श्रीकृष्णलीलानां संक्षेपतो\ऽनुवर्णनं तन्महिषीणां तस्मिन्ननुरागाधिक्यं यदुवंशीयानामसंख्येयत्वप्रतिपादनं च ।
॥ १०.९०.१-६ ॥
श्री-शुक उवाच—
सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः ।
सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः ॥
स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः ।
कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्-द्युभिः ॥
नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः ।
स्वलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः ॥
उद्यानोपवनाढ्यायां पुष्पित-द्रुम-राजिषु ।
निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः ॥
रेमे षोडश-साहस्र- पत्नीनाम् एक-वल्लभः ।
तावद् विचित्र-रूपोऽसौ तद्-गेहेषु महर्द्धिषु॥
प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः ।
वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चरमे तु पुनः प्रोक्ता कृष्ण-लीला समासतः ।
यदु-वंश-प्रसूतानाम् आनन्त्यं च स-कारणम् ॥
श्री-कृष्ण-विभूतिं समासेन दर्शयति—सुखं स्व-पुर्याम् इति । सर्व-संपद्-आदि-विशिष्टायाम् । श्रियः पतिः षोडश-सहस्र-पत्नीनाम् एक-वल्लभः संस् तासां गेहेषु रेमे [भा।पु। १०.९०.५] इत्य् अन्वयः ॥१-५॥ गेह-विशेषणं प्रोत्फुल्लेत्य्-आदि-श्लोकेन ॥६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चरमे नवतितमे । स्कन्ध-समाप्त्य्-अपेक्षं चरम-पदम् । स-कारणं कारणं चात्र भगवत्-प्रसादो दैतेय-निग्रहश् च, देवासुराहव-हता इत्य्-आदि-श्लोक-द्वयेनात्रैव तथोक्तः । स्व-पुर्यां स्वत्वेन स्वीकृतायाम् ॥१॥
आदिना लीलान्तर-ग्रहः । हर्म्येषु धनिनां योग्येषु समुन्नत-गृहेषु ॥२॥
निर्विशेषद्भिर् मध्वादि भुञ्जानैर् भृङ्गैर् विहगैश् च घोषवत् कृतायाम् ॥४॥
श्रियः पतिर् इति कर्तृ-पदम् आद्य-पद्य-गतम् अत्र सम्बध्यते । तावन्ति स्त्री-सम-सङ्ख्यानि विचित्राणि रूपाणि यस्यासौ । महत्य ऋद्धयो येषु तेषु ॥५॥
वासितानि परिमली-कृतानि तोयानि येषु गृहेषु ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : रेमे षोडश-सहस्र-पत्नीनाम् इत्य्-आदि । तावन्ति बिभ्रद्-रूपाणि बिभ्रद् अपि एक एव वल्लभ एकश् चासौ वल्लभश् चेति । इदम् एव ऐश्वर्यं, न तु काय-व्यूहः स तस्य, स तु सामान्य-योगिनाम् अपि सम्भवति, नापि स्फुरद्-रूपत्वेन तासां तथा मानम्, केवल-स्फूर्तेस् तथा-व्यवहाराभावात् । अपि तु मध्याह्न-कालीय-सूर्यवत् वस्तु-महिइमैवायम् ॥५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुनान्ते तस्यैव क्रीडा-सुख-रूपं परं प्रयोजनम् आह—सुखम् इत्य्-आदिना, स्त्रिय [१०.९०.६] इत्य् अन्तेन । स्वस्य पुर्याम् इति सुख-निवास-योग्यतोक्ता । अत एव नितरां वसन्न् इति श्री-वैकुण्ठाधिक-सुख-वासः सूचितः । अतो महा-लक्ष्म्या अपि सुख-वासस् तत्रैवातिशयेनाह—श्रियः पतिर् इति । अत एव सर्वाभिः सम्पद्भिः समृद्धायां सम्पन्नायाम् । यद् वा, सुख-निवासस्य प्रकारस् तद्-धेतुर् वा । श्रियः श्री-रुक्मिण्याः पतिः श्री-भगवद्-अनुसारेण पूर्वतो विस्तारित-निजाशेष-रूप-गुणादिकतया सह योग्य-क्रीडा-विशेषेण तत्-परिपालक इत्य् अर्थः ।
किं च, सर्व-सम्पद्भिः सम्यक् श्री-वैकुण्ठतोऽप्य् उत्तमतया ऋद्धायां नित्य-नूतनतया वर्धमानायाम् इति ।
किं च, स्त्रीभिश् च जुष्टायां, उत्तमः श्री-वैकुण्ठ-स्त्रीभ्योऽप्य् उत्कृष्टो वेशो भूषणं यासां ताभिः, नव-यौवनम् एव कान्तिः शोभा, किं वा नवं पूर्व-पूर्वतो विलक्षणं यौवनं कान्तिश् च यासां ताभिः ॥१॥
एवं वेष-वयः-कान्तीर् उक्त्वा वैदग्ध्यादिकम् आह—कन्दुकेति । आदि-शब्दाद् गीत-नृत्यादयः । महा-गौरीभिर् इत्य् अर्थः । यद् वा, कान्ति-शब्देन तद्-वर्णः सूचित एव । ततश् चेतस् ततः कन्दुकादि-क्रीडया तडिताम् इव द्यौश् चञ्चला गतिर् यासां ताभिः ॥२॥
एवम् आन्तरीं सम्पदम् उक्त्वा बाह्यं वदन् सदा चतुरङ्ग-सेनासेवितत्वम् आह—नित्यम् इति । सङ्कुलाः सङ्कीर्णा व्याप्ता वा मार्गा यस्यास् तस्याम् सुष्ठु श्री-वैकुण्ठाधिक-शोभनतयालङ्कृतैः, अस्य मतङ्गजादिभिः सर्वैर् अप्य् अन्वयः । तत्रापि कनकोज्ज्वलैर् इति स्वर्ण-प्राचूर्याभिप्रायेण । किं वा, रथानाम् एव सौवर्ण-चित्र-मयत्वात् तेषाम् एवेदं विशेषणम् ॥३॥
अधुना तद्-बाह्यम् अप्य् आह—उद्यानेति । उद्यानानि पुष्प-प्रधानानि, उपवनानि फल-प्रधानानि वनानि । तानि तैस् तैश् चाढ्यायां युक्तायां, अत एव पुष्पितानां द्रुमाणां राजिषु ये निर्विशन्तो निःशेषेण प्रविशन्तो वा भृङ्गा विहगाश् च, तैः समन्ततो बहिर् अन्तश् च सर्व-दिक्षु **नादितायाम्
अतो रेमे बहुधा चिक्रीड । कथम् ? तद् आह—षोडशेति । एक-वल्लभः सन् सर्वासां तासां प्रत्येकं युगपत् प्रीत्य्-आचरण-पूर्वकम् इत्य् अर्थः । न च तद् असम्भाव्यं तस्य शक्ति-विशेषाद् इत्य् आह—तावन्तीति । बिभ्रद् इव बिभ्रत् । अत एवोक्तं श्री-हरि-वंशे जल-क्रीडा-प्रसङ्गे—
अहम् इष्टा मया सार्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा मुदा नारायण्-स्त्रियः ॥
सर्वाः सुरत-चिह्नाङ्ग्यः सर्वाः सुरत-तर्पिताः ।
मानम् ऊहुश् च ताः सर्वा गोविन्द-बहु-मानजम् ।
अहम् इष्टाहम् इष्टेति स्निग्धे परिजने तदा ।
नारायण-स्त्रियः सर्वा मुदा शंश्लाघिरे शुभाः ॥ [ह।वं। २.८८.१४-१६]
किं च,
एकार्पित-मनो-दृष्ट्योर् नर्ष्यान्ताश् चक्रुर् अङ्गनाः ।
नारायणेन देवेन तर्प्यमाण-मनोरथाः ॥
शिरांसि गर्वितान्य् ऊहः सर्वा निरवशेषतः ।
बाल्लभ्य्-अङ्के शिव-मयं वहन्त्यश् चारु-दर्शनाः ॥ [ह।वं। २.८८.२०-२१] इति ॥५॥
महत्य ऋद्धयः सर्व-सिद्धयो येषु तेषु, सर्व-सम्पत्-समृद्धायाम् इत्य्-उक्तानाम् अपि ऋद्धीनाम् अत्र पुनर्-उक्तिस् तत्-पुर्याम् अपि विशेषतो गृहाणाम् अशेष-सम्पत्त्य्-अपेक्षया ॥४-५॥
प्रकर्षेण उद् उच्चैर् अतिशयेन फुल्लानाम् उत्पलादीनां रेणुभिर् वासितम् अमलं तोयं गृहान्तर्-वर्ति-क्रीडा-तडागादि-जलं येषां तेषु । तत्र कह्लारं सौगन्धिकम् उत्पल-कुमुदयोः श्वेत-रक्तत्वेन भेदः । कूजन्ति द्विजानां पारावतादीनां कुलानि येषु तेषु तद्-गृहेषु । यद् वा, वासितेष्व् अमलेषु तोयेषु च विजहारेति परेणान्वयः ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च चित्तं समाधाय समाप्तौ परम-सुख-मयं लीला-विशेषं स्मरन्न् आह—सुखम् इत्य्-आदिना, स्त्रिय [१०.९०.६] इत्य् अन्तेन । तत्राद्यं षट्कं स्वस्य स्वयं भगवतः पुर्याम् इति स्वभाविकता स्व-लीला-सुख-निवास-योग्यता चोक्ता । अत एव नितरां वसन्न् इति वैकुण्ठादिभ्योऽप्य् आधिक्यम् । अतस् तदीयासाधारण-लक्ष्म्या रुक्मिणी-रूपाया अपि । तथैव तत्र वास इत्य् आह—श्रियः पतिर् इति । अत एवम् उत्तरोत्तरत्रापि वैशिष्ट्यम् एवोह्यम् ॥१॥
नवं नित्यम् एव पूर्व-पूर्वता-विलक्षणं यौवनं कान्तिश् च यासां ताभिः । एवं वेष-वयः-कान्तीर् उक्त्वा वैदग्ध्यादिकम् आह—कन्दुकेति । आदि-शब्दाद् गीत-नृत्यादयः । तत्र चेतस् ततः कन्दुकादि-क्रीडया चलन्तीनां तडिताम् इव द्यौः शोभा यासां ताभिः ॥२॥
एवम् उत्तरीणां सम्पदम् उक्त्वा बाह्यं वदन् सदा चतुरङ्ग-सेनासेवितत्वम् आह—नित्यम् इति । सङ्कुलाः सङ्कीर्णा मार्गा यस्यास् तस्याम् अलङ्कृतैर् इत्य् अस्य मतङ्ग-जादिभिः सर्वैर् अप्य् अन्वयः । तत्रापि रथैः कनकोज्ज्वलैः सौवर्ण-चित्र-मयैः ॥३॥
अधुना तद्-बाह्यम् अप्य् आह—उद्यानेति । नादितायाम् इति भृङ्गादिभिर् हेतुभिः सञ्जात-नादायाम् इत्य् अर्थः ॥४॥
रेमे बहुधा चिक्रीड । कथम् ? तद् आह—षोडशेति । एकोऽपि वल्लभः सन् युगपत् प्रीति-दान-पूर्वकम् इति भावः । न च तद् असम्भाव्यं तस्य शक्ति-विशेषाद् इत्य् आह—तावन्तीति । रूपाण्य् एकस्यैव विग्रहस्य सर्वत्र स्फुरणानि चित्रं बतैतद् एकेन वपुषा [भा।पु। १०.६९.२] इत्य्-आदि श्री-नारदोक्तेः । अत एवोक्तं श्री-हरि-वंशे जल-क्रीडा-प्रसङ्गे—
अहम् इष्टा मया सार्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा मुदा नारायण्-स्त्रियः ॥
सर्वाः सुरत-चिह्नाङ्ग्यः सर्वाः सुरत-तर्पिताः ।
मानम् ऊहुश् च ताः सर्वा गोविन्द-बहु-मानजम् ।
अहम् इष्टाह्म् इष्टेति स्निग्धे परिजने तदा ।
नारायण-स्त्रियः सर्वा मुदा शंश्लाघिरे शुभाः ॥ [ह।वं। २.८८.१४-१६]
किं च,
एकार्पित-मनो-दृष्ट्योर् नर्ष्यान्ताश् चक्रुर् अङ्गनाः ।
नारायणेन देवेन तर्प्यमाण-मनोरथाः ॥
शिरांसि गर्वितान्य् ऊहः सर्वा निरवशेषतः ।
बाल्लभ्य्-अङ्के शिव-मयं वहन्त्यश् चारु-दर्शनाः ॥ [ह।वं। २.८८.२०-२१] इति ॥५॥
महत्यस् तादृशम् अपि पुर्याम् उत्कृष्टा ऋद्धयो येषु तेषु कह्लारं सौगन्धिकम् उत्पल-कुमुदयोः श्वेत-रक्तत्वेन भेदः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : रेमे षोडश- इत्य्-आदि । षोडश-सहस्रं रूपाणि बिभ्रद् अपि पत्नीनां मध्ये एक-वल्लभ एकश् चासौ वल्लभश् चेति । तथा एक एव सम-षोडश-सहस्रधा भासमानो रेम इत्य् अर्थः । न तु काय-व्यूहेन, काय-व्यूहस् तु सामान्य-योगिनाम् एव सम्भवति । अयं तु योगेश्वरेश्वर एक एव षोडश-गृहेषु रमितवान्, नैतत् तर्क-सहम् इत्य् अपि न व्यामकत्वात् तस्य वपुषः परिच्छिन्नत्वेऽपि व्यापकत्वम् इति ॥५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नवतितमे जल-केलौ महिषीणां प्रेम-वैचित्री ।
यादव-गणना-शक्तिर् लीलानां नित्यता चोक्ता ॥
अथ मधुरेण समापयेद् इति न्यायेन कृष्णस्य जल-विहारं वर्णयन् प्रथमम् उद्दीपनत्वेन नगर-रामणीयकम् आह—सुखम् इत्य्-आदिना । तद् गृहेषु तासां गृहेषु रेमे इत्य् अन्वयः । गृहेषु रमणम् आह—प्रोत्फुल्लेति ।वासितान्य् अमलानि यानि तोयानि तेष्व् इत्य् अर्थः ॥१-६॥
॥ १०.९०.७ ॥
विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।
कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा ह्रदिनीषु चाम्भो विगाह्य विजहार । महान् उदयो वैभवं यस्य सः । योषितां कुच-कुङ्कुमैर् लिप्ताङ्गः यतस् ताभिः परिरब्धः ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ह्रदिनीषु नदीषु । ह्रदिनी तटिनी नदी इत्य् उत्पपोक्तेः । ताभिर् योषिद्भिः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रकारम् एवाह—विगाह्येति । ह्रदिनीष्व् इत्य् उपलक्षणं, श्री-हरिवंशोक्तानुसारेण सागरोऽपि ज्ञेयः । महोदय इति जल-क्रीडोपकरण-वर्ग-सम्पत्तिर् अपि सूचिता । सा चोक्ता तत्रैव हरि-वंशे—
काश्चित् काष्ठमयैस् तेरुः प्लवैः सर्वाङ्ग-शोभनाः ।
क्रौञ्च-बर्हिण-नागानाम् आकार-सदृशैः स्त्रियः ॥
मकराकृतिभिश् चान्या मीनाभैर् अपि चापराः ।
बहु-रूपाकृति-धरैः पुप्लुवुश् चापराः स्त्रियः ॥
किं च,
नौभिर् गृह-प्रकाशाभिश् चिक्रीडुर् अपराजिताः ।
स्नातानुलिप्ता मुदिताः सायाह्नेऽन्धक-वृष्णयः ॥
आयाताश् चतुरास्रश् च वृत्ताश् च स्वस्तिकास् तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥
किं च,
भक्ष्य-भोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहु-प्रकारं मनसा ध्यातं तेषां भवत्य् उत ॥
किं च,
नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर् भृशम् ।
ऋतवश् चानुरूपाणि विहायसि गतास् तथा ॥
ववौ महोरहो वातो रति-खेद-हरः सुखः ।
रजोभिः सर्व-पुष्पाणां युक्तश् चन्दन-शैत्य-भृत् ॥
शीतोष्णम् इच्छतां तत्र बभूव वसुधा-पते ।
वासुदेव-प्रसादेन भौमानां क्रीडतां तदा ॥
किं च,
उवाह सर्व-गन्धाढ्यं स्वच्छं वीर महोदधिः ।
तोयं चालवणं वीर वासुदेवस्य शासनात् ॥
गुल्फ-दघ्नं जानु-दघ्नम् ऊरु-दघ्नं तथैव च ।
नारीणां स्तन-दघ्नं च जलं समभिकाङ्क्षितम् ॥ इत्य्-आदि ।
यद् वा, महान् उदयः सर्वथोत्कर्षो यस्य सः । अतस् तस्यैव तादृशी क्रीडा युज्यत इति भावः । यद् वा, महोदयत्वम् एव दर्शयति—कुचेति । अनेन जल-क्रीडा-कारणम् अपि सूचितम् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विजहारेति । तैर् व्याख्यातम् । यद् वा, सुखम् इत्य्-आदिकं पञ्चकम् एव । प्रोत्फुल्लेति युग्मकम् । वासितेष्व् अमलेषु च तोयेषु च विजहार । तत् प्रविगाह्येति ह्रदिनीष्व् इत्य् उपलक्षणं श्री-हरिवंशोक्तानुसारेण सागरेऽपि ज्ञेयम् । महोदय इति जल-क्रीडोपकरण-वर्ग-सम्पत्तिर् अपि महती सूचिता । सा चोक्ता तत्रैव—
काश्चित् काष्ठमयैस् तेरुः प्लवैः सर्वाङ्ग-शोभनाः ।
क्रौञ्च-बर्हिण-नागानाम् आकार-सदृशैः स्त्रियः ॥
मकराकृतिभिश् चान्या मीनाभैर् अपि चापराः ।
बहु-रूपाकृति-धरैः पुप्लुवुश् चापराः स्त्रियः ॥ [ह।वं। २.८८.२७-२८]
किं च,
नौभिर् गृह-प्रकाशाभिश् चिक्रीडुर् अपराजिताः ।
स्नातानुलिप्ता मुदिताः सायाह्नेऽन्धक-वृष्णयः ॥
आयाताश् चतुरास्रश् च वृत्ताश् च स्वस्तिकास् तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥ [ह।वं। २.८८.५७-५८]
किं च,
भक्ष्य-भोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहु-प्रकारं मनसा ध्यातं तेषां भवत्य् उत ॥ [ह।वं। २.८८.५५]
किं च,
नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर् भृशम् ।
ऋतवश् चानुरूपाणि विहायसि गतास् तथा ॥
ववौ महोरहो वातो रति-खेद-हरः सुखः ।
रजोभिः सर्व-पुष्पाणां युक्तश् चन्दन-शैत्य-भृत् ॥
शीतोष्णम् इच्छतां तत्र बभूव वसुधा-पते ।
वासुदेव-प्रसादेन भौमानां क्रीडतां तदा ॥ [ह।वं। २.८८.७२-७४]
किं च,
उवाह सर्व-गन्धाढ्यं स्वच्छं वीर महोदधिः ।
तोयं चालवणं वीर वासुदेवस्य शासनात् ॥
गुल्फ-दघ्नं जानु-दघ्नम् ऊरु-दघ्नं तथैव च ।
नारीणां स्तन-दघ्नं च जलं समभिकाङ्क्षितम् ॥ [ह।वं। २.८८.२३-२४] इत्य्-आदि ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तडागादि-तोय-सामान्येषु रमणम् उक्त्वा नदीषु रमणम् आह—विजहारेति । परिरब्धश् च अर्थात् ताभिः ॥७॥
॥ १०.९०.८-९ ॥
उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् ।
वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः ॥
सिच्यमानोऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः ।
प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्ष-राड् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूत-मागध-बन्धिभिश् चोपगीयमानः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : रेचकैः चर्मादि-निर्मित-सेचन-यन्त्रैः । यन्त्रे चर्मादि-रचिते सेचनार्थं तथौषधे । द्रावके रेचकः शिश्ने इति धरणिः । विचिक्रीडे स्म । यक्ष-राट् कुबेरः । यक्षाणाम् अणीव-कामित्वेन तत्-साम्यम् उक्तम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गन्धर्वैस् तत्-सदृशैर् गायकोत्तमैः । किं वा, श्री-भगवत्-प्रीत्यै काले समागतैर् देव-भेदैर् एव । तथेत्य् उक्त-समुच्चये । किं वा, तेनानिर्वचनीयेन प्रकारेण मृदङ्गादीन् वादयद्भिर् इति वादकैर् इत्य् अर्थः । सूतादिभिश् चोपगीयमानः । समम् अन्यत् ।
ताभिर् योषिद्भिः । रेचकैर् जल-क्षेप-यन्त्र-विशेषैः । विविधं चिक्रीडे चिक्रीड । अच्युत इति सर्वासां प्रत्येकं पार्श्व-स्थित्य्-अभिप्रायेण । बह्वीभिः सहैकस्य विक्रीडायां दृष्टान्तः—यक्षीभिर् इति । यक्ष-राट् कुबेरः ॥८-९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपेति युग्मकम् । गीत-गानोपकरणत्वेन गन्धर्वैर् मृदङ्गादीन् वादयद्भिः सूतादिभिस् तु पुराण-गानाद्य्-उपकारणत्वेन वीणाम् इति ज्ञेयम् । एते च जलं परितः पट-प्राकाराद् बहिर् ज्ञेयाः । रेचकैर् जल-क्षेप-यन्त्र-विशेषैः । विविधं चिक्रीडे चिक्रीड । अच्युत इति सर्वासां प्रत्येकं पार्श्व-स्थित्य्-अभिप्रायेण । तत्र धार्ष्ट्यांशे दृष्टान्तः—यक्षीभिर् इति । यक्ष-राट् कुबेरः ॥८-९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : गन्धर्वादयः पट-प्राकाराद् बहिः स्थिताः ज्ञेयाः ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रेचकैर् जल-क्षेप-यन्त्र-विशेषैः । यक्षीभिर् इति धार्ष्ट्य्-अंशे दृष्टान्तः ॥९॥
॥ १०.९०.१० ॥
ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः
सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः ।
कान्तं स्म रेचक-जिहीर्षययोपगुह्य
जात-स्मरोत्स्मय-लसद्-वदना विरेजुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ताः क्लिन्न-वस्त्राः, अत एव विवृतोरु-कुच-प्रदेशाः । उद्धृतानि विस्रस्तानि बृहत्-कबरेभ्यः प्रसूनानि यासां ताः । जातेन स्मरेण य उत्सवस् तेन लसन्ति वदनानि यासां ताः ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताः स्त्रियो विरेजुः स्मेति सम्बन्धः । अत एव क्लिन्न-वस्त्रत्वाद् एव विवृताः प्रत्यक्षीभूता उरु-प्रदेशाः कटि-प्रदेशाश् च यासां ताः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : उद्धृतेषु बृहत्सु कबरेषु प्रसूनानि यासां जल-क्लेदन-भिया कबरा ऊर्ध्वं कृत्वा बद्ध इत्य् अर्थः । कान्तं श्री-कृष्णं रेचको जल-यन्त्रं हर्तुम् इच्छया उपगुह्य विरेजुः ॥१०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च ता अधिकम् अशोभतेत्य् आह—ता इति । कान्तं सिञ्चन्त्यः स्वस्य कान्तस्य यद् रेचकं तस्य जिहीर्षया तन्-मिषेणेत्य् अर्थः । कान्तम् एवोपगुह्य बलाद् बाहु-वक्षः-कण्ठादि-ग्रहणेनालिङ्ग्य उत्स्मय उत्कृष्ट-स्मितं वा, मदो वा, विशेषेण पूर्वतोऽधिकतया रेजुः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च ता अधिक-शोभन्तेत्य् आह—ता इति । कान्तं सिञ्चन्त्यः स्मेति विस्मये जिहीर्षया तन्-मिषेणेत्य् अर्थः । उत्स्मयः कम् अप्य् उत्कर्ष-प्राप्तवत् स्मितम् । उत्सवेति पठः क्वचित् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ताः क्लिन्न-वस्त्रेत्य्-आदि । उद्धृतेषु बृहत्सु कबरेषु प्रसूनानि यासां जल-क्लेदन-भिया उद्धृत्या बद्धा ये कबरास् तेष्व् इत्य् अर्थः । कान्तं श्री-कृष्णम् उपगुह्य दोर्भिर् आपीड्य रेचक-यन्त्र तस्य जिहीर्षया रेजुः, न तु जहुः विझीर्षया रमणाभिनयनम् एव चक्रुर् इत्य् अर्थः ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उद्धृतानि विस्रस्तानि बृहत्-कबरेभ्यः प्रसूनानि यासां ताः ॥१०॥
॥ १०.९०.११ ॥
कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक्
क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः ।
सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो
रेमे करेणुभिर् इवेभ-पतिः परीतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां स्तनेभ्यो विषज्जित-कुङ्कुमा स्रग् यस्य । क्रीडाया अभिषङ्गेणाभिनिवेशेन धुतः कम्पितः कुन्तल-वृन्द-बन्धो यस्य सः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषज्जित-कुङ्कुमा लग्न-काश्मीर-राग-स्रक् माला ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवांस् तु परमानन्दं प्रापेत्य् आह—कृष्ण इति । तु-शब्दो विशेषम् एव दर्शयति तद् इत्य्-आदि-विशेषणैः । यद् वा, तुर् अपि, साक्षात्-परमानन्द-घन-मूर्तिर् भगवान् अपि रेमे । तत्-प्रकारम् एवाह—तद् इत्य्-आदिना । जल-क्रीडायां स्तन-कुङ्कुम-सद्-भावः, तासां भूषणानुलेपनादेर् अप्य् अक्षयत्वात् । यद् वा, प्राग् एव स्रजि संलग्नत्वेन तदानीम् अपि तस्यानपगमात् । सिञ्चन्त्यस् ता मुहुर् इत्य् अस्योभयतोऽप्य् अन्वयः । परीतो युवतिभिर् एव वेष्टितो रेमे, जले विजहार । किं वा, परम-सुखी बभूवेत्य् अर्थः । स्वच्छन्दतया जल-क्रीडा-सुखे दृष्टान्तः—करेणुभिर् इवेति ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवांस् तु परमानन्दं प्रापेत्य् आह—कृष्णस् त्व् इति । तु-शब्दो विशेषे तम् एव दर्शयति तद् इत्य्-आदि-विशेषणैः । जल-क्रीडायां स्तन-कुङ्कुम-लेपापायेऽपि तद्-विषज्जित-स्रक्त्वम् । प्राग् एव स्रजि संलग्नत्वेन तदानीम् अपि तस्यानपगमात् । सिञ्चन्त्यस् ता मुहुर् इत्य् अस्योभयतोऽप्य् अन्वयः । परीतो युवतिभिर् एव वेष्टितः स्वच्छन्दतया जल-क्रीडा-सुखे दृष्टान्तः—करेणुभिर् इवेति ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां स्तनेभ्यो विषज्जित-कुङ्कुमा स्रक् यस्य सः ॥११॥
॥ १०.९०.१२ ॥
नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् ।
क्रीडालङ्कार-वासांसि कृष्णोऽदात् तस्य च स्त्रियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्रीडा-सम-कालिकानि वस्त्रादीनि । तस्य श्री-कृष्णस्य ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो नर्तकादीन् अप्य् आनन्दयद् इत्य् आह—नटानाम् इति । गीत-वाद्योपजीविनो गायका वादकाश् च, तेषाम् अपि । षष्ठ्यश् चतुर्थीषु । तत्-क्रीडाया योऽलङ्कारान् वासांसि चादात् कृष्ण इति परमौदार्याद्य्-अभिप्रायेण । स्त्रियश् चादुः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो नर्तकादीन् अप्य् आनन्दयद् इत्य् आह—नटानाम् इति । षष्ठ्यश् चतुर्थीषु । स्त्रियश् चादुः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नटानाम् इति चतुर्थेऽर्थे षष्ठ्यः ॥१२॥
॥ १०.९०.१३ ॥
कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः ।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : क्ष्वेलिर् हास्योक्तिर् उच्यते इति ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं जल-क्रीडा-वार्तां समाप्याधुना श्री-भगवद्-अशेष-क्रीडा-फलित-विशेषम् आह—कृष्णस्य इत्य्-आदि द्वादशबिः । एवम् अनेनोक्त-प्रकारेण विहरतो गृहेषु जलेषु च क्रीडतः कृष्णस्य सर्व-चित्ताकर्षकस्य भगवतो गत्य्-आदिभिर् इति गत्य्-आदीनाम् अपि तदीयत्वेन सर्व-चित्ताकर्षकत्वम् अभिप्रेतम् । क्ष्वेली-स्तनालभनादि-गत्य्-आदीनां यथोत्तरं धी-हरणे श्रैष्ठ्यम् । स्त्रीणाम् इति प्रेम-विशेषवत्त्वेन धी-हरण-योग्यतोक्ता । धियो विचारात्मिकाः । किल निश्चितम् । निज-भाव-विशेषेणात्रासम्भावनादिकं न कार्यम् इति भावः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैवाश्चर्य-विशेषं वक्तुम् आह—कृष्णस्य इति द्वाभ्याम् । एवं पूर्वोक्त-प्रकारेण विहरतः कदाचिद् गृहे कदाचिज् जले च क्रीडतः कृष्णस्य गत्य्-आदिभिः स्त्रीणां स्वभावत एवोल्लङ्घित-विचार-प्रेम्णां धियो हृताः स्व-वशी-कृताः । तत्र क्ष्वेली-स्तनालभनादिभिर् गत्य्-आदीनां यथोत्तरं धी-हरणे श्रैष्ठ्यम् । किल वार्तायाम्, इदम् आश्चर्य-वृत्तं श्रूयताम् इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णस्य एव विहरत इत्य्-आदि ॥१३॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८७) : अथ प्रेम-वैचित्त्यम् । तल्-लक्षणं च—
प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् ।
या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ [उ।नी। १५.१४७]
तद् यथा—कृष्णस्यैवं इति । एवं विहरतः कृष्णस्य गत्य्-आदिभिः स्त्रीणां धियो हृताः । ततश् च ता मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनर् अनुराग-विशेषेण उन्मत्ता इव विहरन्तम् अपि तम् अरविन्दाक्षं परोक्षवच् चिन्तयन्त्यो जडं विवेक-शून्यं यथा स्यात्, तथा ऊचुः । तानि वचनानि मे मम गदतो वाक्यतः शृणु इति ॥१३-१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.१४ ॥
ऊचुर् मुकुन्दैक-धियो गिर उन्मत्तवज् जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनस् तम् एवेशं चिन्तयन्त्यो जडं यथा भवति, तथा यानि वाक्यानि ऊचुः, तानि मे मत्तो गदतः शृणु इत्य् अर्थः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—या गिर इति बहु-वचनेन पद-समूहात्मक-वाक्यानि लक्ष्यन्त इति भावः ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ऊचुर् मुकुन्दैक-धिय इत्य्-आदि । उन्मत्तवत् यथा भवति, जडं यथा भवति, तथा गिर ऊचुः । यद् वा, पूर्वम् अगिरश् चिन्तयामासुः, पश्चाद् उन्मत्तवद् ऊचुः ।
तत्र कस्याश्चिद् दिनेऽपि रात्रि-शेष-भ्रमः, कस्याश्चित् तत्रैव कृष्ण-पक्ष-रात्रि-शेष-भ्रमः । कस्याश्चिद् अकाले जलद-भ्रमः, कस्याश्चित् तत्रैव वसन्त-भ्रम इत्य्-आदिभिर् असति विप्रलम्भेऽपि विप्रलम्भवद् अनुराग-सागरस्य उन्मर्यादतया समीपस्थम् अपि श्री-कृष्णम् आश्लिष्यमानम् अपि समुद्दिश्य, तथा वचनाद् उन्मत्ता । अयं तु वैचित्त्याख्यो भावः । तथा च,
सम्भोगेऽपि वियोगे च गाढोत्कण्ठानवस्थिता ।
असम्बद्धं यद् आचष्टे तद् वैचित्त्यं विधुर् बुधाः ॥ इति ॥
तत् तु अतिशय-प्रेम-चमत्कार-फलम् ॥१४॥
सनातन-गोस्वामी (दिग्-दर्षिनी) : [बृ।भा १.७.९६] अस्यार्थः—मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनस् तम् एव अरविन्दाक्षं चिन्तयन्त्यः । जडं यथा स्यात्, तथा यानि वाक्यानि ऊचुः, तानि मे मत्तो गदतः शृणु इति ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हृत-धीत्वम् एव दर्शयति—ऊचुर् इति । अथवा स्त्रीणां गत्य्-आदिभिः कृष्णस्यापि धियो हृताः । तत्र हेतुः—एवम् अनेन पूर्व-पूर्वोक्तेन प्रकारेण विहरत इति । श्री-कृष्णेनापि तासां धियो हृता इत्य्-आशयेनाह—ऊचुर् इति । मुकुन्दे परमानन्द-प्रदे प्रेम-सुख-विस्तारके वा भवत्य् एव एकस्मिन् धीर् यासां, ताः । अतः कदाचिद् अरविन्दाक्षं परम-सुन्दरं तं चिन्तयन्त्योऽगिरस् तूष्णीं बभूवुः, कदाचिद् उन्मत्तवच् चात एव जडम् ऊचुस् ताः । मे गदत इति परमाश्चर्य-श्रवणेऽवधान-विशेषार्थम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, मुकुन्दैक-धीत्वेन तं चिन्तयन्त्यो या गिर ऊचुः, ताः निगदतो मे शृणु । छन्दसि व्यवहिताश् चेति मे इत्य् अनेन व्यवधानम्, तव परि ये चरन्ति [भा।पु। १०.८७.२७] इत्य्-आदिवत् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र कदाचिन् मत्तवत् धूस्तरादि-विक्षिप्त-चित्ता इव तत्रैव वा गिरः मोह-प्राप्त्या क्षणं निद्राणा इव च तूष्णीं स्थिताः सत्यः । अरविन्दाक्षं परोक्षम् अपरोक्षं वा स्थितं चिन्तयन्त्यः, परोक्षतया भावयन्त्यो जडं विचार-शून्यं यथा स्यात् तथा ऊचुः । स्वप्न इव प्रलेपुः । उन्मादेऽपि तच्-चिन्तने हेतुः—मुकुन्दे निज-सर्व-दुःख-विमोचके तस्मिन्न् एव एका अव्यभिचारिणी धीर् यासां ताः । तत्रापरोक्षत्व-पक्षे श्री-भगवांस् तु तच्-छ्रवण-कौतुकाय तत्र तूष्णीं स्थित इति ज्ञेयम् । वैचित्त्य-विप्रलम्भाख्यो हि भावोऽयं मुक्ता-फलादौ वोपदेवादिभिः स्वीकृतः, वर्णितश् च श्री-हर्ष-मिश्रादिभिर् इति ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ऊचुर् इत्य्-आदि । उन्मत्तवत् उन्मत्ता इव, जडं यथा भवति, तथा ऊचुः । मुकुन्दे एका एकाग्रा धीर् यासाम् । अथवा, पूर्वम् अगिरः सत्यः जडं यथा भवति, तथा स्थिताः, पश्चाद् ऊचुः । तत्र कस्याश्चिद् दिनेऽपि रात्रि-शेष-भ्रमः । तत्रैव कस्याश्चित् कृष्ण-पक्ष-भ्रमः । कस्याश्चिद् अकालेऽपि जलदागम-भ्रम इत्य्-आदि । असति विप्रलम्भेऽपि विप्रलम्भवद् अनुराग-सागरस्योन्मर्यादतायां समीपस्थम् अपि श्री-कृष्णम् आलिङ्गितानां तथा भाषणाद् उन्मत्ता । सा तु वैचित्त्याख्य-भाव-व्यञ्जिका न तून्माद-वैचित्त्यम् । यथा,
सम्भोगेऽपि वियोगाभ-गाढोत्कण्ठानवस्थितः ।
असम्बद्धं यद् आचष्टे तद् वैचित्त्यं प्रकीर्त्यते ॥
तद् अतिशय-प्रेम-वैह्वल्यम् ॥१४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८७) : ततश् च ता मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनर् अनुराग-विशेषेण उन्मत्ता इव विहरन्तम् अपि तम् अरविन्दाक्षं परोक्षवच् चिन्तयन्त्यो जडं विवेक-शून्यं यथा स्यात्, तथा ऊचुः । तानि वचनानि मे मम गदतो वाक्यतः शृणु इति ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उन्मत्तवत् हृत-बुद्धित्वात् धूस्तुरादि-विक्षिप्त-चित्ता इव अरविन्दाक्षम् अपरोक्षम् अपि परोक्सया चिन्तयन्त्यो जडं विचार-शून्यं यथा स्यात्, तथा यान्य् ऊचुस्, तानि मे मत्तः शृणु । इयं प्रेम्णः षष्ठी भूमिका । अनुराग-भेदः प्रेम-वैचित्त्याख्यस् तल्-लक्षणम् उज्ज्वल-नीलमणाव् उक्तम्, यथा—
प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् ।
या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ [उ।नी। १५.१४७] इति ॥१४॥
॥ १०.९०.१५ ॥
महिष्य ऊचुः—
कुररि विलपसि त्वं वीत-निद्रा न शेषे
स्वपिति जगति रात्र्याम् ईश्वरो गुप्त1-बोधः ।
वयम् इव सखि कच्चिद् गाढ-निर्विद्ध-चेता
नलिन-नयन-हासोदार-लीलेक्षितेन ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरः श्री-कृष्णः स्वपिति । त्वं तु निद्रा-भङ्गं कुर्वती विलपसि, न शेषे न स्वपिषि, तद् अनुचितम् इत्य् अर्थः । अथवा, नापराधस् तवापीत्य् आशयेनाहुः—नलिन-नयनस्य भगवतो हासेन सहितम् उदारं यल् लीलेक्षितं, तेन कच्चिद् गाढं निर्विद्ध-चेतास् त्वम् इति ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्क्रोश-कुररौ समौ इत्य् अमरः । हे कुररि ! उत्क्रोश-पक्षि-भार्ये । इत्य् अर्थ इति——
निद्रा-भङ्गः कथा-च्छेदो दम्पत्योः प्रतिभेदनम् ।
शिशु-मातृ-विभेदश् च ब्रह्म-हत्या-समः स्मृतः ॥
इति स्मृतेर् अनुचितं करोषीति भावः । किं त्वम् अप्य् अस्मत्-सदृशत्वान् न स्वपिषि आकुलत्वाद् इत्य् आहुः—अथवा इत्य्-आदिना । कच्चिद् इष्ट-प्रश्ने । नलिन-नयनस्य कमल-नेत्रस्य । आर्तानां निद्रा न भवतीति भावः ॥१५॥
कैवल्य-दीपिका : अथ वैचित्त्ये विप्रलम्भम् आह—पट्ट-महिष्य इति । कुररी इति । हे कुररि न शेषे जगति स्वपिति शयानेऽपि त्वं वीत-निद्रा यत्, तत् किम् ईश्वरस् त्वत्-स्वामी कुररः गुप्त-बोधः अदृशीभूतः । वयम् इव यथा वयं गुप्तेश्वरत्वाद् वीत-निद्राः । अनेन निद्रा-च्छेद-लक्षणा स्मर-दशा उक्ता । महिषीणाम् ईश्वरस्य सन्निहितत्वेऽपि उन्माद-माहात्म्याद् गुप्तत्वोक्तिः। न ह्य् अत्र भगवतोऽन्तर्धानादिकम् उक्तम् । न शेष इत्य् अत्र न च्युतोऽच्युत इतिवद् विभावा, न लोपो नञः [पा। ६.३.७३] । कच्चित्-शब्दो हि इष्ट-सम्प्रश्ने । नलिन-नयनः कृष्णः । निर्विद्ध-चित्तस् त्वं वीत-निद्रत्वे कारणान्तरम् ॥१५॥ [मु।फ। १२.७२]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कुररि इत्य्-आदि । सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः [भा।पु। ११.२.४५] इत्य्-आदि-दिशा आत्मनो भगवद्-भावं सर्व-भूतेषु यः पश्यति, स भागवतोत्तमो भवति । तथा च, प्रणय-रशनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधानः [भा।पु। ११.२.५५] इति वक्ष्यमाण-भागवतोत्तमत्वं गोपीनाम् आसां चेति दर्शयन् प्रति-श्लोकम् एव स्वौपम्येनोपसंहारम् आह—हे कुररि ! ईश्वरः स्वपिति, त्वं विलपसि, तन्-निद्रा-भङ्गे भयं न करोषि ।
नन्व् ईश्वरः सर्वदा जागर्त्य् एव, कथं तस्य निद्रा ? तत्राह—असुप्त-बोधः स्फुट-ज्ञानोऽव्याहत-ज्ञानः, निद्रयापि तस्य बोधो हर्तुं न शक्यते । किं वा, त्वम् अनुयुज्यसे—हे सखि ! वयम् इव कच्चिद् एवं त्वयापि, यतो वीत-निद्रा, यतो न शेषे ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
श्री-कृष्ण-महिषीर् वन्दे प्रेम-मोहित-चेतसः ।
यासां वाग्-अर्थ-बोधः स्याद् यासाम् एव प्रसादतः ॥
साक्षात्-श्री-भगवत्-संयोगे विराजमानोऽपि भाव-विशेषोद्रेकेण वैचित्त्याद् वियोगिन्य इव सत्यः। किं वा, तद्-बलेनैव सर्वेषाम् अपि श्री-भगवति स्व-सदृश-भावं मन्यमानाः, स्वभावतो रात्रौ रुवतीं कुररीं श्री-कृष्णस्याप्राप्त्य्-आर्तां मत्वाह—कुररि ! इति । एवम् अग्रेऽपि ।
यद् वा, न तदा रात्रिः, न च तत्र कुररी-प्रभृतयः । किन्तु जल-विहार-मध्य एव प्रेमोद्रेक-कृतोन्माद-विवर्तासक्तय इति । तत्र काश्चिद् आहुर् इति प्रत्येकं सर्व-श्लोकेष्व् अवतारणया वक्तुर् भेदः कल्प्यः । विविध-वाक्याद् युगपत् सर्वासां तत्-तत्-सर्व-वक्तृकत्वे च उन्मत्तवद्-उक्त्या पूर्वापर-वाक्य-सङ्गत्य्-आद्य्-अनपेक्षायाम् अपि विशेषतश् चासङ्गतेर् गुणवत्तायाम् अपि साधु-जन-प्रीत्यै तत्र तत्राग्रे यथा-मति सङ्गतिः कार्या ।
हे कुररस्य भार्ये ! वीत-निद्रा जाग्रती सती विलपसि, उच्चैर् आर्त-नादेन शोचसि, क्षणम् अपि न शेषे । जगति इति यथान्यः कश्चिल् लौकिकः शेते, तथैव स्वपिति इत्य् अर्थः । तद् एवाहुः—गुप्त-बोध आच्छन्न-जागरण इत्य् अर्थः ।
ननु युष्माभिः सह रतिं हित्वा हन्त किम्-अर्थं स्वपिति ? तत्राहुः—जगति गुप्त-बोधो जगद्-अन्तर्-गतेन केन तद्-अभिप्रायो ज्ञातुं शक्य इत्य् अर्थः ।
यद् वा, अ-कार-प्रश्लेषेण साक्षाद् बोध-रूपः, ज्ञान-घन-मूर्तिर् अपीत्य् अर्थः । जगति लोक-मध्ये लौकिक-लीलानुसारेण रात्रौ स्वपिति । हे सखि ! इति निज-भाव-साम्य-मननात्, प्रेम-भर-स्वभावाद् वा । कच्चित् किं वा । गाढं दृढम् अतिशयेन वा, निःशेषेण सामग्रतया विद्ध-चेता असि, लीलेक्षित-क्षणादि तस्यौदार्यं सर्व-चित्ताकर्षकत्वेन महत्त्वं स्वजन-सर्व-सुख-दातृत्वं वा, हासोदार-लीलेक्षितेन एव नयनयोः प्रकाश-सौन्दर्याद्य्-अभिप्रायेण । किं वा, नलिन-नयनत्वाद् एव तादृशम् ईक्षितम् इति नलिन-नयन-शब्दः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, न शेषे इति न चिराद् इत्य्-आदिवद् अशेष इत्य् अर्थः । सर्वस्मिन् जगति सर्व-लोकेषु शयानेषु सत्सु त्वम् एका विलपसि इत्य् अर्थः । तत्र निज-भावानुसारेण स्वयम् एव कारणम् उद्भावयन्ति—वयम् इति । नलिन-नयनस्य हासेनोदारं परमोत्कृष्टं लीलेक्षितं तेन । अन्यत् समम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र सर्वासाम् एवैक-जातीय-भावत्वात् कुरर्य्-आदि-वाक्-श्रवणेन वक्ष्यमाणा वाचो जाता इत्य् आह—श्री-महिष्य ऊचुर् इति । तत्र स्वभावत एव रुवतीं कुररीं प्रत्य् आहुः—हे कुररि ! जगति त्वम् एवैका सती न शेषे शयनेच्छाम् अपि न कुरुष इत्य् अर्थः । यतो विलपसि उच्चैः परिदेवनाम् एव कुरुषे । ईश्वरोऽस्माकं पतिस् तु रात्र्यां तद्-अन्वेषण-शक्ति-विरोधिन्यां गुप्त-बोधः कुत्राप्य् आच्छन्नः सन् शेते ।
यद् वा, जगति इत्य् अस्यैवात्रैवान्वयः । कुत्रापीत्य् एवार्थः । तस्माद् इदम् अनुमीमह इत्य् आहुः—वयम् इव इति । तस्मात् हे सखि ! सादृश्यात् सख्यं प्राप्तेः युक्तम् एव ममेदम् इति तवोच्चैर् विलापोऽयम् अस्मास्व् अपि साचिव्याय स्याद् इति भावः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एवाह—कुररि इत्य्-आदि । सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः [भा।पु। ११.२.४५] इत्य्-आदि-दिशा आत्मनो भगवति यो भावः, तं सर्व-भूतेषु पश्यन्तीनां, प्रणय-रशनया धृताङ्घ्रि-पद्मः [भा।पु। ११.२.५५] इत्य्-आदिना विव्रियमाणम् उत्तम-भागवत-दशाम् आरूढानां महिषीणां पृथक् पृथग् भासमानम् इदम्—हे कुररि ! ईश्वरः श्री-कृष्णः स्वपिति, त्वं विलपसि, केयं ते रीतिः ? तन्-निद्रा-भङ्गे भयं न करोषि ?
ननु स्वपन् कथम् असौ मद्-विलापं श्रोष्यति ? इत्य् आह—अगुप्त-बोधः । निद्रायाम् अप्य् अगुप्तः प्रकटो बोधो यस्य, अतः श्रोष्यत्य् एव, ततो मा विलपेति शेषः ।
अथवा, किम् इति त्वम् आक्षिप्यसे ? हे सखि ! वयम् इव कच्चित् त्वम् अप्य् एवं, किं तद्-वीत-निद्रा-कृत् ? ज्ञातम् इत्य् आह—न शेषे न स्वपिषि । तस्य कारणम् आह—नलिन-नयन- इत्य्-आदि । वयं यथा तस्य हासोदार-लीलेक्षितेन निर्विण्ण-चित्ताः सत्यो वीत-निद्रा भूत्वा न शयामहे, तथा त्वम् अपीति ॥१५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८७) : अथ विरह-स्पर्शीनि तान्य् एवोन्माद-वाक्यान्य् आहुः—कुररि इत्य्-आदि । हे कुररि ! जगति त्वम् एव एका रात्र्यां विलपसि, अत एव न शेषे न निद्रासि । ईश्वरोऽस्मत्-स्वामी तु गुप्त-बोधः क्वचिद् आच्छन्नः स्वपिति । तस्माद् अस्माकं तव च विलापादि-साधर्म्याद् इदम् अनुमीयत इत्य् आहुः—वयम् इव इति । एवम् अन्यत्रापि योजनीयम् ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च आत्मनो भावम् उन्माद-वशात् प्रायः सर्वत्र पश्यन्त्यः कुरर्य्-आदीन् आहुर् दशभिः । हे कुररि ! यस्य विरहेण त्वं विलपसि वीत-निद्रा गत-निद्रा सती, स तु त्वयि प्रेम-शून्यः ईश्वरोऽस्माकं पतिः स्वपिति, अतस् त्वद्-विलापं न शृणोति । तत एव त्वद्-विलाप-श्रवणोत्था कृपाप्य् अस्य सम्भवेत् न यतस् त्वत्-सङ्गं कुर्यात्, किं युष्माभिः सह स्वपिति ? नहि नहि, गुप्त-बोधः अस्माभिर् अज्ञात-तत्त्व एव जगत्य् अस्मिन् क्वापि रात्र्यां तद्-अन्वेषण-विरोधिन्यां शेते । अतस् त्वं वा किं करिष्यसि ? वयं वा किं कुर्मः ? इति भावः । शिव शिव त्वं पक्षि-जातिर् अपि हे सखि ! वयम् इव गाढ-निर्विद्ध-चेता अभूः ! अवश्यम् एवम् एतत्-सङ्गो भवतु इति । निर्बन्धे हेतुः—नलिन- इत्य्-आदि ॥१५॥
॥ १०.९०.१६ ॥
नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस्
त्वं रोरवीषि करुणं बत चक्रवाकि ।
दास्यं गता वयम् इवाच्युत-पाद-जुष्टां
किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नक्तं रात्राव् अदृष्ट-बन्धुः सती रोरवीषि । किं वा नैतवद्, अपि तु वयम् इव स्पृहयसे ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतावत् बन्धु-वियोग-मात्रम् एव स्पृहयसे इच्छसि । कवरेण केश-विन्यासेन ॥१६॥
कैवल्य-दीपिका : नेत्र इति । नक्तं रात्रौ । बन्धुः प्रियतमः । रोरवीषि भृशं शब्दं करोषि । बत इति खेदे । अच्युतस्य पादाभ्यां भक्त्य्-अर्पितत्वाज् जुष्टां वयम् इव यथा वयं स्पृहयामः । अनेन सङ्कल्प-लक्षणा ॥१६॥ [मु।फ। १२.७३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भवतु, त्वम् एव प्रलप, चक्रवाकी कथं रोरवीतीति ताम् आक्षिप्याहुः—नेत्रे इत्य्-आदि । हे चक्रवाकि ! त्वं कथं रोरवीषि, आर्त-नादं पुनः पुनः कुरुषे ? तथापि ईश्वर-निद्रा-भङ्गे भयं नास्ते ! आं ज्ञातं, वयं यथा, तथा त्वम् अप्य् अच्युत-पाद-जुष्टां स्रजं वोढुं स्पृहयसे, अत एव नेत्रे निमीलयसि ध्यायसि ध्यानान्तरं रोरवीषि । रात्रौ चक्रवाकादर्शनेनाहं रोरवीमि ? तत्राह—न, अदृष्ट-बन्धुः, दृष्ट-बन्धुर् एव त्वम् । अस्याम् उपरि कस्यापि काल-कृत-दोषो नास्ति, ईश्वर-प्रसादात् । तथापि चेद् एवं तवानुमितम् इदं वयम् इव इति ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्या अप्य् अधिकम् आर्त-नादं चक्रवाक्याः श्रुत्वा तथैवाहुः—नेत्रे इति । बन्धुः प्रियतमः करुणं यथा स्यात्, तथा रोरवीषि, भृशम् आर्त-नादं तनोषि । बत खेदे । अहो बत ईदृश आर्त-नादः स्व-पत्य्-अदर्शन-मात्रेण न स्यात्, किन्तु श्री-भगवति भाव-विशेषेणैवेति पक्षान्तरम् आहुः—दास्यम् इति । तद्-एकाधीनत्वं प्राप्ता वयम् इव यथा वयं स्पृहयामः । यद् वा, वयम् इव दास्यं दासी-मतित्वं गता अच्युतस्य सदा सर्व-सद्-गुण-रूपादि-परिपूर्णस्य भगवतः पादाभ्यां जुष्टाम् सदा प्रीत्या स्वीकृतां वोढुं स्पृहयसे स्पृहयसि । इदं दास्य-प्राप्ति-प्रयोजनम् । तथा चोक्तं श्री-यज्ञ-पत्नीभिः—प्राप्ता वयं तुलसि-दाम पदावसृष्टं केशैर् निवोढुम् [भा।पु। १०.२३.२९]2 इति । करणेन केश-पाशेनेति तस्यास् तद्-अभावेऽपि तद्-उक्तिर् आत्मोद्देशात् प्रेमोन्मादाद् एव वा । तद् उक्तम् एव—उन्मत्तवद् इति । एवम् अग्रेऽपि । अन्यत् तैर् व्याख्यातम् ।
यद् वा, किं वा इति । किं तर्के । भाव-विशेषेण स्रग्-वहन-स्पृहयैव रोरवीषीति तर्कयाम इत्य् अर्थः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्या अप्य् अधिकम् आर्त-नादं चक्रवाक्याः श्रुत्वा तथैवाहुः—नेत्रे इति । बन्धुः प्रियतमः । करुणं यथा स्यात्, तथा रोरवीषि, भृशम् आर्त-नादं तनोषि । बत खेदे । अस्मत्-समैव त्वम् अपीति भावः । अहो बत ईदृश आर्त-नादः स्व-पत्य्-अदर्शन-मात्रेण न स्यात्, किन्तु श्री-भगवति भाव-विशेषेणैवेति पक्षान्तरम् आहुः—दास्यम् इति । वयम् इव दास्यं गता दासी सती अच्युतस्य सदा सर्व-गुण-रूपादि-परिपूर्णस्य भगवतः पादाभ्यां जुष्टाम् उपभुक्तां चरणोपधानी-कृतां वोढुं स्पृहयसे स्पृहयसि । भाव-विशेषेण परम्परया तच्-चरण-स्पर्शं कामयस इत्य् अर्थः । पाद-शब्दोऽत्र पातिव्रत्योचित-भक्त्या श्री-भगवत्-स्पृष्टता-मात्रे तु तात्पर्यम् ।
यद् वा, वयम् इव दास्यं गता असीति तां तथा वोढुं स्पृहयसि इति कान्ता भूत्वा तद्-उचित-सौभाग्यम् इच्छसीत्य् अर्थः । स्पष्टतयानुक्तिस् तु शालीन्यात् । यथोक्तं यज्ञ-पत्नीभिः—प्राप्ता वयं तुलसि-दाम पदावसृष्टं [भा।पु। १०.२३.२९]3 इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रत्युवाच—हे सखि ! कुरर्य् एव प्रलपतु, कथम् इयं चक्रवाकी रौति ? इत्य् आह—नेत्र इत्य्-आदि । हे चक्रवाकि ! किम् इति रोरवीषि ? तवापीश्वर-निद्रा-भङ्ग-भयं नास्ति । अज्ञातं वयम् इव दास्यं गता सती अच्युत-पाद-जुष्टां स्रजं कवरेण वोढुं स्पृहयसे, तद् युक्तम् एवेदं ते समाक्रन्दनम् । अत एव नेत्रे निमीलयसि ध्यायसि । "न त्व् अहं चक्रवाकादर्शनेन रोरवीमि, तवापीश्वर-निद्रा-भङ्ग-भयं न तद्" इत्य् अत्राशङ्कस इत्य् आह—न, अदृष्ट-बन्धुर् एव भवति । अस्यां पुरि कस्याप्य् अभीष्ट-विच्छेदो नास्ति, ईश्वरस्य प्रभावात् । तथापि यद् एव रोरवीषि, तेन यद् अनुमितं, तद् एव सत्यम् इति भावः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अदृष्ट-बन्धुः किम् अदृष्ट-स्व-भर्तृकासि ? अहो बत ईदृश आर्त-नादः स्व-पत्य्-अदर्शनेन सम्भवेद् इति पक्षान्तरम् आहुः—दास्यं गता इति ॥१५॥
॥ १०.९०.१७ ॥
भो भोः सदा निष्टनसे उदन्वन्न्
अलब्ध-निद्रोऽधिगत-प्रजागरः ।
किं वा मुकुन्दापहृतात्म-लाञ्छनः
प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अलब्ध-निद्रः सदा निष्टनसे क्रोशसि । किं वा, अस्माभिः प्राप्तां दशां त्वम् अपि गतोऽसि । अहो कष्टं ! यथा वयं सम्भोगेन मुकुन्दापहृत-कुच-कुङ्कुमादि-लाञ्छनाः, तथा त्वम् अपि, यतोऽपहृत-श्री-कौस्तुभादि-लाञ्छनो लक्ष्यसे ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निष्टनसे ष्टन्-शब्दे नि-पूर्वः । दुरत्ययां दुर्लङ्घ्याम् ॥१७॥
कैवल्य-दीपिका : भो इति । हे उदन्वन् समुद्र ! निष्टनसे नितरां शब्दायसे । मुकुन्दापहृतम् आकृष्टं यद् आत्मनो लाञ्छनं समुद्र-शायना मूर्तिः, तेन प्राप्तां दशां गतः । त्वं च इति च-कारेण वयं च । समुद्र-शायिन एव पुरुषस्य कृष्णत्वात् प्रति समुद्रं हरिः शेत इति कवि-समयाच् च । अत्र निष्टनस इत्य् अनेन प्रलाप-लक्षणा ॥१७॥ [मु।फ। १२.७४]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तादृशीनां स्त्रीत्वात् धैर्याभावे समुचितम् एवैतत् । अयं त्व् अतिगम्भीरोऽपि समुद्र उच्चैस्तराम् आक्रोशति किम् ? इत्य् आहुः—भो भो ! इत्य्-आदि । हे उदन्वन् ! समुद्र ! सदा सदैव निष्टनसे, ईश्वर-निद्रा-भङ्ग-भयं न करोषि । किम् इदम् ? स्वयम् अलब्ध-निद्र ईश्वरस्यापि निद्रा-भङ्गं करोषि । आं ज्ञातम् । किं वा, मुकुन्दापहृतात्म-लाञ्छनः सन् दुरत्ययां दशां त्वं च प्राप्तः । वयं तु दुरत्ययां दशां प्राप्ता एव, त्वं चेति । च-कारस्याक्षेपः । मुकुन्देनापहृतो य आत्मा, स एव लाञ्छनम् उद्वेग-व्यञ्जकं यस्य ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्या अप्य् अधिकतरम् आक्रोशन्तं समुद्रं तथैवाहुः—भो इति । श्री-भगवन्-महा-विभूतित्वेन सादर-सम्बोधनम् । वीप्सा अतिखेदात् । अलब्ध-निद्रत्वाद् एव अधिगतोऽधिकं प्राप्तः प्रकृष्टो जागरो येन, तथा-भूतः सन् निष्टनसे । मुकुन्देन सर्वानन्द-प्रदेनापि भगवता हृतात्म-लाञ्छनो दशां तद्-अप्राप्ति-दुरवस्थाम् । च अपि । ताम् अपि दुरत्ययाम् अनतिक्रम्याम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, मुकुन्देन इति स्मितादिना कुन्द-सुन्दर-श्री-दन्तालि-प्रकाशेन श्री-मुख-शोभयेति भावः । अपहृतम् आत्म-लाञ्छनं त्वत्-स्वाभाविक-स्थैर्य-गाम्भीर्यादि-लक्षणं यस्य, तथा-भूतः सन् अस्माभिः प्राप्तां धैर्यादि-रहितां दशां त्वम् अपि गतोऽसि, यतः सदा निष्टनसे ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्या अप्य् अधिकतरम् आक्रोशन्तं समुद्रं तथैवाहुः—भो इति श्री-भगवन्-महा-विभूतित्वेन सादर-सम्बोधनम् । वीप्सा अतिखेदात् । अलब्ध-निद्रत्वाद् एव अधिगतः अधिकं प्राप्तः प्रकृष्टो जागरो येन, तथा-भूतः सन् किं निष्टनसे, अस्माकं केनापि दुःखेन भवतु नाम, तत् तद् भवतु, तद् विनापि कथम् इति भावः । क्षणं विमृश्याहुः—किं वा इति । मुकुन्देन सर्व-दुःख-विमोचकेनापि अपहृतम् आत्म-लाञ्छनं स्वभाव-सिद्ध-स्थैर्य-गाम्भीर्यादि-रूप-लक्षणं यस्य, तथा-भूतः सन् त्वं च अस्मद्-विधवत्त्वम् अपि दुरत्ययाम् अनतिक्रम्यां दशां तद्-अप्राप्ति-दुःख-स्थां गतोऽसि । हा कष्टम् इति भावः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वादृशीनां स्त्रीत्वाद् धैर्याभावे समुचितम् एवैतत् कथनम् । अयं तूच्चैर् गभीरोऽपि समुद्रः कथं स्तनति ? इति काचिद् अपराह—भो भो इत्य्-आदि । हे उदन्वन् ! जलधे ! सदैव निष्टनसे ईश्वर-निद्रा-भङ्ग-भयं किं कुरुषे ? स्वयम् अलब्ध-निद्रां च न यासि । आं ज्ञातम् । किं वा, मुकुन्दापहृतात्म-लाञ्छनः सन्निधि-गत-प्रजागरो दुरत्ययां दशां गतः प्राप्ता स्वयम् एवोत्पन्ना । मुकुन्देनापहृतो य आत्मा, स एव लाञ्छनम् उद्वेग-चिह्नं यस्य, तद् उचितम् एवैतद् इति शेषः ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो उदन्वन् ! गाम्भीर्यं परित्यज्य अतितरल-लोक इति निष्टनसे शब्दायसे, निर्निद्रः सन्न् उच्चैः फूत्कृत्य रोदिषि । अत्र कारणं वद । अथवा, अलं कारण-कथनेन । ज्ञातम् अस्माभिर् इत्य् आहुः—किं वा इति । यथा सम्भोग-मिषेण अपहृता अस्मत्-कुङ्कुम-हार-माला कः स चोरः, तथैव त्वम् अपि तेनैव अपहृत-श्री-कौस्तुभादि-लाञ्छनः ॥१६॥
॥ १०.९०.१८ ॥
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो
क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि ।
कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं
विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्द-गदितानि रहस्यानि विस्मृत्य तद्-एक-चिन्तया कच्चित् त्वं क्षीणोऽसि वयम् इव । स्थगित-गीस् तनु-वाक् । हे इन्दो ! नस् तथैव उपलक्ष्यसे ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यक्ष्मणा क्षय-रोगेण, यक्ष्मा तु क्षय-रोगे स्याद् ग्रहे च बाल-वृद्धयोः इति नाम-माला । दीधितिः घृणिः । तद्-एक-चिन्तया मुकुन्दैक-चिन्तया । स्थगिता आच्छादिता गीर् यस्य, स तथा । स्थगे आच्छादने, ततः क्ते स्थगितेति सिद्धेः । नोऽस्माभिः । तथैव अस्मत्-तुल्य एव ॥१८॥
कैवल्य-दीपिका : त्वम् इति । यक्ष्मणा दक्ष-शापजेन रोगेण प्रक्षिणोषि, न नाशयसि । यथा वयं विरहजेन यक्ष्मणा क्षीणाः । तमोऽज्ञानम् । दीधितिभिः प्रज्ञा-रश्मिभिर् न क्षिणुमः । विश्रुत्य विशेषात् वा स्थगित-गीर् निश्चलः । उपलक्ष्यसे दृश्यसे नोऽस्माभिः । अनेन व्याधि-लक्षणा ॥१८॥ [मु।फ। १२.७५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इन्दुम् उद्दिश्य काश्चिद् आहुः—त्वं यक्ष्मणा इत्य्-आदि । हे इन्दो ! क्षीणः सन् निज-दीधितिभिस् तमो न क्षिणोषि । को हेतुः ? तत्राहुः—कच्चिद् इत्य्-आदि । यथा वयं, तथा त्वम् अपि स्थगित-गीर् उपलक्ष्यसे नो अस्माभिः । यतो बलवता यक्ष्मणा गृहीतः । चिन्तायां क्षय-व्याधिर् भवति, सा पूर्व-रागस्य दशा-दशकान्तर्वर्तिनी व्याधि-नाम्नी दशा । तत्र हेतुः—मुकुन्द-गदितानि विस्मृत्य विशेषेण स्मृत्वा रहसि गदितं तद् विस्मृत्येति वा, आनन्देन प्राग् विस्मृतं पश्चात् तद्-अनुतापो जात इति स्वानुभव-प्रकटनम् ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना महा-रोगार्तम् इव चन्द्रम् दृष्ट्वाहुः—त्वम् इति । यक्ष्मणा रोग-विशेषेण गृहीतो बलाद् व्याप्तः संस् तमोऽन्धकारं न क्षिणोषि न नाशयसि, यतः स्थगित-गीः । गदितैः श्री-दन्त-कुन्दादि-प्रकाशतः श्री-मुख-शोभाधिक्याभिप्रायेणैव मुकुन्द-शब्दः । भो इन्दो ! नोऽस्माभिः । अन्यत् तैर् व्याख्यातम् ।
तत्र भो इन्दो इति लेख्ये "हे" इति लेखक-भ्रमाद् इत्य् अवगम्यते । भो इत्य् अस्यैव व्याख्याया अपेक्ष्यत्वाद् इति । अथवा, यथा वयं मुकुन्दस्य गदितानि विशेषेण स्मृत्वा अनुसन्धाय तद्-अभिनिवेशेन स्थगित-गिरः क्षीणाश् च निजग-दुःखं स्व-बुद्ध्य्-आदि-रश्मिभिः क्षपयितुं न शक्नुमः, तथा त्वम् अप्य् अस्माभिर् लक्ष्यसे । अतो यक्ष्मणा गृहीतः क्षीणः संस् तमः स्व-भार्याणां ताराणां दुःखं निज-दीधितिभिः स्व-कर-स्पर्शादिना क्वचित् किं न क्षिणोषि ? अहो कथम् अत्रोत्तरं न यच्छसि ? तत् कच्चिन् मुकुन्द-गदितानि विस्मृत्य स्थगित-गीर् अपि तथैवास्माभिर् उपलक्ष्यसे ? एवं कच्चिद् इत्य् अस्योभयत्राप्य् अन्वयः । अन्यत् समानम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, अहो यद्यप्य् एते तिर्यग्-आद्याः समुद्रान्तास् तद्-भावाद् उत्तरोत्तराधिक्येन क्रोशन्ति, तर्ह्य् अयं सर्व-सद्गुणश् चन्द्रमाः कथं मौनी वर्तते ? ज्ञातं चेदम् अपीति भङ्गी-पूर्वकम् आहुः—भो इन्दो ! त्वं बलवता सुधा-मूर्तेर् अपि तव पराभवात् प्रशस्त-बलेन यक्ष्मणा निगृहीतोऽसि । यतः क्षीणः हीनः सन् निजा यावत्यो दीधितयः, ताभिः पूर्णिमायाम् अपि तमो न क्षिणोषि सूर्यवत् क्षयं प्रापयितुं न शक्नोषि । यथा वयं श्री-मुकुन्द-विरहेण क्षीणा निज-दुःख-हरणेऽप्य् असमर्थाः, तथा त्वम् अपीत्य् अहो त्वय्य् अधिक-कष्टम् एवेति भावः । क्षणं परामृश्येवाहुः—कच्चिद् इति । किं वा, मुकुन्दस्य गदितानि विश्लेषारम्भे समय-बन्धादीनि विस्मृत्य तद्-विरह-भव-प्रागल्भ्येनापस्मृत्य तद्-अनिश्चयेनैव क्षीणः सन् तमो न क्षिणोषि । यतो वयम् इव त्वं स्थगित-गीश् च नोऽस्माभिर् उपलक्ष्यसे । कुरर्य्-आदिवद् आक्रोशनाद् एतत् प्रश्नेऽप्य् उत्तरादानाद् इति भावः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : भवतु आत्मापहरणाद् अस्य तथा-विधा दशा, इन्दुः कथं क्षीयमाणः आस्त इत्य् आशङ्क्य काचिद् आह—त्वं यक्ष्मणा इत्य्-आदि । हे इन्दो ! बलवता यक्ष्मणा क्षीण इव कथं दीधितिभिस् तमो न क्षिणोषि ? यक्ष्म-बाधितो जनो यथा किम् अपि कर्तुं न शक्नोति, तद्वत् कोऽर्थः । आम्, ज्ञातं, कच्चित् भो यथा वयं मुकुन्द-गदितानि विस्मृत्य मुकुन्देन रहसि यद् उक्तं, तद् विस्मृत्य स्थगिताः, तथा त्वम् अपि स्थगित-गीर् नोऽस्माभिर् उपलक्ष्यसे । तत्-स्मरणे ध्यायन् क्षिणोषि, वयं यथा अग्रे आनन्देन विस्मृतं, पश्चात् तद्-अनुस्मरणे क्षीणाः स्मः, तथा त्वम् अपि । तद् युक्तम् एवैतत् ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वं यक्ष्मणा इति । अथवा नेदं कारणम् । कारणं तु ज्ञातम् अस्माभिर् इत्य् आहुः—मुकुन्द-गदितानि विस्मृत्य इति । तस्य विश्लेषारम्भे तेन यः खल्व् आधिः समयः स-चाटु स-बहु-शपथ-मुक्तस् तत्र तदानीं वैक्लव्यातिशयात् त्वया मनो न दत्तम् । अत इदानीं तानि मुकुन्द-गदितानि विस्मृत्य महानुतापाद् एव स्थगित-गीर् नोऽस्माभिर् उपलक्ष्यसे । कुरर्य्-आदिवत् आक्रोशनाद् एतत्-प्रश्नेऽप्य् उत्तरादानाद् इति भावः । यथा वयम् इति वयम् अपि तद्-विश्लेषात् तथा तद्-वचन-विस्मरणोत्थानुतापात् स्थगित-गिरो विशीर्याम इति भावः ॥१८॥
॥ १०.९०.१९ ॥
किं न्व् आचरितम् अस्माभिर् मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अप्रियाचरणं विना स्मरोदीरणेन व्यथा-जननं हे मलयानिल ! तवानुचितम् इत्य् अर्थः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—कृष्ण-क्षण-पातेषु निर्भिन्न-चेतसाम् आर्तानाम् अस्माकम् अकृत-त्वद्-अपराधानां पुनर् अन्यत् काम-व्यथोत्पादनं न योग्यम् इति भावः ॥१९॥
कैवल्य-दीपिका : किं न्व् इति । किम् अप्रियम् आचरितम् नो हृदि ईरयसि उद्दीपयसि । अनेन मनः-सङ्ग-लक्षणा ॥१९॥ [मु।फ। १२.७६]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एभिः सह कथोपकथने स्वास्थ्यं न ददासि, तत् किं तेऽस्माभिर् अप्रियम् आचरितम् ? इत्य् आहुः—किं न्व् इत्य्-आदि ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रात्रि-शेषे वहन्तं वातम् आसाद्य तेन जनितया काम-पीडयाहुः—किम् इति । नु अहो । कतरद् अप्रियम् । पाठान्तरे वा-शब्दः स-भ्रू-क्षेप-प्रश्ने । गोविन्दस्य गोकुलेन्द्रस्य श्री-गोपी-गण-विमोहनस्य भगवतोऽपाङ्गेन ईक्षण-शरेणेत्य् अर्थः । निःशेषतया भिन्ने विदारिते, अस्माकं हृदि स्मरम् उदीरयसि, काम-व्यथां जनयसीत्य् अर्थः ।
हे मलयानिल ! इति शीतल-स्वभावस्य ते ताप-जननम् एतद् अनुचितम्, तत्राप्य् अन्य-हतानां पुनस् त्वया हननं परमायुक्तम् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अहो बत ! अस्माभिः किं नाम दुष्कर्म कृतम्, यतस् ते प्रियं निजेष्टं स्मरं श्री-भगवद्-विषयकं कामम् अस्माकं हृदीरयसि, यतोऽस्माकम् अप्य् अप्रियतमस्य तत् स्मरस्य त्वयोद्दीपनम् अयुक्तम् एवेति भावः । तत्रापि स्वत एव दुःखितानां पुनर् दुःख-जननं नैव युक्तम् इत्य् आहुः—गोविन्द इति । समम् अन्यत् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रात्रि-शेषे मुद् उद्वहन्तं स्मरोद्दीपनं स्तुति-व्याजेन निन्दन्त्य आहुः—किं न्व् इति । तत्र स्तुतिर्, यथा—हे मलयानिल ! मलयस्य परमार्थतः श्रीमद्-अगस्त्य-निवासस्य व्यवहारतश् चन्दनाकरस्यानिल ! ते तव प्रियम् अस्माभिर् नु अहो किम् आचरितम् ? यतो गोविन्दस्य पृथिव्या भार-हरणाय पृथिव्याम् अवतीर्णस्येत्य् अर्थः । तस्य अपाङ्गेन निर्भेदकत्वात् बाण-रूपेण निःशेषेण भिन्ने हृदि जीवाधार-कोशे स्मरं स्मृतिं चैतन्यम् ईरयसि पुनः प्रवेशयसि । यद् वा, स्मरं कामम् अपि ईरयसि किम् उत चैतन्यम् इति भावः । यद् वा, अनिलेन त्वयेरणान् निजानुभवाच् च स्मरस्य वह्नित्वम् अवगम्यते । ततस् तन् निर्भिन्नत्वान् मृतकत्वं प्राप्ते हृदि यद्-अन्तिम-क्रियोचितं तद्-रूप-वह्निम् ईरयसि ददासि । तस्मात् किन्त्व् आचरितम् इत्य्-आदि ।
अथ निन्दा, यथा हे तादृश ! अस्माभिर् एव तव अप्रियं किम् आचरितं, तद् वदेत्य् अर्थः । नु वितर्के । विचारेणापि नास्मद्-बुद्धि-गोचरं तद् इत्य् अर्थः । कथम् ? तद् आह—तादृश-गोविन्दापाङ्ग-निर्भिन्नेऽप्य् अस्माकं तादृशेत्य्-आदि । तादृशं स्मरम् ईरयसि, तत् तु विनाप्य् अप्रियाचरणम् अन्य-हतस्य, तत्रापि म्रियमाणस्य दाहनं तादृशस्य तव नोचितं, तथा क्षण-विलम्बासहत्वात् परम-चापल्यं चेति भावः । यद् वा, तादृशेऽपि हृदि कामम् ईरयसि । अहो तव मूर्खत्वं वृथा विडम्बन-कर्तृत्वं चेति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : काचित् तत्रैव समये मेदुरं वहन्तम् अनिलम् अभिमृश्य तद्-बाधितेव सासूयम् आह—किं न्व् आचरितम् इत्य्-आदि । हे मलयानिल ! अस्माभिस् ते किम् अप्रियम् आचरितम् ? न किम् अपीति चेत्, कथम् एवं पीडयसि ? इत्य् आह—गोविन्दापाङ्ग-निर्भिन्ने किं स्मरम् ईरयसि प्रेरयसि ? क्षेत्रे जम्बीर-रसम् इवेति शेषः । असूया व्यभिचारी ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मलयानिल ! ते किम् अप्रियं वैरम् अस्माभिर् आचरितम् ? यद् अस्मिन् विपत्-समये त्वं वैर-परिशोधनं करोषीत्य् आहुः—गोविन्द- इति ॥१९॥
॥ १०.९०.२० ॥
मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं
श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः ।
अत्युत्कण्ठः4 शवल-हृदयोऽस्मद्-विधो बाष्प-धाराः
स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःखदस् तत्-प्रसङ्गः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मेघ इति । आतपार्ति-हरणादि-साम्यात् त्वं यादवेन्द्रस्य नूनं दयितः सखासि, अतो भवांस् तं ध्यायति । ध्याने लिङ्गान्य् आहुः—अत्युत्कण्ठ इत्य्-आदि । अहो किम् इति त्वया तेन सख्यं कृतं ? यतो दुःखदस् तत्-प्रसङ्गः इति ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं च, मेघ जल-सेक्तृत्वेन सर्व-तापापनोदक श्रीमन् विद्युद्-युक्तत्वात्, अतः सखित्वात् । तं यादवेन्द्रम् । लिङ्गानि ज्ञापकानि । अत्युत्कण्ठस् तद् द्रष्टुम् अतीवेच्छावान् । शवल-हृदयो विह्वलः । यथा वयं ध्यायामः, तथा भवान् अप्य् अस्मद्-विधोऽस्मत्-तुल्य एवार्तः । बाष्प-धारा अश्रु-प्रवाहान् । तत्-प्रसङ्गः श्री-कृष्ण-प्रसङ्गः ।
वस्तुतस् तु त्वं प्रेम-भक्तोऽसि प्रह्लादादिवत् तद्-धर्माणां, वाग् गद्गदा द्रवते यस्य चित्तं [भा।पु। ११.१४.२४] इत्य्-आदीनां त्वयि दर्शनात् । तथा च श्री-कृष्ण-सङ्गः दुःखानां साम्सारिक-तापानां दशा-च्छेदक5 एव, अत एव सर्वस्व-त्याग-पुरःसरं तद्-यशः-श्रवण-मात्रेण महान्तोऽरण्यम् आप्य [तद्-ध्यानयन्तस् तम् इताः ।]{।मर्क्} तद् उक्तं—
कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ।
तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् ॥ [भा।पु। १.१०.१२] इति ।
कैवल्य-दीपिका : मेघ इति । शवलं व्याकुलम् । अत्र स्मृतिः ॥२०॥ [मु।फ। १२.७७]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्मद्-विधो वयम् इव, सादृश्ये विध-प्रत्ययः ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समुद्रान्तिके वर्षन्तं मेघं श्री-भगवद्-विरहार्त्या रुदन्तं मत्वाहुः—मेघ इति । वृष्ट्या भूमि-सेचनेन लोकानां ताप-हरणात्, अयं दयितत्वे हेतुः । वर्ण-सादृश्याद् अपि दयितत्वम् आहुः—श्रीमन् ! हे सुश्याम-वर्णत्वादिना शोभा-युक्तेति, यादवेन्द्रस्य अस्मद्-दयितस्येत्य् अर्थः । यद् वा, यादवेन्द्रत्वेन यादवा एव तस्य दयितत्वे योग्याः, तथापि त्वम् अपि दयितोऽसीति भावः ।
नूनं वितर्के । श्रीवत्साङ्कम् असाधारण-लक्षणेन सर्वतो विलक्षणम् । यद् वा, श्री-युक्ताः श्री-नन्द-व्रजस्य वत्सा अङ्के स्नेह-लालनादिना सदा क्रोडे कृता यस्य तम् । इति ध्यान-सौष्ठवाय गोप-वेशादिकम् अभिप्रेतम् । प्रेम-पाशेन बद्धो ध्यायति चिन्तयति । भवान् इति श्री-भगवद्-दयितत्वेनादरात् ।
विसृजसि इति त्वत्-प्रेम-वार्तया प्रेमोद्रेकात् । अत्युत्कण्ठो महा-व्यग्रः शवल-हृदयश् च व्याकुल-मना अस्मद्-विधः, वयम् इव इत्य् अर्थः । स्मृत्वा स्मृत्वा तं मुहुर् बाष्प-धारा विसृजसि मुञ्चसि । वीप्सा मुहुः-शब्दश् च कथञ्चिद् यत्नेन स्मरणादौ संवृत्तेऽपि पुनः पुनस् तद्-उद्भवात् । तत्-प्रसङ्गः तस्मिन्न् आसक्तिः । किं वा, तस्य प्रसङ्गः । किं तद् ? वार्ता- मात्रम् अपि किं पुनर् ध्यानम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, इदम् उचितम् एवेत्य् आहुः—दुःखद इति । समम् अन्यत् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ समुद्रान्तिके वर्षन्तं मेघं श्री-भगवद्-विरहार्त्या रुदन्तं मत्वा तत्-सारूप्य-दर्शन-जातेनाकृत्रिम-सौहृद्येनाहुः—मेघ- इति । नूनं वितर्के । इति सर्वत्र वाक्ये योज्यम् । हे मेघ ! त्वं यादवेन्द्रस्य नूनं दयितः प्रिय-सखः असि । यतः हे श्रीमन् ! प्राप्त-तत्-सारूप्य-लक्ष्मीकः । ततः किम् ? तत्राहुः—प्राप्त-सारूप्याद् अपि भवद्-विधाद् विलक्षण-लक्ष्मीकम् अमुं भवान् नूनं ध्यायति ।
ननु प्राप्ते पर्यन्त-फले फलस्य वा न्यूनत्वे किं तद्-ध्यानेन ? तत्राहुः—प्रेम-बद्ध इति । तच् छ्री-मूर्तेस् तथा स्वभावो यथा तत्र प्रेमैव ज्ञायते, नौदासीन्यं न चेर्ष्येति भावः । तत्रोभयत्रापि दृष्टान्तः—वयम् इव इति । यस्माद् एवं प्रेम-बद्धः, तस्मात् नूनम् अत्युत्कण्ठः तेन निर्वेदादि-नाना-भाव-शवल-चित्तोऽप्य् असि । तत्रापि हेतुः—अस्मद्-विध इति । प्रेम-बद्ध-तादृश्यात् स्वानुभवेन ज्ञायस इत्य् अर्थः ।
यद् वा, अत्युत्कण्ठत्वेन लक्षणं शवल-हृदयः शवलं वैवर्ण्येन नाना-वर्णं हृदयं मध्य-भागो यस्य तथा-भूतोऽसीति । तच् च युक्तम् इत्य् आहुः—अस्मद्-विध इति । अहो नूनम् अत एव तं स्मृत्वा स्मृत्वा वृष्टि-रूपा बाष्प-धारा मुहुः सृजसि सर्वत्र विकिरसि । युक्तं च तद् इत्य् आहुः—दुःखद इति । प्रसङ्ग आसक्तिः प्रस्ताव-मात्रं वा ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रैव काचिन् मेघम् आलोक्यैव निगदति—मेघ श्रीमन्न् ! इत्य्-आदि । हे मेघ ! श्रीमन् ! श्री-युक्त ! त्वं यादवेन्द्रस्य दयितोऽसि मित्रम् असि सावर्ण्यात् श्रीमत्त्वाच् च । स श्रीमान् लक्ष्मीवान् त्वम् अपि शोभावान् इत्य् अर्थः । नूनं मन्ये वयम् इव भवान् अपि श्रीवत्साङ्कं प्रेम-बद्धः सन् ध्यायति । प्रेम-बद्धत्वं व्याकरोति—अपि इत्य्-आदि । अपि सम्भावनायाम् । उत्कण्ठ उत्कण्ठावान् उद्ग्रीवो वा शवल-हृदयो नाना-भाव-शावल्य-वलित-मना भूत्वा बाष्प-धारा विसृजसि, मुहुः अस्मद्-विधः अस्मत्-सदृशः, सादृश्ये विध-प्रत्ययः । किं कृत्वा ? स्मृत्वा तत्-प्रेमानुक्षण-स्मरणेन उचितम् एवैतत् । कथम् ? इत्य् आह—दुःखदस् तत्-प्रसङ्गः । तत्-प्रस्ताव-मात्रम् अपि दुःखदं, किम् उत निरन्तरानुस्मरणम् इति ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दयितः सखा । त्वम् असि प्रेम-बद्धः प्राप्त-बन्धनः सन्, तं ध्यायति श्रीवत्साङ्कम् इति । तस्य च वर्णेन साम्येऽपि तस्य श्रीवत्साङ्कोऽधिक इति तत्र तवाशक्ति-कारणम् अवगतम् इति भावः । शवल-हृदयः विषाद-मलिन-चेताः वृष्टि-मिषेण बाष्प-धाराः विसृजसि वृष्टि-मिषेण रोदिषि । अहो किम् इति त्वया तत्रासक्तिः कृता, यतस् तत्-प्रसङ्गो दुःखद एव ॥२०॥
॥ १०.९०.२१ ॥
प्रिय-राव-पदानि भाषसे
मृत-सञ्जीविकयानया गिरा ।
करवाणि किम् अद्य ते प्रियं
वद मे वल्गित-कण्ठ कोकिल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे कोकिल ! मे प्रिय-रावस्य प्रियं-वदस्य श्री-कृष्णस्य पदानीव पदानि शब्दांस् त्वं भाषसे । मृतान् सञ्जीवयति इति तथा तया अनया कोमलया गिरा वल्गित-कण्ठ रमणीय-कण्ठ मे कथय किं तव प्रियं करवाणि ? इति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रियं रौति वदतीति प्रिय-रावः, तस्य । वल्गितं प्रिय-रम्ययोः इति ॥२१॥
कैवल्य-दीपिका : प्रिय- इति । प्रियस्य नाम पदानि इति । भाषसे अनया अपश्यम् अ-स्वर-युक्त्या । वल्गितो वल्गीकृतः । अत्र गुण-कीर्तनम् ॥२१॥ [मु।फ। १२.७८]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत्र काश्चित् पिक-रवम् आकर्ण्य कृष्ण-स्वरं स्मृत्वा वदन्ति—प्रिय-राव- इत्य्-आदि । प्रियस्य श्री-कृष्णस्य राववद् रावो यस्य । राव-पदानि इत्य् एकं वा पदम् ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रात्रि-शेषे कूजन-कोकिलम् आहुः—प्रिय- इति । तद्-विरहेण मृतान् जनांस् तत्-स्मर-सदृशतया तन्-नैकट्य-बोधने सम्यग् जीवयति इति तया गिरा हेतुना तव प्रियं किं करवाणि ? अपि तु न किञ्चित् कर्तुं शक्नुयाम् इत्य् अर्थः । वल्गितः पञ्चम-स्वरेण वल्गूकृतः कण्ठो येन, तत्-सम्बोधनम् । अनेन श्री-भगवद्-गीः-साम्यार्थं सुस्वरत्वं सूचयन्ति । अत्र च करवाणि इति मे इति चैकत्व-निर्देशः । श्री-भगवद्-वाङ्-माधुरी-हृत-चित्तायाः कस्याश्चिद् एकस्या वोक्तेः । यद् वा, सर्वासाम् अपि प्रत्येकं तादृशोक्तेर् एव । अन्यत् तैर् व्याख्यातम् ।
यद् वा, अनया श्री-भगवद्-गीः-सदृश्या गिरा तथा-भूतया सम्यग् जीवतीति स-जीवः, मृतो भवति सञ्जीवोऽपि यथा, तया किं कतरद् अप्रियम् अनिष्टं करवाणि कुर्वत्य् अस्मि, यतस् त्वं तु मे मयि वद कूज, कूजसीत्य् अर्थः । तच् च त्वत्-स्वभावाद् एवेत्य् आशयेन सम्बोधयति—वल्गित-कण्ठ ! हे शवल-कण्ठेति ! अयं प्रेमार्त्य्-उक्ति-विशेषः । यद् वा, अनयापि गिरा तव अप्रियं किं करवाणि, अपि तु नैव करिष्यामीत्य् अर्थः । निजाभीष्टे मरणे सहायत्वात् । अतो वद । समम् अन्यत् ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ रात्र्य्-अवसाने कूजन्तं कोकिलं पूर्ववत् स्तुति-निन्दाभ्याम् आहुः—प्रिय-राव- इति । तत्र स्तुतिः—हे कोकिल ! पञ्चम-गान-प्रसिद्ध ! तत्रापि वल्गितः प्रियेणैव शिक्षा-विशेषाद् वल्गु-कृतः कण्ठो यस्य, हे तथा-विध ! प्रियस्य राव इव रावः पञ्चम-स्वरो यत्र, तादृशानि पदानि गीत-निबद्धान् शब्दान् भाषसे । यद् वा, प्रियस्य रावः शिक्षा-वचनं येषु, तादृशानि पदानि दूत्यानुरूपान् शब्दान् भाषसे । ततस् तन्-नैकट्य-बोधनेन तद्-विरह-मृतान् सम्यग् जीवयति इति तथा तथा गिरा हेतुना किं प्रियं करवाणि तन् मे मह्यं वद । कृपया ज्ञापय । अत्रैक-वचनं प्रत्येकम् अपि तत्-क्षमता-विवक्षया पृथग्-उक्तेः ।
अथ निन्दा—हे चञ्चल-कण्ठ ! कोकिल ! मृत-सञ्जीविकया तथा गिरा हेतुना प्रियस्य रावः शिक्षा यत्र, तादृशानि पदानि भाषसे । मया तद्-विरहासहिष्णुत्वाज् जीवनान् मरणम् एव वरं मन्यते, तत् तु स इव त्वम् अप्य् आपाततोऽमृतायमान-वचनेन मध्ये मध्ये विघातयन् दुःखद एवासीद् इति भावः । तस्मात् तवाप्रियं तुण्ड-त्रोटनादिकम् अत्रापराधे किं करवाणि तत् त्वम् एव वद स्व-दण्ड-विशेषं स्वयम् एवानुमन्यस्व, अन्यथापराध-क्षयो न भवेद् इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्रैव काचित् पिक-रवम् आकर्ण्य प्रीयमाणाह—प्रिय-राव इत्य्-आदि । हे कोकिल ! अद्य किं ते प्रियं करवाणि ? वद कथम् अकाण्डे नः प्रियं भवत्या कार्यम् इत्य् आह—हे प्रिय-राव ! प्रियस्य राव इव रावो यस्य, स तथा हे तथा-भूत ! मृत-सञ्जीविकया मृत-सञ्जीविन्या अनया गिरा पदानि भाषसे । यद् वा, प्रियस्य श्री-कृष्णस्य राववत् पदानीरयसे कथम् अत्र पदं ? हे वल्गित-कण्ठ ! चञ्चल-कण्ठ ! ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे प्रिय-राव कोकिल ! अनया पदानि अस्मद्-विरह-दुःख-त्राणान्य् एव भाषसे, पदं व्यवसित-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुषु इत्य् अमरः । वल्गितः वल्गूकृतः कण्ठो येन, हे तादृश ! अत्र विरहे कोकिल-शब्दस्य दुःखदत्वात्, प्रिय-रावेत्य्-आद्याः सर्वा एव विपरीत-लक्षणया वक्रोक्तय एव । तेन स्व-शब्देन मां ज्वालयतस् तव किं प्रियं करवाणि ? तुण्डम् एव धक्ष्यामीति भावः ॥२१॥
॥ १०.९०.२२ ॥
न चलसि न वदस्य् उदार-बुद्धे
क्षिति-धर चिन्तयसे महान्तम् अर्थम् ।
अपि बत वसुदेव-नन्दनाङ्घ्रिं
वयम् इव कामयसे स्तनैर् विधर्तुम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे क्षिति-धर ! त्वं न वदसि न चलसि । अतो नूनं महान्तम् अर्थं चिन्तयसे । बत तर्हि । अपि किं, यथा स्तनैर् विधर्तुं वयं कामयामहे, तथा त्वं स्तन-तुल्यैः शृङ्गैर् वोढुं कामयसे । ॐ इति चेत्, तर्हि तवाप्य् अस्मद्-अवस्था भविष्यतीति भावः ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्तन-तुल्यैस् तीक्ष्णाग्रैः । ॐ इति चेत् सत्यं तं धर्तुम् इच्छामीति यदि वदसि । इति भाव इति—निरस्त-समस्तैहिकामुष्मिकाः सत्यस् तद्-एकतानास् तथा त्वम् अपि कृतार्थो भविष्यसीत्य् आशयः ॥२२॥
कैवल्य-दीपिका : न इति । अपि अहो । यथा वयं स्तनैर् विधर्तुं कामयामहे । अत्र त्रपा-नाशः ॥२२॥ [मु।फ। १२.७९]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अन्याः ऊचुः—न चलसि इत्य्-आदि । त्वं सावधाना अपि यद् एवं करोषि, तद् अवगतं, वयम् इव इति स्तन-प्रायैः शृङ्गैः ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-स्थिरं रात्रौ प्रायः शयित-सर्व-जन्तुत्वात् तूष्णीं स्थितं चारुणोदये श्री-रैवतकं दृष्ट्वाहुः—न इति । हे उदार-बुद्धे ! इति महाशयस्य तद् एवं युक्तम् एवेति । तथा हे क्षिति-धर ! इति । अतस् त्वयैव पृथ्वी रक्षितेति भावः । महार्थ-चिन्तनम् एव वितर्कयन्ति—अपि इति । वसुदेव-नन्दनस्य परम-मोहनस्य भगवतोऽङ्घ्रिं पादं विशेषेण प्रेमालिङ्गनादिना धर्तुम् । अन्यत् तैर् व्याख्यातम् ।
तत्र मूल-स्थितस्य न चलसि इत्य्-आदेर् उत्क्रमेण लेखो लेखक-भ्रमात् । किं वा, महार्थ-चिन्तनेन चलन-मात्रस्याप्य् अभावेन तन्-माहात्म्यापेक्षया तथैव व्याख्यापत्तेर् इति ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महा-स्थिरं रात्रौ प्रायः शयित-सर्व-जन्तुत्वात् तूष्णीं स्थितं चारुणोदये श्री-रैवतकं दृष्ट्वाहुः—न इति । हे क्षिति-धर ! यद्यपि पञ्चाशत्-कोटि-योजन-विस्तीर्णां पृथ्वीं धरसि, तथापि न चलसि, न च वदसि । तस्माद् एव हे उदार-बुद्धे ! महा-चित्त ! तद् एव दर्शयन्ति—कम् अपि महान्तम् अर्थं पुरुषार्थं चिन्तयसे चिन्तयसि । कामयसे इति । तत्रापि स-शङ्कम् आहुः । अपि प्रश्ने । बत खेदे । स च महार्थो मत-भेदान् नाना-विध इति । तत्र देवस्य अस्मत्-पूज्यस्य श्वशुरस्य यो नन्दनः प्रधान-पुत्रोऽस्मत्-पतिर् इत्य् अर्थः । आर्य-पुत्र इतिवत् स्पष्टतया अनुक्तिर् लज्जया । तस्य वसु परम-धन-रूपम् अङ्घ्रिं वयम् अपि स्तनैर् विधर्तुं स्वयं नारीयमाणः स्तनीकृतैः शृङ्गैर् आलिङ्गितुं किं कामयसे ? यदि कामयसे, तदास्माकम् इव तवापि बुद्धि-हीनत्वं स्व-प्राण-मात्रेऽपि धारणा-सामर्थ्यं भविष्यसीत्य् अर्थः । स्तनानां बहुत्व-निर्देशस् तु तस्य लोभातिशयं द्योतयति । अत्र वसु-देव-पदयोर् भिन्न-क्रमतया प्रयुक्तयोर् अप्य् एकत्र सन्तापेन श्वशुर-नामोच्चारण-प्रमाद उन्मादोक्त्या न दोषाय इति ज्ञेयम् । टीकायां न चलसि न वदस्य् अनयोर् व्युत्क्रम-निर्देशः प्रायो लेखक-भ्रमाद् इति ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तदैव काचित् रैवतम् अनुस्मृत्य निगदति—न चलसि इत्य्-आदि । हे उदार-बुद्धे ! क्षिति-धर ! न चलसि न वदसि, कोऽर्थः ? आं ज्ञातं, महान्तम् अर्थं प्रयोजनं चिन्तयसे, तद् एव ब्रूहीत्य् आह—अपि बत इत्य्-आदि । अपि सम्भावने, बत खेदे । वसुदेव-नन्दनाङ्घ्रिं स्तनैः स्तन-प्रायैः शिखरैर् विधर्तुं कामयसे । वयम् इव वयं यथा स्तनैर् वोढुं कामयमाना निरन्तरं कम् अप्य् अर्थं चिन्तयामः, त्वं पुरुषो भूत्वापि स्त्री-भावम् आसाद्य कामयस इति निगर्वः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे क्षिति-धर ! रैवतक-पर्वत ! नूनं त्वं महान्तम् अर्थं स्वाभीप्सितं चिन्तयसि, अतो बत इति इदं वा तवाभीप्सितम् इत्य् अर्थः । वयं यथा स्तनैर् धर्तुं कामयामहे, तथा त्वं स्तनैः किं वोढुं कामयसे ? ॐ इति चेत्, तर्हि तवाप्य् अस्मद्-अवस्था भविष्यतीति भावः ॥२२॥
॥ १०.९०.२३ ॥
शुष्यद्-ध्रदाः करशिता6 बत सिन्धु-पत्न्यः
सम्प्रत्य् अपास्त7-कमल-श्रिय इष्ट-भर्तुः ।
यद्वद् वयं मधु-पतेः प्रणयावलोकम्
अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भोः सिन्धु-पत्न्यो नद्यः ! सम्प्रति ग्रीष्मे सिन्धुर् मेघ-द्वारा अमृत-वृष्ट्या युष्मान् नानन्दयति । बत अहो कष्टम् । अतः शुष्यन्तो ह्रदा यासां ताः । अपगत-कमल-शोभाः कृशाश् च वयं यथा प्रियतमस्य भर्तुर् मधु-पतेः । स्म प्रसिद्धम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृशानि तटानि कूलानि यासां ताः । क्वचित् "कर-शिता" इति पाठे तु गुणादेशस् त्व् आर्ष एव । अत आनन्दाभावात् । शुष्यत्-तोया विगत-जला ह्रदा स्नानाद्य्-अर्थं जनावतरण-स्थानानि । मधु-पतेर् यदु-पतेः मुष्ट-हृदयाः हृष्ट-चेतसः। पुरु अधिकं, पुरुः पुरोगे प्रचुरे स्वर्लोक-नृप-भेदयोः इति हैमः ॥२३॥
कैवल्य-दीपिका : हे सिन्धु-पत्न्यः ! महा-नद्यः ! आः कष्टम् । यूयं सूर्पस्था भवथः । शुष्यन्तो ह्रदा हृदय-स्थानीयाः प्रदेशा यासां ताः । अपेताः कमल-श्रियो सुखायमान-पद्म-शोभा यासां, तास् तथा । वयम् अप्य् एवं-विधाः । अत्र तनुता ॥२३॥ [मु।फ। १२.८०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं शुष्यद्-ध्रदा इत्य्-आदि । युष्माकं भर्तापि निष्टनसे, यूयम् अपि विरह-कर्शिता इत्य् अर्थः ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ग्रीष्मे कृशाः, तत्रापि रात्रौ मुद्रित-कमलत्वेन शोभा-हीना नदीर् दूरतो दृष्ट्वा ताः परमार्ता मत्वाहुः—शुष्यद् इति ।
इष्टस् तद्-अन्यस्येष्टत्वाभावेन परम-प्रियश् चासौ भर्ता स्वामी चेति । तथा तस्येति तस्यास्मत्-परिपालनं युक्तम् एवेति भावः ।
मधुपतेर् निजाशेष-गुणादि-प्रकटनार्थं यदु-कुलेऽवतीर्य तच्-छ्रेष्टतां गतस्य, तथापि यादवान् एव पालयति, न त्व् अस्मान् इति भावः । अत एव येन अवलोकम् अप्य् अप्राप्य मुष्ट-हृदया नष्ट-चित्ताः पुरु युष्मत्तोऽप्य् अधिकं कर्शिताः कार्श्यं प्रापिता वर्तामहे । अत्र ह्रदानाम् आन्तरतया हृदय-तुल्यत्वादिना मुष्ट-हृदया इत्य् अस्य प्रतिपदं दार्ष्टान्तिके शुष्यद्-ध्रदा इति ज्ञेयम् । अतोऽपेत-कमल-श्रिय इत्य् उक्त्या दृष्टान्तेऽप्य् अत्र म्लनत्वादिनापेत-मुखाब्ज-शोभा इति ध्वनितम् एव । अन्यत् तैर् व्याख्यातम् ।
तत्र सिन्धु-मेघ-द्वारेत्य्-आदिकं दृष्टान्ते प्रणयावलोकम् अप्राप्य इत्य् अस्य ध्वन्य्-अनुसारात् कर्शिता इत्य् अस्यैव व्याख्या । कृशाश् चेति तथा इष्ट-भर्तुर् इत्य् अस्यैव प्रियतमस्य भर्तुर् इति । अथवा, इष्ट-भर्तुः सिन्धोर् एव हेतोः, तत्-कृतोपेक्षया शुष्यद्-ध्रदा इत्य्-आदि । अन्यत् समानम् ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ निदाघे क्षुदृआ नदीर् दूरतो दृष्ट्वा ताश् च मूर्च्छिता मत्वा पूर्व-पूर्ववद् असम्बोध्य मिथ आहुः—शुष्यद् इति । बत विस्मये खेदे वा । सिन्धोर् अपि पत्न्य एताः सम्प्रति अपेत-कमलम् इव मुख-श्रियो जाताः, तथा शुष्यन्तो ह्रदास् तद्-रूप-हृदयानि यासां, तथा-भूताश् च जाताः । किं कृत्वा ? इष्टो भर्ता च यः सिन्धुः, तस्य प्रणयावलोकं विरहात्मना निदाघेनैव विच्छेदनाद् अप्राप्य, तद् अहो अस्मत्-सादृश्यम् एता अपि गता इति म्लान-मुखम् आहुः—यद्वद् वयम् इति । ततः पुरु-कर्शिता इति पुरु-शब्देनापेत-मुख-श्रीत्वम् अप्य् अन्तर्-भावितम् ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भो नद्यः ! क्षिति-धरो ग्राव-मयोऽपि पुरुषः सन्न् अपि यद् अङ्घ्रिं स्तनैर् वोढुं कामयते, स्त्री-भावम् उररीकृत्य वक्षसि कर्तुम् अभिलषति, तद्-अनुचिन्तया स्त्रियो भवत्यो यदीदृशां यास्यन्ति, तत् किं चित्रम् ? इत्य् आहुः—शुष्यद्-ध्रदा इत्य्-आदिः । यतः, भो सिन्धु-पत्न्यः ! महाजन-गृहिण्यः ! इष्ट-भर्तुः श्री-कृष्णस्य, सिन्धुस् तावद् उपपति-मात्रम्, इष्ट-भर्ता तु वो नूनं श्री-कृष्ण एव । अतस् तस्य मधुपतेः प्रणयावलोकम् अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः खिन्ना अत्यन्त-कृशा भवत्यः सन्ति । यत् शुष्यद्-ध्रदा शुष्यन् ह्रदा इव हृदो गम्भीरतरं हृदयं यासां, अत एव कर्शिताः खिन्नाः । खेद-लिङ्गम् आह—सम्प्रति इदानीम् अपेताः कमलानां कमल-प्रायाणां मुखानां श्रियो यासाम् । का इव ? इत्य् आह—यद्वद् वयं स्मः, वयं यथा शुष्यन् मनसो म्लानाननाः खिन्नाः पुरु-कृशाश् चेत्य् अर्थः ॥२३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भोः सिन्धु-पत्न्यो नद्यः ! सम्प्रति यूयं शुष्यद्-ध्रदाः स्थ । तत्र कारणम् आहुः—इष्ट-भर्तुः सिन्धु-पत्नीनाम् अपि योऽभीष्ट-सुख-प्रदो भर्ता यदुपतिः, तस्य प्रणयावलोकम् अप्राप्य एव यद्वद् वयं प्रणयावलोकम् अप्राप्य मुष्ट-हृदयाः वञ्चित-चित्ताः स्मः, तद्वद् एव यूयम् ॥२३॥
॥ १०.९०.२४ ॥
हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां
दूतं त्वां नु विदाम8 कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा ।
किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं
क्षौद्रालापय कामदं9 **श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम्
श्रीधर-स्वामी (भावार्थ-दीपिका) : तदैव दैवाद् आगतं हंसं दूतं कल्पयित्वाहुः—हंस इति । नोऽस्मान् प्रति पुरा रहस्य् उक्तम् किं वा चल-सौहृदः स्मरति ?
स्मृत्वैव मां प्रस्थापितवान् इति चेद् अत आहुः—हे क्षौद्र ! क्षुद्रस्य दूत ! कस्मात् तं वयं भजामः ?
कामार्थम् आह्वयति युष्मान् इति चेद् अत आहुः—अहो तर्हि तम् आलापय आकारय । ॐ इति गच्छन्तम् इव तं पुनर् आहुः—यास्मान् वञ्चयित्वा एकाकिनी सेवते, तां श्रियम् ऋते तम् एव आलापय ।
सा तद्-एक-निष्ठा कथं परिहर्तुं शक्यते ? इति चेद् अत आहुः—स्त्रियाम्, जाताव् एक-वचनम् [?]। अस्मासु स्त्रीषु मध्ये किं सैवैक-निष्ठा, न तु वयम् ? इत्य् अर्थः ।
पाठान्तरे तु, क्षौद्रं मधु, तद्वन् मधुरालाप-मात्रं यस्य, तम् अकामदम् अरति-प्रदं श्रियम् ऋते वयं कस्माद् भजामः ? किन्त्व् अनादृतापि सती पुनः पुनः सैव भजतु यतोऽस्मादृष्यो मानिन्यः स्त्रिय एक-निष्ठा एकत्रैव स्व-संमान-सिद्धौ निष्ठा यासाम् इति ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वागतं सुष्ठ्व् आगमनं जातम् । आस्यताम् उपविश्यताम् । पयः क्षीरम् । चल-सौहृदः, अतोऽत्राहुः—तं शौरिम् । इत्य् अर्थ इति—वयम् अपि तद्-एक-निष्ठा एवेति । तस्येहागमनम् उचितम् एव भक्त-वात्सल्याद् इति भावः । पाठान्तरे "क्षौद्रालापम् अकामदम्" इति पाठे तु क्षुद्रा मधुमक्षिकाः, ताभिर् निष्पादितं क्षौद्रम् ॥२४॥
कैवल्य-दीपिका : हंस इति । हे हंस ! आस्यताम् उपविश्यताम् । शौरेः कृष्णस्य । नु अहो ! अजितः कृष्णः । पुरा पूर्वम् अस्मान् प्रति यद् उक्तं, तत् किं स्मरति ? तं च कस्माद् भजामो वयम् । यतोऽसौ क्षौद्रवद् मधुवन् मधुरालापो न तु कामदः । श्रियम् ऋते सा हि यासां स्त्रीणां मध्ये एक-निष्ठा एकस्मिन्न् एव स्थिरीभूता, न तु चञ्चलेति सोत्प्रासोक्तिः । अयम् अर्थः—अचञ्चला अप्य् अस्मान् उज्झित्वा चञ्चलां श्रियं स भजते इति । अत्रोन्मादः । महिष्यः कुरर्य्-आदीन् ॥
अत्र च स्मृति-गुण-कीर्तन-व्याधि-प्रलापाश् चतस्रो दशाः काव्य-प्रकाश-निष्ठाः10 । निद्रा-च्छेदादयस् तु षट् नयन-प्रीतिर् इत्य् अत्र रति-रहस्यस्था11 दर्शिता इति ज्ञेयम् । तासां नाना-महिषी-गतत्वाद् यत् क्रमाद् उक्ताः । मृति-लक्षणा त्व् अन्या स्मर-दशास्ति । सा च—
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
ध्रियमाणेन माधव्यो लेभिरे वैष्णवीं गतिम् ॥ [भा।पु। १०.९०.२५]
इत्य् अनेन मूल-ग्रन्थेन सूचिताप्य् अमङ्गलत्वाद् इह नोक्ताः । एकादश-श्लोके जल-केलि-प्रसङ्गे मूले दर्शिता । तत्र च सन्निहितेऽपि भगवति तद्-आलाप-सौष्ठवेन तासां वैचित्त्याविर्भावान् नास्य भेदस्य पूर्वानुरागादिष्व् अन्तर्भावः शक्यो वक्तुम् । तथा च तत्रोक्तं—
कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः ।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः शृणु ॥ [भा।पु। १०.९०.१३-१४]
न चास्मिन्न् अध्याये भगवतो व्यवधानादिकम् उक्तम् । तस्माद् वैचित्त्य-रूपं विप्रलम्भस्य भेदान्तरम् अवश्यम् अभ्युपेतव्यम् । अयम् एवात्र विदग्ध-बुद्धेर् आचार्यस्याभिप्रायः ॥॥२४॥ [मु।फ। १२.८१]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : काश्चित् सम्मुखे दैवाद् आगतं हंसम् आलोक्य दूतत्वेन परिभाव्य वदन्ति—हंसेत्य्-आदि । हे हंस ! स्वागतम् आस्यतां, गमनागमनाभ्यां श्रान्तोऽसि । पयः पिब । पीत्वा विश्रम्य शौरेः कथां ब्रूहि । त्वां दूतम् अनुविदाम । कच्चिद् अजितः स्वस्त्य् आस्ते ? उक्तं पुरा यद्यपि "स्वस्त्य् आस्ते" इति पूर्वोक्तं, तथाप्य् उत्कण्ठया पृच्छाम इति भावः ।
किं वा, नोऽस्मान् स्मरति, तत्र कः सन्देहः ? तत्राहुः—चल-सौहृद इति स्मरणाद् भाव-व्यञ्जकं तं चल-सौहृदं वयं भजामः ।
कस्मात् ? इति स्वयम् एव हेतुम् उपन्यस्य स्त्रियोऽनभिज्ञाश् चेद् इति सिद्धान्तयन्ति—श्रीर् अपि । श्रीः सा कथं भजति ? तत्राहुः—श्रियम् ऋते श्रियं विना श्रियो वार्ता त्यज्यतां, सा तु केवलम् एक-निष्ठा एकस्मिन् वक्षसि स्थाने निष्ठा नितराम् अवस्थानं यस्या, अतः सा स्त्री न भवति, अङ्ग-विशेष एव सेति तात्पर्यम् । क्षौद्रं मधु तद् इव आलाप एव यस्य अकामदम् अनभीप्सितदम् । "क्षौद्रालापय" इति पाठे स्वामि-कृतो वार्थः । उन्माद-भावोऽयं वैचित्त्य-भावान्तर्-गतः ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रातर् आगतं हंसं दूतं मत्वाहुः—हंस इति । स्वागतम् इति सुष्ठ्व् आगतं किम् इत्य् अभ्यागतं प्रति स्वागत-प्रश्नस्य योग्यत्वात् । यद् वा, सद्-अवसरेऽस्मिन् यत् त्वयात्रागतं, तच् छोभनम् इत्य् अर्थः । अत आस्यताम् उपविश्यतां, पयः क्षीरं पिब च । एवम् आतिथ्येन सम्मान्य प्रार्थयन्ते—ब्रूहि इति । अङ्ग ! इति सादर-सम्बोधने । किं वा, अस्माकम् अङ्ग-तुल्य ! हे परमात्मीय ! इत्य् अर्थः । शौरेः कृपया शूर-वंशे जातस्य अस्मद्-भर्तुः कथां कुशल-वार्तां किञ्चिद् वृत्तं वा ब्रूहि । तच् च युक्तम् एवेत्य् आहुः—नु निश्चितं, त्वा त्वां दूतं विदाम विद्म इति ।
तत्रादौ कुशलं पृच्छन्ति—कच्चिद् इति । स्वस्ति सुखम् । अजितः प्रेम्णा न केनचिद् अपि वशीकृत इत्य् अर्थः । एषा प्रणय-कोपोक्तिः ।
ननु देव्यो भवतीनां विरहेणासौ कथं सुखम् आस्ताम् ? इति चेत्, तर्हि पुरा पूर्वम् अनुनयादिना नः प्रत्य् उक्तं किं वा स्मरति । किं वा इत्य् एक-पदम् एव वा, स-भ्रू-भङ्ग-प्रश्ने किं न्व् इत्य्-आदिवत् । यद् वा, पुरोक्तं नोऽस्मान् वा किं स्मरति ?
ननु तद् एव सेवा-परा युष्मान् कृतज्ञोऽसौ स्मरत्य् एवेति चेत्, तत्र न विश्वसिम इत्य् आहुः—चल-सौहृदोऽस्थिर-प्रेमेति ।
ननु तत्-प्रियतमाः ! स्थिर-सौहृदोऽसौ युष्मान् किल कामयते । तत्र स-मानम् आहुः—तम् इति ।
ननु, तद्-विरहार्तः कामदोऽसौ भोक्तुं युज्यत एवेति चेत्, तर्हि तम् अत्रैव आलापय । एकस्मिन्न् एव निष्ठा दृढ-स्थिरता यस्याः सा । अन्यत् तैर् व्याख्यातम् ।
तत्र युष्माकम् आज्ञेति यथा युष्मद्-आज्ञा स्याद् इत्य् अर्थः । यद् वा, युष्मान् इति लेख्ये युष्मद्-आज्ञेति लेखक-भ्रमाद् इति ।
अथवा स्त्रियां स्त्रीषु मध्ये सा एवैक-निष्ठा एवास्मिन्न् एव सुस्थिरा, न तु चञ्चलेति सोत्प्रासोक्तिः । अहो तद्-एक-निष्ठा अस्मान् हित्वा चञ्चलां यो भजते, तं कुतो वयं भजेम इति भावः । अन्यत् समम् ।
एवं श्री-भगवता साक्षाद् विराजमानेन संयोगे विद्यमानेऽपि प्रेम-विशेषोद्रेकेण तत्-स्वभावज-वैचित्र्याद् विरहवत् क्वचिद् दैन्योक्तिः, अतस् तादृश-प्रेमैव श्री-भगवद्-वशी-करणाय भवति । किन्तु विरहार्ति-मयत्वेऽपि तस्य परम-पुरुषार्थत्वं श्री-भागवतामृते बहु विवृतम् एव ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रातर् आगतं हंसं दूतं मत्वाहुः—हे हंस इति। स्वागतम् इति । सुष्ठु आगतं किम् इत्य् अर्थः । यद् वा, सद्-अवसरे यत् स्वयम् आगतं तच् छोभनम् इत्य् अर्थः । ततश् च आस्यताम् उपविश्यतां, पयः क्षीरं पिब ।
एवम् आतिथ्येन सम्भाव्य प्रार्थयन्ते—ब्रूहि इति । अङ्ग इति सादर-सम्बोधने । किं वा, अस्माकम् अङ्ग-तुल्य ! हे परमात्मीय ! इत्य् अर्थः । शौरेः शूरस्य वंशे केनापि सर्वेषां भाग्येन जातस्य अस्मद्-भर्तुः कथां समुदाचारं ब्रूहि । तच् च युक्तम् एवेत्य् आहुः—नु निश्चितं त्वा त्वां दूतं विदाम विद्म इति ।
तत्रादौ कुशलं पृच्छन्ति—कच्चिद् इति । स्वस्ति सुखम् अजितः प्रेम्णा न केनचिद् अपि वशीकृत इत्य् अर्थः । इत्य् अन्तर्-ईर्ष्याभिव्यक्तिः ।
ननु देव्यो भवतीनां विरहेणासौ कथं सुखम् आस्ताम् ? इति चेत्, तर्हि पुरा पूर्वम् अनुनयादि-समये नः प्रत्य् उक्तं, किं वा स्मरति ? किंवा इत्य् एक-पदम् एव वा । स-भ्रू-भङ्ग-प्रश्ने किं न्व् इत्य्-आदिवत् । यद् वा, पुरोक्तं नोऽस्मान् वा किं स्मरति ?
ननु तद्-एक-सेवा-परा युष्मान् कृतज्ञोऽसौ स्मरत्य् एव ? इति चेत्, तत्र न विश्वसिम इत्य् आहुः—चल-सौहृदः अस्थिर-प्रेमेति ।
ननु तत्-प्रियतमाः ! स्थिर-सौहृदोऽसौ युष्मान् किल कामयते । तत्र समानम् आहुः—तम् इति ।
ननु, तद्-विरहार्तः कामदोऽसौ भजनीय एवेति चेत्, तर्हि तम् अत्रैव आलापय । अत्र तद्-धितान्तत्वेनान्यथा प्राप्तत्वान् न साक्षाच् छ्वसुर-पितुर् नाम-ग्रहणं शङ्क्यम् । अन्यत् तु तत्र एक-निष्ठा इति एकस्मिन्न् एव निष्ठा दृढ-स्थिरता यस्याः सा इति काकूक्तिः युष्मद्-आज्ञेति । अत्र यथा युष्माकम् आज्ञा स्याद् इत्य् अर्थः । यद् वा, युष्मान् इति लेख्ये लेखक-भ्रम इति ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत्रैव काचित् पुरतः समागच्छन्तं हंसम् आलोक्याह—हंस- इत्य्-आदि । हे हंस ! स्वागतं सुखेनागतम् आस्यताम् । एहि एहि, पयः क्षीरं पिब ।
ननु कथम् अकाण्डे मयि तवायम् आदरः ? इत्य् आह—ब्रूहि इत्य्-आदि । हे अङ्ग ! कथां ब्रूहि ।
तत् कथाम् अहं न जानामि । कथं ब्रूयाम् ? इत्य् आह—दूतम् इत्य्-आदि । नु भोः । त्वां दूतं विदाम ।
सत्यं दूत एवास्मि । कं वक्तव्यं ब्रूहीत्य् आह—कच्चिद् इत्य्-आदि । अजितः कच्चित् स्वस्ति आस्ते ? आस्त इति यद्यपि पुरा आस्ते इति पूर्वोक्तं, तथापि भूयो वदेति भावः । किं वा, नोऽस्मान् स्मरति, तत्र कः सन्देहः ? इत्य् आह—चल-सौहृदः अस्थिर-प्रेमाननुस्मरत्य् एव । तस्माद् यूयं तं भजतेत्य् आह—कस्मात् तं भजामो वयम् ?
ननु कस् तस्यापराधः ? इत्य् आह—क्षौद्रालापं क्षौद्रं मधु तद्वत् आलाप एव यस्य, न तु मधुराशयं, तत्रापि अकामदम् अनभिलषित-प्रदम् ।
ननु श्रीर् यं नित्यम् अनु भजते, तं प्रति कथम् एवं परुष-भाषिण्यो भवत्यः ? इत्य् आह—श्रियम् ऋते श्रियं विना तद्-वार्ता [दूरेत्यताम्]{।मर्क्} इत्य् अर्थः । श्रीस् तावत् तस्य दोषं न पश्यति स्व-कार्य-मात्र-साधिका, सैव स्त्रियस् तावद् अस्मादृश्य एक-निष्ठा एकस्मिन् प्रेमण्य् एव निष्ठा यासाम् । अतः क्षीण-प्रेमाणं कथं केन प्रकारेण भजाम इत्य् असूया व्यभिचारी भावः ॥२४॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८७): तदैव दैवाद् आगतं हंसं दूतं कल्पयित्वाहुः—हंस इति । नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु माम् एवेत्य् आशयेनाहुः—तम् इति । यदि च तद्-आग्रहः, तदा हे क्षौद्र सौहृद्य-चाञ्चल्येन क्षुद्रस्य तस्य दूत, तम् एव कामदं युवति-जन-क्षोभकम् अत्र आलापय आह्वय । किन्तु याम् आसाद्य वयं त्यक्ताः, तां श्रियम् ऋते । तां सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन् निष्ठा यस्याः, तादृशी । ततः कथं तस्यां नासज्येत ? इति व्यञ्जितम् । काक्वा स्वेषाम् अपि तन्-निष्ठत्वं व्यज्य सोल्लुण्ठत्वं दर्शितम् ॥२४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कम् अपि हंसं दूतं प्रकल्प्याहुः—हंस इति । ननु भवतीर् विना स कथं स्वस्त्य् आस्ताम् ? इति चेत्, उक्तं पुरा--न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु पश्यामि [भा।पु। १०.६०.५५] इत्य्-आदि स्व-प्रेम-वाक्यं स्मरति किम् ? किं वा, चल-सौहृदः सन् स्मरति । ननु स्मृत्वैव मां प्रस्थापितवान् अतस् तद्-अन्तिकं चलत ।
तं भजतेति तत्राहुः—कस्माद् इति । स चेद् अस्मान् न भजेत, नाप्य् अवगच्छति, तर्हि वयं कस्माद् भजामः ? कस्माद् वा यामः ? भोः करुणा-सिन्धवः ! तर्हि काम-पीडितस्य तस्य कथं निस्तारः ? तत्राहुः—हे क्षौद्र ! क्षुद्रस्य दूत ! आलापय अत्रैव तं कामदं काम-पीडितम् अपि दर्शन-मात्रेणैव काम-पीडा-प्रदम् आकारय । स अस्मान् आयातु, न तु गर्ववत्यो वयं तं याम इति भावः । ॐ इति गच्छन्तं तं मत्वा पुनर् आहुः—याह्य् अस्मान् वञ्चयित्वा एकाकिनी रमते तां श्रियम् ऋते तम् एव केवलम् आकारय ।
ननु सा तद्-एक-निष्ठा कथं परिहर्तुं शक्या स्यात् ? अत आहुः—स्त्रियाम् इति जाताव् एक-वचनम् । स्त्रीष्व् अस्मासु मध्ये सा एव किम् एक-निष्ठा ऐकान्तिकी, न तु वयम् इत्य् अर्थः । "क्षौद्रालापम् अकामदम्" इति पाठे क्षौद्रं मधु, तद्वन् मधुरालाप-मात्रं यस्य, तम् अकामदम् अरति-प्रदं, तं श्रियम् ऋते वयं कस्माद् भजामः ? किन्त्व् अनादृता सती सैव पुनः पुनर् भजतु, यतोऽस्मादृश्यो मानिन्यः स्त्रियः, स्त्रियां स्त्रीषु मध्ये एक-निष्ठाः एकत्रैव स्व-मान-सिद्धौ निष्ठा यासां ताः ॥२४॥
॥ १०.९०.२५ ॥
श्री-शुक उवाच—
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे वैष्णवीं12 गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् । भावेन प्रेम्णा । माधव्यो माधव-भार्याः । अतीव-प्रेम-वश-विवशानां क्षणिक-वियोगेऽपि चित्त-विभ्रमो भवत्य् एवेति भावः ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इतीदृशेन इत्य्-आदि । ईदृशेन एवं-विधेन भावेन माधवे क्रियमाणेन वैष्णवीं गतिं भागवतीं भक्तिं लेभिरे, अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी [भा।पु। ३.२५.२३] इति । यस्या लक्षणं तेनासां परम-भागवतत्वम् आयातम् । तेन सत्स्व् अपि बहुषु उपासना-शरीरेषु प्रेम-मात्रैक-निष्ठायाम् उपासनायां पति-भावेन भजन-क्षमं शरीरम् एव स्वरूप-योग्यम्, तत् तु श्री-कृष्णोपासनायाम् एव तस्य परमानन्द-मूर्तित्वात् । तासां चानन्य-साधारणानुरागवत्त्वात्, सर्वेन्द्रिय-प्रवृत्त्या तत्र प्रवेशात् ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं फलितं तादृश-प्रेमैव । एवं श्री-भगवद्-वशीकरण-प्रेमवतीनां तासां माहात्म्यम् आह—इति इति । अतः किं वा अनेनोक्त-प्रकारेण य ईदृश उक्त-सदृशो भावः, तेन । स च भावस् तस्यैव माहात्म्याद् इत्य् अभिप्रायेणाह—कृष्णे सर्वथा सर्व-चित्ताकर्षक इति । अन्येषां चासौ सुदुर्लभ इत्य् आशयेनाह—योगेश्वराणाम् अपि ईश्वरे, कथञ्चित् प्रयत्नेन मनसा सेव्ये ।
यद् वा, किं च योगेति स्व-शक्ति-विशेषेण प्रत्येकं सर्वासाम् एव तासां सर्वथा युगपद् रमणाद् इत्य् अर्थः । क्रियमाणेन सदा विधीयमानेनेति तस्मिंस् तासाम् अतृप्तिर् भावानिवृत्तिश् चोक्ता । मधव्यो मधु-वंशोद्भवस्य तस्य पत्न्यः । विष्णुर् निजाशेषैश्वर्य-प्रकटनेन विश्व-व्यापको भगवान् श्री-कृष्ण एव, तदीयां गतिं दशां लेभिरे, यादृशोऽसौ स्यात् ता अपि तादृश्य एव भवेयुर् इत्य् अर्थः ।
यद् वा, गतिं परम-विलास-प्रकारं प्रिय-जन-परवशोऽयं मयैव सह सदा बहुधा विहरन्न् आस्ते । न कथञ्चित् कदाचिद् अपि वियुज्यत इत्य्-आदिना लक्षणं प्रत्येकं साक्षाद् अन्वभवन् इत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं भणितं फलित-तादृश-प्रेमवतीनां तासां माहात्म्यम् आह—इति इति । अनेनोक्त-रीतिकेन ईदृशेन चान्येनान्येन कृष्णे स्वयं भगवति । अत एव योगेश्वरे परम-दुर्लभे इत्य् अर्थः । क्रियमाणेन सदा विधीयमानेनेति तस्मिंस् तासाम् अतृप्तिर् भावानिवृत्तिश् च सूचिता । मधव्यो मधु-वंशोद्भवस्य तस्य पत्न्यः । विष्णुः स्वयं भगवत्त्वात् सर्व-व्यापकः श्री-कृष्ण एव, तदीयां गतिं दशां लेभिरे यादृश एवासौ स्यात्, ता अपि तादृश्य एव भवेयुर् इत्य् अर्थः
यद् वा, स यथा सर्व-व्यापकः, तथा ता अपि तस्य व्यापिका जाता इत्य् अर्थः । "परमाम्" इति पाठे त्व् अप्रकट-रूपाम् अलौकिकीम् इत्य् अर्थः । शानचः प्रयोगेण व्यवधानावगत्या कासांचिद् अर्जुन-पराजयानन्तरं गत्य्-अन्तरं तु मायिक-मात्रम् इत्य् अभ्युपगतम् । तच् च युक्तं विवाह-प्रसङ्गे तासां तत्-स्वरूप-शक्तित्वेन दर्शितत्वात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : इतीदृशेन वैष्णवीं सर्वत्र परिपूर्णस्य श्री-कृष्णस्य गतिं लेभिरे । तत्र क्रियमाणैर् अपि वर्तमान-प्रयोगेण व्यवधानं च निरस्तम् । अतः कासांचिद् अर्जुन-पराजयानन्तर-गत्य्-अन्तरं मायिकम् एवेत्य् अभ्युपगतम् ॥२५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—इति इत्य्-आदि । एवं प्रकारेण भावेन वैचित्त्याख्येन भावेन । कीदृशेन ? कृष्णे क्रियमाणेन । कृष्णे कीदृशे ? योगेश्वराणाम् अपि ईश्वरे । माधव्यो महिष्यः । वैष्णवीं गतिं लेभिरे वैष्णवीयां गतिं रुक्मिणी-सादृश्यं रुक्मिणी यथा नित्य-प्रिया तथैवाभवन् इत्य् अर्थः । विष्णुः श्री-कृष्णः, तत्-स्वरूपा वैष्णवी तस्येयम् इति वा वैष्णवीह रुक्मिणी वैष्णवीयाम् इत्य् अर्थे वैष्णवीति छान्दसम् । अथवा विष्णुः श्री-कृष्णः, वैष्णवीं विष्णु-देवताकां गतिं प्रेम ॥२५॥
जीव-गोस्वामी (प्रीति-सन्दर्भः ३८८) : अथ तासां तद्-विधाशेष-विप्रलम्भानन्तरजं नित्यम् एव सर्वात्मक-सम्भोगम् आह—इतीदृशेन । विष्णोः श्री-कृष्णस्य एव सम्बन्धिनीं गतिं नित्य-संयोगं लेभिरे । अत्र हेतुः—माधव्यः मधु-वंशोद्भवस्य श्री-कृष्णस्यैव नित्य-प्रेयस्यस् ताः ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासाम् एतादृश-श्री-कृष्ण-विषयक-भाववतीनां किं प्राप्यं वस्त्व् इत्य् अपेक्षायाम् आहुः—इति इति । वैष्णवीं वैष्णव-प्राप्यां प्रेम-भक्तिम् एव तासाम् अप्राकृतीनां भगवन्-नित्य-प्रेयसीनां सच्-चिद्-आनन्द-वपुषां ब्रह्म-रसास्वादाधिक-भगवन्-माधुर्यास्वादवतीनां पुनर् मोक्षादि-फल-प्राप्त्य्-अभाव-सम्भवात् प्रेमाधिक्यम् एवेत्य् अर्थः । यद् वा, वैष्णवीं विष्णोस् तस्यैव कृष्णस्य भावोन्माद-प्रौढिम्ना तादात्म्य-मयीं रासान्तर्धाने व्रज-सुन्दर्यो नाना-प्रश्नाद्य्-अनन्तरम् उन्मादस्य प्रौढिम्ना यथा कृष्णोऽहं पश्यत गतिम् इति कृष्ण-तादात्म्य-मयीं लेभिरे तथैवैता अपि कुरर्य्-आदि-प्रश्नानन्तरं ताम् एवेत्य् अर्थः । प्रेम-वैचित्त्यादि-कृष्ण-तादात्म्यादि-दशा अनुराग-विलासा एव यदु-महिषीणाम् अनुराग-पर्यन्ता दशा श्रीमद्-उज्ज्वल-नीलमणौ व्याख्याता एव ॥२५॥
॥ १०.९०.२६ ॥
श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तासां कृष्णे एवं-भूतो भावो नातिचित्रम् इत्य् आह—श्रुत-मात्रोऽपि इति । उरुभिर् गायैर् गीतैर् उरुधा गीतो वा, यैः कैश्चिद् अपि गीतैः कथाभिः, कथञ्चिद् अपि गीतो वेत्य् अर्थः ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-भूतश् चित्त-विभ्रम-करः । भावः प्रेमा । उरुभिर् अनन्तैः । उरुधा अनेकधा । इत्य् अर्थ इति—येन केनचित् संस्कृतेन प्राकृतेन वा गीतेन गीतोऽपि श्री-कृष्णश् चेच् चेत-आकर्षणं करोति, तदा किम् उ वक्तव्यं पश्यतां चेत-आकर्षणं वृत्तम् इति कैमुत्यम् उक्तम् ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं स्त्रीणाम् एव तत्-करणक-सुखाकर्षणवत्तां दर्शयन्न् आह—श्रुत-मात्रोऽपि इत्य्-आदि । श्रवण-मनन-निदिध्यासनैर् नहि भगवति मनो-लयो भवति, आसां तु श्रवण-मात्रेणैव कथम् एतत् ? तत्राह—यः स्वयम् एव श्री-कृष्णः प्रसह्य बलाद् बलात्कारेण तासां मन आकर्षयति श्रवण-मननादिवतां तु मनो मदीय-मानसम् अपि कदाचिद् वशीकरोति न वा, पश्यन्तीनां तु यन् मन आकृष्यते, तत् पुनः किम् ? ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रुत-मात्रोऽप्य् उरु-गाय उरु गायो गीतो वापि स्त्रीणां मन आकर्षति। साक्षात् पश्यन्तीनां तु मन आकर्षति इति किं पुनर् वक्तव्यम् ? इत्य् अर्थः । पाठान्तरेऽपि स एवार्थः । तत्र श्रवणे चित्ताभिनिवेशापेक्षया गाने च तेषां व्याख्यानुसारेण किञ्चित् सम्बन्ध-मात्रेण तस्य न्यूनतापेक्षया वा-शब्दः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, उरु-गायैर् बहु-गीतैर् उरुधा गीतो वाकर्षतीति किं वक्तव्यम् ? तत्रापि किं पुनर् वक्तव्यम् पश्यन्तीनां त्व् आकर्षतीत्य् अर्थः । एवं श्रवणादेर् यथोत्तरं श्रैष्ठ्यं सिध्येद् एव । अतस् तत्-पत्नीनां महा-सौभाग्यवतीनां सदा तेन सह बहुधा विहरन्तीनां तासां तादृशो भावो युक्त एवेति भावः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तस्यापि माहात्म्यम् आह—श्रुत-मात्रोऽपि यः स्त्रीणां मन आकर्षति । उरुभिर् गायैर् गीतैः प्रबन्धैर् उरु यथा स्यात्, तथा गीतस् तद्-विषयीकृतो वा किं पुनः तत्रापि साक्षात् पश्यन्तीनां तु किं पुनर् वक्तव्यम् ? इत्य् अर्थः । "कुतः पुनः" इति पाठेऽपि स एवार्थः । अतस् तत्-पत्नीनां स्वाभाविक-महा-प्रेमवतीनां सदा तेन सह विहरन्तीनां तासां तादृश एव भावो युक्तः क्वचिद् अन्यथा श्रवणं तु मुनीनाम् अपि मोह-श्रवणाद् एव, इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् इतिवत् [भा।पु। १०.५७.३१] इति भावः ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु तासां यदीदृक् दशा भविष्यति, तत् किम् ? इत्य् आह—श्रुत-मात्रोऽपि इत्य्-आदि । यः श्री-कृष्णः श्रुत-मात्रोऽपि स्त्रीणां मनः प्रसह्य आकर्षते, स एव पश्यन्तीनां यद् आकर्षिष्यति, तत् किम् ? तत्रापि याभिः सह सततं विहरति, तासां तु यद् एवं भविष्यति, तत् किं वक्तव्यम् इति शेषः । कीदृशः ? उरु-गायैः पुण्य-श्लोकैः उरु यथा स्यात् तथा गीतम् । वा इत्य् आश्चर्ये ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उरुभिर् गान-प्रबन्धैर् उरु यथा स्यात् तथा गीतः स पश्यन्तीनां तु कुत इति शब्दस् त्व्-अर्थे ॥२६॥
॥ १०.९०.२७ ॥
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : या रुक्मिण्य्-आद्याः । किं-शब्दस् तपो-महत्त्वं वक्ति ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं सामान्यतः स्त्रीणां भजने स्वरूप-योग्यताम् उक्त्वा विशेषम् आह—या इत्य्-आदि । याः पुनर् भर्तृ-भावेन प्रेम्णा पाद-संवाहनादिभिः पर्यचरन्, तासां तपः किं वर्ण्यते ? अन्येषां तु भावान्तरेण भजतां तपो वर्णयितुं शक्यत एवेति भावः । अतः सर्वज्ञ-जनेभ्यो भर्तृ-भावेन भजनम् एव श्रेय इति रहस्यम् ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतस् ता एव परम-धन्याः, न त्व् अन्ये केचनेति भाव-विशेषोदयेनाह—या इति । सम्यक् तद्-अन्याशेषापेक्षया तत्-तद्-एक-निष्ठत्वादिना पर्यचरन्न् असेवन्त । आदि-शब्दात् पाद-प्रक्षलण-केश-प्रसाधन-वीजनादयः । जगतां श्री-ब्रह्मादीनां सर्वेषाम् अपि गुरुं परम-पूज्यम् इति महा-दौर्लभ्यम् उक्तम् । भर्तृ-बुद्ध्या पतित्वेनेत्य् अर्थः । तपो भाग्यं किं वर्ण्यते ? अपि तु तन्-माहात्म्यं वर्णयितुं न शक्यत इत्य् अर्थः । भर्तृ-बुद्ध्या इत्य् अनेनात्मनः श्री-बादरायणिना श्री-गोपी-भावः सूचित एव । सर्वथा सर्वतः प्रेम्णोत्कृष्टतरेऽपि व्रज-वधू-भावे भाव-विशेषेणातृप्त्या स्वच्छन्द-सेवापेक्षया भर्तृत्वस्यैव बहु-मानाद् इति । इत्थं श्री-महिष्य्-आदिभिः सह विविध-क्रीडार्थं श्री-भगवत्य् अपि गार्हस्थ्यम् एवादृत्य तन्-माहात्म्यं दर्शितम् इति । किं वा, अहो किं वक्तव्यम्, निज-प्रियतमास् तास् तेन तथानुगृहीता इति ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतस् ता एव धन्याः, न त्व् अन्ये केचनेति भाव-विशेषोदयेनाह—या इति । याः काश्चिद् अन्या अपि भर्तृ-बुद्ध्या भावना-मात्र-गम्येनापि भर्तृत्वेन न तु साक्षाद्-भर्तृत्वेन यः प्रेमा, तेन यानि पाद-संवाहनादीनि मानस-रूपाणि, तैर् जगद्-गुरुं परम-पुरुषोत्तमं सम्यक् तद्-एक-निष्ठया पर्यचरन् असेवन्त इत्य् अर्थः । तासां तपस् तद्-उपासना-भाग्यं किं वर्ण्यते, अपि तु वर्णयितुं न शक्यत इत्य् अर्थः । साक्षाद्-भर्तृत्वेन नित्यम् एव तथा सेवमानानां तासां वार्ता दूरत एवेति भावः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तद् एवाह—याः सम्पर्यचरन्न् इत्य्-आदि । या माधव्यः जगद्-गुरुं श्री-कृष्णं भर्तृ-बुद्ध्या सम्यक् पर्यचरन्, तत्रापि प्रेम्णा । ननु कामेन पाद-संवाहनादिभिः क्रियाभिः तासां तपः किं वर्ण्यते ? तद् वर्णनीयं न भवति । अन्यस्यान्यद् वर्णयितुं शक्यते, न तद् इति भावः । अतो ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया [भा।पु। १०.६०.५२] इति पूर्वं यद् व्याख्यातं, तत् साधु ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तासां किं तपो वर्ण्यते ? नैव वर्ण्यते, किन्तु नित्य-सिद्धा एव ता इति भावः । यद् वा, तासु मध्ये कासाञ्चित् साधन-सिद्धानां कीदृशं प्राक्तनं तप इति चेद् अत्राह—या इति ॥२७॥
॥ १०.९०.२८ ॥
एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः ।
गृहं धर्मार्थ-कामानां मुहुश् चादार्शयत् पदम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पदं स्थानम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गृहं गृहस्थम् । पदं स्थानम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : धर्मादि-परा अपि स्वाचारेण शिक्षयित्वा समुद्धृता इत्य् आशयेनाह—एवम् इति । अनेनोक्त-प्रकारेण । सतां गतिर् इति साधुषु कृपया सद्-धर्म-प्रवर्तनार्थम् इति । किं वा, सतां धर्मादि-पराणां गतिर् गम्य इति । तैस् तेषाम् अपि स एव साध्य इति । यद् वा, स्व-भक्तानाम् एव सुखार्थम् इति भावः । मुहुर् इत्य् अनुतिष्ठन्न् इत्य् अनेन अदर्शयद् इत्य् अनेनैव वान्वयः । ततश् च दर्शने पौनःपुन्यं तद्-दार्ढ्य्-अर्थम् ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तस्य क्रीडात्वेनैव स्फुटं प्रतीयमानं चरितं वर्णयित्वा तादृशत्वम् एव वैध-कर्मण्य् अप्य् अतिदिशन् सर्वेषाम् अपि शर्मदत्वम् आह—एवं सतां गतिः तत्-क्रीडैक-परम-भक्तानां गतिः सन् वेदोदितं धर्मं यज्ञादिकं च मुहुर् अनुतिष्ठन् गृहं खलु धर्मार्थ-कामानां पदम् इत्य् अप्य् अदर्शयत् । अन्येभ्य उपादिशद् इति यतः सतां तत्-क्रीडैक-जीवानां धर्मादि-पराणां च गतिर् आश्रयः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पदं स्थानम् ॥२८॥
॥ १०.९०.२९ ॥
आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् ।
आसन् षोडश-साहस्रं महिष्यश् च शताधिकम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परम् अतिथि-पूजनादिनोत्कृष्टम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तद्-गार्हस्थ्य-भूतानां श्री-भगवत्-पुत्रादीनां सर्वेषां यादवानाम् अपि माहात्म्यम् उक्त्वानुवाद-पूर्वकं वर्णयति—आस्थितस्य इत्य्-आदीनां परम् उत्कृष्टं प्रायः सर्वेषाम् अप्य् आश्रमिणाम् आश्रयत्वात् । तद् उक्तं—
भिक्षा-भुजश् च ये केचित् परिव्राड्-ब्रह्मचारिणः ।
तेऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै वरम् ॥ इति ।
यद् वा, परं मुख्यं मुख्य-कल्पत्वेन कृतत्वात् कृष्णस्य अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य स्वयं भगवतः । यद् वा, तद्-धर्मानुष्ठान-माधुर्येणापि सर्व-चित्ताकर्षकस्य । तु-शब्दो भेदे । महा-महिष्यस् तावद् अष्टाव् आसन्न् एव षोडश-साहस्रं महिष्यस् तु शताधिकं यथा स्यात् तथासन् । "महिष्यश् च" इति पाठेऽपि स एवार्थः ॥२९॥
[[?]]{।मर्क्} धर्मादीनां सर्वेषां यादवानाम् अपि माहात्म्यम् उक्त्वानुवाद-पूर्वकं वर्णयिष्यन्न् अनुष्ठित-धर्मम् एव प्रपञ्चयति—आस्थितस्य इत्य्-आदिना, जज्ञिरे [भा।पु। १०.९०.३९] इत्य्-अन्तेन । परम् उत्कृष्टं प्रायः सर्वेषाम् अप्य् आश्रमिणाम् आश्रयत्वात् । तद् उक्तं—
भिक्षा-भुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ।
तेऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै वरम् ॥ इति ।
यद् वा, मुख्यं मुख्य-कल्पत्वेन कृतत्वात् । कृष्णस्य अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य भगवतः । किं वा, तद्-धर्मानुष्ठानेन सर्व-चित्ताकर्षकस्य । तु-शब्दश् चार्थेऽनुक्त्वा अष्टौ समुच्चिनोति । यद् वा, सुप्रसिद्धेन प्रायिकत्वेन वा तद्-अनुक्तिः । ततश् च तु-शब्दो विशेषे, अन्याशेष-गृहिभ्यो वैलक्षण्यात् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तद्-गार्हस्थ्य-भूतानां श्री-भगवत्-पुत्रादीनां सर्वेषां यादवानाम् अपि माहात्म्यम् उक्त्वानुवाद-पूर्वकं वर्णयति—आस्थितस्य इत्य्-आदीनां परम् उत्कृष्टं प्रायः सर्वेषाम् अप्य् आश्रमिणाम् आश्रयत्वात् । तद् उक्तं—
भिक्षा-भुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः ।
तेऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै वरम् ॥ इति ।
यद् वा, परं मुख्यं मुख्य-कल्पत्वेन कृतत्वात् कृष्णस्य अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य स्वयं भगवतः । यद् वा, तद्-धर्मानुष्ठान-माधुर्येणापि सर्व-चित्ताकर्षकस्य । तु-शब्दो भेदे । महा-महिष्यस् तावद् अष्टाव् आसन्न् एव षोडश-साहस्रं महिष्यस् तु शताधिकं यथा स्यात्, तथासन् । "महिष्यश् च" इति पाठेऽपि स एवार्थः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३० ॥
तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः ।
रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : या रुक्मिणी-प्रमुखा अष्टाव् उदाहृताः प्राक् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां सर्वासां मध्ये । तत्-पुत्रा रुक्मिण्य्-आद्य्-अष्ट-महिष्य्-आत्मजाः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्त्रीषु श्री-पार्वत्य्-आदिषु रत्न-भूतानां श्रेष्ठतमानाम् इत्य् अर्थः । तासां पुत्राश् चानुक्रमेण उदाहृता एव ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्त्रीषु तज्-जातिषु रत्नानां श्रेष्ठतमानां तासां पुत्राश् चानुक्रमेण उदाहृता एव ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : या रुक्मिणी-प्रमुखाम् अष्टौ ता उदाहृता उक्ताः । तत्-पुत्राश् च उदाहृताः, उक्ताः प्राग् एव ॥३०॥
॥ १०.९०.३१ ॥
एकैकस्यां दश दश कृष्णोऽजीजनद् आत्मजान् ।
यावत्य आत्मनो भार्या अमोघ-रतिर्13 ईश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् अष्टोत्तर-शताधिक-षोडश-सहस्र-महिषीणां पुत्रा लक्षम् एकम् अशीत्य्-उत्तरैक-षष्ठि-सहस्राणि च भवन्ति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां सर्वासां पुत्र-सङ्ख्यां निगमयति—एवम् इति । अमोघ-रतिर् इति सर्वासाम् अबन्ध्यात्वम् आह ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अमोघ-रतिः अव्यर्थ-कामः, अव्यर्थ-सङ्कल्प इति यावत् ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवानुस्मारयति—एकैकस्याम् इति । यावत्यो भार्यास् तावतीष्व् एव एकैकस्याम् आत्मजान् स्वानुरूपान् पुत्रान् इत्य् अर्थः । हि यतः । अमोघ-रतिः अव्यर्थ-क्रीडः सत्य-सौरतो वा । तत्रैव हेतुर् ईश्वरः साक्षाद् भगवान् इति । यद् वा, ननु सर्वासु सम-साङ्ख्यात्मज-जननं कथं सम्भवेत् ? तत्राह—ईश्वरः सर्वं कर्तुं समर्थ इत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवानुस्मारयति—एकैकस्याम् इति । यावत्यो भार्यास् तावतीष्व् एव एकैकस्यां दश दश एव आत्मजान् स्वानुरूपान् पुत्रान् इत्य् अर्थः । हि यतः । अमोघ-रतिः अव्यर्थ-सुरत-वृत्तान्तः । एवं तासु सर्व-प्राकट्य-समयं दशैव ऋतवो दशैव च स्वेच्छया तदीय-परम-ज्योतिर्-गम-चरम-धात्व्-आधानानि जज्ञिरे इति ज्ञेयम्। तत्र हेतुर् ईश्वर इति । तस्येश्वरत्वान् नैतावद् एवाश्चर्यम् इति भावः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमोघ-रतिः अव्यर्थ-कामः अव्यर्थ-सङ्कल्प इति यावत् ॥३१॥
॥ १०.९०.३२ ॥
तेषाम् उद्दाम-वीर्याणाम् अष्टादश महा-रथाः ।
आसन्न् उदार-यशसस् तेषां नामानि मे शृणु ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषाम् एक-लक्षाशीत्य्-उत्तर-षष्ठि-सहस्राणां मध्ये तेषाम् अष्टादशानाम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उद्दाम-वीर्याणाम् इति । यद्यपि सर्व एव तेऽनन्त-प्रभावाः, तथापि तेषां मध्ये अष्टादश इत्य् अर्थः । महा-रथा महा-बल-विक्रमाः । अत एव उदार-यशसः । यद् वा, महारथा इति वीरत्वे श्रैष्ठ्यम् उक्तम् । सत्-कर्मादाव् अप्य् आह—उदार- इति । मे मत्तोऽन्ये केचित् तेषां नामान्तराण्य् अप्य् आहुः । मया तु मुख्यानि निर्धार्यैव कथ्यत इति भावः ॥३२॥
तेषाम् उद्दाम-वीर्याणाम् अष्टादश महा-रथाः ।
आसन्न् उदार-यशसस् तेषां नामानि मे शृणु ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उद्दाम-वीर्याणाम् इति । यद्यपि सर्व एव ते महा-प्रभावाः, तथापि तेषां मध्ये अष्टादश इत्य् अर्थः । महा-रथा महा-बल-विक्रमाः । अत एव उदार-यशसः । यद् वा, महारथा इति वीरत्वे श्रैष्ठ्यं, सत्-कर्मादाव् अप्य् आह—उदार- इति । मे मत्तः शृण्व् इति । अन्ये केचित् तेषां नामान्तराण्य् अप्य् आहुः, श्रैष्ठ्य-निर्धारणात् मया तु सर्वं निर्धार्यैव कथ्यत इति भावः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३३-३४ ॥
प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च ।
साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृकोऽरुणः ॥
पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः ।
चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनिरुद्धश् चेति । अतः पुत्राणां मध्ये सप्तदशैव महारथा ज्ञेयाः । अथवा अनिरुद्ध-नामापि कश्चित् पुत्र एवेति ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतोऽनिरुद्धोऽपि महारथत्वेनोक्तः, अतो हेतोः। एवं चाष्टादश-महारथा एतद्-आदौ तासाम् उद्दामेत्य्-आदीनां पुत्राणां प्रकृतत्वात् तत्र पौत्र-स्वीकारेणास्वारस्यं प्रतीयते तन्-निवृत्त्य्-अर्थम् आह—अथवा इति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीप्तिमांश् च । एव अपि, भानुर् अपि । एवम् अग्रेऽपि । अनिरुद्धादयः केचित् प्राग् एक-षष्टितमाध्यायेऽनुक्ता, दीप्तिमांस् ताम्र-तप्ताद्या रोहिण्यास् तनया हरेः [भा।पु। १०.६१.१८] इत्य्-आद्य-शब्दाद् गृहीताः । किं च, अन्यासां कासांचित् पुत्रेषु मुख्या ज्ञेयाः ॥३३-३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रद्युम्न इति युग्मकम् । अनिरुद्धादयः केचित् प्राग् एक-षष्टितमाध्याये उक्ता अपि दीप्तिमांस् ताम्र-तप्ताद्या रोहिण्यास् तनया हरेः [भा।पु। १०.६१.१८] इत्य्-आदि-शब्दाद् गृहीताः । किं च, नान्यासां कासांचित् पुत्रेषु मुख्या ज्ञेयाः । चित्रबर्हि-स्थाने "चित्रबाहुः" क्वचित्, वरूथ-स्थाने "विरूपः" क्वचित् ॥३३-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनिरुद्ध-नामापि कश्चित् पुत्र एव ज्ञेयः, पुत्र-प्रकरणात् ॥३३॥
॥ १०.९०.३५ ॥
एतेषाम् अपि राजेन्द्र तनुजानां मधु-द्विषः ।
प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणी-सुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतेषाम् उक्तानुक्तानां मध्ये प्रथमः सर्व-ज्येष्ठः पितृवत् सर्व-कर्माणीति ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मधुद्विष इति । महादि-दैत्य-मधु-वधेन श्री-भगवतो महा-बल-पराक्रमादिकम् । अतस् तत्-पुत्राणाम् अपि सूचितम्, तथापि तेषां मध्ये प्रथमः श्रेष्ठः । तत्र हेतुः—पितृवद् इति, पितृ-तुल्यत्वाद् इत्य् अर्थः । तत्रापि हेतुः—रुक्मिणी इति । सर्व-महिषीषु ज्येष्ठायाः ज्येष्ठ-पुत्रत्वाद् इत्य् अर्थः । हे राजेन्द्र ! इति राज-कुले सर्वत्र तत्-प्रसिद्ध्या तत् त्वया विज्ञायत एवेति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मधुद्विष इति । पितृ-पराक्रमवत् पुत्राणाम् अपि पराक्रमः सूचितः । तथापि तेषां मध्ये प्रथमः श्रेष्ठः । तत्र हेतुः—पितृवद् इति, पितृ-तुल्यत्वाद् इत्य् अर्थः । तत्रापि हेतुः—रुक्मिणी-सुत इति । सर्व-महिषी-श्रेष्ठायाः श्रेष्ठ-पुत्रत्वाद् इत्य् अर्थः । हे राजेन्द्र ! इति राज-कुले सर्वत्र प्रसिद्ध्या त्वया विज्ञायत एवेति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३६ ॥
स रुक्मिणो दुहितरम् उपयेमे महा-रथः ।
तस्यां ततोऽनिरुद्धोऽभूत् नागायुत-बलान्वितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स प्रद्युम्नः । तस्मात् प्रद्युम्नात् ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महारथ इति राज-वर्ग-निर्जयेन युद्ध-मध्ये रुक्मवती-हरणात् । तच् च प्राग् उक्तम् एव । ततस् तस्मात् प्रद्युम्नात् नागायुतस्य बलेनान्वित इति तस्यापि महारथत्वं सूचितम् एव ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महारथ इति । राज-वर्ग-निर्जयेन युद्ध-मध्ये रुक्मवती-हरणात् । ततस् तस्मात् प्रद्युम्नात् नागायुतस्य बलेनान्वित इति च लोक-लीलानुकरण-रीत्यैव वस्तुतस् त्व् ईश्वर एवेति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३७ ॥
स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।
वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स चाप्य् अनिरुद्धोऽपि । ततस् तद्-अनन्तरम् । तस्यानिरुद्धस्य यो वज्रः । मौसलान् मुसल-कृताद् उपप्लवात् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च अपि, सोऽपि । न केवलं श्री-प्रद्युम्न एव मातुलेयीम् उपयेमे, किन्त्व् अनिरुद्धोऽपीति च-शब्दार्थः । अपि एव रुक्मिण एव । यद् वा, पौत्रीम् अपि श्री-भगवता सह तस्य द्वेषेण विवोढुम् अयोग्यम् अपीत्य् अर्थः । तद्-आख्यानं प्राग् उक्तम् एव । दौहित्रो रुक्मिण एव, ततस् तस्माद् अनिरुद्धात् । मौषलात् मुषल-हेतुक-युद्धज-सर्व-संहारात् । अवशेषितः कुलावशिष्टतया श्री-भगवता रक्षित इत्य् अर्थः । एवं तस्य माहात्म्यार्थम् एव महा-दुर्वार्तापि सूचिता ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं श्री-प्रद्युम्न एव मातुलेयीम् उपयेमे किन्त्व् अनिरुद्धोऽपीति चापि-शब्दार्थः । दौहित्रो रुक्मिण एव ततस् तस्माद् अनिरुद्धात् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३८ ॥
प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः ।
सुबाहोः शान्तसेनोऽभूच् छतसेनस् तु तत्-सुतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्माद् वज्रात् । तस्य च प्रतिबाहोः । तत्-सुतः शान्तसेन-सुतः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् वज्रात् । तस्य प्रतिबाहुश् च तस्योपसेनस्य सुतः । भद्रसेनस्य पुत्रादीनाम् अनुक्तिः प्रायस् तद्-अन्तत्वात् तत्-कुलस्य ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भद्रसेनस्य पुत्रादीनाम् अनुक्तिः प्रायः साङ्कर्यादि-वंश-लोपारम्भात् । श्रुतसेनस् त्व् इति पाठः क्वचित् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.३९ ॥
न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः ।
अल्पायुषोऽल्प-वीर्याश् च अब्राह्मण्याश् च जज्ञिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतस्मिन् कुले श्री-कृष्ण-कुले ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उक्तानां वज्रादीनां सर्वेषाम् अन्येषां च तत्-कुल-जातानां माहात्म्यं प्रायः साम्येनैकत्रैवाह—नेति । हि एव । नैव । च तु । अस्मिन् श्री-भगवदीया यादवे वा कुले जातास् तु, अधन्या धन-भाग्य-हीनाः । पाठान्तरं स्पष्टम् । हि निश्चितम् । यद् वा, हि अपि, अल्पायुर्-आदयोऽपि नैव जज्ञिरे ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतस्मिन् भगवत्-कुले । शुद्ध-क्षत्रिय-पितृ-मातृ-पर्यन्ते । अधनाः धन-हीनाः ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.४० ॥
यदु-वट्श-प्रसूतानां पुंसां विख्यात-कर्मणाम् ।
सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु श्री-बलदेवादीनाम् अपि सर्व-यादवानां पुत्र-पौत्रादीन् विस्टार्य कथयेति चेति, तत्राह—यद्व् इति । विख्यात-कर्मणाम् अपि, किं पुनर् अन्येषाम् इत्य् अर्थः । अत एव श्री-माथुरेषु प्रसिद्धिर् इयं—बद्ध-मुकुटा राजान एव यादवाः षट्-पञ्चाशत् कोटय इति । हे नृपेति परमाश्चर्यात् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विख्यात-कर्मणाम् अपि किं पुनर् अन्येषाम् इत्य् अर्थः । अत एव श्री-माथुरेषु प्रसिद्धिर् इयं बद्ध-मुकुटा राजान एव यादवाः षट्-पञ्चाशत् कोटय इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.४१ ॥
तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च ।
आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्राणाम् अपरिमितानां कुमाराणाम् इत्य् अन्वयः ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदूनां सङ्ख्याया अभावेऽपि यद् बालाचार्याणां काम् अपि सङ्ख्यां श्रावयामीत्य् आह—तिस्र इति । यदु-कुले सहस्राणाम् अनन्तानां कुमाराणां तिस्रः कोट्योऽष्टाशीति-शतानि चाचार्या आसन्न् इत्य् अन्वयः । अत्र यदु-कुले आचार्या इति च्छेदः । य-लोपस्यासिद्धत्वेऽपि सन्धिस् त्व् आर्षः । तीर्थस् तु—आसन् यदु-कुमाराणाम् आख्या इति नः श्रुतम् इति पाठम् आह । इति श्रुतिर् इति पाठे, इत्थं श्रूयत इत्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्ख्यानाशक्तौ हेतुम् आह—तिस्र इति । यदु-कुलस्याचार्या अध्यापका इति । श्रुतम् इति नूनं ततोऽप्य् अधिका भवेयुर् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, इत्य् एतत् श्रुतं विश्रुतं प्रसिद्धम् एवेत्य् अर्थः ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्ख्यानाशक्तौ हेतुम् आह—तिस्र इति । यदु-कुलस्याचार्या अध्यापकाः सहस्राणां कुमाराणाम् इत्य् अन्वयाद् एकम् एकम् सहस्रम् एकस्याचार्यस्य शिष्यम् इत्य् आचार्य-सङ्ख्यैव सहस्र-गुणिता कुमाराणां सङ्ख्येति भावः । इत्य् एतच् छ्रुतं प्रसिद्धम् एवेत्य् अर्थः । श्रुतिर् इति पाठः क्वचित् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदु-कुलस्था आचार्याः अध्यापकाः अष्टाशीति-शताधिकास् तिस्रः कोट्यः ३०,००८,८०० । सहस्राणाम् असङ्ख्यानां कुमाराणाम् इत्य् अर्थः ॥४१॥
॥ १०.९०.४२ ॥
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानाम् अयुत-लक्षेणास्ते स आहुकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यदा प्रत्येकं बहून् अध्यापयताम् आचार्याणाम् इयं सङ्ख्या तद् अपि श्रुत-मात्रं न तु सम्यग् ज्ञायते, तदा कुमाराणाम् एवं सङ्ख्यानं कर्तु न शक्यते । कुतः पुनः सर्व-यादवानाम् इति ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र येषां यदूनाम् अयुतानाम् अयुत-लक्षेण पद्म-परिमितेन सैन्येन सदास्ते इति । आस्तां तावत् सर्वेषां सङ्ख्या नित्य-राज-सेवकानाम् अपि सा किलाशक्येत्य् आह—सङ्ख्यानम् इति । महात्मनां मुख्यानाम् अपि । अयुतानाम् इति बहुत्वं कपिञ्जलाधिकरण-न्यायेन त्रित्व-विशिष्टायां सङ्ख्यायां पर्यवसायितम् । अयुतानाम् अयुत-लक्षेण बिन्दु-त्रयोदश-युक्तेनाङ्क-त्रयेण शङ्ख-त्रयेणेत्य् अर्थः । आसीद् इति वक्तव्ये आस्त इति नित्य-लीला-स्फूर्त्योक्तम् । सा चाग्रे स्थापयिष्यते ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो आस्तां तावत् सर्वेषां सङ्ख्या, नित्य-राज-सेवकानाम् अपि सा किलाशक्येत्य् आह—सङ्ख्यानम् इति । गणनं महात्मनां श्री-भगवद्-भक्तानाम् इति सर्वेषाम् अपि तद्-एक-निष्ठ-चित्तत्वात् । तच् च वक्ष्यत्य् एव । यत्र येषु मध्येऽयुतानाम् अयुत-लक्षेण पद्म-सङ्ख्येन (१०^१३^) सह । आहुक उग्रसेनः । सदेति कदाचिच् च तद्-अधिकेनापीत्य् अर्थः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो आस्तां तावत् सर्वेषां सङ्ख्या नित्य-राज-सेवकानाम् अपि सा किलाशक्येत्य् आह—सङ्ख्यानम् इति । महात्मनां मुख्यानां यत्र येषु मध्ये अयुतेनायुत-लक्षेण बिन्दु-त्रयोदश-युक्तैनैकाङ्केन सङ्ख्याख्येन सह अयुतानाम् इति बहुत्वेन त्रित्वं चेत् शङ्ख-त्रयेणेत्य् अर्थः । स इति पाठः क्वचित् । आसीद् इति वक्तव्ये आस्त इति नित्य-लीला-स्फूर्त्या । सा चाग्रे स्थापयिष्यते ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयुतानाम् इति बहु-वचनं कपिञ्जलाधिकरण-न्यायेन त्रित्व-विशिष्टायां सङ्ख्यायां सङ्ख्यायां पर्यवसायितम् अयुतानाम् अयुत-लक्षेण बिन्दु-त्रयोदश-युक्तेनाङ्क-त्रयेण शङ्ख-त्रयेणेत्य् अर्थः ॥४२॥
॥ १०.९०.४३ ॥
देवासुराहव-हता दैतेया ये सुदारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते चोत्पन्ना इति प्रत्ययेकं बहुभी रूपैर् इति ज्ञेयम् ॥४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवासुराहवे देवासुर-सङ्ग्रामे हता ये त एव मनुष्येषु राजसु प्रत्येकम् इति एकैकस्यानेके देहा आसन्न् इत्य् अर्थः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईदृशे तेषां आनन्त्य एव हेतुम् आह—देवेति द्वाभ्याम् । सुदारुणा अत्युग्राः, अतो दृप्ताः सन्तः प्रजा बबाधिरे अपीडयन् ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते च यादवा द्विविधाः । देवा नित्य-पार्षदाश् च । तत्र देवानां यदु-कुलावतीर्णत्वम् असङ्ख्यातत्वं च । सहेतुकम् आह—देवेति द्वाभ्याम् । सुदारुणा अत्युग्राः । अत उत्तर-जन्मन्य् अपि दृप्ताः सन्तः प्रजाः बबाधिरे ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ये च यादवा द्विविधाः । देवाः नित्य-पार्षदाश् च । तत्र देवानां यदु-कुलावतीर्णत्वम् असङ्ख्यातत्वं च । सहेतुकम् आह—देवेति द्वाभ्याम् । नित्य-पार्षदानां तु ततोऽपि सङ्ख्या-वैभवे श्री-भगवद्-एक-गम्ये इत्य् आह ॥४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आसीद् इति वक्तव्ये आस्ते इति नित्य-लीला-स्फूर्त्या उक्तम् ॥४३॥
॥ १०.९०.४४ ॥
तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवम् एव यदु-कुलेऽपि देवा इति तथा चोक्तं सहस्रशः समुद्भूता देवा यदु-कुले पृथग् इति ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-निग्रहाय तेषां दण्ड-प्रदानाय । तेषां यदूनाम् । यदु-कुले देवा अवतीर्णा इह प्रमाणम् आह—पुराणान्तर-वाक्यं—तथा चेति । भवद्भिर् अंशैर् यदुषूपजन्यताम् [भा।पु। १०.१.२२] इति ब्रह्मणापि भूम्य्-आर्ति-निवेदनोत्तर-विष्णु-वाक्य-श्रवणान्ते उक्तत्वात् ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव तेषां निग्रहाय वधाय, हरिणेति तेषां निग्रहेण पृथ्वी-भार-हरणाभिप्रायेण प्रोक्ता आदिष्टाः । एकाधिकं कुल-शतम् भोजान्धक-सात्वतादि-भेदैर् यद्य् एकस्यापि यदु-कुलस्यावान्तर-भेदेन कुल-बाहुल्यम् ईदृशम् । तर्हि किं पुनर् वक्तव्यं तत्-तत्-कुलोद्भवानाम् इति भावः । हे नृपेति स्व-बुद्ध्या भवता तन् निश्चीयत एव, किं तत्र प्रमाणं वक्तव्यम् इति भावः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव तेषां निग्रहाय क्वचित् तद्-द्वारा सहयोगेन च तद्-वधकोपायः । यदोः कुलेऽवतीर्णाः । क्वचित् प्रवेशेन क्वचित् पार्थक्येन च जाताः, एकाधिकं कुल-शतम् इति तत्-तद्-व्यक्तीनां त्व् अस्माभिर् अपि दुःसङ्ख्यानत्वम् इति भावः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकाधिकं कुल-शतम् इति कुलस्यैव सङ्ख्या कृता न तु व्यक्तीनाम् असङ्ख्यातत्वाद् इति भावः । ये च तस्य भगवतः अनुवर्तिनः नित्य-पार्षदाः सर्व-यादव-रूपा ववृधुः, तेषां सङ्ख्यानस्य प्रभुत्वे भगवान् हरिर् एव प्रमाणम् अभूद् इत्य् अर्थः । तत्-सङ्ख्याया ब्रह्मादीनाम् अपि बुद्ध्य्-अगोचरत्वाद् इति भावः ॥४४॥
॥ १०.९०.४५ ॥
तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः ।
ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषाम् एकोत्तर-शत-कुलानां प्रभुत्वे नायम् एवास्माकं प्रभुर् इत्य् एवं-रूपेण ज्ञानेन हरिर् एव प्रमाणं नान्य उग्रसेनादिः । यद् वा, भगवतो नारायण-रूपत्वेन देव-देवत्वात् यादवानां देवत्वे तु श्री-कृष्ण-प्रभुत्वम् एव प्रमाणम् इति । तस्य श्री-कृष्णस्य ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तेषाम् आनन्त्यम् उक्त्वा माहात्म्य-विशेषम् आह—तेषाम् इति द्वाभ्याम् । सर्वेषां यादवानां प्रमाणं वेदादिवद् विश्वासास्पदं नित्य-मर्यादा-रूपो वा । प्रभुत्वे चाभवत्, प्रभुश् चाभूद् इत्य् अर्थः । तत्र तत्रैव हेतुम् आह—भगवान् हरिर् अशेषैश्वर्य-प्रकटकोऽतोऽखिल-दोष-दुःख-हरः श्री-कृष्ण इति । तत्रैव विशेषम् आह । च तु । ये तु । तस्य हरेर् अनुवर्तिनः समीपे सदा प्रेम-सेवा-परास् ते सर्वे यादवा ववृधुः, गुण-रूपादिना अन्येभ्यः सर्वेभ्यो वृद्धिं प्राप्ता इत्य् अर्थः ।
अथवा, ईदृशं तेषाम् आनन्त्यं प्रभुत्वादिकं चात्यलौकिकत्वेन परमासम्भाव्यम् अपि प्रत्येतव्यम् एवेत्य् आशयेनाह—तेषाम् इति । प्रभुत्वे च-काराद् आनन्त्य-साधु-वरत्वादौ च प्रमाणं साक्षी विश्वास-कर्ता वा । भगवान् एवाभवत्, न त्व् अन्यः कोऽपि । महा-लोकातीततया लोकेषु विश्वासानुत्पत्तेः, किन्तु विश्वासोऽपि घटेतैवेत्य् आह । यतो ये सर्वे यादवास् ते ववृधुः, सर्वथा सर्वेभ्यो वृद्धिं प्राप्ताः । कुतः ? तस्यानुवर्तिनः सर्वेषाम् एव तद्-भक्तत्वात् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नित्य-पार्षदानां तु ततोऽपि सङ्ख्या-वैभवे श्री-भगवद्-एक-गम्य इत्य् आह—तेषाम् इति । ये च ये तु तस्य श्री-भगवतोऽनुवर्तिनो नित्य-पार्षदाः सर्व-यादवा ववृधुः उत्तरोत्तरं सङ्ख्यातो वैभवतश् च वृद्धिं प्राप्ताः । तेषां विभुत्वे च चेति च-कारात् सङ्ख्यायां विभुत्वे भगवान् हरिर् एव प्रमाणं साक्षी बभूव न त्व् अन्यः । ब्रह्मादि-बुद्ध्य्-अगोचरत्वात् ते च देव-गणतो विभिद्य । यथोक्तं हरि-वंशे श्रीमद्-अक्रूरेण—देवानां च हितार्थाय वयं याता मनुष्यताम् [ह।वं।] इति । अत्र हरिर् बहिर् अन्तश् च सर्व-समाहरण-शक्तः । यतो भगवान् पूर्णैश्वर्यादि-षट्क-सम्पन्न इति नाम-द्वय-तात्पर्यम् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषाम् इति । ये च ये तु तस्य श्री-भगवतोऽनुवर्तिनो नित्य-पार्षदाः सर्व-यादवा ववृधुस् तेषां तु प्रभुत्वे, च-कारात् सङ्ख्यायां च भगवान् हरिर् एव प्रमाणं साक्षी साक्षाद् द्रष्टा बभूव न त्व् अन्यः ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.४६ ॥
शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवाह—शय्या इति । शय्यादिषु सन्तं वर्तमानम् अप्य् आत्मानं न विदुः । "किं कुर्मः ? कुत्र वा स्मः ?" इत्य्-आदिकम् अनुसन्धातुं न शेकुर् इत्य् अर्थः । यतः कृष्णे सर्व-चित्ताकर्षके भगवति चेतो येषां, ते । क्रीडा द्यूतादि । आदि-शब्दात् सौरतादय इति । साक्षान् महा-विषय-वर्ग-भोगेऽपि तेषां श्री-भगवच्-चित्तत्वेन महा-मुन्य्-आदिभ्योऽप्य् अधिकतरं माहात्म्यं सिद्धम् एव ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषां च वृष्णीनां परम् एव माहात्म्यम् इत्य् आह—शय्या इति । शय्यादिषु सन्तं जाग्रतम् अप्य् आत्मानं न विदुः श्री-भगवत्-प्रेरणयैव सर्वं कुर्वन्ति, न तु स्वयम् अनुसन्धातुं शक्नुवन्तीत्य् अर्थः । यतः कृष्ण-चेतसः । क्रीडा द्यूतादिः । आदि-शब्दात् सौरतादय इति यद् यादवं कुलम् अहो अविषह्य आस्ते [भा।पु। ११.१.३] इत्य्-आदिकं नान्यादृशत्व-ख्यापकं, किन्तु तद्-विरहोन्माद-भय-ख्यापकम् एव । वक्ष्यते—ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् [भा।पु। ११.१.८] इत्य्-आदि ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.९०.४७ ॥
तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं
**विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-परा श्रीर् यद्-अर्थेऽन्य-यत्नः
यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः
कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मात् कृष्ण-कीर्तेः सर्व-तीर्थोत्तमत्वं कृष्णस्य च सर्व-देवोत्तमत्वं न चित्रम् इत्य् आह—तीर्थं चक्रे इति ।
इतः पूर्वं स्वः-सरिद् एव सर्वतोऽधिकं तीर्थम् इत्य् आसीत् । इदानीं तु यदुषु यद् अजनि जातं तीर्थं श्री-कृष्ण-कीर्ति-रूपम्, एतत् स्वः-सरिद्-रूपं पाद-शौचं तीर्थम् ऊनम् अल्पं चक्रे, स्वयम् एव सर्व-तीर्थोपरि विराजत इत्य् अर्थः । श्री-कृष्णस्य विद्विषः स्निग्धाश् च तत्-सारूप्यं ययुर् इत्य् अपि नातिचित्रम्, तस्य परम-कारुणिकत्वात् । तथेदं च न चित्रम् । किं तत् ? अजित-परा अजिता कैश्चिद् अप्य् अप्राप्ता परा सर्वतः परिपूर्णा श्रीः कृष्णस्यैव, नान्यस्येति । तद् एवाह—यद् अर्थेऽन्येषां ब्रह्मादीनां यत्न इति ।
ननु निरपेक्षं तम् एव लक्ष्मीः श्रयत इति चित्रम् एव ? इति चेत्, न हि, परम-मङ्गल-नामधेयत्वात् तस्येत्य् आह—यन्-नाम इति । तद् अपि नार्थ-स्मरणापेक्षम् इत्य् आह—श्रुतम् अथ गदितम् इति । सर्व-धर्माश्रयत्वाद् अपीत्य् आह—यत्-कृतो गोत्र-धर्म इति गोत्रेषु तत्-तद्-ऋषि-वंशेषु धर्मो यत्-कृतो येन प्रवर्तितः । तस्य क्षिति-भर-हरणं नैव चित्रम् इत्य् आह—कृष्णस्यैतद् इति । काल-चक्रायुधस्य इति सर्व-संहारक-काल-मूर्तेर् विशेषतो दुरन्त-प्रभाव-चक्रायुधस्य कियद् एतद् ? इत्य् अर्थः ॥४७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो यादवा देवाः, श्री-कृष्णश् च तेषाम् ईश्वरस् तस्माद् धेतोः । इत्य् अर्थ इति—सूर्योदये दीपस्येव तुच्छत्वम्, एवं-भूतः । तत्-सारूप्यं कृष्ण-सारूप्यम् । तस्य कृष्णस्य । यथा विद्विट्-स्निग्धानां सारूप्य-दानं न चित्रं, तथैवेदं वक्ष्यमाणम् अपि । तत् पृच्छति—किं तद् ? इति । अन्यस्य कृष्णेतरस्य तद् एव श्रियाः कृष्ण-परत्वम् एव । यद्-अर्थे यस्याः श्रियो निमित्तम् । अत्राशङ्कते—नन्व् इति । तम् एव श्री-कृष्णम् एव । शङ्कोद्धारम् आह—नहि इति । तस्य श्री-कृष्णस्य । यन्-नाम यस्य श्री-कृष्णस्य नाम । तद् अपि नामापि । अर्थ-स्मरणं नापेक्षत इत्य् आह—श्रुतम् अथ इति । यद् वा, नन्व् अन्येऽप्य् अग्निहोत्रादयो धर्माः सन्ति, तान् विहाय कथं तत्र प्रवृत्तिः स्यात् ? इति चेत्, तत्राह—सर्व-धर्म- इति । धर्मोऽग्निहोत्रादिः । येन कृष्णेन, तस्येत्य् अर्थः । इत्य् अर्थ इति—इच्छयैव सर्व-संहर्तुश् चक्र-धारेण तु भू-भारावतारणं न किञ्चिद् इति भावः ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तीर्थं चक्र इत्य्-आदि । हे नृप ! परीक्षित् ! यदुषु यद् अजनि यद् एतं क्रीडनकादि-रूपम् अर्थ-जातं, तत् स्वः-सरत् गङ्गा तत्-स्वरूपं पाद-शौचम् ऊनं चक्रे—स्मरण-मात्रेणैव सद्यः पावनत्वात् । यद्यपि गङ्गाया अपि गङ्गा गङ्गेति यो ब्रूयात्14 इत्य्-आदिना श्रवण-कीर्तनाभ्याम् अपि सद्यः पाप-हारित्वं, तथाप्य् अस्य परमानन्द-प्रदत्वाद् आधिक्यम् इति भावः । यद् यतः श्रीर् अजित-परा, अज गतौ, अजितं गतिः, भावे क्तः, अनुगति-परा । यद्-अर्थे यस्या अर्थे अन्येषां ब्रह्मादीनाम् अपि यत्नः । यत् यस्य नाम अमङ्गल-घ्नं संसार-ताप-घ्नं । यत्-कृतो गोत्र-धर्मः, गां पृथिवीं त्रातीति गोत्रः, स चासौ धर्मश् चेति । तथा तस्य श्री-कृष्णस्य एतत् क्षिति-भर-हरणं न चित्रम् । काल एव चक्र-रूपम् आयुधं यस्य, काल-चक्रेणैव क्षिति-भर-हरणं कृतम् इत्य् अर्थः । तस्य तु विद्विट्-स्निग्धाः समाना एव फल-गत-तौल्यात् ॥४७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे नृप ! इति । उपसंहारे श्री-भगवन्-माहात्म्यस्य श्रवणार्थम् अवधापयति । तेन प्रहर्षोदयाद् वा । स्निग्धा इति दृष्टान्तत्वेनोदाहृतं, तेषां स्वत एव तत्-स्वरूप-प्राप्ति-योग्यता वृत्ता, श्री-भगवन्-माहात्म्य-विशेष-सम्पत्तेः । यद् वा, विद्विषस् तेषु स्निग्धाश् च तत्-पितृ-मात्र्-आदयः स्वरूपम् [आत्म-तेनं]{।मर्क्} ययुर् मोक्षं प्राप्ताः । यद्-अर्थे यस्याः श्रियः कृपा-क्षण-च्छटा-प्राप्त्य्-अर्थम् इत्य् अर्थः । यत्नो महा-तपोभिः प्रयासः । अमङ्गलं संसार-दुःखम् । अथ अपि, श्रुतम् अपि । तथा गदितं साङ्केत्यादिनोच्चारितम् अपि, किं पुनः श्रद्धादिना सङ्कीर्तितम् इत्य् अर्थः । धर्मो भगवद्-भक्ति-लक्षणः । कृष्णस्य अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य भगवतः । कालश् चासौ चक्रायुधश् चेति, तथा तस्य क्षिति-भार-हरणम् एतद् दुष्ट-वधेनोक्तम् इदं मुनिभिर् गीयमानं वा । न चित्रं नैवाद्भुतं, इच्छा-मात्रेणैव जगत्-संहारे शक्तत्वात् । अतस् तद्-अर्थं नावतीर्णोऽस्ति, किन्तु स्व-भक्तानन्द-विचित्र-क्रीडया निज-प्रेम-भक्ति-विस्तारणार्थम् एवेति भावः ।
अत एवोक्तं पाद्मे श्री-भगवतैव—
मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् ।
मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ [प।पु।] इति ।
अन्यत् तैर् व्याख्यातम् ।
तत्र तीर्थम् इत्य् अस्योभयत्राप्य् अनुषङ्गः । तथा कृष्णस्य इत्य् अस्य दूरस्थस्यापि श्रीर् इत्य् अनेनान्वय इति । अथवा, ऊनं चक्रे इत्य् एतन् न चित्रम् इत्य् एवं सर्वत्रैव योज्यम् । ततश् च कृष्णस्य नामामङ्गल-घ्नम् इति यत्, एतन् न चित्रं, तथा तेन कृतो गोत्र-धर्म इति यत्, एतद् अपि न चित्रम् । अतः क्षिति-भार-हरणं न एव चित्रम् इत्य् अर्थः ।
तत्र हेतु-विशेषः—सर्व-संहारक-काल-आत्मक-चक्रम् आयुधं यस्य, तस्येति । समम् अन्यत् ।
अथवा, एवं सर्वथा परिफलित-श्री-भगवन्-माहात्म्य-भर-वर्णेनोपसंहरति—तीर्थम् इति द्वाभ्याम् । यद् यस्मात् यदुष्व् अजनि स्वयम् आविर्भूतो भगवान्, तस्मात् तीर्थम् ऊनं चक्रे, तच्-चरितस्य गङ्गादि-माहात्म्यात् । यद् वा, नृपेषु मध्ये ऊनं ययाति-शाप-हेतुक-राजत्वादि-राहित्येन न्यूनम् अपि यदु-कुलं तीर्थं सर्व-सेव्यं चक्रे ।
यद् यस्माद् यदुष्व् अजनि, तद् युक्तम् एवेत्य् आह—स्वः-सरित् सर्व-तीर्थम् अपीति । गङ्गा तस्य पाद-शौचम्, पादाब्ज-क्षालनोदकस्यैव गङ्गात्वात्, बहुधा निरन्तर-तत्-सम्बन्ध-विशेषवतो यदु-कुलस्य तीर्थत्वम् उचितम् एव, न तु चित्रम् इत्य् अर्थः ।
किं च, यदुषु यद् अजनि, अतो दैत्या अपि मोक्षं प्राप्ता इत्य् आह—विद्विड् इति ।
किं च, अजितः श्री-रघुनाथावतारे तादृश-पातिव्रत्येनापि वशीकर्तुम् अशक्तो यो भगवान्, अन्ते परित्यक्तत्वात्, स एव परः पतित्वेन वरणादौ श्रेष्ठः, परायणं वा यस्याः सा । तच् च व्याख्यातम् एव, श्रुत्वा गुणान् भुवन-सुन्दर [भा।पु। १०.५२.३७] इत्य्-आदौ ।
किं च, यस्य नाम श्रुतम् अप्य् अमङ्गलं भक्ति-रस-विघातकम् अद्वैत-ज्ञानादि तत् हन्ति निरस्यतीति तथा-भूतं गदितं तत्त्व-ज्ञैः । यदुषु जन्मनैवात्मन इव स्व-नाम्नोऽपि माहात्म्य-प्रकटनात् ।
किं च, सर्वत्र स्व-भक्तिश् च प्रवर्तितेत्य् आह—येन कृष्णेन कृतो गोत्रेषु धर्मः सर्वेषाम् अवश्यक-पुण्य-कर्म कृतम् । तथा चोक्तं—एतन् निर्विद्यमानानां [भा।पु। २.१.११] इत्य्-आदि ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं ब्रह्म-कुल-रूपम् अधिष्ठानं प्रशस्य श्री-कृष्ण-रूपम् अधिष्ठातारं प्रशंसति—तीर्थम् इति । कृष्णस्य स्वयं भगवत एतत्-पूर्व-वर्णितं क्षिति-भार-हरणं न चित्रं, विबुध-हृदय-विस्मयावहं न भवति । यतः परमाण्व्-आदि-द्विपरार्धान्त-रूपो यः कालः, स एव चक्रं चक्रवद् विच्छिद्य परिवर्तमानत्वात् । तद् एव च आयुधं सर्व-संहार-साधनं यस्य, तस्य स्वतः-सिद्धत्वात् अर्थोद्यमेनालम् इति भावः ।
तद्-अचित्रता-बोधनाय तम् एव चित्र-विशेषणैर् विशिनष्टि—यत् यतस् तादृशोऽपि यदुषु लोक-कृपया अजनि जातः, य एव स्वः-सरिद्-आख्यं श्री-वामन-पाद-शौच-रूपं तीर्थम् ऊनं चक्रे । निज-चरण-रजः-सम्बन्धि-यमुनादिभिर् इति भावः ।
गङ्गा-शत-गुणा पुण्या माथुरे मम मण्डले ।
यमुना विश्रुता देवि नात्र कार्या विचारणा ॥ इत्य्-आदि वाराहात्,
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥
को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः ।
शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् ॥ [भा।पु। १.१.१५-१६]
इति श्री-शौनकस्य तत्-प्रश्न-करणाच् च ।
किं च, विभक्ति-विपरिणामात् यत् येन हेतुना स्निग्धा इव विद्विषः पूतनादयः । यद् वा, विद्विषः स्निग्धाः पितृ-भ्रात्र्-आदयोऽपि स्वरूपं सर्व-मूल-भूतं श्री-भगवन्तम् एव ययुः, सद्-वेषाद् इव पूतनापि सकुला त्वाम् एव देवापिता [भा।पु। १०.१४.३५] इत्य्-आदेः ।
यत् तत्र श्रीः रूपादि-सम्पत्ति-परा सर्वोत्कृष्टा अजिता अन्यास्पृष्टा चेत्य् अर्थः । यथोक्तं—यन् मर्त्य-लीलौपयिकं [भा।पु। ३.२.१२] इत्य्-आदि । अदृष्ट्वाऽन्यतमं लोके [भा।पु। १०.३.४१] इत्य् उपक्रम्य, तृतीयेऽस्मिन् भवेऽहं वै [भा।पु। १०.३.४३] इत्य्-आदि । यद्-अर्थे यस्य दर्शनादि-रूपार्थे अन्येषां महा-काल-पुराधिपादीनाम् अपि यत्नः, परम-ब्रह्मण्य-देवत्वेऽपि मुहुर् मुहुर् ब्राह्म-बाल-हरण-ब्राह्मण-दुःखातिशय-दान-दोषानादर-पूर्वकः प्रयासः । यथोक्तं—द्विजात्मजा मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५९] इत्य्-आदि । श्री-हरि-वंशे च—
त्वद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना ।
विप्रार्थम् एष्यते कृष्णो नागच्छेद् अन्यदेति ह ॥ [ह।वं। २.११४.८] इति ।
अत एव यस्यैव नाम अथ कार्त्स्न्येन सर्वतोऽपि सामस्त्येन तद्-अतिरिक्त-सर्व-परित्याजनादिना अमङ्गल-घ्नं तद्-उपलक्षणतया सर्व-मङ्गलत्वादातृ च, यथोक्तं ब्रह्माण्ड-पुराणे तन्-नामाष्टोत्तर-शत-प्रसङ्गे—
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ इति ।
तत्रापि विशेषः श्रुतं, किम् उत गदितम् इत्य् अर्थः । किं च, यत्-कृतो येनैवोपदिष्टो गोत्र-धर्मः अनाद्य्-ऋषि-परम्परा-प्राप्तो भगवद्-धर्मः, यथोक्तम् एकादशे [११.३.२२फ़्फ़्] स्वयम् एव—
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति परां गतिम् ॥
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥ [गीता ९.३२-३३] इति हि गीतासु ।
यद् वा, अत्र जगति तादृश-धर्मः सदा सर्वत्रागः स्थिरः, यथा द्वितीये न ह्य् अतोऽन्यः शिवः पन्था [भा।पु। २.२.३३] इत्य् उपक्रम्य तद्-उपसंहारे—
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवन् नृणाम् ॥ [भा।पु। २.२.३६] इति ।
यद् वा, गां पृथिवीम् अपि त्रायते गोत्रः, स चासौ धर्मश् च, अपि चेत् सुदुराचार [गीता ९.३०] इत्य्-आदिकं हि श्री-गीतासु, मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इत्य् एकादशे च ।
यद् वा, प्रसिद्ध्या योग्य-वृत्त्या च गोत्रस्य श्री-गोवर्धनस्य धर्मो मख-रूपो येनैव कृतः, भक्त-वात्सल्यं दर्शयता इन्द्रम् अपि तुच्छीकृत्य प्रकाशितः ।
यद् वा, तद् एव दर्शयता बलिम् आददानेन गोत्र-धर्मः स्व-देह-सम्बन्ध-भवना-रूपो धर्मो यस्मिन् कृतो विहितः, न कर्हिचिन् मत्-परा [भा।पु। ३.२५.३८] इत्य्-आदौ, येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् इत्य्-आदि च ।
यद् वा, श्री-नन्दादौ श्री-वसुदेवादौ श्री-युधिष्ठिरादौ च गोत्र-धर्मः स्व-स्व-सम्बन्ध-पुरस्कृत-प्रेमा येन कृतः, यत्र वा तैः कृतः ।
यद् वा, गास् त्रायन्ते इति गोत्राः श्री-गोपाः । तेषां धर्मः स्वभावः, असमोर्ध्व-प्रेमा येन यत्र वा कृतः ।
यद् वा, गोत्र-धर्मः सर्व-रूपातिक्रमि-परम-रूपं गोपत्वं येन प्रकाशम् इति दिक् ।
यच्-छब्दस् तस्येति लभ्यम् । अथ व्यास्यान्तरं स्वः-सरित् पाद-शौचम् ऊनं चक्र इत्य् एतन् न चित्रं, यतः विद्विट्-स्निग्धा अपि स्वरूपं ययुः, तथा तद् अपि न चित्रं, यतोऽजित-परा इत्य्-आदिकं पर-परत्र योज्यम् । अतः क्षित-भर-हरणं नैव चित्रम् इत्य् अर्थः । तत्र च हेतु-विशेषः—काल- इति । सर्वत्र हेतुः—कृष्णस्य इत्य् एवम् ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं यदु-कुल-रूपम् अधिष्ठानं प्रशस्य श्री-कृष्ण-रूपम् अधिष्ठातारं प्रशंसति । कृष्णस्य स्वयं भगवत एतत् पूर्व-वर्णितं क्षिति-भार-हरणं न चित्रम् । विबुध-हृदय-विस्मयावहं न भवति । यतः परमाण्व्-आदि-द्विपरार्धान्त-रूपो यः कालः, स एव चक्रं चक्रवद् व्यवच्छेद्ये परिवर्त-गतित्वात् । तद् एव च आयुधम्—तद् एव चायुधं सर्व-संहार-साधनं यस्य, तस्य स्वतः सिद्धत्वात् तद्-अर्थोद्यमेनालम् इति भावः ।
तद् अतिचित्रता-बोधनाय तम् एव चित्र-विशेषणैर् विशिनष्टि । यत् यतस् तादृशोऽपि यदुषु लोक-कृपया अजनि जातः, य एव स्वः-सरिद्-आख्यं श्री-वामन-पाद-शौच-रूपं तीर्थम् ऊनं चक्रे । निज-चरण-रजः-सम्बन्धि-यमुनादिभिर् इति भावः ।
गङ्गा शत-गुणा पुण्या माथुरे मम मण्डले ।
यमुना विश्रुता देवि नात्र कार्या विचारणा ॥ इत्य्-आदि वाराहात्,
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥
को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः ।
शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् ॥ [भा।पु। १.१.१५-१६]
इति श्री-शौनकस्य तत्-प्रश्न-करणाच् च ।
किं च, विभक्ति-विपरिणामात् यत् येन हेतुना स्निग्धा इव विद्विषः पूतनादयः । यद् वा, विद्विषः स्निग्धाः पितृ-भ्रात्र्-आदयोऽपि स्वरूपं सर्व-मूल-भूतं श्री-भगवन्तम् एव ययुः, सद्-वेषाद् इव पूतनापि सकुला त्वाम् एव देवापिता [भा।पु। १०.१४.३५] इत्य्-आदेः ।
यद् यत्र श्री रूपादि-सम्पत्तिर् अजिता अन्यास्पृष्टा परा सर्वोत्कृष्टा चेत्य् अर्थः । यथोक्तं—यन् मर्त्य-लीलौपयिकं [भा।पु। ३.२.१२] इत्य्-आदि । यद्-अर्थे यस्य दर्शनादि-रूपार्थे अन्येषां महा-काल-पुराधिपादीनाम् अपि यत्नः । यथोक्तं—द्विजात्मजा मे युवयोर् दिदृक्षुणा [भा।पु। १०.८९.५९] इत्य्-आदि ।
अत एव यस्य एव नाम अथ कार्त्स्न्येन सर्वतोऽपि सामस्त्येन तद्-अतिरिक्त-सर्व-परित्याजनादिना अमङ्गल-घ्नं तद्-उपलक्षणतया सर्व-मङ्गलत्वादातृ च, यथोक्तं ब्रह्माण्ड-पुराणे तन्-नामाष्टोत्तर-शत-प्रसङ्गे—
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ इति ।
तत्रापि विशेषः—श्रुतं किम् उत गदितम् इत्य् अर्थः ।
किं च, यत्-कृतो येनैव दिष्टो गोत्र-धर्मः । गां पृथ्वीम् अपि त्रायते, स चासौ धर्मश् च, अपि चेत् सुदुराचार [गीता ९.३०] इत्य्-आदिकं हि श्री-गीताभ्यः ।\
यद् वा, गोत्रस्य श्री-गोवर्धनस्य धर्मो मख-रूपो येनैव कृतः, भक्त-वात्सल्यं दर्शयता इन्द्रम् अपि तुच्छीकृत्य प्रकाशितः
यद् वा, गास् त्रायन्ते इति गोत्राः श्री-गोपाः, तेषां धर्मः
स्वभावः, असमोर्ध्व-प्रेमा येन यत्र वा कृत इति दिक् ॥४७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : जगद्-गुरुत्वं प्रपञ्चयति—तीर्थं चक्र इत्य्-आदि । हे नृप ! यदुषु यादव-मध्ये श्री-कृष्ण-लीला-रूपं तीर्थं यद् अजनि जातं, तत् स्वः-सरित् । तद् एव यत् पाद-शौचं पादोदकम् ऊनं चक्रे । अस्य श्रवण-मात्रेणैव सद्य एव निःश्रेयसावाप्तेः । गङ्गायास् तद्-दर्शन-स्पर्शनावगाहनैर् एव तत्रापि चिरेणैव, तथोक्तं—स्वर्धुन्य्-आपोऽनुसेवया [भा।पु। १.१.१५] इति । किं च, श्री-कृष्णस्य विद्विट्-स्निग्धाः विद्विषश् च स्निग्धाश् च स्वरूपं ययुः । विद्विषः स्वरूपं मोक्षं, स्निग्धाः स्वेषां पार्षदानां रूपं यस्य । श्रीर् विभूतिः । अजित-परा अजिता अन्यैर् अनभिभूताः, अत एव परा उत्कृष्टा, पश्चात् कर्म-धारयः । यद्-अर्थे यस्याः श्रियोऽर्थे अन्येषां भावात्मदीनां यत्नः । अथवा, श्रीर् महा-लक्ष्मीः अजिता सती अबाधिता सती परा परायणा यस्य । यत् यस्य नाम अमङ्गलघ्नं संसार-बन्ध-हरं श्रुतं वा गदितं वेत्य् अर्थः । यत् येन गोत्र-धर्मः कृतः, गां पृथिवीं त्रायतीति गोत्रः, स चासौ धर्मश् चेति । तथा एतत् क्षिति-भर-हरणं श्री-कृष्णस्य न चित्रम् । कुतः ? इत्य् आह—काल-चक्रायुधस्य । काल-चक्रं सुदर्शनम् एवास्त्रं यस्य ॥४७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-कृष्ण-लीला-रत्नाकरं श्री-दशम-स्कन्धम् उपसंहरन् श्री-कृष्णस्यान्यावतार-वैलक्षण्य-पञ्चकम् आह—तीर्थम् इति । यत् यदुषु अजनि जातं तीर्थं कृष्ण-कीर्तन-रूपं, तत् कर्तुं स्वः-सरिद्-रूपं पाद-शौचं तीर्थम् ऊनं चक्रे । इतः पूर्वं गङ्गैव सर्व-तीर्थाधिका आसीत्, अतः परं तु कृष्ण-कीर्तिर् एव । ततोऽप्य् अधिका अभूद् इति भावः । इदम् एकं चित्रम् ।
तथा यत् यस्य विद्विषः कंसादयः, स्निग्धा गोप्य्-आदयश् च स्वरूपं क्रमेण सायुज्यं प्रापुः । तदीय-श्री-विग्रहश् च सम्भोक्तुं प्रापुः । इदं द्वितीयं चित्रम् ।
यद्-अर्थे यस्याः कृपा-लव-प्राप्त्य्-अर्थम् अन्येषां ब्रह्मादीनां परिचारकाणां यत्नः । सा श्रीर् अजित-जयाभावस् तत्-परा एव अभूत् । बहु-तपोभिर् अपि व्रज-स्त्री-श्रेणिर् इव यत्, यं जेतुं वशीकृत्य रासादिभिः रमयितुं न शशाकेत्य् अर्थः । इदं तृतीयं चित्रम्
यत् यस्य नाम कृष्णेति द्व्य्-अक्षरं नारायणादि-निखिल-तद्-अंश-नामोत्कृष्टम् अमङ्गलम् अविद्या-पर्यन्तं हन्तीति, तत् श्रुतं अविशेषेण सर्व-साधन-फलोत्कर्षेण मथ्नातीति स्वीय-एसर्वोत्कर्षेण सर्व-साधन-फलोत्कर्षेण मथ्नातीति स्वीय-सर्वोत्कर्षेण विलोडयति, श्रुतम् अथ गदितं यस्य तत् नारायणादि-निखिल-तद्-अंश-नामोत्कृष्टाम् इत्य् अर्थः ।
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ इति ब्रह्माण्ड-पुराणोक्तम् ।
इदं चतुर्थं चित्रम् ।
गां सर्वाम् अपि पृथ्वीं त्रायते चतुर्भिर् एव पादैर् अन्तरं सर्वत्रैवाभिद्रुत्य वा पालयतीति स चासौ धर्मश् चेति, स तादृशो येनैव कृतः द्वापरान्ते त्रिपाद-हीनोऽपि धर्मो येन चतुष्पाद् एव कृत इत्य् अर्थः । चतुर्भिर् वर्तसे येन पादैर् लोक-सुखावहैः [भा।पु। १.१६.२७] इति पृथिव्य्-उक्तेः । इदं पञ्चमं चित्रं विस्मयावहं वैलक्षण्यं तस्य कृष्णस्य । तत् क्षिति-भर-हरणं तु न चित्रं, येनैव लोका विस्मिता भवन्तीति भावः ॥४७॥
॥ १०.९०.४८ ॥
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यत एवं-भूतः श्री-कृष्णस् ततः स एव सर्वोत्तम इत्य् आह—जयतीति । जनानां जीवानां यो निवास आश्रयः, तेषु वा निवसत्य् अन्तर्यामितया तथा स कृष्णो जयति । देवक्यां जन्मेति वाद-मात्रं यस्य सः । वस्तुतोऽजन्मा । यदु-वराः परिषत् सभा सेवक-रूपा यस्य । इच्छा-मात्रेण निरसन-समर्थोऽपि क्रीडार्थं दोर्भिर् अधर्मम् अस्यन् क्षिपन् । स्थिर-चर-वृजिन-घ्नोऽधिकारि-विशेषानपेक्षम् एव वृन्दावन-गत-तरु-तृण-लतादीनां संसार-दुःख-हन्ता । तथा विलास-वैदग्ध्यानपेक्षं व्रज-वनितानां पुर-वनितानां च सु-स्मितेन शोभन-हास्य-युतेन श्रीमता मुखेनैव काम-देवं वर्धयन् । कामश् चासौ दीव्यति विजिगीषति संसारम् इति देवस् तम् । भोग-द्वारा मोक्ष-प्रदम् इत्य् अर्थः ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-भूतः तीर्थं चक्रे [भा।पु। १०.९०.४७] इत्य्-आदि-पद्य-प्रतिपादित-वैभवैक-देशो यतस् ततो हेतोः, स एव श्री-कृष्ण एव आश्रयोऽधिष्ठानम् । अधिष्ठानत्वं तु पृथिव्य्-आदेर् अप्य् अस्तीत्य् अत आह—तेषु जीवेषु । वाद-मात्रं न वस्तुतः, न जायते म्रियते वा [गीता २.२०] इति स्मृतेः । यद्यपि वृक्षादि-योनिमतः संसृति-निवृत्ताव् अधिकारो नास्ति, तथापि परम-दयालोः श्री-कृष्णस्य न तद्-अपेक्षेत्य् आह—अधिकारि-विशेषेति । तथैव विलासे वैदग्ध्यं दाक्षिण्यं नापेक्षते यत्र तत् तथेति । इत्य् अर्थ इति—वर्धयन्न् अतीवोद्दीपयन्न् इति । तथा च तासाम् अतीव भोगान् सम्पादयंस् तेषु च विरक्ति-द्वारा मोक्षं सम्पादयामास ।
विरज्येत तथा चित्तं कामानाम् अतिसेवया । [भा।पु। ७.११.३४]
पुंसोऽयं संसृतेर् हेतुर् असन्तोषोऽर्थ-कामयोः । [भा।पु। ८.१९.२५]
न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति ॥ [भा।पु। ११.८.२९] इत्य्-आद्य्-उक्तेर् इति भावः ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतः श्री-कृष्णो नाम पदार्थः सर्वोत्कृष्ट एवेत्य् आह—जयतीत्य्-आदि । जना जन-मनांसि, तेषां निवास आश्रयः । अथवा, जननी यशोदा तस्यां तद्-अङ्के वासो यस्य । देवक्यां जन्मेति वादः प्रसिद्धि-मात्रं यस्य, वस्तुतस् तु अज एव न कस्यापि गर्भोद्भवः । यदु-वरा एव परिषत् सभा यस्य । यद् वा, यदुभ्यो वरास् तेभ्योऽपि श्रेष्ठा गोपाल-बालाः, त एव परिषद् यस्य । स्वैर् दोर्भिर् इति बाहु-चरणं चतुर्-भुजत्व-परम् । व्रज-पुर-वनितानां व्रज-वनितानां पुर-वनितानां च काम-देवं वर्धयन् जयति सर्वोत्कर्षेण वर्तते
यद् वा, कामोऽभिलाषः, स एव देवः सर्व-विजिगीषा-शालित्वात् । अतो वर्तमानो शतृ-प्रत्ययात् पुर-व्रजयोर् वनितानाम् एव युगपद् एवाभिलाष-पूरकत्वेन श्री-वृन्दावन-लक्षणा-द्वारका-लीलयोर् अपि वर्तमानता । तथा च नित्यत्वं लीलयोः स्वस्य च व्यापकत्वम् उपपन्नम् ॥४८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी)15: एवं श्री-परीक्षिन् महाराजः सामान्य-विशेषाभ्यां सर्वेषां गोकुल-वासिनां माहात्म्यं गीत्वा तत्-तत्-पर्यवानाशयः श्री-भगवन्-माहात्म्यम् अन्ते मङ्गलाचरणत्वेन गायन् निज-गुरु-श्री-शुक-देववद् एवोपसंहरति । भगवान् श्री-शुकदेवो हि श्री-दशम-स्कन्धोक्तं श्री-कृष्ण-चरितामृत-महा-सागरं लावणार्णवम् अगस्त्य इव गण्डूषीकृत्य पातुम् इच्छन्न् एकेनैव श्लोकेन विचित्र-ग्रन्थ-कर्त्र्-उक्ता निखिला एव तदीया लीलाः समासात् प्रस्तुतोपसंहारत्वेन शेषे जगाद—जयतीति ।
पूर्व-श्लोकस्थ-कृष्णस्येति-पदस्य विभक्ति-विपरिणामेन कृष्ण इति सम्बध्यते, प्रकरण-बलाद् वा स्वयम् एवान्वेति । कृष्णो जयति, सर्वोत्कर्षेण वर्तते । उत्कर्षम् एव पूर्वोद्दिष्ट-स्तुति-क्रम-रीत्या यथोत्तरम् आधिक्येन वर्णयति—जन-निवास इत्य्-आदि-विशेषणैः षड्भिः । जनानां जीवानां निवास आश्रय आधार इति । तथा जनेष्व् अन्तर्यामितया निवसतीति, तथा जनेषु स्व-भक्तेषु नितराम् अन्तः साक्षाद् इव बहिश् च प्रकटतया नानावतार-रूपेण वासो यस्येति पर-ब्रह्मत्वं परमात्मत्वं सर्वेश्वरत्वं सर्वावतार-बीजत्वं चोक्तम् । तत्-तन्-निजैश्वर्यातिशय-चरम-काष्ठा-साक्षात्-प्रकटनाय च देवक्यां जन्म-वादश् च तादृश-स्व-जन्म-कारण-गोकुल-नयनादि-सम्बन्धि-वचनं यस्य पितृ-मातृ-प्रतिस्तुतिः, तथा स्व-जन्म-कारण-पूर्व-वृत्त-कथनेन वरद-राट्त्वादि-परम-कारुण्य-महिमा गोकुल-नयनोपदेशेन च परम-प्रेम-सम्पद्-विस्तारण-परता सूचिता ।
पारमैश्वर्य-चरम-काष्ठा-रूपताम् एव प्रपञ्च्य दर्शयति—यदु-वरा परिषत् सभा सेवक-रूपा यस्येति श्री-यादवेन्द्रत्वेन यदु-कुल-द्वेष्टृ-कंस-जरासन्ध-दुष्ट-वधेन स्वीयानां दुःख-हानि-सुख-प्राप्ति-कारितया परम-कारुण्यम् ।
यद् वा, यदु-वरस्य यदु-राजस्योग्रसेनस्य परिषत् सुधर्माख्या देव-सभा । उपलक्षणम् एतत् । पारिजातादयोऽपि देव-भोग्याः पदार्थाः यस्माद् इति सर्व-देवता-जय-प्रस्तावेन पारमैश्वर्य-महिमा । तथा स्व-स्वीय-द्वेष्टृ-कंस-पितुर् उग्रसेनस्य राज्य-सभा-दानादिना परम-कारुण्य-महिमा सूचितः ।
इच्छा-मात्रेणाशेषाधर्म-तद्-धेतु-निरसन-समर्थोऽपि निज-भक्त-जन-विनोद-क्रीडार्थं स्वैर् असाधारणैः सुवृत्तत्व-पृथुत्वायत्तत्वादि-शुभ-लक्षण-परमोत्तमाङ्गदालङ्कार-सुदर्शनाद्य्-आयुध-वर-सुन्दरतरैश् चतुर्भिर् दोर्भिर् धर्म-प्रतिपक्षासुरादि-मारणेनाधर्मं निरस्यन् विनाशयन् । श्री-हरिवंशोक्त-बाण-युद्ध इव युद्धादि-समये केषांचिन् निज-भक्तानां हर्षाय लीलया श्री-भुज-चतुष्टय-प्रकटनाभिप्रायेण दोर्भिर् इत्य् उक्तम् ।
यद् वा, स्वैः स्वीयैः पाण्डवैर् दोर्भिर् इव दोर्भिः सहाय-करत्वेन स्व-बाहुज-क्षत्रियत्वेन वा पाप-हेतु-दुष्ट-जन-घातनेन्आधर्मम् एव निरस्यन् । यद्यपि जरासन्धादीनां दुष्ट-राजन्यानां वधे स्वयम् एवेच्छा-मात्रेण समर्थः, तथापि भक्त-वात्सल्येन स्व-यशोऽपि तेष्व् अर्पयितुं तथा कुर्वन्न् इति परम-भक्त-वात्सल्यम् ।
एवं श्री-मधुपुरी-द्वार्वत्योः कृत्यं क्रीडां गोकुल-क्रीडातः पश्चाद्-भाविनीम् अपि स्तुति-क्रम-निर्वाहेणोत्तरत्र पूर्वोत्कर्ष-वर्णनार्थं प्रथमम् एव वर्णयित्वा तम् एव परमोत्कर्षं निज-भक्ति-प्रेम-भर-विस्तारण-मयं गोकुल-क्रीडा-रूपं दर्शयति—स्थिरेत्य् उत्तरार्धेन ।
तत्रादौ सर्वत्रैव प्रेम-भक्ति-प्रदानादि-परमौदार्यम् आह—स्थिराणां वृन्दावनादि-वर्तिनां तरु-गुल्म-लतादीनां चराणां च कीतादीनाम् अधिकारानपेक्षयैव वृजिनं संसार-दुःखं निज-प्रेम-भक्ति-प्रदानेन हन्तीति तथा सः ।
यद् वा, मुमुक्षूणां स्वर्गादि-सुखवद् भक्तानां मोक्ष-सुखम् अपि विघ्नतया दुःख एव पर्यवस्यति, तद्-आदिकम् अखिलम् एव वृजिनं दुःखं सहज-भक्तिमतां वृन्दावनादि-व्रज-वासिनां चराचराणां प्रेम-भक्ति-विस्तारणेनायत्नाद् एव हन्तीति । यद्यपि तदानीं सर्वत्र निज-प्रेम-भक्ति-विस्तारणेन त्रिलोकी-स्थितानाम् एव चराचराणां पाकार्थ-प्रज्वलिताग्नेस् तमः-शीतादि-निरसनवद् भक्तेर् अवान्तर-फलत्वेन संसार-दुःखं, स्व-भक्ति-पराणां च विचित्र-महा-सिद्धिवद् उपस्थितं मोक्षम् अपि प्रेम-सम्पद्-अन्तरायतया निराकृतवान्, तथापि गो-पालनादि-लीलया विशेषतो वृन्दावनादि-व्रज-भूर्-वर्तिनाम् इति गोकुल-क्रीडा-मध्ये विशेषणम् इदं निर्दिष्टम् ।
इदाणीं तत्रैव परमाद्भुत-सौन्दर्य-माधुर्य-वैदग्ध्यादि-प्रकटनेन परमान्त्य-सीमा-प्राप्तं महिमा-विशेषं वर्णयति—सुस्मित- इति । व्रज एव पूर्ववत् पुरं विचित्र-विलास-वैदग्ध्यातिशयाकरत्वात् । तस्य निजानां वनितानां गोपीनां सुस्मितेन वेण्व्-आदि-श्री-युक्तेन श्री-मुखेन एव । काम-देवं, कामश् चासौ दिव्यति विजिगीषति संसारम् इति मोक्षादेर् अप्य् उपरि द्योतत इति वा देवश् च, तं वर्धयन् अत्यन्तम् उत्पादयन् ।
अयम् अर्थः—यः कामः सर्वार्थ-घातकत्वेन प्रसिद्धः, स एव गोपीनां संसारं ध्वंसयति, श्री-कृष्ण-चरणारविन्द-वशीकरणेन च मुक्तेर् भक्तेर् अपि फल-रूपोऽभूत् । तं च प्रतिक्षण-नूतनत्वेन परमां काष्ठां प्रापयन्न् इति ।
यद् वा, नाना-विध-कामेषु मध्ये श्री-भगवद्-विषयकः कामः परम-प्रेम-परिणति-स्वरूपतयात्यन्त-श्रैष्ठ्याद् देवः, तम् ।
यद् वा, दिव्यतेः क्रीडार्थकस्य प्रयोगाद् देवनं देवः क्रीडा, तदा च श्री-मुखेन इति विशेषणे तृतीया, तेन विशिष्ट-निज-सौन्दर्य-मङ्गलादि-भरं प्रकटयन् संस् तासां काम-क्रीडां सम्भोगादि-लक्षणां विस्तारयन् इत्य् अर्थः ।
सा हि तासां श्री-नन्द-किशोरेण निज-श्री-मुखारविन्दादि-शोभा-शक्त्या निज-सुख-विशेषार्थं सम्पाद्यमाना तुच्छीकृत-चतुर्-वर्गिकाया भक्तेः फल-रूपायाः परम-प्रेम-सम्पदश् च परम-काष्ठायाः परिणतिर् इति । अतस् तद्-धेतुत्वेनात्रैव सुस्मित-श्रीमुखेन इति सौन्दर्य-माधुर्य-वैदग्ध्यादि-परम-महिमापि श्री-भगवतोऽखिल-पारमैश्वर्यातिशय-प्रकटन-रूपो निर्दिष्टः ।
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम्
वर्धयन्न् इत्य्-आदि वर्तमान-निर्देशेन च विक्रीडयाञ्चति [भा।पु। १०.४४.१३]16 इत्य्-आदिर् उत्तरत्र तत्र सदैव भगवतः प्राकट्येन तत्-तल्-लीला बोध्यते । अत्र च मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः [भा।पु। १०.१.२८] इत्य्-आदि-वचन-जातं तदैकान्त-भक्तानुभवश् च प्रमाणम् ।
यदि च पुर-शब्देन श्री-मथुरादिकम् अभिधीयते, तदा व्रज-वनितानां पुर-वनितानां च कामदेवं वर्धयन्न् इति मथुरा-पुर्यादि-गमनेन गोपीनाम् एवान्त्य-विरह-दुःख-भरस्य सूचनम् । तेन च तासाम् एव परम-प्रेम-चरम-काष्ठा-सम्पादनं, तद्-अभिप्रायेण च गोकुल-क्रीडायाम् एव तद्-वर्णनम् एव पर्यवसायितव्यम् । अन्यत् समानम् ।
एतच् चोक्तं भवति—यः सर्व-जीवेषु परमात्मतया चित्ते वसति, स देवक्यां पुत्रत्वेन जठरे स्थितः । तत्र च केवलं तेष्व् अन्तर्यामितया निवास एव, अनया च सह सम्भाषणादिकम् अपि । किं च, यस्य यदु-वरा यादव-कुल-श्रेष्ठा महा-वीर-वराः सेवक-रूपाः, त एव हि सर्वाधर्म-तद्-धेतु-जात-निरसने समर्था इत्य् अर्थः । तथापि स्वैः स्वकीयैर् दोर्भिर् एव अधर्मं निरस्यति, तद्-धेतु-दुष्ट-राजन्यादिकं हन्ति । किं च, यः किल स्थिर-चराणां सर्वेषाम् अपि वृजिनं पापं हन्ति, स पर-स्त्रीणां गोप्य्-आदीनां जारत्वेन काम-विशेषं वर्धयति, परम-वृजिनं विस्तारयतीत्य् अर्थः । न च तास् तत्रापराध्यन्तीत्य् आह—सुस्मितेन निज-श्री-मुखेनैवेति । एवं विरोधोक्त्या पूर्वोक्तानुसारेण परम-भक्त-वात्सल्यादि-युक्त्या महोत्कर्ष-भर एव सिध्यतीति दिक् ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तस्य सर्वोत्कृष्टत्वं श्रुत्वा सुखं प्राप्नुवतोऽपि श्रोतॄंस् तद्-अवस्थत्वम् अतीतम् इवाशङ्क्य म्लायतः स्वानुभावेन सान्त्वयन्न् आह—जयति इति ।
देवक्यां जन्म जनन-लीलानुकरणेन प्रादुर्भावो वादस् तत्त्व-बुभुत्सुतया न तु छल-जात्य्-आदि-रूपा यस्य । यद् वा, देवक्यां जन्मनो वादः ख्यातिः, नन्दस् त्व् आत्मज उत्पन्न [भा।पु। १०.५.१] इत्य् अत्र व्याख्यात-रीत्या तु श्री-यशोदायाम् अपि तर्क्यं जन्म यस्येत्य् अर्थः ।
स प्रसिद्धः श्री-कृष्णो जयति । सर्व-देव-स्वरूप-रूप-गुण-लीला-परिकर-स्थान-गतेन सर्वोत्कर्षेण विराजते । अत्र च लोड्-अर्थत्वं न सम्भवति । सदोत्कृष्टता-पराकाष्ठा-महिष्ठे श्री-भगवति तद्-विज्ञानां तादृशानाम् आशीर्वादायोगात् । यदि वा तद्-योगः कथञ्चित् कल्प्यः, तथाप्य् आशीर्वाद-विषयस्य स-विशेषणस्य तस्य तद् अपि तथैवावस्थिति-प्राप्तेर् विवक्षितार्थ एव लभ्येत । "धार्मिक-सभ्यादि-सम्पन्नो विष्णु-मित्रो वर्धताम्" इतिवत् ।
अथ कथं-भूतः सन् जयति ? इत्य् अपेक्षायां विशेषणानि वदन् परिकर-विशिष्टतयाह—तेन च तादृश-तन्-नित्य-जये विद्वत्-प्रत्यक्ष-लक्षणं प्रमाणम् अप्य् आह—जनेषु सालोक्य- [भा।पु। ३.२९.१३]17 इत्य्-आदि-पद्ये जना इतिवत् तदीयेष्व् अन्तरङ्गेषु श्री-यादव-गोपादिषु साक्षान् निवासोऽन्येषु च तत्-स्फूर्ति-रूपो यस्य सः ।\
तत्र चान्यार्थतां परिहरंस् तस्मिन् जये विवृत्यैव तैर् जनैः विशिष्टताम् आह—यदु-वर- इत्य्-आदिना । तत्रान्तराङ्गैर् विशिनष्टि—यदु-वराः क्षत्रिया गोपाश् च । परिषत् सभा-रूपा यस्य सः । बहिरङ्गैश् च विशिनष्टि—स्वे भक्त-जना एव दोषो भुजा इव भुजाः, तैर् अधर्मम् एतादृशार्थं नास्तिक्यादिकं जगति च आस्यन् दूरीकुर्वन्, अतस् तत्-तत्-सम्बन्धेन स्थिर-चराणाम् अन्तरङ्गाणां स्व-वियोग-दुःख-हन्ता बहिरङ्गाणां संसार-हन्तापि सन्
अथ तत्रापि परमान्तरङ्गैर् विशिनष्टि—सुस्मितेन इति । शोभनं
स्मितं तद्-उपलक्षित-प्रसाद-विलासादिकं यत्र, तेन स्वभावत एव
श्री-युक्तेन च मुखेनैव प्राधान्यतः प्रथमोक्तानां
व्रज-वनितानां तद्-अनन्तराणां पुर-वनितानां
जनितात्यर्थानुरागाणां तासां योषितां यः कामः, स एव दीव्यति
परम-प्रेम-रूपत्वात् सर्वतोऽपि विराजतीति देवः, तं वर्धयन्
सदैवोद्दीपयन् इति स्वरूप-गुण-लीला-स्थान-विशिष्टतापि दर्शिता ।
तद् एवं सर्वस्यापि विशेषणस्य विधेयेन जयत्य्-अर्थेनानुगतत्वात् तादृशोऽसौ स्वयम् एव तादृशैः परिकरैः सह तादृश-विलासादि-विशिष्टो व्रजे पुर-द्वये च सदा सर्वोत्कर्षेण विराजत एवेति स्थितम् । युक्तम् एव च तत् स्वयं भगवत्त्वात् । आगन्तुक-तादृशत्वे स्वयं भगवत्त्व-हानेः । तस्माद् अविचारेणैवास्य कानिचिद् वचनानि प्रतिकूलायन्ते । वस्तुतस् तु अनुकूलान्य् एव तत्र दशम-स्कन्धस्य तत्र तत्र व्याख्यातान्य् एव ।
तत्-स्वरूप-नित्यत्वे प्रथम-स्कन्धस्य ययाहरद् भारम् [भा।पु। १.१५.३४]18 इत्य्-आदि-द्वयं तु यथा तनु-रूप-कलेवर-शब्दा भाव-वाचिन एव । यथा तृतीय-स्कन्धे विसर्ग-प्रसङ्गे ब्रह्मणि तत्-पर्याय-शब्दस्य एवार्थः स्वीकृतः अनुपपत्तेः । तत्र यदि सा तर्हि कथं स्वयं भगवति न स्यात् ? स च भावोऽत्र भू-भार-जिहीर्षा-लक्षणः माया-कार्य-सम्बन्धित्वात् तद्-आभास एव च ततः साम्ये कण्टक-दृष्टान्तत्वं सुसङ्गतम् एव । नट-दृष्टान्तत्वं च श्रव्य-रूपकाभिर् नेतुर् नटस्य स्वरूप-वेषाभ्याम् एव स्थितस्य तत्-तद्-भावाभास-स्वीकार-परित्याग-मात्राभ्याम् इति । एवम् अन्यत्राप्य् आकृति-देह-शब्दौ व्याख्येयौ ।
अथवा त्याग-स्वीकारौ नामान्तर्-धापनाविर्भावने एव, यथा श्री-मध्वाचार्य-धृतं तन्त्र-भागवत-वचनं पूर्वम् उदाहृतम्—
अहेयम् अनुपादेयं तद्-रूपं नित्यम् अव्ययम् ।
स एवापेक्ष्य-रूपाणां व्यक्तिम् एव जनार्दनः ॥
अगृह्णाद् व्यसृजच् चेति कृष्ण-रामादिकां तनुम् ।
पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥ इति ।
एवं प्रथमस्य द्वादशे विधूय19 [भा।पु। १.१२.११] इत्य्-आदि पद्ये स्वामिभिर् अप्य् उक्तं यत्र दृष्टस् तत्रैवान्तर्हितः, न त्व् अन्यत्र गतः । यतो विभुः सर्वत इति । अत एव तृतीये—
प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।
आदायान्तरधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भा।पु। ३.२.११] इति ।
अत्रापि लोक-लोचन-रूपं स्व-बिम्बं निज-मूर्तिं प्रदर्श्य पुनर् आदायैव चान्तरदधात् । न तु त्यक्त्वेत्य् उक्तम् । यथा मत्स्यादि-रूपाणीत्य् अनन्तरम् अपि तथोक्तम्—
यदा मुकुन्दो भगवान् इमां महीम्
जहौ स्व-तन्वा श्रवणीय-सत्-कथः ।
तदाहर् एवाप्रतिबुद्ध-चेतसाम्
अभद्र-हेतुः कलिर् अन्ववर्तत ॥ [भा।पु। १.१५.३६] इति ।
त्यागोऽत्र स्व-तनु-करणक इति सर्वान्ते तल्-लोक-भगनं च सर्वांशम् आकृष्यावतीर्णस्य तस्य तत्-तद्-अंशेनैव तथैकादश-स्कन्धस्य लोकाभिरामाम्20 [भा।पु। ११.३१.६] इत्य्-आदिकं स-युक्तिकं टीका-कृद्भिर् एव व्याख्यातम् ।
अथात्रानुकूल-वचनानि तत्र सर्वावतार-गतानि । यथा नृसिंह-पुराणे—युगे युगे विष्णुर् अनादि-मूर्तिम् आस्थाय शिष्टं परिपाति दुष्टहा इति । अत एव तत्-तद्-आराधनं शास्त्रं च मिथ्या न स्यात् । तत एव च जलेषु मां रक्षतु मत्स्य-मूर्तिः [भा।पु। ६.८.१३] इत्य्-आदि श्री-नारायण-वर्मादौ । तथा नित्यत्व एव शालग्राम-शिलादिषु नरसिंहत्वादि-भेदः सङ्गच्छते । तत्-तत्-सान्निध्याद् एव हि तत्-तद्-भेदः ।
श्रूयते चैवं नवस्व् अपि वर्षेषु साक्षात्-तत्-तद्-उपासनादि यथोक्तं—नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते [भा।पु। ५.१७.१४] इति ।
श्री-प्रद्युम्नादीनां नति-विलासादिकं च तत्र तत्र वर्णितम् । तत्र श्री-प्रद्युम्नस्य तावद् दृश्यते—
अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् [भा।पु। ५.१८.१६] इत्य्-आदि च ।
अत एवोक्तं तत्र तत्र सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्य [भा।पु। ५.१७.१६] इति । ब्राह्म-पाद्मोत्तर-खण्डादौ श्रीमत्स्यादीनां वैकुण्ठे पृथक् पृथक् लोकाश् च श्रूयन्ते । तथा मध्व-भाष्य-प्रमाणिता श्रुतिश् च—
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं, मत्स्यः कूर्मो वराहो नृसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं, शतधाहं सहस्रधाहम् अमितोऽहम् अनन्तोऽहम् । नैवैते जायन्ते नैतेषाम् अनुज्ञान-बन्धो, न मुक्तिः । सर्व एव ह्य् एते पूर्णा अजरा अमृताः परमाः परमानन्दाः इति ।
अथ विशेषतः श्री-कृष्ण-गतानि यथा तत्रैकादशान्ते धारणा-ध्यान-मङ्गलम् [भा।पु। ११.३१.६] इत्य् अत्र च श्री-स्वामिभिर् व्याख्यातम्—धारणाया ध्यानस्य च मङ्गलं शोभनं विषयम्, इतरथा तयोर् निर्विषयत्वम् । दृश्यते चाद्याप्य् उपासकानां साक्षात्कारस् तत्-फल-प्राप्तिश् चेति ।
तथा च त्रैलोक्य-संमोहन-तन्त्रे श्रीमद्-अष्टादशाक्षर-प्रसङ्गे—
अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
एवं गौतमीये च सदाचार-प्रसङ्गे—
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
वृन्दावने वसेद् धीमान् यावत् कृष्णस्य दर्शनम् इति च । तथा च श्री-कृष्ण-सहस्र-नाम-प्रारम्भे—
तस्य हृष्टाशयः स्तुत्या विष्णुर् गोपाङ्गनावृतः ।
तापिञ्छ-श्यामलं रूपं पिञ्छोत्तंसम् अदर्शयत् ॥ [वि।ध।उ।] इति ।
अग्रे च तद्-वाक्यम्—
माम् अवेहि महाभाग कृष्णं कृत्य-विदां वर ।
पुरस्कृतोऽस्मि त्वद्-भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति ।
तथा पाद्मे निर्माण-खण्डे—पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् इति श्री-भगवद्-वाक्यानन्तरं ब्रह्म-वाक्यम्—
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥
कदम्ब-मूल आसीनं पीत-वाससम् अद्भुतम् ।
वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् ॥ इत्य्-आदि ।
श्री-गोपाल-तापनी चैवम्—तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव ॥ [गो।ता।उ। १.२९] इति सिद्ध-निर्देशोऽपि श्रूयते । बृहन्-नारदीय-मङ्गलाचरणे—वन्दे वृन्दावनासीनम् इन्दिरानन्द-मन्दिरम् [ना।पु। १.१.१] इति ।
स्कान्द-द्वारका-माहात्म्ये श्री-बलिं प्रति प्रह्लाद-वाक्ये—
गृहे सन्तिष्ठते यस्य माहात्म्यं दैत्य-नायक ।
द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च ।
रुक्मिणी-सहितः कृष्णो नित्यं निवसते गृहे ॥ इति ।
पाद्मे कार्तिक-माहात्म्ये तत् प्रातः-स्नानार्घ्य-मन्त्रे—
व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन् मम ।
गृहाणार्घ्यं मया दत्तं दनुजेन्द्र-निषूदन ॥ [प।पु। ६.९३.२४] इति ।
एवं नाना मन्त्रा अपि तथैव तं साक्षान् निर्दिशन्ति । अत एव गोपाल-तापिन्यां—गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं तोषयामि [गो।ता।उ। १.३७] इति ।
तद् एवम् अभिप्रेत्य श्री-शुकदेवोऽपि निजाभीष्ट-दैवतत्वेनाह—
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भा।पु। २.४.२०] इति ।
प्रीयान् न इन्द्रो गवाम् [भा।पु। १०.२६.२५] इति च । श्रीमन्-नराकृतिम् एवाधिकृतस्य नारायण-वर्मण्य् अप्य् आह—मां केशवो गदया प्रातर् अव्याद्, गोविन्द आसङ्गव आत्त-वेणुः [भा।पु। ८.९.२०] इति ।
एवं श्रीमन्-नराकारे वा येषां वा भ्रान्तिः, सा तेषाम् अपि निरस्ता । यथोक्तम्—
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अहो व्रजौकसाम् ॥ [भा।पु। १०.१२.१२] इति ।
एवं, न चान्तर् न बहिर् यस्य [भा।पु। १०.९.१३] इत्य्-आदि, नौमीड्य ते [भा।पु। १०.१४.१] इत्य्-आदि, सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता [भा।पु। १०.१२.३९]21 इत्य्-आदि, अहो भाग्यम् अहो भाग्यम् [भा।पु। १०.१४.३६] इत्य्-आदि च । श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे श्रीमन्-नराकृतित्वम् एवाधिकृत्य—
नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः ।
नव-नीत-विलिप्ताङ्गी नव-नीत-नटोऽनघ ॥ इति ।
श्री-गोपाल-तापिन्याम् अपि—
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [गो।ता।उ। १.२०] इति ।
विषयश् चोक्तः—गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं [भा।पु। १०.४४.१४] इत्य्-आदौ । तथा च पाद्म-निर्माण22-खण्डे श्री-वेद-व्यास-वाक्यम्—
दृष्ट्वातिहृष्टो ह्य् अभवं सर्व-भूषण-भूषणम् ।
गोपालम् अबला-सङ्गे मुदितं वेणु-वादिनम् ॥
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्म-पलाशाक्षं नातः परतरं मम ॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥ [प।पु। ५.७३.२३-२६] इत्य्-आदि ।
अथ तस्य मानसानां शरीराणां च गुणानां स्वाभाविकत्वम् अव्यभिचारित्वं चोक्तं प्रथमे—सत्यं शौचं दया क्षान्तिः [भा।पु। १.१६.२७] इत्य्-आदिना,
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भा।पु। १.१६.३१] इत्य् अन्तेन ।
अथ तत्-परिकर-नित्यत्वे प्रतिकूलायमानानि यथार्थं व्याख्यायन्ते । तत्र देवावतरण-वाक्यम् एकदेश-प्रस्तावमयम् इति पूर्व-पूर्वाद-शतम् अस्ति । मौशलादिकं च ब्रह्म-शाप-मर्यादा-रक्षार्थं मायिकम् एव । आह स्म च तदानीम् एव दारुकम् इति श्री-भगवान्—
त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः ।
मन्-माया-रचिताम् एतां विज्ञायोपशमं व्रज ॥ [भा।पु। ११.३०.४९] इति ।
अस्यार्थः [कृष्ण-सन्दर्भ १२३]—त्वं तु दारुको ज्ञान-निष्ठो मदीय-लीला-तत्त्वज्ञः, मद्-धर्मं मम स्वभक्त-प्रतिपालयितृत्व-रूपं स्व-तुल्य-परिकर-सङ्गित्व-रूपं च स्वभावम् आस्थाय विश्रभ्य, एताम् अधुना प्रकाशितां सर्वाम् एव मौषलादि-लीलां मम माययैव इन्द्र-जालवद् रचितां विज्ञाय उपेक्षको बहिर्-दृष्ट्या जातं शोकम् उपेक्षमाण उपशमं चित्त-क्षोभात् निवृत्तिं व्रज इति ।
अत्र दारुकस्य स्वयम् एव तल्-लोकाद् अवतीर्णत्वेन सिद्धत्वाद् एताम् इत्य् अत्राति-सन्निहितार्थ-लाभाच् चान्यथा-व्याख्यानम् एव प्रथम-प्रतीत्य्-अविषय इति विवेक्तव्यम् ।
तथा चैकादशान्ते पद्य-त्रयम् । तत्र प्रथमं, यथा—
राजन् परस्य तनु-भृज्-जननाप्ययेहा
माया-विडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते
संहृत्य चात्म-महिमोपरतः स आस्ते ॥ [भा।पु। ११.३१.११] इति ।
अस्यार्थः [कृष्ण-सन्दर्भ १२४]—परस्य श्री-कृष्णस्य तनु-भृतः पार्षदा यादवादयः, तेषां जननाप्यय-रूपा ईहाश् चेष्टाः केवलं परस्यैव मायया विडम्बनम् अनुकरणम् एव अवेहि । यथेन्द्रजाल-विद्या-वेत्ता नटः कश्चिज् जीवत एव मारयित्वेव पुनश् च तद्-देहं जनयित्वेव दर्शयति, तस्येव विश्व-सर्गादि-हेत्व्-अचिन्त्य-शक्तेस् तस्य तादृश-शक्तित्वं न च चित्रम् इत्य् आह—सृष्ट्वेति ।
एवम् एव दृश्यते चाद्याप्य् उपासकानाम् इत्य्-आदि तद्-व्याख्यानं सुसङ्गच्छते । तत्-परिकरेणैव सार्धं तेषु तत्-सत्कार इति । एवं सति श्री-सङ्कर्षणादौ मुग्धानाम् अन्यथा हेतूदाहरणाभासः सुतराम् एव मायिकः ।
स्कान्दायोध्या-खण्डे श्री-लक्ष्मणस्यापि तादृशत्वं न सम्प्रतिपन्नम् । तथा हि तद्-अन्तिम-दशानुकरण-लीलायां—
ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्य च स पश्यतः ॥
इन्द्र उवाच—
लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् ।
देव-कार्यं कृतं वीर त्वया रिपु-निसूदन ॥
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्-मूर्तिः समायाता शेषोऽपि बिल-सत्-फणः ॥ इत्य्-आदि ।
ततश् च—
इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः ।
शेषं प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् ॥
लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥ इति ।
अत एव जरासन्ध-वाक्ये—तव राम यदि श्रद्धा [भा।पु। १०.५०.१९] इत्य् अत्र श्री-स्वामिभिर् अपीत्थं वास्तवार्थो व्यञ्जितः—अच्छेद्य-देहोऽसाव् इति स्वयम् एव मत्वा अपरितोषात् पक्षान्तरम् आह—यद् वा, मां जहीति ।
अथ द्वितीयं, यथा—अप्राकृतानां तेषां तन् न सम्भवतीत्य् आस्तां, श्री-कृष्ण-पाल्यत्वेनैव न सम्भवतीत्य् आह—
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं
त्वां चानयच् छरण-दः परमास्त्र-दग्धम् ।
जिग्येऽन्तकान्तकम् अपीशम् असाव् अनीशः
किं स्वानने स्वर् अनयन् मृगयुं स-देहम् ॥ [भा।पु। ११.३१.१२] इति ।
अस्यार्थः [कृष्ण-सन्दर्भ १२५]—यः श्री-कृष्णो यम-लोकं गतम् अपि गुरु-सुतं गुरोर् जातेन पञ्चजन-भक्षितेन तेन मर्त्येन देहेनैव आनयत् । न च ब्रह्म-तेजसो बलवत्त्वं मन्तव्यम् । त्वां च ब्रह्म्आस्त्र-दग्धं ब्रह्मास्त्रेण दग्धुम् आरब्धं यस् तस्माद् ब्रह्मास्त्राद् आनयद् रक्षितवान् इत्य् अर्थः । किम् अन्यद् वक्तव्यम् ? यश् चान्तकानाम् अन्तकम् ईशं श्री-रुद्रम् अपि बाण-सङ्ग्रामे जितवान् । अहो यश् च तं जराख्यं मृगयुम् अपि स्वर् वैकुण्ठ-विशेषं स-शरीरम् एव प्रापितवान् । स कथं स्वानां यदूनाम् अवने ईशो न भवति ? तस्मात् तेष्व् अन्यथा-दर्शनं न तात्त्विक-लीलानुगतम् । स-शरीरं तु तेषां स्व-लोक-गमनम् अतीव युक्तम् इत्य् अर्थः ॥
अथ तृतीयं, यथा—ननु गच्छन्तु तादृश-शरीरा एवं स्वं धाम, तत्रापि स्वयं भगवान् विराजत एवेति न तेषां तद्-विरह-दुःखम् अपि । श्री-भगवांस् तु तथा-समर्थश् चेत् तर्हि कथम् अन्यांस् तादृशान् निर्माय तैः सह मर्त्य-लोकानुग्रहार्थम् अपरम् अपि कियन्तं कालं मर्त्य-लोकेऽपि प्रकटो नासीद् इत्य् अत्र सिद्धान्तयन् तेषां श्री-भगवतश् च सौहार्द-भरेणापि परस्परम् अव्यभिचारित्वम् आह—
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व्
अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् ।
नैच्छत् प्रणेतुं वपुर् अत्र शेषितं
मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ [भा।पु। ११.३१.१३] इति ।
अस्यार्थः [कृष्ण-सन्दर्भ १२६]—यद्यप्य् उक्त-प्रकारेण अशेष-स्थिति-सम्भवाप्ययेषु अनन्य-हेतुः यद् यस्मात् तद्-ऊर्ध्वम् अप्य् अनन्त-तादृश-शक्ति-धृक्, तथापि मर्त्येन लोकेन किं मम प्रयोजनम् ? इति स्व-स्थानां तद्-धाम-गतानां तेषां गतिम् एव स्वस्याभिरुचितत्वेन प्र-कृष्टां दर्शयन्न् इति ।
अतस् तेषां श्री-भगवद्वद् अन्तर्धानम् एव न त्व् अन्यद् अस्तीति श्री-भगवद्-अभिप्राय-कथनेनापि श्रीमान् उद्धव आह तृतीये—
मिथो यदैषां भविता विवादो
मध्व्-आमदाताम्र-विलोचनानाम् ।
नैषां वधोपाय इयान् अतोऽन्यो
मय्य् उद्यतेऽन्तर्दधते स्वयं स्म ॥ [भा।पु। ३.३.१५]
अस्यार्थः [कृष्ण-सन्दर्भ १२७]—एषां यदूनां यदा मिथो विवादस् तदाप्य् एषां पृथिवी-परित्याजने वध-रूप उपायो न विद्यते, किम् उतान्येन विवादने । स न स्याद् इति । तर्हि तेषां ममाभिलषिते पृथिवी-परित्याजकत्वे कतम उपायो भवेत् ? तत्र पुनः परामृशति—अतो वधाद् अन्य एव इयान् एतावान् एव उपायो वर्तते । कोऽसौ ? मयि उद्यते ममेच्छया एते स्वयम् अन्तर्दधत इति यः । स्मेति निश्चये ।
तेन कूर्म-पुराणोक्त-श्री-सीता-हरणवत् पुर-स्त्री-हरणम् अपि मायिकं ज्ञेयम् । तथैवासां विवाह-प्रसङ्गे स्वरूप-शक्तित्वं प्रमाणितम् ।
किं च, तेषु यच् चान्यच्-छस्त्राघात-मूर्च्छा-तत्त्व-बुभुत्सादिकं श्रूयते, तद् भवेद् अत इव नर-लीलौपयिकतया प्रपञ्चितम् इति क्वचिच् च प्रकट-लीलायाः प्रापञ्चिक-मिश्रत्वाद् यथार्थम् एव चैतानि वाक्यानि, यथा पाद्म-कार्त्तिक-माहात्म्ये श्री-सत्यभामां प्रति श्री-भगवद्-वाक्यम्—
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥ [प।पु। ६.८९.२२४]
पाद्मोत्तर-खण्डे—
यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥ [प।पु। ६.२२९.५७-५८] इति ।
श्री-गोपाल-तापिन्यां—
जन्म-जराभ्यां भिन्नः स्थाणुर् अयम्, अच्छेद्योऽयं, योऽसौ सौर्ये तिष्ठति, योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति [गो।ता।उ। २.२२] इत्य्-आदि ।
सौर्य इति सौर्या यमुनायास् तीरे श्री-वृन्दावने, सहस्र-नाम्नि सुयामुन [म।भा। १३.१३५.८८] इति हि तद्-भाष्ये व्याख्यातम् । अथ प्रपञ्चे प्रकटाप्रकट-रूपेण प्रकाश-भेदेन स्थितानि श्री-वृन्दावनादीन्य् एव नित्य-स्थानानीति च पूर्वोदाहरण-जातेन व्यक्तम् एवास्ति । यथोक्तं पाद्म-निर्माण-खण्डे श्री-भगवद्-वाक्यं—
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥
ममावतारो नित्योऽयम् अत्र मा संशयं कृथाः ॥ इति ।
तथा च बृहद्-गौतमीये श्री-कृष्ण उवाच—
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र मे पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति ।
यथैकादश-स्कन्धान्ते—
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ [भा।पु। ११.३१.२३-२४] इति ।
एवम् एव विष्णु-पुराणे—
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
वसुदेव-गृहं त्व् एकं नाप्लावयत सागरः ॥
नात्याक्रमत् ततो ब्रह्मंस् तद् अद्यापि महोदधिः ।
नित्यं सन्निहितस् तत्र भगवान् केशवो यतः ॥ [वि।पु। ५.३८.९-१०] इति दिक् ॥४८॥
जीव-गोस्वामी (कृष्ण-सन्दर्भः) : वृन्दावन-मथुरा-द्वारका-रूपेषु त्रिषु धामस्व् अप्य् एतद् एवोदाहरणीयम्—जयतीति । यदु-वराः परिषत् सभ्य-रूपा यस्य सः । देवकी-जन्म-वादस् तज्-जन्मत्वेन लब्ध-ख्यातिः । देवक्यां जन्मेति वादस् तत्त्व-बुभुत्सु-कथा यस्य स इति वा । श्री-कृष्णो जयति परमोत्कर्षेण सदैव विराजते । लोहितोष्णीषाः प्रचरन्तीतिवत् यदु-वर-सभ्य-विशिष्टतयैव जयाभिधानम् । अत्र यदुवर-शब्देन श्री-व्रजेश्वर-तद्-भ्रातरोऽपि गृह्यन्ते, तेषाम् अपि यदु-वंशोत्पन्नत्वेन प्रसिद्धत्वात् । तथा च भारत-तात्पर्ये श्री-मध्वाचार्यैर् एवं ब्रह्म-वाक्यत्वेन लिखितम्—
तस्मै वरः स मया सन्निसृष्टः
स चास नान्दाख्य उतास्य भार्या ।
नाम्ना यशोदा स च शूर-तात-
सुतस्य वैश्या-प्रभवस्य गोपः ॥ इति ।
शूर-तात-सुतस्य शूर-सपत्नी-मातृजस्य वैश्यायां तृतीय-वर्णायां जातस्य सकाशात् आस बभूव इत्य् अर्थः । अत एव श्रीमद्-आनकदुन्दुभिना तस्मिन् भ्रातर् इति मुहुः सम्बोधनम् अक्लिष्टार्थं भवति, भ्रातरं नन्दम् आगतम् [भा।पु। १०.५.२०] इति श्रीमन्-मुनीन्द्र-वचनं च ।
तद् एतद् अप्य् उपलक्षणं तद्-भ्रातॄणाम् । यथा स्कान्दे मथुरा-खण्डे—रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् इति । यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति च, यादवानां हितार्थाय धृतो गिरि-वरो मया इति चान्यत्र ।
यथा च यादव-मध्य-पातितत्वेनैव तेषु निर्धारण-मयं श्री-राम-वचनं श्री-हरिवंशे, यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः [ह।वं। ८३.१५] इति । सप्तम्या ह्य् अस्य जाताव् एव निर्धारणम् उच्यते, « पुरुषेषु क्षत्रियः शूरतमः » इतिवत् । विजातीयत्वे तु « श्रौघ्नेभ्यो माथुरा ह्य् आढ्यतमाः » इतिवत् यादवेभ्योऽपि सर्वेभ्यो इत्य् एवोच्यते इति ज्ञेयम् ।
अत्र जयतीत्य् अत्र लोड्-अर्थत्वं न सङ्गच्छते, सदैवोत्कर्षानन्त्यम् इति तस्मिन्न् आसीर्वादानवकाशात् । तद्-अवकाशो वा आशीर्वाद-विषयस्य तदानीम् आशीर्वादक-कृतानुवाद-विशेष-विशिष्टतयैव स्थितेर् अवगमात् प्रतिपिपादयिषितं तादृशत्वेनैव तात्कालिकत्वम् आगच्छत्य् एव । यथा « धार्मिक-सभ्योऽयं राजा वर्धताम् » इति । तद् एवं, पतिर् गतिश् चान्धक-वृष्णि-सात्वताम् [भा।पु। २.४.२०] इत्य् अत्राप्य् अनुसन्धेयम् । अनेन यदु-वराणाम् अपि तथैव जयो विवक्षितः ।
नन्व् एवं तथा विहरण-शीलश् चेत् पुनः कथम् इव देवकी-जन्म-वादोऽभूत् ? तत्राह—स्वैर् दोर्भिर् दोर्भ्यां चतुर्भिश् चतुर्भुजैर् अधर्मं तद्-बहुलम् असुर-राज-वृन्दम् अस्यन् निहन्तुं, लक्षण-हेत्वोः क्रियायाः शतृ-प्रत्यय-विधानात् । तद्-अर्थम् एव लोकेऽपि तथा प्रकटीभूत इत्य् अर्थः ।
किं वा, किं कुर्वन् जयति ? स्वैः काल-त्रय-गतैर् अपि भक्तैर् एव दोर्भिस् तद्-द्वारा अधर्मं जगद्-गत-पाप्मानम् अस्यन् नाशयन्न् एव । तद् उक्तम्—मद्-भक्ति-युक्तो भुवनं पुनाति [भा।पु। ११.१४.२४] इति ।
पुनः किम् अर्थं देवकी-जन्म-वादः ? तत्राह—स्थिर-चर-वृजिन-घ्नः निजाभिव्यक्त्या निखिल-जीवानां संसार-हन्ता, तद्-अर्थम् एवेत्य् अर्थः । तद् उक्तं यत एतद् विमुच्यते [भा।पु। १०.२९.१६] इति ।
किं वा, कथम्भूतो जयति ? व्रज-यदु-पुर-वासिनां स्थावर-जङ्गमानां निज-चरण-वियोग-दुःख-हन्ता सन् ।
नित्य-विहारे प्रमाणम् आह—जन-निवासः । जन-शब्दोऽत्र स्वजन-वाचकः । सालोक्य- [भा।पु। ३.२९.१३] इत्य्-आदि-पद्ये जना इतिवत् । स्वजन-हृदये तत्-तद्-विहारत्वेन सर्वदैवावभासमान इत्य् अर्थः । सर्व-प्रमाण-चय-चूडामणि-भूतो विद्वद्-अनुभव एवात्र प्रमाणम् इति भावः ।
स्वयं तु किं कुर्वन् जयति ? व्रज-वनितानां मथुरा-द्वारका-पुर-वनितानां च काम-लक्षणो यो देवः स्वयम् एव तद्-रूपः, तं वर्धयन् सदैवोद्दीपयन् । अत्र तदीय-हृदय-स्थ-काम-तद्-अधिदेवयोर् अभेद-विवक्षा तादृश-तद्-भावस्य तद्वद् एव परमार्थता-बोधनाय श्री-कृष्ण-स्फूर्ति-मयस्य तादृश-भावस्याप्राकृतत्वात् परमानन्द-परम-काष्ठा-रूपत्वाच् च । श्री-कृष्णस्य काम-रूपोपासना चागमे व्यक्तास्ति । वनिता जनितात्यर्थानुरागायां च योषिति इति नाम-लिङ्गानुशासनम् । व्रजेति श्रैष्ठ्येन पूर्व-निपातः । अत एव पूर्वं मेरु-देव्यां सुदेवीति संज्ञावत् देवकी-शब्देन श्री-यशोदा च व्याख्येया—
द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।
अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥ इति स्कान्द-वचनात्23 ।
तद् एवं त्रिष्व् अपि नित्य-विहारित्वं सिद्धम् ॥ [कृष्ण-सन्दर्भ ११५]
द्वारकातः समागते श्री-कृष्णे केषाञ्चिद् व्रज-वासिनाम् एव तदानीन्तनम् उल्लास-वचनं—जयतीत्य्-आदिकं श्री-शुक-मुखाद् आविर्भूतम् इति व्रजैकान्त-भक्ता व्याचक्षन्ते । अक्लेशेनैवार्थ-विशेष-स्फूर्तेः । सम्भवति च श्री-भागवतस्य विचित्रार्थत्वं, विद्वत्-काम-धेनु-रूपत्वात् । तथा हि, जयति इत्य्-आदि ।
कोऽपि सोऽयम् अस्माकं जीवन-कोटि-प्रियतमो विष्वक्-प्रचारेण श्री-वृन्दावनस्यैव विशेषतः स्थावराणां जङ्गमानां च तद्-विरहाद् यद् दुःखं तन्-निहन्ता जयति सर्वोत्कर्षेण वर्तते, अर्थाच् छ्री-वृन्दावन एव । श्री-वृन्दावनस्य स्थावराणाम् अपि भावो वर्णित एव, केवलेनैव भावेन24 [भा।पु। ११.१२.८] इत्य्-आदिना ।
केन विशिष्टः ? सुस्मितेन श्री-मुखेन । एतेन सदातनम् आनन्दैक-रसत्वं स्वेषु सदैव सुप्रसन्नत्वं च तस्य प्रकाशितम् । किं कुर्वन् ? व्रज-रूपं यत् पुरं तत्-सम्बन्धिन्यो या वनिता जनितानुरागाः कुल-वध्वस् तासां काम-देवं सर्व-प्रेमानन्दोपरि-विराजमानत्वात् तासां कामस् तु देवः परम-दिव्य-रूपस् तं वर्धयन् ।
ननु श्री-देवक्याः पुत्रोऽयम् इत्य् एवं वदन्ति, तत् कथं युस्माकम् अत्रास्मदीय-त्वेनाभिमानः ? तत्राह—देवक्यां जन्मेति वादो मिथ्यैव लोक-ख्यातिर् यस्य सः । तर्हि कथं वासुदेव इति नाम ? इत्य् आशङ्क्याह—जननिवासो जनानां स्वजनानाम् अस्माकं निवासत्वाद् आश्रयत्वाद् एव तथाभिधीयत इत्य् अर्थः । स्वजनेष्व् अस्मासु कृत-वासत्वाद् एव वा । ततश् चाधिकरणे कर्तरि वौणादिको वासुः । स च दीव्यति क्रीडतीति देवश् च स इति विग्रहः । प्राग् अयं वासुदेवस्य [भा।पु। १०.८.१४] इत्य्-आदिका श्री-गर्गोक्तिर् अपि नास्मभ्यं भातीति भावः ।
किम्-अर्थम् असौ देवकी-जन्म-वादोऽभूत् ? इत्य् आशङ्कायाम् आह—यदु-वराः परिषत् सहाय-रूपा यत्र तादृशं यथा स्यात् तथा, स्वैर् दोर्भिर् भुज-प्रायैर् अर्जुनादिभिर् अधर्मं तत्-प्रचुरं दुष्ट-कुलम् अस्यन् निहन्तुं, लक्षण-हेत्वोः, क्रियायाः शतृ-प्रत्यय-स्मरणात् । तस्याम् आत्म-जन्मनि ख्यापिते ते ते सहाया भविष्यन्तीत्य् एवम् अनुसन्धायेत्य् अर्थः । तथोक्तं कंस-वधानन्तरं श्री-कृष्णेन श्री-व्रजेश्वरं प्रति ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भा।पु। १०.४५.२३] इति । अत्र विशेषेणेनैव श्री-कृष्ण-रूप-विशेष्य-पदम् उपस्थाप्यते—अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् [सु।र।को। ९७९]25 इतिवत् ॥ [कृष्ण-सन्दर्भ १८२]
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तस्य सर्वोत्कृष्टत्वं श्रुत्वा सुखं प्राप्नुवतोऽपि श्रोतॄंस् तद्-अवस्थत्वम् अतीतम् इवाशङ्क्य श्लाघतः स्वानुभवेन सान्त्वयन्न् आह—जयतीति ॥४८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हन्त हन्तैतादृशः कृष्ण एतावत् काल-पर्यन्तं न तस्थाव् इति मा शोचेत्य् आह—जयति इति । जनेषु मनुष्येषु गोप-यादवादि-मध्येष्व् एव निवासो यस्य सः । जयति सर्वोत्कर्षेण वर्तते । वर्तमान-निर्देशः स-विशेषणस्यैव कृष्णस्य सार्वकालिकीं स्थितिं वक्ति । शुकस्य तद्-भक्तत्वात् तत्राशीर्वादायोगाल् लोट् प्रयोगो नैवाशङ्क्यः । आशीर्वादेऽपि तद्-अविशेषः सार्वदिकसन्त्यत्वाद् विवक्षित-सिद्धिर् एव देवयोर् नन्द-वसुदेव-गृहिण्योर् जन्मैव वादः सिद्धान्तो यत्र सः । तथा च द्वे नाम्नी नन्द-भार्याया यशोदा देवकी च इत्य्-आदि-पुराणं देवक्याम् इव यशोदायां शुकोक्तेः, वादः प्रवदताम् [गीता १०.३२] इति भगवद्-उक्तिः । आरम्भ-वाद-परिणाम-वादादिष्व् अपि वाद-शब्दस्य सिद्धान्त-वाचितं दृष्टम् ।
यदु-वरा गोपाः व्रजस्थाः क्षत्रियाः पुरस्थाश् च । परिषत् सभा-रूपा यस्य सः । स्वैर् दोर्भिर् अधर्मं धर्म-प्रतिपक्षम् असुर-सङ्घं निरस्यन् निघ्नन्, दोस्-तुल्यैर् अर्जुनादिभिर् वा । अत एव स्थिर-चराणां वृजिनं संसार-दुःखं व्रज-पुर-स्थानां तेषां स्व-वियोग-दुःखं च हन्तीति सः । व्रज-वनितानां पुर-वनितानां मथुरा-द्वारका-पुर-स्थानुरागिणीनां सुस्मितेन श्रीमता मुखेनैव कामदेवं कामश् चासौ ददीव्यतीति देवाप्राकृतेस् तत्-स्वरूप-भूतस् तं वर्धयन् सन् जयतीति । व्रज-मथुरा-द्वारका-स्थ-लीलानां सर्वासाम् एव दशम-स्कन्ध-वर्णितानां नित्यत्वम् उक्तम् । एतत्-प्रकारश् च स-प्रमाणकः सर्व एवोज्ज्वल-नीलमणि-टीकायां साधु विवृत एव । अत्राप्य् एकादशान्ते भगवद्-अन्तर्-धान-प्रसङ्गे व्याख्यास्यत एव ॥४८॥
॥ १०.९०.४९ ॥
इत्थं परस्य निज-वर्त्म-रिरक्षयात्त-
लीला-तनोस् तद्-अनुरूप-विडम्बनानि ।
कर्माणि कर्म-कषणानि यदूत्तमस्य
श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्-तत्-कार्य-विशेषैः स्वी-कृत-मत्स्य-कूर्मादि-नाना-मूर्तेर् विशेषतो यदूत्तमस्य सतः परस्य तद्-अनुरूपानुकारीणि कर्म-कषणानि कर्माणि चरितानि श्रूयात्, शृणुयाद् इत्य् अर्थः ॥४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं परस्य भूम्नः श्री-कृष्णस्य तद्-अनुरूपानुकारीणि स्वीकृत-लीला-तनोर् उचितानि कर्म-कषणानि दुष्कर्म-हरण-समर्थानि मोक्षोपयोगीनि । वा अमुष्य बुद्धि-ष्ठस्य अनुवृत्तिं सन्तत-प्रवाहम् । व्याख्या पदयोर् ऐहिकामुष्मिक-स्थानयोर् अनुवृत्तिं निवृत्तिम् । उपसर्गाणाम् अनेकार्थत्वाद् अनु निषेधेऽपि एतेनैहिकामुष्मिक-भोग-विरक्तिर् उक्ता भगवन्-निष्ठावतः । इत्य् अर्थ इति—पुरुषेण निज-कल्याणार्थं हरि-कथैव सर्व-धर्मान् परित्यज्य श्राव्या—
ज्ञानं यद् आ प्रतिनिवृत्त-गुणोर्मि-चक्रम्
आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ [भा।पु। २.३.१२]
इत्य्-आद्य्-उक्तेर् इति भावः ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इत्थम् इत्य्-आदि । आत्ता गृहीता या लीला तत्-प्रधाना तनुर् यस्य, तस्य श्री-कृष्णस्य । यद् वा, आत्ता लीला-नाम-प्रेयस्यास् तनुर् येन, श्रीर् भूर् लीला इत्य्-आदेर् अन्यत्रोक्तत्वात् ।
ननु भर्तृ-भावेन भजन्तीनां माधवीनां परिणामे किं मोक्षः ? किम् अथवा तद्-रूपैर् इव विग्रहैर् नित्यतया वर्तमानैस् तथैव भजनेन स्थितिः ? नाद्यः, रतिमतां मोक्ष-प्रसङ्गाभावात् । तथा हि—रतिर् हि प्रणयवती मतिर् वासना-पर-पर्याया । सा च हेया किम् उपपादेया ? इति प्रथमतो विचारणीयम् । हेया चेत् कर्तुम् एव नोचिता । प्रत्युत तस्या विधेयत्वेन शतशः प्रतिपाद्यमानत्वम् । रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः [भा।पु। ३.७.१९] इति, रतिम् उद्वहतां नित्यं गङ्गेवोघम् उदन्वति [भा।पु। १.८.४२] इत्य्-आदि तत्र दिक् । अतो न हेया, तर्ह्य् उपादेयत्वे किम् अनित्यानित्या वा ? नाद्यः पक्षः, यतो—
मतिर् मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजा-सर्ग-निरोधेऽपि स्मृतिश् च मद्-अनुग्रहात् ॥ [भा।पु। १.६.२५] इत्य्-आद्य्-असङ्गतेः ।
द्वितीयश् चेति किं नाम नित्यत्वम् ? त्रैकालिक-सत्त्वम् इति चेत्, मुक्तौ तद्-अभावात्, कथं तथात्वम् ? अतो रतिमतां मोक्षो नास्ति । निर्वासनानाम् एव सः । उक्तं च, भावो हि भव-कारणं [भा।पु। १०.१४.४६] इति । इति श्री-कृष्ण-विषयक-भावेन शुद्ध-भागवत-विग्रह एव भवः । स च नित्यः । एवं चेत् तासां रतिमत्त्वं कथं ज्ञातं येन मोक्षो न भविष्यति ? एवं चेत् तासाम् एव तथोक्तिः—न वयं साध्वि साम्राज्यं स्वाराज्यं भोज्यम् [भा।पु। १०.८३.४१] इत्य् आरभ्य, आनन्त्यं वा हरेः पदम् इत्य् अन्तम्26 ।
तर्हि किं कामयन्ते ? तत्राहुः—व्रज-स्त्रियः27 [भा।पु। १०.८३.४३] इत्य्-आदि । ता एव किं वाञ्छन्ति ? इति चेत् चरणाम्बुजम् एव । तथा च श्रुतयः, स्त्रिय उरगेन्द्र [भा।पु। १०.८७.३३] इत्य्-आदि । एतेनाह ईदृशो नेत्य्-आदि । तस्य व्याख्या प्राग् एव कृतेति सर्वं समञ्जसम् । श्रियां विग्रहेणैव तासां स्थितिर् इति ॥४९॥
इत्थं परस्य निज-वर्त्म-रिरक्षयात्त-**
लीला-तनोस् तद्-अनुरूप-विडम्बनानि ।
कर्माणि कर्म-कषणानि यदूत्तमस्य
श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् उक्त-प्रकारेण निज-धर्मो भगवद्-धर्मस् तस्य रिरक्षया स्वीकृत-मत्स्य-कूर्मादि-नाना-मूर्तेः परमेश्वरस्य विशेषतो यदूत्तमस्य सतः, तद्-अनुरूपानुकारिणी कर्म-कषणानि कर्म-निबन्धन-निवसनानि कर्माणि च चरितानि श्रूयात्, शृणुयाद् इत्य् अर्थः । यद् वा, भवान् श्रूयाद् इति श्री-परीक्षितं प्रति । यद् वा, सर्वोऽपि जनः श्रूयाद् इति सर्व-लोकं प्रति श्री-बादरायणेर् आशीः । एवम् अपि तद् एव तात्पर्यम् । अनुवृत्तिं तद्-एक-निष्ठताम् ॥28
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हन्तैतादृश-पर-धाम्नस् तस्यानुगतिं जनः कथं लभेत ? उच्यते—नेदं मद्-उक्तं श्री-भगवल्-लीला-वर्णन-शास्त्रं शास्त्रान्तरम् इव स्वाभिहितार्थानुष्ठानेनैव फल-प्रदं, किन्तु श्रवण-मात्रेणापीत्य् आह—इत्थम् इति । यद् वा, तेषां तन्-नित्य-पार्षदानां नित्या तद्-एक-धाम-स्थितिः किं वर्ण्यताम् ? तैः सह या लीलास् ताः शृण्वताम् अपि सा नित्यैव स्याद् इत्य् आह—इत्थम् इति । अनेन पूर्वोक्त-प्रकारेण परस्य सर्वागोचर-गतेर् अपि कृपया निज-धर्मस्य स्व-भक्ति-रूपस्य रिरक्षया आत्ता प्रपञ्चं प्रत्यानीता प्रकटिता लीला-प्रधाना तनुर् निज-विग्रहो येन तस्य कर्माण्य् अमुष्य पदयोर् अनुवृत्तिम् अनुगतिम् इच्छन् जनः शृणुयात् । परस्येति विशिनष्टि—यदूत्तमस्य पूर्व-पूर्व-प्रमामाण्येन यदुषु पुरस्थेषु वनस्थेषु च उत्तमस्य तत्-तद्-आश्रयस्य तत् तयैव नित्य-लीलस्येति यावत् कर्माणि विशिनष्टि—तद्-अनुरूपाणि लीला-तनु-योग्यानि च तानि विडम्बनानि अन्य-सादृश्यातिक्रमीणि च तानीति ।
यद् वा, तद्-अनुरूपाणि तत्-सदृशानि अवतारान्तर-कर्माणि तान्य् अपि विडम्बयन्ति । हीनोपमात्वं प्रापयन्ति यानि तानि असमोर्ध्व-वैभवानीत्य् अर्थः । अत एवोक्तं द्वितीये—कर्माणि चात्म-महिमोपनिबन्धनानि [भा।पु। २.७.२६] इति । तथा कर्म-रूपाण्य् अपि कर्म-कषणानि जगतां कर्म-विलोपकानीति ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तेषां नित्य-पार्षदानां नित्या तद्-एक-धाम-स्थितेः किं वर्ण्यताम् ? यतस् तैः सह या लीलास् ताः शृण्वताम् अपि सा नित्यैव स्याद् इत्य् आह—इत्थम् इति । पूर्व-प्रकारेण परस्य सर्व-गोचर-गतेर् अपि कृपया निज-धर्मस्य स्व-भक्ति-स्वरूपस्य रिरक्षिषया आत्ता प्रपञ्चं प्रत्यानीता प्रकटिता लीला-प्रधाना तनुर् निज-विग्रहो येन तस्य । तद्-अनुरूपाणि यानि तस्य तत्-सदृशाणि अवतारान्तर-कर्माणि तान्य् अपि विडम्बयन्ति हीनोपमात् प्रापयन्ति यानि तानि असमोर्ध्व-वैभवानीत्य् अर्थः ॥४९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उपसंहरति—इत्थम् इत्य्-आदि । अनेन प्रकारेण नित्य-लीलत्वेनेति । यावत् यदूत्तमस्य कर्माणि श्रूयात् शृणुयात्, निज-धर्म-रिरक्षया निज-धर्मो वैष्णव-धर्मस् तस्य रिरक्षया तद् एव धर्म-रक्षणम् । कीदृशस्य ? आत्त-लीला-तनोः आत्ता गृहीता आलिङ्गिता लीलाया लीला-स्वरूपाया राधाया रुक्मिण्याश् च तनुर् येन तद्-अनुरूप-विडम्बनानि । तस्य लीलायाः अनुरूपम् अनुकरणं येषाम् । किं कुर्वन् शृणुयात् ? अमुष्य श्री-कृष्णस्य पदयोर् अनुवृत्तिं परिचर्याम् इच्छन् ॥४९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-चरितस्य नित्यतां व्यवस्थाप्य तच्-छ्रवणं विधत्ते—इत्थम् इति । निज-धर्मो भक्तिर् धर्म यस्य रिरक्षिषया प्रकल्पित-लीला-मय-तनोस् तद्-अनुरूपाणि तत्-सदृशानि यान्य् अवतारान्तर-कर्माणि तान्य् अपि विडम्बयन्ति स्वस्माद् अतिहीनी-कुर्वन्ति कर्माणि श्रूयात् शृणुयात् । कर्म-कषणानि नैष्कर्म्य-प्रतिपादकानि ॥४९॥
॥ १०.९०.५० ॥
मर्त्यस् तयानुसवम् एधितया29 मुकुन्द-
श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति ।
तद्-धाम दुस्तर-कृतान्त-जवापवर्गं30
ग्रामाद् वनं क्षिति-भुजोऽपि ययुर् यद्-अर्थाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुवृत्तेः फलम् आह—मर्त्य इति । **श्रीमत्याः कथायाः श्रवण-कीर्तन-**युक्तया चिन्तया संवर्धितयानुवृत्त्या तथा तन्-निष्ठत्वेन तस्य धाम लोकम् एति । लोकत्वेऽपि कालान् आ-कलितत्वम् इत्य् आह—दुस्तरेति । दुर्लभ-पुरुषार्थताम् आह—ग्रामाद् इति ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तया पदयोर् अनुवृत्त्या । तन्-निष्ठत्वेन भगवन्-निष्ठत्वेन । लोकं वैकुण्ठादि स्वरूपं वा कालेनानाकलितम् अस्पृष्टम् । दुस्तरश् चासौ कृतान्त-जवस् तस्यापवर्गस् त्यागो यस्मिंस् तत् तथा । यद्-अर्थं यस्य हरेर् धामैवार्थो येषां ते क्षिति-भुजो ग्रामाद् वनं ग्रामं विहाय वनं ययुः । एतेन राज्याद् अपि तत्र सुखातिशयो व्यज्यत इति ध्वनितम् ।\
क्वचित् पुस्तकेषु चित्रं न चेत्य्-आदिकोऽधिकः श्लोकोऽप्य् अस्ति31 । तस्य चायम् अर्थः—गोप्य्-आदि-स्त्रीणां यद् उरुगायस्य पवित्र-लीलया विध्वस्तः कल्मषाणां कदम्बको यस्मिन् मुक्ति-रूपे तद् यज् जातम् एतच् चित्रं न चेत्य् अन्वयः । अन्यत् पूर्ववत् ।
स्वाम्य्-अभिप्राय-दौर्बोध्याद् यन् मया साहसं कृतम् ।
तन् मे क्षाम्यन्तु विद्वांसो ह्य् अयुक्तं शोधयन्तु ते ॥
कलिन्दजा-तीर-विहार-शालिनं गोपाङ्गनाभिर् धृत-वेणु-वादिनम् ।
सदा नमस्ये निज-चेतसा धृतं श्री-नन्दसूनुं सुर-राज-वन्द्यम् ॥
॥ इति श्री-खरड-पतन-वास्तव्य-पण्डित-वंशीधर-शर्म-विरचिते
श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे
नवतितमोऽध्यायः ॥९०॥
कैवल्य-दीपिका : मर्त्य इति । तया ब्रह्म-सभादौ प्रसिद्धया श्रवण-कीर्तन-चिन्तया इति द्वन्द्वैकत्वेऽपि नपुंसकत्वम् इति कीर्त्यं जयेति अत्रोक्तम् । तद्-धाम वैष्णवं स्थानम् । कृतान्तस्य जवो वेगः । अपवर्जनं निवृत्तिर् यस्मिन् तत् । अकाल-कलितम् इत्य् अर्थः । यद्-अर्था मद्-धामाभिलाषाः ॥५०॥ [मु।फ। १०.१०]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
॥ इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धोत्तरार्धे श्रीनाथ-चक्रवर्ति-कृतायां चैतन्य-मञ्जुषायां नवतितमोऽध्यायः ॥९०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : व्याख्या अप्राप्ता।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा तच्-छ्रवणेन तद्-अनुवृत्ति-प्राप्तिः स्यात् तथा विवृणोति—मर्त्य इति । ननु हे राजन् ! मर्त्यो मरण-धर्मा यः कोऽपि तया पूर्वोक्त-माहात्म्यया मुकुन्द-श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तया मुकुन्दस्य सर्व-दुःख-विमोचकत्वेन महा-कारुणिकस्य स्वयं भगवतो या श्रीमती सर्व-सम्पदां धात्री च कथा तस्याः श्रवणेन जातं, यत्-कीर्तनं स्वयम् उल्लासतो गानं, तत्र या चिन्ता तत्-प्राप्त्य्-उत्कण्ठामयी स्मृतिस् तया समेधितया नित्यम् एव तेन गानेन वर्धितया सत्या पूर्वोक्तं श्री-वृन्दावनादि-प्रकाश-विशेष-रूपं तद्-धाम एति वासनानुसारेण तद्-एकतरं प्राप्नोति । तद् एव विशिनष्टि—दुस्तरो ब्रह्मादिभिर् अपि स्वतोऽपरिहार्यो यः कृतान्तः कृतः सर्वस्यान्तो येन स कालः, तस्यापि जवस्य विक्रमस्य अपवर्गः समाप्तिर् यत्र । तत् यद् उक्तं—न यत्र माया न च काल-विक्रमः इति, दर्शयामास लोकं स्वं गोपानां तमसः परम् इति च । तच् च परम-विषयान्धानाम् अपि लोभनीय-शोभम् । किइम् उत मुमुक्षु-मुक्त-भक्तानाम् उत्तरोत्तर-परम-दृशाम् इत्य् आह—ग्रामाद् इति । क्षितिः सप्त-द्वीपवती पृथ्वी तां भुञ्जते ये तेऽपि बहवो यद् एव परम-पुरुषार्थो येषां तथा-भूताः सन्तो ग्रामात् अन्य-सर्वारोचकतया जन-स्थान-मात्रं त्यक्त्वा वनं जन-मात्र-शून्य-प्रदेशं भाग्य-वशात् द्वादश-वनात्मकं श्री-मथुरा-मण्डलं वा ययुः । तत्र गत्वा नित्यम् अवसन् । श्रीमन्-मथुरा-मण्डलस्यैव परम-साधन-साध्य-रूपत्वात् । तथा हि आदि-वाराहे—
न पापेभ्यो भयं यत्र न भयं यत्र वै यमात् ।
न बर्भ-वास-भीर् यत्र यत् क्षेत्रं को न संश्रयेत् ॥
मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मम माया-विमोहितः ॥ इति ।
किं च, स्कान्दे—
तन् मण्डलं माथुरं हि विष्णु-चक्रोपरि स्थितम् ।
पद्माकारं सदा तत्र वर्तते शाश्वतं नृप ॥ इति ।
किं च वाराहे—
लाभानां मथुरा-लाभो ज्ञानानां ज्ञानम् उत्तमम् ।
प्रीतीनां परमा प्रीतिर् गतीनां गतिर् उत्तमः ॥ इति ।
एत एवोक्तं पाद्म-पाताल-खण्डे—अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी इत्य्-आदि ॥५०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृत-
वैष्णव-तोषिण्यां नवतितमोऽध्यायः ॥९०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यथा तच्-छ्रवणेन तद्-अनुवृत्ति-प्राप्तिः स्यात्, तथा विवृणोति—मर्त्या इति । यद् धाम श्री-वृन्दावनादि-रूपेषु वासनानुसारेणैकतरं प्राप्नोति । तद् एव विशिनष्टि—दुस्तरेति ॥४९॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धीय-
श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे
नवतितमोऽध्यायः ॥९०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्यानुवृत्तिस् तद्-धाम-लब्ध्यैव स्यात् । सा कथं भवेन् मर्त्यानाम् ? इत्य् आह—मर्त्य इत्य्-आदि । ननु भो राजन् पूर्वोक्तया वर्धमानया मुकुन्द-श्रीमत्त्व-श्रवणे यार्चिता तया तद्-धाम तन्-निवासं परम-वैकुण्ठं दुस्तरो यः कृतान्त-जवः काल-वेगस् तस्यापवर्गो यद्-अर्था यत्-प्राप्ति-कामा ग्रामात् निज-राज्यतः क्षिति-भुजोऽपि ययुः । तद् यत्र तत्र स्थित्वा तत्-कथा-श्रवणेनैव भवाभावः ॥५०॥
॥ इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
नवतितमोऽध्यायः ॥९०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनुवृत्तेः फलम् आह—तया अनुवृत्त्या तद् धाम एति । कीदृश्या ? श्रीमत्-कथा-श्रवण-कीर्तनाभ्यां जनिता चिन्ता । केन प्रकारेण ? कदा वा ? कृष्णं प्राश्यामीति या भावना तया एधितया वर्धितया धाम्नः कालानाकलितत्वम् आह । दुरन्तो यो कृतान्त-जवस् तस्यापवर्गो नाशो यत्र तत् । तत्-प्राप्ति-करम् अपि कम् अप्य् आह—ग्रामाद् इति । क्षिति-भुजो मनु-प्रिय-व्रताद्या अपि ॥५०॥
नवतितमोऽत्राध्यायो दशमे सारार्थ-दर्शिन्याम् ।
सङ्गत एव स्कन्धोऽप्य् अस्तु सतां सङ्गतो हृदि मे ॥
मद्-गवीर् अपि गोपालः स्वीकुर्यात् कृपया यदि ।
तदैवासां पयः पीत्वा हृष्येयुस् तत्-प्रिया जनाः ॥
माघस्य कृष्ण-द्वादश्यां राध-कृष्ण-सरित्-तटे ।
दशम-स्कन्ध-टीकेयम् अपूरि कृपया प्रभोः ॥
॥ समाप्तोऽयं दशम-स्कन्धः ॥
-
ईश्वरो\ऽसुप्त-, ईश्वरो\ऽगुप्त- ↩︎
-
मैवं विभोऽर्हति भवान् गदितुं नृशंसम्
सन्त्यज्य सर्व-विषयं तव पाद-मूलम् ।
प्राप्ता वयं तुलसि-दाम पदावसृष्टं
केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ ↩︎
-
मैवं विभोऽर्हति भवान् गदितुं नृशंसम्
सन्त्यज्य सर्व-विषयं तव पाद-मूलम् ।
प्राप्ता वयं तुलसि-दाम पदावसृष्टं
केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ ↩︎
-
अप्य् उत्कण्ठः (बृहत्-क्रम-सन्दर्भः) ↩︎
-
दुश्च्छेदक ↩︎
-
कृश-तटा ↩︎
-
अपेत- ↩︎
-
त्वानुविदाम ↩︎
-
क्षौद्रालापम् अकामदम् ↩︎
-
तत्राप्राप्ताः । ↩︎
-
कक्कोक-प्रणीत-रति-शास्त्रम् । तच् च वेण्यदत्तार्थे लिखितम् । तत्र रति-विषयेऽनेके विषयाः सन्ति ॥
नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् ततोऽथ सङ्कल्पः ।
निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः ।
उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [र।र। १३.२-३] ↩︎
-
परमां ↩︎
-
अमोघ-गतिर् ↩︎
-
गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि । मुच्यते सर्व-पापेभ्यः रुद्र-लोकं स गच्छति । ↩︎
-
करलिपिषु तथा मुद्रित-ग्रन्थेष्व् अपि अष्टचत्वारिंशत्तम-श्लोकस्य टीकाया असद्भावात् पाठक-सुधियां पाठ-सौकर्याय श्रील-सनातन-गोस्वामि-प्रभुपाद-कृत-श्री-बृहद्-भागवतामृत-ग्रन्थात् श्लोकस्यास्य समुद्धृता सन्निविष्टा चेति ज्ञेयम्। ↩︎
-
पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग-
गूढः पुराण-पुरुषो वन-चित्र-माल्यः ।
गाः पालयन् सह-बलः क्वणयंश् च वेणुं
विक्रीडयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥ ↩︎
-
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ ↩︎
-
ययाहरद् भुवो भारं तां तनुं विजहाव् अजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥
यथा मत्स्यादि-रूपाणि धत्ते जह्याद् यथा नटः ।
भू-भारः क्षपितो येन जहौ तच् च कलेवरम् ॥ ↩︎
-
विधूय तद् अमेयात्मा भगवान् धर्म-गुब् विभुः ।
मिषतो दश-मासस्य तत्रैवान्तर्दधे हरिः ॥ ↩︎
-
लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् ।
योग-धारणयाग्नेय्यादग्ध्वा धामाविशत् स्वकम् ॥ ↩︎
-
सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता
मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्म-सुखानुभूत्य्-अभि-
व्युदस्त-मायोऽन्तर्-गतो हि किं पुनः ॥ ↩︎
-
पाताल- (चुर्रेन्त् एदितिओन्) ↩︎
-
पुराणान्तर-वचनम् (छ, ज, यादव्पुर्) ↩︎
-
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ ↩︎
-
अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम्
उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम् ।
विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन्
कुपितकपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥
साहित्य-दर्पण ९.६। ↩︎
-
न वयं साध्वि साम्राज्यं स्वाराज्यं भोज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ ↩︎
-
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ ↩︎
-
ऊनपञ्चाशत्तम-श्लोकस्यापि टीकाया असद्भावात् श्रील-सनातन-गोस्वामि-प्रभुपाद-कृत-श्री-हरि-भक्ति-विलास-ग्रन्थस्य दशम-विलासस्थ ४५८-तम-श्लोक-टीकात्र समुद्धृतेति ज्ञातव्यम्। ↩︎
-
तनु-समेधितया ↩︎
-
दुस्तर-कृतं जनतापवर्गं (विज।) ↩︎
-
चित्रं न चैतद् उरुगाय-विचित्र-लीला-
विध्वस्त-कल्मषक-दम्बक-मुक्ति-रूपम् ।
स्त्रीणां सुदुस्त्यज-कृतान्त-जवापवर्गं
ग्रामाद् वनं क्षितिभुजोऽपि ययुर् यद्-अर्थाः ॥ ↩︎