भृगुकर्तृकं त्रिदेवपरीक्षणं तत्र विष्णोः श्रेष्ठ्यं पार्थेन सह महाकालपुरं गत्वा भगवता ब्राह्मणस्य मृतपुत्राणामानयनं च ।
॥ १०.८९.१ ॥
श्री-शुक उवाच—
सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत ।
वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
भक्त-सङ्कटम् आलोक्य कृपा-पूर्ण-हृद्-अम्बुजः ।
गिरित्रं चित्र-वाक्यात् तु मोक्षयाम् आस केशवः ॥
नवाशीतितमे देवः को महान् इति संशये ।
परीक्ष्य विष्णोर् उत्कर्षं मुनिभ्योऽवर्णयद् भृगुः ॥
इतिहासान्तरम् आह—सरस्वत्या इति ॥ १-३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उत्कर्षं महत्त्वम् । वितर्कः संशयः । तर्काभावे वितर्कः स्यात् संशये च विचारणे इति निरुक्तिः । त्रिषु ब्रह्म-विष्णु-रुद्रेषु महान् उत्तमः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ऋषयो भृग्व्-आदयोऽन्ये च सारस्वताः । यद् वा, ते कथं-भूताः ? सारस्वताः सरस्वती-तीर-निवासिन । आसत इति वर्तमानाः, सदा सत्र-परत्वात् । पाठान्तरं स्पष्टम् । अधीशेषु सर्व-लोकानां परम-सेव्येषु वर-शाप-स्वामिषु वा । श्री-ब्रह्मादिषु त्रिषु को महान् इति वितर्को विचारः सम्यक्-शास्त्रार्थ-विचारणादिनाभूत् । यद् वा, असम्भाव्योऽपि सम्भावनां प्राप्तः । हे राजन्न् इति सर्वत्र सर्वथा श्री-विष्णोर् उत्कर्षे विराजमानेऽपि सर्वज्ञानां तेषां वितर्केण विस्मयोदयात् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं सोपाधिक-रूपाद् आशुतोष-कोपाच् छुद्ध-स्वरूपतयोदर्क-शुद्धाङ्गीकार-मय-परमार्थ-दातृ-विचारतया च श्री-विष्णोर् उत्कर्षम् उक्त्वा परमापराधेऽपि विनय-पूर्वक-परमाङीकार-मय-करुणया च वदंस् तत्-प्रसङ्गे ब्रह्मणोऽपि दर्शयति—सरस्वत्या इत्य् आदि । आसत इति । लट् सदा सत्र-परत्वेनाद्यापि सन्तीत्य् उपचारात् इति तेषां कर्माविष्टत्वम् अनिर्णये हेतुर् उक्तः को महान् इति विचारो वितर्कः सम्यक् शास्त्र-तर्क-विचारेणाभूत् ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
नवाशीतितमे विष्णोः श्रैष्ठ्यं भृगु-परीक्षया ।
त्रिषु तत्रापि विप्रार्भाहृतेः कृष्णस्य भूमतः ॥
विष्णोर् एव सर्वोत्कर्षात् सेव्यत्वे इतिहासानान्तरम् आह—सरस्वत्या इति ॥१॥
॥ १०.८९.२-३ ॥
तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप ।
तज्-ज्ञप्त्यै प्रेषयाम् आसुः सोऽभ्यगाद् ब्रह्मणः सभाम् ॥
न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया ।
तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य महत्त्वस्य । स्व-यं जिज्ञासया लोकेषु तज्-ज्ञप्त्यै आधिक्य-ज्ञापनाय । स भृगुः । तस्य महत्त्वस्य महर्षीणां भार् अहम् इति तस्यैव तत्र योग्यत्वाद् इति भावः । ब्रह्मणि लाल्यत्वस्य शिवे भ्रातृत्वस्य ब्रह्मण्यदेवे श्री-विष्णौ तु ब्राह्मणत्वस्यातिशय-स्फूर्तेः । सो\ऽपि भृगुर् अपि । तस्य महत्त्वस्य । ज्ञापनाय अभि निर्णयम् आभिमुख्येन वा ॥२॥
तस्मै ब्रह्मणे । प्रह्वणं नमनम् । सत्त्वस्य महत्त्व-हेतुत्वात् कार्ये कारणप्र् अयोगः । तस्मै भृगवे । सत्त्वं महत्त्वं तद्-धेतुः सत्त्व-गुणो वा । तस्य परीक्षया
हेतोः । प्रह्वणं प्रणामं स्तोत्रं च न चक्रे । एवम् उत्तरत्रापि । भगवान् सर्व-पूज्यः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्य महत्त्वस्य । वै अपि । भृगुं प्रेषयामासुर् अपि । किं वक्तव्यं वितर्कः समभूद् इति । अतो महा-विस्मयात् पुनः सम्बोधयति—नृपेति । ब्रह्म-सुतम् इति तस्य तद्-योग्यतोक्ता । स भृगुस् तस्य महत्त्वस्य ज्ञप्तौ ज्ञानाय, किं वा, तेषु ज्ञापनार्थम् अभितोऽगात् । यद् वा, अभि अभयं यथा स्यात् ॥२॥
सत्त्वं महत्त्वं स्वभावो वा । तस्य परीक्षया हेतुना प्रह्वणं प्रणामं स्तोत्रं च न चक्रे । भगवान् जगत्-सृष्ट्य्-आदिना सर्व-पूज्यः श्री-ब्रह्मेत्य् अर्थः । कोप-विकार-भरम् आह—स्वेनासाधारणेन तेजसा प्रकर्षेण ज्वलन्न् इति ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भृगुम् इति । महर्षीणां भृगुर् अहम् इति महिम्ना तस्यैव योग्यत्वाद् इति भावः । ब्रह्म-सुतम् इति तद् अभिमानाक्रान्त-चित्तत्वेन तत्रासङ्कोचश् च तस्य दर्शितः ब्रह्मणि स्व-स्य लाल्यत्वस्य शिवे भ्रातृत्वस्य ब्रह्मण्य-देवे श्री-विष्णौ तु ब्राह्मणत्वस्यातिशय-स्फूर्तेः अत एव सो\ऽपि तज्-ज्ञप्त्यै तस्य महत्त्वस्य ज्ञापनाय अभि-तत्-तद् आभिमुख्येन अभयं यथा स्यात्-तथा अगात् गतः ॥२॥
यतो न तस्मा इत्य् आदि सत्त्वं महत्त्वापरपर्यायम् उत्कृष्टत्वं तस्य परीक्षया हेतुना प्रह्वणं प्रणाम-स्तोत्रं च न चक्रे एवम् उत्तरत्रापि भगवान् जगत्-सृष्ट्यादिना सर्व-पूज्यः श्री-ब्रह्मेत्य् अर्थः कढरोध-विकारभरम् आह—स्वेना-साधारण-तेजसा प्रकर्षेण ज्वलन्न् इति ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तस्य महत्त्वस्य जिज्ञासया प्रेषयामासुः । सोऽपि तज्-ज्ञप्त्यै तस्य ज्ञापनायाभ्यगात् ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तज्-ज्ञप्त्यै स अगाद् इत्य् अन्वयः । प्रह्वणं नतिं सत्त्वस्य महत्त्वस्य तद्-धेतोः सत्त्व-गुणस्य वा परीक्षार्थम् ॥ २-३ ॥
॥ १०.८९.४ ॥
स आत्मन्य् उत्थितं मन्युम् आत्मजायात्मना प्रभुः ।
अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-योन्या स्वस्यैव रूपान्तरेणाभिव्यक्ति-स्थानेन स्व-कार्येणेत्य् अर्थः । तेन यथा कश्चिद् वह्निं शमयति तथा स्व-कार्येण पुत्रेण निमित्तेन क्रोधं शमयाम् आसेत्य् अर्थः ॥ ४-१० ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स ब्रह्मा । आत्मजायात्मजम् उद्दिश्य । इत्य् अर्थ इति—अग्नेर् आपः इति श्रुतेर् वारिणो वह्नि-कार्यत्वावगमाद् इति भावः । तेन वारिणा । इत्य् अर्थ इति-पुत्रो\ऽयम् इति मत्वा शान्तिं ययाव् इति भावः वष्टा । आत्मनि मनसि । स्व-यम् एव क्षमापणां विनैवेत्य् अर्थः । यतः प्रभुर् विचारण-क्षमः ॥ तत्र हेतुः—आत्मनः शुद्ध-सत्त्वमय-हरेः
सप्रकाशाद्-भवतीत्य् आत्मभूः । विचारम् एव् आह—स्व-योन्येति । स्व-ं वह्निर् एव योनिर् उत्पत्ति-स्थानं यस्य तेन वारिणा अग्नेर् आपः इति श्रुतेः । यथा वह्नि-कार्येण वारिणा वह्नि शमयति । यद् वा । स्व-स्य वह्नर् योन्या कारणेन वारिणेव क्रोधस्य-कारणेनात्मनैव क्रोधं शमयामास । कृपीटोनिर्ज्वलनः इत्य् अमरात् । जलाद् अपि वह्निर् जायत इति प्रसिद्धे ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मनि मनसि आत्मना स्वयम् एव बुद्ध्या वा अशीशमत्, यतः प्रभुः समर्थः । तत्रैव हेतुः—आत्म-भूः स्वयम् एव स्व-शक्त्या भवतीति । किं वा, आत्मनः श्री-हरेः सकाशाद् भवतीति तथा सः । स्व-योन्येति वह्नि-शमन-योग्यतोक्ता । अन्यत् तैर् व्याख्यातम् । यद् वा, कथम् अशीशमत् ? तद् आह—यथेति । समूलतया निःशेषेणेत्य् अर्थः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मनि मनसि आत्मना स्व-यम् एव क्षमापणां विनैवेत्य् अर्थः । अशीशमत् शमयामास यतः प्रभुर् विचार-समर्थः तत्र हेतुः आत्मनः श्री-हरेः सकाशाद्-भवतीति तथा सः विचारमेव् आह—स्व-योन्या स्व—कार्यत्वात्-स्वाभिव्यक्ति-स्थानेन तद्-रूपत्वेन पुत्रो\ऽयम् इति भावेनेत्य् अर्थः । तत्र दृष्टान्तः यथा कथञ्चिद्-वारिणा वह्नि शमयतीति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मजाय आत्मजं तं हन्तुम् इत्य् अर्थः । स्व-योन्या स्वं वह्निर् एव योनिर् उत्पत्ति-कारणं यस्य तेन वारिणा वह्नि-कार्येण यथा वह्निं शमयति यथा स्व-कार्येण पुत्रेण निमित्तेन स्वाकारी-भूतं क्रोधं शमयामास । यद् वा, स्वस्य वह्नेर् योन्यां कारणेन वारिणैव क्रोधस्य कारणेनात्मनैव क्रोधं शमयामास । अशुयोनिः कृपीट-योनिर् इत्य् आदि वह्नि-नाम-दर्शनात् । क्वचिज् जलाद् अपि वह्निर् जायत इति प्रसिद्देः ॥४॥
॥ १०.८९.५-६ ॥
ततः कैलासम् अगमत् स तं देवो महेश्वरः ।
परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥
नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह ।
शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आलिङ्गितुं नैच्छत् । श्मशान-वासित्वादिनोत्पथगो लोक-विरुद्ध-मार्ग-गाम्य् अशुभाचारोऽस्यतो मा मां स्पृशेति भावः । इति इत्य् उक्तः । तं भृगुम् । तिग्म-लोचनो रक्त-नेत्रस् त्रिलोचनो वह्नि-नेत्रो वा । तिग्मं तीक्सण-त्रिअरक्षग्नि-तमो-व्याप्त-जनेषु च इति निरुक्तिः । तं शिवम् ॥५-६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तत्-पश्चात् । तस्या वा ब्रह्म-सभायाः सकाशात् । देवो जगत्-पूज्यः, यतो महेश्वरः । तथापि मुदा परिरब्धुं सम्यग् बाहु-प्रसारणादिनारेभे, यतो भ्रातरम् ॥५॥
उत्पथग आचार-भ्रष्टोऽसीति वदन् नैच्छत् तत्-परिरम्भणम् । ततश् च चुकोप । ह स्फुटम् । तद् एवाह—शूलम् इति । तिग्म-लोचन इति कायान् नेत्राग्नि-प्रसर्पणाभिप्रायेण ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं ब्रह्मणः सत्त्व-बाध्यं रजोर् दर्शितं शिवस्य तमो-बाध्यं सत्त्वं सत्त्व-बाध्य तमश् च दर्शयति-तत इति सार्ध-द्वाभ्याम् । देवो जगत्-पूज्यः यतो महेश्वरः सर्वाहङ्काराधिष्ठातृत्वाद् इति भावः । तथापि मुदा परिरब्धुं सम्यक् बाहुप्रसारादिनारेभे यतो भ्रातरम्भ्रातृत्वेनाङ्गीकृतम् ॥५॥
उत्पथगः श्मशान-भस्मादि-धारणेन पाषण्ड-मार्गं प्राप्तोऽसीति वदंस् तत्-परिरम्भणं नैच्छद् इत्य् अर्थः । ततश् चुक्रोध तद् एवाह—शूलम् इति । तिग्म-लोचन इति क्रोधान् नेत्राग्नि-प्रसरणाभिप्रायेण ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं ब्रह्मण्य् अवज्ञा-रूपं मानसम् अपराधं कृत्वा, तत्र रजो-गुणं दृष्ट्वा तं परीक्षया वस्तुतस् त्व् अनुत्तीर्णं ज्ञात्वा ततोऽपि श्रेष्ठे महेश्वरे मानसाद् अधिकं वाचिकम् अपराधम् अकरोद् इत्य् आह—तत इति द्वाभ्याम् ॥ ५-६ ॥
॥ १०.८९.७ ॥
पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा ।
अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो रुद्र-दक्षिणोत्तरम् । यत्र वैकुण्ठे ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तं तिग्म-लोचनम् । गिरा साम-पूर्वक-सन्यायोक्त्या । अथो अनन्तरम् । जनार्दन इति जनैर् भक्तैः सर्व-लोकैर् वा अर्द्यते सर्व-सद्-गुण-रूपवत्त्वादिना दर्शनाद्य्-अर्थं याच्यत इति तथा सः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पतित्वेत्य् अर्धकम् । गिरा साम-पूर्वक-सन्न्यासोक्त्या वैकुण्ठं प्रपञ्चान्तर्-विकुण्ठ-सुनिर्मितं विष्णु-लोक-विशेषम् एवं ब्रुवति वैकुण्ठ इति वक्ष्यमाणात्—
पत्नी विकुण्ठा सुभ्रस्य वैकुण्ठैः सुर-सत्तमैः ।
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ।
वैकुण्ठो निर्मितो येन लोको लोक-नमस्कृतः ॥ [भा।पु। ८.५.४-५]
इत्य् अष्टम-स्कन्धाच् च ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : वैकुण्ठं प्रपञ्चन्तर्वर्ति-विकुण्ठासुत-निर्मितं विष्णु-लोक-विशेषम् ॥७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महेश्वरे तमो-गुणं दृष्ट्वा तद्-अर्ध-भूतायां पार्वत्यां सत्त्व-गुणं च दृष्ट्वा तम् अपि परीक्षया वस्तुतस् त्व् अनुत्तीर्णं दृष्ट्वा ततोऽप्य् अतिश्रेष्ठे विष्णौ वाचिकाद् अप्य् अधिकं कायिकम् अप्राधम् अकरोद् इत्य् आह—अथो इति ॥७॥
॥ १०.८९.८ ॥
शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् ।
तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पाद-प्रहरोत्तरम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रिय उत्सङ्गे शयानम् इति तदानीं तादृश-दारुण-कर्मणोऽत्यन्तायोग्यत्वम् । एवम् उत्तरोत्तरम् अविनयाधिक्यं च तस्योक्तम् । तथा ताडनं त्व् अत्यन्त-परीक्षार्थम् । किं वा, तस्य माहात्म्य-विशेष-प्रदर्शनार्थम् । यद् वा, सर्वथा सर्वतोऽभिव्यक्तेऽपि तन्-माहात्म्ये तादृश-जिज्ञासया ऋषिभिर् आत्मनः प्रेषणेन, महर्षीणां भृगुर् अहं [गीता १०.२५] इति भगवन्-महा-विभूतितया ख्यातस्य लक्ष्मी-पितुः परम-भागवतस्य तस्य महा-कोप-दुःखोत्पत्तेर् इति दिक् । ततस् तद्-अनन्तरं सद्य एवेत्य् अर्थः । यद् वा, तस्मात् सहसा ताडनाद् धेतोः । लक्ष्म्या सहोत्थाय स्वस्य तल्पाद् इति । स्व-शब्देन तल्पस्य परम् उत्कृष्टत्वम् उच्चत्वं च सूचयति, तथाप्य् अवरुह्य, आश्व् इत्य् अस्य यथापेक्षं सर्वैर् अप्य् अन्वयः । उत्थानादौ हेतुः—सतां साधूनां गतिः शरणम् । तत्रैव हेतुः—भगवान् सर्व-सद्-गुण-युक्त इति । यद् वा, भगवान् साक्षात् परमेश्वरोऽपि सतां स्व-भक्तानां तदादीनां गतिर् अपि ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रिय उत्सङ्गे शयानम् इति तयोस् तद्-आगमनाज्ञाने हेतुः मिथः प्रेमावृत-ज्ञानत्वात् तद् एवं तदानीं तादृश-दारुण-कर्मणो अत्यन्तायोग्यत्वम् उत्तरोत्तरम् अविनयाधिक्यं च तस्योक्तं वैष्णवत्वं त्व् एतद् उत्तर-काले तादृश-भगवद्-गुणेनैव जातम् इति ज्ञेयम् । तथापि तस्य तत्र गमनं श्री-भगवतो लोक-कृपार्थस्व-गुण-व्यञ्जनेच्छयैवेति च ततस् तस्मात् ताडनानन्तरं तं दृष्ट्वेत्य् अर्थः । सहसा सम्भ्रमेण लक्ष्म्या सहोत्थाय स्व-तल्पाद् इति स्व-शब्देन तल्पस्य परम-धिष्ण्यत्वं सचयति । ततोऽप्य् अवरुध्य आश्व् इत्य् अस्य यथोपेक्षं सर्वैर् अप्य् अन्वयः उत्थानादौ हेतुः सतां साधूनां गतिः सद्-धर्माश्रयः । तत्रैव हेतुर् भगवान् सर्व-सद्-गुण-युक्त इति । यद् वा, भगवान् साक्षात् परमेश्वरोऽपि ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : शयानम् इति । तादृश-दारुण-कर्मणोऽत्यन्तायोग्यत्वं विनयाधिक्यं च तस्योक्तम् । वैष्णवत्वं त्व् एतद्-उत्तर-काले तादृश-भगवद्-गुणेनैव जातम् इति ज्ञेयम् । तथापि तस्य तत्र गमनं श्री-भगवतो लोक-कृपार्थ-स्वगुण-व्यञ्जनेच्छयिवेति च ॥८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पुष्प-पर्यङ्कोपरि शयानम् अपि तत्रापि श्रियः स्व-पत्न्या श्रियः स्व-पत्न्या उत्सङ्गे तत्रापि वक्षसि तत्रापि पदा न तु हस्तादिनेत्य् अपराध-परावधिः कृत इति भावः । विष्णौ तावान् अपराधः सत्त्व-गुण-दिदृक्षया कृतः । वस्तुतस् तु तत्र विष्णौ शुद्ध-सत्त्वम् एव दृष्टम्, न तु सत्त्वम् अपीत्य् आह—तत इति चतुर्भिः ।सह लक्ष्येति लक्ष्म्या अपीति तादृश-समयेऽपि तादृश-विविक्तेऽप्य् आगन्तरि स्वाङ्गावलोकन-सम्भविष्णाव् अपि तस्मिन् मुनौ न कोप-गन्धोऽपीति सत्त्व-गुण-धर्मः । प्रियतम-चित्ताभिप्रायज्ञत्वेन तत्-तिरस्कार-दर्शनेऽपि नान्तः-कोप इति शुद्ध-सत्त्व-धर्मः । सतां गतिर् इति वैकुण्ठ-स्थानां पार्षदानाम् अपि ताद्धर्म्येण ॥८॥
॥ १०.८९.९ ॥
स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् ।
आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।
अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्व-शब्देन तल्पस्य परमधिष्ण्यत्वम् उक्तम् । ते त्वया सुखेनागतम् । यद् वा, तव स्वागतं शोभनम् आगमनम् । हे ब्रह्मन् ! हे वेद्-अस्वरूपति परम-पूज्यत्वम् उक्तम् । अत्र मत्तल्प-रूपे किं वा, विप्रार्थं पृथक्-स्थापिते किं वा, मयार्पिते अस्मिन्न् आसने । एवं च स्वयम् एव सत्वरम् आसनम् आनीतम् इति ज्ञेयम् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते त्वया । सु सुखेनागतं किम् इत्य् अर्थः । यद् वा, तव स्वागतं शोभनम् आगमनम् । ब्रह्मन्, हे वेद-स्वरूपेति परम-पूज्यत्वं सूचयति । अत्र मत्-तल्प-रूपे, किं वा, विप्रार्थं पृथक् स्थापिते, किं वा, मयाप्रितेऽस्मिन् आसने । एवं च स्वयम् एव सत्वरम् आसनम् आनीतम् इति ज्ञेयम् ।
ननु, त्वयाभिगमनादिना न सम्मानितोऽहम् इत्य् आसनं न स्वीकरोमीति चेत्, तत्राह—अजानताम् इति । वो युष्मान् । बहुत्वं गौरवात् । नोऽस्माकम् इति लक्ष्म्याद्य्-अपेक्षया ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते त्वया सुखेनागतं किम् इत्य् अर्थः । यद् वा, तव स्वागतं शोभनम् आगमनं ब्रह्मन् ! हे वेद-स्वरूपेति परम-पूज्यत्वं सूचयति । अत्र मत्तल्प-रूपे किं वा, विप्रायार्थं पृथक्-स्थापिते किं वा, मयार्पिते अस्मिन्न् आसने एवं च स्वयम् एव सत्वरम् आसनम् आनीतम् इति ज्ञेयम् । ननु, त्वया अभिगमनादिना न सम्मानितो\ऽहम् इत्य् आसनं न स्वीकरोमीति चेत्-तत्राह—अजानताम् इति । वो युष्मान् । बहुत्वं गौरवात् । नो\ऽस्माकम् इति लक्ष्म्याद्य् अपेक्षया ॥ ९-१० ॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्वया अभिगमनाभ्युत्थानादिना मत्-सम्मानना-करणात् तवेदम् आसनं न स्वीकरोमीति चेत्, सत्यम्, मन्-महापराधः खल्व् अभूद् एव तत्र त्वत्-कृपैव मे गतिर् इत्य् आह—अजानताम् इति ॥९॥
॥ १०.८९.१० ॥
अतीव-कोमलौ तात चरणौ ते महा-मुने ।
इत्य् उक्त्वा विप्र-चरणौ मर्दयन् स्वेन पाणिना ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अजानतां नः । तात पूज्य ! । अहो अतीव-कठोर-दैत्य् अ-प्रेषित-गदादीनाम् अपि निज-स्पर्शेन विदारकस्य मदुरसो व्याघातेनातीव कोमलौ ते चरणौ भग्नावित्य् उक्त्वा । ननु, त्वयाभिगमनाभ्य् उत्थानादिना मत्-संमाननाकरणाद् अहं तवेदम् आसनं न स्वीकरोमीति चेत् सत्यम् । मन्-महा-पराधः खल्व् अभूदेव तत्र त्वत्-कृपैव मे गतिर् इत्य् आह—अजानताम् इति । वो युष्मान् बहुत्वं गौरवात् । नो\ऽस्माकम् इति लक्ष्म्य् आद्य् अपेक्षया ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.११ ॥
पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् ।
पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तीर्थ-कारिणा तीर्थत्व-निमित्तेन ॥ ११-१२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थत्व-निमित्तेन पावकेन । तीर्थं शास्त्राम्बुपावने इति यादवः । रक्षणोपवेशे प्रयोजनं च मम सुखम् एवेत्य् एवम् अतिस्तुत्या प्रतिपादयति-पुनीहि इति द्वाभ्याम् । सहलोकं श्री-वैकुण्ठ-लोकेन चतुर्दश-भुवन्या च सहितम्। लोक-पालान श्री-ब्रह्म-रुद्रादीन् मद्-गतान् मयि वर्तमानान् । तस्य विश्वोदरत्वात्-तेषां तद् अंशत्वाद् वा । भगवान् हे परम-पूज्य ! अतः क्षणम् उपविष्टस्य ते पादौ प्रक्षाल्य तज्-जलं धारयामीति भावः ॥११॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : क्षणोपवेशे प्रयोजनं चाह—पुनीहीति । सह-लोकं श्री-वैकुण्ठ-लोकेन चतुर्देश-भुवनैर् वा सहितम् । लोक-पालान् श्री-ब्रह्म-रुद्रादीन् मद्-गतान् मयि वर्तमानान् इत्य् अर्थः । विश्वोदरत्वात् त्वद्-अंशत्वाद् वा । हे भगवन् ! हे परम-पूज्येत्य् अर्थः । अतः क्षणम् उपविष्टस्य सतस् ते पादौ प्रक्षाल्य तज्-जलं धारयामीति भावः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्षणोपवेशे प्रयोजनं च मम सुखम् एवेत्य् एवम् अतिस्तुत्या प्रतिपादयति—पुनीहि इति द्वाभ्याम् । सह लोकं श्री-वैकुण्ठ-लोकेन चतुर्दश-भुवन्या च सहितं लोक-पालान् श्री-ब्रह्म-रुद्रादीन् मद्-गतान् मयि वर्तमानान् इत्य् अर्थः । तस्य विश्वोदरत्वात्-तेषां तद् अंशत्वाद् वा । भवान् हे परम-पूज्य ! अतः क्षणम् उपविष्टस्य ते पादौ प्रक्षाल्य तज्-जलं धारयामीति भावः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यदि चेमं महापराधम् अपि क्षान्तवान् एवासि तर्हि देहि पादोदकम् इत्य् आह—पुनीहीति । तीर्थानां गङ्गादीनाम् अपि तीर्थत्व-कारिणेति । एतत्-प्राप्त्यैव गङ्गादीनि तीर्थान्य् अभूवन्न् इत्य् अर्थः । अत्र भृगु-कृते एतावत्य् अप्य् अपराधे क्षमैव सत्त्व-गुण-धर्मः । प्रत्युत स्वस्यापराधित्व-मननेन त्वत्-प्रसादनं यद् एतत् शुद्ध-सत्त्व-धर्मो ज्ञेयः ॥११॥
॥ १०.८९.१२ ॥
अद्याहं भगवन् लक्ष्म्या आसम् एकान्त-भाजनम् ।
वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नित्य् अं मे वसतिर् देव विप्र-पादाङ्कित-स्थले । इति लक्ष्मी-वाक्याद् अधुना मां लक्ष्मीर् न हास्यतीत्य् आह—अद्येति । भवति सर्वदा तिष्ठतीति भवन् स चासौ पाद-हस्तेन हतांहसो नष्ट-किल्बिषस्य । लोक-सङ्ग्रहार्थेयम् उक्तिः । एतेनैतद्-भवत्-पाद-चिह्नं सर्वदा श्री-स्थैर्यायाहं न त्यक्ष्य इति ध्वनितम् एतद् एव श्रीवत्स-पदेनापि वर्ण्यते कैश्चिदति श्रीवत्सम् इति नामापि जायतां पाद-लक्षणम् इति । एतच् च तृतीय-स्कन्धे बहुधा वर्णितम् । भूतिः श्री-जन्म-भस्मसु इति यादवः ।
ननु, मनो-दुःखभरेण मया महा-पराधः कृतः लज्जया कथम् अत्रोपवेष्टव्यम् इत्य् आशय महा-न् अनुग्रह एव भवता कृत इत्य् आह—अद्येति । एकान्तं परमं भाजनम् आश्रयः तत्र च त्वम् एव ममर्थो\ऽसीत्य् आह—भगवन् हे सर्व-शक्ति-युक्तेति । अतो भूतिर् लक्ष्मीर् मे वक्षसि सदा वत्स्यतीत्य् अर्थः । तद्-धेतुम् एवाभिव्यञ्जयतिम् अगद् इति । तद् एवम् अस्मिन् श्री-विकुण्ठा-सुते लक्ष्मीर् एवाप्य् एतद् अनन्तरम् एव भविष्यतीति गम्यते ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु मनो-दुःख-भरेण मया महापराधः कृतः । लज्जया कथम् अत्रोपवेष्टव्यम् इत्य् आशङ्क्य महान् अनुग्रह एव भवता कृत इत्य् आह—अद्येति । एकान्ततः परम-निष्ठाया भाजनम् । अत्र च त्वम् एव समर्थोऽसीत्य् आह—भगवन् ! हे सर्व-शक्ति-युक्तेति । अतो भूतिस् त्वत्-पुत्री लक्ष्मीर् मे वक्षसि सदा वत्स्यतीत्य् अर्थः । तद्-धेतुम् एवाभिव्यञ्जयति—भवद् इति । एतेन लक्ष्म्या माहात्म्यं तज्-जनकत्वेन तस्य चाधिक्यं सूचितम् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, मनो-दुःखभरेण मया महा-पराधः कृतः लज्जया कथम् अत्रोपवेष्टव्यम् इत्य् आशय महा-न् अनुग्रह एव भवता कृत इत्य् आह—अद्येति । एकान्तं परमं भाजनम् आश्रयः तत्र च त्वम् एव समर्थो\ऽसीत्य् आह—भगवन् हे सर्व-शक्ति-युक्तेति । अतो भूतिर् लक्ष्मीर् मे वक्षसि सदा वत्स्यतीत्य् अर्थः । तद्-धेतुम् एवाभिव्यञ्जयतिम् अगद् इति । तद् एवम् अस्मिन् श्री-विकुण्ठासुते लक्ष्मीर् एवाप्य् एतद् अनन्तरम् एव भविष्यतीति गम्यते ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु च तुभ्यं त्वत्-प्रियायै प्रेमवत्यै लक्ष्म्यै च दुःखं ददानस्य ममाकल्पं नरकेष्व् एव वासो भविष्यति यद् अद्य पामर-विप्रस्य महा-पापिनो ममापवित्र-पादस् त्वद्-वक्षसि लग्न इत्य् आनुताप-जर्जरे सति तस्मिन् भो मुने कृपा-सिन्धो आवयोस् त्वं परमम् उत्सवम् एव कृतवान् असीत्य् आह—अद्येति ॥१२॥
॥ १०.८९.१३ ॥
श्री-शुक उवाच—
एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा ।
निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठोऽश्रु-लोचनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य मन्द्रय गम्भीरया गिरा निर्वृतस् तूष्णीं बभूवेति शेषः ॥ १३-१४ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । तस्य विष्णोः । मन्द्रया गम्भीरया । मन्द्रस्तु गम्भीरे इत्य् अमरः । तर्पितस् तृप्तिं प्रापितः । तूष्णीम् इत्य् अश्रु-रुद्ध-कण्ठत्वेन स्तुत्यसामर्थ्यात् । अत्र भगवल्-लीला-विनोद-सूत्र-धारन-र्तितस्य भृगोर् एतत्-कर्मणि अपराधो वाच्य इति प्राञ्च ॥१३-
१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैकुण्ठे श्री-विकुण्ठानन्दने श्री-वैकुण्ठेश्वर इति तस्य तादृश्य् उक्तिर् युक्तैवेति भावः । किं च, लक्ष्मी-प्रीत्या प्रपञ्चान्तर्-निर्मिते वैकुण्ठ-लोके भृगोर् गमनं ज्ञेयम् । आत्म-जाया लक्ष्म्यास् तत्र सौभाग्य-भर-प्राकट्येनात्मनोऽप्य् आदरादि-सम्भावनया गम्यत्वात्, प्रपञ्चातीत एव सहसा परीक्षार्थ-गमनाद्य्-असम्भवाद् इति । निर्वृतः स्वस्थ-चित्तः, यतस् तर्पितः प्रीणितः । अतो भक्तौ उत्कण्ठ उत्सूकः सन् । किं भक्त्या प्रेम्णा उद्गतः कण्ठो यस्य स बाष्प-रुद्ध-कण्ठ इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैकुण्ठे श्री-विकुण्ठ-नन्दने निर्वृतः स्वस्थ-चित्तः यतस् तर्पितः प्रीणितः अतो भक्त्या सादर-प्रेम्णा बाष्परुद्ध-कण्ठवात्-तद् उद्भूत-कण्ठस् तदीयस्वरो यस्य सः तादृशः सन्न् अश्रुलोचनो बभूव ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मन्द्रया गम्भीरया तूष्णीम् इत्य् अश्रु-रुद्ध-कण्ठत्वेन स्तुत्य्-असामर्थ्यात् । अत्र भगवल्-लीला-विनोद-सूत्र-धारणार्तितस्य भृगोर् एतत् कर्मणि नापराधो वाच्यः इति प्राञ्चः ॥१३॥
॥ १०.८९.१४ ॥
पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् ।
स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुनीनां ज्ञान-पराणाम्, अतो ब्रह्म-वादिनां सदा ब्रह्म-निरूपण-शीलानाम् । यद् वा, वेदार्थ-तत्त्व-निर्धारण-पराणाम् इत्य् अर्थः । यतो मुनीनां मनन-शीलानाम् । हे राजन्न् इति श्री-भगवद्-उत्कर्ष-सम्पत्त्या प्रहषोदयात् । यद् वा, तेनैव राजमानः ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मुनीनां ब्रह्म-वादिनां दीर्घ-सत्र एव मननार्थं वेदाभ्यास-पराणां न तु निर्णीत-वेदार्थानाम् इत्य् अर्थः ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.१५ ॥
तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः ।
भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतोऽभयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विस्मिता अपराधातिरेकेऽपि निर्विकारित्वेन भूयांसं श्रद्दधुः महत्तमं निश्चितवन्तः । यतो यस्मिन् ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-भ्रुगूक्तम् । अथ श्रवणोत्तरम् । अतिरेक आधिक्यम् । अभयं भय-निवर्तकता । विष्णुं स्व-माहात्म्येन विश्व-व्यापकं भूयांसे त्रिष्व् अप्य् अधीशेष्वतिशयेन महा-न्तं न तु महन् मात्रं तच् च युक्तम् एवेति तेषां वाक्यम् अप्य् अनुवदति-यत इत्य् आदिना-तत्-तीर्थ-साधनम् इत्य् अन्तेन । यतो हेतोर् अन्येषाम् अपि भृगोर् इव शान्ति-रक्षोभो भवति किमुत वस्यैव तस्येत्य् अर्थः । स्वल्पं प्रदीपादाव् एव क्षोभो दृश्यते न तु महति सूर्यादाव् इति तेन महत्तमत्वम् अनुमितम् इति भावः । अतः सापराधतया\ऽप्य् उपसन्नानां यतो भृगोर् इव भयाभावो\ऽपि भवति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विष्णुं स्व-माहात्म्येन विश्व-व्यापकम् । तच् च युक्तम् एवेत्य् आह—यत इत्य् आदि स-पादैस् त्रिभिः । यस्मिन् वर्तते । यद् वा, यस्माद् अन्येषाम् अपि शान्त्य्-आदिकं भवति । अभयं भयाभावः । यत इति मुहुर् निर्देशतः शान्त्य्-आदीनां तद्-एक-निष्ठताम् ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विष्णुं स्व-माहात्म्येन विश्व-व्यापकं भूयांसे त्रिष्व् अप्य् अधीशेष्वतिशयेन महा-न्तं न तु महन्-मात्रं तच् च युक्तम् एवेति तेषां वाक्यम् अप्य् अनुवदति-यत इत्य् आदिना- तत्-तीर्थ-साधनम् इत्य् अन्तेन । यतो हेतोर् अन्येषाम् अपि भृगोर् इव शान्तिरक्षोभो भवति किमुत स्व-स्यैव तस्येत्य् अर्थः । स्वल्पं प्रदीपादाव् एव क्षोभो दृश्यते न तु महति सूर्यादाव् इति तेन महत्तमत्वम् अनुमितम् इति भावः । अतः सापराधतया\ऽप्य् उपसन्नानां यतो भृगोर् इव भयाभावो\ऽपि भवति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.१६ ॥
धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् ।
ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वैराग्यं च चतुर्-विधम् इति पाठे तच् चातुर्-विध्यम् एवं द्रष्टव्यम् । विषयांस् त्यक्तुम् अशक्नुवतोऽपि संमानेच्छा-त्याग आद्यं वैराग्यम् । विषयाणां मध्ये लवणादि-व्यतिरेकेणापि वृत्तिर् द्वितीयम् । तथावृत्ताव् अपि मनसि राग-शैथिल्येन बाह्येन्द्रियैर् एव विषय-सेवनं तृतीयम् । तत्राप्य् औदासीन्यं चतुर्थम् । यथाहुः—
वैराग्यम् आद्यं यतमान-संज्ञां
क्वचिद् विरागो व्यतिरेक-संज्ञम् ।
एकेन्द्रियाख्यं हृदि राग-सौक्ष्म्यं
तस्याप्य् अभावस् तु वशी-कृताख्यम् ॥ इति ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवच्-छब्दार्थतां वर्णयंस् तत्राह—धर्म इति । साक्षात्-पूर्णः । तद् अन्वितम् । आद्यं यतम् आनाख्यम् । तत आद्यावाप्तेर् अनन्तरम् । लवणादीत्य् अत्रादिना घृतादि-सङ्ग्रहः । द्वितीयं व्यतिरेकाख्यम् । तथा वृत्ताव् अपि कस्यचिद्-विषय-त्यागे सत्य् अपि तृतीयम् एकेन्द्रियाख्यम् । तत्रापि बाह्येन्द्रिय-विषय-सेवने\ऽपि । औदासीन्यम् इच्छा-राहित्य् अं चतुर्थं वशीकाराख्यम् । अत्रार्थे साङ्ख्य-वृद्ध-सम्मतिम् आह—तत्राहुर् इति । तस्यापि हृदि राग-मोक्षस्यापि । यस्माद्य् अस्य ।
तद् एवं महत्तमत्वस्य चिह्नम् उक्तं हेतुम् अपि कैमुत्येन दर्शयंस् ततो\ऽप्राकृत-महा—सम्पत्तिम् अपि दर्शयति-धर्म इति त्रिभिः । साक्षाद्-धर्मो भगवद्-धर्मे यतः साक्षात्-पदस्य सर्वेर् अप्य् अन्वयः । तेन साक्षात् ज्ञाते श्री-भगवद् अनुभवः तद् अन्वितं त्रिक एक-कालः भक्ति-विरक्तिर् भगवत्-प्रबोधः इत्य् एकादशोक्तरीत्या प्रेम-तद् अनुभवान्वितम् एव न तु शुष्कं चतुर्विधम् इति पाठस् तैर् व्याख्यातः । तत्र यतम् आनसञ्ज्ञम् इति यतः संयतो मानः सम्मानेच्छा यत्रेत्य् अर्थः । क्वचिद् इति लवणादौ विरागो नाम व्यतिरेक-संज्ञं वैराग्यम् इत्य् अन्वयः । एकेति । एकानि एक-मुखीकृतानि इन्द्रियाणि यस्मिन् तत् राग-सौक्ष्म्यं रागस्याल्पतयावसानम् इति ज्ञेयम् । यद् वा, भक्त्य् एक-रागतश् चतुर्वर्ग-त्यागेन चतुर्विधं ततश् चाष्टधाणिमादिभेदैस्वर्यम् अप्राकृतं तद् अप्रार्थितम् अपीति भावः । यथगा तृतीये भक्तिर् अन्विच्छतो मे गतिमण्वी प्रयुङ्क्ते इत्य् उक्त्वा श्री-कपिलदेवो\ऽप्य् आह—
अथो विभूतिं मम मायया
चिताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्ताम् ।
श्रियं भागवती वा स्पृहयन्ति
भद्रां परस्य मे तेश्नुवते हि लोके ॥ [भा।पु।३.२५.३७] इति ॥
यत इति मुहुर् निर्देशः शान्त्यादीनां तद् एकनिष्ठतां बोधयति । यस्माच्-चात्मनः सर्वेषां मनसः मलं चाञ्चल्यादि-दोषं श्रवणादिना अपहन्ति दूराद् एव नाशयतीति तथा तत् । अत्र विश्वनाथ ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पक्षान्तरे च तत्-प्रसादैक-लभ्यतां बोधयति । साक्षात् स्वयम् एव धर्मः । पक्षान्तरे च प्रत्यक्षम् एवेत्य् अर्थः । ततश् चास्य सैर् अप्य् अन्वयः । तेनानिर्वचनीयेन वस्तुना भक्त्याख्येनान्वितम् । सर्वत्र दृढ-वैराग्ये सति स्वत एव भक्त्य्-उदयात् । पाठान्तरे तैर् व्याख्यातम् एव ।
यद् वा, भक्त्य्-एक-रागतश् चतुर्वर्ग-वैराग्येण चतुर्विध इति पारमार्थिकम् उक्त्वा लौकिकम् अप्य् आह—ऐश्वर्यम् इति । अष्टधेति अणिमाद्य्-अष्ट-भेदैः । आत्मनः सर्वेषां मनसो मलं चाञ्चल्यादि-दोषं श्रवणादिनापहन्ति । दूराद् एव नाशयतीति तथा तत् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं महत्तमत्वस्य चिह्नम् उक्तं हेतुम् अपि कैमुत्येन दर्शयंस् ततो\ऽप्राकृत-महा—सम्पत्तिम् अपि दर्शयति-धर्म इति त्रिभिः । साक्षाद्-धर्मो भगवद्-धर्मे यतः साक्षात्-पदस्य सर्वैर् अप्य् अन्वयः । तेन साक्षात् ज्ञाते श्री-भगवद् अनुभवः तद् अन्वितं त्रिक एक-कालः भक्ति-विरक्तिर् भगवत्-प्रबोधः इत्य् एकादशोक्तरीत्या सप्रेम-तद् अनुभवान्वितम् एव न तु शुष्कं चतुर्विधम् इति पाठस् तैर्व्याख्यातः । तत्र यतमान-सञ्ज्ञम् इति यतः संयतो मनः सम्मानेच्छा यत्रेत्य् अर्थः । क्वचिद् इति लवणादौ विरागो नाम व्यतिरेक-सञ्ज्ञं वैराग्यम् इत्य् अन्वयः । एकेति । एकानि मुखी-कृतानि इन्द्रियाणि यस्मिन् तत् राग-सौक्ष्म्यं रागस्याल्पतयावसानम् इति ज्ञेयम् । यद् वा, भक्त्य् एक-रागतश् चतुर्वर्ग-त्यागेन विविधं ततश् चाष्टधाणिमादि-भेदैरैश्वर्यम् अप्राकृतं तद् अप्रार्थितम् अपीति भावः । यथगा तृतीये भक्तिर् अन्विच्छतो मे गतिमण्वीं प्रयुङ्के इत्य् उक्त्वा श्री-कपिल-देवो\ऽप्य् आह—
अथो विभूतिं मम मायया चिताम्
ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्ताम् ।
श्रियं भागवती वा स्पृहयन्ति
भद्रां परस्य मे तेश्नुवते हि लोके ॥ [भा।पु।३.२५.३७] इति ॥
यत इति मुहुर् निर्देशः शान्त्यादीनां तद् एकनिष्ठतां बोधयति । यस्माच्-चात्मनः सर्वेषां मनसः मलं चाञ्चल्यादि-दोषं श्रवणादिना अपहन्ति दूराद् एव नाशयतीति तथा तत् ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यद्यपि पूर्वं श्री-विष्णौ विनयाख्य एव गुण उपलक्षितस् तथापि स खलु गुणः सर्वं पूरयितुम् एव स्पर्धादि-विषय-राहित्यात् परम-पूर्णतया सम्भवतीति तेनान्येऽपि तस्य गुणा लक्षिता इत्य् आह—धर्म इति ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साक्षाद्-धर्मः श्रवण-कीर्तनादि-लक्षणो यतः साक्षात् पादस्य सर्वत्रान्वयात् ज्ञानं भगवद्-अनुभवः ॥१६॥
॥ १०.८९.१७ ॥
मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् ।
अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुनीनाम् इत्य् आदिना शमादि-षट्-कोपेतानाम् इत्य् अर्थः । तद् एवम् ऐश्वर्य-प्रदत्वे\ऽप्य् उनपद्रव-हेतुत्वान्-मुनीनाम् इत्य् आदि प्रथमतो मननशीलानां ततो भगवच्-चिन्तनार्थं परित्य् अक्त-महा—दोषात्मकभूत-द्वेषाणां ततो भगवच्-चित्ततया यदृच्छालाभ-तुष्टानां ततो भगवद् एकस्पृहत्वेनान्यत्र स्वर्गापवर्ग-नरकेषु तुल्य-दर्शिनाम् अत एव भगवन्तं विनान्यत्र ममता-शून्यानाम् अत एव प्रोज्झित-कैतवानाम् इति क्रमेणार्थः ॥१७॥ अत्र विश्वनातस्तु
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शान्त्य्-आदिनापि स एव साध्य इत्य् आह—मुनीनाम् इति । सम-चेतसां सर्वत्र तुल्य-बुद्धीनाम् अकिञ्चनानां निरहङ्काराणां साधूनां वैष्णवानां विशेषणानाम् एषां यथोत्तरं हेतुत्वं हेतुमत्त्वं वा । गतिम् आश्रयं गम्यं बाहुः शास्त्रज्ञा इति मुमुक्षुभ्यो मोक्षद-तत्त्वं स्वतः परम-पुरुषार्थं चोक्तम् ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवम् ऐश्वर्य-प्रदत्वे\ऽप्य् उनपद्रव-हेतुत्वान्-मुनीनाम् इत्य् आदि प्रथमतो मननशीलानां ततो भगवच्-चिन्तनार्थं परित्य् अक्त-महा—दोषात्मक-भूतद्-वेषाणां ततो भगवच्-चित्ततया यदृच्छा-लाभ-तुष्टानां ततो भगवद् एकस्पृहत्वेनान्य् अत्र स्वर्गापवर्ग-नरकेषु तुल्य-दर्शिनाम् अत्र एव भगवन्तं विनान्यत्र ममता-शून्यानाम् अत एव प्रोज्झित-कैतवानाम् इति क्रमेणार्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मुनीनाम् इति । अत्र मुनि-शान्त-साधव एकैक-विशेषण-युक्ता मुमुक्षु-मुक्त-भक्ता ज्ञेयाः ॥१७॥
॥ १०.८९.१८ ॥
सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः ।
भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तुरवधारणे । यं विष्णुम् । अनाशिष इति यस्येत्य् अस्य विशेषणम् ब्राह्मणानां वा । एवम् अप्राकृत-शुद्ध-सत्त्वात्मक-वैभवत्वे\ऽपि प्राकृत-सत्त्वे यस्यानुग्रह-दृष्टिर् इति तत्रैव गुण-विशेषं दर्शयति मूर्तिर् इव मूर्तिर् अधिष्ठानं प्रिया कृपा-दृष्टि-योग्या तन्मयेष्व् अपि विशेषतो ब्राह्मण इष्ट-देवतावद् आराध्यमानाः तादृश-गुणाकृष्टत्वाद् एव यं वा यं च निपुण-बुद्धयो भजन्ति यद्य् अप्य् अनाशिषः शान्ताः सर्वत्र राग-द्वेष-रहिता । वा चार्थे एवार्थे वा ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्ति-निष्ठानां च मोक्षाद्य्-उपेक्षया केवलं भक्त्य्-एकापेक्षया स एव सेव्य इत्य् आह—सत्त्वम् इति । सत्त्व-गुणः सत्ता-मात्रं ब्रह्म वा, तु च, अतो ब्राह्मणाश् च यस्येष्ट-देवता नित्य-सम्पूज्याः शुद्ध-सात्त्विकत्वेन देव-परत्वाद् ब्रह्म-निष्ठत्वाच् च । अत एवानाशिषो निष्कामा यं भजन्ति सेवन्ते । वा समुच्चये । अनाशिष इत्य् अनेन भजनस्यैव साध्यत्वम् अभिप्रेतम् । अनाशिष्ट्वे हेतुः—शान्ताः श्री-भगवन्-निष्ठ-चित्ताः । तत्रैव हेतुः—निपुणेति । विचार-चातुर्या मोक्षाद्य्-अशेष-त्यागेन तद्-भजनैकापेक्षणाद् इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अप्राकृत-शुद्ध-सत्त्वात्मक-वैभवत्वे\ऽपि प्राकृत-सत्त्वे यस्यानुग्रह-दृष्टिर् इति तत्रैव गुण-विशेषं दर्शयति मूर्तिर् इव मूर्तिर् अधिष्ठानं प्रिया कृपादृष्टि-योग्या तन्मयेष्व् अपि विशेषतो ब्राह्मणा इष्ट-देवतावद् आराध्यमानाः तादृश-गुणाकृष्टत्वाद् एव यं वा यं च निपुण-बुद्धयो भजन्ति यद्य् अप्य् अनाशिषः शान्ताः सर्वत्र राग-द्वेषरहिता इत्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्य त्रि-गुणातीतत्वे\ऽपि सत्त्वं प्रिया मूर्तिः सात्त्विक-लोकाः प्रिया इत्य् अर्थः । तत्रापि ब्राह्मणाः प्रियतराः इष्ट-देव-तुल्यत्वेनादरणीयाः यं वा यम् एव ये भजन्तीत्य् अर्थः ॥१८॥
॥ १०.८९.१९ ॥
त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः ।
गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्य भगवत एव यद्य् अपि विविध आकृतयः । तत् तासु सत्त्वम् एव तीर्थ-साधनं पुरुषार्थ-हेतुः ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य विष्णोः । यद् वा, तीर्थस्य हरेः साधनं प्राप्त्य् उपायम् । सत्त्वं प्रिया मूर्तिर् इत्य् उक्तं तत्रान्या वा का मूर्तय इत्य् अपेक्षायां विविच्य त्रि-विधा आह—त्रीति । तत्र राक्षसास् तामस्यः असुरा राजस्यः सुराः सात्त्विकाः । तत्-तद् उपलक्षणत्वेनान्ये\ऽपि तत्-तद्-रूपा ज्ञेयाः । ननु, मायानासक्तस्य तस्य मायिक-सत्त्व-गुणे कथं रतिस्तत्राह—सत्त्वं खलु तस्य भगवतो यस्-तीर्थम् आगमस् तद्-भक्ति-प्रतिपादक-शास्त्रं तस्य साधनम् अवगम-द्वार-भूतं भवति । परम्परया भक्ति-सम्बन्धाद् एवेति भावः ॥१९॥ अत्र विश्वनाथ
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वेश्वरस्यापि तस्य सत्त्व-प्रिय-मूर्ति-हेतुम् आह—त्रिविधेति । आकृतयो रूपाण्य् अधिष्ठानानीत्य् अर्थः । गुणिन्या क्रमेण राक्षसत्वादि-हेतु-तमो-रजः-सत्त्व-गुणम् अप्य् आसत्त्वं सात्त्विक्य इति साधनम् इति चाभेदोपचारात् तीर्थ-साधिका इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, तत् तेषु गुणेषु मध्ये, अतो भृग्-अपराध-सहनादिकम् इदं किं नाम तस्य माहात्म्यम्, तद्-भक्ते सज्जनेऽपि कस्मिंश्चित् तत्-सम्भवात् । किन्तु शान्त्य्-आदिकम् एतत् सर्वं तस्मिन् वा साधारणम् । पक्षान्तरे च तत्-प्रसादेनान्यैर् अपि लभ्येतेति स एव सर्वोत्कर्ष-सेवित इति तात्पर्यम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत्त्वं प्रिया मूर्तिर् इत्य् उक्तं तत्रान्या वा का मूर्तय इत्य् अपेक्षायां विविच्य त्रि-विधा आह—त्रीति । तत्र राक्षसास् तामस्यः असुरा राजस्यः सुराः सात्त्विकाः । तत्-तद् उपलक्षणत्वेनान्ये\ऽपि तत्-तद्-रूपा ज्ञेयाः । ननु, मायान् आसक्तस्य तस्य मायिक-सत्त्व-गुणे कथं रतिस् तत्राह—सत्त्वं खलु तस्य भगवतो यस्तीर्थम् आगमस् तद्-भक्ति-प्रतिपादक-शास्त्रं तस्य साधनम् अवगम-द्वार-भूतं भवति । परम्परया भक्ति-सम्बन्धाद् एवेति भावः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु, निर्गुणस्य तस्य गुणे कथं प्रीतिः सम्भवेत्-तत्र तस्यौदासीन्यम् एवोचितम् । तत्राह—त्रि-विधा यद्य् अपि तस्यैव सम्यक्तया कृतया । सृज्याः तत्-तद् अपि सत्त्वं तीर्थ-साधनं पुरुषार्थ-हेतुर् इति ॥१९॥ श्री-स्वामिचरणाः
॥ १०.८९.२० ॥
श्री-शुक उवाच—
इत्थं सारस्वता विप्रा नृणां संशय-नुत्तये ।
पुरुषस्य पदाम्भोज-सेवया तद्-गतिं गताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्थं निश्चित्य सरस्वती-तीर-वासिनो विप्रा हरि-सेवया मुक्तं प्रापुर् इति ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सारस्वताः सरस्वती-तीर-वासिनः । नृणां संशयनुत्तये निश्चित्येति योज्यम् । तद् एवं शास्त्र-द्वारा तु ते स्वयं निश्चिन्वन्तः एवेति गम्यते । तद्-गति वा गताः तम् उपलब्धवन्तः । यद् वा, तच् चान्येषां नृणां संशयनाशाय जातम् इति भावः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नॄणाम् अन्येषां संशयस्य नुत्तये निरसनाय, अनेन सर्वतः श्री-भगवद्-उत्कर्षे तेषां सन्देहो नास्त्य् एव इति भावः । पुरुषस्येति तस्मिन्न् एव परमेश्वर-बुद्ध्य्-उत्पत्तेः पदाम्भोजयोः सेवयेति प्रेम-भक्तिर् उक्ता । अतस् तस्य तां वाऽनिर्वचनीयां गतिम्, किं वा तस्या सेवाया गतिं गम्य-स्थानं सर्वदा श्री-वैकुण्ठ-लोकम् इत्य् अर्थः । गता इति तन्-निर्धारणे गत-प्राया इत्य् अर्थः । भृग्व्-आदीनां प्रजापतीनाम् अभ्यधिकारिणां महा-प्रलयान्त-स्थायित्वात् । यद् वा, तेभ्योऽन्ये तत्रत्या विप्रा इति ज्ञेयम् । अत एव तैर् अपि व्याख्यातम्—सरस्वती-तीर-वासिन इति ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं तेषां निर्णयम् अनूद्य स्वयम् एवाहेत्य् आह—श्री-शुक उवाचेति । इत्थं निश्चित्येति तैर् व्याख्यातम् । तच् च नृणां संशयनुत्तये निश्चित्येति योज्यम् । तद् एवं शास्त्र-द्वारा तु ते स्वयं निश्चिन्वन्तः एवेति गम्यते । तद्-गतिं वा गताः तम् उपलब्धवन्तः । यद् वा, तच् चान्येषां नृणां संशय-नाशाय जातम् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.२१ ॥
श्री-सूत उवाच—
इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध-
पीयूषं भव-भय-भित् परस्य पुंसः ।
सुश्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णम्
पान्थोऽध्व-भ्रमण-परिश्रमं जहाति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यास-नन्दनस्य मुख-पङ्कजाद् उद्गतं गन्ध-युक्त-पीयूष-तुल्यं हरेः प्रशस्तं यशो यः संसारी सेवते स मुक्तो भवतीति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् एतत् पूर्वोक्तरीत्या वर्णितं विष्णुमहत्त्वोपाख्यानम् । गन्ध-पीयूषं सुगन्धिवन्-मनोहरं पीयूषवत् स्वादु भव-भयं भिनत्तीति तथा । सुश्लोकैर् आकलितं सुश्लोकम् आख्यानं यशो वा । अभीक्ष्णं पौनः-पुन्येन । पथि संसार-मार्गे वर्तमानः पान्थः पथि-गतौ अतो\ऽच् पुनः स्वार्थिको\ऽण् । अध्वभ्रमण-परिश्रमम् इदं श्रेयो\ऽदो वेति भ्रमणेनेतस् ततः पर्यटनेन प्रासं परिश्रमम् । तद् एतच् छास्त्र-विदाम् अपि महा-संशयापनोदनं श्री-गुरु-चरणोपदेशं परम-सन्तुष्टः श्लाघते । तेनान्यानप्य् अतीव श्रद्धापयति इतीति । प्रेम-प्रकारकम् एतत्-पूर्वक्तं मुनितनयेति । साक्षाद् उभय-नामाग्रहणं भक्त्य् उरेकात् । तद् आस्यपद्म् अस्य गन्धः सौरभ्यम् इवानुभवनीय-आमोद-विशेषो यत्र तादृशं पीयूष-तुल्यं च तद् एतत्-स्वतः पुरुषार्थत्वम् । तत आनुषङ्गिकतया जरा-मरणाद्य् आत्मक-भव-भयच्-छेदकं च सुश्लोकम् इति समृद्ध्य् अर्थे\ऽव्ययीभावः । सुशोभनः श्लोकः कीर्तिर् यत्र तद् एतच् चरितं वा श्रवण-पुटैर् इति बहुत्वं तच् छ्रवणाय बहुली-कृतत्वाद् इव । पान्थः संसार-पथिकः अध्वपरिश्रमं जहाति तद् आनन्देन प्राचीन-दुःख-विस्मृतेः । ततः परं भ्रमणाभावाच् चेति तद् एवं श्री-भागवतेन श्री-विष्णोर् एव सर्वोत्कर्षे स्पष्टे शास्त्रान्तरेषु श्री-विष्णु-शिवयोर् भेदम् अनेन दोषो यच्छूयते तद् अनेकान्ति-वैष्णव-शास्त्रत्वादनेकान्ति-वैष्णव-परम् एव । तद्-विपरीतं हि श्रूयते वैष्णव-शास्त्रे यथा पाद्यादौ—
यस् तु नारायणं देवं ब्रह्म-शिवादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इत्य् आदौ ।
तथा च विष्णु-धर्मोत्तरान्ते लिङ्ग-स्फोटन-नृसिंहोपाख्यानं विष्वक्सेन-नामा विप्रः कश्चिद् एकान्त-विष्णु-भक्त आसीत् । तस्य पृथिवीं भ्रमतो दैवात्-केनचिद्-ग्रामाध्य् अक्षुत्रेण मिलनम् अभूत् । तयोः सङ्कथा चेयम्—
देव-कर्मण्य् अशक्तिर् मे तात पूजय शङ्करम् ।
देवतायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥
लिङ्गम् अस्ति सुरेशस्य महा-देवस्य निर्मलम् ।
एवम् उक्तः प्रत्य् उवाच वयम् एकान्तिनः श्रुताः ॥
पूजयामश् च नैवान्यं तस्मात्-त्वं गच्छ माचिरम् ॥ इत्य् आदिका ॥
ततो ग्रामाध्यक्ष-पुत्रे तस्य विष्वक्सेनस्य शिरश् छेत्तुम् उद्यते तद्-धस्तेन मृत्युम् अनभीप्सन् स इदं विचारयामास । भवतु तत्रैव गच्छाम इति । ततो लिङ्ग-समीपं गत्वा तस्मिन्न् अधिष्ठाने नृसिंहाय नमः इति पुष्पाञ्जलौ विक्षिप्ते तच् छ्रुत्वा पुनः शिरश् छेत्तुम् उद्यतस्य तल्-लिङ्गं स्फोटयित्वा निर्गतेन श्री-नृसिंहेन सपरिवारस्य ग्रामाध्यक्ष-पुत्रस्य शिरांसि छिनानीति । तद् एतद् उक्तं स्कान्दे श्री-शिवेन शिव-शास्त्रेषु तद्-ग्राह्यं भगवच् छास्त्र-योगि यत् इति । श्री-हरिवंशे\ऽपि—
हरिर् एव सदा ध्येयो भवद्भिः सत्त्व-संश्रयैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ इति ॥
यत्तु श्री-भागवतम् एव—
त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।
सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ इत्य् आदि ॥
तत् खलु श्री-विष्णोः सकाशात् अन्यास्वातन्त्र्यापेक्षयैव तद् उक्तं श्री-ब्रह्मणा—
सृजामि तन्-नियुक्तो\ऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ इति ॥
अत्रैवोक्तं श्री-सङ्कर्षणेन ब्रह्मा भवो\ऽहम् अपि यस्य कलाः कलायाः इति—
यत्-पाद-निःसृत-सरित्-प्रवरोदकेन ।
तीर्थेन मूर्ध्यधि-कृतेन शिवः शिवो\ऽभूत् ॥ इति ।
एतद् अभिप्रेत्यैवोक्तं पाद्मे\ऽपि—
शिवस्य विष्णोर् य इह गुण-नामादि सकलं
धियाभिन्नं पश्येत् स खलु हरि-नामाहितकरः ॥ इति ।
अत्र श्री-विष्णुनेति तृतीयाया अनिर्देशाद् अत्रैव श्री-शब्दाच् च श्री-मतः सर्व-शक्ति-युताद्-विष्णोः सर्व-व्यापकत्वेन तन्-नाम्नस् तस्माद्यः शिवस्य गुण-नामादि-सकलं धिया भिन्नं स्व-तन्त्रं पश्येद् इत्य् अर्थः । अतो मार्कण्डेयं प्रति श्री-शिववाक्यं चेदम् एवम् एव—
न ते मय्य् अच्युतेये च भिदामण्व् अपि चक्षते ।
नात्मनश् च (जन ) परस्यापि तद् युष्मान् वृमीमहि ॥ इति ।
तत्-तेभ्यो\ऽपि सर्व-समदृष्टिभ्यो वयं युष्मान् एव ईमहि । प्रियत्वेन जानीम इति—
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्-भागवतानां च प्रेयान् अन्यो\ऽस्ति कर्हिचित् ॥
इति चतुर्थे तस्यैवोक्तेः । अत्र एवापि तत्-पूर्वम्—
नैवेच्छत्य् आशिषः कापि ब्रह्मर्षिर् मोक्षम् अप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषे\ऽव्यये ॥ इति ।
शिवोक्त-महिम-भक्त्या भगवति समाधिस्थस्य तस्य देव्यै महिम-दर्शनार्थं हृदि छलेन स्वयं शिवे प्रविष्टे विरतिर् जाता यथोक्तं किम् इदं कुत एवेति समाधेर् विरतोमुनिर् इ\ऽति । तच् चान्यथा न सम्भवतीति अतः श्री-विष्णाव् एव सर्वोत्कर्षे सिद्धे श्री-विष्वक्सेन-मार्कण्डेयादिवत्-तदीयत्वेनैव वैष्णवैः स आरदणीयः वैष्णवानां यथा शम्भुर् इति द्वादशान्त-वचनात्-परम-वैष्णवत्वेन तु सुतरां बत एवोक्तम् आदिवाराहे—
जन्मान्तर-सहस्रेण समाराध्य वृषध्वजम् ।
वैष्णवत्वं लभेद्-धीमान् सर्व-पापक्षये सति ॥ इति ।
निन्दादिकं तु सर्वथा परिहर्तव्यम्—
यो मां समर्थयेन् नित्यम् एकान्तं भावम् आस्थितः ।
विनिन्दन् देवमीशानं स याति नरकं ध्रुवम् ॥
इत्य्-आदि श्री-भगवद्-वाक्यदिभ्यः ।
अत्र श्रुतयः यं कामयेतम् उग्रं कृणोमि तं ब्रह्माणं तं सुमेधां मम योनिर् अश्वन्तर् इति महा-शक्ति-वचने मध्ये वामनम् आसीनं विश्वेदेवा उपासत इति तैत्तिरीयोपनिषदि।
रुद्र-जापक-शतम् एकम् अथर्वाङ्गिरस-शिखाध्यापकेन तत्-समम् ।
अथर्वाङ्गिरस-शिखाध्यापक-शतम् एकं मन्त्राजाध्यापकेन तत्-समम्
इति श्री-नृसिंहतापन्याम् । तद् एतच् छ्री-भागवत-सन्दर्भ-परमात्म-भक्ति-सन्दर्भयोः विस्तृतम् अस्तीत्य् अलम् अतिविस्तरेण ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो किं वक्तव्यं तत्-सेवया तद्-गतिं प्राप्ता इति । तद्-उपाख्यान-श्रवणेऽपि संसार-दुःखाद् विमुक्तो भवतीति श्री-शुकदेवाभिप्रायम् आलक्ष्य तन्-मुखाब्जाद् एव तच्-चरित-माधुरीं चापेक्ष्य सुप्रीतः श्री-लोमहर्षणिर् गायन्न् इवाह—इतीति । एवम् एतद् इति नपुंसकं पीयूष-विशेषणत्वात् । यद् वा, इति ईदृशम् एतस्य श्री-भगवत्-प्रियतमत्वेन सर्वैर् अनुभूयमानस्य मुनि-तनयस्यास्य पद्म-गन्ध-पीयूषं पद्म-रूपकेण गन्धेत्य् अनेन च पीयूषस्य शैत्य-सौरभ्यादिनात्यन्तोत्कृष्टता ध्वनिता । इति महा-मधुरतया तस्यैव परम-फलत्वम् अभिप्रेतम् । भव-भयं भिनन्तीति तथा तत् । एतच् चानुषङ्गिक-फलम् उक्तम् । यद् वा, भय-भिच् चासौ परः सर्वोत्कृष्टश् चेति । तथा तस्येति सुश्लोकस्यापि तादृशत्वम् अभिप्रेतम् । अभीक्ष्णं श्रवण-पुटैः पिबति, सदा प्रीत्या परमाभिनिवेशेन शृणोतीत्य् अर्थः । तादृश-पीयूषत्वेन त्यागाशक्तेर् इति स्वरूप-मात्र-निर्देशः । कथञ्चित् सकृच्-छ्रवणेनापि संसार-दुःख-ध्वंसात् । पुटैर् इति बहुत्वं तत्-पानेन तद्-बहु-मानात् । पान्थः संसार-मार्ग-पतितोऽपि स श्री-वैकुण्ठ-लोक-प्राप्त्या संसार-दुःख-रहितो भवति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एतच् छास्त्र-विदाम् अपि महा-संशयापनोदनं श्री-गुरु-चरणोपदेशं परम-सन्तुष्टः श्लाघते । तेनान्यान् अप्य् अतीव श्रद्धापयति इतीति । प्रेम-प्रकारकम् एतत्-पूर्वक्तं मुनितनयेति । साक्षाद् उभय-नामाग्रहणं भक्त्य् उद्रेकात् । तद् आस्यपद्म् अस्य गन्धः सौरभ्यम् इवानुभवनीय-आमोद-विशेषो यत्र तादृशं पीयूष-तुल्यं च तद् एतत्-स्वतः पुरुषार्थत्वम् । तत आनुषङ्गिकतया जरामरणाद्य् आत्मक-भव-भयच्-छेदकं च सुश्लोकम् इति समृद्धयर्थे\ऽव्ययीभावः । सुशोभनः श्लोकः कीर्तिर् यत्र तद् एतच् चरितं वा श्रवण-पुटैर् इति बहुत्वं तच् छ्रवणाय बहुलीकृतत्वादिव । पान्थः संसार-पथिकः अध्व-परिश्रमं जहाति तदानन्देन प्राचीन-दुःख-विस्मृतेः । ततः परं भ्रमणाभावाच् चेति तद् एवं श्री-भागवतेन श्री-विष्णोर् एव सर्वोत्कर्षे स्पष्टे शास्त्रान्तरेषु श्री-विष्णु-शिवयोर् भेदम् अनेन दोषो यच्छ्रयते तद् अनेकान्ति-वैष्णव-शास्त्रत्वाद् अनेकान्ति-वैष्णव-परम् एव । तद्-विपरीतं हि श्रूयते वैष्णव-शास्त्रे यथा पाद्मादौ—
यस्तु नारायणं देवं ब्रह्म-स्दादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद्-ध्रुवम् ॥ इत्य् आदौ ।
तथा च विष्णु-धर्मोत्तरान्ते लिङ्ग-स्फोटन-नृसिंहोपाख्यानं विष्वक्सेन-नामा विप्रः कश्चिद् एकान्त-विष्णु-भक्त आसीत् । तस्य पृथिवीं भ्रमतो दैवात्-केनचिद्-ग्रामाध्यक्षुत्रेण मिलनम् अभूत् । तयोः सङ्कथा चेयम्—
देव-कर्मण्य-शक्तिर् मे तात पूजय शङ्करम् ।
देवतायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥
लिङ्गम् अस्ति सुरेशस्य महा-देवस्य निर्मलम् ।
एवम् उक्तः प्रत्युवाच वयम् एकान्तिनः श्रुताः ॥
पूजयामश् च नैवान्यं तस्मात्-त्वं गच्छ माचिरम् ॥ इत्य् आदिका ।
ततो ग्रामाध्यक्ष-पुत्रे तस्य विष्वक्सेनस्य शिरश्-छेत्तुम् उद्यते तद्-धस्तेन मृत्युम् अनभीप्सन् स इदं विचारयामास । भवतु तत्रैव गच्छाम इति । ततो लिङ्ग-समीपं गत्वा तस्मिन्न् अधिष्ठाने नृसिंहाय नमः इति पुष्पाञ्जलौ विक्षिप्ते तच् छ्रुत्वा पुनः शिरश्-छेत्तुम् उद्यतस्य तल्-लिङ्गं स्फोटयित्वा निर्गतेन श्री-नृसिंहेन सपरिवारस्य ग्रामाध्यक्ष-पुत्रस्य शिरांसि छिनानीति । तद् एतद् उक्तं स्कान्दे श्री-शिवेन शिव-शास्त्रेषु तद्-ग्राह्यं भगवच्-छास्त्रयोगि यत् इति । श्री-हर् इवंशे\ऽपि—
हरिर् एव सदा ध्येयो भवद्भिः सत्त्व-संश्रयैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ इति ॥
यत्तु श्री-भागवतम् एव—
त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।
सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ इत्य् आदि ॥
तत् खलु श्री-विष्णोः सकाशात् अन्यास्वातन्त्र्यापेक्षयैव तद् उक्तं श्री-ब्रह्मणा—
सृजामि तन्-नियुक्तो\ऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ इति ॥
अत्रैवोक्तं श्री-सङ्कर्षणेन ब्रह्मा भवो\ऽहम् अपि यस्य कलाः कलायाः इति—
यत्-पाद-निःसृत-सरित्-प्रवरोदकेन ।
तीर्थेन मूर्ध्यधि-कृतेन शिवः शिवो\ऽभूत् ॥ इति ।
एतद् अभिप्रेत्यैवोक्तं पाद्मे\ऽपि—
शिवस्य विष्णोर् य इह गुण-नामादि सकलं
धियाभिन्नं पश्येत् स खलु हरि-नामाहितकरः ॥ इति ।
अत्र श्री-विष्णुनेति तृतीयाया अनिर्देशाद् अत्रैव श्री-शब्दाच् च श्री-मतः सर्व-शक्ति-युताद्-विष्णोः सर्व-व्यापकत्वेन तन्-नाम्नस् तस्माद्यः शिवस्य गुण-नामादि-सकलं धिया भिन्नं स्व-तन्त्रं पश्येद् इत्य् अर्थः । अतो मार्कण्डेयं प्रति श्री-शिववाक्यं चेदम् एवम् एव—
न ते मय्यच्युतेये च भिदामण्व् अपि चक्षते ।
नात्मनश् च (जन ) परस्यापि तद् युष्मान् वृमीमहि ॥ इति ।
तत्-तेभ्यो\ऽपि सर्व-समदृष्टिभ्यो वयं युष्मान् एव ईमहि । प्रियत्वेन जानीम इति—
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्-भागवतानां च प्रेयानन्यो\ऽस्ति कर्हिचित् ॥
इति चतुर्थे तस्यैवोक्तेः । अत्र एवापि तत्पूर्वम्—
नैवेच्छत्य् आशिषः कापि ब्रह्मर्षिर् मोक्षम् अप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषे\ऽव्यये ॥ इति ।
शिवोक्त-महिम-भक्त्या भगवति समाधिस्थस्य तस्य देव्यै महिम-दर्शनार्थं हृदि छलेन स्वयं शिवे प्रविष्टे विरतिर् जाता यथोक्तं किम् इदं कुत एवेति समाधेर् विरतोमुनिर् इ\ऽति । तच् चान्यथा न सम्भवतीति अतः श्री-विष्णाव् एव सर्वोत्कर्षे सिद्धे श्री-विष्वक्सेन-मार्कण्डेयादिवत्-तदीयत्वेनैव वैष्णवैः स आरदणीयः वैष्णवानां यथा शम्भुर् इति द्वादशान्त-वचनात्-परम-वैष्णवत्वेन तु सुतरां बत एवोक्तम् आदिवाराहे—
जन्मान्तर-सहस्रेण समाराध्य वृषध्वजम् ।
वैष्णवत्वं लभेद्-धीमान् सर्व-पापक्षये सति ॥ इति ।
निन्दादिकं तु सर्वथा परिहर्तव्यम्—
यो मां समर्थयेन् नित्यम् एकान्तं भावम् आस्थितः ।
विनिन्दन् देवमीशानं स याति नरकं ध्रुवम् ॥
अत्र श्रुतयः यं कामयेतम् उग्रं कृणोमि तं ब्रह्माणं तं सुमेधां मम योनिर् अश्वन्तर् इति महा-शक्ति-वचने मध्ये वामनम् आसीनं विश्वेदेवा उपासत इति तैत्तिरीयोपनिषदि ।
रुद्र-जापक-शतम् एकम् अथर्वाङ्गिरस-शिखाध्यापकेन तत्-समम्
अथर्वाङ्गिरस-शिखाध्यापक-शतम् एकं मन्त्र-राजाध्यापकेन तत्-समम् ॥
इति श्री-नृसिंह-तापन्याम्1 । तद् एतच् छ्री-भागवत-सन्दर्भ-परमात्म-भक्ति-सन्दर्भयोः विस्तृतमस्तीत्य् अलम तिविस्तरेण ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पद्म-गन्ध-पीयूषम् इत्य् उपाख्यानस्यास्य पीयूषत्वाद्-भव-रोग-निवर्तकत्वम् । पद्म-गन्धवत्वात् भक्त-मधुकराकर्षकत्वं च ॥२१॥
॥ १०.८९.२२ ॥
श्री-शुक उवाच—
एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः ।
जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स चोक्त-लक्षणो भगवान् कृष्ण एवेति दर्शयितुम् आख्यानान्तरम् आह—एकदेति ॥ २२-२५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च भृगु-परीक्षित उक्त-लक्षणो नित्य-धर्म-ज्ञानादि-रूपः श्री-कृष्ण एवेत्य् आह—एकदा श्री-कृष्णस्य यज्ञकाले । इत्थम् उक्तः श्री-विष्णोर् उत्कर्षः स्वयं भगवति श्री-कृष्ण एव पर्यवस्यतीत्य् आशयेन साक्षात्-तन्-माहात्म्यम् एव विशेषतो निरूपयितुं प्रसङ्गान्तरम् आरभते-एकदेति । तु-शब्दः पूर्वोक्ताद्-विशेषापेक्षया । किल प्रसिद्धौ । प्रसिद्धम् एवैतद् इत्य् अर्थः । हे भारतेति । यथा नष्टो भरत-वंशस् त्वज्-जीवनेन भगवतोद्धृतस् तथास्य विप्रस्य वंशम् अप्य् एतत्-पुत्र-जीवनेनोद्धरिष्यतीति भावः । यद् वा, भरत-वंशयशो-वृद्ध्य् अर्थम् एव भगवता तदा जीवित इति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थम् उक्तः श्री-विष्णोर् उत्कर्षः स्वयं भगवति श्री-कृष्ण एव पर्यवस्यतीत्य् आशयेन साक्षात्-तन्-माहात्म्यम् एव विशेषतो निरूपयितुं प्रसङ्गान्तरम् आरभते-एकदेति । तु-शब्दः पूर्वोक्ताद्-विशेषापेक्षया। किल प्रसिद्धौ । सर्वत्र सुविख्यातम् एवैतद् इत्य् अर्थः । अतो भगवन्-निवासे\ऽपि तद् असम्भावितम् इति न मन्तव्यम् इति भावः ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं भगवत एव सर्वोत्कर्षम् उक्त्वा भगवत्त्वे\ऽपि कृष्णस्य सर्व-महोत्कर्षं वक्तुं किम् अपि तच् चरितम् आह—एकदेति ॥ २२-२३ ॥
॥ १०.८९.२३ ॥
विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः ।
इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं वक्ष्यमाणम् । यस्य सा पत्नी स विप्रः राज्ञ उग्रसेनस्य द्वारि प्रोवाच सकाकु चुक्रोशेत्य् अर्थः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्य पत्नी सा स विप्रः राज्ञ उग्रसेनस्य द्वारि प्रोवाच । सकाकु चुक्रोशेत्य् अर्थः । कथं विलपन् विलापं कुर्वन् यत आतुरः शोकपीडितः अत एव दीनमानसो दुःखित-चित्तः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.२४ ॥
ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः ।
क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतोऽर्भकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्मद्-विषः वेद-विष्णु-विप्र-विरोद्धः । शठधियो वञ्चनापरस्य । ब्रह्म वेदो ब्राह्मण-जातिर् वा तद्-वेष्टीति तथा तस्य । ब्राह्मण-मरणे\ऽप्य् औदासीन्याद् इति भावः । यतः शठा धर्म-रहिता धीर् यस्य तस्य । तत्र हेतुर् विशेष-येष्व् आत्मा बुद्धिर् यस्य । तत्रापि हेतुः क्षत्र-बन्धोर् इति क्षत्रिय-धामस्य ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म वेदः ब्राह्मण-जातिर् वा तद्-वेष्टीति तथा ब्राह्मण-मरणे\ऽप्य् औदासीन्याद् इति भावः । यतः शठा धीर् यस्य तस्य तत्र हेतुः विषयेषु आत्मा मनो यस्य तस्य । तत्रापि हेतुः क्षत्र-बन्धोः क्षत्रियाधमस्य ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षत्र-बन्धोर् इति मयि न को\ऽपि दोषः अतो राज-दोषेणैव मत्-पुत्रो मृतः ॥ २४-२५ ॥
॥ १०.८९.२५ ॥
हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् ।
प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शीलं धर्म-द्वेष्टारम् । सीदन्ति क्लिश्यन्ति । राज-दोषेण स्व-बाल-मरणे शास्त्रं प्रमाणयति-हिंसेति । हिंसाविहारे हेतुः—दुःशीलं स्वभावम् । तत्र चे हेतुः—अजितेन्द्रियम् । सीदन्ति विषण्णा भवन्ति ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु च । तृतीयं च । च-काराद् अन्यान्यम् अपि नवमान्तम् । विप्रश् चासाव् ऋषीश् च । महातपा इति तस्य बालक-मरणे स्वतो दोषाभावः सूचितः । जात-मात्रस्यैव मरणात् तद्-बालस्याप्य् उक्त एव । अतो राज-दोषेणैव मिर्यन्त इति पर्यवस्यत्य् एव ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राज-दोषेणात्मनो बालक-मरणे शास्त्रं प्रमाणयति-हिंसेति । हिंसाविहारत्वे हेतुः दुःशीलं दुष्ट-स्वभावम् । तत्र च हेतुः अजितेन्द्रियं भजन्त्यः सीदन्ति । कीदृशाः दरिद्राः नित्यं दुःखिताश् च विविध-शोकार्ताः सत्यः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.२६ ॥
एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च ।
विसृज्य स नृप-द्वारि तां गाथां समगायत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-द्विष इत्य्-आदिकां तां गाथां वाक्यम् । मयि न कश्चिद् दोषोऽतो राज-दोषेणैव मत्-पुत्रा म्रियन्त इति वारं वारं चुक्रोशेत्य् अर्थः ॥ २६-२७ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-अधर्म-वर्तिनां राज्ञां विषये कुतः प्रजानां मुखम् इति भावः । विप्रर्षिर् इति । तस्य स्वतो दोषे\ऽभावे आदरणीये च योग्यता दर्शितेति ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [सनातन-गोस्वामिपाद-विरचित-बृहद्-वैष्णव-तोषण्याम् एतावत्य् एव टीका समुपलब्धास्माभिः]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु च तृतीये च च-काराद् अन्यम् अपि नवमान्तं विप्रर्षिर् इति तस्य स्वतो दोषाभावे चादरे च योग्यत्वं दर्शितम् । तां गाथाम् इति तस्याभिधेयत्वेन ब्रह्मद्विष इत्य् आदिका तत्-पोषकत्वेन हिंसेत्यादिका ज्ञेया ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां ब्रह्मद्विष इत्य् आदिकां गाथाम् ॥ २६-२७ ॥
॥ १०.८९.२७ ॥
ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके ।
परेते नवमे बाले ब्राह्मणं समभाषत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परेते मृते । केशवान्तिक इति पार्थस्याधार्ट्य-बोधनार्थम् । केशौ जगत्-स्रष्टृ-संहर्ताराव् अपि यस्य वशे तस्य तद्-रक्षणं किं दुर्घटम् इत्य् अविचारात् ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : केशवस्यैवान्तिके वर्तमानस् तां गाथाम् उपश्रुत्य पारम्पर्येण श्रुत्वा ब्राह्मणम् उपेत्य सम्यक् साश्वासनम् उच्चैर् उवाच ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.२८ ॥
किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः ।
राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्र आसते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्मन् किं स्विद् इति । किम् अर्थं वृथा रोदिषि । यतस् त्वन्-निवासे धनुर्-धर-मात्रोऽपि राजन्य-बन्धुर् अपि नास्ति, ब्रह्मण्यस्य तु का वार्ता । एते तु सत्रे यागे इव ब्रःमणा मिलिता भवितुम् अर्हन्तीत्य् अर्थः ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एते यदवस्तु । इत्य् अर्थ इति-यागे यथा भोजनाद्य् अर्थम् इतस्ततो ब्राह्मणा आगत्य तिष्ठन्ति एवं यादवा अपि विषय-सुख-लम्पटत्वारक्षणाद्-ब्राह्मणादिकं नानुसन्दधत इति भावः । ब्रह्मन्न् इति सगौरव-सम्बोधनं तत्-सान्त्वनार्थं विश्वासार्थं तद् उपेक्षा-दोषव्यञ्-जनार्थं च । वै उत्प्रेक्षायाम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्मन्नित्य् आदि सगौरव-सम्बोधनं तस्य सान्त्वनार्थं विश्वासनार्थं च तत्रत्यानां तद् उपेक्षा-दोष-व्यञ्जनार्थं च राजन्य-बन्धुर् अपि किमुत राजन्य इत्य् अर्थः । वै उत्प्रेक्षायाम् ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : राजन्य-बन्धुर् इति निकृष्टः क्षत्रियो\ऽपि किं नास्ति ब्रह्मण्यस्य का वार्तेति गर्वात् तत्रत्यान् प्रति कटाक्षः । ननु, राजन्या अत्र सङ्कटे वद किं कर्तुम् अर्हन्ति । तत्र तर्जन्या दर्शयन्न् आह—एते ब्राह्मणा अत्र सत्र-यागमासते कुर्वन्त्येव तत् किल पाल्यमाना इमे एव नाशमर्हन्तीति वक्रोक्तिः ॥२८॥
॥ १०.८९.२९ ॥
धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः ।
ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवाह—धन-दारात्म-जापृक्ता यत्रेति । धनादिभिर् वियुक्ताः सन्तो यत्र येषु जीवत्सु राजन्येषु शोचन्ति ते जीवन्ति केवलं जीविकां संपादयन्ति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एव ब्राह्मण-रक्षणम् एव । येषु क्षत्रियेषु । ते क्षत्रिय-विडम्बना नटा इव प्राणादि-धारणार्थं शस्त्रादि बिभ्रतीत्य् अर्थः । परम-नीचत्वेनैव विता इत्य् आह—धनेति ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं वा, परम-नीचत्वेनैव विता इत्य् आह—धनेति । धनादीनां यथोत्तरं श्रेष्ठ्यम् ॥२९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्रत्यानां राजन्य-बन्धुत्वे प्रमाणं शृण्वित्य् आह—धनादिभिर् अपृक्ता वियुक्ताः । यत्र येषु जीवत्सु शोचन्ति ॥२९॥
॥ १०.८९.३० ॥
अहं प्रजा वां भगवन् रक्षिष्ये दीनयोर् इह ।
अनिस्तीर्ण-प्रतिज्ञोऽग्निं प्रवेक्ष्ये हत-कल्मषः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : हत-कल्मष इति । अग्नि-प्रवेशेन ब्राह्मण-विलाप-श्रवण-पातकात् पूतो भवेयम् इत्य् अर्थः । अहत-कल्मष इति वा ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इह द्वारकायाम् । वां युवयोः स्त्री-पुंसयोः । इत्य् अर्थ इति-ब्राह्मण-दुःखं समर्थेनापाकार्यम् अन्यथा पातकी स्याद् इति भावः । अहत-कल्मष-श्चेत्-तर्हि मिथ्या-प्रतिज्ञत्वाद् अग्निं प्रवेक्ष्य इत्य् अर्थः । वां युवयोर् इति महा-शोकेन ब्राह्मण्या अपि तत्रागमनात् । किं वा, तस्य सङ्ग्रहो दुःख-व्यञ्जनार्थम् । अन्यत्-तैः । यद् वा, अग्नि-प्रवेशे प्रयोजनम् आह—हत-कल्मष इति ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वा युवयोर् इति महा-शोकेन ब्राह्मण्या अपि तत्रागमनात् । किं वा, तस्य सङ्ग्रहो दुःख-व्यञ्जनार्थम् । अन्यत्-तैः । यद् वा, अग्नि-प्रवेशे प्रयोजनम् आह—हत-कल्मष इति स्याम् इति शेषः ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वाम् इति महा-शोकेन ब्राह्मण्या अपि मौनवत्यास् तत्रागमनात् । न निस्तीर्णा किन्तु भग्नैव प्रतिज्ञा यस्य तथा-भूतश्चेद् अहं स्याम् अग्निं प्रवेक्ष्यामीति । तत एव हत-कल्मषः प्रतिज्ञा-भङ्ग-लक्षण-दोष-रहितः स्याम् ॥ ३०-३१ ॥
॥ १०.८९.३१ ॥
श्री-ब्राह्मण उवाच—
सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः ॥
अनिरुद्धोऽप्रति-रथो न त्रातुं शक्नुवन्ति यत्
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्कर्षेति युग्मकम् । तत्र सङ्कर्षणादि-चतुर्णां नाम-व्युत्पत्तैव स्पट-महिमतया साम्येऽपि उत्तरयोर् विशेषणा-दानेन सामान्यम् अभिप्रैति । यत् मद् अपत्य-रक्षणारूपं कर्म । त्रातुं निर्विघ्नी-कर्तुं न श्क्नुवन्ति । नो सहन्ते ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षणा इति युग्मकम् । तत्र सङ्कर्षणादि-तुर्णां नाम व्युत्पत्त्येव स्पट-महिमत्त्साम्येऽपि उत्तरयोर् विशेषणा-दानेन पूर्वाभ्यां सामान्यम् अभिप्रैति । यत् मद् अपत्य-रक्षणारूपं कर्म त्रातुं निर्विघ्नी-कर्तुं न श्क्नुवन्ति । नो सहन्ते तत्-खलु जगदीश्वरैस् तैर् अपि दुष्करं कर्म भवान् कत्रन्नु त्रातुं शक्नोति । तस्माद्-बालिश्याड् एव त्वं तच् चिकीर्षसि तत एव वयं न श्रद्द्द्महे ॥ ३१-३२ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.३२ ॥
तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः ।
त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न श्रद्दध्महे न संप्रतीमः ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : बालिश्यान् मौर्ख्यात् । बालिशो बाल-मूर्खयोः इति हलधरः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.३३ ॥
श्री-अर्जुन उवाच—
नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च ।
अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्कर्षण इति गर्भ-सङ्कर्षणस्य । कृष्णश्चेति सुश्यामत्व-मात्रस्याभिप्रायेण । नञः पुनः प्रयोगो निषेध-दाढाय । कार्ष्णिर् एव प्रद्युम्नो\ऽपि । अत्यन्तावज्ञयानिरुद्धस्य नामापि न प्रस्तुतम् ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षण इति गर्भ-सङ्कर्षणस्य कृष्णश्चेति सुश्यामत्व-मात्रस्याभिप्रायेण नञः पुनः प्रयोगो निषेध-दाढार्थं काष्णिर् एव च प्रद्युम्नो\ऽपि अत्यन्तावज्ञया अनिरुद्धस्य नामापि न प्रस्तुतम् ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गाण्डीवम् इति तद्-धनुर्दर्शयति ॥ ३३-३५ ॥
॥ १०.८९.३४ ॥
मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् ।
मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मृत्युं यमराजम् । प्रधने युद्धे । त्र्यम्बकस्य किरात (त्व)च्छद्मनस् तोषणं तत्-तुल्यतया प्रीतिकरं तथा भारताख्यानात् । अथ विप्राश्वासनार्थं प्रतिजानीते-मृत्युम् इति । प्रधने रण-मध्ये विशेषेण मारणादिना जित्वा प्रजाः सर्वान् अपि पुत्रान् न केवलम् एतां प्रजाम् इति पाठो बहुत्र श्री-मद् अर्जुनस्यापीदृशी गर्वोक्तिर् ब्रह्मण्य-देवस्य विप्रोपेक्षया सख्येन क्रोध-भवमनोदुःख-विशेषोत्पत्तेः तेन तद् उपेक्षा च द्विजात्मजा मे युवयोर् दिदृक्षुर्णेति श्री-महा-कालपुराधिप-वक्ष्यमाणानुसारेण तद् उत्कण्ठा-प्रतिपालनाय । तत उभयम् अपि समञ्जसम् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्र्यम्बकस्य किरात[त्व]च्छद्मनस् तोषणं तत्-तुल्यतया प्रीतिकरं [यथा]{।मर्क्} भारताख्यानात् । अथ विप्राश्वासनार्थं प्रतिजानीते-मृत्युम् इति । प्रधने रण-मध्ये विशेषेण मारणादिना जित्वा प्रजाः सर्वान् अपि [पुत्रान्]{।मर्क्} न केवलमेतां प्रजाम् इति पाठो बहुत्र श्री-मदर्जुनस्यापीदृशी गर्वोक्तिर् ब्रह्मण्य-देवस्य विप्रोपेक्षया सख्येन क्रो-धभव-मनोदुःख-विशेषोत्पत्तेः तेन तद् उपेक्षा च द्विजात्मजा मे युवयोर् दिदृक्षुणेति श्री-महा-काल-पुराधिप-वक्ष्यमाणानुसारेण अनुकण्ठाप्रतिपालनाय । तत उभयम् अपि समञ्जसम् ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.३५ ॥
एवं विश्रम्भितो विप्रः फाल्गुनेन परन्-तप ।
जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं प्रौढि-वादैर् विश्रम्भितो विश्वासं प्रापितः । निशामयन् शृण्वन् ॥ ३५-३६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । प्रौढि-वादैः अहङ्कार-वाक्यैः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निशामयन् पश्यन् अनुभवन् शृण्वन्न् इति यावत् परन्तप! हे शत्रुनाशनेति वदेतादृशत्वकारणस्य त्वत्-पितामहस्य तस्योक्तौ वीर्ये वा विप्रस्य विश्वासो युक्त एवेति भावः ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.३६ ॥
प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः ।
पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हे परन्तपेति । हे परन्तपेति । हे शत्रु-नाशन त्वद् एतादृशत्व-करणस्य त्वत्-पितामहस्योक्तौ विर्ये वा विप्रस्य विश्वासो युक्त एवेति भावः । प्रसूति-काल इत्य् अनेन तद् अर्थं द्वारकायाम् एकाब्दम् अर्जुनस्य वासो ज्ञेयः । आतुरो भयपीडितः तत्राह—रात्राव् अर्जुनान्तिकम् आगत्येति शेषः । एवम् अग्रे\ऽपि तद्-विप्र-गृहं गतः सन्न् इति शेषः । तथा च हर् इवंशे\ऽर्जुनवाक्ये—
गते\ऽर्धरात्र-समये ब्राह्मणो भय-विक्लवः ।
उपागम्य भयाद् अस्मानिदं वचनम् अब्रवीत् ॥ इत्य् आदि ।
मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।
विश्रान्त-वाहनाः सर्वे निवासायोपसंस्थिताः ॥ इति च ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रसूति-काल इत्य् अनेन तद् अर्थं कायाम् एकाब्दम् अर्जुनस्य वासो ज्ञेयः । आतुरो भयपीडितः सन्न् आह—रात्राव् अर्जुनान्तिकमागत्येति शेषः । एवम् अग्रे\ऽपि तद्-विप्र-गृहं गतः अनति शेषः । तथा च हर् इवंशे\ऽर्जुनवाक्ये—
गते\ऽर्धरात्र-समये ब्राह्मणो भय-विक्लवः ।
उपागम्य भयाद् अस्मानिदं वचनम् अब्रवीत् ॥ इत्य् आदि ।
मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।
विश्रान्त-वाहनाः सर्वे निवासायोपसंस्थिताः ॥ इति च ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रसूति-काल इति तद् अर्थम् एकाब्दम् अर्जुनस्य द्वारकायाम् एव वासः ख-पुराद् एव गर्भ-पूर्तिं ज्ञात्वा पुनस् तत्रागमो वा ज्ञेयः । आजयार्जुनम् इति भार्या-वचनाद्रात्रावायत्याह—पाहीति ॥३६॥
॥ १०.८९.३७ ॥
स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् ।
दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्राह्मणोपेक्षकत्वेन कृष्णावज्ञया महेश्वरं नमस्-कृत्य ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सो\ऽर्जुनः । दिव्यानि देवेभ्यो लब्धानि । सो\ऽर्जुनः । महेश्वरं न तु कृष्णं तत्र सख्याद् एव ब्राह्मणोपेक्षकत्वेन दोष-दर्शनात् । परन्तु भगवद् अवज्ञया शिव-भजनम-किञ्चित्करम् इति द्योतितम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सो\ऽर्जुनः नमस्कृत्य महेश्वरम् इति । श्री-भगवद् अवज्ञायां शिव-भजनम् अकिञ्चित्करम् इति द्योतितम् ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महेश्वरं न तु कृष्णम् इति तत्र सख्याद् एव ब्राह्मणोपेक्षकत्व-दोष-दर्शनात् ॥ ३७-३८ ॥
॥ १०.८९.३८ ॥
न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः ।
तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न्यरुणद् आवृतवान् । तद् एवाह—तिर्यग् ऊर्ध्वम् इति ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नानास्त्रैर् ब्रह्मास्त्रादि-विधानेन योजितैः प्रयुक्तैः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नानास्त्रैर् ब्रह्मादि-विधानैर् योजितैः प्रयुक्तैः ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.३९ ॥
ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः ।
सद्योऽदर्शनम् आपेदे स-शरीरो विहायसा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अदर्शनम् आपेदे देहोऽपि नावशिष्ट इत्य् अर्थः ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतः शर-पञ्जरकरणानन्तरम् । इत्य् अर्थ इति हठाद्यक्रियते कर्म तन् न सिद्धयति कर्हिचित् इत्य् उक्तेर् ईश्वरावज्ञया प्रवृत्तत्वादतीव वैषम्यं बातम् इति भावः । विहायसा आकाश-मार्गणादर्शनम् आपेदे । तथा च तत्रैव—
अथाकाशे पुनर् वाचम् अश्रौषं बालकस्य वै ।
हुंहेति ह्रियमाणस्य न च श्यामि राक्षसम् ॥ इति ।
कृष्णेच्छया विना दिव्यास्त्राणि स महेश्वरश् च बालकस्य शरीरम् अपि रक्षितुं नाशकन्न् इति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विहायसा आकाश-मार्गणादर्शनम् आपेदे । तथा च तत्रैव—
अथाकाशे पुनर् वाचम् अश्रौषं बालकस्य वै ।
हुंहेति ह्रियमाणस्य न च श्यामि राक्षसम् ॥ इति ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सशरीरम् इति । कृष्णेच्छया विना दिव्यास्त्राणि तानि स महेश्वरश् च बालकस्य शरीरम् अपि रक्षितुं नाशकन्न् इति भावः ॥३९॥
॥ १०.८९.४० ॥
तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ ।
मौठ्यं पश्यत मे योऽहं श्रद्दधे क्लीब-कथनम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा बल-शरीर-दर्शनाभावकाले ।तदा ततः । विजयम् इति । सर्व-विजयशीलस्य निन्दा त्वतिदुःसहेति भावः । कृष्ण-सन्निधाविति । मगृहान्तिके रहसि तन्-निन्दने रसालाभाद् इति भावः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदा ततः विजयम् इति सर्व-विजयशीलस्य तस्य निन्दात्वतिदुःसहेति भावः ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कृष्ण-सन्निधाव् इति स्व-गृहान्तिके रहसि तन्-निन्दने रसालाभाद् इति भावः ॥४०॥
॥ १०.८९.४१ ॥
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यस्य शेकुः परित्रातुं कोऽन्यस् तद्-अवितेश्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्य प्रजाः । तत् तत्र ॥४१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्य मम प्रजा इति शेषः । यस्य यम् । तत्-तस्माद् अन्यः क ईश्वरो\ऽस्ति तेषां चतुर्णाम् एकात्वत्वाद्वितीयेश्वराभावाद् अन्यो । नास्तीत्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्य यं तस्याविता\ऽन्यः क ईश्वरो\ऽस्ति तेषां चतुर्णाम् एकात्वत्वाद्वितीयेश्वराभावाद् अन्यो नास्त्य् एवेत्य् अर्थः ॥४१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य यम् ॥ ४१-४३ ॥
॥ १०.८९.४२ ॥
धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः ।
दैवोपसृष्टं यो मौठ्याद् आनिनीषति दुर्मतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्युक्तो वरितः । उपपत्तिभिः प्रतिषेधं कुर्वता ॥४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दैवेनोपसृष्टं नाशितम् । आनिनीषत्यानेतुम् इच्छति । दैवेन प्रारब्ध-कर्मणा ईश्वरेच्छया वा । उपसृष्टं हतम् । न केवलं मूर्ख एव दुर्मतिर् दुष्ट-बुद्धिर् अपीत्य् अर्थः । नाहं सङ्कर्षण इत्य् आद्य् उक्ते ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैवेन प्रारब्ध-कर्मणा ईश्वरेच्छया वा उपसृष्टं हतं मौर्खात् मूर्खत्वात् न केवलं मूर्खः दुर्मतिर् दुष्टबुद्धिर् अपीत्य् अर्थः । नाहं सङ्कर्षण इत्य् आद्य् उक्तेः ॥४२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : : न व्याख्यातम्।
॥ १०.८९.४३ ॥
एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः ।
ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शपति आक्रोशति सति । संयमनीं यमपुरीम् । विद्यां मनुष्यागम्यगमनसामर्थ्यकरीम् । भगवान् भूतानां प्रवृत्ति-निवृत्त्यादिवेत्ता तद्-बालकानयने\ऽति-योग्य इत्य् अर्थः । अत एवादौ तत्रैव गमनम् इति भावः ॥ ४३ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् भूतानां प्रवृत्ति-निवृत्त्यादिवेत्ता तद्-बालकानयने\ऽतियोग्य इत्य् अर्थः । अत एवादौ तत्रैव गमनम् इति भावः ॥ ४३ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.४४ ॥
विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् ।
आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ ।
रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो यम-पुरान् वेषणोत्तरम् । अन्यानि धिष्ण्यानि यक्ष-किम्-पुरुषादि-स्थानानि । विप्रेति सार्धकम् । अचक्षाणः अपश्यन् । वद्याबलाद् अवगतस्य तद्-रूपस्यादृष्टेः सौम्याम् उत्तर-दिग्वति-सोम-पुरीम् इति वारुण-वायव्य-पुरीद्वयातिक्रमेण प्रक तस्यां गमनं सर्व-द्रष्टुः सर्व-देश-भ्रमणशीलस्य तस्य निजादि-पुरुषस्य पृच्छेच्छया । ततश् च मया न दृष्टं तथाप्य् अन्विष्यताम् इत्य् उक्तेः पश्चाच् चेत्-क्रमेण वायव्यां वारुणीम् अपि ऐशान्यामगमनं च स्व-गुरुणा श्री-शिवेन तन्-नयनासम्भवात् धिष्ण्यानि श्री-ब्रह्मादि-स्थानानि उदायुधः उद्यतशस्त्रास्त्र इत्य् अस्य पूर्वैर् अप्य् अन्वयः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रेति सार्धकम् । अचक्षाणः अपश्यन्न् इति विद्याबलाद् अवगतस्य तद्-रूपस्यादृष्टेः सौम्याम् उत्तर-दिग्वर्ति-सोम-पुरीम् इति वारुण-वायव्य-पुरी-द्वयातिक्रमेण प्राक् तस्यां गमनं सर्व-द्रष्टुः सर्व-देश-भ्रमणशीलस्य तस्य निजादि-पुरुषस्य पृच्छेच्छया । ततश् च मया न दृष्टं तथाप्य् अन्विष्यताम् इत्य् उक्तेः पश्चाच् चेत्-क्रमेण वायव्यां वारुणीम् अपि ऐशान्यामगमनं च स्व-गुरुणा श्री-शिवेन तन्नयनासम्भवात् धिष्ण्यानि श्री-ब्रह्मादि-स्थानानि उदायुधः उद्यत-शस्त्रास्त्र इत्य् अस्य पूर्वैर् अप्य् अन्वयः ॥४४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौम्याम् उत्तर-दिग्वर्तिनीं चन्द्र-पुरीम् । ऐशान्यामगमनं स्व-गुरुणा शिवेन तन्-नयनासम्भवमननात् ॥४४॥
॥ १०.८९.४५ ॥
ततोऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः ।
अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्युक्तो वारितः उपपत्तिभिः प्रतिषेधं कुर्वता ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः सर्वत्र गमनोत्तरम् । न लब्धो द्विज-सुतो येन स तथा । न निस्तीर्णं प्रतिश्रुतं ब्राह्मणा\ऽपत्यानयन-लक्षणं येन स तथा । ततस् तेष्व् अलब्ध-द्विज-सुतः सन् । हि निश्चितम् । प्रत्युक्तस् तन्-मुमूर्षाप्रातिकूल्येन मा विशाग्निं प्राप्स्यति द्विजापत्यम् इत्य् एवं-रूपेणोक्तः ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तेष्व् अलब्ध-द्विज-सुतः सन् हि निश्चितं प्रतिषेधता निवारयता तन्-मुमूर्षा प्रातिकूल्येनोक्तः ॥४५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रत्य् उक्तः वादितः । प्रतिषेधं कुर्वता ॥४५॥
॥ १०.८९.४६ ॥
दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना ।
ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मावज्ञ मावजानीहि, यं निन्दन्ति त एव मनुष्या नः कीर्तिं स्थापयिष्यन्ति निश्चलाः करिष्यन्ति । पाठान्तरं तु छन्दो-भङ्ग-भयाद् आगन्तुकम् इति ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते तुभ्यम् । आत्मना स्वम् आत्मानम् । पाठान्तरं तु स्थापयिष्यन्तीति पाठस्तु आगन्तुकम् आयास्यत्य् एव । स्थापयिष्यन्तीति बहुत्वं तु अन्वययोजनायां वाच्यम् एवेत्य् अर्थः । कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः इति पाठस्तु सुगम एव । यद् वा, स्थापयिष्यतीत्येवकत्वम् आर्षम् ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दर्शय इति । समाश्वासनार्थं सामीप्ये वर्तमानत्वं नो\ऽस्माकम् इति सख्येनात्मना सह तस्याभेदं द्योतयन्न् आश्वासयति-विमलां प्रतिज्ञाहान्यादि-सर्व-दोष-रहितां मनुष्या इति । देवादयो विदन्त्य् एव केवलं तत्त्वज्ञानेन मनुष्या एवाज्ञात्वा निन्दका अपि नः कीर्ति स्थापयिष्यन्तीत्य् अर्थः । प्रिय-सखम् अहा—कातर्येण जातभगवद्-वाग्-विकारावेशात् कवेर् अपि छन्दो-भङ्गः येनेह कीर्ति विमलां मनुष्या स्थापयन्ति न इति तु पाठन्तरम् । अन्यत्-तैः । यद् वा, ये त इति सर्व एवेत्य् अर्थः ॥४६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मावज्ञ मावजानीहि । ननु, मावारय लोका मां क्षत्रियं निन्दिष्यन्ति तत्राहुः—ये निन्दिष्यन्ति ते एव नः आवयोः कीर्ति स्थापयिष्यन्ति । यद् वा, ये ते\ऽपि मनुष्याः आवयोः कीर्तिम् एव स्थापयिष्यन्ति । येनेह कीर्ति विमलां मनुष्याः स्थापयन्ति । न इति पाठान्तरं छन्दो-भङ्ग-भयाद् आगन्तुकम् इति स्वामिचरणाः ॥ ४६-४८ ॥
॥ १०.८९.४७ ॥
इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः ।
दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति इत्थम् ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् प्रतिज्ञा-पूर्वकं भाषित्वा भगवान् अत एवेश्वरः इच्छा-मात्रेण बालाद्यानयनसमर्थो\ऽपि दिव्याश्वं रथम् एवास्थाय अधिष्ठाय प्रतीची दिशम् एवाविशद् इत्य् अर्जुनवत्-तत्-कौतुकार्थम् । ततो\ऽप्य् अधिका नर-वीरवर्य-लीला चमत्कारि-दिव्यविद्यैव प्रकटिता न त्व् ऐश्वर्यम् अपि ज्ञापितम् । अत एव परम-देव-लीलस्य स्वाविर्भाव-विशेषस्याग्रे बद्धाञ्जलित्वादिकम् अपि प्रपञ्चयितव्यम् । साक्षाद्-वैकुण्ठाद् आगतानाम् अप्य् अश्वानां तमसि भ्रष्ट-गतित्वादिकं चक्रादिनैव तदादि-प्रतिकारश्चेति ज्ञेयम् । दिव्यं स्व-रथम् इति पाठः क्वचित् ॥४७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.४८ ॥
सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ ।
लोकालोकं तथातीत्य विवेश सु-महत् तमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सप्त सप्त-सङ्ख्या गिरयो येषु द्वीषेषु टन् ॥४८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा सप्त-द्वीप-लङ्घनरीत्या । अथ लोकालोकलङ्घनोत्तरम् ॥४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : च अपि ससिन्धून् सप्त-समुद्र-सहितान् अपि सप्त-सिन्धून् इति पाठः स्पष्टः अथानन्तरं लोकालोक-पर्वतं च ॥४८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.४९ ॥
तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः ।
तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र तमसि ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्चर्येण सम्बोधयति-हे भरत-र्षभेति ॥४९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तमसि भ्रष्ट-गतय इति वैकुण्ठीयानाम् अश्वानां गुणातीतानाम् अपि तेषां यत्-तमसि भ्रष्ट-गतित्वं तद्-भगवतो नर-लीलत्ववत्-तेषाम् अप्य् अश्लीलत्वम् अर्जुनादीनां द्रष्टृ-श्रोतॄणां चमत्कार-पोषणार्थम् एव ज्ञेयम् ॥ ४९-५० ॥
॥ १०.८९.५० ॥
तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः ।
सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् अश्वान्-भ्रष्ट-गतीन् ॥ ५० ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तान् तथा-भूतान् यतो भगवानतो योगेश्वरेश्वरः तथा-भूतो\ऽपि पूर्ववच् चक्रनाम् अकमस्त्रम् एव प्राहिणोत् न तु स्व-तेज आदिकं प्रकटयामासेत्य् अर्थः ॥ ५० ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.५१ ॥
तमः सु-घोरं गहनं कृतं महद्
विदारयद् भूरि-तरेण रोचिषा ।
मनो-जवं निर्विविशे सुदर्शनं
गुण-च्युतो राम-शरो यथा चमूः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कृतम् इति प्रकृति-परिणाम-रूपं नालोकाभाव-मात्रम् ॥ ५१ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : गुणाज्ज्यायाश्च्युतम् । आलोकाभाव-मात्रं तम इत्य् एवं वदन्तस् तार्किकाः कृतम् इत्य् उक्त्या परास्ताः । गहनं निबिडं महत् विततं च यथा स्यात्-तथा कृतं सम्पादितं
तमोभूमि-गतम् इत्य् अर्थः । तथोक्तं हरिवंशे पङ्क-भूतं हि तिमिरं स्पर्शाद्-विज्ञायते\ऽनघ इत्य् आदि ॥ ५१ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गहनं निबिडं महत् विततं च यथा-स्यात्-तथा कृतं परमेश्वरेणैव सम्पादितं तमोभूमि-गतम् इत्य् अर्थः । तथोक्तं हरिवंशे पङ्क-भूतं हि तिमिरं स्पर्शाद्-विज्ञायते\ऽनघ इत्य् आदि ॥ ५१ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गहनं निबिडम् । कृतं प्रकृति-परिणाम् अरूपम् ॥ ५१ ॥
॥ १०.८९.५२ ॥
द्वारेण चक्रानुपथेन तत् तमः
परं परं ज्योतिर् अनन्त-पारम् ।
समश्नुवानं प्रसमीक्ष्य फाल्गुनः
प्रताडिताक्षोऽपिदधेऽक्षिणी उभे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चक्रानुपथेन चक्रम् अनुगतेन द्वरेण । तत् तपः-परं तस्मात् तमसः परं दूरे वर्तमानं परं श्रेष्ठं भागवतं ज्योतिः समश्नुवानं व्याप्नुवत् प्रसमीक्ष्य प्रताडिताक्षो नेत्रे न्यमीलयद् इति ॥ ५२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्त-पारमन्त-पार-रहितम् । चक्रानुपथेनैव द्वारेण सप्तावरण-भेदेन तमसः प्रकृतेः परं पारभूतं तत् वेदान्तादि-प्रसिद्धं परं परब्रह्म-भूतं भागवतं ज्योतिः प्रसमीक्ष्य चिच्-छक्तिमयतया साक्षाच् चक्षुषा दृष्ट्वा परत्वम् एवाह—अनन्तेति । तत्रैव हेतुः सम्यग् अश्नुवानं सदा सर्व-व्यापकं तत्रादर्शनं तु मायावृत-दृष्टित्वाद् एवेति भावः । तथा च हरिवंशे श्री-मद् अर्जुनवाक्यम्—
ततस् तेजःप्रज्वलितम् अपश्यं तत्-तद् अम्बरे ।
सर्व-लोकं समाविश्य स्थितं पुरुष-विग्रहम् ॥ इति ।
तच् चरित-समाप्तौ तत्-प्रश्नानन्तरं श्री-कृष्णोपदेशश् च—
ब्रह्म-तेजोमयं दिव्यं महद्-यद्-दृष्टवानसि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत्-सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विदुत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ॥
ममैव तद्-धनन्तेजो ज्ञातुम् अर्हसि भारत ॥ इति ।
अत्राह—स इति तेजस् तेजस्विनोर् अभेद-विवक्षया प्रकृतिः सा मम परेति तत्-तेजसस्तत्स्व-रूप-शक्ति-रूपत्वात् परेति मायातीतत्वात व्यक्ताव्यक्ततेति सर्व-मूलत्वात् । अत एव ताम् इत्य् आदि ममैवेत्यैवकारस् तन्-मध्यस्थेनाष्ट-भुजेन स्वाभेदापेक्षयेति ज्ञेयम् ॥ ५२ ॥
क्द् : एवं धारणा-द्वयाभ्यास-बलाज् जित-रजस्-तमस्कस्य मुमुक्षोः सत्त्व-जयार्थं शुद्ध-सत्त्व-धारणां तृतीय-भूमिकाम् आह—विष्णु-रूपम् इति । तत्र गर्भोदके भवनादिकम् अच्युतो ददर्श इत्य् उत्तरेणान्वयः । द्युमत्तमं शोभाढ्यं भ्राजन्तो मणयो येषु स्तम्भ-सहस्रेषु तैः शोभितं, तस्मिन् भवनेऽनन्तं शेषं प्रधानात्मकं ददर्श । सहस्रं मूर्धन्याः श्रेष्ठा ये फणार्पित-मणयः तेषां द्युभिर् द्वैगुण्यं सहस्रापेक्षम् ।
सिताचलाभं श्वेत-पर्वत-सदृशं, शितयो नीलाः कण्ठा जिह्वाश् च यस्य स तथा । तस्य शेषस्य भोगः शरीरम् । विभुं प्रकृतेर् अधिष्ठातारं पुरुषम् । अत एव विशेषण-द्वयम्—अनुभावः प्रभावः । पुरुषोत्तमेषु ब्रह्मादिषु उत्तमम् । मुक्तेषु वा नित्य्-मुक्तत्वात् । तथा च सूत्र-द्वयं—तत्र निरतिशयं सर्वज्ञ-बीजं, स एष पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् [यो।सू। १.२६-२७] इति । अस्य च लीलया शरीर-ग्रहणम् । सुपिशङ्गं पीतोज्ज्वलम् आयतं दीर्घम् । महा-मणीनां व्रातः स्तोमो यत्र किरीटे कुण्डलयोश् च तेषां प्रभया परिष्वक्ताः व्याप्ताः सहस्रं बहवः कुन्तलाः केशा यस्य, स तथा तम् ॥५२, ५४-५५॥ [मु।फ। २.१-३]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् चक्रानुपथेनैव द्वारेण सप्तावरण-भेदेन तमसः प्रकृतेः परं पारभूतं तत् वेदान्तादि-प्रसिद्ध परं परब्रह्म-भूतं भागवतं ज्योतिः प्रसमीक्ष्य चिच्छक्तिमयतया साक्षाच् चक्षुषा दृष्ट्वा परत्वम् एवाह—अनन्तेति । तत्रैव हेतुः सम्यग् अश्नुवानं सदा सर्व-व्यापकं तत्रादर्शनं तु मायावृत-दृष्टित्वाद् एवेति भावः । तथा च हरिवंशे श्री-मदर्जुन-वाक्यम्—
ततस् तेजःप्रज्वलितम् अपश्यं तत्-तद् अम्बरे ।
सर्व-लोकं समाविश्य स्थितं पुरुष-विग्रहम् ॥ इति ।
तच् चरित-समाप्तौ तत्-प्रश्नानन्तरं श्री-कृष्णोपदेशश् च—
ब्रह्म-तेजोमयं दिव्यं महद्-यद्-दृष्टवानसि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत्-सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विदुत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ॥
ममैव तद्-धनन्तेजो ज्ञातुम् अर्हसि भारत ॥ इति ।
अत्राह—स इति तेजस् तेजस्विनोर् अभेद-विवक्षया प्रकृतिः सा मम परेति तत्-तेजसस्तत्स्व-रूप-शक्ति-रूपत्वात् परेति मायातीतत्वात व्यक्ताव्यक्ततेति सर्व-मूलत्वात् । अत एव ताम् इत्य् आदि ममैवेत्यैवकारस् तन्-मध्यस्थेनाष्ट-भुजेन स्वाभेदापेक्षयेति ज्ञेयम् ॥ ५२ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्रानुपथेन चक्रम् अनुगतेन द्वारेणेति चक्रेणैव सप्तावरणभेदो ज्ञेयः । यत्-तद् अनन्तरं गच्छन् फाल्गुनः तमः परं तमसः प्रकृतेः परं प्रकृत्यावरणाद् अष्टमात् परम् इत्य् अर्थः । परं श्रेष्ठं चिन्मयं ज्योतिः समश्नुवानम् अतिव्यापकं वीक्ष्य तेन प्रताडिताक्षो क्षेत्रे न्यमीलयत् । तथा च हरिवंशे एतच् चरित-समाप्तौ—
ब्रह्म-तेजोमयं दिव्यं महद्-यद्-दृष्टवानसि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत्-सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विदुत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत्-परं परमं ब्रह्म सर्वं विभजते जगत् ॥
ममैव तद्-धनन्तेजो ज्ञातुम् अर्हसि भारत ॥ इति ।
अत्राह—मत्-तेज इति तद्-ब्रह्म मत्-तेजो\ऽपि अहं स इति सो\ऽहम् एव । तद्-ब्रह्म-तेजस् तेजस्विनोर भेदात् । प्रकृतिः सा मम परेति तच्-चिन्मयं ब्रह्म ममैव स्वरूप-शक्तिः परेति मायातीता व्यक्ता चिन्मयनेत्रग्राह्या अन्यथा अव्यक्तेत्य् अर्थः ॥ ५२ ॥
॥ १०.८९.५३ ॥
ततः प्रविष्टः सलिलं नभस्वता
बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् ।
तत्राद्भुतं वै भवनं द्युमत्तमं
भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एजन्त उच्चलन्तो वृहन्तो महण्त ऊर्मयो भूषणं यस्य तत् । तत्र सलिले भवनं महा-काल-पुरम् । द्युमत्-तमं द्युतिमत्सु श्रेष्ठम् ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो ज्योतिषो दर्शनोत्तरम् । रथेन सलिलं प्रविष्टं जले रथः प्रविष्ट इत्य् अर्थः । ततस् तत्रैव वर्तमानं सलिलं विरजा-नदी-रूपं प्रधान-परम-व्योम्नोरन्तरे विरजा-नदीति पाद्मोत्तरखण्डात् । प्रविष्टः फाल्गुन इति पूर्वतो\ऽनुषज्जनीयः । नभस्वता हेतुना अद्भुतं सर्वलोकातीतम् । वै प्रसिद्धौ । द्युमत्तमम् इति पूर्वोक्त-तेजसो\ऽप्य् आधिक्यम् अभिप्रेतम् । तत्रैव हेतुः—भ्राजतां सदा स्वयम् एव प्रकाशमानानां मणिमय-स्तम्भानां सहस्रेण शोभितम् । एवं भवनस्यातिव-विस्तारश्चोक्तः । तैर् उद्दिष्टं महा-कार[रूप] पुरं चेदं मृत्युञ्जय-तन्त्राल्लभ्यते यतः—
ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद् ऊर्ध्वं देवि विष्णूनां तद् ऊर्ध्वं रुद्र-रूपिणाम् ॥
तद् ऊर्ध्वं च महा-विष्णोर् महा-देव्यास् तद् ऊर्ध्वगम् ।
कालातिकालयोश्चाथ परमानन्दयोस् ततः ॥
पारे पुरी महा-देव्याः कालः सर्व-भयावहः ।
ततः श्री-ब्रह्म-पीयूषवारिधिन् इत्य् अनूतनः ॥
तस्य तीरे महा-कालः सर्व-ग्राहक-रूपधृक् ।
तस्यान्तरे समुद्भासी रत्न-द्वीपः शिवाह्वयः ॥
ध्यायेत् तत्र परानन्दं रामोपास्यं परं महत् ।
स्मरेद्-वृन्दावने रम्ये मोहयन्तम् अनारतम् ॥
वल्लवी-वल्लभं कृष्णं गोप-कन्यासहस्रशः ॥
इत्य् एवम् अन्तं बहुविस्तृतम् अस्ति । तत्र ब्रह्मणः सदनं सत्य-लोकः । विष्णूनां विकुण्ठा-सुतानां वैकुण्ठः । रुद्र-रूपिणाम् इति अहङ्कारावरणस्थो रुद्र-लोकः । महा-विष्णोर् इति महत्तत्त्वावरणस्थो महा-विष्णुलोकः । महा-देव्या इति प्रकृत्यावरणस्थो महा-देवीलोकः । ब्रह्म-पीयूषवारिधिः कारणार्णवः । महा-कालः परम-व्योमस्थो महा-वैकुण्ठ-नाथः । तस्यैव कारणार्णव-जलान्तर्गतं भवनं महा-काल-पुरं फाल्गुनो ददर्शेति पूर्वस्योत्तरस्य चानुषङ्गः ॥ ५३
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तत्रैव वर्तमानं सलिलं विरजा-नदी-रूपं प्रधान-परम-व्योम्नोरन्तरे विरजा-नदीति पाद्मोत्तर-खण्डात् । प्रविष्टः फाल्गुन इति पूर्वतो\ऽनुषज्जनीयः । नभस्वता हेतुना अद्भुतं सर्व-लोकातीतम् । वै प्रसिद्धौ । धुमत्तमम् इति पूर्वोक्त-तेजसो\ऽप्य् आधिक्यम् अभिप्रेतम् । तत्रैव हेतुः—भ्राजतां सदा स्वयम् एव प्रकाशमानानां मणिमय-स्तम्भानां सहस्रेण शोभितम् । एवं भवनस्यातिव-विस्तारश्चोक्तः । तैर् उद्दिष्टं महा-कार[रूप]पुरं चेदं मृत्युञ्जय-तन्त्राल्-लभ्यते यतः—
ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद् ऊर्ध्वं देवि विष्णूनां तद् ऊर्ध्वं रुद्र-रूपिणाम् ॥
तद् ऊर्ध्वं च महा-विष्णोर् महा-देव्यास् तद् ऊर्ध्वगम् ।
कालातिकालयोश्चाथ परमानन्दयोस् ततः ॥
पारे पुरी महा-देव्याः कालः सर्व-भयावहः ।
ततः श्री-ब्रह्म-पीयूषवारिधिन् इत्य् अनूतनः ॥
तस्य तीरे महा-कालः सर्व-ग्राहक-रूपधृक् ।
तस्यान्तरे समुद्भासी रत्न-द्वीपः शिवाह्वयः ॥
ध्यायेत् तत्र परानन्दं रामोपास्यं परं महत् ।
स्मरेद्-वृन्दावने रम्ये मोहयन्तम् अनारतम् ॥
वल्लवी-वल्लभं कृष्णं गोप-कन्यासहस्रशः ॥
इत्य् एवम् अन्तं बहु-विस्तृतम स्ति ॥ ५३ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सलिलम् इति कारणार्णवोदकम् । एजन्त उच्चलन्तो बृहद् ऊर्मय एव भूषणं यस्य तत् अद्भुतं भवनम् इति महा-काल-पुरम् इति श्री-स्वामि-चरणास्तच् च मृत्युञ्जय-तन्त्रात् ज्ञेयम् ।
ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद् ऊर्ध्वं देवि विष्णूनां तद् ऊर्ध्वं रुद्र-रूपिणाम् ॥
तद् ऊर्ध्वं च महा-विष्णोर् महा-देव्यास् तद् ऊर्ध्वगम् ।
कालातिकालयोश्चाथ परमानन्दयोस् ततः ॥
पारे पुरी महा-देव्याः कालः सर्व-भयावहः ।
ततः श्री-ब्रह्म-पीयूषवारिधिन् इत्य् अनूतनः ॥
तस्य तीरे महा-कालः सर्व-ग्राहक-रूपधृक् ।
इति अत्र ब्रह्मणः सदनं सत्य-लोकः विष्णूनां विकुण्ठा-सुतानां वैकुण्ठः । रुद्र-रूपिणाम् इत्य् अहङ्कारावर्णस्थो रुद्र-लोकः । महा-विष्णोर् इति । महत्तत्त्वस्थो महा-विष्णु-लोकः । महा-देव्या इति प्रकृत्यावरणस्थो महा-देवी-लोकः ब्रह्म-पीयूषवारिधिः कारणार्णवः । महा-कालः परव्योमस्थो महा-वैकुण्ठ-नाथस् तयस्यैव कारणार्णव-जलान्तर्गतं भवनं महा-काल-पुरम् । फाल्गुनो ददर्शेति पूर्वस्योत्तरस्य चानुषङ्गः । तद् वर्णयति धुमत्तमं द्युतिमत्सु श्रेष्ठम् ॥ ५३ ॥
॥ १०.८९.५४ ॥
तस्मिन् महा-भोगम् अनन्तम् अद्भुतं
सहस्र-मूर्धन्य-फणा-मणि-द्युभिः ।
विभ्राजमानं द्वि-गुणेक्षणोल्बणं
सिताचलाभं शिति-कण्ठ-जिह्वम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सहस्रं मूर्ध्नि भवाः फणास् तासु मणयस् तेषां द्युतिभिः । द्वि-सहस्र-नेत्रैर् ऊर्जितं स्फटिक-गिरि-सङ्काशम् । शिति-कण्ठ-जिह्वम्, कण्ठाश् च जिह्वाश् च कण्ठ-जिह्वाः शितयो नीलाः कण्ठ-जिह्वा यस्य तम् ॥ ५४ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् भवने\ऽनन्तं ददर्श । तथा तद्-भोग-सुखासनं विभुं च ददर्श । नोत्तरेणान्वयः । महा-भीमम् अतिभयङ्करम् । तस्मिन्न् इति चतुष्कम् । महान् फलादिभिर् अपिच्छिन्नो भोगो देहो यस्य तम् । शिती धवलमेचकौ इत्य् अमरः ॥ ५४ ॥
कैवल्य-दीपिका : ५२-साङ्ख्यक-श्लोक-टीका द्रष्टव्या।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मिन्न् इति चतुष्कम् । महान् फलादिभिर् अपिच्छिनो भोगो देहो यस्य तम् । अतो\ऽद्भुतम् । लोकातीतम् इति कारणार्णवशायिनः शेषाद् अपि विशेष उक्तः । सहस्र-शब्दो\ऽत्रासङ्ख्यपरः । मूर्धन्याः मूर्धनि भवाः विशेषेण तद्-भवनाद् अप्य् आधिक्येन भ्राजमानम् ॥ ५४ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मिन् भवने प्रथमं महा-भोगमनन्तं ददर्श । सिताचलः कैलासस् तद्वदाभम् । शितयो नीलाः कण्ठा जिह्वाश् च यस्य तं शिती-धवल-मेचकावित्य् अमरः ॥ ५४
॥ १०.८९.५५ ॥
ददर्श तद्-भोग-सुखासनं विभुं
महानुभावं पुरुषोत्तमोत्तमम् ।
सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं
प्रसन्न-वक्त्रं रुचिरायतेक्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् भोग-सुखासनं तस्यानन्तस्य भोगो देहः सुख-करम् आसनं यस्य तम् ॥ ५५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुरुषेषु त्रिषु उत्तमो विष्णुस् तेभ्य उत्तमो गर्भोदशायी आदिपुरुषो वा तस्माद् अप्य् उत्तमम् ॥ ५५-५६ ॥
कैवल्य-दीपिका : ५२-साङ्ख्यक-श्लोक-टीका द्रष्टव्या।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ददर्श फाल्गुन इत्य् एव प्रकरण-लब्धं तस्यैव चमत्कृतेर् वर्णनीयत्वात् तस्य भोग एव सुखकरम् आसनं यस्य तं च ददर्श विभुं स्व-तेजसा तत्-तत्-सर्व-व्यापकं यतो महान् अपरिच्छिन्नो\ऽनुभावः प्रभावो यस्य तं कुतः पुरुषेषु त्रिघूत्तमः श्री-विष्णुस् तेभ्य उत्तमो गर्भोदशाय्यादि-पुरुषो वा तस्माद् अप्य् उत्तमम् । सान्द्रेति सार्धं तैर् व्याख्यातम् ॥ ५५-५६ ॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ददर्श तद्-भोग-सुखासनम् इत्य् आदि प्रकरणम् । एतद्-वाक्य-व्याख्यानन्तरं-प्रघट्टके ॥ ५५ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्यानन्तस्य भोगो देह एव सुखकरम् आसनं यस्य तम् । त्रिषु पुरुषेषूत्तमो महत्-स्रष्टा तस्मादपीति पुरुषोत्तमोत्तमम् ॥ ५५-५६ ॥
॥ १०.८९.५६ ॥
महा-मणि-व्रात-किरीट-कुण्डल-
प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् ।
प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं
श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महान्तो मणि-व्राता येषु तेषां किरीट-कुण्डलानां प्रभा तया परिक्षिप्ताः सर्वतः स्फुरन्तः सहस्रम् अपरिमिताः कुन्तला यस्य तम् ॥ ५६ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.५७ ॥
सुनन्द-नन्द-प्रमुखैः स्व-पार्षदैश्
चक्रादिभिर् मूर्ति-धरैर् निजायुधैः ।
पुष्ट्या श्रिया कीर्त्य्-अजयाखिलर्द्धिभिर्
निषेव्यमानं परमेष्ठिनां पतिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कीर्त्य् अजया कीर्ति-सहितया अजया । अखिल-र्द्धिभिर् अणिमादि-विभूतिभिर् मूर्ति-धराभिः ॥ ५७ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परमेष्ठिनां ब्रह्मादि-देवानाम् । छत्रिणो यान्तीतिवद्-बहुत्वम् । स्व-इर-साधारणैः पार्षदैः मूर्ति-धरैः स्व-मस्तकोपरि तत्-तच्-चिह्न-शोभित-देहैः निजैः स्वाभाविकैर् आयुधैः । आदि-शब्देन शङ्ख-गदा-खड्ग-चर्म-शर-चाप-पाशाः, अष्टभुजत्वात् । श्रीर् महिषी पुष्ट्याद्याः शक्तयो मूर्तिमत्य एव परमेष्ठिनां पति द्वपरार्धान्तं मुक्तानां ब्रह्मणां तत्र कूटीभूतानां पति मुक्तिप्रदत्वात् तस्य पदस्य ॥ ५७ ॥
कैवल्य-दीपिका : आयुधादेर् विशेषः प्राग्वत् ॥ कीर्तिश् चाजा माया द्वन्द्वैक्येऽपि न नपुंसकत्वम् । ऊकालोऽच्-झ-ह्रस्व-दीर्घ-प्लुतः [पा। १.२.२७] इतिवत् । अखिल-र्द्धिभिर् अणिमादि सर्व-सिद्धिभिः । परमेष्ठिनां परमैश्वर्यवतां पतिं स्वामिनम् । अत्राधिकारिणम् आह—ववन्द इति । आत्मानं तस्यैव कृत्स्नत्वेन वैलक्षण्याभावात् । प्रदीपाद् इव प्रवृत्तस्य दीपस्य । जिष्णुर् अर्जुनः स तु तद्-दर्शनेन जात-भयः । एतेन शुद्ध-सत्त्वोऽत्राधिकारीत्य् उक्तम् ॥५६-५७॥ [मु।फ। २.४-५]
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ववन्द आत्मानम् इत्य् आदि । अच्युतः श्री-कृष्ण आत्मानं ववन्दे । यथा गोवर्धनोपरि मूर्त्यन्तरम् आविर्भाव्य स्वयं वन्दितवान् तथार्जुनस्यानुग्रहार्थं मोहार्थं च स्वविभूतिं दर्शयित्वा स्वयम् अपि ववन्दे । जिष्णुर् अर्जुनश् च तद्-दर्शन-जात-सम्भ्रमः सन् ववन्दे । स परमेष्ठिनां परमे पदे तिष्ठन्तीति परमेष्ठिनस् तेषां भूमा तौ आह—बद्धाञ्जली इति अर्जुनं मोहयन् स्वयम् अपि बद्धाञ्जलिर् बभूव, वस्तुतस्तु स्वविभूतेर् महिम-वर्धनं स्वस्यैवेति ॥ ५७ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वैः असाधारणैः पार्षदैः मूर्ति-धरैः स्व-मस्तकोपरि तत्-तच्-चिह्न-शोभित-देहैः निजैः स्वाभाविकैर् आयुधैः । आदि-शब्देन शङ्ख-गदा-खड्ग-चर्म-शर-चाप-पाशाः, अष्टभुजत्वात् । श्रीर् महिषी पुष्ट्याद्याः शक्तयो मूर्तिमत्य एव परमेष्ठिनां पतिं द्वपरार्धान्तं मुक्तानां ब्रह्मणां तत्र कूटी-भूतानां पति मुक्ति-प्रदत्वात्-तस्य पदस्य ॥ ५७ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्रादिभिर् मूर्ति-धरैर् इति स्व-स्व-मस्तकोपरि तत्-तच्-चिह्न-युक्तैः ॥ ५७ ॥
॥ १०.८९.५८ ॥
ववन्द आत्मानम् अनन्तम् अच्युतो
जिष्णुश् च तद्-दर्शन-जात-साध्वसः ।
ताव् आह भूमा परमेष्ठिनां प्रभुर्
बद्धाञ्जली स-स्मितम् ऊर्जया गिरा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऊर्जया ऊर्जितया गिरा ॥ ५८
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् आत्मानं स्व-स्वरूपम् एवाच्युतो जिष्णुश् च ववन्दे
अहं स भरत-श्रेष्ठ मत्-तेजस् तत्-सनातनम् ।
ब्रह्म-तेजोमयं दिव्यं महद् यद्-दृष्टवानसि ॥
इति हरिवंशाच्-छ्री-कृष्णेनात्मैवार्जुनाय मायया दर्शित इति । तद्-दर्शनेन महा-काल-पुरेशेक्षणन जातं साध्वसं सम्भ्रमो यस्येति तथा द्वयोर् विशेषणम् इदम् । भूमा सर्वेश्वरः । तौ कृष्णार्जुनौ । ऊर्जितया प्रगल्भया । आत्मानम् इति । श्री-गोवर्धन-पूजायां—
तस्मै नमो व्रज-जनैः सह चक्रेणात्मनात्मने
[अत्राकारलोपसंधिरार्षः] इतिवल्-लीला-कौतुक-मात्रार्थं तत्-तद् ईति ज्ञापितम् । अनन्तम् इत्य् अपरिच्छिन्न-तेजोमयत्वादिना अच्युत इति तत्रापि स्वयं भगवत्त्वेन तत्रापि व्यापकत्वादि-च्युति-रहितः स्वीय-नर-लीलाच्युति-रहितो\ऽपीत्य् अर्थः । जिष्णुस्तु तादृशो\ऽपि तस्य दर्शनाज्-जात-साध्वसः सन् ववन्दे । ताव् अङ्गीकृतात्म-नर-लीलौ । श्री-कृष्णो\ऽसौ ब्रह्माक्रूरादीन् प्रति तादृश-वैभवानि कदाचिद् एव प्रकाशयति—गोवर्धन-पूजन-लीलायामिव सदा तु कौतुकेन सतावद् अङ्गीकृतात्म-नर-लील एव तद् अनुसारेणार्जुनाद्या अपीति भावः । स तु भूमा श्री-गोवर्धन-बलि-भुग्-वत्ततो\ऽपि दर्शितात्म-महत्त्वः तत् सहायश् च तादृशा इत्य् आह—परमेष्ठिनां प्रभुर् इति । यत ऊर्जायां श्री-कृष्णेच्छानुसारेणैवार्जुनस्य स्व-वाक्यादराद्य् उत्पत्तये ऊर्जितया सप्रागल्भ्ययेत्य् अर्थः । सस्मितम् इति स्व-प्रसाद-व्यञ्जनार्थम् ॥ ५८ ॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : द्विजात्मजा इत्य् आदि । युवयोर् दिदृक्षुणा मया द्विजात्मजा उपनीताः दिदृक्षुश्चेत् स्वयम् एव तत्र कथं न गतः ? तत्राह—मुनि-धर्म-गुप्यते पृथिव्यां धर्म-रक्षार्थम् । अयम् अर्थः—विना भवद् इच्छामनेन रूपेण भुवि गन्तुम् असमर्थो\ऽहम् । युवयोर् इति किं द्वित्वनिर्देशन-परात्परत्वात् श्री-कृष्णस्यैव दर्शने समुचितम् औत्कण्ठ्यम् ? तत्राह—कलावतीर्णौ कला अर्जुनो\ऽवतीर्णः परिपूर्णः श्री-कृष्ण-स्वरूपेणैवावतीर्णस्तौ तत्-कला-हेतोस् तद्-दर्शने\ऽप्य् उत्कण्ठा अर्जुनस् तस्यातिशय-प्रेमपात्रम् इति कृत्वा वा। अथवा, कलाभिः सर्वाभिर् एव शक्तिभिर् अवतीर्णौ । यद् वा, कं सुखं लातीति कलं सुखदम् अवतीर्णम् अवतारो ययोः भावे क्तः
यद् वा, कलाम् अवतीति तथा तीर्णं तरणं याभ्याम् अयुवाम् असुरहनन-कार्यं सङ्कल्प्य मे\ऽन्ति निकटे इतम् आगच्छतम् इति कृत्वा द्विजसुता उपनीताः । असुर-हननात् पूर्वं नोपनीतास्तदा तत्-कार्य-बाधः स्यात्, अन्यथा युवयोर् दर्शनं मे कथं स्याद् इति दिदृक्षुत्वम् । तस्य श्री-कृष्णांशत्वे हरिवंशोक्तिः—[विष्णु-प ११३.२५]
ततस् तेजः प्रज्वलितम् अपश्यन्त महा-मुने ।
सर्वं लोकं समाविश्य स्थितं पुरुष-विग्रहम् ॥
तं प्रविष्टो हषीकेशाद्-दीप-तेजोनिधिस् तदा ॥[विष्णु-प ११३.२५] इति ।
ततो\ऽर्जुन-प्रश्ने भगवद्-वाक्यम्—
ब्रह्म-तेजोमयं दिव्यं महत् यद्-दृष्टवानसि ।
अहं भागवत-श्रेष्ठ मत्-तेजस् तत् सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विदुत्तमाः ॥[हरिवंशे विष्णु।प ११४.९,१०] इति ।
अथाहं स इति तादात्म्य-सन्देहे पुनराह—मत्-तेतस् तत् सनातनम् । तथापि तेजस्त्वे सन्देहम् अवतार्य प्रकृतिः सा मम इति प्रकृतिः परात्परा शक्तिर् इति यावत् । यत्रैव पुनर् आह—
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् । [विष्णु।प ११४.११] इति ।
भक्तानां त्व् अहम् एवेति वाक्यशेषः । अतस्तेन सह वाक्यैक-वाक्यतायां श्री-कृष्णस्यैव विभूति-विशेषो\ऽयम् इति सुसमञ्जसम् ॥ ५८ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्मानम् इति । श्री-गोवर्धन-पूजायां तस्मै नमो व्रज-जनैः सह चक्रेणात्मनात्मने इतिवल्-लीला-कौतुक-मात्रार्थं तत्-तदीति ज्ञापितम् । अनन्तम् इत्य् अपरिच्छिन्न-तेजोमयत्वादिना अच्युत इति तत्रापि स्वयं भगवत्त्वेन तत्रापि व्यापकत्वादिच्युति-रहितः स्वीय-नर-लीला-च्युति-रहितो\ऽपीत्य् अर्थः । जिष्णुस्तु तादृशो\ऽपि तस्य दर्शनाज्-जात-साध्वसः सन् ववन्दे । तावङ्गीकृतात्म-नर-लीलौ । श्री-कृष्णो\ऽसौ ब्रह्माक्रूरादीन् प्रति तादृश-वैभवानि कदाचिद् एव प्रकाशयति-गोवर्धन-पूजन-लीलायामिव सदा तु कौतुकेन सतावद् अङ्गीकृतात्म-नर-लील एव तद् अनुसारेणार्जुनाद्या अपीति भावः । स तु भूमा श्री-गोवर्धन-बलि-भुग्वत्ततो\ऽपि दर्शितात्-ममहत्त्वः तत्-सहायश् च तादृशा इत्य् आह—परमेष्ठिनां प्रभुर् इति । यत ऊर्जायां श्री-कृष्णेच्छानुसारेणैवार्जुनस्य स्व-वाक्यादराद्य् उत्पत्तये ऊर्जितया सप्रागल्भ्ययेत्य् अर्थः । सस्मितम् इति स्व-प्रसाद-व्यञ्जनार्थम् ॥ ५८ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ववन्द आत्मानम् इत्य् आदि । अच्युतः श्री-कृष्ण आत्मानं देहं मूर्ति-विशेषम्, अंशम् इति यावत् । कीदृशम् ? अनन्तम् अन्त-रहितम्, अंशत्वेऽपि तथात्वं स्वाभाविकम् एव । विष्णुश् च ववन्दे । कीदृशः ? तद्-दर्शन-जात-सम्भ्रमः । तस्य श्री-कृष्ण-कृत-नमस्कारस्य दर्शनेन जातं साध्वसं यस्य । अयं सर्वेश्वरेश्वरः कथम् अमुम् अंश-रूपिणं नमस्करोतीति विस्मयं कृत्वा । ववन्दे इत्य् अत्र साध्वस-शब्दो विस्मय-वाची, साधुः असोऽसनं दीप्तिर् यत्र, चमत्कार इत्य् अर्थः । स भूमा नारायणः परमेष्ठिनां योगीन्द्राणां प्रभुस् ताव् आह । बद्धाञ्जली इति श्री-कृष्णस्यापि बद्धाञ्जलित्वं कौतुक-परं स्वांशं प्रति सम्मानाधिक्यम् । स्वस्यैव यथा गोवर्धनोद्धरण-लीलायां मूर्त्य्-अन्तरम् आविर्भाव्य तद्-वन्दनादिना कौतुक-प्रकटनम् ॥ ५८ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मानं ववन्द इति । गोवर्धन-पूजायां तस्मै नमो व्रज-जनैः सह चक्रे आत्मनात्मने [भा।पु। १०.२४.३६] इतिवल् लीला-कौतुक-मात्रार्थम् एव अनन्तम् इत्य् आत्मनोऽसङ्ख्य-स्वरूपेणानन्त्यात् सोऽप्य् अष्ट-भुज एक आत्मेत्य् अर्थः । अच्युतो नर-लीलत्व-च्युति-रहित इति वन्दने हेतुर् उक्तः । कृष्णस्यास्य नर-लीलत्व-रक्षणार्थम् एव सोऽष्टभुज ईश्वर-लीलम् एतद्-अंशोऽपि तं न वन्दितवान् इति भावः । जात-साध्वसः प्राप्त-सम्भ्रम इति कृष्णाद् अप्य् अयम् अधिकैश्वर्यवान् इति लब्ध-प्रतीतिक इत्य् अर्थः । भूमेति गोवर्धन-पूजा-ग्राही यः कृष्णः स इव कृष्णाद् अप्य् आधिक्येन दर्शितात्म-महत्त्व इत्य् अर्थः । परमेष्ठिनां कोटि-ब्रह्माण्ड-स्थ-चतुर्मुखानाम् ऊर्जया प्रगल्भयेति श्री-कृष्णाभिप्रायानुरूपाया तयैवार्जुनं मोहयितुम् इति भावः । स-स्मितम् इति त्वद्-अभिप्रायेणैव त्वद्-अंशोऽप्य् अहं स्वस्याधिक्यं स्व-वाक्येन प्रकटीकरोमि । वस्तुतस् तु तस्मिन्न् एव वाक्ये तवैव रूप-गुणैश्वर्याधिक्यं मद्-अंशित्वं च द्योतयामि । पश्य मे चातुर्यं त्वयापि पश्चाद् अर्जुनाय स्व-तत्त्वम् अवश्य-ज्ञाप्यम् इति स्मितेन प्रार्थना च द्योतिता ॥ ५८ ॥
॥ १०.८९.५९ ॥
द्विजात्मजा मे युवयोर् दिदृक्षुणा
मयोपनीता भुवि धर्म-गुप्तये ।
कलावतीर्णाव् अवनेर् भरासुरान्
हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मे कलावतीर्णाव् इति सम्बोधनम् । शीघ्रं मे अन्ति सकाशम् इतम् आगच्छतम् ॥ ५९ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मे कलावतीर्णाव् इति द्वयोः सम्बोधनम् अर्जुनाभिप्रायकम् एव लिङ्ग-समवाय-न्यायेन । यद् वा, कं सुखं लाति ददातीति कला रक्षा तद् अर्थम् अवतीर्णौ मे ममावनेर् भूमेर् भरासुरान्हत्वा इहात्र मे ममान्ति समीपं युवाम् इतम् आगच्छतम् इति योज्यम् । अन्यथा कृष्णस् तु भगवान्स्व-यम् इति ववन्द आत्मानमजं तमच्युतः इति पूर्व-श्लोकोक्तं च कथं सङ्गच्छेतेति । तथापि तस्य मुखात्तयोः स्वतो\ऽप्य् अधिकं-माहात्म्यम् उद्गतम् इति तादृशं तद्-वाक्यम् एवाह—द्वितेति । हे धर्म-गुप्तये कलावतीर्णो धर्मस्य ब्राह्मणत्वादि-गुप्तये रक्षणाय कलाभिः सर्वाभिः शक्तिभिर् युक्तावेवावतीर्णौ सर्वांश-संवलिततया प्रकटौ मध्य-मपद-लोपी समासः । युवयोर् युवां दिदृक्षुणा मया मे मम भुवि धाम्नि द्विजात्मजा उपनीता आनीताः एवम् एव वक्ष्यते\ऽर्जुनेन तत्तत्त्वे पृष्टे श्री-कृष्णेनापि श्री-हरिवंशे—
मद्-दर्शनार्थं ते बाला हृतास् तेन महा-त्मना ।
विप्रार्थम् एष्यते कृष्ष्णो मत्-समीपं न चान्यथे\ऽति ॥
तद् एतच् च नापूर्वम्—
यन्मर्त्य-लीलौपयिक स्वयोग-मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः परम्पदं भूषण-भूषणाम् ॥ इति ।
तृतीये\ऽपि श्रीमद् उद्धवोक्तेः । तद् एवं यद् यपि तत्र तस्य स्पृहयालुत्वं तथा सर्वत्रापि करतल-मणिवत्-सर्व-दर्शित्वं सर्वाकर्षित्वं च तथापि तेन स्वेच्छया निकटम् आगत्य दर्शन-दानं विना स तं द्रष्टुं न शक्नोतीति कष्ट-कल्पनयैव तत्-सम्पादितवान् इति च
शक्त्याधिक्यम् अप्य् आयातम् । किमुत सौन्दर्यादि-गुणाधिक्यम् इति स्थितम् । हर् इवंशादत्र त्वयं विशेषः यः खल्व् अर्जुनं प्रत्य् अपि तथा तस्य दिदृक्षेति युक्तं चैतत्—
ययोर् आत्मसमं वित्तं जन्मैश्वर्याकृतिर् भवः ।
तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ इति न्यायेन ।
तद् उक्तं विष्णु-धर्मे श्री-कृष्णेनैव तं प्रति—
यस् त्वां वेत्ति स मां वेत्ति यस्त्वाम् अनु समामनु ।
अभेदेनात्मनो वेद्मि त्वाम् अहं पाण्डु-नन्दन ॥ इति ।
प्रस्तुत-पदावशेषो व्याख्यायते । नन्व् एवम् अपि जातम् अधुना तु किं कर्तव्यं तत्राह—भूयः पुनर् अपि अवशिष्टान् अवनेर् भरासुरान् हत्वा मे मम अन्ति अन्तिकाय समीपम् आगन्तुं त्वरयेतं त्वरयतं शीघ्रं प्रस्थापयतं मोचयतम् इत्य् अर्थः । तद्-धाम्नो मुक्त-गम्यत्वेन हरिवंशोक्तत्वात् अन्तीत्यव्ययाच् चतुर्थ्या लुक् । चतुर्थी च क्रियार्थोपपदस्य च कर्मणि स्थानिन इति स्मरणात् एधोभ्यो व्रजतीतिवत् त्वरयेतम् इति हेतुर् णिजन्तस्य त्वरोर् लिङि रूपं व्याख्यातान्त-क्रिययोर् एककर्मत्वं च कटं कृत्वा प्रथापयेतिवत् अर्थान्तरे मे कलावतीर्णाव् इति व्यवहितान्वयः तथा त्वरयेतम् इति सोपसर्गम् एव प्रयुज्येत । स्व-निकट-प्रापणादेशे तथा व्यवहारात् आस्तां तावद् अस्मन्-मतं श्री-कृष्णस्य स्वयं भगवत्त्वं नित्य-लीलत्वं चेति ॥ ५९ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् आवां नर-नारायणौ भवान् परिपूर्णः, तत् कथमावां दिदृक्षुरसि, नैवम् इत्य् आह—पूर्ण-कामा वयम् इत्य् आदि । युवां पूर्ण-कामौ ईश्वराव् अपि सम्बोधने नर-नारायणौ तु ऋषी मुनी धर्म् आचरणम् अकुरुतां ह्यस्तनी द्विवचनम् स्थित्य् ऐ धर्म-संस्थापनाय ऋषभौ श्रेष्ठौ धर्मम् आचरतां श्रेष्ठाव् इति । धर्मं विशिनष्टि लोक-सङ्ग्रहम् ॥ ५९-६०-६५
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि तस्य मुखात्-तयोः स्वतो\ऽप्य् अधिकं माहात्म्यम् उद्गतम् इति तादृशं तद्-वाक्यम् एवाह—द्वितेति । हे धर्म-गुप्तये कलावतीर्णो धर्मस्य ब्राह्मणत्वादि-गुप्तये रक्षणाय कलाभिः सर्वाभिः शक्तिभिर् युक्तावेवावतीर्णौ सर्वांश-सम्वलिततया प्रकटौ मध्यम-पदलोपी समासः । युवयोर् युवां दिदृक्षुणा मया मे मम भुवि धाम्नि द्विजात्मजा उपनीता आनीताः एवम् एव वक्ष्यते\ऽर्जुनेन तत्-तत्त्वे पृष्टे श्री-कृष्णेनापि श्री-हरिवंशे—
मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना ।
विप्रार्थम् एष्यते कृष्ष्णो मत्-समीपं न चान्यथे\ऽति ॥
तदेतच् च नापूर्वम्—
यन्मर्त्य-लीलौपयिक स्वयोग-मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः परम्पदं भूषण-भूषणाम् ॥ इति ।
तृतीये\ऽपि श्रीमद् उद्धवोक्तेः । तद् एवं यद् यपि तत्र तस्य स्पृहयालुत्वं तथा सर्वत्रापि करतल-मणिवत्-सर्व-दर्शित्वं सर्वाकर्षित्वं च तथापि तेन स्वेच्छया निकटम् आगत्य दर्शन-दानं विना स तं द्रष्टुं न शक्नोतीति कष्ट-कल्पनयैव तत्-सम्पादितवान् इति च
शक्त्याधिक्यम् अप्य् आयातम् । किमुत सौन्दर्यादि-गुणाधिक्यम् इति स्थितम् । हर् इवंशादत्र त्वयं विशेषः यः खल्व् अर्जुनं प्रत्य् अपि तथा तस्य दिदृक्षेति युक्तं चैतत्—
ययोर् आत्मसमं वित्तं जन्मैश्वर्याकृतिर् भवः ।
तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ इति न्यायेन ।
तद् उक्तं विष्णु-धर्मे श्री-कृष्णेनैव तं प्रति—
यस् त्वां वेत्ति स मां वेत्ति यस्त्वाम् अनु समामनु ।
अभेदेनात्मनो वेद्मि त्वाम् अहं पाण्डु-नन्दन ॥ इति ।
प्रस्तुत-पदावशेषो व्याख्यायते । नन्व् एवम् अपि जातम् अधुना तु किं कर्तव्यं तत्राह—भूयः पुनर् अपि अवशिष्टान् अवनेर् भरासुरान् हत्वा मे मम अन्ति अन्तिकाय समीपम् आगन्तुं त्वरयेतं त्वरयतं शीघ्रं प्रस्थापयतं मोचयतम् इत्य् अर्थः । तद्-धाम्नो मुक्त-गम्यत्वेन हरिवंशोक्तत्वात् अन्तीत्यव्ययाच् चतुर्थ्या लुक् । चतुर्थी च क्रियार्थोपपदस्य च कर्मणि स्थानिन इति स्मरणात् एधोभ्यो व्रजतीतिवत् त्वरयेतम् इति हेतुर् णिजन्तस्य त्वरोर् लिङि रूपं व्याख्यातान्त-क्रिययोर् एककर्मत्वं च कटं कृत्वा प्रथापयेतिवत् अर्थान्तरे मे कलावतीर्णाव् इति व्यवहितान्वयः तथा त्वरयेतम् इति सोपसर्गम् एव प्रयुज्येत । स्व-निकट-प्रापणादेशे तथा व्यवहारात् आस्तां तावद् अस्मन्-मतं श्री-कृष्णस्य स्वयं भगवत्त्वं नित्य-लीलत्वं चेति ॥ ५९ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : द्विजात्मजा इत्य् आदि । द्विजात्मजा ययोपनीताः । कुतः ? दिदृक्षुणा । कुत्र दिदृक्षुत्वं भवतः ? इत्य् आशङ्क्य तद् एव प्रकटयति—युवयोर् मध्ये भुवि ममोत्पत्ति-स्थले श्री-कृष्णे दिदृक्षुत्वम् इत्य् अर्थः । भवत्य् अस्माद् इति भूः । अपादाने क्विप् । तथा च—अहं सर्वस्य प्रभवः [गीता १०.८] इति श्री-मुखोक्तेः ।
ननु दिदृक्षुश् चेत्, तत्रैव कथं नागाः ? तत्राह—धर्म-गुप्तये धर्म-रक्षायै । कुत्र धर्म-रक्षा ? इत्य् आह—कलावतीर्णौ । कलानाम् अस्मद्-आदीनाम् अवतीर्णिर् अवतारो यस्मात् तस्मिन् श्री-कृष्णे एतस्मिन् या धर्म-गुप्तिस् तद्-अर्थम् । अहं चेत् तत्र गत्वाद्रक्ष्यम्, तदा द्विज-बाला नामरिष्यन् । तद्-आनयन-प्रकारेण तत्-कृत-प्रयत्नेन न चास्य धर्मोऽयम् अभविष्यत् । अत एषा धर्म-रक्षास्य भूयाद् इति मया तत्र न गतम् । अथवा दिदृक्षुत्वे हेतुः—धर्म-गुप्तये इति । अंशो ह्य् अंशिनं दिदृक्षतीत्य् एष एव धर्मः । अतः परं कृतार्थोऽस्मि, तद् अधुनावनेर् भारायमाणान् असुरान् हत्वान्तिमे चरमे कर्मणि स्व-धाम-गमने त्वरयेतं त्वरां कुरुतम् । इह भूमौ भूयः प्रकृष्टं यथा भवति तथा हत्वेत्य् अनुषङ्गः ॥ ५९ ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : युवयोर् वां मे कलया अवतीर्णाव् इति सम्बोधनम् । शीघ्रं मे अन्ति समीपे इत आगच्छतम् इत्य् अर्जुन-मोह-प्रयोजको\ऽर्थः । वास्तवार्थस्तु हे कलावतीर्णौ कलाभिः स्व-शक्तिभिः सहैवावतीर्णौ भूयः पुनर् अपि युवाम् अवनेर्भारान् असुरान् हत्वा मे अन्ति ममान्तिके तान् प्रस्थापयितुं त्वरयेतम् । ण्यन्ताल्-लिङि रूपम् । अन्तीत्यव्ययं चतुर्थ्यन्तम् । अत्रागत्य ते मुक्ता भवन्त्व् इति तद्-धाम्नो मुक्त-गम्यत्वेन हरिवंशोक्तत्वात् । द्वितीयस्कन्धे\ऽपि क्रम-मुक्ति-सृतौ अष्टावरण-भेदानन्तरम् एव मोक्ष-श्रवणात् ॥ ५९
॥ १०.८९.६० ॥
पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी ।
धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आचरताम् आचरतम् । इदं भारत-युद्धात् पूर्वम् एव कृतम् अपि श्रैष्ठ्य-कथन-प्रस्तावेनात्रोक्तम् ॥ ६० ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पूर्ण-कामाव् अपि लोक-सङ्ग्रहार्थं धर्मम् आचरतं युवाम् । इदं ब्राह्मण-पुत्रानयनादि । श्रेष्ठ्यं प्राशस्त्यम् । प्रस्तावः प्रसङ्गः । नन्व् आवां सर्वतः परिपूर्णौ कथं ब्रह्मण्यण्व् आदि-धर्म-परौ स्याव इत्य् आशय केवल-करुणया धर्म-संस्थापनार्थम् एवेति सिद्धान्त-यन्न् उदाहरणं दर्शयति-पूर्णेति । युवामृषभौ सर्वाविर्भाव-श्रेष्ठाव् अपि तत एव पूर्णकामाव् अपि स्थित्यै सर्व-पालनाय लोक-सङ्ग्रहं धर्मम् आचरतां मध्ये नर-नारायणाव् ऋषी तौ युवयोर् विभूति-रूपावंशावित्य् अर्थः । वक्ष्यते ह्यदुद्धवं प्रति श्री-कृष्णेनैव विभूति-प्रसङ्गे नारायणो मुनीनां चेति । अतस्ताव् अपि यदि तादृशौ तदा किमुत साक्षाद्-भगवन्ताव् इति भावः । अत्र चाचरतम् इत्य् अर्थे खल्व् आचरताम् इति न प्रसिद्धम् इत्य् अपि तथा न व्याख्यातम् इति ज्ञेयम् । किञ्च मद् अन्तिकम् आगच्छतम् इति नर-नारायणौ भुत्वा धर्मम् आचरतम् इति पारम्परिक-विरोधश् च ज्ञेयः ॥ ६० ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् आवां सर्वतः परिपूर्णौ कथं ब्रहमण्यत्वादि-धर्म-तत्परौ स्यावेत्य् आशङ्क्य केवलं करुणया धर्म-स्थापनार्थम् एवेति सिद्धान्त-यन्न् उदाहरणं दर्शयति—पूर्णेति । युवामृषभौ सर्वाविर्भाव श्रेष्ठाव् अपि तत एव पूर्ण-कामाव् अपि स्थित्यै सर्व-पालनाय लोक-सङ्ग्रहं धर्मम् आचरतां मध्ये नर-नारायणाव् ऋषी तौ युवयोर् विभूति-रूपावंशाव् इत्य् अर्थः । वक्ष्यते ह्यदुद्धवं प्रति श्री-कृष्णेनैव विभूति-प्रसङ्गे नारायणो मुनीनां चेति । अतस् ताव् अपि यदि तादृशौ तदा किमुत साक्षाद्-भगवन्ताव् इति भावः । अत्र चाचरतम् इत्य् अर्थे खल्व् आचरताम् इति न प्रसिद्धम् इत्य् अपि तथा न व्याख्यातम् इति ज्ञेयम् । किञ् च मद्-अन्तिकम् आगच्छतम् इति नर-नारायणौ भुत्वा धर्मम् आचरतम् इति पारम्परिक-विरोधश् च ज्ञेयः ॥ ६० ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् आवां नर-नारायणौ, त्वम् आदि-नारायणः, कथम् आवयोर् दिदृक्षुर् असि ? तत्राह—पूर्ण-कामाव् अपीत्य् आदि । अयि सम्बोधने । भो भगवन् श्री-कृष्ण ! युवां पूर्ण-कामाव् ईश्वरौ । यद्यपि श्री-कृष्ण एवेश्वरः, तथापि तत्-सखित्वेनायम् अर्जुनोऽपि मे त्वत्-सदृशः । तवात्र यावान् स्नेहः, तावान् आत्मानं विना नान्यत्र भवति । तेन तुल्यं मे द्वयोर् दिदृक्षुत्वम् इति युवाम् इति द्वि-वचनम् । तर्हि नर-नारायणौ कौ ? इत्य् आह—नर-नारायणाव् ऋषी, मुनी भूत्वा लोक-सङ्ग्रहं धर्मम् आचरताम् । कीदृशौ ? स्थित्यै स्थितिर् मर्यादा तन्-निमित्तम् ऋषभौ श्रेष्ठौ । यद् वा, स्थित्यै लोक-सङ्ग्रहं धर्मम् आचरतां मुनीनाम् ऋषभौ ऋष्य्-अवतारौ अर्थात् तवैव । उक्तं च, तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी [भा।पु। १.३.९] इति । अन्यथा, एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इत्य् उक्तस्यासङ्गतिः ॥ ६० ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आचरताम् आचरतम् ॥ ६०-६२ ॥
॥ १०.८९.६१ ॥
इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना ।
ॐ इत्य् आनम्य भूमानम् आदाय द्विज-दारकान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । आदिष्टावाज्ञप्तौ । द्विज-पुत्रान् आदाय स्वकं धाम न्यवर्तताम् इति द्वयोः सम्बन्धः । इतीत्य् अर्धकम् । इति पूर्वोक्त-प्रकारेण गोवर्धन-मख-वल्लीला-विशेष-सम्पादनाभिप्रायेण आदिष्टौ आदिष्टावादि-मुद्रयोक्तौ तत्र भगवद् आदि-शब्दः स्पष्टैश्वर्यादि-व्यपेक्षया । कृष्ण-शब्दश् च स्वयं भगवति कृषि वाचकः शब्द इत्य् आदि-प्रामाण्येन परब्रह्मत्वापेक्षया । श्रीमद् अर्जुने\ऽपि तत्-सनामत्वेन निर्देशः । पूर्ववत्-समशीलत्वापेक्षया उभयत्र तादृशत्वे\ऽपि नराकृति-परब्रह्मेत्य् आदिप्रसिद्धया नर-लीलाव् इत्य् अर्थः ॥ ६१ ॥
इत्य् आदिष्टाव् इत्य् आरभ्य यथावय इत्य् अन्ते द्वे पद्ये सन्तत्य् अर्थं सपादनियुते जप्ये तेनावश्यं सन्ततिलाभ इति, लिखित्वा धारणाद् अपीति मन्त्र-शास्त्राद् अवसेयम् ।
अस्य श्लोक-द्वयात्मक-मन्त्रस्य व्यास ऋषिः । कृष्णो देवतानुष्टुप् छन्दः । सन्तत्यवाप्तये जपे विनियोगः । ध्यानं तु—
विजयेन युतो रथास्तितः प्रसमानीय समुद्र-मध्यतः ।
अददत्तनयान्-द्विजन्मने स्मरणीयो वसुदेव-नन्दनः ॥
जपश् च—
स्मर-बीज-सम्पुटितः कार्यः जीव-पुत्रक-मालया ।
जीव-पुत्रस्य बीजैश् च दशांशं होमम् आचरेत् ।
अस्य धारणम् अपि स्त्रिया कार्यं वाम-भुजे इति ॥
स्वकं धामेति । यथा तस्य तन्-नित्यं धाम तथास्य च द्वारकाख्यम् इति भावः । वक्ष्यते ह्य् एकादशान्ते-नित्यं सन्निहितस् तत्र भगवान्-मधुसूदन इति । सम्प्रहृष्टाव् इत्य् अर्जुनस्याभीष्ट-सिद्धेः श्री-भगवतस्तु तत एवेति तथागतम् इति पूर्व-व्युत्क्रमेण ज्योतिर् आदि-भेदक्रमादित्य् अर्थः ॥ ६१ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीति सार्धकम् । इति पूर्वोक्त-प्रकारेण गोवर्धन-मखवल्-लीला-विशेष-सम्पादनाभिप्रायेण आदिष्टौ आदिष्टाव् आदिमुद्रयोक्तौ तत्र भगवद् आदि-शब्दः स्पष्टैश्वर्यादि-व्यपेक्षया । कृष्ण-शब्दश् च स्वयं भगवति कृषिर् भू-वाचकः शब्द इत्य् आदि-प्रामाण्येन परब्रह्मत्वापेक्षया श्री-मद् अर्जुने\ऽपि तत्-सनामत्वेन निर्देशः । पूर्ववत्-समशीलत्वापेक्षया उभयत्र तादृशत्वे\ऽपि नराकृति-परब्रह्मेत्य् आदि-प्रसिद्ध्या नर-लीलावित्य् अर्थः । स्वकं धामेति यथा तस्य तन्न् इत्यं धाम तथास्य च द्वारकाख्यम् इति भावः । वक्ष्यते ह्य् एकादशान्ते-नित्यं सन्निहितस् तत्र भगवान्-मधुसूदन इति । सम्प्रहृष्टाव् इत्य् अर्जुनस्याभीष्ट-सिद्धः श्री-भगवतस्तु तत एवेति तथागतम् इति पूर्व-व्युत्क्रमेण ज्योतिर् आदि-भेदक्रमादित्य् अर्थः ॥ ६१ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.६२ ॥
न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् ।
विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रायेत्य् अर्धकम् । यथा-रूपं तत्-पित्रादि-दृष्ट-रूपान् अतिक्रमेणेत्य् अर्थः । तत्र योग्यताम् आह—प्रभू दुर्घट-घटना-समर्थों इत्य् अर्जुनस्यापि तादृशत्वं व्यक्तम् ॥ ६२ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विप्रायेत्य् अर्धकम् । यथा-रूपं तत्-पित्रादि-दृष्ट-रूपान् अतिक्रमेणेत्य् अर्थः । तत्र योग्यताम् आह—प्रभू दुर्घट-घटनासमर्थौ इत्य् अर्जुनस्यापि तादृशत्वं व्यक्तम् ॥ ६२ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.६३ ॥
निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः ।
यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतच् चरितस्य फलितम् आह—वैष्णवं धाम महा-काल-पुराख्यं तदीय-पुरं तदीय-प्रभावं वा निशाम्य [निशाम्येति पाठः प्राचीनः ।] दृष्ट्वा परम-विस्मितो\ऽपि पुंसा सर्वेषाम् एव जीवानाम् ईश्वरः प्रादुर्भावनां च यत् किञ्चित्-पौरुषं शक्तिस् तत्-कृष्णस्यैव अनुकम्पितं कृपासम्पादितं मेने । तादृशेनापि तेन तस्यावसर-प्रार्थनात् स्वस्य च द्विजात्मजा मे युवयोर् दिदृक्षुणा इत्य् आदिद्वयेन तादृशतयोक्तेः ।
यद् वा, पूर्वोक्त-प्रकारेण तत्-पर्यन्त-व्यापकतया विष्णुः कृष्णस् तस्य धाम प्रभावं तद्-गतं स्व-गतं च निशम्य द्विजात्मजा मे युवयोर् दिदृक्षुणा इत्य् आदिना तन्-मुखाच्-छ्रुत्वेत्यादि हरिवंशे\ऽप्य् अर्जुने तत्-तत्त्वं पृष्टवति श्री-कृष्णं सर्वं तन्-महा-पुरुष-पर्यन्तं स्वस्यैव वैभवतया ज्ञापितवान् इति तत्रैव दृश्यम्, तद् एतद्-व्याख्याकारणं मूलम् एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् इत्य् एव प्रथम-स्कन्ध-तृतीयाध्याये सर्व-भगवद् आविर्भावसूत्र-रूपे तत्-परिभाषा-रूपत्वात् सूत्र्यते । विवरणीयार्थः सङ्केपेण दर्श्यते येन तद्धि सूत्रम् । तत्र चानियमे नियमकारिणी परिभाषा । शास्त्रारम्भे सकृद् एव पश्यमाना सर्वम् एव व्याप्नोति तस्मात्-तद् अधीनान्येवैतदाख्यान-वाक्यान्य् अपि तथा श्री-भगवतस् तस्य सर्व-देवेतिहास-सारभूतत्वाद् अन्यशास्त्रवृन्दान्य् अपि प्रतिज्ञा-वाक्यम् आत्रस्यान्यत्रापि सर्वोपमर्दकत्वं दृश्यते । यथा आत्मनि विज्ञाते सर्वम् इदं विज्ञातं भवतीतत्यादि-वाक्यम् आकाशादीनाम् उत्पत्ति-वाक्यमन्यथयति । किञ् च श्रुति-लिङ्ग-वाक्य-स्थान-प्रकरण-समाख्यानां पारदौर्बल्यम् अर्थ-विप्रकर्षाद् इति पूर्वमीमांसा-निर्णयः । श्रुत्यादि-बलीयस्त्वाच् च न बाधेत्य् उत्तर-मीमांसा-सम्मतिश् च तत्र साक्षाच्-छब्देनोपदेशः श्रुतिः । यथा एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् इति । अन्यानि तु श्री-कृष्ण-सन्दर्भे विवृतानि तेषां परपरं बलम् अर्थस्य दूर-दूर-प्रतीतेर् इति सर्व-श्री-भगवतोपदेश-प्रवृत्तस्य भगवतः श्री-सूतस्य सर्व-निर्णयार्थं साक्षात्-स्वयं भगवच्-छब्देनोपदेशो\ऽयं सर्वतो बतावानेवेति इत्थम् एव सर्वत्रैव तैर् इदम् एव वाक्यं प्रमाणीक्रियते । लीलायां च नाना-कौतुकिनः श्री-भगवतो लाघव-दर्शनं न तत्-प्रमापकम् । गोवर्धन-बलिभुक्परे\ऽपि नारदादाव् अपि लघुतया व्यवहाराद् इति च
स्थिते साध्वेवोपन्यस् तम् । इत्थम् उक्तं श्री-विष्णोर् उत्कर्षः स्वयं भगवति श्री-कृष्ण एव पर्यवस्यतीति तथैव हि तेषाम् अप्य् उपन्यासः सङ्गच्छते । स चोक्त-लक्षणो भगवान् श्री-कृष्ण एवेति दिक् ॥ ६३ ॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् स्वमित्य् एव प्रथम-स्कन्ध-तृतीयाध्याये सर्व-भगवदाविर्भाव-स्वरूपे तस्य परिभाषा-रूपत्वात् सूत्र्यते विवरणीयार्थः सङ्केपेण दर्श्यते येन तद्धि सूत्रम् । तत्र चानियमे नियमकारिणी परिभाषा । शास्त्रारम्भे सकृद् एव पश्यमाना सर्वम् एव व्याप्नोति तस्मात्-तद् अधीनान्येवैतद् आख्यान-वाक्यान्यपि तथा श्री-भगवतस् तस्य सर्व-देवेतिहास-सारभूतत्वाद् अन्यशास्त्र-वृन्दान्य् अपि प्रतिज्ञा-वाक्यमात्रस्यान्यत्रापि सर्वोपमर्दकत्वं दृश्यते । यथा आत्मनि विज्ञाते सर्वम् इदं विज्ञातं भवतीतत्यादि-वाक्यम् आकाशादीनाम् उत्पत्ति-वाक्यमन्यथयति । किञ् च श्रुति-लिङ्ग-वाक्य-स्थान-प्रकरण-समाख्यानां पारदौर्बल्यम् अर्थ-विप्रकर्षाद् इति पूर्व-मीमांसा-निर्णयः । श्रुत्यादि-बलीयस्त्वाच् च न बाधेत्य् उत्तर-मीमांसा-सम्मतिश् च तत्र साक्षाच्-छब्देनोपदेशः श्रुतिः । यथा एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् इति । अन्यानि तु श्री-कृष्ण-सन्दर्भे विवृतानि तेषां पर-परं बलम् अर्थस्य दूर-दूर-प्रतीतेर् इति सर्व-श्री-भगवतोपदेश-प्रवृत्तस्य भगवतः श्री-सूतस्य सर्व-निर्णयार्थं साक्षात्-स्वयं भगवच्-छब्देनोपदेशो\ऽयं सर्वतो बतावान् एवेति इत्थम् एव सर्वत्रैव तैर् इदम् एव वाक्यं प्रमाणीक्रियते । लीलायां च नाना-कौतुकिनः श्री-भगवतो लाघव-दर्शनं न तत्-प्रमापकम् । गोवर्धन-बलि-भुक्परे\ऽपि नारदादाव् अपि लघुतया व्यवहाराद् इति च स्थिते साध्वेवोपन्यस्तम् । इत्थम् उक्तं श्री-विष्णोर् उत्कर्षः स्वयं भगवति श्री-कृष्ण एव पर्यवस्यतीति तथैव हि तेषाम् अप्य् उपन्यासः सङ्गच्छते । स चोक्त-लक्षणो भगवान् श्री-कृष्ण एवेति दिक् ॥ ६३
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परम-विस्मित इति प्रथमम् आत्यन्तिक-महैश्वर्य-दर्शनेनाहो तावद् अहं पाण्डु-पुत्रो मर्त्यो\ऽपि कृष्ण-प्रसादाद् एव सर्व-मूल-भूतं परमेश्वरम् इमम् अपश्यम् इति विस्मितः यतः क्षणं परामृश्याहो तेन कथं युवयोर् दिदृक्षुणेत्य् उक्तम् । सर्वादि-परमेश्वरस्य तस्य स्वांशे कृष्णे दिदृक्षा कथं सम्भवेत् । सम्भवतु वा सा कदाचित् किन्तु दिदृक्षतेत्यनुक्त्वा दिदृक्षुणेति ताच्छील्य-प्रत्ययेन दिदृक्षायाः सार्वदिकत्वं बुध्यते । भवतु वा सार्वदिकी दिदृक्षा द्वारकास्थं कृष्णं विभुत्वात् स्व-सृज्य-विश्वस्य करामलक-तुल्यत्वाच् च तत्र स्थित्यैव कथं न पश्यति, मास्तु वा विभुत्वं विप्रापत्याहरणार्थं प्रतिवर्षं द्वारकां गच्छत्येव तत्रैत्य् अ तैलिक-ताम्बूलकादिभिः परिदृश्यमानं कृष्णं कथं न पश्यति । कृष्णस्येच्छां विना कृष्ण-दर्शनं न भवेद् इति चेन्-मास्तु कृष्ण-दर्शनम्, ब्रह्मण्य-देवो भूत्वापि ब्राह्मणं प्रतिवर्षं कथं दुःखयति, तन्-मन्ये कृष्ण-दर्शन-उत्कण्ठ्यं त्यक्तुम् अपि न शक्नोति । यद्-अर्थम् अकृत्यम् अपि कुरुते, करोत्वकृत्यम् अपि तद् अर्थं किन्तु विप्रापत्याहरणार्थं कम् अपि सेवकं किं न प्रहिणोति स्वयं कथं याति । तन्-मन्ये द्वारकातस् तद् आहरणम् अप्य् अन्यैर् दुःशकं तस्मात् कृष्ण-नगरस्थं विप्रं तथा दुःखयामि यथा तद्-दुःखं सोढुम् असमर्थः कृष्णो मह्यं दर्शनं दास्यतीति तद् अभिप्रायो\ऽवगम्यते । अत एवान्तर्यामि-रूपेण तेनैव प्रेरितो मुखरो विप्रः कृष्ण-सन्निधाव् एवागत्य प्रतिबालकनाशान्ते तां गाथां गायति । तस्मात् ततो\ऽप्यस्य कृष्णस्यैव पारमैश्वर्यम् अधिकम् अनुमीयत इति विभाव्य परम-विस्मितः ततश् च कृष्णम् एव पृष्ट्वा तत्त्वम् अत्रावधारयाम् इति विमृश्यार्जुनेन पृष्टे सति कृष्णेनोक्तं यथा हरिवंशे—
मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना ।
विप्रार्थम् एष्यते कृष्णो मत्-समीपं न चान्यथेति ॥
मया तु विप्रार्थम् अपि न गतं तत्-समीपं किन्तु सख्युस् तव प्राण-रक्षार्थम् एव यदि विप्रार्थम् अहम् अगमिष्यंस् तदा प्रथम-बालहरणानन्तरम् एव खल्व् अगमिष्यम् । नवमे बाले हते सत्येव यस्माद् अगमम् । तस्मान् न तस्यानुरोधात् किन्तु त्वद् अनुरोधाद् एवेति सर्वं तत्त्वं कृष्ण-मुखात् श्रुत्वा\ऽर्जुनो यत् किञ्चित् पौरुषं पुंसां परव्योम-नाथ-पर्यन्तानामापि पुरुषाणां तत्-सर्वं कृष्णानुकम्पितं कृष्णानुकम्पासम्पादितम् एव मेने । इत्य् एवं वेदस्तवम् आरभ्यैव तत्-कथापर्यन्तम् अत्र दशम-स्कन्धान्ते दशमस्याश्रयत्वस्य कृष्णस्यैव सर्वोत्कर्ष-विवरणम् अभूद् इति ज्ञेयम् । इदं तु भारत-युद्धात्-पूर्वम् एव कृतम् अपि श्रेष्ठ्य-कथन-प्रस्तावेनात्रोक्तम् इति श्री-स्वामिचरणाः ॥ ६३-६६ ॥
॥ १०.८९.६४ ॥
इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् ।
बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-ऊर्जितैर् मखैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्री-कृष्ण-कर्मणामानन्त्यम् आह—इतीति । नर-लोक-विडम्बनम् आह—बुभुज इति । अत्यूर्जितैर् अन्येन कर्तुम् अशक्यैर् मखैर् अश्वमेधादिभिः । तथैतत्-प्रसङ्गेनान्यान्य् अपि तच् चरितानि स्मृत्वा सास्रगद्-गदम् आह—तानि च सर्वाणि विवक्षन्न् अपि श्री-परीक्षिद् आयूःस्वतापतासङ्कोचेन सदुःखम् उपसंहरन् एव चाह—इतीति त्रिभिः । इति पूर्वोक्त-प्रकारेण । ईदृशानि पूर्वोक्त-तुल्यानि वीर्याणि अद्भुत-कर्माणि इह लोके प्रकर्षण दर्शयन् प्रकटयन्न् अपि लीलया ग्राम्यान् लौकिकान् अपि सर्वान् विषयान् बुभुजे । ईजे च अत्यूर्जितैर् महा-संविधान-सम्पन्नैः ॥ ६४ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथैतत्-प्रसङ्गेनान्यान्य् अपि तच् चरितानि स्मृत्वा सास्रगद्-गदम् आह—तानि च सर्वाणि विवक्षन्न् अपि श्री-परीक्षिद् आयूःस्व-तापतासङ्कोचेन सदुःखम् उपसंहरन् एव चाह—इतीति त्रिभिः । इति पूर्वोक्त-प्रकारेण ईदृशानि पूर्वोक्त-तुल्यानि वीर्याणि अद्भुत-कर्माणि इह लोके प्रकर्षेण दर्शयन् प्रकटयन्न् अपि लीलया ग्राम्यान लौकिकान् अपि सर्वान् विषयान् बुभुजे तथैजे चेति अत्यूर्जितैः परमोद्भटैः ॥ ६४ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.६५ ॥
प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु ।
यथा-कालं तथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : श्रैष्ठ्यं गृहस्थ-धर्मोत्कृष्ट्यम् । प्रववर्ष अविच्छेदेन पूरयामास । कामान् दृष्टार्थान् । आदिशब्दाद् अन्त्यजा अपि ज्ञेयाः । तच् च यथाकालम् अवसरोचितं तत्रापि बाहुल्ये दृष्टान्तः । यथेति इन्द्रो यथा जलानि वर्षति तथैवेत्य् अर्थः । यतो भगवान् परिपूर्णैश्वर्यादिः यत एव च सर्वावतारावतारिभ्यः । श्रेष्ठ्यम् आस्थितः नित्यम् एव तत्-प्राप्तः । भारत-युद्धादित्य् आदि स्वामिचरणैर् युक्तम् एवोक्तम् । वीर्यं त्र्यम्बकतोषणम् इत्य् अर्जुनोक्त त्वात् यद्यप्य् अज्ञातवासानन्तरम् एवार्जुनस्य तद् इदं चरितं लभ्यते तथापि तद् अन्तराभिमन्यु-विवाह-परीक्षिदाधानयोर् अन्तराले काल-बाहुल्यम् उपलभ्यते । तद् अन्तरान्तरा चार्जुनस्य द्वारका-गमनं सम्भाव्यत इति ॥ ६५ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रकर्षेण ववर्ष अविच्छेदेन पूरयामास । कामान् दृष्टार्थान् । आदि-शब्दाद् अन्त्यजा अपि ज्ञेयाः । तच् च यथा-कालम् अवसरोचितं तत्रापि बाहुल्ये दृष्टान्तः । यथेति इन्द्रो यथा जलानि वर्षति तथैवेत्य् अर्थः । यतो भगवान् परिपूर्णैश्वर्यादिः यत एव च सर्वावतारावतारिभ्यः । श्रेष्ठ्यम् आस्थितः नित्यम् एव तत्-प्राप्त इति ॥ ६५ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८९.६६ ॥
हत्वा नृपान् अधर्मिष्ठान् घातयित्वार्जुनादिभिः ।
अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वयं कंसादीन् । अर्जुनस्यादिः प्रथमो भीमसेनो\ऽर्जुनादिः । तैर् इति बहुत्वं धनञ्जयादि-ग्रहार्थम् । दुर्योधनादीन्-घातयित्वा । यद् वा, अर्जुन-सदृशैरैः । धर्मुतीत्यत्रोक्तादिना जारासन्धिसहदेवादि-ग्रहः ॥ ६६ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वयं हत्वा अर्जुनादिभिर् घातयित्वा च धर्म स्व-भक्ति-पर्यन्तं वर्तयामास प्रावर्तयत् । एवं भगवतः श्री-कृष्णस्य सर्व-सुख-कर्तृत्वं स्मृत्वा क्षणं रुदितवान् इति ज्ञेयम् । टीकायाम् इदन्त्व् इति वीर्यं त्र्यम्बक-तोषणम् इत्य् अर्जुने नोक्त त्व् आद्यप्य् अज्ञात-वासानन्तरमेवार्जुनस्य तद् इदं चरितं लभ्यते तथापि तद् अनन्तराभिमन्यु-विवाह-परीक्षिदाधानयोर् अन्तराले काल-बाहुल्यम् उपलभ्यते । तद् अन्तरान्तरा चार्जुनस्य द्वारका-गमनं सम्भाव्यत इति ॥ ६६ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
इति सारार्थदर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
ऊननवतितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे द्विज-कुमारानायनं
एकोनोनवतितमोऽध्यायः ।
॥ ८९ ॥
(१०.९०)
-
अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् । अथर्वशिरः-शिखाध्यापक-शतम् एकम् एकेन तापनीयोपनिषद्-अध्यापकेन तत्-समम् । तापनीयोपनिषद्-अध्यापक-शतम् एकम् एकेन मन्त्र-राजाध्यापकेन तत्-समम् ॥ ↩︎