरहस्य हरणोपायः समुपदिष्ट एव । तत एतत् कार्श्यादि-हेतुः स न भवतीति व्यञ्जना निजापराध-सङ्गोपनाय साधारणामय-राहित्यम् एव पृष्ट्वा । ततश् च मृदु-संलापादि-परिपाटीभिः क्षण-कतिपये गमिते सति प्रहसन्, प्रेति प्रारम्भे । तासां शोकादि-लाघवार्थं स्मयमानः । इदम् अत्यद्भुतम्॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : प्रहसन् स्वापराधस्य तुच्छता-करणाय कृत्रिमं हसन् ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भगवान् इत्य् आदि । भगवान् अचिन्त्य-परमैश्वर्य तास् तु दृग्भिर् एव परिरेभिरे । अतो युगपद् घटते । अयम् एकस् तास् तु बह्वीर् एकदा यदा शिश्लेष । तेन भगवच्-छब्दोपादानम् । तत्रापि तदानीं विविक्त-स्थलाभावाद् भारत-प्रजानाम् एव तत्र सङ्गतेः । सर्वेषां द्वारका-वासिनां च । तथापि तत्रैव विविक्त-स्थलम् अभूत् । अनामयं पृष्ट्वा प्रहसन्न् इत्य् अर्थः । मद्-विरहे कथम् आसाम् अनामयम् । तद् अपि तत् पृच्छामीति स्वावैदग्ध्यात् प्रहासः ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च कृष्णो मातुर् उत्सङ्गाद् उत्थाय क्वचन विविक्त-प्रदेशे गत्वा ताभिः सह संमिलन-संभाषणादिकं चकारेत्य् आह—भगवान् इति । तथाभूताः पूर्व-श्लोकोक्त-लक्षणाम् आनन्द-मूर्च्छां प्राप्ताः । आश्लिष्य स्वीय-विभूति-शक्त्यैव सर्वा दृढम् आलिङ्गन-दाढ्येनैव ताः मोहात् प्रबोध्येत्य् अर्थः । अनामयं मद्-विरह-महोरग-पीडा सम् प्रत्य् उपशान्ता न वेति पृष्ट्वा प्रहसन्न् इति तासां हास्यम् उत्पादयितुम् ॥४१॥
॥ १०.८२.४२ ॥
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु-पक्ष-क्षपण-चेतसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चिरायितान् विलम्बितान् । अत्र हेतुः—शत्रूणां पक्षस्य क्षपणे चेतो येषां तान् ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र चिरायितत्वे ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अपि स्मरथेत्य्-आदि । यद् अपि स्मृति-योग्यो न भवामि, तथापि किं स्मरथ ? स्मृत्य्-अयोग्यत्वं दर्शयति—स्वानाम् अर्थ-चिकीर्षया गतान्, तत्रापि चिरायितान् । तत्र हेतुः—शत्रु-पक्ष-क्षपणे चेतो येषां, न तु युष्मासु । अतः स्मरण-सामग्री को\ऽपि नास्तीति भावः ॥४२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो कृतज्ञतादि-सद्-गुण-हीनस्य मे गुणैः स्मरणं न सम्भवेद् एव, किन्तु दोषेणैव स्मरथ इत्य् आशयेन । किं वा, सख्येन स्मरणं सम्भाव्य स-कातर्यं निजापराध-क्षपणार्थम् आह—अपीति । अपि स्वित् वितर्के । आ-शब्दो वि-शब्दश् चात्मनो\ऽकृतज्ञत्वातिशय- परिहाराय, न च तासाम् अनुनयार्थम् । यद् वा, अकृतज्ञा इति आ सर्वतः विशिष्टा या शङ्का, तया । किं वा, अविशङ्कया निश्चयेनेत्य् अर्थः । यद् वा, अकृतज्ञा अतिमूढा येऽवयो मेषास्त एव किलैत इति शङ्कया मत्येत्य् अर्थः । युष्माकं प्रेमोपकारादि-विस्मरणात् । एतच् चानुनय-चातुर्येण आर्ति-भरेण वा । तत्र चात्मनो दोष-परिहाराय सर्वेषाम् अस्वातन्त्र्यम् । किं वा, प्रिय-जन-प्रिय-जन-प्रेम-परवशः परमार्त्या निजैश्वर्यादिकं विस्मृत्य् आह—नूनम् इति निश्चये । भगवान् ईश्वरः कालो वा, वियुनक्तीत्य् अस्य पश्चाद् उक्तिः संयोगे सत्य् एव वियोग-सम्भवात् । तथा वियोगस्यैव प्रस्तुतत्वात् । एवम् अग्रेऽपि ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपि किं न इति बहु-वचनं बहु-सङ्गित्वेन स्वस्यैव बहुत्वम् अङ्गीकृत्य केवल-स्वेच्छया झटित्य्-आगमनं न समभवद् इति सूचितम् । हे सख्यः ! इति ताभिर् आत्मनः स्मरण-योग्यतां बोधयति आश्वासयति चापराधं क्षमापयति च, किन्तु महापराधेन स्मरण-योग्या न खलु स्याम इत्य् आह—स्वानाम् इति । भवतीर् अनादृत्य स्वानां श्री-व्रजेश्वर-भ्रातृत्वेन श्री-वसुदेवादि-लक्षण-ज्ञातीनां महा-शत्रु-कंस-वध-रूपस्यार्थस्य कर्तुम् इच्छया गतान् अपि । किं च, तत्-प्रसङ्गेन चिरायितान् अपि । चिरायितत्वे हेतुः—शत्रु-पक्ष- इति । तच्-चेतस्त्वेनैव यादवान् अन्यांश् च सहायीकर्तुं श्री-वसुदेव-पुत्रत्वं विखाप्य विवाहाभासादिकं चात्र कृतवन्तः स्म इति भावः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अपीत्य् आदि । हे सख्यः ! यद्यपि कठिनत्वात् स्मृति-योग्योऽहं न भवामि, तथापि निज-सौजन्यात् किं स्मरथ ? स्मरणयोग्यत्वे हेतुम् आह—स्वानाम् इत्य् आदि। स्वानां ज्ञातीनां प्रयोजन-चिकीर्षयागतान् । तत्रापि चिरायितान् । तत्र हेतुः—शत्रु-पक्षेत्य् आदि । अतो ज्ञाति-प्रयोजन-शत्रु-वधादि-बहिरङ्ग-कार्य-हेतोर् भवतीनाम् आसङ्गस् त्यक्त इति प्रेम-निरपेक्षोऽहं स्मर्तुम् अयोग्य एवेति वाक्यार्थः ॥४२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वानां मत्-पितुर् ज्ञातीनां वसुदेवादीनाम् अर्थः कंस-वधादिस् तच्-चिकीर्षया गतान् चिरायितान् विलम्बितान् । तत्र हेतुः—शत्रु-पक्षस्य क्षपणे चेतो येषां तान् । अत एव व्रजम् आगन्तुम् अप्राप्तावसरान् अस्मान् अपि किं स्मरथ ? ॥४२॥
॥ १०.८२.४३ ॥
अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि स्वित् अस्मान् अवध्यायथावजानीथ । अकृत-ज्ञा एत इत्य् अविशङ्कया ईषच्-छङ्कया न शङ्का-मात्रं, निश्चितम् एवैतत् परित्यज्य गतत्वाद् इत्य् अत आह—नूनम् इति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेऽस्मान् इति बहुत्वं स्वस्यानेक-रूपत्व-बोधनाय रास-क्रीडायां ताभिर् दृष्ट-चरत्वात् । एतद् अकृतज्ञत्वम् । भगवान् कालः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्रेम्णा स्मरणं तावद् आस्तां, अवज्ञा-पूर्वकम् अपि स्मरणं भवति, तत् किम् अवजानीथ वा ? इत्य् आह—अप्य् अवध्यायथेत्य्-आदि । अवज्ञानं कुतः ? तत्राह—अकृतज्ञा-विशङ्कयेति । आ सम्यक् विशेषेण शङ्कया अवज्ञापि न कार्या न ह्य् अहम् अकृतज्ञः । दैव-दोषो\ऽयम् इत्य् आह—नूनं भूतानीत्य्-आदि ॥४३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद् एवोक्त-पोषानुवाद-न्यायेन सदृष्टान्तम् आह—वायुर् इति । घनानीकं मेघ-समूहम् । भूत-कृत् ईश्वरः । सृष्टि-हेतुत्वेन काल एव वा ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो कृतज्ञतादि-सद्-गुण-हीनस्य मम गुणैः स्मरणं न सम्भवेद् एव, किन्तु दोषेणैव स्मरथेत्य् आशयेन सकातर्यं निजापराध-क्षमापनार्थम् आह—अपीति । अपि स्वित् वितर्के अकृतज्ञ इति आ सर्वतः विशिष्टा या शङ्का, तया । किं वा, अविशङ्कया निश्चयेनेत्य् अर्थः । तत्र च प्रेम-वशः सन् सम्भ्रमान् निजैश्वर्यम् अननुसन्धानो लोकवल्-लीला-कैवल्य-रीतिम् अनुसरन् तत्राप्य् उत्तरोत्तरम् अपश्यंस् तत्त्व-ज्ञान-रीत्यैव सान्त्वयति—नूनम् इति निश्चये भगवान् ईश्वरः ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रेम्णा स्मरणं तु दूराद् आस्ताम् । अवज्ञा-पूर्वकम् अपि किं स्मरतेत्य् आह—अप्य् अवध्यायतेत्य् आदि । अकृतज्ञयाविशङ्कया अकृतज्ञोऽयम् इति या आ सम्यग् विशेषेण शङ्का त्रासः, तथापि किं स्विद् अवध्यायतावजानीत । अवज्ञा च न योग्या । नाहम् अकृतज्ञः । दैव-योगेनैवैतद् उपपन्नम् इत्य् आह—नूनं भूतानीत्य् आदि ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा त्वं रात्रिं-दिवम् अस्मत्-स्मरण-विदीर्ण-हृदयो\ऽस्मद्-विरह-रोग-निवर्तित-सकल-विषय-भोगो महा-प्रेमी भवसि, तथा किं वयं भवितुं शक्नुमः । वयं तु त्वां न स्मरामः, त्वां विनापि सुखिन्य एवास्म इति वक्रोक्ति-द्योतक-भ्रू-भङ्गिभिर् एव स-संरम्भं कृत-प्रत्युत्तराः स्ता आलक्ष्याह—अपि स्वित् अस्मान् अवध्यायथ अवजानीथ एवेति अकृतज्ञा इति आ सर्वतो या विशङ्का, तया तत्र किं कर्तव्यम् अस्माभिस् तत्त्वं शृणुतेत्य् आह—नूनम् इति ॥४३॥
॥ १०.८२.४४ ॥
वायुर् यथा घनानीकं तृणं तूलं रजांसि च ।
संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् स-दृष्टान्तम् आह—वायुर् इति । आक्षिपते पृथक् करोतीत्य् अर्थः ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् संयोग-वियोग-करणम् । भूत-कृत् कालः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तम् एवार्थम् अध्यात्म-मुद्रया द्रढयति—वायुर् इत्य् आदि ॥४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतद् एवोक्त-पोषानुवाद-न्यायेन स-दृष्टान्तम् आह—वायुर् इति । घनानीकं मेघ-समूहम् । भूत-कृत् ईश्वरः । सृष्टि-हेतुत्वेन काल एव वा ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं तस्य नैर्घृण्य-वैषम्ये प्रसज्ज्येयाताम् ? तत्राह—वायुर् इति । भूत-कृद् ईश्वरः । वायोर् यथा स्वाभाविक-लीलयैव ते चलन्ति, न तु तद्-अर्थावेशेन तथेति भावः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तम् एवार्थम् अध्यात्म-मुद्रया द्रढयति—वायुर् यथेत्य् आदि ॥४४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतत् स-दृष्टान्तम् आह—वायुर् इति । आक्षिपति पृथक् करोतीत्य् अर्थः ॥४४॥
॥ १०.८२.४५ ॥
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च अति-भद्रम् इदं यद् उत भवतीनां मद्-वियोगेन मत्-प्रेमाति-शयोजात इत्य् आह—मयीति । मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय कल्पत इति । यद् उत भवतीनां मत्-स्नेह आसीत् तद् दिष्ट्याति-भद्रम् । कुतः ? मद्-आपनो मत्-प्रापण इति ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गोपी-भाग्यं श्लाघते—अपि चेति । अतिभद्रत्वे हेतुम् आशङ्कते—कुत इति । मत्-प्रापणो मत्-सान्निध्यानन्द-दः अमृतत्वे एतन् न सम्भवत्य् अत एव भक्तैस् तन् नाद्रियते इति रहस्यम् ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : किन्तु मयि भक्तिर् एव श्रेयसीत्य् आह—मयि भक्तिर् हीत्य्-आदि । मयि भक्तिर् एव अमृतत्वाय अमृतवत् स्वाद्यत्वाय कल्पते । किं पुनर् भवतीनां प्रेमानुबन्धः । यद् यतो मयि भवतीनां स्नेहो मद्-आपन आसीत् । आस्ते इति वर्तमाना ॥४५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कालस् तवांशस् त्वद्-अधीन एव । ईश्वर-पक्षेऽपि त्वम् एवेश्वरस् तत् कथम् अस्मान् अनन्य-गतीर् वञ्चयस इत्य् आशङ्क्य । यद् वा, आदौ निजाकृतज्ञता-परिहारार्थं स-दृष्टान्तं सत्-सिद्धान्तम् उक्त्वाधुना कृपयात्मनो माहात्म्यं प्रकटयन् समाश्वासयति—मयीति । हि अपि । भक्तिर् नव-विधानाम् एकापि । भूतानां सर्वेषाम् अपि प्राणिनाम् इत्य् अधिकारापेक्षा निरस्ता । अमृता नित्य-पार्षदास् तेषां भावोऽमृतत्वं तस्मै कल्पते समर्थो योग्यो वा भवत् । भवतीनां नित्य-विशुद्ध-कोमल-स्वभावानां तु, इति स्नेहस्यान्यतो वैशिष्ट्यं सूचितम् । अतोऽनुनयात्यादरेण भवतीनाम् इति । अत एव मद्-आपनो मां यत्र कुत्रापि स्थितं प्रापयति । बलाद् आकर्षयतीति तथा सः । अतो भवतीभिः सह मम कदाचिद् अपि विच्छेदो नास्तीत्य् अर्थः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ प्रसिद्धं ममैश्वर्यं नूनम् एताभिर् अपि ज्ञातम् अस्तीति क्षणाद् अनुसन्धाय तद् एवालम्ब्य यथा स्यात् तथेनापि सान्त्वयति—अहम् एवेश्वरश् चेत् तथापि शत्रु-पक्ष-क्षपण-लीलावेशेन कृते\ऽपि भवतीनां वियोजने मम शक्तिर् न भविष्यत् एव स्नेह-पारवश्याद् इत्य् अभिप्रायेणाह—मयीति । हि प्रसिद्धौ । भक्तिर् नव-विधानां भक्तीनाम् एकापि प्रीति-मात्रं वा, भूतानां सर्वेषाम् अपि अमृतत्वाय मोक्षाय कल्पते । ततो भवतीनां सर्वतः पूज्यानां मद्-आपनः माम् एव साक्षात् प्रापयति, बलाद् आकर्षति । यः स्नेहः उभयार्द्रीभाव-हेतुः प्रेम-परिपाक-विशेषः स यद् आसीत् संयोग-वियोग-लीलामृत्भाव् आविर्बभूव । तत् तु दिष्ट्या अतिभद्रं पुनर् वियोगासम्भवाद् इति भावः ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु केचित् त्वाम् एव परमेश्वरं वदन्तीत्य् आशङ्क्याह—मयीति ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भूतानाम् एव खल्व् इयं व्यवस्था, न तु भवद्-उपरि दैवाधिकारः, नापि वयं भूतात्मान इत्य् आशङ्क्याह—मयि भक्तिर् हीत्य् आदि । मयि श्री-कृष्णे भगवति भूतानां प्राणिनां भक्तिर् अमृतत्वाय मोक्षाय कल्पते । मोक्षाकाङ्क्षिणां भक्तेर् मोक्षदत्वाङ्गीकृतेः । भवतीनां भूत-मित्राणां पुनर् मयि यत्-स्नेह आसीत् । तद्-दिष्ट्या भाग्येनैव । कीदृशः ? मद्-आपनः । भक्तिः कदाचिन् मोक्षम् अपि प्रापयतीति । स्नेहस् तु माम् एव । अतो मत्-प्राप्तिर् वः शाश्वती ॥४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भो वाग्मि-शिरोमणे ! यस्मिन् दोषम् आरोपयसि स भगवांस् त्वम् एव सर्व-लोक-विख्यातो भवसीत्य् अस्माभिर् ज्ञायत एव । भोः सख्यः, एवं चेत्, सत्यम् अहं भगवान् एव । तद् अपि भवतीनां मत्-स्नेहाधीन एवास्मीत्य् आह—मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय मोक्षाय कल्पते यत् तु भवतीनां मत्-स्नेह आसीत् तद् दिष्ट्या मद्-भाग्येनैवातिभद्रम् एव । यतो मद्-आपनः माम् आपयति बलाद् आकृष्य युष्मत्-समीपम् आनयत्य् आनीयाचिरेणैव युष्मद्-अन्तिक एव स्थापयिष्यतीति भावः ॥४५॥
॥ १०.८२.४६ ॥
अहं हि सर्व-भूतानाम् आदिर् अन्तोऽन्तरं बहिः ।
भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कीदृशस् त्वं यं वयं स्नेहेन प्राप्स्यामः ? इत्य् अपेक्षायाम् आत्म-स्वरूपम् आह—अहं हीति । हे अङ्गनाः ! भौतिकानां शराव-सैन्धवादीनां यथाकाशादीनि पञ्च-महा-भूतान्य् आद्य्-अन्तादि-रूपाणि, एवं सर्व-भूतानां जरायुजादीनाम् अहम् । अतो व्यापकं मां भवत्यः प्राप्ता एवेति ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राप्य स्वरूपं पृच्छन्तीनां तदाह—कीदृश इत्य् आदिना । अहम् आद्य्-अन्त-रूपः, यतोऽतो हेतोर् व्यापकं माम् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): ननु तर्हि कथम् ईदृशश् चिर-विरहः ? तत्राह—अहम् इति द्वाभ्याम् । हि एव । अहम् एव, न तु मायादि । आदिः कारणम् । अन्तो लय-स्थानम् । अन्तरं मध्यम् । एवं सर्व-व्यापकोऽहं सामान्यतो युष्मान् अभिव्याप्य तिष्ठाम्य् एवेत्य् अर्थः । विशेषतश् च युष्माकं सौन्दर्येण कदापि युष्मांस् त्यक्तुं न शक्नोमीत्य् आशयेनाह—अङ्गनाः ! हे परम-सुन्दर्यः ! इति ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु कथम् भवत्-प्राप्तौ स्नेह एव कारणम् ? इत्य् आशङ्क्य सर्वाश्रयत्वात् तस्याहम् एव योग्यः, मम च स एव योग्य इत्य् आशयेनाह—अहम् हीति द्वाभ्याम् । शब्दार्थस् तु टीका-सम एव । तत्रोत्तर-पद्ये भूत-भौतिक-रूपम् इत्य् एव लिखनं शुद्धं भूत-भौतिक-रूपं भोग्यं भोक्तृ-रूपस् त्व् आत्मेत्य् उभयथा स्पष्टीभावाद् इति । तद् एवं शीघ्रम् एव भवतीनां नित्य-मल्-लाभो भविष्यतीति भावः ।
ननु तर्हि कथम् ईदृशश् चिर-विरह इत्य् आशङ्क्यार्थान्तरं च सङ्गमयति—अहम् इति द्वाभ्याम् एव । हि निश्चये । न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इति श्री-दामोदर-लीला-दर्शित-न्यायाच् छ्री-विग्रह-रूपोऽहम् एव । आदिः कारणम् । अन्तो लय-स्थानम् । अन्तरं मध्यम् । एवं सर्व-व्यापकोऽहं सामान्यतो युष्मान् अपि व्याप्य तिष्ठाम्य् एवेति । वस्तुतो विरह एव नास्तीत्य् अर्थः। अङ्गना इति तासां सौन्दर्य-गुणोल्लेखेन स्व-प्रेमापि ज्ञापयति ॥४६॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः १६८) : एवं तथा श्री-मद्-उद्धव-द्वारोपदिष्टं तथा कुरुक्षेत्र-यात्रायाम् अपि साक्षाद् अपि स्वयम् उपदिष्टम्—
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । > गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भा।पु। > १०.८२.४१]
इत्य् अनेन स्वागमन-विलम्बे कारणं विज्ञाप्य, पुनश् च—
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । > दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भा।पु। > १०.८२.४४]
इत्य् अनेन तासां स्व-प्राप्तिम् अवश्यं-भाविनीं प्रोच्य, तत्रापि तासां काल-विलम्बाक्षमत्वं विलोक्य झटिति सान्त्वनार्थम् उद्धव-द्वारा प्रहित-चर-सन्देशवद् एव स्वेन नित्य-संयोगम् उपदिशति78—अहम् इत्य्-आदि द्वाभ्याम् ।\
यथा अहम् अहं-कारो भूतादिः सर्वेषां भूतानां खादीनाम् आद्य्-अन्तादि-रूपः, अहङ्कारान्तर्-गतान्य् एव खादीनीत्य् अर्थः । यथा च खादीनि भूतानि भौतिकानां शराव-सैन्धवादीनाम् आद्य्-अन्तादि-रूपाणि, खादीनाम् अन्तर्-गतान्य् एव तानीत्य् अर्थः । एवम् एतानि प्रकट-लीलायाम् अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थ-सत्य-वस्तूनि श्री-वृन्दावनादीनि भूतेष्व् अप्रकट-लीला-गतेषु परमार्थ-सत्य-वस्तुषु तेषु वर्तन्ते । युष्माकं प्रकट-लीलाभिमान्य्-अहन्तास्पदम् आत्मा चाप्रकट-लीलाभिमान्य् अहन्तास्पदेन आत्मना ततो व्याप्तः । एवम् इदन्ताहन्तास्पदं यद् उभयं तच् च पुनः परे प्रकटम् अत्र दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे नित्यम् एव युष्मत्-सङ्गिनि मय्य् आश्रय-रूपे आभातं विराजमानं पश्यत इति । तस्मात् प्रकाश-भेदाद् एव तत्-तद्-वस्त्व्-आदि-भेद-व्यपदेशो विरह-संयोग-व्यवस्था चेतीदम् अत्रापि व्यक्तम् ॥४६-४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु तथापि नैतादृशं काठिन्यम् उचितम् इत्य् आशङ्क्याह—अहं हीत्य् आदि । अहं सर्व-भूतानाम् आदिर् अन्तश् च । यथा तथान्तरं हृदये च बहिश् च । भौतिकानां यथा खमादीनि अन्तर् बहिश् च । अतो भौतिक-विग्रहाणां भवतीनां यद् अन्तर् बहिर् अपि भवेयम् । तत् किं चित्रम् । तेन भवतीभिः सह मे विरह एव नास्ति ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, माम् एव भगवन्तं यदि यूयं जानीध्वे एव, तदा मद्-विरह-दुःखं नास्त्य् एव । युष्माकं केवलम् अविवेकेनैव दुःखं लभध्वे तस्माद् अविवेक-ध्वंसनं मत्तः शिक्षध्वम् इत्य् आशयेनाह—अहम् इति । वस्तुतस् तु भोस् त्रिजगती-वर्तिनो महा-योगेश्वराः ! ज्ञानं दुःख-मात्र-ध्वंसनं यत् यूयम् ब्रूध्वे, तद् इदम् अवधत्त उद्धवोपदिष्टम् इव साक्षान् मद्-उपदिष्टम् अपि ज्ञानं प्रेमवत्सु जनेषु दुःखानिवर्तनाद् वैयर्थ्यम् एव प्राप्नोतीति ज्ञापयन्न् एव गोपीर् ज्ञानम् आह—अहम् इति । सर्व-भूतानां देव-मनुष्य-तिर्यग्-आदीनाम् आद्य्-अन्त-मध्य-बहिर्-वर्तीत्य् अर्थः । भौतिकानां देहादीनां यथा खादीनि पञ्च-महा-भूतान्य् आद्य्-अन्तादि-वर्तीनीत्य् अर्थः । हे अङ्गनाः रमण्यः ! एवं तत्त्वं मे यूयं स्त्री-जनाः नैव जानीथेति भावः ॥४६॥
॥ १०.८२.४७ ॥
एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः ।
उ79भयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु चतुर्-विध-भूत-ग्रामाणां तद्-भोक्ता आत्मैवाद्य्-अन्तादि-रूपः, तस्मिंश् च सर्व-व्यापके सर्व-भूतानि वर्तन्त इति कुतस् त्वत्-प्राप्तिर् अस्माकम् ? इत्य् अत आह—एवं हीति । अयम् अर्थः—शरावादीनां यथा भौतिकानां महा-भूतान्य् आद्य्-अन्तादि-रूपाणि, एवम् एवैतानि चतुर्-विधानि भूतान्य् अपि भौतिकत्वाविशेषात् स्व-कारणेषु भूतेष्व् एव वर्तन्ते, न तु भोक्तर्य् आत्मनि । आत्मा तु तेषु भूतेष्व् आत्मना भोक्तृ-रूपेण ततो व्याप्तो न कारणत्वेन । अथ एतद् उभयं भूत-भौतिक-रूपं भोग्यं च भोक्तारं चात्मानं मय्य् अक्षरे परिपूर्णे आभातं पश्यतेति ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—तद्-भोक्ता चतुर्विध-भूत-ग्रामान्तर्यामी । अत्राशयम् आह—अयम् अर्थ इति । परिपूर्णे परमात्मनि । आभान्तं रज्जौ भुजङ्गादिकम् इव प्रतीतं यूयं पश्यत अधिष्ठेयस्याधिष्ठानातिरेकत्वाभावाद् इत्य् अर्थः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, युष्माकं देह आत्मा च मय्य् एव विराजत इत्य् आह—एवम् इति । हि एव । अनेन आदित्वादिनैव प्रकारेण, एतानि महान्ति भूतानि आकाशादीनि, भूतेषु देहेषु वर्तन्ते, आत्मा चात्मना स्वयम् एव तेष्व् एव । ततस् तानि व्याप्यास्तीत्य् अर्थः । उभयं देह आत्मा च मयि वर्तते । कुतः ? परे परमेश्वरे, जगतस् तद् एकाधारत्वात् । अथ अतो निज-देहम् आत्मानं चेत्य् उभयम् एव अक्षरे सदा श्री-वृन्दावने गोपालनादि-क्रीडातो न क्षरति न चलतीति तथाभूते मय्य् आभातम् । निर्धारापेक्षयातीत-निर्देशः । सदा रास-क्रीडादिना शोभमानं पश्यत जानीत । यद् वा, इतः परं पश्यत साक्षाद् अनुभवत । अतः प्रभृति पुनः कदापि विच्छेदो न भावीत्य् अर्थः । एवं तट्-टीकायां भूत-भौतिक-रूपम् इत्य् एव लिखनं युक्तम् । भोग्य-भोक्त्रोर् अर्थापेक्षया भोग्य-भोक्त्रोर् अर्थापेक्षया भोग्यस्य भूत-भौतिक-रूपम् इति भोक्तुश् चात्मानम् इति व्याख्यानात् । अत एव चित्-सुखोऽपि । तद् उभयं भोग्य-भोक्तृ-रूपम् इति ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति । हि निश्चये । अनेन आदित्वादिनैव प्रकारेण एतानि महान्ति भूतानि आकाशादीनि, भूतेषु देहेषु वर्तन्ते, आत्मा चात्मना स्वयम् एव तेष्व् एव । ततः स्व-शक्त्या तानि व्याप्यास्तीत्य् अर्थः । उभयं देह आत्मा च मयि वर्तते । कुतः ? परे परमेश्वरे, जगतस् तद् एकाधारत्वात् । अथ अतो निज-देह आत्मा चेत्य् उभयम् एव अक्षरे सदा सर्वत्र वर्तमाने मय्य् आभान्तम् विराजमानं पश्यत अनुभवतेति ।
एतच् चासां भावतोऽतिबहिरङ्गम् इत्य् आशङ्क्य श्री-मद्-उद्धव-द्वारा सन्देशवद् अर्थान्तरं योजयति—यथाहम् । अहङ्कारो भूतादिः सर्वेषां भूतानां खादीनाम् आद्य्-अन्तादि-रूपः । अहङ्कारान्तर्गतान् एव खादीनीत्य् अर्थः । एवम् एतानि प्रकट-लीलायाम् अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि, एको विष्णुर् महद् भूतम् [श्री-शर्भ। २५] इतिवत् परमार्थ-सत्य-वस्तूनि श्री-वृन्दावनादीनि भूतेष्व् अप्रकट-लीलागतेषु परमार्थ-सत्य-वस्तुषु वर्तन्ते, तथा युष्माकं प्रकट-लीलाभिमान्य्-अहंतास्पदम् आत्मा च अप्रकट-लीलाभिमान्य्-अहन्तास्पदेनात्मना व्याप्तः । एवम् इदन्ताहंतास्पदं यद् उभयं, तच् च परे प्रकटम् अत्र दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणे तत्राप्य् अक्षरे नित्यम् एव युष्मत्-सङ्गिनि मयि आश्रय-रूपे आभान्तं विराजमानं पश्यतेति । तस्मात् प्रकाश-भेदाद् एव तद्-वस्त्व्-आदि-भेद-व्यपदेशो विरह-संयोग-व्यवस्था चेति पूर्वम् अप्य् उद्धव-द्वारा सन्दिष्टम् इति भावः । तद् एवम् उभयथापि स्फूर्त्य्-अस्फूर्त्योर् इव संयोग-विरहत्वं भवतीनां च परम-स्नेहेन स्फूर्तिः सदैव वर्तत इति वस्तुतो नास्त्य् एव विरह इति व्यञ्जितम् ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एतद् एव पुनर् द्रढयति—एवम् इत्य् आदि । एवम्भूतेषु भौतिकेषु यथा भूतानि महा-भूतानि । तथात्मा जीव आत्मना परमात्मना सह भूतेषु तत आतत उभयम् आत्म-परमात्म-रूपं द्वयं परे परात्परे मय्य् अक्षरे दृश्यमान-रूपत्वेनाव्यये आभान्तं पश्यत ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं हि तद् एवम् इत्य् अर्थः । एतानि महा-भूतान्य् आकाशादीनि भूतेषु देहेषु वर्तन्ते । आत्मा जीवश् च आत्मना स्वरूपेण ततः विस्तृतः देह-व्यापकः सन् वर्तते इत्य् अर्थः । उभयं देहं जीवं च मयि परे परमात्मनि अक्षरे नित्ये । सर्व-व्यापके\ऽ धिष्ठान-तत्त्वे आभान्तं प्रकाशितं पश्यत, तेन यूयं देहा आत्मानश् च मय्य् एव सदा वर्तन्त एवेति। कुतो मद्-विरह-खेदो\ऽविवेक-विजृम्भित इति भावः ॥४७॥
॥ १०.८२.४८ ॥
श्री-शुक उवाच—
अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
त80द्-अनुस्मरण-ध्वस्त-जीव-कोशास् तम् अध्यगन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अध्यात्म-शिक्षया स्वरूपोपदेशेन शिक्षिता बोधिताः, तस्यानुस्मरणेन ध्वस्तो जीव-कोशो लिङ्गं यासां तास् तम् एवाध्यगन् प्रापुः ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् एव श्री-कृष्णम् एव ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अध्यात्म-शिक्षयेत्य्-आदि । आत्मानम् अपि अध्यात्मं या शिक्षा, तया कृष्णेन शिक्षिता गोप्यस् तं श्री-कृष्णम् अध्यगन् प्राप्तवत्यः । पुनस् तद्-विश्लेषो यथा न भवति, तथा स्थिता इत्य् अर्थः । अचिरान् माम् अवाप्स्यथ [भा।पु। १०.४७.३६] इत्य् उद्धव-याने यत् सन्दिष्टं तद् एवेदम् इत्य् अर्थः । तद्-अनुस्मरणेन ध्वस्तो जीव-कोषो जीव-भावो यासां, विविक्त उपसङ्गतः [भा।पु। १०.४७.४०] इति यद् उक्तं, तद्वत् विविक्त एव ताः स्थिताः । के अपि यथा न जानन्ति स्व-स्वरूपेणैव स्थिता इत्य् अर्थः । यद् वा, जीव-कोषो लिङ्ग-शरीरम् ॥४७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अनेनोक्त-प्रकारेण आत्मा श्री-कृष्णस् तम् अधिकृत्य प्रवर्तते या शिक्षा, तया शिक्षिता सत्यः । अतस्तस्य शिक्षणस्य अनुस्मरणम् अनुसन्धानं, तेन ध्वस्तो जीवानाम् अन्येषां कोशो लिङ्गं याभिः । किं वा, ध्वस्तो नष्ट-प्रायो जीवस्यात्मनः कोशः कायो विरह-कैवल्यातिशयेन यासां तथा-भूताः । तं सदा श्री-वृन्दावने राम-विलासादिना स्वैः सह विहरिष्यन्तम् अध्यगन् ज्ञातवत्यः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-उपदेश-फलम् आह—कृष्णेनइवम् आत्मानं श्री-कृष्णम् एवाधिकृत्य या शिक्षा, तया शिक्षिताः गृहीतार्थाः सत्यः, तद्-अनुस्मरणेन तस्य शिक्षितार्थस्य सदा चिन्तनेन ध्वस्तो नष्टो जीवस्य जीवनस्य कोषम् आच्छादनं, न जीविष्याम इति भावना यासां ताः । तं श्री-कृष्णम् अध्यगन् प्राप्स्याम इति दृढ-सम्भावना-विषयत्वेनाजानन् इति प्रथमे द्वितीये तु तस्य सर्व-व्यापक-मूर्तेर् अनुस्मरणेन स प्रेमातिशयाद् एव तथानुभवेन ध्वस्तो जीवस्य आत्मनः कोषः परिच्छेदः, अप्राप्ति-रूप-भावना याभ्यस् तथा-भूताः सत्यः तम् अध्यगन् प्राप्तत्वेनैवामन्यतेत्य् अर्थः । तृतीये तस्याप्रकट-प्रकाशस्यानुस्मरणेन ध्वस्तो जीवानां कोषो प्रकट-लीला-रूपो विच्छेद-हेतुर् यासां ताः । इति सर्वत्र चार्थे श्लेषेण दृष्टान्त-द्योतनाच् च, अन्ये यथा अध्यात्म-शिक्षया आत्मानम् अधिगच्छन्ति, तद्वद् इति ॥४८॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः १६९) : श्री-भगवच्-छिक्षानुरूपम् एव श्री-ऋषिर् उवाच— अध्यात्म-शिक्षयेति । अध्यात्म-शिक्षया तद्-उपदेशेन आत्मानं श्री-कृष्णम् अधिकृत्य या शिक्षा, तया वा । तथा-विधं यद् उपदिष्टं तद्-अनुस्मरणेन नित्य-सिद्धाप्रकट-लीलायाः पुनर् अनुसन्धानेन ध्वस्तस् त्यक्त-प्रायो जीव-कोषः प्रपञ्चः, तत्र प्राकट्याभिनिवेशो याभिस् ताः । तं स्वयम् उपदिष्टं नित्य-संयुक्त-रूपं श्री-कृष्णम् अध्यगन् प्रणिहितवत्यः । तत्रापि पूर्व-दर्शित-श्रुति-पुराणादि-गत-नित्यता-वाक्यं, मयि भक्तिर् हि [भा।पु। १०.८२.४४] इति । फल-भेद-वाक्यं च, न ज्ञानं न च वैराग्यम् [भा।पु। ११.२०.३१] इत्य्-आद्य्-अयुक्तता-व्यञ्जि-वाक्यं चानुसन्धाय परोक्ष-वादार्थ-प्रयुक्तम् अर्थान्तरं न प्रमेयम् ॥४८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अध्यात्म-शिक्षयेत्य् आदि । आत्मानम् अधि अध्यात्मम् । स्वम् उद्दिश्येत्य् अर्थः । अध्यात्मं या शिक्षा तया कृष्णेन शिक्षिता गोप्यस् तं कृष्णम् अध्यगन् प्राप्तवत्यः । पुनस् तद्-विश्लेषो यथा न भवति । तथा स्थिता इत्य् अर्थः । अचिरान् माम् अवाप्स्यथ [भा।पु। १०.२३.३२] इत्य् उद्धव-द्वारा यद् आदिष्टम् । तस्यैवायं प्रपञ्चः । कीदृश्यः ? तद्-अनुस्मरणेन ध्वस्त-जीव-भावो यासाम् । एतास् तु मुनि-रूपा इति बोद्धव्यम् ॥४८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्याः पञ्च-श्लोक्या आभ्यन्तर-हेत्व्-अर्थस् तु वैष्णव-तोषिण्यां द्रष्टव्यः । अध्यात्म-शिक्षया एवं ज्ञानोपदेशेन शिक्षिताः प्रबोधिताः तद्-अनुस्मरणेन तद्-विरहोत्थ-तीव्र-निरन्तर-ध्यान-सूर्येण ध्वस्तो जीवन-कुमुदस्य कोशो\ऽन्तर्-भागो यासां ताः, तत्-प्रत्याशा-मात्र-रक्षित-किञ्चिन्-मात्र-जीवना इत्य् अर्थः । तम् अध्यगन् अधिगतवत्यः यः खल्व् अस्माकम् अजिज्ञासूनाम् अपि रासारम्भे धर्मोपदेष्टा उद्धव-द्वारा च ज्ञानोपदेष्टा ज्ञानम् उपदिशति सो\ऽयं स्वभावो\ऽप्य् अस्य दुस्त्यज एवेति प्रत्यभिज्ञातव्यत्य इत्य् अर्थः । जीव-कोशो लिङ्ग-देह इति व्याख्यातुं न सङ्गच्छते नित्य-सिद्धानां सतां लिङ्ग-देहाभावात्, साधन-सिद्धानाम् अपि तासां कृष्ण-सम्भुक्तानाम् एतावत्-काल-पर्यन्तं प्राकृत-लिङ्ग-देह-सत्तान् अभ्युपगमात् ॥४८॥
॥ १०.८२.४९ ॥
आहुश् च ते नलिन-नाभ पदारविन्दं
योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः ।
संसार-कूप-पतितोत्तरणावलम्बं
गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्राप्तोऽपि कृष्णः पुनर् गृह-व्यासङ्गेन मापयात्व् इति तच् चरण-स्मरणं प्रार्थयाम् आसुर् इत्य् आह—आहुश् चेति । हे नलिन-नाभ ! ते पदारविन्दं गेहं जुषां गृह-सेविनीनाम् अपि नो मनसि सदा उदियाद् आविर्भवेत् ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपयातु विस्मृतिं गच्छतु । तच्-चरण-स्मरणं कृष्ण-पाद-स्मृतिम् । अगाध-बोधैर् अनन्त-बोधाढ्यैर् योगेश्वरैः सनकाद्यैः संसार-कूप-पतितानाम् उत्तरणायोर्ध्व-गमनायावलम्बं हस्ताधारम् । अनेन प्राप्तात्म-तत्त्वैर् अप्य् अभीप्समानतया भक्तेर् आधिक्यं ध्वनितम् ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नित्य-भागवत-शरीरेण तेनैव गोपी-देहेन तं प्राप्य मौनेनैव स्थिता इति न किञ्चिद् उक्तवत्यश् चेत्य् आह—आहुश् चेत्य्-आदि । हे नलिन-नाभ ! मनसि जुषाम् अपितद् एव पदारविन्दं नोऽस्माकं गेहम् उदियात्, गेहं प्रति उदियात् । अतो\ऽन्तरं यथा वयं न तत्र गच्छामः । अथवा, तव पदारविन्दं नोऽस्माकं गेहम् उदियात्, गेहत्वेन उदियात्,तद् एव गेहं भवत्व् इत्य् अर्थः । अथवा तव पदारविन्दं सदा जुषां नोऽस्माकं गेहम् मनसि उदियात्, अर्थात् तवैव । अयम् अर्थः—अतः परं यथा विच्छेदो न भवति, तथा तव चरण-सेवा अस्माकं निरन्तरं यथा सम्पद्यते, तथा गेहं मनसि क्रियताम् इति सङ्क्षेपेण निवेदनम् ॥४९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तद्-वचनेनैव तत्र प्राप्तव्यं ज्ञात्वापि परमौत्सुक्येन प्रार्थयामासुर् इत्य् आह—आहुश् चेति । हे नलिन-नाभेति पद्माकार-नाभित्वात् परम-सौन्दर्यम् उक्तम् । अतोऽरविन्द-रूपकेण श्री-पदस्य परम-मधुरत्वं ताप-हरत्वादिकं च ध्वनितम् । अत एव योगो भक्ति-योगस् तद्-ईश्वरैर् वशीकृत-भक्ति-योगैर् इत्य् अर्थः । हृद्य् एव विशेषेण सर्वोत्कृष्टतया चिन्तयं भाव्यम् । अगाध-बोधैर् ज्ञानिभिर् मुक्तैर् अपि परम-पुरुषार्तह्तया भाव्यम् । किं च, संसारेति । एवं भक्त-मुक्त-विषयिणां त्रयाणां सेव्यत्वेन साध्यत्वं साधनत्वं चोक्तम् । सदा मनसि जुषां त्वत्-कृपया त्वां सेवमानानाम् अपि नोऽस्माकं गेहं प्रति सकृद् अप्य् उदियात् । प्रकटं भवतु । इत्थं तासां भाषणादिना सख्येन तत्-तुल्यानां श्री-दामादि-गोपानां तज्-जातम् एवेति पृथङ् न कृतम् । किं वा कृतम् अपि साम्येन विशेषाभावाद् ऊह्यत्वाच् च श्री-बादरायणिनैव नोक्तम् इति ज्ञेयम् ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यपि परोक्ष-वादाय दृष्टान्ताय वा आध्यात्म-भङ्ग्योक्तम् अपि तादृग्-अर्थम् अनादृत्य तद्-वचनेनैव तं प्राप्तव्यं ज्ञात्वा परम-सन्तुष्टाः बभूवुः, तथापि परमौत्सुक्येन प्रार्थयामासुर् इत्य् आह—आहुश् चेति ।
हे नलिन-नाभ ! इति पद्माकार-नाभित्वात् परम-सौन्दर्यम् उद्दिष्टम् । अतः अरविन्द-रूपकेण श्री-पदस्य परम-मधुर-रसत्वं ताप-हरत्वादिकं च ध्वनितम् । अत एव योगो भक्ति-योगः, तद्-ईश्वरैर् वशीकृत-भक्ति-योगैर् इत्य् अर्थः । हृद्य् एव विशेषेण सर्वोत्कृष्टतया भाव्यं चिन्त्यम् अगाध-बोधैर् ज्ञानिभिर् मुक्तैर् अपि परम-पुरुषार्थतया भाव्यम् ।
किं च—संसारेति । एवं भुक्त-मुक्त-विषयिणां त्रयाणां सेव्यत्वेन साध्यत्वं साधनत्वं चोक्तम् । सदा मनसि जुषां सेवमानानाम् अपि नो\ऽस्माकं गेहं प्रति सकृद् अप्य् उदियात्, तत्र प्रकटं भवतु ।
यद् वा, प्रथमतो नलिननाभेति सम्बोध्य सपरिचय-विशेषं ज्ञापयित्वा तावता विरहस्यानौचित्यं दुःसहत्वं च ज्ञापितम् । वाक्यार्थश् चायम्—आस्तां तावद् दुर्विहितानाम् अस्माकं त्वद्-दर्शन-गन्ध-वार्तापि । हे नलिन-नाभ ! तव पदारविन्दं त्वद्-उपदेशानुसारेणास्माकं मनस्य् उदियात् ।
ननु, किम् इवात्रासम्भाव्यं? तत्राहुः—योगेश्वरैर् एव हृदि चिन्त्यं, न त्व् अस्माभिः, त्वत्-स्मरणारम्भ एव मूर्च्छा-गामिनीभिः । तद् एवोपपादयन्ति—अगाध-बोधैः, साक्षाद्-अदर्शने\ऽप्य् अक्षुभित-बुद्धिभिः, न त्व् अस्माभिर् इव तद्-दर्शनेच्छया मुहुर् मोहेन क्षुभित-,भाविभिः । तद् उक्तम् उद्धवं प्रति स्वयं भगवता—
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । > स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भा।पु। > १०.४६.५] इति ।
चरणस्यारविन्दता-रूपकं तत्-स्पर्शेनैव दाह--शान्तिर् भवति, न तु स्मरणेनैवेति ज्ञापनाय ।
ननु तथा निदिध्यासनम् एव योगेश्वराणां संसार-दुःखम् इव भवतीनां विरह-दुःखं दूरीकृत्य तद्-उदयं करिष्यतीति आशङ्क्याहुः—संसार-कूप-पतितानाम् एवोत्तरणावलम्बं, न त्व् अस्माकं विरह-सिन्धु-निमग्नानाम् । तच्-चिन्तने दुःख-वृद्धेर् एवानुभूयमानत्वाद् इति भावः ।
नन्व् अत्रैवागत्य मुहुर् मां साक्षाद् एवानुभवत, तत्राहुः—गेहं जुषां पर-गृहिणीनाम् अस्वाधीनानाम् इत्य् अर्थः । यद् वा, गेहं जुषाम् इति सङ्गतिश् च त्वत्-पूर्व-सङ्गम-विलास-धाम्नि तत्-तद्-अस्मत्-काम-दुघे स्वाभाविकास्मत्-प्रीति-निलये निज-गेहे गोकुल एव भवतु, न तु द्वारकादाव् इति स्व-मनोरथ-विशेषेण तस्मिन्न् एव प्रीतिमतीनाम् इत्य् अर्थः, यः कौमार-हरः स एव हि वरः [पद्या। ३७८] इत्य्-आदिवत् । तस्माद् अस्माकं मनसि भवच्-चरण-चिन्तन-सामर्थ्याभावात् स्वयम् आगमनस्यासामर्थ्याद् अनभिरुचेर् वा,
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । > प्रत्यागमन-सन्देशैर् [भा।पु। १०.४६.६] इति ।
भवज्-ज्ञातास्मन्-मर्मानुरूपं भवान् साक्षाद् एव श्री-वृन्दावन एव यद्य् आगच्छेत्, तदैव निस्तार इति भावः । अत्र श्री-दामादि-गोपानां श्री-मद्-उद्धव-यान-दर्शित-सिद्धान्त-रीत्या विरह एव न जातो\ऽस्तीत्य् अनागमनात्, किन्तु गो-रक्षायाम् एव स्थितत्वान् मिलनादिकानां वर्णनं ज्ञेयम् ॥४९॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः १७०) : अथ ज्ञान-रूपं प्रकटार्थम् अस्वीकुऋवाणा नित्य-लीला-रूपं रहस्यार्थं स्वीकुर्वाणा अपि पूर्ववत् पुनश् च प्रकट-लीलाभिनिवेशेन विरह-भीताः परम-दैन्योत्तरम् एवं प्रार्थयामासुर् इत्य् आह—आहुश् चेति ।
आस्तां तावद् दुर्विधि-हतानाम् अस्माकं त्वद्-दर्शन-गन्ध-वार्तापि । हे नलिन-नाभ ! तव पदारविन्दं त्वद्-उपदेशानुसारेणास्माकं मनस्य् उदियात् ।
ननु किम् इवात्रासम्भाव्यम् ? तत्राहुः—योगेश्वरैर् एव हृदि विचिन्त्यं, न त्व् अस्माभिस् त्वत्-स्मरणारम्भ एव मूर्च्छा-गामिनीभिः । तद् उक्तम् उद्धवं प्रति स्वयं भगवता—
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । > स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भा।पु। > १०.४६.५] इति ।
तद् एवोपपादयन्ति—अगाध-बोधैः साक्षाद्-दर्शनेऽप्य् अक्षुभित-बुद्धिभिः, न त्व् अस्माभिर् इव त्वद्-दर्शनेच्छया क्षुभित-बुद्धिभिः । चरणस्यारविन्दता-रूपकं च त्वत्-स्पर्शेनैव दाह--शान्तिर् भवति, न तु तथा त्वत्-स्मरणेनेति ज्ञापनाय ।
ननु तथा निदिध्यासनम् एव योगेश्वराणां संसार-दुःखम् इव भवतीनां विरह-दुःखं दूरीकृत्य तद्-उदयं करिष्यतीति आशङ्क्याहुः—संसार-कूप-पतितानाम् एवोत्तरणावलम्बं, न त्व् अस्माकं विरह-सिन्धु-निमग्नानाम् । त्वच्-चिन्तनारम्भे दुःख-वृद्धेर् एवानुभूयमानत्वाद् इति भावः ।
नन्व् अधुनैवागत्य मुहुर् मां साक्षाद् एवानुभवत, तत्राहुः—गेहं जुषां पर-गृहिणीनाम् अस्वाधीनानाम् इत्य् अर्थः । यद् वा, गेहं जुषाम् इति तव सङ्गतिश् च त्वत्-पूर्व-सङ्गम-विलास-धाम्नि तत्-तद्-अस्मत्-काम-दुघे स्वाभाविकास्मत्-प्रीति-निलये निज-गेहे गोकुल एव भवतु, न तु द्वारकादाव् इति स्व-मनोरथ-विशेषेण तस्मिन्न् एव प्रीतिमतीनाम् इत्य् अर्थः,
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् > ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः । > सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ > रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते ॥ [पद्या। ३८२] > इत्य्-आदिवत् ।
तस्माद् अस्माकं मनसि भवच्-चरण-चिन्तन-सामर्थ्याभावात् स्वयम् आगमनस्यासामर्थ्याद् अनभिरुचेर् वा साक्षाद् एव श्री-वृन्दावन एव यद्य् आगच्छसि, तदैव निस्तार इति भावः ।
*तम् एतम् एव भावं श्री-भगवान् अङ्गीचकार । यथोक्तम् एतद्-अनन्तरम्—
तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः । > युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदोऽव्ययम् ॥ [भा।पु। > १०.८३.१]
तद् एवं स्वारसिक्य-प्रकट-लीला दर्शिता ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आहुश् चेत्य् आदि । हे नलिन-नाभ ! ते तव चरणारविन्दं सदा जुषां नोऽस्माकं मनसि उदियात् । अर्थात् तव मनसि तव मन एव नो गृहं स्याद् इत्य् अर्थः। तत्रैव यथा सदा वसाम इति प्रसादः क्रियताम् इति विनयोक्तिः । कीदृशं पदारविन्दम् ? योगेश्वरैर् हृदि विचिन्त्यम् । न तु साक्षाल्-लब्धम् । संसार-कूप-पतितानां जनानाम् उत्तरणायावलम्बम् । तव मनसि चेद् अस्माकं गृहं जातम् । तदा नः किं नाभूद् इति वाक्यार्थः ॥४९॥
विश्वनाथः आहुश् च वक्रोक्त्या सेर्ष्यम् ऊचुश् चेत्य् अर्थः । भोस् तत्त्व-ज्ञानाध्यापक-शिरोमणे ! परमेश्वर ! साक्षान्-मूर्त-परमात्मन् ! अस्माकं गृह-वित्त-कुटुम्बाद्य्-आसक्तिम् अधिकाम् अवधार्यैव पूर्व उद्धव-द्वारा, साम्प्रतं स्वयम् अपि यद् अज्ञान-निवर्तक-ज्ञानोपदेशेन चित्तं निर्मलयसि, तद् एष ते निरुपाधिक एव स्नेहोऽस्मासु मोक्षार्थकोऽवगतः । किन्तु गोप-स्त्री-जनानां दुर्मेधानाम् अस्माकं हृदि कथम् एतज् ज्ञानं तिष्ठेत् ? ब्रह्मादि-गम्यं त्वच्-चिन्तनम् अपि नायाति । तस्मात्तद् एव यथा शक्यं स्यात्, तथा कृपयेत्य् आहुः—ते इति ।
योगेश्वरैर् एव हृदि विचिन्त्यं, वयं स्व-कर्म-फल-सन्तापिताः कथं चिन्तयितुं शक्नुमः ? अगाध-बोधैर् वयं तु मन्द-धियः । संसार-कूपेत्य् अस्माकं संसार-दुःखं निवर्तयितुं त्वं कृपया यतस्वेति भावः । गेहं जुषां गृहासक्तानाम् अपि नः सदा मनसि उदयताम् इत्य् अन्तः-कोप एव व्यञ्जितः । इह खलु—
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं > न सार्वभौमं न रसाधिपत्यम् । > न योग-सिद्धीर् अपुनर्-भवं वा > वाञ्छन्ति यत् पाद-रजः-प्रपन्नाः ॥ [भा।पु। ११.१४.१४] इति । > न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । > वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ [भा।पु। > ११.२०.३४] इति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भा।पु। ६.१७.१८] इत्य्-आदि परः-शत-वचनैर् अवगत-तत्त्वा भक्ताः केऽपि ज्ञान-फलं मोक्षं भगवता दत्तम् अपि नैवाददते । सर्व-भक्त-चूडामणिभिर् आभिर् गोपीभिर् मोक्ष-साधनस्य ज्ञानस्य ग्रहणं कथम् उपपद्यताम् ? अतः प्राण-प्रेष्ठ-मुखात् तद् असह्यम् अध्यात्मं श्रुत्वा श्लोकेनानेन कोप एव व्यञ्जयितुम् अर्ह इति । अत एवम् एव व्याख्या समुचिता । यथा-श्रुतोपस्थितार्थ-व्याख्यानम् अपि मोहिनी-सधर्मणः शास्त्रस्यास्य सम्भवेद् एव, तत् तु स्पष्टम् एव ।
यद् वा, भोः साक्षाद् अज्ञान-ध्वान्त-भास्कर ! तव एतैस् तत्त्व-ज्ञानातपैर् वयं ज्वलाम एव। वयं हि चकोर्यस् त्वन्-मुख-चन्द्र-ज्योत्स्नयैव जीवामः, तस्मात् श्री-वृन्दावनम् आगत्य स्वीय-रासादि-विलासैर् अस्मान् जीवयेत्य् आहुः—ते इति । योगेश्वरैर् हृदि विचिन्त्यम्, अस्माभिस् तु हृद्-उपरि कुच-द्वये तद् धृत्वैव जीवितुम् उत्साहमहे, नान्यथेति भावः । अगाध-बोधैर् गम्भीर-बुद्धिभिः सरल-बुद्धिभिर् अस्माभिस् तु तच्-चिन्तनारम्भ एव मूर्च्छा-सिन्धौ निमज्ज्यते, कुतस् तच्-चिन्तनम् ? इति भावः ।
किं च, तच्-चिन्तितं सत् संसार-कूपाद् एवोद्धारकं, न तु तद्-विरह-समुद्र-पतित-जनान् उद्धर्तुं समर्थम् इति भावः । वयं हि गोप्यो न संसार-कूपे पतिताः, आबाल्याद् एव त्यक्त-गृहपत्य्-आदि-संसार-सुखत्वात्, किन्तु तद्-विरहाम्बुधाव् एव।
ननु तर्ह्य् आगच्छत, द्वारकाम् एव तत्रैव युष्माभिः सह विलसामः । तत्राहुः—मनस्य् अपि गेहं गेह-रूपम् आस्पदं श्री-वृन्दावनं जुषां जुषमाणानां त्यक्तुम् अशक्नुवतीनाम् इत्य् अर्थः । तत्रैव तव पिञ्छ-मौलित्व-मुरली-मनोहरत्वादि-माधुर्याणाम् अस्मद्-रोचकत्वाद् इति भावः । तस्माद् अस्माकं तत्रैव चरणारविन्दम् उदियात् उदयतां व्रज-भूमौ त्वद्-दर्शनेनैवास्माकं सन्तापोपशमो, न तु त्वत्-स्मरणेन । कुतः पुनर् आत्म-ज्ञानेन ? इति भावः ॥४९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
द्व्यशीतितम एषोऽपि दशमेऽजनि सङ्गतः ॥
इति श्री-मद्-भागवते दशम-स्कन्धे द्व्यशीतितमाध्यायस्य
सारार्थ-दर्शिनी-टीका समाप्ता ।
(१०.८३)
अथ त्र्यष्टीतमोऽध्यायः
द्रौपदीं प्रति श्री-कृष्ण-पत्नीनां स्व-स्वोद्वाह--वृत्तान्त-वर्णनम् ।
॥ १०.८३.१ ॥
श्री-शुक उवाच—
तथा81नुगृह्य भगवान् गोपीनां स गुरुर् गतिः ।
युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदोऽव्ययम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
त्र्य्-अशीतितम एवं च स्त्रीणां कृष्ण-कथोत्सवे ।
द्रौपद्यै कृष्ण-भार्याभिर् उक्ताः स्व-स्व-कर-ग्रहाः ॥
अव्ययं कुशलम् ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं गोपीवत् । तथा प्रार्थनानुसारेण । अथ गोप्य् अनुग्रहोत्तरम् । स कृष्णः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तथानुगृह्य तथैवानुग्रहं कृत्वा स श्री-कृष्णः गोपीनां गुरुः गतिः शरणं च ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेनोक्तेनानिर्वचनीयेन वा प्रकारेण गोपीनां गोपीर् अनुगृह्य । यतः स एव तासां गुरुर् उपदेष्टा, गतिश् च गम्यः, साधनाधिकं सर्वसाध्यश् च इत्य् अर्थः । अथ तद् अनन्तरम् एवेति तद् एकप्रेम-विशेषेण सर्व-श्रेष्ठानां तासाम् एव प्राग् अनुग्राह्यत्वात्, अत एव तद् अनुवादश् च श्री-युधिष्ठिरस्य पृथग् आदाव् उक्तिः साम्राज्येन प्रियतमत्वेन च सुहृत्सु श्रैष्ठ्यात् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-गोपीनां प्रथम-दिनम् उपगतं सम्भाषणम् उपसंहरन् तेन अन्यदिन-गतम् अपि प्रकारान्तरं लक्षयन् तासां यथासौ स्वयम् एव गुरुस् तथा स्वयम् एव फलम् इति बोधयित्वा पूर्वोपदेश-तात्पर्यं व्यञ्जयन् ततो गौणत्वेनैव श्री-युधिष्ठिरादि-सम्भाषणम् अपि प्रस्तौति—तथेति । तथा तेन तासां प्रार्थना-प्रकारेण गोपीर् अनुगृह्य यतः स एव तासां गुरुर् उपदेश्यो गतिश्च गम्यो नित्य-प्राप्तः अथ तद् अनन्तरम् एवेति तावत्कालं तद्-विधानाम् अप्य् अस्फूर्तेः अपृच्छत् एतत्-पूर्वं तेषां प्रश्नम् अपि न कृतवान् किम् उतान्यद् इत्य् अर्थः । एवं तासां प्रेष्ठत्व-बोधनार्थम् एव तद् अनुवादः क्रियत इति भावः । अव्ययं व्ययाभावं हानिर् आहित्यं कुशलम् इति यावत् ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
सुहृद्भिः संस्तुतः कृष्णस् तद्-भार्या द्रौपदीं प्रति ।
स्व-स्वोद्वाह--क्नवं ऊचुस् त्र्यशीतितम ईलिताम् ॥
यत्र तासां मनः-प्रसादोऽभूत् तथेत्य् अर्थः । सेषाम् एव साधूनां स गतिर् भवेद् एव गोपीनां तु गुरुर् गतिर् महती गतिर् इत्य् अर्थः । अव्ययं कुशलम् ॥१-२॥
॥ १०.८३.२ ॥
त एवं लोक-नाथेन परि82पृष्टाः सु-सत्-कृताः ।
प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् पादेक्षया हतम् अंहो येषां ते ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते सुहृदः । **तत्-**पादेक्षया कृष्णाङ्घ्रिदर्शनेन । अंहो दुरितम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते युधिष्ठिरादयः, एवं श्री-गोप्यनुग्रहतः पश्चाद् एव परितः पृष्टाः । अथ तेषां **हृष्ट-**मनस्त्वे मुख्यो हेतुः—सर्व-श्रेष्ठतमानां परमार्तानां तासाम् आदौ समाश्वासनात्, सुष्ठु सत्-कृताश् च कृपया गन्ध-पुष्पादिना पुनर्चिताः । किं वा, तादृश-प्रश्नेनैव सम्मानिताः । तत्र हेतुः—लोकनाथेन सर्व-**लोक-**परिपालकेन इत्य् अर्थः । किं वा, जगदीश्वरेणापि अतो हृष्ट-मनसः सन्तः । सर्वत्रैव हेतुः—तस्य लोकनाथस्य पादयोरीक्षा पूर्व-पूर्वतर-दर्शनम्, तयैवादौ हतमंहः प्रारब्धाद्य् अशेष-पापं दुःखं वा येषां ते ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं क्रमरीत्या लोक-नाथेन सर्व-लोकेश्वरेणापि परि सर्वतः पृष्टाः सुष्ठु नानोपहारादिना सत्कृताश् च अतस् **तत्-**प्रसाद-दर्शनेन **हृष्ट-**मनसः सत्तास् तत्-पादेक्षयैव तु हतांहसो गत-क्लेशास् ते श्री-युधिष्ठिरादयः प्रत्यूचुः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८३.३ ॥
कुतोऽशिवं त्वच्-चरणाम्बुजासवं
महन्83-मनस्तो मुख-निःसृतं क्वचित् ।
पिबन्ति ये कर्ण-पुटैर् अलं प्रभो
देहं-भृतां देह-कृद्-अस्मृति-च्छिदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महतां मनस् तः सकाशान् मुख-द्वारतो निःसृतं क्वचित् कदाचिद् देहं भृतां देह-धारिणां देह-कृच् चासाव् अस्मृतिश् चाविद्या तां छिनत्तीति तथा तम् । देह-कृद् ईश्वरस् तद् विषयाज्ञान-च्छिदं वा ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न स्मृतिर् यया सा तथा । जडाया देह-करणासामर्थ्यं मत्वार्थान्तरम् आह—अर्थ-कृद्-ईश्वर इति । अन्ये तु हे प्रभो! त्वच्-चरणाम्बुजासवं त्वद् अङ्घ्रि-माहात्म्यबोधि-कथामृतं कर्ण-पुटैर् ये पिबन्ति तेषां त्वत् त्वत्तो दुर्जन-शास्तुः काल-रूपात् कुतोऽशिवं भयं भवतीत्य् अन्वयः
आयुर्हरति वै पुंसाम् उद्यन्नस् तं च यमसौ । > तस्यते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ इत्य् उक्तेः ।
कथम्-भूतं महात्मनां व्यासादीनां मुखेभ्यो निःसृतं गाततं क्वचित्-कदाचिद् अपि व्यासादि-वाक्यैस् त्वाम् आत्मत्वेन जानतां न दुःखं भवतीत्य् अर्थः । ईश्वरस्य ममात्मत्वम् एव कथं तत्राह—देहम्-भृत इति । को ह्य्-एवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् [तै।उ। २.७.१] इति श्रुतेः । अथवा त्वन्-मुख-निःसृतं त्वच्-चरणाम्बुजासवं ये पिबन्ति तेषां महात्मनां कुतो\ऽशिवमित्य् अन्वयः । त्वत्कृते भगवन्-नमस्कारकारणाय । अत्र पक्षे देहम्भृतस् त्वत्-कृत उच्च्वसन्ति हि इति पाठो\ऽस्ति ॥३॥
क्द्- कुत इति । आसवः पुष्प-रसः कीर्तिश् च । महतां मनस्तो मुखान् निःसृतम् । मनस्त इति प्रथमार्थे तसि ततः समासः, मनः-शुद्ध्या महद्भिर् वर्णितम् इत्य् अर्थः । क्वचित् कदाचित् । देहं-भृताम् इत्य् आर्षो नुम् आगमः । संसारापादिका या अस्मृतिः स्वरूपाज्ञानम् । कुरुक्षेत्रे मिलिता सुहृदः श्री-कृष्णम् ॥३॥ [मु।फ। ८.१३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अशिवम् अमङ्गलं तेषां कुतः? कुत्र कस्माद्-धेत्र् वा, अपि तु सदा सर्वत्र मङ्गलम् एव इत्य् अर्थः । केषाम्? ये तव चरणाम्बुजयोर् आसवं दीन-वात्सल्यादि-महा-यशो-लक्षणं मधु अलम् अत्य् अर्थं **कर्ण-**पुटैः पिबन्ति सदा प्रीत्यानुशृण्वन्तीत्य् अर्थः । तत्रैव हेतुः—क्वचित् कदाचित् प्रेमोल्लास-समये महतां त्वद्-भक्तानां मनस्तो मुखेन निःसृतं मनः परिपूर्यात्य् उद्रेकेण मुख-द्वारा निर्गलितं तैः परमाभिनिवेशेन मनोहरतया वर्णितम् इत्य् अर्थः । आसव-शब्देन तस्य स्वतो मधुरत्वम्, मादकतया सर्व-दुःख-विस्मारकत्वं च ध्वनितम् । तद्-धेतुत्वेन मङ्गलम् एवाभिव्यञ्जयन्ति-देहं भृताम् इति । अनेन देहस्य प्रत्यक्षतया तत्-कर्तुः स्मृति-योग्यतोक्ता, तथापि देहकृत ईश्वरस्य तव या अस्मृतीस् तच्-छिदम् ।
यद् वा, देहं भृतां सदा विविध-दुःखमयं देहं दधतां देह-कृत् देहोत्पादिका चासावस्मृतिश् च त्वद्-विस्मृतिस् तच्-छिदं सदा त्वत्-स्मरण-मङ्गलकरम् इत्य् अर्थः । तच् च त्वत्-प्रभावात् सम्भवत्येवेत्य् आशयेनाह—प्रभो हे सर्वसामर्थ्य-युक्तेति । यथा-कथञ्चित् सकृत् तत्-पानेन सर्वामङ्गलक्षये\ऽपि सिद्धे तादृश-पानोक्तिस् तन्-माधुर्य-स्वभावेनैव तत्राभिनिवेशात् न तु तात्-पर्यापेक्षयेति दिक् । अथवा, क्वचित् कदाचिद् अपि कर्ण-पुटैः कर्णस्याकाशमयत्वात् स्वयम् एव प्रविष्टं पिबन्ति, केवलं श्रोत्रद्वारा शृण्वन्त्य् अपि तच् च न स्वप्रयत्नादिनेत्य् आह—महद् इति । सम्रणाशक्त्य् एतस् ततस्तैः सदा वर्ण्यमानम् इत्य् अर्थः । अलम् इत्य् अस्य अन्त्य् अपदेनान्वयः, अन्यत् समानम् ।
अतः कृपया त्वया स्वयं विस्तार्यमाणस्य स्व-यशसः श्रवणाद् अप्य् अस्माकं किम् अप्य् अमङ्गलं नास्त्य् एव । येषां च साक्षात् त्वद्-दर्शनम्, येषु चेदृशस्त्वत्-कृपा-प्रश्तेषां प्राग् एवाशेषाम् अङ्ग-लक्षयात् पुनस्तं कुतो वर्तताम्? अतः सदा मङ्गलम् एवेति भावः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अशिव-ममङ्गलम् । तेषां कुतः कुत्र कस्माद्-धेतोर् वा तेषां तु सदा सर्वत्र मङ्गलम् एव इत्य् अर्थः । केषां ये तव चरणाम्बुजयोर् आसवं माधुर्यं चरणाम्बुजेति भक्त्या तव रूप-गुण-लीला-सौष्ठवम् इत्य् अर्थः । अलम् अत्य् अर्थम् । **कर्ण-**पुटैः पिबन्ति प्रीत्या शृण्वन्तीत्य् अर्थः ।
ननु परम-दुर्लभं तत्कुतो लभ्येत तत्राहुः—**क्वचित्-**कदाचित् प्रेमोल्लास-समये महतां त्व् अद्भक्तानां मनसो मुखेन निःसृतं मनः परिपूर्त्यात्य् उद्रेकेण **मुख-**द्वारा प्रकाशमानम् आसव-शब्देन तस्य स्वतो मधुरत्वं मादकतया सर्व-दुःख-विस्माकरत्वं च ध्वनितम् । अमङ्गल-नाशं कैमुत्येन पुष्णाति-देहम्भृताम् इति । अनेन देहस्य प्रत्यक्षतया तत्कर्तुः स्मृति-योग्यतोक्ता तथापि **देह-**कृतः-**देह-**कृत् देहोत्पादिकाचासावस्मृतिश् च त्वद्-विस्मृतिः तच्-छिदं सदा तत्-स्मरण-मङ्गलकरम् इत्य् अर्थः । तच् च त्वत्-प्रभावात्-सम्भवत्य् एवेत्य् आशयेनाहुः—प्रभो हे सर्व-सामर्थ्य-युक्तेति । यद्य् एवम् अन्यद् अपि तत्-कदाचिद् अपि शृण्वताम् अमङ्गलं नास्ति तदा सम्प्रति कृपया त्वया स्वयं विस्तार्यमाणस्य तस्य श्रवणाद् अप्य् अस्माकं किञ्चिद् अप्य् अमङ्गलं सुतरां नास्त्य् एवेति येषां च साक्षात्-त्वद्-दर्शनं येषु चेदृशस् तत्-कृपा-प्रश्नः । तेषां प्राग् एवाशेषामङ्गलक्षयात् पुनस् तत् कुतो वर्तताम् अतः सदा मङ्गलम् एवेति भावः ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वच्-चरणाम्बुजासवं ये कर्ण-पुटैः पिबन्ति तेषां देहम्भृतां देह-धारिणां कुतोऽशिवम् इत्य् अन्वयः । महतां मनस्तः सकाशात् मुख-द्वारतो निःसृतं देहकृच् चासाव् अस्मृतिश् चाविद्या तां छिनत्तीति तथा तम् ॥३॥
॥ १०.८३.४ ॥
हि त्वा84त्म-धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम्
आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् ।
कालोपसृष्ट-निगमावन आत्त-योग-
मायाकृतिं परमहंस-गतिं नताः स्म ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हि त्वेति पद-द्वयम् । त्वा त्वां हि एव त्वाम् एव नताः स्मेत्य् अर्थः । कथं-भूतं ? आत्म-धाम्ना स्वरूप-प्रकाशेन विधुता निरस्ता आत्म-कृता बुद्धि-निमित्तास् तिस्रोऽवस्था यस्मिंस् तम् । अत एवानन्द-संप्लवं सर्वानन्द-कदम्ब-रूपम् । अखण्डं चापरिच्छिन्नम् । यतो न कुण्ठः कुण्ठितो बोधश् चिच्-छक्तिर् यस्य तम् ।
नन्व् एवं-रूपता श्री-कृष्णस्य कुतः ? अस्मद्-आदिवत् प्रतीतेः । अत आहुः—कालोपसृष्टेति । कालेनोपसृष्टा विप्लुताश् च ते निगमाश् च तेषाम् अवने रक्षार्थम् आत्ता उपात्ता योग-मायया आकृतिर् नराकार-मूर्तिर् येन तम् । परमहंसानां गतिं त्वाम् । अतस् तवैवं-रूपत्वाद् अस्माकं च त्वन्-माययैतत् सर्व-वैपरीत्यात् त्वाम् एव नताः स्मेति ।
यद् वा, त्वाम् इति प्रकरणाज् ज्ञातव्यम् । त्वां नताः स्म । किं कृत्वा ? हित्वा । किं ? आत्म-धाम आत्मा शरीरं धाम गृ85हं तच् च तच् च । देह-दैहिक-सङ्गं परित्यज्येत्य् अर्थः । समानम् अन्यत् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति व्याख्या । देहे बुद्धौ चितिश् चात्मा इति धरणिः । अवस्था जागराद्याः । बुद्धेर् जागरणं स्वप्नस् सुषुप्तिर् इति वृत्तय [भा।पु। १२.४.२५] इति नारदोक्तेः । अत एव अवस्थात्रयातीतत्वाद् एव यतां यस्मात् । अत्राशङ्कन्ते-एवं-रूपता सर्वानन्दाखण्डाकुण्ठ-बोध-रूपता । आकारो देह आकृतिः इति यादवः । यतस् त्वं **परम-हंस-**गम्यो\ऽसि अतो हेतोः । प्रकरण-लभ्यस्याप्य् अभ्य् अहितत्वेन पदादौ न प्रयोक्तव्याः प्रायशश् चादयो बुधैः । इत्य् आलङ्कारिक-समयत्वाच्-चाह—यद्-वेति । इत्य् अर्थ इति-गृहत्य् आगस्य शक्यत्वे\ऽपि शरीर-त्यागस्या-शक्यत्वात् तयोर् आसक्ति-त्यागो\ऽर्थो\ऽत्र विवक्षित इति भावः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः सर्वोपेक्षया त्वाम् एव प्रपद्यामह इत्य् आहुः—हि त्वेति । परम-हंसानां मुक्तानाम् एव गतिं प्राप्यम् इत्य् अर्थः । इति परम-दौर्लभ्यम् उक्तम् । तत्रैव हेतुः—कालेत्य् आदि । अन्यत् तैर् व्याक्ख्यातम् ।
यद् वा, आत्म**-धाम** शुद्धं स्व-स्वरूपम्, तद् एव विशिनष्टि-विधुतेत्य् आदि-चतुर्भिर् विशेषणैः । तादृशम् अपि तद्-धित्वा तद्-विज्ञानम् अनादृत्य इत्य् अर्थः त्वाम् एव नताः प्रपन्नाः, स्म प्रसिद्धौ, स्म इति विसर्गान्त-पाठो वा, नित्यम् एव दृढं भजाम इत्य् अर्थः । कुतः? परम-हंसानाम् अपि भजनीयम् । तत्रैव हेतुः—कालेत्य्-आदि । आत्ताः प्रकटिता **योग-**मायया चिद्-विलास-शक्त्या आकृतयो मस्त्यादि-मूर्तयो येन तम्, मधुर-मधुर-विचित्रावतारैकबीजत्वेन परम-मधुरानन्द-घनत्वाद् इति भावः । यद् वा, आत्ता योग ऐश्वर्यं माया च विचित्र-लीला कृपा वा, ताभ्यां युक्ता, आकृतिर् मनुष्य-मूर्तिर् येन । यद् वा, कालोपसृष्टा निगमा वेदोक्ताचारा येषां ते वयम् । योगश् च माया च कृतिश् च कर्म क्रीड इत्य् अर्थः । वने श्री-वृन्दावनादौ आत्ता विस्तारितास्ता येन तम् । अन्यत् समानम् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतः सर्वोपेक्षया त्वाम् एव प्रपद्यामह इत्य् आहुः—हि त्वेति । कालेत्य्-आदि आत्तत्वं प्रकटितत्वं यन्-मर्त्य-लीलौपयिकं स्व-**योग-**माया-बलं दर्शयता गृहीतम् [भा।पु। ३.२.१२] इत्य्-आदि श्री-मद् उद्धव-वाक्येन सर्वोत्तमं नराकृति-सामान्य-दर्शनेनान्य-दुर्बोधम् इत्य् अर्थः । अत एव परम-हंसानाम् एव गतिं गम्यं ज्ञेयम् इत्य् अर्थः । अन्यत्-तैः यद् वा, आत्म-धाम शुद्ध-स्वरूपं तद् एव विशिनष्टि विधत्तेत्य् आदि-चतुर्भिर् विशेषणैः । तादृशम् अपि तद्धित्वा तद्-विज्ञानम् अनादृत्य इत्य् अर्थः । त्वाम् एव नताः प्रपन्नः स्म प्रसिद्धौ स्म इति विसर्गान्तपाठो वा नित्यम् एव दृढं भजाम इत्य् अर्थः । कुतः परम-हंसानाम् अपि भजनीयं तत्रैव हेतुः कालेत्य्-आदि तदवने निमित्ते तन्-निमित्ती-कृत्य आत्ताः सगृहीताः **योग-**मायाः सर्वे स्वरूप-शक्ति-विलासा यत्र तादृश्याकृतिर् यस्य तं व्याख्यान्तरे **योग-**मायात्ता प्रकृतिर् इत्य् एव स्यात् । यद् वा, आत्म-धाम निज-नित्य-लीलास्पदं श्री-गोलोकादिकं हित्वा आत्ता प्रकटिता **योग-**मायाख्य-चिच्छक्ति-प्रधाना मूर्तिर् येन तम् आत्म-धाम्नो विशेषणानि विधुतेत्य्-आदीनि । समानम् अन्यत् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : हित्वेति । आत्म-धाम शुद्ध-स्वरूपं तद् एव विशिनष्टि-विधुतेत्य्-आदि-चतुर्भिर् विशेषणैः । तादृशम् अपि तद्धित्वा तद्-विज्ञान-मात्र इत्य् अर्थः
त्वाम् एव नताः प्रपन्नाः स्म प्रसिद्धौ स्म इति विसर्गान्तपाठो वा नित्यम् एव दृढं भजाम इत्य् अर्थः । कुतः परम-हंसानाम् अपि गतिं भजनीयं तत्र हेतुः कालेत्यादि-तदवने निमित्ते तन्-निमित्तीकृत्य आत्ताः सगृहीता **योग-**मायाः सर्वाः स्वरूप-शक्ति-विलासा यत्र तादृश्याकृतिर् यस्य तम् । व्याख्यान्तरे **योग-**माययात्-ताकृतिर् एव स्यात् ॥४-८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हि निश्चितम् एव त्वा त्वां नताः स्म । आत्म-धाम्ना स्व-विग्रह-प्रकाशेन विधुता खण्डिता आत्म-कृता अविद्या-निर्मिताः त्र्यवस्था जीवानां त्रि-गुण-मय्योऽवस्था येन तम् । अतः क्? अकुशलम् अस्माकं सम्भवेद् इति भावः । आनन्द एव सम्प्लवो निमज्जनं यस्य यस्माद् वा तम् । प्रत्युत त्वां दृष्ट्वा वयम् आनन्द एव निमज्जाम इति भावः । अखण्डं परिपूर्णः विकुण्ठः कालादिभिर् अकुण्ठितो बोधो ज्ञानं यस्य तम् इत्य् अस्मच्-चित्त-वृत्तीस् त्वच्-चरणानुवर्तिनीस् त्वं जानास्य् एव इति भावः । कालेन उपसृष्टानां नष्टानां निगमानां वेदानां वेदोक्त-मर्यादानाम् अवने पालने निमित्ते एव आत्ता गृहीता योग-मायया कृतिर् दुष्ट-निग्रह-शिष्ट-पालन-क्षणा लीला येन तम् इति सर्व-सुख-प्रदम् इति भावः ॥४॥
॥ १०.८३.५ ॥
श्री-ऋषिर् उवाच—
इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व्
अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः ।
समेत्य गोविन्द-कथा मिथोऽगृणंस्
त्रि-लोक-गीताः शृणु वर्णयामि ते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्रिषु लोकेषु गीताः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् उक्तरीत्या । उत्तम-श्लोका युधिष्ठिर् आद्यास् तेषां शिखा शेखरी-भूतो रुद्रस् तस्य मणि मणिवद्धार्यं श्री-कृष्णम् ॥५-६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-युधिष्ठिरस्य श्री-भगवत्-प्रियत्वादिना सर्वतो वैशिष्ट्ये\ऽपि सामान्येन तादृश-सहोक्तिः परम-भक्त्या विनय-विशेषात् । उत्त्म-श्लोकानां पुण्य-यशसां श्री-युधिष्ठिरादीनां शिखामणिं परम-श्रेष्ठत्वेन शिरोधार्यम् इत्य् अर्थः । अत ईत्य् एवम् अभितः सर्वतो भावेन स्तुवत्सु सत्सु, इति स्त्रीणाम् उत्साह--वृद्धिः सूचिता अतो\ऽन्धकानां यादवानां कौरवाणां च श्री-युधिष्ठिरादीनां स्त्रियः पत्न्यः समेत्य एकत्र मिलित्वा अन्यासां सद्-भावे\ऽपि तासाम् एवोक्तिः प्राधान्यात् । तास्व् अपि प्राधान्यात् श्री-द्रौपदी-भगवन्-महिषी-वर्गाणाम् एव प्रश्नत्तरोक्तिः । गोविन्दस्याशेषैश्वर्य-प्रकटनार्थम् अवतीर्य गां पृथ्वीं विन्दतीति तथा तस्य गोकुलेन्द्रस्य वा कथा इति कथानाम् अपि परम-माधुरी सूचिता—तासु विवाह--कथा-मुख्यत्वात् । अत एव त्रि-लोक-गीताः ताश् च ते तुभ्यं श्री-**गोविन्द-**प्रियाय वर्णयामि विस्तार्य कथयामि । अतः परम-श्रद्धया अवहितः शृण्व् इत्य् अर्थः । एतच् च कथ्य-श्री-भगवद्-विवाह--कथभिर् भाव-विशेषेण श्री-बादरायणेः प्रहर्षोदयात् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथा श्री-युधिष्ठिरादयो\ऽभिष्टुतवन्त इति एतत्-प्रकारेण जनेष्व् अपि राजादिष्व् अभिष्टुवत्स्व् इत्य् अर्थः । याः अन्धकानां यादवानां कौरवाणां च श्री-युधिष्ठिरादीनां स्त्रियः पत्न्यः ताः समेत्य मिलित्वा याः कथा अगृणन् ताश् च **त्रि-लोक-**गीतास् ते तुभ्यं वर्णयमीति महानुग्रह-वचनम् अतः परम-श्रद्धया शृण्व् इत्य् अर्थः । एवं नाना-स्त्रीणां नाना-कथास्व् अपि वृत्तासु श्री-रुक्मिण्यादीनां द्रौपड्या सह तद्-विवाह--प्रसङ्गस्यैव कथनं श्री-मन्-मुनीन्द्रस्य भाव-विशेषेण तस्याम् एवादरात् तस्या एव महा-माधुर्येण मुख्यत्वाच् चेति ज्ञेयम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याः कथा अगृण्वन् तास् त्रि-लोक-गीतास् तुभ्यं वर्णयामि ॥५॥
॥ १०.८३.६ ॥
श्री-द्रौपद्य् उवाच—
हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौश86ले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कौशले ! हे सत्ये ! शैब्ये ! हे मित्रविन्दे ! रोहिणी-नाम काचित् पट्ट-महिषी-तुल्या ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद्यपि रुक्मिण्य्-आद्य्-उद्वाह--कथा प्रसिद्धैव शतशः श्रुतत्वात्, तथापि श्री-कृष्ण-विषये कस्याः कीदृशो भावः ? इति ज्ञातुं द्रौपदी कृष्ण-पत्नीर् आह—हे वैदर्भीत्य्-आदि । व्यतिक्रम-निर्देशश् छन्दानुरोधात्, प्रत्य् उत्तरे तु क्रम-निर्देशः । अथवा स्वगृह-श्री-कृष्ण-प्रेम-महिन्ना चेतसोऽनवस्थितत्वात् पौर्वापर्य-विरहः । मायया लोकम् अनुकुर्वन् लौकिकत्वं प्रकटम् ॥६-७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र मधुर-मधुर-विचित्र-लीलासु विराजमानास्व् अप्य् आत्मनः सख्य-भाव-विशेषेण किं वा, श्री-गोपीनां प्रेम-भरातृप्त्या अनुतापम् आलक्ष्य श्री-कृष्णेन विवाहम् एव बहु-मन्यमाना तम् एव पृच्छति—हे वैदर्भीति द्वाभ्याम् । अच्युत इति प्रत्येकं सर्वासां तासां गृहतो विच्युति-राहित्याभिप्रायेण । नोऽस्मान् प्रत्येतत् ब्रूत । एवं परम-गोप्यतया आदै सामान्येन प्रार्थ्य पश्चाद् अत्यौत्सुक्येनाभि-व्यञ्जयति-भगवान् सर्वैश्वर्य-युक्तो\ऽपि लोकम् अनुकुर्वन् लौकिक-लीलाम् आचरन्न् इत्य् अर्थः । स्वकीयया असाधारयणया मायया कृपया यथोपयेमे । इत्य् उपयम-प्रकारस्य माधुर्य-विशेषः सूचिताः । यद् वा, अच्युतः सर्वैश्वर्य-परिपूर्णः यतो भगवान् साक्षाच्-छ्री-नारायणः तत्राप्य् अयम् अशेष-भगवत्ता-प्रकटनपरः श्री-कृष्णः अतः स्वमायया लोकम् अनुकुर्वन् । अन्यत् समानम् ।
तासां विवाह--क्रमादिना ज्येष्ठ-कनिष्ठत्व-सम्भवे\ऽपि तत्-तत्-क्रमेण सम्बोधनं तत्रोपवेशन-क्रमाद्य् अपेक्षया तासु च तिसृणां मुख्यत्वाद् आदरेण प्रत्येकं हे-शब्द-प्रयोगः, रोहिण्याश् च तासां मध्ये निर्देशः शताधिक-षोडश-सहस्र-महिषी-मुख्यत्वेन ताभिस् तुल्यत्वात् । प्रत्युत्तरं तु विवाह--क्रमाद् एव केवलं श्री-जाम्बवत्याः प्राक् श्री-सत्यभामाया उत्तरम् । तस्यां श्री-भगवत्-प्रेम-विशेषेण प्रागल्भ्यात् श्री-भद्रा-मित्रविन्दयोश् च मिथो विपर्ययो लेखक-भ्रमाद् एव ज्ञेयः ।
अन्यथा पूर्वोक्त-ततद्-विवाह--प्रकारस्य बहु-विरोधापत्तिः । अतो\ऽग्रे श्री-लक्ष्मणोक्तावाद्य-पद्यटीकायाम् अपि यथा मित्रविन्दायाः इत्य् अत्र भद्राया इति द्रष्टव्यम् इति दिक् । सर्वम् इदम् अग्रे व्यक्तं भावि ॥६-७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र श्री-द्रौपदी तु सख्य-विशेषात् परम-कौतुकेन विवाहम् एव पृच्छति-हे वैदर्भीति युग्मकेन । अच्युत इति प्रत्येकं सर्वासां तासां गृहेतु विच्युति-राहित्याभिप्रायेण यद्यपि रमारूपत्वात् नित्यम् एव श्री-भगवतो महिष्यो यूयम् इति जानीमस् तथापि प्रकट-लीलायां स्वेषु भक्तेषु या माया कृपा तया लोकम् अनुकुर्वन् यथोपयेमे तथेति स्वादर-विशेष व्यञ्जितः स्वकौतुक-विशेषश् च नो\ऽस्मान् प्रत्येत द्ब्रूत । तासां विवाह--क्रमादिना ज्येष्ठत्व-कनिष्ठत्व-सम्भवे\ऽपि तत्-तत्-क्रमेण सम्बोधनं तत्रोपशेष-क्रमापेक्षया तासु तिसृणां मुख्यत्वादादरेण **हे-**शब्द-प्रयोगः । रोहिण्याश् च तासां मध्ये निर्देशः । शताधिक-षोडश-सहस्र-महिषी-मुख्यत्वेन ताभिस् तुल्यत्वात् प्रत्युत्तरन्तु विवाह--क्रमाद् एव केवलं जाम्बवत्याः प्राक् श्री-सत्यभामाया उत्तरं तस्याः श्री-भगवत्-प्रेम-विशेषेण भद्रा-मित्रविन्दयोश् च मिथो नाम-लिपिविपर्ययो लेखक-भ्रमाद् एव ज्ञेयः पूर्वोक्त-तत्-तद्-विवाह--प्रकारस्य बहु-विरोधापत्तेः अतो\ऽग्रे श्री-लक्ष्मणोक्तावाद्य-पद्य-टीकायाम् अपि यथा मित्रविन्दाया इत्य् अत्र भद्राया इति द्रष्टव्यम् ॥६-७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे वैदर्भीत्य्-आदि । यद्यपि श्री-कृष्णस्य श्री-रुक्मिण्यादि-विवाह--कथातिसुप्रसिद्धैव शतशः श्रुता च तथापि श्री-कृष्णे कस्याः कीदृशी श्रद्धा प्रीतिश्चेति सर्वासां हृदयं ज्ञातुं द्रौपद्या अयं प्रश्न-प्रक्रमः हे वैदर्भीत्य्-आदौ व्यतिक्रमो द्रौपद्या हर्षावेश-वैवश्यसूचकः प्रत्युत्तरे तु क्रमः ॥६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कौशले ! हे नाग्नजिति ! ॥६॥
॥ १०.८३.७ ॥
हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् ।
उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्याः श्री-कृष्णस्य पत्न्यः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : येन विधिना । एतं विधिम् ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः), न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अनुकुर्वन् स्वमाययेति । स्व-मायया स्व-लीलया लोकम् अनुकुर्वन् लोकानुकरणम् एव लीला ॥७।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अच्युतो भगवान् यथा उपयेमे एतद् ब्रूत सुष्ठु अमायया सत्यं ब्रूतेत्य् अर्थः । यद् वा, अमायया निष्कैतवेन यथोपयेमे ॥७॥
॥ १०.८३.८ ॥
श्री-रुक्मिण्य् उवाच—
चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु
राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः ।
निन्ये मृगेन्द्र इव भागम् अजावि-यूथात्
तच्-छ्री-निकेत-चरणोऽस्तु ममार्चनाय ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मा माम् अर्पयितुं संपादयितुं राजसु जरासन्धादिषूद्यत-कार्मुकेषु सत्स्व् अजेया ये भटास् तेषां शेखरिता मुकुट-वत् कृता अङ्घ्रि-रेणवो येन । तेषां मूर्ध्नि पदं दधद् इत्य् अर्थः । तस्य श्री-निकेतस्य चरणो ममार्चनायास्तु ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-जह्ने पदं मूर्ध्नि दधत्-सुपर्णः इत्य् उक्तेर् इति भावः । अजानाम् अवीनां च यूथात् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : चैद्यायेत्य्-आदि—तच्-छ्री-निकेत-चरणोऽस्तु ममार्चनाय श्री-निकेतः पद्मं तदिव चरणो यस्य, चरण एव निकेतः, तेन तच्-चरणौ अवर्णनीयौ ममेति तात्पर्यं, नाहं प्रियत्वेन तम् उपासे, अपितु ईश्वरत्वेनैवेति दैन्यं भावः ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
वेद-दुर्वेद-भावास् ता वन्दे श्री-कृष्ण-वल्लभाः ।
यासां वाग् अर्थ-विवृतौ यत्-कृपैव गतिर् मम ॥
राजान एवाजेय-भटाः । भागं स्वकीयम् । मां यो निन्ये श्री-द्वारकां किं वा, आनीतवान् इत्य् अर्थः । तच्-चाप्रयासेनैवेति बोधयन्ती अजेयेत्यादि सूचितं महा-वीरत्वम् एव दृष्टान्तेनाह—अजाश् च अवयश् च मेषाश् च, तासां तेषां यूथात् स्व-भागं मृगेन्द्र इवेति, निन्य इति विवाहः सूचित एव, साक्षात्-तद् अनुक्तिश् च प्रहर्षोद्रेकेण संवरणाशक्तेर् इति तत्-तद्-वृत्तकथनम् असादृश्येन नेतुम् अयोग्यस्याप्य् आत्मनस् तत्-तत्-प्रकारेण नयनात्-तत्-कारुण्यभर-बोधनार्थम् ।
ननु सर्व-सम्पदीश्वरी सदा वक्षःस्था नित्य-प्रिया लक्ष्मीर् एव त्वम्, कथम् एवं नानेतव्येति चेत्-तत्राह--तस्य श्री-निकेतः कोमलत्वादि-सम्पत्तेर् विचित्र-शोभया वा आश्रयश् चरण एको\ऽपि श्लेषेण सर्व-सम्पत्ति-मांस् तस्य चरण एव तत्-प्रसादाद् एव मम तदीश्वरीत्वम् इति मम मत्-कर्तृकाय आस्तत्र तत्र ममाभिमानो नैवास्ति । यद् वा, तथापि तद्-दास्य-योग्यापि न स्याम्, कुतस् तत्-पत्नीत्वम् अर्हामीति केवलं दासीत्वेन सदा तत्-पदाब्जसेवैव काचित् प्रार्थ्यत इति भावः । सर्वम् एतच् च भक्ति-भर-स्वभावाद् एव । एवम् अग्रे\ऽपि ज्ञेयम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स चासौ श्री-**निकेत-**चरणश् चेति तथा सः, अयम् एव निन्य इत्य् अस्य कर्ता तच् च यद् अगाद् अरण्यम् [भा।पु। ११.५.३४] इति-भवद्-भक्ति-विशेषात् । अन्यत् समानम् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
वेद-दुर्वेद-भावाद्या वन्दे श्री-कृष्ण-वल्लभाः ।
यासां वागर्थ-विवृतौ यत्-कृपयैव गतिर् मम ॥
ते राजान एवोजेय-भटाः तेषां मूद्धाक्रमिणश् चरणरेणवो\ऽपि यस्य स इति यद् वा, अजेया ये भटाः योद्धारस् तैर् अपि निजाजेयतार्थं शेखरितार्थं शेखरिता अङ्घ्रि-रेणवो\ऽपि यस्य स इती सर्वोपरि प्रति-भटजेत इत्य् अर्थः । भागं स्वीयं मां यो निन्ये स्वीकृतवान् इत्य् अर्थः तच्-चानायासेनेति बोधयन् अजेयेत्यादिना सूचितं महा-वीरत्वम् एव दृष्टान्तत्वेनाह—अजाश् च अवयश् च मेषाः तासां यूथान् स्वभागन् इव इत्य् अर्थः । एवं परिपाटी-विशेषेण तत्-तद्-वृत्त-कथनम् असादृश्येन नेतुम् अयोग्यस्याप्यात्मनस् तत्-तत्-प्रकारेण नयनात् तत्-कारुण्यभर-बोधनार्थम् ननु त्वम् एव पूर्णा श्री-ः पूर्णेनानेन भगवता कथं नानेन भगवता कथं नानेतव्येति चेत् तत्राह—तद् इति । तस्य चरण एव श्री-निकेत इति तत्-प्रसादाद् एव मम तादृशत्वम् इत्य् अर्थः । मम मत्-कर्तृकायार्चनाया अस्त्व् इति प्रार्थनया यद्-दास्ययोग्यापि न स्याम्, कुतस् तत्-पत्नीत्वम् अर्हामीति केवलं दासीत्वेन तत्-पादाब्ज-सेवैव काचित् प्रार्थ्यत इति भावः । अन्यत्-तैः । यद् वा, स चासौ श्री-निकेतश् चेति तथा अयम् एव नित्य इत्य् अस्य कर्ता तच् च यद् अगादरण्यम् [भा।पु। ११.५.३८] इत्य्-आदिवद्-भक्ति-विशेषात् । अन्यत्-समानम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : चैद्यायेत्य्-आदि । तत्च्-ह्री-निकेत-चरणो\ऽस्तु-ममार्चनाय । श्री-निकेतः पद्मं तद्वत् चरणः श्री-निकेत-चरणः तद् इति षष्ठ्य् अर्थे\ऽव्ययं तस्य इत्य् अर्थः । ममापि श्री-त्वात् तस्य चरण एव मे निकेतः तद् अर्चनम् एव काम्यम् इति भावः ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चैद्याय चैद्यार्थं मा माम् अर्पयितुं तत्र प्रक्षिप्तुम् उद्यत-कार्मुकेषु सत्स्व् अजेया ये भटा योद्धारस् तेषां शेखरिता मुकुट-वत् कृता अङ्घ्रि-रेणवो येन, तेषां मूर्धसु पदं दधद् इत्य् अर्थः । अजाश् छागा अवयो मेषास् तेषां यूथात् निन्ये तस्य श्री-निकेतस्य चरणो ममार्चनार्थम् अस्तु ॥८॥
॥ १०.८३.९ ॥
श्री-सत्यभामोवाच—
यो मे सनाभि-वध-तप्त-हृदा ततेन
लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार ।
जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन
भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सनाभेर् भ्रातुर् वधेन सिंह-कृतेन तप्तं हृद् यस्य तेन मे ततेन तातेन लिप्तम् अभिशापं दुर्यशोऽपमार्ष्टुं परिहर्तुम् ऋक्षराजं जित्वा रत्नं स्यमन्तकम् उपाजहारानीतवान् । अथानन्तरं मत्-पित्रे रत्नम् अदात्, तेन स्वापराधेन भीतः स मे पिता प्रभवे श्री-कृष्णाय माम् अदिशत ददौ । दत्ताम् अक्रूरादिभ्यः प्रतिश्रुताम् अपीत्य् अर्थः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रातुः प्रसेनस्य । अथ-र्क्ष-राज-जयानन्तरम् । तेन मिथ्याभिशाप-रूपेण । इत्य् अर्थ इति । वाग्-दत्ताया अन्यस्मै दानं न दोषाय सकृत्-प्रदीयते कन्या इति स्मृतिर्-जलदत्तापरेति ध्येयम् इति भावः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सत्यभामा वदति—तस्याः । केवलं मानौघित्वाद् गर्व एव भावः । तथाहि यो मे इत्य्-आदि अपिदत्तां वाग्-दत्ताम् अपि भीतः पिता मामदिशत् दत्तवान् । भीतत्वे हेतुः—प्रभवे कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थाय, दत्ताम् इति [भा।पु। १०.५६.४४] बहुभिः प्रार्थितामिति87 पूर्वोक्तेन कस्मैचित् प्रतिश्रुत-दत्ताम् अपि, तथा च दत्ताम् अपि हरेः कान्तां प्रेयांश्चेद्वर आव्रजेत् इति श्रेयस् तु ममैव उपासना प्रकटभावा कुर्वः ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्मै प्रभवे तत्-तत् सर्वं कर्तुं समर्थाय किं वा, यादवेन्द्रत्वेन आत्मेश्वराय, यद् वा, मत्-प्राण-नाथाय इति प्रथमत एवात्मनस् तस्मिन्न् एव भावः सूचितः । यद् वा, ननु दत्ताया दानम् अयुक्तम्, तत्राह—प्रभवे परमेश्वरायेति तद् अर्पणेन सर्व-दोष-निवृत्त्या युक्तम् एवेति भावः । एवं पितुर् अपराधोऽपि परिहृतः । तद् अर्थम् एवोक्तम्—सनाभीति । भ्रातृ-शोक-तप्त-चित्ततयाति-व्याकुलत्वेनाभिशापे\ऽधिक-दोषानुदयात्
श्री-रुक्मिण्यादिवद् अप्रार्थनं च तस्याः प्रेम-विशेषेण गाम्भीर्याल्-लज्जाभराद् वा ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु दत्ताया भयाद् अपि दानम् अयुक्तं तत्राह—प्रभवे परमेश्वरायेति । वस्तुतस् तस्यैव सर्वम् इति यथा-कथञ्चित्-तद् अर्पणम् एव न्याय्यमन्यार्पणं अन्यायम् एवेति भावः । यद् वा, श्री-कृष्णाद्-भीत्या स्व-रक्षणार्थं दत्तां प्रतिश्रुतां न तु दत्तां पदलाभात् श्री-कृष्णायैवादिशत् । एवं पितुरापराधो\ऽपि परिहृतः तद् अर्थम् एवोक्तं सनाभीति । भ्रातृ-शोक-तप्ततयातिव्याकुलत्वेनोन्मादाद् एवाभिशापो दत्तः । न तु ज्ञान-पूर्वकम् इति भावः । अत्र य उपाजहार अदाच् च यस्मै प्रभवे चादिशत तस्य तच्-छ्री-निकेतेत्यादि-रुक्मिणी-वाक्येनैव अन्वयो ज्ञापितः । यद् वा, य उपजहार सो\ऽदात्तस्मै प्रभवे चादि-शतेत्य् अन्वयः । अत्र श्री-रुक्मिणीवत् साक्षाद्-दास्याद्य् अप्रार्थनं च तासां दास्य-प्रधानात् कान्त-भावाद् अस्यास्तु
सख्य-प्रधानाद्य् उक्तम् एव ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु दत्ताया भयाद् अपि दानम् अयुक्तं तत्राह—प्रभवे परमेश्वरायेति । वस्तुतस् तस्यैव सर्वम् इति यथा-कथञ्चित् तद् अर्पणम् एव न्यायमन्यार्पणं त्व् अन्यायं भवेद् इति भावः ॥९-११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सत्यभामा वदति-यो मे इति । अस्याः केवलं मानोन्नत्य्-आदि-गर्व एव भावः तद्-यथा अपि दत्तां वाग्-दत्ताम् अपि भीतः पिता माम् अदिशत दत्तवान् भीतत्वे हेतुः प्रभवे समर्थाय उपासन-प्रकटनम् अकृत्वा केवलं प्रकृत-कथा-कथनाद्-गर्वोऽभिव्यक्तः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सनाभेर् भ्रातुर् प्रथमस्य वधेन तप्तं हृद् यस्य तेन मे ततेन तातेन हेतुना लिप्तम् अभिशापं कलङ्कम् अपमार्ष्टुं परिहर्तुम् ऋक्षराजं जित्वा रत्नं स्यमन्तकम् उपाजहारानीतवान् । अथानन्तरं मत्-पित्रे रत्नम् अदात्, तेन स्वापराधेन भीताः स मे पिता प्रभवे यस्मै श्री-कृष्णाय माम् अदिशत ददौ । दत्ताम् अन्यस्मै दातुं प्रतिश्रुताम् अपीत्य् अर्थः ॥९॥
॥ १०.८३.१० ॥
श्री-जाम्बवत्य् उवाच—
प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं
सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् ।
ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां
पादौ प्रगृह्य मणिनाहम् अमुष्य दासी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देह-कृत् पिता अमुं श्री-कृष्णं निज-नाथं स्वामिनं देवम् ईश्वरं सीता-पतिं प्राज्ञायाविज्ञाय त्रिणवहानि त्रि-नवाहानि, ह्रस्वश् छन्दोऽनुरोधेन । सप्त-विंश88ति-दिनान्य् अमुनाभ्ययुध्यत् । परीक्षितः सञ्जाता परीक्षा यस्य स परीक्षितस् तं साक्षात् सीता-पतिर् एवासाव् इति ज्ञात्वा पादौ प्रगृह्य मणिना सह माम् अर्हणम् उपाहरद् अर्हणतया समर्पितवान् । अहो तर्हि त्वम् अति-श्रेष्ठासि, नेत्य् आह—अमुष्याहं दासीति ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : छन्दो\ऽनुरोधेन छन्दो-लोभेन—अपि माषं मषं कुर्यात्
छन्दो-भङ्ग न कारयेत् इति शिष्टाचारात् । आर्षो गुण-रूप एकादेशो वा । ज्ञात्वेति न हि प्राकृतो मया योद्धं कल्पो\ऽतो मत्-प्रियार्थं सीता-पतिर् एवायं रामायण-युद्धातृप्तं निज-युद्धेन मां तोषयितुम् आगत इति विज्ञाय इत्य् अर्थः । अमुष्य कृष्णस्य ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : प्राज्ञायेति—अमुं सीतापतिं प्राज्ञाय रामोऽयम् इतजानन् पश्चान्**-निज-नाथ-**देवं ज्ञात्वा **निज-**नाथो रघुनाथः तस्यापि ईश्वरं, माम् उपाहरत् अमुष्याहं दासीति सर्व-सेवार्हत्वम् ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेणाज्ञात्वेति अज्ञानस्यातिरेक उक्तः । अन्यथा तादृश-युद्धासम्भवः । **देह-**कृत् साक्षात् पितैवेति ऋक्षत्वेन तद् असम्भावना निरस्ता, देव-पुत्रत्वेन काम-रूपत्वात्। **सीता-**पतिम् इति तद् उद्धारार्थम् एव तस्य सेवाविशेष-लब्ध्या तस्यां सीतायां भक्ति-विशेषाद्-भक्त-वात्सल्याभिप्रायेण वा, आसीत्-तद् अष्टविंशाहम् [भा।पु। १०.५६.२४] इति प्रगुक्तोऽप्यत्र त्रिनवहानि इति एक-दिनस्याल्पत्वेनोपेक्षणात् अभितः सर्वतो-भावेनायुध्यत् । तच्-चोक्तं प्रागेव द्वन्द्व-युद्धं सुतुमुलम् उभयोर् विजिगीषतोः । आयुधाश्म-द्रुमैर् दोर्भिः [भा।पु। १०.५६.२३] इत्य्-आदि । उपाहरद् अस्मै प्राकं तैर् व्याख्यातम् ।
यद् वा, परितः कृपया सर्वाङ्गेषु श्री-हस्त-स्पर्शादिनेक्षितो निरीक्षितो\ऽवेक्षितो वा तथा च प्रग् उक्तं अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् इति [भा।पु। १०.५६.३०] । यद् वा, परीक्षा, परिचयो जात-परीक्षः परीक्षितः अकार-प्रश्लेषणापरीक्षितः सन्न्-अभ्य् अयुध्यत् पश्चात् प्राज्ञाय प्रकर्षेण आ सम्यक् ज्ञात्वा अर्हणं च ज्ञात्वा [दत्त्वा] अपधार्य अन्यत् समानम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेणाज्ञात्वेति । अज्ञानस्यातिरेक उक्तः । तादृश-युद्ध-प्रवृत्तेः **देह-**कृत् साक्षात्-पितैवेति ऋक्षत्वेन तद् असम्भावना-निरासार्थं देव-पुत्रत्वेन काम-रूपित्वाद् इति भावः । सीता-पतिं तस्या उद्धारार्थम् एव तस्य सेवा-विशेष-लब्धा तस्यां भक्ति-विशेषात् भक्त-वात्सल्याभिप्रायाद् वा आसीत् तद् अष्टाविंशाहम् [भा।पु। १०.५६.२४] इति प्राग् उक्ते\ऽप्य् अत्र त्रिन-वाहानि इति समाप्ति-दिनाग्रहाणात् अन्यत्-तैः । यद् वा, परितः कृपया सर्वाङ्गेषु श्री-हस्त-स्पर्शनादिनेक्षितः निरीक्षितः तथा च प्राग् उक्तम्—
अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् ॥ [भा।पु। १०.५६.३०] > इति ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्राज्ञायेत्य्-आदि । अमुं सीतापतिं प्रथमतश् च प्रकर्षेण अज्ञाय न ज्ञात्वा त्रिनवहानि सप्त-विंशति-दिनान्यमुना अयुध्यत् पश्चात् देह-कृत् पिता निज-नाथ-दैवं निजानां भक्तानां नाथं च दैवं च तं ज्ञात्वा माम् अर्हणम् उपाहरत् अमुष्य श्री-कृष्णस्यक प्रेयसीत्य् अभिमानं वहामीति भावः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देह-कृत् मत्-पिता अमुं निज-नाथश् चासौ दैवम् ईश्वरश् च तं प्राज्ञाय अविज्ञाय त्रिणवहानि त्रि-नवाहानि, ह्रस्वश् छन्दोऽनुरोधेन । सप्तविंशति-दिनान्य् अमुना सह अभ्ययुद्ध्यत् । ततश् च परीक्षितः सञ्जाता यस्य स सीता-पतिर् एवासाव् इति ज्ञात्वा पादौ प्रगृह्य मणिना सह माम् अर्हणम् उपाहरत् । अहो तर्हि त्वं पुरा-वृत्त-कथास्व् अस्माभिः श्रुत-चरी रामावतारोत्पन्ना श्री-रामाय दातुं प्रतिश्रुता तेनैक-पत्नी-व्रत-धरेण तेनैवानेन स्वीकृता, तस्मात् त्वम् अतिश्रेष्ठासीत्य् अतः सलजम् आह—अमुष्य दासीति ॥१०॥
॥ १०.८३.११ ॥
श्री-कालिन्द्य् उवाच—
तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया ।
सख्योपेत्याग्रहीत् पाणिं योऽहं तद्-गृह-मार्जनी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सख्या अर्जुनेन । तस्य गृह-मार्जनी गृह-संमार्जन-कर्त्री ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः कृष्णः । **गृह-**मार्जनीति-निज-भक्त्य् अतिशयम् आह ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अहं तद्-गृह-मार्जनी–**गृह-**शुश्रूषणपरा चेटीव ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सख्या सहोपेत्य । ननु तपश् चरणादिना त्वम् एव तस्य योग्या भार्या, नेत्य् आह—तस्य गृह-मार्जनी नीचदासी, न च पत्नीत्वयोग्य इत्य् अर्थः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मामां सख्या अर्जुनेन सहोपेत्य ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तपश्-चरन्तीत्य्-आदि । तद्-गृह-मार्जनी सेवान्तर-सम्भावनायोग्यतापि मे नास्तीति भावः दैन्यातिशयः ॥११॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सख्या अर्जुनेन ॥११॥
॥ १०.८३.१२ ॥
श्री-मित्र89विन्दोवाच—
यो मां स्वयं-वर उपेत्य विजित्य भूपान्
निन्ये श्व-यूथ-गम् इवात्म-बलिं द्विपारिः ।
भ्रा90तॄंश् च मेऽपकुरुतः स्व-पुरं श्रि91यौकस्
तस्यास्तु मेऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शुनां यूथ-गतं स्व-बलिं द्विपारिः सिंह इवेति । मे भ्रातुश् चापकुरुतोऽपकारं कुर्वतो विजित्य । श्रियौको लक्ष्मी-निवासः । तस्याङ्घ्र्य्-अवनेजनत्वं चरण-क्षालन-कर्तृत्वम् अनुभवं प्रति जन्म मेऽस्तु ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रातॄन् विन्दानुविन्दादीन् । तस्य श्री-निवासस्य ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तस्यास् तु मेऽनुभवम् अङ्घ्र्य् अवनेजनत्वं चरण-क्षालन-कारि-वारित्वम् अस्तु ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भद्रा-स्थाने मित्रविन्दा ज्ञेयैव । ततश् च विन्दानुविन्दाव् इति भ्रातृद्वये प्राग् उक्ते\ऽपि भ्रातृन् इत्य् अत्र बहुत्वं श्री-भगवद्-विवाह--निषेधे मुख्यतया तौ प्राग् उक्तौ अन्ये च वर्तमाना अपि बहवो\ऽप्राधान्यानोक्ता इति ज्ञेयम् । श्रियौक इति सन्धिर् आर्षः । श्री-रेव तस्या भार्या योग्या, न त्वहम् इति भावः । अतो\ऽङ्घ्र्य् अवनेजनत्वम् एव प्रतिजन्म ममास्तु । यद् वा, श्रियौको इति स्व-पुर-विशेषणम् । श्रियो निवास-स्थानम् अपि माम् अयोग्याम् अपि यः कृपया निन्य इत्य् अर्थः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भद्रा-स्थाने\ऽत्र मित्रविन्दा निर्णीतैव तत्त्ववादि-सम्प्रदाय-पुस्तके\ऽपि तथा दृश्यते ततश् च विन्दानुविन्दाव् इति भ्रातृ-द्वये\ऽपि प्राग् उक्ते भ्रातृ-नित्यत्र बहुत्वं तद् उपलक्षणत्व-प्राप्तेः श्रियौक इति द्वे पदे सन्धिर् आर्षः तत् तु स्व-पुरविशेषणं वा ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भद्रा-स्थाने\ऽत्र मित्रविन्दा ज्ञेया अग्रे च मित्रविन्दा-स्थाने भद्रा लेखकाभ्रमात् प्राग् उक्त-विवाह--प्रस्ताव-विरोधात् तत्त्ववाद-सम्प्रदाय-पुस्तके यथा-युक्तम् एव नामद्वयम् अस्ति ॥१२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यो माम् इत्य्-आदि । तस्य अङ्घ्र्य् अवनेजनत्व अङ्घ्र्य् अवनेजनीभावः अनुभवम् अन्ववतारम् ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शुनां यूथ-गतं स्व-बलिं द्विपारिः सिंह इवेति । मे भ्रातुश् चापकुरुतोऽपकुर्वतो विजित्य श्रियौको लक्ष्मी-निवासो यः स्व-पुरं मां निन्ये तस्य अङ्घ्र्य्-अवनेजनत्वं चरण-क्षालन-कर्तृत्वम् अनुभवं प्रति जन्म मेऽस्तु ॥१२॥
॥ १०.८३.१३ ॥
श्री-सत्योवाच—
सप्तोक्ष92णोऽति-बल-वीर्य-सुतीक्ष्ण-शृङ्गान्
पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय ।
तान् वीर-दुर्मद-हनस् तरसा निगृह्य
क्रीडन् बबन्ध ह यथा शिशवोऽज-तोकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सप्तोक्ष्णो वृषभान् । बलं च वीर्यं च सुतीक्ष्ण-शृङ्गाणि चाति-शयितानि येषां तान् मे पित्रा कृतान् संपादितान् बलीयसे मां दातुं क्षिति-पानां वीर्यस्य बलस्य परीक्षणाय तान् अति-प्रसिद्धान् वीराणां दुर्मदं घ्नन्ति ये तांस् तरसा शीघ्रम् एव निगृह्य दमयित्वा क्रीडन्न् अनायासेनैव बबन्ध । अज-तोकान् अजापत्यानि ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् उक्ष्णः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : । इयं तावद् एवं करोति-तान् वीर-दुर्मद-हनस् तरसा निगृह्य अजतोकानित्य्-आदिना क्रीडान्न् इत्य् एक-वचनात् एकत्र बन्ध आत्मानं सप्तधा कृत्वा, शिशव इति बहु-वचनान्तेन दृष्टान्तेन शिशूनां स्वभाव-प्रदर्शनम् एव । तद्-दास्यमस् तु मे दास्यं दासीकर्म ॥१३-१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बलादीनां यथोत्तरम् अनिग्राह्यता-हेतुत्वे श्रैष्ठ्यम्, **क्षितिपवीर्य-**परीक्षणायेति श्री-भगवत्-प्राप्त्य् अर्थम् एव तद् इति पूर्वम् उक्तम् एव हे स्फुटम्, सर्वेषां साक्षाद् एव इत्य् अर्थः । क्रीडया बन्धने दृष्टान्तः-यथेति । शिशव इति बहुत्वम् आत्मानं सप्तधा कृत्वा [भा।पु। १०.५८.४५] इति पूर्वोक्तानुसारेण तद्-दृष्ट-श्री-भगवद्-रूप-सप्तकाभिप्रायेण किं वा, सर्वेषाम् एव शिशूनां तादृश-स्वभाव-विवक्षया । श्री-रुक्मिण्याः श्री-मित्रविदायाश् च स्वयंवरे राज-वर्गजयेन हरणाद्-**वीर्य-**शुल्कत्वे\ऽप्य् अत्र विशेषेण तद् उक्तिः श्री-भगवता तथा तत्-पितृ-कृतनिर् बन्ध-परिपालनात् अतो दास्यादि-युक्ततयापि नाहं गृहेश्वरी किन्तु दास्येव नित्यं पादसेवाम् एवेच्छामीत्य् आह—तद् इति ॥१३-१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उक्षणः उक्ष्णः क्षितिप-वीर्य-परीक्षणायेति श्री-भगवत्-प्राप्त्य् अर्थम् एव तद् इति पूर्वम् एवोक्तम् । ह स्फुटम् । सर्वेषां साक्षाद् एव इत्य् अर्थः । क्रीडया बन्धने दृष्टान्तः यथेति । शिशव इति बहुत्वम् आत्मानं सप्तधा कृत्वेति [१०.५८.४५] पूर्वोक्तानुसारेण अजतोकान् छागापत्यानि ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्षिति-पानाम् अन्येषां श्री-कृष्णस्य च वीर्यस्य परीक्षणाय तारतम्य-ज्ञापनाय ॥१३-१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सप्तोक्षणेत्य्-आदि । क्रीडन्न् इत्य् एवकवचनोपादानेनैक एव बबन्ध इत्य् अर्थः । बद्ध्वात्मानं सप्तधा कृत्त्वा शिशव इति बहु-वचनान्तेन दृष्टन्तेन शिशूनां स्वभावो दर्शितः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सप्त उक्ष्णो वृषभान् मे पित्रा कृतान् बलीयसे वराय मां दातुं सम्पादितान् इत्य् अर्थः । वीर्याणां दुर्मदं घ्नन्तीति तान् निगृह्य दमयित्वा क्रीडन्न् अनायासेनैव अज-तोकान् छाग-बालकान् ॥१३॥
॥ १०.८३.१४ ॥
य इत्थं वीर्य-शुल्कां मां दासीभिश् चतुर्-अङ्गिणीम् ।
पथि निर्जित्य राजन्यान् निन्ये तद्-दास्यम् अस्तु मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वीर्यम् एव शुल्कं देयं यस्यास् ताम् । दासीभिः सह चतुर्-अङ्गिणीं गजाश्वादि-सेना-युक्तां पुरं निन्ये ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यः कृष्णः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीर्य-शुल्काम् इति । श्री-भगवता तथा तत्-पितृ-कृत-निबन्ध-परिपालनात् ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : य इत्थम् इत्य्-आदिना परेणान्वयः । तद्-दास्यं दासी-भावः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीर्यम् एव शुल्कं देयं यस्यास् तां मां दासीभिः सहितां चतुर्-अङ्ग-सेना-सहितां स्व-पुरं निन्ये ॥१४॥
॥ १०.८३.१५ ॥
श्री-भ93द्रोवाच—
पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् ।
कृष्णे कृ94ष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे कृष्णे हे द्रौपदि । तस्मिन्न् एव चित्तं यस्यास् तां माम् अक्षौहिण्या सेनया सह । सखी-जनैश् च सह ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पिता धृष्टकेतुः । मातुलस्य वसुदेवस्य पुत्राय । तस्मिन् कृष्णे ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कृष्णे द्रौपदि! कृष्णाय भवन्-मित्राय, अस्य मे पादसं-स्पर्शः पाद-सम्वाहनम् ॥१५-१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मित्रविन्दा-स्तानेऽत्र भद्रा ज्ञेयैव । ततश् च कैकेयीं भ्रातृभिर् दत्ताम् [भा।पु। १०.५८.५६] इति प्राग् उक्ते\ऽप्य् अत्र पिता दत्तवान् इति ज्येष्ठ-भ्रातृभिः सह पितुर् भेदात् किं वा, आदौ-भ्रातृभिः प्रतिश्रुतां पश्चात् सर्व-सम्मत्या पिताप्यदात् । स्वयम् आहूय दाने हेतुः—तच् चित्तेति कृष्ण-चित्ता । तत्रैव हेतुः—कृष्णाय सर्व-चित्ताकर्षकायेति । हे कृष्णे इति कन्येच्छया पित्रा स्वयं दानेनान्याभ्यः सर्वाभ्यो विशेष-बोधनार्थम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मित्रविन्दा-स्थाने\ऽत्र भद्रापि निर्णीतैव ततश् च कैकेयीं भ्रातृभिर् दत्तां प्राग् उक्ते\ऽप्य् अत्र पिता दत्तवान् इति भ्रातृभिः प्रतिश्रुतां सर्व-सम्मत्या पिताहूयादाद् इत्य् अभिप्रायेण स्वयम् आहूय दाने हेतुः तच्-चिताम् इति तत्रैव हेतुः कृष्णायेति सर्व-चित्ताकर्षकत्वेन तत्-सञ्ज्ञायेत्य् अभिप्राय-व्यञ्जनाय । तथापि तत्-साक्षात्-पत्युर्-नाम-ग्रहणं तत्र स्मारितेन स्व-भागधेयेन तासां परमोन्माद-प्रायत्वं बोधयति । येनेदम् असङ्कोचाद्-वदन्तीति अथवा गुर्वादिनाम् अग्रहणं लोकेष्व् एव दोषाय केवल-नाम्नस् तुच्छत्वाद् अनादरापत्तेः । श्री-भगवति तु गुणायैव महा-महिम-सूचकत्वात् । परमादरापत्तेः यस्य नाम महद्-यशः [श्रीश्वे। ४.१९] इति श्रुतेः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णायेति साक्षात्-पत्युर् नाम-ग्रहणे तात्पर्यम् इदं गुर्वादिनाम् अग्रहणे लोकेष्व् एव दोषाय केवल-नाम्नस् तुच्छत्वाद् अनादरापत्तेः । श्री-भगवति तु गुणायैव महा-महिम-सूचकत्वात् परमादरापत्तेः यस्य नाम महद्-यशः [तै।उ। ३.१.१९] इति श्रुतेः ॥१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : पिता मे इत्य्-आदि-द्वाभ्याम् । अद्य पाद-सस्पर्शः पाद-संवाहनम् ॥१५-१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मातृ-पुत्राय कृष्णाय । कृष्णे हे द्रौपदि ! ॥१५॥
॥ १०.८३.१६ ॥
अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि ।
कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : येन पाद-संस्पर्शेनात्मनो मे तत् कैवल्याख्यं श्रेयो भवेत् सः । यद् वा, येन कारणेनात्मनो जीवस्य तच् छ्रेयः स एव पुरुषार्थ इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थस् तु तस्येति पपाठ । तत् प्रसिद्धम् । स **पाद-**स्पर्शः । न हि सर्व-कल्याण-हेतुर् एकस्य सम्भवतीत्य् अरुच्याह—यद्-वेति । स एव पाद-स्पर्श एव । अद्यापि यत्-पद-रजः स्मृति-मृग्यम् एव इत्य् उक्तेः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतोऽस्यैव पादयोः सम्यक् संवाहनादिना स्पर्शः कर्मभिर् भ्राम्यमाणाया इतस् ततो जन्यमानाया अपि यद् वा, भ्राम्यमाणायाः सत्या मे मम जन्मनि जन्मनि भवेद् भवतु । श्री-वैकुण्ठ-लोको\ऽपि नापेक्षितः । तत्र हेतुम् आह—येन यत इत्य् अर्थः । तद् इति श्रेयसो विशेषणत्वान्न् अपुंसकत्वं स पाद-स्पर्श एवात्मनो मे श्रेय इति ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो\ऽस्यैव पादयोः सम्यक् संवाहनादिना स्पर्शः कर्मभिर् भ्राम्यमाणायाः सत्या मे मम जन्मनि जन्मनि भवेत् भवतु इति नर-लीलया सर्वम् अन्य-पुरुषार्थ-वर्गम् अनादृत्य तत्र हेतुः तद् इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कर्मभिर् भ्राम्यमाणायेति नर-लीला-वशेन ॥१६-२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्मभिर् इति नर-लीलतया स्व-दैन्योक्तिः । तत् प्रसिद्धं श्रेयः ॥१६॥
॥ १०.८३.१७ ॥
श्री-लक्ष्मणोवाच—
ममापि राज्ञ्य् अच्युत-जन्म-कर्म
श्रुत्वा मुहुर् नारद-गीतम् आस ह ।
चित्तं मुकुन्दे किल पद्म-हस्तया
वृतः सुसम्मृश्य विहाय लोक-पान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्ञि ! हे द्रौपदि ! यथा मित्रविन्दायास् तथैव ममापि चित्तं मुकुन्द-विषयम् आसीत् । सुसंमृश्य सु-विचार्य पद्म-हस्तया श्रिया वृतः किल, अतोऽपि मम चित्तं श्री-मुकुन्दे आसेति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः लक्ष्मी-वरणाद् एव ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ममापीति—अपि-शब्दकरणं सर्वासां सामान्य-कथने विशेष-कथनार्थम् ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं ज्येष्ठानां सप्तानाम् उत्तर-समाप्ताववकाशं प्राप्यासङ्कोचेन निज-विवाह--वृत्तं विस्तार्याह—ममेति । अच्युतस्य सर्वैश्वर्य-परिपूर्णस्य जन्म तथा रौदेवक्यामाविर्भावम्, कर्म च गोकुल-क्रीडादिकम्, च-काराद्-रूपादिकं च । यद् वा, मुकुन्दे रूप-गुणादिना परमानन्द-प्रद इति रूपदिकम् अपि सूचितम् एव ।
ननु मातुलेयत्वेन निकटत्वात्-तस्य जन्मादिज्ञाने श्री-भद्रायास् तच्-चित्तता घटेतैव, त्वया तु कथं श्रुतम् इत्य् अपेक्षायाम् आह—नारदेति । मुहुर् इत्य् अस्योभयतो\ऽप्य् अन्वयः । ह हर्षे, हे राज्ञीति-एतच् च घटेतैवेति । त्वया महा-राज-महिषीत्वेन बुध्यत एवेति भावः ।
ननु बहु-वल्लभे\ऽस्मिश् चित्तम् अयुक्तम्, सत्यम् । विचोण तन्-मात्रैक-गतित्वादित्य् आशयेन, तत्रात्मनो विचारम् आह—किलेति **पद्म-**हस्तयेति दैदग्ध्यादिकं ध्वनितम् । तच् च सु-शब्देन च समर्पितम् एव, अत एव लोकपान् श्री-ब्रह्म-रुद्रादीन्, विशेषेण दृक्-पादाद्य् अकरणेनापि, किं वा, विदूरत एव हित्वा वृतो मुकुन्द एव, अतो ममापि तादृश-विचारेण तस्मिन्न् एव चित्तम् अभूद् इति भावः ।
यद् वा, मम चित्तं मुकुन्द आस, अतः सुसंमृश्य चित्तावतरणेन तम् एव निश्चित्य विलासेन पद्म-हस्तया लोकपान् महा-भूपतीन् विहाय मयासौ वृत इति प्रथमं सङ्केपेणोक्तिः, पश्चाद्-विस्तरेण भविष्यति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति सर्वोपरि परमानन्द-मयम् अपि निज-भागधेय-विशेष-कथनं ताभिर् लज्जया सङ्क्षिप्तं मन्वाना तत्र च श्री-द्रौपदीं निज-विवाहोद्यमं प्रकृष्टम् इव मन्वानां तर्कयन्ती तद्-द्वयम् अपि परम-तन्-मदेन सहमाना तासां ज्येष्ठानां सप्तानाम् उत्तर-समाप्ताववकाशं प्राप्य सङ्कोचेन निज-विवाह--वृत्तं विस्तार्याह—ममेति । अच्युतस्य सर्वैश्वर्य-परिपूर्णस्य जन्म श्री-देवक्यां तादृशम् आविर्भावं कर्म च श्री-गोकुल-क्रीडादिकं चाकार-द्रूपादिकं च ननु, मातुलेयत्वेन निकटत्वात्-तस्य जामादि-ज्ञानेन भद्रायास् तच्-चित्ता घटेतैव त्वया तु कथं श्रुतम् इत्य् अपेक्षायाम् आह—नारदेति मुहुर् इत्य् अस्योभयतो\ऽप्य् अन्वयः । ह हर्षे ।
ननु बहुवल्लभे\ऽस्मिंश् चित्तम् अयुक्तं सत्यं विचारेण तन्-मात्रैक-गतित्वादित्य् आशयेन तत्रात्मनो विचारम् आह—किलेति । **पद्म-**हस्तयेति वैदग्ध्यादिकं ध्वनितं तच् च सुशब्देन सं-शब्देन च समर्थितम् अपि अत एव लोक-पान् श्री-ब्रह्म-रुद्रादीन् विशेषेण दृक्-पाताद्य् अकरणेनापि किं वा, विदूर एव हित्वा वृतो मुकुन्द एव क्षीरोद-मथने अतो ममापि तादृश-विचारेण तस्मिन्न्न् एव चित्तम् अभूद् इति भावः । यद् वा, मम चित्तं मुकुन्दे आस अतः सुसम्मृश्य चित्तावतरणेन तम् एव निश्चित्य विलासेन पद्म-हस्तया लोक-पान् महा-भूपतीन् विहाय मयासौ वृतः एवम् अपि श्लेषेण तद्-दृष्टान्तत्वं ध्वनितम् इति प्रथमं सङ्क्षेपेणोक्तिः पश्चाद्-विस्तरेण भविष्यति । मतं निश्चयम् ॥१७-१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : लक्ष्मणा परिपाट्यानुपूर्येण कथयति-ममापीत्य्-आदि । अपि-शब्दः सविशेष-कथनार्थं मया तु स्वयम् एवासौ वृतः हे रज्ञि द्रौपदि! तत्-प्रकारमानुपूर्वेण शृण्व् इति भावः ॥१७-१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे राज्ञि ! हे द्रौपदि ! मुकुन्दे चित्तम् आस आसीत् । अतः पद्म-हस्तया मया लोक-पालान् अपि विहाय मुकुन्द एव वृतः ॥१७-१८॥
॥ १०.८३.१८ ॥
ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः ।
बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र श्री-कृष्ण-प्राप्ताव् उपायम् अचीकरत् कारयाम् आस ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्णं विना नान्यं वृणोमीति मम मतम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मतम् इच्छामित्य् अर्थः । हे साध्वीति त्वादृशीनां साध्वीनाम् ईदृशीच्छ
स्याद् एवेति, यद् वा, साध्वीत्वेन त्वयि त्वत्-पिता यथा वत्सलस् तथा ममापीति भावः । अतो\ऽचीकरत् ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८३.१९-२० ॥
यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः ।
अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् ॥
श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् ।
सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः भू-पा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यथा राज्ञि तव स्वयंवरे पार्थस्येप्सया आप्तुम् इच्छया कृतस् तथा मत्स्यं कारितवान् । पाठान्तरे पार्थस्येषुणापाकृतः । तर्हीमम् अप्य् अर्जुन एव किं नाविध्यत् तत्राह—अयं त्व् इति । स मत्स्यो बहिर् एवाच्छन्नो नान्तरतः स्तम्भ-लग्नयोर् ध्व-दृष्ट्या संल्लक्ष्यते, अयं तु न तथा, किन्तु स्तम्भ-मूले निहित-कलश-जले केवलं दृश्यतेऽतो दृष्टिर् अधस्ताद् उपरि च लक्ष्यम् इति श्री-कृष्ण-व्यतिरेकेण न कस्यापि भेद्य इति भावः ॥१९-२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पाठान्तरे पार्थेष्व् अपाकृत इति पाठे\ऽपाकृतश् चालितः पार्थो यतो\ऽसृजद्-वाणं नाच्छिनत् पस्पृशे परम् इति वक्ष्यमाणत्वात् । स मत्स्यस् तव स्वयंवर-मत्स्यः । अयं यो मत्-स्वयंवरे कृतो दीघस्थूण-शिखरे\ऽवलम्बितः बहिर् आच्छन्नः काच-करण्डिकादिनाच्छादितः । यतो जल एव दृश्यते\ऽतो हेतोः । इति भाव इति अलक्ष्य-लभ्य-भेदने तु पार्थो\ऽपि शक्त एव तथापि लक्ष्मणाया लक्ष्म्यंशत्वेन कृष्णं विनान्यस्य प्राप्तुम् अयोग्यत्वात्-ततो न बिभिदे\ऽतो भगवान् एव समर्थ इति तात्पर्यम् ॥१९॥
एतन्-मत्स्य-स्वयंवरम् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : हे राज्ञि! यथा तव स्वयम्वरे पार्थेप्सया मत्स्यः कृतः, तथा ममापि कृतेप्सया पित्रा कृत इत्य् अर्थः । किन्त्वियान् विशेषः—स तु बहिर् दृश्यते, अयन्तु आच्छन्नः सन् जले परं केवलं दृश्यत इति भावः ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपायम् एवाह—यथेति यादृशः कृतस् तत्-पित्रा, तादृशः कृतो **मत्-**पित्रापीत्य् अर्थः । पाठान्तरे\ऽपि स एवार्थः । किन्तु अयं ततो\ऽपि महाविषम इत्य् आह—
अयस्त्विति । धनुश् च सशरं गुरुतरं तद्-वेधार्थं निर्माय नयस्तम् अस्तीति ज्ञेयम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अयं त्वत्-पित्रा कृतः, आच्छन्नो दुर्ज्ञेयो\ऽपि जलाद्बहिः स्तम्भोपरि दृश्यते, स **मत्-**पित्रा कृतः, जलान्तर् एव दृश्यते, न बहिर् इति । अन्यत् समानम् ॥१९॥
सर्वतः सर्व-देशेभ्यः, सोपाध्याया धनुर् विद्या-गुरुभिः सहिताः-तद् उपायस्य दुर्वितर्क्यत्वात् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपायम् एवाह—यथेति । यादृशः कृतस् त्वत्-पित्रा तादृशः कृतो मत्-पित्रापीत्य् अर्थः । पार्थेषुणापाकृत इति पाठे यथा पार्थेषुणा तथा कृतः तथा श्री-भगवदिषुण इत्य् अर्थः । यद्यपि स्तम्भ-मूलत एवोर्ध्व-दृष्ट्या दृश्यो\ऽसौ ततो दृष्ट्वापि दूरत एवावरणं भित्वा तन्-मात्रम् एव छेत्तव्यम् इति समयेन पश्चाद्-भ्राम्यत्तद् अनुसन्धानस्य दुष्करत्वात्-त्वत्-पितृकृतो\ऽपि दुर्वेध एव तथाप्य् अयं **मत्-**पितृकृतस् ततो\ऽपि दुर्वेध इत्य् आह—अयं त्विति । सजले जल-परिपूर्ण-परिखामण्डले जल-गर्त-मध्यस्थस्य स्तम्भ-मूलस्यागम्यत्वेन साक्षाद् अदर्शनात् बिम्ब-दर्शन-मात्रेण पूर्वम् अपि तद्-अवस्थिति-प्रदेशानिश्चयाद् इति भावः ॥१९॥
एतद् आश्चर्यं लोभनं च ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यथा स्वयंवरे राज्ञीति पुना राज्ञीति सम्बोधनान्तरं हर्षोत्कर्षद्योतकं यथा तव स्वयंवरे तव पित्रा पार्थेच्छया मत्स्यः कृतः तथा **मत्-**पित्रापि मम कृष्णे किन्त्वियान् विशेषः स तु बहिर्दृश्यते अयं तु आच्छन्नं परं केवलं जले दृश्यत इति भावः ॥१९-२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पार्थेप्सया अर्जुन-प्राप्तीच्छया कृतः । पार्थेष्व् अपाकृत इति पाठे पार्थस्य इषुणा अपाकृतः विद्धः । तर्हीमम् अप्य् अर्जुन एव किं नाविद्ध्यद् अतो विशेषम् आह—अयं तु परम्अ-चञ्चलो मत्स्यः सजले स्तम्भ-मूल-गत-जल-सहित-कलसे परं केवलं दृश्यते न तूर्ध्वम् इत्य् अन्वयः । अतो दृष्टिर् अधस्ताद् उपरि तु लक्ष्यम् इति कृष्ण-व्यतिरेकेण न कस्यापि भेद्य इति भावः । तेन त्वत्-पितृ-कृतो मत्स्यः खलु बहिर् आच्छन्नोऽपि स्तम्भ-संलग्नया ऊर्ध्व-दृष्ट्या संलक्ष्यत एवेति तद्-अनुसन्धान-चतुरेणार्जुनेन । स बिद्धः एवेति भावः ॥१९-२०॥
॥ १०.८३.२१ ॥
पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः ।
आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत्स्यं वेद्धुम् । पर्षदि संसदि । मद्-धियो मय्य् एव धीर् येषाम् इति अन्य-चित्ता न वेद्धुं शक्ता इति भवः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्स्यम् इति शेषः । सदसि सत्-पर्षदौ च इति कोशात् । इति भाव इति-मत्स्य-वेधने चित्ताभावात्-तद्**-वेद्धुं** नाशकन्न् इति तात्पर्यम् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् पूजिताः, सं-शब्दादर्थम् एवाह—यथेति । वीर्य-वयो\ऽनुसारेणैव इत्य् अर्थः । इति सर्वेषाम् एव सन्तोषः सूचितः पर्षदि वेद्धुम् इति प्रगल्भता **मद्-**धिय इति वेधे प्रयत्न-परतोक्ता । यद् वा, पर्षदि मद्-धिय इति अतो धृष्टा न ते मद्-योग्या इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चापं तद्-विशेष मत्-पित्रैव तत्र स्थापितम् इति भावः । पर्षदि वेद्धम् इति प्रगल्भता । **मद्-**धिय इति वेधे प्रयत्न-परतोक्ता तथापि ॥२१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर्षदि सभायां मद्-धियो मयि धीः प्राप्त्य्-आशा येषां ते ॥२१॥
॥ १०.८३.२२ ॥
आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः ।
आ-कोष्ठं ज्यां समुत्कृष्य पेतुर् एकेऽमुनाहताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—आदायेति । अमुना चापेन ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवान्य-चित्तत्वम् एव ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : केचिद् अल्पबला आदायैव सद्यो व्यसृजन्, चापं तत्यजुः । यतो\ऽनीश्वराः सामर्थ्य-रहिताः । एके बलिनः, आकोटि चामस्य एकस्यां कोट्यं ज्यामादौ निधाय पश्चाद् अन्यस्यां योजयितुं तत्-पर्यन्तं समाकृष्य स्थिता अमुना हताः । ज्यायोजनाशक्त्योच्-चलितेन चापेनैव प्रहता इत्य् अर्थः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एके बलिनः आकोटि चापस्यैकस्याङ्कोटौ ज्यामादौ निधाय पश्चाद् अन्यस्यां योजयितुं तत्-पर्यन्तं समाकृष्य स्थिता अमुना हताः ज्यायोजनाशक्त्योच्-चलितेन चापेनैव हता इत्य् अर्थः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आकोटि चापस्याग्र-पर्यान्तं ज्यां समुत्कृष्यापि तत्र निधातुम् अशक्ता अमुना चापेनैव हताः ॥२२॥
॥ १०.८३.२३ ॥
सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः ।
भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नाविन्दंस् तद्-अवस्थितिम् इति मागधादीनां क्रिया-शक्तिर् एव न तु लक्ष्याभिज्ञतेत्य् अर्थः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सज्यं सगुणम् । तद् अवस्थितिं मत्स्यावस्थितम् । इत्य् अर्थ इति—
क्रिया-शक्तिश्-शस्त्र-चालनादि-सामर्थ्यं दैहिक-बलवत्त्वेन भवेद् अपि तु लक्ष्याभिज्ञत्वं गुरु-प्रसादाभ्यास-लभ्यम् एवेति भावः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीराः सामर्थ्य-विशेषवन्त इत्य् अर्थः । अम्बष्ठो\ऽम्बष्ठदेशाधिपः, चेदिपः शिशुपालः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अम्बष्ठः अम्बष्ठ-देशाधिपः ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अम्बष्ठोऽम्बष्ठ-देशाधिपतिः । तद्-अवस्थितिं नाविदन्न् इति मागधादीनां क्रिया-शक्तिर् एव, न तु लक्ष्याभिज्ञतेति भावः ॥२३॥
॥ १०.८३.२४-२५ ॥
मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् ।
पार्थो यत्तोऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥
राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु ।
भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत्तो यत्नवान् । असृजन् मुमोच । स बाणो मत्स्यं नाच्छिनत्, परं केवलं पस्पर्श । ज्ञानवान् अप्य् अर्जुनो बलेनापूर्ण इत्य् अर्थः ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मत्स्यस्याभासं प्रतिबिम्बं पस्पृश इत्य् आर्षत्वात् तम् । इत्य् अर्थ इति-छेदनस्य पूर्ण-बलसाध्यत्वेन छेदन-ज्ञाने सत्य् अपि तन्-नास्तीति भावः ॥२४॥
अथ सर्प-राजाभिमाननिवृत्तेर् अनन्तरम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मत्स्यस्याभासं छायां विशेषेण महाभिनिवेशेन मुहुरीक्षित्वा तत्रात्मनो\ऽशक्तिं जानतो\ऽप्य् अस्यार्जुनस्य प्रवृत्तिः श्री-भगवन्-माहात्म्य-विस्तारणाय ॥२४॥
मानिषु अभिमानवत्स्व् अपि तेषु भग्नमानेषु सत्सु भगवान् सर्व-शक्तिमान् श्री-कृष्णो\ऽपातयद् इति द्वाभ्यामन्वयः । अथानन्तं सद्य एव इत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मत्स्यस्याभासं छायां विशेषेण महाभिनिवेशेन मुहुर् ईक्षित्वा केवलं पस्पर्शेति । बाणैक-देशेनैव संयोगात्, न तु तन्-मध्य-भागेन स्पर्श-ज्ञानं तु बाणे तत्-सङ्घर्ष-चिह्न-दर्शनात् तत्रार्जुनस्य प्रवृत्तिः श्री-भगवन्-माहात्म्य-विस्तरणाय ज्ञेया ॥२४॥
राजन्येष्व् इति युग्मकम् । वीक्ष्य विलासेन दृष्ट्वा अभिजितीत्यनेन मध्याह्नो ज्ञेयः । अतस् तद् उपरि रवि-स्थित्याधिक-दुर्लक्ष्यत्वं च सूचितम् ॥२५-२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मत्स्याभासां छायां वीक्ष्य विशेषेण महाभिनिवेशेन मुहुर् ईक्षित्वा यत्तः यत्न-परः सन् । केवलं पस्पृशे इति तद् एक-देश एव, न तु तन्-मध्य-देशे बाण-संयोगाद् इति भावः । स्पर्श-ज्ञानं तु बाणस्य तत् सङ्घर्षण-चिह्नात् । लक्ष्याभिज्ञानवत्त्वेऽपि तादृग् बलाभाद् एव न तच्-छेद इति केचिद् आहुः ॥२४-२५॥
॥ १०.८३.२६-२७ ॥
तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले ।
छित्त्वेषुणापातयत् तं सूर्ये चा95भिजिति स्थिते ॥
दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि ।
देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिजिति सर्वार्थ-साधके मुहूर्ते ॥२६-२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् धनुषि । तं मत्स्यम् । अभिजिति, तच्-चोक्तम्—
मध्याह्ने तु यदा शङ्कोर् मूले छाया प्रजायते । > सर्वार्थ-साधनीवैकाभिजिदाख्या घटी स्मृता ॥
इति ज्योतिश्-शास्त्रात् । मध्याह्नात्-परतो घटिकैका यावत्-तावद् अभिजिद् इत्य् अर्थः । विस्तरेण तृतीय-स्कन्धे चैतद् अस्तीति ॥ २७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य विलासेन दृष्ट्वा, अभिजितीत्यनेन मध्याह्नो ज्ञेयः । अतस् तद्-उपरि रविस्थित्या अधिक-दुर्-लक्ष्यत्वं सूचितम् ॥२६॥
जय-शब्द-युता देवा भुवि मुमुचुर् इत्य् अन्वयः । यद् वा, भुवि च नेदुः । **जय-**शब्दैर् युता ते चोत्थिता इत्य् अर्थः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भुवि ये जय-शब्दाः तैर् युतास् तत्-सम-काला दुन्दुभयो दिविनेदुर् इत्य् अर्थः ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिजिति मध्याह्ने इति तदा च मत्स्योपरि सूर्य इत्य् अतिदुर्लक्ष्यत्वेऽपीति भावः ॥२६-२७॥
॥ १०.८३.२८ ॥
तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां
पद्भ्यां प्रगृह्य कनकोज्ज्वल-रत्न-मालाम् ।
नूत्ने निवीय परिधाय च कौशिकाग्र्ये
स-व्रीड-हास-वदना कवरी-धृत-स्रक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवत्-प्राप्ति-हर्ष-निर्भरेणात्मानम् एवानुवर्णयन्त्य् आह द्वाभ्याम्—तद् रङ्गम् इति । तत् तदा कलौ कल-स्वनौ नूपुरौ ययोस् ताभ्यां पद्भ्यां रङ्गं प्राविशम् । कनकेनोज्ज्वलां रत्न-मालाम् । निवीय प्रावृत्य परिधाय च नीवीबन्धेन च । कौशिकाग्र्ये उत्तम-कौशेय-वस्त्रे । स-व्रीडो हासो यस्मिंस् तद् वदनं यस्याः सा । कबर्यां धृताः स्रजो यया सा ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निर्भरो\ऽतिशयः । कल-स्वनौ मधुरास्फुट-शब्दौ । रङ्गं स्वयंवर-स्थलम् । कबर्यां केश-पाश-रचनायाम् ॥२८-२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद्-रङ्गम् आविशम् अहम् इत्य्-आदि—अहम् इति हर्षोत्कर्षेण गर्वं, परमोत्सुक्याद् आत्मानं विशिनष्टि—**कल-**नूपुराभ्याम् इत्य्-आदि ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण परमादरादिना कराभ्यां गृहीत्वा । नूत्न इत्य्-आदिकम् उद्वाहे-तद् अपेक्षत्वात् । सव्रीडेति स्वमनो-रथ-सिद्धया प्रहर्षात् श्री-भागवति भाव-विशेषोदयाद्वा । अत एव शोभा-विशेषार्थं कबरीति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण परमादरादिना हस्ताभ्यां गृहीत्वा नूत्ने इत्य्-आदिकं विवाहे तद् अपेक्षत्वात् व्रीडा सभादिना अत एव हासः अन्तरानन्देन प्रसाद-मात्रं **तद्-**युक्तं वदनं यस्याः इति वदनस्यैव **तद्-**धर्मत्वं न तु मम कृत्रिमम् इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद्-रङ्गम् आविशद् इत्य्-आदि । अहम् इति हर्षोत्कर्षे गर्वपरम् औत्सुक्यादात्मानं विशिनष्टि-**कल-**नूपुराभ्याम् इत्य्-आदि ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्-काल-भवं स्व-हर्षं स्मरन्ती तद् आत्विकं स्वयं वरणं स्वस्य वर्णयन्त्य् आह—तद् रङ्गम् इति द्वाभ्याम् । तत् तदा कलौ कल-स्वनौ नूपुरौ ययोस् ताभ्यां पद्भ्यां कौशिकाग्र्ये उत्तम-कौशेय-वस्त्रे निवीय प्रावृत्य परिधाय ॥२८॥
॥ १०.८३.२९ ॥
उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्-
गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर्
अंसेऽनुरक्त-हृदया निदधे स्व-मालाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उरवः कुन्तला यस्मिन्, कुण्डलयोस् त्विषो ययोस् ते गण्ड-स्थले यस्मिंस् तच् च तच् च । शिशिरः सन्तापहरो हासो येषु तैः कटाक्ष-मोक्षैर् अपाङ्ग-मोक्षण-विलासैः । अनुरक्तं हृदयं यस्याः साहम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उन्नीयेत्य्-आदि—राज्ञोऽनिरीक्ष जुगुप सया राजानो न दृष्ट्वा इत्य् अर्थः ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिशिर-हास-कटाक्ष-मोक्षैर् विशिष्टं वक्त्रम्, परितः उपस्थितान् राज्ञो निरीक्ष्यावज्ञयैषद् दृष्ट्वा शनकैर् निदधे । तत्र हेतुः—अनुरक्तेति, प्रेमोद्रेकाविष्ट-चित्तत्वाद् इत्य् अर्थः । स्वकीयां तद् अर्थ-हस्त-गृहीतां मालाम्, मुरारेर् इति मुर-नामा-महा-दैत्य-वधेन महा-वीरत्वादिना माला-निधान-योग्यतोक्ता । अन्यत् तैर् व्याख्यातम् ।
यद् वा, उरवः कुन्तलानां कुण्डलयोश् च त्विषो ययोस्ते **गण्ड-**स्थले यस्मिंस् तत् । शिशिरः शीतलो मन्द इत्य् अर्थः । मुरारेर् एवानुरक्तं हृत् अयते यातीति तथा सेति मिथः प्रेमोक्तम् । अन्यत् समानम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुन्तलानां गण्डान्तः-पतनं कर्ण-समीपस्थ-चूर्ण-कुन्तलानां बन्धन-विशेषेण तत्-समीप-प्राप्तेः स्थितान् राज्ञो वीक्ष्य अवज्ञयैव दृष्ट्वा शिशिरेत्य्-आदि-लक्षण-श्री-कृष्ण**-कटाक्ष-मोक्षैः** अनुरक्त-हृदया स्वीयां तद् अर्थं हस्त-रचितां गृहीतां मालां मुरारेर् इति महा-वीरत्वादिना माला-निधान-योग्यतोक्ता । अन्यत्-तैः । यद् वा, उरवः कुन्तलानां कुण्डलयोश् च त्विषो ययोस्ते **गण्ड-**मण्डले यस्मिन् तत् शिशिरः शीतलो मन्द इत्य् अर्थः । मुरारेर् एवानुरक्तं हृत् अयते यातीति तथा सेति मिथः प्रेमोक्तम् अन्यत् समानम् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शिशिर-हास-कटाक्षैर् उपलक्षितं वक्त्रम् । राज्ञो निरीक्ष्य अवज्ञयैव दृष्ट्वा ॥२९-४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उन्नीयेत्यादि । राज्ञो\ऽनिरीक्ष्येति । राज्ञः अनिरीक्ष्य जुगुप्सया तान् न दृष्ट्व इत्य् अर्थः । निरीक्ष्येति वा ॥२९-३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तात्कालिकम् अथर्षोत्थं मत्स्-सौन्दर्यम् अन्यद् एवासीत्य् आह—उन्नीयेति । उरु-कुन्तलानां कर्ण-समीप-स्थ-चूर्ण-कुन्तलानां कुण्डलयोश् च त्विषो ययोस् तथा-भूते गण्ड-स्थले यत्र तत् ॥२९॥
॥ १०.८३.३० ॥
ता96वन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः ।
निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावन्-**माला-निक्षेप-समये ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तावद् इति तत्क्षण इत्य् अर्थः । मृदङ्गः, पटहाश् च प्रसिद्धाः, भेर्यश् च शुषिर-भेदाः, आनका दुन्दुभयः, आदि-शब्दात् पणवादयः, मृदङ्गादीनां यथोत्तरम् उच्च-शब्दत्वे श्रेष्ठ्यम् । विशेषेण दिव्य-वाद्यतो\ऽप्य् आधिक्येन नेदुः स्वयम् एव ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तावद् इति । तत्क्षणत एव इत्य् अर्थः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८३.३१ ॥
एवं वृते भगवति मयेशे नृप-यूथपाः ।
न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : याज्ञसेनि ! हे द्रौपदि ! ईशे श्री-कृष्णे ! मया वृते सति स्पर्धन्तः स्पर्धमानाः । नन्व् एवं परमैश्वर्यं दृष्टवतां कुतः स्पर्धावसरः ? तत्राह—हृच्-छयातुरा इति । हृच्-छयेन कामेनातुरा विवशाः । काम-विजृम्भिता स्पर्धेति भावः ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईशपदेनात्र न शम्भुर् अग्रिम-पद्ये चतुर्भुज इत्य् उक्तेः । अत्राशङ्कते—नन्व् इति । इति भव इति-कामाकुलित-चित्तत्वाद्-भगवतद् ऐश्वर्य-विस्मृतिर् जाता । कामातुराणां न भयं न लज्जा इत्य् उक्तेः ॥३१-३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अनेनोक्त-प्रकारेणापि वृते भगवति सर्व-शक्तिमति यत ईशे साक्षात्-परमेश्वरे नृप-यूथपा राज-वर्ग-श्रेष्ठा जरासन्धादयः, हे याज्ञसेनीति विस्मयात् । अहो यायजूक-द्रुपद-कन्यात्वेन सद्-बुद्धिमती त्वं तेषां धार्ष्ट्यभरं पश्येति भावः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अनेनोक्त-प्रकारेणापि वृत्ते तावद् अपि दुराशाग्रस् तत्वाद् इति भावः । भगवति सर्व-शक्तिमति यतः ईशे साक्षात्-परमेश्वरे **नृप-**यूथपा राजवर्ग-श्रेष्ठाः जरासन्धादयः हे याज्ञसेनीति विस्मयात् अहो यायजूक-द्रुपद-कन्यात्वेन सद्बुद्धिमती त्वं तेषां धार्ष्ट्यं भरं पश्येति भावः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : याज्ञसेनि ! हे द्रौपदि ! स्पर्धन्तः स्पर्धमानाः ॥३१॥
॥ १०.८३.३२ ॥
मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् ।
शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हय-रत्नानां चतुष्टयं यस्मिंस् तं रथम् । द्वाभ्यां मामालिङ्ग्य द्वभ्यां धनुर्-बाणौ गृहीत्वा चतुर्-भुजस् तस्थौ ॥३२॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हय-रत्न-चतुष्टयम् इति रथस्य महा-वेगादिकं सूचितम् । आजौ युद्धार्थं सन्नद्ध उद्यतः सन् तस्थौ, रथोपर्येवोर्ध्वाव-स्थानेनासीत् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हय-रत्न-चतुष्टयम् इति रथस्य महा-वेगादिकं सूचितम् । आजौ युद्धार्थं सन्नद्धः उद्यतः सन् रथस्थो रथोपर्येवोर्ध्वावस्थानेन आसीत् ॥३२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भीरु-स्वभाव्यं मां द्वाभ्यां भुजाभ्याम् आलिङ्ग्य द्वाभ्यां धनुर् बाणौ गृहीत्वेति **चतुर्-**भुजस् तस्थौ ॥३२॥
॥ १०.८३.३३ ॥
दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् ।
मिष97तां भू-भुजां राज्ञि मृगाणां मृग-राड् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृगाणां मिषतां मृग-राड् इव । तदा हरिर् जगामेति शेषो ज्ञातव्यः । दारुकस्यैव वा मृग-राजोपमा ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा रथे स्त्र्यारोपण-काले । अध्याहारे गौरवं मत्वाह—दारुकस्येति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : काञ्चनोपस्करं सौवर्ण-परिच्छदम् इति दूर-दृश्यत्वादिकं ध्वनितम् । अतो मिषतां पश्यताम् अपि, अनादरे षष्ठी, अतो मृगाणाम् इति दृष्टन्तेन श्री-दारुकस्य निर्भयत्वम् उक्तम् । हे राज्ञीति परमोत्साहात् ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : काञ्चनोपस्करं सौवर्ण-परिच्छदम् इति दूरदृश्यत्वादिकं ध्वनितम् अतो मिषतां पश्यताम् अपि अनादरे षष्ठी । अतो मृगाणाम् इति दृष्टान्तेन श्री-दारुकस्य निर्भयत्वम् उक्तम् । हे राज्ञीति परमोत्साहात् ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिषतां मृगाणां मृगराड् इव हरिर् जगामेति शेषः । मिषताम् इत्य् अनादरे षष्ठी ॥३३॥
॥ १०.८३.३४ ॥
तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।
संयत्ता उद्धृतेष्व्-आसा ग्रा98म-सिंहा यथा हरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्वसज्जन्त पृष्ठतः सक्ता बभूवुः । निषेद्धुं प्रतिबन्धं कर्तुं केचन पुरतो गत्वा पथि संयत्ता बभूवुर् इत्य् अर्थः । उद्धृतेष्व्-आसा ऊर्ध्व-कृत-चापाः । ग्राम-सिंहाः श्वानो हरिं सिंहं यथेति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ये तत्रागतास् ते । इत्य् अर्थ इति-मार्गं रुरुधुर् इति भवः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्वानो\ऽप्य् उद्धृतेष्व् आसवद् उद्धृत-पुच्छा भवन्ति । अन्यत् तैर् व्याख्यातम् । यद् वा, केचिद् रथ-वेगतो\ऽनुसज्जितुम् अशक्ता दूरत एवावस्थिताः । आशुगरथास्तु केचन ते कुबुद्धयो\ऽन्वसज्जन्त । किम् अर्थम्? पथि निषेद्धुं रोद्धुम् इत्य् अर्थः । अतः संयत्ता युद्धोद्यताः अत एवोद्धृतेष्व् आसाः सन्तः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्वानो\ऽप्य् उद्धतेष्व् आसवद् उद्धृत-पुच्छा भवन्ति अन्यत्-तैः । यद् वा, केचिद्-रथ-वेगतो\ऽप्य् उत्सज्जितुम् अशक्ता दूर एवावस्थिताः आशुगरथास्तु केचन ते कुबुद्धयो\ऽन्वसज्जन्त किम् अर्थं पथि निषेद्धुं रोद्धुम् इत्य् अर्थः । अतः संयत्ता युद्धोद्यताः अत एवोद्धृतेष्व् आसाः सन्तः ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्वसज्जन्त पृष्ठतः सक्ता बभूवुः । निषेद्धुं रोद्धुम् इत्य् अर्थः । उद्धृतेष्व्-आसा ग्राम-सिंहा अप्य् उद्धृत-पुच्छा भवन्ति ॥३४॥
॥ १०.८३.३५ ॥
ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः ।
निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रधने युद्धे ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शार्ङ्गत् च्युतैः स्वयम् एव निःसृतैर् बाणौघैः । केचित् **कृत्त-**बाहवः, केचित् कृत्ताङ्घ्रयः, केचित् कृत्त-कन्धरा इति विवेचनीयम् । यद् वा, युगपद् एव कृत्तौ युद्धार्थं गृहीतास् त्रत्यजनार्थम् आदौ बाहू ततो निपातार्थम् अङ्घ्री, ततश् च सद्यो मरणार्थं कन्धरं येषां ते, इति बाणानाम् अति-शीघ्रत्वम् अपि सूचितम् । अतः प्रधने युद्ध-भूमौ नितरां पेतुः, मृता इत्य् अर्थः । प्रधनं सम्यग् दूरतस् त्यक्त्वा दुद्रुवुः वेगेनापलायन्त ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शार्ङ्ग-च्युतैः स्वयम् इव निःसृतैः बाणौघैः केचित् कृत्त-बाहवः केचित् कृत्ताङ्घ्रयः केचित् कृत्त-कन्धराः इति विवेचनीयं । यद् वा, युगपद् एव कृत्तौ युद्धार्थं गृहीतास् त्रत्याजनार्थम् आदौ बाहू ततो निपातनार्थम् अङ्घ्री । ततश् च सद्यो मारणार्थं कन्धरं येषाम् इति बाणानाम् अतिशीघ्रत्वम् अपि सूचितम् अतः प्रधने युद्ध-भूमौ नितरां पेतुः मृता इत्य् अर्थः । प्रधनं सम्यक् दूरतस् त्यक्त्वा दुद्रुवुः पलायन्त ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्त्यज्य प्रधनं विहाय ॥३५॥
॥ १०.८३.३६ ॥
ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां
रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् ।
कुशस्थलीं दिवि भुवि चाभिसंस्तुतां
समाविशत् तरणिर् इव स्व-केतनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रविं छादयन्ति ते रवि-च्छदा ध्वजेषु पटा यस्यां, चित्राणि तोरणानि यस्यां, सा च सा च । तां कुश-स्थलीं पुरीं यदु-पतिः समाविशत् । स्व-केतनं मण्डल-मस्त-शलं वा ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मार्गस्थ-राजन्य-जयोत्तरम् । तरणिः सूर्यः । मण्डलम् अत्र सूर्य-लोकः । स्व-लोकं गतस्य प्रति-दिनागमनं यद्यपीशत्वाद्-भगवतो रवेर् न सम्भवेत्-तथाप्य् अज्ञ-जन-बुद्ध्य् आरोहार्थम् आह—अस्ताचलं वेति ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तत्-पश्चाद् एव । न तु तान् निर्जित्य इत्य् अर्थः । यतो यदुपतिर् महा-वीरवर्ग-श्रेष्ठ इत्य् अर्थः । यद् वा, यदुपतिर् इति पत्नी-प्रप्त्य्-आदिना पुरी-प्रवेशतो यदूनां प्रहर्षोदयाभिप्रायेण । अतीति सदालङ्कृताम् एव । अधुना च महोत्सवे\ऽतिशयेनालङ्कृताम् इत्य् अर्थः । तद् एवाह—स्वीति । दिवि भुवि चाभितः सर्वतोभावेन सम्यक् परमोत्तमत्वेन स्तुताम् इति तत्र तत्र तादृशत्वाभावेनासाधारण्यम् उक्तम् । तत्रापि स्वकेतनं निजवासं तरणिरिव स्वयं जाज्ज्वल्यमानस् तत्रत्यांश् च विद्योतयन् सम्यग् गीतवाद्यादि-महोत्सवेन आ सम्यग् आनन्देनाविशत् प्रविशेष ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तत्-पश्चाद् एव न तु तान्-अनिर्जित्य इत्य् अर्थः । यतो यदु-पतिः महा-वीर-वर्ग-श्रेष्ठ इत्य् अर्थः । यद् वा, यदुपतिर् इति पत्नी-प्राप्त्य्-आदिना पुरी-प्रवेशतो यदूनां प्रहर्षोदयाभिप्रायेण अतीतितदानीं वैशिष्ट्यात्-तद् एवाह--रवीति । दिवि भुवि चाभितः सर्वतो भावेन सम्यक् परमोत्तमत्वेन स्तुताम् इति तत्र तत्र तादृशत्वाभावेनासाधारण्यम् उक्तं तत्रापि स्व-केतनं निजावासं तरणिरिव स्वयं जाज्वल्यमानः तत्रत्यांश् च विद्योतयन् सम्यग्-गीत-वाद्यादि-महोत्सवेन आ सम्यक् आनन्देनाविशत् प्रविवेश । तरणिपक्षे स्व-केतनं स्व-मण्डलम् इत्य् एव तरणिश् चात्र विष्णुनामा ज्ञेयः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रविं छादयन्तीति रवि-च्छदा ध्वजेषु पटा यस्यां, चित्राणि तोरणानि यस्यां, सा च सा च ताम् ॥३६॥
॥ १०.८३.३७ ॥
पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् ।
महार्ह-वासो-ऽलङ्कारैः शय्यासन-परिच्छदैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महार्ह-वासः-प्रभृतिभिः सुहृदादीन् पूजयाम् आस ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पिता बृहत्-सेनः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुहृदादीन् स्वकीयान् महोत्सवत्वात् तत्र सुहृदो मित्राणि [ज्ञातयः] सम्बन्धिनो विवाहादि-सम्बन्धवन्तः भान्दवा ज्ञातयः [मित्राणि] यद् वा, श्री-भगवत एव सुहृदादीन्, ततश् च प्रत्येकं तान् उद्दिश्य प्रस्थापितैर् महार्हवासः-प्रभृतिभिः, किं वा, द्वारकायां पश्चाद् आगतः सन्निति ज्ञेयम् [प्रविज्ञेयम्]॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतः सुहृदादीन् तत्र सुहृदो मित्राणि सम्बन्धिनो वैवाहिकाः बान्धवाः ज्ञातयः पाणिग्रहण-क्षणे द्वारकायां स्वयम् एवागतः सन्न् इति ज्ञेयम् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८३.३८ ॥
दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः ।
आयुधानि महार्हाणि ददौ पू99र्णस्य भक्तितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दास्यादिभिः सहायुधानि पूर्णायापि ददौ ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्णायापि पूजायां रवये दीप-दानवत्-तत्-कर्माङ्गत्वाद्-ददाव् इति भावः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): सर्वाः सम्पदो नव-यौवनालङ्कारादयो यासां ताभिर् दासीभिस् तादृशैर् भटादिभिश् च, सेनायाच् चतुर्भिर् अङ्गैः, यद् वा, सर्वाभिः सप्मद्भिर् धनादिभिश् च सह, भक्ता महा-वीराः पदातयः, पूर्णायापि दाने हेतुः—भक्तित इति—भक्त्या पत्रादिनाम् अपि तेन ग्राह्यत्वात्, तच् च प्राग् उक्तम् एव, अत्र च रवेर् दिपम् इवेत्य् उपमा द्रष्टव्या ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्वाः सम्पदः नव-यौवनालङ्कारादयो यासां ताभिर् दासीभिः तादृशैर्-भटादिभिश् च सेनायाश् चतुर्भिर् अङ्गैः यद् वा, सर्वाभिः सम्पद्भिः धनादिभिः सह भटाः महा-वीराः पदातयः पूर्णायापि दाने हेतुः—भक्तित इति । भक्त्या पत्रादीनाम् अपि तेन ग्राह्यत्वात् तच् च प्रागुक्तम् एव तत्र च रवेर् दीपम् इवेत्य् उपमा द्रष्टव्या ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दास्यादिभिः सहायुधानि पूर्णायापि ददौ इत्य् अत्र हेतुर् भक्तित इति । भक्त्या पत्रादीनाम् अपि तेन ग्राह्यत्वात् ॥३८॥
॥ १०.८३.३९ ॥
आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः ।
सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इमा अष्टौ वयं सर्व-सङ्ग-निवृत्त्या तपसा स्व-धर्मेणाद्धा साक्षात् तस्य गृह-दासिका बभूविम ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य श्री-कृष्णस्य दासीत्वं च तप आदिनास्म् आभिर्-लब्धम् इति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वाः स्व-ज्येष्ठाः सन्तोषयन्न् उपसंहरति—आत्मा-रामस्येति । अस्मान् प्रति निरपेक्षस्यापीत्य् अर्थः । एतद् अपि भक्ति-विशेषेण विनयाद् एव । गृहस्य तत्-सम्मार्जनादि-कर्यो दासिकाः, अल्पार्थे कः । नीच-दास्य एव, न च पत्न्य इत्य् अर्थः । एतद् अपि पूर्ववत् सर्वेषू धन-पुत्रादिषु सङ्ग आसक्तिस् तस्य निवृत्त्या उपेक्षयेत्य् अर्थः । तपसा च स्व-धर्मेण दासीकर्मणेत्य् अर्थः । वयम् इति स्व-ज्येष्ठानां सङ्ग्रहात्, इत्य् अन्योन्य-स्नेहश् च सूचितः । यद् वा, गृह-दासिकात्वेनाप्य् आत्मनो बहु-मानात् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् आवेशेनात्मानं बहु वर्णयित्वा सलज्जा इव सर्वाः स्व-ज्येष्ठाः सन्तोषयन्त्य् उपसंहरति-अत्मारामस्येति । स्वयम् एव पूर्णत्वाद् आत्म-मात्र-क्रीडा-योग्यस्यापि तस्य वयं गृह-दासिका बभूविमेति तस्य कारुण्य-मात्रम् अत्र कारणम् इति भावः । एवं दैन्याभाव-विशेषाव्यञ्जनेन किन्तु भक्ति-मात्र-व्यञ्जनेन तत्-तद्-वर्णने स्वयं तत्-तत्-कथन-प्रागल्भ्यम् अप्य् आच्छन्नम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : आत्मा-रामस्य तस्येमा वयं वै गृह-दासिका इति । वयम् इत्य् आत्मनः श्लाघा-परत्वे बहु-वचनम्, सर्वाभिप्रायेण वा ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम् आवेशेनात्मानं बहु वर्णयित्वा सलज्जा इव सर्वाः स्व-ज्येष्ठा रुक्मिण्य्-आद्या सन्तोषयन्त्य् अपसंहरति—आत्मारामस्येति । अन्यस्यान्य-भार्या इवामुं वयम् अष्टाव् एताः वशीकर्तुं न प्रभवाम इति भावः । विनय-भरेण दैन्याद् एव, वस्तुतस् तु ता अपि ह्लादिनी-शक्तित्वाद् आत्म-भूताः प्रेम्णा तं वशीचक्रुर् अपीति भावः ॥३९॥
॥ १०.८३.४० ॥
महिष्य ऊचुः—
भौमं निहत्य स-गणं युधि तेन रुद्धा
ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः ।
निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः
पादाम्बुजं परिणिनाय य आप्त-कामः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्षितिजये दिग्-विजये जितानां राज्ञां कन्या नोऽस्मांस् तेन रुद्धा ज्ञात्वा ततो निर्मुच्य संसृतेर् विमोक्षो यस्मात् तत्-पादाम्बुजम् अनुस्मरन्तीर् नः परिणायोदवहत् । आप्त-कामोऽपि यः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महिष्यः शतोत्तर-षोडश-सहस्र-सङ्ख्याकाः । अथ भौम-मरणानन्तरम् । यः श्रुत्या **आप्त-**काम-पदेनोक्तः परमात्मा सो\ऽप्य् अस्मत्-पूर्व-पुण्य-सफलीकरणार्थं परिणीतवान् न कामुकत्वेनेति भावः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भौमं भूमेः पुत्रम् इत्य् अवध्यता सूचिता । तम् अपि युधि नितरां हत्वा । नि-शब्दार्थम् एवाभिव्यञ्जयति—सगणम् इति । यद् वा, नि-शब्देन पुनरावृत्ति-मोक्षोऽभिप्रेतः । पुनर् जन्माभावेन मरण-समाप्तेः । तद्-वधश् चास्माकम् उद्धारार्थम् एवेत्य् आहुः—तेनेति । अथ अस्माद् एव कारणान् निहत्य। यद् वा, अथानन्तरं सद्य एव निर्मुच्येत्य् अन्वयः । निःशेषेण मुक्त्वा श्री-द्वारकायां प्रस्थापनात् । ज्ञाने निर्मोके वा हेतुः—पादाम्बुजं तस्यानु निरन्तरं स्मरन्तीः । संसृति-विमोक्षम् इति संसार-महा-दुःखतोऽपि विशेषेण मोक्षयति । किं पुनस् तद्-रोधाद् इति भावः । आप्त-कामोऽपि परिणिनायेति परम-कारुण्यादिकम् उक्तम् । अन्यत् तैर् व्याख्यातम् । यद् वा, आप्त-कामोऽपि यः परिणिनाय, तं निर्मुच्य, अत एव न काम् अपि सम्पदम् इच्छामः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भौमम् इति त्रिकम् । यो\ऽस्मान् परिणिनाय एतस्येति तृतीयेनान्वयः । भौमं भूमेः पुत्रम् इत्य् अवध्यता सूचिता तम् अपि युधि नितरां हत्वा शब्दार्थाम् एवाभि-व्यञ्जयन्ति-सगणम् इति ।
ननु भूमेः पुत्रं कुतो हतवान्? तत्राहुर्नो\ऽस्मान् तेन रुद्धाः ज्ञात्वेति कारणान्तरं तु गौणम् एवेति भावः । तत्र हेतुः—अथ भौमवधानन्तरम् एव निर्मुच्य रोधान्-निःशेषेण मुक्त्वा द्वारकायां प्रस्थानात् ज्ञानान्तरेभ्यो वैशिष्ट्यं दर्शयन्त्यो निर्मोकहेतुम् आहुः—पादाम्बुजं तस्यानु निरन्तरं स्मरन्तीः संसृति-विमोक्षम् इति संसार-महा-दुःखतो\ऽपि विशेषेण मोचयति किम्-पुनस् तद्-रोधाद् इत्य् अर्थः । आप्तकामो\ऽपि परिणिनायेति तत्रापि परम-कारुण्यादिकम् उक्तम् । अन्यत्-तैः । यद् वा, आप्तकामो\ऽपि यः
परिणिनाय कुतः संसृति-विमोक्षम् अपि निर्मोक्षम् अपि निर्मुच्य किम् उतान्यम् आमुष्मिकम् ऐहिकं वा स्वार्थं निर्मुच्य पादाम्बुजम् एव स्मरतीः अत एव न काम् अपि सम्पदम् इच्छामः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षितिजये दिग्-विजये जितानां राज्ञां कन्या नोऽस्मान् रुद्धा ज्ञात्वा रोधान् निर्मुच्य मोचयित्वा आप्त-कामोऽपि यः परिणिनाय परिणीय स्व-भार्याश् चकार, एतस्य पाद-रजः कामयामहे इति तृतीयेणान्वयः । परिणये हेतुः—पादाम्बुजम् अनुस्मरन्ती संसृतेर् अपि विमोक्षो यस्मात् तद् इति रोधान् निर्मोचने हेतुः ॥४०॥
॥ १०.८३.४१-४३ ॥
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥
कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः ॥
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न वयम् इति । साम्राज्यादि न कामयामहे, किन्तु एतस्य श्रीमत्-पाद-रजो मूर्ध्ना वोढुं कामयामह इति ।
ननु तस्य गृहिण्यो यूयं सर्व-सम्पद्-भाजः । किम् एवं कामयध्वं ? अत आह—हे साध्वि! साम्राज्यं सार्वभौम-पदम् । स्वाराज्यम् ऐन्द्रं पदम् । भौज्यं तद्-उभय-भोग-भाक्त्वम् । विविधं राजत इति विराट्, तस्य भावो वैराज्यम्, अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ठ्यं ब्रह्म-पदम् । आनन्त्यं मोक्षम् । हरेः पदं तत्-सालोक्यादि । न तु कामयामहे इति । यद् वा, बह्व्-ऋच-ब्राह्मणोक्त-क्रमेण प्राग्-आदि-दिक्-चतुष्टयाधिपत्यानि साम्राज्य-भौज्य-स्वाराज्य-वैराज्यानि व्याख्येयानि ॥४१॥
तत् किं तत्-पद-रज एव काम्यते ? अत आहुः—श्रियः कुच-कुङ्कुम-गन्धाढ्यम् इति ब्रह्मादि-सेव्यया लक्ष्म्यापि सेवितत्वाद् इति भावः ॥४२॥
ननु तर्ह्य् अतिदुर्लभत्वात् किं तद्-वाञ्छया ? अत आहुः—व्रज-स्त्रिय इति । यद् यथा । गावो गाः । महात्मनोऽपि गाश् चारयतः । पाद-स्पर्शं च गोपा यथा वाञ्छन्ति, तद्वत् । तत्-पराणां सुलभ इति भावः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वयम् अपि तत्-**पाद-**रजो-भजनम् अन्तरेण नान्यत्-**पदम्-**आशास्मह इत्य् आहुः—न वयम् इति । द्वयोर् अन्वयः । एतस्य श्री-कृष्णस्य । अत्राशङ्कते—नन्व् इति । तद् उभय-भोग-भाक्त्वं सार्वभौमेन्द्र-भोग-सेवित्व-रूपम् । इत्य् अर्थ इति—अणिमादि-सिद्धिम् । अत एव विविधं राजमानत्वाद् इति भावः । तत्-सालोक्यादि तत्-समान-लोक-वासादि । आदिना सामीप्यादि-ग्रहः । लोकाद् वेदो गरीयान् इति न्यायमाश्र् इत्य् आह—यद् वा इति ॥४१॥
किं कुतः ? इति भाव इति--या सर्व-सेव्या रमा तया तत् सेव्यते\ऽतो\ऽस्माकम् अपि तत्रैव रतिर् इत्य् आहुः-श्रिय इति ॥४२॥
अत्राशङ्क्य समाधत्ते—नन्व् इति । इति भाव इति—अन्यैः प्रबलैर् अपि यन् नाप्यते, तत् तद्-भक्तैर् दुर्बलैर् अपि प्राप्यते, भक्त-वात्सल्येन हरिर् निज-जनानाम् असुलभम् अपि सुलभं करोतीति तात्पर्यम् । पादैः स्पृश्यते इति पाद-स्पर्शं पाद-रज एव इत्य् अर्थः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न वयं साध्वीत्य्-आदि—अथ किं कामयध्वे तत्राह—कामयामह इत्य्-आदि । एतस्य श्री-मत्-पाद-रजः वोढुम् ॥४१-४२॥
तत् तु ऊह्यत एव, तत् किम् उच्यते? तत्राह—व्रज-स्त्रियो यद् वाञ्छन्तीत्य्-आदि । एताः पुरो-वर्तिन्यः श्री-व्रज-स्त्रियः यद् यथा वाञ्छन्ति, यत् अनिर्वचनीयं वा, एतास् तु तत्राधिकारिण्यः । एवं चेत् पुलिन्द्यो यद् वाञ्छन्ति, ताश् च तत्रानुरागिण्यः सौभाग्यवत्य एव । एवं चेत् तृण-वीरुधो यद् वाञ्छन्ति, तथा-भूता वयम् अपि वाञ्छामः । महात्मनः कीदृशस्य ? गावश् चारयत इत्य् अर्थः । यद् वा, गावो वृन्दावन-भूमयः । किम्-भूतस्य चारयतः ? अर्थात् गावः, गावः धेनव इति वा । व्रज-स्त्री-पुलिन्दी-तृण-वीरुधो यद् वाञ्छन्ति, तद् एव वाञ्छाम इत्य् अर्थः । एतत् तु श्री-वृन्दावन-विहरणम् एव । व्रज**-**स्त्री-प्रभृतयः कीदृश्यः? अगोपाः न विद्यते गोपो गोपनं यासां सर्वत्र प्रसिद्धाः । [एतेनासां] द्वारका-विलासां वृन्दावन-विलास एवाभिमत इति तात्पर्यम् ॥४३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किन्तु केवलं तद्-दास्यम् एवेत्य् आहुः—नेति द्वाभ्याम् । हे साध्वीति पातिव्रत्य-निष्ठयैव तत् त्वया साधु बुध्यत एवेति भावाह् । उत अपि । वैराज्यम् अपि । हरेः सर्व-मनोहरस्येति तत्-पदस्यापि सर्वथा सर्व-मनोहरत्वम् अभिप्रेतम् । साम्राज्यादीनां यथोत्तरं श्रैष्ठ्यम् ॥४१॥
एतस्य गदा-भृत इति नरक-वधार्थं गदया निर्बिभेदाद्रीन् [भा।पु। १०.५९.५] इति । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः इत्य् अनेन चोक्त-गदाधरत्वाभि-प्रायेण । यद् वा, गदं निजानुजम् आ सम्यग् बिभर्ति परिपालयतीति तथा तस्येति बन्धु-वात्सल्यादिकम् अभिप्रेतम् । श्री-ः सर्वा सम्पत्तिः, तद्वतः पादस्यैकस्य रज एकम् अपि । श्री-मद् इति रजसो विशेषणं वा । अतस् तत्-प्राप्त्या स्वत एव सर्व-सम्पत्-प्राप्तिः स्याद् इति । ततोऽन्यद् बाह्यं किं काम्यम् इति भावः । तद् एव प्रमाणयन्ति—श्रिय इति । भावस् तैर् व्यञ्जित एव । किं च, अनेन रजसो रस-विशेष-सम्बन्धेन माहात्म्य-विशेषस् तेन च भक्त-वर्ग-प्राप्याद् विशेषोऽप्य् अभिप्रेतः । मूर्ध्ना वोढुम् इति च परम-भक्त्या दासीत्वाभिप्रायेणैव । पुलिन्द्यस् तृणानि वीरुधश् च श्री-वृन्दावन-वर्तिन्यः । तत्र पुलिन्दीनां तद्-वाञ्छा, पूर्णाः पुलिन्द्यः [भा।पु। १०.२१.१७] इति प्राग् उक्तेः । तृण-वीरुधश् च—वन-लतास् तरवः [भा।पु। १०.३५.९] इत्य् आद्य् उक्तेर् अनुसाराद् व्रज-स्त्र्य्-आदीनां यथा-पूर्वं प्रेम्णा तद्-वाञ्छायां श्रैष्ठ्यम् । किं वक्तवयं ? व्रज-स्त्रियो वाञ्छन्तीति पुलिन्द्योऽपि वाञ्छन्तीत्य् एवं कैमुतिक-न्यायेन व्याख्येयम् । तत्र वीरुद्भ्योऽपि तृणानां श्रैष्ठ्यम् । गोचारणे तेषां तल्-लाभाधिक्यात् । अहो किं वक्तव्यं ! तास् तास् तद् वाञ्छन्तीति ।
गोपाः संवाहनाद्य्-अर्थं पाद-स्पर्शम् अपि वाञ्छन्तीत्य् आहुः—गाव इति । प्रेम्णा तासां तेषां च तत् सिध्येद् एवेत्य् आशयेन तद्-धेतुतया तस्य मधुर-लीलाम् आहुः—महात्मन ऐश्वर्येण सर्व-व्यापकस्यापि गाश् चारयत इति । यद् वा, गो-चारणे हेतुः—महात्मनो महा-भगवत इति । अन्यत् तैर् व्याख्यातम् ।
तत्र च, ननु तस्य गृहिण्यो यूयम्, सर्व-सम्पद्-भाजः किम् एवं कामयध्व इत्य् अत्र तद् अन्यत्रेच्छा-राहित्य्-आद् इति । किं वा, सम्पदं काम् अपि नेच्छाम इति परिहारो द्रष्टव्यः । तत् किं तत्-पाद-रज एव काम्यत इति च तद्-एक-कामना-हेतु-व्याख्यार्थम् इत्य् एवं पौनरुक्त्यं समाधेयम् इति । अथवा, श्रियः श्री-रुक्मिण्या लक्ष्म्या एव वा, कुच-कुङ्कुमानां गन्धेनाढ्यम् अपि तया सह सापत्न्याङ्गीकारेणापि कामयामह इत्य् अर्थः । तत्र हेतुम् आहुः—व्रजेति । सदा प्राप्तुम् इच्छन्ति—नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य् आद्य् उद्धव-गीतानुसारेण लक्ष्मीतोऽप्य् अधिक-प्रसाद-भाजां श्री-गोपीनां वाञ्छया तन्-माहात्म्य-विशेषाद् इति भावः ।
ननु गाढ-प्रेम-माधुरी-विशेष-शालिन्यस् ता एव तद्-योग्याः । यूयं तु तद्-अभावात् कथं तद् वाञ्छथ ? तत्राहुः—पुलिन्द्य इत्य् आदि । पुलिन्द्य्-आदयो गोपाश् चेति दृष्टान्ततयैव तत्-कारुण्येन तद् घटेतापीति भावः । कारुण्यम् एवाहुः—महान् अपरिच्छिन्नः आत्मा कारुण्यादि-स्वभावो यस्य तस्य । अत एव गावो गाश् चारयत इति । सर्वस्व-प्रकटनं सूचितम् एव । श्री-द्रौपदी चान्ते सन्तोषिता । अन्यत् समानम् ।
अथवा, साम्राज्यादिकं न कामयामहे, यद् यस्माद् व्रज-स्त्रियो लक्ष्मीतोऽधिक-सौभाग्यवत्योऽप्य् एतस्य पाद-रज एव वाञ्छन्तीत्य् अन्वयः । अतो वृन्दावने गाश् चारयतः सत एतस्य ता इव पाद-स्पर्शम् एव कामयामह इत्य् अर्थः ।
ननु परम-दुर्लभेऽर्थे कामो नोचितः ? सत्यम् । दुर्लभम् अपि पुलिन्द्य्-आदय इव कामयामह इत्य् आहुः—पुलिन्द्य इति । यथाधुना श्री-वृन्दावन-स्थितानाम् अपि तासां गोपानां चैषां सुदुर्लभेऽपि वाञ्छा भवति, तद्वद् इत्य् अर्थः । विचारे सत्य् अपि तत्-कामोऽसौ सुदुर्निवार इति भावः ।
यद् वा, यद् यस्माद् एतस्य गाश् चारयतः सतः पाद-स्पर्शम् एव व्रज-स्त्रियो वाञ्छन्ति । अतः स्वाराज्यादिकं न कामयामहे, किन्तु गावश् चारयतः सतः पाद-रज एव कामयामहे । अन्यत् समानम् । विवाह--महा-सौभाग्य-भाजाम् अपि तासां भक्ति-विशेषेण विनय-विभूत्या पत्न्य्-अभिमान-त्यागेन नित्य-दासीत्व-मात्रापेक्षया तत्-तद्-उक्तिर् ज्ञेयेति दिक् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किन्तु केवलं तद्-दास्यम् एवेत्य् आहुः—नेति द्वाभ्याम् । हे साध्वीति पातिव्रत्य-निष्ठयैतत् त्वया साधु बुध्यत एवेति भावः । भौज्यम् इति चतुर्थ-सन्ध्य्-अक्षर-मध्य एव पाठो गम्यते, भुनक्तीति भुक्, तस्य भावो भौज्यम् इत्य् अर्थात् । तथैव बह्व्-ऋच्-ब्राह्मण-पाठाच् च । अत अपि वैराग्यम् अपि साम्राज्यादीनां यथोत्तरं श्रैष्ठ्यम् एतस्य गदाभृत इति नरक-वधार्थं गदया निर्बिभेदाद्रीन् इति, प्राकार-गदया गुर्व्या-निर्बिभेद गदाधरः [भा।पु। १०.५९.४-५] इत्य् अनेन चोक्त**-**गदाधरत्वाभिप्रायेण । श्रीः सर्वा सम्पत्तिस् तद्-वृतः पादस्यैकस्य रज एकम् अपि । श्रीमद् इति रजसो\ऽपि विशेषणं वा तस्य सर्वोत्तमत्वं प्रमाणयन्ति—श्रिय इति ॥४१-४२॥
ननु श्रीः सर्व-स्त्री-जातितः श्रेष्ठा तत्-प्राप्यं कथं प्राप्स्यथ ? उच्यते—प्रेम-माहात्म्येनैव तत्-प्राप्तिः, न तु जात्यादि-माहात्म्येनेत्य् आहुः—पुलिन्द्य-तृण-वीरुधश् च श्री-वृन्दावन-वर्तिन्यः । तत्र पुलिन्दीनां तद्-वाञ्छा पूर्णाः पुलिन्द्य [१०.२१.१७] इति प्राग्-उक्तेः । तृण-वीरुधां च वन-लतास् तरव [१०.३५.९]100 इत्य्-आद्य्-उक्तेः । व्रज-स्त्र्य्-आदीनां यथा-पूर्वं प्रेम्णा तद्-वाञ्छायाः श्रैष्ठ्यम् इति वक्तव्यम् । व्रज-स्त्रियो वाञ्छन्तीति पुलिन्द्यो\ऽपि वाञ्छन्तीत्य् एवं कैमुतिक-न्यायेन व्याख्येयं । तत्र वीरुद्भ्यो हि तृणानां श्रैष्ठ्यं, तेषां तत्-त्वस्य लीला-भाधिक्यात् । अहो किं वक्तव्यं ? तास् तास् तद् वाञ्छन्तीति गोपाः संवाहनाद्य्-अर्थं पाद-स्पर्शं वाञ्छन्तीत्य् आहुः--गाव इति । महात्मन ऐश्वर्येण सर्व-व्यापकस्यापि गाश् चारयत इति तत्-कारुण्यम् एव तत्र हेतुर् इत्य् अर्थः । अन्यत् तैः ।
तत्र च, ननु तस्य गृहिण्यो यूयं सर्व-सम्पद्-भाजः । किम् एव कामयध्व इत्य् अत्र तद् अन्यत्रेच्छा-राहित्याद् इति परिहारो द्रष्टव्यः । तत् किं ? तत्-**पाद-**रज एव काम्यत इति यद्य् एवं किम् अपि न काम्यते तर्हि तद्-रजो\ऽपि किम् इति काम्यत इत्य् अर्थः । अथवा, आनन्त्यम् ते ये शतम् [तै।उ। २.८.३] इत्य्-आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यानन्दस्य गणनायाः परां काष्ठां दर्शयित्वा पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तै।उ। २.८] इत्य् अनेन यद् आनन्दस्यानन्त्यं दर्शितं तद् अपीत्य् अर्थः । किं बहुना ? हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत्, तद् एतत् सर्वम् अधीनम् अपि न कामयामहे नाधीनं कर्तुम् इच्छाम इत्य् अर्थः ।
किम् अधिकं लब्धुं कामयध्वे ? तत्राहुः—एतस्य अस्मत्-पतित्वेन सर्वत्र तस्य गदाभृतः श्रीमत्-पाद-रज एव तावन् मूर्ध्ना वोढुं कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेनाढ्यं, तद्-गन्धेन प्राप्त-सम्पद्-विशेषं तत् पुनर् अधिकं कामयामह इत्य् अर्थः ।
ननु श्री-पतेर् एव पदं श्री-कुच-कुङ्कुम-गन्धाढ्यं, तत् तु भवत्यस् त्यक्तवत्य एव यदि श्रीर् अत्र रुक्मिण्य् अभिप्रेयते, तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तावद् विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यं, तस्माद् इति गम्यते । ततस् तद् अवबोधनाय पुनर् विशिष्यतां, तत्राहुः—**व्रज-**स्त्रिय इति—
पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग- > श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । > तद्-दर्शन-स्मर-रुजस् तृण-रुषितेन > लिम्पन्त्य आनन-कुचेषु जहुस् तदाधिम् ॥ [भा।पु। १०.२१.१७]
इति स्व-वाक्याद्य्-अनुसारेण व्रज-स्त्रियो यद् वाञ्छन्ति तद्-वाञ्छुर् इत्य् अर्थः । वर्तमान-प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । तत्र पुलिन्द्यादि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया तृण-वीरुधो दुर्वाद्याः आसां वाञ्छा केवलेन हि भावेन गोप्यो गावो मृगाः [भा।पु। ११.२१.८] । इति-दृष्टेः गावो गाश् चरयतश् चारयन्तो गोपा इत्य् अन्ते निर्देशस् तु तेषां केषाञ्चित् प्रिय-सखादीनां तद्-अनुमोदन-कारित्वेऽपि पुरुषत्वात् तत्रायोग्यत्व-विवक्षया । अयं भावः—श्रीत्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः—
कस्यानुभावो\ऽस्य न देव विद्महे > तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । > यद्-वाञ्छया श्रीर् ललनाचरत् तपो > विहाय कामान् सुचिरं धृत-व्रता ॥ [भा।पु। १०.१६.३६]
इति नाग-पत्नीनाम् उक्तेः । न च रुक्मिणीत्वेन प्रसिद्धायाः श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात्, न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता, नायं श्रियो\ऽङ्ग उ नितान्त-रतेः प्रसादः । [भा।पु। १०। ४७.६०] इत्य्-आदिना । ततो\ऽपि परमाधिक्य-श्रवणात् तस्मात्—
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । [स्क।पु। ५.३.१९७.७६, > मत्स्य।पु।, प।पु। ५.७७.३७] इति ।
मात्स्य-स्कान्दादि निर्णीय—
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता । > सर्व-लक्ष्मीमयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।
बृहद्-गौतमीय-दृष्ट्या च या तासु राधात्वे प्रसिद्धा सर्वतो विलक्षणा श्रीर् विराजते, ताम् उद्दिश्यैव तासां तद् इदं वाक्यं यथा—
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । > यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ [भा।पु। > १०.३०.२८] इति ।
अग्र्येणेत्य् उपगतः प्रिययेहेत्य्-आदि द्वयं च ततश् च तासां यथा तत्र स्पृहास्पदता तथास्माकं चेति तद् एवं तादृश-प्रेम-स्फूर्तिमयतद् गन्धाढ्य् अतायाः सम्प्रत्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्रज एव वाञ्छन्ति अपि तु तादृशं पाद-स्पर्शं च वाञ्छन्ति ततो वयम् अपि तं च कामयामह इत्य् अर्थः । यद् वा, तद्-रजस एव विशेषणं **पाद-**स्पर्शम् इति तद् अव्यभिचारि-फलत्वात्-तद् अभिन्नम् एव इत्य् अर्थः । एतस्य तस्य कीदृशस्य महान् सर्वत्र स्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाशमयः स्वभावो यस्य तादृशस्य—तत्रापि शुशुभे ताभिर् भगवान् देवकीसुतः [भा।पु। १०.३३.६] इति शुकोक्तेः ॥४३॥
जीव-गोस्वामी (प्रीति-सन्दर्भः १०८) : तत्र स्वेभ्यः षोडश-सहस्र-सङ्ख्याभ्यः श्री-यदु-देवस्य पत्नीभ्यस् तथाष्टभ्यः पट्ट-महीषिभ्यश् च तासां माहात्म्यं वदन्त्यः परम-काष्ठापन्नतया श्री-राधिका-देव्या आहुः—न वयम् इति त्रिभिः ।
हे साध्वि, साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं पदम् । स्वाराज्यम् ऐन्द्रं पदम् । भोज्यं तद्-उभय-भोग-भाक्त्वम्, भुनक्तीति भुक् तस्य भाव इति । विविधं राजत इति विराट्, तस्य भावो वैराज्यम्, अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ठ्यं ब्रह्म-पदम् । आनन्त्यं ये ते शतं [तै।उ। २.८.२] इत्य् आदि-श्रुति-रीत्या मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यस्य गणनायाः परां काष्ठां दर्शयित्वा, पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तै।उ। २.४.१] इत्य् अनेन यद् आनन्दस्यानन्त्यं दर्शितं, तद् अपीत्य् अर्थः । किं बहुना, हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत्, तद् एतद् अपि न कामयामहे । नाधीनं कर्तुम् इच्छाम इत्य् अर्थः ।
तर्हि किम् अधिकं लब्धुं कामयध्वे ? न, तत्राहुः—एतस्यास्मत्-पतित्वेन सर्व-विज्ञातस्य गदा-भृतः श्री-मत्-पाद-रज एव तावन् मूर्ध्ना वोढुं कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेनाढ्यं तद्-गन्धेन प्राप्त-सम्पद्-विशेषं तत् पुनर् अधिकं कामयामह इत्य् अर्थः ।
ननु, श्री-पतेर् एव पदं श्री-कुङ्कुम-गन्धाढ्यं तत्-सामीप्यादि-त्यागात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि च श्री-र् अत्र रुकुम्ण्य् अभिप्रेयते तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्-विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यं तत् स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः व्रज-स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [भा।पु। १०.२१.१७] इत्य् आदि स्व-वाक्याद्य्-अनुसारेण व्रज-स्त्र्य्-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान-प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम् अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो दूर्वाद्याः । आसां तादृग्-अनुभवश् च तत्-कुच-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्-पाद-प्रभावाद् एवेति भावः । गावो गाः । चारयतश् चारयन्तः । गोपा इत्य् अन्ते निर्देशस् तु केषाञ्चित् प्रिय-नर्म-सखादीनां तद्-अनुमोदन-कारित्वेऽपि पुरुषत्वात् तत्रायोग्यता-विवक्षया । अयं भावः—श्री-त्वेन प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्-वाञ्छया श्री-र् [भा।पु। १०.१६.३६] इति नाग-पत्नीनां, या वै श्रियार्चितं [भा।पु। १०.४७.६२] इत्य् उद्धवस्याप्य् उक्तेः ।
न च रुक्मिणीत्वेन प्रसिद्धायाः श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता—नायं श्रियोऽङ्ग [भा।पु। १०.४७.६०] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने [स्कन्दप् व्।३.१९७.७६, मत्स्यप्, पद्मप् ५.७७.३७] इति मात्स्यानुसारेण रुक्मिण्या सह पठिता । शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे।सू। १.१.३०] इति न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहङ्ग्रहोपासना-शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्-लक्ष्मीः ।
तथा देवी कृष्णमयी प्रोक्ता राधिका इत्य्-आदि-बृहद्-गौतमीयानुसारेण, राधया माधवो देवो माधवेनैव राधिका [र्क्-परिशिष्ट] कृष्णस् १८९ (प्११३-४); प्रीतिस् १०८; र्कद् ९२+, १२९; ब्स्च् ५.४ इत्य्-आदि-ऋक्-परिशिष्टानुसारेण च, तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्री-र् विराजते, ताम् उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा च—अनयाराधितो नूनं भगवान् [भा।पु। १०.३०.२८] इत्य्-आदि, अप्य् एणपत्न्य्-उपगत [भा।पु। १०.३०.११] इत्य्-आदि-द्वयं च । ततश् च तासां यथा तत्र स्पृहा-स्पन्दता, तथास्माकं चेति ।
तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अप्य् अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव वाञ्छन्ति, अपि तु तादृश-पाद-स्पर्शं च । अतो वयम् अपि तं कामयामह इत्य् अर्थः । यद् वा तद्-रजस एव विशेषणं पाद-स्पर्शम् इति । तद्-अव्यभिचारि-फलत्वाद् अभिन्नम् एवेत्य् अर्थः
एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर् भगवान् [भा।पु। १०.३३.६] इति श्री-शुकोक्तेः ॥४१-४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न वयम् इति द्वयम् ॥४१-४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न वयम् इत्य् आदि । हे साध्वि ! वयं षोडश-सहस्राणि, साम्राज्यं साम्राज्य-लक्ष्मी-भारम् । एवं स्वाराज्यम् अपि भोज्यादि च । किं बहुना ? आनन्त्यं हरेः पदं वा । तर्हि किं वाञ्छथेत्य् आहुः—कामयामह इत्य् आदि । एतस्य पाद-रजः कामयामहे । कीदृशं ? श्रियः कुच-कुङ्कुम-गन्धाढ्यम् । किं कर्तुं ? मूर्ध्ना वोढुम् ॥४१-४२॥
ननु, कथं नोह्यते ? तत् तु सुलभम् एव भवतीनाम्, तत् किं कामयामह इत्य् उच्यते ? तत्राह—व्रज-स्त्रिय इत्य् आदि । व्रज-स्त्रियो यद् वाञ्छन्ति, यथा व्रज-स्त्रियो महात्मनोऽस्य पाद-स्पर्शं वाञ्छन्ति, तथा वाञ्छाम इत्य् अर्थः ।
ननु, तासां सौभाग्यम् अन्यद् एव, तत् कथम् अन्यास्यां भवेद् इत्य् आशङ्क्याहुः—पुलिन्द्य इत्य् आदि । ननु, वृन्दावन-सम्बन्धात् ता अपि सौभाग्यवत्य इत्य् आहुः—तृण-वीरुधः । तृण-वीरुद्त्-सामान्येनापि तत्रापि भूत्वा तद् वाञ्छाम इत्य् अर्थः । महात्मनः कीदृशस्य ? गावश् चारयतः, गाः पालयतः । सर्वाः कीदृश्यः ? अगोपाः—गोपनं गोपः, न विद्यते गोपो यासां, स्व-प्रसिद्धा इत्य् अर्थः । तेनासां द्वारका-विलासाद् वृन्दावन-विलसितम् एवातिप्रिय इति मन्तव्यम् ॥४३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यद्य् एवं तर्हि स्व-पादाम्बुज-भक्ताभ्यो भवतीभ्यः सर्वान् एव कामान् कृष्णो दास्यतीति ? तत्राहुः—न वयम् इति । साम्राज्यं सार्वभौमं पदं स्वः स्वर्गे राजतेइति स्वराट्, तस्य भावः स्वाराज्यम् ऐन्द्रं पदम् । भोज्यं भुङ्क्ते इति भुक् तस्य भावो भोज्यं यथेष्ट-सर्व-विषय-भोग-भाक्त्वं विविधं राजत इति विराट् तस्य भावो वैराज्यम् अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ठ्यं ब्रह्म-पदम्**,** आनन्त्यं मोक्षं, हरेः पदं सालोक्यादिकं न कामयामहे ।
तर्हि किं कामयध्वे ? एतस्य कृष्णस्य श्रीमत्-पाद-रज एव तत्रापि श्रियः कुच-कुङ्कुम-गन्धेनाढ्यम् । अत्र श्री-पदेन प्रसिद्धा नारायण-कान्ता लक्ष्मीर् न वचनीया । तस्याः खलु—यद्-वाञ्छया श्री-र् ललनाचरत् तपः [भा।पु। १०.१६.३६] इति नागपत्न्यादि-वाक्यात् कृष्णे कामेनैव श्रूयते, नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसाद [भा।पु। १०.४७.५८] इत्य् उद्धवोक्तेर् न तु प्राप्तिः ॥४१-४२॥
न श्री-पदेन रुक्मिण्य् उच्यत इति तत्राहुः—व्रज-स्त्रियो यद् वाञ्छन्तीति। कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः । नरेन्द्र-कन्या उद्वाह्या [भा।पु। १०.४७.४५] इति व्रज-स्त्रीणाम् उक्तिः, तस्यां तासां सपत्नी-भावाद् असूयैव, न तु तत्-सम्बन्धवती तस्मिन् वाञ्छेति । तस्मात्—
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । > सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ [बृ।गौ।तं।]
इति बृहद्-गौतमीय-दृष्ट्या श्री-पदेन श्री-राधैवोच्यते तस्याः कुच-कुङ्कुमाढ्यं पाद-रजो व्रज-स्त्रियस् तत्-सख्यः सुहृदश् च वाञ्छन्त्य् एव तृण-वीरुधः सकाशात् पुलिन्द्यश् च वाञ्छन्ति । यद् उक्तं—पूर्णाः पुलिन्द्य [भा।पु। १०.२१.१७] इत्य् अत्र तृण-रूषितेन इति गावः गाश् चारयतो महात्मनः एतस्य गोपाः प्रिय-नर्म-सखाः केचित् सुबलादयश् च तत्-सखी-भाव-भावि-मतयश् च वाञ्छन्ति न केवलं तादृशं तद् एव वाञ्छन्ति, अपि तु तादृशं पाद-स्पर्शं च वाञ्छन्ति । अतो वयम् अपि तं च कामयामहे इत्य् अर्थः ।
यद् वा, रजस एव विशेषणं पाद-स्पर्शम् इति । अत्रासाम् ईदृशी कामना तद्-दिनम् आरभ्याभवत्, यस्मिन् दिने प्रेम-रस-प्रसङ्गत उद्धवः कृष्णस्य सन्निधौ रहसि स्त्री-जन-महा-सदसि श्री-राधाया रूप-गुण-प्रेम-सौभाग्य-माधुर्य-परमोत्कर्षं श्री-कृष्ण-वशीकारकम् अवर्णयत् । तत्राष्टानां रुक्मिण्य्-आदीनां स्वेषां सौभाग्योत्कर्षं मानयन्तीनां तत्र सा कमना नाभूत्, षोडश-सहस्र-स्त्रीणां तु ताभ्यो न्यून-सौभाग्यानाम् अभूद् इत्य् अतो मौषल्यान्ते षोडश-सहस्र-गोप-वेश-धरेण कृष्णेनैता अध्वन्य् अर्जुनाद् आच्छिद्य गोकुलम् आनेष्यन्ते इति केचिद् आहुः ॥४३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्र्यशीतितम एषोऽत्र दशमेऽजनि सङ्गतः ॥*॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे द्रौपदी-कृष्ण-महिषी-संवादो
नाम त्र्यशीतितमोऽध्यायः ।
॥८३॥
(१०.८४)
ऋषि-गण-कृता भगवत्-स्तुतिः, वसुदेव-यज्ञोत्सवः, बन्धूनां प्रस्थापनादिकं च ।
॥ १०.८४.१ ॥
श्री-शुक उवाच—
श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी
माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः ।
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्भिर् अधिकाशीतितमे मुनि-समागमे ।
वसुदेव-मखोत्साह बन्धु-प्रस्थापनादिकम् ॥
सुबल-पुत्री गान्धारी । माधवी सुभद्रा । क्षितिपानां रज्ञां पत्न्यः स्व-गोप्यः कृष्ण-भक्ता गो101प्यः । विसिस्म्युर् विस्मयं चक्रुः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वसुदेव-मखोत्साहोत्तरं बन्धूनां नन्दादीनां प्रस्थापनादिकम् । आदिना स्व-प्रस्थानादि-ग्रहः । हरेर् ज्ञानि-प्रियत्वं यज्ञस्य तद् एक-विषयत्वं तत्-प्रीतेर् मुक्ति-साधनत्वं पुत्रादि-स्नेहस्य संसार-मूलत्वं चात्राध्याये कथयति । तत्र व्यासादि-मुनीनाम् आगमनं वक्तुं पृथादि-स्त्रीणां सन्तोषोद्रेकम् आह—श्रुत्वेति । स्व-शब्देन गोपीषु हरेः स्नेहोद्रेकं वक्ति मुनिः । प्रणयानुबन्धं कृष्ण-भार्याणाम् इति शेषः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उत स्व-गोप्यः यथार्थं ज्ञात्वा । श्री-शुको वदति—स्वाः स्वकीयाः गोप्यस् तत्-तत्-कथा-श्रवणेनाति-विस्मिता बभूवुः ॥१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ-शब्दद्वयं विस्मये अत्याश्चार्या । किं वा, चार्थे, उक्तसमुच्चये । उत अपि श्री-गोप्यो\ऽपि अनिर्वचनीय-प्रेमवत्यस् ता अपि विसिस्म्युः, किं नः पृथाद्या इत्य् आसां यथोत्तरं विस्मय-निवारके श्री-भगवत्-तत्त्वज्ञाने न्यूनतया विस्मये यथोत्तरम् आधिक्यं कैमुतिक-न्यायेन ख्याख्येयम् । तत्र च सर्वाभ्यः श्री-गोपीनां तत्त्वज्ञाने न्यूनता प्रेम-भरेण तद् आच्छादनाद् इति स्पष्टम् एव । कृष्णे सर्व-चित्ताकर्षकाशेष-भगवत्ता-सार-प्रकटनार्थम् अवतीर्णे साक्षाद्-भगवति, अतो\ऽखिलानाम् आत्मनि प्रियतमे हरौ सर्व-मनोहरे चेति सर्वेषाम् अपि तस्मिन् सामान्येन प्रणयः सम्भावितः । किं वा, तासाम् एव सर्वासाम् असौ सूचितः तथापि प्रणयस्यानुबन्धं प्रवृत्तिं दार्ढ्यं वा श्री-महिषीणां सर्वासां श्रुत्वा सर्वा एव ताः किं वा, अन्याश् च सर्वाः स्त्रियो\ऽलमत्य् अर्थं विसिस्म्युः । अश्रूणां कला बुद्धिर् धारा वा तयाकुलाक्ष्यः सत्यः अद्भुत-रसोदय-स्वभावात् प्रेमोद्रेकाद् वा ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-प्रसङ्ग संश्लाघ्यम् उपसंहरति-श्रुत्वेति । श्रुत्वेत्य् अनेन याज्ञसेनीत्य् अस्यैव मुख्यो\ऽन्वयः पूर्व-प्रकरणे तस्या एव प्रस्तावात् प्रश्न-कर्त्रीत्वाच् च सुबल-पुत्र्यादीनां तु गौणः तासां नाम-मात्र-ग्रहणात् ततस् तासां श्रवणं परम्परयैव ज्ञेयम्, न तु साक्षात्-तासाम् आग्रे तस्याः स्वातन्त्र्यस्य तादृश-विनोद-प्रस्तावस्य पट्ट-महिषीभिः स्वयं तादृश-कथनस्य चायोग्यत्वात् एवम् अपि प्रथमं पृथादीनाम् एवोपादानं गुरुत्वाद् एव याज्ञसेनीमाधवीत्य् अनयोर् उभयतो\ऽप्य् **अथ-**शब्द-निर्देशस् तयोस् तदानीं सहावस्थानं सूचयति पूर्व-परिच्छेद-सूचकत्वात् तद् अनन्तरं **क्षितिप-**पत्नीनाम् उपादानं यथा-सम्भवं तन्-निकटानिकटत्व-बोधनाय उत स्व-गोप्य इति सर्वतः पृथग् उपादानात्-तासां तु दूरत्वम् एव व्यज्यते । अतस् ताश् च परम्परयैव श्रुत्वेति ज्ञेयम् ।
तासु स्व-शब्द-व्यञ्जित-पूर्व-पूर्व-शतकृत्वः सङ्घुषित-महा-प्रेमवतीषु विद्यमानासु तासां कथाया एव परमाश्चर्यत्वेन प्रस्ताव्यत्वात् अथ-वा स्व-गोपी-शब्देन तत्-तत्-पालयित्र्यस् तत्-सख्यादय उच्यन्ते । अत एव स्वेति पृथग् उक्तिः तत्र पृथा-सुबल-पुत्र्योर् विस्मयः । पातिव्रत्यांशे याज्ञसेन्यास् तद् अंशे भावांशे च माधव्याः स्नेहांशे **क्षितिप-**पत्नीनां यथायोग्यं स्व-गोपीनां तु स्वीय-भाव-मर्म-स्पर्शि-भावत्वे प्रक्षान्तरे यथा स्वाश्रयं यतः प्रणयानुबन्ध-शब्दस्य तत्र तत्र तत्-तद् अंश-प्राधान्य-विवक्षा न केवलं विस्मयः कासाञ्चित् प्रेम-सामान्यांश-स्पर्शेन कासाञ्चित् सजातीय-तद्-विशेषांश-स्पर्शेन च श्री-भगवद्-विषयक-प्रीत्युल्लासश् च जात इत्य् आह—**अलम् अश्रु-**कलाव् इति । अलम् अत्य् अर्थाः अश्रूणां यः कला धारा वाहिनों\ऽशाः ताभिर् आकुलाक्ष्यः ननु भवतु कासाञ्चित् प्रीति-मतीनां तादृशत्वं कथम् अन्यासाम् अपीत्य् आशङ्ख्याहुः—कृष्णे कर्षाकर्षक-स्वभावे यतः अखिलानां प्राकृताप्राकृतानाम् आत्मनि मूल-स्वरूपे हरौ रूप-गुणादिभिश् च सर्व-मनोहरेति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : श्रुत्वेत्य् अनेन याज्ञ-सेनीत्यस्यैव मुख्यो\ऽन्वयः । पूर्व-पूर्व-प्रकरणे तस्या एव प्रस्तावात् **सुबल-**पुत्रीनां गौणः तासां नाम-मात्रा-ग्रहणात् ततस् तासां श्रवणं परम्परयैव ज्ञेयम् । न तु साक्षात् तासाम् अपि तस्याः स्वातन्त्र्यस्य तादृश-विनोद-प्रदस्य प्रस्तावस्य पट्ट-महिषीभिः स्वयं तादृश-कथनस्य योग्यत्वात् स्व-गोप्यः तासां स्व-स्वरूप गोप्य इत्य् अर्थः ॥१-११॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : श्रुत्वेत्य्-आदि । उत स्व-गोप्य इति स्व-शब्दो बलराम-परिगृहीता गोप्यस् तदा तत्र नासन्न् इति मन्तव्यम् ॥१-१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुर्-युक्ताधिकाशीतितमे मुनि-कृष्ण-मिथः-स्तुतिः ॥
शौरेः प्रश्नो मखश् चातो नन्द-प्रस्थापनादिकम् ॥
सुबल-पुत्री गान्धारी याज्ञसेनी द्रौपदी माधवी सुभद्रा श्रुत्वेति । पृथागान्धार्यादीनां परम्परयैव श्रवणं न साक्षात् । तासाम् अग्रे द्रौपद्याः पट्ट-महिषीणां च स्वातन्त्र्येण तादृश-विनोद-वार्ता-प्रश्नोत्तर-कौतुकस्यानौचित्यात् तस्मात् द्रौपदी-सुभद्रयोर् एव ताभिः सहवयस्यभावेन तत्-तद् औचित्यात् साक्षात् श्रवणं गोपीनां तु ताभिः साजात्याभावाद् एव सहावस्थानाभावाद् अतिपरम्परयैव अत एव तत्रोत-शब्दो
विप्र-कर्षार्थ-ज्ञापनाय प्रयुक्तः । स्व-शब्द-प्रयोगात्तास्व् एव कृष्णस्य स्वान्तरङ्ग-बुद्ध्या प्रतिनिशमन्यालक्षितं परिष्वङ्गादि-विलासोऽस्यात्र तु कुरुक्षेत्रे तस्मिन् महा-तीर्थे ब्रह्म-चर्यस्थिति-प्रथैवेति ज्ञेयम् । विसिस्म्युर् इति अश्रु-कलाकुलाक्ष्य इति गोपीनां विस्मयो\ऽश्रुकला
तासां किञ्चित् स्व-सजातीय-भाव-दर्शनात् कृष्णस्य तत्-तच्-चरित्र-श्रवणाच् च न तु पट्ट-महिषीषु च गोपीनां कश्चिद् अनुराग इति ज्ञेयम् ॥१॥
॥ १०.८४.२ ॥
इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु ।
आ102ययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् उक्तरीत्या । तत्र **राम-कृष्ण-**समीपे ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवं श्री-भगवत्-प्रेमोदयेन सम्भाष्यमाणास्व् इति तथा नृभिः पुम्भिर् नृषु सम्भाष्यमाणेषु चेति परम-महोत्सवः सूचितः । अतस् तत्राजग्मुः । तत्रैव प्रयोजन-विशेषं चाह--कृष्णः सर्वथा सर्वचित्ताकर्षकः रामश् च
सर्व-लोक-रमणस् तयोर् दिदृक्षया साक्षाद्-दर्शनार्थम् ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नाना-कौतुके चात्र कौतुकान्तरम् आपतितम् इत्य् आह—इतीति । एतद्-विचित्र-प्रकारेण आजग्मुर् इत्य् अत्राययुर् इति क्वचित्-पाठः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृषु सम्भाष्यमाणेषु च ॥२-७॥
॥ १०.८४.३ ॥
द्वैपायनो नारदश् च च्यवनो देवलोऽसितः ।
विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ चार्थे ॥३-४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवत्-प्रियत्वादिनादौ निर्देश्यस्यापि श्री-नारदस्य श्री-द्वैपायनात् पश्चान्-निर्देशः श्री-शुकदेवस्य पितृत्वादिना तस्मिन् गौरवाधिक्याद् इति दिक् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुनीन् एव गणयति-त्रिकेण-तत्र द्वैपायनस्य प्राङ् निर्देशः पितृत्वादिना गौरवाधिक्यात् मुन्यन्तराणां क्रमस् त्व् आगमन-क्रमाद् एवेति गम्यते । भगवान् इति रामस्य विशेषणं दशावतार-मध्य-पाठाद् आदराधिक्येन द्वितादीनां ब्रह्म-पुत्रा इति विशेषणं ब्रह्म-पुत्रोत्पत्तावनुक्तत्वात् । यद् वा, ब्रह्म-पुत्राः सनकादयः । ब्रह्म-पुत्र इति पाठः क्वचित् । आदि-शब्दात् पराशर-मैत्रेय-वैशम्पायनादयः ॥३-५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४ ॥
रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः ।
पुलस्त्यः कश्यपोऽत्रिश् च मार्कण्डेयो बृहस्पतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् इति रामस्य भगवद् अवतारत्वात् द्वितादीनां ब्रह्मपुत्रा इति विशेषणं प्राक् श्री-ब्रह्म-पुत्रोत्पत्तावनुक्तत्वात् । यद् वा, ब्रह्म-पुत्राः सनकादयः तत्-हेत्यस्य परतो\ऽन्वयः । आदि-शब्दात् पराशर-मैत्रेय-पैल-वैशम्पायनादयः सर्व एव मुनयः सहसा सद्यः सम्भ्रमेण वा । प्रागासीना इति सहसोत्थाने योग्यतोक्ता । अतो नृपामात्यादयः केचिद् अनुपविष्टा एव स्थिता इति ज्ञेयम् । आदि-शब्दात् राज-पुरोहितादयश् च । अपि साक्षाज्-जगदीश्वरौ कृष्ण-रामाव् अपि प्रकर्षेण प्रक्तिविशेषेण दण्डवन्-निपातादिना नेमुः । यतो विश्वेन वन्दितान् ॥४-६॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.५ ॥
द्वितस् त्रितश् चैकतश् च ब्र103ह्म-पुत्रास् तथाङ्गिराः ।
अगस्त्यो याज्ञवल्क्यश् च वामदेवादयोऽपरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : द्वितत्रितैकताः सहोदराः । त्रितः कूपे\ऽवहितो देवान्हवत ऊतये इति श्रुतेः । तथा चार्थे । अपरे उक्तान्ये धौम्य-कृपादयः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी),
जीव-गोस्वामी (लघु-वैष्णव-तोषणी),क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.६ ॥
तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः ।
पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन् मुनीन् । प्राग् उत्थाय ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सहसा अतर्कितं शीघ्रम् एव इत्य् अर्थः । प्राग् आसीना इति यदि ते एते तेषाम् आगमनम् अश्रोष्यन् तदा नाशिष्यन्तैव प्रत्युताग्रे गत्वा स्वयम् आनयिष्यन्त चेति भावः । आदि-शब्दात् श्री-नन्दादयः पुरोहितादयश् च यतो विश्वेन वन्दितान् श्री-भगवतापि मानितत्वात् ॥६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.७ ॥
तान् आनर्चुर् यथा सर्वे सह-रामोऽच्युतोऽर्चयत् ।
स्वागतासन-माल्य-माल्य-धूपानुलेपनैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनर्चुर् अर्चितवन्तः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा-विधि अर्चयत् । अड्-आगमाभाव आर्षः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथान्ये सर्वे तथैव राम-सहितो\ऽच्युतः सर्वैश्वर्य-परिपूर्णो\ऽपि श्री-कृष्णः स्वागतादिभिर् एवार्चयन् सन् उवाचेति परेणान्वयः यतो भगवान् ब्रह्मण्यताद्य् अशेष-गुण-प्रकटनपर इत्य् अर्थः । यतो धर्म-गुप्तनुः धर्म-रक्षार्थम् अवतीर्ण इत्य् अर्थः । महतो\ऽपि यतवाचः । कुतः? अनुशृण्वतस् तत्-तद् उक्ति-श्रवणार्थम् इत्य् अर्थः । स्वागतादीनां भक्त्या सम्भ्रम-कृतत्वात् क्रमोल्लङ्घनं दीपादीनाम् अकरणं च ज्ञेयम् ।
यद् वा, भोजनापेक्ष्य-धूप-दीपादीनां भोजनाभावेन तद् अनुक्तिः । धूपस्त्व् अयं स्थानादि-सौरभ्यापेक्षयैव । एवं सर्वं सङ्गतम् एव ॥७-८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान् राम-सहितो\ऽच्युतः सर्वैश्वर्य-परिपूर्णो\ऽपि श्री-कृष्णः स्वागतादिभिर् आर्चयत् यथा येनार्चन-प्रकारेणैव सर्वे\ऽपि तान् आनर्चुः तस्य सर्व-मूल-रूपत्वात्-तद् अर्चनेनैव तद् अर्चनं सिद्धम् इत्य् अर्थः । अर्चयन्न् इति पाठे युग्मकम् । स्वागतादीनां स्वागमानुसारेणार्थिक-क्रम एवात्र ज्ञेयः ।
यद् वा । अर्चेयं व्यवहार-क्रमः । तत्र प्रथमतः स्वागतम् उपद्रवे जाते तेषां लोक-पालानां प्रथमतस् तस्मै प्रति कार्यत्वात् स्वागते जात एवासनदानार्हत्वात् आसनानन्तरम् एव पाद्यं प्रत्येक-गण्डूष-प्रत्य् एक-प्रक्षालन-पात्राभ्यां ज्ञेयम् । एतद् उपलक्षणत्वेनाचमनीयं च ततः स्वास्थ्ये सत्यर्घादि सम्यग् अवैयग्र्य एव चानुलेपनं युक्तम् ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.८ ॥
उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः ।
सदसस् तस्य महतो यत-वाचोऽनुशृण्वतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धर्म-गोप्त्री तनुर् यस्य स धर्म-गुप्तनुः । यता नियता वाग्यस्य तस्य सदसः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य सदसः विप्र-नृप-सभायाः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतो धर्म-गुप्तनुः धर्म-रक्षार्थम् अवतीर्ण इत्य् अर्थः । महतो\ऽपि यत-वाचः कुतः अनुशृण्वतः तद् उक्ति-श्रवणार्थम् इत्य् अर्थः ॥८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदस इति सप्तम्य् अर्थे षष्ठी ॥८॥
॥ १०.८४.९ ॥
श्री-भगवान् उवाच—
अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् ।
देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जन्म-भृतः स-फल-जन्मानः । तत् फलं जन्म-फलम् । किं तत् ? यद् योगेश्वर-दर्शनम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : योगेश्वराणां भक्ति-ज्ञान-योगाद्य् उपदेष्टृणां विप्राणां दर्शनम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो प्रहर्षे । वयं मनुष्याः । योगः समाधिः सायुज्यं वा । तदीश्वराणां दर्शनम् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो प्रहर्षे । वयं मनुष्याः योगेषु स्व-स्वानुष्ठितेषु कर्म-ज्ञान-भक्ति-लक्षणेषु ईश्वराणां सिद्धानां दातुं दूरीकर्तुं च समर्थानां वा दर्शनं परम-भागवतानाम् एव वा सर्वेष्व् एव तद् उक्तिश् छत्रि-न्यायेन सा च सर्वादरार्था ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्म-**भृतः सफल-जन्मानो भवामः देवानाम् अपि दृष्प्रापं किम्-पुनर् नृणाम् अत्रत्यानाम्॥९॥
॥ १०.८४.१० ॥
किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् ।
दर्शन-स्पर्शन-प्रश्न-प्रह्व-पादार्चनादिकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, युष्माकं दर्शनम् एव तावद् देवानाम् अपि दुष्प्रापम्, अस्माकं तु स्पर्शनादिकम् अपि कथं नु घटितम् ? इति विस्मयेनाह—किम् इति । स्वल्प-तपसां तीर्थ-स्नानादि-मात्रे तपो-बुद्धिर् येषां तथार्चायां प्रतिमायां देव इति चक्षुर् दृष्टिर् येषां, तेषां योगेश्वर-दर्शनादिकम् इदं किम् असम्भावितम् इत्य् अर्थः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अति-दुर्लभलाभम् आह—किञ्चेति । इत्य् अर्थ इति-किमत्रासम्भावनायां व्याख्येयम् । अर्चा पूजाप्रतिमयोः इति हलायुधः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्चायां प्रतिमायाम् एव न च वैष्णवादिषु किं वा, योगेश्वरेषु देवः पूज्यत इति चक्षुर्येषां तेषाम् । प्रह्वः प्रणामः । पादयोर् अर्चनं प्रक्षालनादिकम् । आदि-शब्दाद् आसनार्पणादिः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, वैकुण्ठ्यायाम् अर्चायां देवः साक्षाद्-भगवान् एवायम् इति चक्षुर् येषाम् इति चक्षुर् येषां तेषाम्, दर्शन-स्पर्शनादिकं स्वल्पतपसां किं स्यात्? अपि तु नैव । अतस् तथा-भूतानां सुदुर्लभानां युष्माकं दर्शनादिकं युष्मत्-कृपयैवास्माकम् अनधिकारिणाम् अपि सिद्धम् इति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं महा-तपसां देवानाम् अपि दुष्प्रापं चेत्तर्हि ततो\ऽपि क्षुद्र-तपसां तथार्चायां तेषां प्रतिमायाम् एव देव-चक्षुषां तद्-दर्शने\ऽपि तत्-स्वरूप-ज्ञाने\ऽपि वा भाग्य-हीनानाम् अस्माकं दर्शनं स्पर्शनादिकं च किं सम्भवति? नैव इत्य् अर्थः । अतो युष्मत्-कृपा-विलसितम् एवैतद् इति भावः ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धर्म-गुप्तनुरित्य् अनेन अहो वयम् इत्य्-आद्यास् तस्य वाचः केवलं धर्म-गोपनार्था इति ज्ञापयन्ति । अर्चायां प्रतिमायाम् एव देव-बुद्धीनां न तु युष्मासु तद् अपि युष्माकम् इदं युष्मत्-कृपा-विलसितम् एवेति भावः ॥१०-११॥
॥ १०.८४.११ ॥
न104 ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् प्रपञ्चयति—न ह्य् अम्-मयानीति त्रिभिः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् अर्चादिषु देवादि-बुद्धित्वम् । न हि बहिर् मुखानां तीर्थादिना जन्म-साफल्यं किन्तु सज्-जन-दर्शनाद् एवेत्य् आह—न हीति । तत्र तत्र सन्निहितास् तीर्थ-देवादयः उरुकालेन काल-पक्षं कृत्वैव न तु तदानीम् एव । तत्र किं कारणम् इत्य् अस्य देहली-दीपक-न्यायेनोरुकालेनेत्येवोत्तरम् । तथा हि-कलनं कालः ज्ञानम्, कल गतौ गत्य् अर्थकानां ज्ञानार्थतापीति वामनादयः । **उरु-**गुरु-शब्दौ पर्यायौ । उरुणा गुरुणा दत्तः कालः **उरु-**कालः । मध्यम-पद-लोपी समासस् तेन गुरू-पदिष्ट-ज्ञानेन तत्-तत्-स्वरूपं तत्-तन्-मन्त्रं तत्-तद् अङ्गाचरणादिकं ज्ञात्वा समुपास्य तत्-तद्-दर्शनं प्राप्य तत्-तद्-देवादि-प्रसादेनाघक्षये पावित्र्यम् अतो गुरूपदेशः कारणम् इत्य् अर्थः । प्रकृते किम् आगतम् इति चेदाह—दर्शनाद् एवेति । साधवः शास्त्रानुयायिनः शिष्टा इति यावत्, स्व-दर्शनान्यथा-ज्ञानम् अपगमयन्ति । एव-शब्दः गुरूपदेशं व्यवच्छिनत्ति ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न ह्य् अस्मयानि तीर्थानीत्य्-आदि—अस्मयानि तीर्थानि तीर्थानि न भवन्ति? अपितु तीर्थान्येव, मृत्शिलामया देवा न देवाः? अपि तु देवा एव, किन्तु ते उरुकालेन पुनन्ति, साधवस्तु दर्शनाद् एव ॥११॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो\ऽशेष-तीर्थ-स्नानात् सर्व-देव-चार्चनाच्चाधिक-फलम् अस्माकं सम्पन्नम् इत्य् आशयेनाह—न हीति ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यच् च तत्-तच्-छास्त्र-प्रमित-महिम्नां तीर्थानां देव-प्रतिमानां च सेवया नराणाम् अपि दोषहान्या ज्ञानं जायेतेति तत्-सत्यम् एव किन्तु तत्राप्य् अस्ति भवताम् अतिशय इत्य् आह—नहीति । काक्वा अम्मयानि जलावयव-रूपाणि नद्यादीनि तीर्थानि पावनानि न भवन्ति किं तथा मृच्छिलामयाः तद्-विकाराः प्रतिमादयो\ऽपि देवस् तद् अधिष्ठानत्वेन तत्-तद् आत्म्यापन्नतया पावना न भवन्ति किम्? किन्तु ते पुनन्तीत्य्-आदि ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.१२ ॥
ना105ग्निर् न सूर्यो न च चन्द्र-तारका
न भूर् जलं खं श्वसनोऽथ वाङ् मनः ।
उपासिता भेद-कृतो हरन्त्य् अघं
विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वाङ्-मनसोर् अप्य् उपासना-विषयत्वम्, यो वाचं ब्रह्मेत्य् उपास्ते [छा।उ। ७.२.२] इति श्रुतेर् अघं तन्-मूलम् अज्ञानं न हरन्ति । अत्र हेतुः—भेद-कृतो भेद-कर्तारः । यद् वा, भेद-बुद्धिं कुर्वतः पुंसः । विपश्चितो निरस्त-भेदाः । ते तु मुहूर्त-मात्र-सेवयैवाघं घ्नन्तीति ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-मूलम् अवमूलम् । अत्राज्ञानाहरणे देवानां भेद-कर्तृत्वं भेद-ज्ञानवत्-त्वेनात्म-स्वरूप-ज्ञानाभावात् । तद् उक्तं—
नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो नात्मतया गृहीताः । [भा।पु। १०.४०.३] इत्य् उक्तेः ।
ब्रह्मादयस् तनुभृतो मिथुरर्द्यमानाः । [भा।पु। ११.६.१४] इत्य्-आद्य् उक्तेश् च ।
ब्रह्मादीनां शुद्ध-सात्त्विकत्वेन ज्ञान-दाने समर्थत्वेन तेषाम् अज्ञानित्वकल्पनम् अनुचितं मत्वाह—यद्वेति । ते कस्य पापं न हरन्तीति चेदाह—**भेद-**बुद्धिं कुर्वत इति । ते ज्ञानिनस् तु ज्ञानिसङ्गस्य सर्व-पुण्यावाप्ति-हेतुत्वात् । नातं तेन समस्त-तीर्थ-सलिलेत्य् आद्य् उक्तेः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव विवृणोति-नेति । भेदकृतो भगवद् अधिष्ठानत्वेनाभिन्नेष्व् अप्य् एषु प्रत्येकम् ईश्वर-बुद्ध्या भेदं कुर्वत इत्य् अर्थः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्तु तावत् तत्-प्रतिमायां तत-दृष्ट्योपासनं तत्-तन्-निर्मित-तीर्थ-सेवा वा साक्षात्-तत्-तद् उपासनम् अपि न्यूनं ततो भूप्रभृति जडोपासनं तु सुतराम् इति भवद्-विधोपासनम् एव सर्वोत्तमम् इत्य् आह—नाग्निर् इति । तारकास् तदाकार-विमानाः बृहस्पत्यादयः भेद-कर्तारः अहम् इन्द्रो\ऽयं वरुण इति ज्ञापयितारः न तु सर्वत्राभिन्नं परमेश्वरं ज्ञापयितारः । यद् वा, तादृश-परमेश्वरादर्शितेन सर्वत्र तत्-तद्-भेद-बुद्धिं कुर्वतः पुंस इति विपश्चितस् तु परमेश्वरैक-दर्शिनः तादृशं परमेश्वरम् एव ज्ञापयन्ति तस्मात्-तद् अज्ञान-मूलमघम् अपराधं मुहूर्त-सेवया घ्नन्तीति ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने [स्कन्दप् व्।३.१९७.७६, मत्स्यप्, पद्मप् ५.७७.३७] इत्य् उपलक्षणाद् एवावक्ष्यमाणा अग्न्यादयः एवं भौम इज्यधीः इत्य् अत्रापि नज्ञः भगवत्-प्रतिमा-पूजकस् तु तादृशश् चेत् कनिष्ठ-भागवत एव । अर्चायाम् एव हरये [भा।पु। ११.२.४७] इत्य् एकादशात् भेद-कृतो भेद-कर्तार अयम् इन्द्रो\ऽयं वरुण इति ज्ञापयितारो ननु सर्वत्राभिन्नं परमेश्वरं ज्ञापयितारः ॥१२-२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न ह्य् अम्मयानि तीर्थानीत्य्-आदि । अम्मयानि तीर्थानि न भवन्ति अपि तु भवन्त्य् एव । एवं मृच्छिलामयाः देवा अपि किन्तु तानि उरुकालेनैव पुनन्ति साधवस्तु दर्शनाद् एव । अयम्-भावः । तीर्थानि यस्य हस्तौ च पादौ च इत्य्-आदि यथा-विधि सेवया देवताश् च यथा-विधि निरपराधनाद् एव पुनन्ति एते तु यादृच्छिकसङ्गेनापि ॥११-१२॥
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाङ्-**मनसयोर् अप्य् उपासना-विषयत्वं यो वाचं ब्रह्मेत्य् उपास्ते यो मनो ब्रह्मेत्य् उपास्ते इति श्रुतेः । क्षुत्-पिपासादिभिः आदर-प्राप्त्य्-आदिभिश् चात्मपरयोः साम्ये\ऽपि भेदं करोतीति **भेद-**कृत् तस्य अघं भेदोत्थमवज्ञोपेक्षामात्सर्यादिकं घ्नन्ति ॥१२॥
॥ १०.८४.१३ ॥
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज्
जनेष्व् अभिज्ञेषु स एव गो-खरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अतः साधून् विहायान्यत्रात्मादि-बुद्ध्या सज्जमानोऽति-मन्द इत्य् आह—यस्येति । आत्म-बुद्धिर् अहम् इति बुद्धिः । त्रयो धातवो वात-पित्त-श्लेष्माणः प्रकृतयो यस्य, तस्मिन् कुण106पे शरीरे स्व-धीः स्वीया इति बुद्धिः । भौमे भू-विकारे इज्य-धीर् देवता-बुद्धिः । यद् यस्य तीर्थ-बुद्धिस् तीर्थम् इति बुद्धिः । अभिज्ञेषु तत्त्व-वित्सु यस्य ता बुद्धयो न सन्ति, स एव गोष्व् अपि खरो दारुणोऽत्य्-अविवेकी । यद् वा, गवां तृणादि-भार-वाहः खरो गर्दभ इति ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः साधव एव सर्वोत्तमा अतो हेतोः । अन्यत्र देहादिषु । प्रकृतयो मूल-कारणं स्वभावा वा । कुणपे त्वद् अचेतने पूति-गन्धौ शवे चैव पुद्गले कुणपः स्मृतः इति मेदिन्य्-आदयः । ता बुद्धय आत्मादि-बुद्धयः । गोषु बलीवर्देषु खरः खरस् तीक्ष्णे च दारुणे इति धरणिः । बलीवर्दास्तु स्वभावत एव दारुणाः सन्तीति खर-पद-कृत-विशेषस्य तत्राभावादाह—यद्वेति । पशूनां पशुर् इत्य् अर्थः । यद् वा, गवि भूमौ खरो रास-भवद्-भारवाड् एव इत्य् अर्थः ॥१३॥
क्द्- व्यतिरेक-भङ्ग्यापि प्रशंसन्ति—यस्य इति । कुणपं निर्जीवं शरीरम् । त्रिधातुकं तेजोऽवन्नात्मकत्वात्, वात-पित्त-कफवद्धत्वाद् वा । स्व-धीः आत्मीय-बुद्धिः । भौमे प्रतिमादौ इज्य-धीः पूज्य-बुद्धिः । यद् यस्य जले तीर्थ-बुद्धिः । न त्व् अभिज्ञेषु भक्तेषु । कर्हिचित् कदाचित् । गोखर इति अज्ञत्वे निन्द्यत्वे उक्ते । भगवान् कुरुक्षेत्रे मिलितान् मुनीन् ॥१३॥ [मु।फ। ४.१२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : । **यस्यात्म-**बुद्धिर् इत्य्-आदि—कुणपे शरीरे एव यस्य आत्म-बुद्धि नाभिज्ञेषु वैष्णवेषु, कलत्रादिषु-स्व-धीः स्वकीय-बुद्धिः नाभिज्ञेषु, भौमे मृन्मये शिव-लिङ्ग-दुर्गा-प्रतिमादौ इज्य-धीर् नाभिज्ञेषु, सलिले ऋषिजुष्टे जले **तीर्थ-**बुद्धिर् नाभिज्ञेसु, स एव गोखरः अतिमूर्खः ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कुणपः शवः । तत्-तुल्याद्-देह [तत्-तुल्यद् एह] एव कुणपस् तस्मिन् घृणास्पदत्वेन कुणप-सादृश्यम् एव दर्शयति—त्रिधातुक इति । अनेनात्म-वैपरीत्येन तस्मिन्न् आत्म-वैपरीत्येन तस्मिन्न् आत्म-बुद्धेर् अयोग्यतोक्ता । तथापि तस्मिन्न् एवात्म-बुद्धिः एवम् अग्रे\ऽपि बोद्धव्यम् । तथा हि कलत्रादिषु वैराग्यादिना त्याज्येष्व् अपि आदि-शब्दात् पुत्र-वित्तादयः भौमे मृद्-दारु-शिलादि-भूमि-द्रव्य-मयाधिष्ठाने इति साक्षाद्-भगवद्-वुद्ध्या पूज्यमानं तद्-व्यावर्तितम् । अभिज्ञेषु वेदार्थ-तत्त्व-श्री-भगवत्-तद्-भक्तादि-माहात्म्य-वेदिषु । कर्हिचिद् इति कदाचिद् अपि तेषु तत्-तद्-बुद्ध्या सद्-बुद्धिर् एव इत्य् अर्थः । आत्म-बुद्ध्यादीना यथोत्तरं न्यूनत्वम् । मास्त्वात्म-बुद्धिः स्वधीर् अपि नास्तीत्य् एवं व्याख्येयम् । इति तासां कयाचिद् अपि बुद्ध्या साधु-बुद्धिर् एव । सर्व-बुद्धि-राहित्येन त्वत्यन्ताबुद्धिर् नीच एवेत्य् उक्तम् । गोखर इति । गो-र्वृषो\ऽन्यन्त-निर्बुद्धिः । असौ खरो गर्दभो महाधमश् च इत्य् अर्थः । यद् वा, यथा बृहस्पति-संहितायाम्—
अज्ञात-भगवद्-धर्म-मन्त्र-विज्ञान-संविदः । > नरास्ते गोखरा ज्ञेया अपि भूपाल-वन्दिताः ॥ इति ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कुणपः शवः स्वतस् तत् तुल्यत्वाद्-देह एव कुणपः तस्मिन् जीवद्वयोपदेशे\ऽपि त्रि-धातुके तन्-मूलक-सर्व-रोगाकुले अनेनात्म-वैपरीत्येन तस्मिन्न् आत्म-बुद्धेर् अयोग्यतोक्ता । अभिज्ञेषु । सर्व-परमात्म-श्री-भगवद्-विज्ञेषु तु योग्यता तेषां तादृश-श्री-भगवत्मयत्वात् तथापि तस्मिन्न् एवात्म-बुद्धिः न त्व् अभिज्ञेषु एवम् अग्रे\ऽपि तथा हि तादृश-देह-परिकरेषु कलत्रादिषु तादृशेष्व् अपि स्व**-धीः** न तु तादृश-भगवत्-परिकरेषु तेषु तादृशेषु तथा जले सामान्ये\ऽपि बुद्धिः स्नातः पवित्रो\ऽहम् इति न तु **तीर्थ-**पादाह्वय-श्री-भगवन्-मयेषु तेषु कर्हिचिद् इति कदाचिद् अपि-तासां बुद्धीनाम् एकतरास्तित्वे\ऽपि नास्ति दोषः सूचितः । सर्वदा सर्व-शहित्येन त्वतिनीचत्वम् एवेत्य् आह—स एव गोखर इति । गो\ऽत्यन्त-निर्बुद्धिश् चासौ स्वरो\ऽत्यन्ताधमश् च इत्य् अर्थः ।
सिन्धु-नद-तीरारण्ये गोखराख्यो गर्दभाकारो निष्प्रयोजन-पशु-विशेषो\ऽप्य् अस्ति । म्लेच्छ-पति-विशेषो\ऽपि । बृहस्पति-संहितायां त्ववैष्णवो\ऽपि । तथा निन्दितः
अज्ञात-भगवद्-धर्म-मन्त्र-विज्ञान-संविदः । > नरास् ते गोखरा ज्ञेया अपि भू-पालवन्दिताः ॥ इति ।
अतो भगवद् अर्चादि-सम्बन्धे तु तादृशस्यापि कनिष्ठ-भागवतत्वम् एव न तु गो-खर-शब्द-व्यपदेशत्वं यथैकादशे अर्चायाम् एवहरये [भा।पु। ११.२.४७] इत्य्-आदि । अतः पूर्व-पूर्वम् अपि साधारणाद् एव तत्-प्रतिमा-तत्-तीर्थान्य् एव दर्शितानि ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यस्यात्म-बुद्धिः कुणपेत्य्-आदि । कुणपे मृत-प्राय-शरीर एवात्म-बुद्धिः । कलत्रादिषु स्व-धीः आत्मीय-बुद्धिः भौमे मृण्मये शिव-लिङ्ग-दुर्गा-प्रतिमादौ इज्यधीः सलिले जल एव बुद्धिः न तु अभिज्ञेषु जनेषु वैष्णवेषु आत्म-बुद्ध्यादयो यस्य स एव गोखरः पशु-सेवी पशुः ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः साधून् विहायान्यत्रात्मादि-बुद्ध्या सज्-जमानो\ऽतिमन्द इत्य् आह—यस्येति । कुणपः शवस् तत्-तुल्ये देहे त्रिधातुके वात-पित्त-कफम् अये यस्या आत्मा बुद्धिः आत्मा प्रेमास्पदं तद्**-बुद्धिः** स्व-धीः स्वीया इमे इति धीः भौमे पार्थिव-प्रतीमादौ इज्य-धीः पूज्यो\ऽयम् इति बुद्धिः यत् यस्य सलिले नद्यादि-जले तीर्थम् इदम् इति बुद्धिः कर्हिचित् कदाचिद् अपि अभिज्ञेषु भगवत्-तत्त्वज्ञेषु यस्य ता बुद्धयो न भवन्ति स एव गोखरः गोश् चासौ खरश् चेत्य् उभय-साधाद् उभय-शब्दवाच्य इत्य् अर्थः । यद् वा, गवाम् अपि तृणादि-भार-वाहको गर्दभः-बृहस्पति-संहितायां तु—
अज्ञात-भगवद्-धर्म-मन्त्र-विज्ञान-संविदः । > नरास् ते गोखरा ज्ञेया अपि भूपाल-वन्दिताः ॥ इत्य् उक्तम् ।
अत्र यस्यात्म-बुद्धिः कुणप एव न त्व् अभिज्ञेष्व् इत्य् उक्त्या उभयत्रात्म-बुद्धयो न गोखरा इत्य् आयातम् । अभिज्ञेष्व् एवात्मादि-बुद्धयस् त्व् अतिश्रेष्ठा एवेति भावः । अत्र भौमे भगवत्-प्रतिमा-भिन्ने इति व्याख्येयम्—
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । > न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥[भा।पु। > ११.२.४७]
इत्य् एव दशोक्तेर् अभिज्ञेष्व् **इज्य-**बुद्ध्य-भावे\ऽपि तत्-प्रतिमा-सेविनः कनिष्ठ-भक्तत्वोक्तेः । एवं सलिल इत्य् अत्रापि गङ्गायम् उनादि-भिन्ने इति व्याख्येयम् । तादृश-वचन-परः-सहस्रेभ्य इति ॥१३॥
॥ १०.८४.१४ ॥
श्री-शुक उवाच—
निशम्येत्थं भगवतः कृष्णस्याकु107ण्ठ-मेधसः ।
वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुरन्वयम् अननुरूपम् । भ्रमन्त्य् अनवस्थिता बुद्धिर् येषां ते ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अकुण्ठ-मेधसो\ऽप्रति-हत-ज्ञानस्य । अननुरूपं दुर्ज्ञेयाभिप्रायम् ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वचो दुरन्वयं दुर्ज्ञेयम् । किं स्तौति किं निन्दतीति भ्रमन्ती धीर् येषां ते भ्रमन्**-धियः** सन्तः तूष्णीमासन् । यदि वचसोऽर्थानज्ञास्यन्, तदा प्रत्य् उत्तरमदास्यन् ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवतः साक्षात्-परमेश्वरस्य तत्रापि कृष्णस्याशेषैश्वर्य-प्रकटनपरस्य अतो\ऽकुण्ठ-मेधसो\ऽपरिच्छिन्न-बुद्धेर् अपि । इत्थम् ईदृशं कर्मासक्त-जीवस्य् एव वचो निशम्य विशेषेण प्रान्ति सर्व-वेदार्थ-तत्त्वोपदेशेन सर्वेषां ज्ञानं पूरयन्तीति विप्रा अपि भ्रम-द्धियः सन्तः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, दुरन्वयम् असम्बद्धम् । परमेश्वरस्य कर्म-परजीव-साम्योक्तेर् असंलग्नत्वात् । अतस् तात्पर्यावधारणाशक्त्या भ्रमदियः संशयाकुलचित्ताः । अन्यत् समानम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवतस् तत्रापि कृष्णस्येति स्वयं भगवत इत्य् अर्थः । अतो अकुण्ठ-मेधसः अपरिच्छिन्न-ज्ञानस्यापि इत्थम् ईदृशं दुरन्वयम् असम्बद्धं कर्म-पर-जीव-सदृशोक्तेः । स्वयं च विप्रास् तन्-महिम-विद्वांसः अतस् तात्पर्यावधारणाशक्त्या भ्रम-द्धियः संशयाकुल-चित्ताः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वचो दुरन्वयम् इत्य्-आदि । दुरन्वयं दुर्बोधं किमस्मान् स्तौति किमुह सतीति सर्वेषां धीविभ्रमो जात इत्य् अर्थः । एवं च भ्रमद्धियः सन्तस् तूष्णीम् आसन्न् इति शेषः ॥१४-१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वचः अहो वयं जन्म-भृत इत्य्-आदिकं दुरन्वयं तद् अननुरूपत्वाद्-दुर्गमम् ॥१४॥
॥ १०.८४.१५ ॥
चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।
जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईशितव्यताम् अनीश्वरतां कर्माधिकारितां जन-सङ्ग्रह-मात्रम् एतद् इत्य् ऊचुः । स्मयन्तो हसन्तः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । ईशितव्यस्त्व् अनीशत्वे दास्ये च परिकीर्तितः इति । जगद्-गुरुं जगच्-छास्तारम् ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईशितव्यतां चिरं विमृश्य विचार्य स्मयन्तः पश्चाद्-विज्ञाय तद्-वचन-भङ्ग्या स्मयमानाः सन्तः । **जन-**सङ्ग्रहो लोक-शिक्षणम् इतम् ऊचुः । जन-सङ्ग्रहे हेतुः—जगतां गुरुम् इति । अन्यत् तैर् व्याख्यातम्
यद् वा, ईशितव्यतां जीवव्यवहारादिकम् इदं जन-सङ्ग्रह इति विमृश्य अतस् तद्वचस् तात्पर्य-ज्ञानेन किं वा, सर्व-सद्-गुण-निधेर् विनय-स्वभावाद् एवेति विमृश्य भक्त्य् एषद्धसन्तः—ईश्वरे साक्षाद् उच्चहासस्यायोग्यत्वात् । तम् ऊचुर् वक्ष्यमाणम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईशितव्यतां चिरं विमृश्य नैश्वर्याभावान् न प्रतिष्ठालोभान्नाज्ञानाद् वा खल्व् इदं किन्तु परम-साद्गुण्येन नर-लीलोचितविनय एवेति विचार्य स्मयन्तः साश्चर्यं सलज्जं सानन्दं परस्परं वीक्ष्य स्मयमाना एव **जन-**सङ्ग्रहो लोक-शिक्षणम् इति जनानां भक्तानां सङ्ग्रह आकर्षणम् इति वा तम् ऊचुः **जन-**सङ्ग्रहे हेतुः जगतां गुरुं सर्व-साद्-गुण्य-प्रवर्तकम् इति ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरस्य मुनिषु ईशितव्यत्वं चिरं-विमृश्य तत्रोपपत्तिम् अपश्यन्तो जन-सङ्ग्रहो धर्म-स्थापकस्य भगवतो लोक-शिक्षणार्थम् एवेदं वचनावरणादिकम् इत्य् ऊचुः । तत्र हेतुः—जगद्-गुरुम् इति ॥१५॥
॥ १०.८४.१६ ॥
श्री-मुनय ऊचुः—
यन्-मायया तत्त्व-विद्-उत्तमा वयं
विमोहिता विश्व-सृजाम् अधीश्वराः ।
यद् ईशि108तव्यायति गूठ ईहया
अहो विचित्रं भगवद्-विचेष्टितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अ109नन्वयं विवृण्वन्त आहुर् द्वाभ्याम्, यन् माययेति । तत्त्व-वित्सूत्तमा अपि वयम् । कासौ माया यया विमोहिता इति ताम् आहुः, यद् इति । यद् यस्माद् ईहया नर-चेष्टितेन गूढः सन्न् ईशितव्यायत्य् अनीश्वर-वद् आचरति भवान् । नन्व् अहम् ईश्वरश् चेत् किम् इत्य् एवम् आचरेयं तत्राहुः, अहो इति । भगवतस् तव विचेष्टितं विचित्रम् अतर्क्यम् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां मायाम् । अत्राशङ्कते—नन्व् इति । तत्राक्षेपे । विचेष्टितं लीला ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कथम् ऊचुस् तदाह—यन्-माययेति पञ्चभिः । यस्य मायया तस्य भगवतो विचेष्टितम् इत्य् अन्वयः । विश्व-सृजां मरीयादि-प्रजा-पतीनां मध्ये अधीश्वराः परम-श्रेष्ठा अपि विशेषेण मूर्ख-प्रजभ्यो\ऽप्य् आधिक्येन मोहिताः । तत्त्व-विदुत्तमत्वादि-महाभिमानात् । यद् वा, विमोहितत्वाद् एव विश्व-सृजाम् अधीश्वरा महा-प्रजा-पत्यभिमानिन इत्य् अर्थः । अहो आश्चर्ये । अन्यत् तैर् व्याख्यातम् ।
यद् वा, गूढो वेद-दुर्वेदो\ऽपि भगवान् ईहया विविधलीलया ईशितव्यायति जीव-वद् आचरति । अन्यथा ईहया बहु-व्यापारेण गूढ आच्छन्न-ज्ञानः सन् यस्य मायया ईशितव्यो भृत्यस् तद्-वद् आचरति च जनः सर्वो\ऽयम् । ननु किम् अर्थं मायां प्राप्नुयाम्? तत्राह—अहो इति खेदे । अन्यत् समानम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनश् चोचुर् इत्य् आह—श्री-मुनय ऊचुर् इति । कथम् ऊचुस् तत्राह—**यन्-**माययेति पञ्चभिः । तत्र दुरन्वयत्वं विवृण्वते द्वाभ्याम् । यस्य मायया अतर्क्य-शक्त्या वयं मोहिताः तस्य भगवतो विचेष्टितम् इत्य् अर्थः । तत्त्वेति विश्वेति । तत्-तद्-रूपत्वेन सर्वैर्ज्ञाता अपीत्य् अर्थः । अन्यत्-तैः । यद् वा, गूढः वेद-दुर्वेदो\ऽपि भगवान् ईहया विविध-लीलया ईशितव्यायति जीववद् आचरति । परस्मै-पदम् आर्षम् ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वयं परमेश्वरो\ऽपि भगवान् ईशितव्यायते ईहया नर-चेष्टया हेतुना गूढः दुर्लक्ष्यः सन् एतद् एव विचेष्टितं भगवत्-परम-यशस्करम् इत्य् अर्थः । भगं श्री-काम-माहात्म्य-वीर्य-यत्नार्ककीर्तिषु इत्य् अमरः ॥१६॥
॥ १०.८४.१७ ॥
अनीह एतद् बहुधैक आत्मना
सृजत्य् अवत्य् अत्ति न110 बध्यते यथा ।
भौमैर् हि भूमिर् बहु-नाम-रूपिणी
अहो विभूम्नश् चरितं विडम्बनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भगवत्त्वम् एवाहुः, अनीह इति । अनीहोऽक्रिय एव । आत्मना स्वरूप-मात्रेण । ब111हुधेत्य् अत्र दृष्टान्तः, यथा भौमैर् इति । भौमैर् घटादि-विकारैर् उपलक्षिता, वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् इति श्रुतेः । ननु कथम् अहं जगत्-सृष्ट्य्-आदि-कर्ता वसुदेव-पुत्रत्वाद् इति तत्राहुः, अहो इति । विभूम्नः परिपूर्णस्य तद् एवं जन्मादि चरितं विडम्बनम् अनुकरण-मात्रं नतु तत्त्वम् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सृष्ट्यादि-कर्तृत्वम् आक्षिपति-नन्व् इति ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनीहो घटादि-निर्माणे कुम्भकारादि-वद्-बाह्यचेष्टायुतः सन्-इच्छा-मात्रेणैव तत्-तत्-सिद्धेः । यद् वा, तच्-चात्मना स्वयम् एव अन्य-नैरपेक्ष्येण इत्य् अर्थः ।
तथापि न वध्यत तत्-तत्-कर्मभिः । हि निश्चितम् । अहो हर्षे । विभूम्नः परिपूर्णस्य ।
ननु पूर्णश्चेत् तर्हि कथं जरासन्धादितः पलायेः? तत्राह—विडम्बनं चरितम् । चरितेन तान् विडम्बयसीत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, यथा यथावत् इत्य् अबन्धने सम्यक्तोक्ता। हि यतः भौमर् बहुनाम् अरूपिणी भूर् अपि तैर्न बध्यते, विक्रियां नापाद्यते । ननु सृष्ट्य्-आदिना मे किं नाम प्रयोजनम्? सर्व-जीव-हितार्थम् इत्य् आहुः-अहो इति । चरितं सृष्ट्यादिकम्, डलयोरेकत्वात् विलम्बनं-सर्व-जीवानाम् अवलम्बनम् इत्य् अर्थः । अन्यत्-समानम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नैवम् अधुनैव किन्तु सर्व-दैवेत्य् आहुः—स्वयम् एकः कर्त्रन्तर-सहाय-रहितः । तत्राप्य् आत्मना करणान्तर-सहाय-रहितेन स्वरूपेणैव तत्राप्य् अनीहः क्रिया-परिणामाभ्यां विकाररहितो भवान् एतद्-विश्वम् अपि सृजतीत्य्-आदि तत्रापि **बहु-**धेति तत्-तद्-ब्रह्माण्ड-भेदेन काल-भेदेन च विचित्रतय इत्य् अर्थः ।
तच् च स्वस्याज्ञान-विषयाश्रयत्वासम्भवात् परिणामेनैवेत्य् आहुः—यथा भौमैर् इति । अथ च न बध्यते तत्-तद्-दोषेण लिप्तो न भवति तस्माद् अहो विभूम्नः परम-पूर्णस्य तव चरितं विडम्बनम् अस्माद्-ऋशबुद्धि-तिरस्कारकम् इत्य् अर्थः
श्रुतेस् तु शब्द-मूलत्वात् [ब्र।सू। २.१.२७] इति न्यायेनाचिन्त्य-शक्तित्वाद् इति भावः ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तवैश्वर्यम् अनैश्वर्यं च दुर्गमत्वाद् अपारम् इत्य् आहुः—अनीह इति । एतत् जगत् **बहु-**विधम् आत्मना स्वेनैव सृजति भगवान् एक एव बहुनाम-रूपं जगद्-भवतीत्य् अत्र दृष्टान्तः । यथा भूमिर् एकापि भौमैः घट-पटादिभिः अहो अद्भुतं विभूम्नः पूर्ण-परमेश्वरस्यापि तव चरित्रं विप्राराधनादि-लक्षणम् ईशितव्यत्व-गमकं विडम्बनम् ईशितव्यस्यानुकरणम् एव ॥१७॥
॥ १०.८४.१८ ॥
अथा112पि काले स्व-जनाभिगुप्तये
बिभर्षि सत्त्वं खल-निग्रहाय च ।
स्व-लीलया वेद-पथं सनातनं
वर्णाश्रमात्मा पुरुषः परो भवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जन-सङ्ग्रहम् आहुः, अथापीति त्रिभिः । सत्त्वं शुद्ध-सत्त्वात्मकं रूपं बिभिर्षि । स्व-लीलया आचारेण वेद-पथं च बिभर्षि ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : काले सज्जनोपप्लव-समये । वर्णाश्रमाणाम् आत्मा नियन्ता तत्-तद्-धर्म-प्रवर्तकः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अथापीत्य्-आदि—सत्त्वं सपरात्परत्वं स्व-लीलया स्व-जनाभि-गुप्तये वेद-पथं विभर्षि वर्णाश्रमात्मा सन्, अतो भवान् परः पुरुषः पुरुषोत्तम एव ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथापीति यद्यपि सृष्ट्याद्य् अर्थं रज आदि-गुणत्रयं बिभर्षि । तथापि काले पालन-समये सत्त्वम् एव गुणं बिभर्षि पालयसीत्य् अर्थः । किम् अर्थम्? स्वजनाः साधवस् तेषाम् अभितः सद्-धर्म-प्रवर्तनादिना गुप्तये रक्षायै अत एव खलानां वधादिना निग्रहाय । सनातनं त्वद्-रूपम् । तथा चोक्तं षष्ठ-स्कन्धे यमदूतैः वेदो नारायणः साक्षात् [भा।पु ६.१.४०] इति । यद् वा, सनातनं सदा वर्तमानम् । इत्य् अवश्य-परिपाल्यतोक्ता । यद् वा, षणु दाने सनः सर्व-श्रेयोदानम् । तम् आतनोतीति तथा तम् । अतो वर्णाश्रमाणाम् आत्मा प्रवर्तको भवान् एव । यतः परः पुरुषः परमेश्वरः अन्तर्यामितया सर्वेन्द्रिय-प्रवर्तनेन विचित्रावतारैश् च पाषण्डादि-विघ्न-निरसनेनान्तर्बहिश् च पालकत्वम् उक्तम् । स्व-सर्व-जीव-हितार्थम् इत्य् एतत्-पक्षे । पक्षे च—अथ अतः । अपि एव । अत एव । काले यथाकालम् । सत्त्वं चित्तं बिभर्षि धत्से । किं वा, सत्त्वं सतां विद्यमानतां बिभर्षि । प्रत्यक्षो भवसीत्य् अर्थः । स्वजना भक्ताः । खलाः अभक्ताः । अत एव वेद-पथं च बिभर्षीति ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद्यप्य् एवं दुस्तर्क-शक्तिरसि तथापि काले स्वजनोद्भव-समये स्व-जनाभिगुप्तये यः खल-निग्रहस् तस्मै सत्त्वं स्वयम् अपि प्राकट्यं बिभर्षि तत्र च स्व-लीलया वर्णाश्रमस्यात्मा प्रवर्तकः सन् सनातनं वेद-पथं बिभर्षि पुष्णासि । तद् एतद् अपि दुरन्वयम् इति भावः । तच् च किं विचार्यं यतः परः सर्व-बुद्धि-पद्धतिम् अतीतः पुरुषो भवान् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथापीत्य्-आदि । सत्यम् इति स परापरत्वेन प्रसिद्धस् त्वं स्वया लीलया स्व-जनाभिगुप्तये वेद[पथं बिभर्षि वर्णाश्रमात्मा सन् वर्णः क्षत्रियः आश्रमो गृहस्थः तत्र तत्रात्मा यत्नो यस्य आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म-विग्रहे । इत्य्-आदि अन्यथा स्वजनानां यादवानां भक्तानां च अभि-गुप्तिर् न स्यात् । वस्तुतस् तु भवान् परः पुरुषः ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अनुकरणं च शिष्ट-पालन-दुष्ट-निग्रह-धर्म-स्थापनाद्य् अर्थम् इत्य् आहुः—त्रिभिः । अथापि पूर्ण-परमेश्वरत्वे\ऽपि सत्त्वं शुद्ध-सत्त्वात्मकं रूपं बिभर्षि स्व-लीलया स्वाचरणेन वेद-पथं च बिभर्षि । यतो वर्णाश्रमाणाम् आत्मा प्रवर्तकः भवांस् तु परः पुरुषः तादृशत्वत् स्वरूपेषु मध्ये मुख्यः ॥१८॥
॥ १०.८४.१९ ॥
ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः ।
यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत एव ब्राह्मणेषु बहुमानम् अपि करोषीति स-हेतुकम् आहुः, ब्रह्मेति । ब्रह्म वेदाख्यं शुक्लं शुद्धं ते हृदयम् अन्तरङ्गं रूपम् आकुत इत्य् अत आहुः, यत्रेति । यत्र ब्रह्मणि व्यक्तं कार्यम्, अव्यक्तं कारणं ततः परं सत् सन् मात्रं ब्रह्म च तप-आदिभिर् उपलब्धं तद् ब्रह्म ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तरङ्ग-रूपं वेदो नारायणः साक्षात् [भा।पु। ६.१.४०] भग्स् ११६ इति स्मृतेः । अन्तरङ्ग-रूपत्वे हेतुम् आशङ्कते—कुत इति । ब्रह्मणि वेदे । ततः कार्यकारणात् । ब्रह्म परमात्मा । ब्राह्मणैर् इति शेषः । उपलब्धं साक्षाद्-दृष्टम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ब्रह्मणोऽपि परस्त्वेम् एवेत्य् आह—ब्रह्म ते हृदयम् अन्तः-करण-रूपं, हृत् अयते इति हृदयम् । ब्रह्म कीदृशं? शुक्लं शुद्धं यत्र ब्रह्मणि कार्यम् अव्यक्तं कारणञ् च तप आदिभिर् उपलब्धं सत् सन्मात्रं ततस् तस्मात् परं परमं पदम् एव तद् इत्य् अर्थः । यद् वा, व्यक्तं कार्यम् अव्यक्तं कारणं ततः परञ् च यत् सत् ब्रह्म तपः-स्वाध्याय-संयमैर् यत्र त्वयि उपलब्ध-मतस् तय्य् एव ब्रह्म, ततः113 परं न भवति ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सनातनत्वम् एव दर्शयन्तो विप्र-कुल-सम्मानने हेतुम् आहुः—ब्रह्मेति द्वाभ्याम् । तपः स्व-धर्मः स्वाध्यायो वेदाभ्यासः । संयमो व्रतादिः । तैः कृत्वा उपलब्धं ज्ञातं साधुभिः स्वाध्यायस्य तपो\ऽन्तर्-गतत्वे\ऽपि पृथग् उक्तिः प्रस्तावानुसारेण तद् आधिक्यापेक्षया । अन्यत् तैर् व्याख्यातम् ।
यद् वा, व्यक्तं स्वर्गादि । अव्यक्तं निर्वाणम् । ततः परम् उत्कृष्टं श्री-भगवद्-भक्त्यादि । तत्तत् साधनम् इत्य् अर्थः । यत्र यस्मिन् विषये उपलब्धं प्राप्तम्, आयुर् घृतम् इतिवत् अथवा तप आदिभिर् विशिष्टं ब्रह्म विप्रकुलम् । अन्यत् समानम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु गोपयान्य् एव तान् स्वजनान् वेद-पथपोषणेन किं तत्राहुः—ब्रह्म वेदाख्यं शास्त्रं तेन शुद्धं केवलानुग्रहमयं यद्-धृदयं तद्-रूपम् एव यत्र वेदाख्य-ब्रह्मणि तपः सर्वम् अनुष्ठानं स्वाध्यायस् तद् अर्था सर्वा शिक्षा संयमः अन्यतो मनो-निवर्तनं सह सत् परं ब्रह्म व्यक्तं जगत् अव्यक्तं प्रकृतिः तेभ्यः परं श्री-भगवद् आख्यतत्त्वं चोपलब्धम् इति तत्-पोषणेनैव स्व-जन-पोषणम् इत्य् अर्थः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ब्रह्म ते हृदयम् इत्य्-आदि । ब्रह्म वेदः तव हृदयं हृत् अयतीति तथा तव हृद्येव ब्रह्मास्ति त्वम् एव वेदवक्ता यत्र त्वयि व्यक्तं कार्यम् अव्यक्तं कारणं सत् वर्तमानं तपः-स्वाध्याय-संयमैः सह उपलब्धम् कीदृशम् अव्यक्तं शुक्लं शुद्धं ततः परं व्यक्ताव्यक्तयोः परं ब्रह्म त्वय्य् एवोपलब्धं त्वद्-भिन्नम् एतद् इत्य् अर्थः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यतो वेदस् तव प्रियः इत्य् आहुः—ब्रह्म वेदाख्यं शुक्लं शुद्धं ते हृदयं यत्र ब्रह्मणि व्यक्तं कार्यम् अव्यक्तं कारणं ततः परं सन्मात्रं ब्रह्म च तप-आदिभिर् उपलब्धम् ॥१९॥
॥ १०.८४.२० ॥
तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः ।
सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् देद-हृदयत्वाद् वेद-प्रवर्तकं ब्राह्मण-कुलं शास्त्र-योनेर् वेद-प्रमाणकस्य तव सद्-धाम श्रेष्ठम् उपलब्धि-स्थानं सभाजयसि संपूजयसि तत् तस्माद् एव कारणात् त्वं ब्रह्मण्यानाम् अग्रणीर् मुख्यस् तत् प्रवर्तकः सन् कर्माचरसीत्य् अर्थः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपलब्धि-स्थानं ब्राह्मण-कुलम् । ब्राह्मण-कुले एव त्वं लभ्यसे\ऽन्येषाम् अपि तवोपलब्धिर् **ब्रह्म-**द्वारैव तस्यैवोपदेशाधिकारात् । ब्राह्मणस्यैवाधिकारो धर्म-मात्रोपदेशने इति संहितोक्तेः । तत्-**तस्माद्-**ब्राह्मण-कुलस-भाजनाद् एव । तत्-प्रवर्तको वेद-मार्ग-प्रवर्तकः । इत्य् अर्थ इति—
यदि ह्य् अहं न वर्तेयं जातु कर्मण्यतन्द्रितः । > मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
इति श्री-मुखोक्तेर् इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनस् तव सत् उत्कृष्टम् धाम अधिष्ठानम्। तत्र हेतुः—शास्त्र-योनेर् वेद-प्रवर्तकस्य वेद-प्रतिपाद्यस्य वा । किं च, । हे ब्रह्मन्न् इति वेदः साक्षात्-त्वम् एवेति भावः । ईदृश-वेदस्य धारणात् प्रवर्तनात् च सद्-धाम । अतः सभाजनं युक्तम् एवेति तात्पर्यम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवत्वेवम् अपि युष्मान् कथं पूजयामि तत्राहुः—तस्माद् इति । तद् एवं लोक-सङ्ग्रह इति यथोपक्रान्तं तथैवोपसंहृतम् इति भावः ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शास्त्र-**योनेर् वेद-प्रमाणस्य आत्मनः स्वस्य सद्-धाम श्रेष्ठम् उपलब्धि-स्थानं ब्रह्म-कुलं सभाजयसि पूजयसि ॥२०॥
॥ १०.८४.२१ ॥
अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः ।
त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् ईश्वरस्य तवेदं जन-सङ्ग्रह-मात्रं, वयं तु तव सङ्गत्या कृतार्थी इत्य् आहुः—अद्येति षड्भिः । सतां गत्या त्वया सङ्गम्य सङ्गं प्राप्य । यद् यस्मात् त्वं श्रेयसां परोऽव114धिः ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वं वेद-प्रवर्तकस् तस्माद् इत्य् अर्थः । गत्या प्राप्येन । न केवलं जन्मन एव साफल्यं किन्तु विद्यादेर् अपीत्य् आह—विद्याया इति ।
सा विद्या तन्-मतिर् यया [४.२९.४९],
तत् तपो यद् धरेः प्रियम् []
तद् एव यत् पश्यति तद् धि चक्षुः [१०.८०.४] इत्य्-आद्य् उक्तेः ।
साफल्यम् इति समासान्तर्-गतम् अप्य् अन्यत्रान्वेति भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् इतिवत् । श्रेयसां कल्याणानां श्रेयो मुक्तौ शुभे धर्मे\ऽतिप्रशस्ते च वाच्यवत् इति मेदिनी । परो\ऽवधिः । श्रेयसाम् इह सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः । इत्य् उक्तेः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : यद् अन्तः श्रेयसां परः परो भागः यतस् त्वेम् एव अन्तोऽवधिभूत इत्य् अर्थः ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जन्मनः साफल्यं विद्यादीनां च साफल्यं वृत्तम् । यद् वा, अद्यैव जन्माभूत्, जन्म-फलोदयात् । अन्यथा जन्मनो वैयर्थ्येनाभावे पर्यवसानम् इति भवः । जन्मादीनां यथोत्तरं फलं च तत्र तपसो दृक्-फलकत्वम् । दृक्-फल-भगवत्-साक्षात्कार-सिद्ध्यैव सम्यक् तत्-फल-सिद्धेः । सतां भक्तानाम् एव गत्या प्राप्येण परः परमो\ऽन्तो\ऽवधिः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, श्रेयसां फलानां मध्ये पर उत्कृष्टस् त्वत्-पादाब्ज-प्रेमा यद् अन्तो यन्-निष्ठः यत्-प्रसादाल्लभ्यत इत्य् अर्थः । अन्यत् समानम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भवत्व् एवं नाम किम् अस्माकम् अचिन्त्य-चिन्तनेन सम्प्रति स्वहृदयानन्दम् एव निवेदयाम् एत्य् आशयेनाहुः—अद्येति अद्येत्य् अजहल्-लक्षणया एतादृशे स्वयं भगवतो भवतः प्रकाशसमये अवतीर्णौ किलाद्य मे [भा।पु। १०.८५.३०] इति वक्ष्यमाण-श्री-देवकी-वचनात् एवम् अद्यैव नो\ऽस्माकं जन्म-साफल्यं वृत्तं तथास्माकं विद्यायाः वेदाद्य् अभ्यासस्य तपसस् ततो जातस्य परोक्ष-ज्ञानस्य दृशश् चापरोक्ष-ज्ञानस्य जन्म-साफल्यं जातं किं कृत्वा त्वया सतां विदुषां गत्या परमाश्रयेण सह सङ्गत्य मिलित्वा ।
ननु भवन्तो ब्रह्मानुभविनः विचित्रमद्-आविर्भावानां द्रष्टारश् च कथं ममैवाविर्भाव-समये जन्मादि-साफल्यं वर्णयथ तत्राहुः—यत् य एव श्रेयसां सर्व-पुरुषार्थानां परो\ऽतः परमावधिर् इति तथा च श्री-मद् उद्धव-वचनं यन्-मर्त्य-लीलौपयिकम् [भा।पु। ३.२.१२] इत्य्-आदि ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अद्येति ॥२१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : यद् अन्तः-श्रेयसां पर इति श्रेयसां परः परो भाग्यो यदन्तः यः स्वयम् एव त्वत्-सङ्गो वा अन्तो\ऽवधिर् इत्य् अर्थः ॥२१-२९॥
प्रीति-सन्दर्भ ७८- अथ श्री-कृष्णे स्वयं भगवत्य् एवाविर्भाव-पूर्णत्व-दर्शनेन तस्याः पूर्णत्वं दर्शयति—अद्येति । सतां त्वद्-एक-निष्ठानां तद्-विशेषाणां गत्या त्वया श्री-कृष्ण-आख्येन सङ्गम्य नोऽस्माकं वशिष्ठ-चतुः-सन-वामदेव-मार्कण्डेय-नारद-कृष्ण-द्वैपायनादीनां ब्रह्मानुभवतां भगवदीय-नाना-भक्ति-रस-विदां दृष्ट-नाना-भगवद्-आविर्भावानाम् अपि अद्य ईदृश-प्राकट्यावच्छिन्नेऽस्मिन्न् एवावसरे जन्मनः साफल्यं जातम् । यद् एव साफल्यं पूर्व-लब्धानां तत्-तद्-आविर्भाव-जात-तत्-तत्-साफल्य-रूपाणां श्रेयसां परम-पुरुषार्थानां परोऽन्तरः परमोऽवधिर् इति ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वया सद्गत्या सद्-गति-स्वरूपेण सह सङ्गम्य सङ्गं प्राप्य वर्तमानानां नो\ऽस्माकं विद्यादि-साफल्यं यत् यस्मात् त्वं श्रेयेसां परः अन्तो\ऽवधिः सीमा ॥२१॥
॥ १०.८४.२२ ॥
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
स्व-योगमाय115याच्छन्न-महिम्ने परमात्मने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्माद् ईश्वरस्य तवेदं जन-सङ्ग्रह-मात्रं, वयं तु तव सङ्गत्या कृतार्था इत्य् आहुः, अद्येति षड्भिः । सतां गत्या त्वया सङ्गम्य सङ्गं प्राप्य । यद् यस्मात् त्वं श्रेयसां परोऽवधिः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महिमा स्वरूपम् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् आत्म-महा-धन्यताम् अननेन भक्त्य् उद्रेकात् प्रणमन्ति-नम इति । तुभ्यम् इति शेषः । साक्षात्-तद् अनुक्तिर् भक्ति-भरोदयाद् एव । स्वकीयया असाधारणया योग-माययापि न छन्नो नावृतो महिमा यस्य तस्मै । अशेषैश्वर्य-प्रकटनात् । स्वयोग-माययाच्छन्नो महिमा येनेति वा । यद् वा, स्वेन तया योगो भक्तानां संयोगो यया मायया कृपया कृत्वा अच्छन्न-महिम्ने । अत एव परमात्मने सर्वेषां परम-प्रियतमाय ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तन्-माहात्म्यभर-चमत्कारेण भक्त्य् उद्रेकात्-प्रणमन्ति ननु इति । तुभ्यम् इति शेषः । साक्षात्-तद् अनुक्ति-भक्तिभरोदयाद् एव तस्मै सर्वागोचराय यतो भगवते कृष्णाय सर्वतो\ऽपराय इत्य् अर्थः । स्वयं त्व् अकुण्ठ-मेधसे सदा सर्वत्रानवच्छिन्न-ज्ञानाय एवं चेत्तर्हि कथम् अत्र नित्यम् एव न तिष्ठथ तत्राहुः—स्वयोगेति ।
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गी। ७.२५] । इति न्यायेन यन्-मायया तत्त्व-विदुत्तमा वयं विमोहितः [भा।पु। १०.८४.१६] । इत्य् उक्तरीत्या च नैतादृशं ज्ञानं सदा तिष्ठतीति भावः । तर्ह्य् अधुना कथं जातं तत्राहुः—परमात्मने इति । तवैवानुग्रहमया प्रेरणयेति भावः ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् त्वं लोक-सङ्ग्रहार्थम् अस्मान् स्तुहि प्रणम वा वयं तु त्वाम् इष्ट-देवं नमस् कुर्म एवेति प्रणमन्ति—नम इति ॥२२॥
॥ १०.८४.२३ ॥
न यं116 विदन्त्य् अमी भूपा एकारामाश् च वृष्णयः ।
माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एकस्मिन्न् एव स्थाने आरामो117 येषां, तेऽपि । कालं सृष्ट्य्-आदि-कारणम् । ईश्वरं नियन्तारम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आराम आवासः, आरामो वास-निलये क्रीडायाश् च वने तथा इति कोशात् । यं कृष्णम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अत्रत्या एव ते\ऽस्मत्तो\ऽपि महा-धन्या इत्य् आशयेनाहुः—नेति । एकस्मिन् त्वय्य् एवारमन्तीति तथा-भूताः सन्तो यं त्वाम् आत्मानं सर्व-व्यापकं ब्रह्मेति कालं सर्व-संहारकत्वेन भयङ्करम् इति ईश्वरम् इति च न विदन्ति, किन्तु श्री-देवकी-नन्दनं सर्व-प्रतिपालकं परम-प्रियम् इति जानन्तीत्य् अर्थः । कुतः? एषु माया-यवनिकया अच्छन्नम् अनावृतम् । ईशेषाभगवत्ता-प्रकटनाद् इति भावः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो दूरस्थाः ! के वयं यं श्री-कृष्णाख्यं स्वयं भगवन्तम् अमी निकटस्थाः भूपा अपि तथा एकारामाः वृष्णयो\ऽपि न विदन्ति यावन्-महिमा तावत्त्वेनानुभवितुं न शक्नुवन्ति । ननु सततं सर्व-महिमाश्रयस्य प्रकट-स्थाननुभवे किं कारणं ? तत्राहुः—मायेति । तादृश-महिमाश्रयत्वे किं प्रमाणं ? तत्राहुः—यवनिकेति । तद्वत्-त्वद् इच्छयान्तरङ्गीकृतानाम् अनुभवो\ऽपि भवत्य् एवेति भावः । महिमानम् एवाहुः—आत्मानं ब्रह्म-रूपं कलयतीति **कालम्-**अन्तर्यामि-रूपम् ईश्वरं स्वयं भगवत्-स्वरूपम् इति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो दूरस्था के वयं यं कृष्णाख्यं भगवन्तम् अमी निकटस्था भूपा अपि तथा एकारामा वृष्णयो\ऽपि न वदन्ति । यावत् महिमा, तावत् तेनानुभवितुं न शक्नुवन्ति ।
ननु सततं सर्व-महिमाश्रयस्य प्रकटस्य अननुभवे किं कारणं अत्राहुः—मायेति । तर्हि तादृश-महिमाश्रयत्वे किं प्रमाणं तत्राहुः—यवनिकेति । तद्वत् त्वद्-इच्छया अन्तरङ्गीकृतानाम् अनुभवो\ऽपि भवत्य् एवेति भावः ।
महिमानम् एवाहुः—आत्मानं ब्रह्म-स्वरूपम् । कलयतीति कालम् अन्तर्यामि-रूपम् ईश्वरं स्वयं भगवत्-स्वरूपम् इति ॥२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अन्यस् तु त्वां न वेदैवेत्य् आहुः—यथेति द्वाभ्याम् । नाम-मात्रेति विशेषेण मिथ्यात्वम् उक्तम् । यत इन्द्रियाभातम् । हे ब्रह्मन्न् इति सर्व-व्यापकम् अपीत्य् अर्थः । अन्यत्-तैर् व्याख्यातम् । अथवा यतः शयानो\ऽपि पुरुष एषां वृष्णीनां कश्चित् पुमान् आत्मानं त्वाम् एव यथा यथावत् वेद न तु रहितं तद्-व्यतिरिक्तं परमन्यत् । कुतः? गुणानां त्वत्-कारुण्यादीनां तत्त्वं सत्यत्व-नित्यत्वादिकं पश्यति साक्षाद् अनुभवतीति तथा सः । यथावत्त्वम् एवाहुः—नामसु सर्व-सञ्ज्ञासु मात्रासु विषयेषु इन्द्रियेषु चाभ्यतं स्वयम् एव परिस्फुरितम् इति । यद् वा, नाम श्री-कृष्णादि-सञ्ज्ञा मीयते दृश्यत इति मात्रा रूपम् । इन्द्रियाणि च तैर् आभातम् एव श्यामसुन्दरं वेद न तु तै रहितं ब्रह्म-रूपम् इत्य् अर्थः ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतस्मिन् शय्यासनादावारमन्तीति ते वृष्णयः आत्मानं परम-प्रेमास्पदं यं त्वाम् ईश्वरं न विदन्ति अमी असाधवो भूपाः कालं स्वसंहर्तारं त्वाम् ईश्वरं न विदन्ति कुतः मायैव यवनिका तेषां ज्ञानस्यावरण-कारिका तया आच्छन्नं तत्र भूपेषु माया अविद्या वृष्णिषु योगमायेति विवेचनीयम् ॥२३॥
॥ १०.८४.२४ ॥
यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् ।
नाम-मात्रेन्द्रियाभातं न वेद रहितं परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतत् सदृष्टान्तम् आहुः, यथेति । शयानः स्वप्नान् पश्यन् । गुण-तत्त्व-दृक् स्वप्न-विषयेषु तत्त्व-दृष्टिः । नाम-मात्रम् इन्द्रियेण मनसा आभातं सिंह-व्याध्रादि-रूपम् आत्मानं वेद तद् रहितं देव-दत्तादि-रूपम् आत्मानं न वेद यथा ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् भगवत्-स्वरूपाज्ञानम् । तद्-रहितं सिंह-व्याघ्रादिभ्यो\ऽन्यम् ॥२४-२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यस्तु त्वां न वेदैवेत्य् आहुः—यथेति द्वाभ्याम् । नाम-मात्रेति विशेषेण मिथ्यात्वम् उक्तम्, यत इन्द्रियाभातम्, हे ब्रह्मन्न् इति सर्व-व्यापकम् अपीत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
अथवा यतः शयानोऽपि पुरुष एषां वृष्णीनां कश्चित् पुमान् आत्मानं त्वाम् एव, यथा याथावत् वेद, न तु रहितं तद्-व्यतिरिक्तं परमन्यत् । कुतः ? गुणानाम् त्वत्-कारुण्यादिनां तत्त्वं सत्यत्व-नित्यत्वादिकं पश्यति साक्षाद् अनुभवतिति तथा सः । यथावत्त्वम् एवाहुः—नामसु सर्व-संज्ञासु मात्रासु विषयेषु इन्द्रियेषु चाभातं स्वयम् एव परिस्फुरितम् इति । यद् वा, नाम श्री-कृष्णादि-सञ्ज्ञा मीयते दृश्यत इति मात्रा रूपम्, इन्द्रियाणि च तैर् आभातम् एव श्यामसुन्द्रं वेद, न तु तै रहितं ब्रह्म-रूपम् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यस् त्व् अन्यथैव वेदेत्य् आहुः—यथेति युग्मकेन । तत् तु तैर् व्याख्यातम् । अथवायं व्याख्याक्रमः तादृशत्वे हेतुः स्वीयया असाधारणया योग-मायया आवरण-शक्त्यापि न छन्नो नावृतो महिमा यस्य तस्मै अशेषैश्वर्य-प्रकटनात् यद् वा, स्वेन भगवता योगः भक्तानां संयोगो यया तया मायया कृपया हेतुना अच्छन्न-महिम्ने अत एव परमात्मने सर्वेषां परम-प्रियतमाय एवम् अत्रत्या एते अस्मत्तो\ऽपि महा-धन्या इत्य् आहुः—यम् अमी सन्तत-समागमिनो भूयास् तथैकारामा वृष्णयश् च माया-यवनिकाच्छन्नं न विदनि न पश्यन्ति किन्तु प्रकट-स्व-स्वरूपत्वाद् अनाच्छन्नम् एव पश्यन्ति तद् अनाच्छन्नत्वम् अनुभूयापि आत्मानं निर्विशेष-ब्रह्म-स्वरूप-मात्रं न पश्यन्ति किन्तु तद् अतिक्रम्य सविशेष-तत्-स्वरूपम् अपि तादृशत्वम् अनुभूयापि कालम् अन्तर्यामि-स्वरूप-मात्रं न पश्यन्ति किन्तु तद् अतिक्रम्य तद् अंशि-श्री-भगवतः स्वरूपम् अपि तादृशत्वम् अनुभूयापि ईश्वरं परमेश्वर-स्वरूप-मात्रं न पश्यन्ति किन्तु सर्वं तत्-तद् अनुभवानन्दतिक्रमे तद् अप्य् अतिक्रम्य परम-स्निग्ध-बान्धव-कुलेश्वर-स्वरूपम् इति इत्थं सतां ब्रह्म-सुखानुभूत्या [भा।पु। १०.१२.११] इत्य्-आदि-न्यायेन राजन् पतिर् गुरुर् अलं भावतं यदूनाम् [भा।पु। ५.६.१८] इत्य्-आदि-न्यायेन च तत्र दृष्टान्तः यथा गुण-तत्त्व-दृक् विषयानुभविता जाग्रत्-स्वप्नावस्थः पुरुषः क्रमशस् तत्-तद् अनुभूयातिक्रम्य च शयानः सुषुप्तः सन् आत्मानं नाम्ना देवदत्तादिनाम-मात्राभिर् विषयानुभवैर् इन्द्रियैश् चाभातं न वेद किन्तु तत्-तद्-रहितं परं शुद्ध-सुख-स्वरूपं वेदेति । यस् तु मायया विभ्रम-चित्तः स त्वेवं न वेद माया-विभ्रमम् एवाहुः—**नाम-**मात्रेन्द्रियेहया । स्मृत्य् उपप्लवाद् इति अथवा शयानोऽपि पुरुषः वृष्णीनां मध्ये कश्चित्-पुमान् आत्मानं त्वां यथा **यथा-**वद्-वेद न तु रहितं तद्-व्यतिरिक्तं परम् अन्यत् कुतः गुणानां कारुण्यादीनां तत्त्वं सत्यत्व-नित्यत्वादिकं पश्यति साक्षाद् अनुभवतीति तथा सः यथावत्त्वम् एवाहुः—नामसु सर्व-सञ्ज्ञासु मात्रासु विषयेषु च आभातं स्वयम् एव परिस्फुरितम् इति एषां भगवत्-समाधिर् एव सुषप्तम् इति भावः । वक्ष्यते च शय्याशनाटनालाप [भा।पु। १०.९०.८६] इत्य्-आदि यद् वा, नाम श्री-कृष्णादि सञ्ज्ञ मीयते दृश्यत इति मात्रा-रूपम् इन्द्रियाणि च तैराभातम् एव श्याम-सुन्दरं वेद न तु तैः रहितं ब्रह्म-स्वरूपम् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अन्यस्त्वन्यथैव वेदेत्य् आह—यथेति युग्मकेन ॥२४-२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चानेक**-नाम**-रूपात्मकम् इदं जगत् त्वमेक एव ततः परो\ऽपि भवसीति लोको\ऽयं न वेदेति सदृष्टान्तम् आहुर् यथेति द्वाभ्याम् । यथा पुरुषो जीवः शयानः स्वप्नान् पश्यन् गुणतत्त्व-दृक् स्वप्न-विषयेषु तत्त्व-दृष्टिः नाम व्याघ्रादि मात्रा तद्-रूपादि इन्द्रियं तच्-छ्रोत्रादि तैर् अभातं व्याघ्र-सर्प-राजादिकम् अनेक-नाम-रूपं वेद न तु तत्-तद्-रूपी भगवन्तम् अप्य् आत्मानं स्वरूपेण तद्-रहितं ततो भिन्नं परं केवलम् एकं वेद एवम् एव त्वा त्वाम् अयम् अज्ञानी जनो नामानि देव-मनुष्यादीनि मात्रास् तद्-रूपादयः इन्द्रियाणि तच्छ्रोत्रादीनि ईहास् तच्-चेष्टाश् च यतस्तया मायया भ्रमच्-चित्तः सन् न वेद त्वां जगद्-रूपेण बहुनाम् अरूपम् अपि स्वरूपेण ततो भिन्नं न जानातीत्य् अर्थः । स्मृत्य् उपप्लवात् विवेक-ध्वंसात्
॥२४-२५॥
॥ १०.८४.२५ ॥
ए118वं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया ।
मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं त्वा त्वां नाम-मात्रेषु स्वप्नादि-तुल्येषु विषयेष्व् इन्द्रियैर् या ईहा प्रवृत्तिः, सैव माया तया विभ्रमच्-चित्तो न वेद । स्मृतेर् विवेक-सोपप्लवान् नाशात् ॥२५॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपसंहरति-एवम् इति । त्वा त्वं प्रति अयं सर्वो\ऽपि जने वेदानां स्मृतीनां च धर्म-शास्त्राणाम् उपप्लवाद् अपि नाम प्राकाश्ये मात्रासु विषयेषु या इन्द्रियाणाम् ईहा प्रवृत्तिस्-तयापि मायया माया-रूपया विभ्रमच्-चित्तो न भवति, सदा त्वाम् अनुभवतीत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति एवम् इति । त्वा त्वां प्रति अयं सर्वो\ऽपि जनः वेदानां स्मृतीनां धर्म-शास्त्राणां चोपप्लवाद् अपि नाम-मात्रेषु येषु केषुचित् विषयेषु या इन्द्रियाणाम् ईहा प्रवृत्तिस् तयापि मायाया माया-रूपया विभ्रमच्-चित्तो न भवति किन्तु वेद सदा त्वाम् अनुभवतीत्य् अर्थः । अत्र एकं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया इति पाठो न स्वामि-सम्मतः स्वप्नादि-तुल्य-विषयेष्व् इति समस्तेन व्याख्यानात् किन्तु एवं त्वायं ब्रह्म-नाम-मात्रेन्द्रियेहया इत्य् एव तत्-सम्मत इति ज्ञेयम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.२६ ॥
तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष-
तीर्थास्पदं हृदि कृतं सुविपक्व-योगैः ।
उत्सिक्त-भक्त्य्-उपहताशय-जीव-कोशा
आपुर् भवद्-गतिम् अथानुगृहाण भक्तान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अघौघस्य मर्षं ना119शं करोति यद् गङ्गाख्यं तीर्थं, तस्य आस्पदम् आश्रयं तेऽङ्घ्रिं सुविपक्व-योगैर् अपि हृदि कृतं केवलं, न तु दृष्टम् । तस्य तेऽङ्घ्रिं ददृशिम दृष्टवन्तो वयं बहुभिः पुण्यैः, अतोऽस्मान् भक्तान् अनुगृहाण । भक्तान् कृतानुग्रहं कुर्व् इत्य् अर्थः ।
ननु किं भक्त्या, यथा-पूर्वं तप एव तप्यताम् ? इति नेत्य् आहुः—उत्सिक्ता उद्रिक्ता या भक्तिः, तय उपहत **आशय-**लक्षणो जीव-कोशो येषां, त एव पूर्वे भवद्-गतिम् आपुः, नान्य इति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यं मायया न वेद तस्य इत्य् अर्थः । यतो वयं त्वच्-चरण-दर्शनाद्-गत-पापा अथो अतो\ऽर्थे अतो हेतोः । इत्य् अर्थ इति—
यदा यस्यानुगृह्णाति भगवान् आत्मनां गतिः । > भक्ति-योगं स लभते\ऽनेक-जन्मार्जितैः शुभैः ॥ [भा।पु। > ४.२९.४६]
इत्य्-आदि-पुराणात् भक्ति-दानम् एव भगवतः परमानुग्रह इति भावः । अत्राशङ्कते--नन्व् इति । आशय-लक्षणो **जीव-**कोशो\ऽहङ्कारः । जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३३] इति कपिलोक्तेः ॥ विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे\ऽञ्जो\ऽच्युत ते गतिं [भा।पु। १०.१४.५] इति ब्रह्मोक्तेश् च ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो\ऽधुनास्मान् प्रत्य् अपीदृशीं कृपां कुर्व् इत्य् आहुः—तस्येति । इत्थं निजाशेष माहात्म्य-प्रकटन-परस्य आद्य! हे पुरुषोत्तम! यद् वा, अद्य व्रज-जन-समागम-महोत्सव-दिने ददृशिम । अथ अस्माद् धेतोर् अनुगृहाण । तव अङ्घ्रिस् तु परम-दुर्दर्श एवेत्य् आहुः—तीर्थानां सर्वेषाम् आस्पदम् । सर्व-तीर्थ-मय्या गङ्गायाः प्रभवत्वात्, स्वभावेन परम-पावनत्वाद् वा । गङ्गाप्य् अस्माकं दुर्लभा, तदास्पदं तु सुतरां दुर्लभम् एवेति भावः । किं च, हृदीत्य्-आदि सुविपक्व-योगैः श्री-सनकादिभिर् अपि हृद्य् एव कृतम् । आशयः विद्याद्य्-अभिमानः भगवद्-गतिं श्री-वैकुण्ठ-लोकम्
ननु निरीश्वर-साङ्ख्य-मीमांसा-मायावादादि-प्रवर्तनेन युष्मद्-विधा अपराधिनः कथं तथानुग्राह्या इति चेत्, तत्राहुः--अघौघमर्ष! हे सर्वोपराध-क्षमा-करोति ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरन्ति—तस्य एवम् अतिविरलानुभवस्य ते तव अङ्घ्रि-युग्मम् अद्य ददृशिम, तस्माद् एवाद्य नो जन्म-साफल्यम् इत्य् उपक्रान्तम् इत्य् अर्थः । यतः परम-साधन-साध्य-रूपम् इदम् इति क्रमात् विशेषण-द्वयेनाहुः—अघौघेति । त्वद्-भक्ति-विमुख-वृत्ति-लक्षणापराध-कुल-क्षमापक-गङ्गादि-महा-तीर्थानाम् उत्पत्ति-स्थानं सुपक्व-योगैर् आत्मारामैश् च हृदि कृतम् इति
नन्व् आत्मरामत्वादिकम् अनादृत्य किं भक्तिम् एव श्लाघध्वे ? तत्राहुः—उत्सिक्तेति । “अपहत-” इत्य् अत्र “अपहृत-” इति पाठे\ऽपि स एवार्थः । तस्माद् भक्तान् कृत्वा अनुगृहाण यथैवं दर्शन-भाग्यं नित्यम् एव जायेतेति भावः ॥२६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतादृश-ज्ञानं व्याचक्षाणा अपि वयं तु त्वद्-भक्ता एव भक्तिं विना एतादृशत्वद्-दर्शनानुपपत्तेर् इत्य् आहुः—तस्येति । अघौघस्य मार्षो यस्मात् तस्य तीर्थस्य गङ्गाख्यस्य आस्पदम् आश्रयं सुविपक्व-योगैर् अपि हृदि कृतं न तु दृष्टं वयं तु तवाङ्घ्रिं ददृशिम । ननु तद् अपि लिङ्ग-देह-ध्वंसनार्थं ज्ञानम् अवश्यापेक्ष्यम् इति तत्राहुः—उत्सिक्ता उद्रिक्ता या भक्तिस् तयैव उपहतः आशय-लक्षणो **जीव-**कोशो येषां ते एव पूर्वे भगवद्-गतिम् आपुः नान्ये अथो अत एव भक्तान् एवास्मान् ज्ञात्वा अनुगृहाण ॥२६-२७॥
॥ १०.८४.२७ ॥
श्री-शुक उवाच—
इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।
राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवम् अनुज्ञाप्य प्रस्थानार्थम् अनुज्ञां प्रार्थ्य । यद् वा, इत्य् एतद् अनुज्ञाप्य विज्ञाप्य दाशार्हम् अशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीणं साक्षाद्-भगवन्तम्, सम्राट्त्वात् । स्व-स्वाश्रमजिगमिषा च तेषां तत्रस्थ-शिष्यादि-परिवारेषु भक्त्य् उपदेशायेति ज्ञेयम् । हे राजर्षे इति । ऋषीणां स्वभावो\ऽयं भवता ज्ञायत एवेति भावः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति विज्ञप्ति-प्रकार-विशेषेणानुज्ञाप्य प्रस्थानार्थम् अनुज्ञां प्रार्थ्य दाशार्हं तत्-कुले\ऽवतीर्णं स्वयं भगवन्तं धृतराष्ट्रं चेति तन्-मध्ये उपविष्टत्वाद् अन्धत्वात् श्री-व्यासात्मजत्वाच् छ्री-युधिष्ठिरानुबोधाच् च स्व-स्वाश्रम-जिगमिषां च तेषां श्री-भगवद् इच्छाम् अभिप्रेत्य तत्रस्थ-शिष्य-परिचारकेषु भक्त्य् उपदेशायेति ज्ञेयम् । अतो राजर्षे इति तत्-तद् अभिप्रायं जानास्येव् एति भावः ॥२७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.२८ ॥
तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः ।
प्रणम्य चोपसङ्गृह्य ब120भाषेदं सुयन्त्रितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उप-सङ्गृह्य चरणौ पाणिभ्यां धृत्वा । बभाषे इदम् इति सङ्धिर् आर्षः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-तेषां गमनम् । तान् मुनीन् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तेषां मनो वीक्ष्य अभिप्रायं विज्ञाय इत्य् अर्थः । उपव्रज्य समीपे गत्वा श्री-भगवत्-पितृत्वेन महा-यशा अपि । यद्व । भावि-यशो-विशेषाभिप्रायेण सुयन्त्रितः परम-विनीतः सन् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्-तेषां मनो वीक्ष्य अभिप्रायं विज्ञाय इत्य् अर्थः । तान् उपव्रज्य तेषां समीपे गत्वा श्री-भगवत्-पितृत्वेन महा-यशाः अतः श्री-भगवद्-वद् एव लौकिक-लीलाम् अनुसृत्य तद् उचित-स्व-यशसा तं च लोकांश्चानन्दयितुम् इति भावः । सु-यन्त्रितः परम-विनीतः सन् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : धृतराष्ट्रं चेति तन्-मध्ये उपविष्टत्वेन श्री-युधिष्ठिरानुरोधात् । श्री-भगवत्-पितृत्वेन महा-यशाः । अतः श्री-भगवद्वद् एव लौकिक-लीलाम् अनुसृत्य तद् उचित-स्व-यशसा तं लोकांश् चानन्दयितुम् इति भावः ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपसङ्गृह्य पादौ धृत्वा बभाषे इदम् इति सन्धिर् आर्षः । एतावन्तो मुनयो हि निमन्त्र्याप्य् आनेतुम् अशक्याः एतैर् विना मम हृत्-संशयो\ऽपि दुश्छेद एव तद् अधुनैवाहं प्रष्टव्यं पृच्छामीति भावः ॥२८॥
॥ १०.८४.२९ ॥
श्री-वसुदेव उवाच—
नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ ।
कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सर्वे देवा येषु, तेभ्यः, यावतीर् वै देवतास् ताः सर्वा वेद-विदि ब्राह्मणे वसन्ति इति श्रुतेः । येन कर्मणा यथा-कृतेन वा कर्मणां निर्हारो निरासो भवति तद् उच्यताम् ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यावतीर् यावत्यः, तास् तावत्यः । इति श्रुति-पदार्थः । इयम् एव श्रुति-विप्राणां तप्त-मुद्रा-धारणाभावं द्योतयति । श्रुतौ या वेदवित्त्वोक्तिः सा गायत्री वै सर्वम् इदम् इति श्रुतेर् गायत्र्याः सर्व-वेद-मूलत्वेन तन्-मात्र-विद्य् अपि वर्तत एव । एतद् अभिप्रेत्यैव भगीरथं प्रति बृहन्-नारदीये धर्म-राजेनोक्तं—
ब्राह्मणस्य तनूज्ञैया सर्व-देव-समन्विता । > सा चेत् सन्तापिता राजन् किं वक्ष्यामि तद् एनसः ॥ > शङ्ख-चक्राद्य्-अङ्कनं च गीत-नृत्यादिकं तथा । > एक-जातेर् अयं धर्मो न जातु स्याद् द्विजन्मनः ॥ > शङ्ख-चक्रं मृदा यस् तु कुर्यात् तप्तायसेन वा । > स शूद्रवद् बहिः कार्यः सर्वस्माद् द्विज-कर्मणः ॥ इत्य् > आश्वलायनेनाप्य् उक्तम् ।
श्रुतौ ब्राह्मण-पदं द्विजाति-परम् एव । बृहन्-नारदीयादि-वाक्यस्य तद्**-**उपबृंहणत्वात्, तद्-धृति-विधायक-वाक्यानि द्विजेतर-पराण्य् एव । वैष्णवाभासैर् विप्र-परत्व-बोधकानि वाक्यानि कल्पयित्वा पुराणेष्व् आधुनिकैर् निक्षिप्तानि । याः श्रुतयस् तत्र प्रमाणत्वेन न्यस्ताः, ता वेद-भाष्य-कर्तृभिर् अन्य-परतया व्याख्याताः । स्मृतयश् च हारीताद्याः, तेषां प्रसिद्ध-स्मृतिभ्यो विरुद्धत्वात् कल्पिता एव । यदि प्राप्तौ सत्यां निषेध इति न्यायम् आश्रित्य ब्राह्मणं प्रति प्राप्तम् एवेति निषिध्यते । तत्रोत्तरं न हि ब्राह्मणं प्रकृत्या कुत्रापि सुरा-पानं विधि-निषेधस् तु सर्वत्रैवैवमत्राप्य् अप्राप्त-निषेधो\ऽयम् । किं च, तान्त्रिकैः प्रसिद्ध-वर्णाश्रमेभ्यः इतरे\ऽपि ब्राह्मणादि-वर्णा ब्रह्म-चर्याद्य् आश्रमाश् च
स्वीकृतास् तद्-विषयम् एव वैतद्-विधानम्, स्पष्टं चैतत्-सूत-संहितायाम्। वस्तुतस् तु तान्त्रिको\ऽयं विधिस् तत्र वैदिकानां नाधिकारस् तद् उक्तं—
विष्ण्व् आगमादि-तन्त्रेषु दीक्षितानां विधीयते । > शङ्ख-चक्र-गदा-पद्मैर् अङ्कनं नान्य-देहिनाम् ॥ > श्रुति-पथ-गलितानां मानुषाणां तु तन्त्रं > गुरु-गुरु-खिलेशः सर्व-वित् प्राह शम्भुः । > श्रुति-पथ-निरतानाम् अस्ति नैवात्र किञ्चिद् > धित-करम् इह सर्वं पुष्कलं सत्यम् उक्तम् ॥
इत्य् अलं प्रसक्तानुप्रसक्तेन । यद् वा, सर्वस्मिन् देशे काले शास्त्रे इतिहासे पुराणे वेदे आगमे च देवो देवनं प्रकाशनं येषां ते तेभ्यस् तथा । सर्व-लोक-पूज्येभ्य इत्य् अर्थः । निरासो मूल-च्छेदः । तत् तथा ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नमो वो युष्मद् यम् इति प्राग् एव नतिर् विज्ञापनार्थं भक्ति-विशेषात् । हे ऋषयः! इति सर्वज्ञत्वं द्योतयति । अतः श्रोतुम् अर्हथ योग्या भवथ । मन्-निवेद्यम् इति शेषः । किं ? तद् आह—कर्मणेति । स्वयं तेन ज्ञायमानस्यापि तस्य तान् प्रति प्रश्नः । सत्-तीर्थे तस्मिन् नृप-मुनि-बन्धु-गण-समाजे यज्ञ-महोत्सवेच्छय तेषाम् एव मुनीनाम् उक्त्या तैस् तत्-प्रवर्तनार्थम् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं ? तद् आह—कर्मणेति । स्वयं ज्ञायमानस्यापि तान् प्रति प्रश्नस् तेषां तद्-उपदेशाधिकारिणां प्रमाणनेन मर्यादा-प्रतिपालनाय ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्व् अहो अस्मन्-मनोरथ-दुष्प्राप-भागधेयः श्री-कृष्ण-पितासौ कथम् अन्यच् छ्रेयः पृच्छति चेत् तं त्यक्त्वा कथम् अन्यं पृच्छतीति विस्मित्य मुनयस् तूष्णीम् आसन् । श्री-नारदस् तु पूर्वोक्तं तद्-अभिप्रायं बुद्ध्वाप्य् असहमान एवम् अचिन्तयत् यथायं खलु सर्व-श्रेयः-पथ-प्रवीणः श्री-कृष्ण-महिमनिष्णातश् च । न तु
श्री-नन्दवत्**-**तदीयके वल-माधुरी-मग्नः तथापि यद् इदं पृच्छति तत्किल लौकिक-लीलायां स्व-द्वारा स्व-पुत्रस्य सात्त्विक-यशो-विस्तारयणायैव तच्-चातितुच्छम् एव । परम-काष्ठावरिष्ठस्य ततः स्वयं भगवान् वा कथञ्चित् आत्म-महिम-गोपनीं तत्-तल्-लीला प्रकाशयतु कथन्तरामयम् अपि तद् अनुवर्तते यदि च वयम् अप्य् एतद् अनुवर्तामहे तदा मुह्येद् एव लोकः तस्माद् एतद् उपालम्भ-वव्याजेन श्री-भगवन्-महिमैवास्माभिर् व्यञ्जयितुं योग्य इति ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-देवेभ्य इति । यावतीर् वै देवतास् ताः सर्वा वेद-विदि ब्राह्मणे वसन्ति इति श्रुतेः । कर्मणैव कर्मणां निर्हारो नाशो यथेति मम गृह-पुत्र-कलत्रादि-महा-सक्तस्य ज्ञान-भक्त्योर् अनधिकाराद् इति भावः ॥२९॥
॥ १०.८४.३० ॥
श्री-नारद उवाच—
ना121तिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णं हित्वास्मान् पृच्छतीति विस्मितान् प्रत्य् आह—नातीति । बुभुत्सया बोद्धुम् इच्छया ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् वसुदेवो नः पृच्छति, तन् नातिचित्रम् ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवति साक्षाद्-विराजमाने\ऽपि तस्य स्नेहभरेण तद् ऐश्वर्य-विस्मृत्या मुनीन् प्रति प्रश्नेन कांश्चिद्-विस्मितांस् तान् भगवद्-भक्ति-माहात्म्याभिज्ञः श्री-नारदः स्नेहभर-स्वभावम् आह—नेति । अपि एव नैव । चित्रम् अद्भुतम् । अतीति चित्सुखः । कृष्णं साक्षाद्-भगवन्तमि स्नेहभरेणार्भकं शिशुं मत्वा ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र नन्व् अहो अस्मन्-मनोरथ-दुष्प्राप-भागधेयः श्री-कृष्ण-पितासौ कथम् अन्यच् छ्रेयः पृच्छति ? पृच्छति चेत्, तं त्यक्त्वा कथम् अन्यं पृच्छति ? विस्मित्य मुनयस् तूष्णीम् आसन् । श्री-नारदस् तु पूर्वोक्तं तद्-अभिप्रायं बुद्ध्वाप्य् असहमान एवम् अचिन्तयत् । यथायं खलु सर्व-श्रेयः-पथ-प्रवीणः श्री-कृष्ण-महिम-निष्णातश् च, न तु श्री-नन्दवत् तदीय-केवल-माधुरी-मग्नः, तथापि यद् इदं पृच्छति तत् किल लौकिक-लीलायां स्व-द्वारा स्व-पुत्रस्य तस्य सात्त्विक-यशो-विस्तारणायैव तच् चातितुच्छम् एव परम-महिम-काष्ठा-वरिष्ठस्य तस्य ततः स्वयं श्री-भगवान् वा कथञ्चिद् आत्म-महिम-गोपनी तत्-तल्-लीलां प्रकाशयति । कथम् अन्तरायम् अपि तद् अनुवर्तते । यदि वयम् अप्य् एतद् अनुवर्तामहे, तदा मुह्यद् एव लोकः तस्माद् एतद् उपालम्भ-व्याजेन श्री-भगवन्-महिमैवास्माभिर् व्यञ्जयितुं योग्य इति तथैवाह—नापीति चतुर्भिः । तत्र तद् उपालम्भः लोक-मोह-दोषः उत्तराभ्याम् अपीति शकटाख्यम् अतीति चित्-सुखः कृष्णं स्वयं भगवत्त्वेन सर्व-पुरुषार्थ-शिरोमणिम् अपि सर्वज्ञ-शिरोमणिम् अपीत्य् अर्थः । अर्भकं लौकिकापत्य् अतुल्यं मत्वा आत्मनः श्रेयः पुरुषार्थान्तर-साधनं पृच्छति तत्रापि तं समीपवर्तिनं परित्यज्यास्मान् पृच्छतीत्य् अर्थः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथैवाह—नापीति चतुर्भिः । मर्त्यानाम् इति । मर्त्य-लीलाङ्गीकाराद् अस्यापि तादृशो भावो जात इति भावः ॥३०-३३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु साक्षाद्-विराजमाने श्री-कृष्णे वसुदेवः कथम् अस्मान् पृच्छतीति मुनीनाम् आशङ्काम् उद्भाव्य नारदो वदति-नापि चित्रम् इत्य्-आदि । वसुदेवस्य वात्सल्य-रस-भक्तत्वात् कृष्णे नित्यम् अर्भक-बुद्धिर् एव नोपदेष्ट बुद्धिर् इति तम् अर्भकं मत्वा नः पृच्छतीति नापि चित्रम् ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो अयं भगवतः पिताप्य् आत्मानं संसारिणं मन्यते यदि वा परार्थं पृच्छति तद् अपि कृष्णं हित्वा कथम् अस्मान् पृच्छतीत्य् अतिविस्मितांस् तान् प्रत्य् आह—नापीति । अर्भकं स्व-पुत्रम् एव न त्व् ईश्वरम् अतः आत्मनः स्वस्यैव ॥३०॥
॥ १०.८४.३१ ॥
सन्निकर्षोऽत्र122 मर्त्यानाम् अनादरण-कारणम् ।
गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्रत्यो गङ्गा-तीर-वासी ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्याम्भस् तडागादि जलम् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्नेह-भरं चादरं ह्रासयन्तीति स-दृष्टान्तम् आह—सन्निकर्ष इति । स्नेह-भरेण सदातिसान्निध्यम् । यद् वा, सम्यक् सर्वतो नितरां च कर्षति आकर्षतीति सन्निकर्षः स्नेह-भरः । हि यतः । समासान्तर्गतस्याप्य् अम्भसो गाङ्गम् इत्य् अनेनाप्य् अन्वयः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वत्र हेतुः—सन्निकर्षो हि इति । “सन्निकर्षो\ऽत्र” इति पाठः क्वचित्-पूर्वत्रैव दृष्टान्तः । गाङ्गम् इति मर्त्यानाम् इति मर्त्य-लीलाङ्गीकारादस्यापि तादृशो भावो जात इति भावः । गाङ्गम् अम्भ इति गम्यम् अन्याम्भस् तीर्थान्तरम् इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु सन्निकर्षज एवास्मिन्न् अयम् अनादरः अनु वात्सल्येनेति पुनः शङ्कान्तरं निरस्यन्न् आह—सन्निकर्ष इत्य्-आदि । तत् तु मर्त्यानाम् एव, न तु मद्-विधानाम् । तत्र दृष्टान्तः--गाङ्गम् इत्य्-आदि ॥३१-४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु कृष्णस्य जन्म-क्षणम् आरभ्यैव तम् ईश्वरत्वेनायं जानात्य् एव ? सत्यं, तद् अपि सन्निकर्ष एवानादर-हेतुर् इत्य् आह—सन्निकर्ष इति । अत्र श्री-वसुदेवस्य प्रेमाणम् एव तद्-ऐश्वर्याननुसन्धाने हेतुं नारदो जानात्य् एव । तद् अपि तस्मिन् महा-संसदि प्रेम-सिद्धान्तम् अतिरहस्यम् अविवृण्वन् लोक-रीत्यैव समादधौ । श्रावयित्वा वसुदेवस्य तस्य तद्-ऐश्वर्य-ज्ञानं च प्रोद्दीपयामासेति तत्त्वं ज्ञेयम् । अनादरो\ऽत्र गौरवम् अनाना-भावः ॥३१॥
॥ १०.८४.३२ ॥
यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै ।
स्वतोऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णेऽर्भकत्वमानोऽविद्या-विजृम्भत इत्य् आह—यस्येति द्वाभ्याम् । अनुभूतिर् ज्ञानं कुतश्चिद् अपि न रिष्यति न नश्यति । तद् एवाह—कालेन कर्क-टिका-फल-वत् । अस्य विश्वस्य लयोत्पत्त्य्-आदिनापि । स्वतश् च विद्युद्-आदि-वत् । अन्यस्माच् च मुद्गरादेर् घटादि-वत् । गुणतो रूपाद्य्-अन्तरोत्पत्तेः पूर्व-रूपादिना देहादि-वत् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्भकत्वमानो बालत्वाभिमानः तद् एवज्ञानानशनम् एव । रिष्यति रिष हिंसायाम् दिवादिर् लट् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च मन्तव्यम् श्री-वसुदेवो\ऽयमस्य माहात्म्यं न वेत्तीति । यतः प्राकृत एव न जानातीत्य् आह—यस्येति द्वाभ्याम् । आदि-शब्दात् स्थितिः । वै अपि । तत्-तन्-महा-व्यापाराद् अपीत्य् अर्थः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्येति युग्मकम् । यस्य कर्तुः कर्मणश् चानुभूतिर्-ज्ञान-लक्षणा प्रकाश-लक्षणा च न नश्यति अपि तु नित्यं विराजत एव इत्य् अर्थः अन्यत्-तैः । तत्रास्येत्य्-आदौ विश्वस्य **लयोत्पत्त्य्-**आदि-हेतुनापि कालेनेति योजनिकार्थः तथा घटादेर् नाश-सम्बन्धी यो मुद्गरादिस् तेनैव इत्य् अर्थः । तथाक गुणतो रूपाद्य् अन्तरोत्पत्तेर् हेतोः पूर्व-रूपादि-नाश-द्वारा यथा देहादिर् नश्यतीत्य् अर्थः । दृष्टान्ताश् चैते व्यतिरेकेण एव तथा अद्वितीयं श्री-कृष्णम् इति तस्यैव स्वयं भगवत्त्वाभिप्रायात् विशेषणानाम् एतेषां यथोत्तरं मनुष्य-मननायोग्यत्वे श्रैष्ठ्यम् । तथापि क्लेशादिभिः प्राणादिभिश् चोपगूढम् अन्यः साधारणो जनः निज-परिकरैः क्लेशादिभिः प्राणादिभिश् च हेतुभिर् मन्यते स्वयं क्लेशादि-युक्तः आत्मानुमानानुसारेण तम् अपि स्वसदृशं मन्येत इत्य् अर्थः । राहोरपि सूर्य-विभवत्वं सूर्यस्य ग्रह-राजत्वात् यद् वा, तं क्लेशादीनां तत्रात्य् अन्ताभाववत्त्वात्-तैर्-अव्याहतानुभवम् अत एवेश्वरं पराधीन-ज्ञानत्वात् परम-स्वतन्त्रं तथा सर्वस्य तद् एक-प्रकाश्यत्वाद्-अद्वितीयं श्री-कृष्णम् इमम् अन्यः पृथग्-जन एव स्व-विभवैः स्वरूप-विभव-रूपैर् अपि प्राणेन्द्रियैर् आदि-ग्रहणात्-तत्-तद् अवयवैश् चोपगूढं परिच्छिन्न-ज्ञानादिकं मन्येत मन्यत इति सम्भाव्यते तैः कम् इव मन्यते मेघादिभिः सूर्यम् इवेत्य् अन्वयः ।
अर्थश् चायम्—सूर्यस् तावन्-मेघादिभिर्-यत् परिच्छिन्न-प्रकाशादिको भवति तद्युक्तम् एव मेघस्य तद् अंशाकृष्ट-जलमय-धूमादि-परिणाम-रूपत्वात् हिमस्य तद् आकृष्ट-जल-परमाणुसङ्घ-रूपत्वात् उपराग-हेतुर् आहोस् तत्-प्रतियोगितमो-रूपत्वात् तस्यास्य चक्षुरादयस् तु न तद्-विधाः किन्तु स्वरूप-विभव-रूपाः तस्मात्-तैर् आच्छन्न-ज्ञानादिर् न भवति न हि सूर्यो मेघादिभिर् इव स्वरूप-विभवैः प्रकाशौष्ण्यादिभिर्-आच्छन्न-प्रकाशादिर् भवति प्रत्युत तैः प्रकाशत एव तस्मात्-स्वरूपस्य काल-देशाद्य् अपरिच्छिन्नत्वेन तद्-विभवानां चक्षुरादीनां तादृशत्वाद् अपरिच्छिन्न-ज्ञानादिर् एवायं स्यात् नीच एव तु जनो\ऽन्यथा मन्यत इति तद् उक्तं—न चान्तर्न बहिर् यस्य [भा।पु। १०.९.१३] इति नातः परं परम-यद्-भवतः स्वरूपम् इहाद्यन्ते येनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैर् इति ये तु त्वदीयेत्य्-आदि [भा।पु। ३.९.३-५] ॥३२-३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो ब्रह्मज्ञ-पूज्य-पादाः । न केवलम् अत्रायं वसुदेव एवोपालभ्यः किं त्व् अत्रत्यः प्रायः सर्व एव लोकः कृष्णम् ईश्वरं न जानातीत्य् आह—यस्येति द्वाभ्याम् । यस्य अनुभूतिर् ज्ञानं कुतश्चिद् अपि न रिष्यति न नश्यति तं श्री-कृष्णं प्राणादिभि रुपगूढम् आच्छन्नम् अन्यः प्राकृतो\ऽयं लोकः स्वम् इवम् अन्यत इत्य् अन्वयः । तद् एवाह—कालेन कर्कटिका-फलवत् कीदृशेन अस्य विश्वस्य लयोत्पत्तिकारणेन स्वतश् च विद्युदादिवत् अन्यस्माच् च मुद्गरादेर् घटादिवत् गुणतस् तमोगुणेन ब्रह्माण्डवत् न रिष्यति ॥३२॥
॥ १०.८४.३३ ॥
तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर्
अव्याहतानुभवम् ईश्वरम् अद्वितीयम् ।
प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो
मन्येत सूर्यम् इव मेघ-हिमोपरागैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एव कुतश्चिद् अप्य् अव्याहतानुभवम् अत एवेश्वरम् । किं च, अद्वितीयं कृष्णम् अन्यः प्राकृत उपगूढम् आच्छन्नं मनुष्यो मन्येत । कैः ? क्लेश-कर्मादिभिः । तत्र क्लेशा रागादयश् च तत्-पूर्वकाणि कर्माणि च तत्-परिपाके सुख-दुःखे च सत्त्वादीनां गुणानां पुनः प्रवाहश् च तैः प्राणादिभिश् च स्वैर् विभवैः स्वकार्यैः । अत्र दृष्टान्तः, मेघ-हिमोपरागैर् अभ्र-तुषार-राहुभिः स्व-विभवैः सूर्यम् इवेति ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं कृष्णम् । अत एवाहतज्ञानत्वाद् एव । सर्वथा विद्यमानैश्वर्यो\ऽप्य् अज्ञानाम् अनीश एव प्रतीयते इत्य् आह—किञ्चेति । तत्र तेषु क्लेशादिषु । तत्-पूर्वकाणि रागादि-पूर्वकाणि । तत्-परिपाके **कर्म-**फले । पुनः पुनः प्रवाहो मुहुर् मुहुः सृष्ट्यादि-रूपो वा शान्त-घोर-विमूढत्वादि-स्वभाव-वशाच्-छुक्लादि-**कर्म-**करणाविच्छेदः । अत्र कार्येण कारणावृत्तौ अभ्र-तुषारराहवो हि रवि-प्रकाश्यत्वेन रवि-कार्याण्येव तद्-धेतुत्वात्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः [भा।पु। १०.५४.४६] इत्य्-आद्य् उक्तेः प्रकाश्य-प्रकाशकयोर् अपि कार्य-कारणभावो\ऽज्ञान-प्रपञ्चादिषु दृश्यत एवेति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अव्याहतानुभवम् अकुण्ठ-ज्ञानम् अद्वितीयम् असदृशम् । विशेषणानाम् एषां यथोत्तरं मनुष्यमननायोग्यत्वे श्रैष्ठ्यम् । तथापि क्लेशादिभिः प्राणादिभिश् चोपगूढम् । आदि-शब्दादीन्द्रियादयः । अन्यः श्री-वसुदेवेतरः । प्राकृतः स्व-विभवैर् निज-परिकरैः क्लेशादिभिश् च हेतुभिर् मन्येत । स्वयं क्लेशादियुक्त आत्मानुमानेन तम् अपि स्व-सदृशं मन्येत इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, क्लेशादिभिर् विशिष्टो\ऽन्वय उपगूढं मन्यते श्री-वसुदेवस्तु सर्वथा परम-प्रकटम् एव वेत्तीत्य् अर्थः । तथापि स्नेहभर-स्वभावेन तद्-विस्मृतिरित्य् उक्तम् एव । सा च श्री-भगवत्-कृपयैवेति पञ्च-चत्वारिंशाध्यायारम्भे पितराव् उपलब्धार्थौ [भा। १०.४५.१] इत्य् अत्र तैर् व्यञ्जितम् एव । अग्रे च व्यक्तं भावीति दिक् ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्त-पोष-न्यायेनेमम् अर्थं पुनर् आह—तम् इति । क्लेशा रागादयश् च कर्माणि **क्लेश-**हेतवश् च परिपाकाः तत्-कार्य-सुख-दुःखानि च गुणानां सत्त्वादीनां तैर् न व्याहतो\ऽनुभवो ज्ञानं यस्य तं प्राणादिभिः प्राण-मनोबुद्ध्यादिभिर् लिङ्ग-शरीर-घटकैः स्व-विभवैः स्वकार्यैर् एवाच्छन्नम् अत्र दृष्टान्तः मेघश् च हिमः कुहेडिका च उपरागो राहुश् च तैः स्व-विभवैः सूर्यम् इव मेघस्य सौर-ज्योतिर् जलात्मकत्वात् जलस्य ज्योतिः-कार्यत्वात् हिमस्य च जल-विशेषत्वात् राहोश् च दुष्ट-जीवाविष्टध्वान्तखण्डात्मकत्वात् ध्वान्तस्य च चक्षुर् ग्राह्यत्वेन पौराणिक-मते तैजसत्वात् मेघादीनां सूर्य-कार्यत्वम् ॥३३॥
॥ १०.८४.३४ ॥
अथोचुर् मुनयो राजन्न् आभा124ष्यानकदुन्दुभिम् ।
सर्वेषां शृण्वतां रा125ज्ञां तथैवाच्युत-रामयोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ नारद-वाक्यानन्तरम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ श्री-वसुदेव-माहात्म्य-श्रवणानन्तरम् आभाष्य भो महा-धन्य! हे जगत्-पूज्येत्य्-आदि सम्बोध्य हे राजन्न् इति श्री-वसुदेव-माहात्म्येन प्रहर्षोदयात् किं वा, तच्-छ्रवणेन राज्ञः प्रेम-विकारोदय-शोभा-दर्शनात् । सप्तम्य् अर्थे षष्ठ्यः । सर्वेषु राजसु शृण्वत्स्व् इति तान् प्रत्य् उपदेशार्थम् अच्युत-रामयोश् च शृण्वतोर् इति वक्ष्यमाणार्थस्य प्रामाण्यार्थम् ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरं श्री-वसुदेव-नारदयोर् अभिप्रायं बुद्ध्वोभय-समाधानार्थम् इत्य् अर्थः । तत्र श्री-नारद् असमाधानं तु वसुदेव भवान्नूनम् इति उत्तर-पद्येन ज्ञेयम् । आभाष्य भोः परम-कृतार्थ-शिरोमणे हे जगत्-पूज्येत्य्-आदि-सम्बोध्य सप्तम्य् अर्थे षष्ठ्यः । सर्वेषु राजसु शृण्वत्सु इति तान् प्रत्य् उपदेशार्थम् अच्युत-रामयोश् च शृण्वतोर् इति वक्ष्यमाणार्थः प्रामाण्यार्थः ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ अनन्तरं श्री-वसुदेव-नारदयोर् अभिप्रायं बुद्ध्वो-भय-समाधानार्थम् इत्य् अर्थः । श्री-नारद-समाधानं त्वत्र वसुदेव भवान्नूनं इत्य् अन्तिम-पद्येन ज्ञेयम् ॥३४-३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेषाम् इत्य्-आदिषु सप्तम्य् अर्थे षष्ठ्यः ॥३४॥
॥ १०.८४.३५ ॥
कर्मणा कर्म-निर्हार एष साधु-निरूपितः ।
यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्**-यजेद्**-एष इत्य् अन्वयः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साधु यथा स्यात्-तथा निरूपितः शास्त्रज्ञैः । यद् वा, साधुभिर् निरूपितः श्रद्धया श्री-विष्णुयजने विश्वासेन भक्त्या वा विष्णुं स्वमहिम्ना विश्व-व्यापकं भगवन्तम् एवम् अन्यैः सर्वैर् यजेद् इति यत्-तस्यैव यजने व्यक्त-हेत्व् अन्तरं सर्वेषां यज्ञानाम् ईश्वरं फल-दातारम् । किं वा, स्वामिनं सर्व देवेश्वरत्वात् ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एष एव कर्मणा क्रियमाणेन कर्मणां कृतानां निहारः साधु यथा स्यात्-तथा निरूपितः शास्त्रज्ञैः । कः श्रद्धया विश्वासेन विष्णुं स्व-महिम्ना विश्व-व्यापकं स्वयं भगवन्तम् एव मखैः सर्वैर् यजेद् इति यत् स इत्य् अर्थः । तस्यैव यजने व्यक्तं हेत्व् अन्तरं सर्वेषां यज्ञादीनाम् ईश्वरं फल-दातारं सर्व-देवेश्वरत्वात् तद्-यजनं विना नैष्कर्म्यस्यापि हेयत्वम् उक्तम्—नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भा।पु। १.५.१२] इत्य्-आदिना । एवं चेद्-भवद् अभीष्टं तथापि भवत्-पुत्र एवायं प्रकारान्तरेणाराधनीय इति भावः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कर्म-निर्हारो यथा स्याद् इति प्रकार-प्रश्नोत्रम् आहुः—**यच्-**छ्रद्धयेति । मखानां विष्ण्वाराधक-ज्ञानं विना कर्म-निर्हारो न भवेद् इति भावः ॥३५॥
॥ १०.८४.३६ ॥
चित्तस्योपशमोऽयं वै कविभिः शास्त्र-चक्षुषा ।
दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्तस्योपशम उपशम-हेतुः, योगो मोक्षोपायश् च । शनैर् आत्म-मुद्अम् आवहतीति तथा । सु-गमः प्रवृत्त्य्-आश्रयत्वात् । धर्मश् चावश्यकः । अन्यथा विहिताकरणेन मालिन्य्-अप्रसङ्गात् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयम् आत्मन ईशस्य मुदावहः प्रीतिकरः चित्त-शोधको वा । श्रद्धया विष्णु-यजन-लक्षणः । अन्यथा एतद् अनाचरणे ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-फलं चाप्य् आहुः—चित्तस्येति । वै एव अयम् एव-शास्त्रम् एव चक्षुस् तेन शास्त्रार्थ-तत्त्व-विचारेण इत्य् अर्थः । दर्शितः प्रकटितः प्रवर्तित इत्य् अर्थः । योगो भगवद्-भक्त्य् उपायः धर्मश् च भक्ति-लक्षणः । अर्चनैक-प्रकारत्वात् । अत एवात्मनः कर्तुः आत्मनां वा सर्व-जीवानाम् एव मुदावहः । बहुधा तत्-सम्बन्धात् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साधुत्वम् एवाहुः—चित्तस्येति । अयं वै पूर्वोक्त-प्रकारक-कर्म-निर्हार एव चित्तस्य उप आधिक्येन शमः शमो मन्-निष्ठताबुद्धेर् [भा।पु। ११.१९.३६] इति श्री-स्वयम्-भगवत्-सम्मतः शमः प्रापकत्वात् तत्रापि सुगमः सुकरो योग उपायः स्वतः-सिद्धानां मखानां सङ्कल्प-विशेषमात्रेण तादृशत्व-सिद्धेः न त्व् अष्टाङ्गादिवत् कष्ट-साध्यः तथा अयम् एव मुख्यो धर्मः भागवत-धर्म-प्रवेशेन सर्व-धर्माश्रयत्वात् तत्रापि सन्तत-श्री-भगवत्-स्फूर्ति-मयत्वेनात्म-मुदावहश् च न तु तत्-काम-स्फूर्ति-मय-धर्मवन्-मात्सर्यादि-दुःखावहः तस्माद् अयम् एव कविभिः शास्त्रज्ञैः शास्त्र-चक्षुषा **शास्त्र-**रूपं यच्-चक्षुर् अर्थप्रकाशकं तद्-दानेन दर्शितः प्रकाशित इत्य् अर्थः ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपशमः उपशम-हेतुः सुगमः प्रवृत्त्याश्रयत्वात् योगः मोक्ष-प्राप्तौ उपायः आत्म-मुदावहः मनः-सुख-प्रदश् च ॥३६॥
॥ १०.८४.३७ ॥
अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शु126क्लेनेज्येत पूरुषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः [नारा १२.३]; ब्सोभ् ३.४.१९ इत्य्-आदिना त्यागस्यैव विहितत्वात् कथं कर्म मोक्षोपायः ? इत्य् आशङ्क्यादाव् एव त्यागस्याशक्यत्वाद् इत्य् आशयेनाहुः—अयम् इति सार्ध-चतुर्भिः । स्वस्त्य्-अयनः स्वस्ति क्षेमम् ईयतेऽनेनेति तथा । श्रद्धया निष्कामतया शुक्लेन शुद्धेनाप्तेन वित्तेन पुरुष ईश्वर इज्येतेति यद् एष पन्थाः ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—नन्व् इति । शुद्धेन न्यायार्जितेन ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तर्हि मुख्य-श्रवणादि-भक्तिर् एव साक्षात्-कार्या, किं बहु-व्यापार-गौणाङ्ग-यज्ञैः? तत्राहुः—अयम् इति द्वाभ्याम् । स्वस्त्य् अयनो निर्विघ्न-भक्ति-प्रापक इत्य् अर्थः । द्विजोतः-त्रैवर्णिकस्य आप्तेन स्ववृत्त्या लब्धेन न्यायार्जितेन इत्य् अर्थः । अत एव शुक्लेन अविरक्तानां वित्तवतामादौ यज्ञैर् धनार्पणम् एवोचितम् इति भावः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्राप्य् अयम् इत्य्-आदि-स्वस्त्ययनः गार्हस्थ्याश्रमस्य वित्तस्य भगवत्-समर्पण-रूपया प्रपत्त्या मत्-प्रसादात् द्विज्-आतेत्र् ऐवर्णिकस्य अन्यस्यान् अधिकारात् आप्तेन स्व-प्रवृत्त्या लब्धेन न्यायार्जितेन इत्य् अर्थः । अत एव शुक्लेन यथोक्तं श्री-विष्णु-धर्मोत्तरे—
प्रतिग्रहेण यल्-लब्धं याज्यतः शिष्यतस् तथा । > गुणान्व् इतेभ्यो विप्रस्य शुक्लं तत्रिविधं स्मृतम् ॥ > युद्धोपलब्धं कारं च दण्डाच् च व्यवहारतः । > क्षत्रियस्य धनं शुक्लं त्रिविधं परिकीर्तितम् ॥ > कृषि-वाणिज्य-गो-रक्षाः कृत्वा शुक्लं तथा विशः । > द्विज-शुश्रूषया लब्धं शुक्लं शूद्रस्य कीर्तितम् ॥ > क्रमागतं प्रीति-दायं प्राप्तं च सह-भार्यया । > अविशेषेण सर्वेषां धनं शुक्ले प्रकीर्तितम् ॥ > शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ॥ इति ।
ननु पुरुषेज्यैव चेत्-कर्तव्या तर्हि मुख्य-नव-विध-भक्त्य् अङ्गेन यज्ञादिना तत्राहुः—गृह-मेधिनः गार्हस्थ्य-धर्माग्रहवतः इत्य् अर्थः । तच् च सम्यक् श्रद्धत्वाभावात् लोक-सङ्ग्रहानद्व् एति ज्ञेयम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गृहमेधिनः गार्हस्थ्य-धर्माग्रहवत इत्य् अर्थः । भगवद् अर्चादि श्रद्धावतां तुतद् एव परमश्रेय इति भावः ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वि-जातेस् त्रैवर्णिकस्य आप्त-वित्तेन न्याय-प्राप्त-धनेन शुद्धेन ॥३७॥
॥ १०.८४.३८ ॥
वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतेषणाम् ।
आत्म-लोकैषणां देव कालेन विसृजेद् बुधः ।
ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्त्य्-अयनम् आहुः, वित्तैषणाम् इति । वित्त-फल-भूतैर् यज्ञैर् दानैश् च वित्तैषणां वित्तेच्छां विसृजेत् । गृहैर् गृहोचितैर् मोगैर् दार-सुतैषणां विसृजेत् । तद् अनुभवेनैव तद् औत्सुक्य-निवृत्तेः । देहे मृते आत्मनः स्वर्गादि-लोकैषणां कालेन क्षयानुसन्धानेन विसृजेत् । देव हे वसुदेव । यद् वा, देव-कालेन देवानाम् अपि मृत्युना । मृत्यु127-हेतु-भूतेनेत्य् अर्थः । अत्राचारं प्रमाणयति, ग्राम इति ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बुधः संसारासारज्ञः । वित्तैषणां धनेच्छाम् । तद् अनुभवेन **दार-**सुताद्य् अनुभवेन । तेष्व् औत्सुक्यस्योत्कण्ठायाः । **देव-**शब्देन वसुदेव-ग्रहणम् एकदेशि-न्यायापेक्ष-मत आह—यद्व् एति । अत्रैषणात्रयत्यागे । धीरास् त्याग-शक्तिमन्तः । ग्रामे गृहस्थाश्रमे । गृहस्थस्यैव ग्राम-स्थित्य् अधिकारात् तत्-स्थ्याताच्-छब्द्यम् इति न्यायेन ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् एव वित्तैषणापि क्षीयते नान्यथेति । सदृष्टान्तम् आह—वित्तेति । गृहैर् इत्य्-आदिक-दृष्टान्ततया एवम् अग्रे\ऽपि बुधो विवेकी अन्यथा वित्तवतो गृहस्थस्य मनः-शुद्ध्य् अभावेन श्रवणादि-भक्तेर् एवासिद्धेर् इति भावः ।
ननु तर्हि केवल-श्रवणादि-परतासिद्धये धनादि-सहितं गृहम् एव त्याज्यम्, तत्राहुः—ग्राम इति । गृहाश्रमे धीरा बुद्धिमन्तः एषणाक्षयाभावेनाविरक्तस्य त्यागो नोपयुक्त इति भावः ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मिंस् तत्-तद्-दर्पणात्-तत्-प्रसादेन तत्-तद्-एषणापि क्षीयत इत्य् आहुः—वित्तेति । **यज्ञ-**दानैः वित्त-व्ययमयतत्-तत्-कर्मभिः पूर्वोक्तरीत्या भवद्-इज्यार्थैः तथा गृहैस् तत्रत्य-**दार-**सुतादिभिः तद्-इज्यार्थैः ततो या चात्मैषणा आत्म-पक्ष-पात-रूपा या च लोकैषणा लोक-द्वय-वशीकरणेच्छा-रूपावशिष्टा तां च हे देव! कालेन सर्वेणैवावसरेण [पथि] तद्-इज्यैकानुसन्धानतया तद् अर्थीकृतेन देवस्य भगवतः कालेन तद्-इज्यैकानुसन्धान-मय-समय-गमनेन वा विसृजेत् त्यक्तुम् अर्हः स्यात् बुधो विवेकी एवं वित्तवतो गृहस्थस्य ततः पूर्व-विक्षिप्तमनस् त्वेन श्रवणादिकम् अपि सुष्ठु न सिद्ध्येद् इति भावः । अत एव [ग्राम इत्य् अर्धकम्] ग्रामे गृहाश्रमे एषणाक्षयाभावेनाविरक्तस्य हठात्-त्यागे\ऽपि श्रवण-मननादि-निष्ठत्वा-सिद्धेस् तद् अनन्तरम् एव त्याज्यम् इति भावः ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वित्तैषणाम् इत्य्-आदिकं तादृश-भगवज्-जनाधिकारि-सम्पादनायोक्तम् ॥३८-६५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्कामत्वं विना कर्म-निर्हारो न स्यात् निष्कामत्वं चानेन प्रकारेण भवेदित्य् आहुः—वित्तैषणां वित्ताकाङ्क्षां यज्ञैर् दानैश् च वित्त-फल-भूतैस् त्यजेत् । सम्पादितेषु यज्ञेषु दानेषु किम् अतः परं वित्तेन इति भावयेत् । गृहैर् गृहोचितैर् भोगैर् दार-सुतैषणां स्त्री-सम्भोग-वासनां पुत्र-वासनां च त्यजेत् । तद् अनुभवेनैव तद् औत्सुक्य-निवृत्तेः देहे मृते सत्य् आत्मनः स्व-र्गादि-लोकैषणां कालेन क्षयानुसन्धानेन विसृजेत् । देव हे वसुदेव! अत्राचारं प्रमाणयति-ग्राम इति ॥३८॥
॥ १०.८४.३९ ॥
ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितृणां प्रभो ।
यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ऋणैर् इति । तथा च श्रुतिः, जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इत्य्-आदि । तान्य् अनिस्तीर्य तेषाम् ऋणान्य् अनपाकृत्य । तथा च मनुः,
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् । > अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ [मनु ६.३५] इति > ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र सङ्गतार्थम् आह—किं चेति । अनृणः इति श्रुति-शेष-पदं ज्ञेयम् स्मृतिर् अप्य् अत्र प्रमाणं, तथा चेति । अपाकृत्य दूरीकृत्य । मोक्षे मोक्ष-मार्गे संन्यासादौ । अधो व्रजति देवादीनां कोपान् नरकं गच्छतीत्य् अर्थः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, ऋषि-पितॄणाम् अध्ययन-पुत्राभ्याम् इव यज्ञेन देवानाम् ऋण-शोधनम् अवश्य-कृत्यम् एवेत्य् आहुः—ऋणेर् इति । प्रभो! हे सर्व-र्णादि-मोचन-समर्थ ! इत्य् अशक्तस्य न तद्-दोषावहम् इति सूचितम् । पितृणाम् इति ह्रस्वत्वम् आर्षम् । तान् देवादीन् अनिस्तीर्य पतेद् यः । किं वा, पुनर् गृह-भोगादौ प्रविशेद् इत्य् अर्थः । पाठान्तरे\ऽपि स एवार्थः । इदं तेषाम् असम्मतं लक्ष्यते तेषाम् इति व्याख्यानात् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रभो! हे सर्व-र्ण-मोचन-समर्थ! इत्य् अशक्तस्य न दोषावहम् इति सूचितम् । पितृणाम् इति ह्रस्वत्वम् आर्षम् । तान् देवादीन् अनिस्तीर्य, तान् इति पाठे स एवार्थः । देवादि-पदानाम् अपि तत्-तद्-ऋणे तात्पर्यात् पतेत् उभयतो भ्रश्येत् विघ्नाकुलो भवेद् इत्य् अर्थः । अत एव व्रजत्य् अध [मनु ६.३५] इति मनुः । अत्र भगवद्-आश्रयत्वं तु नोद्दिष्टम् इति तत्र न दोष इति भावः । देवर्षि-भूताप्त-नृणां पितृणाम् [भा।पु। ११.५.४१] इत्य्-आदेः ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, ऋणैर् इति । तथा च श्रुतिः—जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवान् जायते ब्रह्म-चर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः इत्य्-आदिः । तान्य् अनिस्तीर्य तेषाम् ऋणान्य् अनपाकृत्य ॥३९॥
॥ १०.८४.४० ॥
त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते ॥
यज्ञैर् देवर्णम् उन्मुच्य निरृणोऽशरणो भव
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरृणो निर्मुक्त-ऋणः । अशरणो भव गृहात् प्रव्रज ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणं गृहरक्षित्रोः इत्यमरः । न विद्यते शरणं यस्य सः । एतेनर्णापाकरणं विना गृहस्थत्वत्यागो\ऽनुचित इत्य् उक्तम् ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो विशेषे तम् एवाहुः—वै एव द्वाभ्याम् ऋणाभ्यां मुक्त एव अद्योन्मुच्य उच्चैर्मुक्त्वा निरस्य निरृणः सन् अशरणः अकारो विष्णुः श्रवणादिना तद् एकाश्रयो भव ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्दो विशेषे तम् एवाहुः-वै एव द्वाभ्याम् ऋणाभ्यां मुक्त एव । अद्योन्मुच्य उच्चैर् मुक्त्वा निरस्य निरृणः सन् अशरणो भव त्वं तु त्यागम् अपि विष्ण्व् अर्थं कुर्व् इत्य् अर्थः ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्वाभ्याम् ऋणाभ्याम् अशरणो भव गृहात् प्रव्रज ॥४०॥
॥ १०.८४.४१ ॥
व128सुदेव भवान् नूनं भक्त्या परमया हरिम् ।
जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च अविशुद्ध-चित्तानाम् अयं क्रमः, त्वं तु कृतार्थ एवेत्य् आहुः, वसुदेवेति । भवान् नूनं निश्चितं परमया प्रेम-लक्षणया भक्त्या हरिम् । प्रार्चोतवान् । यद् यस्मात् । वां युवयोः ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न त्वाम् उद्दिश्यैतद् उक्तम् इत्य् आह—किञ्चेति । प्रार्चः अर्चितवानसि । स हरिः । **यद्-**यतः । किम्-भूतस् त्वम्-भं कलत्रं तद् अस्यास्तीति भवान् सकलत्र इत्य् अर्थः । कलत्रोडुतेजसि स्याद्भं भो भ्रातरि भास्करे इति निरुक्तिः । वाम् इत्य् उक्तिर् अप्य् एवं सङ्गच्छते । प्रार्च इत्य् अनद्यतनातीतवाचिना लडा बहूनि जन्मानि सूचितानि । बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते [गीता। ७.१९] इति गीतोक्तेः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वसुदेव भवान् नूनम् इत्य्-आदि—यत् यो वां युवयोः पुत्रतां गतः, तं जगताम् ईश्वरं परमया भक्त्या प्राच्चः प्रकर्षेण अर्चितवान् ॥४१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इयन्तु साधकानां रीतिरुक्ता । भवांस्तु प्रथमत एव परम-कृतार्थ इत्य् आहुः—वसुदेवेति । सत्त्वं विशुद्धं **वसुदेव-**शब्दितम् [भा।पु। ४.३.२३] इत्य्-आदि-श्री-महा-देवोक्तानुसारेण शुद्ध-सत्त्व-स्वरूपतया विशुद्ध-चित्तत्वादिकम् अभिप्रेतम् । यद् वा, वसु भगवद्-भक्ति-लक्षनं धनम्, तेन दीव्यतीति तथा, तत्-सम्बोधनम् । तद् एव दर्शयति—भवान् इति । नूनं निश्चये । हरी सर्व-दोष-दुःखहरम् । यतो जगतां देवादीनाम् ईश्वरं प्रकर्षेण पुत्रत्वेन स्ववश्यतापेक्षया आर्चः अतो भवान् अपास्त-समस्तर्णो मुक्त-वर्गार्च्य एवेति भावः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इदं त्वजात-भक्ति-श्रद्धानं साधकानां रीतिर् उक्ता । भवांस् तु प्रथमत एव परम-कृतार्थः इत्य् आहुः—वसुदेवेति । वसु-भगवद्-भक्ति-लक्षणं धनं तेन दीव्यतीति तथा तत्-सम्बोधनं तद् एव दर्शयति भवान् इति । नूनं निश्चये हरिं सर्व-दोष-दुःख-हरं यतो जगतां देवादीनाम् ईश्वरं प्रकर्षेण पुत्रत्वेन स्व-वश्यतापेक्षया आर्चः अतो भवान् अपास्त-समस्तो मुक्त-भक्त-वर्गार्च्य एव । ततो\ऽभिप्रायान्तरेणैवायं तवोद्यम इति भावः । इदम् अपि लौकिक-लीलानुकरणानुसारेणैवोक्तम् । न तु नित्यत्वानुसारेण । तत् तु **वसुदेव-**शब्देन व्यञ्जितम् एव । शुद्ध-सत्त्वाख्य-श्री-भगवद् अन्तरङ्ग-शक्त्याविर्भाव-रूपत्वेन तन्-नामत्वात् । तद् उक्तं चतुर्थे—सत्त्वं विशुद्धं **वसुदेव-**शब्दितम् [भा।पु। ४.३.२३] इति । नवमे—वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् [भा।पु। ९.२४.३०] इति ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : वसुदेव-भवान् इत्य्-आदि । यत् यो वां पुत्रतां गतः तं जगताम् ईश्वरं परमया भक्त्या प्रार्चः प्रकर्षणार्चितवान् ॥४१-६८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : लोकरीत्यैव त्वया कृतस्य प्रश्नस्यास्माभिर् अपि लोक-शास्त्ररीत्यैवोत्तरं दत्तम् । वस्तुतस् तु त्वयि भगवत्-पितरि नित्य-सिद्धे भगवतीव नैव लोक-शास्त्रे अधिकर्तुं प्रभूष्णू स्याताम् तद् अपि यद्इ त्वम् आत्मानं शास्त्रोक्त-धर्माणाम् अधिकारिणम् एव मन्यसे तत्राप्य् उत्तरं शृण्वित्य् आहुः—वसु धनं श्रेष्ठं भक्ति-योग एव । तत्र दीव्यसि इत्य् अत एव हे वसुदेव! भक्त्या तत्रापि परमया प्रकर्षेणैव आर्चः सर्वम् एव तत् कथम् अधुना ततो\ऽतिनिकृष्ट-कर्माधिकारे\ऽपि पतिष्यसीति भावः । चेद् अस्मद् उक्त-प्रमाणम् एवेत्य् आहुः—स यद्वाम् इति । तद् अपि त्वम् अतिदैन्येनात्मनि सांसारिकत्वम् आरोप्य यद्इ कर्म चिकीर्षसि तदा भगवानिव सङ्ग्रहार्थं कर्म कुर्व् इति भावः ॥४१-४४॥
॥ १०.८४.४२ ॥
श्री-शुक उवाच—
इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः ।
तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । तद्-वचनं मुनि-कथनम् । तान् मुनीन् ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतत् कर्मणा कर्मनिर् हारः [३५श।श्लो।] ईत्य्-आदिकं तेषां वचनं श्रुत्वा वव्रे वृतवान् । **महा-**मना यज्ञ-दान-श्री-भगवत्-सन्दर्शनादिना सर्व-लोक-हितेच्छय इत्य् अर्थः । यद् वा, वासुदेवोत्पाद्यात्म-भाग्य-महिम-प्रतिपादकं **तद्-**वचः श्रुत्वापि वव्रे । महा-मना इत्य् अयं भावः—इमे मुनयो भक्तिं याचन्ते सा च मादृशत एव सिध्येद् इति यज्ञ-व्याजेनैतान् प्रति श्री-कृष्ण-प्रसादं प्रापयेयम् इति विचिन्त्येति । अत एव वक्ष्यते पीत-कौशेय-वाससः [४९श।श्लो।] इति । मूर्ध्ना भूमिस्पृशा अत एव आ सम्यङ्नत्वा स्तुत्यादिभिः धर्मेण न्यायेन विप्रैः क्षत्रियाणां याज्यत्वात् किं वा,-धर्मेण हेतुना धर्मार्थं वृता इत्य् अर्थः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इति स्वस्यैवातिगूढाभिप्रायं तेषां वचः श्रुत्वा **महा-**मनास् तथैवावबुद्ध्य च इत्य् अर्थः ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४३ ॥
त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् ।
तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् विनशने । मखैर् इति बहुत्वम् अङ्गेष्ट्य् अपेक्षम् । कल्प्यन्ते आभिर् इति कल्पकाः सामग्र्यः, उत्तमा राजसूयादयस् तेष्व् इव कल्पका येषु तैः । प्रकृति-विकृति-यागैर् इत्य् अर्थः । धर्मेण कल्पोक्तविधिना अहिंसा-विधि-पुण्येषु धर्मः इति कोशात् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धार्मिकं भगवद्-धर्मपरम् **उत्तम-**कल्पकैर् मुख्य-कल्पैः सर्व-सामर्थ्य-सद्भावात् हे राजन्न् इति प्राग् उक्ताभिप्रायम् एव ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धर्मेण न्यायेन विप्रैः क्षत्रियाणां याज्यत्वात् किं वा, धर्मेण हेतुना धर्मार्थं वृता इत्य् अर्थः । धर्मेण धर्म-शास्त्रोक्त-विधिन इत्य् अर्थः । धार्मिकं भगवद्-धर्म-परम् उत्तम-कल्पकैः मुख्य-कल्पैः सर्व-सामर्थ्य-सद्भावात् ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४४ ॥
तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः ।
स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-दीक्षायां यज्ञारम्भ-सङ्कल्प-रूपायां दीक्षा स्याव्रत-सङ्ग्रहः इति यादेवः पुष्कर-स्रजः कमल-बीज-मालावलम्बिकण्ठाः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वृष्णयो राजानश् च दिक्षाशालाम् उपाजग्मुर् इति परेणान्वयः । यद् वा, वृष्णयो राजानश् च सुष्ठ्व् अलङ्कृता बभूवुर् इति शेषः । हे राजन्न् इत्य् अहो भाग्यं राज्ञाम् इति भावः । पुनः पुनस्तथैव सम्बोधनम् अत्यन्त-हर्षाद् एव ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् इति युग्मकम् । वृष्णयो राजानश् च हे राजन्! इत्य् अहो-भाग्यं राज्ञाम् इति भावः । पुनस् तथैव सम्बोधनम् अत्यन्त-हर्षाद् एव । तस्य श्री-वसुदेवस्य महिष्यः मुदिता इति च-शब्द-बलावृष्ण्य्-आदीना च विशेषणं द्रष्टव्यम् उप समीपे आजग्मुः ॥४४-४५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४५ ॥
तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः ।
दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आलिप्ताः कुङ्कुमादिभिः । वस्तु-पाणयो गृहीतार्हण-हस्ताः ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-महिष्यो राज-पत्न्यः, वसुदेव-भार्या वा । गृहीतम् अर्हणं यैस्ते । गृहीतार्हणास्ते हस्ता यासां तास् तथा।
हिरण्यं रजतं चापि गृहीत्वा क्रमुकं फलम् । > शालां विशेद्-यज्ञ-पत्नी शपेयुस् त्व् अन्यथा सुराः ॥ इत्य् उक्तेः॥
यज्ञो\ऽस्यास्तीति यज्ञो यज्ञकर्ता तस्य पत्नीत्य् अर्थः ॥४५-४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य श्री-वसुदेवस्य महिष्यो मुदिता इति च-शब्द-बलाद्-वृष्ण्यादीनम् अपि विशेषणं द्रष्टव्यम् । उप समीपे आजग्मुर् दीक्षा-शालाम् इत्य् अनेन यज्ञे\ऽपेक्ष्य-मण्डपादीनि सद्य एव निर्मितानीति बोध्यते ॥४५॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वस्तु-पाणयः हस्त-गृहीतार्हण-द्रव्याः ॥४५-४६॥
॥ १०.८४.४६ ॥
नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः ।
ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः ॥
जगु-सुकण्ठ्यो ग129न्धर्व्यः सङ्गीतं सह-भतृकाः ।
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुताश् च मागधाश् च गन्धर्व्यो गायकानां साक्षाद्-गन्धर्व-जातीनां वा स्त्रियः ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नेदुर् इति सार्धम् । सूताश् च मागधाश् च गन्धर्व्यः गायकानां गन्धर्व-जातीनां स्त्रियः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४७ ॥
तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः ।
पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अक्तं नेत्रयोर् अञ्जनेन । अभ्यक्तं सर्वाङ्गेषु नव-नीतेन ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं वसुदेवम् । यज्ञारम्भे यज्ञ-कर्तुरञ्जनं नेत्रयोर् दत्त्वा गो-नवनीतेन तद्-वपुः सर्वतो मर्दयित्वा च तं स्नापयेद् इति श्रुत्या विहितम् ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पत्नीभिर् इति । श्री-देवक्यादयो देव-ककन्याः सप्त रोहिण्यादयश् चान्या एकादशेत्य् एवम् अष्टादशभिः सहितम् । बहु-पत्नी-साहित्ये सुदृश्यत्वादौ च दृष्टान्तः—सोमेति सोमश् चासौ द्विजन्मादीनाम् इति तथा तम् । राज-शब्द-प्रयोगस् तद्-यज्ञ-माहात्म्य-बोधनार्थम् । तेनै-तद्-यज्ञस्यापि दिव्यत्वं सूचयति । श्री-वसुदेवस्य सुदृश्यता चोक्ता श्री-हरिवंशे तज्-जन्म-प्रसङ्गे—
मनुष्य-लोके कृत्स्ने\ऽस्मिन् रूपेणाप्रतिमो भुवि । > यस्यासीत् पुरुषाग्र्य्यस्य कान्तिश् चन्द्रमसो यथाइति ॥ > [हरि।प।३४.२०]॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सोम-राजम् इवेति । राज-शब्दात्-तस्य कृत-राजसूयावस्थत्वं स्मारयति । यज्ञस्य तादृशत्वं गमयति । यद् वा, यदि बहवः सोमा भवन्ति तन्-मध्ये च को\ऽपि भवति तदैव स उपमीयेत इत्य् अर्थः । अत एवोडुभी राज्ञीभिर् इत्य् अपि ज्ञापितम् अष्टादशभिर् इति । तादृश-सप्त-विंशतेर् अत्य् अन्तासम्भवाद् इति भावः । एवं श्री-हरिवंशे तु तज्-जन्म-प्रसङ्गे यद् इदं तस्य वर्णनम्—
मनुष्य-लोके कृत्स्ने\ऽस्मिन् रूप्रेणाप्रतिमो भुवि । > यस्यासीत्-पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा ॥ इति ।
अत्र तु तद् अपि न सोढम् ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अक्तं नेत्रयोर् अञ्जनेन अभ्यक्तं सर्वाङ्गेषु नवनीतेन सोम-राजं बहूनां सोमानां यदि वा कश्चिद् एको राजा भवति तम् इव इत्य् अर्थः ॥४७-४९॥
॥ १०.८४.४८ ॥
ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः ।
स्व्-अलङ्कृताभिर् विबभौ दीक्षितोऽजिन-संवृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताभिः पत्नीभिः सहितो दीक्षितो विरेजे ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विभवैर् भूषणाद्यैः स्वलङ्कृताभिः । अजिनमत्र मृग-चर्म ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विबभौ विशेषेण पूर्वतो\ऽप्य् आधिक्येन बभौ अशोभत । यतो दीक्षितः तल्-लक्षणम्-अजिनेन संवृतो वेष्टित इति ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विबभौ विशेषेण रेजे ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.४९ ॥
तस्यर्त्विजो महा-राज र130त्न-कौशेय-वाससः ।
स-सदस्या विरेजुस् ते यथा वृत्र-हणोऽध्वरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य वसुदेवस्य । होत्राद्याः षोडश । ते पूर्वं वृता ये इत्य् अर्थः । वृत्रहण इन्द्रस्य । कुत्वाभावालोपाभावावार्षौ ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पीत**-कौशेय-वाससः** [भा।पु। ३.२८.१४] इति श्री-भगवन्**-महा-**प्रसाद-वस्त्र-प्राप्तेः इति श्री-वसुदेवदयया तेषां प्रार्थित-भक्ति-सिद्धिश् च सूचिता । अत एव विशेषेण रेजुः । इति **महा-**हर्षोदयात् सम्बोधयति-महा-राजेति ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीत**-कौशेय-**वासस इति श्री-भगवत्-परिधानीय-नव्य-दिव्य-वस्त्र-प्राप्तेः पाठान्तरे रत्न-श्रेणि-विलम्ब-युक्त-प्रान्त-भाग-**कौशेय-**वासस इति यथेत्यापात-मात्र-चमत्काराय ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.५० ॥
तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ ।
रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जीयेशौ सर्व-जीवानाम् ईशौ ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा यज्ञ-समये । स्वस्य विभूतिभिर् मूर्तिमद्भिर् अणिमाभिः । यद् वा, लुप्तोपमा बोध्या । जीवेशौ जीवात्म-परमात्मानौ स्वैर् विभूतिभिर् अहङ्कारादि-योग-मायादिभिः ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वैः स्वैर् बन्धुभिर् निज-निज-प्रियैः श्री-गोपादिभिः । यद् वा, **स्वैर्-**ज्ञातिभिर् यादवैः **स्वैर्-**बन्धुभिश् च श्री-नन्दादिभिर् वेवान्वितौ । तत्र च-शब्दाभ्यां द्वयोर् अपि प्राधान्यं द्योत्यते । दारेषु स्व-शब्दाप्रयोगः स्वत एव तेषां स्वीयत्वात् जीवेशावपि कथम्-भूतैः? स्वादिभिः स्व-विभूतिभिर् निज-वैभवैः । यद् वा, स्व-विभूतिभिश् च कौस्तुभ-मकर-कुण्डलादि-निज-परिच्छदैः स्वादीनां यथोत्तरं नैकट्ये श्रेष्ठ्यम् ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जीवानामीशौ प्रजानां राज-युव-राजाव् इव नियन्तारौ स्व-विभूतिभिर् अन्तरङ्ग-वैभवै-रेजतुः । ता एवाह—स्वैः स्वैर् बन्धुभिर् मातुलेय-सम्बन्धि-मित्रादिभिः । स्वैः स्वैर् दाश्चेत्य् अन्वयः । तथापि सुतेषु पुनः स्व-शब्द-प्रयोगः आकारादिभिर् अभेद-प्रतीतेः स्वतायाः स्पष्ट-ज्ञानात् । यद् वा, जीवः स्वांशेन सर्व-समष्टि-जीवान्तर्यामी स्वयं सङ्कर्षणः यथोक्तम् एकादशे कालो मायामये जीवः [भा।पु। ११.२४.२७] इति ईशश् च ततः परः स्वयं भगवान् तौ समम् अन्यत् ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : जीवेशौ सर्व-जीवानामीशौ ॥५०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.५१ ॥
ईजेऽनु131-यज्ञं यज्ञं अग्नि-होत्रादि-लक्षणैः ।
प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनु**-यज्ञं** प्रति-यज्ञम् । आम्नात-सर्वाङ्गाः प्राकृता ज्योटिष्टोम-दर्श-पूर्ण-मासादयस् तेभ्यश् चोदनालिङ्गादिभिर् अति-देश-प्राप्ताङ्गा वैकृताः सौर-सत्रादयस् तैः सर्वैः । द्रव्यं पुरोडाशादि, ज्ञानं मन्त्रः, क्रिया कर्म, तेषाम् ईश्वरम् ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्यः प्राकृतेभ्यो यागेभ्यश् चोदनालिङ्गादिभिर् विधि-लिङ्ग-प्रकरण-समाख्यादिभिः अतिदेशेन प्रकृतिवद्-विकृतिः कर्तव्या इति वाक्येन प्राप्तान्यङ्गानि येषु ते वैकृताः । ईश्वरं स्वामिनम् ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अनु**-यज्ञं** यो विधिस् तेन । विधिम् एवाह—अग्नीत्यादिना । द्रव्यादीनाम् ईश्वरं भगवन्तम् इति तस्यैवेज्यत्वाद् इति भावः ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनु-यज्ञं यो विधस्तेन विधिम् एवाह—अग्नीत्य्-आदिना । द्रव्यादीनाम् ईश्वरं भगवन्तम् इति । तस्येवेज्यत्वाद् इति भावः ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनु**-यज्ञं** प्रतियज्ञम् आम्नात-सर्वाङ्गाः प्राकृताः ज्योतिष्टोम-दर्श-पूर्णमासादयः तेभ्यश् चोदनालिङ्गादिभिर् इति देश-प्राप्ताः वैकृताः सौर्य-सत्रादयः तैः सर्वैर् एव द्रव्यं पुरोडाशादि ज्ञानं मन्त्रः क्रिया कर्म तेषाम् ईश्वरम् ॥५१॥
॥ १०.८४.५२ ॥
अथर्त्विग्भ्योऽददात् काले यथाम्नातं स दक्षिणाः ।
स्व्-अलङ्कृतेभ्योऽलङ्कृत्य132 गो-भू-कन्या महा-धनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आम्नातानि कथितानि सर्वाण्यङ्गान्यारादुपकारकादीनि येषु ते आम्नात-सर्वाङ्गाः । अथ प्राकृत-वैकृत-यागोत्तरम्। काले यथोदितसमये । यथाम्नातं यथोदितम् । स वसुदेवः ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ यागानन्तरं तथाम्नातं शास्त्रोक्तानुसारेण इत्य् अर्थः । स श्री-वसुदेवः प्राक् तेनैव सुष्ठ्व् अलङ्कृतेभ्यो\ऽप्य् अलङ्कृत्य गवाद्या एव दक्षिणाः । कथम्-भूताः? महा-धना स्वर्ण-रत्नादीनि धनानि यासु ताः । यद् वा, महा-धना **महा-**मूल्याः ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ यागानन्तरं गवाद्या एव दक्षिणाः अलङ्कृत्यादात् । कथम्-भूताः? महा-धनाः महान्ति स्वर्ण-रत्नादीनि यासु ताः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स वसुदेवः दक्षिणाः कीदृशीः महान्ति स्वर्ण-रत्नादीनि धनानि यासु ताः ॥५२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स वसुदेवः दक्षिणाः कीदृशीः महान्ति स्वर्ण-रत्नादीनि धनानि यासु ताः ॥५२॥
॥ १०.८४.५३ ॥
पत्नी-संयाजावभृथ्यैश् च133रित्वा ते महर्षयः ।
सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सस्नुः स्नानं चक्रुः ॥५३॥
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पत्नी-**संयाजः पत्नीभिः क्रियमाणः, काश्चन देवता उद्दिश्य यजनम् । अभवृथः समाप्ति-कर्म-स्थानम् उभयत्रेष्टि-विशेषाश् च भवन्ति । तैश् चरित्वा तांश् च कृत्व इत्य् अर्थः ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सस्नुरवभृथस्नानं चक्रुः । विप्राश् चान्ये । ततः स्नानानन्तरम् अलङ्कृतः सन् अदात् तथा स्त्रियः स्त्रीश् च । यद् वा, स्त्रियस् तस्य महिष्यो\ऽप्यदुः । वर्णान् सर्वांश् चतुरः ॥५३-५४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सस्नुः अवभृथ-स्नानं चक्रुः । विप्राश् चान्ये ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पत्नी-संयाजो यागविशेषः अवभृथ-सम्बन्धि-कृत्यानि च तैः चरित्वा तान्य् अनुष्ठाय इत्य् अर्थः ॥५३॥
॥ १०.८४.५४ ॥
स्ना134तोऽलङ्कार-वासांसि वन्दिभ्योऽदात् तथा स्त्रि135यः ।
ततः स्व्-अलङ्कृतो वर्णान् आ-श्वभ्योऽन्नेन पूजयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आ-श्वभ्यः शुनोऽभिव्याप्य । अन्नेन पूजयद् अपुजयत् ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा स ददौ तथा स्त्रियो\ऽपि ददुर् इत्य् अर्थः । ततः स्नानोत्तरम् ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नानेत्य् अर्धकम् । स्नात इति क्वचित्-तथा स्त्रियस् तस्य महिष्यो\ऽप्यदुः । ततः इति युग्मकम् । वर्णान्-अपूजयत् । अन्यांश् च श्वपच-पर्यन्तान् इत्य् अर्थः ॥५४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्नातो वसुदेवः तस्य स्त्रियश् चादुः आश्वभ्यः शुनो\ऽभिव्याप्य अन्नेन पूजयत् अपूजयत् ॥५४॥
॥ १०.८४.५५ ॥
बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा ।
विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : बन्ध्वादि-चारणान्तान् पारिबर्हेण प्रीति-दानेन चापूजयत्, ते च सर्वे प्रययुः ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पारिबर्हेण पूजा-द्रव्येण बन्ध्वादींश् चापूजयद् इति शेषः ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बन्धून् एवाह—विदर्भेति । यद् वा, बन्धून् यादवान् विदर्भादींश् च तत्-तद्-देश-नृपादीन् नरा अन्ये\ऽपि सर्वे मनुष्या भूतादयश् च तान् । तत्र भूताः प्रमथाः सुरगणानिति भूतादीन् इत्य् अनेन साक्षात्ते तत्रागता इति ज्ञेयम्। श्री-निकेतं श्री-कृष्णम् इति तद्-यज्ञे\ऽनायासेन सर्वाङ्ग-पूर्णतादिना सर्वेषां सन्तोषत्पत्तिः सूचिता ॥५५-५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बन्धून् यादवादीन् विदर्भादींश् च तत्-तद्-देश-नृपादीन् ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिबर्हेण प्रीति-दानेन च ॥५५॥
॥ १०.८४.५६ ॥
सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् ।
श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते च बन्ध्वादयः ॥५६-५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नरो\ऽन्ये सर्वे मनुष्याः भूतादयश् च तान् तत्र भूताः प्रमथाः सुरगणान् इति भूतादीन् इत्य् अनेन साक्षात्ते तत्रागता इति ज्ञेयम् । श्री-त्य् अर्धकम् । श्री-निकेतम् इति । तद्-यज्ञेनानायासेन सर्वाङ्ग-पूर्णतादिना केवल-तत्-सौन्दर्यादिना च सर्वेषां सन्तोषोत्पत्तिः सूचिता ॥५६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ते च सर्वे प्रययुः ॥५६॥
॥ १०.८४.५७ ॥
धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।
नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रयाणे केषाञ्चिद् विशेषम् आह—धृतराष्ट्र इति द्वाभ्याम् । अनुजो विदुरः । पार्था युधिष्ठिर-भीमार्जुनाः । यमौ नकुल-सहदेवौ ॥५७॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् इति । भगवद् अवतारत्वात् तच् च परम-गुरुत्वपि-तृत्वाभ्यां द्वयोर् अपि विशेषणम् । सुहृदादयो\ऽन्ये च । सौहृदाक्लिन्न-चेतस् त्वे हेतुः—बन्धून् इति । तत्रापि यदून् विरहाद्-यत् कृच्छ्रं दुःखं तेनैव ययुः, अपरे चोदासीनाः ॥५७-५८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धृतेति युअकम् । सुहृदादयो\ऽन्ये च । विरहात् यत्-कृच्छं दुःखं तेनैवोपलक्षिता ययुः । अपरे\ऽप्य् उदासीनाः ॥५७-५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुजो विदुरः ॥५७-५८॥
॥ १०.८४.५८ ॥
बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः ।
ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सौहृदेनाक्लिन्नानि चेतांसि येषां ते ॥५८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आक्लिन्नान्यार्द्राणि ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.५९ ॥
नन्दस् तु सह गोपालैर् बृह136त्या पूजयार्चितः ।
कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न्यवात्सीत् उवास ॥५९-६०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तेषां सर्वेषां प्रस्थापनं व्रज-जनैः सहासङ्कोचेन चिरं तत्र स्थातुम् इति भगवद् अतिप्रायं सूचयन्न् आह—नन्द इति । तु-शब्दः सर्वतो विशेषात् । तम् एवाह--महत्य् एत्य्-आदिना [बृहतीत्य्-आदिना इति पाठान्तरम्] कृष्णादिभिर् अर्चितः तत्र चिरं **सह-**निवासार्थं सम्मानितः सन् । यद् वा, प्रस्थापनौचित्येनार्चितो\ऽपि नितरां दाढ्येनावात्सीत् । यतो बन्धुषु श्री-**कृष्ण-**रामादिषु । यद् वा, बन्धुभ्यः श्री-वसुदेवादिभ्योऽपि श्री-कृष्ण-रामयोर् वत्सलः कृष्णादीनां यथा-पूर्वम् अर्चने श्रेष्ठ्यम् आद्य-शब्दात् वसुदेवाक्रूरोद्धवादयः सर्वे यादवाः । तत्र श्री-नन्द-प्रिय-सखस्यापि श्री-वसुदेवस्य साक्षाद् अनुक्तिर् वक्ष्यमाणतत्-प्रणयोक्त्याग्रे तेन तत्-सम्माननस्याभिव्यक्तेर् भावित्वात् । यद् वा, सख्यविशेषेण तस्य तद् अर्चने तात्पर्याभावाद् इति ॥५९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तेषां सर्वेषां श्री-भगवता प्रस्थापनं व्रज-जनैः सहासङ्कोचेन चिरं तत्र निवासाभिप्रायम् इति सूचयन्न् आह—नन्द इति । शब्दः सर्वतो विशेषात् । अत एव महत्या पूजया अर्चितश् च न्यवात्सीच् च । बृहत्येति क्वचित् यतः बन्धुभ्यः श्री-वसुदेवादिभ्योऽपि श्री-कृष्ण-रामयोर् वत्सलः आद्य-शब्दाद्-वसुदेवादयः तत्र श्री-वसुदेवस्य साक्षाद् अनुक्तिर् यज्ञाङ्गत्वेन पूर्वम् एव कृत-पूजा-विशेषत्वात् ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तु-शब्देन सर्वतो\ऽपि विशेषतः पार्थादि-पूजातो\ऽपि बृहत्या पूजया तान् सर्वान् प्रस्थाप्यापि तस्य चिरम् अप्रस्थापनात् ॥५९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.६० ॥
वसुदेवोऽञ्जसोत्तीर्य मनोरथ-महार्णवम् ।
सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मनो-रथो यज्ञ-विषयस् तम् एव महर्णवम् ॥६०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मनोरथः श्री-कृष्ण-राम-साहित्येन श्री-नन्दादिभिर् व्रज-जनैः सङ्गत्य क्वचित् संस्थाने सर्वेषां बन्धूनां नृपादीनां च साक्षान्-महोत्सव एकः क्रियेतेति तद्-विषयकः स एव महार्णवो दुर्घटत्वात् । तम् अञ्जसानायासेनोत्तीर्य प्रीतमनाः सन् सुहृद्भिर्तृत इति सर्वेषां यादवानां सम्मत्य इत्य् अर्थः । यद् वा, **सुहृद्-**वृतो\ऽपि श्री-नन्दापेक्षाया सुहृत्त्वेन तान् अनपेक्ष्येति करे स्पृशन् स्नेहेन श्री-नन्दकरं शनैर्गृहीत्व इत्य् अर्थः ॥६०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कंस-वधमारभ्य श्री-वसुदेवस्य मनोरथश् चायं श्री-कृष्ण-रामसाहित्येन श्री-नन्दादिभिर् व्रज-जनैः सङ्गत्य क्वचित्-स्थाने सर्वेषां बन्धूनां मुनीनां नृपादीनां च साक्षान्-महोत्सवः क्रियेतेति स एव महार्णवः दुर्घटत्वात् तम् अञ्जसा अनायासेनोत्तीर्य प्रीतमनाः सन् दिनान्तरे सुहृद्भिर् वृतिः सर्वैर्-भ्रातृ-पुत्रादिभिः सहितो भूत्वा तन्-निवासं गतः सन्न् इति करे स्पृशन् आभिमुख्येनैकासन उपविश्य स्नेहेन तत्-करं गृहीत्व इत्य् अर्थः । एषा च परिपाटी प्रायस् तस्य श्री-कृष्ण-वियोग-दुःख-सान्त्वनायेति ज्ञेयम् ॥६०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मनोरथो यज्ञ-विषयकस् तं महार्णवम् उत्तीर्य तत्-सर्व-सम्पूर्णता-लाभेनेति भावः ॥६०॥
॥ १०.८४.६१ ॥
श्री-वसुदेव उवाच—
भ्रातर् ईश-कृतः पाशो नृणां यः स्नेह-सञ्ज्ञितः ।
तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शूराणां बलेन योगिनां ज्ञानेनापीत्य् अर्थः ॥६१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं **स्नेह-**पाशम् । इत्य् अर्थ इति-न हि बलेन ज्ञानेन च स्नेह-पाशश् छिद्यते, राम-चन्द्रादिषु तथा दर्शनाद् इति भावः ॥६१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे प्रातर् इति स्नेहेन भ्रातृ-सख्योर् अभेदात् ईश-कृतत्वाद् एव दुस्त्यजम् ॥६१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव सर्वे वयं त्वद् अधीना इति सूचयन्न् आह—चतुर्भिः अत एव प्रथमतो भ्रातर् इति सम्बोधनम् आवयोर् अपत्यादिषु भेद एव नस्तीति भावः । ईश-कृतत्वाद् एव दुस्त्यजम् ॥६१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बलेन शूराणाम् अपि दुर्भिदं ज्ञानेन योगिनाम् अपि दुस्त्यजम् इत्य् अर्थान्तर-न्यासेन मत्-पुत्रयोः स्नेह-पाशेन युवां रात्रि-न्दिवं दृढं बद्धाव् एव भवथ इति भावः ॥६१॥
॥ १०.८४.६२ ॥
अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः ।
मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् कुतस् तत्राह—अस्मास्व् इति । कृताज्ञेषु कृतम् उपकारम् अजानत्सु सत्तमैर् भवद्भिर् अप्रतिकल्पा अनुपमा मैत्रीयम् अर्पिता अफलापि प्रत्य् उपकार-शून्यापि कर्हिचिद् यद् यस्मान् न निवर्तेत । तस्माद् ईश्वर-कृतः पाशोऽयं भवताम् इति गम्यत इत्य् अर्थः ॥६२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र प्रकारमाक्षिपति-तत्-कुत इति । तत्-स्नेह-पाशाकृन्तनम् । कुतः कथम् अवगतम् । तत्रात्र इत्य् अर्थः । यद्यतः कृता तस्माद्-धेतोः । इत्य् अर्थ इति-सर्वः स्वार्थं समीहते इति न्यायेन तं विना यज्ञेषु प्रतीकारासमर्थेषु जानतां मैत्रीकरणम् ईश-प्रेरणयैव सम्भवतीति भावः ॥६२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु कुतो मन्यसे\ऽकृतज्ञेष्व् अधमेष्व् अप्य् अस्मासु सत्तमानां भवतां निरूपाधि-महा-स्नेहानिवृत्तिमित्य् आह—अस्मास्व् इति । बहुत्वं श्री-कृष्ण-रामाद्य् अपेक्षया । किं वा, तादृशतत्-स्नेह-पात्रत्वेनात्मनो बहुमानात् सत्तमैर् इति विनयाद्-दैन्याद्वात्मनो\ऽधमता सूचितैव । कर्हिचित् कदाचिद् अपीति दूर-देशस्थित्य्-आदाव् अप्य् अपराधादौ सत्य् अपीत्य् अर्थः ॥६२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश-कृत-पाशत्वम् एव कुतः तत्र तम् एव दृष्टान्तयन् विवक्षितम् आह—अस्मास्व् इति । मत्-साबन्धेनान्य् एष्व् अपीत्य् अर्थः । कर्हिचित् कदाचिद् अपीति दूर-देशस्थित्य्-आदाव् अप्य् अपराचादौ सत्य् अपीत्य् अर्थः । अन्यत्-तैः यद् वा, तद् एवम् ईश-कृत-स्नेहस्य पारस्परिकत्वे सत्य् एव गवोर्-युगलतया बन्धनवत् पाशता युक्ता एतस्य तद् असंयोगेन्यतरस्य तत्-सङ्गे हि परस्पर-सम्बन्धाभाव-दर्शनात् मम संयोगाभावे\ऽपि तव तु तेन मयि बन्धः परम एवापूर्व इत्य् आह—अस्मास्व् इति कृताज्ञत्वात् स्नेहेन बन्धुम् अशक्येष्व् अप्य् अस्मासु सत्तमैः कृतज्ञैर् भवद्भिर् या मैत्री स्नेह-लक्षणार्पिता सा त्वम् उपमाप्य् अफला बन्धु-समर्थापि **कर्हिचित्-**कदाचिद् अपि न निवर्तेत निवर्तितुं सम्भाव्यापि न स्याद् इति ॥६२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-राम-विषयक-दृढ-स्नेह-रूप-महा-धन-वितरणेन सत्तमैर् भवद्भिर् अस्मासु यत् या मैत्री अर्पिता इयम् अप्रतिकल्पा निरुपमा अफला प्रत्य् उपकार-लिप्साशून्या कदापि न निवर्तिष्यते च एवार्थे अपि निश्चितम् एव अस्मासु कीदृशेषु कृताज्ञेषु कृतम् उपकारम् अजाननत्सु तेन वयम् असत्तमाः सत्तमान् युष्मान् प्रतीदं वक्तुम् अपि न त्रपामहे इति भावः ॥६२॥
॥ १०.८४.६३ ॥
प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि ।
अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अफलत्वम् एवाह—प्राग् इति । हे भ्रातः, अक137ल्पाद् असामर्थ्याद् वः कुशलं प्रियं न ह्य् आचराम न कृतवन्तो वयम् । श्री-मद् एनान्धान्य् अक्षीणि येषां ते ॥६३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अकल्पत्वं च कंसोपद्रुतत्वात् । पुरः सतः अग्रे स्थितान् ॥६३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्राक् श्री-प्राप्तेः कंस-वधाद् वा पूर्वं कुशलं प्रणय-सङ्गति-महोत्सवं हि एव पुरः सतो\ऽग्रे वर्तमानान् अपि युष्मान् न पश्यामः सदा नावलोकयामः । तत्र हेतुः—श्री-मदेति । बहु-कुटुम्बादि [बहु-कनकादि] समृद्ध्या युष्मत्-त्यागेनान्य् अत्रापीदृक्-प्रवृत्तिर् इति भावः । यद् वा, सतः साधूनपि युष्मान् पुरः सर्वादौ न पश्यामः । प्रियाचरणादिना नावेक्षामहे यतः श्री-मदेनान्धाक्षा भ्रष्ट-ज्ञाना इत्य् अर्थः ॥६३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरः-सतः अग्रे-वर्तमानान् अपि युष्मान् न पश्यामः किं पुनर् दूरस्थान् ॥६३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वेषाम् अकृतज्ञत्वम् एवाह—प्राक् अकल्पात् कंस-पारतन्त्र्येणासाम्चर्थ्यात् युष्माकं प्रत्य् उपकारं नाचराम न त्रपामहे इति । कंस-वधानन्तरम् अधुना स्वातन्त्र्ये\ऽपि श्री-मद् एत्य्-आदि ॥६३॥
॥ १०.८४.६४ ॥
मा राज्य-श्री-र् अभूत् पुंसः श्रेयस्-कामस्य मान-द ।
स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : राज्य-श्री-र् मा भूत् । छान्दसोऽडागमः ॥६४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अदर्शने हेतुम् आह—मेति । सुजनान् गुरु-जनान् । तपस्वि-बहुश्रुताचार्यादीन् अपि किं पुनर् अन्यान् । यया **राज्य-**श्रियान्ध-दृक् आवृत-चक्षुः ॥६४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रेयस्-कामस्येति श्रिया लोक-द्वय-मङ्गलनाशाद् इति भावः । उत अपि स्व**-जनान्** ज्ञात्य्-आदीन् अपि वा अपि बन्धून् मित्राण्य् अपि वा-शब्दः स्वजनेभ्यो
बन्धूनाम् उत्कर्षापेक्षया हे मानदेति श्रियां सत्याम् अन्येभ्यो मानदानेन युष्माकम् एव सोचितेति भावः ॥६४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मानद् एति श्रियां सत्याम् अपि अन्येभ्यो मान-दातृणां युष्माकम् एव सोचितेति भावः ॥६४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मा अभूत् मा भूयात् । अडागम आर्षः । एवं महा-दैन्य-विनय-सिन्धौ मज्जयन् स्वयम् एव निर्ममज्ज वसुदेव इति भावः ॥६४-६५॥
॥ १०.८४.६५ ॥
श्री-शुक उवाच—
एवं सौहृ138द-शैथिल्य-चित्त आनकदुन्दुभिः ।
रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । तत्-कृतां नन्द-कृताम् । मैत्री विपदि स्त्री-पुत्र-रक्षण-लक्षणाम् । प्रतिकर्तुम् असमर्थः केवलं रुरोदेति ॥६५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् ईदृशं वदन्न् इति शेषः । यद् वा, अनेनोक्त-प्रकारेण मैत्री स्मरन् अतः सौहृदेन प्रेम्णा यच्-छैथिल्यम् आर्द्रता तद् युक्त**-चित्तः** सन् अत एवाश्रु-युक्ते विशिष्टे विशालायते लोचने यस्य तथा-भूतश् च सन् रुरोद । वि-शब्देनाश्रूणाम् आधिक्यं ध्वनितम् । यद् वा, स्वभावत एव सौहृद-शैथिल्य-चित्तः पुनश् चैवं स्मरन् समानम् अन्यत् । आनकदुन्दुभिर् इति तज्-जन्मोत्सवे देव-कृतस्यानकदुन्दुभीनां घोषस्य सूचनेन तन्-महा-भाग्य-स्मरणात्-तद्-योग्यतां सूचयति ॥६५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वभावत एव सौहृदेन शैथिल्यं यत्र तादृश**-चित्तः** पुनश् चैवं तत्-कृतां मैत्री स्मरन् ॥६५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.६६ ॥
नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः ।
अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितोऽवसत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अद्य श्व इति । प्रातर् निर्गमेऽद्यैवापराह्णे गम्यताम् इत्य् अपराह्णे निर्गमे श्वो गम्यताम् इति पुनः पुनर् एवं मानितः ॥६६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सख्य्युर् वसुदेवस्य । निर्गमे गन्तुम् उद्यते ॥६६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्देन श्री-वसुदेवस्य व्यवहाराद् अपि तस्य विशेषं बोधयति-तम् एवाह—सख्युर् इत्य्-आदिना । श्री-वसुदेवस्य प्रियकृत् प्रियं कुर्वन् सन् । किं च, गोविन्दे गोकुलेन्द्रे श्री-कृष्णे रामे च गोकुल-रमणे प्रेम्णा स्नेह-विशेषेण हेतुना च । त्रीन् मासांस् तत्रावसत् । कथम्? अद्य श्व इति यदुभिः श्री-वसुदेवादिभिर् मानितः सन् नित्यं तत्-प्रकारेण इत्य् अर्थः । यद् वा, किं च, यदुभिर् उग्र-सेनादिभिर् निवासार्थं मानितश् च । अन्यत् तैर् व्याख्यातम् ।
तत्र श्री-गोपेन्द्रस्य श्री-कृष्ण-त्यागेन व्रजागमनानिच्छाविर् भवेपि तादृश-व्याख्यानं स्वपुत्रस्य तत्रागत्या व्रजेश्वरस्य प्रणयकोपेनैव व्रजे गमनानुबन्धाद् इति ज्ञेयम् । अथ वा अद्य श्वो वा मत्-पुत्रो\ऽयमस्माभिः सह व्रजे तस्मिंश् चलिष्यतीत्येवं त्रीन् मासान् । अन्यत् समानम् ॥६६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र श्री-नन्दस्याप्य् अप्रतिवचनं युक्तम् एव तस्य तद्-भावज्ञानात् श्री-कृष्णस्य स्यजातत्वे सन्देहाभावात् श्री-कृष्णस्य च ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इत्य् अनुसारेण अन्तरीणाहार्द्रात् यथैव दर्शितं श्री-भक्ति-रसामृत-सिन्धौ—
देवक्या विवृत-प्रसूचरितयाप्य् उन्मृज्य-मानानने > भूयोभिर् वसुदेव-नन्दनतयाप्य् उद्धष्यमाणे जनैः । > गोविन्दं मिहिर-ग्रहोत्सुकतया क्षेत्रे कुरोरागते > प्रेमावल्-लवनाथयोर् अतितराम् उल्लासम् एवाययौ ॥[भा।पु। > १०.४५.२३]
अथ श्री-नन्दो\ऽपि कथञ्चन चलितुम् अनुज्ञात इत्य् आशङ्क्याह—नन्दस् तु यदुभिः श्री-वसुदेवादिभिर् मानितः प्रत्यहं वर्द्धित-मानः सन् मासांस् त्रीन् अवसत् कथम् इव अद्य श्व इति मासत्रये जाते\ऽपि तथा रामे तद्वद् एव स्व-सुख-हेतुत्वेन धृतनाम्नि भ्रातृ-पुत्रे च यः प्रेमा तेन तु-शब्दश् च श्री-वसुदेवस्य तादृश-सद्-व्यवहाराद् अपि तस्य व्यवहारस्योत्कर्षं दर्शयति, तद् एवाह—सख्युस्तस्य **प्रिय-**कृद् एव सन्न् अवसत् । तत एव श्री-कृष्णे स्वात्मजत्वम् अव्यञ्जयन् स्वसङ्गे नेतुं साक्षाद् अनागृहंश् च इत्य् अर्थः ॥६६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नन्दस् तु । कामैः श्री-कृष्णस्य गोकुलागमनमयैः तत्र श्री-कृष्णेन स्वागमप्रतिज्ञा तत्रैव नित्य-स्थितिमयी अन्यैस् तु गमनागमनमयीति भेदो ज्ञेयः ॥६६-७१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्दस् त्व् इति । तुर्भिन्नोपक्रमे । वसुदेवस्य य उपक्रमो\ऽभूत् स नन्दस्य नाभूद् इत्य् अर्थः । मत्-पुत्रे श्री-कृष्णे तव स्व-पुत्रत्वाभिमानं विध्वंसयन् अहम् इदानीं खलु स्व-पुत्रं गृहीत्वैव व्रजं यास्यामीत्य् अतिगाम्भीर्याद् एव यन्न प्रत्य् अवोचत् किन्तु तूष्णीम् एवातिष्ठत् तेनैव सख्युर् वसुदेवस्य प्रीय**-कृत्** अन्यथा त्व् अप्रिय-कृद् एव सो\ऽभविष्यद् इति भावः । अद्य श्व इति अद्य खल्वत्रासम् एव श्वः स्व-पुत्रं गृहीत्वा व्रजं यस्यामीति प्रतिरात्रि विचारयन्न् अपि गोविन्द-रामयोः प्रेम्णा तद् आश्रय-विषयक-प्रेमानन्देन त्रीन् अपि मासान् अवसत् ॥६६॥
॥ १०.८४.६७ ॥
ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः ।
परार्ध्याभरण-क्षौम-नानानर्घ्य-परिच्छदैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मासत्रय**-सह-**वासोत्तरम् । कामैर् नाना-द्रव्यैः । तदाह—परायेति ॥६७-६८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततो मास-त्रयानन्तरं कामैर् विचित्रोपभोगैः तानेवाह—परार्ध्येति यद् वा, कामैः परार्ध्याभरणादिभिश् च कृत्वा यदुभिः । किं वा, वक्ष्यमाण-वसुदेवादिभि रेव पूर्यमाणः । आभरणानि किरीट-कुण्डलादीति क्षौमानि पट्ट-वस्त्राणि परिच्छदाः दोहन-भाजनाद्य् अर्थ-कांस्यादि-पात्रयानादयः सव्रजो व्रजस्थ-दास-दासी-पशुवर्गादिभिः सहितः तान् प्रत्यपि प्रत्येकं पृथक्-तत्-प्रेरणेन इत्य् अर्थः । स-बान्धवः सङ्गागताखिल-श्री-गोप-गोप्यादि-सहितश् च । यद् वा, कामैः श्री-व्रजेन्द्र-मनोरथैः श्री-भगवद्-व्रज-गमन-विषयकैः पूर्यमाणः श्री-द्वारकायां ज्ञातीन् सर्वानिमान्नीत्वाचिराद् एव साग्रजः कृष्णो\ऽयं व्रजे यास्यतीति बहु-शपथ-पूर्वक-तत्-काम-सिद्धि-प्रतिज्ञया पूर्ण-कामीक्रियमाण इत्य् अर्थः । ततश् च सव्रज-स्थांश् च प्रति तथैवान्यांश् च प्रति तथैवाश्वासनेन इत्य् अर्थः किं च, । बन्धु-व्यवहारेण परार्ध्याभरणादिभिश् च पूर्यमाणः कृष्णादिभिश् च यदुभिर् दत्तमादाय केवलं तेषां प्रीत्य् अर्थं स्वीकृत्य । आदि-
शब्दाद् अक्रूर-प्रद्युम्नादयः । यापित इति स्नेहेनानु-व्रज-नार्थं सम्माननार्थं वा । अन्यत् तैर् व्याख्यातम् ।
यद् वा, यदुभिस् तैर् एव वसुदेवादिभिर् यापितो दूरतो\ऽनुव्रजनेन । किं वा, विविध-शपथैः श्री-भगवद्-व्रजयानं प्रस्थाप्य प्रयत्नेन प्रस्थापितश् च सन् ॥६७-६८॥ ।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इति युग्मकम् । ततः मास-त्रयानन्तरं ययौ चलितवान् माथुर-देशं प्रति श्री-नन्द इति शेषः । तैः सह श्री-कृष्ण-लीलायाः तत्रैव तेषाञ्चाभीष्टत्वात् तस्य ततश् चलनं चावशिष्ट-शत्रु-पक्ष-क्षपणस्य श्री-कृष्णेनावश्यापेक्षित-व्यत्वाद् इति गम्यते ।
ननु कथम्-भूतः सन् ययौ, श्री-वसुदेवोग्र-सेनाभ्यां कृष्णोद्धव-बलादिभिर् अन्यैश् च यदुभिः प्रथमतस् तावत्-कामैर् अभिलाषैः पूर्यमाणः व्यक्तम् अनुक्तानाम् अप्य् अभिलाषाणां स्वयं सङ्कल्पेन दृढम् आश्वास्यमान इत्य् अर्थः । तत्र सामान्यतः सर्वैः सर्वेषां श्री-कृष्णस्य श्री-गोकुले सम्प्रत्यागमन-रूपस्य कामस्य पूरणं विशेषतस् तु केनचित् कस्मिंश् चित्-तत्-तद्-विशेषस-हितस्यापि अत एव कामैर् इति बहुत्वम् यद्-धामार्थ
[भा।पु। १०.१४.३५] इत्य्-आदिना कृष्णे कमल-पत्राक्षे संन्यस्ताखिल-राधसः [भा।पु। १०.६५.६] इत्य् अनेन च तेषम् तद् एक-कामत्वस्यान्यकामनात्यागस्य च श्रवणात् । किं च, वसुदेवोग्रसेनाभ्याम् इति प्रथमोपादानं कुल-श्रेष्ठत्व-राजत्वाभ्यां वैशिष्ट्यात् ताभ्यां काम-पूरणं चैव एतावन्तं कालं युद्धाद्य् उपद्रवेणागमनयोर् न वृत्तं सम्प्रति भविष्यत्य् एवेति श्री-बलदेव-सहितेन श्री-कृष्णेनैवं जातीन् वो द्रष्टुम् एष्यामः [भा।पु। १०.४५.२३] इति कंस-वधानन्तरं यन्-निवेदितं तस्य समयो\ऽयम् आगतः ततः शीघ्रम् एव केनापि मिषेणागत्य सदा तत्रैव निवत्स्याम इति श्री-मदुद्धवेन चैतद् अनुमोदनं ज्ञेयम् । अतस् तेन सह मन्त्रयित्वैव ताभ्यां तद् अङ्गी-कृतम् इति च अत एव मध्ये तस्य पाठः किन्तु तत्राप्य् एतौ सदा विहरिष्यतो द्वारकायाम् अपीति पारमैश्वर्य-ज्ञानात्-तन्-मनः-समाधानम् एवं यदुभिश् च यथायथं ज्ञेयम् । अत्र श्री-गोपीषु श्री-कृष्णस्य तद्-वैशिष्ट्यम् अप्य् अनुसन्धेयम् । अत्र च मर्यादा स्वयम् उक्ता—अपि स्मरथ नः सख्य [भा।पु। १०.८२.४१] इत्य्-आदौ शत्रु-पक्ष-क्षपण-चेतसः [भा।पु। १०.८२.४१] इत्य् अनेन दन्तवक्त्र-वध-पर्यन्तैव ज्ञेया सा च दर्शिता । किं च, श्री-वसुदेवादीनाम् अधुना श्री-कृष्णस्यात्रत्य दृढ-गार्हस्थ्य-विस्तारातिशय-ममता-दर्शनेन जात-विश्वासत्वात्-तथाङ्गीकारो ज्ञेयः । तथापरार्ध्याभरणादिभिश् च पूर्यमाणः आद्रियमाण इव पारिबर्हं परार्ध्याभरणादिकम् आदाय तत्-स्नेहेन स्वीकृत्य यापितः श्री-वसुदेवादिभिर् अनुव्रजित इति ॥६७-६८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततो मास-त्रयानन्तरं भोः-प्राण-पदार्ध-निर्मन्थित-श्री-सुख-घर्म-बिन्दो! कृष्ण! साम्प्रतं चल व्रजमतः परं समयं गमयितुं न शक्नोमि । भो सखे वसुदेव! कृष्णं व्रजे प्रस्थापय भो राजन्नुग्रसेन! त्वम् अप्य् एवम् एव मत्-प्रिय-सखम् इमम् आज्ञापय नो चेद् अत्र पुण्य-क्षेत्रे रामह्रदे वयम् अधुनैव म्रियामहे । यूयं स्व-चक्षुभिः पश्यत वयं हि सूर्योपरागे पुण्य-जिघृक्षया नायाताः कृष्णम् अप्राप्य मर्तुं कृष्णं प्राप्य जीवितुम् इति व्रज-स्थानाम् अस्माकं सर्वेशम् एव दृढे निश्चय इत्य् उक्तवति श्री-व्रजराजे वसुदेवादिभिः कामैस्तस्य वाञ्छितैरथैः परार्ध्याभरणादिभिश्च स पूर्यमाणो ययावित्य् अन्वयः । तत्र वसुदेवेन देशकालपात्राभिज्ञेन स्वाप्त-बन्धुभिर् विचार्य श्री-नन्दस्य काम-पूरणं यथा भोः सखे! व्रजराज! सत्यं ब्रूषे भवादृशानां बन्धूनां जिघांसैव किं मे सम्मता तस्मात् सर्वथैव कृष्णं व्रजं प्रस्थापयिष्यामि किन्तु साम्प्रतम् अयम् अस्मान् बन्धु-ज्ञाति-सुहृदश् च बहूंश् च स्त्री-जनं द्वारकां प्रवेशयतु ततः परदिन एव शुभ-क्षणे निविरोधम् एव व्रजं प्रति यात्रां करोत्वित्य् अत्र परः-सहस्रान् शपथान् करोमि वयं खलु कृष्णेन सहैवागताः विनाकृष्णं कथं गृहं गन्तुं प्रभवामः । लोकाः किं वदिष्यन्ति । त्वं सकलार्थ-पण्डितो\ऽसि । क्षम् अस्व ममैतद्-विज्ञापनापराधेन मामाज्ञापयेति उग्रसेनेन यथा भोः व्रजेश्वर! अत्रार्थे अहम् एव प्रति-भूरभूवम् स-शपथं ब्रवीमि बलादेव कृष्ण-महं व्रजे प्रस्थापयिष्यामीति रामोद्धव-सहितेन रहः-प्रदेशे कृष्णेन यथा भोस्तात! यद्य् अहम् अद्य सन्त्यज्यैव खल्वेतान् व्रजं यामि तद्येते\ऽपि मद्-विरहेण मर्तुम् उद्यता भविष्यन्ति । केश्यरिष्टादिभ्यो\ऽपि महा-बलिनः परः-सहस्राः शत्रवः एवैतान् पार्थिवान् निहन्युः अवश्यं भवि स्व-वृत्तम् अपि सर्वज्ञत्वाद् अहं जानामि तद् अपि शृणु ब्रवीमि । इतो द्वारकां गत्वैव लब्ध-निमन्त्रणो युधिष्ठिर-राज-सूयार्थं यास्यामि तत्र चैद्यं हत्वा पुनर् आगत्य शाल्वं निहत्य दन्तवक्त्र-वधार्थं मथुरा-दक्षिण-द्वार-प्रदेशम् आसाद्य तत्रैव तं व्यापाद्य व्रजं प्रविश्य बन्धून् सन्दृश्य हृष्टन्मनाः युष्मद् उत्सङ्ग एव रङ्गेण खेलयन्न् एव जन्मेदं गमयिष्यामि । एतन्-मम ललाट-पत्रे विधात्रा लिखितम् एवावद्-दिन-पर्यन्तं युष्मल्-ललाटेवामद्विरह-दुःखं लिखितम् एतद्-द्वयं नैवान्यथा भवितुम् अर्हत्यत एव हठं त्यक्त्वा साम्प्रतं व्रजं प्रति प्रतिष्ठस्व । एतन्-मध्ये च भवन्तौ पितरौ मम प्रिय-सुहृदश् च मद्-विरह-दुःख-लिखितम् एतद्-द्वयं नैवान्यथा भवितुम् अर्हत्य् एवार्ता यदा यदा मां द्रष्टुं किम् अपि क्रीडयितुं भोजयितुम् ईहिष्यन्तेतदा भवद्भिश् चक्षूषि मुद्रयितव्यानि यथाहम् आविर्भूय सर्वान् एव दवथून् ख-पुष्पीकृत्य सर्वान् एव मनोरथान् सम्पादयिष्यामीति प्रतिजाने । किलाहम् अत्रार्थे मत्-प्रिय-सखा इषीकाटवीदावसन्तप्त-चरगात्राः प्रमाणीकर्तव्या इति ततश् च व्रजराजः स्व-पुत्र-सुख-तात्पर्य-पर्यालोचकचेताः
भद्रं भद्रम् इति सर्वान् वसुदेवादीन् उक्त्वा प्रबोधिता विरतरुदद्बन्धुकातस् तैर् दत्तं पारिबर्हमादाय यदुभिस् तत्-सङ्ग-प्रस्थापितया महा-सेनया यापितो ययौ । अत्र कामैर् इति पूर्यमाण इति पद-द्वयान्यथानुपपत्तेर् एव खल्व् एतावव्याख्यानं प्रपञ्चितम् । कृष्णो वसुदेव-देवक्योर् एव पुत्र इति ब्रह्मणापि सपुत्र-पौत्रेणापि सशपथम् उक्ते\ऽपि प्रतीतिलेशम् अप्य् अकुर्वतोः व्रजेश्वरयोः स्वाङ्गुलि-स्पृष्ट-मात्र-कृष्ण-चिबुक-लब्ध-
महा-सुख-सम्पत्ति-स्मृति-मात्रन्यक्कृत-प्राकृताप्राकृत-सर्व-सम्पदोस् तयोः किं वसुदेवादि-दत्तैः परार्ध्याभरण-क्षौमना-नानर्घ्य-परिच्छदैः काम-पूरणं सम्भवेत् यदि वा काम-पूरणं भवेद् एवेति प्रौढिस् तत्र स-व्रजः सह-बान्धवः इति विशेषण-द्वयोपन्यासान्न केवलं स-स्त्रीकस्य नन्दस्यैव अपि तु गोपीनां गोपानां सर्वेषां कृष्ण-प्रिय-सखानां च ततश् च कृष्णस्य पिता नन्दः प्रेयस्यो गोप्यश् च सखायो गोपाश् च
प्राप्तैर् बहुमूल्याभरण-वस्त्र-रत्नादिभिः पूर्ण-मनोरथीभूय व्रजं ययुर् इत्य् एवं व्याख्येयं तदा व्रजस्थानां सर्वेषां प्रेमवत्त्वम् अपगतम् एव-भक्ति-रसामृत-सिन्धु-धृत-प्रेम-लक्षणे अनन्य-ममतेत्य् उक्तेर् इत्य् अवधेयम् ॥६७-७१॥
॥ १०.८४.६८ ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः ।
दत्तम् आदाय पारिबर्हं या139पितो यदुभिर् य140यौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यापितो महासैन्येन प्रस्थापितः ॥६८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.६९ ॥
नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे ।
मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथु141रां ययुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्षिप्तं लग्नम् ॥६९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्दो गोपाश् चेत्य्-आदि—गोविन्द चरणाम्बुजे क्षिप्तं मनः पुनर्हर्तुमनीशाः सन्तः माथुरान् ययुः । नन्दस्तत्र कथं न स्थितः? तत्राह—अगोप्यः अरक्षणीयः स्वतः स्वातन्त्र्यात् व्रजरूपनित्यस्थानाधिकारित्वं हि तस्य नित्यम् । गोपीजनस्तु तम् एव प्रापेति पूर्वम् एवोक्तम् ॥६९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्षिप्तं न्यस्तं, हर्तुम् आकष्टुम् अनीशा इति मनस् तस्मिन्न् एवातिष्ठत् । केवलं देहेनैव ययुर् इत्य् अर्थः । इति विचिन्तया मोहे पर्यवसानं गमयति-पुनर् इति । पूर्वं श्री-मधु-पुरीतः श्री-नन्दादीनां व्रजयाने । किं वा, श्री-कृष्णस्य मधु-पुरीतः श्री-नन्दादीनां व्रज-याने, किं वा, श्री-कृष्णस्य मधु-पुरीप्रयाणे यथा हर्तुमनीशा मोह-मलभन्त तथ इत्य् अर्थः । यद् वा, इदानीं कथञ्चित् प्रबोध्याह स्म । अधुना तु मिथः स्नेह-विवृद्ध्या हर्तुम् अनीश इत्य् अर्थः । च-काराभ्यां च सर्वेषाम् एव प्रत्येकं तादृश-याने प्राधान्यं बोध्यते । माथुरान् इति श्री-भगवताशेष-माथुर-देशाधिपत्यात् पाठन्तरे\ऽपि स एवार्थः ॥६९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षिप्तं न्यस्तं हर्तुम् आक्रष्टुम् अनीशा इति मनस् तस्मिन्न् एवातिष्ठत् केवलं ते देहेन ययुर् इत्य् अर्थः । इति केवलं झटिति निजागमन-प्रतिज्ञा-युक्त-श्री-भगवद् आग्रहेणैवेति बोधितम् अतः माथुरान् देशान् ययुः मथुराम् इति पाठे\ऽपि स एवार्थः पुनर् इति तद् अनन्तरं पुनः प्राप्ति-पर्यन्तं तथैवातिष्ठन्न् इत्य् अर्थः । **च-**काराभ्यां सर्वेषाम् एव तादृश-भावे प्राधान्यं बोधयति ॥६९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.७० ॥
बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः ।
वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रावृषं वर्षर्तुम् ॥७०-७१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बन्धुषु श्री-नन्दादिषु प्रति पुनः पुनर् निवृत्त्य दृढं यातेषु सत्स्व् इति तेषां स्मारके तत्-स्थाने विरह-दुःखोद्रेकेण स्थातुम् अशक्तेर् इति । किं वा, प्रतियातेष्व् एवेति अन्यथा तत्रैवास्थास्यन्न् इति भावः । यतः कृष्णः सर्व-चित्ताकर्षको भगवान् देवता इष्ट-देवो येषां ते । तद्-वयवहारैकानुसाराद् इति भावः ॥७०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बन्धुषु श्री-नन्दादिषु प्रति पुनः पुनर् निवृत्य दृढं यातेषु सत्स्व् इति तेषां स्मारके तत्-स्थाने विरहोद्रेकेण क्षणम् अपि स्थातुम् अशक्तैर् इति भावः । तथा प्रतियातेष्व् एवेति अन्यथा तत्रैवास्थास्यन्न् इति च तत्रे हेतुः—कृष्णो देवता येषां ते तद्-व्यवहारानुसाराद् इत्य् अर्थः । ययुर् द्वावतीं पुनर् इत्य् एव पाठः वृष्णय इति पूर्वेणान्वयः सुहृदः श्री-व्रज-वास्याद्याः ॥७०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८४.७१ ॥
जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् ।
यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदु-देवस्य वसुदेवस्य महोत्सवं यज्ञादि-लक्षणं सुहृत्-सन्दर्शनादिकं चेति ॥७१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् आख्यान-श्रुति-फलम् आह—य इति ॥७१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनेभ्यः श्री-द्वारका-स्थितेभ्यः पौरेभ्यः अन्येभ्यो\ऽपि सर्वेभ्यः वृष्णय किं वा, सर्व-जनेभ्यः । सर्वे जनाः कथयाञ्चक्रुः अकथयन् । आदि-शब्दान्-नृप-मुनि-गण-वर्णितं यदूनां श्री-भगवतश् च माहात्म्यं श्री-महिषीणां तस्मिन्न् अद्भुत-भक्तिभरं तथा श्री-नन्दादिषु तस्य स्नेह-विशेषं तेषां तेन तत्-सम्माननाश्वासनादिकं च ॥७१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतः परं पूर्वोक्तानुसारेण साल्व-वधानन्तर-दन्तवक्त्र-वध-प्रसङ्गे श्री-भगवतः स्वयम् एव श्री-गोकुलागमनादिकं स्मर्तव्यं जनेभ्यः श्री-द्वारका-स्थितेभ्यः अन्येभ्यो\ऽपि सर्वेभ्यः वृष्णय एव किं वा, सर्व**-जनेभ्यः** सर्वे जनाः कथयाञ्चक्रुः अकथयन् । आदि-शब्दात् नृप-मुनि-गण-वर्णितं यदूनां श्री-भगवतश् च माहात्म्यं श्री-महिषीणां तस्मिन्न् अद्भुत-भक्ति-भरं तथा श्री-नन्दादिषु तस्य स्नेह-विशेषं तेषां तेन तत्-समानताश्वासनादिकं च तथा च—
यो गोष्ठं विरहय्य कार्यवशतः पुर्यां चिराय स्थितो > व्यग्रस् तूद्धव-रौहिणेय-मुखतः शश्वत्-पुराश्वासयत् । > आगत्य स्वयम् एव यः कुरु-भुवि प्रत्याप्य भूयो झटित्य् > आगच्छत्-करुणः स एव शरणं श्री-कृष्ण-देवो मम ॥७१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्दो गोपाश् च तत्र गोविन्द-चरणाम्बुजं क्षिप्तं मनः पुनर् हर्तुम् अनीशाः सन्तो माथुरान् ययुः नन्दः कथं तत्र न स्थित इत्य् आह—अगोप्यः न गोपयितुम् अर्हः स्वतः-सिद्धत्वात् व्रज-राजत्वाच् च । गोपी-जनस् तु तम् एव प्राप तमध्यगन्न् इति पूर्वोक्तेः स तु गोपी-जनो मुनि-रूप इति पूर्ववत् ॥६९-७१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे तीर्थ-यात्रानुवर्णनं
नाम चतुरशीतितमोऽध्यायः ।
॥ ८४ ॥
(१०.८५)
वसुदेवम् उग्वेन भगवत्-तत्त्व-प्रतिपादनं
भगवता देवकी-प्रार्थनया तदीय-मृत-पुत्राणाम् आनयनं च ।
॥ १०.८५.१ ॥
श्री-बादरायणिर् उवाच—
अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ ।
वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चाशीतितमे राम-कृष्णौ संप्रार्थितौ सुतौ ।
पित्रे ज्ञानम् अथो मात्रे मृतान् पुत्रान् अयच्छताम् ॥
नन्दयित्वा कुरु-क्षेत्र यात्रायां सुहृदो बहून् ।
तत्त्व-ज्ञानं ततः पित्रोर् आदिशन् मृत-सूनुभिः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो पितृ-ज्ञान-दानानन्तरम् । अयच्छतां ददतुः । ततः सुहृदानन्द-दानोत्तरम् । पित्रोर्-माता-पितृभ्याम् । अथ तीर्थयात्रानन्तरम् अभिनन्द्य संश्लाघ्य ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्दादीन् प्रति श्री-भगवतः प्रीति-विशेषम् उक्त्वा प्रसङ्गाच्-छ्री-वसुदेवदीन् प्रत्य् अपि तं वक्तुम् आरभते—अथेति । कुरुक्षेत्र-यात्रायाः पश्चात् माङ्गल्ये वा, पितरि स्नेह-भर-विस्तारात् प्राप्तौ नित्य-कृत्यत्वेन भक्त्या प्रातरागतौ यत आत्मजौ एकदा कस्मिंश्चिद्-विविक्तसमये यद् वा, शुभ-काल-विशेषे प्रसाद-विशेषार्थम् एव प्राप्तौ प्रीत्या अभिनन्द्य आशीर्भिः स्तुतिभिर् वा प्रशस्याभितो हर्षयित्वा वाह—यतः सङ्कर्षणः स्व-माहात्म्य-विस्तारणेन सर्व-चित्ताकर्षकः अच्युतः प्रकटाशेषेश्वर्य-परिपूर्णस्तौ ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् ऐश्वर्य-ज्ञान-पितृभाव-मिश्र-प्रेम्णा श्री-वसुदेवेन मुनि-वाक्योद्दीपितैश्वर्य-ज्ञानेन ताः सह श्री-भगवतस् तज्-ज्ञान-गोष्ठमयो कादाचित्को लीला-विशेषस् तम् अथ प्रस्तौति—अथेति । लब्धमन्य् उपदेश-विशेष-कुरुक्षेत्रयात्रान्तरम् एकदा क्वचित्-प्रातर्-नित्य-वन्दन-समये यत आत्मजौ ताभ्यां तेन च तथाप्य् अपरित्याज्य-तद्-भावो अतः कृतेति च अत एवाभिनन्द्य आशीर्भिः प्रीणयित्वाह तत्र प्रीत्येति साक्षात्-परमेश्वरयोर् अप्य् अनयोर् मत्-पुत्रत्वेनोदय इत्य् अन्तः-सन्तोषेण इत्य् अर्थः । अत एवाग्रे तत्-खण्डन-भङ्गिर् अपि तत्-सन्तोष-गर्भैव ज्ञेया सङ्कर्षणाच्युताव् इति तादृशैश्वर्ये तादृश-प्रीति-विधायित्वे चाविश्लिष्टौ ॥१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चाशीतितमे पित्रोर्हरेश् च ज्ञान-गीस्-स्तुतिः । मातुः पुत्रानानयन् स बलिना सबलः स्तुतः ॥ ॥१-२॥
॥ १०.८५.२ ॥
मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् ।
तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम प्रभावस् तत् सूचकम् । जात-विश्रम्भ उत्पन्न-विश्वासः । परिभाष्य सम्बोध्य ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-वीर्यः श्री-कृष्ण-पराक्रमैः । उत्पन्न-विश्वासो\ऽङ्कुरित-निश्चयः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-आनीं तादृशोक्तौ हेतु-विशेषम् उक्तपोषण्यायेनाह—मुनीनाम् इति । कुरुक्षेत्र-यात्रा-गतानां किं वा, सदैव मुहुः श्री-द्वारकाम् आगतानां सर्व-ज्ञानां धाम्नः सूचकम् ईषत्-प्रतिपादकम् आनन्त्येनाशेषोक्त्यशक्तेः सङ्केपोक्तेर् वा ।
ननु मुनयो भक्त्यापि कदाचित्-स्तुतिं कुर्युः तयोर् वीर्यः पराक्रमैर् अद्भुत-चरितैर् वा जात-विश्रम्भ इति स्वानुभवेन तेषां **वचः-**सत्यता-सिद्धेः परिभाव्य कृष्णेत्यादि-वक्ष्यमाणेन किं वा, हे परमेश्वरौ! हे भगवन्ताव् इत्य्-आदिना प्रकारेण सम्बोध्य ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदानीं त्व् ऐश्वर्य-ज्ञान-प्राबल्ये सूचितम् एव कारणं व्यञ्जयन् पुनर् उक्तपोषन्यायेनाह—मुनीनाम् इति । स्व इति विदितो\ऽपि भवान् साक्षात् [भा।पु। १०.३.१३] इत्य्-आदौ पूर्वत एव तादृश-ज्ञानः मुहुश् च तदीयैर् जात-विश्रम्भः सम्प्रति च मुनीनां वचस् तादृशं श्रुत्वा परिभाष्य कृष्णेत्यार्दिना सम्बोध्य ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.३ ॥
कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन ।
जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विश्वस्य यत् साक्षात् स्वरूप-भूतं कारणं प्रधान-**पुरुषौ-**नाम परौ तयोर् अपि कारणत्वेनेश्वरौ च साक्षाद् वां युवाम् इति जाने ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परौ विलक्षणत्वेनोत्तमौ । तयोर् अपि प्रकृति-पूरुषयोर् अपि । तन्-माया-फल-रूपेण-द्विधा समभवत् बृहत् [भा।पु। ११.२४.३] । इत्य्-आद्य् उक्तेः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्द-यशोदयोः स्व-पुत्रयोश् चान्योन्य-स्नेहभरं साक्षाद्-दृष्ट्वा स्वयम् अपि तादृशं किञ्चित्-प्रार्थयिष्यन्न् आदौ तद्-विषयकम् आत्मज्ञानं परिहरन् स्तौति—कृष्णेति । हे परब्रह्मन्! तत्रापि कृष्ण! हे निजाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षक! अत एव महायोगिन्! हे परम-शक्ति-युक्त! यद् वा, कृष्ण! हे साक्षाद्-भगवन्! वीप्सा तन्-नाम्नो जिह्वाग्रहण-स्वभावात् अतो महा-योगिन्! अचिन्त्य-प्रभाव! सङ्कर्षण-स्नेहादिना कृष्णाद् अपृथग्-भूत! अत एव सनातन! हे द्वितीय-व्यूहत्वादिना सदा वर्तमान । यद् वा, सनः श्री-**कृष्ण-**विरहतो बहुधा व्रज-जनाभयदानं किं वा, श्री-यमुना-कर्षणादि-क्रीडया व्रज-जनाद्य् आनन्द-दानं तम् आतनोतीति तथा-तत्-सम्बोधनम् । एवं पृथक्-सम्बोधनं श्री-कृष्णात्-सङ्कर्षणस्य न्यूनताभिप्रायेण । यद् वा, तौ प्रत्य् एव तत्-तत् सर्वं तथापि कृष्णस्यादौ सम्बोधनं साक्षाद्-भगवत्त्वेन प्राधान्याद् इति । जाने अधुना ज्ञातवान् अस्मि । किं वा, सदैव जानन्न् अस्मीत्य् अर्थः । **प्रधान-**पुरुषाव् इत्य् अंशत्वेन तयोर् अभेदापेक्षया ईश्वरस्यैकत्वे\ऽपि पराव् इति द्वित्वं तयोर् वैक्याद् एव अन्यत् तैर् व्याख्यातम् ।
तत्र साक्षाद् इत्य् अस्योभयत्र योजनम् अर्थ-बलात् एवम् अग्रे\ऽपि । किं वा, पर इत्य् अत्र लेखक-भ्रमाद् इति अथवा प्रधान-पुरुषौ पुरुष-श्रेष्ठौ परमेश्वराव् इत्य् अर्थः । तत्रापि परौ अशेषैश्वर्य-प्रकटनेन सर्वोत्कृष्टौ श्री-कृष्णस्यैव तादृशत्वे\ऽपि श्री-बलदेवस्य तादृशी चोक्तिर् उक्त-न्यायात् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह—कृष्ण हे स्वयं भगवन्! वीप्सा तद्-दार्ढाय अतो हे महा-योगिन्! सर्व-व्यापक! योग-माया-प्रभावन् इत्य् आश्रय तथा हे सङ्कर्षण! द्वितीय-निज-व्यूहत्वाच्-छ्री-कृष्णेन सङ्कृष्यते छायेवाप्रकटायां प्रकटायाम् अपि लीलायां निज-सहचरः क्रियते यः हे तथा-भूत! अत एव हे सनातन! तथैव नित्य-सिद्ध! वां युवां जाने निश्चित्य जानामि कीदृशं यथा स्यात्तथा जानीषे तत्राह—यत् युवाम् अस्य विश्वस्य यथाक्रमं प्रधान-पुरुषौ स्थः तत्र प्रधानं सर्वतः श्रेष्ठं प्रकृत्य् उपाध्यतीतं श्री-भगवद्-रूपं पुरुषश् च प्रकृती-क्षण-कर्ता तद् अंशः यथोक्तं तृतीये भगवान् एक आसेदम् अग्र आत्मनां विभुः [भा।पु। ३.२३.२६] इत्य् उपक्रम्य—
कालवृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । > पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥
तथा तत्रापि साक्षात्-परौ सर्व-मूल-स्वरूप-श्री-कृष्णादि-रूपत्वेन स्वयं भगवद्-आदि-रूपौ अन्यत्-तैः तत्र साक्षाद् इत्य् अस्योभयत्र योजनम् अर्थवशात् ॥३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य विश्वस्य कारणीभूतौ यत् यो **प्रधान-**पुरुषेश्वरौ परौ तयोर् अपि श्रेष्ठौ परमेश्वरौ वाम् अहं जाने । यद् वा, प्रधानीभूतौ परमेश्वरौ पुरुषौ वासुदेव-सङ्कर्षणौ ॥३॥
॥ १०.८५.४ ॥
यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा ।
स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इदं विश्वम् अनेकैः कारकैर् जायमानं कुतः प्रधान-पुरुषात्मकं, कुतस् तरां आमावयोस् तत् कारणत्वेनेश्वरत्वं तत्राह—यत्रेति । यत्राधिकरणे । येन कर्त्रा करणेन च । यतः अपादानात् । य142स्य सम्बन्धेन । षष्ठ्य्-अर्थस्याकारकत्वेऽपि निमित्ततोक्ता । यस्मै संप्रदानाय । यद्143 यद् इति प्रयोज्य-कर्तृ-कर्म-कारके दर्शिते ।
ननु तयोर् ना144स्ति भेदः, यथोक्तम्,
करोति क्रियमाणेन न कश्चित् कर्मणा विना । > भवत्य् अर्थस्य कर्ता च करोतेः कर्म जायते ॥
तथा,
करोत्य् अर्थस्य यः कर्ता भवितुः स प्रयोजकः । > भविता तम् अपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥
इति च, सत्यम्, तथाप्य् अवस्था-भेदेन भेदो विवक्षितः । दृश्यते चावस्था-भेदः । त145ण्डुलान् ओदनं पचति, मृदं घटं करोतीति । तद् एवं सप्त-विभक्त्य्-अर्था दर्शिताः । यथेति यदेति च क्रिया-विशेषण-भूतानाम् अन्येषां चाव्ययानाम् अर्थाः । स्याद् इति क्रिया-पदार्थोपलक्षणम् । एवं सर्वं प्रपञ्चम् अनूद्य तत् कारणस्य भगवद्-रूपतां विधत्ते, इदं साक्षाद् इति । प्रधानं भोग्यं पुरुषो भोक्ता तयोर् ईश्वरो भगवांस् त्वम् एव साक्षाद् इति तय्146ओर् ऐक्यम् अभिप्रेत्यैक-वचनम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राक्षिपति-नन्व् इति । अकारकत्वे\ऽपि यद्यपि सम्बन्धस्य कारकत्वं नास्ति क्रिया-योगाभावात्-तथापि **साक्षात्-**क्रिया-गो-गाभावे\ऽपि साधोर्धनं तिष्ठतीत्य्-आदिषु धनादि-द्वारा तत्-सम्बन्धात्-कारक-निमितम् अस्त्य् एवेति । पुनर् आशङ्कते—नन्व् इति । तयोः प्रयोज्य-कर्तृ-कर्मणोः । प्रमाणम् आह—यथोक्तम् इति । क्रियामाणेन कर्मणा विना कश्चिन् न करोतीत्य् अन्वयः । भवत्य् अर्थस्य सत्तार्थकस्य धातोः भवतीत्य् अत्र धातु-निर्देशे शितप् । तथा हि-घटो भवतीह भत्यर्थस्य कर्ता घटः स करोतेः कर्म जायते कुलालो घटं करोतीतिवत् । क । अन्यद् आह—तथेति । करोत्य् अर्थस्य करणार्थस्य भवितुः सत्तार्थकस्य कर्तुः भविता सत्तार्थक-धातुकर्ता तं प्रयोजकम् अपेक्ष्य प्रयोज्यत्वं प्रवर्तते । यथा घटो भवति कुलालः प्रेरयतीत्य् अत्र करोत्य् अर्थकर्तुः कुलालस्य भवितुर्-घटस्य प्रयोजकत्वम्, भवत्य् अर्थकर्ता घटस् तु तं कुलालम् अपेक्ष्य प्रयोज्यत्वं प्राप्तः । यथा घटो भवति कुलालः प्रेरयति कुलालो घटं भावयतीति
प्रेरणा-विषयो यस् तु प्रयोज्यः स विधीयते । > प्रयोजकः स विज्ञेयः प्रयुक्तो नापरैर् यदि ॥ > मुख्य-कर्तारम् आचष्टे प्रत्ययो\ऽनेक-कर्तृकः । > मुख्य-प्रयोजकस् स स्याद्-यो\ऽप्रयुक्तः परेण हि ॥ इत्य् अलम् ।
इति च सत्यं यद्यप्य् एतत्-सत्यम् । तथापि दृश्यते चेति । यथा वस्तुतस् तण्डुलौदनयोर् अभेदे\ऽपि तण्डुलाव् अस्थात ओदनावस्था प्रयोज्य-कर्त्रवस्थातः प्रयोज्य-कर्त्रावस्थापि भिन्नैव् एति ज्ञेयम् ।
तद् एवम् इत्थं क्रिया-विशेषणता चेत्थं यदा भवतीति यत्-कालिकं भवनं यथा भवतीति यत्-प्रकारकं भवनम् इति च भवन-क्रिया विशेष्या । यद् एत्य्-आदि-विशेषणं च अन्येषां क्रिया-विशेषणताहीनानां चादीनां च । एवं च इत्थं च । सर्व-प्रपञ्चं षट्कारकादि-साध्यं तस्य प्रपञ्चस्य कारणम् अभिन्न-निमित्तोपादानं भगवांस् तद्-रूपतां भगवद्-रूपताम् । तयोर् भोक्तृ-भोग्ययोः । तीर्थस् तु-यत्र यस्मिंस् तिष्ठति । यस्मिन्न् इदं इति श्रुतेः । येन जातानि जीवन्ति [इषो।उ। १.१] इति श्रुतेः । यतो वा इमानि भूतानि [तै।उ। ३.१.१] इति च । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम् । मृत्युर् यस्योपसेचनम् [क।उ। १.२.२५] इति काठक-श्रुतेः । यस्मा इदं क्रियते इति । सच् च त्यच्-चाभवत् [तै।उ। २.६] इति । **यथा-**स्थितं यदा काले इदं स्यात्-तथा तदास्मात् ब्रह्मैवेदं सर्वम् । इति श्रुतेः । इदं जगत् **साक्षात्-**स्पष्टं निर्विचारं प्रधान-पुरुषेश्वर-शब्द-वाच्यो भगवान् एव स्यात्-तत्-सत्ताया अपि तद् अधीनत्वादित्य् आह ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदम् इति प्रपञ्चस्य प्रत्यक्षत्वाद् इदं विश्वं **प्रधान-**पुरुषयोर् ईश्वरश् च भगवान् एव त्वम् इति वक्तव्ये भगवान् इति परमादरात् । स्वचक्षे च परत्वम् एव प्रतिपादयति-यत्रेति । इदं श्री-भगवान् श्री-नारायणः साक्षात् स्वयं त्वं च प्रधान-पुरुषात् पुरुषोत्तमाद् अपि तस्माद् ईश्वरः अशेषैश्वर्य-विस्तारणात् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-मूल-स्व-रूपत्वम् एव दर्शयन् सङ्कर्षणस्यापि श्री-कृष्णे\ऽन्तर्भावम् अभ्य् उपगच्छंस् तम् एव स्तौति त्रिभिः-यत्रेति इदं स्वरूपाख्य-तटस्थाख्य-बहिर् अङ्गाख्य-शक्तिमयं वैकुण्ठ-जीव-जगद् आख्यं वैभवं यत्र स्याद्येन स्याद् इत्य्-आदि योजयित्वा स भगवान् श्री-कृष्ण-लक्षणस् तम् एव साक्षात् स्वयम् अनन्याश्रयितया पूर्वोक्त-**प्रधान-**पुरुषयोर् अपि ईश्वरो मूल-स्वरूपत्वाद् आश्रय इति योज्यं यत्रेत्य्-आदिभिः स्वरूप-सिद्धाधार-शक्त्याद्य् अशेष-शक्ति-परमाश्रयत्व-व्यक्तेर् इति भावः । तत्र यस्येति इदन्तानिर्दिष्ट-वस्तुनैव सम्बन्धी विवक्षितः तत्-सम्बन्धं विना तस्य ख-पुष्पादि-तुल्यत्वं स्याद् इति निमित्तत्वं च क्रिया-निमित्तत्वाविवक्षया कारकत्वाभावश् च यस्मा इति तल्-लीलोपयोगित्वात् यद्यद् इत्य् उपादानोपादेय-शक्त्योस् तद् आत्मकत्वात्-तद् अभेदेन निर्देशः यथा यदेति प्रकारकाशक्त्योर् अपि येनैव प्रकार-रूपेण यस्मिन्न् एव काल-रूप इति अन्यत्-तैः । तत्र कारिकार्थः कर्मैव किं तत्राह—भवतीति भवतेर् अर्थस्य कर्ता यो मृद्धटादिः स एव करोतेः कर्म जायते मृदेव घटो जायते मृदेव घटो भवति तं भावयतीति णिजन्त-भवतेर् एक-पर्यायेण करोत्य् अर्थेन तद्-व्याप्तेः एवं यस्य कर्मत्वं साधितं तस्यैव प्रयोज्यत्वं साधयति तथेति भवितुर्-मृद्-घटादेः तथापीति पूर्वावस्थाया मृदादेः प्रयोज्यत्वम् उत्तरावस्थायाः घटादेः कर्मत्वम् इत्य् अर्थः ॥४।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्य-भूतम् इदं विश्वम् अपि त्वम् एव भवसीति द्वयोर् ऐक्याद् एक-वचन-प्रयोगेणाह—यत् घट-पटादिकं वस्तु यत्र देशे स्यात् येन कारणेन यतो\ऽपादानात् यस्य सम्बन्धे यस्मै देयं यत् देयं यथा येन प्रकारेण यदा यस्मिन् काले स्यात् तद् इदं सर्वं भगवान् एव भगवत्-कार्यम् इत्य् अर्थः । कीदृशः साक्षात् **प्रधान-**पुरुषयोर् अपीश्वरः ॥४॥
॥ १०.८५.५ ॥
एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज ।
आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च धारण-पोषण-कर्तापि त्वम् एवेत्य् आह—एतद्147 इति । हे आत्मन्, प्राणः क्रिया-शक्तिर् जीवो ज्ञान-शक्तिश् च संस् त्वम् एव बिभर्षि ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किञ्चेति । आत्मना जीवेन रूपेण तत्-सृष्ट्वा तद् एवानुप्राविशत् इति श्रुतेः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च प्रत्यक्षम् एवेत्य् आह—एतद् इति । नानाविधं जरायुजादि-भेदेन महद् अल्प-भेदेन वा सात्त्विकादि-भेदेन वा आत्मना स्वयम् एव अनु सृष्टेर् अनन्तरं प्रविश्यात्मन् एव बिभर्षीति तत्र तत्रान्य् अनैर् अपेक्ष्यम् उक्तम् । तच् च युक्तम् एवेत्य् आह—आत्मना त्वयैव सृष्टम् इति । अन्तर्यामितय इत्य् अर्थः । तथापि न त्वं कथञ्चित् केनापि ज्ञातुं शक्यस इत्य् आह—अधोक्षज! हे इन्द्रियाज्ञानोगोचरेति । यतो\ऽजो नान्यवज्-जायसे किन्तु स्वयम् एव प्रकाशयस इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, आत्मन्! आत्मन्य् एव बिभर्षि विश्वस्याश्रयश् च त्वम् एवासीत्य् अर्थः । स्वपक्षे एवं बहिर्-विराजमानो\ऽपि त्वं सर्वेषाम् अन्तश् च प्रकाशस इत्य् आह—एतद् इति । हे अधोक्षजेति बाल्यलीलया शकटाधोवर्तमानो\ऽपि विश्वम् अनुप्रविश्य बिभर्षि यतः प्राणो विश्वस्य देह-धारकस् त्वम् एव प्राणदश् च त्वम् एवेत्य् आह—जीवयतीति जीव इति । अतो विश्वस्य प्रियतम इत्य् आह—आत्मन्! हे परम-प्रिय इत्य् अर्थः । अत एव प्रयत्नं विनापि स्वयम् एव त्वं प्रकाशस इत्य् आह—अज इति । अन्यत् समानम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वार्थम् एव प्रतिपादयति-एतद् इति । तत्रात्मन् आत्मन् ईत्य् अनेन यत्रेति आत्मेत्य् अनेन येनेति आत्म-सृष्टम् इत्य् अनेन यत इति यस्येति यद्यद् इति सृष्ट्य् आदि-लीलत्वेन यस्मा इति प्राणो जीव इत्य् अनेन क्रियाज्ञन-शक्त्य् आश्रयता-सूचकेन यथेति तत्रैव क्रिया-शक्ति-विशेष-काल-शक्तित्व् असूचनेन यद्-एतद् इति च अधोक्षजेत्य् अनेन तत्रापि परमाश्रयत्वम् अज इत्य् अनेन स्वयं भगवत्त्वम् इति ज्ञेयम् ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चास्य पोषण-कर्तापि त्वम् एवेत्य् आह—एतद् इति । आत्मना अन्तर्यामि-स्वरूपेणानुप्रविश्य हे आत्मन्! प्राणः क्रिया-शक्तिमय-सूत्रतत्त्व-रूपः जीवो ज्ञान-शक्तिमय-बुद्धितत्त्व-रूपश् च सन् त्वम् एव बिभर्षि प्राण-बुद्धि-कर्म-ज्ञानेन्द्रिय-रूपेण पुष्णासि ॥५॥
॥ १०.८५.६ ॥
प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः ।
पारतन्त्र्याद् वैसादृश्याद् द्वयोश् चेष्टैव चेष्टताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु प्राणादीनां विचित्र-शक्तीनां कारणत्वावगमात् कथं परमेश्वरस्यैव कारणत्वेन सर्वात्मकत्वम् उच्यत इत्य् आशङ्क्य प्राणादि-शक्तयोऽपि तस्यैवेत्य् आह—प्राणादीनाम् इति । प्राणः सूत्रं तद्-आदीनां विश्व-सृजां विश्व-कारणानां याः शक्तयस् ताः परस्य परम-कारणस्येश्वरस्यैव । कुतः ? पारतन्त्र्यात् । यथा वेध-शक्तिर् न बाणस्य, अपि तु पुरुषस्य तद्वद् इत्य् अर्थः ।
ननु भगवतः प्राणादि-वर्गस्य च स्वातन्त्र्यम् एव किं न स्याद् अत आह—वैसादृश्याद् वयोर् इति । चेतन-शेतनत्वेन विस-दृशत्वाद् द्वयोः । अचेतन-प्राणादि-वर्गस्य चेतन-पारतन्त्र्यम् एव युक्तम् इत्य् अर्थः । यद् वा, प्राणादिषु द्वयोर् द्वयोर् एव तावद् विस-दृशत्वं विरुद्ध-क्रिया-कारित्वात् किं पुनर् बहूनाम् । तस्माद् एकेन सर्व-ज्ञेन सर्व-शक्तिनाधिष्ठितानाम् एव विशिष्ट-कार्यारम्भकत्वं युक्तं न स्वतन्त्राणाम् इति । तथा चोक्तम्,
यदैते संहता भावा भूतेन्द्रिय-मनो-गुणाः । > यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम ॥ > तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः । > सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः ॥ इति ।
तथा, नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् [भा।पु। ३.५.३७] इत्य्-आदि । ननु प्राणादीनां क्रिया-कारित्वं शक्त्य्-अभावे कुतः स्याद् अत आह—चेष्टैव चेष्टताम् इति । चेष्टमानानाम् एषां चेष्टैव, न तु शक्तिः । यथा वायोः शक्त्या तृणादीनां चलनम् । यथा वा पुरुषस्य शक्त्या शराणां वेग इति ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कारणत्वे पुनर् आशङ्कते—नन्व् इति । कारणत्वावगमात्-कारणत्व-निश्चयात् । तस्यैव परमेशस्यैव । प्राणो वै सूत्रम् [बृ।आ।उ। ३.२.२] इति श्रुतेः । तदादीनां सूत्र-महत्-ततत्त्वाहङ्कारादीनाम् । प्राणादि-वर्गस्य पारतन्त्र्यात्-स्वातन्त्र्याभावात् । इत्य् अर्थ इति-तद्-वद्बाणे वेधन-शक्तिवद् ईशस्य तत्त्वम् एव तेषाम् इति भावः । पुनर् आशङ्कते—नन्व् इति । इत्य् अर्थ इति-अचेतनस्य चेतनाधीनतैव युक्तेति भावः । प्रणादीनां स्वातन्त्र्यावगमे सृष्ट्यादि-निरोध एव स्याद् इत्य् आह—यद्वेति । प्राणादिषु द्वयोर् एव प्राणापानयोर् एव । विरुद्ध-क्रिया प्राणस्योपरि गमन-रूपापानस्याधोगमन-रूपा । यद् वा, प्राणस्य सूत्रात्मनः क्रिया-शक्ति-रूपाहङ्कारस्याभिमति-रूपा । एवम् अन्यत्राप्य् ऊह्यम् । तस्माद् ऐकमत्याभावात् । अत्र च पूर्वोक्तं स्मारयति-तथा चोक्तम् इति । पुनर् आशङ्कते—नन्व् इति । एषां प्राणादीनाम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्व-सृजाम् इति । आदि-शब्दाद्-वक्ष्यमाणा महा-भूतादयः । पारतन्त्र्ये हेतुः—द्वयोर् वैसाद्-ऋश्याद् इति । अन्यत् तैर् व्याख्यानम् ।
तत्र पारतन्त्र्यम् इत्य् अधिकं लेखक-भ्रमाद् इति । स्व-पक्षे-अतस् त्वद्-भक्तिस् त्वत्-कृपा-प्रभावाद् एव सिध्येन्न त्व् अन्यथा । त्वच्-छक्त्यैव सर्वेषां सर्व-शक्तिर् इत्य् आह—प्राणेति । विश्व-सृजां श्री-ब्रह्मादीनाम् अपि ये प्राणादयस् तेषाम् । अन्यत् समानम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्व-सृजाम् इति । आदि-शब्दात् वक्ष्यमाणा महा-भूतादयः । पारतन्त्र्ये हेतुः—द्वेषो वैसादृश्याद् इति । अन्यत्-तैर् व्याख्यातम् । अत्र पारतन्त्र्यम् इत्य् अधीकं लेखक-भ्रमाद् इति स्व-पक्षे अतस् तद्-भक्तिः तत्-कृपा-प्रभावाद् एव सिद्ध्येन्न त्व् अन्यथा । त्व् अच्छक्त्यैव सर्वेषां सर्व-शक्तेर् इत्य् आह—प्राणेति । विश्व-सृजां ब्रह्मादीनाम् अपि ये प्राणादयस् तेषाम् । अन्यत् समानम् ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु प्राण-जीवावेत तत्-तद्-रूपौ विश्वोपदेष्टारौ प्रसिद्धौन त्व् अहं तत्-पोष्टा तत्राह—प्राणादीनाम् इति न केवलं तयोर् **विश्व-**पोष्टत्वम् एवापि तु **विश्व-**स्रष्टृत्वम् अपि प्रसिद्धम् इत्य् अर्थः । तेषां याः शक्तयस्ताः परस्य परमेश्वरस्यैव कुतः पारतन्त्र्यात् यथा वेध-शक्तिर् न बाणस्य अपि तु पुरुषस्य तद्वद् इत्य् अर्थः ।
ननु तयोः स्वाधिष्ठातृ-दैवत-पारतन्त्र्यम् अस्तु परमेश्वर-पारतन्त्र्यं कुतो\ऽवसितं तत्राह—वै निश्चितं सादृश्यात् तद् अदिष्ठातृ-देवतानाम् अपि तत्-तुल्यत्वात् यथैव प्राण-जीव-शब्द-वाच्यानि कर्म-ज्ञानेन्द्रियाणि जडानि तथैव तद् अधिष्ठातृ-दैवतान्य् अपि जडानीत्य् अर्थः । ततश् चश्वरस्यैवेत्य् अन्वयः ।
ननु प्राणादीनां शक्त्य् अभावे कुतः क्रिया-कारित्वं स्यादत आह--द्वयोः प्राण-जीवयोः तयोश् चेष्टैव चेष्टतां स्याद् इति यावत् चेष्टमानानां प्राण-बुद्धि-कर्मेन्द्रियाणां चेष्टैव केवलं न तु शक्तिर् यथा पुरुषस्य शक्त्या शरादीनां वेग इत्य् अर्थः ॥६॥
॥ १०.८५.७ ॥
कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् ।
यत् स्थैर्यं भूभृतां भूमेर् वृत्तिर् गन्धोऽर्थतो भवान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पार-तन्त्र्यम् एव प्रपञ्चयति—कान्तिर् इति पञ्चभिः । चन्द्रस्य कान्तिः । अग्नेस् तेजः । अर्कस्य प्रभा । ऋक्ष-विद्युतां सत्ता स्फुरण-मात्रेण सत्त्वम् । अर्थतो वस्तुतो भवान् । तथा च श्रुतिः—
न तत्र सूर्यो भाति न चन्द्र-तारकं > नेमा विद्युतो भान्ति कुतोऽअयम् अग्निः । > तम् एव भान्तम् अनु भाति सर्वं > तस्य भासा सर्वम् इदं विभाति ॥ [क।उ। २.५.१५] इति ।
स्मृतिश् च—
यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम् । > यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ [गीता। १५.१२] > इति ।
भूमेर् वृत्तिः प्राणिनाम् आधारत्वेन वर्तनं गन्धश् च भवान् । तवैव शक्तिर् इत्य् अर्थः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कान्तिः कमनीयता । पारतन्त्र्ये श्रुतिम् आह—तथा चेति । तत्रात्मनि । तम् एवात्मानम् एव ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शक्तीर् आह—कान्तिर् इति पञ्चभिः । यद् इति लिङ्ग-व्यत्ययेन सर्वैर् अपि योज्यम् । याश् चन्द्रादीनां कान्त्य् आदयस् ताः सर्वा भवान् एवेत्य् अन्वयः । तत्र भवान् इत्य्-आदरात् अग्रे तु त्वम् इति भक्त्य् उद्रेकात्, पुनश् च भावान् इति तथैवेत्य् एतच् च भक्ति-भङ्ग्यैवेति ज्ञेयम् ।
एवं तेजस्विनां तच्-छक्ति-हेतुत्वेनादौ तेजसः शक्तिर् उक्ता, तृतीय-स्कन्धे किल-देवोक्तायाः पचनादि-तच्-छक्तेर् अप्य् अत्रैवान्तर्भावो ज्ञेयः । एवम् अन्यत्रापि, अधुना भूमेः शक्तिं वदन्नादौ भौमत्वेनाद्रीणाम् आह—स्थैर्यं धारणाशक्तिर् इत्य् अर्थः । अर्थतो भवान् इति शक्तिमतो कार्य-कारणयोश् चाभेदाभि-प्रायेण, तेषां तत्-तच्-छक्तिस् त्वच्-छक्त्यैव इत्य् अर्थः । एवम् अग्रे\ऽपि ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शक्तीर् आह—कान्तिर् इति पञ्चभिः । यद् इति लिङ्ग-व्यत्ययेन सर्वैर् अपि योज्यं याश् चन्दादीनां कान्त्यादयः ताः सर्वाभावेनैवेत्य् अन्वयः । तत्र भवान् इत्य्-आदरात् अग्रे तु त्वम् इति भक्त्य् उद्रेकात् पुनश् च भवान् इति तथैवेत्य् एतच्-च भक्ति-भङ्ग्यैवेति ज्ञेयम् । एवं तेजस्विनां त्वच्-छक्ति-हेतुत्वेनादौ तेजसः शक्तिर् उक्ता तृतीय-स्कन्धे कपिल-देवोक्तायाः पचनादि-तच्-छक्तेर् अप्य् अत्रैव वीतभावो ज्ञेयः । एवम् अन्यत्रापि ।
अधुना भूमेः शक्तिं चरन्नादौ भौमत्वेनाद्रीणाम् आह—स्थैर्यं धारण-शक्तिर् इत्य् अर्थः । एवम् अन्यत्रापि अर्थ-लोभवान् इति शक्ति-मतोः कार्य-कारणयोर् अभेदाभिप्रायेण तेषां तत्-तच्-छक्तिस् त्वच्-छक्त्यैव इत्य् अर्थः । एवम् अग्रे\ऽपि ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् वस्तु-मात्राणां या याः शक्तयस् तवैवेति प्रदर्शयति-कान्तिर् इति । तत्र कान्तिः कमनीयता चन्द्रर्क्ष-विद्युतां प्रसिद्धैव अग्न्य् अर्कयोश् च शीत-काले अर्कस्योदयास्तसमये\ऽपि तेजः स्पर्शाशक्यत्व् अलक्षणं सर्वेषाम् एव प्रभा अति-दूरस्थः प्रकाशः सत्ता च चन्द्रादीनाम् अर्थतो वस्तुतो भवान् तथा च श्रुतिः—
न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विदुतो भान्ति कुतो\ऽयम् > अर्गनिः । > तम् एव भान्तम् अनुभान्ति सर्वे तस्य भासा सर्वम् इदं विभाति > ॥[क।उ। २.५.१५] इति ।
स्मृतिश् च—
यद्-आदित्य् अगतं तेजो जगद्-भासयते\ऽखिलम् । > यच्-चन्द्रमसि यच्-चाग्नौ तत्तेजो विद्धि मामकम् ॥[गीता। १५.१२] > इति ।
यद् इति लिङ्ग-विपरिणामेन सर्वत्र योज्यं भूमेर् वृत्तिः प्राणानाम् आधारत्वेन वर्तनं गन्धश् च भवान् तथैव शक्तिर् इत्य् अर्थः ॥७॥
॥ १०.८५.८ ॥
तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः ।
ओ148जः सहो बलं चेष्टा गतिर् वायोस् त149वेश्वर ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च हे देव, अपां तर्पणं तृप्ति-जनकत्वं प्राणनं जीवन-हेतुत्वं ता आपश् च तासां रसश् च त्वम् एव । किं च वायोर् ओजः-सह-आदि तवैव शक्तिः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किञ्चेति । इमं न्यायम् अन्यत्राप्य् अतिदिशति किञ्चेति ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एक एवाहं कथं तत्**-तद्-**बहुल-रूपः? तत्राह—हे देवेति । बहुधा त्वम् एव क्रीडसीत्य् अर्थः । एवम् ईश्वरेत्यापि ईश्वर-शक्तेर् दुर्वितयत्वाद् इति भावः । ओज-आदि-त्रयं क्रमेण मन-इन्द्रिय-देहानां शक्तिः । यद् वा, ओजः-पराक्रमः, सर्व-विजय-शक्तिः [सर्वेन्द्रिय-शक्तिः] सहः—बहिर्-अन्तर्-व्यापक-शक्तिः, बलम्—उत्पाटनादि-शक्तिः, चेष्ट-नयनादि-शक्तिः । गतिः—शीघ्रादिर् इति विवेचनीयम् । तथेत्य् उक्त-समुच्चये । अयम् एव पाठः सुसङ्गतः, प्राक् पश्चाच् च सर्वत्रैवाभेद-निर्देशत् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एक एवाहं कथं तत्**-तद्**-बहु-रूपः तत्राह--देवेति । हे अनन्तधा-भासमान! एवम् ईश्वरे त्वयि तत्रैव विभूतयस् ता इति भावः । चेष्टा प्रयत्नः गति-चलन-मात्रम् अत्र तथेश्वरेति केवल-गौडीयः पाठः ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं बहुना, वस्तु-धर्मा वस्तूनि च त्वम् एवेत्य् आह—तर्पणम् इति चतुर्भिः । हे देव! अपां तर्पणं तृप्ति-जनकत्वं प्राणनं जीवन-हेतुत्वं ता आपश् च तद्-रसश् च त्वम् एव वायोर् ओजस्-सहआदिकं तवैव शक्तिः ॥८॥
॥ १०.८५.९ ॥
दिशां त्वम् अवकाशोऽसि दिशः खं स्फोट आश्रयः ।
नादो वर्णस् त्वम् ॐ-कार आकृतीनां पृथक्-कृतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिशाम् उपाधिकृताकाश-प्रदेशानाम् अवकाशो दिशश् च त्वम् । खं सामान्याकाशस् तद् आश्रयः स्फोटश् च शब्द-तन्-मात्रं परावस्था वाग् इत्य् अर्थः । नादः पश्यन्ती । ओङ्कारी मध्यमा । वर्णश् चाकृतीनां पदार्थानां पृथक् कृतिः पृथक् करणम् अभिढाणं यस्मात् तत् पदम् । वर्ण-पदाद्य्-आत्मिका वैखरी च त्वम् इत्य् अर्थः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सामान्याकाश् आश्रयः । इत्य् अर्थ इति-अतीव-सूक्ष्मा पराख्या वाग् एव शब्द-तन्मात्रम् इति भावः । आकृतीनां घटाद्य् आकाराणाम् । इत्य् अर्थ इति-परापश्यन्ती-मध्यमा-वैखरी-रूपस् त्वम् एव । प्रपञ्चयिष्यते चैतद् एकादश-स्कन्धे । यद् वा, वैयकरणाभिमताष्ट-विध-**स्फोट-**रूपो\ऽपि त्वम् एव । ते चाष्टौ स्फोटाः—**वर्ण-स्फोट-**पद-**स्फोट-**वाक्य-स्फोटा इति त्रयो व्यक्ति-स्फोटाः । वर्णत्व-जातिर्-वाचिकेति पक्षे वर्ण-पद-वाक्य-भेदेन त्रयो जाति-स्फोटाः वर्ण-पद-स्फोट-वाक्य-पद-स्फोटौ चेत्यष्टौ सन्ति । यथा-राम इत्य् अत्र-र-काराकर-मकाराकारवर्णा वाचका इति **वर्णस्-**फोटः, राम इति पदम् एव वाचकम् इति पद-स्फोटः, राम ंआं पाहीति वाक्यम् एव वाचकम् इति वाक्य-स्फोटः, तत्र व्यक्ति-स्फोट-वाचकानां मते वर्ण-पद-वाक्य-व्यक्ति रेव वाचिका । जाति-**स्फोट-**वाचकानां मते तु वर्णत्व-पदत्व-वाक्यत्व-जातिर् एव वाचिका, केषाञ्चिन्-मते वर्णानां पदस्यापि राम इत्य् अत्र वाचकत्वं तत्र वर्ण-पद-स्फोटः, राम मां पाहीति वाक्ये पद-वाक्ययोर् उभयोर् वाचकत्वम् इति पद-वाचक्य-स्फोटः, स्फुटति प्रकटीभवत्य् अर्थे\ऽनेनेति स्फोटः । ध्वनि-विशेष-वच्-छिन्नं ब्रह्मैव **स्फोट-**पद-वाच्यम् इति सिद्धान्तः ॥९-११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्रय इति शब्दस्याकाश-शक्तिकत्वम् एव दृढयति । तत्र शब्दस्यैवावस्था-भेदेन भेदानाह—नाद इत्य् अर्धेन ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्रयश् च त्वम् इत्य् अन्वयः । अयम् एव हेतुः सर्वत्र ॥९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिशाम् उपाधिकृताकाश-प्रदेशानाम् अवकाशः दिशश् च त्वं खं च सामान्याकाशः तदाश्रयः स्फोटश् च शब्द-तन्-मात्रं वाकं परावस्थ इत्य् अर्थः । नादः पश्यन्ती मध्यमा च त्वं वर्णः ओङ्-कारश् च त्वम् आकृतीनां पदार्थानां पृथक् कृतिः पृथक्-करणम् अभिधानं यस्मात् स इति वैखरी च त्वम् इत्य् अर्थः । तथा च श्रुतिः
चत्वारि वाक्-परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । > गुहायां त्रीणि नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति > ॥९॥
॥ १०.८५.१० ॥
इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः ।
अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियाणाम् इन्द्रियं विषय-प्रकाशन-शक्तिर् देवाश् चेन्द्रियाधिष्ठातारस् तद् अनुग्रहस् तेषाम् अधिष्ठान-शक्तिश् च त्वम् । अवबोधोऽ150ध्यवसाय-शक्तिः । अनु151स्मृतिः प्रतिसन्धान-शक्तिः ॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पञ्च-महा-भूतानां शक्तिर् उक्ता । अधुनेन्द्रियादीनाम् आह—इन्द्रियम् इति । तु विशेषे । इन्द्रियादीनां प्रायश् चेतनत्वात् विविध-चेष्टा-कारित्वाद् वा मनस इन्द्रियेष्व् अन्तर्भावः । तस्य च सङ्कल्पादि-शक्ति-शक्तिर् ज्ञेया । सती सत्या निःसंशय इत्य् अर्थः । बुद्धेर् अनुस्मृति-शक्ति-सम्भवे\ऽपि जीवस्येति सर्वानुस्यूतस्य सदा वर्तमानस्य चैतन्यस्यैव स्वतस् तत्-सुसिद्धेः । यद् वा, जीवस्य जीवाधिष्ठानस्य चेत्तस्य श्री-भगवद् अनुस्मृतिः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जीवस्य जीवाधिष्ठानस्य चित्तस्य यानुस्मृतिः साधारणी या च सती भगवन्-निष्ठा सापि ॥१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाम् इन्द्रियं विषय-प्रकाशन-शक्तिः देवाश् च तद् अधिष्ठातारः तद् अनुग्रहः तेषां विषय-ग्रहणानुकूल्यं च अवबोधो व्यवसाय-शक्तिः जीव-स्थान-स्मृतिः जीव-सम्बन्धिनी अनुस्मृतिः प्रतिसन्धान-शक्तिश् च ॥१०॥
॥ १०.८५.११ ॥
भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः ।
वैकारिको विकल्पानां प्रधानम् अनुशायिनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतानां कारणं भूतादिस् तामसोऽहङ्कारस् त्वम् असि । इन्द्रियाणां कारणं तैजसो राजसोऽहङ्कारस् त्वम् । विविधम् अधिदैवाध्यात्माधिभूत-भेदेन विकल्प्यन्त इति विकल्पा देवास् तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश् च त्वम् । अनुशायिनां जीवानां संसार-कारणं प्रधानं त्वम् ॥११॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना त्रि-विधाहङ्कारस्य शक्तीर् आह—भूतानाम् इति पाद-त्रयेण । सर्वेषाम् एषां मूलं प्रधानम् अपि तव शक्तिर् एवेत्य् आह—प्रधानम् इति । अनुशायिनां प्रकृतौ लयं प्राप्य स्थितानाम् इति मुक्ता व्यवच्छिन्नाः, तेषाम् एव भोगार्थं तत्-तत्-सृष्टेः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुशायिनां प्रकृतौ लयं प्राप्य स्थितानाम् इति मुक्त-व्यवच्छिन्नाः ॥११॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानां कारणं भूतादिस् ताम् असो\ऽहङ्कारस् त्वम् असि इन्द्रियाणां कारणं तैजस-राजसाहङ्कारश् च विविधं कल्प्यन्त इति विकल्पा देवास् तेषां कारणं वैकारिकः सात्त्विकाहङ्कारश् च त्वम् अनुशायिनां जीवानां संसार-कारणं प्रधानं च त्वम् ॥११॥
॥ १०.८५.१२ ॥
नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् ।
यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च नश्वरेषु नाश-शीलेष्व् इहैतेषु भावेषु यद् अनश्वरम् अवशिष्यमाणं रूपं तत् त्वम् असि । द्रव्य-विकारेषु मृ-सु-वर्णादि-कार्येषु घट-कुण्डलादिषु अश्वरेषु च द्रव्य-मात्रं मृत्-सुवर्णादि-मात्रम् अनश्वरं यथा तद्वत् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह—अपि चेति । भावेषु देहादिषु ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुक्तानां मोक्ष-सुखानुभव-शक्तिर् अपि त्वत्त एवेत्य् आशयेनाह—नश्वरेति । भावेषु उक्तेषु जगत्-कारणेषु तेषु तत् चैतन्यं निरूपितं निश्चयेनोक्तं दृष्टं वा तत्त्वज्ञैः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् इति तत्-तद्-उपादानम् इति तच्-छक्तिकं ब्रह्म इत्य् अर्थः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नश-वरेषु भावेषु तत् अनश्वरं प्रधानं त्वमसि यथा द्रव्य-विकारेषु घट-कुण्डलादिषु नश्वरेषु द्रव्य-मात्रं मृत्-सुवर्णादि-मात्रम् अनश्वरं तद्वत् ॥१२॥
॥ १०.८५.१३ ॥
सत्त्वं रजस् तम इति गुणास् तद्-वृत्तयश् च याः ।
त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्रि-गुणात्मक-कार्य-रूपोऽपि त्वम् इत्य् उक्तत्वात् कथम् अनश्वरत्वं तत्राह—सत्त्वम् इति । तद् वृत्तयस् तत् परिणामाश् च महद्-आदयः । अद्धा साक्षात् त्वयि परे ब्रह्मणि कल्पिताः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रि-गुणात्मकत्वे शङ्कते—नन्व् इति ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तत्-तच्-छक्तीनाम् अपि कान्त्य्-आदीनां मच्-छक्तित्वे सति कथं नश्वरत्वम्? नश्वरत्वे च सति कथं वा ममानश्वरत्वम्? तत्राह—सत्त्वम् इति द्वाभ्याम् । यतः परब्रह्म-रूपे कल्पनातीते\ऽपि योग-मायया तवाचिन्त्य-शक्त्या अद्धा साक्षाद् एव कल्पिताः । यद् वा, परे परमेश्वरे\ऽपि त्वयि कल्पिताः, तत्र च तवैवैकस्मिन् ब्रह्म-रूपे, न तु साक्षाद् ईश्वर-रूपे त्वयीत्य् अर्थः । ईश्वरस्यैवैश्वर्येण तत्-सम्बन्धीनाम् अपि नित्यत्वापत्तेः ब्रह्मणश् च केवलत्वेन तदीयानाम् अन्येषां मिथ्यात्वस्यैवोपपत्तेर् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत्-तच्-छक्ति-शाबल्ये तत्**-तद्**-दोषेणाहम् अपि दुष्येयं तत्राह—सत्त्वम् इति । योग-मायया स्वरूप-भूताचिन्त्य-शक्त्या कल्पिताः त्वयि तेषां सत्त्वे\ऽपि स्पर्शौ नास्तीत्य् एवम् एव योजिता इत्य् अर्थः तद् उक्तं श्री-गीतासु—
मया ततम् इदं विश्वं जगद्-अव्यक्त-मूर्तिना । > मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ > न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गी। ९.४-५] > इति ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तत्-तच्-छक्ति-शाबल्ये तत्-तद्-दोषेणाहम् अपि दुष्येयं तत्राह—सत्त्वम् इति । योग-मायया स्वरूप-भूताचिन्त्य-शक्त्या तेषां सत्त्वे\ऽपि स्पर्शो नास्त्य् एवम् एव योजिता इत्य् अर्थः । तस्माद् यर्हि यदा प्रलय-समये कार्य-रूपा विकल्पिता अमी भावाः योग-मायया त्वत्तो वियोजितास् तदा न सन्ति न भवन्ति नश्यन्तीत्य् अर्थः । त्वं चामीषु विकारेषु कार्य-रूपेषु न भवसि नात्मसत्तां ददासीत्य् अर्थः अन्यदा तु सृष्टि-स्थित्य् ओस्तेषु व्यावहारिकः । **योग-**माययैवास्पृष्टो\ऽपि व्यवहार-सत्तासाधकतया वर्तस त्यर्थः ॥१३-१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि प्रधानम् अहम् एवास्मि तर्हि जगत्-कारणस्य तस्य विकारित्वे ममैव विकारित्वं प्रसक्तम् अत आह—सत्त्वम् इति द्वाभ्याम् । गुणास् त्रयो ये प्रधान-सञ्ज्ञा याश् च तद्-वृत्तयस् तत् परिणामा महद्-आदयश् च ते सर्वे योगमा-यया त्वं स्वरूप-भूताचिन्त्य-शक्त्या त्वयि तेभ्यः परे ग्णातीतेऽपि कल्पिताः समर्थिताः अवर्तमाना अपि ते वर्तितास् त्वद्-दृष्टि-पथे योजिता इत्य् अर्थः ॥१३॥
॥ १०.८५.१४ ॥
तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः ।
त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मान् न सन्तीति । नन्व् असतां कथं प्रतीतिरत आह—यर्हीति । य152दा विकल्पितास् तदैव प्रतीति मात्रेण त्वयि सन्ति, त्वं चामीषु तदैव कारणतयानुगतः । अन्य153दा त्व-व्यावहारिको विकल्पकस् त्वम् एवावशिष्यस इत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कल्पितास् तस्माद् इत्य् अर्थः । तदैव विकल्प-समय एव । अमीषु भावेषु । अन्यदा ज्ञानावस्थायाम् । अन्यावहारिकः सर्व-व्यवहारातीतो\ऽविकल्पो जीवेश्वरादि-विकल्प-रहितः । इत्य् अर्थ इति—यो\ऽवशिष्येत सो\ऽस्म्य् अहम् [भा।पु। २.९.३२] इत्य् उक्तेस् तत्त्वज्ञानेनात्म-कल्पित-प्रपञ्चबाधे रज्जु-ज्ञानेन भुजङ्ग-बाधे रज्जुवत्त्वम् एवावशिष्यस इति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्मान्-**न सन्ति विनश्वरा एव इत्य् अर्थः । असत्यादेश् चेत्य् आह—यर्हि विशेषेण प्रत्यक्षत्वादिना कल्पितास् तदैवामी भावाः अन्यदा च न सन्ति मिथ्यैव इत्य् अर्थः ।
ननु मत्-सम्बन्धेन सत्याः सन्तु तत्राह—त्वम् इति । च अपि, त्वम् अपि, विकारेषु मायिकत्वेन विकार-रूपेष्व् अपि तदैवासि अन्यदा कल्पनाभावे त्व् अव्याववहारिकस् तत्-सम्बन्धातीतः । अतः सदा त्वत्-सम्बन्धाभावेन ते किलासत्या एव, त्वं च सदा सत्यत्वेनानश्वर एवेति भावः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्माद्-यर्हि यदा प्रलय-समये कार्य-रूपा अमी भावाः विकल्पिताः तद् इच्छा-मय्या योग-मायया त्वद्-दृष्टितो वियोजितास् तदा न सन्ति न भवन्ति त्वं चामीषु विकारेषु कार्य-रूपेषु न भवसि हि निश्चये । अन्यदा सृष्टि-स्थित्योस् तु तेषु व्यावहारिकः योग-माययैवास्पृष्टो\ऽपि व्यवहार-सत्ता-साधकतया वर्तस इत्य् अर्थः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् यर्हि महा-प्रलये अमी भावा विकल्पिताः त्वद् इच्छा-मय्या योग-मायया त्वद्-दृष्टितो वियोजितास् तदा त्वयि न सन्ति न भवन्ति त्वं च अमीषु विकारेषु कार्य-रूपेषु तदा न वर्तस अन्यदा सृष्टि-स्थित्योस् तु त्वं तेषु व्यावहारिकः व्यवहार-निर्वाहकः वर्तसे तेष्व् अवर्तमानो\ऽपि व्यवहार-सिद्ध्य् अर्थम् अन्तर्यामित्वाद्य् अंशम् आविष्कृत्य वर्तस इत्य् अर्थः । यद् उक्तं गीतासु—
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । > मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ > न च मत्-स्थानि भूतानि सर्वाणीत्य् उपधारय ॥ [गीता। ९.४-५] इति > ।
तस्मात् त्वं स्वरूपेण गुण-मय-प्रधान-रूपो न भवसीति नास्ति ते विकार इति भावः ॥१४॥
॥ १०.८५.१५ ॥
गुण-प्रवाह एतस्मिन्न् अबु154धास् त्व् अखिलात्मनः ।
गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-रूपत्वाद् अज्ञान-निबन्धनश् च संसार इत्य् आह—गुण-प्रवाह इति । सूक्ष्मां निष्प्रपञ्चां गतिम् अबुधा अविद्वांसः । अबुद्ध्वेति वा पाठः । अतोऽबोधेन देहाभिमानेन कृतैः कर्मभिः संसरन्तीति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-रूपत्वाज्ञानं सर्व-बाधावधित्वाज्ञान-निबन्धनं कारणं यस्य स तथा । एतस्मिन् प्रत्यक्ष-सिद्धे । पूर्व-पाठापेक्षयाबुद्ध्वेति पाठस्य झटित्य् अर्थ-प्रत्यायकत्वात्-सम्यक्त्वम् । यतो न विदन्त्यतो हेतोः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं संसार-कारणानाम् एषां तत्त्वतो मिथ्यात्वेन संसारस्यापि मिथ्यात्वात् कथं विव्ध-संसार-दुःखानुभवः? आत्म-तत्त्वाज्ञानादि त्य् आह—गुण-प्रवाह इति । प्रपञ्च इत्य् अर्थः । अयम् एव हेतुः—प्रपञ्चस्याविच्छेदात् । तु शब्देन बुधा न संसरन्तीति बोधयति अखिलस्य सर्व-व्यापकत्वेनाखण्ड-चैतन्य-रूपस्याप्यात्मनः । यद् वा, अखिलेति पृथक् पदम्, हे संपूर्णैश्वर्य इत्य् अर्थः । अतस्-त्वद्-भक्तास् त्वत्-प्रभावेणाबुधा अपि न कथञ्चित् संसरन्तीति भावः । इह प्रपञ्चे इहेति संसरस्यानिवृत्तिः सूचिता । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, त्वद् अज्ञानादित्य् आह—गुणैर् इति । एतस्मिन् कथञ्चिद् आश्रयण-मात्रेण साक्षात् सर्वैर् अनुभूयमाने\ऽपि गुणानां त्वत्-कारुण्यादीनां प्रवाहे परम्परायां सत्याम् अपि अखिलस्य सर्वस्यात्मनो जीवस्य गतिं शरणं त्वां प्रत्यबुधा अज्ञाः सन्तः त्वाम् अजानन्त इत्य् अर्थः । सूक्ष्माम् इति स्व-शक्त्या दुर्जेयत्वात् । यद् वा, अखिलानाम् आत्मनो\ऽन्तर्यामिणस् तव सूक्ष्मां भिन्नाभिन्नत्वादिना दुर्वितर्का गतिं तत्त्वम् । अन्यत् समानम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईदृश-त्वद् अज्ञान-निबन्धनश् चायं जीवानां संसार इति तान् शोचति-गुणेति । तथा-चैकादशे भयं द्वितीयाभिनिवेशितः स्यात् [भा।पु। ११.२.३७] इत्य्-आदि । अन्यत्-तैः । यद् वा, एतस्मिन् कथञ्चिद् आश्रयण-मात्रेण साक्षात्-सर्वैर् अनुभूयमाने\ऽपि गुणानां
त्वात्-कारुण्यादीनां प्रवाहे परम्परायां सत्याम् अपि अखिलस्य सर्वस्यात्मनो जीवस्य गतिं शरणं त्वां प्रत्यबुधा अज्ञाः सन्तः त्वाम् अजानन्त इत्य् अर्थः । सूक्ष्माम् इति स्व-शक्त्या दुर्ज्ञेयत्वात् ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ईदृशत्वद् अज्ञान-निबन्धनश् चायं जीवानां संसार इति तान् शोचति गुणेति ॥१५-१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव एतस्मिन् गुणाप्रवाहे संसारे अखिलात्मनस् तव सूक्ष्मां गतिम् उक्त-लक्षणाम् अबुधा अजानन्तः अबोधेन तेनैव कर्मभिः संसरन्ति ॥१५॥
॥ १०.८५.१६ ॥
यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् ।
स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तयोस् तत्त्वं निरूप्य तद् अप्राप्त्या शोचति, यदृच्छयेति । नृतां मनुष्यताम् । सुकल्पां पटुतरेन्द्रियाम् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं तयो राम-कृष्णयोः । तद् अप्राप्त्या तत्त्वाप्राप्त्या । इह संसारे । स्वार्थे तत्त्वावाप्ति-रूपे । यद्-ऋच्छया प्रारब्ध-कर्मणा । ममेति शेषः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो त्वदीयस्य बुधस्यापि मम त्वन्-मायया त्वद्-भक्त्य् अभावेनायुर् व्यर्थं गतम् इति शोचति-यदृच्छयेति । अयत्नेनैव प्राप्य पूर्व-कर्मणैव अधुनोपसादितत्वात् । सुकल्पां सुसमर्थाम् । पाठान्तरे—अति-नीरोगामतिदक्षां व इत्य् अर्थः । तथा च—कल्पं सज्जे प्रभाते च कल्पो निरोग-दक्षयोः इति । एवम् उभयथापि तेषां व्याख्या सङ्गतैव । पटुतरेन्द्रियाम् इति । स्वस्यार्थ पुरुषारार्थे त्वद्-भक्ति-लक्षणे, प्रमत्तस्यानवहितस्य मे । हे ईश्वरेति त्वदीयस्यापीति । यद् वा, ईश्वर-मायया दुर्लङ्घ्यत्वाद् इति भावः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सांसारिकेषु विशेषतो नरं शोचति यदृच्छयेति । अयत्नेनैव प्राप्य पूर्व-कर्मणैवाधुनोपसादितत्वात् सुकल्यां स्वार्थ-साधने योग्यां सु-कल्पाम् इति पाठे\ऽपि तथैवार्थः । स्वस्यार्थे पुरुषार्थे त्वयि प्रमत्तस्यान् अवहितस्य हे ईश्वरेति! ईश्वरमायया दुर्लङ्घ्यत्वाद् इति भावः ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम्-भूतं ज्ञानं त्वद्-भक्त्या नृजन्मनि सम्भवेत् तत् यस्य नाभूत् तं शोचति-यदृच्छयेति । सुकल्पां पटुतरेन्द्रियाम् ॥१६॥
॥ १०.८५.१७ ॥
असाव् अहं ममैवैते देहे चास्यान्वयादिषु ।
स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो किम् इति प्रमत्तोऽसि, त्वया बहुभिः पाशैर् निबद्धत्वाद् इत्य् आह—असाव् अहम् इति । दे155हे अस्य देहस्यान्वयादिषु पुत्रादिषु च ममैवैत इति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद् आक्षेपे स्वासामर्थ्यं द्योतयन् भगवतः सर्व-सामर्थ्यम् आह—अहो किम् इत्य्-आदिना । अन्वयादिषु इन्द्रिय-कलत्रादिषु । न केवलं माम् एव किन्तु सर्वम् इति ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु मदीयेषु माया न प्रभवेत्-तत्राह—असाव् इति । नितरां बध्नाति भवान् एव, अतो मादृशामि **स्नेह-**पाशमयी सा दुस्तरैवेति भावः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र सप्रणयरोषम् एवाह--असाव् इति ॥१७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं कर्तव्यं यतस् त्वज्-ज्ञानं भवेत्-तस्यां त्वद्-भक्ताववकाशम् एव जनो न प्राप्नोतीत्य् आह—असाव् इति ॥१७॥
॥ १०.८५.१८ ॥
युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ ।
भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो त्वत्-पुत्रयोर् आवयोः किम् इदम् आरोप्यते अत आह—युवाम् इति । भू-भार-क्षत्र-क्षपणार्थम् अवतीर्णौ तथा ह निश्चितम् आत्थ कथयसि ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति-अहो इत्य्-आदि । भू-भार-क्षत्र-क्षपण इति निमित्ते सप्तमी । एडः पदान्तादति इति पूर्व-रूप-रूप-सन्धिबाधस् त्व् आर्षः कथयसि
संरक्षणाय साधूनां विनाशाय च दुष्कृताम् । > धर्म-संस्थापनार्थाय भविष्यामि युगे युगे ॥
इति गीतोक्ति-रूपेण वदसीत्य् अर्थः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽस्माकं सुतौ न भवथः बहुत्वं स्व-पत्नी-वर्गाद्य् अपेक्षया, किन्तु साक्षात् प्रधान-पुरुषेश्वराव् एव । ननु तर्हि किम् अर्थम् अत्रागतौ? । तत्राह—भू-भारेति । तत्र च त्वद्-वच एव प्रमाणम् इत्य् आह—तथेति । तादृशं त्वम् एवात्थ, जन्म-समये साक्षाच्-छ्री-मुखेन श्री-नारदादि-द्वारा वा, सुताव् इत्य्-आदि-द्वित्वं व्यवहारापेक्षया तत्त्वतस् त्वैक्येन पुनर् अप्य् अग्रे तथैव निर्देशः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अहो पितर्मयि मदीयेषु च स्नेहो नितराम् अपेक्ष्य एव । सत्यम्, किन्त्व् ईश्वरे पुत्रत्व-दृष्टेर् अयोग्यत्वेन महा-धार्ष्ट्यं स्याद् इत्य् आशयेनेश्वरत्वम् आह—युवाम् इति । अर्थः स एव । यद् वा, भो भगवन्! पुत्रत्वेन तवास्मासु स्नेह एवोचित इति पुत्रत्वं द्रढयति-युवाम् इति । प्रधान-पुरुषेश्वराव् अपि साक्षान्-नः सुतौ न भवतः किम्? काक्वा, अपि तु भवथ एव इत्य् अर्थः । कुतः? भूभार-रूप-क्षत्रिय-क्षपणार्थं मद्वृहे पुत्रतया साक्षाद् अवतीर्णौ । अन्यत् समानम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नो\ऽस्माकम् इति अस्मदो द्वयोश् च [पा। १.२.५९] इति बहु-वचनम् आत्थ जन्म-समये कथितवानसीत्य् अर्थः ॥१८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रावाम् एव प्रमाणं यद् आवयोर् देह-पुत्रादिष्व् अहन्ताममते वर्तेते एवेत्य् आह—युवाम् इति । नः आवयोर्न सुतौ तद् अपि सुत-बुद्ध्या युवयोर् ममता वर्तत एवेति भावः । **क्षत्र-**क्षपणे भूभार-रूप-क्षत्रिय-क्षयाय तथैव आत्थ स्व-जन्म-समये कथितवानसि ॥१८॥
॥ १०.८५.१९ ॥
तत् ते गतोऽस्म्य् अरणम् अद्य पदारविन्दम्
आपन्न-संसृति-भयापहम् आर्त-बन्धो ।
एतावतालम् अलम् इन्द्रिय-लालसेन
मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माद् अरणं शरणम् आपन्नानां संसृति-भयम् अपहन्तीति तथा तत् । ननु त्वम् अति-सुखी, वृथा किं निर्विद्यसेऽत आह—एतावतेति । इन्द्रिय-लालसेन इन्द्रियार्थ-तृष्णया । यद् येन इन्द्रिय-लालसेन मर्त्ये शरीरे आत्म-दृग् आत्म-बुद्धिर् अहं त्वयि च परे परमेश्वरेऽपत्य-बुद्धिर् अस्मि तेन अलम्, अलं पर्याप्तम् इति ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् ईशस् तत्-तस्मात् । आर्तबन्धो इति संसृतिभीतानां त्वम् एव रक्षक इत्य् आह—आक्षिप्य समाधत्ते-नन्व् इत्य्-आदि । एतावता इयत्-प्रमाण-केनाद्य् अपर्यन्तेनेति यावत् । मर्त्ये मृत्यु-शिरस्के । अहम् इति बुद्धिर् अहं पदार्थः । तेनेन्द्रिय-लालसेन ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तस्मात् साक्षाद् ईश्वरत्वात् त्वन्-मायामोहितत्वाद् वा । अद्येति त्वत्-कृपया विवेकोदये सतीत्य् अर्थः । शरण-यान-प्रयोजनं सूचयति—आपन्नानां शरणागतानां संसृति-भयापहम् इति । निर्विघ्न-त्वद्-भक्ति-सम्पत्तये संसार-दुःख-निवृत्त्य् अर्थम् इत्य् अर्थः । नन्व् अस्मत्-पितुर्-भक्त-वर्ग-पूज्यस्य कुतस् ते संसार-भयम् इति चेत, अहो बत, शरणागति-योग्यतापि मम नास्ति, कुतस् त्वत्-पितृत्वादि-योग्यता? किन्तु केवलम् इति दीनो\ऽस्मीति शरणं यामीत्य् अभिप्रायेण महार्त्त्य् आह—हे आर्तबन्धो इति । अलमलम् इति वीप्सात्यन्त-तद् उपेक्षया । न पतति निरये\ऽस्माद् इत्य् अपत्यम् इतीदृश्य् एव, न तु परम-पुरुषार्थो\ऽयम् इति बुद्धिर् इत्य् अर्थः—
युवां मां पुत्र-भावेन ब्रह्म-भावेन वासकृत् । > चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्गतिं पराम् ॥[भा।पु। > १०.३.४५] इति ।
पूर्व-जन्म-समये भगवता साक्षाद् उक्ते\ऽपीदृश्य् उक्तिः स्नेह-विशेष-सम्पत्तय इति दिक् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, इन्द्रियाणां लालसेन विषय-भोग-सुखपरतय इत्य् अर्थः । पुत्रता-दृढीकरण-स्व-पक्षे-**तत्-**तस्मात् मद्-गृहे\ऽवतीर्णत्वात्, अद्य एतज्-जन्मन्य् अपि ते तव पदारविन्दं प्राप्तो\ऽस्मि । कथम्-भूतम्? अरणं सर्व-लोकैक-शरणं विशेषतश् चापन्नाम् आपद्गतानां संसृतिभयापहम् ।
कुतः? हे आर्तबन्धो! दिन-वात्सल्याद् इति भावः । यद् वा, पदं श्री-मथुराख्यं स्थानं तद् एवारविन्दम्, मण्डलाकारत्वात् सन्ताप-हरत्वाच् च, अरणम् आश्रयं लब्धो\ऽस्मि । अन्यत् समानम् ।
ततो विविधा-पद्गणं प्राप्तस्य माहार्त्तस्य मे सर्वं भक्ति-विघ्नादिभयं निरस्य निरन्तरं त्वयि स्नेहभरं विवर्धयेति भावः । न च मोक्षाद्य् अर्थं त्वाम् इच्छामीत्य् अभिप्रायेणाह—एतावतेति । ईदृशेन इन्द्रियस्य मनसो लालसेन मोक्षादि-तृष्णया औत्सुक्येन वा, अलम् अलं किञ्चित् प्रयोजनं मे नास्तीत्य् अर्थः । **यद्-**यस्मात् परे पुत्र-श्रेष्ठे\ऽपि त्वयि मर्त्यानां देहानामात्मेति दृक् दृष्टिस् तथापत्य-बुद्धिः-पतिरीश्वर इत्य् अबुद्धिः पत्य-बुद्धिः, न पत्य-बुद्धिर् अपत्य-बुद्धिः, द्वौ नौ प्रकृत्य् अर्थं गमयतः, पति-बुद्धिश् च स्याद् इत्य् अर्थः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यस्माद्-भवान् एव माया-मयैः स्नेह-पाशैर् जीवानां बन्धकस् तत्-तस्मात्-तेषां तन्-निवृत्त्य् अर्थम् अद्य त्वत्-कृपया विवेकोदये सति ते तव पदारवीन्दं शरणागतो\ऽस्मि ननु यो बन्धको भवति स कथं मोक्षे प्रवर्तेत तत्राह—आपन्नेति । आपन्नाः शरणागताः ननु न ते शरणागताः त्वम् एव तद् अर्थं प्रार्थयसे तत्राह हे आर्तबन्धो! सहज-करुणस्य न तद् अपेक्षेति तथा तेषां सर्वत आर्तिविधानं पुरुषार्थ-शिरोमणि-स्व-सम्मुखी-करणायेति च भावः । एवं संसारिकाणां निवेदनं कृत्वा दैन्येन मर्त्य-लीलमप्य् आत्मानं मत्वा निज-वेदनम् आह—एतावतेति । इन्द्रिय-लालसेन परमेश्वरे पुत्रे सति मम सम्पत्ति-विशेषः स्याद् इति तृप्तयैव न तु श्री-व्रजेश्वरवत् त्वत्-प्रेम-मात्रेणेति भावः । अन्यत्-तैः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथात्मानम् अपि दैन्येन मर्त्य-धर्माणं मत्वा निज-निवेदनम् आह—एतेति । इन्द्रिय-लालसेन परमेश्वरे पुत्रे सति मम सम्पत्ति-विशेषः स्याद् इति कृष्णयैव न तु श्री-व्रजेश्वरवत् त्वत्-प्रेममात्रेणेति भावः ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भोगांस् तावद्-धक्ष्व कुतस्ते संसार इत्यत आह—एतावतैव **इन्द्रिय-**लालसेनालं यत् येन मर्त्ये देहे आत्म-दृक् आत्म-बुद्धिर् अहं त्वयि च परे परमेश्वरे **अपत्य-**बुद्धिर् अस्मीत्यतो\ऽज्ञान-मूलः संसारो मम नास्त्य् एवेति भावः ॥१९॥
॥ १०.८५.२० ॥
सूती-गृहे ननु जगाद भवान् अजो नौ
सञ्जज्ञ इत्य् अनु-युगं निज156-धर्म-गुप्त्यै ।
नाना-तनूर् गगन-वद् विदधज् जहासि
को वेद भूम्न उरु-गाय विभूति-मायाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कुत एतद् अहं परमेश्वर इति तत्राह—सूती-गृहे इति । नौ आवयोः । अनुयुगं प्रतियुग्मम् । यदा सुतपाः पृश्निर् इति युग्मम् । यदा कश्यपोऽदितिश् चेति युग्मम् । अधुना वसुदेवो देवकीति युग्मम् । एवं हि प्रतियुग्मम् अज एवाहं सञ्जज्ञेऽवतीर्ण इति भवान् नूनं जगाद । नन्व् अन्योऽसौ चतुर्-भुजो देव इति तत्राह—नाना तनूर् इति । गगन-वद् असङ्ग एव त्वम् । भूम्नः सर्व-गतस्य विभूति-रूपां मायां को वेदेति ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । एतत् इदं कुतो\ऽवगतम् इत्य् अर्थः । तत्राक्षेपे । अजः शुक्रशोणित-सम्पर्क-जन्य-शरीर-रहितः । ननु निश्चयेन । पुनर् आशङ्कते—नन्व् इति । असौ सूती-गृहगः । उरुगायेति नाना-रूपताम् आह । न को\ऽपीत्य् अर्थः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भो देव! निश्चतम् इति वा, अजो\ऽपि सम्यक् सर्वैश्वर्य-पूर्णतादिना उत्तम-पुत्रत्वेन वा जज्ञे । निज-धर्मस् तस्य गुप्त्यै गगनवच्-छ्यामसुन्दरीर् विशेषेन दधात् जहासि, प्रकटयस्यन्तर्-धापयसि च इत्य् अर्थः । तच् च केन प्रकारेणेति न केनापि ज्ञातुं शक्यत इत्य् आह—क इति । भूम्नः सर्वैश्वर्य-पूर्णस्य तव विभुतिमायां शक्ति-विशेषम् इत्य् अर्थः । तेन च तव महिमैव वर्धत इत्य् आशयेनाह—उरुगाय! हे महा-कीर्ते! इति । अन्यत् तैर् व्याख्यातम् ।
स्व-पक्षे न त्व् अस्मिन्न् एव जन्मन्य् अस्मत्-पुत्रस् त्वं किन्तु बहून्य् एवेत्य् अत्र त्वद्-वच एव प्रमाणम् इत्य् आह—सूतीति । निजानां मादृशानां धर्मस् त्वद्-भक्ति-लक्षणस्तस्य गुप्त्यै ।
ननु तर्हि कुतो वलपसि? तत्राह—नानेति । गगनवद्-व्यापिकाः क्वाप्य् अनासाश् च तनूर् विदधत् स्वार्थाय प्रकटयन् जहासि, समन्ताद् अन्तर्धापयसि । ममान्तर्धानाद् एते दुःखं प्राप्स्यन्तीति तव काप्य् अपेक्षा नास्तीत्य् अर्थः ।
ननु भक्तेषु कदाचिद् अपि स्नेहं न त्यजामीति चेत्-तत्राह—को वेदेति । महा-मायाविनि त्वयि न खलु विश्वसितुं शक्नुम इत्य् अर्थः । श्री-भगवद्-वचः—प्रामाण्यादिना सर्वथा कृतार्थत्वे\ऽपीदृशी दैन्योक्तिर् भक्त्य् उद्रेकस्य स्वभावेन स्नेह-विशेष-वृद्ध्य् अर्थम् एवेति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु मयि तव् आपत्य-बुद्धिः कल्पिता न किन्तु वास्तवी यतः स्व-प्रति-श्रुत-सत्यत्वाय साक्षाद्-युवाभ्यां जातस् सन् युवाभ्याम् एव पूर्व-पूर्वम् अपि जन्म स्वयम् एवाहम् उक्तवान् तद् अङ्गीकृत्य परिहरति-सूतीति । किं जगादाहं तत्राह—अज इति । अजो\ऽपि जन्म-रहितो\ऽपि नौ आवयोः सम्यक् साक्षाद् एव जज्ञे आविर्भाव-मात्रत्वे\ऽपि जन्म-प्रकारं स्वीकृतवान् तत्राप्य् अनुयुगं तत्र कैमुत्येन कारणम् अपि दर्शयति-निजानां भक्तानां धर्मो भवन-लक्षणस् तस्य गुप्त्यै पालनाय वक्तव्यम् आवयोस् तत्-पालनायेति यद् वा, निजस् त्वदीयो यो धर्मः स्वभावः भक्त-मनो-रथ-परिपूरण-रूपस् तस्य पालनायेति नन्व् एवं चेत् मत्-कृपामयी तर्हि वास्वती च तर्हि कथं मय्य् अपत्य-बुद्धिर् आक्षिप्यते तत्राह—गगनवत्-तत्-तद्-दोषा-स्पृष्ट एव त्वं नानातनूह् प्राकृत-नरादि-जीव-जाति-रूपाः विधिवत् तादृश-प्राकृत-स्वतन्वाविर्भाव-द्वारा विशेषेण दधत् स्वीकुर्वन् जहासि तत्-तन्-निजाविर्भावास्पद-नित्य-धाम-गमनेन त्यजसि तस्मात्-तन्-मध्य-पातिनावावाम् अपि तादृशाव् इति नात्यन्तीनत्वाद् अपत्य-बुद्धिर् न युक्तैवेति भावः ।
ननु नित्याव् एव युवां प्राप्स्येथे मद्-गतिं परामित्य् उक्तम् एव तर्हि कथम् एतावद्-दैन्यं कुरुषे तत्राह—हे उरुगाय! वेद-गान-मात्र-प्रसिद्ध! भूम्नः अनन्त-वैभव-परिपूर्णस्य तव परम-गत्याख्यां विभूति-रूपां मायां स्वरूप-शक्तिं को वेद जानात्य् अपि तस्मात् तत्-परामर्शोनास्माकं किम् इति भावः ।
अथवा ननु यद्य् एवम् अपत्यबुद्धिम् आक्षिपसि तर्हि कथं तां कुरुषे तत्राह—सुतीत्य् अर्धेन । यद्य् अप्य् एवम् अघटमानं त्वयपत्यत्वं तथापि त्वद्-वाक्य-प्राण्येनैवाहं तत्र प्रवर्त इति भावः ।
नन्व् अहं युष्मद्-देह-प्रवेश-मात्रापेक्षया तथोपदिष्टवान् न तु तेनाहम् अपत्यं स्यां श्रुतौ मम व्यष्टि-समष्टि-जीव-देह-मात्र-प्रवेश-श्रवणेनातिव्याप्ति-प्रसङ्गात् तत्-सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य्-आदौ तत्राह—गगनवद् असङ्ग एव त्वं जीवानां नानातनूर् अन्तर्यामि-रूपेण प्रविश्याङ्गीकुर्वन् जहासि यत् तां तव क्षुद्रैश्वर्य-रूपां को वेद बहुमन्यत इत्य् अर्थः । अयन्तु तवावयोः प्रवेशो विद्वद्भिर् अपि स्तूयते तस्माद्-विद्वद् आदयो\ऽपि ममास्ति प्रमाणं किन्त्व् आत्मा योग्यतया मम तत्राप्य् असम्भावना ज्ञायत इति भावः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सूती-गृहे अस्यानन्तर-प्रघट्टके दृश्यं श्री-कृष्णस् तु तत्र निज-महिम-व्यक्तौ सौशील्येन सङ्कुचित इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अहं परमेश्वर एव तस्य पुत्रो\ऽभूवं यस्य तव कथं संसार इति तत्राह—सूती-गृहे सूतिका-गारे ननु भोः भवान् एव नौ आवयोर् अनुयुगं प्रतियुगं [ग्मं] यदा सुतपाः पृश्निर् इति युग्मं यदा च कश्यपो दितिश्चेति युग्मम् अधुना वसुदेवो देवकी तस्मात् सर्वस्माद् एव आवयोर् युग्मात् सञ्जज्ञे अवतीर्ण इति जगाद अत एव आवयोर् नानातनूः सुतपः-पृश्न्यादिनाम्-नीविदधत् सृजन् गगनवद् अलिप्त एवावयोः प्रति-जन्मापि पुत्रो भवन्न् अप्य् अनासक्त एव जहास आवां त्यजसि संसारं च न निवर्तयसि अतस्त् अव भूम्नः परमेश्वरस्य विभूति-रूपां मायां को देव ॥२०॥
॥ १०.८५.२१ ॥
श्री-शुक उवाच—
आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः ।
प्रत्य् आह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्माद्य् अन्यतमम् अन्तरेण भगवता साक्षात्-संलापो वसुदेवं विनान्यस्य दुर्लभ इति भावेन कृष्णस्य प्रतिवचन-प्रकारम् आह—आकर्ण्येत्य्-आदि । प्रश्रयेण प्रणयेनेषन्नम्रः । प्रकृष्ट-सेव्ये विनये प्रश्रयः प्रणये\ऽपि च । इति निरुक्तिः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् ईदृशम्, प्रश्रये विनयेन, आनम्रः सम्यङ्-नतशिराः सन्, श्लक्ष्णया मधुरया गिरा, प्रत्य् आह उत्तरं ददौ । यतो भगवान् परम-दयालुर् इत्य् अर्थः । विशेषतश् च सात्वतानां भक्तानाम् ऋषभः परिपालक इत्य् अर्थः । यद् वा, तत्रापि सात्वतानां यादवानाम् ऋषभो निजाशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीर्य तत्-परिपालकत्वेन श्रैष्ठ्यं गत इत्य् अर्थः । अतः प्रहसन् कृतार्थस्यापि पितुर् दैन्योक्त्या उच्चैर्-हसन्, तच् च तस्य शोक-लाघवार्थम् इति ज्ञेयम् । किं वा, पितुर् एव श्लक्ष्णया गिरा हर्षेण प्रहसन् स्मयमानः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस् तु तत्र निज-महिम-व्यक्तौ सौशील्येन सङ्कुचित इत्य् आह—आकर्येति । सात्वतानाम् ऋषभः तद्-रूपत्वेन तस्मिन् कुत-जन्म-लीलः अत एव पितुर् इति तादृश-व्यवहारे हेतुः—प्रहसन्न् इति । तथा तद्-वचनानौचित्याभिप्रायेण प्रहासं व्यक्तीकृत्य तेनैव मोहनेन प्रवसितेन पूर्व-सिद्धं तस्य निजैश्वर्य-ज्ञानं तत्-प्रतिपादक-वचनं च तेनाननुसंहितं कुर्वन्न् इत्य् अर्थः । अस्यायं भावः मयायं ब्रमादि-मनो-रथागोचरेण पितृत्वेन सदाङ्गीकृतः साधारणमुन्यादि-सुलभम्-ऐश्वर्य-ज्ञान-मात्रं नार्हति मां सङ्कोचयति च तत् एतद् अर्थम् एव मया कंस-वधान्ते शुद्ध-पितृ-भाव-मय-प्रेमैवानयोर् वर्द्धितः तथाप्य् अहो मुनि-वाक्येन तज्-ज्ञानांशः पुनर् उदित इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आकर्येति । प्रहसन्न् इत्य् अत्र प्रेति प्रारम्भे स्मयन्न् इत्य् अर्थः । अस्यायं भावः । मयायं ब्रह्मादि-मनो-रथा-गोचरेण पितृत्वेन सदाङ्गीकृत्य इत्य् ऐश्वर्य-ज्ञानं नार्हति मां सङ्कोचयति च तत् एतद् अर्थम् एव मया कंस-वधान्ते शुद्ध-पितृ-भावमय-प्रेमैवानयोः वर्धितः ॥२१॥।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्रयेण आनम्रः प्रहसन्न् इति वन्दमानावावां पुत्राव् अपि प्रत्य् एवं त्वद्-वाक्यस्य रसाभासाभावार्थं प्रतिभय् **आह—**मस्य तात्पर्यम् अन्यथा प्रति-पादयामीति द्योतकः प्रहासः ॥२१॥
॥ १०.८५.२२ ॥
श्री-भगवान् उवाच—
वचो वः समवेतार्थं तातैतद् उपमन्महे ।
यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपमन्महे उपमन्यामहे । समुद्दिश्य विषयी-कृत्य । तत्त्व-ग्रामस् तत्त्व-समूहः । उदाहृतः सम्यङ् निरूपितः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् त्वद्-उक्तम् । समवेतार्थं श्रुत्य्-स्मृत्य्-उपपन्नार्थं प्रसिद्धार्थं वा । यद् वचः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वो युष्माकं बहुत्वम् इति गौरवात् । समवेतार्थं सुसङ्गतार्थम् । हे तात परम-पूज्यस्य तवैतद् युक्तम् एवेति भावः । यथा वा, किं बुद्धिं निरस्य पुत्र-बुद्धिं द्रढयति—पुत्रान् इति । बहुत्वं विनय-भरेणात्मनः साधारण्यापादनार्थं श्री-बलदेवाद्य्-अपेक्षया ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्माद् आत्मनि पुत्र-भावम् एव दृढी-कर्तुम् ऐश्वर्यम् अपलपन्न् आह—वच इति । नोऽस्मान् अवाङ्गदादींश् च पुत्रान् समुद्दिश्य सहज-विनयादि-गुणत्वात् स्तुति-व्याजेन, तत् त्वम् असि श्वेत-केतो [छा।उ। ६.८.७] इत्य्-आदिवद् उपदेशास्पदीकृत्य । तत्त्व-ग्रामः परमेश्वर-वैभव-रूपः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथाप्य् अहो मुनि-वाक्येन तज्-ज्ञानांशः पुनर् उदित इति तथैवाह—वच इति । समुद्दिश्य सहज-विनयादि-गुणत्वात् श्रुति-व्याजेनोपदेशास्पदीकृत्य तत्त्व-ग्रामः परमेश्वरस्य वैभव-रूपः । यथा वयं पुत्राः कृपया विभाव्यन्ते, यथा यत् सर्वे जीवा विभाविताः ॥२२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समवेतार्थं युक्तार्थम् । उपमन्महे आधिक्येन मन्यामहे । समुद्दिश्य शिक्षणार्थं, तत् त्वम् असि श्वेतकेतो [छा।उ। ६.८.७] इत्य्-आदिवद् उपदेशास्पदीकृत्य ॥२२॥
॥ १०.८५.२३ ॥
अहं यूयम् असाव् आर्य इमे च द्वारकौकसः ।
सर्वेऽप्य् एवं यदु-श्रेष्ठ विमृ157ग्याः स-चराचरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इमाम् एव दृष्टिं सर्वत्र विधत्स्वेत्य् आह—अहम् इति । एवं विमृग्याः ब्रह्मत्वेनैवान्वेषणीयाः । किं च, स-चराचरं जगद् अपि ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलम् इम एवापि । तु सर्वम् एवेत्य् आह—किं च इति । अन्वेषणीया द्रष्टव्याः, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रुतेः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् उक्त्वाभिनन्दनेन तं सन्तोष्य सर्व-सद्-गुण-निधिर् विनय-भरेणैवाह—अहम् इति । यूयम् इति गौरवाद् एव, श्री-देवक्य्-आद्य्-अपेक्षया वा । असौ ईश्वरत्वेन स्तूयमानोऽयम् अर्थोऽग्रजश् च इमे सर्वेऽपि जीवतया बन्धुत्वादिना वा ज्ञायमानाः । हे यदु-श्रेष्ठ इति महत्तमस्य ते लघुष्व् अपि विनयाद् ईदृशी दृष्टिर् युक्तैवेति भावः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं परमेश्वराद् एव सर्वस्य भासमानत्वेन तद्-अन्यतया यथा नां विभावितौ भवता तथा सर्वैर् एव तज्-ज्ञानिभिः सर्वे विभाव्या इति भवद्-उपदेशेनैव सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इतिवत् ज्ञातम् इत्य् आह—अहम् इति । स-चराचरम् इति साकल्येऽव्ययीभावः । यदु-श्रेष्ठेति तव तु तद् युक्तम् एवेति । तथा तद्-विधानां प्राकट्यं चैतादृश-ज्ञान-प्रकाशेन संसार-निस्तारणार्थम् एवेति च भावः ।
अथवा, यथा वयं पुत्राः कृपया विभाव्यन्ते, तथा तत् सर्वे जीवा विभावितास् तच् च युक्तम् एवेत्य् आह—अहम् इति । एवं कृपा-विषयत्वेन कृपालुभिर् विमृग्याः अनुसन्धेयाः । विमृश्या इति पाठोऽपि स एवार्थः । ततः संसारिणोऽपि निस्तरिष्यन्तीति भावः ॥२३॥
जीव-गोस्वामी (कृष्ण-सन्दर्भ ११७) : तत्र यादवादीनां तत्-पार्षदत्वं योजयति—अहं यूयम् इति। यूयं श्री-मद्-आनकदुन्दुभ्य्-आदयो विमृग्याः परमार्थ-रूपत्वाद् अन्वेषणीयाः। तथान्यद् अपि द्वारकौको जङ्गम-स्थावर-सहितं यत् किञ्चित्, तद् अन्वेष्यम् । अहं श्री-कृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश् च नराकार-ब्रह्मणि स्वस्मिन्न् इव तन्-नित्य-परिकरे सर्वत्रैव परम-पुरुषार्थत्वम् इति भावः ।
तस्माद् यथा पूर्वं सत्त्वं रजस् तमः [१०.८५.१३] इत्य्-आदिना सत्त्वादि-गुणानां तद्-वृत्तीनां च ब्रह्मणि त्रैकालिक-स्पर्श-सम्भवान् माययैव तद्-अध्यासो भवता वर्णितः, तथा दृष्टिर् अत्र तु न कार्येति तात्पर्यम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् च युक्तम् एवेत्य् आह—अहम् इति । एवं कृपा-विषयत्वेन कृपालुभिर् विमृग्या अनुसन्धेयाः । ततः संसारिणोऽपि निस्तरिष्यन्तीति भावः ॥२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं पुत्रा एवास्मद्-आदय एवं परमात्मत्वेन द्रष्टव्याः, अपि तु सर्वे एवेत्य् आह—अहम् इति । एवं विमृग्याः परमात्मत्वेनैवान्वेषणीयाः । विमृश्या इति पाठो द्रष्टव्यः । एवं च प्राप्त-युष्मच्-छिक्षितैर् अस्मद्-आद्यैर् अपि प्रद्युम्नादिष्व् अपि सर्वत्रात्म-दृष्टिर् एव कर्तव्येति भावः ॥२३॥
॥ १०.८५.२४-२५ ॥
आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्योऽन्यो निर्गुणो गुणैः ।
आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥
खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् ।
आविस्-तिरो-ऽल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नाना-विकारवतां कुतो ब्रह्मत्वम् ? इति चेत्, न, ब्रह्मण एवोपाधि-धर्मैर् बहुधा प्रतीतेर् इति स-दृष्टान्तम् आह द्वाभ्याम्—आत्मा हीति । यथा खादि-भूतानि तत्-कृतेषु घटादिष्व् आविस्-तिरो-भावादि यान्ति, एवम् असाव् आत्मा अप्य् आत्म-सृष्टैर् गुणैः कृत्वा तत्-कृतेषु देहेषु बहुधा ईयते, पुनश् च यथाशयं यथोपाध्य्-आविर्भाव-तिरोभावादि-रूपेण प्रतीयते, न वस्तुतः । कुतः ? एको बहुधा, स्वयं-ज्योतिर् दृश्यत्वेन, नित्योऽनित्यत्वेन, अनन्योऽन्यत्वेन, निर्गुणः सगुणत्वेनेत्य्-आदि बहुधात्वं प्रपञ्चनीयम् ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते ननु इति । तत्-कृतेषु पञ्चीकृत-भूतेषु । आदिना अल्पादि-ग्रहः। आत्म-सृष्टैः प्रकृतिं द्वारीकृत्य । तत्-कृतेषु गुन-कृतेषु । पुनश् च बहुधात्वेऽपि कुतः ? नाना-विकारवतां कुतः ? कथं बहुधात्वे तद् आह—एक इति। सर्वम् इदम् औपाधिकम् इति भावः ॥२४-२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु ईश्वरे जीवेषु सम-दृष्टिः कथं युक्ता ? सत्यम्, जीवानाम् ईश्वरांशत्वेन तद्-अभेदाद् इति चेत् तर्हि कथं बहु-विधास् ते नाम दृश्यन्ते ? इत्य् अपेक्षायाम् आह—आत्मेति द्वाभ्याम् ।
हि अपि एकोऽपि । एवं हि-शब्दस्य यथापेक्षम् अन्यैर् अप्य् अन्वयः । अन्यो देहाद् भिन्नोऽसङ्ग इत्य् अर्थः । एक इत्य्-आदि-विशेषणानां यथा-पूर्वं बहुधा प्रतीत्य्-असम्भवे श्रैष्ठ्यम् । आत्मना सृष्टैर् इति गुणानाम् आत्माधीनत्वं मायिकत्वं चोक्तम् । तैर् गुणैः कृतेषु खम् इत्य्-आदिकं दृष्टान्तयोक्तम् इति यात्य् आयात्य् एव, अतस् तैर् अपि व्याख्यातम्—यथा खादि-भूतानि इति । यथाशयम् इति चान्यत्रैव योजितम् । तत्र च खम् इत्य्-आदेर् एकत्वेन सङ्गतेऽपि यातीत्य् अस्यायोजनाद् इति आविर् इत्य्-आदीनां द्वन्द्वेन निरुद्धत्वं स्पष्टम् एव । तत्र च यथोत्तरं तेषां श्रैष्ठ्यम् । यथाशयम् इत्य् अस्य दृष्टान्तेनापि सम्बन्धः । घटाद्य्-आश्रय-मृद्-आदि-भेदेनैव तेषाम् अपि तादृशत्वात् । अन्यत् तैर् व्याख्यातम् ।
अथवा, समवेतार्थम् उपमन्महे किम् ? काक्वा, अपि तु नैव । तत्र हेतुः—यद् इति । पुत्रेषु स्नेह एव कार्यः, न तु तत्त्व-दृष्टिः, तस्यां सत्यां स्नेह-माहात्म्योक्तेस् तद् एवात्राभिप्रेतम् । अतो निजाभीष्ट-स्नेह-विशेष-सिद्धये मयीव मदीयेषु सर्वेषु जीवेषु त्वया स्नेह एव कार्य इत्य् आशयेनाह—अहम् इति । यूयं युष्मद्-विधाः स्व-भ्रात्र्-आदयः सर्वेऽन्येऽपि मत्-सम्बन्धिनः । एवं स्नेह-विषयत्वेन ।
ननु इमे आर्यादयस् त्वदीया एव, अन्ये चोच्चावचाः सर्वे कथं त्वदीयाः ? जीवानां मद्-अम्शत्वेन सर्वेषाम् एव तत्त्वतो मदीयत्वाद् इति चेत् तर्हि कथं तेषां नाना-विधत्वम् इत्य् अत आह—आत्मेति । आत्मना ईश्वरेण सृष्टैर् गुणैर् हेतुभिर् बहुधा सात्त्विकादि-भेदेनेयते । किं च खादीनि च यथाशयम् आविस्-तिरो-भावादिकं च प्राप्नोति । अन्यत् समानम् ॥२४-२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा विमृग्यतायां हेतुत्वे युग्मकम्—आत्मेति । तैर् व्याख्यातम् । आत्मा परमात्मा । अयं चान्वयः—हि यस्मात् आत्मा परमात्मा एव इत्य्-आदि-रूपो जीव-भेद-रूपैस् तटस्थांशैर् बहुधा प्रतीयते, तत्रापि आत्म-सृष्टैः आत्म-शक्तेर् माया तद्-उद्भूतैः सत्त्वादिभिर् गुणैर् एव कृतेषु देहेषु बहुधा देव-मनुष्यादि-रूपैः प्रतीयते ॥२४॥
तद् एव स-दृष्टान्तं दर्शयति—खम् इति । अपि-शब्देन समक्रियत्व-द्योतनाय यथोपमां द्योतयति—यथा खादिकं याति, तथा असाव् आत्मा स्व-कार्येषु वाय्व्-आदिषु घटान्तेषु यथाशयं कार्याविर्भावाद्य्-अनुरूपम् आविर्भावादिकं याति, तथा असाव् आत्मा स्व-कार्येषु तद्-अनुरूपत्वं तत् तद् यातीति ततश् चिच्-छक्त्यैक-विलासेषु द्वारका-वैभवेषु किम् उतेति, तथा दृष्टिस् त्व् अत्र सुतराम् एव कर्तव्या, यत एव अहं यूयम् असाव् आर्य इति मया साम्यम् एव दर्शितम् । तत्र सति तव यदु-श्रेष्ठस्य कृपयापि तेषां संसारिणाम् अपि दैन्यं न सम्भवति, तव तु दैन्यम् अयुक्तम् एवेति वास्तवो भावः ॥२५॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११८) : लौकिकाध्य् आत्म-गोष्ठीत्य् एवम् एवेत्य् आह द्वयेन । तत्र प्रथमेन यथा— आत्मा ह्य् एक इति । अत्रानुगतार्थान्तरं च दृश्यते । द्वारकायाम् इति प्रकरणेन लभ्यते । हि यस्माद् एक एव आत्मा भगवत्त्वम् आत्म-सृष्टैः स्वरूपाद् एवोल्लसितैर् गुणैः स्वरूप-शक्ति-वृत्ति-विशेषैः कर्तृभिस् तत्-कृतेषु तस्मिन् स्वरूपे एव प्रादुर्भावितेषु भूतेषु परमार्थ-सत्येषु द्वारकान्तर्वर्ति-वस्तुषु बहुधा तत्-तद्-रूपेण ईयते प्रकाशते । सहस्र-नाम-भाष्ये लोकनाथं महद्-भूतम् [म।भा। १३.१३५.७] इत्य् अत्र च भूतं परमार्थ-सत्यम् इति व्याख्यातम् । तथा तथा च प्रकाशः स्वरूप-गुणापरित्यागेनैवेत्य् आह—स्वयं ज्योतिः स्व-प्रकाश एव सन्, नित्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्-विलक्षण एव सन्, निर्गुणः प्राकृत-गुण-रहित एव च सन्न् इति ॥२४॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः ११९) : तर्हि कथं भवत आत्यन्तिकं समम् एवात्र सर्वम् ? इत्य् आशङ्क्य, तथापि मय्य् अस्ति वैशिष्ट्यम् इत्य् आह—खम् इत्य्-आदि। सत्-कार्य-वादाभ्य् उपगमात् तस्य कारणानन्यत्वाभ्य् उपगमाच् च । यथा खादीनि भूतानि तत्-कृतेषु तत्-स्वरूपेणैव विकासितेषु वाय्व्-आदि-घटान्तेषु यथाशयं वाय्व्-आद्य्-आविर्भावाद्य्-अनुरूपम् एवाविर्भावादिकं यान्ति न तु तेष्व् अधिकम् । अत्र यावान् वायुर् गृह्यते तावान् एव तत्राकाश-धर्मः शब्दोऽपि गृह्यते । यावज् ज्योतिस् तावान् एव वायु-धर्मः स्पर्शोऽपीत्य् आदिकं ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारका-वस्तुषु असौ भगवद्-आख्य आत्मापि । तस्माद् अहं तु तत्-सर्व-मयः सर्वस्मात् पृथक् परिपूर्णश् चेत्य् अस्ति वैशिष्ट्यम् इति भावः । अनेन दृष्टान्तेन मत्त एवोल्लसिता मद्-धर्मा एव ते भवितुम् अर्हन्ति न त्व् आकाशे धूसरत्वादिवन् मयि केवल-मध्य-स्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानम् अपि शब्देन द्योत्यते ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा विमृग्यतायां हेतुत्वे युग्मकं—आत्मेति । आत्मा परमात्मा अस्यार्थान्तरम् ॥२४-२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु नाना-विकारवन्तो बहव एते कुतः परमात्म-रूपाः मन्तुं शक्याः सत्यं परमात्म-सृष्टानाम् उपाधीनां धर्मैर् एव परमात्मा तथा तथा प्रतीतो भवतीति स-दृष्टान्तम् आह—आत्मा हीति द्वाभ्याम् ।
आत्मा परमात्मा आत्म-सृष्टैः स्व-सृष्टैर् गुणैर् बहुधा ईयते प्रतीयते । कुत्र ? तत्-कृतेषु भूतेषु देहेषु स्वयं-ज्योतिर् अपि दृश्यत्वेन, नित्योऽप्य् अनित्यत्वेन, अन्योऽप्य् अनन्यत्वेन, निर्गुणोऽपि सगुणत्वेन, यथा खादि-भूतानि तत्-कृतेषु घटादिषु आविस्-तिरो-भावादिकं यथाशयम् आशयम् अनतिक्रम्य याति, तथैवासाव् एकः परमात्मापि याति सर्वदैक-रसोऽपि आविर्भावं तिरोभावं च व्यापकोऽपि अल्पत्वं भूरित्वं च एकोऽपि नानात्वम् ॥२४-२५॥
॥ १०.८५.२६ ॥
श्री-शुक उवाच—
एवं भगवता राजन् वसुदेव उदाहृतः ।
श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता अद्भुतानन्तशक्तिना परम-दयालुना श्री-कृष्णेनोदाहृतम्, विनष्टा जीव-विषयिका नानाधीः शत्रु-मित्रादि-बुद्धिस् तामसादि-बुद्धिर् वा यस्य तथा-भूतः सन् सर्वेषाम् एव भगवदीयत्व-ज्ञानात्, अतः प्रीतमनाः सन् तूष्णीम् अभूत्, श्री-भगवति पुत्रया सहज-स्नेह-सद्-भावना-जात-प्रीत्य् उद्रेकेण बाष्प-रुद्ध-कण्ठत्वात् । यद् वा, विनष्टा नाना-विधेषु जीवेषु धीर्मतिर् यस्य सः, श्री-भगवद् आदिष्टेप्रकारेण तस्मिन् स्नेहोद्रेकेणान्याशेष-विस्तारणात्, अतः प्रीतमनाः प्रहर्ष-पूरितस्-तूष्णीम् अभूत् । एवं प्रहर्षोदयात् सम्बोधयति-हे राजन्न् इति । यद् वा, प्रीतमनस् त्वेन राजमानः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् आत्मैश्वर्य-गोपन-पूर्वक-स्व-विषयक-पुत्र-भावना-रक्षणाभिसन्धि-प्रकारेण भगवतोदाहृतं श्रुत्वा विनष्टा **नाना-**धीर् मुन्याद्य् उपदिष्टैश्वस्यादि-ज्ञानं यस्मात्-तथा-भूतः प्रीतमनास् तस्मिन् सप्रेम-चित्त-स्तूष्णीम् एवाभूद् इति ॥२६॥
जीव-गोस्वामी (क्रम सन्दर्भः) : अमात्मैश्वर्य-गोपन-पूर्वक-स्वविषयक-पुत्र-भावना-रक्षणाभिसन्धि-प्रकारेण भगवतोदाहृतं श्रुत्वा विनष्टा **नाना-**धीर् मुन्याद्य् उपदिष्टैश्वर्यादि-ज्ञानं यस्मात्-तथा-भूतः प्रीतमनास् तस्मिन् सप्रेम-चित्तस् तूष्णीम् एवाभूद् इति ॥२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विनष्ट-नानाधीः सत्यम् एव सर्वं जगद् एवैकं ब्रह्मैव किं पुनरेतौ मत्-पुत्राव् इत्य् एतत्-प्रकारक-ज्ञानवान् बभूव इत्य् अर्थः ॥२६-२९॥
॥ १०.८५.२७ ॥
अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता ।
श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सु-विस्मिता सती ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ मङ्गलारम्भे । तत्र तदा ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पितुर् मनोरथं परिपूर्य मातुर् अप्य् अपूरयद् इति तत्- प्रसङ्गम् आरभते—अथ इत्य्-आदिना । श्री-वसुदेवस्य तथा तूष्णीम्-भावानन्तरं तत्रैव स्थिता सर्वेषां देवता पूज्या श्री-भगवन्-मातृत्वात्, यमालयाद् आनीतं श्रुत्वा सुविस्मिता प्राग् एव जातातिविस्मया । आत्मजाभ्याम् इति स्व-पुत्रतया तयोर् ज्ञानेनेश्वर-ज्ञान-हान्या महा-विस्मयोपपत्तेर् इति भावः । तत्र श्री-बलदेवस्य तद्-आत्मजता श्री-वसुदेव-पुत्रत्वात् प्राक् तया गर्भे धारणाद् वा ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पितुः स्वस्मिन् पुत्रभावस्य विरोधकम् ऐश्वर्य-ज्ञानं शमयित्वा मातुर् अप्य् अन्यत्र पुत्र-भावमशमयद् इति तत्-प्रसङ्गम् आरभते अथेत्य्-आदिना । तत्राथेति युग्मकं गुरोः पुत्रम् आत्मजाभ्यां श्री-कृष्ण-रामाभ्याम् आनीतं श्रुत्वा पूर्ववत् एव सुष्ठु विस्मितत्वेन स्थितापि तद्वत् स्वाभीष्ट-लाभार्थं श्री-वसुदेव-सहित-तादृश-प्रेम-संवाद-मय-विशेष-लाभानन्तरम् एव प्राहेत्य्-आदि रामस्यात्नजत्व-निर्देशो गर्भ-सङ्कर्षणस्यापि तया श्रवणात् सर्वेषां देवतेति श्री-भगवन्-मातृत्व-लील-शुद्ध-सत्त्व-लील-शुद्ध-सत्त्व-सम्पत्ति-रूपत्वात्-अत एवास्या इयं बहिरङ्गा चेष्टा भगवतो लीला-कौतुकार्थम् एव लील-शक्त्या सम्पादितेति ज्ञेयं वक्ष्यते च मोहिता मायया विष्णोः [भा।पु। १०.८५.५४] इति ॥२७-२८॥
जीव-गोस्वामी (क्रम सन्दर्भः) : एवं पितुः तस्मिन् पुत्रभावस्य विरोधकम् ऐश्वर्य-ज्ञानं शमयित्वा मातुर् अप्य् अन्यत्र पुत्र-भावम् अशमयद् इति तत्-प्रसङ्ग-मारभते । तथेत्य् आदिना सर्वेषां देवतेति । श्री-भगवन्-मातृ-ललितत्व-शुद्ध-सत्त्व-सम्पत्ति-रूपत्वात् । अत एवास्या इयं बहिरङ्गा चेष्टा भगवतो लीला-कौतुकार्थम् एव । लीला-शक्ति-सम्पादितेति ज्ञेयम् । वक्ष्यते च मोहिता मायया विष्णोः [भा।पु। १०.८५.५४] इति ॥२७-४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.२८ ॥
कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् ।
स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समाश्राव्य सम्बोध्य ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृपणं दीनम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् आश्राव्य सम्बोध्य, तत्-प्रकाराश् च रामेत्य्-आदिना वक्ष्यमाणः । यद् वा, कंसेन विहिसितान् इति पुत्रान् तौ सम्यग् आर्त्या श्रावयित्वा तानेव स्मरन्ती दुष्टेन हतानां तेषां का गतिर् अभूद् इति चिन्तयन्तीत्य् अर्थः । अतो वैकलव्यात् पुत्र-स्नेह-वैवश्याद् अश्रु-युक्त-लोचना सती कृपणं सदैन्यं यथा स्यात्-तथा प्रकर्षेण स्तुत्यादिना प्रणयेन वाह । कृष्णस्यादौ निर्देशस्तस्मिन् स्नेहाधिक्येन समाश्रावणे तस्यैव प्राधान्यात्, अग्रे च व्यवहारापेक्षया स्नेहभर-भङ्ग्यैव वा यथा-क्रमं सम्बोधनम् । श्री-बादरायणः श्री-कृष्ण एव भक्ति-विशेषाद् इति दिक् ॥२८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.२९ ॥
श्री-देवक्य् उवाच—
राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।
वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वां युवाम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्रमेयात्मन्! हे अपरिच्छिन्न-बुद्धे! योगेश्वरेश्वर! हे अचिन्त्य-महा-प्रभाव! ईदृश-सम्बोधनं गुरु-पुत्रानयन-सामर्थ्याभिप्रायेण, किं वा, निज-प्रार्थ्य-परिपूरण-योग्यतापेक्षया । तत्र च रामं प्रति द्विः-सम्बोधनं ज्येष्ठत्वादिनाधिकादरात्, यतो विश्व-सृजां श्री-ब्रह्मादीनां पुरुषादीनां वा ईश्वरौ, यत **आदि-**पुरुषौ ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रामेति युग्मकम् । रामस्यादौ सम्बोधनं ज्येष्ठत्वेन सपत्नीपुत्रत्वांशेन चादरात् अत एव वीप्सा अप्रमेयात्मन् प्रमाणागोचर-स्वभाव! योगेश्वरेश्वर योगेश्वराणां सनकादीनाम् अप्य् अचिन्त्य-महा-प्रभाव! यतो विश्व-सृजां ब्रह्मादीनाम् ईश्वरौ अत **आदि-**पुरुषौ ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.३० ॥
काल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् ।
भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भूमेर् भारायमाणानां राज्ञाम् अर्थे तेषां निधनार्थं मे मयि किलावतीर्णौ ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मे मयि, सप्तम्य् एक-वचने\ऽपि मे आदेशो विपरीत-ग्रहात्-सूत्रे अर्थे इति शेषः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालेन कल्-इप्रभृतिना विशेषतो ध्वस्तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषाम्, अत **उच्छास्त्र-**वर्तिनां शास्त्रोक्त-वर्त्मातिक्रम्य सदा वर्तमानानाम्, अत एव भूमेर् भारायमाणानां दुष्टानां तद् अधार्यत्वात्, किल वितर्के निश्चये वा, आद्य हे सर्वेश्वरेति । तव तद्-युक्तम् एवेति भावः । यद् वा, अद्याधुना द्वापरान्त इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालेन कलि-प्रभृतिना [द्वापरादिना] विशेषतो ध्वस्तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषाम् अत एव उच्छास्त्रं शास्त्राति-क्रमः तेन वर्तितुं शीलं येषाम् अत एव भूमेर् इति अद्याधुना द्वापरान्त इत्य् अर्थः ॥३०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विध्वस् तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषां संहाराय मे मय्य् अवतीर्णौ ॥३०॥
॥ १०.८५.३१ ॥
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे आद्य ! यस्यांशः पुरुषः, तस्यांशो माया, तस्या अंशा गुणाः, तेषां भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति, तं त्वा त्वां गतिं शरणं गतास्मि ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणे\ऽपि गतिः स्मृता इति कोषात् ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्तुत्वा स्व-प्रार्थ्य-पूरण-सामर्थ्यं सूचयन्ती तद् अर्थम् आर्त्या शरणं याति-यस्येति । किलेति प्रसिद्धम् एवेदम् इत्य् अर्थः । विश्वात्म ! हे सर्वान्तर्यामिन् ! एवम्-उभयथा महा-शक्ति-मत्त्वम् उक्तम्, अतो गतिं गतास्मि ।
ननु त्वम् अस्मन्-माता किम् इदं वदसि? तत्राह—हे आद्येति । महा-पुरुषत्वाद् इति भावः । यद् वा, एतावन्तं कालं न कथञ्चित् त्वाम् एवं प्रपन्नास्मि, अधुना च किञ्चित् प्रार्थयितुं शरणं यामीत्य् आशयेनाह—आद्येति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तौ पृथक् स्तुत्वा पुनर् ऐकमत्यार्थम् एकत्वेनैव शरणं याति-यस्येति । किलेति प्रसिद्धम् एवेदम् इत्य् अर्थः । विश्वात्मन् सर्व-मूल-स्वरूप! एतावन्तं कालं नैवं त्वां प्रार्थितवत्य् अस्मि अधुना च किञ्चित्-प्रार्थयितुं शरणं यामीत्य् आशयेनाह—अद्येति ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्यांशो महा-वैकुण्ठ-नाथस् तस्यांशो महा-पुरुषस् तस्यांशः प्रकृतिस् तस्या भागेन रजआदिना ॥३१॥
॥ १०.८५.३२-३३ ॥
चिरान् मृत-सुतादाने गुरुणा किल चोदितौ ।
आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-द158क्षिणाम् ॥
तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।
भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनिन्यथुर् आनीतवन्तौ । पितृ-स्थानाद् यम-सदनात् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यम-सदनात् यम-लोकात् ॥३२॥
यथा गुरु-कामं कृतवन्तौ तथा मे\ऽपीत्य् अर्थः । योगेश्वरेश्वरावित्यक्लिष्टकारित्वमाह। आहृतान् आनीतान् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो गुरोर् इव ममाप्य् अभीष्टं परिपूरयतम् इत्य् आह—चिराद् इति द्वाभ्याम् । चिराकालं मृतस्यापि पुत्रस्य आदाने यमालयाद्-ग्रहणे आनयन इत्य् अर्थः । गुरवे गुर्वर्थं **गुरु-**दक्षिणा-रूपं तत्-सुतं यथानिन्यथुस् तथा कुरुतम् । यद् वा, तथा अपि मे\ऽपि कामं कुरुतम् । तत्-सम्पादनं च युवयः सुकरम् एवेत्या-योगेति । यद् वा, भो मातः! जातमात्रा हतास्ते\ऽधुनानीता अपि कथं त्वया चिरेण परिचेतुं शक्त्याः, आवाभ्यां वा ज्ञेयाः? तत्राह—योगेति । अचिन्त्यानन्त-युष्मन्-महा-प्रभावाद् इति भावः । एवं स्व-कामस्य गौरवं मत्वा प्रकृत-मनभि-व्यज्य सामान्यतः प्रार्थ्याधुनार्त्यानिर्दिशति-**भोज-**राजेति । अनेन तेषां हननेन तस्य शक्तिर् अपि सूचिता । आहृतान् युवाभ्यां यमालयादानीतान् सतः । कीदृशीम् अवस्थां प्राप्ताः सन्तीति द्रष्टुं कामये ॥३२-३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो गुरोर् इव ममाप्य् अभिष्टं परिपूरयतम् इत्य् आह—चिराद् इति युग्मकेन । चिरकालं मृतस्यापि सुतस्यादाने यमालयाद्-ग्रहणे आनयन इत्य् अर्थः गुरवे गुर्वर्थं **गुरु-**दक्षणा-रूपं तत्-सुतं यथा [आनिन्युथुः] तद् आकृतिवय आदि-सद्-भाव-प्रकारेण आनिन्यथुः तथा कुरुतम् ॥३२॥
एवं स्वकामस्य गौरवं मत्वा प्राक् स्पष्टमनिर्दिश्य पुनरुत्कण्ठया स्पष्टम् एव निर्दिशति-**भोज-**राजेति । आहृतान् युवाभ्यां यमालयात् आनीतान् सतः ॥३३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितृ-**स्थानात् यमसदनात् पितृ-दक्षिणां **गुरु-**दक्षिणारूपं **गुरु-**पुत्रम्
आनिन्यथुः ॥३२-३४॥
॥ १०.८५.३४ ॥
ऋषिर् उवाच—
एवं स159ञ्चोदितौ मात्रा रामः कृष्णश् च भारत ।
सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । सुतलं तृतीयं विवरम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् स्तुत्यादिना दृढं चोदितः सन्, सम्यक् सद्य एव सुखम् अन्तर्-विविशतुः प्रविष्टौ । तत्र हेतु—यगेति । अचिन्त्यानन्त-महा-शक्तिकत्वाद् इत्य् अर्थः । हे भारतेति महा-वंशजेन त्वया भगवन्-माहात्म्यं प्रतीयत एवेति भावः ॥३४।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सञ्चोदित इति । सञ्चोदिताव् इति च क्वचित् हे भारत भरत-कुल-श्रेष्ठेत्य् आश्चर्यान्तर-स्मरणोल्लासेन तं श्लाघते ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.३५ ॥
तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड्
विश्वात्म-दैवं सुतरां तथात्मनः ।
तद्-दर्शनाह्लाद-परिप्लुताशयः
सद्यः समुत्थाय ननाम सान्वयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दैत्य-राड् बलिः । कथं भूतौ । विश्वस्यात्म-भूतं दैवम् । सान्वयः स-परिवरः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् सुतले । तयो राम-कृष्णयोर् दर्शनेन य आह्लादस् तेन परिप्लुतो व्याप्त आशयो\ऽन्तः-करणं यस्य स तथा ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपलभ्य भृत्यादि-द्वारा स्वज्ञान-शक्त्या वा ज्ञात्वैव । यद् वा, चिरम् अभीप्सितौ समीप एव लब्ध्वा । तस्य चालभ्यलाभो\ऽभूद् इत्य् अभिप्रायेण विशिनष्टि-विश्वस्य आत्मदैवम्, इष्टद्-एवताम्, एकत्वं तयोर् एक्यापेक्षया, त्व् अर्थे तथा । आत्मनस्तु सुतराम् अतिशयेनात्मदैवम्, कुल-देवत्वात् स्वयं तस्मिन् सर्वार्पणाच् च । अतस् तद्-दर्शनेन य आह्लाद आनन्द-महोदधिस् तस्मिन् परितः प्लुतो मग्न आशयो\ऽन्तः-करणं यस्य सः अनेन पुरा श्री-वामन-देवस्य सदा द्वारवर्ति-श्री-भगवतो\ऽपि दर्शनाद् एतयोर्-दर्शन-माहात्म्यं सूचितम्, अधुनाशेष-भगवत्ता-प्रकटनात्, अत एव सर्वांशैः परिपूर्णतयात्रावतीर्णत्वात्-तदानीं तद्-द्वारे\ऽपि भगवतः स्थितिर्-ज्ञेया । अतः सम्यक् साञ्जलित्वादिनोत्थाय, **दैत्य-**राटीति परमादरात् । यद् वा, दैत्यानाम् अन्येषाम् अपि तादृश-भावं सूचयति, अत एव सान्वयः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपलभ्य चिरम् अभीप्सितौ समीप एव लब्ध्वा तस्य चालभ्य-लाभो\ऽभूद् इत्य् अभिप्रायेण तौ विशिनष्टि-विश्वस्यात्मा च दैवम् आराध्याश् च एकत्वम् द्वयोर् ऐक्यापेक्षया त्वर्थे तथा-शब्दः आत्मनस् तु सुतराम् अतिशयेनात्म**-दैवं** वामन-रूपे तस्मिन् स्वयं सर्वार्पणात्-कुल-देवत्वाच् च तस्य ततश् च सम्यक् साञ्जलित्वादिना उत्थाय दैत्यराड् इति परमादरात् यद् वा, दैत्यानाम् अन्येषाम् अपि तादृश-भावं सूचयति अत एव सान्वयः ॥३५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैत्य-**राट् बलिः विश्वस्यात्मा च दैवम् आराध्यश् च एकत्वम् ईश्वरत्वेन द्वयोर् ऐक्यात् ॥३५॥
॥ १०.८५.३६ ॥
त160योः समानीय वरासनं मुदा
निविष्टयोस् तत्र महात्मनोस् तयोः ।
दधार पादाव् अवनिज्य तज् जलं
स-वृन्द आ-ब्रह्म पुनद् यद् अम्बु ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स-वृन्दः स-परिजनः । कथं भूतौ पादाव् अवनिज्य । यद् अम्बु ययोर् अवनेजन-उदकम् आ ब्रह्म ब्रह्माणम् अभिव्याप्य जगत् पुनत् पवित्रयद् वर्तते तौ ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो राम-कृष्णयोः । तत्र वरासने । तज्-जलं पादोदकम् । ययो राम-कृष्णयोः । वृष्णिषु प्राप्य जन्मनी इत्य् उक्तेर् वस्तुतो बलदेवो\ऽपि विष्णुर् एवेति । ततश् च यद् अम्ब्व् इति समञ्जसम् । पुनत्-पुनातेः शत्रन्तः । तौ राम-कृष्णौ ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुदा सम्यक् स्व-शिरो-निधानादिनानीय अतस् तस्मिन्-मुदा निविष्टयोर् आसीनयोः सतोः, एवं मुदेत्यस्योभयतो\ऽप्य् अन्वयः । तथा तयोर् इत्य् अस्यापि स्थान-द्वये\ऽन्वयेनापैनर् उक्त्यम् । पाठान्तरं स्पष्टम् । तत्**-पादाव्** अनेजन-सम्बन्धि जलं सर्वं सवृन्दो बभार, शिरसि ऊर्ध्वं सर्वाङ्गेषु वा धृतवान्, यतो महात्मनोः साक्षात् परमेश्वरयोः । हे स्फुटम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयोस् ताभ्यां मुदा सम्यक् स्व-शिरो-निधानादिना द्वयोस् तत्त्वैक्येन स्नेहेन चाभेद-दृष्ट्या वरासनम् एकम् एवानीय अतस् तस्मिन् मुदा निविष्टयोर् आसीनयोः सतोः तयोर् इति पुनर् उक्ति-भक्ति-भरेण तद् एति पाठः क्वचित् बभार शिरसि दधारेति क्वचित् ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-वृन्दः स-परिवारः यदम्बु आ-ब्रह्म । ब्रह्माणम् अभिव्याप्य पुनत् पवित्र यद् भवति ॥३६-३७॥
॥ १०.८५.३७ ॥
समर्हयाम् आस स161 तौ विभूतिभिर्
महार्ह-वस्त्राभरणानुलेपनैः ।
ताम्बूल-दीपामृत-भक्षणादिभिः
स्व-गोत्र-वित्तात्म-समर्पणेन च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बलिः । तौ राम-कृष्णौ । अमृत-भक्षणं रसायन-भोजनम् ।
अमृतं व्योम्नि देवान्ने यज्ञ-शेषे रसायने । > अयाचिते जले जग्धौ मोक्षणे हेम्नि गोरसे ॥ > क्लीबे ना त्व् अमरे स्त्री तु गुडूच्यां मद्य-भिक्षयोः । इति यादवः ।
तच् च बल-पुष्ट्यादि-सम्पाद-कौषधी-विशेषः । गोत्रं कुलम्, वित्तं धनम्, आत्मा देहस् तेषां समर्पणेन गोत्रं नाम्नि कुले बले, आत्माकि देहे धृतौ जीवे इति यादवः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् अर्हयामास, सम्यक्ता-साधनान्य् आह—महा-विभूतिभिर् इत्य्-आदिना । महा-विभूतीर् एवाह—महार्हेत्य्-आदि । यद् वा, महा-विभूतिभिश् छत्र-चामरादि-निज-महा-वैभवैः । अमृतवद् भक्षणं भक्ष्यत इति तथा तत्, महा-मिष्टान्न-पानादिकम् इत्य् अर्थः । अमृतं भक्षणं च फलादिकं ताम्-बूलादिकं वा, आदि-शब्दाद्-रत्न-पर्यङ्कादयः, स्वस्य गोत्रं कुलं पुत्र-कलत्रादि-वित्तं च तयोर् आत्मनश् च देहस्य देहिनो वा सम्यक् तद् एकाधीनतादिनार्पणेन, तदीयतया निवेदनेन ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् अर्हयामास सम्यक्ता-साधनान्य् आह—महा-विभूतिर् इत्य्-आदिना । स-तौ विभूतिर् इति क्वचित् । ता एवाह—महार्ह- इत्य्-आदिना । अमृतवत् भक्षत इति तथा तत् महा-मिष्टान्न-पानादिकम् इति यद् वा, अमृतं सुधां भक्षणञ् च फलादिकं ताम्बूलादिकं वा आदि-शब्दाद् रत्न-पर्यङ्कादयः पुनर् आत्म-पर्यन्त-समर्पणं च सर्वं सागर-स्थानीयाय वामन-रूपाय सम्प्रति तु समुद्र-स्थानीयाय स्वयं भगवते श्री-कृष्णायेत्य् अविशेष एव विशेषान् न दोषाय तद् एवं व्यवहारात् तदानीं तद्-द्वार-देश-विराजमान-वासस्य श्री-वामनस्य च तद् अवतार-समये तत्रैव प्रवेशो गम्यते ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.३८ ॥
स इन्द्रसेनो भगवत्-पदाम्बुजं
बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।
उवाच हानन्द-जलाकुलेक्षणः
प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रसेनो बलिः । प्रेम-विभिन्नया प्रेमार्द्रया धिया । बिभ्रद् धारयन् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स प्रकृतः । हा शुभमति स्मरन् हा विषाद-शुभार्तिषु इति । यद् वा,-ह स्फुटम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इन्द्रस्य सेनेव सेना यस्य सः, दैत्यानाम् अपि वैष्णवत्वेन देव-रूपाद्-भगवतः श्री-कृष्णस्य, भगवतोर् वा द्वयोः पादाम्बुजम्, एकत्वे\ऽपि द्वित्वं बहुत्वं च सिध्येद् इति प्रागुक्तम् एव मुहुर्बिभ्रत्, अतृप्त्या पुनः पुनः शिरसि वक्षसि च धारयन् । यद् वा, मुहुर्षत् प्रेम तेन विभिन्नया, यत्नेन संव्रियमाणस्यापि [सङ्ध्रिमनस्यापि ।] प्रेम्णः पुनः पुनर् आविर्भावात् । ह हर्षे, हा खेदे वा, तत्-स्मरणेनात्मनस् तादृशत्वाभावेन वा, श्री-बादरायणेर् अतृप्त्या प्रेमाभ्युदयात् [प्रेमार्णवोदयात् ।] इत्थम् एव सम्बोधयति-नृपेति । **प्रेम-**लक्षणम् आह—आनन्देत्य् आदि-विशेषणैस् त्रिभिः । एषां यथोत्तरं तत्र श्रैष्ठ्यं, तत्रानन्देति पदं समस्तम् अपि तृतीयान्ततयाग्रे द्वयोर् अपि योज्यम् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्रस्य सेनेव सेना यस्य सः प्रायः समान-चतुरङ्गत्वात् भगवतो युगपत् द्वयोर् अपि पदाम्बुजम् अभेदेन भवनाद् एकत्वं मुहुर् बिभ्रत् अतृप्त्या पुनः पुनः शिरसि वक्षसि च धारयन् यद् वा, उत्तरोत्तरोद्भूतत्वान्मुहुर्यत्-प्रेम तेन विभिन्या ह हर्षे इत्थम् एव सम्बोधयति नृपेति प्रेम-लक्षणम् आह—आनन्देत्य्-आदिना तत्रानन्देति तृतीयायाश् छान्दसो लुक् तस्मात्-प्रहृष्टेत्य् अत्र गद्गदेत्य् अत्र योज्यं गद्गदाक्षरं यथा स्यात् पाठान्तरे तु गद्देत्य् अक्षरं वर्णोच्चारो यस्य सः ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रसेनो बलिः ॥३८॥
॥ १०.८५.३९ ॥
बलिर् उवाच—
नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे ।
साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्ताय शेषाय । बृहते फणैक-देशे विश्रधारणाद् बृहत् तस्मै । कृष्णाय सदानन्द-रूपाय च । वेधसे जगद्-विधात्रे । साङ्ख्य-योग-वितानायेत्य्-आदि-पद-त्रयम् ऐक्य-विवक्ष162या ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साङ्ख्य-योगयोर् ज्ञान-कर्मणोवितानो विस्तारो येन तस्मै साङ्ख्य-शास्त्र-कारिणे वा । अनीश्वर-कपिल-व्यावृत्तये ब्रह्मण इति । कथम् अनेन व्यावृत्तिर् अत्राह—परमात्मने इति । ऐक्य-विवक्षया समाहार-द्वन्द्व-विवक्षया । तथा च ज्ञान-भक्ति-कर्म-**योग-**स्वरूपाय इत्य् अर्थः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनन्ताय श्री-कृष्ण-द्वितीय-व्यूह-रूपाय व्रज-गमनन्त-सख इति गोपिका-विलापे तन्-नामत्वेन तत्-प्रसिद्धेः तत्र शेषाद्य् अन्तर्भावार्थम् आह—बृहत इति । कृष्णाय च स्वयं भगवत्त्वेन प्रसिद्धाय यतो वेधसे सर्व-कर्त्रे ननु ज्ञान-शास्त्रे मुख्यतया ब्रह्म प्रतिपाद्यते **योग-**शास्त्रे पुरम् आत्मा तयोः का गतिस् तत्राह—साङ्ख्येति । **साङ्ख्य-**योगयोः ज्ञानाष्टाङ्ग-शास्त्रयोर् वितानो यस्मिन् तद् एकनिष्ठो विस्तर इत्य् अर्थः ।
तत्-तद् आख्यतद् एक-देशाविर्भाव-निरूपण-द्वारा स एव ताभ्याम् उद्दिश्य इति विवक्षितं यथोक्तं श्री-कपिल-देवेन—
ज्ञान**-**योगश् च मन्निष्ठो नैर्गुण्यो भक्ति-लक्षणः । > द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥ > यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहुगुणाश्रयः । > एको नानेयते तद्-भगवान् शास्त्र-वर्त्मभिः ॥ [भा।पु। > ३.३२.३२-३३] इति ।
अत एव ब्रह्मणे परमात्मने च तुभ्यम् एव ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णाय साक्षाद्-भगवते, साङ्ख्यं ज्ञानम्, योगः समाधिस् तयोस् तच्-छास्त्र-द्वयस्य वा वितानो विस्तारो यस्मात्-तस्मै, तत्-तत्-प्रवर्तकाय इत्य् अर्थः । यद् वा, यस्मिन् तस्मै तस्मिन्न् एव तयोस् तात्पर्यात्, यतो ब्रह्मणे सर्व-जीवैक-तत्त्वाय । न केवलं तद्-रूपायैव, तस्माद्-भिन्नत्वेनापि वर्तमानायेत्य् आह—परमात्मन इति । यद् वा, ब्रह्मणे सर्व-व्यापकाय । कथम् इत्य् अपेक्षायाम् आह—परमेति । अन्तर्यामितय इत्य् अर्थः । विशेषणानामेषां यथोत्तरं श्रेष्ठ्यम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, कृष्णत्वम् एव दर्शयन् तम् एव विशिनष्टि-वेधस इत्य्-आदिना ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहते \ऽनन्ताय अनन्तस्याप्य् अन्तर्विशते\ऽशिने श्री-बलेदेवाय नमः । वेधसे विधात्रे सर्व-कारण-स्वरूपाय कृष्णाय नमः । साङ्ख्य-वितानाय ज्ञान-शास्त्र-विस्तारकाय ब्रह्मणे नमः । योग-वितानाय **योग-**शास्त्र-विस्तारकाय परमात्मने नमः ॥३९॥
॥ १०.८५.४० ॥
दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् ।
रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : योगेश्वराणाम् अपि दुर्दर्शौ युवाम् अस्माभिर् दृष्टाव् इत्य् एतन् नाति-चित्रम् इत्य् आह—दर्शनम् इति । दुष्प्रापम् अपि युष्मत् कृपया केषाञ्चिद् अदुर्लभं सुलभम् अपि भवति तद् आह—रजस्-तमः-स्वभावानाम् इति । नो दर्शनं प्राप्तौ ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् एतत् भवद्-दर्शनम् । तत् दुर्लभ-सौलभ्यम् । यद्-ऋच्छयेति देवयोर् युवयोर् इच्छया देवेच्छापि यदृच्छा स्यात् इति हलधरः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि निश्चितम् । च अपि दृष्प्रापम् अपि । अपि-शब्दस्यादुर्लभम् इत्य् अनेन परेण वान्वयः । यदृच्छया स्वयम् एव इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, प्राग्-दुष्प्रापम् अप्य् अधुना सुलभं निजाशेषैश्वर्य-प्रकटनेन पूर्वतो\ऽप्य् अधिक-कारुण्य-विस्तारणात् ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि निश्चितं च अपि दुष्प्रापम् अपि अपि-शब्दस्य अदुर्लभम् इत्य् अनेनान्यः अदुर्लभम् अपि यदृच्छया तवैव स्वैरितय इत्य् अर्थः । अन्यत् तैः । तत्र नो दर्शनं प्राप्ताविति अस्मत्-कर्तृकं दर्शनं युवां प्राप्तावङ्गीकृतवन्ताव् इत्य् अर्थः ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानां दुष्प्रापम् अपि अतिदुर्लभं सुप्रापं केषां रजस् तमस् स्वभावानाम् अप्य् असुराणाम् इत्य् अर्थः । यत् यतः यदृच्छयैव प्राप्तौ ॥४०॥
॥ १०.८५.४१ ॥
दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः ।
यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो विद्-विषो वयं सात्त्विक-भक्तेभ्योऽपि स-भाग्य इत्य् आह—दैत्येत्य्-आदि-त्रिभिः ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-भाग्यं श्लाघयन्न् आह—अहो इत्य्-आदि । शास्त्रं वेदादि-ग्रन्थ एव शरीरं प्रतिमा यस्य तस्मिन् शास्त्रं ग्रन्थ-निदेशयोः इति यादवः । अत एव श्री-भगवतं प्रकृत्य स्कान्दम् उक्तम्—तेनेयं वाङ्मयी मूर्तिः कृष्णस्य जगदीशितुः । इति । वेदो नारायणः साक्षात् [भा।पु। ६.१.४०] इति च । ते वयं चान्ये राक्षसादयश् च तादृशा निबद्ध-वैराः । एतेनास्मासु न कापि भगवद्-दर्शन-योग्यतेति ॥४१-४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दैत्य्-आदयस् त्वयि नितरां बद्धवैरा अपि । कुतः? विशेषतः शुद्धं रज-आद्य-मिश्रं यत् सत्त्वं तत् धामाश्रयो यस्य तस्मिन् तद् अधिष्ठातरीत्य् अर्थः । शास्त्रस्य शरीरिणि आत्मनि वेद-मार्ग-प्रवर्तक इत्य् अर्थः । दैत्य्-आदीनां रजस् तमः-स्वभावत्वेनोन्मार्गे प्रवृत्त्या स्व-प्रतिकूलैः साधुभिः सह द्वेषेण तत्-परिपालके त्वयि स्वत एव द्वेषोत्पत्तेर् इति भावः । तत्र गन्धर्वादीनां चतुर्-जातीनां वैर-प्रसिद्ध्य् अभावे\ऽपि तद् उक्तिर् दैत्यानुगानां केषाञ्चित्-तेषां रजस् तमः-स्वभावापेक्षया यक्षादयश् च त्रयस् तामसाः सर्वे दैत्यानुवर्तिन एव भूतादयस्तु शैवाभिमानिनः एवम्-भूता दैत्य्-आदयो ये ते वयम् इत्य् अन्वयः । यद् वा, ते दुष्टत्वेन प्रसिद्धा दैत्य्-आदयो वयम् अन्ये च केचिन्-मनुष्यास् तादृशा दैत्य्-आदि-सदृशाः यथा कंसादयः चकार-द्वयम् उभयेषाम् अपि तुल्यत्वेन प्राधान्यात् ॥४१-४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैत्येति त्रिकम् । दैत्य्-आदयस्त्वयि नितरां बद्धवैरा अपि वैरं कुतः तत्राह—विशेषतः शुद्धं रज आद्यमिश्रितं यत् सत्त्वं तत् धाम आशयो यस्य तस्मिन् तद् अधिष्ठातरीत्य् अर्थः । अतः शास्त्रस्य शरीरिणि आत्मनि वेद-मार्ग-प्रवर्तक इत्य् अर्थः । दैत्य्-आदीनां रजस् तमः-स्वभावत्वेनोन्-मार्ग-प्रवृत्त्या स्व-प्रतिकूलत्वेन मतैः साधुभिः सह द्वेषेण-तत्-परिपालके त्वयि स्वत एव द्वेषोत्तपत्तेर् इति भावः । तत्र गन्धर्वादीनां चतुर्णां वैर-प्रसिद्ध्य् अभावे\ऽपि तद् उक्तिः दैत्यानुगानां केषाञ्चिद्-रजस् तमः स्वभावापेक्षया यक्षादयश् च वयं तामसाः सर्वे दैत्यानुगा एव ते दुष्टत्वेन प्रसिद्धाः । दैत्य्-आदयो वयम् अस्मद्-आदय इत्य् अर्थः । ममापि तत्-पक्षपातित्वान्-निबद्ध-वैरत्वम् एवेति भावः । अन्ये च केचिन्-मनुष्यास् तादृशा दैत्य्-आदि-सदृशाः यथा कंसादयः चकारद्-धयस् तूभयेषाम् अपि प्राधान्यात् तेष्वेव केचित् केवल-तमः-स्वभावाः पौण्ड्रकादयः उच्चैर् बद्धेन वैरेण तत्-कृत-मनोभिनिवेशेन इत्य् अर्थः । सन्निकृष्टा मुक्ति-पदं प्राप्ताः केचित् तु मद्विधा रजोमिश्राः कामतो यशआदि-वाञ्छया या भक्तिस् त्रैलोक्यदानं तया सन्निकृष्टाः सुरादयस्तु न तथा सन्निकृष्टा इति ॥४१-४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शास्त्रस्य शरीरिणि आत्मानं प्रतिप्रवर्तक इत्य् अर्थः । गन्धर्वादीनां चतुर्णां केषाञ्चिद्-दैत्यानुगत्वाद् वैरं यक्षादीनां तामसत्वात् सुतरां वयम् इति । ममापि तत्-पक्षपातित्वान्-निबद्धवैरम् एवेति भावः ॥४१-४२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सात्त्विकेभ्यो भक्तेभ्योऽपि रजस् तमस्-स्वभावा वयं भाग्यवन्त इत्य् आह—दैत्येत्य्-आदित्रिभिः ॥४१॥
॥ १०.८५.४२ ॥
विशुद्ध-सत्त्व-धा163म्न्य् अद्धा त्वयि शास्त्र-शरीरिणि ।
नित्यं निबद्ध-वैरास् ते वयं चा164न्ये च तादृशाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्ध-सत्त्वम् अप्राकृत-सत्त्वं तद् आत्मकं धाम मूर्तिर् यस्य तस्मिन् शास्त्रं वेदः शरीरं स्वरूप-गुणादि-धारकं प्रतिपादकं यस्य तस्मिन् ॥४२॥
॥ १०.८५.४३ ॥
केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः ।
न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्बद्ध-वैरेण या भक्तिस् तय । केचनेति चैद्यादयः । कामतो भक्त्या गोप्य्-आदयो यथा सन्निकृष्टास् त्वद्-आत्मतां प्राप्ताः । तथा च सत्त्व-संरब्धाः सत्त्वाविष्टा अपि सूरादयो न सन्निकृष्टा इति ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु नित्यानुसन्धान-लक्षणान्तः-करण-गुणेनाविर्भूत-ज्ञान-गुणो\ऽस्तीति माशङ्कीर् इति चेद् अयं सुरादीनाम् अपि नास्ति कुतो\ऽस्माकम् इत्य् अभिप्रेत्य् आह—केचनेति ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेष्वेव केचन पौण्ड्रादयः उच्चैर् बद्धेन वैरेण भक्त्या स्मरण-लक्षणया एवं तमः-स्वभावानुक्त्वा रजस्-स्वभावानाह—केचन गया-सुरादयः कामतः स्व-र्गादि-वाञ्छया, किं वा, श्री-मोहिन्यवतारे तद्-रूप-दर्शनेन स्मरतः । सुरादयो न तथेति तेषां बहुल-भोगाद्य् आसक्त्या त्वत्-स्मरणासिद्धेः । आदि-शब्दाद्-ऋष्यादयः तेषां च कर्माद्य् आसक्तेर् इति तव योग-मायाम् ऐश्वर्य-विशेषम् इत्य् अर्थः । योगेशाः श्री-सनकादयो\ऽपि
न विदन्ति न ज्ञातुं शक्नुवन्ति । तत्र हेतुः—हे योगेश्वरेश्वरेति । अचिन्त्यानन्त-महैश्वर्याद् इत्य् अर्थः । प्राय इति भक्तानां केषाञ्चिद्-वेद्यत्वात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, भक्त्येति दृष्टान्ततया यथा भक्त्या सन्निकृष्टा नैकट्यं लब्धाः किं वा, दर्शनं प्राप्ता इति प्रसङ्गाद् अध्याहार्यम् ततश् च सन्निकृष्टाः सात्त्विकत्वेन त्वन्नैकट्य-योग्या अपीत्य् अर्थः । अथवा देवादय एव त्वद्-दर्शनम् अर्हन्ति न तु वयम् इत्य् आह—दैत्येति त्रिभिः । दैत्य्-आदयो वयं निबद्धवैराः । तादृशत्वे हेतुः—केचनेति । उद्बद्ध-वैरेण विशिष्टाः केचन कामतो भक्त्या विशिष्टाः न तथा त तादृशाः सुरादयो यतः सत्त्व-संरब्धाः अत एव सन्निकृष्टाः साक्षाद्-दर्शनादिना त्वत्-सन्निकर्ष-योग्या इत्य् अर्थः । तथाप्य् अस्माभिर् यद् अर्शनं तव तत्र चावतारिणः तत्राप्य् अशेषैश्वर्य-प्रकटनपरस्य साग्रजस्य प्राप्तं तद्-धेतुः केन ज्ञेय इत्य् आह--इदम् इति । अर्थः स एव । निजैश्वर्य-प्रकटनेन तव कृपा-विशेष-विस्तारणाद् एवेत्य् अभिप्रायेण कृपाम् एव स्तौति-इदम् इति । योग ऐश्वर्य-विशेषस् तद्-रूपा या माया कृपा ताम् इदम् इत्थम् इति ईदृशी अनेन प्रकारेण हेतुना च स्याद् इति योगेशा अपि न विदन्ति । अपरिच्छिन्नत्वाहेतुकत्वाद् अनन्त माहात्म्यात् । तत्रैव हेतुः—योगेति । अन्यत् समानम् ॥४३-४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : केचित्-केवल-तमस्-स्वभावाः पौण्ड्रादयः उच्चैर् बद्धेन वैरेण तत्-कृत-मनोभिनिवेशेन इत्य् अर्थः । सन्निकृष्टाः मुक्ति-पदं प्राप्ताः केचित् मद्-विधा रजो-मिश्राः कामतो यश आदि-वाञ्छया या भक्तिः त्रैलोक्यादि-दानं तया सन्निकृष्टाः शुद्ध-भक्त-पदं प्राप्ताः सत्त्वाविष्टाः सुरादयस्तु स तथा सन्निकृष्टाः ॥४३-४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचन तमस्-स्वभावाः चैद्यादयः उद्बद्ध-वैरेण या भक्तिस् तया केचन रजस्-स्वभावा अस्मद् आदयः कामतः धार्मिकत्वादिख्यापन-सङ्कल्पेन या भक्तिस् तया यथा सन्निकृष्टाः श्री-भगवता सङ्गताः तथा सत्त्व-संरब्धाः **सत्त्व-**गुणे भगवति संरब्धाः । तत्पराः सुरादयो न सन्निकृष्टा इत्य् अन्वयः ॥४३॥
॥ १०.८५.४४ ॥
इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर ।
न विदन्त्य् अपि योगेशा योगमायां कुतो वयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सात्त्विकेभ्योऽपि राजसादयः सन्निकृष्टा इति चित्रं तद् आह—इदम् इत्थम् इति । इदम् इति स्वरूपतः इत्थम् इति विशेषतश् च ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । तत्राक्षेपे । योगेशा ज्ञानिश्रेष्ठा नारदादयः । योग-मायां जगत्स् ऋष्ट्याद्य् अनुसंहित-स्वरूप-माहात्म्यम् ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव योग-मायाम् ऐश्वर्य-विशेषम् इत्य् अर्थः । योगेशाः श्री-सनकादयो\ऽपि न विदन्ति ज्ञातुं न शक्नुवन्ति तत्र हेतुः—हे योगेश्वरेति अचित्यानन्त-महैश्वर्याद् इत्य् अर्थः । प्राय इति भक्तानां केषाञ्चिद्-वेधत्वात् । अन्यत्-तैः । अथवा देवादय एव त्वद्-दर्शनम् अर्हन्ति न तु वयम् इत्य् आह--दैत्येति त्रिभिः । यतो दैत्य्-आदयो वयं निबद्ध-वैराः तादृशत्वे हेतुः केचनेति उद्बद्धवैरेण विशिष्टाः केचन कामतः स्वर्थ-साधनायैव भक्त्या विशिष्टाः जात्या तु निबद्ध-वैरा एव इत्य् अर्थः । सुरादयो न तथा न तादृशाः तत्र हेतुः यतः सत्त्व-संरब्धाः अतस् तव सन्निकृष्टाः साक्षाद्-दर्शनादिना त्वत्-सन्निकर्ष-योग्या इत्य् अर्थः । तथाप्य् अस्माभिर् यद्-दर्शनं तव तत्र च स्वयं भगवद्-रूपेणैवाविर्भूतस्य साग्रजस्य प्राप्तं तद्-धेतुः केन ज्ञेय इत्य् आह—इदम् इति । अर्थः स एव । यद् वा, निजैश्वर्य-प्रकटनेन तव कृपा-विशेष-विस्तारणाद् एवेत्य् अभिप्रायेण कृपाम् एव स्तौति-इदम् इति । योगः ऐश्वर्य-विशेषः तद्-रूपा या माया कृपा तां इदम् इत्थम् इति ईदृशी अनेन प्रकारेण हेतुना च स्याद् इति योगेशा अपि न विदन्ति अपरिच्छिन्नत्व-हेतुकाद्य् अनन्त-माहात्म्यात् तत्रैव च हेतुर्-योगेति अन्यत् समानम् ॥४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-दैन्यं द्योतयितुं कैमुतिक-न्यायेन स्वस्य ज्ञान-भक्ति-हीनत्वं वदन् यद्यपि रजस् तमः-प्रकृतयो\ऽपि स्व-स्व-विशेषेण त्वां प्राप्नुवन्ति तथा हि सात्त्विक-मार्गे ज्ञान-भक्ति-साधन-भूते संस्थापयेति प्रार्थयते-इदम् इति द्वाभ्यां । इदम् इति स्वरूपतः इत्थम् इत्य् असाधारण-धर्मतः तव योग-मायाख्यां शक्तिं योगेशा न विदन्ति त्वां न विदन्तीति किमु वक्तव्यम् । एवं सति वयं रजस् तमः-स्वभावास् तव योग-मायां त्वां च न जानीम इति कुतस् तरां वक्तव्यम् एवं ज्ञानाभावे भक्त्य् अभावो\ऽपि सिद्धः ॥४४॥
॥ १०.८५.४५ ॥
तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत्-
पादारविन्द-धिष165णान्य-गृहान्ध-कूपात् ।
निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः
शान्तो यथैक उत सर्व-सखैश् चरामि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं यद्य् अपि वैर-भावेन त्वत्-प्राप्तिर् भवेत् तथापि मां सात्त्विकं कुर्व् इति प्रार्थयते, तद् इति । तत् तथा नः प्रसीद । यथा निरपेक्षैर् आप्त-कामैर् अपि विमृग्यं युष्मत्-पादारविन्दं तद् एव धिषणम् आश्रयस् तस्माद् अन्यद् गृहं तद् एवान्ध-कूपस् तस्मान् निष्क्रम्य निर्गत्य विश्वस्य शरणं रक्षितारो वृक्षास् तेषाम् अङ्घ्रि-मूलेषु स्वत एव गलितैः फलादिभिर् उपलब्ध प्राप्ता वृत्तिर् जीविका येन सोऽहं शान्तः सन्न् एक एव चरामि । उत अथव सर्वेषां सखायो महान्तस् तैः सह यथा चरा166मीति ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाशयम् आह—तदित्य्-आदिना । तद् एवम् इत्थम् । तस्मात् पादारविन्दधिषणात् सर्वः स्थाणुः इति सहस्र-नामसु **सर्व-**शब्दो विष्णु-वाचको\ऽपि । सर्वो विष्णुः सखा येषां ते सर्व-सखायो हरि-जनास्तौर् इति वा ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तस्मात् स्व-दर्शन-दानाद्-धेतोः नो\ऽस्मान् प्रति बहुत्वं निज-परिवारापेक्षया निरपेक्षैर् मुक्तैर् अपि विशेषेण । मोक्षाद्य् उपेक्षया प्रयत्नेन मृग्यम् एव न तु लभ्यम्, यद्-युवयोर् युष्माकं वा भक्त-जनापेक्षया गौरवेण वा बहुत्वम् । पाद एवारविन्दं सर्व-सन्ताप-हरणामृत-रस-स्रावादिना अतस्-तद् एव धिषणं तद् अन्य-गृहं चान्धकूप एव विविध-दुःखावहत्वाद् अबुद्धिभिर् अलक्ष्यत्वाच् च तस्मान्**-निष्क्रम्य** विश्व-शरणत्वेन तरूणां निरुपाधि-परोपकार-शीलतादिकम् उक्तम् । अत एव तद् अङ्घ्रिषु तत्रापि उप स्वसमीप एव लब्ध-वृत्तिः इति तत्र स्व-प्रयासो निरस्तः । सुपक्व-फलादीनां स्वयम् एव सर्वत्र पतनात् कदाचित् क्वचित्-तत्र भावे\ऽपि । किं वा, शीतोष्णादाव् अपि शान्तो\ऽनुद्विग्न-चित्तः यद् वा, रागद्वेषादिर् अहितः सन्नेको निरन्तर-स्मरण-कीर्तन-विशेष-सम्पत्तये एकाकी उताथवा त्वद्-भक्ति-रसास्वादनार्थं सर्व-सखैश् चरामि, सुखम् इतस् ततो भ्रमामि । **सर्व-**सखैर् इति महतां परम-दयालुत्वेनात्मनस् तत्-सङ्ग-योग्यता सूचिता । अन्यत् तैर् व्याख्यातम् ।
यद् वा, **निरपेक्ष-**विमृग्यं **युष्मत्-**पदारविन्दयोर्-धिषणं श्री-नन्द-व्रज-लक्षणं तद् अन्यत् सर्वं ब्रह्म-लोकादि-गृहम् एवान्ध-कूपः—तत्र पतितैस् त्वद्-धिषणस्यालभ्यत्वात् । तस्मान्-निष्क्रम्य तम् अनपेक्ष्य इत्य् अर्थः । **विश्व-**शरणं श्री-वृन्दावन-तरवः तथा चोक्तं श्री-भगवता पश्यतैतान् महा-भागान् [भा।पु१०.२२.३२] इत्य्-आदि । तेषाम् अङ्घ्रिषु, यद् वा, **विश्व-**शरणस्य तवाङ्घ्र्योः । किं वा, **विश्व-**शरणौ यौ त्वद् अङ्घ्री तयोरुप सामीप्येन लब्धा वृत्तिः स्थितिर्येन सः, उत अपि स्व-परिवारादि-त्यागेनैको\ऽपि शान्तः । यद् वा, त्वत्-सङ्गत्या शान्तः सुखी सन् कदाचित्-त्वया सहैकाक्यपि कदाचिच् च सर्व-सखैर् व्रज-जनैर् अपि सह, यद् वा, एकः श्रेष्ठो गोपत्वेन सर्वोत्तमः, किं वा, गोपानाम् एकतमः सन् सर्वस्य विश्वात्मकस्यापि तव सखिभिर् गोपैर् अपि सहचरामि । श्री-वृन्दावनादौ तत्र परिभ्रमामि । दुर्घटतर-पद-प्रार्थने लज्जादिना व्यक्तया तद् अनुक्तिः । नः इति प्राग् उक्ते\ऽपि पश्चाद् एकत्वेनोक्तिः, दुर्लभस्य वस्तुनो बहुषु दानायोग्यत्वस्य किं वा, मद् ईदृशता सिद्धा । तदीयेषु च स्वतः प्रसाद-सिद्धेर् इत्य् अभिप्रायेणेति ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं कृपा-लुत्वं तत्-तस्माद् एव हेतोः नो \ऽस्मभ्यं प्रसीद प्रसादम् एवाह—निरपेक्षेति । मुक्तैर् अपि विशेषेण शुद्ध-भक्त-जन-भावेन मृग्यं न तु सहसा लभ्यं यद्युवयोः पदं तद् एव **सर्व-**ताप-हरत्वेन परम-दृश्यत्वादि-गुणत्वेन परमामोददातृत्वेन चारविन्!तद् एव च परमाश्रयत्वाद्-धिषणं धिष्ण्यं तस्माद् अन्यद्-यद्-धिष्ण्याभासो गृहं तद्-वस्तुतो \ऽन्धकूपः स इव महा-वरक-बन्ध-हेतुत्वाद्-विशेषतश् च सुतल-रूपत्वात्-तत्-सदृशम् एवेति तस्मान्-निष्क्रम्य **विश्व-**शरण-भूतो यो\ऽयम् अङ्घ्रिः पादारवीन्दं तस्य उप समीपे लब्धा वृत्तिर् दास-जनोचित-वर्तनं येन तथा-भूतः सन् उत एकः एकाक्येव च सन् न तु सपरिकरो\ऽपि सन् **सर्व-**सखैस् त्वदीय-जनैः सह चरामि **सर्व-**सखत्वात्ते\ऽपि न मयि जुगुप्सां करिष्यन्तीति भावः ॥४५॥
**जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्व-**शरण-भूतो\ऽयम् अङ्घ्रिः पादारविन्दं तस्य उप समीपं लब्ध्वा वृत्तिर्-दास-जनोचितवर्तनं येन तथा-भूतः स्व-समानवासन-परिकरसहितः सन् उत एकः एकाक्येव सन् **विश्व-**सखैस् त्वदीय-जनैः सह चरामि ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भो वरं वृण्वित्य् अत आह—निरपेक्षैर् आत्मारामैर् अपि विमृग्यं **युष्मत्-**पादारविन्दं तद् एव धिषणम् आश्रयस् तस्माद् अन्यो यो **गृहान्ध-**कुपस् तस्मान्-निष्क्रम्य विश्वस्य शरणम् उपकारका वृक्षास् तेषाम् अङ्घ्रि-मूलेषु स्वत एव गलितैः फलादिभि-रुप-लब्धा वृत्तिर् जीविका येन सोऽहं शान्तः सन्न् एक एव चरामि । उत अत्य् अधिकं कृपयसि चेत् सर्वेषां सखायस् त्वद्-भक्तास्तैः सह चरामि ॥४६॥
॥ १०.८५.४६ ॥
शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो ।
पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् अल्प-पुण्यानाम् एवं भावः सम्भवतीति चेत् तर्हि यथैतद् भवेत् तथास्मान् अनुशिक्षयेत्य् आह—शाधीति । हे प्रभो, ईशितव्याः सर्वे जीवास् तेषाम् ईश यत् तवानुशासनम् आतिष्ठन्न् आश्रयंश् चोदनाया विधि-निषेध-लक्षणायाः सकाशाद् विमुच्यते । न खलु त्वद्-भक्तो विधि-किङ्करः स्याद् इति भावः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद् आक्षेपं समादधानो वक्ति-कथम् इत्य्-आदिना । एवं-भावः एवं-विधत्यागः । एतत् त्यागादि । इति भाव इति—देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् [भा।पु। ११.५.४१] इत्य्-आद्य् उक्तेः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु बलिर् इन्द्रो भविष्यति [भा।पु। ८.१३.१२] इति वचन-प्रामाण्येन त्रि-लोक्या वैष्णवत्व-सम्पत्तये त्वम् ईन्द्रो भवितासीत्य् अधुना कथम् एवं घटताम्? तत्राह—शाधीति । नन्व् अन्यस्माच् छिक्षस्व् एति चेत्-तत्राह—हे ईशितव्येशेति । परमेश्वरत्वेन तत्रैवानुशासन-योग्यत्वाद् इति भावः । तत्र चादाव् अनुशासन-मात्रेण निष्पापान् दैत्यत्व-निदान- रजस् तमो-मूल-पाप-रहितान् कुरु ततश् च त्वद् अनुशासनानुष्ठान-सिद्ध्या तद्-योग्यो भवेयम् इत्य् आशयेनाह—पुमान् इति । अधिकारापेक्षा निरस्ता, श्रद्धयेत्य् अन्यथा नास्तिकता-प्रसक्त्या कलासिद्धेः । किं वा, शीघ्र-सुसिद्ध्य् अपेक्षया विशेषेण मुच्यते प्रेम-सम्पत्तेः तच् च त्वत्-प्रभावाद् इत्य् आह—हे प्रभो इति । स्व-पक्षे—हे दैत्य-राज! तादृशानाम् इदम् अतीव दुर्घटम् । तत्राह—शाधीति । ईशितव्यानां भृत्यानां मादृशाम् ईश! परिपालकेति । त्वद्-भक्त-वात्सल्येन सुघटम् इति भावः ।
नन्व् अधुना तद्-योग्यो\ऽसीति चेत्-तत्राह—आदौ निष्पापान् कुरु ततश् च पाप-रहित्येन त्वदाज्ञानुष्ठान-योग्यतया तदातिष्ठन् परम-भक्तो भूत्वा तद्-योग्यताम् अपि प्राप्स्यामीत्य् अर्थः । अथवा अहो तादृश-भाग्य-हीनान् अस्मान् प्रति तत्-प्रसादो यदि वा अधुना न सम्पाद्येत तदा निजागमन-प्रयोजनम् अप्य् आदिश्यताम् । तेनैव कृतार्थो भवेयम् इत्य् आह—शाधीति । किञ्चिद् आदिश इत्य् अर्थः । अन्यत् समानम् ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो तादृश-हीनान् अस्मान् प्रति तादृश-प्रसादो यदि वाधुना न सम्पाद्यते तदा निजागमन-प्रयोजनम् अप्य् आदिश्यतां तेनैव कृतार्थो भवेयम् इत्य् आशयेनाह—शाधीति । किञ्चिद् आदिश इत्य् अर्थः । तत्र श्री-भगवतो योग्यताम् आह—हे ईशितव्येश! ईशितव्याः शासनीयाः ईशा ब्रह्म-रुद्रादयो\ऽपि यस्य हे तादृशेति! न तु तव तु तद् अनुष्ठाने योग्यता नास्ति तत्राह—निष्पापान् त्वद्-भक्ति-विघ्नेभ्यो निर्गतान् कुरु अनुशासन-रूपेण तव् आङ्गीकारेणैव तद् अपगमात् सम्पत्त्स्यते सेति भावः । तद् एव प्रमाणयति यद् इति । यद्-वेद-रूपं पारम्परिकं साधारणम् अप्य् अनुशासनं किमुत साक्षात् आत्म-विषयकम् इत्य् अर्थः ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो तादृश-भाग्य-हीनान् अस्मान् प्रति तादृश-प्रसादो यदि वाधुना न सम्पाद्यते तदाङ्गने आगमन-प्रयोजनम् अप्य् आदिश्यताम् तेनैव कृतार्थो भवेयम् इत्य् आशयेनाह—शाधीति ॥४६-५३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, साम्प्रतं यद् अर्थम् एतादृशं दर्शनं तदाज्ञापयेत्य् आह--शाधि आदिश ईशितव्यानाम् अस्मद् आदीनाम् ईश हे प्रभो! ननु मदाज्ञां निष्पादयितुं तव कोऽधिकारस्ताह—निष्पापान् कुरु तद् असामर्थ्ये\ऽपि तच्-छ्रवणेनापि निष्कल्मषा भवेमेति भावः । यत् त्वद् आदिष्टम् अनुतिष्ठन् कुर्वंस् तु चोदनायाः विधि-निषेध-लक्षणायाः सकाशात् विमुच्यते विधि-किङ्करो न स्याद् इत्य् अर्थः ॥४६॥
॥ १०.८५.४७ ॥
श्री-भगवान् उवाच—
आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।
देवाः कं जहसुर् वीक्ष्य सुतां यभितुम् उद्यतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उक्तं सर्वम् अनुमोद्य स्वागमन-कारणं स-प्रपञ्चं कथयति, आसन्न् इति पञ्चभिः । ऊर्णायां भार्यायाम् । प्रथमेऽन्तरे स्वायम्भूव-मन्वन्तरे देवाः सुतां वाचं यभितुं यब्धुं मैथुनेन रमयितुम् उद्यतम् उद्युक्तं कं प्रजापतिं जहसुर् उपहसितवन्तः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् उक्तं बल्युक्तम् । विगीत-व्यावृत्त्य् अर्थम् अर्थान्तरम् आह—सुखं तनोतीति सुता भार्या ताम् । नामैक-देश-न्यायेन भीमादिवद् अक्षर-मुष्टि-न्यायेन वाभाकादिवद् अत्र सुना सुख-ग्रह इति ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रार्थितस्याधुना महा-दुर्घटत्वेन तत्रोत्तरमदत्त्वा स्वागमन-प्रयोजन-कथनेनैव तं सन्तोष-यंस् तदाह—आसन्न् इति त्रिणिः । देवा अपि जहसुः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रोत्तरं प्रार्थनम् एव सम्प्रति स्वाभीष्ट-विशेषेणानुमोदितुम् उपोद्घातं प्रस्तौति—आसन्न् इति । देवा अपि जहसुः ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वागमन-कारणम् आह—आसन्न् इति पञ्चभिः । ऊर्णायां भार्यायाम् अन्तरे मन्वन्तरे स्वायम्भुवे ते देवाः षट् सुतान् सरस्वतीं यभितुं सम्भोक्तुम् उद्यतम् । कं प्रजापतिम् ॥४७॥
॥ १०.८५.४८ ॥
तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा ।
हिरण्यकशिपोर् जाता नीता167स् ते योग-मायया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनावद्य-कर्मणा पापेनासुरीं योनिम् अगन्न् अगमन् । अधुना तत् क्षणम् एव । हिरण्यकशिपोर् जाता इत्य् अर्थः ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन महद् उपहास-लक्षणेन । इत्य् अर्थ इति-अधुनेति पदम् अत्र नेदाईम् अर्थकं किन्तु तत्-क्षणार्थकम् इति भावः । ते च हिरण्यकशिपु-जाताः । ततो हिरण्यकशिपु-गृहात् । **योग-**माया-पार्श्वम् एतावत्-काल-पर्यन्तं स्थित्वा पुनर् अधुना देवक्या उदरे जाता इत्य् उत्तरेणान्वयः । अत्र च हरिवंशीया कथानुसन्धेया । सा च—
हिरण्यकशिपु-पुत्र-कालनेमिनः षट् पुत्रा ब्रह्म-प्रसादाव् आप्तये तपश् चक्रुस् तत्-तपसा तुष्टो ब्रह्मा तद् अभीप्सितम् अमरत्वं ददौ । तच्-छ्रुत्वा तेषां पितामहो हिरण्यकशिपुस् ताञ्छशाप-यतो मां सर्वेश्वरं त्यक्त्वा ब्रह्माणम् आराधितवन्तो\ऽतः स्व-पितृवध्या भविष्यतेत्य् उक्त्वा तांस् तत्याज । ततो विष्णुर् ब्रह्म-वरं सत्यी-कर्तुं तेषाम् आत्मन आकृष्य योग-निद्रायै ददौ । ते च जल-गर्भे शयनं चक्रुस् तेषां जीवात्मनो योग-माया भगवद् आज्ञप्ता देवकी-गर्भे निवेशितवतीति तेषां स्वप्नवत् स्व-दृष्ट्या देवक्यां जनिर् लोक-दृष्ट्या साक्षाज्-जनिर् इति ॥।४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हिरण्यकशिपोर् इति तत्-पुत्रात् कालनेमिनो जाता इति श्री-हरिवंशोक्तानुसारेण ज्ञेयम् । तच् च पुरा द्वितीयाध्यायारम्भे सूचितम् एव । तद्-विशेषः श्री-हरिवंशे सुव्यक्त एव । अत्र बाहुल्य-भयान् न लिख्यते ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनेति सार्धकं आसुर-योनि-गमन-प्रकारम् एवाह—अधुनेति । हिरण्यकशिपोर् जात इति द्वितीयाध्यायारम्भे व्याख्यातम् ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तनावद्य**-कर्मणा** पापेन अधुना तत्-क्षण एव आसुरीं योनिम् अगमन् हिरण्यकशिपोः सकाशात् कालनेमि-क्षेत्रे जाताः ते च योग-मायया देवक्याः उदरे कंस-हस्तेन घातनार्थं नीताः ॥४८॥
॥ १०.८५.४९ ॥
देवक्या उदरे जाता राजन् कंस-विहिंसिताः ।
सा तान् शोचत्य् आत्मजान् स्वांस् त इमेऽध्यासतेऽन्तिके ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते च योग-मायया ततो नीताः सन्तो देवक्या उदरे जाताः । हे राजन् बले, ते च कंसेन विहिंसिताः । सा च तान् आत्म-जान् मत्वा शोचति । ते चेमे तवान्तिकेऽध्यासते ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा च देवकी । तान् कंस-विहिंसितान् । ते च कंस-हिंसिताः । इमे सम्मुखस्थाः । अध्यासते तिष्ठन्ति ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजन्न् इति तेषां तत्-तत् सर्व-वृत्तं त्वया ज्ञायत एवेति भावः । कीदृशीं गतिं प्राप्ता इति शोचति, यतः स्वान् स्वकीयान् आत्मजान् अत एतान् अर्पयेत्यादिशन् तेषां तद् अधीनताम् आह—त इति । एवं परम-भक्तेन सर्वज्ञेन श्री-बलिना श्री-भगवद्-दर्शनार्थं ते सदा स्व-समीपे\ऽवस्थाप्यन्त इति ज्ञेयम् ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रस्ताव्यम् आह—सार्ध-द्वयेन । तत्रैव सकरुणम् आह—सेत्य् अर्धकेन । यतः स्वान् स्वीयानात्मजान् ते च न गोपनीया इति स-नर्माह—त इम इति एवं परम-भक्तेन सर्वज्ञेन बलिना श्री-भगवद्-दर्शनार्थं ते सदा स्वसमीप एव च स्थापिता इति ज्ञेयम् ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा देवकी इमे ते इति तर्जन्या तान् दर्शयतीति ते परम-भागवतेन बलिना भगवद्-दर्शनार्थम् आनीय स्व-दृष्टि-पथ एव स्थापिता इति भावः ॥४९॥
॥ १०.८५.५० ॥
इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये ।
ततः शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकं देव-लोकम् ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतस् तव पार्श्वतः । ततो **मातृ-**शोकापनुत्त्यनन्तरम् । शापान्-महद् उपहास-लक्षणपापात् शापः पापाक्रोशदिव्य-प्राप्त-कल्याणकेषु च इति निरुक्तिः ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेणावश्यकतया प्रणयेन वा नेष्यामः बहुत्वं नयन-दार्ढ्याय निज-प्रौढि-सूचनात् । पाठान्तरं स्पष्टम् । **मातृ-**शोकापनुत्तिहेतुम् आह—तत इति । तद् अनन्तरम् एव शापाद् उपहासेन श्री-ब्रह्म-दत्तात्, पापेति वा पाठः । विशेषेण निःशेषण च सर्वथा मुक्ताः, अत एव विज्वराः सर्व-सन्ताप-रहिताः सन्तः लोकम् आत्मीयं तत्रत्यानां स्व-परिवाराणां सन्तोषार्थं निश्चयार्थं च तानेव निर्दिशन् भोगान्ते परम-पदं प्राप्स्यन्तीत्य् आह—स्मरेति । पुनः पश्चात् सद्-गतिं श्री-वैकुण्ठ-लोकम् अथवा लोकं मदीयं तद् एवोक्तपोषण्यायेन द्रढयन्न् आह—स्मरेति । पुनस् त्व् अर्थे वाक्यालङ्कारे । अन्यत् समानम् ॥५०-५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वाभीष्टम् आह—इत इति द्वाभ्याम् । प्रकर्षेण आवश्यकतया प्रणयेन वा नेष्यामः अस्मदो द्वयोश् च [पाण् १.२.५९] इति बहु-वचनम् एषाम् अपि कुशलं भविष्यतीत्य् आह—तत इति । शापेति शापाद् इति वा पाठः विशेषेण आसुर-भावराहीत्येन निःशेषेण तच्-छरीरराहीत्येन मुक्ताः अत एव विज्वराः सर्व-सन्ताप-रहिताः सन्तः प्रथमतस् तावद् एव लोकं यास्यन्ति भोगेच्छावशेषात् ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शापात् पिता पुत्रान् वधिष्यतीति हिरण्यकशिपोः **शापाद्-**विमुक्ता एवैते ततः मन्नयनानन्तरं लोकं देव-लोकम् ॥५०॥
॥ १०.८५.५१ ॥
स्म168रोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी ।
षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्मरोद्-गीथः स्मर-सहित उद्गीथः । सद्-गुतिं मोक्षम् । स्मरस्यैव पूर्वं कीर्तिमान् इति नाम । अतः कीर्तिमन्तं प्रथम-जं कंसायानकदुन्दुभिः । अर्पयाम् आस [भा।पु। १०.१०.५७] इत्य् उक्तम् ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिज्ञानार्थं तन्-नामानि निर्दिशति-स्मर इत्य्-आदि । अतस् तन्-नामत्वात् ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निश्चयार्थं तानेव नाम्ना निर्दिशन् भोगान्ते नित्यम् अद्धामापि प्राप्स्यन्तीत्य् आह—स्मरेति । पुनः पश्चात् सतां यादवानां गतिं ममाप्रकट-लीला-स्पदम् ॥५१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मरसहित उद्गीथ इत्य्-आदीनि नामानि मरीचि-पुत्रत्वद् अशायाम् ॥५१-५३॥
॥ १०.८५.५२ ॥
इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।
पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अयच्छताम् अर्पयाम् आसतुः ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् स्मरादीन् । मातुर्-मात्रे ॥५२-५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् स-परिच्छदत्वादिना करग्रहणादिना चादाय पूजितौ तद् अर्पणादिना सम्मानितौ सन्तौ मातुर् मात्रे ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् सपरिच्छदत्वादिना कर-ग्रहणादिना चादाय पूजितौ तद् अर्पणादिना सम्मानितौ सन्तौ मातुः मात्रे ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.५३ ॥
तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी ।
परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : । बालकान् इति मातृ-सन्तोषार्थं श्री-भगवद् इच्छया पूर्ववद्-वालक-रूप-प्राप्तेः किं वा, तस्याः **स्नेह-**भरेण बालकतयैव परिस्फूर्तेः देवी ईश्वरी श्री-भगवन्-मातृतया गौरवात् परिष्वज्येति क्रमशः स्नेहाकुलतयातिशैघ्र्येण युगपदिव वा । एवम् अग्रे\ऽपि ॥५३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालकान् इति मातृ-सन्तोषार्थं श्री-कृष्णेच्छया बालक-रूपेणैवाविर्भूतान् कीर्तिमदादीन् श्री-कृष्ण-रामौ च ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.५४ ॥
अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम्169 ।
मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यया मायया ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुतानां सुतस्य वा कृष्णस्य स्पर्शेनैव परितः प्लुतं प्रस्तुत-क्षीरम् इत्य् अर्थः । “स्नुतम्” इति पाठे\ऽपि स एवार्थः । तत्र हेतुः—मायया पुत्र-स्नेह-लक्षणया मोहिता आकृष्ट-चित्त इत्य् अर्थः । न च सा माया तया\ऽपि हर्तुं शक्यत इत्य् आशयेनाह—विष्णोर् विश्व-व्यापकस्य भगवतः ।
ननु श्री-भगवता स्व-मातरि सा किं विस्तार्यते? तत्राह—ययेति । यया मायया तत्-स्वीकारेण विना तस्याः सङ्कोचेन विश्व-सृष्ट्य्-अप्रवृत्तेर् इत्य् अर्थः । यद् वा, मायया कृपया सृष्टिः प्रवर्तते, तस्यास् तन्-मातृतया पुनः पुनर् जन्म स्याद् इत्य् अर्थः ॥५४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुतानां श्री-कृष्णादीनां स्पर्शेनैव परितः स्नुतं प्रस्नुत-क्षीरम् इत्य् अर्थः । “परिप्लुतम्” इति पाठे सुत-स्नेहेन व्याप्ता सती । तत्र हेतुः--मायया स्व-लीला-हेतुना योग-मायाख्य-शक्त्या मोहिता सृष्टिर् लीला-निर्माणं प्रस्तुतत्वात्, तथापि साधारण-तत्-तच्-छब्देनोक्तिः प्रसिद्धार्थ-द्वारा झटिति साधारण-लोक-बोधनाय ॥५४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मायया लीला-हेतुना योग-मायया मोहिता सृष्टि-लीला-निर्माणं प्रस्तुतत्वात् प्रतिलब्धात्म-दर्शनाः पुनर् लब्धा निज-देवत्वानुभवाः । तेषां भोग-वासनावशेषाद्-भगवतस् तदानीं तावन्-मात्र-दानस्येष्टत्वात् ॥५४-५६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया योग-मायया यया विष्णोः सृष्टिर् अप्राकृती तल्-लीला-परिकर-प्रादुर्भावमयी प्रवर्तते, न तु ब्रह्मणः सृष्टिः प्राकृतीत्य् अर्थः ॥५४॥
॥ १०.८५.५५ ॥
पीत्वामृतं पयस्170 तस्याः पीत-शेषं गदा-भृतः ।
नारायणाङ्ग-संस्पर्श-प्रतिलब्धात्म-दर्शनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृतत्वे हेतुः, गदा171-भृतः पीत-शेषम् इति । नारायणाङ्ग-संस्पर्शेन प्रतिलब्धं देवा वयम् इत्य् आत्म-दर्शनं यैस् ते ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्या देवक्याः । “अमृत-पयः” इति पाठे तु अमृतम् अमृतत्वापादकं पयो\ऽमृत-पयः । यद् वा, नन्द-गेह-गमनानन्तरं स्वाविर्भावावसर एव जाताह्लादा देवकी तन्-मुखे स्तनं ददौ । स्वयम् एव मुखे स्तनं गृहीत्वा, पुनर् वसुदेवाय “मां नन्द-गृहं नय” इत्य् उक्तवान् इति ध्येयं, पूर्व-जन्मापेक्षया तज्-जन्मनो\ऽन्यत्वाद् इति ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गदा-भृतो गदा-धरस्य गदाम् आदाय तत्रागमनात् । किं वा, साक्षात् श्री-नारायणस्य इत्य् अर्थः, जन्म-समय-दृष्ट-रूप-दर्शनात् । यद् वा, गदं निजानुजम् आ सम्यक् बिभर्ति पालयतीति । तथा तस्य निजाशेषैश्वर्य-प्रकटनार्थं श्री-वसुदेव-पुत्रतयावतीर्णस्य भगवत इत्य् अर्थः । पीते शेषम् इति पूर्व-जन्म-समये प्राकृत-रूप-दर्शनेन स्नेह-भरोदयेन तदानीं प्रस्नुत-स्तन-पानाद् इति ज्ञेयम् ।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीत्वा इति युग्मकम् । स्वत एव अमृतं परमानन्दात्मकं, तत्रापि गदा-भृतः पीत-शेषं, तत्र गदा-भृत इती गदाम् आदाय पाताल-गमनागमनादिकं बोधयति । पीत-शेषम् इति मातुः स्वस्य चेच्छया प्रथमं तेन पानात् । नारायणः सर्वाश्रयः स्वयं भगवान् तस्याङ्गं श्री-हस्तादि तस्य साक्षात् सम्यक् स्पर्शः, तेन प्रति पुनर् लब्ध-निज-देवत्व-दर्शनाः, तद्-वासनानुसारेण सम्प्रति तन्-मात्र-दानस्य भगवतेष्टत्वात् । अत एव मात्रादाव् अपि स्नेह-रहिता देव-लोकम् एव ययुः । मिषतां पश्यतां सर्व-भूतानाम् इति कौतक-विशेषः सूचितः । “विहायसा” इति पाठः स्वामि-सम्मतः । “दिवौकसाम्” इति पाठस् तु सर्वत्र ॥५५-५६॥
नारायणः साक्षाद्-भगवान्, स एव । तस्य अङ्गं श्री-हस्तः, तस्य सम्यक् स्पर्शः समादानं, तेन प्रत्ययतो लब्धम् आत्मनो दर्शनं स्वरूप-ज्ञानं । किं वा, श्री-भगवतो माहात्म्य-ज्ञानं यैस्, तथा-भूताः सन्तः ॥५५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गदा-भृतः कृष्णस्य पीत-शेषम् इति पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः [भा।पु। १०.३.४६] इत्य् उक्तेर् देवक्यां प्रादुर्भूय नन्द-गृहे गमन-समये यदा शिशुर् अभूत्, तदा दूर-गमन-निबन्धनो\ऽस्य कण्ठ-शोषो माभूद् इति स्नेहेन श्री-देवकी तं स्तनं पाययामास एवेति । तत्रानुक्तम् अप्य् अत्रोक्तेर् अवगम्यते । नारायणस्य अङ्ग-संस्पर्शेन प्रतिलब्धं “देवा वयम्” इत्य् आत्म-दर्शनं यैस् ते धाम देव-लोकम् ॥५५-५८॥
॥ १०.८५.५६ ॥
ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।
मिषतां सर्व-भूतानां ययुर् धाम172 विहायसा173 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम देव-लोकम् ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते स्मरादयः ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दम् अशेषैश्वर्य-प्रकटनार्थं पृथिव्याम् अवतीर्णं साक्षाद्-भगवन्तम् इत्य् अर्थः । ततश् च स्नेहाधिक्येनात्म-कृतार्थतापादनेन, प्राग् देवकीं मातरं मिषतां पश्यतां सर्व-भूतानाम् इति श्री-भगवद्-भगवदीयापेक्षयान्येष्व् अनादरात् । यद् वा, आश्चर्येण सर्व-भूतेषु पश्यत्सु सत्स्व् इत्य् अर्थः । इति तत्रासम्भावनादिकं निरस्तम् । धाम श्री-वैकुण्ठ-लोकं विहायसा आकाश-मार्गेण ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.५७ ॥
तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् ।
मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मृतानाम् आगमनं निर्गमनं च श्री-कृष्णस्य मायां मेने । तेनैवापत्यादि-रूपेण रचिताम् ॥५७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-तदा ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रचितां श्री-कृष्णेनैव दर्शितां मायां स्व-शक्ति-विशेषं, किं वा, तेनैव कृतां कृपां मेने । हे नृप इति । एवं मातरि भ्रातृषु च तत्-सम्बन्धेन श्री-बले च श्री-भगवतो\ऽनुग्रह-विशेषो विचार्यतयावगम्यताम् इति भावः ॥५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं स्वस्मिन्न् एव श्री-भगवता तस्याः स्नेहो रक्षितः इत्य् आह—तम् इति । आगमन-पूर्वकं निर्गमं यद् वा, द्वन्द्वैक्ये\ऽपि पुंस् त्वम् अझ्रस्व-दीर्घ-प्लुत इतिवत् कृष्णस्य रचितां मायां तेषां जन्मादिकम् आगमनादिकं च श्री-कृष्णेनैव कंस-वञ्चनादि-कार्याय मायया रचितम् इति मेन इत्य् अर्थः । स्नेहाद्य्-अदर्शनाद् इति भावः । एवं प्राचीन-देहैर् एव भ्रूणतया देवक्यां प्रवेशो न तु ततो देहोत्पत्तिः, तेषां मारणानन्तरं च पुनस् तेनैव देहेन गतिर् इति प्रकरणाद् अवगतम् ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.५८ ॥
एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः ।
वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-लीलानन्त्यम् अतिदिशति--एवम् इति ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं-विधानी-दृशानि अद्भुतानि साक्षाद् ऐश्वर्य-विशेष-प्रकटनेन लोकातीतानि किं वा, आश्चर्याण्य् अनन्तानि वीर्याणि मङ्गल-चरितानि प्रभावा वा सन्ति । तत्र हेतुः—अनन्तं वीर्यं शक्तिर् यस्य तस्येति । तत्रैव हेतुः—परमात्मनो\ऽन्तर्यामितया सर्वत्र सर्वथा सर्व-प्रवर्तकस्येति । तत्रापि हेतुः—कृष्णस्य साक्षात्-परमेश्वरस्येति । अनन्त-वीर्यत्वेन परमेश्वरम् उक्तम् एव । ततश् च कृष्णस्येति तत्राप्य् अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य भगवत इत्य् अर्थः । हे भारत इति महा-वंशजेन त्वया तानि प्रतीयन्त एवेति । तथा तान्य् अशेषतः केनापि वर्णयितुं न शक्यन्त इति त्वया बुध्यत एवेति भावः ॥५८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ राज्ञो मुक्ति-कालासत्तिम् आशङ्क्य ग्रन्थम् आशु समापयितुं श्री-कृष्ण-कथाम् उपसंहरन्न् आह—एवम् इति । अनन्तानि प्रतिक्षणं युगपद् एवापरिमित-लीला-विष्कारात् श्री-नारदेन तथा दर्शनात् तत्र हेतुः अनन्तं वीर्यं शक्तिर् यस्य तस्येति तत्रैव हेतुः—परमात्मनः सर्व-मूल-स्वरूपस्येति ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८५.५९ ॥
श्री-सूत उवाच—
य इदम् अनुशृणोति श्रावयेद् वा मुरारेश्
चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः ।
जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं
भगवति कृत-चित्तो याति तत्-क्षेम-धाम ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृ174तं कीर्तिर् यस्य तस्य । व्यास-पुत्रेर् इति बहु-वचनं पूजार्थम् । जगताम् अघं मिनत्तीति तथा तत् । अलं निःशेषं यथा भवति तथा न कृच्छ्रादि-वद् इति । तद् एवं मोक्ष-हेतुत्वं पाप-क्षय-हेतुत्वं चोक्तम् । तद् भक्तानां तु सत्-कर्ण-पूरं परम-सुखावहं कर्णाभरणम् इति स्वयं सुख-रूपताम् आह । किं च भगवति कृतम् आवेशितं चित्तं येन स तथा भूत्वा तस्य क्षेम-धाम कालादि-भय-रहितं लोकं यातीति ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमृतं कीर्तिर् इव यस्येति कीर्तेर् अमृताधिक्यं मोक्ष-हेतुत्वात् । न कृच्छ्रदिवत्-प्रयोगोक्त-मात्र-पाप-हरम् । आदिना चान्द्रायणादि-ग्रहः । तद् एवं निःशेषाघहरत्वाद् उभय-हेतुत्वं युक्तम् । तद्-भक्तानां मुरारि-भक्तानाम् । स्वयं सुख-रूपतां परमानन्द-रूपतां व्यनक्तीत्य् अर्थः । लोकं वैकुण्ठम् । न कर्हिचिन्-मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो\ऽनिमिषो लेडि हेतिः इत्य् उक्तेः ॥५९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सद्य एव तेषां श्री-वैकुण्ठ-लोकलाभं श्रुत्वा विस्मितान् ब्राह्मणान् दृष्ट्वानुगृह्णन् अहो श्री-भगवत्-सोदरास्ते तत्-पदं प्राप्ता इति किं वक्तव्यम् । **तद्-**वार्ताश्रवणादिनान्ये\ऽपि तत् प्राप्नोतीति वदन् तादृशश्री-शुक-देवस्योक्त्या सुप्रीतः सन् श्री-लोमहर्षणिस् तन्-माहात्म्य-पूर्वकं श्री-भगवच्-चरित-माहात्म्यम् आह—य इति । अधिकारापेक्षा निरस्ता । अनु निरन्तरं शृणोति वा-शब्दादनु-शब्दस्यात्रान्वयः, अनु श्रावयेद्वा । तत्र हेतुः—अमृतं परमानन्द-रसस् तद्-रूपा परम-मधुरा कीर्तिर्यस्य यस्येति तच्-चरितस्यामृतत्वं ध्वनितम् । अतो\ऽत्याज्यत्वाद् इति भावः । यद् वा, अन्वाचयन्यायेनापि शृणोति मुरारेर् इति साक्षाद्-भगवत्त्वं सूच्यते
श्री-कृष्णेनैव स्वयं नरक-सेनानी-मुरासुर-वधाद् **अमृत-**कीर्तित्वाद् एव श्री-व्यास-पुत्रैर् वर्णितम् । यद् वा, **तद्-**वर्णितत्वेन विशेषतो\ऽधिकर-समयत्वं [रसवत्त्वं] बोधयति-प्रिय-जन-मुखेनैव त्वत्-कथाया रस-विशेषोदयात्, तच् च पिबन्तं त्वन्-मुखाम्भोजच्युतम् [भा।पु।१०.१.१३] इत्य्-आदाव् उक्तम् एव । जगतो\ऽविशेषेण सर्वस्यैवाद्यं प्रारब्धाद्य् अशेष-दुष्कर्म-लक्षणं संसार-दुःखं वा भिनत्तीति तथा तत् भगवति श्री-कृष्णे कृत-चित्त इत्य् अस्मिन् लोके\ऽपि महा-सुखम् उक्तम् ॥५९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सर्व-महन्-महनीय-श्री-मन्-निज-गुरु-चरणैर् वर्णितेनैवम्भूत-श्री-कृष्ण-चरित-वृन्देनोल्लसितस्-सन् श्री-सूतो\ऽप्य् उपसंहारानु-रूपं श्रोतॄनाशीर्वाद-प्रायेण तच्**-चरित-माहात्म्यानुवादेन तोषयन् तल्-लीला-परिकराणां तत्-तत्-प्राप्तिर् नाश्चर्या यतस् तच्-छ्रोतृणाम् अप्य् एवं स्याद् इति बोधयंश् च गायन्नेव् आह—य इति । अधिकारापेक्षा निरस्ता इदं पूर्व-पूर्वोक्तं किञ्चिद् अपि तच्-चरितम्** अनु निरन्तरम् इति सकृच्-छ्रवणस्यैव रुच्युत्पादक-स्वभावत्वाद् अनुवाद एव स च भावि-फलस्य शीघ्रत्व-ज्ञापनाय सापराधत्व एव तु न **तत्-तत्-**सम्पद्यत इति वा-शब्दाद् अनुशब्दस्योत्तरत्राप्य् अन्वयः । योग्यता चेत् स्व-परकृतार्थतार्थम् अनु श्रावयेद्-वा तत्र सामर्थ्यम् अमृतं परानन्द-रसः **तद्-**रूपा कीर्तिर् यस्य **अमृत-**कीर्तित्वाद् एव व्यास-पुत्रैर् वणितं तद्-वर्णितत्वेन च विशेषो बोधितः । पिबन्तं त्वन्-मुखाम्बोजच्युतं हरिकथामृतम् [भा।पु। १०.१.१३] इत्य्-आदेः अत एव जगतः सर्वस्यैव यद् अघं **तद्-**भक्ति-विघ्न-पर्यन्तं तद्-भिनत्तीति यथा तत् अत एव भगवति **तत्-**तच्-चरिताश्रये श्री-कृष्णे कृत-चित्त इत्य् अस्मिल्-लोके\ऽपि महा-सुखम् उक्त्वा पारलौकिकम् अप्य् आह—तस्य श्री-कृष्णस्यैव क्षेमं स्मृत्य् आशेषाशुभहरं सर्व-मङ्गल-मङ्गलम् [भा।पु। ११.३१.२४] इति प्रसिद्धं नित्यं द्वारकाख्यम् एव धाम एवं तच्-चरित-श्रवणेन साधकानां फल-क्रमो दर्शितः सिद्धानान्तु तस्यैव सद्यः स्वयं फलताम् आह—**भक्त-सत्-कर्ण-**पूरम् इति ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं स्वस्मिन्न् एव श्री-भगवता तस्याः स्नेहो रक्षित इत्य् आह—तम् इति ॥५७-५९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमृतम् एव कीर्तिर्यशो यस्य तस्य अमृतत्वम् आह—जगताम् एव अघं संसाररोगं भिनत्तीति तत् तद्-भक्तानां संसारोत्तीर्णानां तु कर्ण-पूरं कर्णाभरणम् ॥५९॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे मृताग्रजानयनं
नाम पञ्चाशीतितमोऽध्यायः ।
॥ ८५ ॥
(१०.८६)**
सुभद्राहरणं श्री-कृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः ।
॥ १०.८६.१ ॥
श्री-राजोवाच—
ब्रह्मन् वेदितुम् इच्छामः स्वसारं राम-कृष्णयोः ।
यथोपयेमे विजयो या ममासीत् पितामही ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
षड् अशीतितमे दम्भात् सुभद्राम् अर्जुनोऽहरत् ।
गत्वा च मिथिलां कृष्णो नृप-विप्रावनन्दयत् ॥
पित्रोः स्व-ज्ञानम् आदिश्य सुभद्रां फाल्गुनाय च ।
जगाम मिथिलां कृष्णः स्वभक्त-प्रियकृत्तमः ॥
देवक्या मृत-पुत्र-लाभवद् अर्जुनस्य सुभद्रा-लाभोऽपि राम-प्रातिकूल्याद् दुर्घट इति मन्यमानः प्रसङ्गात् पृच्छति—ब्रह्मन्न् इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-वचन-विहितम् इथ्यानुष्ठानं दम्भः । अनन्दयत् साह्लादौ चक्रे । स्वसारं सुभद्राम् । विजयो \ऽर्जुनः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवतः पित्रोर् भ्रातृषु चानुग्रहं श्रुत्वा भगिन्याम् अपि तम् अधिकं सम्भाव्य तत्-प्रकारं सादरं पृच्छति—ब्रह्मन्न् इति । हे वेद-स्वरूप ! अतस् त्वं तत् सर्वं समूलं वेत्सीति भावः । अत एव तत्-प्रकारं वेदितुम् इच्छामः । बहुत्वं सर्व-श्रोतॄणाम् अपेक्षया, सा च विनयाद् एव । राम-कृष्णयोर् इति रमन्ते योगिनोऽनन्ते [र्तु] च्च् २.९.२९; ब्सोभ् ३.३.४० इत्य् अत्रेति, तथा कृषिर् भूर् वाचकः शब्दः इति वचनतः साक्षाद्-भगवतोर् इत्य् अर्थः । अनेन तथा स्वसारम् इति द्वयोर् अपि तस्यां स्नेह-सूचनेन च, द्वयोस् तयोः सम्मत्यैवोपयमस्य सिद्ध्या तस्य दुष्करत्वम् अभिप्रेतम् । विजय इति वक्ष्यमाण-रक्षि-यादव-सैन्य-जय-पूर्वक-श्री-सुभ्दरा-हरणस्य किं वा तद्-विवाहेन तद्-उत्कर्ष-लाभस्याभिप्रायेण । ननु, किं तव तद्-विविदिषया ? तत्राह—येति । यस्याः सम्बन्धेन मम भगवदीयत्व-विशेषः सम्पन्न इति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथोपसंहार-मुद्राम् आलक्ष्य श्री-परिक्षित् तु भीत एव पुनस् ताम् अवतारयितुं पृच्छति-तत्रापि श्री-भगवता निज-देह-सम्बन्धे मुख्य-कारण-रूपायाः स्व-पितामह्या मूल-कथा-रूपं विवाहं चिरं प्रष्टुम् इष्टं पृच्छति—ब्रह्मन् इति । यथा येन प्रकारेणोपयेमे तेन प्रकारेण तद् उपयमनं वेदितुम् इच्छामः तत्र राम-कृष्णयोर् इति दुर्लभत्वम् अभिप्रेतम् । विजय इति तत्रैव तस्य सान्वय-सञ्ज्ञत्वं पर्यवसितम् इति भावः । निजोत्कण्ठातिशयेन कारणं येति ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्याध्ययस्य व्याख्यानं नास्ति ॥१॥
———————————————————————————————————————
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
यति-वेशोऽर्जुनोऽहार्षीत् सुभद्रां मिथिलाम् अगात् ।
धिन्वन् विप्र-नृपौ भक्तौ षडशीतितमे हरिः ॥
अथ कथोपसंहार-मुद्राम् आलक्ष्य ननु, भोः प्रभो ! बलदेवादीनाम् अनिरुद्ध-पर्यन्तानां विवाहाः श्रुता एव, किन्तु सुभद्रा-विवाहो न श्रुत इत्य् आह—ब्रह्मन्न् इति । विजयोऽर्जुनः तद्-विवाहो ममत्व-वश्य प्रष्टव्य इत्य् आह—येति ॥१॥
जगदानन्दः- अत्रत्योपाख्यानस्य मूलम् श्री-महा-भारते आदि-पर्वणि अर्जुन-वन-वास-सुभद्रा-हरण-पर्वयोर् अन्यथा लभ्यते । आख्यायिकाया विस्तृतार्थ-जिज्ञासुना तत्र द्रष्टव्यम् । सुभद्राया रोहिणी-तनयात्वं, यथा हरि-वंशे—
चित्रां नाम कुमारीं च रोहिणी-तनया दश । > चित्रा सुभद्रेति पुनर् विख्याता कुरुनन्दन ॥[ह।व १.३६.६]
तस्या सारणस्य सहोदरत्वं च, यथा—ममैषा भगिनी पार्थ सारणस्य सहोदरा [म।भा। १.१२८.१७] इति । सारणस्य रोहिणी-तनयत्वं, यथा भागवते,
बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् । > वसुदेवस् तु रोहिण्यां कृतादीन् उदपादयत् ॥ [भा।पु। ९.२४.४६]
यद्यप्य् अत्र कृष्णस्य भगिनीत्वेऽपि सहोदरात्वं निरस्तम्, श्री-मद्-भागवत-मते सुभद्राया देवकी-तनयत्वम् । यथा—
अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल । > सुभद्रा च महाभागा तव राजन् पितामही ॥ [भा।पु। ९.२४.५५]
श्री-वैष्णव-तोषणी—कृतां मते च अथ काल उपावृत्ते [भा।पु। ६.१४.३२] इति टीकायां कन्यां सुभद्राम् इति लिखितम् ।
ननु, सुभद्राया एकानंशात्वम् किम् ? अत्रपि मम मानसं सन्देह-पङ्के पनीपातीति । वसुदेवानीता यशोदा-प्रसूता योगमाया आकाशे उड्डीय कंसं प्रति घोरं वाक्यम् उक्त्वा एकांशेन देवालयं गता, अन्येन वसुदेव-गृहे बालिका-रूपेण स्थित्वा ववृधे । यथा तत्र हरि-वंशे—
एवम् उक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना । > खं सा देवालयं देवी स-गणा विचचार ह ॥ > सा कन्या ववृधे तत्र वृष्णि-सङ्घ-सुपूजिता । > पुत्रवत् पाल्यमाना सा वसुदेवाज्ञया तदा ॥ > विद्धि चैनाम् अथोत्पन्नाम् अंशाद् देवीं प्रजापतेः । > एकानंशां योग-कन्यां रक्षार्थं केशवस्य तु ॥ > तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः । > देववद् दिव्य-वपुषा कृष्णः संरक्षितो यया ॥[ह।व। २.४.४५-४८]
न त्व् अत्र तस्या एकानंशाया योगमायाया रोहिणी-तनयात्वं प्रमानीकृतम्, न तु तस्या देवकी-प्रसूतत्वम् ॥१॥
॥ १०.८६.२ ॥
श्री-शुक उवाच—
अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः ।
गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थ-यात्राय ब्राह्मण-धन-रिरक्षया स युधिष्ठिर-द्रौपदी-गृहान्तर्गत-धनुर् ग्रहणार्थ-तद्-गत-प्रतिज्ञा-तद्वादश-वार्षिक-**तीर्थ-**यात्रायाम् इति स्फुटं रमहाभारते । सो\ऽर्जुनः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रभुर् इति श्री-कृष्ण-सख्येन विशेषतश् च श्री-सुभद्रा-पतित्वेन परमादरात् । यद् वा, पर्यटनादौ समर्थ इति । तत्रैव विशुद्ध-कर्म-कारित्वाद् अर्जुन इति । आत्मनो मातुलेयीम् इति तत्-परिणयन-योग्यता सूचिता । तदानीं लोके तद्-व्यवहार-वृत्तेः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्जुन इति सार्धकम् । दुर्योधनाय राम एव तां दास्यति दातुम् इच्छति न चापर इत्य् अनेन प्रकारेण मातुलोयीमश्राणोदित्य् अन्वयात् प्रभुर् इति । श्री-कृष्ण-सख्येन विशेषतश् च श्री-सुभद्रा-पतित्वेन परमादरात् आत्मनो मातुलेयीत्वेन तत्-परिणयने श्रेष्ठता सूचिता । दक्षिण-देशवत् तदानीम् अन्यत्रापि तद्वद् व्यवहार-वृत्तेः ॥२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां प्रसिद्धां मातुलेयीं रामो दुर्योधनाय दास्यतीत्य् अशृणोद् इत्य् अन्वयः । न चापरे वसुदेव-कृष्णादयस् तु न दित्सन्तीत्य् अर्थः ॥२॥
॥ १०.८६.३-४ ॥
दुर्योधनाय रामस् तां दास्यतीति न चापरे ।
तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् ॥**
तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थ-साधकः ।
पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता** च सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् अशृणोत् ? दुर्योधनायेति । अपरे वसुदेवादयो न दास्यन्तीति । तल्-लि175प्सुस् तस्या मातुलेय्या लिप्सुः । रामं वञ्चयितुं पूज्यतमं त्रि-दण्डि-वेशं विधाय गत इत्य् आह स यतिर् इति ॥३॥ स्वार्थ-साधकः कन्यां प्रेप्सुः ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिप्सुर् इच्छावान् । त्रिदण्डीति एक-दण्ड-धारणं तु परम-हंसस्यैव न तु हंसादेस् तेषां त्रि-दण्ड-विधानं ग्रन्थान्तरे प्रतिपादितम् । अत्र भारत-विरोधः त्रिषु लोकेषु दण्डो यस्य स त्रि-दण्डो जिष्णुर् विष्णुर् वा पुत्रत्वेन पालकत्वेन च यस्य विद्यते स त्रिदण्डी यतिः । कन्या-हरणे यत्नवान्-भैक्ष्यं प्रार्थनया दत्तं बुभुजे भिक्ष-याञ्चायाम् इत्य् एव परिहार्यः ॥३॥ तत्र द्वारकायाम् । सो\ऽर्जुनः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम इति गदा-युद्ध-शिक्षणादिना दुर्योधन-रमणाभिप्रायेण । स विजयो यतिर् भूत्वेति श्री-सुभद्रां द्रष्टुं तेन च तस्या भावं स्वस्मिन् जनयितुं तद्-आवासे श्री-रामस्य गेहे तद्-अलक्ष्यत्वेन प्रवेशार्थम् ॥३॥
वै च । तत्र तस्याम् एवावात्सीत् । यतीनां चातुर्मास्यम् एकत्रैव वासात् । अजानतेति श्री-कृष्णेच्छयैवेति ज्ञेयम् । अन्यथा सर्वज्ञस्य तद्-असम्भवात् ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राम इति । श्री-कृष्ण-क्रीडा-कौतुकार्थम् एव तस्य तादृश-चेष्टावेशो\ऽपि भवतीति पूर्ववद् अभिप्रायः । तद् इत्य् अर्धकम् । तल्-लिप्सुर् इति सम्बन्ध-विवक्षया षष्ठी-समासः तां लिप्सुर् इत्य् अर्थः । यतिर् भूत्वेति भिक्षा-व्याजेनान्तः-पुर-प्रवेशाय । अन्यत् तैः । तत्र पूज्यतमम् इति त्रि-दण्डित्वम् एव स्व-मतत्वेन स्थापितम् ॥३॥ अजानतेति । श्री-कृष्ण-लीलासक्ति-मोहितत्वेनैवेति भावः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अजानतेति श्री-कृष्ण-लीला-मोहितत्वेनवेति भावः ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां लिप्सुः स स्व-प्रिय-सख-कृष्ण-साहाय्य-साहसेन रामं वञ्चयितुं पूज्यतमं त्रि-दण्डि-वेशं अकरोद् इत्य् आह—यतिर् इति ॥३-४॥
॥ १०.८६.५ ॥
एक176दा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् ।
श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् आतिथ्येन निमन्त्र्य गृहम् आनीय बलेन यच् छ्रद्धयोपहृतं परिविष्टं तद् भैक्ष्यं किलार्जुनो बुभुजे इत्य् अन्वयः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्ध्य् अभाव आर्षः । बलेन रामेण ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदा चातुर्मास्यान्ते । अन्तस् तन्-निर्गम-शङ्कया निमन्त्र्यानीय । किल प्रसिद्धौ ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा चतुर्मास्यान्ते तन्-निर्गम-शङ्कया निमन्त्र्यानीय किल प्रसिद्धौ ॥५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकदा चातुर्मास्यान्ते तं निमन्त्र्यानीय बल-देवेनोपहृतं भैक्ष्यं स बुभुजे इत्य् अन्वयः ॥५॥
॥ १०.८६.६ ॥
सोऽपश्यत् तत्र महतीं कन्यां वीर177-मनो-हराम् ।
प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भावेन रत्य्-अभिप्रायेण क्षुभितं मनो दधे ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स त्रिदण्डवेष्य् अर्जुनः । तत्र गृहे । तस्यां कन्यायाम् । क्षुभितं सञ्चलितम् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महतीं प्रौढाम् । धीराणाम् अपि । वीरेति पाठे कामादि-जय-समर्थानाम् अपि मनोहराम् । दधे निदधे ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महतीं प्रौढां धीरेति वीरेति च पाठे कामादि-जय-समर्थस्यार्जुनस्यापि । **मनो-**हरां दधे निदधे ॥६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीरेति धीरेति च पाठे तादृशस्याप्य् अर्जुनस्य मनो-हरन्ती ॥६॥
॥ १०.८६.७ ॥
सापि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम् ।
हसन्ती व्रीडितापाङ्गी तन्-न्यस्त-हृदयेक्षणा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रीडितापाङ्गी स-व्रीड-कटाक्षा । तस्मिन्न् एव न्यस्तं हृदयम् ईक्षणं च यया सा ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सापि कन्यापि । तं त्रि-दण्डिनम् । चकमे कामयामास ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य परोक्षे लोक-द्वारा श्रुतं साक्षद् दृष्ट्वा, चकमे तं प्रति जात-कामाभूत् । पतित्वेनैच्छद् इति वा । कामस्य लक्षणान्य् आह—हसन्तीत्य् आदि-विशेषण-त्रयेण । यद् वा, यतिनोऽपि स्वस्मिन् भाव-क्षुब्धं मनः संलक्ष्य कपट-वेशं बुद्ध्वा तं चार्जुनम् अभिज्ञाय प्रहर्षेण कामेनैव वा हसन्ती ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यासाम् अपि नारीणां मनो-हरं किं पुनः स्वस्य तं वीक्ष्य विशेषेण दृष्ट्वा नायं यतिः किन्तु को\ऽपि मम पतित्वार्ह इति वैदग्ध्या प्राचीन-संस्कारेण चानुभूय तन्-न्यस्ता-हृदयेक्षणा सती चकमे । तत्र भावेन हर्षेण निर्मणा च हसन्ती स्मित-विकसितनेत्र-गण्डा जाता कुलवती स्वभावेन व्रीडितापाङ्गा च जात इत्य् अर्थः ॥७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं नारीणां हृदयङ्गमं वीक्ष्य तादृश-लक्षणैर् निश्चित्य नायं यतिः, किन्तु मम प्रेयान् एवेति स्वमन एव प्रमाणीकृत्य चकमे ॥७॥
॥ १०.८६.८ ॥
तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः ।
न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तरं हर्तुम् अवसरं प्रेप्सुः प्राप्तुम् इच्छुः । कामेन भ्रमच्-चित्तं यस्य सः । शं रामादि-सन्-मान-निमित्तं सुखम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कन्याम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परं केवलं ताम् एव सम्यग् अन्याशेष-त्यागेन अनु निरन्तरं ध्यायन् कथं कदा लभेयेति । किं वा तत् सौन्दर्यादिकं भावयन् । परम् उत्तमम् अम्भरम् इति वान्वयः । अर्जुनो विशुद्ध-कर्मापीति भावः । अन्यत् तैर् व्याख्यातम् ।
तत्र रामादि-पौर-जनैर् यः सम्मानः, स एव निमित्तं कारणं यस्य तथाभूतम् अपि । सुखम् इति, अन्यथा शं शान्ति-लक्षण-सुखम् । तत्र हेतुः—भ्रमद् इति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति । तैर्व्याख्यां । तत्र रामादि-पौरजनैर् यः सम्मानः स एव निमित्तं कारणं यस्य तथा-भूतम् अपि सुखं न लेभे सुखत्वेन न मेन इत्य् अर्थः अथवा शं शान्ति-लक्षणं सुखं तत्र हेतुर्धमाद् इति ॥८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तरं हर्तुम् अवसरं शं सुखम् ॥८॥
॥ १०.८६.९ ॥
महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गताम् ।
जहारानुम**178तः पित्रोः कृष्णस्य च महा-रथः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पित्रो**-**देवकी-वसुदेवयोः । अनुमतो\ऽङ्गी-कृतः । श्री-कृष्णेनैकान्ते सुभद्राम् इच्छसि चेत्-तर्हि **देव-**यात्रागतां गृहीत्वा गच्छानुमतं चैतन्-मम पित्रोश् च विना रामम् इति स्पष्टं भारते ॥९-१०।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महत्याम् इति देवोत्थान-महोत्सवाद् दुर्गतो निर्गताम् इति सुख-हार्यत्वम् उक्तम् । ननु तथापि तादृशं साहसं कथम् उपपद्यते ? तत्राह—अनुमत इति । तद्-यात्रायां तेन प्रकारेण हरणाद्य्-अर्थं निभृतम् अनुज्ञातोऽनुमोदितो वा, श्री-वसुदेव-देवकीभ्यां श्री-कृष्णेन च । ननु, तथापि यदु-कुल-मध्यतः कथं सम्भवेत् ? तत्राह—महारथः । भगवच्-छ्री-नरावतारत्वात् । तत्रापि श्री-भगवत्-पैतृष्वसेयत्वात् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महत्याम् इति युग्मकम् । देव-यात्रायां देवोत्थान-लक्षणायां पित्रोः पितृभ्यां श्री-वसुदेव-देवकीभ्यां चातुर्याञ् छ्री-कृष्णेनैव—नुमिताभ्याम् इति ज्ञेयम् । पश्चात् कृष्णस्य श्री-कृष्णेन चानुमतः अत एव रथ-स्थां तस्मै स्व**-रथ**-सामग्री दातुं श्री-भगवतैव स्व-रथम् आरोपिताम् इत्य् अर्थः । तच्-चादि-पर्वणि ज्ञेयम् ।
ननु तथापि यदुकुल-मध्यतस् तत् दुष्करम्। **महा-**रथो वीरश्रेष्ठः श्री-भगवत्-प्रिय-सखत्वात् ॥९-१०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-यात्रायां देवोत्थानोत्सव-विहित-रथयात्रायां जहारेत्य् अत्र हेतुः । पित्रोः कृष्णस्य च अनुमतः प्राप्तानुमतिः ॥९॥
॥ १०.८६.१० ॥
रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् ।
विद्राव्य क्रोश**179तां स्वानां स्व-भागं मृग-राड् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आसमन्ताद् रुन्धत आवरणं कुर्वतः ॥१०॥
———————————————————————————————————————
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा),
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रथस्थो धनुर् आदायेति तद्-अनुमत्या प्रभासे निह्नुतस्य स्वरथादेर् एवानयनात् । शूरान् रथाद्य्-आरूढान् यदु-वीरान् भटांश् च पदातीन् विद्राव्य भङ्गं प्रापय्य स्वानां बन्धूनां क्रोशताम् उच्चैर् आर्त-नादं कुर्वताम् । अनादरे षष्ठी । यद् वा, क्रोशत्स्व् अपि स्वत्स्व् इत्य् अर्थः । इति तस्य निर्भयत्वं सूचितम् । तत्रैव दृष्टान्तः—स्वभागम् इति । मृगाणां मध्याद् यथा सिंहः स्वभोग्यं हरति, तद्वद् इत्य् अर्थः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रोशताम् इत्य् अनादरे षष्ठी ॥१०॥
॥ १०.८६.११-१२180 ॥
तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।
गृहीत-पादः कृष्णेन सुहृद्भिश् चा**181नुसान्त्वितः ॥
प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः ।
महा-धनोपस्क**182रेभ-रथाश्व-नर-योषितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिबर्हाणि वर-वध्वोः प्रीति-देयानि ॥११-१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-सुभद्रा-हरणम् । पर्वणि पूर्णिमायाम् ॥११-१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् क्रोशनं हरणं वा, रामः सर्व-लोक-रमणोऽपि भगवान् क्षुभितः क्रोधोद्रेकेण त्यक्त-धैर्यः सन्, अक्षोभस्यापि कदाचित् क्षोभे दृष्टान्तः—पर्वणीवेति । अनेन क्षोभस्याधियम् अपि ध्वनितम् । सुहृद्भिः श्री-वसुदेवादिभिर् अनुसान्त्वितः प्रियोक्त्यानुनीय प्रबोधितश् च सन्, प्राहिणोद् इति परेणान्वयः । पाठान्तरे सुहृद्भिः श्री-गदादिभिश् च गृहीत-पादः सन्न् अनुक्रमेणाशाम्यत् । बल इति तत्-तत्-प्रस्थापने महा-समर्थ इति । किं वा बुद्धि-बलेनाधिक इति । सुहृदां श्री-कृष्णस्य चानुमत्यैव तेन सा हृतेत्य् अबुध्यतेति भावः । अत एव मुदा प्राहिणोत् । पारिबर्हाण्य् एवाह—महेति । **महा-**धना महा-मूल्या या उपस्करादयस् ताः । तत्रोपस्करा विचित्र-वस्त्रालङ्कार-पर्यङ्कादयः, नराः पदात्य्-आदयः । योषितो दास्यादयः । यद् वा, महा-धनानि स्वर्ण-रत्नादय उपस्करादयश् च ताः । महा-धनादीनां यथोत्तरं निकृष्टत्वं बाहुल्यं वा ज्ञेयम् ॥११-१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुसान्त्वितः प्रियोक्त्यानुनीय प्रोबधितः । अन्व् अशाम्यतेति पाठो\ऽपि स एवार्थः ॥११॥
अत एव बलो बलेनाधिक्यात्-तन्-नामापि मुदा पारिबर्हाणि प्राहिणोद् इति सुहृदां श्री-कृष्णस्य चनुमत्यैव तेन सा हृतेति बुद्ध्वेति भावः । पारिबर्हण्येव् आह—महेति । **महा-**धना **महा-महा-**मूलाः याः उपस्कारादयस् ताः तत्रोपस्कारा विचित्रालङ्कार-पर्यङ्कादयः ॥१२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिबर्हाणि प्रीति-देयानि ॥११-१२॥
॥ १०.८६.१३ ॥
श्री-शु183क उवाच—
कृष्ण184स्यासीद् द्विज-श्रेष्ठः श्रुतद् एव इति श्रुतः ।
कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पटः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यम् एवैष वृणुते तेन लभ्यः इति श्रुत्य् अर्थं व्यक्ती-कुर्वन्न् इति-हासम् आह—पूर्णार्थः भक्तिम् अन्तरेणान्यम् अर्थम् अनाकाङ्क्षमाणः । कृष्ण-लीला-प्रबन्ध-कर्तृत्वात्कविः । शब्दादि-विषयेच्छा-रहितत्वाद् अलम्पटः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सख्यावर्जुने श्री-भगवतो\ऽनुग्रहमुक्त्वा प्रसङ्गाद्-भुक्तवरयोर् अन्ययोर् अपि तम् आह—कृष्णस्येति । श्री-शुकदेवस्योक्तौ प्रकृतायाम् अपि श्री-शुक उवाचेति पुनरुक्तिः प्रसङ्गान्तरापेक्षया । एवम् अन्यत्रापि ज्ञेयम् । श्रुतेन शास्त्रेण दीव्यति द्योतत इति श्रुतद् एवाख्यया विख्यातः द्विजेषु विप्रेषु श्रेष्ठः, यतः कृष्णस्य एवैकस्मिन् किं वा, एका विशुद्धा या भक्तिस्तया पूर्णाः समाप्ता अर्थाः सर्वे धर्मादयो यस्य सः, शान्तः श्री-भगवद् एक-निष्ठ-चित्तः शमो मनिष्ठता बुद्धेः [भा।पु।११.१९.३६] इति भगवद् उक्तेः । कविः सर्वज्ञः, अलम्पटश् च विषयानासक्तः । विशेषणानाम् एषां यथोत्तरं हेतु हेतुमद्-भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ स्वयम् एव स्मृतिपथम् आगतं साक्षाद्-भक्तानुग्रह-मयत्वेन स्व-सहयोगेन चातिचित्ताकर्षकं तच्-चरित-विशेषम् अपृष्टम् अय्याहेत्य् आह—श्री-शुक उवाचेति । पुनर् उक्तिः प्रसङ्गान्तरापेक्षया कृष्णस्येति—कृष्णस्वामिको द्विज-श्रेष्ठ इत्य् अर्थः । कृष्ण एवैकस्मिन् किं वा, एका विशुद्धा या भक्तिस् तया परिपूर्णा अनादृता अपि सर्वतः सर्वांशेन वर्तमाना अर्था धर्मादयो यस्य सः स्वयं तु शान्तः श्री-भगवन्-निष्ठ-चित्तः यतः कविः सर्व-तत्त्वज्ञः अलम्पटश् च विषयानासक्तः ॥१३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ स्वयम् एव स्मृति-पथ-मागतं तच्-चरित-विशेषं स्वसाक्षात् दृष्टम् अपृष्टम् अप्य् आह—कृष्यस्येति । कृष्ण-स्वामिक इत्य् अर्थः ॥१३॥
———————————————————————————————————————
बलदेव-विद्यभूषणः : अथ स्वयम् एव स्मृति-पथम् आगतं तच्-चरित-विशेषं स्व-साक्षाद् दृष्टम् अपृष्टम् अप्य् आह—कृष्णस्येति । कृष्ण-स्वामिक इत्य् अर्थः ॥१३॥
॥ १०.८६.१४ ॥
स उवास विदेहेषु मिथिलायां गृहाश्रमी ।
अनीहयागताहार्य-निर्वर्तित-निज-क्रियः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनीहयानुद्यमेनैवागतं यद् आहार्यं भोज्यं तेन निर्वर्तिता निजाः क्रिया येन सः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मिथिलायां नगर्याम् । आहर्यम् इत्य् उपलक्षणं वस्त्रादेः निवर्तिताः सम्पादिताः क्रिया भोजनाच्छादनादि-रूपा नित्य-नैमित्तिका वा ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विदेहेषु देशेषु मिथिलायां पुर्याम्, क्रिया देवपूजादिलक्षणा ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विदेहेषु देशेषु मिथिलायां पुर्यां क्रिया देव-पुजादि-लक्षणा । श्री-भगवत्-पूजा-लक्षणा यदयाचितं लभ्यते तद् अपि स्वनाम्नैव यादवार्थम् एव च प्रति-गृह्णाति न तु भगवन्-नाम्ना नाप्यधिकम् इत्य् उत्तरार्धार्थः ॥१४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदेहेषु देशेषु मिथिलायां पुर्याम् अनीहया अनुद्यमेनैव आगतं यदाहार्यं भोज्यं तेनैव निवर्तिता निजा क्रिया भगवत्-परिचर्यापि येन सः ॥१४॥
बलदेव-विद्यभूषणः : विदेहेषु देशेषु मिथिलायां पूर्याम् अनीहया अनुद्यमेनैवागतं यद् आहार्यं भोज्यं तेनैव निर्वर्तिता निजा क्रिया भगवत्-परिचर्यापि येन सः ॥१४॥
॥ १०.८६.१५ ॥
यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत ।
नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यात्रा-मात्रं शरीरादि-निर्वह-मात्रं भोज्यम् उपनमति तं प्रत्य् आगच्छति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावता देवागत-मात्रेण । उचिता अतिथि सत्-कारादि-रूपाः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्प्रकारम् एवोक्तपोषण्यायेन विशदयति-यात्रेति । तु एव, **यात्रा-**मात्रम् एव, दैवात् प्रारब्धवशात्, अनायासेनैव इत्य् अर्थः । उत एव, उपनमत्य् एव, न तु कदाचिन्नोपतिष्ठतीत्यर्थः । अन्यथा श्री-भगवद्भोगाद्यसिद्ध्या दुःखोदयात् । तावतैव तुष्टः सन् यथोचिता भगवद्भक्त्यनुरूपा इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवद् आनुकूल्यम् अप्य् अस्तीत्य् आह—यात्रेति । तु एव यात्रा-मात्रम् एव दैवाद् ईश्वराद्धेतोः योगक्षेमं वहाम्य् अहम् [गी। ९.२२] इति तद्-गीतातः उत बडम् उपनमत्य् एव न तु कदाचिन्नोपतिष्ठतीत्य् अर्थः । तावतैव तुष्टः सन् यथोचिता भगवद्-भक्त्य् अनुरूपा इत्य् अर्थः ॥१५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् आहार्यं दैवाद्-भगवद् इच्छावशात् यात्रा-मात्रं सपरिकर-स्वशरीर-निर्वाहो यावता भवति तावन्-मात्रम् एवाहर् अहर् उपनमति मिलति न त्वधिकम् ॥१५॥
बलदेव-विद्यभूषणः : तद् अप्य् आहार्यं दैवाद् भगवद्-इच्छा-वशाद् यात्रा-मात्रं सपरिकर-स्व-शरीर-निर्वाहो यावता भवति तावन् मात्रम् एवाहर् अहर् उपनमति मिलति न त्व् अधिकम् ॥१५॥
॥ १०.८६.१६ ॥
तथा तद्-राष्ट्र-पालोऽङ्ग बहुलाश्व इति श्रुतः ।
मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथिलस्य जनकस्य वंश्यो मैथिलः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा श्रुतदेवस् तत्-परायणस् तथा **तद्-**राष्ट्र-पालो मिथिला-प्रान्त-देशापतिः । उभौ श्रुत-देव-बहुलाश्वौ ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-**राष्ट्रस्य पालो राजापि, तथा तादृश एव, श्री-कृष्ण-भक्त्यादिना श्रुतदेव-सदृश इत्य् अर्थः । अतो **निरहम्-**ममानो राजत्वाभिमान-शून्यः । यद् वा, पाल-शब्देन प्रजा-पालनादि-स्व-धर्म-परत्वमपी सूचितम् । तथापि निरहम्-ममानोऽगर्वः
अतः सहर्षं सम्बोधयति-अङ्ग! हे राजन्न् इति । अत एवोभावपि ताव-विशेषेणाच्युतस्य सर्वैश्वर्य-परिपूर्णस्य श्री-कृष्णस्य प्रियौ । यद् वा, अच्युतः स्वचित्ततो विच्युति-रहितो भगवान् एव प्रियो ययोस् तौ, अयं तु तयोस् तथा-भूतत्वे हेतु-ज्ञेयः । अतो भक्ति-विशेष-विजृम्भित-दैन्यभरेण श्री-भगवद्-दर्शने निजायोग्यतां मन्यमानौ तद् अर्थम् अपि श्री-द्वारकां किल न प्रयाताव् इति ज्ञेयम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेति । **तद्-**राष्ट्रस्य पालो राजापि तादृश एव श्री-कृष्ण-भक्त्यादिना श्रुत-देव-सदृश इत्य् अर्थः । अतो **निरहम्-**मानः राजा त्वद्-भक्तत्वाभिमान-शून्यः अत एवोभावपि अविशेषेण अच्युतस्य भक्तानुग्रहादि-गुणेभ्यश् च्युति-रहितत्वेन तन्-नान्मस् तस्य प्रियौ ॥१६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिथलस्य जनकस्य वंश्यो मैथिलः मिथिलायाम् ईश्वर इति वा निरहम्मानः राजत्वाभिमानशून्यः ॥१६॥
बलदेव-विद्यभूषणः : मिथिलस्य जनकस्य वंश्यो मैथिलः मिथिलायां ईश्वर इति वा । निरहन् मानः राजत्वाभिमान-शून्यः ॥१६॥
॥ १०.८६.१७-१९ ॥
तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।
आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः ॥**
नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।
अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः ॥**
तत्र तत्र तम् आयान्तं पौरा जानपदा नृ185प ।
उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभुर् एव स्वयं विदेहान् देशान् प्रययौ । कृष्णो व्यासः । रामो भार्गवः । अहं शुकः । एवम् आदिभिः सह ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोश् श्रुतदेव-बहुलाश्वयोः । भक्त्य् एति शेषः ॥१७॥
मुनीन्-नामतो निर्दिशति नारद इत्य्-आदि । कृष्णो व्यासः । रामो जाम-दग्न्यः । अहं शुकः । आदिना भृग्व्-आदयः ॥१८॥
तत्र तत्र पुरादौ । तं श्री-कृष्णम्। सूर्योदय-समये ग्रहाणाम् अपि किञ्चित्-प्रतीतिरस्तीति तेन प्रभु-समीपे\ऽपि ते पूज्या एवेत्य् उक्तम् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्रसन्नः सन्, यतो भगवान् तयोर् भावाद्य् अशेषज्ञः परम-भक्त-वात्सल्यादि-गुणनिधिर् वा, रथं स्वयम् आरुह्य, मुनिभिः प्रायो द्वारकायां निवसद्भिः, किं वा, स्व-भक्तयोस् तयोः सन्तोष-विशेषार्थं श्री-भगवत्-स्मृति-मात्रेण सद्यः समागतैः सहितः, अत एव प्रकर्षेण ययौ, दारुकेण श्री-भगवद्-भावाभिज्ञेनाहृतम् इति तद् एक-भृत्यत्वं शीघ्र-गमनादिकं च सूचयति । यद् वा, व्योम-मार्ग-गामिभिर् मुनिभिः साहित्येन प्रभोर् अपि तादृश-गमनम् आशङ्क्य स्व-सेवा-सौभाग्यस्य प्रभु-शोभा-विशेषस्य च सम्पत्तये समानीतवम् । मुनिभिः सहारुह्य ॥१७॥
मुनीनेव नामभिर् निर्दिशति-नारद इति । आदि-शब्दाद्-भरद्वाज-गौतमादयः । अन्यत् तैर् व्याख्यातम् ।
तत्र चैवमादिभिः सहेति मुनिभिर् इति प्राक् तृतीयान्ततया निर्दिष्टैः सह योजनार्थं किं वा, केनचित् कल्पितम् इति ॥१८॥
तं श्री-भगवन्तमायान्तम् इति वर्तमानतया सद्योऽग्रेभिगमनादिकं बोधयति । हे नृपेति प्रहर्षात् । पाठान्तरे तत्-तद्-देशन्-ऋपतयश् च । ग्रहैः सहितम् इत्य् अभूतोपमा, सूर्योदये ग्रहाणाम् अदृश्यत्वात्, तथापि महा-तेजस्विनां मुनीनां श्री-भगवत्-सान्निध्यात्-तेजोहानिः सूचत एव ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव तयोः प्रसन्न इति युग्मकम् । मुनिभिः सहारुह्य तैर् एव सह गमनं तयोस्-तादृश-रुचित्वात् ॥१७॥
मुनीन् एव नामभिः निर्दिशति—नारद इति ॥१८॥
हे नृपेति । प्रहर्षात् तथापि महा-तेजस्विनां मुनीना भगवत्-सान्निध्यात्-तेजोहानिः सूच्यत एव ॥१९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोः-**प्रसन्न इति । तौ स्वेष्ट-देवश्री-विग्रह-परिचर्यानुरोधवशाद् एवागन्तुम् असमर्था वा लक्ष्यातिदि-दृक्षुभ्यां ताभ्यां स्वयम् एव दर्शनं दातुं प्रययौ । मुनिभिः सहैवारुह्य् एत्य् अन्यथा तेषां श्रमम् आलक्ष्य बलादेव मुनयः स्व-रथम् आरोहिता इति भावः । कृष्णो व्यासः रामो भार्गवः अहं शुकः ॥१७-१९॥
बलदेव-विद्यभूषणः : तयोः प्रसन्न इति । तौ स्वेष्ट-देव-श्री-विग्रह-परिचर्यानुरोध-वशाद् एवागन्तुम् असमर्थावालक्ष्यातिदि-दृक्षुभ्यां ताभ्यां स्वयम् एव दर्शनं दातुं प्रययौ मुनिभिः सहैवारुह्येतान्यथा तेषां श्रमम् आलक्ष्य बलाद् एव मुनयः स्व**-रथम्** आरोहिता इति भावः । कृष्णो व्यासो रामो भार्गवः अहं शुकः ॥१७-१९॥
॥ १०.८६.२० ॥
आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य-
पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः ।
अन्ये च तन्-मुख-सरोजम् उदार-हास-
स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आनर्ताद्य्-अर्णान्तास् तद्-देश-वर्तिनो नृ-नार्यः । उदार-हासं स्निग्धम् ईक्षणं यस्मिंस् तत् । दृशिभिर् नेत्रैः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : *तद्-देश-वर्ति-*नृ-नार्यः, तेष्व् आनर्ताद्य्-अर्णान्तेषु देशेषु वर्तिन्यो नृ-नार्यो नर-सहिता नार्यः तात्स्थ्यात् तच्-छब्द्यम् इति न्यायेन वानर्ताद्या विद्यन्ते यासां निवासत्वेन तास् तथा । अन्ये उक्त-देशेभ्यो\ऽन्य-देशस्थाश् च ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आनर्तादयः श्री-द्वारकातो विदेह-देश-प्रयाणे पथि क्रमेण देशाः, अन्ये च कौशलाद्य् अग्रे पथि वर्तमाना आनर्ताद्य् अन्तर्गताश् च देशाः । पपुर् इति दृशां तद्-दर्शन-रस-लाम्पट्येन मधुपत्वं ध्वनितम् । परमासक्त्या [परमया भक्त्या] ददृशुर् इत्य् अर्थः । तत्-तद्-देशैर् बोधितांस् तत्रत्यान् एव जनान् निर्दिशति—नृ-नार्य इति । हे नृप ! इति श्री-बादरायणेर् भाव-विशेषेण तद्-दर्शनामृत-पानौत्सुक्यात् । किं वा, तद् असिद्ध्यानुतापात् । अन्यत् तैर् व्याख्यातम् ।
तत्रानर्ताद्य्-अर्णान्ता देशाः, नृ-नार्यश् च तत्-तद्-देश-वर्तिन्य इति लेख्ये सङ्क्षेपार्थम् आनर्ताद्य्-अर्णान्ता इत्य् अस्यैव व्याख्या तत्-तद्-देश-वर्तिन्य इति, स्त्रीत्वं चान्ते निर्दिष्टम्, नारीणां विशेषणात्। तथा स्निग्धं चेति लेख्ये च-कार-पातो लेखक-भ्रमाद् इति । अथवा आनर्ताद्या नृ-नार्यः, अन्ये तद्-देशीयाः पश्व्-आदयो\ऽपि । उदार-हासं च तत्-स्निग्धेक्षणं चेति तथा तत् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनर्तादि-देशीयाः अन्ये अन्य-देशीयाश् च जनाः पपुः परमासक्त्या ददृशुर् इत्य् अर्थः । ते के ? तत्राह—नृ-नार्य इति, सर्व एव इत्य् अर्थः । आनर्तादयः श्री-द्वारकातो विदेह-प्रयाणे क्रमेण देशाः केचित् पार्श्वस्थाश् च अत्युत्कण्ठया दूरतो\ऽपि मिलनात्, केषाञ्चिच् च कृपार्थम् एव क्रमेण यथा भ्रमणात्, तद्-आनन्दनार्थम् एव हि अगाच् छनकैर् विदेहान् [१०.८६.२१] इति वक्ष्यते । अत्रापि मधु-देश-स्थानां श्री-व्रज-वासिनां मिलनावर्णनं पूर्ववत् तेषाम् अप्रकट-लीला-प्रवेशेनेति ज्ञेयम् ॥२०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आनर्तादि-देशीयाः मार्ग-सन्निकृष्टा एव, अन्ये मार्ग-विप्रकृष्टा अपि जनास् तत्र तत्रागत्य दृशिभिर् नेत्रैर् मुख-सरोजं पपुस् तन्-माधुर्यम् आस्वादयामासुः ॥२०॥
॥ १०.८६.२१ ॥
ते186भ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः
क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् ।
शृण्वन् दिग्-अन्त-धवलं स्व-यशोऽशुभ-घ्नं
गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-वीक्षणेनैव विनष्ट-तमिस्रा दृग् येषां तेभ्यः । क्षेमम् अभयम् अर्थ-दृशं तत्त्व-ज्ञानं च ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विनष्ट-तमिस्रा निरस्ताज्ञाना दृग्-बुद्धिर् येषां तेभ्यः । अभयं सांसारिक-भयाभावं तद्-धेतु-भूतं तत्त्वज्ञानम् अपरोक्ष-ज्ञानं च । तेभ्य आनर्तादि-वासिभ्यः । **दिग्-**अन्तान् धवलयति शोधयतीति तथा । सर्वत्र व्याप्तम् । अशुभ-घ्नं महा-पातक-नाशकम्। विदेहान् मिथिला-देशान् ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेभ्य इति । पुमान् स्त्रिया इत्य् एक-शेषत्वात् नृभ्यो नारीभ्यश् च इत्य् अर्थः । तमिस्रं नेत्र-रोग-विशेषः । किं वा, श्री-कृष्ण-दर्शनेन वैयर्थ्यादान्ध्यम्, क्षेमं संसार-भयाभावं तद् अर्थम् एवार्थ**-दृशं** यच्छन् वीक्षण-मात्रेणैव, यतस् त्रिलोकस्य गुरुवरत्वेन वैधाख्यो [वेधाख्यो] । दीक्षा-विशेषः सूचितः । **दिग्-**अन्ताः सर्वदिशो धवला निर्मला यस्मात्तत्, यतो\ऽशुभ-घ्नं सर्वामङ्गल-नाशकम्, अत एवाकाशे सुरैः, भूमौ च नृभिर् गीतं सदा गीयमानम् इत्य् अर्थः । शनकैर् इति तत्-तद्-दानादिना **लोक-**प्रीत्य् अर्थम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स्व-वीक्षणेनैव विशेषतो नष्टं तमिस्रं मोह-लक्षणम् आवरण-रूपं वा तमो यस्याः सा दृक् ज्ञानं येषां तेभ्यः । क्षेमं लोक-द्वय-मङ्गलं तद् अर्थम् अर्थ-दृशं परम-पुरुषार्थ-भक्ति-ज्ञानम् । अन्यत् समानम् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु कथं परब्रह्म-विग्रहं श्री-भगवन्तम् अज्ञानमयैश् चक्षुर्भिर् अपश्यन् कथं वायु-वेग-रथं तम् अन्ववर्तन्त तत्राह—तेभ्य इति । स्व-वीक्षणं स्व-विषयक-कृपा-दृष्टिः पुमान् स्त्रिया इत्य् एक-शेषत्वात् नृभ्यः नारीभ्यश् च इत्य् अर्थः । तमिस्रम् अज्ञानं क्षेमं पुनस् तद्-आपात-शङ्का-निरासम् अर्थ-दृशं तत्-स्वरूप-भूत-परमार्थ-प्रकाशक-चिच्-छक्तिं सा चात्र भक्ति-रूपा ज्ञेया भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इत्य्-आदिभ्यः ततश् चक्षुरुदितया तयैवापश्यन् इत्य् अर्थः । अत एवाह—त्रि-लोक-गुरुर् इति । वैध-दीक्षयैवेति भावः । दिग्-अन्तान् दिशस् तत्रत्यान् धवलयति निर्मलयतीति तथा तत् सुरैर् आकाश-गामिभिः नृभिश् च क्रमशो मिलितैः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कथं पर-ब्रह्म-विग्रहं भगवन्तम् अज्ञान-मयैश् चक्षुभिर् अपश्यन् ? कथं वा वायु-वेग-रथं तम् अनुवर्तन्ते ? तत्राह—तेभ्य इति । स्व-वीक्षणं स्व-कर्तृका कृपादृष्टिः पुमान् स्त्रिया [१.२.६७] इत्य् एक-शेषत्वान्-नृभ्यो नारीभ्यश् च इत्य् अर्थः । **तमिस्र-**मज्ञानं क्षेमं पुनस् तद् आपात-शङ्का-निरासम् अर्थ-दृशं तत्-स्वरूप-भूत-परमार्थ-प्रकाश-चिच्छक्तिं सा चात्र भक्ति-रूपा ज्ञेया भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इत्य्-आदिभ्यः ततश् च तया चक्षुर् उदितयैवापश्यन्न् इत्य् अर्थः । एत एवाह—त्रि-लोक-गुरुर् इति । वैध-दीक्षयैवेति भावः । दिगन्तान् दिशस् तत्रत्यान् धवलयति निर्मलयतीति तथा तत् ॥२१-३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परब्रह्म-विग्रहस्य तस्य माधुर्यास्वादनं कथम्? तेषां प्रति स्व-नेत्रैस् तत्राह—तेभ्यः पुमान् स्त्रिया इत्य् एक-शेषात् नृभ्यो नारीभ्यश् च इत्य् अर्थः । स्व**-**वीक्षणं स्व-कृपावलोकस् तेन विनष्टं तमिस्रम् अज्ञानं यासु तथा-भूता दृशो नेत्राणि येषां तेभ्यः अर्थ-दृशं परमार्थवस्त्व् अनुभवं क्षेमं स्व-भक्ति-योगं च स्व-माधुर्य-विशेष-ग्राहकं यच्छन् भक्त्य् आहम् एकया ग्राह्यः इति तद् उक्तेः ॥२१॥
॥ १०.८६.२२ ॥
तेऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप ।
अभीयुर् मुदितास् त**187स्मै गृहीतार्हण-पाणयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभीयुः प्रत्युज्जग्मुः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते मैथिलाः । तस्मै तं पूजयितुम् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतं सर्व-रूप-गुणादि [सर्व-स्वरूप-गुणादि] । परिपूर्णं भगवन्तम् आकर्ण्यैव मुदिता जानपदाश् च जनास् तस्मै तद् अर्थं गृहीतम् अर्हणम् आदि-पूजोपकरणं यैस्ते पाणयो येषां ते । हे नृपेती पौरादिनाम् ईदृश-भाग्योदयेन प्रहर्षात् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युतं सर्व-रूप-गुणादि-सम्पूर्णं भगवन्तम् आकर्ण्यैर् व मुदिताः जानपदाश् च जनः तस्मै तद् अर्थं गृहीतम् अर्घ्यादि-पूजोपकरणं यैस्ते पाणयो येषां ते ॥२२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभीयुः प्रत्युज्जग्मुः ॥२२॥
॥ १०.८६.२३ ॥
दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुल्लाननाशयाः ।
कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीत्योत्फुल्लान्य् आननान्य् आशया अन्तः-करणणि च येषां ते । कैः188 शिरोभिः ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते उक्तार्थाः । यथा तं तथा मुनीन् पूर्वं श्रुताः श्रुत-पूर्वास् तान्-नेमुः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्तम-श्लोकम् इति-यस्य दूरतः सद्यशः श्रवणेन चिरं दिदृक्षा आसीत्, किं वा, तेनापि कृतर्थता स्यात्तं साक्षाद्-दृष्ट्वेत्य् अर्थः । कैर् इति श्री-मुख-दर्शनार्थं तथा तेनैव प्रकारेण मुनींश् च यतः श्रुत-पूर्वान् । इति तेषां माहात्म्यादि-ज्ञानम्, तेन दर्शने चौत्सुक्यं सूचितम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्तम-श्लोकम् इति । यस्य दूरतः सद्-यशः-श्रवणेन चिरं दिदृक्षा आसीत् किं वा, तेनापि कृतार्थता स्यात् तं साक्षाद्-दृष्ट्व इत्य् अर्थः । कैर् इति । श्री-मुख-दर्शनार्थं तथा तेनैव प्रकारेण मुनींश् च यतः **श्रुत-**पूर्वान् इति तेषां माहात्म्य-ज्ञानं तेन दर्शने चौत्सुक्यं सूचितम् ॥२३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कैः शिरोभिः धृता अञ्जलयो येषु तैः ॥२३-२४॥
॥ १०.८६.२४ ॥
स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् ।
मैथिलः श्रुतदेवश्** च पादयोः पेततुः प्रभोः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । किम्-भूतम्-जगद्भिः सर्व-लोकैर् गम्यते स्व-स्वाभिलषितावाप्तये प्राप्यते इति जगद्गु औणादिको\ऽत्र-डुः ब्राह्मण-कुलं तद्राति स्वीकरोति स्वीयत्वेनेति **जगद्-**गुरुर् अत्रापि रातेर्ढुः ब्राह्मण-कुल-सहितम् इत्य् अर्थः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जगतो गुरुं श्री-ब्रह्मादि-परम-पूज्यम् अपि स्वयोर् अनुग्रहायैव सम्यक् स्व-प्रिय-मुनि-गण-साहित्य्-आदिना । प्राप्तम् आगतं मन्यमानौ अतो भक्त्य् उद्रेकेण प्रभोर् जिजेश्वरस्य सर्वाभीष्ट-प्रदान-समर्थस्य वा, पादयोः पेततुः, द्विज-श्रेष्ठस्यापि श्रुत-देवस्य पश्चान्-निर्देशो विनय-लज्जादि-विशेषेण राज्ञः पश्चाद्-वर्तित्वात् । एवम् अग्रे\ऽपि ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगतो गुरुं श्री-ब्रह्मादीनाम् अपि परम-पूज्यं स्वयोर् अनुग्रहायैव सम्यक् स्वाभीष्ट-मुनि-गण-साहित्य्-आदिना प्राप्तम् आगतं मन्यमानौ अतो भक्त्य् उद्रेकेण प्रभोर् निजेश्वरस्य सर्वाभीष्ट-प्रदान-समर्थस्य वा पादयोः पेततुः द्विज-श्रेष्ठस्यापि श्रुत-देवस्य पश्चान्-निर्देश आदर-योग्यतया सङ्कोचेन पश्चाद्वर्तित्वात् ॥२४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.२५ ॥
न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः ।
मैथिलः श्रुतदेवश्** च युगपत् संहताञ्जली ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आतिथ्येनातिथि-योग्येन कर्मणा न्यमन्त्रयेतां भोजनार्थं प्रार्थयताम् । संहतः कृतो\ऽञ्जलिः प्रसृत-करद्वय-संयोगो याभ्यां तौ
॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दाशार्हम् अशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीर्णं भगवन्तम्, द्विजैर् मुनिभिः सहितं युगपत् न्यमन्त्रयेताम्, संहताञ्जली बद्धाञ्जली सन्तौ ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्विजैर् मुनिभिः सह सहितम् ॥२५॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यमन्त्रयेताम् इत्य् आर्षम् ॥२५॥
॥ १०.८६.२६-२७ ॥
भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया ।
उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः ॥**
शान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् ।
आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अभिप्रेत्याङ्गी-कृत्य तत् तदोभाभ्याम् अपि ताभ्यां मद्-गृहाद् अन्यस्य गेहाम् यातीत्य् अलक्षितोऽविदितः । यद् वा, उभाभ्यां रूपाभ्यां तद् अलक्षितस् ताभ्याम् अलक्षित इति ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-निमन्त्रणम् । ताभ्यां श्रुत-देव-बहुलाश्वाभ्याम् । तत्-पदस्य तदार्थत्वे क्लिष्ट-कल्पनाम् अपेक्ष्याह—यद्वेति ॥२६॥
जनकः ईश्वरान्-पूजयाञ्चक्रे इति तृतीयेनान्वयः । श्रोतुम् अपि दूरान् कर्णाविषयान् । असतां तच्-छ्रवणम् अपि दुर्लभम् इति भावः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनार्थं परः श्री-कृष्णः, आ सम्यक् मुनिसाहित्य्-आदिनाविशत् प्रविवेश ॥२६॥
ततः श्री-श्रुत-देवस्य भगवद् आदेशादि-विशेषं वक्ष्यन्नादौ सूचीकटहन्यायेन राज्ञो वृत्तम् आह—श्रोतुम् इत्य्-आदिभिर् नवभिः जनक इति । जनक-वंश्यत्वेन सर्वज्ञान-सम्पत्तिः सूचिता, अतो **महा-**मना गभीराशयः, अत एव प्रवृद्धया भक्त्या ईश्वरान् । पूजयाञ्चक्र इति त्रिभिर् अन्वयः । उद्धरयेति रषकारयोः पृथक्-पाठश् छन्दो\ऽनुरोधात् । पाठान्तरे त्व् अविवक्षितत्वाद् असन्धिः । उद्धर्षहृदय इति पृथक्-पदं चित्-सुख-सम्मतम् ॥२७-२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आ सम्यक् मुनि-साहित्य्-आदिनाविशत् प्रविवेश अतो\ऽत्र निज-द्वैधीभावे मुनीनाम् अपि स्वातन्त्र्यं नासीद् इति भावः ॥२६॥
तत्-क्रमेणैवादौ राज्ञो वृत्तम् आह—तत्र श्रोतुम् इति सार्ध-द्वयकम् । महा-मनाः श्री-कृष्ण-निष्ठत्वेन महत् सर्वोत्कृष्टं मनो यस्य सः अत एव प्रवृद्धया भक्त्या प्रवृद्ध-भक्त्या उद्धर्ष इत्य् असंहितात्वाद् असन्धिः । वहन् धारयन् । गन्धेति-सार्धकम् । गोवृषा बलीवर्दाः गन्धादीनाम् आर्थिक एव क्रमो ज्ञेयः ॥२७-२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अभिप्रेत्य मद्-गृहम् एवायात्व् इति द्वयोर् एव वाञ्छितं ज्ञात्वा उभयोर् आविशद् इति स्वस्य मुनीनां च प्रकाश-द्वयी-करणात् । तत् तदा उभाभ्यां अलक्षित इति ममैव निमन्त्रणम् अङ्गीकृत्य मद्-गृहम् एव कृपालुः प्रभुर् आयाति । श्रुतदेवस् तु प्रभु-रहित एवायम् एकाकी स्व-गृहं यातीति राजा यथा विचारयति स्म तथा श्रुतदेवोऽप्य् अतस् तयोर् अपि द्वौ द्वौ प्रकाशाव् इवाभूताम् । एकः कृष्ण-संयुक्तो हृष्टः, अन्यः कृष्ण-वियुक्तो विषण्ण इति । कृष्ण-संयुक्त-राज प्रतिवेशि-जनैः श्रुतदेवः कृष्ण-वियुक्तो, विषण्णो दृश्यते स्म तथैव कृष्ण-संयुक्त-श्रुतदेव-प्रतिवेशि-जनैः राजापि कृष्ण-वियुक्तो विषण्ण इति ॥२६-२७॥
॥ १०.८६.२८ ॥
प्रवृद्ध-भक्त्या उद्धर्ष-हृदयास्राविलेक्षणः ।
नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्धर्षम् उद्गत-हर्षं हृदयं यस्य, अस्रैर् आविले क्लिन्ने ईक्षणे यस्य सः, स च स च ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अङ्घ्रीन् कृष्ण-सहितम् उनिचरणान् । तद् अपस् तच्-चरण-जलानि ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्राविलेक्षणः अश्रुक्लिन्न-नयनः ॥२८॥
॥ १०.८६.२९ ॥
स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् ।
गन्ध-माल्याम्बराकल्प-धूप-दीपार्घ्य-गो-वृ**189षैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरान् । ईश्वरं तत् तुल्यांश् चेत्य् अर्थः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरश् चेश्वराश् चेत्य् एक-शेषः । इत्यर्थ इति-ईश्वरवज्जगत्सु पूज्यत्वेनेश्वरतुल्यानिति भावः । यद् वा,-ईश्वरो विद्यते येषु त ईश्वरा इति मत्त्वर्थीयो\ऽच् । ईश्वरसहितान् इत्य् अर्थः । गो-वृषैर् इति मधुपर्काङ्गत्वेनोक्तम् मा गामनागामदितिं वधिष्ट इति श्रुत्या दर्शनमात्रं विहितं वधस्य निषिद्धत्वादित्युक्तं पुरस्तात् । गोषु वाक्षु वृषैः श्रेष्ठैः श्रुतिवाक्यैर् इति वा ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वहन् धारयन्, **गो-**वृषा बलीवर्दाः, किं वा, गावो वृषाश् च तैः, गन्धादीनां क्रम-सद्-भावे\ऽप्य् अर्घ्यस्य पश्चाद् उक्तिः प्राग् अतिसम्भ्रमेण विस्मृतस्य तस्य पश्चाद् अर्पणात्, किं वा, भोजन-मङ्गलार्थदी-पानन्तरम् अपि तस्यापेक्ष्यत्वात्, **गो-**वृषाश् च प्राक् पश्चाद्-वातिथ्येन देया एवेति दिक् ॥२९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरः कृष्णश् च ईश्वरतुल्या मुनयश् च तान् ईश्वरान् ॥२९-३०॥
॥ १०.८६.३० ॥
वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् ।
पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीणन् प्रीणयन् । संस्पृशन् संमर्दयन् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मधुरया लौकिक-श्लाघायुक्तया । इदं वक्ष्यमाणम् ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्नेन तर्पितान् सन्तोषितान् सतः सर्वानेव धन्यो\ऽस्मि कृत-कृत्यो\ऽस्मि इत्य्-आदिना वा प्रीणयन् । इदं वक्ष्यमाणम् आह—भगवन्तम्, अग्रे भवानित्य्-आधुक्तेः । यद् वा, सर्वानेवाह । ततश् च भवान् इत्य्-आदि तं प्रत्युक्त्यैव तान् सर्वान् प्रत्यपि सङ्गच्छेत् । तस्यैव सर्व-प्राधान्यात् । विष्णोस् त्रिविक्रम-रूपेण पद्भ्यां विश्व-व्यापकस्यापि भगवतः कृपया अङ्कं स्वक्रोडं गतौ, किं वा, भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनेन विश्व-व्यापकस्य, अतः स्वयम् अङ्कगतौ सन्तौ, अतो मुदा सम्यक् चातुर्य-विशेषेण स्पृशन् । शनकैर् इति सुकोमलत्वात् । अत एव संस्पृशन्न् इति संस्पर्शन-मात्रम् उक्तम् ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्नेन तर्पितान् सन्तोषितान् सतः सर्वान् एव धन्यो\ऽस्मि कृत-कृत्यो\ऽस्मीत्य्-आदि**-वाचा** प्रीणयन् इदं वक्ष्यमाणम् आह । श्री-भगवन्तम् अग्रे भवानित्य्-आद्य् उक्तेः । विष्णोः विश्व-व्यापकस्यापि भगवतः कृपया अङ्कं स्वक्रोडं गतौ तत्रापि पर्याप्ताव् इत्य् अर्थः । अतो मुदा सम्यक् चतुर्य-विशेषेण स्पृशन् शनकैर् इति सुकोमलत्वात् अत एव संस्-पृशन्न् इति संस्पर्शन-मात्रम् उक्तम् ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ अथापि दर्शनं गतः ॥३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.३१ ॥
श्री-बहुलाश्व उवाच—
भवान् हि सर्व-भू190तानाम् आत्मा साक्षी स्व-दृग् विभो ।
अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मा चेतयिता । साक्षी प्रकाशकः । स्व-दृक् स्व-प्रकाशः । स्व-दृक् स्व-प्रकाशः । अथातः कारणात् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तो भवान् स्वेषु प्रकाशते इति स्व-प्रकाशः अतः कारणाद् इत्य् अर्थः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अयोग्यस्याप्यात्मनो गृहे स्वयम् एव श्री-भगवतः साक्षात् समागमेन निरुपाधि-कृपा वर्णयंस् तं स्तौति-भवान् इति । हि यतः सर्वेषां ब्रह्मादीनां तृणान्तानां जीवानां साक्षी सर्वेन्द्रिय-प्रकाशकः । आत्मत्वादौ हेतुः—हे विभो! हे **सर्व-**व्यापकेति परमेश्वरेति वा । अथ अस्माद् एव जीवानां त्वद्-दर्शने शक्त्य् अभावात् कृपया स्वयम् एव नो\ऽस्माकं दर्शनं गतः, दृष्टो\ऽभूः । बहुत्वं निज-परिवाराद्य् अपेक्षा,
किं वा, तद्-दर्शनेनात्मनो बहु-भानत्वात्, एवम् अग्रे\ऽपि ।
ननु तर्ह्य् अन्येषाम् अपि सर्वेषां दृश्यो न किं भवेयम्? तत्राह—त्वद् इति । भक्त्य-भावाद् इति भावः । इति दर्शनस्य स्मरण-हेतुकत्वे\ऽपि स्वदृक्त्वं सङ्गच्छेतैव, तत्-कारुण्येनैव तस्य दृश्यत्वात्, तथा स्मरणस्यापि कृपया तेनैव
प्रवर्तितत्वाच् च । एवं निरूप्याधि-कृपत्वं सिद्धम् एव, अथवा अथास्माद् आत्मत्वात् साक्षित्वाच् च हेतोः स्मरताम्, अत एव दर्शनं गतः । अस्माभिस् त्वं दृष्टः, तथाप्य् अस्माकं स्मरण-शक्त्या त्वद्**-दर्शनं** न सिध्येत्, किन्तु केवलं त्वत्-कृपालुत्वाद् एवेत्य् आह । यतः स्वदृक् आत्मानं स्वम् एव दर्शयतीत्य् अर्थः । यद् वा, स्वेषु भक्तेषु दृक् कृपा-दृष्टिर् यस्य सः । सहज-निज-भक्त-वात्सल्य-गुणस्य, न त्व् अस्माकं गुणस्यापेक्षयेति भावः । तच् च युक्तम् एवेत्य् आह—विभो! हे **सर्व-**सद्गुण-परिपूर्णेति ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अयोग्यस्यात्मनो गृहे स्वयम् एव भगवतः साक्षात्-समागमनेन निरुपाधि-कृपां वर्णयंस् स्तौति—भवान् इति । हि यतः स्वयं-प्रकाशो अन्यापेक्ष्य-प्रसादो\ऽपि स्वभावत एव विभिन्नांश-रूप-जीवानां चेतयिता चित्-स्वरूपाश्रयः यथा सूर्यमण्डलो निजांशूनां ज्योती-रूपताश्रयः ततस् तद् उपाधीनाम् अपि चेतनवत्-कर्ता त्वम् एव इत्य् अर्थः । अत एव लौकिकः साक्षी यथा स्वयम् अनासक्तो\ऽन्येभ्यो विषयं प्रकाशयति तथा जीवेभ्यस् त्वम् अपि । अथ अस्माद् एव जीवानां त्वद्-दर्शन-शक्यत्वात् तव कृपालु-स्वभावत्वाच् च हेतोर् नो\ऽस्मत्-कर्तृकं दृशनं गतः स्वयम् एव कृपया स्व-प्रकाशता-शक्ति-प्रकाशनेनेति भावः । कीदृशाम् अपि स्मरताम् अपि यथा-कथञ्चित्-स्मरण-मात्रं कुर्वताम् अपि न तु तत्र प्रेम-संयुक्तानन्दार्थं वा प्रयासं कुर्वताम् इत्य् अर्थः । अम्भोज-रूपेणाज्ञातमहिमत्वेनापि प्राप्त-सङ्गस्य तस्य ताप-हारित्वं स्वाभाविकम् एवेति व्यञ्जितम् । जीवानाम् इति भूतानाम् इति वा पाठः ॥३१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा चेतयिता अतो जडं मां चेत-नीकृत्य कृपया स्व-भक्तौ प्रवर्तयसीति भावः । साक्षी भद्राभद्र-कर्म-द्रष्टा अतो मद् अनुष्ठितां स्व-भक्ति स्वयम् एव नित्यं पश्यसीति भावः । स्व-दृग् इति त्वयि न कापि विज्ञापनापेक्षेति भावः । अथ अत एव स्मरताम् इति यदि प्रभुर् एव स्वयम् एवागत्य दर्शनं ददाति तदैव दर्शन-प्राप्तिर् अस्माकम् अन्यथा तु स्व-गृहे तदीय-श्री-विग्रह-प्रात्य् अहिक-परिचर्यां क्षण-मात्रम् अपि त्यक्त्वा क्वापि गन्तुम् अशक्नुवताम् अस्माकं न तद्-भाग्य-सम्भव इति सततं चिन्तयताम् इत्य् अर्थः ॥३१॥
॥ १०.८६.३२ ॥
स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् ।
यद्** आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तो बन्धुर् अपि, श्रीर् भार्यापि, अजः पुत्रोऽपि ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्तो बलदेवः । तत् स्व-वचः तत् किं यद् इत्य् आत्थ एकस्मिन्न् अन्तो\ऽध्यवसायो यस्याः सा एकान्ता, सा चासौ भक्तिर् एकान्त-भक्तिर् अभेदोपासना, तद्वान् एकान्त-भक्तो ज्ञानीत्य् अर्थः । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१७] इत्य् उक्तेः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवोक्त-पोष-ण्यायेन विशदयति—स्व- इति । एकस्मिन् भगवत्य् एव अन्तो निष्ठा यस्य भक्तस्य, तस्मात् । मे मम न प्रिय इति यद् आत्थ वदसि, तद् अनन्तः श्री-बलदेवः शेषो वा, स्वस्य च बन्धुत्वं श्री-लक्ष्मणादि-रूपेण सहावतीर्णत्वात्, परम-पार्षदत्वाद् वा । बन्धुत्वादिना न प्रियः, वस्तुतो भक्ति-विशेषाद् एव ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथवा स्व-वच इति अयम् अर्थः । एकान्त-भक्तान् मे मम अनन्तो भ्रातृत्वेनापि श्रीर् जायात्वेनापि अजः पुत्रत्वेनापि न प्रियः, किन्तु ते\ऽप्य् एकान्त-भक्तत्वेनैव मम प्रेष्ठा इत्य् अर्थः । तद् एतद्-यद् आत्थ तत्-स्ववचः ऋतं सत्यं कर्तुं दर्शयितुं भवान् अस्मद्-दृग्-गोचरो \ऽभूत् तद् अनुगामितांशेनैवास्मान् प्रत्य् अपि कृपां कृतवान् इत्य् अर्थः । यद् वा, यतस् ते सङ्गे समानीता न सन्ति किन्त्व् एत एवानीता इति भावः । अत्र शान्त-रस-मय-भक्तत्वाद् अस्य युक्तम् एवैतत् यत एव तथैव श्री-भगवद्-आविर्भाव इति ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-वचः । अत एव तुभ्यं नम इति तस्माद् आस्तां तव साक्षाद्-रूपेण सा वार्ता ॥३२-३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्तो भ्रातापी, श्रीर् भार्यापि, अजः पुत्रो\ऽपि द्वारकातो\ऽतिदूरे\ऽत्रान्य-प्रयोजनासद्-भावे\ऽपि यद् आगत्य स्व-दर्शन-मदाः । अतो मम स्वस्य त्वद्-एकान्त-भक्तत्वे यः संशयः आसीत्, स सञ्च्छिन्न इति भावः । यद् वा, यस्माद् एवं तस्माद् अस्मान् अपि **दृग्-**गोचरी-भूय एकान्त-भक्तान् कर्तुम् इच्छसीति भावः । एवं विदेदेतत्-प्रकारक-ज्ञानवान् ॥३२-३३॥
॥ १०.८६.३३ ॥
को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् ।
निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-**वित् उक्तार्थज्ञः । एकान्त-भक्तेभ्यः किं ददातीति चेदाह—आत्मदः स्वरूप-साक्षात्कार-प्रदः ॥३३-३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो त्वत्-कृपया भक्त्यैव त्वद्-दर्शनं लभ्येतेति किं वक्तव्यम्? मुमुक्षवो\ऽपि त्वत्-कृपयैव मोक्षं लभन्त इत्य् आह—क इति । नु वितर्के, पुमांश्चेत्, एवम् इत्य् अस्यैवार्थम् आह—निष्किञ्चनानां निरहङ्काराणाम्, अतः शान्तानां रोगादि-रहितानाम्, यतो मुनीनां ज्ञान-पराणाम् इत्य् अर्थः । आत्मदः, आत्म-तत्त्व-प्रकाशनेन मोक्षदात इत्य् अर्थः । अथवा एवं भक्तैक-प्रियत्वम् अस्तीति तथा सः । भक्त-प्रीयत्वम् एव प्रदर्शयति-निष्किञ्चनानां त्व् अदर्थं त्यक्ताशेष-परिग्रहणम्, यतः शान्तानां त्वद् एक-निष्ठचित्तानाम् । तत्रैव हेतुः—मुनीनां शास्त्रार्थ-तत्त्वाभ्यासवताम्, आत्मदो वश्यो भवसीत्य् अर्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एकान्त-भक्तानुगामित्वम् अपि भवतां दुर्लभं ततस् तत्-प्रशस्त्या भवतां किं सत्यं तथापि तव तादृश-गुण एव मादृशम् आसं जयतीत्य् आह—क इति युग्मकेन । एवं वक्ष्यमाण-प्रकारं कं गुणं वेत्ति यः स को विसृजेत् मुक्ताव् अमुक्ताव् अपि त्यजेत् तत्रैकान्त-भक्त-विषयं कृपा-गुणम् अनुवदन्नत्यागे हेतुम् आह—निष्किञ्चनानां त्वद् अर्थं त्यक्ताशेष-परिग्रहाणां यतः शान्तानां त्वद् एक-निष्ठ-भक्तानां तत्रैव हेतुः—मुनीनां शास्त्र-तत्त्वाभ्यासवताम् आत्मदः वश्यो भवतीत्य् अर्थः । अहो यत्-सम्बन्धेनैव सम्प्रति प्रकटी-भूय सर्वत्रैव कृपा-गुणा-निरर्गलम् एव विस्तारयन्न् असीति तत्राप्य् अतिशयम् आह—य इति । य एकान्त-भक्त-कृपालुर् भवान् इह जगति विशेषेण पूर्वतो\ऽप्य् आधिक्येन तेने विस्तारयामास ॥३३-३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.३४ ॥
योऽवतीर्य यदोर् वंशे नृणां संसरताम् इह ।
यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तच् छान्त्यै संसारोपशमाय ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना चाशेषैश्वर्य-प्रकटनेन सर्व एव समुद्धृता इत्य् आह—य इति । तस्मै तुभ्यम् इति परेण पूर्वेणैवान्वयः । इह भूतले, विशेषेण पूर्वतो\ऽप्य् आधिक्येन तेने विस्तारयामास, अस्मिन् प्रपञ्चे संसरताम् इति वा । एवं संसारस्यानिवृत्तिर् उक्ता । तच् छान्त्यै इत्य् अत्र हेतुः—त्रैलोक्यस्य त्रिलोकी-स्थिताशेष-जीवानां वृजिनं संसार-दुःखम्, अप दूरतो हन्तीति तथा तत् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, तस्यै अनिर्वचनीययै शान्त्यै प्रेम-सुखाय, किं वा, भक्ति-रसेन त्वद् एक-निष्ठ-चित्तायै । संसार-दुःख-ध्वंसश् चावान्तर-फलन्यायेन स्वत एव सिध्यतीत्य् आह—त्रै-लोक्येति । द्वितीय-पक्षोक्त-भक्ति-सिद्धान्ते चेदं सङ्गतम् एव ॥३४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् छान्त्यै संसारोपशमाय ॥३४॥
॥ १०.८६.३५ ॥
नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे191 ।
नारायणाय ऋषये सु-शान्तं192 तप ईयुषे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किञ्चिद् अग्रे प्रार्थयितुं प्राक् प्रणमति—नम इति । अकुण्ठ-मेधसे\ऽपरिच्छिन्न-ज्ञानायेति किम् अन्यैर्-ज्ञाप्यस् त्वम् इति भावः । किं च, सर्व-लोक-हितार्थम् अद्यापि बदरिकाश्रमे निज-रूपेणैकेन तपस् तप्यमानायेत्य् आह—नारायणायेति। ऋषये जटा-मण्डल-धारणादिना तपस्वि-वेषाय, शान्ताय कामाद्य् अनुपहत-चित्ताय ब्रह्म-चर्य-निष्ठत्वात्, तच्-चैकादश-स्कन्धे सुव्यक्तम्, अतो\ऽस्माकम् अपि हितं कर्तुम् अर्हसीति भावः । यद् वा, किं च, , नारायणाय सर्व-जीवाश्रयाय यत ऋषये वेद-द्रष्ट्रे अत एव शान्ताय निर्विकाराय सुखघनाय वा, तथापि लोक-शिक्षार्थं तपः क्षात्र-गृहि-धर्मम् ईयुषे आचरत इत्य् अर्थः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ किञ्चिद् अग्रे प्रार्थयितुं प्राक् प्रणमति—नम इति । अकुण्ठ**-मेधसे** अपरिच्छिन्न-ज्ञानायेति । किम् अन्यैर् ज्ञाप्यस् त्वम् इति भावः । किं च, सर्व-लोक-हितर्थम् अद्यापि बदरिकाश्रमे निज-रूपेणैकेन तपो-लीलाम् अपि कर्त्र इत्य् आह—नारायणायेति । अतो\ऽस्माकम् अपि हितं कर्तुम् अर्हस्येव् एति भावः । यद् वा, किं च, नारायणाय सर्व-जीवाद्य् आश्रयाय यतः ऋषये वेद-द्रष्ट्रे अत एव शान्ताय निर्विकाराय सुख-घनाय वा तथापि लोक-शिक्षार्थं तपः-क्षात्र-गृहि-धर्मम् ईयुषे आचारत इत्य् अर्थः । सुशान्त-तप इति पाठे लोक-हितकारि-तप इत्य् अर्थः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अंश-रूपेणाप्य् आह—नारायणायेति ॥३५-४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-गृहे कतिचिद्-दिनानि वासयितुं स्तौति-अकुण्ठा मेधा यत इति तवात्र निवासेनास्माकम् अपि बुद्धिर् अकुण्ठा विषय-शरैर्भेत्तुम् अशक्या भवत्व् इति भावः । ऋषये नारायणायेति यथा बदरिकाश्रमे भारत-भूमि-भाग्येन वर्तसे तथैवात्र मिथिला-भू-भाग्यं प्रकटयन् कियन्ति दिनानि वर्तस्वेति भावः । सुशान्त**-तप-ईयुषे** इति द्वारका-समुचित-भोग्य-वस्तु-वर्जिते\ऽत्र मम गृहे वसतस् तव तपश् चरणम् एव भविष्यतीति भावः ॥३५॥
॥ १०.८६.३६ ॥
दिनानि कतिचिद् भूमन् गृहान् नो निवस193 द्विजैः ।
समेतः पाद-रजसा पुनीहीदं निमेः कुलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहान् । गृहेष्व् इत्य् अर्थः ॥३६-३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : य इत्यर्थ इति-सप्तम्यर्थे द्वितीया छान्दसीति भावः ॥३६-३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्तुत्वा स-दैन्यं प्रार्थयते-दिनानीति । कतिचिद् इति विनयादिनास्वल्पानीति साक्षाद् अवध्य् अनुक्त्या अनन्तानीति भावः । ननु यादवादीनाम् अपेक्षयान्य् अत्रापि न वासो\ऽपेक्षणे, तत्राह—भूमन्! हे सर्व-व्यापकेति स्वक्त्यात्राप्य् अन्यत्रापि स्वयं स्थातुं प्रभवसीति भावः । इदं परोक्ष-ज्ञान-परम् । पुनीहि अद्वैतादि-दुर्वासनातः शोधय । यद् वा, नृणां लोचनेषु निमिनि-वास-जात-निमेषेण श्री-गोप्य्-आदीनां त्वद्-दर्शनानन्द-विघाताज्-जातापराधं तत्**-कुलम्**, तस्मात् पुनीहीत्य् अर्थः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं स्तुत्वा सदैन्यं प्रार्थयते—दिनानीति । कतिचिद् इति विनयोक्तिः । हे भूमन्न् इति यद्यपि सर्व-परिपूर्णस् त्वं तथापि कृपयैवेति भावः । तथैवाह—गृहान् इति । निवसेत्य् अत्र निवसन्न् इति क्वचित्-पाठः । निमेस् त्वद्-भक्तस्य ॥३६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समेतः सहितः ॥३६-३७॥
॥ १०.८६.३७ ॥
इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः ।
उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एकम्, उप दाक्षिण्येनामन्त्रितः प्रार्थितः सन्न्-उवास, यतो लोक-भावनः सर्व-जीव-परिपालकः, तत्रापि भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनपर इत्य् अर्थः । अतो मिथिलाया नराणां पुंसां योषितां च प्रायो\ऽज्ञान-पराणां मोक्षादि-प्रयासत्याजनेन कल्याणं विशुद्ध-भक्ति-लक्षण-मङ्गलं सुख-विशेषं वा कुर्वन् सन् ॥३७॥
———————————————————————————————————————
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उप आधिक्येन आमन्त्रितः प्रार्थितः सन् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.३८ ॥
श्रुतदेवोऽच्युतं प्राप्तं स्व-गृहाञ् जनको यथा ।
नत्वा मुनीन्**194 सु-संहृष्टो धुन्वन् वासो ननर्त ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : धुन्वन् परिभ्रमयन् ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्रुतदेवोत्सवम् आह—श्रुतेति । धुन्वन्न् इति अन्तर्भावित-णिजर्थः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतं सर्वैश्वर्य-परिपूर्णं भगवन्तं प्राप्तं महा-भक्त-मुनिभिः सह स्वयम् एवागतम्, जनको यथेति प्रव्र्द्ध-भक्त्यास्राविलेक्षण इत्य् अतिदिशति, ह हर्षे ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनको यथेति । प्रवृद्ध-भक्त्या सो\ऽपि अस्राविलेक्षण इत्य् अतिदिशति । मुनीश् चेति मुनीन् इति वा पाठः । ह हर्षे ॥३८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धुन्वन्न् आनन्देन वासः कराभ्यां धृत्वा स्वमूर्धोपरि भ्रामयन् ॥३८॥
॥ १०.८६.३९ ॥
तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः ।
स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्योऽवनिजे मुदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवनिजे अवनिनिजे प्रक्षलितवान् ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तृण-पीठानि कटानि कुशादि-निर्मितानि तान्येव वृष्यस्तासु । व्रतिनाम् आसनं वृषी इत्य् अमरः । एतान् ऋषीन् । आनीतेष्व् अन्येषूर् णाद्यासनेषु । अवनिजे\ऽत्राभ्यास-लोपस् त्व् आर्षः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतान् अच्युतादीन् सर्वान् यतीनाम् आसनं बृषिः, पुं-लिङ्गो\ऽपि । आनीतेषु स्वस्य प्रतिवेशिनां च गृहादाहृतेषु । प्रेम-वैवश्येन स्वयम् एव हस् तेषु गृहीत्वोपवेश्य ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतान् अच्युतादीन् सर्वान् यतीनाम् आसनं वृसिः पुंल्-लिङ्गो\ऽपि । आनीतेषु स्वस्य प्रतिवेशिनां च गृहाद् आहृतेषु नूतनेषु प्रेम-वैवश्येन स्वयम् एव चरणेषु गृहीत्वोपवेश्य ॥३९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृसिर् दर्भासनं केषुचित् स्व-गृहाभ्यन्तरात् केषुचित् प्रतिवेशि-गृहादानीतेषु अवनिजे अवनिनिजे प्रक्षालयामास ॥३९॥
॥ १०.८६.४० ॥
तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् ।
स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-अम्भसावने-जन-जलेन । आत्मानं स्व-देहम् । गृहं भार्यान्वयः पुत्रदिस् ताभ्यां सहितम् । सर्वेषां मनांसि रथो वाहनं यस्य स सर्व-मनोरथः । **सर्व-**हृद्-वासी हरिस्स लब्धो येन स तथा । अन्तर्यामी दृग्-विषयो जातो\ऽहो भाग्यं ममेत्य् आत्मानं श्लाघितवान् इति भावः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् भागो **भाग-**धेयं किं वा, भक्ति-लक्षणः प्राप्यांशो यस्य सः, अत एवोद्रिक्तो हर्षो यस्य तथा-भूतः सन्, गृहकुटुम्ब-सहितम् अस्नपयत् । तेनैव लब्धाः सर्वे मनोरथा येन सः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अम्भसेति । श्री-कृष्णस्य चरणाम्भसा तु तद् अगोचरेण इत्य् अर्थः । महा-भाग इति श्री-मन्मुनीन्द्रस्य तस्मिन्न् आदरः । उद्धर्षत्वे हेतुर् लब्धेति ॥४०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.४१ ॥
फलार्हणोशीर-शिवामृताम्बुभिर्195
मृदा सुरभ्या तुलसी-कुशाम्बुजैः ।
आराधयाम् आस यथोपपन्नया
सपर्यया सत्त्व-विवर्धनान्धसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : फलैर् आमलकादिभिर् अर्हणेनोशीरैस् तृण-विशेष-मूलैः सु-वासितैः शिवैर् अमृत-वत्-स्वादुभिर् अम्बुभिः । सुरभ्या मृदा कस्तूरी-प्रमुखया । सपर्यया पूजया । यथोपपन्नया अनायासेन संपन्नया । भूतानुपद्रव-लब्धत्वात् । सत्त्व-विवर्धनं यद् अन्धोऽन्नं तेन च ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्हणेन चन्दनादिना । तृण-विशेषस्य वीरणस्य मूलैः स्याद्-वीरतरं मूलेस्योशीरम-स्त्रियाम् इत्य् अमरः । शिवैः कल्याण-करैर् अम्बुभिस् तीर्थोदकैर् इत्य् अर्थः । **तुलसी-**दल-माला-कुश-पवित्र-कमल-बीज-पुष्पैः । सत्त्व-विवर्धनेन तमो-रजो-वारकं यद् अन्धः नीवारादि ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-भाग्य-विशेषेण सुप्रीतः सन् तम् एव दीर्घ-च्छन्दसा गायन्न् आह—फलेति द्वाभ्याम् । फलादिभिर् या सपर्या तया आराधयामास सन्तोषितवान् एतान्, तत्रार्हणम् अर्घ्य-पाद्यादि दूर्वादिकं वा, सत्त्वं सत्त्व**-**गुणः साधुत्वं वा, तस्य विशेषतो वर्धनं यदन्धो\ऽयाचितादिनोपनतं निवाराद्यन्नम्, यथोपपन्नत्वाद् एव पूजा-क्रमस्यासिद्धिः । अन्यत् तैर् व्याख्यातम् ।
तत्राम्भसेति पाठे वर्तमाने\ऽप्य् अम्बुभिर् इति लेखो\ऽर्थानुसारात् । एवं द्वन्द्वैक्यम्, किं वाम्बुभिरित्य् एव पाठः । मृदेत्यस्य च कस्तूरी-प्रमुखयेति व्याख्या, कस्तूर्या वने सुलभतया मृत्त्वाद् इति [मृत्-तुल्यत्वाद् इति ।] अथवा उशीरं तद् अनुलेपः, चन्दनाद्य् अभावात् । शिवा आमलकी, तस्याः फलान्तर्गतत्वे\ऽपि पृथग् उक्तिः श्री-भगवत्-प्रियत्वात् । मृदा मृत्तिकया भर्जनादिना गन्ध-द्रव्यादिना वा सुरम्या । अन्यत् समानम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-भाग्य-विशेषेण सुप्रीतः संस्तम् एव दीर्घच्छन्दसा गायन्न् आह—फलेति द्वाभ्याम् । फलादिभिर् या सपर्या तया आराधयामास तान् संतोषितवान् इत्य् अन्वयः । तत्र प्रथमतः फलानि मङ्गलोपायनानि ततोऽर्हणान्यादीनि ततो धूपनार्थम् उशीरेण वीरण-मूलेन तथा जन्ममिष्टतादि-सम्पादनार्थं शिवया प्रति-घटम् एवैक-प्रक्षिप्तया पक्व-शुष्कामलक्या साधितं यद् अमृत-तुल्यम्-अम्भस् तेन अम्बुभिर् इति तेषां व्याख्या तु न मूल-संवादिनी तन्-मते पाठस् तादृश एव वा ज्ञेयः । ततश् च गत-श्रमत्वे सति मध्याह्न-स्नानादिकं मुदा मृत्स्नया सुरभ्या मुद्रित-नव-घटे केतक्यादिभिः सह चिरस्था-पनेन सुष्ठु वासितया अत एव कस्तूरी-प्रमुखयेति तैर्-व्याख्यातम् । तदादि-तुल्यय इत्य् अर्थः । कस्तूरी-प्रमितयेति वा तत्-पाठः । ततश् च देव-पूजाद्य् अर्थं तुल्यस्यादिभिः ततश् चायाचितत्वादि-गुणैः सत्त्व-गुणस्य विवर्धनेनान्धसेति उपलक्षणं चैतत् आचमनीयादीनाम् ॥४१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फलान्याम् अलकादीनि अर्हणान्यर्घ्यादीनि उशीरेण वीरण-मूलेन शिवं सुगन्धं शीतं च यद् अमृत-तुल्यम् अम्भस् तेन यथोपपन्नया अनायासलद्भया सत्त्व-विर्धनं यद् अन्धः पवित्रम् अन्नं तेन ॥४१॥
॥ १०.८६.४२ ॥
स तर्कयाम् आस कुतो ममान्व् अभूद्
गृहान्ध-कूपे पतितस्य सङ्गमः ।
यः सर्व-तीर्थास्पद-पाद-रेणुभिः
कृष्णेन चास्यात्म-निकेत-भूसुरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य श्री-कृष्णस्यात्मा मूर्तिस् तस्य निकेतैः स्थान-विशेषैर् भू-सुरैश् च सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णादिभिर् यः सङ्गमः स मम कुतोऽन्व्अभूद् इति । अनु इति विस्मये । यद् वा, आ इति वितर्के । नु इति विस्मये ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स श्रुतदेवः । निकेतैः स्थान-भूतैः । यद् वा, अस्यात्मा निकेत आश्रयो येषां तैः । **सर्व-**तीर्थानाम् आस्पदं **पाद-**रेणुः येषां तैः ।
गङ्गाद्यास् सरितः सर्वास्तीथैश् च पुष्करादिभिः । > तिष्ठन्ति सततं राजन्-विप्र-**पाद-**रजस्सु वै ॥ > इत्य्-आदि-पुराणात् ।
वचन-व्यत्यासेन कृष्ण-विशेषणं च अनुपदं विस्मये\ऽति-प्रसिद्ध-मत आह—यद्व् एति । अस्याकार-वाच्य-वासुदेवस्यात्मा वेदस् तस्य निकेतैर् आश्रयैः वेदस्य कृष्णात्मत्वे वेदो नारायणः साक्षात् [भा।पु। ६.१.४०] इति यम-पुरुषोक्तेर् एव मानत्वम् । किं च—ब्रह्मात्मतत्त्वम् अवितुं प्रथमं त्वमस्राग्-विप्रांस् तपोव्रत-धरान्-मुखतश् च साक्षात् इति दक्षोक्तेश् च तथात्वम् ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि तस्याभिमानो नाभूत्, प्रत्युत भक्त्य् उद्रेकेण दैन्यम् एव व्यवर्धतेत्य् आशयेनाह—स इति । तर्कयामास अचिन्तयद् इत्य् अर्थः । कुतः इति भक्त्वाद् आदाव् अनभिमानेन सहज-दैन्यात्, अत एवाह—गृहेति । सर्वेषां तीर्थानाम् आस्पदम् आश्रयः पाद-रेणुर् येषां तैः । अन्यत् तैर् व्याख्यातम् ।
तत्रात्मा मूर्तिर् इति मनसि सदा प्रस्फुरन्ती मनोमयी, अथवा आत्मनः श्री-भगवतो निकेतः श्री-द्वारकादिव् अतिगृहम् । तत्रत्यैर् भूसुरैः परमात्मीयैर् विप्रैर् इत्याः अत-एव भूसुर-शब्स्य प्रयोगः तेषाम् एव भुवि परम-पूज्यत्वात् ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं निजैकान्तिभिः सह स्व-गृहागतेनापि भगवता तस्याभिमानो मा भूत् तत्-कारणतया तस्यैव कृपायाः स्फुरणात् स्वात्मनस् तु दैन्य-मात्रस्येत्य् आह—स इति । अन्यत्-तैः । तत्रात्मा मूर्तिर् इति मनसि सदा प्रस्फुरन्ती मनोमयी ॥४२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स श्रुत-देवः कृष्णेन सह सङ्गमो मम कुतो हेतोर् अभूत् इति तर्कयामास । आ इति स्मरणे नु इति विस्मये । यश्च सङ्गमः अस्य श्री-कृष्णस्य आत्मा मूर्तिस् तस्या निकेतैर् भूसुरैः सहितः ॥४२॥
॥ १०.८६.४३ ॥
सूपविष्टान् कृतातिथ्यान् श्रुतद् एव उपस्थितः ।
स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्थितः समीप उपविष्टः । भार्या भर्तव्याः स्व-जना अपत्यानि च तैः सहितः । श्री-कृष्णस्याङ्घ्रिम् अभिमृशति संमर्दयतीत्य् अङ्घ्र्य्-अभिमर्शनः ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्घ्र्य्**-अभिमर्शनः** पाद-संवाहनं कुर्वन् ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुखेनोपविष्टं सन्तं श्री-भगवन्तम्, कृतम् आतिथ्यं पुनः पूजनेन मुख-वासादि-समर्पणेन वा सर्वम् अतिथि-कृत्यं यस्मिंस् तम्, इति श्री-भगवतो\ऽति-प्रसन्नत्वं तस्य वाव्यग्र-चित्तत्वम् उक्तम्, अङ्घ्रिम् अभिमृशति शनैः सुख-स्पर्शेन संवाहयतीति तथा सः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपस्थित उपेतः सन्न् उवाच श्री-भगवन्तम् अधिकृत्येति शेषः । अङ्घ्र्य् अभिमर्शन इति । मुनीनाम् इति शेषाः ॥४३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-भार्यः भार्यया सहितः स्वसुता एव अमात्या यस्य स च स च सः अङ्घ्रिम् अभिमृशति सम्मर्दयतीति सः ॥४३॥
॥ १०.८६.४४ ॥
श्रुतदेव उवाच—
नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः ।
यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यर्हीदं प्रविष्टस् तदैव दर्शनं प्राप्त इति स एव सन् मात्रो नाद्यतनी-भूतस् त्वम् इत्य् अर्थः । यद् वा, नोऽस्मान् अद्यैव प्राप्त इति न, किन्तु तदैव प्राप्तो यर्हीदं विश्वं स्व-शक्तिभिः सत्त्वादिभिः सृष्ट्वा स्व-सत्तयानुप्रविष्टस् त्वम् । त्वद्-दर्शनं तु परं केवलम् अद्यैव प्राप्तम् ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् सृष्ट्वा तद् एवानुप्राविशत् इति श्रुतेर् इदं विश्वं यदा प्रविष्टः । इत्य् अर्थ इति-त्वं सृष्ट्यादि-कर्ता साक्षान्-नारायणो न त्वं देवदत्तादि-समः कश्चिद् असीति प्राक्तनं निजानुभवं द्योतयमानो वक्तीति भावः ।
ननु मद्-दर्शने पुनः कथं तव संसार इति चेद् आह—यद्व् एति । तद् आपाततो दर्शने\ऽपि विवेकस्तु दर्शनम् अद्यैव जातं विविक्त-दर्शनस्यैव संसार-नाशकत्वम् इति भावः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अकस्माच्-छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नेति । आत्मनः सत्ता अन्तर्यामितया सर्वत्र वर्तमानतया तया । तत्रैव हेतुः—**परम-**पुरुष! हे परमात्मन्न् इति । तद्-द्वितीय-पक्षे तु अद्यैव प्राप्त इत्य् अत्र हेतुः—परम-पुरुष! हे महा-भगवन्न् इति, अशेष-भगवत्ताप्रकटनात् । अन्यत् तैर् व्याख्यातम् ।
तत्र प्रथम-पक्षे-परं केवलं दर्शनम् एव प्राप्तः, न त्व् अधुनेवानुग्रह-विशेष-पूर्वकम् इत्य् अर्थ इति । अथवा स्वत एव सक्षात् श्री-भगवद्**-दर्शनं** प्राप्यालभ्यलाभेनानन्दितः । प्राक् तस्य सुदुर्लभताम् एवाह—नेति । यर्हीदम् अनु सृष्टेर् अनन्तरं प्रविष्टस् त्वम्, तर्ह्यपि परमुत्कृष्टं दर्शनं न प्राप्तः । तत्र हेतुः—परम-पुरुषेति, अन्तर्यामित्वेनादृश्यत्वाद् इति भावः । तच्-चाधुनाकस्माद् एव सम्यग् लब्धम्, अहो भाग्यम् अस्माकम् इति भावः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अकस्माच् छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नेति । नो दर्शनम् अस्मत्-कर्तृकं दर्शनं परं केवलम् अद्य अस्मिन्न् एव तव प्राकट्य-समयेन प्राप्तस् त्वं किं त्व् आत्म-सत्तया परमात्म-स्वरूपेण यर्हीदं सृष्ट्वानुप्रविष्टस् त्वं तद् आरभ्यैव न प्राप्तः कदाप्य् अस्मद्-दृष्टि-गोचरो न जातस् त्वम् इत्य् अर्थः तथाप्य् अकस्मात्-तद् इदं दर्शनं परमया तत्-कृपयैवेति भावः । तद् एवम् अस्य द्वारकादावपि गमनं नासीद् इति गम्यते । तच् च दीनम्मन्यतयेति लक्ष्यते । तद् उक्तं स तर्कयामासेत्य् अत्र ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अकस्माच्-छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नाद्य न इति । अस्मत्कर्तृकं दर्शनं परं केवलमद्यास्मिन्नेव तव प्राकट्यसमयेन न प्राप्तस्त्वं किं त्वद्-**ह्य् आत्म-**शक्तया परमात्मस्वरूपेण यर्हीदं सृष्ट्वा प्रविष्टस्त्वं तदारभ्यैव न प्राप्तः । अस्मद्दृष्टिविषयः कदापि न जातो\ऽसीत्यर्थः । अहो अलभ्यलाभ इति भावः ॥४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भो भूसुर-वर्य श्रुत-देव! युष्मद् अर्शनमहं केनातिभाग्येनैवाद्य प्राप्त इति वदन्तं सवैदग्धी-भङ्गीकम् आह—नाद्येति । भोः परम-पुरुष! नो\ऽस्माकं दर्शनं परं केवलं न अद्य प्राप्तः परन्तु इदं जगत् सृष्ट्वा स्व**-सत्तया** यर्हि अनुप्रविष्टस् तद् आरभ्यापि वयं किल जीवास् त्वदीय-तटस्थ-शक्ति-वृत्तयः स्व-कर्म-फल-भोगिनस् तद् आरभ्य अद्य पर्यन्तं त्वां दृष्टा एव वर्तामह एव किन्तु वयम् एवाद्यैव त्वद्-दर्शनं प्राप्ता इति भावः । उत्तरालङ्कारो\ऽयम्। प्रश्नस्योन्नयनं यत्र तद् उत्तरम् उदाहृतम् इति तल्-लक्षणम् ॥४४॥
॥ १०.८६.४५ ॥
यथा शयानः पुरुषो मनसैवात्म-मायया ।
सृष्ट्वा लोकं परं स्वा**196प्नम् अनुविश्यावभासते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : माया-सृष्टि-प्रवेशयोर् अविद्या-सृष्टि-प्रवेशौ दृष्टान्ततयाह—यथेति । आत्म-मायया स्वाविद्यया । यद् वा, आत्मनस् तव माययेति ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मयया सृष्टि-प्रवेशौ तयोः । जाग्रद्-रचना-समर्थस्य स्वप्न-रचनम् अपि न सम्भवत्यतो भगवन्-माया-रचित-जाग्रत्रपञ्चवत्-स्वाप्न-प्रपञ्चो\ऽपि तन्-माया-रचित एवेत्य् आह—यद्व् एति ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोकं देहं परं शासन-देहाद्भिन्नम्, यतः प्राप्तम् अनुविश्य सृष्ट्य् अनन्तरं सद्यः प्रविश्य, अवस्था-विशेषण भासते, स्वप्न-चरितेन द्योतते । स्व-पक्षे-एवं त्वत्-सन्दर्शनाभावे\ऽपि त्वत्-कृपया त्वद्-ध्यानादिना जीवाम इत्य् आशयेनाह—यथेति । पुरुषः त्वज्जनो [सज्जनो] । यथा शयानः कश्चित् स्वाप्नम्, तथात्मनस् तव मायया कृपयैव मनसा परं मानसं सेवा-योग्यतयोत्तमं लोकं देहं किं वा, जगद्-विलक्षणं भिन्नं भुवनम् एकं सृष्ट्वानुविश्यावभासते, त्वत्-सेवाद्य् अवलम्बेन जीवतीत्य् अर्थः ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च यथा शयानः पुरुषः आत्मनस् तव मायया हेतुना मनसा कारणेन स्वाप्नं परं लोकं देहादिकं सृष्ट्वा आत्मात्मीयत्वेन कल्पयित्वा तम् अनुविश्याविश्य चावभासते तथा त्वम् अवभाससे स्मेति शेषः ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च यथा शयानः पुरुषो \ऽवभास ते तथाहम् अवभास इति शेषः ॥४५-५९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भगवंस् त्वं स्व-मनः-सङ्कल्प-मात्रेणैवेदं सृष्ट्वा यत्-तद् अनुप्रविष्टस् तत्राहं जीव एव दृष्टान्त इत्य् अतः स्व-दृष्टान्तस्य जीवस्य मम दर्शनं तवोचितम् एवेति पूर्ववत् स-वैदग्धी-भङ्गीकम् एवाह—च यथेति । आत्म-मायया स्व-विद्यया परं लोकं ग्राम-नगरादिकम् अवभासते तत्-तद्-दर्शनादिकम् अनुभवति तथैव त्वम् अपीत् यर्थः ।तद् एव सृष्टिम् आरभ्याद्य् अपर्यन्तम् अस्मद्-दर्शनं त्वं प्राप्नोष्य् एव वयं तु ताम् आरभ्याद्य् अपर्यन्तं त्वद् अनुभवस्यापि गन्धम् अपि नैव प्राप्ताः किन्त्व् अद्यैव त्वत्-कृपया त्वद्-दर्शनम् अपि प्राप्ता इति भावः ॥४५॥
॥ १०.८६.४६ ॥
शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।
नृणां सं**197वदताम् अन्तर् हृदि भास्य् अमलात्मनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, शृण्वताम् इति । नित्यं श्रवण-कीर्तनादि-पराणाम् अमलात्मनाम् अपि हृद्य् एवं त्वं भासि, मम तु लोचनागोचरस् त्वम् अहो भाग्यम् इति भावः ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अद्भुतम् आह—किं च इति । त्वा त्वाम् । इति भाव इति--ऐकान्तिक-भक्तेभ्यो\ऽपि मद्-भाग्यम् अधिकम् इति तात्पर्यम् ॥४६॥ ।
क्द्- [भक्तेः] पञ्च-वर्गम् आह—शृण्वताम् इति ॥४६॥ [मु।फ। ७.९४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शश्वद् इत्य् अस्य सर्वैरप्य् अन्वयः । गदतां स्वयं सङ्कीर्तयताम्, अभितः साष्टाङ्गत्वादिना वन्दतां वन्दमानानाम्, संवदतां संवाद-रूपेणान्यो\ऽन्यं कथयताम्, अत एवामलात्मनां विशुद्ध-चित्तानाम्, यद् वा, श्रवणादौ हेतुर् अयम्, सत्-कर्मादिभिश् चित्ते शुद्धे सत्य् एव तत्र प्रवृत्तेः । अन्तर् इति हृद्यपि निभृतम् एव भासीत्य् अर्थः । यद् वा, अन्तः संवदतां जपताम् इत्य् अर्थः ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु हृदि तु तवाहं स्फुरितवान् एवेत्य् आशङ्क्य तद् अपि मम न सम्भवतीति सदैन्यम् आह—शृण्वताम् इति । एवम् एवम्-भूतानां सताम् अत एवामलात्मनाम् एव अन्तर्हृदि त्वद् अन्तर्-मुखे मनसि भासि न तु मद्-विधानाम् इत्य् अर्थः । अत्र शश्वद् इत्य् अस्य सर्वर् अप्य् अन्वयः । नित्यम् एव इत्य् अर्थः ॥४६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मदीय-श्रवण-कीर्तनादिमन्तो भवद्-विधा मद्-दर्शनं प्राप्नुवन्त्य् एव तत्राह—शृण्वताम् इति । संवदतां त्वद्-भक्तैः सह संलापं कुर्वतां भासि स्फुरसि किन्त्व् अमलः मत्सरादि-मालिन्य-रहितः आत्मा मनो येषां तेषाम् एव वयं तु मलिनात्मान एव तद् अपि यद् इदं दर्शनमदास् तद् इदं ते विचित्रं कृपाचरित्रम् इति भावः ॥४६॥
॥ १०.८६.४७ ॥
हृदि-स्थोऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् ।
आत्म-शक्तिभिर् अग्राह्योऽप्य् अन्त्य् उपेत-गुणात्मनाम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्वेषां हृदि स्थितः कथं केषाञ्चिद् एव हृदि भासि, मेघैः सूर्य-बज् जीवोपाधिभिर् आवृतत्वाद् इति यद्य् उच्यते तर्हि न कस्यापि भायाद् इत्य् अत आह—हृदि-स्थोऽपीति । कर्मभिर् विक्षिप्तं चेतो येषां तेषाम् आत्म-शक्तिभिर् अहङ्कारादिभिर् अग्राह्यो व्यवहितोऽप्य् उपेत-गुणः प्राप्त-श्रवण-कीर्तनादि-संस्कार आत्मा अन्तः-करणं येषां तेषाम् अन्ति समीपे । अव्यवहितस् त्वम् इत्य् अर्थः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । जीवोपाधिभिर् अहङ्कारादिभिः । भायात्-प्रतीयात् । कर्मभिर् दानादानादिभिः । आत्म-शक्तिभिर् जीवोपाधिभिः । ता आह—अहङ्कारादिभिः । आदिना क्रोध-लोभादि-ग्रहः । व्यवहितो\ऽपि अज्ञानां दृष्ट्या दूरस्थो\ऽपि । इत्य् अर्थ इति श्रवणादिनाज्ञान-निवृत्त्यापरोक्षी-भवसीति भावः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यर्यामित्वेन हृदि-स्थो\ऽपि कर्म-विक्षिप्त-चेतसाम् अति-दूरस्थः, हृदि न प्रकाशस इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । तत्र हृदि भासीत्य् एतद् अनन्तरं केषां न भासीति लेखक-भ्रमात् पतितम् इति बुध्यते मेधैरित्य्-आदेर् अभिमान एव हेतूपपत्तेर् इति । अथवा ननु अन्तर्यामितया सर्वेषाम् अपि हृदि वर्ते, तत् किम् उच्यते श्रवणादिपराणाम् एव भासीति । तत्राह—हृदीति ।
ननु सत्**-**कर्मभिर् हृदि विशुद्धे सति तेषाम् अपि सद्भानं सम्भवेद् इति चेत्-तथापि त्वत्-कृपयैव स्यान्न त्व् अन्यथेत्य् आह—आत्मेति । अन्ति समीपे स्वाधीनतयैवोपेता गुणाः सत्कर्मादयो यस्मिंस् तथा-भूत आत्मा स्वभावो येषां तेषाम् अप्य् आत्म-शक्तिभिः सत्-कर्मादि-जात-निज-मनः-शुद्ध्य् आदि-शक्तिभिः, बहुत्वं सत्-कर्मादि-बाहुल्येन शक्तीनाम् अपि बाहुल्यात्, गौरवाद् वा, अग्राह्यो हृद्य् अपि न प्रकाशस इत्य् अर्थः । स्वपक्षे\ऽपि समानम् एव ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अन्तर्यामितया तेषाम् एव हृदि वर्ते । तत्-किमुच्यते श्रवणादि-पराणाम् एवावभासीति तत्राह—हृद् इति । ननु सत्-कर्मभिर् हृदि विशुद्धे सति तेषाम् अपि मद्भानं सम्भवेद् इति चेन्न् एत्य् आह—आत्मेति । तादृशो\ऽपि कथं भामीत्य् आशङ्क्य शृण्वताम् इत्य् उक्तम् एव साधयति—अन्तीति ॥४७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चान्यद् अपि ते विचित्रं चरित्रं दृष्टम् अभक्तानाम् अपि भक्तानाम् अपि त्वं हृदि तिष्ठस्य् एव । प्रथमैर् नानुभूयसे द्वितीय-यैरनुभूयस इत्य् आह—**हृदि-**स्थैर् इति ।
ननु मम **हृदि-**स्थत्वे दूर-स्थत्वं कुतस् तत्राह—आत्म-शक्तिभिर् अविद्यावर्तिभिर् मत्सराहङ्काराद्यैर्-व्यवधायकैर्-हेतुभिर् अग्राह्यः । **उपेत-**गुणत्वेनैव व्यवहितो\ऽपि प्राप्तत्व-गुण-चिन्तन आत्मा अन्तः-करणं येषां तेषां भक्तानां तु अन्ति समीप एव वर्तसे तैर् अनुभूयसे इत्य् अर्थः ॥४७॥
॥ १०.८६.४८ ॥
नमोऽस्तु तेऽध्यात्म-विदां परात्मने
अनात्मने स्वात्म-विभक्त-मृत्यवे ।
स-कारणाकारण-लिङ्गम् ईयुषे
स्व-माययासंवृत-रुद्ध-दृष्टये ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव प्रपञ्चयन् नमस्यति, नमोऽस्त्व् इति । ते तुभ्यं नमोऽस्तु । अध्यात्म-विदां निवृत्त-देहाद्य्-अहङ्काराणां परात्मने परमात्मत्वेन प्रकाशमानाय । मोक्ष-प्रदायेत्य् अर्थः । अनात्मने देहाद्य्-अभिमानिने जीवाय, परत्वेनाप्रकाशमानत्वात् । स्वात्मनः सकाशाद् विभक्तः समर्पितो मृत्युः संसारो येन तस्मै । कुत एतत् तत्राह—स-कारणं महद्-आदिकार्यम्, अकारणं प्रकृतिः, तद् उभय-लिङ्गम् उपाधिं नियम्यतया ईयुषे प्राप्तवते । अत उभय-नियन्तुः स्वस्मात् सकाशात् तद् उभय-वश्याय जीवाय विभक्त-मृत्यव इत्य् अर्थः । नियन्तृ-नियम्यत्वे कारणं वदन्न् आह—हे स्व-मायया संवृतेति । अतोऽलुप्तैश्वर्यत्वान् नियन्त्रे तुभ्यं नमः । किं च रुद्ध-दृष्टये मायावित्वादेवान्येषां रुद्धा आवृता दृष्टिर् येन तस्मै । यद् वा, स्व-मायया स्वस्यासंवृता अन्येषां रुद्धा दृष्टिर् येन तस्मै इत्य् एकं पदम् ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् एव तवाज्ञ-परोक्षत्व-विज्ञापरोक्षत्वम् एव । इत्य् अर्थ इति-स्वरूप-प्रकाशस्यैव मोक्ष-हेतुत्वाद् इति भावः । परत्वेन ब्रह्म-रूपत्वेन अहं जीवानां मृत्युदो\ऽत्र । को हेतुर् इत्य् आशङ्कते—कुत एतद् इति । तत्राक्षेपे । यत उपाधिनियन्ता त्वम् अतो हेतोः । उभय-नियन्तुः कार्य-कारण-प्रेरकस्य । तद् उभय-वश्याय कार्य-कारणाधीनः । इत्य् अर्थ इति-नियन्तैव । नियम्यानां सुख-दुःख-विभाजको भवतीति भावः । तेने नियन्त्र इति लब्धम् । जीवानां नियम्यत्वे असंवृतानाच्-छादित-दृष्टे यतो\ऽसंवृत-ज्ञानो\ऽसि अतो हेतोः । अन्येषां लप्त-दृष्टित्वम् आह—किञ्चेति । स्व-माययेति पदस्य **रुद्ध-**दृष्टय इत्य् अनेन पृथक्-पृथक्-सम्बन्धे गौरवं मत्व् आह—यद्-वेति ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्त्व् इति नमस्कारस्य सदा सत्ताम् आशास्ते, संसारस्यापि तद् अधीनत्वं बोधयति । लिङ्गं जीवोपाधिः, अन्यत् तैर् व्याख्यातम् । तत्र परमात्मनेति लेख्ये\ऽनात्मेति वर्ण-द्वयपातो लेखक-भ्रमादित्य् अवगम्यते । परमात्मतया प्रकाशमानत्वान्-मोक्ष-प्रदाय, परमात्मत्वेनाप्रकाशमानत्वाच् च मृत्यु-प्रदायेति व्याख्योपपत्तेर् इति, अथवा स्वात्मनस् तस्यैव स्व-चित्ताद्-दोषाद्-धेतोर् विभक्त-मृत्यवे । यद् वा, परमात्मत्वे हेतुः—अनात्मने प्रवर्तक-रहिताय, स्वेच्छयैवाशेष-फल-प्रदानात् । किं च, स्वात्मनः श्री-भगवतस् तच्-चित्ताद् वा विभक्तानाम् अभक्त्या [विविक्तानाम् अभक्त्या] । पृथग्-भूतानां जनानां मृत्युर् यस्मात्-तस्मै, अन्यत् समानम् ।
स्व-पक्षे—आत्म-शक्त्य् अग्राह्यत्वं जीवानां त्वद् एकाधीनत्वाद् एवेति बोधयन् किञ्चिद् इष्टं प्रार्थयितुं प्रणमति-नमो\ऽस्त्व् इति । अध्यात्म-विदां परमात्मने\ऽन्यर्यामितया तत्र प्रवर्तकायेति । ज्ञानिनाम् अपि तद् अधीनत्वम् । अनात्मन इति तत्रापि स्वातन्त्र्यम्, स्वात्मेति अभक्तानाम् अपि तद् अधीनत्वम् एवोक्तम् । भक्तास्तु स्वत एव तद् एकाधीना इत्य् आह—स्वेषु भक्तेषु मायया कृपया यत् सकारणं निज-भक्ति-प्रवर्तनादि-प्रयोजनकम्, अकारणं च तत्रापी स्वाच्छन्द्येनाहेतुकम्, जीववत् कर्मादि-पारतन्त्र्याभावात् । लिङ्गं मनुष्य-देहं तदीयुषे प्रकटयते, अतो\ऽसंवृत! हे प्रकटैश्वर्य इत्य् अर्थः । अत एव रुद्धा निजातिसौन्दर्यादिना वशीकृता लोक-दृष्टयो येन तस्मै ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मात्-तद् असम्पन्नस्य मम युष्माकं सङ्गमे कारणं खलु तव कृपयैव पर्यवस्यतीत्य् आनन्देन प्रणमंस् तस्य तादृशत्वम् आह—नम इति । अस्तुपदेन नमस्कारस्य सदा सत्ताम् आशास्ते अध्यात्म**-विदां** त्वत्-तत्त्व-ज्ञानिनां परमात्मने सर्व-मूल-स्वरूपत्वेन स्फुरते । यतः न विद्यते नराकृति-परब्रह्म-रूपे\ऽस्मिन्न् आत्मान्तरं यस्य तस्मै अत एव स्वेन स्वरूप-भूतेनात्मना श्री-विग्रहेण अनेन विभक्तो दूरीकृतो\ऽन्येषाम् अघासुरादीनाम् अपि मृत्युर् येन तस्मै सर्व-नित्यताश्रययाय इत्य् अर्थः । एवं स्वरूपस्य महिमानम् उक्त्वा वैभवस्याप्य् आह—सकारणम् अनित्यं जगद्-रूपम् अकारणं नित्यं स्व-लोक-रूपं तद् द्वयम् अपि लिङ्गं वैभव-रूपं ज्ञापकम् ईयुषे नियम्यत्वेन नित्यं प्राप्तवते उतामृतत्वस्येशानः [सुवा। ६.२]इति श्रुतेः । तर्हि कथं जगद्-गतैर् भवद्भिर् दुर्लभो\ऽहं तत्राह—स्व-मायया स्वलोक-सम्बन्धिनाम् असंवृता जगत्-सम्बन्धिनां तु रुद्धा दृष्टिर्येन तस्मै इति तेन अस्माकं त्वद्-दृष्टौ त्वत्-कृपैव कारणम् इति भावः ॥४८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थं प्रपञ्चयन्-नमस्यति-नम इति । अध्यात्म**-विदां** शान्त-भक्तानां परः मायातीत आत्मा श्री-विग्रहो यस्य तस्मै अन्येषां ज्ञानिनाम् अनात्मने निराकाराय अन्येषाम् असुराणां स्वात्मना काल-रूपेण विभक्तः विभज्य विभज्य दत्तो मृत्युर् येन तस्मै वस्तुतस् तु सकारणं लिङ्गं विराड्-रूपां मूर्तिं प्राकृतीम् अकारणं लिङ्गं सच्-चिद्-आनन्दमयीं मूर्तिम् अप्राकृती च ईयुषे स्व-मायया असंवृता भक्तानाम् अनावृता रुद्धा भक्तानाम् आवृता दृष्टिः येन तस्मै ॥४८॥
॥ १०.८६.४९ ॥
स त्वं शाधि स्व-भृत्यान् नः किं देव कर198वाम हे ।
एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि199-गोचरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स एवं-भूतः परमेश्वरस् त्वं नोऽस्मान् स्व-भृत्यान् शाध्य् अनुशिक्षय ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम्-भूतो वशीकृत-मायः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शाधीत्य् अत्र हेतुः—स्व-भृत्यान् इति । तच् च नान्यत् किम् अपि, किन्तु त्वत्-प्रीतिकरम् एवेत्य् आशयेनाह—किम् इति । ते त्वत्-प्रीत्य् अर्थम् इत्य् अर्थः । तत्रैव हेतुः—हे देवेति । भृत्यैर् निजेष्ट-**देव-**प्रीतेर् अवश्यापेक्ष्यत्वाद् इति भावः ।
ननु तद् अपि किम् अर्थम् इत्य् अपेक्षायामाह—एतद् इति । क्लेशस् त्वद् अप्राप्तिकष्टं पुनस् त्वद्-विरह-दुःखम् एव इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, सत्त्वं साधुत्वं त्वद्-भक्तिम् इत्य् अर्थः ।
ननु त्वं मद्-भक्तिमानेवेति चेत् नेत्य् आह—स्वानां ज्ञातीनाम् एव भृत्यान्, न तु तव । यद् वा, स्वा एव भृत्याः पोष्या येषां तान्, उभयथापि कुटुम्ब-भरण-व्यग्रान् इत्य् अर्थः । भक्ति-शिक्षणं च सदा त्वद्-दर्शनार्थम् एवेतित्य् अभिप्रायेण दर्शनस्य माहात्म्यम् आह—एतद् इति । क्लेशः संसाराद्य् अशेष-दुःखम् । यद् वा, अतो\ऽधुना क्लेशे नष्टे सति प्रेमानन्द-सम्पत्तये भक्ति-प्रकारं शिक्षय इत्य् अर्थः । अन्यत् समानाम् । अतो गृहे तन्-निवासश् च राजवन्-न साक्षात् प्रार्थितः, तात्पर्येण तत्-सिद्धेः । किं वातिदैन्येन तत्रात्मनो\ऽनर्हत्वमननाद् इति ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शाधीत्यत्र हेतुः—स्व-भृत्यान् इति । तच् च नान्यत्किम् अपि किन्तु त्वत्-प्रीतिकरम् एवेत्य् आशयेनाह—किम् इति । ते त्वत्-प्रीत्य् अर्थम् इत्य् अर्थः । तत्रैव हेतुः—हे देवेति भृत्यैः निजेष्ट**-देव-**प्रीणनस्यावशकत्वाद् इति भावः ।
ननु संसार-क्लेशाभिमानिनः कथं ममानुशासन-कर्तृत्वं सम्यक् स्यात्-तत्राह—एतद् इति । स तु मम त्वद्-दर्शनानुषङ्गेणैवापगतः सम्प्रति त्वद् अनुशासन-कर्तृत्व-लक्षण एव पुरुषार्थो ममावशिष्ट इति भावः ॥४९॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शाधि अनुशिक्षय ॥४९॥
॥ १०.८६.५० ॥
श्री-शुक उवाच—
तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा ।
गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवा**च ह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-उकंत श्रुत-देवोक्तम् । तद् उक्तं श्रुत-देवोक्तम् । तं श्रुत-देवम् ॥५०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतत् उप दाक्षिण्येनाकर्ण्य प्रहर्षेण प्रकृष्टं हसन्न् उवाच, यतः प्रणतानां भक्तानां किं वा, कृत-प्रणामानाम् अप्य् आर्तिहा, यतो भगवान् साक्षात् परमेश्वरः । यद् वा, तत्राप्य् अशेषैश्वर्य-प्रकटनपरः कृष्ण इत्य् अर्थः । अत एव तस्य पणिं स्व-पाणिना गृहीत्वा इति तस्मिन् स्नेह-विशेष उक्तः ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एतत् उप आधिक्येन सावधानत्वेनाकर्ण्य प्रहर्षेण प्रकृष्टं हसन्न् उवाच यतः प्रणातानां भक्तानां किं वा, सकृत्-कृत-प्रणामानापि आर्तिहा अत एव गृहीत्वेति । ह हर्षे ॥५०॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाणिना पाणिं गृहीत्वेति । स-वैदग्ध्य-तद्-वचः श्रवणेन तं स्व-सख्य-रसे निमज्जयितुम् इति भावः । प्रहसन्न् इति मत्-तत्त्वं त्वया अवगतम् एव । तव तत्त्वम् अप्य् अवगच्छता मया त्वं किम् अप्य् उपदेष्टव्यो\ऽसीति भावः ॥५०॥
॥ १०.८६.५१ ॥
श्री-भगवान् उवाच—
ब्रह्मंस् तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् ।
सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्मिन्न् आदरम् अत्य्-अधिकं ब्राह्मणेषु मन्दम् इवालक्ष्य लोक-सङ्ग्रह-परो भगवान् मत्तोऽपि ब्राह्मणेषु श्रद्धातिरेकं कुर्व् इत्य् एवं तम् अनुशास्ति, ब्रह्मन्न् इति सप्तभिः । मया हृदि स्थितेन ॥५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीं ब्राह्मण-महत्त्वम् आह—स्वस्मिन्न् इत्य्-आदिना । हृदि-स्थेन सर्वदा मां हृदये वहन्तो विचरन्तीति तेनैते मत्तो\ऽधिका एते इति ध्येयम् । तद् उक्तम् अभियुक्तैः—
पृथ्वी शेषधृता स शम्भु-मुकुटे-कैलास-वासो\ऽप्य् असौ > कैलासो\ऽपि दशाननेन तुलितो बद्धो\ऽप्य् असौ वालिना । > वाली राघव-विष्णुना युधि जितो विष्णुः सतां मानसे तस्माद्- > विष्णु-परायणाद्-दुस्तरो नान्यो\ऽस्ति लोकत्रये ॥ इति ॥५१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्त-वात्सल्यभरेणात्म-भक्तेर् अपि स्व-भक्तम् अभक्तिं बहुमन्यमानस् तत्-प्रार्थित-सिद्ध्य् उपायम् एव शिक्षयन् । यद् वा, स्वस्मिन्न् आदरातिशयेन मतां चूडामणित्वात् सङ्कुचननाह—ब्रह्मन्न् इति । साक्षाद्-वेद-रूपेण त्वयैतज्-ज्ञायत एवेति भावः । ते त्वय्य् अनुग्रह एवार्थः प्रयोजनम्, तद् अर्थम् एव सम्यक् मत्साहित्य्-आदिना प्राप्तान् स्वयम् आगतान् विद्धि ।
ननु मुननिभिर् आत्मारामैः किं ते? तत्राह—सञ्चरन्तीति । अन्यत् तैर् व्याख्यातम् । यद् वा, विरह-दुःख-शान्तये मदीय-श्री-मूर्त्या सह, अत एव ते महा-भागवत-श्रेष्ठा एव, न त्व् आत्मारामा इति भावः ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्मिन्न् एव स्तुत्य् अतिशयेन सतां चूडामणित्वात् सङ् कुचंस् तथा भक्त-वात्सल्य-वरेणात्म-भक्तेर् अपि स्व-भक्त-भक्तिं बहु-मन्यमानस् तत्-प्राथित-सिद्ध्य् उपायम् एव शिक्षयन्न् आह—ब्रह्मन्न् इति । साक्षाद्-वेद-रूपत्वेन त्वयैतज्-ज्ञायत एवेति भावः । ते त्वय्य् अनुग्रह एवार्थः । प्रयोजनं त्वद् अर्थम् एव सम्यक् मत्साहित्य्-आदिना प्राप्तान् स्वयम् आगतान् विद्धि ।
ननु त्वम् एव साक्षाद् आगतो\ऽसि मुनिभिः किम् आधिक्यं तत्राह—मयेति । हृदि-स्थेन क्वचित्-साक्षाद्-भूतेन च सह सह [युक्ते] योगे \ऽप्रधाने [२.३.१९] इति पणिनि-स्मरणाद् अहम् अप्य् एषाम् अधीन इति भावः ॥५१॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-स्तुतिम् आकर्ण्य स्व-सङ्गिनां विप्राणां स्तुतिं त्वनाकर्ण्य ब्रह्मण्य-देवो ब्राह्मण-भक्त्य् उपदेशम् इषेण स्वयम् एव ब्राह्मणान् स्तुवन् तव स्तव्यस्यापि मम ब्राह्मणाः स्तव्या इत्य् अभिव्यञ्जयति-हे ब्रह्मन्! हे ब्राह्मण! स्वस्य ब्राह्मणत्वाद् एव स्वजातिषु तव नात्यादर इति भावः ॥५१॥
॥ १०.८६.५२ ॥
देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः ।
शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवादिभ्योऽपि ब्राह्मणाः श्रेष्ठा इत्य् आह—देवा इति । ते शनैः पुनन्ति, एते तु सद्यः । किं च देवादीनि यत् पुनन्ति तद् अप्य् अर्हत्तमानार्मीक्षया ॥५२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाह—देवादिभ्यो\ऽपीति । ते देवादयः । शनैश्चिर-काल-सेवनेन । एते तु ब्राह्मणास् तु । सद्यो **दर्शन-**सम-कालम् एव । देवादिषु यच्छोधन-सामर्थ्यं तद् अपि ब्राह्मण-प्रसाद् अकृतम् एवेत्य् आह—किञ्चेति । अर्हतः कुल-वृद्धाद्या अर्हत्तरा देवा अर्हत्तमा ब्राह्मणा ममापि पूज्यत्वात् । स मत्मपरो\ऽहं द्विज-देवदेवः इति पञ्चमे ऋषभ-देवोक्तेः । सो\ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिः [भा।पु। ३.१६.६] इति सनकादीन्-प्रति वैकुण्ठ-नाथोक्तेः । तेषाम् ईक्षया प्रसादेन ।
तीर्थ-यात्रा जपो दानं व्रतम् इष्टादिकं च यत् । > विप्राराधनतः साङ्गमन्यथा विगुणं शिव ॥ इति तन्त्र-शास्त्रात् > ॥५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-भागवत-श्रेष्ठत्वम् एव दर्शयति—देवा इति द्वाभ्याम् । मृच्छिलादि-मयाः साक्षाद् इन्द्रादय\ऽर्क-ज्योतिर्मयाः । क्षेत्रतीर्थयोः स्थल-जल-प्रधानत्वेन भेदः अर्हत्तमाः पूजादिकं सर्वं ये अर्हन्ति ते अर्हन्तस् तेषु श्रेष्ठ-तमा महा-भागवतोत्तम-महा-भागवता इत्य् अर्थः । तेषाम् ईक्षया तत्-कर्तृक-देवाद्य् अपेक्षया, किं वा, दृष्टि-मात्रेण इत्य् अर्थः । पाठान्तरे\ऽप्य् अर्थः स एव ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवादयस् तु न तादृशास् तद्-दत्त-वैभवाश् चेत्य् आह—देवाः प्रतिमा-रूपाः साक्षाद्-रूपा एव वा क्षेत्राणि स्थल-रूपाणि तीर्थानि जल-रूपाणि शनैः पुनन्ति तत्रापि कालेन चिरेणैव एते तु पुनन्त एव सञ्चरन्तीत्य् उक्तं देवादीनां पुनानात्वम् अप्य् अर्हत्तमानां तेभ्यो\ऽपि पूज्यानाम् एतादृश-मद्-भक्तानाम् ईक्षया देवादित्व-सम्पादिन्या दृष्ट्यैव मूल-हेतुन इत्य् अर्थः । ममापि त्वद् अधीनत्वाद् इति भावः ॥५२॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, देवादिभ्यो\ऽपि ब्राह्मणाः श्रेष्ठा इत्य् आह—देवा इति । ते शनैः पुनन्ति एते तु सद्य एव तद् अपि तत्-पुनानत्वम् अपि अर्हत्तमानाम् ईक्षया अर्हत्तम-कर्तृकावलोकनं यदि ते प्राप्नुवन्ति तदैव यद् उक्तं—
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।[भा।पु। ४.३.३७] इति ॥५२॥
॥ १०.८६.५३ ॥
ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनाम् इह ।
त**200पसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मम कला-परिकलनम् उपास्तिस् तया युतः ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राणिनां जीव-मात्राणाम् । जन्मना ब्राह्मण-देहावाप्ति-लक्षणेन । शङ्ख-क्षीर-न्यायेन कैमुत्यम् आह—तपआदिना, विप्र-श्रैष्ठ्यं तु वक्तुं न शक्यम् इति भावः ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जन्मना जाति-मात्रेणैव । इह भूमौ त्रिलोक्यां वा सर्वेषां मध्ये श्रेयान्, तत्र च तप आदिना, तत्रापि मत्कलया श्रेयान् इति किं वक्तव्यम् इत्य् अर्थः । तपः स्व-धर्मः विद्या शास्त्राभ्यासः, तुष्टिर्-यथा-लाभेन तृप्तिः शान्तिर्वा, कला भक्तिः, एषां यथोत्तरं श्रैष्ठ्यम् । एवं ब्राह्मणत्वेन तत्र च तप-आदिभिर् मत्-कलया चेति महा-भागवत-श्रेष्ठत्वम् उक्तम् । तल्-लक्षणं च पाद्मोत्तरखण्डे—
तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । > अर्थ-पञ्चकविद्-विप्रो महा-भागवतोत्तमः ॥ इति ॥
अस्यार्थश् च श्री-भगवद्-भक्ति-विलास-टीकायां विवृत एव ॥५३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषां तादृशत्वम् एव कैमुत्येन स्थापयति-जन्मनेति । जन्मना जाति-मात्रेणैव तत्र च तपआदिना श्रेयान् इति स्थिते तत्रापि मत्-कलया श्रेयान् इति किं वक्तव्यम् इत्य् अर्थः । तपः स्व-धर्मः विद्या शास्त्रीय-ज्ञानं तुष्टिर् आत्मा-रामत्वं मत्-कला मत्-स्फूर्तिः एषां यथोत्तरं श्रेष्ठ्यम् ॥५३॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम कला-परिकलनम् उपासनोत्थ-साक्षात्कारस् तया युतः ॥५३॥
॥ १०.८६.५४ ॥
न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् ।
सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च ब्राह्मणाराधनम् एव मम प्रेष्ठम् इत्य् आह—नेति । हेतुम् आह—सर्व-वेद-मयो विप्र इति । प्रमाणाधीनत्वात् प्रमेय201स्य वेद-मयो विप्रो देव-मयाद् अस्माद् रूपात् प्रेष्ठ इत्य् अर्थः ॥५४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मम प्रियं स्वरूपं च ब्राह्मणा एवेत्य् आह—किञ्चेति । विप्राराधनस्य प्रेष्ठत्वे हेतुम् आह—इत्य् अर्थ इति । मत्-संबन्धि-ज्ञानं विप्र-द्वारैव भवति ते एव शास्त्र-द्वारा मां प्रकाशयन्ति, प्रकाश्यापेक्षया प्रकाशक एव महान् इति भावः । सर्व-देव-मयत्वाद्-विप्राः प्रकाशका वेदस्यैव **देव-**प्रकाशकत्वान्-मम देवत्वात् अहं प्रकाश्य इति ॥५४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो मत्तो\ऽप्य् अधिकम् एते पूज्या इति वक्ष्यम् महा-भागवतोत्तमत्वम् एवोक्तपोष-न्यायेन द्रढयन्न् आह—नेति त्रिभिः । एतद् इत्य् अनेन **चतुर्-**भुजतयैव श्रुत-देवादयो\ऽर् जुनादिवत्तं पश्यन्तीति ज्ञेयम् । चतुर्-भुजम् इत्य् अनेन च द्विभुज-रूपं ब्राह्मणाद् अपि प्रियं श्री-व्रज-जनादि-प्रियतमत्वाद् इति सूचयति । हि यतः, अन्यत् तैर् व्याख्यातम् ।
यद् वा, हि अपि **सर्व-देव-**मयो\ऽप्य् अहम् । अतो यद्यपि वेद-द्वारा ब्राह्मणेज्य-**सर्व-देव-**मयत्वेन ब्राह्मणानाम् अपि सम्पूज्यो\ऽहम्, तथापि मे मदीया ब्राह्मणाः, देव-मयत्वाद् अस्मद्-रूपं न मे प्रियम्, भक्ति-प्रियत्वेनैव निजस्यापि सर्वस्य मत्-प्रियत्वाद् इत्य् अर्थः । तथा च श्री-भगवद्-वाक्यं नवम-स्कन्धे दुर्वाससं प्रति नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि । एकादशे चोद्धवं प्रति नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इति । अवजानन्ति नाद्रियन्ते, यतो\ऽसूयवः, तत्र हेतुः—दुष्प्रज्ञा दुष्ट-बुद्धय इति । तत्रैव हेतुः—अर्चादाव् एव, न तु मद्-भक्दिष्व्-विज्य-बुद्धयः । आदि-शब्दान्-माल्यादिः । यद् वा, एवम् अविदित्वार्चादाविज्य-दृष्टयः सन्तो\ऽवजानन्ति । यतो दुष्प्रज्ञाः, अतो\ऽसूयवः । गुरुम् इति वर्णानां ब्राह्मणो गुरुः इत्य्-आदि-वचनात् माम् इति तद् अधिष्ठान-परत्वात् । तत्राप्य् आत्मानं मद्-भक्ततया मत्-प्रियतमम् इत्य् अर्थः । यतो विप्रावज्ञया गुरौ मयि महत्सु चापराधः स्याद् इति भावः । विशेषणानाम् एषां यथोत्तरं श्रेष्ठ्यम् । एवं भक्तस्य सर्वतः श्रैष्ठ्यम्, तद् अपराधाधिक्याद् इति ॥५४-५५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एवम्-भूताद्-ब्राह्मणात् ममैतद्-भवतां दृश्यमानं श्री-कृष्णाख्यम् अपि चतुर्-भुजं रूपं न प्रियं तत्र हेतुः—सर्वेति । तत्र सर्व-वेद-मयत्वं तद् उत्थ-**सर्व-**ज्ञानाश्रयत्वं **सर्व-देव-**मयत्वं च तज्-ज्ञेय-सर्वोपास्य-मूलत्वं ततस् तेषां विषयित्वं स्वस्य च विषयत्वं निर्दिश्य विषयिणं विना विषयस्यानुपादेयत्वम् अपि लौकिकाभानकेनैव स्व-भक्त-महिमा साधितः तथैव नवमे वैकुण्ठ-नाथ-वाक्यम् नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि ॥५४॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-वेद-मयो विप्र इति मम सर्व-देव-मयत्वात् सर्वेश्वरस्यापि प्रमाणं ये वेदास् तन्-मय एव विप्रो भवेत् ॥५४॥
॥ १०.८६.५५ ॥
दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः ।
गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : असूयवो दोष-दृष्टयः । इज्य-दृष्टयः पूज्य-बुद्धयः ॥५५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्द-मतय इत्थं न जानन्तीत्य् आह—दुष्प्रज्ञा इति । एवं मन्-निश्चयम् । असूयवः पाषण्ड-विभिन्न-मतयः । मां मद्-रूपम् । गुरुं वर्णाश्रम-पूज्यम् । आत्मानं सर्वव्यापि ब्रह्म-रूपम् । ब्रह्म ब्राह्मण आत्मना इति श्रुतेः । माम् इत्य् अनेन पुनर् उक्तिर् न शङ्क्या सगुणाभिप्रायत्वात्-तस्या इति । आदिना जलाग्न्यादि-ग्रहः ॥५५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अविदित्वा अर्चादाव् एवेज्य-दृष्टयः सन्तो विप्रं जात्यादिनैव पूज्यं तत्रापि गुरुं महा-भागवतत्वात् सर्वोपदेष्टारम् अत एव । मां मदीय-परमाधिष्ठानत्वान्मद-भिन्नम् अत एवात्मानं परमात्म-रूपम् अवजानन्ति यतो दुष्प्रज्ञा दुष्ट-बुद्धयः तत एवासूयवः मानुषत्वादि-स्व-साम्यदृष्ट्या तद्-गुणासहिष्णवः ॥५५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असूयवः ब्राह्मणेषु दोष-दर्शिनः प्रतिमादाविव न तु ब्राह्मणेषु पूज्य-बुद्धयः ॥५५॥
॥ १०.८६.५६ ॥
चराचरम् इदं विश्वं भावा ये चास्य हेतवः ।
मद्-रूपाणीति चेतस्य् आ-धत्ते विप्रो मद्-ईक्षया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विश्वस्य हेतवो भावा महद्-आदयः । मद्-ईक्षया ममैव सर्वत्रेक्षया ॥५६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रो धत्त इत्य् अनेनाभेद-विचारो ब्राह्मणस्यैव न त्व् इतरेषाम् इति सूचितम् । प्रव्रज्याधिकारिकत्वात्-तद्-विचारस्येति ॥५६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मत्वम् एव महा-भागवतोत्तमत्वेन दर्शयति—चरेति । मम रूपाण्य् अधिष्ठानानीत्य् अर्थः । आ सम्यग् धत्ते धारयति । तत्र हेतुः—मद् ईयेति । मद्-व्यतिरिक्त-दृष्ट्य**-**भावाद् इत्य् अर्थः ॥५६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तादृशस्य महा-भागवतत्वम् एव दर्शयन्न् आत्मा-भेद-व्यपदेश-हेतुं दर्शयति—चरेति । मम रूपाणि रूप्यन्ते यत्रेति निरुक्त्या अधिष्ठानानि इति चेत् असि आ सम्यक् धत्ते धारयति तत्र हेतुः—मद्-ईक्षयेति । तत्र तत्र मद् एक-स्फुरणाद् इत्य् अर्थः । एकादशे—
सर्व-भूतेषु यः पश्येद्-भगवद्-भावम् आत्मनः । > भूतानि भगवत्यात्मन्य् एष भागवतोत्तमः ॥ [भा।पु। ११.२.४५] > इति ।
आत्मनो\ऽभीष्टो यो भगवद्-भावस् तत्-प्रादुर्भाव-विशेषस् तम् एव यः सर्व-भूतेषु पश्यति एवम् आत्मनि स्फुरन् यो भगवान् तदाश्रयत्वेन न भूतानि पश्यति यः स भागवतोत्तम इत्य् अर्थः । श्री-भगवद्-गीतासु—
मां हि पार्थ व्यपाश्रित्य ये\ऽपि स्युः पाप-योनयः । > स्त्रियो वैश्यास् तथा शूद्रास् ते\ऽपि यान्ति परां गतिम् ॥ > किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥ [गी। ९.३२-३३] > इति ॥५६॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईदृशस्य ब्राह्मणस्य लक्षणम् आह—चरेति । अस्य विश्वस्य हेतवो भावाः पदार्थाः महद्-आदयः मद्-ईक्षयेत्य् अस्यार्थस्य पौनर् उक्त्यान्-मद्-ईक्षया मत्-साक्षाद्-दर्शनेन युक्तं विप्र-विशेषो नारदादिर् इत्य् अर्थो द्रष्टव्यः ॥५६-५७॥
॥ १०.८६.५७ ॥
तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय ।
एवं चेद् अर्चितोऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फलितम् आह—तस्माद् इति । यतो विप्रार्चनम् एव मद् अर्चनं तस्माद्-धेतोः । एतान् उपस्थितान् । मयि या श्रद्धादराधिक्यं तया मच्-छ्रद्धया । एवं चेत् **मच्-**छ्रद्धया विप्रे\ऽर्चिते सति । अद्धा साक्षात् । अन्यथा-परप्रीत्या विप्रानर्चने\ऽहं **भूरि-**भूतिभिर् बहु-विध-सामग्रीभिर् अप्य् अर्चितो न भवामीत्य् अर्थः । यतो मे मुख्या मूर्ति-ब्राह्मण एव ब्रह्म ब्राह्मण आत्मना इति श्रुतेः । सदाह विप्र-रूपेण विचरामि महीतले इति स्मृतेश् च । किं च, अव्यक्त-रूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि इति पाद्मोक्तेश् च । अत एव स्वयम् एव भगवतोक्तम्—न ब्राह्मणान्मे दयितं रूपम् एतच्-चतुर्भुजम् इति ॥५७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्म-र्षीन् ब्राह्मणेषु ऋषीन् तपस्विनो वेदद्रष्टृन् वा । एतान् महा-भागवत-श्रेष्ठत्वेन मत्-प्रियतमान् इत्य् अर्थः । पाठान्तरं स्पष्टम् । एतान् इत्य् उपलक्षणम्, सर्वान् एव मद्-भक्तान् इत्य् अर्थः । पाठान्तरं स्पष्टम् । एतान् इत्य् उपलक्षणम्, सर्वान् एव मद्-भक्तान् इत्य् अर्थः । सच्छ्रद्धया उत्तम-प्रीत्या अद्धा साक्षाद् एवार्चितो\ऽस्मि, अन्यथा मद्-भक्त-त्यागेन भूरि-भूतिभिर् बहुल-समृद्धिभिर् अप्य् अर्चितो न भवामि । हे ब्रह्मन्न् इति वेदावेक्षयापि वेदात्मकस्य भवादृशो युक्तम् एवेदम् इति भावः । एवं सप्रार्थनानुरूपं निज-भक्त-भक्तिम् एव शिक्षयामासेति ज्ञेयम् ॥५७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म-ऋषीन् ब्राह्मणेषु मत्-तत्त्व-ज्ञान् एतान् मत्-प्रियतमान् एतान् इत्य् उपलक्षणं सर्वान् एव मद्-भक्तान् इत्य् अर्थः । मच्-छ्रद्धया उत्तम-प्रीत्या अद्धा साक्षाद् एवार्चितो\ऽस्मि । अन्यथा मद्-भक्त-त्यागेन **भूरि-**भूतिभिर् बहुल-समृद्धिभिर् अप्य् अर्चितो न भवामि ॥५७॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८६.५८ ॥
श्री-शुक उवाच—
स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् ।
आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् उक्तरीत्या । स श्रुतदेवः । सहस्य सादेशो बाहुलकत्वान् न । एकात्म-भावेनाभेद**-भावेन** विप्राः श्री-कृष्ण-स्वरूपाः श्री-कृष्णश् च विप्ररूप इत्य् एवं रूपेण । मैथिलो बहुलाश्वश् च । तद्-गतिं श्री-कृष्ण-सारूप्यम् ॥५८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतम् उपदेशं बहुलाश्वे\ऽपि श्री-भगवांश् चकारेत्य् अतिदिशन्नुभयोर् अन्तिमं फलम् अप्य् आह—स इति । स विप्रश् च मैथिलो नृपश् च प्रभुणा निजेश्वरेणेति तदादेशे विश्वासादिकं बोधयति । सह साहित्येन कृष्ण**-द्विजोत्तमान्** तं तांश् च एकात्म-भावेन एक-चित्तत्वेन तुल्य-प्रयत्नतया भक्त्या आराध्य तस्य तेषां च गतिं नित्य-लोकम् ॥५८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतम् उपदेशं बहुलाश्वे\ऽपि श्री-भगवांश् चकारेत्य् अतिदिशन्नुभयोर् अन्तिमं फलम् अप्य् आह—स इति । स विप्रश् च मैथिलो नृपश् च प्रभुणा निजेश्वरेणेति तद् आदेशे विश्वासादिकं बोधयति । सह साहित्येन कृष्ण-द्विजोत्तमान् तं तांश् च एकात्म**-भावेन** एकचित्-तत्वेन तुल्य-प्रयत्नतया भक्त्या आराध्य तस्य तेषां च गतिं नित्य-लोकम् ॥५८॥
———————————————————————————————————————
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐकात्म्यम् एक-मनस् त्वं तद्-रूपो यो भावस् तेन यद् वा, कृष्ण-तत्-सङ्गि-विप्रयोर् यद् ऐकात्म्यम् ऐक्यं तद्-भावनया ॥५८॥
॥ १०.८६.५९ ॥
एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां वेदानां त्रि-काण्ड-विषयाणां प्रवृत्ति-प्रकारम् आदिश्य ॥५९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त्वा । भक्तानां भक्ति-विद्यते यस्य स तथा । भक्तेषु प्रसाद-लक्षण-स्नेहवान् । त्रिकाण्ड-विषयाणां कर्मोपास्ति-ज्ञान-रूप-त्रिकाण्ड-विषयाणां ॥५९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण स्वभक्तयोः, स्वकीय-भक्तौ विप्रनृपौ प्रति, सतां सन्तं वोत्तमं मार्गं स्व-भक्त-भक्ति-प्रधान-स्व-भक्ति-योग-लक्षणम् आदिश्य सतां वेदानां मार्गं स्वस्मिन् प्रवृत्ति-प्रकारं वा । किं कृत्वा उषित्वा तद् अर्थं तयोः प्रीत्य् अर्थं वा चिरं तत्रावस्थाय यतो भक्तेषु भक्तिर् आदरः प्रेम-लक्षणा वा तद्वान् । तत्र हेतुः—भगवान् इति ॥५९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : [+++]{।मर्क्}
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्-मार्गं सतां भक्तानां मार्गं भगवद्-विषयकं भक्ति-योगम् ॥५९॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे श्रुत-
देवानुग्रहो नाम षड्-अशीतितमोऽध्यायः ।
॥ ८६ ॥
-
राम-चरितानि (ब) ↩︎
-
मुकुन्दस्य यान्य् अन्यानि वीर्याणि प्रभावमय-चरितानि च श्रोतुम् इच्छामो वयम्, प्रार्थनायां लोट् । अन्येषाम् अपि वीर्याणां सम्भावने हेतुः—अनन्त-वीर्यस्येति । एवं तव कथने योग्यता तथा तद् वीर्याणाम् एव तादृशत्वात् अस्माकं तन्-मात्र-श्रवणौचित्यं, तथा तेषाम् आनन्त्यञ्चेति सर्वाण्य् एव तानि कथयेति भावः ।
ननु, द्वित्राण्य् एव दिनानि तव जीवितम् इति कथम् एतावत्याशा सम्पद्येत ? तत्राह—प्रभोर् इति । आयुंष्यपि यथेष्टं तादुं शक्तस्येत्य् अर्थः, अन्यतृप्ति-विलसितम् एवेदम्। ↩︎
-
मुहुर् ब्र्ह्म [गो।प्रे-टी] ↩︎
-
सत्-कथां-विज। ↩︎
-
कामस्य विषयि-भोगस्य मार्ग-गणैरन्वेषणै श्लेषेण काम-वाणैर् विषादं प्राप्तः। ↩︎
-
अहो इत्य्-आदित आरभ्य विराम इत्य्-अन्तं भ।संस्करणे नास्ति। ↩︎
-
कदल्यादिषु। ↩︎
-
अनुतरलो। ↩︎
-
उभय-लिङ्गं तत्-प्रभक्त-रूपं चेति तोष। ↩︎
-
स च स्वतो भगवान् भगवल्-लीला-तत्त्वज्ञत्वेन सर्वज्ञ-शिरोमणिः । किम् च, वाडरायणस्य सर्व-वेदान्तसारज्ञस्य पुत्रः, तेन पुनः सम्प्रश्नेन तु श्री-वसुदेव-नन्दने समग्रैर्श्वर्यादि-समग्र-कारुण्यादि-गुण-निवासे नितरां मग्न-हृदयः सन्न् अव्रवीत् । तस्य परम-कृपामयं कथास्वेव विशेषं स्मृत्वा कथयामाषेत्य् अर्थः। ↩︎
-
प्रयत्नं विना समीप-लब्धेनार्थेन वृत्तिं कल्पयन्। ↩︎
-
कुचैला च—गो।प्रे।टी। ↩︎
-
दरिद्रं इति पाठे पत्युर् विशेषणं। ↩︎
-
भगवतः पुज्यस्य तव। ↩︎
-
उपैहि समीपे गच्छ । उपेहि इति पाठः। ↩︎
-
भोजादय ईश्वरा यस्मात्। ↩︎
-
स्मरतो भजत इति चतुर्थ्यर्थे सष्ठौ तोष। ↩︎
-
मुहुः इति पाठः। ↩︎
-
दीयताम् इत्य् उवाचेति शेषः। ↩︎
-
अच्युतोऽविच्छिन्नो धर्मोऽस्त्य् एषाम्, अच्युतस्य धर्म आराधनं येषाम् अस्तीति वा। ↩︎
-
निवृत इति पाठान्तरम्॥ ↩︎
-
चन्दनादिभिः सहैव धृष्टेन गन्धेन। ↩︎
-
शैब्या इति पाठस् तोषण्यां गृहितः, सारार्थ-दर्शिन्यां च धृतः । शैब्या इति पाठे तस्या रुक्मिणी-गृहागतत्वां कल्प्यम् इति रामतेजः-पाण्डेयः। ↩︎
-
प्रियां इति पाट्ःअः। ↩︎
-
कचित् इति पाठः। ↩︎
-
अतस् तैर् अपि। ↩︎
-
गुरौ गुरु-समीपे। ↩︎
-
प्रविष्टेष्व् अस्मासु सत्सु। ↩︎
-
संवृत-विज। ↩︎
-
कजलौधेन-विज। ↩︎
-
बभ्रिम ब्ंभ्रमिम । भ्र्मम्यतेष्टिलोप आर्ष इति तोष। ↩︎
-
एतद् अस्मद्-दुःखम्। ↩︎
-
श्रेष्ठः इति पाठः। ↩︎
-
जीर्नं च परि-भुक्तं च यातयामम् इत्य् अमरः। ↩︎
-
प्रसान्तये संसार-दुःख-निव्र्त्तये योग्यो भवतीति शेषः। ↩︎
-
गुरौ गुरु-समीपे। ↩︎
-
पृथुक-ग्रन्थि-निरीक्षणेनोपलक्षितः प्रहसन् मम प्रजावत्या दत्तं तद्-भगान् कथं गोपयतीत्य्-आदिना परिहसन्न् उवाच। ↩︎
-
किं तत्-कथय देहीति वा शेषः। ↩︎
-
अत्र तोयस्य पेयत्वेऽप्य् अशनोक्तिस् तद् एकाहारत्व-विवक्षया अब्भक्ष इतिवत्। ↩︎
-
अस्य अस्मै । यद् वा, तत्-पत्नी-प्रप्रीत्य् अर्थम् एव दानेन तत्-संवन्ध-मात्र-विवक्षणेन तत्-संप्रदानत्वाविवक्षणाद् अस्येति तोष। ↩︎
-
स्व-सुखेन स्वेषां भक्तानां सुखं यस्मात्-तेन। ↩︎
-
पथानुव्रज्य इति पाठः। ↩︎
-
विप्र-कुले जात इत्य् एव हेतोः। ↩︎
-
प्रिया जुष्टे इति पाठः। ↩︎
-
व्याख्यायाम् अत्र। ↩︎
-
विमानैस् तत्-सदृश-गृह-विशेषैः। ↩︎
-
हरिणाक्षिभिर् इत्य् उभय-विशेषणत्वान् न समासान्तः । अत्रैवं ज्ञेयन्—सुदाम्नो द्वारका-वास-रात्रौ स्व-गृहे सुप्तायां तत्-पन्त्न्यां च सर्वं स्थानं तद्-रूपादिकं च दिव्यम् अभूत् । प्रातर् दिव्य-दास्यादेर् उत्तया स्वभर्तृ-सङ्गत-श्री-कृष्ण-दत्तं ज्ञात्वा विस्मितया पत्न्या गमन-ज्यापका जनास् तन्-मार्गे नियुक्ता इति। ↩︎
-
रत्न-दीपैः इति पाठे तैर् सह भ्राजमाना रत्न-हार-युता ललनाः सन्ति। ↩︎
-
अवलोकतोऽन्यत् इति पाठः। ↩︎
-
स्व-मुखेन। ↩︎
-
जने भक्ते स्वस्मिन्न् अर्दनं उपायन-याचनं यस्य तस्मिन् जात-प्रेमा। ↩︎
-
जायया हेतुना। ↩︎
-
दैवं देवता। ↩︎
-
एतत्-पृथुकोपाख्यानम्, यद् वा, एष उक्तो ब्रह्मण्य-देवस् तस्य। ↩︎
-
एकदा राजसूयात्-पूर्वं श्री-रामक्-व्र्जागमनाद् ऊर्ध्वं। ↩︎
-
सुदाम-सुहृदे इति पाठः। ↩︎
-
लोकस्य ग्राहयन् लोकं ग्राहयन्नित्यर्थः। ↩︎
-
सुचन्द्रो रुक्मिणी-पुत्रश् चारु-चन्द्र-नामा, सुक-सारणौ यादव तैः सह । इदम् उत्तरान्वयि। ↩︎
-
उपष्येति सूर्योपराग-निमित्तं, तीर्थोपवासस्य तत्र निषिद्धत्वात्। ↩︎
-
कुन्ती-नारट्ट्केरलान् इति पाठः । तत्र आरट्टान् स्न्धुपारीणान्। ↩︎
-
यत् यतः अनु सर्वतः पश्चाद् अपि न स्मरथ बहुत्वं पुत्राद्य् अपेक्षया। ↩︎
-
ईश-क्रीडनकातरान् इति पाठे ईश-क्रीडया कातरान् विवशान्। ↩︎
-
दिशो दश, दिशो दशः इति पाठौ। ↩︎
-
यत् यस्य । षष्ट्या लुग् आर्षः। ↩︎
-
तत् स इत्य् अर्थः । प्रथमायाश् छान्दसो लुक्। ↩︎
-
कातरा व्याकुलाः अत्युत्सुका वा। ↩︎
-
पितराव् इति तत्र तयोर् माता-पितृत्व-बुध्य-विच्छेदो व्यज्यते। ↩︎
-
मैत्रीं हिताचरणम्। ↩︎
-
दुरागमनेन त्यक्तयोर् अप्य् अनुवर्तमानाम्। ↩︎
-
अस्मद् आवासे। ↩︎
-
सम्प्रीणनं प्रिय-दानादीना, अभ्युदयो जात-कर्मादि, पोषणं स्तन्यादिना, लालनं विमिश्रणम्। ↩︎
-
लालनानि इति पाठः। ↩︎
-
ऋषिर् उवाच। ↩︎
-
शपन्त्यः। ↩︎
-
यद् वा सदा हृदि-कृतं अधुना दृग्भिः परिरभ्य तस्मिन्-भावं प्रेमातिशय तेन चानन्दं मूर्च्छां प्रापुः नित-युजां रुक्मिण्यादिनाम् अपि दुरापं । दीर्घत्वं छन्दोनुरोधाद् आर्षम् । क्वचित् कृतं इति पाठः। ↩︎
-
सङ्गताः। ↩︎
-
नित्य-युजां भक्तानां प्रेमवश्यतादि। ↩︎
-
फ़्रोम् *इत्य् अनेन—इत्य् अत्र तादृशीनां साक्षाद् एव तत्-प्राप्तिः फलं नान्येषाम् इवामृतत्व-मात्रम् इत्य् एतत् तासाम् आश्वासन-रूप-भगवद्-वचनानन्तरम् । ननु त्वं द्वारकायाम् एव सदा क्रीडसि, वयं तु वृन्दावन-वासिन्यः कथं प्राप्स्यामः ? इत्य् आशङ्क्य युष्माभिर् नित्य-संयुक्त एवाहम् अस्मीति तथाविधम् आत्मानम् उपदिशति द्वाभ्यां (छ, ज) ↩︎
-
यद् वा एतद् उभयं परे द्वारकादौ वर्तमाने, अक्षरे नित्यम् एव युष्मत्-सङ्गिनि मयि आभातं विराजमानं पश्यत। ↩︎
-
अर्थान्तरे तु तस्यावियोगस्यानुस्मरणेन प्रेमातिशयाद् एव तथानुभवेन ध्वस्तो जीवनस्य कोश आच्छादनं विरहान् न जीविष्याम इति भावना यासां ता इति। ↩︎
-
अथानु। ↩︎
-
परिपृच्छय। ↩︎
-
महात्मनां संमुख-निर्व्र्त्तं क्वचित्। ↩︎
-
समाहार-द्वन्द्वः। ↩︎
-
भौमाहृत-शताधिक-षोडश-सहस्र-स्त्रीषु मुख्या। ↩︎
-
अत्रोप्वेशनक्रमापेक्षया सम्वोधन-क्रमः । प्रत्युत्तरं तु विवाह--क्रमेणैव। ↩︎
-
बहुभिर्याचिताम् इति मुद्रित-पाठः । ↩︎
-
अष्टम-विंशाहम् इति तु समाप्ति-दिनं गृहीत्वा। ↩︎
-
भद्रोवाच। ↩︎
-
भ्रातृन्-सन्तर्दनादीन् अन्यस्मै दत्ततः । विन्दानुविन्दाव् इति भ्रातृद्वये प्राग् उक्तेऽप्य् अत्र बहुतं तद् उपलक्षितान्य-बोधनार्थम् इति तोष। ↩︎
-
श्रियौक इत्य् अत्र श्रिय इति षष्ठन्तं पृथक्-पदंपुर-विशेषणंसन्धिर् आर्षः। ↩︎
-
उक्षणः उक्ष्णः। ↩︎
-
मित्रविन्दोवाच, पाठान्तरम्। ↩︎
-
कृष्णायेति साक्षात्-पत्युर् नाम-ग्रहणं हर्षेणानवधानात्। ↩︎
-
अभिजिति जयादि-प्रदेऽष्टमे मुहूर्ते मध्याह्न इत्य् अर्थः। ↩︎
-
तावत्-तत्-क्षण एव। ↩︎
-
मिषतां पश्यताम् इत्य् अनादरे षस्ठी। ↩︎
-
श्वानोपि चापवद्-वक्रोर्ध्व-पुच्छाः। ↩︎
-
पूर्णस्येति चतुर्थ्य् अर्थे षष्ठी । पूराय इत्य् एव पाठः कचित्। ↩︎
-
वन-लतास् तरव आत्मनि विष्णुं
व्यञ्जयन्त्य इव पुष्प-फलाढ्याः
प्रणत-भार-विटपा मधु-धाराः
प्रेम-हृष्ट-तनवो ववृषुः स्म ↩︎
-
यद् वा, स्व-गोप्यो द्रौपद्य्-आदि-पालयित्र्यस् तत्-सख्यादयः। ↩︎
-
आजग्मुः इति पाठः। ↩︎
-
ब्रह्म-पुत्राः सनकादयः । ब्रह्म-पुत्रः इत्य् अपि कचित्-पाठः। ↩︎
-
[स्मम्मयानि]{।मर्क्} नद्यादीनि तीर्थानि पावनानि नहि किं । काका भवन्त्यव् एत्य् अर्थः । प्रतिमादि देवा अपि पावना न किम्, किन्तु पुनन्त्य् एवेति भावः। ↩︎
-
उपासितोऽग्निर् न हरति न ↩︎
-
जीवञ्शवो भागवताङ्ग्रिरेणुं इत्य् उक्तेः। ↩︎
-
अकुण्ठम् अपरिच्छिन्नं ज्ञानं यस्य। ↩︎
-
परस्मै-पदम् आर्षम्। ↩︎
-
दुरन्वयम् इति पाठः। ↩︎
-
न तत्र वध्यते, न वुध्यते यथा इति पाठौ। ↩︎
-
बहुधा तत्-तद्-ब्रह्माण्डादि-भेदेन नाना-विधतया। ↩︎
-
अथापि अतर्क्य-शक्तिर् अपि। ↩︎
-
तत्तः [क] । ↩︎
-
अन्त्य-शब्दस्यार्थ्ऽवधिर् इति। ↩︎
-
स्व-योग-माययापि न छन्नो महिमा यस्य तस्मै। ↩︎
-
यद् वा भूपादयोऽतिधन्याः यं त्वाम् अनु एते मायाजवनिकाच्छन्नं न विदन्ति, किन्त्वनावृत-ब्रह्म-स्वरूपम् एव । अच्छन्नत्वेऽपि आत्मानं निर्विशेष-मात्रं न पश्यन्ति किन्तु स्व-गुण-रूपम् अपि कालम् ईश्वरम् अपि नैव, किन्तु स्निग्धवान्-वकुल-वकुल-पत्वादि-रूपम् अपीति तोष्। ↩︎
-
अरामो विहार-भोजन-श्यनादिः। ↩︎
-
एवं त्वा यं जनो ब्रह्मन्-नाम-मात्रेन्द्रियेहया इति पाठः। ↩︎
-
अनेन मर्षतीति मर्ष-पदच्युत्पत्तिर् दृर्शिता । कचित् अघौघमर्षं इति पाठः। ↩︎
-
बभाषेत्य् आत्मनेपदाभावस् तद् अनित्यत्वाद् आर्षत्वाद् वेति तोष। ↩︎
-
नपि चित्रं इति पाठः। ↩︎
-
सन्निकर्षो हि इति पाठः। ↩︎
- ↩︎
-
आभाष्य सम्बोध्य। ↩︎
-
राज्ञां राजसु शृण्बत्स्व् इति तेषाम् उपदेशार्थम्। ↩︎
-
याजनाध्यनापन-प्रतिग्रह-लब्धं विप्रस्य शुक्लं वित्तं, युद्धात्-प्रजा-पलनाद्-दण्डाच् च लब्धं क्षत्रियस्य, कृषि-गो-रक्ष-वाणिज्य-लब्धं विशः, द्विज-शुश्रूषा-लब्धं शूद्रस्य । दाय-लब्धं प्रीतिदत्तं पित्रादिकम् आगतं श्वशुरलब्धं च सर्वेषाम् इति विष्णु-धर्मोत्तरे। ↩︎
-
अस्यापि विशेष्यं काल एव। ↩︎
-
वसुना भक्ति-लक्षणेन दीव्यतिति तथा-भूत। ↩︎
-
गन्धर्व्या गायकानां स्त्रियः। ↩︎
-
रत्नवद् उज्ज्वल-परिधानाः । पीत-कौशेयेति कचित्। ↩︎
-
अनु-यज्ञं यज्ञानुक्रमेण यो विधिस् तेन । तद् आह—अग्नीत्यादिना । अग्निहोत्रं, ततः प्राकृता उपदिष्टाङ्गा दर्षादीष्टयः, ततो वैकृता अतिदिष्ट्ङ्गाः सौर्यादयाः, ततः प्राक्र्ता यज्ञा ज्योतिष्टोमादयः, वैकृताः सत्रादय इत्य् एवं सर्वैर् यज्ञैः इति तोष। ↩︎
-
गो-भू-कन्या अप्य् अलङ्कृत्याददादित्य् अन्वयः । स्वलङ्कृतेऽभ्यो इति क्वचित्-पाट्ःअः। ↩︎
-
चरित्वा तान् अनुष्ठायेत्य् अर्थः। ↩︎
-
नानालङ्कार इति पाठः। ↩︎
-
स्त्रियस् तस्य महिष्योऽप्य् यदुः। ↩︎
-
महत्या इति पाठः। ↩︎
-
भाव-प्रधानो निर्देशः, अकल्पत्वात्। ↩︎
-
सौहृदेन शैथिल्यं यत्र तच्-चित्तं यस्य। ↩︎
-
यापितो वसुदेवाद्यैर् अनुव्रजितः। ↩︎
-
ययौ मथुरां प्रति नन्द इति शेषः। ↩︎
-
माथुरान् इति पाठः। ↩︎
-
यस्य सम्बन्धीति दण्डादि-कारणातिरिक्त-चीवरादिवत् दृष्टादृष्ट-हेतु-वर्ग उक्तः। ↩︎
-
यद्-यद् इति देवान् अमृतं आशयतीत्यादिकयोः प्रयोज्य-कर्म-शुद्ध-कर्मणोः सङ्ग्रहः। ↩︎
-
प्रयोज्य-कर्म-भिन्नं शुद्धं कर्म नास्त्य् एव । तण्डुलं पचतीत्यादौ तण्दुलः पक्वो भवति तं पक्वं करोतियादेर् अर्थात्। ↩︎
-
तण्डुलः पक्वो भवतीत्य्-आदौ हि तण्डुल ओदनो भवति तं तण्डुलं ओदनं करोतित्य् अर्थेन पुर्वावस्थस्य तण्डुलादेः प्रयोज्य-कर्मत्वात् उत्तरावस्यौदनादेः शुद्ध-कर्मत्वाद् इति तोष। ↩︎
-
श्रि-कृष्ण-बलरामयोः। ↩︎
-
तोषणी तु तत्र सृष्टि-धारण-पोषण-क्रिया उदाहरति—एतद् इति । आत्मन् आत्मनि अधिकरणे, आत्मना कारणेन, आत्म-सृष्टम् इत्य् अवशिष्ट-कारक-सङ्ग्रहः । आत्मना कर्त्रा, आत्मने सम्प्रदानय, आत्मन अपदादानात्, आत्मनः सम्बन्धेन सृष्टं आत्म-रूपं सृष्तम् इति पञ्च-विध-समासात् । एवम् अनुप्रविश्यात्मन्य् एव बिभर्षि धारयसि पुष्णासि च आत्मनैव बिभर्षि इत्य्-आदि। ↩︎
-
ओज इन्द्रिय-सामर्थ्यम्, सहोऽन्तःकरण-सामर्थ्यम्, बलं शरीरम्, चेष्टा शरीर-व्यापारः, गरिश् चेतनाचेतन-साधारणं गमनम्। ↩︎
-
तथेश्वर इति पाठः। ↩︎
-
व्यवसाय-शक्ति इति पाठः। ↩︎
-
जीवोपाधेश् चित्तस्यानुस्मृतिर् धारणा सती भगवन्-निष्ठानुकूला। ↩︎
-
यदा सुप्ति-प्रलयादौ न सन्ति कल्पकाभावात् तदा त्वम् अप्य् एषु नासि सत्त्वेन नानुवर्तसे। ↩︎
-
अन्यदा सृष्टि-स्थित्यादौ तु व्यावहारिकः व्यावहारिक-सत्ता-साधकतयेति तोष। ↩︎
-
अबुध्य इति पाठे। ↩︎
-
देहे अहम् इति। ↩︎
-
निजानां भक्तानां धर्मो भक्ति-लक्षणस् तत्-पालनाय, यद् वा, निजस् त्वदियो धर्मः स्वभावो भक्त-मनो-रथ-पूरन-लक्षणस् तस्य गुप्तै। ↩︎
-
विमृग्याः इति पाठः। ↩︎
-
गुरु-दक्षिणा-रूपं तत्-सुतम्। ↩︎
-
सञ्चोदितः इति पाठः। ↩︎
-
अत्र तयोः पदावृत्तिर् भक्ति-भरेण। ↩︎
-
महा-विभूतिभिः इति पाठः। ↩︎
-
तोषण्यां तु साङ्ख-योगयोर् ज्ञानाष्टङ्ग-शास्त्रयोर् वितानं [सोन्]{।मर्क्} । यद् एक-निष्ठस् तयोर् विस्तर इत्य् अर्थः। ↩︎
-
सत्त्व-धाम्नि विशुद्ध-सत्त्वाधिष्ठातरि। ↩︎
-
अन्ये पौण्ड्रकाद्यास् तादृशा दैत्यादि-तुल्या एव। ↩︎
-
धिषणं धिष्ण्यम्। ↩︎
-
सर्व-सस्वत्वात्-ते मज्जु-गुप्सां न करिष्यन्तीति भावः। ↩︎
-
अस्योत्तर-श्लोकेनान्वयः, सार्धकं वैतत्-पद्यं कल्पनीयम्। ↩︎
-
स्मरस्यैव पूर्वं किर्तिमद् इति नामेति तोष । स्मरादीनि नामानि मरीचि-पुत्रत्वद् अशायाम् इति चक्र बाल। ↩︎
-
परिस्रुतं इति पाठान्तरम्, तत्र स्तन-विशेषणम्। “परिप्लुतम्” इति वैष्णव-तोषणी-धृत-पाठान्तरम्। ↩︎
-
\॥। अमृत-पय इति पाठान्तरं वंशीधरेण धृतम्। ↩︎
-
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः इत्य् उक्तेर् नन्द-गृह-गमन-समये देवकी स्तनम् अपाययद् इति तत्रानुक्तम् अपीह पीत-शेषम् इत्य् उक्तेर् अवगन्तत्र्यम् इति चक्र बाल। ↩︎
-
“धाम विहायसा” इति पाठे धाम देव-लोकम्। ↩︎
-
“विहायसा” इति पाठः स्वामि-सम्मतः। “दिवौकसाम्” इति पाठस् तु सर्वत्र । इति वैष्णव-तोषणी-काऋअः । एष पाथः प्रीति-सन्दर्भे सम्मतः । ↩︎
-
अमृतं परानन्द-रूपा। ↩︎
-
तल्-लिप्सुर् इति शेष-षष्ठ्या समासः । तां लिप्सुर् इत्य् अर्थः। ↩︎
-
एकदा चातुर्मास्यान्ते। ↩︎
-
धीर-मनो-हरा इति पाठः। ↩︎
-
पित्रोः कृष्णस्येति षष्ठौ तृतीयार्थे । यद् वानुमतः प्राप्तानुमतिः। ↩︎
-
क्रोषतां स्वानान् इत्य् अनादरे षष्ट्य्हौ । क्रोशतः स्वाननादृत्य् अर्थः। ↩︎
-
अत्र अभवन्-प्रीति-संहृष्टा वान्धवा यद् उपाण्डवाः । अथन्यद् अपि कृष्णस्य बात्सल्यं भक्तयोः शृणु ॥ इत्य् एकं पद्यम् अधिकं क्वचित् । बभुवुः प्रतिसंदृष्ट्वा यदवः पाण्डवास् तदा इत्य् अर्धम् एवाधिकम् इति बाल। ↩︎
-
चानुसान्त्वितः इति पाठः। ↩︎
-
उपस्कराः पर्यङ्कादयः। ↩︎
-
अत्र शुक उवाचेति मध्ये पुनर् उक्तिः कथान्तरापेक्षया। ↩︎
-
कृष्णस्य सम्बन्धी तत्-स्वामिकस् तद्-भक्त इत्य् अर्थः। ↩︎
-
नृपाः इति पाठे तद्-देश-पतय। ↩︎
-
तेभ्य नृ-नारीभ्यः । पुमान्-स्त्रिया इत्य् एक-शेषात्। ↩︎
-
तस्मै तद् अर्थम्। ↩︎
-
कं शिरोऽम्बुनोः इत्य् अत्र कोशः। ↩︎
-
गो-वृषा बलीवर्दाः। ↩︎
-
जीवानां इति पाठः। ↩︎
-
अकुन्ठा मेधा ज्ञानं यस्य। ↩︎
-
शान्ताय तप इति पाठह्। ↩︎
-
निवसन् द्विजैः इति पाठः। ↩︎
-
मुनिश् च इति पठः। ↩︎
-
अमृताम्बुना मुदा इति पाठः। ↩︎
-
स्वात्मं इति पाथः कचित्। ↩︎
-
संवदतां परस्परं संवादं कुर्वताम्। ↩︎
-
करवाम ते इति पाठः। ↩︎
-
अक्षि-रोचरः इति पाठः। ↩︎
-
तपः स्वधर्मः, विद्या शास्त्र-ज्ञानम्। ↩︎
-
ज्ञानाधीना हि प्रमेय-सिद्धिर् इति प्रमेय-रूपान्-मत्तो वेदमयो विप्रः श्रेष्थ इत्य् अर्थः। ↩︎