शिवाच्युतयोःस्वभाववैलक्षण्यं वटुरूपेण विष्णुना शम्भोर्वृकासुरभयाद्रक्षणं च ।
॥ १०.८८.१-२ ॥
श्री-राजोवाच—
देवासुर-मनुष्येषु ये भजन्त्य् अशिवं शिवम् ।
प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥**
एतद् वेदितुम् इच्छामः सन्देहोऽत्र महान् हि नः ।
विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
अष्टाशीतितमे विष्णु-भक्तः कैवल्यम् अश्नुते ।
ततोऽर्वाग्-देव-भक्तस् तु विभूतिम् इति वर्ण्यते ॥
हरिर् भजतां मुक्तिद इत्य् उक्तम् अभयं ध्यायेद् अजस्रं हरिम् [भा।पु। १०.८७.५४] इति तत्र शङ्कते—देवासुरेति । अशिवम् अवधीरित-भोगम् । भोजा भोगिनः । लक्ष्म्याः पतिं सर्व-भोग-युक्तम् ॥ १-२ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो विष्णोर् वाचाम् अर्वाचीनानां देवानां भक्तो विभूतिम् ऐश्वर्यम् एव, न तु केवलम् । तत्र हरि-दत्त-मुक्तौ । प्रायः-शब्देन न केवलं धन-प्रदत्वेन शिवस्य किन्तु सर्वाभीष्ट-प्रदत्वम् अपीति ध्वनितम् । एवं विष्णाव् अपि न केवल-मोक्ष-प्रदत्वम् एव, विष्णोर् भक्तेच्छानुसारेण स्वार्थदत्वम् एवेति बोध्यम् । हरिं ये भजन्ति, ते धनिनो नेति योज्यम् अत्रस्तु तोषीणीकर एवं विश्वनाथ ॥१॥
एतद् विरुद्ध-फल-दातृत्वम् । अत्र विरुद्ध-फल-दाने । विरुद्ध-शीलयोः श्मशानाटन-भूत-गण-परीतत्वादि रुद्रस्य, देव-गण-परीतत्वेन शुद्ध-भूम्य्-अटनादि सुशीलं विष्णोः । यद् वा, स-विभूतिकत्व-निर्विभूतिकत्व-स्वभावयोः । विरुद्धा गतिर् लक्ष्मी-पति-भक्तानां धन-राहित्यं निर्भक्तानां धनिकत्वं चेत्य् अर्थः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सर्वथा सर्वतः श्री-हरेर् उत्कर्षम् आकर्ण्य कांश्चिद् असहमानान् शैवान् आलक्ष्य तेषां प्रबोधनाय तं सुदृढं विख्यापयितुं पृच्छति—देवेति द्वाभ्याम् । भोजाश् च भजन्ति हरिम् इति भजतां, पूर्व-वृतस्यापि धनादेर् हरणाभिप्रायेण तच् चाग्रे व्यक्तं भावि । प्राय इति कदाचित् कस्यापि श्री-शिव-भक्तस्य परम-पद-प्राप्तेः, श्री-हरि-भक्तस्याप्य् अत्र धनादि-सिद्धेः । एतद् इति—अत्र किं कारणं तद् इत्य् अर्थः । इच्छाम इति बहुत्वं तत्र वर्तमानानां तेषां सङ्ग्रहात् ।
ननु, श्री-शिवः प्राय ऐहिक-सुख-दाता, श्री-हरिश् च परम-पद-प्रद इति सर्वत्र प्रसिद्धम् एव । सत्यम्, साक्षाद्-विरोध-दर्शनाद् अस्माभिर् एतन् निश्चेतुं न शक्यत इत्य् आह—सन्देह इति । तत्रैव हेतुम् आह—विरुद्धेति । शीलं क्रमाद् भोग-त्याग-स्वीकार-स्वभावः । प्रभ्वोर् इति कर्मणि षष्ठी । प्रभू स्वकीयौ । भजताम् इति स्वामित्वेनोभयेषाम् अपि भजने साम्यम् अभिप्रेतम् । गतिः फलम् । अतः श्री-शिव-भक्तानां साक्षाद् धनादि-विभूति-दर्शनाच् छ्री-शिवस्यैवोत्कर्षो घटेतेति भावः ॥ १-२ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं सर्वथा सर्वतः श्री-कृष्णस्योत्कर्षम् आकर्ण्यापि कांश्चिद् असन्तुष्टान् केवल-त्रि-देवी-मात्र-दृष्टीन् ऐहिक-कामिनः शैवान् कटाक्ष-विषयी-कुर्वन्न् एव कृपया शिक्षयन् पृच्छति—देवेति द्वाभ्याम् । प्राय इति प्रायिकत्वात् तयोः कदाचित् व्यभिचारश् चेन् न तेन सन्देहापगम इति भावः ॥१॥
एतद् इति । अत्र किं कारणं तद् इत्य् अर्थः । इच्छामः इति बहुत्वं तत्र वर्तमानानां तेषां स-कटाक्ष-सङ्ग्रहात् । अत्र पूर्वोक्त-विरोधे तम् एवाह—विरुद्धं शीलं पूर्वोक्त-स्वभावो ययोस् तयोः । प्रभ्वोर् इति कर्मणि षष्ठी । भजतां विरुद्धा तत्-स्वभाव-विपरीता क्रमाद् धन-भोग-प्राप्ति-तन्-नाश-लक्षणा । गतिः फलम् । अतः श्री-शिव-भक्तानां साक्षाद् धनादि-विभूति-दर्शनाद् धरेः पत्न्य् अपि लक्ष्मीः श्री-शिवस्याधीनेति तस्यैवोत्कर्षो घटेतेति भावः । साक्षात् तथानुक्तिस् तु सङ्कोचाद् एवेति ज्ञेयम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तत्त्व-विचारेण श्री-कृष्णम् एव निर्धार्योपास्य-विचारेणापि निर्धारयन् श्री-कृष्णांश-विशेषस्य विष्णोर् माहात्म्येन निर्धारयन्ति—श्री-राजोवाचेत्य् आदिना । अशिवम् अस्वीकृत-धन-भोगं शिवम् ॥ १-५ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्टाशीतितमे विष्णुर् एव सेव्यः स निर्गुणः ।
सगुणं तु वृकाच् छम्भुः स्व-भक्ताद् अपि सङ्कटम् ॥
निर्गुणौ विष्णु-तद्-भक्तौ मिथोऽवाप्त-मुदो सदा ।
सगुणेषु मिथः क्लेशो महेश-वृकयोर् इव ॥
ब्रह्म-परमात्म-भगवत्-स्वरूपेषु मध्ये भगवत्-स्वरूपस्यैव तद्-उपासकस्य च श्रुति-वाक्यैर् एव सर्वोत्कर्षम् उक्त्वा इदानीं सार्धेनाध्यायेन ब्रह्म-विष्णु-रुद्रेष्व् अपि मध्ये विष्णुर् एव सर्वोत्कर्षात् तस्यैव सेव्यत्व्म् आह । ननु, ध्यायेद् अजस्रं हरिम् [भा।पु। १०.८७.५०] इति त्वं हरि-भजनम् एव विदधासि । तदापि हरि-भजने दारिद्रम् आशङ्क्य किम् इति हरम् एव सर्वे भजन्तीति पृच्छति—देवेति । अशिवं चिता-भस्म-कपाल-पात्रादि-योगाद् बहिर्-दर्शि-जनैर् अमङ्गलत्वेन प्रतीयमानम् । भोजा भोगवन्तश् च ते भवन्ति, न त्व् इति लक्ष्म्याः पतिं भजन्तस् तु न धनिनो नापि भोगवन्तो भवन्ति कुत इत्य् अर्थः ॥१॥
विरुद्धेति । भिक्षुकं शिवं भजन्तः सम्पन्नाः स्युः । लक्ष्मी-पतिं विष्णुं भजन्तस् तु भिक्षवो भजन्तीति वैपरीत्यम् अनुचितम् इति भावः ॥२॥
॥ १०.८८.३ ॥
श्री-शुक उवाच—
शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः ।
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्योन्योपमर्देन तमसस् त्रैविध्यस् त्रिलिङ्गः । त्रिलिङ्गत्वम् आह—वैकारिक इति । अहम् अहङ्कार इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्रोत्तरं तु सत्त्वादि-गुण-तारतम्य-सम्बद्ध-देव-सेवनेन तद्-अनुकूलैव फलावाप्तिर् इत्य् आह—शिवः शक्त्या अहङ्कार-रूपया युक्तः । शश्वत् सदैव । स चाहङ्कारः—अन्योन्योपमर्देन अन्योन्य-गुण-सम्बन्धेन च तमसः, तमः-प्रधानस् त्व् अभवद् [भा।पु। २.५.२३] योऽहङ्कारः प्रमोहनः इत्य् उक्तेः । तमो-गुण-प्रधानस्याहङ्कारस्यैव शुद्ध-तमो-रजो-मिश्र-तमः-सत्त्व-मिश्र-तमो-रूप-भेद-त्रयवत्त्वात् त्रिलिङ्गत्वम् । तद् एवाह—वैकारिक इति ।
[वै।तो।] तत्र—
सृजामि तन्-नियुक्तो\ऽहं हरो हरति तद्-वशः । > विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ [भा।पु। २.६.३१]
इत्य्-आदिकस्य द्वितीयादौ श्री-ब्रह्माद्-युक्तस्यानुसारेण शास्त्रान्तर-विलक्षणं सर्व-देवेतिहास-वेदान्तसारं श्री-भागवत-सिद्धान्तं वदंस् तत्र आस्ताम् तावत्-स्वयं भगवच्-छ्री-कृष्ण-माहात्म्यं तद् अंशांशस्यापि कृत-गुणाधिष्ठातृत्व-लीलस्य श्री-विष्णोर् वैलक्षण्यं श्रूयताम् इति स्यंस् तच्चाभेद-श्रवणे\ऽपि शिव-विष्ण्वो-रुपाधि-धर्म-युक्तत्वायुक्तत्वे निर्दिश्य प्रतिबिम्बवन्-न्यूनाधिक-शक्तित्व-व्यञ्जनया स्थापयंस् तद् उत्प्रेक्षिते
एव दोषत्वं दोष एव गुणत्वं च प्रतिपादयंस् तद्-विधानाम् अतिमूर्खत्वं व्यञ्जयति-शिव इति । यावदध्यायसमाप्ति । तत्रैव वस्योपाधि-धर्म-युक्तत्वं दर्शयंस् तादृश-विभूति-हेतुत्वं बोधयति द्वाभ्याम् । शश्वच्-छक्ति-युत-क्रमेणाविर्भवन् प्रथस् तावन्-नित्यम् एव शक्त्या गुण-साम्यावस्थ-प्रकृति-रूपोपाधिना युक्तः गुण-क्षोभे सति त्रिलिङ्गो गुणत्रयोपाधिः प्रकटैश् च सद्भिस् तैर् गुणैः संवृतश् च ।
ननु, तम उपाधित्वम् एव तस्य श्रूयते कथं तत्-तदुपाधित्वं तत्राह-वैकारिक इति । अहम् अहंत्वं हि तत्-तद्-रूपेण त्रिधा स च तद् अधिष्ठातेत्य् अर्थं मुख्यं तत्रस्थ-गुण-द्वयम् अप्य् उपाधत्ते तस्य त्रि-गुणत्वाद् इत्य् अर्थः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-शिवस्य श्री-भगवद्-गुणावतारत्वेन तद्-अभिन्नत्वेऽपि सद्यो भक्त-काम-पूरणाय माया-गुण-स्वीकारेण तद्-भक्तानां यथाकामं विभूति-प्राप्तिः, श्री-हरेश् च परम-दयालुतया स्व-भक्तेभ्यः कामिभ्योऽपि धनादि-दोष-दृष्ट्या प्रायः कामाप्रदानम्, किन्तु क्रमेण क्षीण-कामेभ्यस् तेभ्यो निज-माहात्म्यानुरूपं गुणातीत-पद-प्रदानम् एवेत्य् उत्तरम् आह—शिवेति त्रिभिः । शश्वन् नित्यं शक्ति-युतः श्री-भगवद्-अवतारवत्त्वेन सर्व-सामर्थ्य-युक्तः, यतोऽगुण-संवृतः, त्रिगुणैर् असंवृतोऽव्याप्तः, तथापि त्रिलिङ्गो भक्त-काम-पूरणार्थं त्रिविधो भवति । कथम् ? तद् आह—वैकारिक इति । वैकारिकत्वादौ हेतुः—अहम् इति । यद् वा, शक्ति-युतो भक्त-काम-पूरणाय स्वीकृत-मायः । अतस् त्रिगुण-व्याप्तः । यद् वा, यतो भक्त-वात्सल्य-गुण-वशीकृतः । अत एव त्रिलिङ्गः । अन्यत् तैर् व्याख्यातम् । यद् वा, त्रिलिङ्गत्वे हेतुः—वैकारिक इति, त्रिविधाहङ्काराधीशितृत्वाद् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र—
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः । > विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ [भा।पु। २.६.३१]
इत्य्-आदिकस्य द्वितीयादौ श्री-ब्रह्माद्य्-उक्तस्यानुसारेण शास्त्रान्तर-विलक्षणं सर्व-वेदेतिहास-वेदान्त-सारं श्री-भागवत-सिद्धान्तं वदंस् तत्र आर्रय्स्तां तावत् स्वयं भगवच्-छ्री-कृष्ण-माहात्म्यं तद्-अंशांशस्यापि कृत-गुणाधिष्ठातृत्व-लीलस्य श्री-विष्णोर् वैलक्षण्यं श्रूयताम् इति आर्रय्चयंस् तच् चाभेद-श्रवणेऽपि शिव-विष्ण्वोर् उपाधि-धर्म-युक्तत्वायुक्तत्वे निर्दिश्य प्रतिबिम्बवन् न्यूनाधिक-शक्तित्व-व्यञ्जनया स्थापयंस् तद् उत्प्रेक्षिते गुण एव दोषत्वं दोष एव गुणत्वं च प्रतिपादयंस् तद्-विधानाम् अतिमूर्खत्वं व्यञ्जयति—शिव इति यावद् अध्याय-समाप्ति ।
तत्रैव शिवस्योपाधि-धर्म-युक्तत्वं दर्शयंस् तादृश-विभूति-हेतुत्वं बोधयति द्वाभ्याम् । शश्वच्-छक्ति-युक्त-क्रमेणाविर्भवन् प्रथस् तावन् नित्यम् एव शक्त्या आर्रय् साम्यावस्थ-प्रकृति-रूपोपाधिना युक्तः गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः प्रकटैश् च सद्भिस् तैर् गुणैः संवृतश् च ।
ननु, तम उपाधित्वम् एव आर्रय् श्रूयते कथं तत्-तद्-उपाधित्वम् ? तत्राह—वैकारिक इति । अहम् अहंत्वं हि तत्-तद्-रूपेण त्रिधा स च तद् अधिष्ठातेत्य् अर्थः । मुख्यतया नास्तां नाम अन्यद्-गुणद्वयं गौणतया त्वास्त एवेत्य् अर्थः ॥३॥
जीव-गोस्वामी (परमात्म-सन्दर्भः) : शश्वच्-छक्ति-युतः प्रथमतस् तावन् नित्यम् एव शक्त्या गुण-साम्यावस्थ-प्रकृति-रूपोपाधिना युक्तः । गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः । प्रकटेश् च सद्भिस् तैर् गुणैः संवृतश् च ।
ननु, तम-उपाधित्वम् एव तस्य श्रूयते, कथं तत्-तद्-उपाधित्वं तत्र वैकारिकः ? इति । अहम् अहं-तत्त्वं हि तत्-तद्-रूपेण त्रिधा । स च तद्-अधिष्ठातेत्य् अर्थः ॥ [परमात्म-सन्दर्भ १४]
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शक्त्या मायया युतः संसृष्टः । गुणैः संवृतः अस्मान् कृपया स्वीकुर्व् इति वृतत्वात् त्रिलिङ्गः त्रिगुणमयः । न तु जीव इव तैर् बलाद् बद्ध इति भावः । त्रिगुणमयत्वं विवृणोति—वैकारिक इति । अहं त्रिधेति अहङ्कारात्मकः स एवं त्रिविधो भवत्य् एवेत्य् अर्थः ॥३॥
॥ १०.८८.४ ॥
ततो विकारा अभवन् षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विकारा मन-इन्द्रिय-भूत-रूपाः । षोडशेतीन्द्रिय-देवानाम् अभेद-विवक्षया । कंचन यत् किञ्चिद् विकारोपाधिकं भजन्न् उपाध्य्-अनुरूपाणां विभूतीनां स्वरूपं प्राप्नोतीति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततस् त्रिविधाहङ्कारात् । नन्व् इन्द्रियाधिष्ठातृ-देवानाम् अपि सात्त्विकाहङ्कार-कार्यत्वेनाधिकानां दिग्-वातादीनां सत्त्वात् कथं षोडशेति चेद् अत्राह—अतीन्द्रिय-देवानाम् इति । अमीषु षोडशसु प्रकाशादिष्व् अधिष्ठान-प्रकारेषु कञ्चन आकाशाद्य्-उपाधिकं, भवायाकाश-मूर्तये नमः इत्य् आदि-मन्त्रोक्त-मूर्तिकं शिवम् उपाधावन् भजन् विभूतीनाम् उपाध्य्-अनुरूपाणां सर्वासां गतिं स्वरूपं प्राप्नोति । आकाशोपाधिक-सेवनात् सर्व-शब्द-ज्ञानं विषयेष्व् असङ्गं च जल्पाधिक-सेवनेन कूट्य्-आदि-सामर्थ्यं रस-परावर्तन-सामर्थ्यं च । तेज-उपाधिक-सेवनेनाग्न्य्-आद्य्-अवगाहन-तत्-स्तम्भनादि-सामर्थ्यं च लभते । एवं यथायथं योज्यम् ।
ननु,, भवत्व् एवं सोपाधिरसौ प्रस्तुते किम् आगतं तत्राह—तत इति । ततस् तेन भगवत्-प्रतिनिधी-भूतेनाधिष्ठिताद् अहं तत्त्वात् षोडश-विकारा
अनभवन् अमीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धे किञ्चनोपाधावन् तद् उपाधिकत्वेन तम् उपासीनो गति प्राप्यं फलं लभते तं इन्द्रियाणां देवानां चाभेदात्तानि दश, मन एकं, भूतानि पञ्चेति षोडश । किञ्चनेति जैह्व्यम् औपस्थ्यं मानसं वा सुखम् उद्दिश्य अधावन् शिवं भजन् सर्वासां विभूतीनां सम्पत्तीनां गतिं स्वरूपं प्राप्नोति तेषां परस्पर-सापेक्षत्वाद् एक-प्राप्ताव् अपि सर्व-विषय-सुखानि प्राप्नोति तत् सुख एव सर्व-सम्पत्तीनां पर्याप्ते जनतारतम्यात् तत्-तारतम्यं प्राप्नोति । अतः शिवस्य गुणमयत्वात् सम्पदाम् अपि गुणमयत्वात्-तद्-भजने तत्-प्राप्तिर् इति । न त्वद् उक्तो विरोध इति भावः । शिव-विष्ण्वादि-भेदाभेद-विचारस् तु प्रथम-स्कन्धे सत्त्वं रजस्तमः तं पद्य-व्याख्याने कृतः स तत्रैव दृश्यः ॥४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततोऽहङ्काराद् अभवन्न् उत्पन्नाः, अत एवामीषु विकारेषु मध्ये किञ्चन सामान्यतो विकारात्मकं किञ्चित् तद् विकाराधिष्ठातृतया तद्-रूपं श्री-शिवम् उपधावन्न् इत्य् अर्थः । सर्वासां विभूतीनां गतिम् अश्नुत इति येनोपाधिना भजते, तद्-उपाध्य्-अनुरूपम् इति यथेच्छं सर्व-विभूति-सिद्धेः । एवं स्व-वासनानुसारेण सोपाधिक-श्री-शिव-भजनात् प्रायो विभूतय एव सिध्यन्ति, न तु परम-पदम् इति भावः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु भवत्व् एवं सोपाधिर् असौ प्रस्तुते किम् आगतम् ? तत्राह—तत इति । ततस् तेन भगवत्-प्रतिनिधी-भूतेनाधिष्ठिताद् अहन्ताद् अहं-तत्त्वात् षोडश-विकारा अभवन् एवामीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धे किञ्चनोपाधावन् तद्-उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते ॥४॥
परमात्म-सन्दर्भः : ततस् तेन भगवत्-प्रतिनिधि-रूपेणाधिष्ठिताद् अहं-तत्त्वात् षोडश-विकारा ये अभवन् अमीषु विकारेषु मध्ये सर्वासां विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्-उपाधिकत्वेन तम् उपासीनो गतिं प्राप्यं फलं लभते । [परमात्म-सन्दर्भ १४]
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विकाराः षोडशेति । इन्द्रियाणां देवानां चाभेदात् तानि दश, मन एकम्, भूतानि पञ्च इति षोडश । अमीषु मध्ये किञ्चनेति औपस्थ्यं जैह्व्यं मानसं वा सुखम् उद्दिश्य उपाधावन् शिवं भजन् सर्वासाम् एव विभूतीनां सम्पत्तीनां गतिं स्वरूपं प्राप्नोति । तेषां परस्पर-सापेक्षत्वाद् एव प्राताव् अपि सर्व-विषय-सुखानि प्राप्नोतीत्य् अर्थः । तत्-सुख एव सर्व-सम्पत्तीनां पर्याप्तेर् भजन-तारतम्यात् तत्-तारतम्यं प्राप्नोति । अतः शिवस्य गुणमयत्वात् सम्पदाम् अपि त्रिगुणमयत्तात् तद्-भजने तत्-प्राप्तिर् इति न त्वद्-उक्तो विरोध इति भावः ॥४॥
॥ १०.८८.५ ॥
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपद्रष्टा साक्षी सन् । यतः सर्व-दृक् सर्वं पश्यति । अतः प्रकृतेः पर इति । अत्रेदं तत्त्वं—
वस्तुनो गुण-सम्बन्धे रूप-द्वयम् इहेष्यते । > तद्-धर्मायोग-योगाभ्यां बिम्बवत् प्रतिबिम्बवत् ॥ > गुणाः सत्त्वादयः शान्त-घोर-मूढाः स्वभावतः । > विष्णु-ब्रह्म-शिवानां च गुण-यन्तृ-स्वरूपिणाम् ॥ > नातिभेदो भवेद् भेदो गुण-धर्मैर् इहांशतः । > सत्त्वस्य शान्त्या नो जातु विष्णोर् विक्षेपम् ऊढते ॥ > रजस्-तमो-गुणाभ्यां तु भवेतां ब्रह्म-रुद्रयोः । > गुणोपमर्दतो भूयस् तद्-अंशानां च भिन्नता ॥ > अतः समग्र-सत्त्वस्य विष्णोर् मोक्ष-करी मतिः । > अंशतो भूति-हेतुश् च तथानन्द-मयी स्वतः ॥ > अंशतस् तारतम्येन ब्रह्म-रुद्रादि-सेविनाम् । > विभूतयो भवन्त्य् एव शनैर् मोक्षोऽप्य् अनंशतः ॥
इदम् एवाभिप्रेत्य तत्र तत्रोच्यते श्रेयांसि तत्र खलु सत्त्व-तनोर् नृणां स्युः [भा।पु। १.२.२३] इति । तथा सत्त्वं यस्य प्रिया मूर्तिः [भा।पु। १०.८९.१८] इति । तथा सत्त्वं तत् तीर्थ-साधनम् [भा।पु। १०.८९.१९] इति तथा, त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् [भा।पु। ४.७.५४] इति । तथा, न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते [भा।पु। १२.१०.२२] इत्य् आदि । एवं च सति न किञ्चिद् असमञ्जसम् । तत्-तद्-भक्तानां तु कलहो मोह-मात्रम् इति ॥ ५-७ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र उपाख्याने । इदं तत्त्वं तात्पर्यम् । वस्तुनः चित्तः । गुण-सम्बन्धे सति एकस्यैव तद् उदयं भवति । तद् धर्माणां गुण-धर्माणाम् । योगेन सगुणत्वम् अन्यथा निर्गुणत्वम् इति । निर्गुणं बिम्ब-समं सगुणं तु प्रतिबिम्ब-समम् इति स्वभावतः स्वभावेन रूपेणेति यावत् । गुण-नियन्तृत्वं स्वरूपं येषां तेषां नियन्त्र् इति भाव-प्रधानो निर्देशः । वस्तुतो भेदो ब्रह्मादीनां आर्रय् दो नास्ति । गुण-धर्म-कृतो भेदोऽपि न सर्वथा किन्त्व् अंशत एवेत्य् आह—नातिभेद इत्य् आदि । ब्रह्म-रुद्रयो रजस्-तमो-गुण-कृते विक्षेप-मूढते आर्रय् तां स्तः । सत्त्व-गुण-सम्बन्धेनांशतो ब्रह्मापि विष्णुर् एव । तथा रुद्रोऽपि । तम-आदि-गुण-सम्बन्धेन विष्णो रुद्रता ब्रह्मता च आर्रय् एवेत्य् आह—गुणोपमर्दत इत्य् आदि । समग्र-सत्त्वस्य विष्णोः सम्बन्धिनी मतिर् बुद्धिर् उपासना-रूपा मोक्षकरी, अंशतो रज-आदि-सम्बन्धेन आर्रय्सा विभूत्य्-आदि-हेतुर् अपि । स्वतः स्वभावतः । सात्त्विकीत्वेनानन्दमय्य् एवेति । एवं ब्रह्म-रुद्र-भक्ता अपि रजस् तम उपाधितया ये ताव् उपासते ते विभूत्य्-आदि लभते । ये शुद्ध-सत्त्व-रूपत्वेन ताव् उपासते ते मोक्षम् अपीत्य् अभिप्रेत्योक्तं स्वामिनांशतस् तारतम्येनेत्य्-आदि । तद् अभिप्रेत्य समग्र-सत्त्व-रूपत्वं विचार्य । तत्र तत्राख्याने । एवं च सति त्रयाणां वास्तवाभेदे सति । न किञ्चन समञ्जसम् । न आर्रय् मन्यतमस्य न्यूनतेतिओ तत्-तद्-भक्तानां विष्णु-शिवादि-भक्तानां कलह एकस्य वैशिष्ट्यापादनम् अन्यस्य हीनतापादनं च मोह-मात्रम् अज्ञानम् एवेत्य् अर्थः ।
अथ चात्र प्रकृतोपयोगि-विशेषोऽपि शास्त्रान्तर-विचारितो लिख्यते । तथा हि—ब्रह्मादीनाम् एक-रूपत्वं चेत्, तर्हि तत्-तन्-माहात्म्य-पर-पुराणादिष्व् इतर-निन्दा न स्यात्, दृश्यते च सा । तथा च—तद् अन्यथानुपपत्त्या साम्यम् अपि दुर्लभम् ऐक्यस्य तु का कथा ? तथा च, पतन्तम् अनुधावतो बद्धोऽपि गतः इति न्यायापात इति चेद् अत्राहुः श्याल-शुनक-न्यायेन भेद-वादिनः कोप्त्पादनाय तद्-इष्ट-देवस्यान्य-पर-पुराणेष्व् अपकर्ष-वर्णनम् इति । परे तु कल्प-भेदम् आश्रित्य् स्वेच्छया परस्परस्माज् जन्म-निमित्तकं क्वचिद् उत्कर्षापकर्ष-वर्णनम् इत्य् आहुः—न हि निद्न्यानिद्यं निन्दितुं प्रवर्ततेऽपि तु विधेयं स्तोतुम् इति न्यायाद् विधेयं हि स्तूयते वस्तु, इति न्याय-प्राप्त-तत्-तद्-विग्रहावच्छिन्नेऽच-ध्यानादि-स्तुतये तद्-अन्य-विग्रहावच्छिन्ने शापकर्ष-वर्णनम् । तच् च यत् परः शब्दः इति न्यायात् स्तितु-परम् एव । योऽर्थः परस् तात्पर्य-विषयो यस्य स यत्-परः इति । न त्व् अन्य-निन्दा-परम् अपि फलाभावात् उभय-परत्वे वाक्य-भेदापत्तेश् च । अन्यत्रापि ह्य् एवं दृश्यते । तद् यथा—सर्व-शाखा-प्रत्ययम् एकं कर्म इति न्यायान् नाना-शाख्याभिहितम् अप्य् अग्निहोत्रं न भिद्यते इति स्थिते केचित् उदिते जुहोति इति श्रुतिम् आश्रित्योदितेऽर्के होमं कुर्वन्ति, केचिद् अनुदिते जुहोति इति श्रुतिम् अवलम्ब्यानुदिते जुह्वति । तत्र ये शाखिन उदये जुह्वति, ते—
उदयन् न खलु वा आदित्य आहवनीये तु रश्मीन् सन्दधाति
इत्य् उपक्रम्य
प्रातः प्रातर् अनृतं ते वदन्ति पुरोदयाज् जुह्वति ।
येऽग्नि-होत्रं दिवा कीर्त्यम् अदिवः कीर्तयन्तः सूर्यो ज्योतिर् न तदा ज्योतिर् एषाम् ।
इत्य् अनुदित-होमं निन्दन्ति । ये त्व् अनुदये जुह्वति, ते—
आदित्यो वा अस्तं यन्न् अग्निम् अनुप्रविशति
इति श्रुतिम् उपजीव्यः,
यद् उदिते सूर्ये प्रातर् जुहुयाद् यथातिथये प्रद्रुताय शून्यायावसथाहार्यं हरति तादृग् एव तत्
इत्य् उदित होमं निन्दन्ति । अनयोः स्वार्थ-तात्पर्य-कल्पने राग-प्राप्त-सुरा-पानादिवत् काल-द्वये त्याज्यस्य शेषिणो होमस्यैव बाधः । तथा च—यावज् जीवम् अग्निहोत्रं जुहुयात् इत्य् आदयश् चोदना उपरुध्येरन् । एवं च काल-भेदेनाग्निहोत्रम् इव गुण-भेदेन विग्रह-भेदेन वा नेशो भिद्यते, ततश् चैकस्मिन्न् ईशे यो गुणादि-भेदेन भेदं प्रकल्प्यैक-विग्रहावच्छिन्नम् उपासीनोऽन्यं निन्दति, स ईश-विमुखः स्वामि-द्रोहान् नरकम् एतीति ज्ञेयम् । तस्मान् नैतावता सर्व-विग्रहावच्छिन्नेशैक्य-विघातः शङ्क्य इत्य् अलं प्रपञ्चेन प्रकृतम् अनुसरामः,
अथ विष्णोर् उपाधि-राहित्यं दर्शयंस् तादृश-परम-पुमर्थ-हेतुत्वं स्थापयति-हर् हीति । हि-प्रसिद्धौ हेतौ वा । प्रकृतेर् उपाधितः परः तद्-धर् स्पृष्टः, अत एव निर्गुणो\ऽपि कुत-स्त्रि-लिङ्गत्वादिकम् इति भावः । अत्र हेतुः—साक्षाद् एव पुरुष ईश्वरः न तु प्रतिबिम्बवद्-व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू इतिवत् तनु-शब्दोपादानात् कुत्रचित्-सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादिमात्रेणोपकारित्वाद् इति भावः । अत एव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात्-तथा-भूतः सन् उपद्रष्टा तदादि-साक्षी भवति । अतस् तं भजन्-निर्गुणो भवेत् गुणातीत-फल-भाग्-भवति । अतो यस्या लक्ष्म्याः पतिरसौ सापि स्वरूप-भूतैव-शक्तिर्-न तु शिवाद्यधीना प्रतीता । प्राकृत-विभूति खण्डयत्य् एव । यथैव वक्ष्यते यतः शान्तिर् यतो\ऽभयं—
धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद् अन्वितम् ।
ऐश्वर्यं चाष्टधा यस्माद्-यशश् चात्ममलापहम् ॥
इति ॥
अतो गुणो वा दोषो वा विचार्यताम् इति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि तु । हरिस् तु निर्गुणो गुणातीतः । साक्षात् स्वयम् एवेति तस्य साक्षाद् ईश्वरत्वात् श्री-शिवादीनां च तद्-अवतारत्वादिना पारस्पर्याद् एवेत्य् अर्थः । यतः पुरुषः सर्वान्तर्यामी । यद् वा, साक्षात् पुरुष ईश्वरः, यतः प्रकृतेः परो दूरे वर्तमानः, अतः स एवोपद्रष्टा । अन्यत् तैर् व्याख्यातम् ।
यद् वा, निर्गुणत्वे हेतुः—प्रकृतेः परः पुरुषः पुमान् । एवं पुरुषाख्यया प्रसिद्धाभ्यां श्री-शिव-ब्रह्मभ्यां वैलक्षण्यम् उक्तम् । तयोः प्रकृति-संवलितत्वात् । तद् उक्तम् एव शक्ति-युत इत्य् आदि । अतः सर्वासां सर्वस्य वा दृशां ज्ञानानाम् उपरि द्रष्टा । अन्यतोऽधिक-ज्ञाता । यद् वा, सर्वा दृक् ज्ञानं येभ्यस् तेषां ज्ञानेन्द्रियादीनाम् उपद्रष्टा अन्तर्यामितया निकटे दृष्टि-मात्रेण प्रवर्तक इत्य् अर्थः । इति माया-सम्बन्ध-राहित्यम् अतो गुणातीतत्वं च साधितम् । अतो लक्ष्मी-पतित्वेन सर्व-भोग-युक्तत्वेऽपि तस्य प्रकृति-सम्बन्ध-राहित्यम् एव सिद्धम्, श्री-वैकुण्ठादि-वर्ति-विभूतीनाम् अपि सच्-चिद्-आनन्द-रूपत्वेनाप्राकृतत्वात् । ततश् चोक्तम् एव—न यत्र माया किम् उतापरे [भा।पु। २.९.१०] इत्य् आदि ।
अतस् तं भजन् सकामोऽपि क्रमेण क्षीण-कामो भूत्वा निर्गुणो भवेत् । गुणातीत-पदं प्राप्नोतीत्य् अर्थः । एवं श्री-हरेः सर्वत उत्कर्षः प्रायः परम-पद-दायित्वात् सर्वावतार-बीजत्वात्, सर्वेश्वरत्वाच् च, श्री-शिवस्य च तद्-भक्ति-प्रवर्तक-प्रियावतारत्वे साम्येऽपि प्रायो विभूति-दातृत्वेन, तद्-गुणावतारत्वेन, तद्-अधीनत्वेन च तस्मात् न्यूनत्वं युज्यत एवेति सुसिद्धम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ विष्णोर् उपाधि-राहित्यं दर्शयंस् तादृश-परम-पुरुषार्थ-हेतुत्वं स्थापयति—हरिर् हीति । हि प्रसिद्धौ हेतौ वा । प्रकृतेर् उपाधितः परं तद्-धर्मैर् अस्पृष्टः, अत एव निर्[गो।ता।उ।ऽ कुतस् त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः—साक्षाद् एव पुरुष ईश्वरः, न तु प्रतिबिम्बवद् व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू इतिवत् तनु-शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादि-मात्रेणोपकारित्वाद् इति भावः । अत एव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात् तथा-भूतः स्वरूप-भूतैव शक्तिर् न तु शिवाद्य्-अधीना प्रतीत्य्-अप्राकृत-विभूतिं खण्डयत्य् एव । यथैव वक्ष्यते, यतः शान्तिर् यतोऽभयं—
धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् । > ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम् ॥ [भा।पु। > १०.८९.१६] इति ।
अतो गुणो वा दोषो वा विचार्यताम् इति भावः ॥५॥
जीव-गोस्वामी (परमात्म-सन्दर्भः) : हि प्रसिद्धौ हेतौ वा । हरिस् तु प्रकृतेर् उपाधितः परस् तद्-धर्मैर् अस्पृष्टः । अत एव त्रिर् गुणोऽपि कुतस् त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः साक्षाद् एव पुरुष ईश्वरः । न तु प्रतिबिम्बवद् व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू [भा।पु। ११.११.३] इतिवत् तनु-शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि प्रेक्षादि-मात्रेणोपकारित्वाद् इति भावः । अत एव सर्वेषां शिव-ब्रह्मादीनां दृक् ज्ञानं यस्मात् तथाभूतः सन्न् उपद्रष्टा तद्-आदि-साक्षी भवति । अतः स तं भजन् निर्गुणो भवेद् गुणातीत-फल-भाग् भवतीति ॥ [परमात्म-सन्दर्भ १४]
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कुतो निर्गुणः, यतः प्रकृतेः परः, स्वत एव गुणान् अतिक्रम्य स्थितः । अतो गुणातीतस्य भजनात् कथं गुणमयीं सम्पदं प्राप्नुषुर् इति भावः । सर्वेषां शिवादीनाम् अपि ज्ञानं यतः स इति । तं भजन् ज्ञान-चक्षुः प्राप्नोति, न तु सम्पद्-उद्भूतम् अज्ञानान्ध्यम् इति भावः । उपद्रष्टा गुण-लेपाभावाद् औदासीन्येन केवलं साक्षीति तं भजन्न् अपि गुण-लेप-रहितो निर्गुणो भवेत् । अत एवाग्रे वक्ष्यते—यतः शान्तिर् यतोऽभयम् । धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् [भा।पु। १०.८९.१५] इत्य् आदि ॥ ५-७ ॥
॥ १०.८८.६ ॥
निवृत्तेष्व् अश्वमेधेषु राजा युष्मत्-पितामहः ।
शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अश्वमेधेष्व् इति । दक्षिणा-भेदेनैकाश्वमेधस्य त्रि-रूपत्वाद्-बहुत्वम् अविरुद्धम् । युष्मत्-पितामहो युधिष्ठिरः । इदं लक्ष्मीशोपासक-नैर्धन्यतद्-धीन-रुद्राद्य् उपासक-धनिकत्व-लक्षण-वैपरीत्यम् ।
न केवलं तस्य स्वभावो\ऽयं किन्तु विचारश् चेति । तद्-योग्यं तद्-वाक्यमयम् इतिहासम् उपक्षिपति-समाप्तेष्व् इति । नाना-मत-मुनि-सभायां श्री-भगवतैव निर्णीतम् अस्तीति भावः । तद् एवं शास्त्रान्तर-विरोधस्य दौर्बल्यं दर्शितम् । राजा युधिष्ठिरः । युस्मत्-पितामह इति । तादृश-भगवद्-आत्मीय-पौत्रत्वेन तस्य प्रोत्साहनार्थम् अत्र प्रश्ने योग्ता-व्यञ्जनार्थं च । अत एव गौरवाद्-युष्मद् इत्य् उक्तम् । भगवतस् तस्माद् एव भागवत-धर्माञ्छृण्वन् इदं त्वत्-पृष्टम् एव तद् एवं च द्वयोर् माहात्म्यम् उक्तम् । अच्युतम् इति । सर्वैश्वर्येण भक्तवश्यतादि-सद्-गुणैर् अपि परिपूर्णं किं वा तस्य गृहे सदा वर्तमानम् इति भावः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदम् एव साक्षात् श्री-भगवन्-मुख-वाक्येन द्रढयंस् तत्-प्रसङ्गम् आह—निवृत्तेष्व् इति सम्पाप्तेषु । पाठान्तरेऽपि स एवार्थः । राजा श्री-युधिष्ठिरो युष्मत्-पितामह इत्य् अनेन तत्-पौत्रत्वेन श्री-परीक्षितः परम-धन्यत्वं, तेन साक्षात् श्री-भगवति तादृश-प्रश्न-योग्यत्वं च बोधयति । अत एव गौरवाद् युष्मद् इति च । भगवतः श्री-कृष्णाद् धर्मान् सर्वान् । यद् वा, तस्माद् एव भागवत-धर्मान् शृण्वन्, तच् च भविष्योत्तरादौ प्रसिद्धम् । इदं देवासुर इत्य् आदिना त्वत्-पृष्टम् एव, अच्युतम् इति सर्वैश्वर्येण भक्त-वश्यतादि-सद्-गुणैर् वा परिपूर्णम् । किं वा, तस्य गृहे सदा वर्तमानम् इति भावः ॥६॥।
जीव-गोस्वामी (क्रम-सन्दर्भः) : न केवलं तस्य स्वभावोऽयं, किन्तु विचारश् चेति तद्-योग्यं तद्-वाक्यम् इतिहासम् उपक्षिपति—निवृत्तेष्व् इति । अतो माम् इत्य् अस्य पूर्वार्धे तद्-ब्रह्मेति । कथम्-भूतम् । तत्-तस्मात्-प्रसिद्धात् ब्रह्मतो\ऽपि परमो\ऽतः सूक्ष्मं दुर्जेयं चिद्-रूपा मात्रा शक्तिर् यस्य तम् । सच् च अनन्तं च यत् कं परमानन्दस् तत्-स्वरूपम् ॥ ६-२६ ॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.७ ॥
स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः ।
नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स कण्णः निःश्रेयसायेत्य् उक्तेर् न केवलं भू-भार-हरणम् एवावतार-प्रयोजनम् अपि तु लोक-निःश्रेयस-करणम् अपीत्य् अपि ज्ञेयम् । प्राहेत्य् अत्र हेतुः प्रीतः स्वभावत एव तत्रापि शुश्रूषवे श्रोतुम् इच्छवे किं वा, यतो भक्ताय ननु, तथापि निजोत्कर्षं तादृश-विनयादि-सद्-गुण-गणार्णवो वक्तुं नार्हति तत्राहुः—यः प्रभुः स्वतन्त्र एव सन् नृणाम् इत्य् आदि-लक्षणं निजोत्कर्षता-प्रकाशनं विना स्व-भक्त्य-सम्पत्त्या लोकानां मङ्गलासिद्धेर् इत्य् अर्थः । तद् एवम् अपि यस् तादृशं तद् उपदेशं न गृह्णीत तस्यैव दौर्भाग्यम् इति भावः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् परम-दयालुः, तत्र च प्रीतः, तादृश-प्रश्नेन सन्तुष्टः । किं वा, स्वभावत एव तं प्रति प्रेमवान्, तत्रापि शुश्रूषवे श्रोतुम् इच्छवे । किं वा, यतो भक्ताय । किं च, प्रभुः स्वत एव तद् ईश्वरः, अत एवाह । ननु तथापि तात्पर्येणायान्तं निजोत्कर्षः तादृश-विनयादि-सद्गुण-गणार्णवो वक्तुं किल नार्हति, तत्राह—नृणाम् इति । निइजोत्कर्ष-प्रकाशनं विना स्वभाक्त्यसम्पत्त्या लोकानां मङ्गलासिद्धेर् इत्य् अर्थः । यद् वा, भगवत्त्वादौ हेतुः—नृणाम् इति । अत एव निजाशेषैश्वर्य-प्रकटनेन प्रभवतीति प्रभुः, वक्तुम् अयोग्यम् अपि परम-दयालुत्वादिनाहेति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं तस्य स्वभावो\ऽयं किन्तु विचारश् चेति तद्-योग्यं वाक्यम् इतिहासम् उपक्षिपति—निवृत्तेष्व् इति । समाप्तेषु इति नाना-मत-मुनि-सभायां श्री-भगवतैव निर्णीतम् अस्तीति प्रसिद्धम् अपीदमिदम् इति भावः । तद् एवं शास्त्रान्तर-विरोधस्य दौर्बल्यं दर्शितम् । राजा युधिष्ठिरः युष्मत्-पितामह इति तादृश-भगवद् आत्मीय-पौत्रत्वेन तस्य आत्माहनार्थम् अत्र प्रश्ने योग्ताव्यञ्जनार्थं च अत एव गौरवाद्य् उष्मद् इत्य् उक्तम् । भगवतस् तस्माद् एव भागवत-धर्मान् शृण्वन् इदं त्वत्-पृष्टम् एव तं च द्वयोर् माहात्म्यम् उक्तम् अच्युतम् इति । सर्वैश्वर्येण भक्त-वश्यतादि-सद्-गुणैर् वा परिपूर्णं किं वा, तस्य गृहे सदा वर्तमानम् इति भावः । आहेत्य् अत्र हेतुः प्रीतः स्वभावत एव तत्रापि शुश्रूषवे श्रोतुम् इच्छवे किं वा, यतो भक्ताय ननु, तथापि निजोत्कर्षं तादृश-विनयादि-सद्-गुणगणार्णवो वक्तुं नार्हति तत्राहुः—यः प्रभुः स्वतन्त्र एव सन् नृणाम् इत्य् आदि-लक्षणं निजोत्कर्षता-प्रकाशनं विना स्व-भक्त्य् असम्पत्त्या लोकानां मङ्गलासिद्धेर् इत्य् अर्थः । तद् एवम् अपि यस् तादृशं तद् उपदेशं न गृह्णीत तस्यैव दौर्भाग्यम् इति भावः ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.८ ॥
श्री-भगवान् उवाच—
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः ।
ततोऽधनं त्यजन्त्य् अस्य स्व-जना दुःख-दुःखितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यस्याहम् अनुगृह्णामीति । अयम् अर्थः । यो विषयान् परिजिहीर्षुर् अपि कथञ्चिद् विद्यमानेषु विषयेषु सज्जते, क्लिश्यते च, तस्य विषयापहार एवानुग्रह इति । यथाश्रुतत्वे धुर्वादीनाम् ऐश्वर्य-विरोधात्, अथवा प्रथमं विभूतीः कामानुरूपा दत्त्वा शनैर् विषय-भोगावसाने तस्य निर्वेदम् उत्पाद्य हरिष्यामि, परमानुग्रहं कर्तुम् इति । तद् उक्तं भगवतैव—न मय्य् आवेशित-धियां कामः कामाय कल्पते [भा।पु। १०.२२.२६] इति । दुःख-दुःखितम् इति । दुःखाद् अनु पुनर्-दुःखितम् इव प्रतीयमानम् इत्य् अर्थः ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनुगृह्णामि अनुग्रहं कर्तुम् इच्छामि । ननु, धन-हरणं को\ऽयम् अनुग्रह इति चेद् अत्राशयम् आह—अयम् अर्थ इति । विद्यमानेषु विषयेषु । दत्तापहारित्वदोषम् आशङ्कयाह—अथवेति । प्रथमं भोगेच्छावसरे । तस्य निज-भक्तस्य । परमानुग्रहं स्वावाप्ति-लक्षणम् । तच् च चीर-हरणोपाख्याने श्री-कृष्णेनैवोक्तम् इत्य् आह—तद् उक्तम् इत्य् आदि । ततो मत्-कृत-धन-नाशोत्तरम् । अधनं निर्धनम् । अस्य निर्धनस्य । स्वजना पुत्रादयः । त्यजन्त्य् अनादरं कुर्वन्ति । इत्य् अर्थ इति-धन-हान्यातीव दुःखितम् इति भावः ।
अथ किम् आहेत्य् अपेक्षायां स तु तु अदेवासुरेत्य् आदिना पृष्टस्योत्तरं सस्मितं तद् अभिप्राय-विपरीतम् एवाहेत्य् आह—श्री-भगवान् उवाचेति । यमुपासकम् अनुगृह्णामि यं तु कामयमानं अन्र्गृह्नमि किन्तु तद् अभिरुचि-मात्रमापाततः सम्पादयामि तस्मा एव धनं ददामीति भावः । हरिष्य इति लुट्-प्रयोगो\ऽक्षमायाम् । अनवक्लृप्त्यमर्षयोर् अङ्किवृत्ते\ऽपी\ऽति स्मरणात् । तद्-धन-दर्शनाक्षमा-पूर्वकं हरामीत्य् अर्थः । शनैर् इति । सहसा हरणे तस्य सर्वाच्छादकः सोभ एव स्याच्-छनैर् हरणे तु क्रमेण धनाद् उदासिनी-भूतः सत्-सङ्गे रतिः स्याद् इत्य् अभिप्रेत्येति भावः । ततः किं तत्राह—तत इति शनैर् इत्य् अस्य त्यजन्तीत्य् अनेनाप्य् अन्वयः । अत एव दुःखे वीप्सा । क्रमाद्-दारिद्र्यातिशयं प्राप्तम् इत्य् अर्थः ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरिष्य इति भविष्यन्-निर्देशः । हरणावश्यकता-बोधनार्थं ध्रुवं हरेयम् इत्य् अर्थः । एवम् अग्रे करिष्य इति चाधनस्यापि स्वजनैस् त्यागे हेतुः—दुःखेति । वारं वारं दत्तस्यापि धनस्य मुहुर् हरणेनासकृद्-दुःखितस्य दुःख-निरसनाशक्तेर् इत्य् अर्थः ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुःखात् धन-विगम-जन्याद् अपि पुनर् दुःखितं स्वजन-कर्तृक-त्यागात् दुःखम् इदं भगवद्-दत्तत्वात् तस्य न कर्म-फलम् । सुखम् अपि भगवद्-भक्तानां न कर्म-फलम्, किन्तु भक्तेर् अननुसंहितं फलम् इति । प्रथम-स्कन्धे—धर्मस्य ह्य् अपवर्गस्य इत्य् अत्र भीष्मोक्ताव् अपि प्रतिपादितं भक्तानां भक्ति-मात्रे प्रवृत्त एवाप्रारब्ध-कुट-बीज-प्रारब्ध-कर्माणां क्रमेण नाश उत्पल-सहस्र-दल-भेदवद् इति भक्ति-शास्त्र-मतम् । तथा च, श्रुतिर् गोपाल-तापनी—भक्तिर् अस्य भजनं, तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः कल्पनम् एतद् एव नैष्कर्म्यम् इति । अर्थश् च उपाधि-नैरास्येन कामना-राहित्येन मनः कल्पनं कृष्णे मन-आदि-सर्वेन्द्रिय-विनियोगो यस् तद् एव भजनम् एव नैष्कर्म्यम् इति भवति हि तात्पर्यात् ताच्छब्द्य-मतः सामानाधिकरण्याद् भजने प्रवृत्ते एव भक्तानां नैष्कर्म्यं सर्व-कर्म-ध्वंसो भवति । देह-स्थितिस् तु भजनाधिक्य-तत्-फल-प्रतिपादक-भगवद्-अचिन्त्य-शक्तेर् एवेति ये तु प्रारब्धे फले इव सुख-दुःखे दृश्येते ते भगवद्-दत्ते एव । यद् उक्तं श्रुतिभिः—भवद्-उत्थ-शुभाशुभयोः [भा।पु। १०.८७.४०]।
भक्त-वत्सलो भगवान् भक्तेभ्यः कथं दुःखं ददातीति चेत्, सत्यं, पुत्र-वत्सलोऽपि पिता पुत्रेभ्यो भोग-दूरीकरणेनाध्ययनादि-कृच्छ्रं यद् ददाति, तद् वात्सल्यं, स एव जानाति, न तु तदानीं तत्-पुत्रा अपीति । न च प्रह्लाद-ध्रुवादिभ्यो भोग-सम्पत्ति-सुख-मात्र-दानात् साधकेभ्य एव हितार्थिना भगवता दुःखं दीयते इति वाच्यं, सिद्ध-शिरोमणीनां युधिष्ठिरादीनाम् अपि यत्र धर्म-सुतो राजा [भा।पु। १.९.१५] इत्य् अत्र सुहृत् कृष्णस् ततो विपत् इति । भीष्मोक्तौ दुःख-श्रवणात् । तस्मात्, न ह्य् अस्य कर्हिचिद् राजन् पुमान् वेद विधित्सितम् [भा।पु। १.९.१६] इति भीष्मोक्तेस् तस्य विधित्सितं स एव भक्त-वत्सलो वेद, नान्य इति सिद्धान्तः । किञ्चित् तत्र समाहितं यत् तद् अपि तत्रैव दृश्यम् ।
ननु च स्व-कर्मोत्थयोर् भगवद्-उत्थयोश् च सुख-दुःखयोर् भोग्यत्वेन तुल्यत्वात् को विशेषः ? उच्यते—कर्मोत्थानां सुख-दुखानां भोगेनापि तद् बीजं तिष्ठत्य् एव , तद्वतां नरक-पातश् च कर्म-तारतम्यवतां सुख-दुःख-तारतम्यं चेति त्रितयं भवेत् । भगवद्-उत्थानां तु भगवद्-इच्छयैव बीजं सा च प्रयोजन-पर्यस्तैव न तद्-उत्तरा—जिह्वा न वक्ति भगवद्-गुण-नाम-धेयम् [भा।पु। ६.३.२९] इत्य् आदि यमोक्तेस् तद्वतां न नरक-पातः । भगवतः स्नेह-पात्रत्वात्, न दुःखातिशयश् चेति । कर्मोत्थ-भगवद्-उत्थयोः शत्रु-कृत-मातृ-कृत-ताडनोत्थयोर् इव दुःखयोर् विषामृतयोर् इव कुतस् तुल्यतेति विवेचनीयम् ।
ननु च सर्व-समर्थस्य भगवतो भक्त-दुःख-दानं विना किं तत् प्रयोजनं न सिध्येत् ? सत्यम् । लीला-निधेस् तस्य न सिद्ध्येद् एव, भक्ति-योगस्य रहस्यत्व-रक्षार्थं नानान्य-मतानाम् उत्खाताभावार्थं भक्तौत्कण्ठ्यादि-वर्धनार्थं च क्वचित् प्रियेभ्यो दुःख-दानम् अपि तत्-सुखोदर्कम् एव, यथा नयनाभ्यां कटुतराञ्जन-दानम् इति । तथा हि, यदि भक्ताः सदा सुखिन एव कृताः स्युस् तदा—परित्राणाय साधूनां विनाशाय च दुष्कृताम् [गीता ४.८] इति गीतोक्त-निमित्ताभावे सति कृष्ण-रामाद्य्-अवतारा अपि न स्युः । यदि च न स्युस्, तदा रासादि-लीलामृत-सिन्धौ भक्तानां खेलनं कथं स्याद् इति ।
ननु च साधु-दुःख-त्राणात्मकं निमित्तं विनापि तस्यावतारे को दोषः स्यात् ? सत्यम् । भो भ्रातस् त्वं न रसाभिज्ञोऽपि, श्रूयताम् । यामिन्यां सत्याम् एव सूर्योदयः शोभते, ग्रीष्मे सत्य् एव शीतलाम्भः सुखदम्, शीते सत्य् एवोष्णाम्भः । तमस्य् एव दीपः शोभते, न तु प्रकाशे । क्षुत्-पिपासायां सत्याम् एवान्नम् अतिस्वादु भवतीत्य् अलम् अतिविस्तरेण ॥८॥
॥ १०.८८.९ ॥
स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया ।
मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स पुनर् बन्धूनाम् आग्रहेण धनेहया प्रवृत्तोऽपि मद्-अनुग्रहेण यदा निष्फलोद्यमो निर्विण्णः स्यात् तदा मद्-अनुग्रहम् इति ममासाधारणम् अनुग्रहम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पत्परैर् मत्-परायणैः सह । कृत-मैत्रस्य कृत-प्रीतेः । असाधारणं मुक्ति-लक्षणम् अनुग्रहम् । करिष्ये मद् अनुग्रहम् इति द्वितीयो\ऽयम् अनुग्रहो\ऽसाधारणो भक्तिरसामृतवर्षी यद् अर्थम् एव मे प्रथमो\ऽनुग्रहो दुःख-सन्ताप-फलो\ऽभूद् इति भावः । अत एवानुग्रहं करिष्य इत्य् अप्रयुज्य मद् अनुग्रहम् इति माम् इवानुग्रहं करिष्य इत्य् अर्थः ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : मत्-परैः कृत-मैत्रस्येत्य्-आदि । कोऽसौ मद्-अनुग्रहः ? एकस् तूक्त एव, यस्याहम् अनुगृह्णामि [भा।पु। १०.८८.८] इत्य् आदि । तेनैवं व्याख्येयं—अनुगृह्यते इत्य् अनुग्रहो भक्तः, मद्-अनुग्रहं मद्-भक्तं करिष्ये ॥९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निर्विण्णो विरक्तः । मत्-परैर् जनैः कृतं मैत्रं यस्य । यद् वा, मत्-परैः सह कृतं मैत्रं सौहृदं येन तस्य ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ किम् आहेत्य् अपेक्षायां स तु तेन देवासुरेत्य् आदिना प्रष्टस्योत्तरं सविस्मितं तद् अभिप्राय-विपरीतम् एवाहेत्य् आह—श्री-भगवान् उवाचेति । यमुपासकम् अनुगृह्णामीति यं तु कामयमानं नानुगृह्णामि किन्तु यद् अभिरुचि-मात्रम् आपाततः सम्पादयामि । अस्मा एव धनं ददामीति भावः । हरिष्य इति लुट्-प्रयोगो\ऽक्षमायाम् । अनवक्लृप्त्यमर्षयोर् अकिंवृत्ते\ऽपी\ऽति स्मरणात् तत्रैव दृश्यम् । ननु, च
उद्-धन-दर्शनाक्षमापूर्वकं हरामीत्य् अर्थः । शनैर् इति । सहसा हरणे तस्य सर्वाच्छादकः क्षोभ एव स्याच्-छनैर्हरणे तु क्रमेण धनाद् उदासिनी-भूतः
सत्-सङ्गे रतिः स्याद् इत्य् अभिप्रेत्येति भावः । ततः किं तत्राह—तत इति । शनैर् इत्य् अस्य त्यजन्तीत्य् अनेनाप्य् अन्वयः । अत एव दुःखे\ऽतिवीप्सा च क्रमाद्-दारिद्र्यातिशयं प्राप्तम् इत्य् अर्थः ॥८॥ ततो\ऽपि किं तत्राह—स इति सार्धकेन । निर्विण्णो विरक्तः ततश् च दीन-दयया मत्-परैर् जनैः कृतं मैत्रं हितं यस्य तस्य मद् अनुग्रहं ममाभिरुचितम् अनुग्रहं करिष्ये तत्र तु लुट्-प्रयोगो वर्तमानसामिप्ये वर्तमानवद्वा इति स्मरणात् शीघ्रम् एव करोमित्य् अर्थः । तद् एवं सवासनान् प्रत्येवोक्तं न तु निर्वासनान् श्रीमत्-प्रह्लादादीन् प्रतीति लभ्यते तेभ्यो राज्यादि-दानं तु तन्-महिम-व्यञ्जनार्थम् एव असाधारण-तत्-प्राप्तेस् तथाप्य् अनासक्तेश् च अनुग्रहस्य तादृशत्वमे ब्रह्म-साम्येन व्यञ्जयति-तद् इति ।
तद् अनिर्वचनीय-वस्तु-स्वरूपं यतो ब्रह्म सर्वतो बृहत्तमं परमं सर्वत उत्कृष्टं दुर्लभं दुर्जेयं च सत् अनादि-भक्त-परम्परास्वनादित एव तत्-सुखोदकम् एव, यथा ।
सिद्धम् अनन्तरम् उत्तर-काले\ऽप्य् अरिच्छेद्यं सर्वत्र हेतुः चिन्-मानं तच्-छक्ति-विलासम् इति विज्ञायेत्य् अर्ध-पद्यम् अधिकम् असाम्प्रदायिकम् । तद् अनुग्रह-फलत्वेन सर्वतत्त्वस्य भगवता सामान्यतयैव निर्देशः कृतः तद्-विशेषतया तु ज्ञेयः अत इत्य् अर्धकम् अतो धनाप्राप्तेर् हेतोः जनः साधारणः
ननु, यस्याहम् अनुगृह्णामीत्युक्ताभिप्रायेण अकामः सर्वकामो वा इत्य् उक्तरीत्या च त्वम् अपि धनं ददासि तर्हि कथम् अन्यान् भजते तत्राह—सुदुराराध्यम् इति । तस्याराधनतत्त्वाज्ञानाच्-छ्री-भगवतश् च सुविचार्यैव फल-दातृत्वात् इति भावः । तथोक्तं तृतीये—
तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः । > कृतज्ञः को नु सेवेत दुराराध्यम् असाधुभिः ॥ इति ॥
अथवा तद् अज्ञानस्य हेतुत्वम् एव व्यञ्जयन् स्व-विशेषणत्वेन तद्-ब्रह्मेत्य् आदिकं पूर्वार्धम् उक्तं तस्माद्-ब्रह्मतो\ऽपि परमं ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदिप्रसिद्धम् अतः सूक्ष्मं दुर्जेयं यतश् चित्-स्वरूपं ब्रह्म च मात्रा अंशो यस्य य द्वा, चिद्-रूपा मात्रा शक्तिर्यस्य तं सच् च अन्तं च कं परमानन्दस् तत्-स्वरूपम् इति ॥ ९-१० ॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मत्-परैर् इत्य् आदि । करिष्ये मद्-अनुग्रहम् इति ममानुग्रहो यस्मिन् स मद्-अनुग्रहस् तं मद्-भक्तं करिष्यामीत्य् अर्थः । अन्यथा—यस्याहम् अनुगृह्णामीत्य् अनेनैव पूर्वम् एवानुग्रहोक्तेर् उक्तोक्त-दोषः स्यात् ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : करिष्ये मद् अनुग्रहम् इति द्वितीयो\ऽयम् अनुग्रहो\ऽसाधारणो भक्ति-रसामृतवर्षी यद् अर्थम् एव मे प्रथमो\ऽनुग्रहो दुःख-सन्ताप-फलो\ऽभूद् इति भावः । अत एवानुग्रहं करिष्ये इत्य् अप्रयुज्य मद् अनुग्रहम् इति माम् इवानुग्रहं करिष्य इत्य् अर्थः ॥९॥
॥ १०.८८.१० ॥
तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् ।
विज्ञायात्मतया धीरः संसारात् परिमुच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् एवाह—तद् ब्रह्मेति । अतः पश्चाद् अपि मोक्षम् अरोचयन् । अत्य्-आसक्तो जन इत्य् अर्थः ॥ १०-११ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् एवानुग्रहम् एव यत्-सूक्ष्मं परमं ब्रह्म तन्-मां हित्वा । अतः पश्चाद्-धन-नाशोत्तर-काले\ऽन्यं भजते । इत्य् अर्थ इति-धनादि-नाशे\ऽपि सद्-वासना-नाशाभावाद्-देवतान्तरम् एवं वसुकामो वसूद्रान् इत्य् आदि-वाक्यैर् धनादि-प्रदं मत्वाराधयतीति भावः । अत एवानुग्रहं स्व-तुल्यत्वेन विशिनष्टि—तद्-ब्रह्मेति । बृहत्तमत्वात् बहिरङ्ग-लोक-दुर्लक्ष्यत्वाच् च ब्रह्म-तुल्यं परमं सर्वोत्कृष्टम् । अनुग्राह्यस्य भक्तस्याप्य् अगम्यत्वात् सूक्ष्मं प्रेम-रसानुभावकत्वात् चिन्मात्रम् । प्राकृत-सुख-राहित्यात् मात्र-पद-प्रयोगः सत् सर्वकाल-सत्ताकम् । अनन्तकं नास्त्य् अन्तकभयं यत इत्य् अननु-संहित-फल-रूपः संसार-क्षयश् चोक्तः । क्वचिद् अत्र विज्ञाय इत्य् अर्धकम् अस्ति तद् असाम्प्रदायिकम् इति । अत इत्य् अर्धकम् । अतो धनाप्राप्तेर् हेतोः । जनः साधारणः । यस्याहमनुगृह्णामी त्युक्ताभिप्रायेण अकामः सर्वकामो वा इत्य् उक्तरीत्या च त्वम् अपि धनं ददासि तर्हि कथम् अन्यान् भजन्ते तत्राह—सुदुराराध्यम् इति । तस्याराधनतत्त्वाज्ञानाच्-छ्री-भगवतश् च सुविचार्यैव फल-दातृत्वात् इति भावः । तथोक्तं तृतीये—
तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः । > कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥ इति ॥
अथवा तद् अज्ञानस्य हेतुत्वम् एव व्यञ्जयन् स्व-विशेषणत्वेन तद्-ब्रह्मेत्याद्य् अर्द्यम् उक्तम् । तस्माद्-ब्रह्मतो\ऽपि परमं ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि-प्रसिद्धम् । अतः सूक्ष्मं दुर्जेयं यतश् चित्-स्वरूपं ब्रह्म च मात्रा अंशो यस्य, यद् वा, चिद्-रूपा मात्रा शक्तिर् यस्य तम् । सच् च अनन्तं च यत् कं परमानन्दस् तत्-स्वरूपम् इति ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तद् ब्रह्मेत्य्-आदि । मां दुराराध्यं हित्वा । तत् तस्मात् । शिवादीन् भजते । मां कीदृशम् ? सुदुराराध्यं सुखाराध्यं दुराराध्यं च । मोक्षाकाङ्क्षि꣡ सुलभं, प्रेमाकाङ्क्षि꣡ तु दुर्लभम् । सुलभत्वेन मोक्षदम्, दुर्लभत्वेन प्रेमदम् । अथवा, मोक्षदत्वेन सुलभम्, प्रेमदत्वेन दुर्लभम् । अतः सुलभत्वेन ब्रह्मेत्य्-आदि-प्राग्-उक्तानि विशेषणानि, दुर्लभत्वेन माम् इत्य् अङ्गुल्या निर्दिष्टत्वेन विशेष्य-पदम् ॥ १०-११ ॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् अनिर्वचनीयम् । यतः परमं सूक्ष्मम् अत्यन्ताव्यक्तम् । तत्र हेतुः—चिन्-मात्रं ज्ञान-स्वरूपम् । अतः सत् नित्यम् अनन्तं चापरिच्छिन्नम् इति सर्वथा प्रपञ्चाद् वैलक्षण्यम् उक्तम् । यद् वा, निर्विशेषत्वादाव् अपि विविध-विशेषवत्त्वादिनानिर्वचनीयम् । अत एव सूक्ष्मं दुर्वितर्क्यं परमं ब्रह्म श्री-वैकुण्ठ-लोकम् इत्य् अर्थः । यतश् चिन्-मात्रं ज्ञान-घनं, सत् सत्यम् अनन्तं च तत् कं चेति—अपरिच्छिन्न-सुख-स्वरूपं चेत्य् अर्थः । यद् वा, अनन्तं कं यस्मिंस् तत् ।
अथवा, तत् सर्व-श्रेष्ठतमतया सुप्रसिद्धं निगूढं वा वस्तु मत्-प्रेम-लक्षणम् । ब्रह्म सर्व-व्यापकम् । किं वा, परमं ब्रह्म, तस्यापि सच्-चिद्-आनन्द-घनत्वात् । अत एव सूक्ष्मम् इत्य् आदि । अन्यत् तैर् व्याख्यातम् । तत्र तम् एवाहेति कार्य-कारणयोर् अभेदाभिप्रायेण । यद् वा, श्री-भगवतो गुणानाम् अपि सच्चिदानन्द-रूपत्वेन तादृशत्वाद् इति । अथवा, तत् तस्मान् मद्-अनुग्रहात् । किं वा, ततः पश्चात् प्राप्नोतीति भवतीति वा शेषः । विज्ञायेत्य् आद्य् अर्ध-पद्य-सद्-भावे चात्मतया निज-स्वरूपेण विज्ञायानुभूय धीरः सद्-भक्तः सन्, श्री-वैकुण्ठ-लोकं लब्ध्वा संसारात् परितो मुच्यते, अतो धन-क्षयादेर् हेतोर् मां हित्वानुग्रह-विधानेऽपि सुदुराराध्यं बहु-प्रयासैश् चिर-कालेनैव प्रसाद्यम् इत्य् अर्थः । इदम् अपि त्यागे हेत्व्-अन्तरम् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः) : सार्धम् । अतो माम् इत्य् अस्य पूर्वार्धं तद् ब्रह्मेति । मां कथम्भूतम् ? तत् तस्मात् प्रसिद्धाद् ब्रह्मतोऽपि परमम् अतः सूक्ष्मं दुर्ज्ञेअम् । चिद्-रूपा मात्रा शक्तिर् यस्य तम् । सच् च अनन्तं च यत् कं परमानन्दस् तत्-स्वरूपम् ॥१०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : मत्-परैः सह कृत-मैत्रत्वस्यानन्तरं भक्तत्व-कृतौ सत्यां यद् भवति, तद् आह—तद् ब्रह्मेति सार्धेन । अतः कारणान् मां सुदुराराध्यं सुखाराध्यं दुःखाराध्यं च, द्वन्द्वात् पर-श्रूयमाणः शब्दः प्रत्येकम् अभिसम्बध्यते, हित्वान्यान् देवान् भजते, मोक्षाकाङ्क्षिणां सुलभं, प्रेमाकाङ्क्षिणां दुर्लभं, मोक्ष-प्रदत्वेन सुलभम्, प्रेम-प्रदत्वेन दुर्लभम् । उभयत्वेन विशेषणं विशेष्यं च । तत्र मोक्ष-प्रदतया सुलभत्वे विशेषणं तद् ब्रह्मेति । परमं सूक्ष्मं चिन्-मात्रं चिद्-एकात्मकं सत् सत्ता-मात्रम् अनन्तकं व्यापकम् । प्रेम-प्रदतया दुर्लभत्वेऽप्य् एतानि विशेषणानि । तद् यथा—तद् ब्रह्म परमं तत् प्रसिद्धं यद् ब्रह्म निर्विशेषं निष्क्रियम् । ततोऽपि परा उत्कृष्टा या शोभा यस्य, सूक्ष्मं सुष्ठु शोभना क्ष्मा यस्माद् धरणीभारापहारकम् । सु-शब्दस्य दीर्घत्वम् आर्षम् । पाणीय-सूयवस [भा।पु। १०.२१.१८] इत्य् आदिवत् । चिन्-मात्रं चिच् चैतन्यं मात्रा शक्तिर् यस्य, सद्-अनन्तकं सतां भक्तानाम् अनन्तं कं सुखं यस्माद् इति माम् इत्य् अस्य विशेषणानि इति मोक्षतोऽपि प्रेम्णो दुर्लभत्वं दर्शितम् ॥ १०-४० ॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एवानुग्रहं स्व-उल्यत्वेन विशिनष्टि-तद्-ब्रह्मेति । बृहत्तमत्वात् बहिरङ्ग-लोक-दुर्लक्ष्यत्वाच् च ब्रह्म-तुल्यं परमं सर्वोत्कृष्टम् अनुग्राह्यस्य भक्तस्याप्य् अगम्यत्वात् सूक्ष्मं प्रेम-रसानुभावकत्वात् चिन्मात्रं प्राकृत-सुख-राहित्यात् मात्र-पद-प्रयोगः सत् सर्व-काल-सत्ताकम् अनन्तकं नास्त्य् अन्तकभयं यत इत्य् अननु-संहित-फल-रूपः संसार-क्षयश्चोक्तः । क्वचिद् अत्र विज्ञायेत्यर्ध-पद्यम् अधिकं तद् असाम्प्रदायिकम् इति श्री-वैष्णव-तोषणी व्यावहारिक-सुख-विनाशकत्वात् सु-दुराराध्यम् ॥१०॥
॥ १०.८८.११ ॥
अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः ।
ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः ।
मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो मां विहायान्यम् उपासते ततो हेतोस् ते तान् वरदातॄनेवावजानते तेषाम् एव देवानाम् अवज्ञां कुर्वत इत्य् अर्थः । तत्र हेतुः—लब्ध-राज्येत्य् आदि । मत्ता मद्यादिना । प्रमत्तास् ताम् असादिदेवाराधनादिना । तच् च तेषां भजनं प्राप्ते फले वैपरीत्यायैव स्याद् इत्य् आह—तत इति । आशुतोषेभ्यो विचारं विनैव तुष्यद्भयो\ऽन्येभ्यः । उद्धताः अतिक्रान्त-मर्यादाः मत्ता गर्विताः प्रमत्ताश् च अनवहिताः सन्तः वरदान् अपि तान् काले न विस्मरन्त्येव कथञ्चित् स्मरणे\ऽप्य् अवजानते च अवज्ञा-विषयीकुर्वते च ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् तस्माद् भजनाद् धेतोः । अनन्तरं वा । ते धनादि-कामेनान्य-भक्ताः । तन्-नामाग्रहणं विनयात् । उद्धता अतिक्रान्त-मर्यादाः । मत्ता गर्विताः । प्रमत्ताश् चानवहिताः सन्तः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च तेषां भजनं प्राप्ते फले वैपरीत्यायैव स्यादित्य् आह—तत इति । आशुतोषेभ्यः विचारं विनैव तुष्यद्भयो\ऽन्येभ्यः उद्धताः अतिक्रान्त-मर्यादाः मत्ता गर्विताः प्रमत्ताश् चानवहिताः सन्तः वरदान् अपि तान् कालेन स्मरन्त्य् एव कथञ्चित्-स्मरणे\ऽप्य् अवजानते च ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रमत्ताः परामर्श्-अशून्याः ॥ ११-१५ ॥
॥ १०.८८.१२ ॥
श्री-शुक उवाच—
शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः ।
सद्यः शाप-प्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एवेतिहासेन स्पष्टयितुम् आह शाप-प्रसादयोर् इति ब्रह्मा चेत्य् अन्वयः ॥ १२-१३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिनेन्द्रादि-ग्रहः । सद्यो झटित्य् एवेषद् अप्य् अपराधे । शापस् तथेषद् अप्य् अर्चने प्रसादो यस्य स तथा शिवो ब्रह्मा चेति द्वावेतादृशौ अच्युत इत्य् अर्थः । श्री-भगवद् उक्तरीत्या तेषाम् आशुतोषता-प्राप्ताविचारत्वम् । तथापि श्री-भगवद् आश्रय-बलेन सर्व-सिद्धिम् । श्री-भगवतस्तु सुदुराध्यता-प्राप्त-सुविचारत्वं तेषां श्री-भगवद् आश्रय-मूलानां सदाङ्गीकारं चेतिहासेन दर्शयितुम् उपन्यस्यति—शापेति । शापे प्रसादे वरदाने च ईशाः समर्थाः आदि-शब्दादिन्द्रादयः । अङ्ग भो राजन् ! इति सत्यम् एवेदम् इति भावः । अच्युत इति निज-तत्-तद्-गुण-च्युतिर् राहित्यात् ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सुसिद्धं श्री-शिवतः श्री-हरेर् उत्कर्षम् एवेतिहासेन द्रढयति-शापेत्य् आदिना । शापे प्रसादे च वरदाने ईशाः समर्थाः, किं वा, तयोः स्वामिनः, आदि-शब्दाद् इन्द्रादयः, अङ्ग! भो राजन्न् इति सत्यम् एवेदम् इति भावः । अच्युत इति निज-कारुण्य-धैर्यादि-गुण-विच्युत-राहित्यात् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवद् उक्तरीत्या तेषाम् आशुतोषता-प्राप्ता-विचारत्वं तथापि श्री-भगवद् आश्रय-बलेन सर्व-सिद्धि श्री-भगवतस् तु दुराराध्यता-प्राप्त-सुविचारत्वं तेषां श्री-भगवद् आश्रय[मूलानाम्] भूतानां सदाङ्गीकारं चेतिहासेन दर्शयितुम् उपन्यस्यति—शापेति ।
[पापे]{।मर्क्} प्रसादे वरदाने च ईशाः समर्थाः आदि-शब्दादिन्द्रादयः अङ्ग भो राजन् ! इति सत्यम् एवेदम् इति भावः । अच्युत इति निज-तत्-तद्-गुण-च्युतिर् राहित्यात् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.१३ ॥
अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् ।
वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र शिवस्य सद्यः-प्रसादत्वे पुराविदः पूर्व-वृत्तान्तज्ञाः पौराणिका इत्य् अर्थः । पुरातनम् इति क्वाचित् कः ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुराविदः पूर्व-वृत्तान्तज्ञाः पौराणिका इत्य् अर्थः ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुराविदः पूर्व-वृत्तान्तज्ञाः पौराणिका इत्य् अर्थः । पुरातनम् इति क्वाचित्कम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.१४ ॥
वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।
दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शकुनेः पुत्रः ॥ १४-१५ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पथि दृष्ट्वेति काकतालीयेनैव सङ्गमेन तस्य दुष्टत्वं तत्रैवापृच्छद् इति सद् व्यवसायान् अभिज्ञत्वं च दर्शितम् । त्रिषु ब्रह्मादिषु । आशुतोषं प्रेम-प्रसादम् । दुर्मतित्वं च अग्रे प्रकटी-भविष्यति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पतिं दृष्ट्वा त्रिषु श्री-ब्रह्मादिषु मध्ये आशुतोषम्, दुर्मतिर् इति वक्ष्यमाण-दुष्टवरेच्छया ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पथि । इति बुद्धि-पूर्वकत्वाभावेनैव ततश् च सङ्गमेन तस्य दुष्टत्वं तत्रैवापृच्छद् इति सद्-व्यवसायान् अभिज्ञत्वं च दशितं त्रिषु ब्रह्मादिषु ये आशुतोषम् ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.१५ ॥
स आह देवं गिरिशम् उपाधावाशु सिध्यसि ।
योऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स नारदः । सिध्यति कृतार्थो भविष्यति । वर्तमान-समीपे भविष्यति लट् । ते गिरिशः । आशु उपाधाव सेवस्व । ततश् च सिध्यसि समीप एव सेत्स्यसि सिद्धस्पष्टार्थो भविष्यसीत्य् अर्थः । अल्पाभ्याम् इति अल्पेन [न्युनेन]{।मर्क्} तुष्यति । अल्पेन दोषेण कुप्यतीत्य् अर्थः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सिध्यसि, सामीप्ये वर्तमाना, सेत्स्यसि सिद्धेष्टार्थो भविष्यतीत्य् अर्थः । अल्पाभ्याम् इति अल्पगुणेन तुष्यति, अल्प-दोषेण कुप्यति चेत्य् अर्थः । अपृष्टस्याप्य् आशुकोपस्योक्तिः, आशुतोषस्यैव दृष्टान्ततया दार्ढ्यम् ॥ १५-२६ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आशु उपाधाव ततश् च सिध्यसि समीप एव सेत्स्यसि सद्धे स्पष्टार्थो भविष्यतीत्य् अर्थः । अल्पाभ्यम् सद्-गुणेन तुष्यति अल्प-दोषेण कुप्यति चेत्य् अर्थः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.१६ ॥
दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव ।
ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुसङ्कटम् आप कैलासोत्पाटनं पुरपालनं च ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दशास्यबाणयोः रावण-बाणासुरयोः । ततस् तद् उपरितोषात् । नन्व् एवं चेत् तर्हि बिभेमि चेति नाशङ्क्यं यतो हराल्-लब्धवरस्य । तवासौ न किम् अपि कर्तुं शक्ष्यतीत्य् आह दृष्टान्त-द्वारा—दशेति । सकामत्वात् बन्दिनोर् इव स्तुवतोस् तुष्टः सन् सुसङ्कटं बहुसङ्कटं क्रमेण
कैलासोत्पाटनं पुरपालन-रूपं चापेति तैर् व्याख्यातम् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एवं चेत् तर्हि बिभेमि चेति नाशङ्क्यं यतो हराल्-लब्ध-वरस्य तव न किञ्चित्-कर्तुम् असौ शक्ष्यतीति दृष्टान्त-द्वारा दर्शयति—शेति । बन्दिनोर् इव स्तुवतोः सकामत्वात् । अत्र बाणासुरात् सुसङ्कट-प्राप्तिः स्वेन युद्ध-प्रार्थना-रूपा श्री-भगवता सह युद्धादि-दुःख-रूपा ज्ञेया । प्राचीन-कल्पानुसारेणेदम् उदाहृतम् ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सु-सङ्कटं क्रमेण कैलासोत्पाटनं पुरपालनं च ॥१६॥
॥ १०.८८.१७ ॥
इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः ।
केदार आत्म-क्रव्येण जुह्वानोऽग्नि-मुखं हरम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वगात्रत उपाधावत् कथम् आत्मक्रव्येण स्व-मांसेन जुह्वान इति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतीत्थम् । तं रुद्रम् । अग्निर् मुखं यस्य तम् । केदारे तन्-नामक-क्षेत्रे । स्व-गात्रतो निज-शरीरेण । उपाधावद् असेवत । केदाराख्ये शिव-क्षेत्रे । अग्निर् मुखं यस्येति सर्व-देवानाम् अग्निम्-उखत्वात् तम् उद्दिश्याग्नौ होमम्ं कुर्वन्न् इत्य् अर्थः । स्व-गात्रतः सकाशात् । आत्मना छिन्नं क्रव्यं मांसमात्म-क्रव्यम् इति मध्यम-पद-लोपी समासः । तेन ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् उभयोस् तोषकयो राजसत्वं दर्शयित्वा तमो-मिश्रत्वं दर्शयति—इतीति तुभ्याम् । केदाराख्ये शिव-क्षेत्रे अग्निर् मुखं यस्येति सर्व-देवानाम् अग्नि-मुखत्वात्तम् उद्दिश्याग्नौ होमं कुर्वन्न् इत्य् अर्थः ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वगात्रतः सकाशात् आत्म-क्रव्येण आत्मनैव छिनेन मांसेनेत्य् अर्थः ॥१७॥
॥ १०.८८.१८ ॥
देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमेऽहनि ।
शिरोऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अवृश्चच्-छेत्तुम् उद्यतः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वधितिना छुरिकया । स्वधितिश् छुरिका मता इति कोशात् । तत्-तीर्थेन केदारपादोदकेन क्लिन्नान्याद्राणि मूर्धजानि शिरोरुहाणि यस्य तच्-छिरः । देवस्य निजाराध्यस्य शिवस्योपलब्धिं दर्शनम् । निर्वेदात् दुःखात् । स्वधितिना खड्गेन परश्वधेन वा । स्वधितिश् छेदनार्ह-शस्त्रे इति कोशकाराः । नित्यं त्रिषवण-परत्वात्-क्लिन्नकेशं छेदनार्थं सद्यः स्नानाद् वा ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवस्य निजाराध्यस्य शिवस्योपलब्धिं समीपे प्राप्तिं दर्शनं वा निर्वेदात् दुःखात् स्वधितिना खड्गेन परश्वधेन वा तस्य तीर्थेन आ सर्वतः क्लिन्ना आर्द्रा । मूर्धजा यस्मिन् तत् नित्यं त्रिषवणपरत्वात् किं वा, छेदनार्थं सद्यः स्नानात् ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवृश् चत् छेत्तुम् उद्यतः सुधितिना खड्गेन तत्-तीर्थ एव आक्लिन्नाः सम्यग् आर्द्रीभूता मूर्धजाः यत् तत् ॥१८॥
॥ १०.८८.१९ ॥
तदा महा-कारुणिको स धूर्जटिर्
यथा वयं चाग्निर् इवोत्थितोऽनलात् ।
निगृह्य दोर्भ्यां भुजयोर् न्यवारयत्
तत्-स्पर्शनाद् भूय उपस्कृताकृतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मूर्तिमान् अग्निर् इव देदीप्यमानः वयम् अधुनातना यथाकिञ्चिद्-दुःखेन मर्तुकामं वारयामस् तद्वद् इति स च उपस्-कृताकृतिः परिपूर्ण-देहो\ऽभवत् तं न्यवारयद् एवमाह च ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा शिरश् छेदनावसरे । योर्चितः स धूर्जटिः रुद्रः । तम् इति शेषः । त्रि-लिङ्गत्वात्-सत्त्व-गुणोदयम् अप्य् आह—तदेति । तदा सद्य एव महा-कारुणिकः बिना-विचारं कारुण्योदयात् । यथा वयम् इति अजहल्-लक्षणया साधारण-जन-प्राप्तिः । दृष्टान्तत्वं च महा-कारुणिकतयेश्वरत्व-त्यागेन ब्रह्मा और तैकिक-सादृश्य-प्राप्तेः । अन्यथान्तःप्रेरणयैव तद्-वारण-सम्भवात् ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रिलिङ्गत्वात्-सत्त्व-गुणोदयम् अप्य् आह—तदेति । सद्य एव स चेत्य् अन्वयः । दुष्टे\ऽपि कारुण्योदयात् महा-कारुणिकः यथा वयम् इति जहल्-लक्षणया साधारण-जन-प्राप्तिः तद्-दृष्टान्तत्वं च महा-कारुणिकतयेश्वरत्व-त्यागेन लौकिक-सादृश्य-प्राप्तेः ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वयम् अधुना यातना यथा दुःखेन मर्तुकामं जनं वारयामस् तद्वत् स च उपस्कृताकृतिः परिपूर्ण-देहो\ऽभूत् ॥१९॥
॥ १०.८८.२० ॥
तम् आह चाङ्गालम् अलं वृणीष्व मे
यथाभिकामं वितरामि ते वरम् ।
प्रीयेय तोयेन नृणां प्रपद्यताम्
अहो त्वयात्मा भृशम् अर्द्यते वृथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तोयेनापि भजतां प्रीतः स्यां त्वया तु देहो वृथापीड्यत इति ॥ २०-२१ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं वृकासुरम् । यथा निकामं नितरां कामम् अनतिक्रम्य यथाभीष्टम् इत्य् अर्थः । प्रीयेय प्रीतो भवेयम् । अङ्गेति सलालन-सम्बोधनम् । अलं स्व-शिरश् छेदनेन प्रयोजनं नास्तीत्य् अर्थः । वीप्सा तु वैयग्र्यात् । मे मत्तः । यथा निष्कामं स्वाखिलेच्छानुसारेण अभिकामम् इत्य् अपि पाठः । वरम् इत्य् उभयत्रान्वेति । अहो खेदे । देवात्-सर्व-सद्-वर-प्रदाद् अपि श्री-शिवात् । देवम् इति वा पाठः ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अङ्गेति सलालन-सम्बोधनम् अलं स्व-शिरश् छेदेन प्रयोजनं नास्तीत्य् अर्थः । वीप्सा वैयग्र्यात् मे मत्तो यथा निष्कामं स्वाखिलेच्छानुसारेण अभिकामम् इति वा पाठः वरम् इत्य् उभयतो\ऽप्य् अन्वयः । अहो खेदे ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अलम् अलं शिरश् छेदेनेत्य् अर्थः ॥ २०-२२ ॥
॥ १०.८८.२१ ॥
देवं स वव्रे पापीयान् वरं भूत-भयावहम् ।
यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स वृको देवं देवादित्य् अर्थः । तादृश-वरणे हेतुः पापीयान् इति । चतुर्थ-कोटिकेनेयसुना तस्यातीव पापित्वं ध्वनितम् । यस्य यस्येति वीप्सया तस्य सकृत्त्वं च वारयति । देवादिकं च सर्वं परामृशति ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवात् सर्व-सद्-वर-प्रदाद् अपि श्री-शिवात् देवम् इति वा पाठः तादृशवरणे हेतुः पापीयान् इति यस्य यस्येति वीप्सया तस्य सकृत्त्वं च निवारयति देवादिकं सर्वम् एव परामृशति च ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.२२ ॥
तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।
ॐ इति प्रहसंस् तस्मै ददेऽहेर् अमृतं यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दातुम् अनर्हम् अपि दत्तवान् सर्पय क्षीरम् इव ॥ २२-२३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् वचः । दुर्मना अपि प्रहसन्न् इव स्व-दौर्मनस्यम् अप्रकाशयन्न् इव । तस्मै वृकाय । ॐ इत्य् उक्त्वा ददे । अपात्रायादेयदाने दृष्टान्तः-अहेरहये\ऽमृतं दुग्धम् इव । घृत-क्षीर-जले\ऽमृतम् इति व्याडिः । तच् छ्र्वणात् दुर्मनाः दुःखित-चित्तः । इति श्री-भगवतस् तत्-प्रतीकार-सम्भावनया दौर्मनस्य-हासात् । तत्र हेतुः भगवान् इति । सर्वज्ञ इत्य् अर्थः । तस्य दुर्मतित्वेन प्रहसन् । अमृतत्व-साम्यं वरमात्रांशे । हे भारतेति भरत-वंश-बीज-भूतो भवान्, यथा श्री-भगवता रक्षितस् तथा तद्-भयाज्-जगद् अक्षिष्यत इति भवता कापि चिन्ता न कार्येति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच्-छ्रवणात् दुर्मनाः दुःखित-चित्त इवेति । श्री-भगवतस् तत्-प्रतीकार-सम्भावनया दौर्मनस्य-हासात तत्र हेतुः भगवान् सर्वज्ञ इति तस्य दुर्मतित्वेन प्रहसन् अमृत-साम्यं वरत्वमात्रांशे हे भारतेति भरत-वंश-बीज-भूतो भवान् यथा श्री-भगवता रक्षितस् तथा तद्-भयाज्-जगद्-रक्षिष्यत इति भवता कापि चिन्ता न कार्येति भावः ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.२३ ॥
स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः ।
स्व-हस्तं धातुम् आरेभे सोऽबिभ्यत् स्व-कृताच् छिवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् उक्तः स वृको गौरी-हरण-लालसो\ऽभूद् इति । ततश् च तस्य
वरस्य परीक्षार्थं विश्वासार्थम् । किल वार्तायाम् ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च पराङ्मुखो\ऽधावद् इति ज्ञेयम् । शिव इत्य् आत्मनो\ऽन्येषां च सर्व-भूतानां मङ्गलेच्छुर् इति भावः ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वकृतात् स्व-दत्तवरात् अबिभेत् भयं प्राप्तः अबिभ्यद् इति पाठः आर्षः ॥२३॥
॥ १०.८८.२४ ॥
तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः ।
यावद् अन्तं दिवो भूमेः काष्ठानाम् उदगाद् उदक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपसृष्टोऽनुगतः सन् उद्गादावत् उद्गुत्ततः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शिवः । स्वकृताद्वाराद् अबिभ्यत् अबिभेत् । तेन असुरेण । यावद् इव आद्यन्तं तातव् । स्वकृतत् स्वयं दत्तवरात् भवेत् भयं प्राप्ताः । अबिभ्यद् इति पाट्ःअस् त्व् आर्षाः । ततश् च पराङ्मुखोऽधावद् इति ज्ञेयम् । शिव आत्मनोऽन्येषां श्वेत-द्वीपजिगमिषया ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्यु-प्रभृतीनाम् अन्तम् अवधि यावत् पराधावन् पलायमानः सन् । पराधावद् इति पाठे वाक्य-भेदः । उदग् इति श्वेतद्वीप-जिगमिषया ॥२४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तेनासुरेण उपसृष्टः अनुगतः स शिवः दिवो भूमेश् च यावद्-अन्तं तावत् पर्यन्तं पराधावत् पलायमानः सन् काष्ठानां दिशाम् उत्तरतः सकाशात् उदगात् त्वरया जगाम श्वेतद्वीपेच्छयेत्य् अर्थः । स-वेपथुः सकम्पः इति तु लीला-सौन्दर्याय ॥२४॥
॥ १०.८८.२५-२७ ॥
अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः ।
ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ॥**
यत्र नारायणः साक्षान् न्यासिनां परमो गतिः ।
शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ॥**
तं तथा-व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।
दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विजेरितं साधु साध्विति घोषं श्रुत्वा हार्दम् अभिप्रायम् ॥ २६-३१ ॥
वैकुण्ठं श्वेत-द्वीपम् ॥ २५-२६ ॥
तं वृकासुरम् । तथा-व्यसनं तादृग् व्यसनं यस्य तम् । वृजिनार्दनो दुःख-हन्ता । दूरत एव दृष्ट्वा मेखलादिभिर् उपलक्षितः प्रत्युदियात् संमुखम् आगतः ॥ २७-२८ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रतिविधि [तत्]{।मर्क्}-क्रियाम् ततः सर्व-देव-लोक-गमनोत्तरम् । तमसस् तत्-कार्याद् ब्रह्माण्डात्-परम् । यद् वा, वैकुण्ञ्ठं श्वेत-द्वीपम् । तमसः परं तेजो-रूपं, अत स्वभास्वरम् । प्रति-विधिं तत्-प्रतीकारम् । सुरेश्वराः श्री-ब्रह्मादयः । अगमच्छ्री-शिवः । भास्वरं सदा प्रकाशमानं, कुतः तमसः प्रकृतेः परम् । महा-वैकुण्ठावतारस्य श्वेत-द्वीपाख्यास्य पृथिवी-गत्वेऽपि ततः परत्वम् । श्री-भगवान् इति विकारावर्ति च । तथा हि दर्शयतीति न्यायेन ॥२५॥
यत्र वैकुण्ञ्ठे । यतो यत्र । तत्रैव हेतुम् आह—यत्रेति । साक्षाद् वर्तते न्यासिनां भगवद् अर्थे त्यक्ताशेषाणां । अतः शान्तानां राग-द्वेषादि-रहितानां भगवन् निष्ट्ःअ-चित्तानां वा अत एव न्यस्त-दण्डानां हिंसा-रहितानाम् । पर्मा सर्वोत्तमा गतिः प्राप्यः । अत एव यतो गतो नावर्तते पुनः संसारे न पतति । अनावृत्तिः शब्दात् इति न्यायात् ॥२६॥
बटुको ब्रह्मचारी । तम् इति सार्धकम् । व्यसनं क्रोधज-दोषाभिनिवेशो वा । भगवान् इति । तत्-तत्-सर्व-वृत्तान्तज्ञत्वस्य वक्ष्यमाणत-तच्-छक्तिमत्त्वस्य च व्र्जिनार्दन इति । श्री-शिवस्यापि दुःख-मोचनस्याभिप्रायेण । दूताद् इति । श्री-वैकुण्ठाद् बहिर् इत्य् अर्थः । प्रति तद् अभिमुखतः । उदियात् आविर्भूत इत्य् अर्थः । योगमायया स्व-भक्ति-विशेषेण । बटुको बाल-ब्रह्मचारी भूत्वा ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बटुकः श्री-कृष्ण एवाभिप्रेतः । तस्यैव पूतना-वधाद् आवप्लुत-महा-शक्तेः । तथा सर्वथा सर्वेषां सर्व-दुःख-हरत्वाच् च । अतः श्री-शिवस्य सङ्कटान् मोचनम् एतत् किं-नामाद्भुतम् इति भावः ॥ २७-२९ ॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतिविधिं तत्-प्रतीकारम् । सुरेश्वराः श्री-ब्रह्मादयः । अगमच् छ्री-शिवः भास्वरं सदा स्वयम् एव प्रकाशमानम् । कुतः ? तमसः प्रकृतेः परं महा-वैकुण्ठावतारस्य श्वेतद्वीपाख्यस्यास्य पृथिवी-गतत्वेऽपि । ततः परत्वं श्री-भगवद्वद् एव विकार-वर्ति च तथा हि दर्शयतीति न्यायेन ॥२५॥
तत्रैव हेतुम् आह—यत्रेति । साक्षाद् वर्तते न्यासिनां भगवद्-अर्थे त्यक्ताशेषाणां, अतः शान्तानां राग-द्वेषादि-रहितानां भगवन्-निष्ठ-चित्तानां वा, अत एव न्यस्त-दण्डानां हिंसा-रहितानां परमा सर्वोत्तमा गतिः प्राप्यः, अत एव यतो यत्र गतो नावर्तते पुनः संसारे न पतति अत्रावृत्तिः शब्दाद् इति न्यायेन ॥२६॥
तम् इति सार्धकम् । व्यसनं क्रोधज-दोषाभिनिवेशो वा भगवान् इति तत् तत् सर्व-वृत्तान्तज्ञत्वस्य वक्ष्यमाण-तत्-तच्-छक्तिमत्त्वस्य च वृजिनार्दन इति श्री-शिवस्यापि दुःख-मोचनस्याभिप्रायेण दूराद् इति श्री-वैकुण्ठाद् बहिर् इत्य् अर्थः । प्रति तद्-अभिमुखत उदियात् आविर्भूत इत्य् अर्थः । योग-मायति३ स्व-भक्ति-विशेषेण बटुको बाल-ब्रह्मचर्यी भूत्वा अक्षम् आक्स-माला तत्र बटुकत्वम् आदर-स्नेहयोर् उदयार्थम् । तत्र च तेजसेति दृष्टि-मात्रेणैव तद्-बुद्ध्याद्य्-अभिभवः उक्तः तस्मिन्न् आदरोत्पत्त्य्-अतिशयश् च ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : दूराद् इति श्री-वैकुण्ठाद् बहिर् इत्य् अर्थः । प्रति तद्-अभिमुखत उदियात् आविर्भूत इत्य् अर्थः ॥२७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिविधिं तत्-प्रतीकारम् । तमसः प्रकृतेः परं वैकुण्ठं श्वेतद्वीपम् । अस्य पृथिवी-गतत्वेऽपि श्री-कृष्ण-विग्रहवद् इति तोषिणी । यत्र वैकुण्ठे । यतः यत्र न्यस्त-दण्डानां हिंसा-रहितानाम् । तथा तादृशं व्यसनं यस्य तम् । शिवं दूराद् एव दृष्ट्वा मायति३ बटुको बाल-ब्रह्मचर्यी भूत्वा प्रत्युदि८यात् तत्-सम्मुखम् आजगाम । वृजिनार्दनः दुःख-नाशकः मेखलादिभिः उपलक्षितः स तं वृकासुरम् अभि निर्भयं यथा स्यात् तथा वादयामास कथयामासेत्य् अन्वयः । अजिनं मृग-चर्म । अक्षम् अक्ष-माला । वतिना विनीतत्वाभावो द्योतितः । वञ्चन-प्रवृत्तत्वात् । यद् वा, आशिषं ब्रुवन् तम् आत्मानम् अभिवादयामास स्वं नमस्कारयामासेत्य् अर्थः ॥ २५-२७ ॥
प्रत्युदियात् सम्मुखम् आगतः ॥२७॥
॥ १०.८८.२८ ॥
मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् ।
अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिवादयामास कथयामास । तम् असुरम् । वातिना वस्तुतो विनीतत्वाभावो द्योतितो वञ्चन-प्रवृत्तत्वात् । अक्षारम् अक्ष-माला । अत्र बटुकत्वम् आदर-स्नेहयोर् उदयार्थम् । तत्र च तेजसेति दृष्ति-मात्रेणैव तद्-बद्ध्याद्य् अभिभव उक्तः । अभीत्य् अर्धकम् । तं वृकासुरम् अभिवादयामास आशिषं ब्रुवन् तम् आत्मानम् अभिवादयास स्वं नमस्कारयामास । यद् वा, अस्माकं ब्रह्म-दर्शिनां सर्व-भूतान्य् एवाभिवाद्यानि भवास्तु शकुनेः पुत्रो ज्ञानी तपस्वी मम बटोर् अभिवाद्य एवेति द्योतयामास । वतिना वास्तव-विनयाभावो दर्शितोऽत्र ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अभीत्य् अर्धकम् । तं च वृकासुरम् अभिवादयामास । आशिषं ब्रुवन् तम् आत्मानम् अभिवादयामासेत्य् अर्थः । विनीतवद् इति तत्त्वतो विनयाभावात् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अभिवादयामासेत्य् अभिवादन-मुद्रावस्थानेनाभिवादनं कारयामासेत्य् अर्थः ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभिवादयामास आशिषं ब्रुवन् स्वयं नमस्कारयामास यद् वा अभिवादयामासेति अस्माकं ब्रह्म-दर्शिनां सर्व-भूतान्य् एवाभिवाद्यानि स्वांस्तु शकुनेः पुत्रो ज्ञानी तपस्वी मम बटोर् अभिवाद्य एवेति द्योतयामास ॥२८॥
॥ १०.८८.२९ ॥
श्री-भगवान् उवाच—
शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः ।
क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : व्यक्तं निश्चितम् । किं किम् अर्थम् । आत्मा देहः सर्व-पुरुषार्थ-हेतुः । अतो मा पीडयेति ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः सर्व-पुरुषार्थ-हेतुः, अतो हेतोर् मा पीडयेति शेषः । विश्वासोत्पादनार्थं पितृनाम्ना सम्बोधयति-शाकुनेयेति । हे शाकुनेय ! शकु-निनन्दनेति पितृतः परिचिततया विश्वासनार्थं तत्-सन्तोषणार्थं च भवान् इत्य् आदरार्थम् । ननु, न विश्राम-समयो\ऽयं तत्राह पुंस इति । यस्य कस्यापि पुरुषस्यायं निज-भाग्यप्राप्तः किं पुनर् महा-पुरुषस्य तवेत्य् अर्थः । य द्वा, पुंसस्तव अयं सर्व-सगुणवान् देहः सर्वेषाम् अन्येषाम् अपि कामधुक् मनोरथ-पूरकः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बटुकः श्री-कृष्ण एवाभिप्रेतः, तस्यैव पूतना-वधाद् आवप्लुत-महा-शक्तेः, तथा सर्वथा सर्वेषां सर्व-दुःख-हरत्वाच् च । अतः श्री-शिवस्य सङ्कटान्-मोचनम् एतत् किन्नामाद्भुतम् इति भावः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शाकुनेय ! हे शकु-निनन्दनेति पितृतः परिचिततया विश्वासनार्थं सन्तोषणार्थं च भवान् इति त्वादर् अज्ञापनार्थम् । ननु, न विश्राम-समयो\ऽयं तत्राह—पुंस इति । यस्य कस्यापि पुरुषस्य अयं निज-भाग्य-प्राप्तः किं पुनर् महा-पुरुषस्य तवेत्य् अर्थः । अन्यत्-तैः । य द्वा, पुंस् तव अयं सर्व-सद्गुणवान् देहः सर्वेषाम् अन्येषाम् अपि कामधुक् मनोरथ-पूरकः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा देहः सर्व-काम-प्रपूरकः अतस् तद् अभिद्रव-श्रमेण मा पीडय ॥२९॥
॥ १०.८८.३० ॥
यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो ।
भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रायशः पुम्भिर् दृतैर् भवान् स्वार्थान् समीहते साधयितुम् इच्छति । अथवा जनः पुम्भिः सहायैः स्व-कार्याणि साधयत्य् अतो नः कथ्यताम् इति ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विरिव भाति । झटिति-गमनेनेति विभुः तत्-सम्बुद्धौ तथा । धृतैर् निजत्वेन स्वीकृतैः । अहमैवातादृश इति चेद् अर्थान्तरम् आह—अथवेति । जनः सर्वः प्राणि-जातः यतः सहायैः कार्याणि साधयति अतो हेतोः नो\ऽस्मभ्यं तव पितृ-पितामहादि-सङ्गिभ्यस्त्वया कथ्यताम् इति भावः । विश्रान्तं प्रत्य् आह—यदीति । अलं योग्यम् । युष्मद् इत्य् आदरात् । न इति तद्-विश्वासनार्थम् आत्मनो गौरवाय । विभो ! हे सर्वं कर्तुं समर्थेति । तद्-व्यवसितं सेत्स्यत्य् एवेति भावः । धृतैः वशीकृतैः । हे पुरुष-व्याघ्रेति । महा-पुरुषस्यान्य् अपुरुष-द्वारा स्वार्थ-साधनं किल योग्यम् इति भावः । टीकायां धृतैः सहायः । प्रायश इति पदत्रयम् अध्याहृतम् एव । पाठान्तरे तु धृतैरित्यस्य टीका पतिता ज्ञेया । तेन मां प्रति स्वव्य-वसितम् उच्यताम् । यथा मयापि ब्रह्मतेजोबलेनापि तत्र साहाय्यं कर्तुं शक्यं स्याद् इति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्रान्तं प्रत्य् आह—यदीति । अलं योग्यं युस्मद् इत्य् आदरात् । नः इति तद्-विश्वासनार्थम् आत्मनो गौरवाय विभो ! हे सर्वं कर्तुं समर्थेति तद्-व्यवसितं सेत्स्यत्येवेति अन्यत्-तैः । तत्र धृतैः वशीकृतर् इत्य् अर्थः । अत एव पुरुष-व्याघेति । महा-पुरुषस्यान्यपुरुष-द्वारा स्वार्थ-साधनं किल योग्यम् इति भावः । टीकायां प्रायशो धृतैः
सहायैर् इति पदत्रयम् अध्याहृतम् एव पाठान्तरे तु धृतर् इत्य् अस्य टीका पतिता ज्ञेया ॥३०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धृतैः पुम्भिः स्वसहायी-कृतैः [वाक्यं] पुरुषैः स्वार्थान् समीहते साधयति तेन मां प्रति स्व-स्व-वसितम् उच्यतां यथा मयापि ब्रह्म-तेजोबलेनापि तत्र सहाय्यं कर्तुं शक्यं स्याद् इति भावः ॥ ३०-३३ ॥
॥ १०.८८.३१ ॥
श्री-शुक उवाच—
एवं भगवता पृष्टो वचसामृत-वर्षिणा ।
गत-क्लमोऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या वचसामृतेति वाच्येव मृदुत्वं नान्तरीत्य् आह । तस्मै भगवते । अमृतम् इव वर्षितुं शीलं यस्य । तात्-पर्यतो\ऽन्यथोक्तत्वे\ऽपि स्वरूप-गुणो न हीयत इति भावः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अमृतम् इवं वर्षितुं शीलं यस्येति । तत्-पर्यतो\ऽन्यथोक्तत्वे\ऽपि स्वरूप-गुणो न हीयत इति भावः । तेन गतक्लमः श्रमापगमेन प्रीतः सन् ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३२ ॥
श्री-भगवान् उवाच—
एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि ।
यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पैशाच्यं पिशाचानाम् इव वृत्तिम् ॥ ३२-३३ ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं चेत् शिवेन त्वां प्रति वरं दत्तं यदि । तद्-वाक्यं शिवोक्तिम् । यः शिवः पैशाच्य-वृत्तित्वाद्-वक्तव्यावक्तव्यं नानुसन्धत्ते । तत्र हेतुः दक्षशापाद् इति । तत्-साहित्याद्वेत्य् आह—प्रेतेत्य् आदि । एवं चेत् महादेवेन यदि तुभ्यं वरं दत्तं चेत् । पैशाच्यम् अनवमृश्य वक्तृत्वम् ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रेत-पिशाचराड् इति पैशाच्यस्यैव गौरवं व्यक्तं वा द्योतयति ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३३ ॥
यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ ।
तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र शिवे जगत्-सर्वं गृणातीति जगद्-गुरुः । अपरिमित-वक्तरि दैत्यमोहके । दानवेन्द्रेति तद्-बुद्धिमत्ताम्, अङ्गेति निजतां च द्योतयितुं सम्बुद्धि-द्वयं तद्-व्यामोहार्थम् एव । जगद्-गुराव् इति तत्तया भवद्भिः प्रतीते इत्य् अर्थः । प्रतीयतां तद्-वाक्यस्यामिथ्यात्वं मिथ्यात्वं त्वयैव ज्ञायताम् । दानवेन्द्रेति । दानवा अपि देवानां नैसर्गिक-शत्रुत्वेन तद्-वाक्येषु श्रद्धां न कुर्वन्ति त्वं तु दानवेन्द्रः सन् कथं तत्र श्रद्धां कुरुष इति भावः ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगद्-गुराव् इति तत्त[या]था भवद्भिः प्रतीत इत्य् अर्थः । अपि एव स्व-शिरस्येव आश्विति पाठः क्वचित् प्रतीयतां तद्-वाक्यस्य अमिथ्यात्वं मद्-वाक्यस्य मिथ्यात्वं वा ज्ञायताम् ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३४ ॥
यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ ।
तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यद् यथा । वक्ता वदिष्यति ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यदीति । सर्वथा शिवस्य सत्य-वक्तृतां सूचयति । कथञ्चिच् च एनं शिवम् । दान-वर्षभ ! तद्-धनन् असामर्थ्य द्योतयति । शम्भोर् इति । तद् एतत्-पर्यन्तं सुखेन युक्तस्याप्य् अधुना सुखं न भविष्यतीति बोधनाय कथञ्चिद् अपीति तद् एकांशस्यापि विघातेनेत्य् अर्थः ।
यद्वा, कथञ्चिद् अप्य् एनं जहि इति योज्यम् । तदन्ते तत्-पश्चात् स्वरूपार्थो वान्त-शब्दः तदानीम् एवेत्य् अर्थः । क्वचित् तद् एनम् इति पाठः । न यद् इति । वधात् पश्चात् वचनाभावात् । यद् वा, योग-बलेन क्वचिद् उत्पद्यापि न वदिष्यति । हे दानव-र्षभेति सर्वं कर्तुं समर्थो\ऽसीति भावः ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शम्भोर् इति । तद् एतत्-पर्यन्तं सुखेन वर्तमानस्येति व्यञ्जना । तस्याधुना तु सुखं न भविष्यतीति बोधनाय कथञ्चिद् अपीति तद् एकांशस्यापि विघातेनेत्य् अर्थः । यद् वा, कथञ्चिद् अप्य् एनं जहीत्य् अन्वयः । तद् अन्ते तत्-पश्चाद्-यद् वा स्वरूपार्थो\ऽन्तशब्दः तदानीम् एवेत्य् अर्थः । तद् एनम् इति पाठः क्वचित् । न यदिति वधात् पश्चात् वचनाभावात् हे दानवर्षभेति तत्र त्वं शक्नोष्येवेति भावः ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यत् यथा न वक्ता क्वापि योग-बलेनोत्पाद्यापि न वदिष्यति ॥३४॥
॥ १०.८८.३५ ॥
इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः ।
भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्रैर् भ्रामकैः सु-पेशलैर् अति-रम्यैः । भिन्न-धीर् भ्रंशित-मतिः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भ्रामकैर् धमोत्पादकैः । सो\ऽसुरः । विगता स्मृतिर् योग्यायोग्यविचारो यस्य स विस्मृतः । कुमतिर् वरदात्रवहेलकत्वात् । न्यधात् स्थापितवान् । चित्रैश् चातुरी-योगतो मोहन-मन्त्र-रूपतश् च विस्माप्य भ्रामकैर् इत्य् अर्थः । विनयादिना सुपेशलैश् च तैर् भिन्ना अन्यथात्वं नीता धीर् यस्य सः । विस्मितो भिन्न-धीत्वाद् एवानुसन्धान-रहितः सन् । सर्वत्र हेतुः दुर्मतिर् इति । दुर्मतीनां न किम् अपि हिताहित-ज्ञानं भवतीत्य् अर्थः ॥ ३५-३६ ॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : चित्रैश् चातुरीयोगतो मोहन-मन्त्र-रूपतश् च विस्माप्य भ्रामकैर् इत्य् अर्थः । विनयादिना सुपेशलैश् च तैर् भिन्ना अन्यथात्वं गता धीर् यस्य सः विस्मृतः भिन्न-धीत्वाद् एवानुसन्धान-रहितः सन्नित्य् अर्थः । सर्वत्र मूलकारणं तु कुमतिर् इति ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विस्मृतः विस्मृति-युक्तः ॥ ३५-३८ ॥
॥ १०.८८.३६ ॥
अथापतद् भिन्न-शिरा वज्राहत इव क्षणात् ।
जय-शब्दो नमः-शब्दः साधु-शब्दोऽभवद् दिवि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ शिरसि हस्त-स्थापनोत्तरम् एव । अथानन्तरम् । क्षणात्-तत्-क्षणम् अतिक्रम्येत्य् अर्थः । तस्मात्-सदा भीतैर् देवैस् तन्-मरण-निर्धारणार्थम् । जय-शब्दादौ क्षण-विलम्बात् जय-शब्दो\ऽत्युल्लासस्य नम इति भक्तेः साध्व् इति विस्मयस्य व्यञ्जनार्थः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तर-क्षणम् एवासाद्य यद् वा, क्षणाद् अभवद् इति परेणान्वयः । तं क्षणम् अतिक्रम्येत्य् अर्थः । तस्मात्-सदा भीतैर् देवादिभिः तन्-मरण-निर्धारणार्थं जय-शब्दादौ क्षणं विलम्बात् जयेत्युल्लासस्य व्यञ्जकं नम इति भक्तैः साध्व् इति विस्मयस्य ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३७ ॥
मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे ।
देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सङ्कटाच्छिवे मोचिते सति । सप्तम्य् अर्थे प्रथमे । यद् वा, इत्थं पदशेषेणान्वयः कार्यः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जय-शब्दे हेतुर् मोचितो भगवतेति । यद् वा, एवं मोचित इत्य् उपसंहारः ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३८ ॥
मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः ।
अहो देव महा-देव पापोऽयं स्वेन पाप्मना ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किमु वक्तव्यं विश्वेशे त्वयि कृतागस्कः कृतापराध इति ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो देवेत्य् अर्धकम । देव जगत्पूज्य । तत्र हेतुः—हे महा-देव ! सर्व-देव-श्रेष्ठ । स्वेनैव पाप्मना न तु मयेत्य् अर्थः । हे ईशेति । तं स्वयं हन्तुं शक्तो\ऽपि केवलं निजाराधनापेक्षयोपेक्षितवान् इत्य् अर्थः ॥३८॥ अत्र विश्वनाथः
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उक्तम् इत्य् अर्धकम् । एत्य वैकुण्ठान्तर्निहत्य स्थितं तं सङ्गत्य वक्ष्यमाण-तादृशोक्तौ हेतुः भगवान् अपि पुरुषोत्तमः विनयादिभिः पुरुष-गुणैस् तेभ्यः सर्वेभ्य उत्तमः ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.८८.३९ ॥
हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः ।
क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : हत इति पूर्वान्वयि । महत्सु साधुषु । जगद्-गुरौ सर्व-पूज्ये शास्तरि वा ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो इति सार्धकम् । अहो आश्चयर्यम् । हे देव! जगत्-पूज्य ! तत्र हेतुः— महादेव! हे सर्व-श्रेष्ठेति स्वेनैव पाप्मना न तु मयेत्य् अर्थः । हे ईशेति तम् अपि त्वं स्वयम् एव हन्तुं शक्तो\ऽपि केवलं निजाराधनापेक्षयोपेक्षितवान् इत्य् अर्थः । किल्बिषम् अपराधम् ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो देवेति भो अपरिणाम-दर्शिन् ऋजु-बुद्धे ! एवं दुष्टेभ्यो वरो न देयः स्वयं यन्मरिष्यसि तद् अपि न परामृशासि त्वाम् अहम् अरक्षम् अपरस्मिन् दिने किं भविष्यतीत्य् उपालम्भो यत्नतः एतत् खलु भगवत एव महत्तत्त्वम् असाधारणम् इति दर्शितम् ॥३९॥
॥ १०.८८.४० ॥
य एवम् अव्याकृत-शक्त्य्-उदन्वतः
परस्य साक्षात् परमात्मनो हरेः ।
गिरित्र-मोक्षं कथयेच् छृणोति वा
विमुच्यते संसृतिभिस् तथारिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अव्याकृत-शक्त्य्-उदन्वतो वाङ् मनसागोचर-शक्ति-समुद्रस्य । गिरित्र-मोक्षं शिव-मोचन-रूपं चरितम् । संसृतिभिर् नाना-योनि-सञ्चारैः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चरित-कथनादिफलमाह—य इति । संसृतिभिः संसरण-हेतुभिः कामादिभिः । श्री-शिवस्य सङ्कटान्-मोचनेन साक्षात् श्री-भगवन्-माहात्म्यम् इदं नासम्भवं यतस् तस्यैतच् चरित-कथनेनापि सर्वेषां सर्व-संसारदुःखाद्-विमुक्तिर् भवतीत्य् आह—य इति । अधिकारापेक्षा निरस्ता । यः कश्चिद् इत्य् अर्थः । एवमीदृशम् । अव्याकृतानां प्रपञ्चातीतानां शक्तीनां स्वरूप-शक्ति-वृत्तीनां नदी-रूपाणाम् । समुद्रस्य सर्व-समावेशाश्रयस्य साक्षात्-परस्य निरुपाधिकतया स्वयं परमेश्वरस्य न तु शिवादिवत् सोपाधिकतया । तत्-प्रतिरूपत्वेनैव तद्-रूपस्येत्य् अर्थः । यतः परमात्मनः तेषाम् अपि मूल-स्वरूपतया सर्व-शक्ति-प्रवर्तकस्येत्य् अर्थः । अत एव हरेः तत्-तत्-सर्वाकर्षकतया तन्-नाम्न इत्य् अर्थः । एवं निष्कामस्य कथनादि-फलम् उक्त्वा सकामस्याप्य् आह—तथेति समुच्चये । कथं संसृतिभिर् विमुच्यते तदाह—षड्-वर्ग-रूपारिभिर् विशेषेण समूलतया मुच्यते ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वा-शब्दो बहुधा स्व-परानन्द-कथनात् केवल-श्रवणस्य न्यूनताभिप्रायेण । संसृतिभिर् इति बहुत्वं संसार-दुःखस्य बाहुल्यात्, तत्रापि प्रत्येकं वैविध्यात्, स विशेषेण मुच्यत इति वि-शब्देन श्री-वैकुण्ठ-लोक-प्राप्तिः सूचितैव,-तत एव सर्व-दुःख-निवृत्तेः । एवं निष्कामस्य कथनादि-फलम् उक्त्वा सकामस्याप्य् आह । तथा च अरिभिश् च विमुच्यत इति, एतच् च कामि-लोक-रोचनार्थम् । यद् वा, कथं संसृतिभिर् विमुच्यते ? तद् आह तेनाप्रयासेन प्रकारेणारिभिर् वैरि-षड्-वर्गेण विशेषतः समूलत्वादिना मुच्यत इति ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-शिवस्य सङ्कटान् मोचनेन साक्षात श्री-भगवन्-माहात्म्यम् इदं नासम्भवं यतस् तस्यैतच् चरितकथनेनापि सर्वेषां सर्व-संसारदुःखाद्-विमुक्तिर् भवतीत्य् आह—य इति । अधिकारापेक्षा निरस्ता । यः कश्चिद् इत्य् अर्थः । एवम् ईदृशम् अव्याकृतानां प्रपञ्चातीतानां शक्तीनां स्वरूप-शक्ति-वृत्तीनां नदी-रूपाणां समुद्रस्य सर्व-समावेशाश्रयस्य साक्षात्-परस्य निरुपाधिकतया स्वयं परमेश्वरस्य न तु शिवादिवत् सोपाधिकतया तत्-प्रति-रूपत्वेनैव तद्-रूपस्येत्य् अर्थः । यतः परमात्मनः तेषाम् अपि मूल-स्वरूपतया सर्व-शक्ति-प्रवर्तकस्येत्य् अर्थः । अत एव हरेः तत्-तत्-सर्वाकर्षक-शक्तितया तन्-नाम्न इत्य् अर्थः । एवं निष्कामस्य कथनादि-फलम् उक्त्वा सकामस्याप्य् आह—तथेति । समुच्चये एतच् च कामिलोक-रोचनार्थं यद् वा, कथं संसृतिभिर् विमुच्यते तद् आह—तेनाप्रयासेन प्रकारेणारिभिः षड्-वर्ग-विशेषेण समूलतया मुच्यत इति ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अव्याकृतानां प्रपञ्चातीतानां शक्तीनां स्वरूप-शक्ति-वृत्तीनां नदी-रूपाणाम् उदन्वतः समुद्रस्य ॥४०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टाशीतितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे रुद्रो-
मोक्षणं नामाष्टाशीतितमोऽध्यायः ।
॥ ८८ ॥