[१०.८७]
सप्ताशीतितमोऽध्यायः
वेद-स्तुतिः
॥ १०.८७.१ ॥
श्री-परीक्षिद् उवाच—
ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः ।
कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
श्री-नृसिंहाय नमः ॥
सप्ताशीतितमे नारायण-नारद-वादतः ।
वेदैः स्तुतिर् गुणालम्बा निर्गुणावधि वर्ण्यते1 ॥
वाग् ईशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि ।
यस्यास् ते हृदये संवित्तं नृसिंहम् अहं भजे ॥
संप्रदाय-विशुद्ध्य् अर्थं स्वीय-निर्बन्ध-यन्त्रितः2 ।
श्रुति-स्तुतिमित-व्याख्यां करिष्यामि यथा-मति ॥
श्रीमद्-भागवतं पूर्वैः सारतः सन्-निषेवितम्3 ।
मया तु तद् उपस्पृष्टम् उच्छिष्टम् उपचीयते4 ॥
पूर्वाध्यायान्ते—
एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वादिश्य सन् मार्गं पुनर् द्वारवतीम् अगात् ॥ [भा।पु। १०.८६.५९]
इत्य् अत्र सन्-मार्गं सतां स्वतः-प्रमाण-भूतानाम् अप्रामाण्य-कारण-रहितानां वेदानां5 मार्गं ब्रह्म-परत्वम् उपदिश्य भगवान् अगाद् इत्य् उक्तम् । तत्र वेदानां ब्रह्म-परत्वम् अघटमानं मन्वानः पृच्छति—ब्रह्मन्न् इति ।
तत्र तावन् मुख्या, लक्षणा, गुण-भेदेन त्रिधा शब्द-प्रवृत्तिः6 । मुख्यापि रूढि-योग-भेदेन द्विधा । रूढिश् च स्वरूपेण जात्या गुणेन वा निर्देशार्हे वस्तुनि सञ्ज्ञा-सञ्ज्ञि-सङ्केतेन7 प्रवर्तते, यथा, डित्थो8 गौः शुक्ल इति । लक्षणा च तेनैव सङ्केतेनाभिहितार्थ-सम्बन्धिनि, यथा—गङ्गाया घोष इति । गौणी चाभिहितार्थ-लक्षित-गुण-युक्ते तत्-सदृशे, यथा, सिंहो देवदत्त इति9 । यथाहुः,
^अभिधेयाविनाभूत^-प्रवृत्तिर् लक्षणेष्यते ।
लक्ष्यमाण-गुणैर् योगाद्-वृत्तेर् इष्टा तु गौणता ॥10 इति ।
योग-वृत्तिस्11 तु एतत्-त्रि-विध-वृत्ति-प्रतिपादित-पदार्थयोः प्रकृति-प्रत्ययार्थयोर् वा योगेन12। यथा पङ्कजम् औपगवः पाचक इत्य् आदि13 । तत्र तावद् ब्रह्मणि रूढि-वृत्तिर् न सम्भवतीत्य् आह—साक्षात् कथं चरन्ति इति । तत्र हेतुः—अनिर्देश्ये ।
अनिर्देश्यत्वेऽपि हेतुं वदन् गुण-वृत्तिं निराकरोति—निर्गुणे गुण-वृत्तय इति । गुणैर् वर्तमानापि निर्गुणे कथं चरन्तीत्य् अर्थः ।
निर्गुणत्वे च हेतुं वदन् लक्षणां योगं च निराकरोति—सद् असतः पर इति । कार्य-कारणाभ्यां परस्मिन्न् असङ्गे केनचिद् अपि सम्बन्धाभावान् न लक्षणा-योग-वृत्ती सम्भवत इत्य् अर्थः । एवं पदार्थत्वायोगाद् अपदार्थस्य च वाक्यार्थत्वायोगान् न श्रुति-गोचरत्वं ब्रह्मण इत्य् अभिप्रायः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : नारायण-नारदयोर् वादतः [तत्त्व-बुभुत्सोः कथा वादः, स चाष्ट-निग्रह-स्थानानाम् अधिकरणम् । तानि च न्यूनाधिकापसिद्धान्त-हेत्व् आभास-पञ्चकं चेत्य् अष्टौ । यथा—
- स्व-सिद्धान्त-सिद्धान्तितानाम् अवयवानां मध्ये यत् किञ्चिद्
एकस्यावचनं तन् न्यूनम्, यथा हेत्व् अवयवाश् चत्वारो द्वौ वेति ।
- हेतूदाहरणाधिक्यम् अधिकम्, यथा नित्यः शब्दः श्रावणत्वाच्
छब्दत्वाद् वेति ।
- एक-सिद्धान्तम् आश्रित्य कथा-प्रवृत्तौ तद्-विरुद्ध-सिद्धान्तम्
आलम्ब्योत्तर-दानम् अपसिद्धान्तः, यथा इन्द्रं द्रव्यं जगद् एक-प्रकृति-विकारत्वात्, एक-मृत्पिण्ड-प्रकृतिक-शराववद् इति ।
- साङ्ख्य-मतम् आलम्ब्य प्रयुङ्क्ते का प्रकृतिः को विकार इत्य् उत्तरम्
अपसिद्धान्तः । तन्-मतेऽसत उत्पत्तिर् नास्ति, किन्त्व् आविर्भाव-तिरोभाव-मात्रं कार्य-कारणयोर् अभेदः । कारण-रूपेण सूक्ष्मतयावस्थानं तिरोभावः, कारण-रूपेण स्थूलतयावस्थानम् आविर्भाव इति । सत्-कारण-वादि-मते प्रकृति-विकारयोर् भेदाभावाद् अनुमानम् इदं न सिद्ध्यति । असतः कार्यता-वादे त्व् अपसिद्धान्त इति ।
- हेत्व् आभासेषु बहु-वक्तव्यत्वात् तेऽत्र नोक्तास् तज्-ज्ञैस्
तेऽनुसन्धेयाः ।
तिष्ठत्व् एतत् । वादत इति तृतीयार्थे तसिः । तथा च वादेन संवादेनेत्य् उक्तम् । वाद-शब्दस्य संवाद-वाचकत्वं तूपसर्गस्य त्रिधा गतित्वाद् वाद एव संवाद इति । इह समुपसर्गो धातु-स्थम् एव संवादार्थं द्योतयति ।
धात्व्-अर्थं बाधते कश्चित् कश्चित् तम् अनुवर्तते ।
विशिनष्टि तम् एवार्थम् उपसर्ग-गतिस् त्रिधा ॥
इति वाक्यात् वाद-संवाद-पदयोर् एकार्थतैव । अत एव तत्त्वस्य यथात्मस्य बुभुत्सोर् बुद्धुम् इच्छोः कथान्योऽन्य-प्रश्नोत्तरादि-कथनं वादः संवाद इत्य् अर्थः ।
संवादेन, गुणान् कल्याण-गुणान् आलम्बते विषयीकरोति या सा गुणालम्बा । निर्गुणोऽवधिर् यस्मिंस् तद् यथा भवति, तथा वर्ण्यते ।
स्वेष्ट-देवं स्मरति—वाग् ईशेति । वाग् ईशा सरस्वती । संवित्-सम्यग्-ज्ञानम् ।
सम्प्रदायो भक्ति-रस-विघातः । स्वीय-निर्बन्धोऽहं सर्वं भागवतं व्याख्यास्य इति हठस् तेन यन्त्रितो बद्धः ।
पूर्वैर् हनुमच्-छङ्कर-चित्-सुखादिभिः । सारतः सारेण याथातथ्येन । संनिवेषितं व्याख्यातम् । तद् उपस्पृष्टम् । त्यक्तं सुगमत्वान् न व्याख्यातम् । उच्छिष्टम् अवशिष्टम् उपचीयत एकत्र सम्पाद्यते ।
अप्रामाण्ये कारण-रहितानाम् इति । पुरुष-वाक्यानाम् अप्रामाण्यं भ्रम-प्रमाद-विप्रलिप्सा-करणापाटव-रूप-दोष-चतुष्टयेन पुरुष-बुद्धेर् दूषितत्वात् । भ्रमः संशयः । प्रमादोऽनवधानता । विप्रलिप्सा लोभाधिक्यम् । करणापाटवं रोगादिनेन्द्रियाणां स्व-विषय-ग्रहणे सामर्थ्याभावः । वेदस्य त्व् अपौरुषेयं वाक्यं वेद इति लक्षितत्वेन पौरुषेयत्वाभावाद् अप्रामाण्ये कारणाभाव इत्य् अर्थः ।
वेदः प्रमाणम् इत्य् अत्र किं प्रमाणम् इत्य् अत आह—स्वतः प्रमाण-भूतानाम् इति । वेद वेद एव प्रमाणम् अन्यथानवस्था स्याद् इति भावः । ततर भगवद् उपदेश-वाक्ये—वेदा ब्रह्मात्म-विषयास् त्रिकाण्ड-विषया इमे इति श्री-मुखोक्ति-रूपे ब्रह्म-परत्वं केवलं ब्रह्मैव प्रतिपादयन्ति । वेदो नान्यद् इत्य् एवं-भूतत्वम् अघटमानम् असम्भवम् ।
किं चात्रान्यद् अपि प्रश्न-बीजं ध्येयम्—पूर्वाध्याये सर्व-वेद-मयो विप्रो सर्व-वेद-मयो ह्य् अहम् [भा।पु। १०.८६.५४] इति स्वस्य स्वयम् एव भगवता वेद-प्रमेयत्वम् उक्तम् । ब्रह्मरातेनापि तस्मिन् श्री-कृष्णाख्ये भगवति पर-ब्रह्मत्वं तत्र तत्रावधारितम् । तद् यथा—गूढं परं ब्रह्म मनुष्य-लिङ्गं [भा।पु। ७.१०.४८] इति । परं ब्रह्म नराकृति [वि।पु। ३.९.२] इति, तद् अमितं ब्रह्माद्वयं शिष्यते [भा।पु। १०.१४.१८] इति । तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं ब्रह्माद्वयं [भा।पु। १०.१३.६१] इति । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [भा।पु। १०.१४.३२] इत्य् आदिषु । अतस् तत्रैव वेद-प्रमेयत्वं सन्दिह्य पृच्छति—ब्रह्मन् इति । ब्रह्म-विद् ब्रह्मैव इति श्रुतेस् त्वम् अपि साक्षाद् ब्रह्मैव, वेद-रूप एवेत्य् उत्तर-कथने सामर्थ्य-द्योतनं सम्बुद्ध्य् अभिप्रायः । तत्र तावत्-सकल-वेदादि-शास्त्रे मुख्याद्य् अष्ट-शब्द-वृत्तयः सन्ति । सञ्ज्ञा शब्दः, सञ्ची चार्थ-सङ्केतः शक्तिः । सा च अस्मच्-छब्दाद् अयम् अर्थो बोद्धव्य इतीश्वरेच्छातो भवति । शक्तेस् तु शब्द-शब्दार्थोभय-निष्ठत्वात् सञ्ज्ञा-सञ्ज्ञि-सङ्केतित्वम् ।
ततश् च स्वरूपेणारूढस्योदाहरणम्—डित्थ इति । छिन्न-वृक्षस्य मूल-भागो डित्थ इत्य् उच्यते । डित्थ-शब्दः सञ्ज्ञा, तद्-वाच्यं छिन्न-वृक्षस्य सञ्ज्ञी । सङ्केतेनायम् एव डित्थ इति रूढ्या प्रतीयते । समुदाय-शक्तिः रूढिः । न त्व् अत्रावयव-कल्पनयार्थ-प्रतीतिर् इति । एवं डवित्थोऽपि ज्ञेयः । वल्मीक-कीट-समुद्धृत-बृहन्-मृत्-पिण्डो डवित्थः । सुपद्म-व्याकरणे तु—डित्थः काष्ठ-मयो हस्ती डवित्थस् तन्-मयो मृगः इत्य् उक्तम् । कलाप-टीकायां तु—
श्याम-रूपो युवा विद्वान् सुस्वरः प्रिय-दर्शनः ।
सर्व-शास्त्रार्थ-वेत्ता च डित्थ इत्य् अभिधीयते ॥ इत्य् उक्तम् ।
तन्-मते त्व् इमौ शब्दौ जाति-रूढ्य् उदाहरणत्वेन ज्ञेयौ । जाति-रूढस्योदाहरणं गौर् इति। जातिर् लक्षणं च—नित्यम् एकम् अनेक-समवेतं सामान्यम् । तच् च परापर-परापर-भेदेन त्रिधा । सामान्यान्तर-व्यापकम् अपरम् परिमाण-भेदेन भिन्नेषु बाल्य-कौमारादि-युक्त-शरीरेषु देवदत्तत्वादि । कस्यचित् सामान्यस्य व्यापकं कस्यचित् सामान्यस्य व्याप्यं चान्त्यं द्रव्यत्वादि । यथा—पृथिवीत्वादि घटत्वादेर् व्यापकं सत्ता-व्याप्यं च तद् इति । तथा च—गो-शब्दो हि गोत्व-जाति-विशिष्ट-पिण्डस्य वाचकः । सास्नवत्त्वं गोत्वम् । एवं महिषादिर् अपि ।
गुण-रूढ्यस्योदाहरणं—शुक्ल इति । शुक्ल-शब्दस् तु शुक्ल-गुण-वाचकः, तथा रक्त-पीतादिः । रूढि-वृत्तिम् उक्त्वा लक्षणावृत्तिम् आह—लक्षणा चेति । तेनैव सञ्ज्ञा-सञ्ज्ञित्-सङ्केतेनाभिहितो यो गङ्गादि-रूढोऽर्थः प्रवाहस् तत्-सम्बन्धिनि तीरादौ । मुख्यार्थ-बाधे गौणार्थ-कल्पनं लक्षणा । तथा च—गङ्गायां घोषो वसतीत्य् उक्ते गङ्गा-शब्देन लक्षणया तीरम् उच्यते, गङ्गा-तीरे घोषो वसतीत्य् अर्थः । घोष आभीर-पल्ली स्यात् इत्य् अमरः । तथा वटेषु गावो दुह्यन्ते इत्य् आदिकं ज्ञेयम् । गुण-वृत्तिम् आह—गौणी चेति । अभिहितो वाच्योऽर्थः । सिंहादि-शब्दस्य सिंहादि-रूपः पिण्डः । तत्र लक्षिता ये विक्रमादि-गुणास् तद्-युते देवदत्ते तत्-सदृशे तद्-गुण-योगात् । अयं देवदत्तः सिंहो गुण-योगाद् इति । एवम् अयं देवोऽयं राक्षस इत्य् आदिकं ज्ञेयम् । लक्षणा-गौणी-वृत्त्योर् लक्षणं वृत्ति-कार-भट्ट-वाक्येनाह—यथाहुर् इति ।
अभिधेयाविना-भूत-प्रवृत्तिर् लक्षणोच्यते ।
लक्ष्यमाण-गुणैर् योगाद् वृत्तेर् इष्टात् तु गौणता ॥
अभिधेयेन मुख्यया वृत्त्या गङ्गादि-शब्द-वाच्येनार्थेन गङ्गादि-स्वरूपेणाविनाभूतेन सार्धं शब्द-सम्बन्धिनि तीरादौ गङ्गादि-शब्दस्य या प्रवृत्तिर् व्यापारः सा लक्षणेत्य् अर्थः । यद् वा, अभिधेयस्य वाच्यार्थस्य यो\ऽविनाभूततीरादौ सम्बन्धस् तस्य प्रवृत्ति-लक्षणेति पूर्वार्धार्थः । परार्धार्थम् आह—लक्ष्यमाणगुणैः अभिधेये सिंहादि-रूपे ये गुणा विक्रम-प्रसह्य-कारित्वादयो लक्ष्यमाणास् तैर् योगात्-सम्बन्धात्-सादृश्याद्-देवदतौ या सिंहादि-शब्दस्य प्रवृत्तिस् तस्या गौणतेष्टेति । रूढि-वृत्तिम् उक्त्वा योग-रूढिम् आह—योग-वृत्तिस् त्व् इति । रूढिर् लक्षणा गौणी चेति वृत्ति-त्रयम् । एतत्-त्रिविध-वृत्ति-प्रतिपादित-पद-पदार्थयोः प्रकृति-प्रत्यय-योगेन योग-वृत्तिर् भवतीत्य् अर्थः । उदाहरणं पङ्कजादि योग-रूढेर् उदाहरणम् । पङ्कजम् इति । पङ्क-शब्दोपपद-जन-धातुः प्रकृतिः, प्रत्ययः जनेर् डः पङ्काज्-जायत इति योग-रूढि-वृत्तिः प्रतिपादित-पदार्थत्वम् ।
अवयव-समुदायोभय-शक्तिकम् एक-जातीयार्थ-प्रतिपादकं योग-रूढम् । यथा—पङ्कजम् अवयव-शक्त्या पङ्कजत्वेन रूपेण कमलम् एव बोधयति समुदाय-शक्त्या च कमलत्वेन रूपेणात एव समुदाय-शक्तिर् आवश्यकी । पङ्कजम् आनयेत्य् उक्तौ शैवालादेर् अप्रतिपत्तेः । किन्तु पद्म एव रूढित्वम् । तथा मण्डप इत्य् उक्ते बहिर् मन्दिरे रूढिः न तु मण्डं पिबतीति यः स मण्डपः । मण्ड ओदनाद्य् अग्रनिः सृतो रसः सर्व-रसाग्रे मण्डम-स्त्रियाम् इत्य् अमरः मण्डपो\ऽस्त्री जनाश्रयः इति च । औपगवः उप समीपे गावो यस्य सः उपगुस् तस्यापत्यम् औपगवः । उपगु-शब्दस् तावल्-लक्षणया प्रवृत्तो बहुव्रीहेस् तथैव प्रतीतेः । बहुव्रीहौ तार्किक-लक्षणैव स्वीकृत । यथा चित्र-गुर् इत्य् अत्र गोपदं चित्र-गोस्वामि-लक्षकं चित्र-पदं तात्पर्य-ग्राहकम्, तथात्राप्य् उपगुर् इह गो-पदं समीप-गोस्वामि-लक्षकम् उपपदं तात्पर्य-ग्राहकम् इति ध्येयम् । उपगोः प्रकृतेः तद्धित-प्रत्ययो\ऽण् स च गोत्रापत्ये । गोत्रं च चरणैः सह इति भाष्योक्त-जाति-लक्षणस्य तत्र सत्त्वाज्-जाति-रूढि-वृत्ति-प्रतिपादित-पदार्थत्वम् । यद् वा, उपगु-पदं जातौ लाक्षणिकम् । पाचक इत्य् अत्र प्रकृतिः पच-धातुः कृत्-प्रत्ययो ण्वुल् पचतीति पाचकः, स च पचनाद् अन्यत्रापि पाचक इत्य् उच्यते इति पाचकत्व-गुण-योगात् । गुण-वृत्ति-प्रतिपादित-पदार्थत्वम् आदि-पदेनान्यद् अपि यथा-यथम् ऊह्यम् । एवं चाष्टधा शब्द-प्रवृत्तिर् उक्ता । सा यथा—मुख्याया रूढेर् उदाहरणं स्वरूपेण ङित्थः जात्या गोर्गुणेन शुक्ल इति । लक्षणाया उदाहरणं गङ्गायां घोष इति । गौण्या उदाहरणं सिंहो देव-दत्त इति । मुख्याया योग-वृत्तेर् उदाहरणं रूढ्या पङ्कजम्, जाति-लक्षणया औपगवः । गुणेन पाचक इति । अथैतासां वृत्तीनां ब्रह्मण्य् अभावम् आह—तत्रेति ।
तत्र तासां मध्ये तावद् अधुना चरन्ति गतार्था भवन्तीत्य् अर्थः । तत्र रूढ्य् अभावे गुणैर् मायामयैर् वस्तमानास् तत्-प्रतिपादन-पराः । इत्य् अर्थ वर्थ इति-शब्द-प्रवृत्तिर् मायामये भवति न तु मायातीत इति भावः । इत्य् अर्थ इति-लक्षणायोग-वृत्त्योर् उभयोर् अपि शक्य-सम्बन्ध-रूप प्रकृति-प्रत्यय-सम्बन्ध-रूप-सङ्गा-पर-पर्याय-योग-सम्बन्ध-शब्द-घटित-त्वाद् असङ्गे तयोः प्रवृत्तिर् न सम्पद्यत इति भावः । तथैवाह—केनचिद् इति । लक्षणायाः शक्य-सम्बन्ध-विषयत्वात् । योग-वृत्तेर् अपि प्रकृति-प्रत्ययार्थ-योग-विषयत्वान् न ते वृत्ती असङ्गे ब्रह्मणि प्रवर्तेते इति भावः । एवम् उक्त-विधया पदार्थत्वायोगाद्-ब्रह्म न कस्यापि पदार्थो\ऽतो\ऽपदार्थं ब्रह्म तस्यापदार्थस्य ब्रह्मणो वाक्यार्थत्वं सुतरां न भवति । पदार्थ-ज्ञाने पद-ज्ञानम् इव वाक्यार्थ-ज्ञाने पदार्थ-ज्ञानस्यैव कारणत्वात् । श्रुति-गोचरत्वं श्रुति-प्रतिपाद्यत्वम् । इत्य् अभिप्राय इति-श्रुतिर् हि पद-कदम्ब-वाक्य-रूपास्ति ब्रह्मणश् च तद् अर्थत्वायोगान् न तद्-विषयतेति तात्पर्यम् ॥
श्रीधरानुयायिनी : पूर्वाध्यायान्ते वेदानां ब्रह्म-परत्वम् उपदिश्य भगवान् अगाद् इत्य् उक्तं, तच् चाघटमानं मत्वा राजा पृच्छति-हे ब्रह्मन्-ब्रह्मणि श्रुतयः कथं चरन्तीति । ब्रह्मणो रूपादि-रहितत्वेन तत्र प्रमाणान्तरा-प्रसक्त्या श्रुत्यैव तत्-सिद्धिं मन्यसे इति ब्रह्म-विदर्थकेन ब्रह्मन्न् इति सम्बोधनेन द्योत्यते तन् न सङ्गच्छते । तथा हि—शक्तिर् लक्षणा गौणी चेति त्रिधा शब्द-वृत्तिः । शक्तिर् अपि रूढि-योग-भेदेन द्विधा । तत्र प्रथमं रूढिं निराकरोति-साक्षाद् इति । ब्रह्मणि साक्षात्-कथं चरन्तीत्य् अन्वयः । तत्र हेतुम् आह—अनिर्देश्य इति । निर्देष्टुम् अनर्ह इत्य् अर्थः । रूढिर् हि स्वरूपेण, जात्या, गुणेन वा निर्देशार्ह एव । वस्तुनि सञ्ज्ञा-सञ्ज्ञि-सङ्केतेन प्रवर्तते, यथा—डित्थो गौः शुक्ल इति । अत्र क्रमेण छिन्न-वृक्ष-मूल-भागात्मक-स्वरूपेण, गोत्व-जात्या, श्वेत-रूपेण च डित्थादि-शब्द-प्रवृत्तिः । ब्रह्मणि चाकार-जात्-इगुणाभावान् न रूढ्या वेदानां प्रवृत्तिः । अनिर्देश्ये\ऽपि हेतुं वदन् गौणी निराकरोति-निर्गुण इति । निर्धर्मक इत्य् अर्थः । यथा श्रुतार्थे तु निर्गुणानाम् अपि गुण-कर्मादीनां जात्य् आदिना निर्देश-प्रसिद्ध्या निर्गुणत्वस्यानिर्देश्यत्व-साधकत्वानुपपत्तिः स्यात् । वाच्यार्थ-वृत्ति-गुण-सदृश-गुणात्मक-धर्माधार एव गौणी वृत्तिः ।
यथा—सिंहो देव-दत्त इत्य् अत्र वाच्यार्थे सिंहे ये क्रौर्यादयो गुणास् तत् इत्यत्र सदृश इत्यत्र क्रौर्याधारो देव-दत्तः । ब्रह्मणि च कस्यापि धर्मस्यासत्त्वान् न गौणीत्याशयः । निर्गुणत्वे\ऽपि हेतुं वदन् लक्षणां योगं च निराकरोति—सद् असतः पर इति ।
कार्य-कारणाभ्यां परस्मिन्न् असङ्ग अत्य् अर्थः । शक्य-सम्बन्धो लक्षणा, यथा—गङ्गायां घोष इति । अत्र गङ्गा-पद-शक्यस्य प्रवाहस्य सम्बन्धिनि तीरे गङ्गा-पदस्य लक्षणा । ब्रह्मणश् च केनापि सम्बन्धाभावान् न लक्षणा । अत एव न योगे\ऽपि रूढि-लक्षणागौणीनां मध्ये कयाप्य् एकया वृत्त्या प्रति-पादितयोः पदार्थयोः प्रकृति-प्रत्ययार्थयोर् वा योगेन योग-वृत्तिः । यथा—पङ्कजम् इत्य् अत्र पदार्थयोर् योगेन योगः रूढ्या पङ्केति जेतिपदाभ्यां प्रतिपादितयोः कर्दम-जनि-पदार्थयोः कर्दमापादानक-जनि-कर्तृत्व-रूपेण योगात् पङ्कज-पदं कमले यौगिकम् । एवं पाचके पचि-धातोः कृत्-प्रत्ययो ण्वुल् । तथा चात्र पाक-कर्तृकत्व-रूपेण प्रकृति-प्रत्ययार्थयोर् योगेन यौगिकत्वम्, तच् चासङ्गत्वाद् एव ब्रह्मणि न सङ्गच्छते ।
ननु, वैदिक-शब्दत्वाद्-धर्मादि-सम्बन्ध-रहिते\ऽपि शक्त्यतिशयेन श्रुतीनां प्रवृत्तिः स्याद् इत्य् आशङ्क्य् आह—गुण-वृत्तय इति । गुणेषु धर्मेषु निमित्त-भूतेषु सस्त्वेव वृत्तिः शक्ति-लक्षणाद्या यासां ता गुण-वृत्तय इत्य् अर्थः । लोके वेदे च शब्दार्थयोर् ऐक्येन लौकिक-शब्दवद् एव वैदिक-शब्दस्यापि धर्म-सम्बन्धिन्येव वस्तुनि प्रवृत्ति-रुचिता । लोके वेदे च शब्दार्थयोर् भेदे तु शक्ति-महा—सम्भवेन वेदो मूक एव स्याद् इत्य् उभयथापि श्रुतिभिर् निर्धर्मक-ब्रह्मणः प्रतिपादनम् अशक्यम् एव । तथा च केन प्रमाणेन ब्रह्मणः सिद्धिर् इति राज्ञः प्रश्नः ।
पूर्वाध्यायान्ते सन्-मार्गमादिश्य भगवान् अगाद् इत्य् उक्तम् । तत्र सतां भक्तानां मार्गो हि भक्ति-योगो भगवद्-विषयको\ऽवगम्यत एव । एवं सतां ज्ञानिनां ज्ञान-योगो\ऽपि ब्रह्म-विषयक एव ज्ञातव्यः । किन्तु ब्रह्मणः श्रुति-प्रतिपादितत्वम् एतावन् न बुध्यत इत्य् अतः पृच्छति-ब्रह्मन्न् इति । ब्रह्मणि श्रुतयः कथं साक्षात् अव्यवधानेन अभिधया वृत्त्या चरन्ति । यतः अनिर्देश्ये निर्देष्टुम् अशक्ये जाति-द्रव्य-गुण-क्रियासु मध्ये ब्रह्म किम् अपि न भवतीति तस्यानिर्देश्यत्वम् । तथा हि निर्गुणे गुणेभ्यः परस्मिन् सद् असतः परे सत् पृथिव्यादि द्रव्यम् असत् अनिष्पन्न-स्वभावं वस्तु क्रिया ताभ्यां परस्मिन् तथा तत्-तद् आश्रितत्वाज्-जातेर् अपि परस्मिन् । यद् वा, सद्-द्रव्यम् असत् अद्रव्यं जातिः क्रिया च ततः परस्मिन् गुण-वृत्तयः गुणैः प्रवृत्ति-निमित्तैः जात्य् आदिभिर् वर्तमानाः श्रुतयो निर्जात्य् आदिके ब्रह्मणि कथं चरन्ति ॥
नीलकण्ठी : ॐ श्री-गणेशाय नमः ॥
ॐ नमो ब्रह्मादिभ्यो ब्रह्म-विद्या-सम्प्रदाय-कर्तृभ्यो वंश-ऋषिभ्यो नमो गुरुभ्यः ।
श्रीमद्-गोपालम् आनम्य श्रीधरोदितया दिशा ।
वेद-स्तुतिं विवृणुते नीलकण्ठो यथा-मति ॥
सर्वस्मिन् वाङ्मये सारं श्रीमद्-भागवतं मतम् ।
तत्राप्य् एकादश-स्कन्धस् तस्य सूत्रं श्रुति-स्तुतिः ॥
पञ्चमान्ते यथा गीता-षष्ठाध्यायार्थ-सूत्रणम् ।
स्पर्शान् कृत्वा बहिर् बाह्यान् [५.२७-२८] इत्य् आदि-श्लोक-युग्मतः ॥
दशमान्ते तथैवैकादश-स्कन्धार्थ-सूत्रणम् ।
श्रीमद्-भागवते चक्रे वेद-स्तुत्या महा-मुनिः ॥
[अत्र नर्कुटकैर्]{।मर्क्} अष्टाविंशत्या यद् उदीरितम् ।
यद् एवान्यत्र विज्ञेयं यन् नेहास्ति न तत् क्वचित् ॥
तत्र तु प्रथमे श्लोके कृत्स्न-शास्त्रार्थ-सूत्रणम् ।
अध्यारोपापवादाभ्यां द्वितीये ब्रह्म-लक्षणम् ॥
कर्मन्यासो विविदिषोर् विदुषश् च तृतीयके ।
चतुर्थे बन्ध-मूलं च सनाशोपायमीर्यते ॥
समष्ट्य् उपास्तेर् ब्रह्माप्तिशेषत्वं पञ्चमे स्थितम् ।
मूर्ति-ध्यान-पथेनैव षष्ठे ब्रह्माप्तिरीर्यते ॥
स्कर्मणार्चयेद्-विष्णुं मुमुक्षुर् इति सप्तमे ।
अवतार-कथां विष्णोः शृणुयाद् इति चाष्टमे ॥
अभक्त-निन्दा नवमे दशमे तु विमुक्तये ।
कामाद्-द्वेषाद्-भयाद्वापि ध्याता मूर् तिहर् एर्भवेत् ॥
अतर्कमान्ध्यजं चित्त-मात्रं जगद् इति त्रिभिः ।
ज्ञानेनाधिकृतः शुद्ध-ब्रह्मोपास्त्यापि मुक्तये ॥
इन्द्रियैस् तर्प्यते यः स सर्व-शक्ति-भृद् इत्य् अपि ।
उक्तं पञ्च-दशे सो\ऽयं सर्व-स्रष्टेति षोडशे ॥
यं बहुत्वं प्रधानस्य हेतुत्वं च द्वयोर् हतम् ।
ततो द्वयोर् मुमुक्षूणां शरणं शिव-सद्-गुरू ॥
वैराग्यम् एक-विंशे च द्वा-विंशे\ऽभ्यास ईर्यते ।
श्रुतार्थ-मननं द्वाभ्यां ततः परम् उदीरितम् ॥
बन्ध-मोक्ष-व्यवस्था च पञ्च-विंशे समीरिता ।
निःशेष-काम-विलयः षड्-विंशे मोक्ष-लक्षणम् ॥
जीवन्-मुक्तिः सप्त-विंशे\ऽष्टाविंशे तु गिरां गतिः ।
अतन्-निरसनेनैव निर्-गुणात्मनि वर्णिता ॥
वेदान्तक्षीरधेः सारं श्रुति-गीति-सुधां बुधाः ।
पायंपायं प्रतृप्यन्तु श्रीमद्-व्यास-प्रसादतः ॥
श्रुति-शिरो\ऽम्बुधिर् गहनः क्व वा जडतरा मम बुद्धिर् इयं क्व वा ।
तद् अपि तं गुरु-लक्ष्मण-पादुकातर-णिसंश्रयणेन तितीर्षति ॥
पूर्वाध्यायान्ते आदिश्य सन्-मार्गम् इति ब्रह्म-प्राप्ति-मार्गम् उपदिश्येत्य् उक्तम्, तद् एतद्-वाचाम् अगोचरस्य ब्रह्मण उपदेश्यत्व माक्षिपन्-परीक्षिद् उवाच—ब्रह्मन्न् इत्य् आदि । अनिर्देश्यत्वे निर्गुणत्वं हेतुः । निर्गुणत्वे सद् असतः परत्वं हेतुः । सद् असती हि कार्य-कारणे त्रि-गुणमायारूपे । तत्रैव खलु शब्दानां वृत्तिः सम्भवति, न तु मायातीते ब्रह्मणि ॥१॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) :
श्री-राधा-कान्त-मधुर-प्रेमोद्भूत्यै-श्रुति-स्तुतिम् ।
व्याख्याति बहुयत्नेन प्रबोधस् तज्-जुषां मुदे ॥
एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् ॥ [भा। १०.८६.५६] इत्य् उक्तम् ।
तत्र सन्-मार्गं निज-स्वरूपं श्री-वृन्दावन-विहारि-श्री-राधादि-पूर्ण-विशुद्धोज्ज्वल-रति-रूप-व्रज-सुन्दरी-वृन्द-वृन्दारिकाभिर् अमन्द-कन्दर्प-लीला-रसैक-मग्नं परम-महा-चमत्कारि-रूप-गुणादि-माधुरी-निधानं समादिश्येत्य् उक्तम् । वेदानां च परम-तात्पर्यं तत्रैवेति च निवेदितम् । सद्भिर् भक्तैर् मर्ग्यते अन्विष्यते, परं न तु प्राप्यते सद्-विशुद्ध-ब्रह्म तद् एव मार्गो यस्य वेदान्त-श्रवणादिना हि ब्रह्मानुभूय परम-भक्त्या, तत्रैव तद्-घन-रूपम् अनुसन्दधद्भिर् एव प्राप्यते, न तु प्राकृत-बुद्धिभिः सन् उत्कृष्टः परम-प्रगाढ-शुद्ध-रत्य्पाख्यः स च नित्य एव धी-वृत्ताव् अभिव्यक्तः सन् मार्गः प्रापको यस्येति वा सतां स्वतः-प्रमाणानां वेदानां मार्गं कृष्णाकार-ब्रह्म-परत्वम् सद्भिर् वेदैर् वा मृग्यते तपोभिः प्राप्तुम्—बृहद्-वामन-पुराणे श्रुतीनां कृष्ण-प्राप्त्य् अर्थं तप उक्तेः, व्रज-स्त्रीजन-सम्भूत-श्रुतिभ्यो ब्रह्म-सङ्गता [गो।ता २.५६] इति च तापनीयोक्तेः । व्रज-स्त्री-जन-रूपेण सम्भूता याः श्रुतयः, ता ब्रह्मणा श्री-कृष्णाख्येन सङ्गता इति तत्रार्थः । तत्र पृच्छति राजा ब्रह्मन्न् इति । अनिर्देश्य-शक्ति-लक्षणाद्य-विषये शुद्ध-ब्रह्मणि कथं श्रुतयश् चरन्ति कथम्-भूते सद् असतः परे सद्-ब्रह्म तद्-भिन्न च सर्वं स्वरूपान्तरं कृष्णात् असत् प्राकृतं सर्वम् तत् उत्कृष्टे चरन्ति दर्शन-स्पर्शन-विहारादि-चेष्टां कुर्वन्ति श्रुतयः भावेन गोपी-रूपं प्राप्ताः श्रुतयः शृण्वन्ति राधा-कृष्णयोर् नव-निकुञ्जोदरे विहरतोः कन्दर्प-नर्मालापान् यास्तं प्रिय-सख्यः तासां कृष्ण-विषये वृत्त्य् असम्भवम् आह—गुण-वृत्तय इति गुण-कार्यैर् देहेन्द्रियादिभिर् वृत्ति-यासाम् कृष्णस् तु निर्गुणः शुद्ध-सच्-चिद् आनन्दैक-रस-घन-विग्रहस् तेन सह जड-संसर्गाभावान् न च मायामयेन कृष्ण-स्वरूप-विशेषण सम्बन्ध इति वाच्यम् । यतः साक्षाद्-वर्तन्ते ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :
अहो पश्यन्तु धार्ष्ट्यं मे साहसं च सुबुद्धयः ।
प्रवर्तेयं महत्-कृत्ये व्याख्यानेऽपि श्रुति-स्तुतेः ॥
स्वस्यायोग्येऽप्य् अशक्येऽर्थे कः प्रवर्तेत बुद्धिमान् ।
महत्तम-कृपामन्तं विना मां सुदुराग्रहम् ॥
वन्दे तं परमात्मानम् आश् चर्य-चरितं प्रभुम् ।
बलात् प्रवर्तयेद् यो मां नीचम् उच् च-प्रयोजने ॥
श्री-धर-स्वामि-पादांस् तान् प्रपद्ये दीन-वत्सलान् ।
निजोच्छिष्ट-प्रसादेन ये पुष्णन्त्य् आश्रितं जनम् ॥
वन्दे चैतन्य-देवं तं तत्-तद्-व्याख्या-विशेषतः ।
योऽस्फोरयन् मे श्लोकार्थान् श्री-धर-स्वामि-दीपितान् ॥
श्रीमद्-भागवतं नौमि यस्यैकस्य प्रभावतः ।
वैष्णवानां कृपां विन्दन् मूर्खोऽपि स्याद् विशारदः ॥
नमामीमं हरेर् दास-वर्यं गोवर्धनं गिरिम् ।
यद् आश्रय-बलाद् आशां दुर्लभार्थेऽप्य् अहं दधे ॥
विष्णुना सर्वैश्वर्य-प्रकटनेन विश्व-व्यापकेन श्री-भगवता रातो जीवयित्वा श्री-युधिष्ठिरादिभ्यो दत्तः, किं वा आदत्तः स्वीकृत इति तस्य माहात्म्य-भरः सूचितः । अत उवाचेति तस्य तादृश-प्रश्नो युक्त एवेति भावः । सन्-मार्गम् आदिश्य स्वस्मिन् स्वभक्तौ ब्रह्मणि चामूर्ते स्व-स्वरूपे वेदानां प्रवृत्ति-प्रकार-व्याख्ययोपदिश्येत्य् उक्तम् । तत्र श्री-भगवति तद्-भक्तौ च तत्-तन्-माहात्म्य-वर्णनादिना वेदानां प्रवृत्तिं सङ्गतां ब्रह्मणासङ्गतां मन्यमानः पृच्छति—ब्रह्मन्न् इति । वेद-स्वरूपत्वात् त्वं तद् वेत्स्य् एवेति भावः । अनिर्देश्ये स्वरूप-क्रिया-जाति-गुणैर् निर्देष्टुम् अशक्ये, निर्गुणे गुणोऽग्न्य् आदीनाम् उष्णतादिवत् सहज-धर्मस् तेन रहिते, गुणेषु तत्-तत्-स्वभाव-क्रिया-जात्य् आदिषु वृत्तिर् यासां ताः । यद् वा, निर्गुणे त्रिगुणातीते गुण-वृत्तयो इत्य् अर्थः । तथा च गीतासु—त्रैगुण्य-विषया वेदाः [गीता २.४५] इति ।
अत एव सद् असतः परे स्थूल-सूक्ष्म-व्यतिरिक्ते, श्रुतय उपनिषल्-लक्षणाः, कथं चरन्ति वर्तन्ते ? साक्षाद् इति तात्पर्य-वृत्तिर् अपि निरस्तैव, तत्-प्रकारं वदेति शेषः । तत्रायम् अभिप्रायः—जीवानां मोक्षार्थं प्रभुर् बुद्ध्य् आदीन् असृजत्, मोक्षस् तु ज्ञानेनैव । ज्ञानं च महा—वाक्याद्य् अर्थावधारणात् । तच् च प्रकारान्तरेणाघटमानं जहद् अजहत्-स्वार्थ-लक्षणयैव स्याद् इति महा—वाक्यादि-श्रुतीनां ब्रह्मणि वृत्तिः सम्भवेद् इत्य् उत्तर्म् उक्तं ज्ञेयम् ।
अथवा सतां वेदानां मार्गं स्वस्मिन् कृष्णाख्ये पर-ब्रह्मणि साक्षात् प्रवृत्ति-प्रकारम् आदिश्य श्री-भगवान् द्वारवतीम् अगाद् इत्य् उक्तम् । तत्र राजा बुभुत्सुः पृच्छति—ब्रह्मन्न् इति। ब्रह्मणि पर-ब्रह्मणि श्री-कृष्णे, श्री-गोपाल-तापिन्यादि-श्रुतिषु श्री-कृष्णस्य पर-ब्रह्मत्वं प्रसिद्धम् एव । तथा—यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं [भा।पु। १०.१४.३२] इत्य् अत्रैव विरिञ्चिनोक्तम् । ब्रह्मत्वाद् एवानिर्देश्ये शब्दागोचरे शब्द-रूपाः श्रुतयः कथं चरन्ति ? तथा निर्गुणे गुणानां सत्त्व-रजस्-तमसां सम्बन्ध-रहिते, तथा तथैव वक्ष्यते—
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा।पु। १०.८८.५] इति ।
ताः कथं भूताः ? गुण-वृत्तयो गुणेषु प्रकृति-गुणेषु सत्त्वादिषु तत्-कार्येषु च वृत्तिर् यासां ताः, न तु, गुणात्मनस् तेऽपि गुणान् विमातुं [भा।पु। १०.१४.७] इत्य् आदि-वचनैः कृष्णस्य सगुणत्वम् एव बोध्यते । कथम् असौ निर्गुण इति चेन् न, सर्वेषाम् एव श्री-कृष्ण-गुणानां चिच्-छक्ति-विलासत्वेन श्री-भगवत्-स्वरूप एव पर्यवसानान् निर्गुणत्वम् एव, तथा च प्रथम-स्कन्धे श्री-धरण्य् उक्तौ—एते चान्ये च भगवन् नित्या यत्र महा—गुणाः [भा।पु। १.१६.३१] इति । गुणा अप्राकृता एव नित्याः स्युः । तथा चैकादशे—
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ [भा।पु। ११.१३.४०] इति ।
निर्गुणं प्रकृति-गुणैर् असंस्पृष्टम् एव मां गुणा भजन्ति । कथं भूतास् ते ? अगुणाः गुण-परिणाम-रूपा न स्युर् इति ।
ननु तर्हि लक्षणया श्रुतयस् तत्र चरन्ति, तत्राह—साक्षाद् इति । लक्षणया चरन्तु नाम, साक्षान्-मुख्यया वृत्त्या केन प्रकारेण चरन्ति ? इति । ननु हिरण्यगर्भे पुरुषे च चरन्त्यः श्रुतयस् तद् अभिन्नत्वात् तस्मिन् कृष्ण एव चरन्ति, यद् एष हिरण्यगर्भे नैर्गुण्य-सन्निकृष्टत्वात् निर्गुणवद् एव, पुरुषश् च प्रकृत्य् अधिष्ठाता, स्वेच्छया स्वीकृत-गुणत्वात् । निर्गुण एवेति चेत्, तत्राह—सद् असतः पर इति । सत् कार्यं हिरण्यगर्भादि-रूपं, असत् कारणं पुरुषादि-रूपं, ततः परे नितराम् उत्कृष्टे कृष्णे हिरण्यगर्भादिषु चरन्त्योऽपि श्रुतयः कृष्णे चरितुं न शक्नुवन्ति, तस्य ब्रह्मानन्द-घन-स्वरूपत्वात् । तथात्रैव श्री-देवर्षिणोक्तं—
विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् । [भा।पु। १०.३७.२२] इति ।
श्री-गीतासु च स्वयम् एव श्री-भगवतोक्तं—
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२७] इति
ब्रह्मानन्द-घन-स्वरूपोऽहम् इत्य् अर्थः । यद् वा, परे इति ब्रह्मणीत्य् अस्य विशेषणम् । परे ब्रह्मणि श्री-कृष्णे सद् असतः कार्य-करणस्य सम्बन्धिन्यः श्रुतय इति श्रुत्य् अगोचरत्वम् एव श्री-कृष्णस्य श्रीमद् उद्धवेनोक्तं—भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्यां [भा।पु। १०.४७.६१] इति । यत्-पदव्य् अपि श्रुतिभिर् विम्र्ग्यमे व, स कथं तासां गोचरः स्याद् इति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) :
॥ श्री-श्री-रस-शास्त्रकृताभ्याम् नमः ॥
भू-भृतं श्री-हरेर् दास-वर्यं गोवर्धनं भजे ।
श्रुति-स्तुति-वचो-व्याख्यां विधित्सामि यद् आश्रयी ॥
श्रीमद्-भागवतं नौमि यस्यैकस्य प्रसादतः ।
अज्ञातान् अपि जानाति सर्वः सर्वागमान् अपि ॥
श्री-धर-स्वामि-पादांस् तान् प्रपद्ये दीन-वत्सलान् ।
यत्-प्रसादेन वर्त्मेदं पश्यन् वर्तेय वैष्णवम् ॥
वन्दे श्रेष्ठ्क-चैतन्यम् आचार्य्स्थितिनम् ईश्वरम् ।
यत्-प्रेरणा हि सर्वस्य कारणस्यापि कारणम् ॥
अत्र ब्रह्मन् इत्य् आदि-द्वये टीका-सङ्गतिर् इयम् । तत्र प्रथमे पद्ये पङ्कजम् इत्य् अत्र प्रकृतिः पङ्क-शब्दोपपद-जन-धातुः प्रत्ययी-भूते जनेर् डः कृत् रूढि-वृत्ति-प्रपञ्च्दृशित-पदार्थत्वं शवलादाव् अप्रतीतेः किन्तु कमल एवेति । औपगव इत्य् अत्र उपगु-शब्दस् तावल् लक्षणया प्रवृत्तः । बहुव्रीहेस् तथैव प्रवृत्तेः ततश् चोपगोः प्रकृतेः प्रत्ययस् तद्धितः । अतो लक्षणा-वृत्ति-प्रपञ्च्दृशित-पदार्थत्वं च पाचक इत्य् अत्र प्रकृतिः पच-धातुः प्रत्ययो णमुल् कृत् । स च पचनाद् अन्यद् अपि पाचक उच्यते इति पाचकत्व-गुणयोगाद् गौणी-वृत्ति-प्रपञ्च्दृशित-पदार्थत्वम् । किन्तु सिंह-देवदत्तयोर् व्यक्ति-भेदेन भेदः ।
अत्र त्व् अवस्था-भेदेनेति गम्यं निर्गुणे इति गुणातीते इत्य् अर्थः । न तु गुण-रहिते गुणानाम् अपि गुण-रहितत्वाद् अनिर्देश्यत्वं शङ्केतेति । अथोत्तरत्र पूर्वोक्तम् अर्थं क्रमेणाह—अयम् अभिप्राय14 इति । तत्र पूर्वार्धस्य तम् आह—स-गुणम् एव इति श्रुतौ य इति य उक्त-लक्षणोऽक्षराख्य इत्य् अर्थः । सर्व-विद् [मु।उ। १.१.९] इति सर्वं विन्दत इति निरुक्तेः सर्व-शक्तित्वं, यस्य ज्ञान-मयं तपः [मु।उ। १.१.९] इति इच्छा-प्रधानम् आचार्ययतिअम् इत्य् अर्थः । सर्वस्य वशी [बृ।आ।उ। ४.४.२२] सर्व-नियन्तेत्य् अर्थः । सर्वस्येशानः [बृ।आ।उ। ४.४.२२] सर्वोपास्यः सर्व-कर्म-फल-दाता चेत्य् अर्थः । यः पृथिव्यां [बृ।आ।उ। ३.७.३] इत्य् आदिकं पृथिव्य् आद्य् आचार्य्स्थितिता-प्रपञ्च्दृशकं पूर्वत्र हेतुः । प्रतीक-दर्शनम् एवेदम् । स ईक्षत [ऐ।उ। १.१.१] इत्य् अत्राड् आगमाभावश् छान्दसः । तद् इति तच्-छब्देन पूर्वोक्तम् इत्य् अर्थः । सोऽकामयत [तै।उ। २.६.१] इत्य् आदिकं सर्व-कल्याण-गुण-निलयत्वं दर्शयति सर्वाश्रयत्वेन कथनात् । सत्यं ज्ञानम् [तै।उ। २.१.१] सच्-चिद् आनन्दम् इत्य् अर्थः । स-गुणम् एवेत्य् आरभ्य ब्रह्मेत्य् आद्या इत्य् एतद् अन्त-लक्षण-पराणां श्रुतीनां तत्-परत्वं दर्शितम् । एतच् चानुवाद-मात्रम् ।
निर्गुण-परता-बोधनार्थं निर्गुण-परत्वं च तथा इत्य् आदिना उपसंहरिष्यतीत्त्य् अन्तेनानन्त-ग्रन्थेन ज्ञेयम् । तद् एक-तद् अकल्पनायेत्य् अस्याभिप्रायः । अयम् आत्मा ब्रह्म [बृ।आ।उ। २.५.१९, ४.४.५] इत्य् आदि ज्ञेयम् । एकार्थाभिधानेन सामानाधिकरण्यम् इति शब्दयोर् एव सामानाधिकरण्यं नार्थयोर् इत्य् अर्थः ।
पृथग् अर्थत्वं परिहरति—यथोक्तम् इति । तद्धित एवेत्य् अन्वयः । तस्यैव तद्धितान्तस्यैवानुपयुक्ताभिधान-शक्तितया प्रतीक्षमाणस्योपपदेनामिक्षारूप-विषय-दान-मात्रं हि क्रियते इत्य् अर्थः । अजहत्-स्वार्थया न जहत् न त्यजन् स्वार्थो नील-गुणादि-रूपो यस्यां तया निरूढ-लक्षणया नितरां रूढा निरूढा सा चासौ लक्षणा च तया अनादि-प्रपञ्चात्मआ-सिद्धया न साम्प्रतं रचितयेत्य् अर्थः । नीलम् उत्पलम् इतिवत् सर्व्मात्रम् इत्य् अनुषज्यते । स्वरूप-सत्ता-मात्रेण न हि किञ्चिद् विशेषणम् इति स्व-बुद्ध्येत्य् अस्य वार्तिकस्य पूर्वार्धं येन नीलादिना कर्त्रा स्व-बुद्ध्या स्वाकार-ज्ञानेन कारण-भूतेन विशेष्यम् उत्पलादि व्यज्यते अवभास्यते तद्-विशेषणम् इत्य् अर्थः । अस्थूलादि-वाक्यादीनाम् इत्य् आदिकम् अप्य् अकल्पनायेत्य् अस्यैवाभिप्रायः । सर्व्मात्रेन निषेधावशेषत्वेन चोपाधि-परित्यागात् उपासनाद् इति मात्रार्थं चेत्यादि-त्रयस्याभिप्रायः । आदि-ग्रहणात् सृष्ट्यादि-क्रियार्थेति क्रिया यज्ञादिः । अन्यार्थेति पाठे अपवादार्थेत्य् अर्थः ।
अथ स्व-व्याख्या—ॐ सन्-मार्गादिशेत्य् उक्तम् । आदेशे च, तत् तु समन्वयात् [वे।सू। १.१.४] इति न्यायेन वेद-समन्वयापेक्षा लभ्यते । समन्वय-पराकाष्ठा च—
वदन्ति तत् तत्त्व-विदस् तत्-त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा।पु। १.२.११]
इत्य् उक्त-लक्षणे पर-तत्त्व एव । तच् च कैश्चिद् वस्तुनो निर्विशेषम् एव मन्यमानैर् ब्रह्मेति शब्द्यते । स्मरण्भाव-शक्त्यानन्त-विशेषम् एव मन्यमानैः श्री-भागवतैस् तु परमात्म इति भगवान् इति च तत्र आचार्य्स्थितित्व-मात्र-शक्त्या भगवान् एव परमात्म इति शुद्ध-परिपूर्णाचार्ययतिआद्य् आत्मिकया परम-धामादौ स्वयं विलसन्त्या वशीकृत-माया-शक्तिकया परम-धामादौ स्वयं विलसन्त्या वशी-कृत-माया-शक्तिकया परम-स्मरण्श्री-या तु भगवान् इति अद्वयत्वं च शक्ति-मात्रं विना शक्तेर् अभावात् तां च विना तत्-कार्याभावात्, वस्त्व् अनन्तरात्यन्ताभावाच् चेति । एवम् एव खलु— एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१], नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य् अनयोर् निषेध्यांस् तद् अवधि-भूतांश् चार्थान् स्वयम् आह मन्त्र-वर्णः—
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति ।
तद् एवं सति मध्यमं मतं नात्याक्षिप्य सर्व-शक्ति-विशिष्ट-पर-ब्रह्मणि श्री-भगवति देवस्य प्रवृत्तिं सम्मतां निर्विशेष-ब्रह्मण्य् असङ्गतां मन्यमानः श्री-विष्णु-रातत्वेन तद्-गुणाद्य् अपलाप-निन्दा-सहिष्णुः श्री-मुनीन्द्राभ्युपगमेन स्व-मतं पप्रक्षुः केवल-तन्-मात्र-वेदार्थिन आक्षिपति—ब्रह्मन्न् इति । अथवा पूर्वोक्तं सर्व-वेद-मयो विप्रो सर्व-वेद-मयो ह्य् अहम् [भा।पु। १०.८६.५४] इत्य् एवाक्षेप-बीजं मन्तव्यम् । यतस् तत्र व्याख्यातम् वेदानां श्री-भगवत्य् एव तात्पर्यम् अङ्गीकृत्य पूर्व-रीत्या पर-मतम् आक्षिपति । तैर् व्याख्यातम् ।
तत्र गुणेन तावद् रूढि-वृत्तिर् न सम्भवतीति, निर्गुणं गुण-वृत्तय इत्य् उक्तम् । गुणाः सत्त्वादयस् तत्-कार्य-भूताः शुक्ल-शीतादयश् च तद् अतीते इत्य् अर्थः । निर्गुणत्वाद् एव जाति-निर्देश्यत्वम् अपि निरस्तम् । गुण-भेदत्वाज् जातेः ।
तथा स्वरूपानिर्देश्यत्वं च निर्गुणत्वेनैव दृष्ट-श्रुत-विलक्षण-स्वरूपत्वात् । अत आनन्दादि-पदैश् च न तन् निर्दिश्येत प्रसिद्ध-चित्त-वृत्ति-विशेषादाव् एव तेषां सङ्केतितत्वाद् इति तेषां मतम् । अतोऽर्थापत्ति-सहितानि वृत्त्य् अन्तराणि च निर्गुणत्वादिभिर् निरस्तान्य् एवेति स्वरूप-भूत-गुणाश् च तेषां मते न सन्तीति निर्विशेष-ब्रह्मणि तेषां वेद-सङ्गतिर् न सम्भवत्य् एव । श्री-भागवतानां तु श्री-भगवतो विलक्षण-स्वरूपत्वेऽपि विलक्षण-स्वरूप-परापौरुषेय-तत्-तच्-छब्द-वाच्यतया मायिक-गुणासम्बद्धत्वेऽपि मायातीतानन्त-गुणतया सद् असद्भ्यां परत्वेऽपि तेन तयोर् अनुस्यूततया सर्वा अपि वृत्तयः श्री-भगवान् इति, मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते ह्य् अहम् [भा।पु। ११.२१.४३] इति, वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५] इति च श्री-भगवत्-सम्मत्या यथायथं सन्त्य् एव । यतो वाचो निवर्तन्ते [तै।उ। २.९] इत्य् आदिकं त्व् आनन्त्य् आदि-परम् एव । केवलानाप्तौ यत इत्य् अवधित्व-निर्देशो न घटते कर्मणा ज्ञानेन वा आप्तम् एवावधिः क्रियते न त्व् अनाप्तम् इति ।
अन्यथा यच्-छब्देनापि निर्देष्टुं न शक्यते । अप्राप्येति तु प्रकर्षेणैवाप्तिं निषेधयति न त्व् अंशेनापि, आनन्दं ब्रह्मणि विद्वान् न बिभेति कुतश् चन [तै।उ। २.९] मन्त्र-शेषेण तु दर्शयिष्यत एव । ज्ञानेन तत्-प्राप्तिः, एतेन यद् वाचानभ्युदितम् इत्य् अपि व्याख्यातम् ।
अत्राप्य् अति-शब्दोऽस्तीति अभिशब्द-प्रयोगात् अवचनेनैव प्रोवाचेत्य् अपि यतो वाच इत्य् अभिप्रायम् एव अनन्ततया वक्तुम् अशक्यत्वम् एव तस्याः प्रवचनम् इति । ततश् च शास्त्र-योनित्वात् [वे।सू १.१.३] इति, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति, तर्काप्रतिष्ठानात् [वे।सू। २.१.११] इत्य् आदिभ्यः, तं त्व् औपनिषदं पुरुषं पृच्छामि [बृ।आ।उ। ३.९.२६] इति, नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ [क।उ। १.२.९] इत्य् आदि-श्रुतेश् च शास्त्रैक-प्रमाणत्वाद् अस्त्य् एव । सर्व-वेद-सङ्गतिर् न च प्रमाणान्तर-प्रयुक्त-दोष-गन्धोऽपीति विवेचनीयम् । तस्मात् तैः सम्मते निर्विशेषे ब्रह्मणि कथं चरन्ति नैव चरन्तीत्य् अर्थः ॥१॥
जीव-गोस्वामी (भगवत्-सन्दर्भ १०९) : तद् एवं भगवत एव सर्व-वेदार्थत्वं दर्शितम् । तत्र राज्ञः प्रश्नः । श्री-विष्णु-रात उवाच—ब्रह्मन्न् इति ।
अस्यार्थः15—श्रुतयस् तावच् छब्द-मात्रस्य साधारण्याद् गुणेषु सत्त्वादिषु वृत्तिर् यासां तादृश्यो दृश्यन्ते । ब्रह्म तु निर्गुणं सत्त्वादि-गुणातीतं, तस्माद् एव अनिर्देश्यम् । तत्-तद्-गुण-कार्य-भूत-जाति-गुण-क्रियाख्यानां गुणान्तराणाम् अभावास्पदत्वात् तादृश-द्रव्यस्याप्य् अप्रसिद्धत्वाद् अनिर्देश्यं सत्त्वादि-कार्य-भूताभ्यां सद् असद्भ्यां कार्य-कारणाभ्यां परम् इति तेन तेनासम्बन्धं चेत्य् अर्थः ।
तथा च सति यथा डित्थ-वाचि कस्मिंश्चिद् अद्वितीये द्रव्ये तच्-छब्दस्य मुख्या वृत्तिः प्रवर्तते । यथा च सिंहो देवदत्तः इत्य् अत्र गौण्या वृत्त्या शौर्य-गुण-युक्ते देवदत्ते सिंह-शब्दः प्रवर्तते । यथा च गङ्गायां घोषः इत्य् अत्र-लक्षणया वृत्त्या गङ्गा-शब्दस् तस्मिन्न् इत्य् असम्बन्धे तटे प्रवर्तते । तथा तत्-तद्-भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् ? श्रुतीनां च शास्त्र-योनित्वात् [वे।सू। १.१.३] इति-न्यायेन तत्-प्रतिपादकतायाम् अनन्यानां तत्र प्रवृत्तिर् अवश्यं वक्तव्या । स्वतः-प्रमाणानां च तासां मुख्या प्रवृत्तिस् तु विशेषतो वक्तव्या । तस्मात् तस्मिंस् ताः साक्षाद्-रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति ? तं प्रकारं विशेषतः कृपयापि स्वयम् उपदिशेति । अन्यथा पदार्थत्वायोगाद् अपदार्थस्य च वाक्यार्थत्वायोगान् न श्रुति-गोचरत्वं ब्रह्मणः स्याद् इति स्थिते कुतस्तरां तद् उपरिचर-स्फूर्तेर् भगवतस् तद्-गोचरत्वं, तत् कथम् एवं स्व-भक्तयोर् [भा।पु। १०.८६.५९] इत्य् आदौ स्वतां स्वतः-प्रमाण-भूतानां वेदानां मार्गं भगवत्-परत्वम् आदिश्येत्य् उक्तम् इति ।
^अ^स्वतः-प्रामाण्य-सिद्धये मुख्य-वाक्यानां तु साक्षाच्-चरणम् अवश्यं वक्तव्यम् । लक्षणादौ प्रमाणान्तर-मूलत्वात् । ततो यत्र लक्षणादिकम् अपि न सम्भवति, तत्र कथन्तरां साक्षाच् चरणम् इति भावः^अ^16 ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ब्रह्मन् ब्रह्मणानिर्देश्य इत्य् आदिकम्, इति तव सूरय [भा।पु। १०.८७.१६] इत्य् अन्तम् । अत्र निर्गुण इति शुक्ल-रक्तादि-तत्-कारण-सत्त्वादि-गुणातीते निर्गुणत्वाद् एव निर्जातित्वं प्राप्तं, गुण-भेदत्वाज् जातेस् तथा स्वरूपानिर्देश्यत्वं च । तथा च प्रयोगः । ब्रह्म स्वरूपानिर्देश्यं—निर्गुणत्वात् । यन् नैवं, तन् नैवम्, यथा घटादीति। अत्र च ते [श्री-स्वामि-पादाः] इति नारायणः स्वयं भगवान् अन्वित उपक्रमोपसंहारादिषु प्रतिपाद्यत्वेनानुगतो यत्र । अथैषां पद्यानां शृङ्खला केषाञ्चिद् व्याख्या च क्रियते ॥१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अथ श्रुति-स्तवस्याकस्मिक-प्रसङ्गे सङ्गतिर् उच्यते । तत्र पूर्वोक्तानां गोपाङ्गनानां त्रैविध्ये नित्य-सिद्धा या ऊढानूढा-रूपाः । तास् तु अप्रकट एव वृन्दावनेऽप्रकटम् एव विलसता श्री-कृष्णेन सह स्थिताः । अप्रकटा एव सत्यो मुनि-रूपास् तु कुरुक्षेत्र-यात्रायां कृष्णेन सह संयुज्य तम् एवापुः ध्वस्त-जीव-कोषास् तम् अध्यगं [भा।पु। १०.८२.४७] इत्य् उक्तेः । श्रुति-रूपास् तु श्रुति-रूपम् एवाश्रित्य निगूढम् एव द्वारकादिनाथम् एवाश्रितवत्यः समम् एतं स्तुवन्ति चेति तत्-स्तवे निरूपयितव्ये सति तत्र पूर्वाध्यायान्ते न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजं [भा।पु। १०.८६.५४] इत्य् आदिभिर् भक्तयोः श्रुतद् एव-बहुलाश्वयोर् उपदेशं कृत्वा भगवान् द्वारकां ययौ । तत्र भगवद् उपदेशे तात्पर्यं चतुर्भुजम् इति चतुर्भुजम् एव न दयितम्, ऐच्छिकत्वात् । द्विभुजत्वं नराकृति सर्वेभ्यो मम दयितम् इत्य् अर्थः
तथा हेतुम् आह सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहं [भा।पु। १०.८६.५४] । अहं द्विभुजः, सर्व-देवमयत्वाद् द्विभुजं दयितम् इत्य् अर्थः । अज्ञास् त्व् एतन् न जानन्तीत्य् आह—दुष्प्रज्ञा [भा।पु। १०.८६.५५] इत्य् आदि । मां गुरुम् उपदेष्टारं विप्रं विशेषेण प्राति पूरयतीति विप्रं परिपूरकं पोषकम् इत्य् अर्थः । आत्मानं सर्वात्मानम् अर्चादौ प्रतिमादौ अविदित्वैवासूयवः सन्तोऽवजानन्ति । आदि-शब्दाद् वैष्णवेषु च । कुतः ? इज्य-दृष्टयः । इज्यं यज्ञियं कर्म तत्रैव दृष्टिर् येषाम् । अत एव दुष्प्रज्ञाः ।
विप्रस्य दयितत्वे हेतुम् आह—चराचरं [भा।पु। १०.८६.५६] इत्य् आदि । न केवलं चराचरं, ये ये चास्य हेतवो भावास् ते च मद्-रूपाणीति विप्रश् चेतस्य् आधत्ते । अत एवं-विध एव ब्राह्मणः, एवं-विध एव ब्रह्मर्षिः, तस्माद् ब्रह्म-ऋषीन् एतान् अर्चय [भा।पु। १०.८६.५७] । एवं चेत् तद् अर्चितोऽस्म्य् अद्धा साक्षाद् एव, मद्-भाव-भावितानाम् अर्चनम् एव मेऽर्चनम्, नान्यथा । एवं स्व-भक्तयोः श्रुतद् एव-बहुलाश्वयोः सन्-मार्गं वेद-मार्गम् आदिश्य भगवान् द्वारकां ययौ । इत्य् आदिषु वेद-प्रतिपाद्यं भगवद्-भागवताराधनम् एव, आराधनं हि स-विशेषस्य ब्रह्मण एव, न तु निर्विशेषस्य । श्रुतयश् च स-विशेष-ब्रह्म-प्रतिपादिकाः—आनन्दं ब्रह्मणो रूपम् इति ब्रह्मणः सम्बन्धितात् षष्ठी-रूपम् इति स्व-स्वामि-भाव-सम्बन्धः । अहं बहु स्याम्, सो कामयत [तै।उ। २.६.२] इत्य् आदिष्व् इच्छावत्त्वात् स-विशेषत्वम् एव ।
तेन श्रुतीनां शब्दात्मकत्वात्, शब्दानां च मुख्य-लक्षणा-गुण-भेदेन त्रैवृत्तिकत्वम् । मुख्या वृत्तिश् च रूढि-योग-भेदेन द्विधा, रूढिश् च स्वरूपेण जात्या गुणेन चेति त्रिधा ।
डित्थः गौः शुक्ल इति । योगस् तु मुख्य-लक्षणा-गौणीष्व् एव क्वचित् पदार्थ-योगेन क्वचित् प्रकृति-प्रत्ययार्थ-योगेन योगः, यथा पङ्कजम् इति पदस्य तद् अर्थस्य च कमलस्याश्रयस्य योगेन मुखो पङ्कज-निड-प्रत्ययार्थ-योग-सिद्धिः । जेप गमने इत्य् आदौ प्रकृति-प्रत्ययार्थ-सिद्धिः । गङ्गायां घोष इति गमेर्ड ऊणादिक इति गङ्गा, घुष्यत इति घोष आभीर-पल्ली, उभयोर् एव प्रकृति-प्रत्यय-सिद्धयोर् योगाभावाल् लीला गौणी । सादृश्यात् सम्बन्धात् ततश् चेति द्विधा, सादृश्ये गौर् वाहीकः, सम्बन्धान्तरत आयुर् घृतम् । अत्रापि प्रकृति-प्रत्ययार्थ-योगः, गच्छतीति गौः, वाहयतीति वाहीकः, अयत इति आयुः, घृततीति घृतम् । लक्षणा-गौण्यौ चानेनैव व्याख्याते । एवं-विध-शक्तिमच्-छब्द-कदम्बात्मिकानां श्रुतीनां निर्विशेषे ब्रह्मणि कथं चरणम् ? अतः स-विशेष-ब्रह्मैव श्रुति-प्रतिपाद्यम् इति तद् आनुकूल्य-हेतोः सरस्वती-प्रेरितस्यैव परीक्षितो मनसि विचार- आसीत्—अहो भगवान् श्री-कृष्ण एव ब्रह्म, निर्गुणत्वं चास्य प्राकृत-गुण-रहितत्वादि-परम्, न हि सर्वज्ञत्वादि-गुण-राहित्य-परम् । तथा सति, अनीश्वरत्वापत्तेः । वस्तुतस् तु यः सर्वाः सर्वविद् यस्य ज्ञान-मयं तपः [मु।उ। १.१.९], सर्वस्य वशी सर्वस्येशानः [बृ।आ।उ। ४.४.२२] इत्य् आदि-श्रुति-प्रतिपादितास्य सर्वज्ञत्वादि-गुणवत्ता । तेन ब्रह्म-शब्दोऽत्र मुख्यस् तेनैव बृंहणत्वाद् बृहत्त्वाच् चेति स-विशेषं ब्रह्मैव कृष्णः । अतः स-विशेषत्वेन श्रुति-स्तूयमानतापि सिध्येत् । निर्विशेषं यदि लाक्षणिकेन ब्रह्म-शब्देन केवलं चिन्-मात्रम् एव प्रतिपाद्यम्, तदा श्रुतेर् अप्य् अविषयः स्याद् इति तर्क्य-निर्विशेषं ब्रह्मेति परमतम् अपाकर्तुं पृच्छति—ब्रह्मन्न् इति । ब्रह्मन् भो ब्रह्म-रात ! कथम् अनिर्देश्ये निर्विशेषे निर्गुणे ब्रह्मणि श्रुतयश् चरन्ति ? न चरन्तीत्य् अर्थः । तर्हि निर्देश्ये सर्वज्ञत्वादिना स-विशेषे निर्गुणे प्राकृतादि-गुण-रहिते साक्षाच् छ्री-विग्रहे परात्परे कृष्ण एव चरन्ति । यतस् ता गुण-वृत्तयः, गुणेषु सर्वज्ञत्वादिष्व् अप्राकृतेषु भगवत्त्वादि-लक्षणेषु वृत्तिर् अभिधा-लक्षणा-तात्पर्य-रूपा वृत्तिर् यासां ताः—तथा-भूतानां निर्विशेषे चरितुम् असामर्थ्यात् । स-विशेषे साक्षाद्-ब्रह्मणि चरितुं तात्पर्यादिना कदाचिच् चरितुं समर्था भवन्ति । तच् च साक्षाद् ब्रह्म श्री-कृष्ण एवासौ सद् असत्-परः कार्य-कारणयोः परः क्षराक्षरयोः परः । उक्तं च स्वयम् एव—
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता १५.१८] इति ।
तेन निर्विशेषे ब्रह्मणि श्रुतयश् चरितुं न सम्भवन्तीति मे मतं, भवद्भिर् वा किम् उच्यते इति वाक्यार्थः ॥१-२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
श्री-गोविन्दो जयति ।
सप्ताशीतितमे कृष्ण-स्वरूपं सर्वतोऽधिकम् ।
वेदैर् निरूपितं ज्ञातं नारदेण गुरोर् मुखात् ॥
मम रत्न-वणिग्-भावं रत्नान्य् अपरिचिन्वतः ।
हसन्तु सन्तो जिह्रेमि न स्व-स्वान्त-विनोद-कृत् ॥
न मेऽस्ति विदुष्य् अपि नापि भक्तिर्
विरक्ति-रक्तिर् न तथापि लौल्यात् ।
सुदुर्गमाद् एव भवामि वेद-
स्तुत्य् अर्थ-चिन्तामणि-राशि-गृध्नुः ॥
मां नीचतायाम् अविवेक-वायुः
प्रवर्तते पातयितुं बलाच् चेत् ।
लिखाम्य् अतः स्वामि-सनातन-श्री-
कृष्णाङ्घ्रि-भा-स्तम्भ-कृतावलम्बः ॥
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
पूर्वाध्यायान्ते सन्-मार्गम् आदिश्य भगवान् अगाद् इत्य् उक्तं तत्र सतां भक्तानां मार्गो हि भक्ति-योगो भगवद्-विषयकोऽवगम्यत एव । एवं सतां ज्ञानिनां ज्ञान-योगोऽपि ब्रह्म-विषयक एव ज्ञातव्यः । किन्तु ब्रह्मणः श्रुति-प्रतिपादितत्वम् एतावन्न् अबुध्यत इत्य् अतः पृच्छति ब्रह्मन्न् इति । ब्रह्मणि श्रुतयः कथं साक्षाद् अव्यवधानेन अभिधया वृत्त्या चरन्ति यतः अनिर्देश्ये निर्देष्टुम् अशक्ये जाति-द्रव्य-गुण-क्रियासु मध्ये ब्रह्म किम् अपि न भवतीति तस्यानिर्देश्यत्वम् । तथा हि, निर्गुणे गुणेभ्यः परस्मिन् सद् असतः परे सत् पृथिव्यादि-द्रवम् असत् अनिष्पन्न-स्वभावं वस्तु क्रिया ताभ्यां परस्मिन् तथा तत्-तद् आश्रितत्वाज् जातेर् अपि परस्मिन् । यद् वा, सत् द्रव्यम् असत् अद्रव्यं जातिः क्रिया च ततः परस्मिन् गुण-वृत्तयः गुणैः प्रवृत्ति-निमित्तैर् जात्य् आदिभिर् वर्तमानाः श्रुतयो निर्जात्य् आदिके ब्रह्मणि कथं चरन्ति ॥१॥
॥ १०.८७.२ ॥
श्री-शुक उवाच—
बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः ।
मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : उत्तरम् आह—बुद्धीन्द्रियेति । बुद्ध्य् आदीन्17 उपाधीन् जनानाम् अनुशायिनां जीवानां मात्राद्य् अर्थं प्रभुर् ईश्वरोऽसृजत् । मीयन्त इति मात्रा विषयास् तद् अर्थम् । भवार्थं भवो जन्म-लक्षणं कर्म, तत्-प्रभृति कर्म-करणार्थम् इत्य् अर्थः । आत्मने लोकान्तर-गामिने, आत्मनस् तत्-तल्-लोक-भोगायेत्य् अर्थः । अकल्पनाय कल्पना-निवृत्तये, मुक्तय इत्य् अर्थः । अर्थ-धर्म-काम-मोक्षार्थम् इति क्रमेण पद-चतुष्टयस्यार्थः ।
जनानाम् इति वदन् जीवार्थम् ईश्वरस्य सृष्ट्य् आदिषु प्रवृत्तिर् इति दर्शयति—प्रभुर् इति । ईश्वरस्योपाधि-वश्यताभावेन नित्य-मुक्ततां दर्शयति । अयम् अभिप्रायः—स-गुणम्18 एव गुणैर् अनभिभूतं सर्वज्ञं सर्व-शक्तिं सर्वेश्वरं सर्व-नियन्तारं सर्वोपास्यं सर्व-कर्म-फल-प्रदातारं समस्त19-कल्याण-गुण-निलयं सच्-चिद् आनन्दं भगवन्तं श्रुतयः प्रतिपादयन्ति—यः सर्व-ज्ञः स सर्व-वित् यस्य ज्ञान-मयं तपः20 [मु।उ। १.१.९], सर्वस्य वशी सर्वस्येशानः [बृ।आ।उ। ४.४.२२], यः पृथिव्यां तिष्ठन् पृथिव्या आन्तरः [बृ।आ।उ। ३.७.३], सोऽकामयत बहु स्यां [तै।उ। २.६.१], स ईक्षत21 [ऐ।उ। १.१.१], तत् तेजोऽसृजत [छा।उ। ६.२.३], सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इत्य् आद्याः । तथा-भूतेश्वरतां22 तावत् संसारिणो जीवस्य तन्-निवृत्तये तत् त्वम् असीत्य् आदि-वाक्यानि बोधयन्ति ।
तत्र च तत्-त्वं-पदयोः सामानाधिकरण्यं23 प्रतीयते । तच् च प्रकारान्तरेण24 अघटमानं ब्रह्मणि पर्यवसानं गमयति । तथा हि, न तावद्-वैश्व-देव्याम् इक्षेतिवद् उभयोर् एकार्थाभिधानेन सामानाधिकरण्यम् । यथोक्तम्,
आमिक्षां25 देवता-युक्तां वदत्य् एवैष तद्-धितः ।
आमिक्षा-पद-सान्निध्यात् तस्यैव विषयार्पणम् ॥26 इति ।
कुतः ? भिन्नार्थत्वात्27 । न चाजहत् स्वार्थया निरूढ-लक्षणय विशेषण-विशेष्य-भावेन नीलम् उत्पलम् इति-वत् । यथोक्तम्, स्व-बुद्ध्या रज्यते येन विशेष्यं तद् विशेषणम्28 इत्य् आदि । कुतः ? विरुद्धार्थत्वेन तद् अयोगात् । न च जहत् स्वार्थत्वेन सम्बन्धि-लक्षणया कुसुमित-द्रुमा गङ्गेतिवत् । कुतः ? एकार्थत्वस्य विवक्षितत्वात् । अतो जहद् अजहत्-स्वार्थ-लक्षणया सोऽयं देवदत्त इति-वद् विरुद्धांश-त्यागेनानुगत-चिद् अंशेनैकार्थेन सामानाधिकरण्येन निर्गुणे पर्यवसानम् । अस्थूलादि-वाक्यानां तु साक्षाद् उपाधि-निषेधेन तत्-पदार्थ-शोधने उपयोगान् निर्गुण एव पर्यवसानम् ।
तथा चात्रैवोपक्रमे स्व-सृष्टम् इदम् आपीय [भा।पु। १०.८७.१२] इत्य् आदिना विशिष्टम् आलम्बनं वक्ष्यति । अन्ते च श्रुतयः—त्वयि हि फलन्त्य् अतन्-निरसनेन भवन् निधनाः [भा।पु। १०.८७.४१] इत्य् उपसंहरिष्यन्ति । उपासनादि-वाक्यानां तु क्रियार्थ-प्रवृत्त-सृष्ट्य् आद्य् अवलम्बनेन ज्ञान-साधन-विधानेन तत्-परत्वम् इत्य् एषा दिक् ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अतन्̄-निरसनेन ब्रह्मणि श्रुतयश् चरन्ति । तन्-निषेधार्थं बुद्ध्यादीन् उपाधीन् निष्-प्रपञ्चं प्रपञ्च्यते इत्य् उक्तेर् विनाध्यारोपम् अपवादो न सम्पनी-पद्यत इत्य् उत्तरम् आह—बुद्ध्यादीन् । इहादिनेन्द्रियादि-ग्रहः । उपाधीयते विषयतया स्वीक्रियते इत्य् उपाधिः । अनुशायिनां ब्रह्मणा सह प्रलये ईशं प्रविश्य शयित्वा जातानां मीयन्ते प्रम् इति-विषयीक्रियन्ते इति मात्राः । इत्य् अर्थ इति-जन्मना कर्म लक्ष्यते, इन्द्रियैर् विना कर्मानिष्पत्तेर् इति भावः । इत्य् अर्थ इति-मनो विना यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु [भा।पु १०.२.४२] इत्य् आद्य् उक्तेर् लोकान्तर-भोगो न सम्भवतीति भावः । कल्पना माया । इत्य् अर्थ इति-प्राणं विना मोक्षो\ऽपि न सम्भवति । वक्ष्यति च—
आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् ।
तत्-त्वं विमृश्यते येन यत एतद्-विमुच्यते ॥ इति श्री-कृष्णः ।
प्रभुर् इति-कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थत्वाद् एव नित्य-मुक्तः । अत्र लक्षणा-परैक्य-पर-निषेध-परोपासना-पर-सृष्टि-पराणां पञ्चविधानां श्रुतीनां सगुणालम्बनं निर्गुणे पर्यवसानम् इति दर्शयितुम् आह—अयम् अभिप्राय इति । यद्यप्य् अष्ट-विधानां वृत्तीनां मध्ये उक्तरीत्या कापि वृत्तिर् ब्रह्मणि न सम्भवति, तथापि सर्व-श्रुतीनां परम्परादिना ब्रह्म-परत्वं घटत एवेत्य् आह—सगुणम् एवेति । सगुणं समस्त-गुणाश्रयं तैर् गुणैर् अनभिभूतम् अवशीकृतं पूर्वोक्तम् अर्थं क्रमेणाह—यः सर्वज्ञ इत्य् आदि-श्रुतिभिः । यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः सर्वज्ञतोदाहरणम् । सामान्येन सर्वं जानातीति सर्वज्ञः विशेषेण सर्वं वेत्तीति सर्व-वित् । यस्य ज्ञानमयं ज्ञान-विकार एव, सर्वज्ञता-लक्षणं तपः, अनायास-लक्षणम् इत्य् अर्थः । सर्वस्य वशीति—सर्वस्य ब्रह्मेन्द्रादेर् वशी सर्वो ह्य् अस्य वशे वर्तते—
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः ॥ इति श्रुतेः ।
भारते च—
ससुरा-सुर-गन्धर्व-सयक्षोरग-राक्षसम् ।
जगद्-वशे वर्तते\ऽदः कृष्णस्य स-चराचरम् ॥
इत्य् अनेन सर्व-शक्तिता दर्शिता । न केवलं वशी, सर्वस्येशान ईशिता च । अनेन सर्वेश्वरता ।
यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः पृथिवी यस्य शरीरं
पृथिवी यं न वेद यः पृथिवीमन्तरो यमयत्य् एष त
आत्मान्तर्याम्य् अमृतः ॥ इति ॥
अस्यार्थः—यः पृथिव्यां तिष्ठन् पृथिवीतो\ऽन्तरो भवति, अन्तरो\ऽभ्यन्तरो भूत्वा पृथिवीं यमयति नियमयति, एष ते तवान्तर्यामी अमृतः सदैक-रसः, इत्य् अनेन सर्व-नियन्तृत्वं सर्वोपास्यत्वं सर्व-कर्म-फल-दातृत्वं चोक्तम् । श्रीमद्-भगवद्-गीतासु च—
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥
स तया श्रद्धयायुक्तस् तस्याराधनमीहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥ [गीता ७.२१-२२] इति
अनेनान्तर्यामिणः श्री-कृष्णस्यैव तत्-तद्-देवता-रूपेणोपास्यत्वं सर्व-कर्म-फल-दातृत्वं चोक्तम् । सकल-कल्याण-गुण-निलय-स्योदाहरणम् आह—सो\ऽकामयत बहु स्यां स ऐक्षत तत्-तेजो\ऽसृजत ॥ इति ।
अर्थश् च—यत आकाशः सम्भूतः सो\ऽकामयत कामितवान् कथं बहु स्यां बहुतरं यथा भवति तथा स्यां भवेयम्, स आत्मा सर्वज्ञ-स्वभावत्वात् एक ऐक्षत अद्राक्षीत् । ईक्षतेति पाठे\ऽडागमाभावश् छान्दसः । स तत्-प्रत्यक्ष-सिद्धं तेजो\ऽसृजत सृष्टवान् । ईश्वरस्य कामनादीनां लोकोपकारार्थत्वेन तादृश-कल्याण-गुणाभिव्यक्तेः । सच्-चिद् आनन्दत्वोदाहरणम् आह—सत्यं ज्ञानम् अनन्तं ब्रह्म आदिना विज्ञानम् आनन्दं ब्रह्म इति ग्रहः ।
अर्थस् तु—यद्-रूपेण यन्-निश्चितं तद्-रूपं यतो न व्यभिचरति तत्-सत्यं ब्रह्म । असत्य-निवृत्त्य् अर्थं विशेषणम् । असत्यता-निवृत्त्या विकार-निवृत्तिः, तन्-निवृत्त्या च कारणता प्राप्ता । निर्विकार-स्वावस्थो मृदादिर् एव कारणं भवति न तु विकारो घटादिर् इति । कारणस्य च कारक-वस्तुत्वात्—
कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
अपादानाधिकरणम् इत्य् आहुः कारकाणि षट् ॥
इत्य् उक्त-षट्-कारकान्य् अतम-रूपत्वात् मृदादिवद् अचिद्-रूपता प्राप्ता तन्-निवृत्तये ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिर् अवबोधस् तद्-रूपम् इत्य् अर्थः । लौकिक-ज्ञानस्यान्तवत्त्वादि-दर्शनात्-प्राप्तं ज्ञान-रूपस्यापि ब्रह्मणो\ऽन्तवत्त्वं तन्-निवृत्त्य् अर्थम् अनन्तम् इति विशेषणम् । एतेन सच्-चिद् आनन्द-रूपत्वं स्पष्टम् एवोक्तम् । एवं लक्षणापराणां श्रुतीनां सगुण-परत्वं प्रदर्श्य, स्वरूप-पराणाम् अपि स्वरूप-परत्वं च प्रदर्श्य, ऐक्य-परत्व-श्रुतीनाम् अपि सगुण-प्रतिपादन-मुखेन निर्गुणे पर्यवसानं दर्शयन्ति
स्वामिचरणाः : तथा-भूतेत्य् आदिना । निर्गुणे पर्यवसानम् इत्य् अन्तेन तथा-भूतेश्वरतां पृथिव्यादि-नियमन-रूपामीश्वरताम् । तावद् अधुना । तन्-निवृत्तये संसार-निवृत्तये । इत्य् आदि वाक्यानीत्यत्रादिना प्रज्ञानं ब्रह्म । अहं ब्रह्मास्मि अयम् आत्मा ब्रह्म इत्य् आदीनि गृह्यन्ते । तद्-ब्रह्म त्वम् असि भवसि नान्यः संसारीत्य् अर्थः । तत्र च महा—वाक्ये तत्-त्वं-पदयोः सामानाधिकरण्यं प्रतीयते । अपर्याय-पदानाम् एकार्थ-वृत्तित्वं सामानाधिकरण्यम् । पर्यायत्वं च स्वरूप-भिन्नत्वे सत्येकार्थ-बोधकत्वं घट-कलशवत् । तच् च सामानाधिकरण्यम् । तथाहीति । आमिक्षा सा शृतोष्णे या क्षीरे स्याद्-दधि-योगतः । इत्य् अमरः । केचित्-तु पय एव घनीभूतम् आमिक्षेत्य् अभिधीयते इत्य् आहुः । शृते स्थाल्यां कृत-पाके उष्णे दुग्धे या विकृतिः सामिक्षेत्य् अर्थः । विश्वेदेवस्येयम् आमिक्षा वैश्व-देवी विश्वे-देवस्य सम्बन्धिनी आमिक्षा भवति न तु विश्वे-देवत्वं प्राप्नोति अत आमिक्षा-विश्वे-देव-पदयोः सामानाधिकरण्यं नानार्थयोर् इति । यथोक्तं भट्टैः अमिक्षां देव-युक्तायां वदत्य् एव इत्य् आदि । आमिक्षां देवता-युक्तां विश्व-देव-सम्बद्धाम् एष तद्धितो\ऽण प्रत्ययो वदति कथम् आमिक्षा-पदस्य सान्निध्यात्-सन्निहितत्वात् तस्यैव तद्धित-प्रत्य-यान्तस्यैव वैश्वदेवी-पदस्यैव विषये आमिक्षा-पदस्यार्पणं । तद्धित-प्रत्ययेन क्रियत इति ।
यद् वा, ननु वैश्व-देव्य् आमिक्षा-पदयोर् नैकार्थाभिधायकत्वं वैश्व-देवी-पदेनामिक्षाभिधाने आमिक्षा-पद-प्रयोगो नोचितः, उक्तार्थानाम् अप्रयोग इति न्यायात् । किञ् च—विश्वे-देव स्तुतिपराया ऋगादेर् अपि वैश्व-देवी-पदार्थत्व-सम्भवात्-कथम् आमिक्षा-मात्रार्थकत्वम् इति चेत्-तत्राह—यथोक्तम् इति । एष देवतार्थस् तद्धितो\ऽण्-प्रत्ययो विश्वेदेव-देवता-युक्ताम् आमिक्षां वदत्य् एव । न तूक्तदूषणभिया न वदतीति शङ्कनीयम् । तर्ह्य् आमिक्षा-पद-सान्निध्य-वैयर्थ्यं तत्राह—आमिक्षा-पद-सान्निध्याद् इति । वैश्वदेवीपदेन विश्वेदेवाकः कश् चन द्रव्य-विशेष इति सामान्येनामिक्षा-पदोक्ताव् अपि को\ऽसौ द्रव्य-विशेष इत्य् अपेक्षायाम् आमिक्षा-पद-सान्निध्यादामिक्षा-रूप इत्य् अवगम्यते । वृक्षमाम्रं पश्येत्य् आदौ सामान्य-विशेष-शब्देषु तथा दर्शनात् । तथा चामिक्षा-पद-सान्निध्येन तस्यैव तद्धितस्यैव सामान्यते वाचकस्य विशेषतो विषयार्पणं भवतीत्य् अर्थः । अनेन प्रकारेणैकार्थत्वाभावं प्रदर्श्य कुत इति हेतुम् आशङ्क्य समाधत्तेभिन्नार्थत्वाद् इति । तद्धित-प्रत्ययेन पदयोः सामानाधिकरण्यं बोधितं न त्व् अर्थयोर् इति भिन्नार्थतैवोभयोः । पुनः प्रकारान्तरेण दर्शयति-न चेति । न जहत् अत्यजन् स्वार्थो नीलपीतादि-रूपो यया साजहत्स्वार्था तया तृतीयान्तान्य् अपदार्थ-बहु-व्रीहिः । निर्गतं रूढं प्राकट्यं प्रादुर्भावो यस्याः सा चासौ लक्षणा चेति निरूढ-लक्षणा तया । यद् वा, नितरां रूढा निरूढा पुनः पूर्ववत् । अनादि-परम्परागतया न साम्प्रतं रचितयेत्य् अर्थः । विशेष्यम् उत्पलं विशेषणं नीलं नीलम् उत्पलम् इतिवत् । सामानाधिकरण्यं न च कुतः विरुद्धार्थत्वेन तत्-त्वं-पदार्थयोः परोक्षत्वापरोक्षत्व-रूप-विरुद्धार्थत्वेन तस्या निरूढ-लक्षणाया अयोगात् अभावात् । यथोक्तं भट्टैः—
स्वरूप-सत्त्व-मात्रेण न हि किञ्चिद्-विशेषणम् ।
स्वबुद्ध्या रज्यते येन विशेष्यं तद्-विशेषणम् ॥
अर्थस् तु—स्वाकारेण विशेष्यमानवभास्य किञ्चिद् अपि वस्तु स्वरूप-सत्त्व-मात्रेण स्वस्थित्यैव विशेषणं न हि न भवति, किन्तु येन पीत-नीलादिना स्व-बुद्ध्या स्वाकारज्ञानेन विशेष्यम् उत्पलादि रज्यते भ्रमरादिभ्यो व्यावर्त्यावभास्यते तद्-विशेषणम् इत्य् अर्थः । अयं भावः—नील-गुणोत्पल-द्रव्ययोर् गुण-गुणिनोर् अविरुद्ध-स्वभावत्वेन विशेषण-विशेष्य-भावः कल्प्यते\ऽनुपपत्तेर् अभावात् । भवेत्-तत्र जहत्-स्वार्था निरूढ-लक्षणा । अत्र तु परोक्षत्वापरोक्षत्वादि-विरुद्धार्थत्वेन विशेषण-विशेष्य-भाव-कल्पनानुपपत्तौ न निरूढ-लक्षणेति । अनेन विशेषण-विशेष्य-भाव-प्रकारेण चैकार्थत्वं प्रदर्श्य पुनः प्रकारान्तरेण दर्शयति-न चेति । जहत्त्यजन्-स्वार्थो यया सा जहत्-स्वार्था, सा चासौ लक्षणा चेति जहत्-स्वार्थ-लक्षणा तया कुसुमिता जात-पुष्पा द्रुमां यस्यां सा कुसुमित-द्रुमा गङ्गा इतिवत्-सामानाधिकरण्यं न च कुतस् तत्-त्वं-पदयोर् एकार्थत्वस्य विवक्षितत्वात् वक्तुम् इष्टत्वात् । सम्बन्धि-लक्षणायां तु सम्बन्धिनः सम्बन्धस्य च स्फुरणान्-नैकार्थत्वम् इति भावः । प्रकारान्तरेणाघटमानं प्रदर्श्य येन प्रकारेण ब्रह्मणि पर्यवसानं तद्-दर्शयति अत इति । यतः प्रकारान्तरेण सामानाधिकरण्यं न सम्भवति अतो हेतोः । जहती त्यजत्य् अजहती न त्यजती स्वार्थौ ये ते तत्-त्वं-पदे यस्यां सा जहद् अजहत्-स्वार्था सा चासौ लक्षणा चेति तया । एकार्थत्वेन निर्गुणे पर्यवसानं सो\ऽयं देवदत्त इति यस्त्वया पूर्वं दृष्टः । तत्र तच्-छब्देन विप्र-कृष्ट-देश-काल-विशिष्टो\ऽर्थो\ऽभिधीयते इदं-शब्देन च सन्निकृष्ट-देश-काल-विशिष्टो\ऽर्थो\ऽभिधीयते । तद् उक्तम्—
इदम् अस्तु सन्-निकृष्टं समीपतर-वर्ति चैतदो रूपम् ।
अदसस्तु विप्र-कृष्टं तद् इति परोक्षे विजानीयात् ॥ इति ।
विप्रकृष्टं विदूरम्, सन्-निकृष्टं सन्-निहितम्, न च सन्-निकृष्ट-विप्रकृष्टयोर् एकार्थत्वं सम्भवति तस्माद्-विरोधि-विशेषण-सम्बन्ध-परित्यागेन भग-लक्षणया सो\ऽयम् इति पद-द्वयं देव-दत्तस्य स्वरूपम् अखण्डितं प्रतिपादयति । तथा जीवो\ऽपि परमार्थतो ब्रह्मैव सन्नविद्या-दोष-वशाद-संसारिणो ब्रह्मणो\ऽत्यन्त-भिन्नं संसारिणम् आत्मानं मन्यते तं श्रुतिर् बोधयति तत्-त्वम् असीति । तत्र तत्-पदेन प्रकृतं परोक्षं वस्तु कथ्यते । प्रकृतम् एकम् अद्वितीयम् ईक्षितृ जगत्-कारणं ब्रह्म त्वं-पदेनाप्य् अविद्याद्य् उपाधि-परिच्छिन्नो नित्या-परोक्षः प्रत्यगात्माभिधीयते । न च परोक्षापरोक्ष-परिच्छिन्नापरिच्छिन्नयोर् एकत्वं सम्भवति । तस्मात्-तत्-पदार्थ-गतं परोक्षापरिच्छेदादिकं त्वं-पदार्थ-गतम् अपरोक्ष-परिच्छेदादिकं परित्यज्य जहद् अजहत्-स्वार्थ-लक्षणया तत्-त्वं पद-द्वयं सच्-चिद् एक-रसम् अखण्डम् आत्म-तत्-त्वं प्रतिपादयति । असिपदम् अपि प्रकृत्य् अर्थस्य सतः प्रत्ययार्थस्य च प्रतीचः सङ्घट्टनेनानुवददाभ्यां सम्बध्यते । इति निषेध-परश्रुतीनां तत्-परत्वम् आह—अस्थूलेत्य् आदि । अस्थूल-मत एव ह्रस्वमदीर्घम् इत्य् आदि-वाक्यानाम् उपाधि-निषेधेन स्थूलत्वाद्य् उपाधि-निषेधेन साक्षाद्-ब्रह्मणि पर्यवसानम् इत्य् अर्थः । सगुण-गतानाम् इव स्थूलत्वाद्य् उपाधीनाम् अनुवादाद्-विशिष्टालम्बनत्वम् अस्त्य् एव । विशिष्टं सगुणम् । उपासना-परसृष्टि-परश्रुतीनां तत्-परत्वम् आह—उपासनादि-वाक्यानाम् अत्रादिना सृष्ट्यादि-ग्रहः । क्रियार्थो यज्ञार्थस् तत्र प्रवृत्तानां सृष्ट्यादि-वाक्यानां यतो वा इमानि भूतानि जायन्ते । इत्य् आदि-वाक्यानां यज्ञार्थैव प्रवृत्तिः । यतो वा एतानि जातानि तं यजतेति । एवं स ऐक्षत इति य ऐक्षत तं यजत इत्य् आदिष्व् अपि ध्येयम् । मुख्या प्रवृत्तिस्तु वैराग्यार्थेत्य् आह—आगमापायि-सृष्टि-स्थिति-प्रलय-निरूपणेन ज्ञान-साधन-वैराग्य-विधानं तेन तद्-द्वारा तत्-परत्वं ब्रह्मणि पर्यवसानम् । उपासना-वाक्यैस् तूदराद्य् उपाध्यालम्बन-सगुण-ब्रह्मनि-रूपणेनान्तः करण-शुद्धि-लक्षणं यत् ज्ञान-साधन-विधानं तेन ब्रह्मणि पर्यवसानम् । कर्मादि-पराणां यावज्-जीवम् अग्निहोत्रं जुहुयात् । इत्य् आदिकानां श्रुतीनां विविदिषायां विनियोगाद् अनुपादानं तम् एतं वेदानुवचनेन यज्ञेनेत्य् आदि-श्रुतेर् ज्ञानेच्छायाम् उपयोगाद् अत्र न ग्रहणम् इति ज्ञेयं सुधीभिर् इति । अथान्यः सिद्धान्त उच्यते-निर्गुणे ब्रह्मणि सगुणाः श्रुतयः कथं चरन्तीति प्रश्नस्य सिद्धान्तः स्वामिचरणैर् लक्षणापरादि-श्रुतीनां यथा ब्रह्मणि तात्-पर्यं तथा प्रदर्श्य कृत एव । तथाप्य् अत्राशङ्कास्ति सा यथा—
बुद्धीन्द्रिय-मनः प्राणान् जनानाम् असृजत्-प्रभुः ।
मात्रार्थं च भवार्थं च आत्मने\ऽकल्पनाय च ॥
इति लोकानां प्रभुर् असृजद् इति कथम् उक्तं श्री-शुक-देवेन प्रश्नत्तरानुपयोगित्वादिवेति—अत्रोच्यते\ऽस्माभिः—बुद्धिर् हि द्विविधा-व्यवसायात्मिकाव्यवसायात्मिका चेति, तत्राव्यवसायात्मिका हि त्रिवर्ग-साधने सत्त्वादि-गुण-भेदेन त्रिधा भूत्वानन्ता बुद्धयः स्युः
व्यवसायात्मिका बुद्धिर् एकेह कुस्रन्दन ।
बहु-शाखा ह्य् अनन्ताश् च बुद्धयो\ऽव्यवसायिनाम् ॥ इति ।
सुखम् आत्यन्तिकं यत्-तद्-बुद्धि-ग्राह्यम् अतीन्द्रियम् इत्य् उक्तेः । अतो बुद्धे सर्जनं वेदोक्त-कर्म-प्रतिपादित-भोगानन्तरं मोक्षार्थम् इति । इन्द्रियादि-सृष्टेः प्रयोजनं यथा-इन्द्रियं वाग् इन्द्रियं तस्य मुख्यत्वात् । मुख्यत्वं तु वचन-पूर्वकत्वात् सर्व-व्यवहार-सिद्धेः । तथश् च वाङ्मनः प्राणा ऋग्-यजुः-साम-वेदा भवन्ति । तथा च श्रुतिः—ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये इति । अन्ये\ऽपि लोकादयः सर्वे वागादय एव भवन्तीत्यत्र सम्यक्-प्रबोधनार्थम् अन्याः श्रुतयो\ऽपि लिख्यन्ते—
त्रीण्य् आत्मने कुरुतेति । मनो वाचं प्राणं तान्य् आत्मने कुरुत एव एतन्-मयो\ऽयम् आत्मा वाङ्मयो मनोयः प्राणमयः । त्रयो लोका एत एव-वाग् एवायं लोको । मनो\ऽन्तरिक्ष-लोकः । प्राणो\ऽसौ लोकः । त्रयो वेदा एत एव-वाग् एव ऋग्-वेदो मनो यजुर्-वेदः प्राणः साम-वेदः । देवाः पितरो मनुष्या एत एव-वाग् एव देवाः । मनः पितरः । प्राणो मनुष्याः । माता पिता प्रजैत एव-वाङ्-माता । मनः पिता । प्राणः प्रजा । विज्ञानं विजिज्ञास्यम् अविज्ञातम् एत एव ।
यत्-किंचिद्-विज्ञातं वाचस् तद्-रूपं वाग्घि विज्ञाता वागेनं तद्-भूत्वावति । यत्-किञ्चिद्-विजिज्ञास्यं मनस् तद्-रूपं मन एनं तद्-भूत्वावति । यत्-किञ्चिद्-विज्ञातं प्राणस्य तद्-रूपं प्राणो ह्य् अविज्ञातः । प्राण एनं तद्-भूत्वावति । तस्यैव वाचः पृथिवी शरीरं ज्योती-रूपम् आग्निः यावत्य् एव वाक्तावती पृथिवी तावानयम् अग्निः । अथै-तस्य मनसो द्यौः शरीरं ज्योती-रूपम् असावादित्यः । तद्-यावद् एव मनस्तावनी द्यौस्तावानसावादित्यः । अथैतस्य प्राणस्यापः शरीरं ज्योती-रूपमसौ चन्द्रः । तद्-यावान् एव प्राणस् तावत्य आपस् तावान् असौ चन्द्रः । त एते सर्वे समाः सर्वे\ऽनन्ताः स यो हैतानन्तवत उपास्ते, अन्तवन्तं लोकं जयति । अथ यो हैतानन्तानुपास्ते सो\ऽनन्त-लोकं जयति इति ।
सुगमत्वान् न व्याख्यायते । इहामुत्रानन्त-लोक-सुख-भोगाय त्रीणि मनो वाचं प्राणम् एतान्यात्मने आत्मार्थं यूयं कुरुत यत एतन्-मयो\ऽयम् आत्मा यतस् त्रयो वेदा एत एव असौ लोकः पर-लोकः यत्-किञ्चिद्-विज्ञातं विशेषेण ज्ञातं वस्तु तत्-सर्वं वाचो रूपम् अतो वाक्तद्-विज्ञातं वस्तु भूत्वा एनं पुरुष सङ्कटदाववति रक्षति एवम् उत्तरत्रापि ज्ञेयम् । ज्ञातुम् इच्छा जिज्ञासा यत्र विजिज्ञासा वर्तते तद्-विजिज्ञास्यम् । अन्तवतो विनाशवतः । ह स्फुटम् । जयति प्राप्नोति स्पष्टम् अन्यत् । अकल्पनायेत्य् अस्यार्थः । एवं धर्मार्थ-कामान् वेदोक्त-मार्गेण संसेव्य विमुक्तये विरज्य परमात्मानं ज्ञात्वा प्रव्रजेद् इत्य् अत्र श्रुतिः—
एतम् एव विदित्वा मुनिर् भवति । एतम् एव प्रवाजिनो लोकम् इच्छन्तः प्रव्रजन्ति । एतद् वै पूर्वे विद्वांसः प्रज्ञानं कामयन्ते । किं प्रजया करिष्यामो येषां नो\ऽयम् आत्मा लोक इति ते ह स्म पुत्रैषणायाश् च वैत्तैषणायाश् च लोकैषणायाश् च व्युत्थाय भिक्षाचर्यं चरन्ति या ह्य् एव पुत्रैषणा सा वित्तैषणा सा लोकैंषणा उभे ह्य् एषणे एव भवतः तस्माद्-ब्राह्मणः पाण्डित्यं निर्विद्य बाल्ये तिष्ठासेत् । बाल्यं पाण्डित्यं च निर्विद्याथो मुनिर् अमौनं मौनं च निर्विद्याथो ब्राह्मणः स ब्राह्मणः येन स्यात्-तेनेदृश एवातो\ऽन्यदार्तम् इति सुगमम् । तस्माद् इति ब्राह्मणः ब्राहम्ण-जाति-गुण-विशिष्टः बाल्येन बाल-स्वभावेन [पण्डाध्ययन-जात-ब्रह्म-बुद्धिः तद्-वान्-पण्डितस् तस्य कृत्यं पाण्डित्यं श्रवणं तन्-निर्विद्य निश् चयेन लब्ध्वा बाल्येन ज्ञान-बलाभावेन मननेन शुद्धान्तः करणेन वा स्थातुम् इच्छेत् । तद्-द्वयं लब्ध्वाथ श्रवणम् अननानन्तरं मुनिर् मननशीलो निदिध्यासन-परः स्यात् । अमौनं श्रवणम् अनने मौनं च निदिध्यासनं लब्ध्वा उक्तत्रयस्य
ब्रह्म-साक्षात्कार-हेतुत्वात्रयानन्तरं ब्रह्मा-वगच्छतीति ब्राह्मणः साक्षात्-कृत-ब्रह्मा भवतीत्य् अर्थः ।] तिष्ठासेत् स्थातुम् इच्छेत् । तर्हि सदा बाल्येन तिष्ठेत् नेत्य् आह—बाल्यं च पाण्डित्यं च निर्विद्य त्यक्त्वा मुनिर् यत-वाग्-भवेत् । तर्हि किं सदा मौनेन तिष्ठेत् नेत्य् आह—मौनं चामौनं च हित्वा ब्राह्मणः ब्रह्म-निष्ठः स्यात् । स ब्राह्मणः केन स्याद् इत्य् अस्योत्तरम्-येनेति । येन ब्राह्मणः स्यात्-तेनानिर्वचनीयेन ब्रह्मात्म-लाभेन ईदृश एवोक्त-प्रकारेण ब्राह्मण एव स्यात् तद्-वस्तु अतः पाण्डित्य् आदेर् असतः अन्यत्-पृथग् एवार्तं सत्यम् इति । तस्माद् एतेन बुद्धीन्द्रियेत्य् आदि-श्लोकेन जनानां चतुर्वर्गं प्रतिपादयन्त्यः श्रुतयो यथा ब्रह्मणि चरन्ति तथा प्रदर्श्य शुकदेवेन राद्धान्तः कृतः ।
———————————————————————————————————————
श्रीधरानुयायिनी : उत्तरम् आह श्री-शुकदेवः—बुद्धीति । प्रभवत्य् अस्माद् इति प्रभुर् मायोपहितेश्वरः । आकाशादि सृष्ट्वा तत्-सात्त्विकाद्यंशेभ्यो जनानां प्रमातॄणाम् उपाधि-भूतान् बुद्धीन्द्रिय-मनः-प्राणान् असृजत् । कारणाज्ञाने लीनान् पुनः प्रादुरभावयत् । तत्र प्रयोजनम् आह—मात्रार्थम् इति । मात्रा परिच्छदे माने प्रवृत्तौ कर्ण-भूषणे इत्य् अनुशासनान्-मात्रा प्रवृत्तिस् तद् अर्थम् । कथं चरन्ति श्रुतयः इति प्रश्नाच्-छुतीनाम् इति शेषः । तथा च श्रुतीनां ब्रह्मण्य् अपि प्रवृत्त्य् अर्थम् इत्य् अर्थः । बुद्ध्यादिकं विना वचनस्याप्रवृत्तेः । मनसा वा अग्रे सङ्कल्पयत्य् अथ वाचा व्यवहरति इति श्रुतेः । अयं भावः—निर्धर्मके शुद्धे ब्रह्मणि श्रुतीनां प्रवृत्त्य् असम्भवे\ऽपि अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इत्य् उक्त्वा यतो वा इमानि भूतानि जायन्ते, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आद्याः श्रुतयः ईश्वरात्-सृष्ट्याद्य् उक्त्वा ता एव तत्-त्वम् असीत्याद्या जीवेश्वरयोर् अभेदं बोधयन्त्यः सो\ऽयं देवदत्त इत्य् आदौ विरुद्धयोर् देश-कालयोर् इवात्रापि विरुद्धयोर् जीवेशोपाध्योस्त्यागं विना तयोर् अभेदानुपपत्त्या जहद् अजहल्-लक्षणया शुद्ध पर्यवस्यन्ति । अत एवान्ते अतन्-निरसनेन भवन्-निधनाः [भा।पु ८७.४.१४] इत्य् उक्तम् । एवं च मायोपहितस्येश्वरस्य कारणोक्त्या तत्र धर्मि-सम-सत्ताक-धर्म-सम्बन्ध-सत्त्वेन श्रुतीनां शक्त्यैव प्रवृत्तिः । असङ्गे शुद्ध-ब्रह्मणि च तादृश-धर्माभावेन वास्तव-तत्-सम्बन्धाभावे\ऽपि दीपे रज्जु-सर्पस्येवाध्यासिक-सम्बन्धो\ऽस्त्य् एवेति लक्षणायाः सम्बन्धापेक्षत्वे\ऽपि तया वेदानां कल्पितधर्माधारे ब्रह्मणि प्रवृत्तिर् निराबाधैव ।
प्रेम-भक्तास्तु—ब्रह्मणः शब्द-वाच्यत्वाभावाद् एवानिर्देश्यत्वम् इत्य् आशङ्कायां यदि परमेश्वरो बुद्धीन्द्रियादीनि मास्रक्ष्यत्-तदा रूप-शब्दादयो\ऽप्य् अनिर्देश्यादृश्यत्वेन ब्रह्म-तुल्या एवाभविष्यन् यतो\ऽद्याप्य् आजन्मान्धमूकस्य रूप-शब्दौ ब्रह्म-वद् अदृश्यानिर्देश्याव् एव भवतः । अतो\ऽस्मदादिभ्यो येनाग्रहेण ग्राहकाणि बुद्धीन्द्रियादीनि दत्त्वा सर्वे विषयाः सुखेन दर्शननिर्देशादि-योग्याः कृतास् तेनैव परमेश्वरेण कृपया कस्मैचित्-स्वभक्ताय ब्रह्मणो\ऽपि ग्राहकं किम् अप्य् अलौकिकं सामर्थ्य-विशेषं दत्त्वाकार-जाति-गुण-क्रियातिरिक्तं किम् अपि शब्द-प्रवृत्ति-निमित्तं सृष्ट्वासृष्ट्वैव वा ब्रह्मापि शब्द-निर्देश्यं करिष्यत्य् एव । यतः प्रभुः अनिर्देश्यम् अपि निर्देश्यं कर्तुं समर्थः । अतः श्रुतयो ब्रह्मणि चरेयुर् एवेत्य् उत्तरम् आहुः । अन्यद् अपि प्रयोजनम् आह—भवायेति । ऐहिक-पारलौकिक-भोग-सुखायेत्य् अर्थः । बुद्ध्यादीन् विना यज्ञादि-कर्मणां सुख-भोगस्य चासम्भवात् । तथात्मनेकल्पनाय चेति । आत्मानं जीवम् उद्दिश्य या जन्म-मरणादि-कल्पना तद् अभावाय मोक्षार्थम् इति यावत् । बुद्ध्यादिकं विना मोक्ष-साधनी-भूतस्य शम-दमादेर् योग-ज्ञानयोश् चासम्भवात् । यद् वा—आत्मने स्वस्मै स्वोपासनार्थं यद्-बुद्ध्यादीनां कल्पनं विनियोगस् तस्मै श्री-कृष्ण-भजनार्थम् इति यावत् । बुद्ध्यादीन् विना भक्त्य् अङ्गस्य श्रवण-कीर्तनादेर् अप्य् असम्भवात् । भोग-मोक्षयोर् वैलक्षण्य-सूचनाय संध्यकरणम् । त्रयाणाम् अपि प्राधान्यद्योतनाय चकार-त्रयम् । अन्ये तु स्वप्रकाशस्य ब्रह्मणः सिद्धिः प्रमाणं नापेक्षते इत्य् आशयेनोत्तरमदत्त्वैव ब्रह्मणो ज्ञानार्थं तटस्थ-लक्षणम् आहुः—बुद्धीत्य् आदि । तत्-सृष्टौ प्रयोजनान्य् आह—मात्रर्थमैहिक-विषय-भोगार्थं भवार्थं पारलौकिक-विषय-भोगार्थम् आत्मने कल्पनाय मोक्षार्थं चेत्य् आहुर् इत्य् अलम् ॥२॥
नीलकण्ठी : तु तद् एतन्-मनो वाचं प्राणं तान्य् आत्मने कुरुतेत्य् एताम् एव श्रुति-मनुसृत्य परिहरन् श्री-शुक उवाचेत्य् आह—तत्र श्रुतौ मनसा बुद्धि-ज्ञानेन्द्रियाणि वाचा कर्मेन्द्रियाणि च सङ्गृह्य तेषां सप्राणानाम् आत्म-प्रकाशार्थत्वम् उक्तम् । अत्र तु विषय-विभागेनेति विशेषः । तत्र विषय-परिच्छेदो मात्रा तद् अर्थं प्रभुर् जनानां बुद्धिम् असृजत् । परिच्छिद्यन्ते हि बुद्ध्यातीन्द्रिया अप्य् अपूर्वादयः । ब्रह्मणश् च स्वयं फलात्मनो घटादिवत्-फल-व्याप्यत्वाभावे\ऽपि वृत्ति-व्याप्यत्वम् उपगम्यते यन्मनसा न मनुते, मनसैवानुद्रष्टव्यम् इति श्रुति-द्वय-विरोधाय । एवं वाच्यत्वानुपगमे\ऽपि लक्ष्यत्वम् उपगम्यते । यद् वाचानभ्युदितम्, तं त्व् औपनिषदं पुरुषं पृच्छामि इति श्रुति-द्वय-विरोधाय ।
तथा च तत्-त्वम् असीति वाक्यकरणकधी-वृत्ति-व्याप्यत्वोपगमान्न् आत्यन्तम् अनिर्देश्यत्वं ब्रह्मणो\ऽस्तीत्य् अर्थः । न केवलं बुद्धिमय-कर्तृ-गोचरो ब्रह्मापि तु इन्द्रिय-मन आख्य-करण-गोचरो\ऽपीत्य् आह—भवार्थम् इन्द्रियाण्य् असृजत् । आत्मार्थं मनो\ऽसृजत् । इति । भवो घटाद्य् अधिष्ठान-भूत-प्रकाशः । प्राप्त्य् अर्थस्य भवतेर् ज्ञानार्थत्वोपपत्तेः । यमपेक्ष्य घटादि-ज्ञानमनु भव इत्य् उच्यते तद् अर्थम् इन्द्रियाण्य् असृजत् । इयम् अत्र प्रक्रिया-चित्-प्रतिबिम्ब-गर्भम् अन्तःकरणं वृत्त्या कारणेन परिणम्य यदा चक्षुरादि-द्वारा घटद्य-वच्छिन्न-ब्रह्म-चैतन्यावरके ज्ञाने\ऽभिभूते स्वतः-प्रकाशमाने ब्रह्मणि घटाद्य् अध्यस्यते । तत्रान्तः-करणावच्छिन्नं चैतन्यं प्रमाता वृत्त्य् अवच्छिन्नं चैतन्यं प्रमाणं घटाद्य् अवच्छिन्नं प्रमेयम् । तत्र कुल्याद्वारा तटक-केदार-सलिलयोर् इव वृत्ति-द्वारा प्रमातृ-प्रमेय-चैतन्ययोर् ऐक्यं प्रमाफलम् आत्म-बोध इति गीयते । एवं सति शुक्ति-रजताद्य् अध्यास इव घटदि-दृश्य-वाच्याध्यासे\ऽपि दृग्-वाग् अन्वय-व्यतिरेकयोर् अधिष्ठान-प्रकाश एवोपक्षयः । तद् एतद् आह—भवार्थम् इन्द्रियाण्य् असृजद् इति । फलम् अपि ब्रह्मैव शास्त्रं च तद् अन्यनिवृत्त्य् अर्थम् एवेत्य् उक्तं वृद्धैः । परागर्थ-प्रमेयेषु या फलत्वेन सम्मता संवित्-सैवेह मेयो\ऽर्थो वेदान्तोक्ति-प्रमाणत इति सर्व-प्रत्ययवेद्ये वा ब्रह्म-रूपे व्यवस्थिते प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते । इति च घट-रजतादिकं त्व् आविद्यकं प्रति-भास-मात्रम् । एवं च रज्ज्वां स्रक्-सर्पधियोर् इव ब्रह्मणि रज्जु-सर्पधियोर् जाग्रत्-स्वप्नयोर् वा परस्पर-निरोधकत्वम् एव बाधस्तु तयोर् ब्रह्म-ज्ञानेनैवेति दृष्टि-समसमयां सृष्टिम् उपयन्तो वेदान्त-वृद्धाः । तेषां ब्रह्मणि पारमार्थिकी सत्ता दृश्ये प्रतिभासिकी इतरेषां तु सत्ताद्-वैविध्यम् अभिमतं स्वप्न-रज्जु-भुजङ्गादौ प्रातिभासिकी सत्ता प्रबोध-रज्ज्वादि-ज्ञानेन सद्यो बाध्या, जाग्रद्-रज्ज्वादौ तु व्यावहारिकी ब्रह्म-ज्ञानैकबाध्येति । तत्र पूर्वेषां ब्रह्मणि सर्व-शब्द-वाच्यतास्ति नामानि सर्वाणि यमाविशन्ति इति श्रुतेः । अवाच्यत्व-श्रुतिस् तु लौकिक-शब्द-प्रवृत्ति-निमित्त-जाति-गुणाद्य् अभावपरा । परेषां तु शरीरं रथम् एव तु इत्य् अत्र यथा-शरीर-शब्देन शरीरोपादानम् अव्यक्तं लक्ष्यते तद्-वद्-घटाद्य् उपादानं ब्रह्म घटादि-शब्दैर् इति मतम् । एवं कर्तृक-रण-सृष्टेः ब्रह्म-प्रकाशार्थम् उक्त्वा क्रिय-शक्तिमत्-प्राण-सृष्टेर् अपि तद् उभयानुग्राहकतया तद् अर्थत्वम् आह—कल्पनाय प्राणान् असृजत् । कल्पनं बुद्ध्यादेः स्व-स्व-विषयक-प्रकाशन-सामर्थ्य-सम्पादनं तस्मै । यस्माद्-ब्रह्मणः सर्व-शब्द-प्रत्ययगम्यत्वम् अस्ति तस्माद्-भवत्य् एव सन्-मार्गोपदेश इति ॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : सिद्धान्तमाह—बुद्धीति जनानां कर्मि-ज्ञान्येकान्त-भक्तानां बुद्ध्यादीनि प्रभुरसृजं । विषयिणां भवार्थं भवो जन्म तत्प्रभृति कर्म-करणार्थम् मात्रार्थमिन्द्रियद् वा, रा विषय-भोगार्थं प्राकृतम् एव मुमुक्षुणां शुद्ध-सत्त्वमयम् अकल्पनाय मोक्षाय रजस् तमः-क्षय एव हि सत्त्व-वृत्या ब्रह्माकारया मोक्षः एकान्त-भक्तानां सच्-चिद् आनन्द-घनम् आविष्कृतवानित्य् अर्थः । आत्मने निजश्री-विग्रहाय तद्-दर्शन-स्पर्शनाद्य् अर्थम् इत्य् अर्थः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र समाधत्ते—बुद्धीति । जनानां महा—प्रलये स्वस्मिन् लीनानां मात्रार्थं विषय-भोगार्थम् । यद् वा, मीयन्ते गुणाः कार्याणि गुणातीतानि चाभिर् इति मात्राः श्रुतयः, तद् अर्थं तद्-धारणाद्य् अर्थम् । तद्-धारणादिकं किम् अर्थम् ? इति तद् आह—भवार्थम् इत्य् आदिना पद-त्रयेण । भवार्थम् अभ्युदयापवर्गार्थम् । यद् वा, भवार्थम् अभ्युदयार्थं ब्रह्म-लोकाद्य् आचार्ययतिअ-प्राप्त्य् अर्थम् । आत्मने स्व-स्वरूप-प्राप्त्य् अर्थं मोक्षार्थम् इत्य् अर्थः । अकल्पनाय भजनाय । निर्गुणो मद् अपाश्रयः [भा।पु। ११.२५.२६] इत्य् आद्य् उक्तेः । भजनस्य निर्गुणत्वेन कल्पनातीतत्वात् ।
यद् वा, आत्मने स्वस्य कृष्णस्य प्राप्त्य् अर्थं स्व-प्राप्त्य् उपायम् आह—कल्पनायेति । भक्तेः कल्पनाय विधानायेत्य् अर्थः । भक्त्यैवाहं लभ्यः स्याम्, नान्योपायेनेति भावः । तथा हि श्री-भगवतैवैकादश-स्कन्धे वक्ष्यते—भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति । श्री-गीतासु च, पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता ८.२२] इति । अतोऽधोक्षजत्वाद् अवाङ्-मनसागोचरोऽपि श्री-भगवान् भक्तिं कुर्वति जने भक्त-जन्येनैव प्रसादेन तत्र स्व-शक्तिं सङ्गम्य बाढम् अघटमानाम् अपि चक्षुर् आदि-गोचरतां प्राप्नोतीत्य् अभिप्रेत्य भक्त्यैव श्रुतयः कृष्णे चरन्ति, नान्यथा इति प्रथमं सङ्क्षेपेनोत्तरं दत्त्वा श्री-सनन्दन-मुखेन यथा शयानं सम्राजम् [भा।पु। १०.८७.१३] इति दृष्टान्तितेन पद्येन श्रुतीनां भक्तिं वर्णयता श्री-शुकेन पूर्वं नारद-कृतस्यैवास्य प्रश्नस्य विस्तरेणोत्तरतया श्रुति-गोचरता-हेतुः श्री-भगवन्-माहात्म्य-भर-प्रपञ्च्दृशका श्रुति-स्तुतिर् एवोपक्षिप्ता । तथा च स्तुत्य् आरम्भे क्वचिद् अजयात्मना च चरतोऽनुचरेन् निगमः [भा।पु। १०.८७.१४] इत्य् अनुचरणं वक्ष्यते ।
अयं भावः—श्रुतयस् त्रिविधाः—कर्म-पराः, ज्ञान-पराः, श्री-भगवत्-पराश् चेति । तत्र कर्म-परास् त्रैगुण्य-विषयत्वात् कृष्णे चरितुं न शक्नुवन्ति । ज्ञान-पराश् च लक्षणया भगवत्-स्वरूप-विशेषे चरन्त्योऽमुत्रापूर्त्या साक्षात् तम् एव दिदृक्षवोऽतन्-निरसन-द्वारा भगवन्तं मृग्यन्तिए । तद् अपेक्षयैवोक्तं, अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भा।पु। १०.१४.१४] इति । श्री-भगवत्-परास् तु श्री-नारायणोपनिषद्-गोस्वामोत्तमी-प्रमुखा भक्ति-विशेषेण साक्षाद् एव श्री-भगवति चरन्त्य् अमुं प्राप्नुवन्ति । तथा तद् अनुगतानां चागम-पुराणादीनां पद-वाक्यानि तत्र चरन्तीति ।
अत एव रास-क्रीडा-प्रसङ्गे कथितम्, मनोरथान्तं श्रुतयो यथा ययुः [भा।पु। १०.३२.१३] इति । अस्यार्थः—कर्म-काण्डादि-श्रुतयः परमेश्वरम् अपश्यन्त्यस् तत्-तत्-कामाद्य् अनुबन्धैर् अपूर्णा भवन्ति, भगवत्-परास् तु तं लब्ध्वा मनोरथान्तं पूर्ण-कामतां गच्छन्तीति । तथा हि बृहद्-वामने—
ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-सञ्ज्ञितः ।
तल्-लोक-वासी तत्रस्थिअः स्तुतो वेदैः परात्परः ॥
चिरं स्तुत्या ततस् तुष्टः परोक्षं प्राह तान् गिरा ।
तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन् मनसीप्सितम् ॥
श्रुतय ऊचुः—
कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।
कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयम् ॥
यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनि नस् तथा ॥
श्री-भगवान् उवाच—
आगामिनि विरिञ्चौ तु जाते सृष्त्य् अर्थम् उद्यते ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥ इति ।
शुद्ध-भक्तानाम् एव दृश्यो भवतीत्य् अस्मिन्न् अर्थे मोक्ष-धर्मे नारायणीयोपाख्याने वसुराजाश्वमेधे भीष्मादि-वाक्ये प्रमाणम् । तथा हि—
प्रीतस् ततोऽस्य भगवान् देवदेवः पुरातनः ।
साक्षात् तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥
स्वयं भागम् उपाघ्राय पुरोदाशं गृहीतवान् ।
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥
बृहस्पतिस् ततः क्रुद्धः स्रुवम् उद्यम्य वेगितः ॥ इति ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र ऋषिर् उवाचेति तस्य सर्वज्ञत्वात्-तत्र प्रावीण्यं दर्शितम् । श्री-शुक उवाचेति पाठे ब्रह्म-वैवर्तोक्तां कथां सूचयति । यत्र श्री-कृष्णेनैव तस्य तन्-नाम कृं माया-बन्धनतश् च मोचित इति । ततः श्री-विष्णु-रात-वत्-कृपा-विशेष-लाभेन समवासनतया सो\ऽपि तद् अनुकूलम् एवोवाचेत्य् अर्थः । तथा हि-बुद्धीन्द्रियेति । एतद् उक्तं भवति येन स्वरूप-लक्षणेन तटस्थ-लक्षणेन वा परम-कारणं तत्-त्वं निरूप्यते । तद् उभयम् अपि श्री-भगवत्-तत्-त्वम् एव पर्यवसाययति न तु निर्विशेष-ब्रह्मत्वम् । तत्रादौ यः सर्वज्ञः सर्ववित् । इत्य् आद्य् अनुसारेण प्रभुर् इत्य् अन्यनैर् अपेक्ष्येणोक्तत्वात् स्वरूपेणैवेश्वरत्वम् । स च सर्व-व्यापनशील-ज्ञानेच्छा-क्रिया-शक्तिमान् सत्यं ज्ञानम् अनन्तं ब्रह्म । इति विज्ञानम् आनन्दं ब्रह्म इति यल्-लक्ष्यते तस्यैव खल्व् एतस्यानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति को ह्य् एवान्यात्कः प्राण्याद्यद्येष अकाश आनन्दो न स्यात् इति आनन्दाद् एव खल्व् इमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्य् अभिसंविशन्ति । इति न तस्य कार्यं कारणं च विद्यते । इत्य् आदि-श्रुतयः स्वाभाविक-शक्तिं दर्शयन्ति । वक्ष्यति च त्वम् अकरणः स्वराडखिल-शक्तिधरः । इति उपाधि-सम्बन्धेन तत्-तच्-छक्तित्वे तूपाधेर् एवेश्वरतापातात् । वक्ष्यन्ति श्रुतयः त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः इति । अथ द्वितीये तत्-तेजोऽसृजत इत्य् आद्य् अनुसारेण जनानां बुद्धीन्द्रियादीन् असृजद् इति सुतराम् एव तादृशत्वं परिणामे वा विवर्ते वा योग्यस्यैवोपादानात्-तन्-निमित्ते च स्वीकारौचित्य् आद् इति योग्यम् एव हि शक्तिर् इति । अत्र तु कर्तृ-निर्देशात्-स्वातन्त्र्य-प्राप्तेः सुतराम् । अत एव सर्व-बुद्ध्यादि-स्रष्टृत्वेन तद् ईक्षणात्-पूर्वं प्रकृतिक्षोभाभावेन च तस्य हि विलक्षण-स्वाभाविक-बुद्ध्यादिमत्त्वम् अवगतम् । स ऐक्षत इत्य् आद्य् अनुसारेण मात्रार्थं चेत्य् आदिना विचार-पूर्वक-स्रष्टृत्व-निर्णयात्-तु सुतरां तथैव । मात्रार्थम् इत्य् आदिना तत्-तत्-सर्व-पुरुषार्थं परमाश्रयत्वं च । सर्व-कामः सर्व-गन्धः सर्व-रस अयम् आत्मापहत-पाप्मा इत्य् आदि-श्रुतेः न चारोपितम् एव सर्वम् इदं तन्-मते\ऽपि तावद् अविषये वस्तु-न्यारोपासम्भवात् । ब्रह्मणः काल-त्रये\ऽपि शुद्धत्वेनान्यस्य त्वारोप्य् अकोटिप्रवेशेनाज्ञानस्य जडत्वेनारोपकासम्भवे च तद् असम्भवात् । तस्मान् न जीव-रूपस्य स्वस्य स्वाज्ञानेन तद् आरोपकत्वं वेदस्यारोपकत्वम्, चेत्-तस्य स्वाज्ञानमयत्वेन स्वप्न-प्रलाप-तुल्यतया सकर्तृकारोप एव तात्पर्ये सत्य-विशेषात् । वेदस्य स्वातन्त्र्ये\ऽप्य् आरोप्य् अस्य हेयतया प्रक्षालनाद्धि पङ्कस्य दूराद् अस्पर्शनं वरम् इति न्यायेन स्वयं तद्-बाधयितुम् अयोग्यत्वात् स्वाभाविकीत्य् आदि-श्रुति-विरोधात् श्रुतेश् च शब्द-मूलत्वाद् इति न्याय-विरोधाच् च आरोपितत्वे सत्य-नीश्वरवाद-प्रसङ्गाच् च स्थाणौ पुरुषाभिमानिवद्-ब्रह्म-णीश्वराभिमानिनः काल-त्रये\ऽप्य् अभावापत्तेः स्वाज्ञान-कल्पित-पुरुष-कल्पितत्व-ज्ञानस्य स्वाज्ञान-कल्पितत्व एव पर्यवसानात् मध्ये कल्प-कान्तर-मनन-वैयर्थ्याच् च । सञ्ज्ञा-मूर्ति-कॢप्तिस् तु त्रि-वृत्कुर्वत उपदेशात् इत्य् आदि-न्याय-वृन्दा-सम्मतं हि तत् । निन्दितं च गीतासु—
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-संभूतं किम् अन्यत् काम-हैतुकम् ॥ [गीता १६.८] इति ॥
असत्यं मिथ्या-भूतं सत्त्वासत्त्वाभ्याम् अनिर्वचनीयत्वेनाप्रतिष्ठम् निर्देश-शून्यं स्वाज्ञान-कल्पितत्वाद् अनीश्वरम् । अपरस्पर-सम्भूतम् अनाशाद्य् अज्ञान-परंपरा-जातम्—अपरस्पराः क्रियासातत्ये । अतः काम-हेतुकं मनः-सङ्कल्प-मात्र-जातं स्वप्नवद् इत्य् अर्थः । अत्र प्रवृत्तिं च निवृत्तिं च । इत्य् आदिना पूर्वं तेषां संस्कार-दोष उक्तः । एतां दृष्टिम् अवष्टभ्य । इत्य् आदिना गतिश्चि निन्दिष्यते इति ज्ञेयम् । तस्मात्-सर्व-वेदार्थः श्री-भगवान् एव यं सर्वे वेदा नमन्ति मुमुक्षवो ब्रह्मवादिनश् च । इति श्री-नृसिंह-तापिन्यां वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद्-वेद-विद् एव चाहम् । इति श्री-गीतासु नताः स्म सर्व-वचसां प्रतिष्ठा यत्र शाश्वती । इति विष्णुपुराणे मां विधत्ते\ऽभिधत्ते मां विकल्प्यापोह्यते ह्य् अहम् । इति एकादशे च । तथा सद् एव सौम्येदम् अग्र आसीत् । इति यस्य सतः सर्व-कारणतया स्थितत्वम् । आत्मा वा इदमग्र आसीत् । इति परमात्म-स्वरूपम् । सत्यं ज्ञानम् अनन्तं ब्रह्म । विज्ञानम् आनन्दं ब्रह्म । इति स्वरूप-लक्षणम् । निर्गुणं निरञ्जनम् । इति दोष-राहित्यम् । न तस्य कार्यं करणं च विद्यते । इत्य् आदौ स्वाभाविकी ज्ञान-बल-क्रिया च । इति तत्-तद् आगन्तुक-शक्त्य् आदि-राहित्यानुवादेनैव स्वाभाविक-विलक्षण-शक्त्य् आदिय् उक्तत्वम् । एवं निषेधान्तर-वाक्येनापि तथात्वम् ।
अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो\ऽपिपासः ।
सत्य-कामः सत्य-सङ्कल्पः । [छा।उ। ८.१.५]
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तम् आत्मानं ये तु पश्यन्ति धीरास्
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ [क।उ। २.२.१३]
इति तत्-तद्-विवरणम् ।
तम् ईश्वराणां परमं महेश्वरं
तं देवतानां परमं तु दैवतम् ।
सकारणाकारणयोस् तथा धियो
न तस्य कश्चिज् जनिता न चाधिपः ॥
इतीदृश-माहात्म्येनैव सर्व-कारणत्वम् । आनन्दं ब्रह्मणो रूपम् । वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् । न सन्दृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति रूपम् अस्य । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्स् ॥
इति विलक्षण-स्वरूप-मूर्तित्वं दर्शितम् । तस्य तु एको ह वै नारायण आसीन् न ब्रह्मा नेशानः । इत्य् अस्माकम् एवाभीष्ट-रूपत्वम् इति । तथा यस्य पृथिवी शरीरम् । यस्यायम् आत्मा शरीरम् ।
यस्याव्यक्तं शरीरम् ।
यस्याक्षरं शरीरम् एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव एको नारायणः । इति तु श्रुत्य् अन्तरम् । सर्व-शक्ति-युक्तत्वेन प्रकाशकत्वात्-पृथिव्यादीनाम् आत्मत्वेन तम् एवाह । पुराणेतिहास-वचनानि च—
ह्लादिनी सन्धिनी संवित्-त्वयोक्ता सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ।
कला-काष्ठा-निमेषादि-काल-सूत्रस्य गोचरे ।
यस्य शक्तिर् न शुद्धस्य प्रसीदतु स मे हरिः ॥
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्यशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥
कला-मुहूर्तादिमयश् च कालो न यद्-विभूतेः परिणाम-हेतुः ॥ इति ॥
विष्णुपुराणे—
न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते ।
यस्य प्रसादं कुस्ते स वै तं द्रष्टुम् अर्हति ॥ इति ।
मोक्ष-धर्मस्थ-नारायणीयोपाख्याने—
एतत्-त्वया न विज्ञेयं रूपवान् इति दृश्यते ।
इच्छन्-मुहूर्तान्न् अश्येयम् ईशानो\ऽहं जगतो गुरु ॥
माया ह्य् एषा मया सृष्टा यन्-मां पश्यसि नारद ।
सर्व-भूत-गुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥ इति च ।
तथैव तत्रैव श्री-श्वेत-द्वीप-वति वाक्ये, अस्यार्थः—त्वयैतन् न विज्ञेयं रूपवान् इति हेतोः अयं दृश्यते इति । यतो मद्-दर्शने मदिच्छैव कारणम् इत्य् आह—इच्छन्न् इति । नश्येयम् अदर्शनम् आपद्येयम् । तस्माद्-इन्द्रिय-गोचरत्वाद् अलौकिकम्, स्वेच्छया स्वतः प्रकाशमानत्वात्-स्वप्रकाशम् एव मद्-रूपम् इति भावः । यथोक्तं नारायणाध्यात्म्ये—
नित्याव्यक्तो\ऽपि भगवान्-ईक्षते निज-शक्तितः ।
तामृते परमात्मानं कः पश्येताम् इतं प्रभुम् ॥ इति ।
तद् एवम् अपि मां सर्व-भूत-गुणैर् युक्तं यत्-पश्यति तद्-युक्तत्वेन प्रत्येषि एषा माया मयैव सृष्टा मम माययैव तथा भात मित्य् अर्थः । तस्मात्-त्वम् एवं ज्ञातुं नार्हसीति । तथा कूटस्थो\ऽक्षर उच्यते । अक्षरं परमं ब्रह्म ।
यस्मात्-क्षरम् अतीतो\ऽहम् अक्षराद् अपि चोत्तमः ।
अतो\ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ [गीता१५.१८]
मां च यो\ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान्-समतीत्यैतान्-ब्रह्म-भूयाय कल्पते ॥
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२६-२७] इति ।
वक्ष्यन्ति च श्रुतयः—श्रुतयस् त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः [भा।पु १०.८७.४१]। इति । त्वम् असि यदेष्व् अवशेष-मृतम् । इति । त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः [भा।पु १०.८७.१४]। इति । त्वम् उत जहासि त्वाम् अहिर् इव त्वचम् आत्त-भगो महसि महीयसे\ऽष्ट-गुणिते\ऽपरिमेय-भगः [भा।पु १०.८७.३८]। इति । भवत उपासते\ऽङ्घ्रिम् अभवं भुवि विश्वसिताः । इति । न परिल-षन्ति केचिद् अपवर्गम् अपीश्वर ते चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः [भा।पु १०.८७.२१]। इति । अत एव स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो वयम् अपि ते समाः सम-दृशो\ऽङ्घ्रि-सरोज-सुधाः [भा।पु १०.८७.२३] इति । व्याख्यास्यते तु तत्र तत्रैव । तद् एवं सर्व-वेदार्थत्वेन सर्व-विलक्षणत्वात् सर्व-विलक्षणत्वेनैव सर्व-वेदार्थत्वाद्-वेदैक-वेद्यत्वाद्व् एदानां च स्वतः-प्रमाण-भूतत्वाद् अन्य-शब्द-वाच्य-साधारण्येन दोषा न प्रसञ्जनीयाः । श्रुतयो\ऽपि तथा वक्ष्यन्ति—त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः [भा।पु १०.८७.४१] इति । तद् एवं श्री-भगवत्य् एव सङ्गतिस् तु सङ्गता । तथापि ते तत्-त्वम् अस्यादि-लक्षणम् ऐक्य-वाक्यम् अस्थूलादि-लक्षण-निषेध-वाक्यं वा महा—वाक्यत्वेन मत्वा लक्षणयोपासनादि-वाक्यानि तद् अनु-गतत्वेन मत्वा स्व-मते ब्रह्मणि यथा-कथञ्चिद् एव सङ्गतिं कुर्वन्ति । तथाहि—तत्र तावत्-तेषां मते मुख्या गौणी च शब्द-वृत्तिर् ब्रह्मणि न सम्भवत्य् एव लक्षणा च न सम्भवतीत्य् उक्तम् । अत एव तन्-निषेधान्य् अथानुपपत्त्यावगतार्थापत्तिश् च न । यद्-धि स्वरूपादिभिः साक्षान्-निर्देश्यं स्यात्-तत्रैव सा सम्भवतीति । तथापि तत्र तावज्-जहद् अजहल्-लक्षणया मन्यते सा कथं घटेत । सा च खलु शब्द-वृत्ति-सामान्येन पूर्ववद्-दोषावहैव । शुक्त्यादौ रूप्यारोपेण सम्बन्धाभावे\ऽप्य् आरोपेण सम्बन्धो मन्तव्य एव तेन विना कल्पनानर्हत्वात् । आरोपस्याप्यारोप्यत्वे\ऽनवस्था-प्रसङ्गः । आरोपश् च वाङ्-मनसा-गोचरे न सम्भवति । कथञ्चित्-सम्भवे वा शब्द-विषयत्व इवारोप-विषयत्वे\ऽपि कथम् अनित्यत्वादिकं नापतेत् रज्जु-शुक्त्य् आदिवद् इति । यत्-त्व् औपाधिक एव वा जीवेश्वर-विभाग इति मतं ब्रह्म-स्तव-व्याख्यायां मया परिहृतं तच् च तैवात्र द्रष्टव्यम् । श्री-वैष्णवानां माष्यतदीयीकयोः शत-दूषण्यादिषु च तत्त्व-वादिनां विष्णु-तत्त्व-प्रकाशिकादौ न्यायामृतादौ तथास्माकं तद्-दृष्टि-लेशावष्टम्भि-श्री-भागवत-सन्दर्भे तट्-टीकादौ च विशेषो द्रष्टव्यः । किञ्चाज्ञानस्यैव भेद-मात्र-मूलत्वे सति तत्-त्वं-पदार्थयोर् ऐक्य-ज्ञा-नमात्रेणैक्यं सङ्गच्छते । जीवत्वं तु कस्याज्ञानेन कुत्र कल्पितम् इति न बुध्यते ब्रह्मणश् चिन्-मात्रस्याज्ञानाश्रयत्व-विषयत्वयोर् असम्भवात् । ईश्वरत्वं तु जीवाज्ञान-कल्पितं विद्यामयं चेति नाप्य् असौ तदाश्रय-विषयः । जीवाज्ञानेन जीवे जीवत्वं कल्पितम् इति तु परस्पराश्रयेण स्वाश्रयाश्रयेण च दुष्टम् इत्य् अलम् अति प्रसङ्गेन । तस्माद्-यत्-क्वचित्-सामानाधिकरण्यम् उच्यते तत्राप्य् एषा गतिः । लक्षणा हि तत्-स्वरूपस्यान्य-स्वरूपत्वं न बोधयति किं तु तच्-छब्देनान्यद् वा, चयति । यथा नीलम् उत्पलम् इति तटम् इदं गङ्गेति । सो\ऽयं देव-दत्त इत्य् अत्र स इति तत्-काल-विशिष्टत्वेन स्मर्यमाण इत्य् अर्थः । अयम् इति एतत्-काल-विशिष्टत्वेन दृश्यमान इत्य् अर्थः । ततो\ऽनयोः सामानाधिकरण्ये स्यान् न विरोध इति लक्षणैव न स्यात् । ततस् तद्-वद् अत्र न लक्षणा गौणी चोभयत्र विवक्षित-गुण-योगं स्थापयत्य् एव यथा—पित्तलम् इदं सुवर्णम् इति । तस्मात् यस्यात्मा शरीरम् । इति श्रुतेः सूर्य-तन्-मण्डल-गङ्गा-तत्-प्रवाह—गो-जाति-तद्-व्यक्ति-वन्-नियताधिष्ठानाधिष्ठात्रोः प्रसिद्ध एवाभेद-प्रयोगः । यद् वा, इमास् तिस्रो देवता अनेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि इति महा—पुरुष-वचन-श्रुतौ अनेनेति जीवस्य भेद-निर्देशाद् अंशत्वे प्राप्ते
ममैवाशो जीव-लोके जीव-भूतः सनातनः । इति अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूतां महा—बाहो ययेदं धार्यते जगत् [गीता १७.४]। इति गीतासु मायाख्या पर-प्रकृत्य् अतीततयैव जीवस्य तादृशत्वे व्यक्ते सत्य् अभिन्न-शुद्ध-शक्त्या जीवेश्वर-भेदे सूर्य-तद्-रश्मि-परमाणु-वृन्दवद् अविनाभावेन प्रकाशैक-रूपेण चाभेद उपदिश्यते । प्रयोजनं तु मुमुक्षूणां परमेश्वर-तादात्म्यानुभावात् स्व-शुद्धतानुभवेन देहाद्य् आवेश-निरसनं, भक्तीच्छूनां तन्-नित्य-सम्बन्ध-ज्ञानेन तद्-भजनम् । वक्ष्यन्त्य् एव श्रुतयः—
स्व-कृत-परेष्व् अमीष्व् अबहिर् अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो\ऽश-कृतम् ।
इति नृगतिं विविच्य कवयो निगमावपनं
भवत उपासते\ऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥ [भा।पु १०.८७.२०] इति ।
येन श्री-भगवति सर्व-पुरुषार्थ-शिरोमणि-परम-प्रेमास्पदत्वस्यानुभवश् च स्यात् । तद् अनुभवं हि दुरवगमेत्य् आदौ न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते [भा।पु १०.८७.२१] इति तथैव श्री-ब्रह्म-स्तवान्ते राज-प्रश्नानन्तरं श्री-मुनीन्द्रेणोत्तरितं च ।
ननु, तत्-त्वम् अस्यादि-वाक्यानां महा—वाक्यत्वम् आत्मैकत्वं प्रयोजनं वा युक्तं लक्षणामय-वाक्यस्य प्रमाणान्तर-सापेक्षत्वेन स्वतः प्रामाण्य-हानेर् गौणत्वापातात्, तादृश-महा—वाक्यानुगतानां सर्वासाम् अपि श्रुतीनां तत्-प्रसङ्गात् । अथानेकेषां वाक्यानां महा—वाक्यत्वायोगात् तेषां प्रादेशिकत्वाच् च निन्दितं च तासां सर्वासाम् एव गौणार्थत्व-मात्र-स्वीकरणम् । तथाहुः—एकस्यापि च शब्दस्य गौणत्व-स्वीकृतौ सत्यां महती जायते लज्जा यत्र यत्राखिला वराः । अत्र मुख्यार्थ इति च देवास् तन्-मार्गानुवर्तिनं कथं न जायते लज्जा वक्तुं शाब्दत्वम् आत्मनः इति । न च जीवेशयोरैक्य-ज्ञानं सर्व-वेदार्थस् तत्-सिद्ध-निर्विशेषं वा निराकृतत्वात् भगवत एव तद् अर्थत्वेन दर्शितत्वाच् च । तथा-स्थूलम् इत्य् आदीनां नेति नेतीत्य् आदीनां च निषेधवाक्यानां तन्-मते यद् वाङ्-मनसातीत-निर्विशेषस् त्व् अधिकत्वं तद् अपि न सम्भवति । न हि यन् न जायते तद् अवधिः कर्तुं शक्यते निर्विशेषं वा ज्ञातुं शक्यते तस्मात्-प्राकृत-तत्-तन्-मात्र-धर्मता-निषेधतात्-पर्यत्वम् एव तेषाम् अप्राकृत-युगपद्-विचित्र-धर्म् आश्रयता-ज्ञापनाय तथा नेह नानास्ति किञ्चन । इत्य् अस्यापि यद् इह किञ्चन नास्ति तन्-नाना नास्ति किन्त्व् एकात्मैकत्वम् एव विवक्षितम् । अन्यथा इह किञ्चन नास्ति नाना वा नास्ति इति एकतरेणैवाभिप्रेत-सिद्धिः स्यात् किं द्वयोर् उपादानेन तस्माद् अपि तदीय-धर्माणां तद् एकात्मकत्वात्-पूर्ववद् एवाप्राकृतत्वादिकम् इति न च निर्विशेषत्वं वक्ष्यमाणस्तुतेः सम्मतं जय जयेत्याद्य् उपक्रमे स्वरूप-शक्तेर् अहेयत्वावगमात् । द्युपतय इत्य् आद्युप-संहारे च अतश् च-शब्देन पूर्वार्धोक्तस्यार्थः काल-देश-परिच्छेद एव लभ्यते । यदि च तस्यां स्तुतौ निर्विशेष-ज्ञानम् एव विवक्षितं स्यात्, तर्हि तत्-फलं ब्रह्मैक्यम् एव मध्ये मध्ये स्तूयते प्रत्युत तद् अतिक्रमात् न परिलषन्ति [भा।पु १०.८७.२१] इत्य् आदिभिः श्री-भगवद्-भक्तिर् एव स्तुता तस्माद्-यद्-विधीयते तद् एव स्तूयते इति वैदिक-न्यायेन श्री-भगवान् एव प्रकरणार्थः । स्व-मते\ऽपि तत्-त्वम् अस्यादि-वाक्यैः कथञ्चिद् एव तत्-तद् अर्थस्यावगमः सिद्धिश् च न तु—
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ [भा।पु १०.८७.२१]
इति-वत् परमानन्देनैवेति ज्ञेयम् । तद् एवं तत्-त्वम् अस्यादीनाम् अप्राधान्यं मत्वा स्वतः प्रमाण-भूतानां वेदानां प्रादुर्भावक-क्षाद्य-बीजस्य तद्-बीजत्वाद् एव वेदः प्रणव एवाग्र इत्य् उक्तत्वात्-सर्व-वेद-वाक्यार्थ-समन्वय-विधानत्वेन महत्त्वम् अकाराद्य् अक्षरात्मक-परस्पर-सम्बद्ध-पद-समूहत्वाद्-वाक्यत्वम् । ततश् च परम-वाक्यस्य साक्षाद्-भगवद्-वाचकस्य श्री-मत्-प्रणवस्यैव प्राधान्यम् । अत एव—
अमात्रो\ऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः ।
ओम्कारो विदितो येन स मुनिर् नेतरो जनः ॥
इति श्रुत्य् अन्तरं तद् एव निर्धारयति—स्वयम् अमात्र एक-रूपः स्व-वृत्ति-श्रुतिभिर् अनन्त-मात्रः द्वैतस्योपशमः भगवन्-मात्र-वाचकतया वेशान्तर-निरासकश्चेत्य् अर्थः । तद् अभिधेयस्य श्री-भगवत एव सर्व-योग्यता-हेतुत्वेन परम-योग्यत्वं वदन्-सर्व-वेदाभिधेयत्वम् आह—अत्र प्रणवस्य साक्षाद्-वाचकत्वादिकम्—ॐ इत्य् एतद्-ब्रह्मणो नेदिष्ठं नाम इति श्रुतेः । नेदिष्ठम् अतिशयेन निकटं स्वल्पम् अपि व्यवधानं विनैव वाचकम् इत्य् अर्थः । तथा ॐ-विश्वं विष्णुः इति सहस्र-नाम-स्तोत्रात्
स्व-धाम्नो ब्रह्मणः साक्षाद्-वाचकः परमात्मनः ।
स सर्व-मन्त्रोपनिषद्-ब्रह्म-वेद-बीजं सनातनम् ॥ [भा।पु १२.६०.४१] इति ।
ततो\ऽभूत्-त्रि-वृद् ओङ्-कारो यो\ऽव्यक्त-प्रभवः स्व-राट् ।
यत्-तल्-लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ [भा।पु १२.६०.३९] इति च द्वादशात् ।
श्री-भगवतः सर्व-योग्यता-हेतुत्वं च दृतय इव श्वसन्त्य् असु-भृतो यदि ते\ऽनुविधाः [भा।पु १०.८७.१७] इत्य् आदि वक्ष्यमाणात्
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ इति श्रुतेः ।
या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति मोक्ष-धर्मात् ।
यत्-कर्मभिर् यत्-तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दान-धर्मेण श्रेयोभिरितरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते\ऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भा।पु ११.२०.३२-३३]इति चैकादशात् ।
अतो मोक्षान्यथानुपपत्त्या सामानाधिकरण्यं व्यज्यत इति निरस्तम् । अथ प्रणवार्थानुसारेण बुद्धीन्द्रियेत्य् अस्यार्थश् च अकाराद्य् आत्मक-पदचय-प्रणवार्थो हि सत्त्वं रजस् तम इति प्रकृतेर् गुणास्तैर् युक्तः इत्य् आदौ स्थित्य् आदय इति-वत् स्थिति-सृष्टि-प्रलय-कर्तृत्वोपलक्षितः प्रणवमय-सर्व-वेदैः सर्व-भजनीयः परम-पुरुष एव समर्थितः अत्रापि तथेति । तथा हि जनानां प्रलये निजैकाश्रयाणां जीवानां पालनाय मात्रार्थम् ऐहिक-विषय-भोगार्थं, भवार्थं जन्मान्तर-तद्-भोगार्थम्, आत्मने शुद्धात्मब्-हावाय आत्यन्तिक-प्रलय-लक्षण-मोक्षाय, अकल्पनाय कल्पना-सङ्कल्पानन्तरं तद्-रहिताय प्रेमैकमय-शुद्ध-स्वभजनायेत्य् अर्थः । तस्मात्—
ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः ।
द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥
यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्-वद्-भगवान् शास्त्र-वर्त्मभिः ॥ [भा।पु ३.३२.३२-३३]
इति श्री-कपिल-देव-दर्शितः सर्व-तः पूर्णाविर्भावः श्री-भगवान् एव न निर्-विशेषं ब्रह्मेति साध्वेवोक्तं भवता । अतः स एव बन्दि-जन-तुल्य-वेदवस्तुत्यत्वेनोपक्रमोप-संहारादिभिर् दर्शयितव्यः । किन्तु—ब्रह्म-वादिनो द्विविधाः रजततया शुक्ति-वद् अज्ञानेन ब्रह्मैव द्वैततया विवर्तत इत्य् एके । तत्र पूर्वे तु श्रुतेस् तु शब्द-मूलत्वाद् इति श्री-बादराय-णमताद्-बहिर्भूता अनीश्वर-वादिन इति पूर्व-पूर्व-युक्त्या खण्डिताः । उत्तरे चैते खल्व् ईश्वर-वादिनो\ऽपि भक्ति-विशेषं विना सच्-चिद् आनन्द-विग्रहत्वादि-भगवत्ता-विशेष-ग्रहणासमर्था भगवन्तम् एव निर्-विग्रहतया मन्यन्ते उपासते च । तच् च तथैव बुद्धीन्द्रियेत्याद्य् अनुसारेण भगवद्-दत्त-शक्त्यैवानुभवन्ति । यथोक्तं श्री-मत्स्य-देवेन—
मदीयं महिमानं च परब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु ८.२४.३८] इति ।
अत्राभेदे\ऽपि महिमत्वेन निर्देशस् तद् अपि स्व-स्यैक-देशाविर्भाव-रूपम् इति वैभव-विशेषतया रूपयता स्वस्य भगवद्-रूपतायां पूर्ण-प्रकाशकत्वं व्यञ्जितम् । यद् उक्तं श्री-ध्रुवेण—या निर्वृतिस् तनु-भृतां तव पाद-पद्मध्यानात् [भा।पु ४.९.१०] इत्य् आदौ सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् [भा।पु ४.९.१०] इति तादृश-ब्रह्मोपासनाफलं शुद्धात्मतया तत्-तादात्म्य-प्राप्तिश् च नादृता सालोक्य-सार्ष्टि-सारूप्येत्य् आदिना तद् एतद् च सर्वातीत-प्रकाशत्वाद् अप्राकृत-स्वरूप-गुणत्वाद् अनिर्देश्यम् एव तद् एतच् च यया भगवद्-दत्त-शक्त्य् आनुभवन्ति सा चाप्राकृत-स्वरूप-गुणत्वावलम्ब-कोप-निषदाख्य-श्रुति-सम्बन्धाद् उद्भवति । औपनिषदः पुरुष इति—तं त्व् औपनिषदं पुरुषं पृच्छामि । इति श्रुतेः । यस्मान्-मनो\ऽपि तस्मिंश् चरति इति वक्ष्यते—
तद् एतद्-वर्णितं राजन्येन प्रश्नः कृतस् त्वया ।
यथा ब्रह्मण्य् अनिर्देश्ये निर्गुणे\ऽपि मनश् चरेत् ॥ इति ।
यथा जय जयेत्य् आद्य् अष्टाविंश-प्रकारक-श्रुति-मार्गेणाप्रकाशित-निज-गुणे\ऽपि किम् उत प्रकाशित-निज-गुण इत्य् अर्थः । अथ वा पूर्वम्—सर्व-वेदमयो विप्रो सर्व-देवमयो ह्य् अहम् इति स्वस्य स्वयं भगवता सर्व-वेद-प्रमेयत्वम् उक्तम् । श्री-विष्णु-रातेन च तस्मिन् श्री-कृष्ण एव भगवति तत्र तत्र ब्रह्मत्वम् अवधारितम् गूढं पर-ब्रह्म मनुष्य-लिङ्गम् । तद् अमितं ब्रह्मा-द्वयं शिष्यते-यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [भा।पु १.४.३२] । इत्य् आदेः । अतःश्री-गोपाल-तापन्याम्—कथम् अस्यावतारस्य ब्रह्मता भवति इति प्रश्नः ब्रह्मत्वं त्व् अनुपचारितं बृहत्-तमत्वं तच् च स्वरूपेण गुणेन च वाच्यम् । अतः वैकल्ये तद् अंशहीनत्वाद् उपचरितत्व-प्राप्तेः तद् एवं ब्रह्मता कथं स्याद् इति प्रसिद्धानुवादेनैव श्रुतौ गान्धर्व्यायाः प्रश्नः । तत्र च श्री-परीक्षितः तत्-प्रस्ताव एव चानेनात्र कर्तुं युक्तः तद् अर्थम् एव श्री-दशम-स्कन्धस्य श्रोतुम् आरब्धत्वात् । सर्व-विद्वत्-परम्परादि-गुरूणां श्रुतीनाम् अपि तद् एकालम्बता वाक्ये श्री-मुनीन्द्रो\ऽपि तथैवाङ्गीकरिष्यति ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्तधियो
वयम् अपि ते समाः सम-दृशो\ऽङ्घ्रि-सरोज-सुधाः । [भा।पु १०.८७.२३] इति ।
अतः श्री-नारदो\ऽपि तच्-छ्रवणानन्तरं तम् एवोद्दिश्य तद् अभेदेन श्री-नारायणं नमस्यति—
नमस् तस्मै भगवते कृष्णायामलकीर्तये ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ इति ।
अत एव श्री-विष्णुरात उवाचेत्य् उक्त्वा द्रौण्यस् त्रविप्लुष्टम् इदं मदङ्गम् इत्य् आद्य् अर्थस्य सूचनात्तस्य तादृशाभिप्राय एव दृढी-कृतः ततस् तत्रैव वेद-प्रमेयत्वं सन्दिह्य पृच्छति—ब्रह्मन्न् इति । श्री-कृष्णत्वस्य साक्षाद्-व्यञ्जक-पद-विशेषाप्रयोगस्तु सामान्याकारतयापि प्रश्लेष्य जिज्ञासितं ज्ञास्यते किं विशेषेणेत्य् अभिप्रायात् । अतो जय जयेत्य् उपक्रमे वीप्सायुक्तो जिधातोरुत्कर्षाविष्करण-रूपो\ऽर्थः श्री-कृष्णत्व-व्यञ्जकासाधारणो गुण-पर्यन्त एव ज्ञेयः । अतन्-निरसनेनेत्य् उपसंहारे\ऽपि—अन्तर्भवे\ऽनन्त भवन्तम् एव ह्य् अतत्-त्यजन्तो मृगयन्ति सन्तः [भा।पु १०.१४.२८] इति श्री-ब्रह्म-व्याख्यानुसारेण तत्-पर्यन्त एव । ततश् च ब्रह्मणि अनन्त-स्वरूप-गुणे तत्राप्य् अनिर्देश्ये सर्व-प्रत्यग्-रूपत्वाद् एकांशेनापि निर्देष्टुम् अशक्ये श्रूयन्त इति श्रुतयः परिमिताः पराग्-रूपाश् च साक्षान्-मुख्यावृत्त्या कथं केन प्रकारेण चरन्ति तं प्रकारं कथयेत्य् अर्थः ।
यतो वाचो निवर्तन्ते-विष्णोर्नु कं वीर्याणि प्रवोचम्, यद् वाचानभ्युदितम्, येन वाग् अभ्युद्यते इति श्रुतेः । भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् [भा।पु १०.४७.६१], अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव [भा।पु १०.४०.३४] इत्य् उक्तत्वाच् च यतो निर्गुणे गुणत्वं च प्रसिद्धम् । तथैवाग्रे वक्ष्यति—
हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन्-निर्गुणो भवेत् ॥ [भा।पु १०.८८.५] इति ।
श्री-विष्णु-पुराणे—
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। ९.४३] इति ।
एकादशे—
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ [भा।पु ११.१३.४०] इति ।
अत्र निर्गुणं प्रकृति-गुणैर् असंस्पृष्टम् एव मां कथम्-भूतास् ते अगुणाः गुण-परिणाम-रूपा न स्युर् इति टीका-सम्मतिश् च ।
प्रथमे—एते चान्ये च भगवन्-नित्या यत्र महा—गुणाः [भा।पु ११.६.३१]। इति । अत्र च नित्यत्वाद् अप्राकृतत्वम् एव लभ्यते । एतद् उक्तं पूर्वं भगवति श्रुतीनां प्रमाणत्वं व्यञ्जितं तच् च साक्षात्-करणत्व एव सङ्गच्छते, अन्यथा साधकतमं करणम् इत्य् अत्र तम् अबर्थ-हानेः । तासां तु विशेषतः स्वतः-प्रमाण-भूतत्वम् एवाङ्गी-कृतं श्री-भगवतस् तद् एक-प्रमेयत्वं च । ततः साक्षाच्-चरणम् एवोभयवादिभिर् मन्तव्यं विशेषता च भगवन्-नामादि-महिम-विज्ञैर् भवद्विध-भागवतैर् अन्यथा-चरण-मात्रं मया न पृच्छ्यते मया त्व् इदं पृष्टं कथं साक्षाच्-चरन्तीति । येन प्रकारेण साक्षाच्-चरन्ति स प्रकारः कथ्यताम् इत्य् अर्थः । अत्र समाधत्ते-बुद्धीन्द्रियेति । जनानां मनुष्यत्व-बीजनानाजाति-जीवानां महा—प्रलये ।
प्रकृत्या सह स्वस्मिल्-लीनानां मात्रार्थं मीयन्ते गुणाः कार्याणि गुणातीतानि चाभिर् इति मात्राः श्रुतयस् तद् अर्थं तद्-धारणाद्य् अर्थं बुद्ध्यादीन् असृजत
तद्-द्वारा च भवार्थम् अभ्युदयार्थं ब्रह्म-लोकादि-भोग-प्राप्त्य् अर्थम्, आत्मने जीवतत्त्वं ज्ञापयितुम्, अकल्पनाय कल्पना माया-वृत्तयस् तद्-रहितं भगवत्-तत्त्वम् अकल्पनम् । यद् उक्तं वरुणेन—
नमस् तस्मै भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ [भा।पु १०.२८.६]इति ।
तद् अपि ज्ञापयितुं बुद्धयादीन् असृजत् तत्र विचारासम्यक्त्वेन श्रुति-धारणादिकस्य पूर्व-द्वयार्थता तत्-सम्यक्त्वेन तु । भगवद् एकार्थतेत्य् उत्तरोत्तरापादान-प्राप्त-पूर्व-पूर्व-परितोष-प्राप्तेनोत्तरोत्तरोत्कर्षेण लभ्यते । यद् उक्तं द्वितीये—
भगवान् ब्रह्म कात्स्न्र्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत्-कूटस्थो रतिर् आत्मन् यतो भवेत् ॥ [भा।पु २.२०.३४]इति ।
यं सर्वे वेदा नमन्ति इत्य् आदि-पूर्वोदाहरणेभ्यश् च । अयं भावः—श्रुति-धारणाद्य् अर्थं बुद्ध्यादीन् असृजद् इति ते च बुद्ध्यादयो भवादि-साधनानीति बुद्ध्यादिषु श्रुतौ च तत्-तद्-योग्यतां न्यस्तवान् अत एव प्रभु-पदोपादानं तत्र बुद्ध्यादीनां योग्यता श्रुति-धारणादिषु स्वतः अन्येषु श्रुति-द्वारा बुद्धयादि-संस्कीणां श्रुतीनां सर्वत्र स्वतः यथा मन्त्रादीनां स्वरूप-प्रभावमयी, उपनिषदादीनां तद् अंश-मिश्र-स्वाभिधादि-शक्तिमयी, कर्म-काण्डादीनां तद् अंशद्वय-मिश्र-स्वविधि-मात्र-बलानुष्ठानमयीति । सा सा पुनर्-द्विविध माया-तद्-गुणावलम्बिनी स्वरूप-द्रुणावलम्बिनी च । तत्र स्वरूपतो माया-तद्-गुणानां निष्कर्षः प्रसिद्ध एव । स्वरूपे त्व् आत्म-परमात्म-ब्रह्म-भगवद्-रूपेणावस्थिते\ऽपि भगवत्य् एव परमोत्कर्षों ज्ञेयः । कृष्णम् एनम् अवेहि त्वाम् आत्मानम् अखिलात्मनाम् [भा।पु १०.१४.५५]। विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२], ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७], यस्मात्-क्षरम् अतीतो\ऽहम् इत्य् आदिभ्यः । तस्मात्-परमोत्कृष्ट-स्वरूप-गुण-निर्देशेन चरन्त्यः श्रुतयः साक्षाद् एव श्री-भगवति चरन्ति । तद् एक-वाक्यत्वेनान्या अपि चरन्तीति त्रैगुण्य-विषयः वेदाः इति तु कर्मोपासना-विषयम् एव । तथैव परम-महा—वाक्यतयाङ्गीकृतं प्रणवम् उद्दिश्योक्तं द्वादशे—
स्वधाम्नो ब्रह्मणः साक्षाद्-वाचकः परमात्मनः ।
स सर्व-मन्त्रोपनिषद्-वेद-बीजं सनातनम् ॥ इति ।
अतः खण्ड-वाक्येन क्रमात्-तम् उपदेष्टुम् एव मायादिषु आत्मादिषु अपि चरन्ति । तथैव वक्ष्यन्ति श्रुतयः—क्वचिद् अजयात्मना च चरतो\ऽनुचरेन्-निगमः [भा।पु १०.८७.१४] इति । तथैव व्याख्यातं ब्रह्मस्तवे अन्तर्भवे\ऽनन्त भवन्तम् एव ह्य् अतत्त्यजन्तो मृगयन्ति सन्तः [भा।पु १०.४०.२८] इति । रासे मनोरथान्तं श्रुतयो ययुः [भा।पु १०.२०.१३] इति । एवम् एवोक्तं श्रुतिभिर् विमृग्याम् इत्य् आदि । किञ्च—श्री-भगवति श्रुतयः साक्षाच्-चरती किं वक्तव्यम, यत्र भगवन्-नाम-मन्त्रादि-रूपा विनाप्य् अर्थ-ज्ञानम् उच्चारण-मात्रेण तम् आकर्षयन्ति । यथोक्तं षष्ठे नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा।पु ६.२०.१०] । इति । टीका च नामोच्चारणं पुरुष-विषया मतिर् भवतीत्य् आदिका सद्यो हृद्य् अवरुध्यते\ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् [भा।पु १.१.२] इति । तत्-स्वरू-पभूता एव च ताः प्रभास-पुराणे—
मधुर-मधुरम् एतन्-मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परि-गीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत्-कृष्ण-नाम ॥ इति ।
नारद-पञ्चरात्रे, अष्टाक्षरम् उद्दिश्य—
व्यक्तं हि भगवान् एव साक्षान्-नारायणः स्वयम् ।
अष्टाक्षर-स्वत्येण मुखेषु परिवर्तते ॥ इति ।
श्रुतिश् च—नाम-चिद्-विविक्त-नमहस् ते विष्णो सुमतिं भजामहे इति । माण्डूकोपनिषच् च प्रणवम् उद्दिश्य प्रणवो ह्य् अपरं ब्र्ह्म प्रणवश् च परं स्मृतम् । इत्य् आदिका । अतो यतो वाचो निवर्तन्ते इत्य् आदिकाः श्रुतयश् चानन्तत्व-लोक-प्रसिद्धतादि सूचयित्वा तथैव वदन्ति । वक्ष्यन्त्य् एव श्रुतयः द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया [भा।पु १०.८७.४१] इत्य् आदि, इह न वेदवतावर-श्री- इत्य् आदि च ॥२॥
भगवत्-सन्दर्भः [११०] : अत्र श्री-शुकदेवेन दत्तम् उत्तरम् आह—ऋषिर् उवाचेत्य् आदि । बुद्धीन्द्रियेति । बुद्ध्य् आदीन् उपाधीन् जनानाम् अनुशायिनां जीवानां मात्राद्य् अर्थं प्रभुः परमेश्वरोऽसृजत्, न तु जनाः स्वाविद्ययासृजन्न् इति विवर्त-वादः परिहृतः । मीयन्त इति मात्रा विषयाः, तद् अर्थम् । भवार्थं भवो जन्म-लक्षणं कर्म तत्-प्रभृति-कर्म-करणार्थम् इत्य् अर्थः । आत्मने लोकान्तर-गामिने, आत्मनस् तत्-तल्-लोक-भोगायेत्य् अर्थः । अकल्पनाय कल्पना-निवृत्तये मुक्तये इत्य् अर्थः । अर्थ-धर्म-काम-मोक्षार्थम् इति क्रमेण पद-चतुष्टयस्यार्थः । मोक्षोऽप्य् अत्र चिन्-मात्रतयावस्थिति-रूपः, यथावर्ण-विधानम् अपवर्गश् च भवति [भा।पु। ५.१९.१९], योऽसौ भगवति [भा।पु। ५.१९.२०] इत्य् आदिना, अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण [भा।पु। ५.१९.२०] इत्य् अन्तेन पञ्चमोक्त-गद्येन तथा निरुक्तत्वात् साध्य-भक्ति-प्रादुर्भाव-लक्षणश् चेति द्विविधो ज्ञेयः । उभयत्रापि कल्पना-रूपाविद्याया निवृत्तेः ।
एतद् उक्तं भवति—यस्मात् स्वयम् ईश्वरस् तत्-तद् अर्थं तत्-तत्-साधकत्वेन दृश्यमानानां जीवानां बुद्ध्य् आदीन् सृष्टवान्, तस्मात् तत्-तत्-सम्पादन-शक्ति-निधान-योग्यतां29 तेषु कृतवान् इति लभ्यते । तत्र त्रिवर्ग-सम्पादिकाः शक्तयः कल्पनात्मिका माया-वृत्त्य् अविद्या-शक्तेर् अंशाः, बहिर्मुख-कर्मात्मकत्वात्, स्वरूपान्यथा-भाव-संसारित्व-हेतुत्वाच् च । अपरा मोक्ष-सम्पादिका शक्तिर् अकल्पना-रूपा चिच्-छक्तेर् एवांशः, अन्तर्-मुख-ज्ञान-भक्ति-रूपत्वात्, स्वरूपान्यथा-भाव-संसारित्व-च्छेद-हेतुत्वाच् च ।
एवं च यावज् जीवानां भगवद्-बहिर्मुखता, तावत् केवलं कल्पनात्मिकानाम् अविद्या-शक्तीनां प्रकाशात् तत्-प्रधाना बुद्ध्य् आदयः स-गुणा एवेति निर्गुणं साक्सान् न कुर्वत इत्य् एवं सत्यम् एव । यदा तु तद् अन्तर्मुखता, तदा तेषु चिच्-छक्तेः प्रादुर्भावात् तं साक्षात्-कुर्वत एव इति स्थिते,30 बुद्ध्यादि-मयत्वाद् वचसोऽपि तथा व्यवहारः सिध्यति । तद् अत्रैवाभेदेन सिद्धान्तितम् अन्ते ।
तद् एतद् वर्णितं राजन् यो नः प्रश्नः कृतस् त्वया ।
यथा ब्रह्मण्य-निर्देश्ये निर्गुणेऽपि मनश् चरेत् ॥ [भा।पु। १०.८७.४९]
इत्य् अत्र मन इति । तत्र बुद्ध्य् आदौ चिच्-छक्तिस् तदीयाप्राकृत-परमानन्द-स्वरूप-तादृश-गुणादि-31स्वयं-प्रकाशमयी वचसि च तत्-तन्-निर्देश-मयीति ज्ञेयम् । अतोऽप्राकृत-तादृश-स्वरूपाद्यालम्बनेन श्रुतयश् चरन्ति इति सिद्धान्तयिष्यते ।
तद् एवं पौरुषस्यापि वचसो भगवच्-चरित्रं सिद्धम् । यथोक्तम्—यस्मिन् प्रति श्लोकम् अबद्धवत्य् [भा।पु। १.५.११] अपीति । तथा च सति तथाविध-वच आदीनाम् एकाश्रयस्य साक्षाद्-भगवन्-निश्वासाविर्भाविनोऽपौरुषेयस्य तच्-चारित्वं किम् उत । तस्मात् साक्षात् चरन्त्य् एव श्रुतयः । वक्ष्यते च क्वचिद् अजयात्मना च चरतोऽनुचरेन् निगमः [भा।पु। १०.८७.१४] इति । तथा च प्रणवम् उद्दिश्योक्तं द्वादशे—
स्व-धाम्नो ब्रह्मणः साक्षाद्
वाचकः परमात्मनः ।
स सर्व-मन्त्रोपनिषद्
वेद-बीजं सनातनम् ॥ [भा।पु। १२.६.४१] इति ।
श्रुतौ च—ॐ इत्य् एतद् ब्रह्मणो नेदिष्ठं नाम [श्रुति] इति नेदिष्ठं लक्षणादि-व्यवधानं विनेत्य् अर्थः । अत एव केन च प्रकटिण साक्षाच् चरन्ति स कथ्यताम् इत्य् एवं राजाभिप्रायः । अत्र शब्द-निर्देश्यत्वे दोषस् त्व् अग्रे द्युपतयः [भा।पु। १०.८७.४१] इत्य् अत्र परिहार्यः ।
अथ श्रुतिष्व् अपि याः काश्चित् त्रिवर्ग-परत्वेन बहिर्मुखाः प्रतीयन्ते, तासाम् अप्य् अन्तर्मुखतायाम् एव पर्यवसानम् । तथा हि परमेश्वरस्य सतत-परमार्थ-बहिर्मुखता-पराहत-जीव-निकाय-विषय-कृपा-विलास-पर्यवसायि-निःश्वास-रूपाः श्रुतयः प्रथमतः स्व-विषयकं विश्वासं जनयितुम् अदृष्ट-वस्त्व् अनभिज्ञान् सततं दृष्टम् ऐहिकम् एवार्थम् ईहमानांस् तान् प्रति तत्-सम्पादकं पुत्रेष्ट्य् आदिकं विदधति । ततश् च तेन जात-विश्वासान् ऐहिकस्यात्यन्तम् अस्थिरत्वं प्रदर्श्य, दिव्यानन्द-चमत्कार-विचित्रस्य पारलौकिक-स्वर्गादि-लक्षण-तत्-तत्-कामस्य जनकेऽग्निष्टोमादौ प्रवर्तयन्ति । ततस् तेषां निरन्तर-तद् अभ्यासाद् धर्म एव रुचिं जनयन्ति ।
अथ लब्ध-धर्म-रुचीनां शुद्धान्तः-करणानां तद् अर्तह-विचार-पराणां जगद् अप्य् अनित्यम् इति ज्ञानवतां संसार-भय-दीनानां निर्वाणानन्दाभिलाषं सम्पादयन्ति । निर्वाणानन्दश् च पर-तत्त्वाविर्भाव-रूप एवेति । तद् उक्तम् श्री-सूतेन—
धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः ॥ [भा।पु। १.२.९-१०] इति ।
ततश् च यथा बुद्ध्य् आदयोऽन्तर्मुखता-तारतम्येन चिच्-छक्त्याविर्भावात् परे तत्त्वे तारतम्येन चरन्ति, तथा श्रुति-लक्षणं वचनम् अपि चिच्-छक्ति-प्रकाशानुक्रमेण त्रैगुण्य-विषयत्वम् अतिक्रम्य केवल-नैर्गुण्य-विषयम् एव सत्, तस्मिन् निर्गुणे तत्त्वे सम्यग् एव चरितुं शक्नोति, अगुण-वृत्तित्वेन योग्यत्वात् । तद् उक्तं द्वादशे प्रणवम् उपलक्ष्य—
ततोऽभूत् त्रिवृद् ओङ्कारो योऽव्यक्त-प्रभवः स्वराट् ।
यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ [भा।पु। १२.६.३९] इति ॥
तत्र तत् तत्-त्वं द्विधा स्फुरति—भगवद्-रूपेण, ब्रह्म-रूपेण चेति । चिच्-छक्तिर् अपि द्विधा—तदीय-स्वयं-प्रकाशादि-मय-भक्ति-रूपेण, तन्-मय-ज्ञान-रूपेण च । ततो भक्ति-मय-श्रुतयो भगवति चरन्ति, ज्ञान-मय-श्रुतयो ब्रह्मणीति सामान्यतः सिद्धान्तितम् ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इति राज्ञे निर्णयम् आकलय्य स्वीकार्याणि तद् एवानुमोदमान आह—बुद्धीन्द्रियेत्य् आदि । प्रभुर् भावात्म श्री-कृष्णो जनानां जीवानां बुद्ध्य् आदीन् असृजत्, जायन्त इति जना जीवाः, तेषां बुद्धीन्द्रियाणि मनः-प्राणांश् चासृजत् । वस्तुतस् तस्यैव स्वांशश् चित्-स्वरूपो जीवः, तस्य बुद्ध्य् आदीनां स्वतोऽसम्भवात् स्वयं स्वेनांशेन जीवान् सृष्ट्वा बुद्ध्य् आदीन्य् अपासृजद् इत्य् अर्थः । ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति तद् उक्तेः । एकस्यैव ममांशस्य जीवस्यैव मात्मनः [भा।पु। ११.११.४] इति च
किम् अर्थं ससर्ज ? मात्रार्थम् इत्य् आदि । मात्रा विषयस् तद् अर्थम् । भव ऐश्वर्यं तद् अर्थं, आत्मना आत्म-भजनार्थं, अकल्पनायापुनर् आवृत्तये कैवल्याय । कौतुकान् नाना-भाव-दिदृक्षा, नानाकल्पनं हि कौतुकम् । केचिद् विषयासक्ताः सन्तु, केचिद् बुद्धिमन्तो मां भजन्तु, केचित् कैवल्यार्थं यतन्ताम् इति हि कौतुकम् । तच् च तेषां बुद्ध्यादि-योगेनैव भवतीति तत्-तत्-कल्पनम् । तेनासौ भगवान् ब्रह्म-शब्द-वाच्यः स्वयं प्राकृत-गुण-रहितोऽपि जगत्-कर्तृत्वादि-सर्व-ज्ञत्वादि-भक्त-विशेष्लक्षणादि-नित्याप्राकृत-गुणोऽचिन्त्यैश्वर्यो ब्रह्मैव स-विशेषम्, तस्मिन्न् एव श्रुतयश् चरन्तीति युक्तम् एव वितर्कितं भवता—ब्रह्मन् ! ब्रह्मण्य् अनिर्देश्ये [भा।पु। १०.८७.१] इति । यद्यपि भगवान् अप्य् अनिर्देश्योऽचिन्त्य-महिमा निर्गुणः प्राकृत-गुण-रहितः साक्षाद्-विग्रहः, स च सद् असत्-परः, तथापि श्रुतयस् तम् एव चरन्तीत्य् अर्थः ॥२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उत्तरम् आह—बुद्धीति । जनानां कर्ं मात्राद्य् अर्थं बुद्ध्य् आदीन् प्रभुर् ईश्वरोऽसृजत् । मीयन्त इति मात्रा विषयास् तद् अर्थं कर्म-फल-भोगार्थम् इत्य् अर्थः । भवः पुनः पुनर् जन्म तद् अर्थं भव-बन्ध-हेतु-कर्म-करणार्थम् इत्य् अर्थः । आत्मना ब्रह्म-परमात्म-भगवत्-स्वरूपिणे स्वस्मै यत् कल्पनं बुद्ध्य् आदीनां समर्पणं तद् अर्थम् ।
यद् वा, आत्मना स्वम् उपासयितुं यत् कल्पनं बुद्ध्य् आदीनां विनियोगतस् तद् अर्थं त्रयाणाम् एव प्राधान्य-बोधकं च-कार-त्रयम् । बुद्ध्य् आदीन् विना न कर्म-फल-स्वर्गादि-भोगः । नापि कर्म-करणं नापि शम-दमाद्य् अङ्ग-ज्ञानं, नाप्य् अष्टाङ्ग-योगः सिद्ध्यतीत्य् अतस् तान् असृजत् ।
ननु त्वं क्व गच्छसीति प्रश्ने मयाद्य दध्य् अन्नं भुक्तम् इत्य् उत्तरं यथा तथैव श्रुतयः कथं ब्रह्मणि चरन्तीति प्रश्ने प्रभुर् मात्राद्य् अर्थं बुद्ध्य् आदीन् असृजद् इत्य् उत्तरम् अभूत् ?
मैवम् । परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् इति भगवद् उक्तेर् अत्राभिधया वृत्त्या प्रश्ने व्यञ्जना-वृत्त्येदम् उत्तरं सङ्गतम् एव
तथा हि शब्द-वाच्यत्वाभावाद् एव ब्रह्मणः खल्व् अनिर्देश्यत्वं त्वं ब्रूषे । यदीन्द्रियाणि परमेश्वरो नास्रक्ष्यत्, तदा शब्द-स्पर्शादयोऽप्य् अनिर्देश्या ब्रह्म-तुल्या एवाभविष्यन् । अद्यादि जन्मान्ध-वदिरस्य रूप-शब्दौ ब्रह्मवद् अनिरूप्यौ भवत एव, तेनास्मदादिभ्यो येन ग्राहकानीन्द्रियाणि दत्त्वा शब्दादयो निर्देश्याः सुगमाः कृतान्तेनैव परमेश्वरेण कस्मैचित् कृपया ब्रह्मणोऽपि ग्राहकं किम् अपि सामर्थ्यं दत्त्वा जाति-द्रव्य-गुण-क्रियातिरिक्तं किम् अपि शब्द-प्रवृत्ति-निमित्तं सृष्ट्वा असृष्ट्वैव वा ब्रह्म अपि शब्द-निर्देश्यं करिष्यते । यतः स प्रभुः अनिर्वचनीयम् अपि निर्वचनीं कर्तुं समर्थः । ततश् च श्रुतयोऽपि तत्र सुखं चरेयुर् इति यद् उक्तं भगवता मत्स्य-देवेन—
मदीयं महिमानं च पर-ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ।
अस्यार्थः—मम महिमानं महत्त्व-रूपं सर्व-व्यापकत्व-लक्षणं यद् ब्रह्म तत् त्वं वेत्स्यसि, कथं वेत्स्यामि, सम्प्रश्नैर् ब्रह्म कीदृशम् ? इति तत्-प्रश्नैर् ब्रह्म ईदृशम् इति मुनि-दत्तैर् उत्तरैश् च शब्दितं साक्षात् शब्द-निर्दिष्टीकृतं ब्रह्म वेत्स्यसि । तत्र हेतुः—मे मया अनुगृहीतं प्रसादीकृतम् । मद् अत्यन्त-प्रसादं विना ब्रह्मणः साक्षात् शब्द-निर्दिष्टत्वं न सम्भवेद् इत्य् अर्थः । अत्र मद् अनुकम्पितत्व-रूप-हेत्व् अन्यथानुपपत्तेर् व्यवधानेन शब्द-निर्दिष्टत्वं न व्याख्येयम् ।
तथा एतद्-व्याख्यानाभ्य्पगमे शब्दितम् इति पदस्य वैयर्थ्यं स्याद् इत्य् अपि ज्ञेयम् । यथा मे मया अनुगृहीतं प्रसादीकृतं परं ब्रह्म हृदि अपरोक्षं वेत्स्यसीति भगवत्-कृपया श्रीमद् अर्जुनेनापि ब्रह्म साक्षाद् दृष्टम् । यथा श्री-हरि-वंशे विप्र-कुमाराहरण-प्रसङ्गे तत्-प्रति भगवद्-वाक्यम्—
ब्रह्म-तेजोमयं दिव्यं महद् यद् दृष्टवान् असि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत् सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
यां प्रविश्य भवन्तीह मुक्ता योगविद् उत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत् पदं परमं ब्रह्म सर्व-ं विभजते जगत् ॥
माम् एव तद् घनं तेजो ज्ञातुम् अर्हसि भारत । [ह।वं। २.११४.९-१२] इति ।
यद् वा, भो राजन् ! निर्विशेषे ब्रह्मणि श्रुतयो नैव चरन्ति । शब्दो न यत्र पुरु-कारकवान् क्रियार्थः [भा।पु। २.७.४७] इति ब्रह्मोक्तेस् तथा स-विशेषे स्मरणात्माकारे ब्रह्मण्य् अपि श्रुतयो न चरन्ति । तस्य प्राकृत-जात्य् आदि-पदार्थातीतत्वात् । किं च, सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः [वि।पु। १.९.४४] इति वैष्णवोक्तौ प्राकृता न सन्तीत्य् उक्ते अप्राकृताः सन्तीति लभ्यते । साक्षी चेतः केवलो निर्गुणश् च [श्वे।उ। ६.११] इति श्रुतौ, निर्गुणत्वेऽप्य् अप्राकृत-साक्षित्वादि-गुणोक्तेश् च, वेदैश् च सर्व-इर् अहम् एव वेद्यः [गीता १५.१५] इत्य् आदि-स्मृतेश् चाप्राकृतानन्त-गुणान्वये तस्मिन् शब्द-प्रवृत्ति-निमित्तानाम् अप्राकृत-जात्य् आदीनां सत्त्वात् साक्षाद् एव श्रुतयस् तत्र चरन्तीत्य् आह—बुद्धीति ।
बुद्धि-पदेन महत्-तत्-त्वम् इन्द्रिय-पदेन शब्दाद्य् आकाशादि-कार्य-जातं च बोध्यते । मात्रार्थं शब्दादीनां ब्रह्मण्य् अपि प्रवृत्त्य् अर्थं बुद्ध्य् आदीन् असृजत्, मात्रा परिच्छदे देशे प्रवृत्तौ कर्ण-भूषणे इत्य् अनुशासनात् । प्राणादिकं विना वचनस्यासम्भवान् मन आदि-सृष्टिर् अपि शब्द-प्रवृत्त्य् अर्था ज्ञेया । सृष्टेः फलान्तरम् अप्य् आह—भवार्थं जीवानां कल्याणार्थं—भवो भद्रे हरे प्राप्तौ इत्य् अनुशासनात् । तथा आत्मना स्वस्मै बुद्ध्य् आदीनाम् अप्राकृतानां प्राकृतानां च कल्पनं स्वम् उपासयितुं विनियोगः, तस्मै । यथा गोपाल-तापिनी-श्रुतिः—
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [गो।ता।उ। १.९] इति ।
अत्र सिद्ध-भक्तानाम् अप्राकृत-बुद्धीन्द्रियैर् अप्राकृत-पुण्डरीक-मेघ-विद्युतांशु-ग्राह्यत्वात् ताभिर् उपामतेषु भगवन्-नयन-वपुर्-वसनेष्व् अप्राकृती तापनी श्रुतिर् भगवन्-नयनादि-वर्णयित्री सुखेनैव चरति । साधक-भक्तानां तु बुद्ध्य् आदिभिर् अग्राह्यत्वेऽपि तत्र प्राकृत-पुण्डरीकादि-सादृश्यारोपेणैव ते यथा कथञ्चिद् एव बुद्धिं प्रवेशयन्तश् चित्तैकाग्र्येणापि वस्तुतोऽस्पृष्ट-तद्-रूप-भासा अपि भगवन्तं प्रभुं ध्यायाम इत्य् अभिमानिनो हृष्यन्ति, भगवान् अप्य् अपार-कृपा तरङ्ग-वशाद् एव एभिर् भक्तैर् अहं ध्यात इत्य् अभिमन्यमानस् तद्-भक्ति-परिपाके सति तान् स्व-भक्तान् स्व-चरणादिकं सेवार्थम् आनयतीति भगवत्-स्वरूपस्य श्रुति-गम्यत्वं तत्-कृपयैव सिद्धम् ॥२॥
॥ १०.८७.३ ॥
सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेषां पूर्व-जैर् धृता ।
श्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अत्र चानादि-शिष्ट-परम्परागतत्वान् न सन्देहो युक्त इत्य् आह—सैषेति । सैषा यथोक्तालम्बना ब्राह्मी ब्रह्म-परा । श्रद्धया आदरेण वैतण्डिक-तर्कानभिनिवेशेन यः श्रवणादिना धारयेत् स अकिञ्चनो निरस्त-देहाद्य् उपाधिः सन् परं पदं प्राप्नुयाद् इति ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : [नील-कण्ठी—तद् एतन्-मनो वाचं प्राणं तान्य् आत्मने\ऽकुरुतेति श्रुतिम् अनुसृत्य परिहरन् श्री-शुक उवाच—बुद्धीन्द्रियेत्य् आदि । तत्र श्रुतौ मनसा बुद्धि-ज्ञानेन्द्रियाणि वाचा कर्मेन्द्रियाणि च सङ्गृह्य तेषां सप्राणानाम् आत्म-प्रकाशार्थत्वम् उक्तम् । अत्र तु विषय-विभागेनेति विशेषः । तत्र विषय-परिच्छेदो मात्रा तद् अर्थं प्रभुर् जनानां बुद्धिम् असृजत् । परिच्छद्यन्ते हि बुद्ध्या अतीन्द्रिया अप्य् अपूर्वादयः । ब्रह्मणश् च स्वयं फलात्मनो घटादिवत्-फल-व्याप्यत्वाभावे\ऽपि वृत्ति-व्याप्यत्वम् उपगम्यते । यन्-मनसा न मनुते-मनसैवानुद्रष्टव्यम् इति श्रुति-द्वयविरोधाय । एवं वाच्यत्वानुपगमे\ऽपि लक्ष्यत्वम् उपगम्यते । यद् वा चानभ्युदितम्-तं त्वौपनिषदं पुरुषं पृच्छामि । इति श्रुतिद्वयाविरोधाय । तथा च तत्-त्वम् असीति वाक्य-करणकधी-वृत्ति-व्याप्यत्वोपगमान्न् आत्यन्तम् अनिर्देश्यत्वं ब्रह्मणो\ऽस्तीत्य् अर्थः । न केवलं बुद्धिमय-कर्तृ-गोचरो ब्रह्मापि तु इन्द्रिय-मन आख्यकरण-गोचरो\ऽपीत्य् आह—भवार्थम् इन्द्रियाण्य् असृजत् आत्मार्थं मनो\ऽसृजद् इति । भवो घटाद्य् अधिष्ठान-भूत-प्रकाशः प्राप्त्य् अर्थस्य भवतेर्-ज्ञानार्थत्वोपपत्तेः । यम् अपेक्ष्य घटादि-ज्ञानम् अनुभव इत्य् उच्यते तद् अर्थम् इन्द्रियाण्य् असृजत् । इयम् अत्र प्रक्रिया—चित्-प्रतिबिम्ब-गर्भम् अन्तः-करणं वृत्त्य् आकारेण परिणम्य कुल्याद्वारा तटाककेदार-सलिलयोर् इव वृत्ति-द्वारा प्रमाफलात्मबोध इति गीयते । एवं सति शुक्ति-रजताद्यध्यास इव घटदि-दृश्यवाव्याध्यासे\ऽपि दृग्-वागन्वयव्यतिरेकयोर् अधिष्ठान-प्रकाश एवोपक्षयः । तद् एतद् आह—भवार्थम् इन्द्रियाण्य् असृजत् । इति । फलम् अपि ब्रह्मैव शास्त्रं च तद् अन्य-निवृत्त्य् अर्थम् एवेत्य् उक्तं वृद्धैः—]{।मर्क्}
[पराग् अर्थ-प्रमेयेषु या फलत्वेन सम्मता ।]{।मर्क्}
[संवित्सैवेह मेयो\ऽर्थो वेदान्तोक्ति-प्रमाणतः ॥ इति ।]{।मर्क्}
[सर्व-प्रत्य् अयवेद्ये वा ब्रह्म-रूपे व्यवस्थिते । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते । इति च । घट-रजतादिकं त्वाविद्यकं प्रतिभास-मात्रम् । एवं च रज्ज्वां स्रक्-सर्पधियोर् इव ब्रह्मणि रज्जु-सर्पधियोर् जाग्रत्-स्वप्नयोर् वा परस्पर-निरोधकत्वम् एव । बाधस्तु तयोर् ब्रह्म-ज्ञानेनैवेति दृष्टि-समसमयां सृष्टिम् उपयन्तो वेदान्त-वृद्धाः । तेषां ब्रह्मणि पारमार्थिकी सत्ता दृश्ये प्रातिभासिकी इतरेषां तु सत्ताद्-वैविध्यम् अभिमतं स्वप्न-रज्जु-भुजङ्गादौ प्राति-भासिकी सत्ता प्रबोध-रज्ज्वादि-ज्ञानेन सद्यो बाध्या । जाग्रद्-रज्ज्वादौ तु व्यावहारिकी ब्रह्म-ज्ञानैकबाध्येति । तत्र पूर्वेषां ब्रह्मणि सर्व-शब्द-वाच्यतास्ति नामानि सर्वाणि यम् आविशन्ति इति श्रुतेः । अवाच्यत्व-श्रुतिस् तु लौकिक-शब्द-प्रवृत्ति-निमित्त-जाति-गुणाद्य् अभावपरा । परेषां तु शरीरं रथम् एव तु इत्य् अत्र यथा-शरीर-शब्देन शरीरोपादानम् अव्यक्तं लक्ष्यते तद्-वद्-धाद्य् उपादानं ब्रह्म घटादि-शब्दैर् इति मतम् । एवं कर्तृक-रण-सृष्टेः ब्रह्म-प्रकाशार्थम् उक्त्वा क्रिया-शक्तिम् अत्प्राणसृष्टेर् अपि तद् उभयानुग्राहकतया तद् अर्थत्वम् आह—कल्पनाय प्राणानसृजत् । कल्पनं बुद्ध्यादेः स्व-स्व-विषयक-प्रकाशन-सामर्थ्य-सम्पादनं तस्मै । यस्माद्-ब्रह्मणः सर्व-शब्द-प्रत्ययगम्यत्वम् अस्ति तस्माद्-भवत्य् एव सन्-मार्गोपदेश ॥२॥]{।मर्क्}
अत्र च वेदानां ब्रह्म-परत्वे च । वितण्डा स्व-पर-पक्ष-स्थापनहीना कथा तद्-युक्ता वैतण्डितास् तेषां तर्का निष्फलवादास् तत्रान् अभिनिवेशेन हठा-भावेन । आदिना मननादि-ग्रहः । निरस्तो\ऽपाकृतो देहाद्य् उपाधिर् देहाद्य् अभिनिवेशो येन स तथा सन् परं ब्रह्मावाप्ति-रूपं या त्रि-वर्ग-साधन-परा सा तूपनिषत् त्रि-वर्ग-निष्ठैर् मरीच्यादिभिर् धृता एषा तु ब्रह्म-परा ब्रह्म-प्रतिपादिकात एव ब्रह्म-निष्ठैः सनकादिभिर् धृतेति भावः ।
उपनीयेयम् आत्मानं ब्रह्मापास् तद्-वयं यतः ।
निहन्त्यविद्यां तज्-जं च तस्माद् उपनिषद्भवेत् ॥
इत्य् उपनिषल्-लक्षणं भारते । उपनिषद्यते प्राप्यते ब्रह्म यद्-विचारेण सोपनिषद् इति निरुक्तेः । कर्मादि-प्रतिपादक-विद्यासूपनिषत्-प्रयोगस् तु परम्परया तासाम् अपि ब्रह्म-परत्वाद् एवेति ध्येयम् ।
श्रीधरानुयायिनी : तत्र तावद्-वेद-स्तुतेर् अनादित्वं वदन्-नेतच्-छ्रवणादेर्-मोक्षं फलं चाह—सैषेति । श्री-नारायणादि-बुद्धि-स्थां तत एव दक्षादीनाम् अपि पूर्वजैः सनकादिभिः श्रवणादिना धारितां ब्रह्म-प्रतिपादिकां वेदान्त-रहस्यविद्याम् इमां यः श्रद्धया श्रवणादिना धारयेत् स निरस्त-देहाद्य् उपाधिः सन्मोक्षं प्राप्नुयात् ।
नीलकण्ठी : अत्रार्थे आख्यायिकाम् आचरयति-सैषा उपनिषद्-रहस्यविद्या । अकिञ्चनो निष्परिग्रहः संन्यासीत्य् अर्थः ॥३॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : सैषा हि एव एषैव ब्राह्मी ब्रह्मविषया उपनिषद्-रहस्यविद्येत्य् अर्थः [४-११] ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याक्ह्य्आतम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याक्ह्य्आतम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-वाक्यं प्रमाणयति स्तौति च-सा प्रसिद्धा एषा श्लोक-द्वयी प्रश्नोत्तरमयी ब्राह्मी उपनिषद्-भवति आवाभ्याम् आविर्भूतैव न त्वावाभ्याम् एव कृता यतः पूर्वेषां श्री-नारदादीनां पूर्वजैः सनकादिभिः स्वान्तःकरणेषु धृता । यद् वा, सैषा जय जयेत्य् आदिना वक्ष्यमाणा । क्षेमं मो मृत्युव्यालभीतः पलायन् इत्य् आद्य् अनुसारेण श्री-भगवच्-चरणारविन्द-रूपम् ॥३॥
[उप लक्षणया वृत्त्या, तात्पर्येण मुख्यया वृत्त्या वा । ब्रह्म-समीपे निषीदति स्थिरतया वर्तत इत्य् उपनिषत् । अत एव ब्राह्मी ब्रह्म-परा, पूर्वजैः श्री-सनकादिभिर् धृता हृदि न्यस्ता नित्यम् अभ्यस्ता वा, अकिञ्चनः श्री-भगवद् अर्थं त्यक्ताशेष-परिग्रहः सन्, क्षेमं भक्ति-योगं—सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतोभयः [भा।पु। ६.१.१७] इत्य् उक्तेः । गच्छेत् प्राप्नोतीति ॥३॥]{।मर्क्}
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याक्ह्य्आतम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलम् इदं मयैवोच्यते, नाप्य् एतद् अप्रमाणम् इत्य् आह—सैषेत्य् आदि । सा एषा ब्राह्मी स-विशेष-ब्रह्म-परोपनिषत् । जगत्-कर्ता सर्व-ज्ञः सर्व-शक्तिर् भगवान् ब्रह्मेत्य् आदि-रूपी पूर्वेषाम् अपि पूर्वजैर् महात्मभिर् धृताम् एतां श्रद्धया धारयेत् । निर्विशेषत्वं परित्यज्य स-विशेषत्वेन तद् अर्थं यो धारयेत्, सोऽकिञ्चनोऽनन्यो भक्त इत्य् अर्थः । क्षेमं तत्-पादाब्जं गच्छतीत्य् अर्थः ॥३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा प्रसिद्धा एषा श्लोक-द्वयी प्रशोत्तर-मयी ब्राह्मी उपनिषद् भवति, आवाभ्याम् आविर्भूतैव, न त्व् आवाभ्याम् एव कृतेत्य् अर्थः । यतः पूर्वेषां श्री-नारदादीनां पूर्वजैः सनकादिभिः स्वान्तः-करणेषु धृता ॥३॥
॥ १०.८७.४ ॥
अत्र ते अत्र गाथां नारायणान्विताम् ।
नारदस्य च संवादम् ऋषेर् नारायणस्य च ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव सर्व-श्रुत्य् अर्थ-निरूपणेन प्रपञ्चयितुम् इतिहासम् अवतारयति, अत्रेति । नारायणान्वितां नारायणः प्रवक्तृत्वेनान्वितो यस्यां ताम् । गाथाम् इतिहासम् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भावार्थ-दीपिका-प्रकाशः वंशीधरी—एतद् एव ब्रह्म-परत्वम् एव । अत्र श्रुतीनां ब्रह्म-परत्वे । एतेन क्षीरोदशायिनः श्री-नारायणाच्-छ्रुत्वा सनन्दादिभिर् यन्-निर्णीतं तद् एव श्री-नारायणो\ऽपि नारदायोक्तवान् इत्य् अवगम्यते । नियत-लिङ्गत्वाद्-गाथाम् इत्य् अस्य विशेषणं संवादम् इति ।
श्रीधरानुयायिनी : अत्र सन्देहाभावार्थम् आख्यायिकाम् अवतारयति अत्रेति । श्रुतीनां ब्रह्म-परत्वे श्री-नारायणेन नारदायोपदिष्टम् इतिहासं ते अत्र ॥४॥ अत्र विश्हनाथ
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत्र श्रुतीनां ब्रह्म-परत्वे वर्तयिष्यामि, चिरम् अतीताम् अपि प्रवर्तयिष्ये वर्णयिष्यामीत्य् अर्थः । गाथाम् एव विशिंषंस् तस्या उत्पत्ति-प्रकारम् आह—नारदस्येति । संवादे प्रश्नोत्तराभ्याम् अन्योन्यं सम्भाषा-लक्षणम् । ऋषेर् इति श्री-विशेष्कृतेश्वर-क्षीराब्धि-शायिनोर् व्यावृत्त्य् अर्थम् । च-काराभ्याम् द्वयोर् अपि संवादे प्राधान्यं बोधयति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, नारायणः श्रुति-स्तुतः श्री-भगवान् वर्ण्यत्वेनान्वितो यस्यां ताम् । अत एव अत्र ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र एतत्-प्रसङ्गे गाथां च वर्तयिष्यामि चिरम् अतीताम् अपि प्रवर्तयिष्ये वर्णयिष्यामीत्य् अर्थः । नारायणो महत्-स्रष्ट्रादि-पुरुषत्रयाश्रयः सर्व-जीवाश्रयश् च । स तु नारायणस् त्वं न हि सर्व-देहिनाम् इत्य् आद्य् अनुसारेण स्वयं भगवान् श्री-कृष्णः स एवान्वित उपक्रमोपसंहारादिष्व् अनुगतो यस्यां तां नारदस्य परम-भागवतत्वाच्-छ्री-भगवन्-माहात्म्यम् एवोद्देश्यम् इति सिद्धान्तः सूचितः । अतो भगवत्-प्रिय इति । वक्ष्यते च संवादं संवाद-रूपाम् । ऋषेर् इति क्षीरोदशायि-परम-व्योमेश्वरयोर् व्यावृत्त्य् अर्थम् ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : परीक्षित्-कृत-प्रश्नं पूर्वम् अप्य् अन्यत्र-जातत्वेन दर्शयन्न् इतिहासम् आह—अत्रेत्यादि बहुभिः ॥४-७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तमर्थं द्रढयितुम् इतिहासम् अवतारयति अत्र प्रसङ्गे, गाथाम् इतिहासम्, वर्णयिष्यामि चिरमतीताम् अपि वर्णयिष्यामीत्य् अर्थः । नारायणो महत्-स्रष्ट्रादि-पुरुषत्रयाश्रयः सर्व-जीवाश्रयश् च । स तु नारायणस् त्वं न हि सर्व-देहिनाम् इत्य् आद्य् अनुसारेण स्वयं भगवान् श्री-कृष्णः स एवान्वित उप-क्रमोपसंहारादिष्व् अनुगतो यस्यां तां नारदस्य परम-भागवतत्वाच्-छ्री-भगवन्-माहात्म्यम् एवोद्देश्यम् इति सिद्धान्तः सूचितः । अतो भगवत्प्रिय इति । वक्ष्यते च संवादं संवाद-रूपाम् ॥४॥
॥ १०.८७.५ ॥
एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः ।
सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकदैकस्मिन्काले । नारायणाश्रमं कलापग्रामम् । सनातनं तन्-नामानं प्राक्तनं वा नारायणं वा ।
श्रीधरानुयायिनी : कदाचिद्-भगवद्-भक्तो नारदो लोकान् पर्यटन् सन् भारत-वर्ष-वासिनामैहिकामुष्मिक-कल्याणाकल्याणम् अभिव्याप्य ब्रह्म-दिन-प्रथमांशम् आरभ्य धर्म-ज्ञान-शमोपेते तपसि स्थितं सनातनं श्री-नारायणमृ र्षि द्रष्टुं बदरिकाश्रमे कलापग्रामाख्यं तद् आश्रमं ययौ ॥५॥
नीलकण्ठी : न व्याख्यातम्।
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तयोः संवादः कदा कुत्र कथा वाभूद् इत्य् अपेक्षायाम् आह—एकदेति चतुर्भिः । कस्मिंश्चित् प्रसादावसरे किं वात्मनः चरणारविन्द उत्सुक्य-काले ययौ, लोकान् सर्व-भुवनानि पर्यटन् परिभ्रमन् । कीर्तन्? भगवत्-प्रियः श्री-भगवन्-माहात्म्य-चरणारविन्द-श्रावणार्थम् इत्य् अर्थः । तद् उक्तम् प्रथम-स्कन्धे—
अहो देवर्षिर् धन्योऽयं यत्-कीर्तिं शार्ङ्ग-धन्वनः ।
गायन् माद्यन्न् इदं तन्त्र्या रमयत्य् आतुरं जगत् ॥ [भा।पु। १.६.३९] इति ।
अत एव सनातनम् आद्यम् ऋषिम् । यद् वा, ऋषि-रूपं सनातनं भगवन्तं द्रष्टुम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सनातनम्आद्यं श्री-भगवन्तम् ऋषिं धर्मपुत्रं श्री-नारायणम् । श्री-नारायणाश्रमं तन्-नाम्नैव प्रसिद्धं बदरिकाश्रम-प्रदेश-विशेषम् इत्य् अर्थः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सनातनं नित्य-मूर्तिम् ऋषिं धर्म-पुत्रं श्री-नारायणम् ॥५॥
॥ १०.८७.६ ॥
यो वै भारत-वर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।
नृणाम्-ज्ञान-शमोपेतम् आ-कल्पाद् आस्थितस् तपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : को\ऽसावृषिस् तम् आह—य इति । स्वस्तये सुस्थितये । क्षेमाय समृद्धये । आकल्पात्-कल्पम् अभिव्याप्य ॥६॥
श्रीधरानुयायिनी, नीलकण्ठी : न व्याख्यातम्।
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ऋषित्वे कारणं वदन् तदीय-कीर्तनयतिअ-भरम् आह—य इति । अस्मिन् कर्म-क्षेत्रतया सर्व-लोक-सेव्यत्वेन प्रसिद्धे । यथोक्तं पञ्चम-स्कन्धे, अहो अमीभिः किम् अकारि शोभनं [भा।पु। ५.१९.२१] इत्य् आदि । यद् वा, भवद् अर्थेऽधिष्ठित इति तस्य बुद्धयतिअं सूचयति । वै प्रसिद्धौ । क्षेमायाभवाय स्वस्तये च सुखाय । यद् वा, ऐहिकामुष्मिक-मङ्गलायेति क्रमेण पद-द्वयार्थः । अतो धर्मादिभिर् उपेतं युक्तम्, शमो भगवन्-निष्ठ-चित्तता, लोक-शिक्षार्थं तानि स्वयम् एवास्थित इत्य् अर्थः । तच् च मोक्ष-धर्मे नारायणीये व्यक्तम् एव, धर्मादीनां यथोत्तरं श्रैष्ठम् । आकल्पात् श्री-ब्रह्म-दिन-प्रथमम् आरभ्य ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऋषित्वे कारणं वदंस्तदीय-कारुण्यमय-लीलाम् आह—य इति । क्षेमाय ऐहिकाय, स्वस्तये आमुष्मिकाय, मङ्गलाय लोक-शिक्षार्थं धर्माद्य् उपेतं तपो-योगं स्व-नृणाम्ं वावस्थितः । धर्मो भक्त्य् उपयोगि ज्ञानं भगवद्विषयं शमो भगवच्-चित्ततेति विवेकः । आकल्पाद्-ब्रह्म-दिन-प्रथमांशम् आरभ्य ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षेमाय ऐहिकाय स्वस्तये आमुष्मिकाय मङ्गलाय आकल्पात् ब्रह्म-प्रथम-दिन-प्रथम-भागम् आरभ्य ॥६॥
॥ १०.८७.७ ॥
तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः ।
परीतं प्रणतोऽपृच्छद् इदम् एव कुरूद्वह ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र कलाप-ग्रामे । स्वाश्रमे स्थितम् । इदं श्रुतीनां ब्रह्म-परत्वम् । उपविष्टम् इति वैयग्र्यराहित्यम् आह तेन प्रश्नावसर उक्तः । ऋषिभिः परीतम् इति सर्व-सङ्गत्वेन प्रश्न-माहात्म्यं चोक्तम् ।
श्रीधरानुयायिनी : हे राजन् ! सशिष्यं स्वाश्रमे स्थितं नारायणं प्रणम्य नारदस् तम् इदम् एवापृच्छत् ॥ अत्र विश्ह्वनाथ
नीलकण्ठी : ॥७॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र निजाश्रमे उपविष्टम् इति धर्माद्य् अर्थ-वैयाग्र्य-राहित्येन वरः प्रश्नावसर उक्तः । ऋषिभिः परीतम् इति प्रायो योगेश्वराणां सभा-मध्ये कृतत्वात् प्रश्नस्य सर्व-सम्मतत्वेन माहात्म्यम् अभिप्रेतम् । कुरूद्वह ! हे महा—वंशजेति त्वत्-प्रश्नस्य श्री-नारद-प्रश्नेन साम्यं युक्तम् एवेति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र निजाश्रमे । उपविष्टम् इति वैयाग्र्यराहित्येन प्रश्नावसर उक्तः । ऋषिभिः परीतम् इति सर्व-संमतत्वात् तत्-प्रश्नादेर् माहात्म्यम् अभिप्रेतम् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपविष्टं श्री-नारायणम् इदम् एव ब्रह्मन् ब्रह्मण्य् अनिर्देश्य [भा।पु। १०.८७.१] इत्य् एव वदन्न् इत्य् अर्थः ॥७॥
॥ १०.८७.८ ॥
तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वतामिदम् ।
यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मै नारदाय । इदं किं यो ब्रह्मवादस् तद् इदम् । उद्देश्य-विधेय-भावत्वाल्-लिङ्ग-वैषम्यम-दोषः । यत्रोद्देश्व-विधेयत्वं तत्रायं नियमो न हि । इत्य् उक्तेः । शृण्वताम् इति साव-धानत्वम् उक्तम् । जन-शब्दो\ऽदन्तो\ऽपि भुवन-वाची सान्तश् च जनस्-तपः-सत्य-निवासिनो जनाः इति तृतीयोक्तेः
श्रीधरानुयायिनी : शृण्वतामृषीणां मध्ये स्थितो नारायणो जन-लोक-निवासिभिः सनन्दनादिभिः प्राक्-प्रवर्तितां ब्रह्म-विषय-गाथां नारदायावोचत् ।
नीलकण्ठी : ॥८॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तम् उत्साहयति—भगवान् सर्व-ज्ञो महा—दयालुर् वा, शृण्वत्स्व् इति वक्ष्यमाण-ब्रह्म-वादस्य सर्व-सम्मतत्वे तेषां च तच्-छ्रवणौत्सुक्यादिकम् अभिप्रेतम् । इदम् इति सदा तस्य हृदि वर्तमानत्वादिना प्रत्यक्षत्वादिकं सूचयति । यो ब्रह्म-वादः पुरा जन-लोकेऽभवत्, इदम् इति वा, ब्रह्मणो वादः प्रश्नोत्तर-द्वारा तत्-तत्त्व-निर्धार-लक्षणः, स च वादो विवदताम् अहं [गीता १०.३२] इति श्री-भगवद्-वचनाद् वितण्डा-जल्प-वादानां मध्ये तन्-महा—विभूतित्वेनोत्तमः । तच् च सर्व-ं श्री-स्वामि-पादैस् तत्रैव व्याख्यातम् । जनेत्य् अ-कारान्त एव प्रायः । जन-शब्दः, जनस्-तपः-सत्य-निवासिनो वयम् [भा।पु। ३.१३.४५] इत्य् आद्य् उक्त्या स-कारान्तोऽपि क्वचित् ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शृण्वताम्शृण्वत्सु सत्स्व् इति सावधानत्वम् । ब्रह्मणि वेद-विषये वादस्-तत्त्व-बुभुत्सार्थकथा-रूपः न तु जल्प-वितण्डारूपः जन-लोक इत्य् अकारान्तोपि भुवन-वाची जन-शब्दो\ऽस्तीति जनस् तपः-सत्य-निवासिनो जनाः [भा।पु। ३.१३.४५] इत्य् आद्य् उक्त्या सकारान्तो\ऽपि क्वचित् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तस्मा अवोचद् इत्य् आदि । ब्रह्म-वादः स-विशेषस्य ब्रह्मणो विचार-ः । ब्रह्म-निरुक्तिर् मुख्यार्थतया ब्रह्म-शब्द-व्युत्पत्तिः ॥८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो ब्रह्म-वादो जन-लोक-निवासिनाम् आसीत् । इदम् एव ऋषीणां मध्य-स्थितो भगवांस् तस्मै नारदाय ह्य् अवोचद् इत्य् अन्वयः ॥८॥
॥ १०.८७.९ ॥
श्री-भगवान् उवाच—
स्वायम्भुव ब्रह्म-सत्रं जन-लोकेऽभवत् पुरा ।
तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-सत्रम् इति । यथा यजमाना एव समाना ऋत्विगादि-रूपेण यत्र कर्म कुर्वन्ति तत् कर्म-सत्रं प्रसिद्धम् । तथा यत्र समाना एव वक्तृ-श्रोतृ-भावेन ब्रह्म मीमांसन्ते तद् ब्रह्म-सत्रम् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वायम्भुव स्वयम्-भुवो\ऽपत्यं स्वायम्-भुवस् तत्-सम्बुद्धौ । गुणाभावश्चार्षः । पुरा कल्पादौ । तत्र-स्थानां जन-लोक-स्थानाम् । मानसानां ब्रह्मणो मनसो जातानाम् सनकादीनाम् ।
श्रीधरानुयायिनी : श्री-भगवानुवाच । हे नारद ! श्वेत-द्वीप-पतिम निरुद्ध-मूर्तिं मां द्रष्टुं त्वयि श्वेत-द्वीपं गतवति सति श्रुति-समाज-वति जन-लोके पुरा कल्पादौ सनकादीनां वेद-तपः-शीलैः सर्वत्र सम-दृष्ट्या च तुल्यानाम् अपि भगवच्-चरित्रास्वादनार्थम् एकं सनन्दनं वक्तारं परिकल्प्य त्वत्-पृष्ट-प्रश्न-पूर्वकम् एव ब्रह्म-विचारः प्रावर्तत । यत्र समा एव सर्वे ब्रह्म वेदं वा मीमांसन्ते तद्-ब्रह्म-सत्रम् ।
नीलकण्ठी : ॥९॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वायम्भुव ! हे ब्रह्म-पुत्र नारद ! अतस् तवापि तैः सह ब्रह्म-सत्रे तच्-छ्रवणे वा योग्यतास्त्य् एवेति भावः । पुरा कल्पादौ मानसानां श्री-ब्रह्म-मनोजातानाम् इति महा—विशुद्धत्वम् उक्तम् । अतो मुनीनां ज्ञान-पराणाम् । किं वा, श्री-भगवद्-ध्यान-निष्ठानाम् । अत एवोर्ध्व-रेतसां नैष्ठिक-बुद्ध्चन्द्रिणाम् इत्य् अर्थः । इति तेषां ब्रह्म-सत्र-योग्यतोक्ता ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे स्वायम्भुवेति । ब्रह्म-सत्रे तवापि योग्यतास्तीति तत्-समानत्वाद् इति भावः । पुराकल्पादौ मानसानां श्री-ब्रह्म-मनो-जातानाम् इति महा—विशुद्धत्वं व्यक्तम् अतो मुनीनां श्री-भगवन्-मनन-शीलानाम् अत एवोर्ध्व-रेतसां नैष्ठिक-ब्रह्म-चारिणाम् इत्य् अर्थः । इति तेषां ब्रह्म-सत्र-योग्यता दर्शिता ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स्वायम्भुवेत्य् आदि । हे स्वायम्भुव नारद ! ब्रह्म-सत्रम् इति ब्रह्म-शब्दो मुख्यो लाक्षणिको वेति मीमांसनं ब्रह्म-सत्रम् । प्रकरण-बलात् स-विशेषतया मुख्य एवेति मीमांसितम् इति भावः ॥९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वायम्भुव ! हे स्वयम्भू-पुत्र ! ब्रह्म-सत्रम् इति यजमाना एव समाना ऋत्विगादि-रूपेण यत्र कर्म कुर्वन्ति, तत् कर्म-सत्रम् इति प्रसिद्धम् । तथा यत्र समाना एव वक्तृ-श्रोतृ-भावेन ब्रह्म मीमांसन्ते तत् ब्रह्म-सत्रम् ॥९॥
॥ १०.८७.१० ॥
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् ।
ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो तर्हि मया कथं तन् न ज्ञातम् इत्य् अत आह—श्वेत-द्वीपम् इति । तद् ईश्वरं तत्र-स्थं माम् एवानिरुद्ध-मूर्तिम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-ब्रह्म-सत्रम् । तदीश्वरं श्वेत-द्वीपाधीशम् । तत्र जनलोके । अयं कः यं प्रश्न त्वं माम् इति । ततश्-चायं प्रश्नस् त्वां विना न केनापि कृत इति श्लाघा सूचिता । श्रुतयः शेरते निवृत्तव्यापारा वक्तुम् अशक्ता अभवन्न् इति यावत् । क्वचित्-पुस्तके ब्रह्म-वादः सुसंवृत्तः श्रुतयो यत्र शेरते इत्य् अर्ध-श्लोको नास्ति ॥१०॥
श्रीधरानुयायिनी, नीलकण्ठी : ॥१०॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र जन-लोके, ह स्फुटं, अनु तेभ्यः पश्चात् । पृच्छसीति तत्-पश्चाद् अयं प्रश्नस् त्वां विना न केनापि कृतोऽस्तीति भावः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र जन-लोके ह स्फुटम् । अनु तेभ्यः पश्चात्-पृच्छति इति । तत्-पश्चाद् अयं प्रश्नो न केनापि कृतो\ऽस्तीति श्लाघा सूचिता । अत्र पद्यार्धम् अधिकम् अपि क्वचिद् अस्तीति तद् अनुपयुक्तम् एव । शेरते समन्विता भवन्तीत्य् अर्थः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वं तदा तत्र नासीः, त्वं श्वेत-द्वीपं गत इत्य् आह—श्वेत-द्वीपम् इत्य् आदि ॥१०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अहो तर्हि क्वाहम् अगमं कथं तन् नावगतवान् ? तत्राह—श्वेत-द्वीपम् इति । ह स्पष्टम् ॥१०॥
॥ १०.८७.११ ॥
तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः ।
अपि चक्रुः प्रवचनम् एकं शुश्रूषवोऽपरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्व-ज्ञास् ते, कस् तत्र वक्ता प्रष्टा वा तत्राह—तुल्य-श्रुतेति । श्रुतादिभिर् अविशेषा अरि-मित्रोदासीन-हीनत्वेन निरुपम-करुणाः, अतः सर्वे प्रवचन-योग्या अपि केनापि कौतुकेनैकं प्रवक्तारं कृत्वान्ये पप्रच्छुर् इत्य् अर्थः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र शङ्कते-नन्विति । तुल्यानि श्रुतानि शास्त्राणि तपांसि शीलानि च येषां ते तथा । यतः सर्वथा समाना अतो हेतोः केनापि कौतुकेन श्रौत-विचार-कुतूहलेन । इत्य् अर्थ इति—एवम्-भूताः सनन्दनम् एकं वक्तारं विना श्रोतृजनाह्लादो न भवतीति भावः ॥११॥
श्रीधरानुयायिनी : न व्याख्यातम्।
नीलकण्ठी : प्रवचनं प्रकृष्टं वचनं यस्येति प्रवक्तारम् । शेषं स्पष्टम् ॥११॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रुतं शास्त्राभ्यासः । तपश् चित्तैकाग्रता । शीलं शान्त्यादि-स्वभावः । प्रवचनं प्रवक्तारम् । एकं श्री-सनन्दनम्, अपरे श्री-सनकादयः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तपश्चित्तैकाग्रता । प्रवचनम् इति कर्तरि ल्युः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु सर्व-ज्ञा एव ते तत्र कः प्रष्टा को वा वक्ता ? तत्राह—तुल्येति । श्रुत्यादिभिर् अविशेषां स्व-पक्ष-विपक्ष-तटस्थ-पक्ष-रहिताः । अतः सर्वेऽपि वक्तृत्वे योग्या अपि केनापि कौतुकेनैकं प्रवचनं प्रवक्तारं चक्रुः । कर्तरि ल्युः ॥११॥
॥ १०.८७.१२ ॥
श्री-सनन्दन उवाच—
स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः ।
तद् अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-सृष्टम् इति । स्वयं निर्मितम् इदं विश्वं प्रलय-समये आपीय संहृत्य शयानं योगेन निद्राणम् इव वर्तमानं तद् अन्ते प्रलयान्ते तल्-लिङ्गैस् तत्-प्रतिपादकैर् वाक्यैः परम् ईश्वरं सृष्टि-समये प्रथम-निःश्वास-भूताः श्रुतयः प्रबोधयाम् आसुः ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्रेतिहास-पीठिकां बध्नाति-स्व-सृष्टम् इति । तत्-प्रतिपादकैर् ईश-प्रतिपादकैः । श्रुतय इति । श्रूयन्त एव शिष्याचार्य-परम्परया न तु भारतादि-वत्-केनचित्-प्रणीयन्त इति श्रुतयो वेदाः । अपौरुषेयतया स्वतः प्रमाणाभाव इत्य् अर्थः । यदि अस्य महतो भूतस्य निःश्वसितम् एतद्-यद्-ऋग्-वेदो यजुर्-वेदः इति वेदानां ब्रह्म-प्रभवत्वं सिद्धं तथापि वाचा विरूपनित्ययेति तन्-नित्यत्व-बोधक-श्रुत्य् अन्तरादी-श्वरो\ऽपि पूर्व-पूर्व-कल्पीयाम् एवानुपूर्वीं रचयति न त्व् अभिनवाम् इत्य् अपौरुषेयत्वं ज्ञेयम् । एवम् आदिमतमाख्यायिका देवता-विग्रहभुवनकोशानां प्रतिपादिका श्रुतिरादिमतीति प्रत्याख्यातव्यम् सूर्याचन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् । इति प्रतिकल्प-सृष्टे समाननामरूपश्रवणेन ब्रीह्यादिवदेषाम् अपि संसारानादितया जातिशब्दतुल्यत्वाद् इति ।
श्रीधरानुयायिनी : तत्र ब्रह्मणि श्रुतीनां समन्वयं श्रुतिम् उखेनैव प्रतिपादयन् सनन्दन उवाच-यथानुजीविनो बन्दि-जनाः प्रातरागत्य शयानं चक्रवर्तिनं तद्-यशोयुक्तदिग्-विजयादि-पराक्रमोक्तिभिर्बोधयन्ति तथा स्व-सृष्टम् इदं विश्वं प्रलयकाले संहृत्य लक्ष्म्यादि-शक्तिभिः सह योगेन निद्राणमिव वर्तमानं परमेश्वरं सृष्ट्यादाव्-ईश्वर-प्रथम-श्वासप्रसूताः श्रुतयस्-तत्-स्वरूप-गुणयशः पराक्रमादि-सूचकैः सत्य-ज्ञानानन्तादि-जगत्-कर्तृत्वादि-लक्षणैः प्रबोधयामासुः ।
नीलकण्ठी : तत्र श्रुतीनां जीव-बोधन-प्रकारम् अवतारयन् सनन्दन उवाच-स्व-सृष्टम् इत्य् आदि । इदं नाम-रूपात्मकस्य जगत एक-देश-भूतं देह-पुत्रादि स्व-सृष्टं अनाद्य् अविद्यावशादात्मत्वेनात्मीयत्वेन च कल्पितम् आपीय अमुष्य पुत्रो\ऽहं ममेदं पुत्रादीत्य् अभिनिवेश-पूर्वकमवेत्य शयानं विस्मृतात्मयाथात्म्यम् । अत्र हेतुः—सह शक्तिभिर् इति । रागद्वेषादि-वासनाभिः तद्वता चित्तेन सहाभेदाध्यासादित्य् अर्थः । उक्तं च—मायामये वासनया शयाने इति । तदन्ते वासनानां तानेव सति तल्-लिङ्गैर् आत्म-स्वरूपावगमकैः श्रुति-युक्त्य् आदिभिः परम्परम् एव सन्तम् अबुद्धात्मतत्-त्वम् एनं श्रुतयः श्रूयन्त एव शिष्याचार्य-परम्परया न तु भारतादिवत्केनचिद्-रच्यन्त इति श्रुतयो वेदाः । अपौरुषेयतया स्वतः प्रमाणाभाव इत्य् अर्थः । यदि अस्य महतो भूतस्य निःश्वसितम् एतद् यद्-ऋग्-वेदो यजुर् वेदः इति वेदानां ब्रह्म-प्रभवत्वं सिद्धं तथापि वाचा विरूपनित्ययेति तन्-नित्यत्व-बोधक-श्रुत्य् अन्तरादी-श्वरो\ऽपि पूर्व-पूर्व-कल्पीयाम् एवानुपूर्वीं रचयति न त्व् अभिनवाम् इत्य् अपौरुषेयत्वं ज्ञेयम् । एवम् आदि-मतम् आख्यायिका देवता-विग्रह-भुवन-कोशानां प्रतिपादिका श्रुतिर् आदिमतीति प्रत्य् आख्यातव्यम् सूर्याचन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् । इति प्रतिकल्प-सृष्टेः समान-नाम-रूप-श्रवणेन ब्रीह्यादिवद् एषाम् अपि संसारानादितया जाति-शब्द-तुल्यत्वात् बोधयाञ्चक्रुः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स्व-सृष्टम् इत्य् आदि । स्वैः प्रिय-जनैः सृष्टं कल्पितम्, इदं कामदं, इः कामः, आपीय पीत्वा, अर्थात् मधु । शयानं शक्तिभिः श्री-रुक्मिण्य् आदिभिः सह परं श्री-कृष्णं प्रबोधयाञ्चक्रुः । तद् अन्ते रात्र्य् अन्ते तल्-लिङ्गैः प्रबोध-गमकैर् वचनैर् इत्य् अर्थः ॥१२॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : भगवान् सच्-चिद् आनन्द-मात्रैक-रस-घन-विग्रहः परमो विशुद्ध-मधुर-रस-साम्राज्य-निधिस् तदीयाश् च गोप्यन्त-दृक्-चिद्-रस-घन-विग्रहास् तद् आनन्द-रसम् अखिलानन्द-तूच्छीकरणं पूर्ण-शुद्ध-रति-मूर्तिराधा-सख्य-भावेनास्वादयन्तीति निवेदितम् । स्व-सृष्टं निजाश् चर्य-वैदग्ध्य-रचितम् न तु काम-तन्त्रेषु प्रसिद्धम् । इदं कन्दर्प-विलसितं नित्य-सिद्धम् एव ममेदानीम् अपरोक्षतया भासमानम् । इः काम-तस्य दा शूद्धिर्यत्र तादृशम् शुद्ध-कन्दर्प-रसमयम् इत्य् अर्थः आपीय उपहृत्य शयानं निद्रां गतम् शक्तिभिः सह निद्रावस्थायाम् अपि सूक्ष्म-रूप-विलास-युक्तम् इत्य् अर्थः । शक्तिभिः श्री-राधया सहेति वा सैव हि सर्व-प्रेम-शक्त्य् आत्मिका तद् अंशत्वाद् अन्य-समस्त-रस-शक्तेः शृङ्गार-रसे\ऽभ्यर्हितत्वाद् वा बहुवचनम् राधा-तत्-सख्यभिप्रायेण वा बहु-वचनम् । तदा राधा तस्योरस्य् एव सुप्ता सख्यो\ऽपि यत्र स्थितास् तद्-विलासं पश्यन्तस् तत्रैवाञ्चलं निपात्य शयिता इति । यद् वा, स्व-सृष्टं स्वस्मै सृष्टं राधा-धर-सुधा-रसमापीय न हि तद् अन्यास्वाद्यं विना विशुद्ध-कन्दर्प-रसैक-मूर्तिं श्री-वृन्दावन-नागरं शक्तिभिस् तं क्रीडा-शक्तिभिः सह शयानम् ता अपि तदा निर्वृत्तिका जाताः—श्रमवशादित्य् अर्थः । तद् अन्ते तस्या निद्राया अन्तो\ऽवसानं यत्र तस्मिन् प्रातः-समय इत्य् अर्थः । क्रीडा-शक्तीनां तद् अवस्थाया अपगमे वा बोधयामासुर्जागरयामासुः तल्-लिङ्गैः प्रातः-समय-लिङ्गैः स एव लिङ्ग्यते ज्ञाप्यते यैर्वाक्यैस् तैरित्य् अर्थो वा । सुख-निद्र् आगतं कथं प्रबोधितवत्यः तत्राह—परम् व्याप्रियत इति परम् निर्व्यापारता तस्यापि नेष्टेति भावः परं परमानन्द-रूपं वा ॥१२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-शब्देन विश्वस्य तद् अधीनत्वम् उक्तम्, अत आपीय जल-पानादिवद् अनायासेनात्मान्तर् निधायेत्य् अर्थः । शक्तिभिस् त्रिगुण-तत्-कार्य-महदादिभिः । किं वा, विद्याविद्यादिभिः सह शयानम् । तासां तदानीं स्व-कार्ये प्रवृत्त्य् अभावात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, शक्तिभिः श्री-लक्ष्म्य् आदिभिः सह शेष-पर्यङ्के शयानं निद्रा-लीलां भजन्तं, तस्य लिङ्गैर् माहात्म्य-प्रपञ्च्दृशकैर् वाक्यैः । तच् च तासां सहज-तद्-दास्याद् इति दृष्टान्तेनाह—यथेति । अनुजिविनः सेवका इति तस्य प्रसाद-विशेषार्थम् इति योजनं च सूचितम् ॥१२-१३॥
[यद् वा, श्रेष्ठके कथा श्रुतयश् चरन्तीति प्रश्नस्य भक्त्यैव चरन्तीत्य् उत्तरम् उक्तम् । तद् एव कृष्णैक-परत्वम् आह—स्व-सृष्टम् इति । शक्तिभिः शक्ति-रूपाभिः । पराङ्गनात्वेन वर्तमानाभिः श्री-राधा-चन्द्रावल्यादिभिः सह शयानं निकुञ्जादौ निद्रां भजन्तं परम-पुरुषोत्तमं श्रेष्ठ्कम् । किं कृत्वा शयानम् ? स्व-सृष्टम् इदं धर्म-मर्यादा-वर्त्म । आपीय ताभिः सह शयनेन समाच्छाद्य, तद्-अन्ते तस्या निशायाः शेषे श्रुतयो गोपी-भावं प्राप्ता बोधयञ्चक्रुर् जागरयामासुः । कैः ? तल्-लिङ्गैर् बोधोचितैर् वचोभिर् इत्य् अर्थः । यथेति दृष्टान्तितं पद्यं सुसङ्गतम् एव ॥१२-१३॥]{।मर्क्}
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व यथा न निर्विशेषं ब्रह्म सर्व-वेदाभिधेयं सविशेषत्वे\ऽपि तन्-न माया-विभूत्य् आसक्तम् इति व्यञ्जितम् । तथैव यो\ऽस्योत्प्रेक्षक आदि-मध्य-निधने इत्य् आदिकम् उपसंहरिष्यति तथैवोपक्रमते-स्व-सृष्टम् इति । स्व-शब्देन विश्वस्य तद् उपादानकत्वं तद् अधीनत्वं चोक्तम् । महदादि-पृथि-व्यन्तम् इदं विश्वम् आ सम्यक् तत्-कारणेन प्रकृत्या तद्-भोक्त्रा जीव-वृन्देन च संय् उक्तं यथा स्यात्-तथा पीत्वा सूर्यो रसानिवाविनाश्य शक्तिभि स्तत्-तच्-छक्तिमय-पुरुषाद्य् अवतारैः सह मिलित्वैकीभूय—
अनन्तानि तथोक्तानि यान्यण्डानि मया पुरा ।
सर्वाणि तानि संहृत्य सम-कालं जगत्-पतिः ॥
प्रकृतौ तिष्ठति तदा सा रात्रिस्तस्य कीर्ति । इति विष्णु-धर्मोत्तरादौ महा—पुरुषस्य स्व-प्रकृतौ श्री-भगवति प्रवेश-श्रवणात् शयानं जगत्-कार्यं प्रति निद्राणमिव कृतान् अवधानं सन्तं परम् आद्यो\ऽवतारः पुरुषः परस्य [भा।पु २.६.४१] इति द्वितीयोक्तेः स्वयं भगवन्तं श्री-कृष्णं स्व-लोक-वासिनं तद् अन्ते तादृश-शयनान्ते बहिर् आवरण-गताः श्रुतयस् तद् अधिष्ठातृद् एवतास् तल्-लिङ्गैः साक्षात्-परम्परया वा स्वयं भगवत्ता-बोधकैर् वाक्यैर् बोधयाञ्चक्रुः पुनर् विश्व-सृष्ट्याम् अवधापयाञ्चक्रुः । अयं भावः—यद्य् अपि तस्य बोधनं नाम माया-वैभवं प्रत्यवधापनम् एव तच् च तदीय-स्वरूप-वैभव-मात्र-तत्-परेभ्यः स्वेभ्यो न रोचते तथापि बोधनस्य स्वाधिकार-प्राप्तत्वेनावश्यकर्तव्यत्वात् तत्-तिरस्कार-पूर्वक-स्वरूप-वैभव-पुरस्कारेणैव तच् चक्रुर् इति तथैव जय जयेत्य् आदौ व्यक्तं भावि तादर्थ्यं, प्राकृत-प्रलये\ऽपि तद् अधिष्ठान-वैकुण्ठस्यानश्वरत्वम् एव तैः सम्मतम् यत्रासौ शेते । यद् उक्तं द्वितीये—
प्रवर्तते यत्र रजस् तमस्तयोः
सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ इति ॥१२॥
जीव-गोस्वामी (भगवत्-सन्दर्भः १११) : अथ तत्र तत्र विशेषं वक्तुं तदीय एवेतिहास उपक्षिप्यते—स्व-सृष्टम् इति । स्वयं निर्मितम् इदं विश्वं लय-समये आपीय संहृत्य शक्तिभिः सह शयानं प्रकृतिं पुरुषं तद् अंशांशश् चात्म-सात्कृत्य तत्-कार्यं प्रति निमीलिताक्षं परं भगवन्तं तद् अन्ते प्रलय-कालावसान-प्राये तल्-लिङ्गैस् तत्-प्रतिपादकैर् वाक्यैः श्रुतयः प्रबोधयाञ्चक्रुः प्रातः प्रबोधनः स्तुति-भङ्ग्या तुष्टुवुर् इत्य् अर्थः । अस्य भगवत्त्वम् एव गम्यते, न तु पुरुषत्वम् ।
भगवान् एक आसेदम् अग्र आत्मात्मतां विभुः ।
आत्मेच्छानुगतावात्मो नानाम् अत्य् उपलक्षणः ॥ [भा।पु। ३.५.२३]
इति तृतीय-स्कन्ध-प्रकरणे तदानीं पुरुषस्य तद् अन्तर्भाव-श्रवणात् ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं चेतिहास-कथन-पूर्वकं स-विशेष एव ब्रह्मणि श्रुतयश् चरन्तीति दर्शयन् जगत् संहार्य योग-निद्राम् उपेतं भगवन्तं यथा श्रुतयश् चेरुः, तत्-कथन-द्वारा द्वारका-लीला-प्रकरणे द्वारकायाम् अपि तथा श्रुति-रूपा गोप्यः श्रुति-रूपेण परिचरन्तीति दर्शयितुम् एकेनैव पद्येन श्लेषालङ्कारेणोभयं प्रस्तौति—स्व-सृष्टम् इत्य् आदि । तत्र योग-निद्रा-शायि-पक्षे योऽर्थः, स पूर्वैर् एव व्याख्यातः । द्वारकेन्द्र-पक्षे तु यः, स इह व्याख्यायते ।
स्वैः प्रिय-जनैः सृष्टं कल्पितं, इदं कामदं, अस्यापत्यम् इः कामः, तं ददातीति तथा । मधु तावत् कामदं भवति । विशेषण-मर्यादया पान-क्रिया-शक्त्या मधु-रूपं विशेष्यम् आक्षिप्यते, यथा—अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् इत्य् आदि । स्व-सृष्टम् इदं मधु आपीय सम्यक् पीत्वा शक्तिभिः श्री-रुक्मिण्य् आदिभिः प्रियाभिः सह शयानं तद् अन्ते निशान्ते । शयनं हि निशायाम् एवेति शयान-शब्द-श्रुत्या तत्-परस् तच्-छब्दो निशाम् आक्षिपति । तल्-लिङ्गैर् बोधन-गमकैर् वचनैः श्रुतयः परं श्री-कृष्णं बोधयाञ्चक्रुः ॥१२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परीतं प्रणतोऽपृच्छद् इदम् एव कुरूद्वहेति श्री-शुकोक्तेस् तत्रायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसीति श्री-नारायणोक्तेश् च सनकादयः सनन्दनं प्रति, ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये [भा।पु। १०.८७.१] इति वदन्तः प्रथमं पप्रच्छुः । ततश् च श्री-सनन्दनस् तद् उत्तरत्वेन बुद्धीन्द्रिय-मनः प्राणान् इति ब्रह्मोपनिषद् उत्तर-भागम् उक्त्वा, अत्रार्थे ता एव श्रुतयः स्वयं प्रमाणम् इति प्रपञ्चयितुम् इतिहासम् अवतारयति—स्व-सृष्टम् इति । स्वयं निर्मितं विश्वं प्रलय-समये आपीय संहृत्य शयानं योगेन निद्राणम् इव वर्तमानं तद् अन्ते प्रलयान्ते तल्-लिङ्गैस् तत्-प्रतिपादकैर् वाक्यैः परं परमेश्वरं तदा सृष्टि-समये प्रथम-निश्वास-प्रसूताः श्रुतयः प्रबोधयामासुः । सर्व-ज्ञम् अपि तं स्वीय-स्तुत्य् अर्थेषूत्साह—वशाद् एवावधापयामासुः ॥१२-१३॥
॥ १०.८७.१३ ॥
यथा शयानं सम्राजं वन्दिनस् तत्-पराक्रमैः ।
प्रत्यूषेऽभ्येत्य सुश्लोकैर् बोधयन्त्य् अनुजीविनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सु-श्लोकैः शोभनाः श्लोकाः कीर्तयो येषु तैः पराक्रमैः ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र दृष्टान्तम् आह—सम्राजं चक्रवर्तिनम् । बन्दिनः स्तावकाः । तत्-पराक्रमैः पराक्रमा दिग्-विजयादयो जगत्-कर्तृत्वादयश् च क्रमेण दृष्टान्त-दार्ष्टन्तिकयोर् ज्ञेयाः । प्रत्यूषे\ऽहर्मुखे प्रत्यूषो\ऽहर्मुखं कल्यम् इत्य् अमरः ।
श्रीधरानुयायिनी : [+++]{।मर्क्}
नीलकण्ठी : अत्र दृष्टान्तम् आह—यथेत्य् आदि । शोभनाः श्लोकाः यशांसि पद्यानि च पराक्रमा दिग्-विजयादयः जगत्-कर्तृत्वादयश् च क्रमेण दृष्टान्त-दार्ष्टान्तिकयोर् ज्ञेयाः । अयं भावः—यथा शयानः सम्राट् प्रबुद्ध-मात्र एव दुःस्वप्न-दुःखम् असद् अपि सदिवाभातं जहाति सदप्य् असद्-वदन-वभातं साम्राज्य-सुखम् आप्नोति एवं जीवस्यापि प्रयक्तत्त्व-ज्ञा-नमात्राद्-भव-दुःख-क्षय-स्वरूपानन्दावाप्ती भवतः ज्ञानाद् एव तु कैवल्यम् । इति श्रुतेः । सुषुप्त-नर-वच्-छ्रुत्या बोध्यते प्रेर्यते न तु इति वार्तिकोक्तेश् च विनाप्य् अनुष्ठानं कृत्स्न-पुरुषार्थ-हेतु-ज्ञानाय शास्त्रम् आरम्भणीयम् इति ॥१३॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : न केवलं सख्यो जागरयामासुः शुक-सारिकादयो\ऽपि तद्-रस-जीविनः समीचीनैस् तद्-विलास-वर्णन-श्लोकैर् बोधयन्तीत्य् आह—यथेति । यथावत् शयानं क्रीडाश्रान्त्या यथा शयितुम् उचितम् तथैव रसमयशयनं कुर्वन्तम् इत्य् अर्थः संमील्य प्राण-प्रेयस्या श्री-राधया राजत इति तम् तत्परा श्री-राधा-कृष्ण-परायणाः सख्यस् तासां क्रमैर् मुख्यतम-मुख्यतर-मुख्य-तद् अनुगत-सखीवृन्द-प्रबोधनक्रमेण शुकादयो\ऽपि स्तुतिपराः प्रबाधयन्ति स्मेत्य् अर्थः । यद् वा, स्वसृष्टम् इत्य् आदि यथेत्य् आदि-श्लोक-द्वयेन श्रुति-रूप-गोपीनां नित्य-गोपीनाञ् च बोधकत्वम् उक्तम् । अत्र च पञ्चविधा गोप्यः प्रोक्ताः—[१] नित्याविर्भूत-स्वरूपाः अपरा [२] गोपीभावोपासनया तद्-रूपेण व्यक्ताः ता अपि श्री-राधा-प्राण-सखी-सामान्य-गोपीत्वेन द्विधाः अन्यास्तु [३] दण्डकारण्यवासिमुनयो रघुनाथ-काम-भावं प्राप्तास् तद्-वरेण गोप्यो जाताः [४] श्रुतयश् चापरा गोपीत्वं तपसा प्राप्ताः [५] सुरस्त्रियश् च पराश् चन्द्र-कान्ति-रूपा परमरतिशीलया राधाया अनुग्रहाद्-गोपी-रूपेण व्रजे प्रकटा इति ॥१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : वन्दिन एव तं प्रबोधयन्ति, कथं श्रुतयः ? इत्य् आह—यथा शयानं सम्राजम् इत्य् आदि । सम्यक् राजत इति समृआट् श्री-कृष्णस् तं यथा अनुसङ्गिनो वन्दिनः प्रत्यूषे प्रबोधयन्ति, तथा श्रुतयोऽपि तं प्रबोधयन्ति ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच् च प्रबोधनं तासां सर्व-परावर-गुरूणां सहज-तद्-दास्येनैवेति दृष्टान्तेन प्राचीन-सिद्धान्तम् एव द्रढयति—यथेति । सुश्लोकैः श्रेष्ठ-पद्यैः । तस्य पराक्रमः प्रभावो यत्र तैः सर्व-इश्वर्यं सर्व-वैलक्षण्यं च सूचयित्वान्येन साम्यम् अपि नास्मिन्-सन्दर्भे विवक्षितं किं पुनर् ऐक्यम् इति पूर्व एव सिद्धान्तः स्थापितः एवं सर्व-वेद-सम्मतार्थत्वेन स्वयं भगवत्य् एव स्वभावतया लब्धे श्री-कृष्ण एव स इति लभ्यते । कृष्णस् तु भगवान् स्वयम् [भा।पु १०.३.२८] इति निर्णीतत्वात्-स्तवस्यास्य तल्-लीला-महा—प्रकरणान्तःपातात् निभृतम् अरुन्मनोक्ष इत्य् आदि-तल्-लिङ्गात् कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिता [भा।पु १०.२८.१७] इत्य् आदि-साक्षिकत्वात् यो\ऽसौ सर्वेषु वेदेषु तिष्ठति-यो\ऽसौ सर्व-इर्वेदैर्गीयते इति गोपाल-तापनी-श्रुतेः नमस् तस्मै [भा।पु १०.५७.१७] इत्य् आदिना एतच्-छ्रवणानन्तरं नारदेन तस्यैव नमस्कृतत्वाच् च अत एव सर्वत्रैव । पद्ये साक्षाच्-छ्री-कृष्णताव्यञ्जकम् अर्थान्तरं ग्रन्थान्ते लिखितम् अस्ति कौतुकं चेत्-तद् अपि द्रष्टव्यम् ॥१३॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ११२) : पूर्व-पद्यार्थे दृष्टान्तः—यथा शयनम् इति । तस्य सम्राजः पराक्रमो यत्र तैः, न तु निर्विशेषत्व-व्यञ्जकैः शोभनैः श्लोकैः, यथा शयानं सम्राजम् इत्य् अस्यायम् अभिप्रायः । यथा रात्रौ सम्राट् महिषीभिः क्रीडन्न् अपि बहिः-कार्यं परित्यज्यान्तर्-गृहादौ स्थितत्वात् तज्-जनैः शयान एवोच्यते । वन्दिभिश् च तत्-प्रभाव-मय-श्लोक-कृत-प्रबोधन-भङ्ग्या स्तूयते, तथायं भगवान् तदानीं जगत्-कार्याकृत-दृष्टिर् निगूढं निज-धाम्नि निज-परिकरैः क्रीडन्न् अपीति । अनुजीविन इत्य् अनेन ते यथा तन्-मर्मज्ञास् तथा ता अपीति सूचितम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत्र दृष्टान्तम् आह—यथा शयानं सम्राजम् इत्य् आदि । उभयत्र समानम् । अतः पूर्वस्मिन्न् अपि पक्षे दृष्टान्तेनापि स-विशेषे ब्रह्मण्य् एव श्रुति-परिचरणम् इति सिद्धान्त इह परस्मिंस् तु भवत्य् एव—श्री-कृष्णस्य पर-ब्रह्मत्वात् ॥१३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।
॥ १०.८७.१४ ॥
श्री-श्रुतय ऊचुः—
जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां
त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः ।
अग-जगद्-ओकसाम् अखिल-शक्त्य् अवबोधक ते
क्वचिद् अजयात्मना च चरतोऽनुचरेन् निगमः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : जय जयेति । भो अजित ! जय जय उत्कर्षम् आविष्कुरु । आदरे वीप्सा । केन व्यापारेण? अग-जगद्-ओकसां—अगानि स्थावराणि, जगन्ति जङ्गमानि च ओकांसि शरीराणि येषां जीवानां तेषाम् अजाम् अविद्यां जहि नाशय । किम् इति गुणवती हन्तव्या ? इत्य् अत आह—दोष-गृभीत-गुणाम् । दोषाय आनन्दाद्य् आवरणाय गृहीता गुणा यया ताम् । हृ-ग्रहोर् भश् छन्दसि इति भ-कारः । इयं हि स्वैरिणीव पर-प्रतारणाय गुणान् गृह्णात्य् अतो हन्तव्येति ।
तर्हि मय्य् अपि दोषम् आवहेद् इति ममापि तत्र का शक्तिः स्यात् ? अत आह—त्वम् इति । यद् यस्मात् त्वम् आत्मना स्वरूपेणैव समवरुद्ध-समस्त-भगः संप्राप्त-समस्तैश्वर्योऽसि । वशी-कृत-मायत्वाद् इति भावः ।
ननु स्वयम् एव ते ज्ञान-वैराग्यादिना किं न हन्युः ? इत्य् अत आह—अखिल-शक्त्य् अवबोधकेति । तेषां त्वम् एवान्तर्यामी सर्व-शक्त्य् उद्बोधकः । अतो न ते ज्ञानादौ स्व-तन्त्रा इति भावः
नन्व् अहम् अकुण्ठ-ज्ञानैश्वर्यादि-गुणो जीवानां कर्म-ज्ञानादि-शक्त्य् अवबोधनेनाविद्या-हन्तेत्य् अत्र किं प्रमाणम् ? इति चेत्, अहम् एव प्रमाणम् इत्य् आह—निगमो वेदः ।
नन्व् एवं-भूते मयि कथं श्रुतीनां प्रवृत्तिः ? तत्राह—क्वचिद् इति । कदाचित् सृष्ट्य् आदि-समयेऽजया मञया चरतः क्रीडतो नित्यं चालुप्त-भगतया सत्य-ज्ञानानन्तानन्दैक-रसेनात्मना च चरतो वर्तमानस्य निगमोऽनुचरेत् प्रतिपादयेत् । कर्मणि षष्ठ्यौ । यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१],
योग ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्राकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वे।उ। ६.१८]
य आत्मनि तिष्ठन् [बृ।आ।उ। ३.७.२२], सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१], यः सर्व-ज्ञः स सर्व-वित् [मु।उ। १.१.९] इत्य् आदि-निगम-कदम्बस् त्वाम् एवं-भूतं प्रतिपादयतीत्य् अर्थः ।
जय जयाजित जह्य् अग-जङ्गमावृतिम् अजाम् उपनीत-मृषा-गुणाम् ।
न हि भवन्तम् ऋते प्रभवन्त्य् अमी निगम-गीत-गुणार्णवता तव ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ यद्यपि श्रुतयस् त्रिकाण्ड-विषयत्वात्-त्रिविधा एव तथापि तत्-तद् अवान्तर-फल-साधन-परत्वेन बहुधा भवन्ति । तत्राप्य् अष्टाविंशति-भेदास् ताः सपरिकराः पृथक्पृथक् स्तुवन्तीति तत्-तत्-प्रसङ्गे दर्शयिष्यामः । तासां नामानि लक्षणाशरणान्तर्यामि-भेदाभेद-ज्ञान-निन्दोपदेशोपासनाभक्त्य् अनुक्रोश-दुर्विज्ञेयत्वानिर्वचनीयत्वासद्-वादादि-खण्डनस् तवैकात्म्य-सृष्टि-बन्ध-मोक्षातर्क्य-शक्तित्व-सर्वेश्वरत्वसोपाधिलय-निरुपाधिलय-वैराग्य-गुरूपसदन-ब्रह्मानन्दातन्-निरसनानन्तत्व-प्रतिपादन-क्रमेण ज्ञेयाः ।
अत्र तावत्सर्वाः श्रुतयः सगुणं गुणैर् अनभिभूतं श्री-नारायणम् अवलम्ब्य निर्गुणं परं ब्रह्म श्री-कृष्णाख्यं स्तुवन्तीति तात्पर्यम् । तथा हि श्री-गोपाल-तापन्याम्—यो\ऽसौ सर्वेषु वेदेषु तिष्ठति यो\ऽसौ सर्व-इर्वेदैर्गीयते\ऽसौ श्री-कृष्णः पूर्वतो\ऽनुवर्तते । दशमे—कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः [भा।पु ११०.२८.१७]। इति । एकादश-स्कन्धे एक-विंशाध्याये—
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।
इत्यस्या हृदयं लोके नान्यो मद्वेद कश् चन ॥
मां विधत्ते\ऽभिधत्ते मां विकल्प्यापोह्यते ह्यहम् ।
एतावान्सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् ॥
मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ [भा।पु ११.२१.४२-४३] इति ।
व्याख्यातं स्वामिचरणैः । इयं बृहती श्रुतिः कर्म-काण्डे मन्त्र-वाक्यैः किम् आचष्टे किं प्रकाशयति, ज्ञान-काण्डे किम् अनूद्य निषेधार्थं विकल्पयेत् इत्य् अस्याः श्रुतेर् हृदयं तात्पर्य मत्तो\ऽन्यः कश्चिद् अपि न वेद । स्वयम् एव कथयति । मां विधत्ते माम् एव यज्ञ-रूपं विधत्ते माम् एव तत्-तद्-देवता-रूपेणाभिधत्ते न मत्तः पृथक् यच्-चाकाशादि-प्रपञ्च-जातम्—तस्माद् वा एतस्माद् आकाशः सम्भूतः इत्य् आदिना विकल्प्यापोह्यते निषिध्यते तद् अप्य् अहम् एव न मत्तः पृथग् अस्ति । एतावान् इति । शब्दो वेदः मां परमार्थ-रूपम् आश्रित्य भिदां भेदं माया-मात्रम् इत्य् अनूद्य नेह नानस्ति किञ्चन इति प्रतिषिध्य प्रसीदति निर्वृत्त-व्यापारो भवतीति एतावान्-सर्व-वेदार्थः । श्री-गीतासु च—वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद्-वेद-विद् एव चाहम् [गीता १५.१५] इति । तस्मात्-सर्वाः श्रुतयः श्री-कृष्ण-माहात्म्यम् उदीर्य तम् एव स्तुवन्तीति । ग्रन्थ-विस्तरभियात्राधिकं न लिखितम् । अथ प्रकृतम् अनुसरामः । प्रथमं स्वमनोरथं निवेदयन्तः श्रुत्य् अभिमानिदेवता आहुः । नर्कुटकं नाम छन्दः हय-दशभिर् नजौ भजजला गुरु नर्कुटकम् इति तल्-लक्षणम् । सप्तभिर् दशभिश् च यतिरत्र् एत्य् अर्थः । हृग्रहोर् इति-हृग्रहोर्धात्वोर्हस्य भादेशो वेद इत्य् अर्थः । यतो दोषाय गुणान्गृह्णात्यतो हेतोः । तत्र तद्-धननादौ । इति भाव इति-माया-परतन्त्रत्वाज्जीवेष्व् एव तत्-सामर्थ्यं न त्वयीति विलज्जमानया यस्य स्थातुम् ईक्षा-पथे\ऽमुया [भा।पु २०.५०.१३] इत्य् उक्तेः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च [भा।पु ३२.७.२४] । इत्य् उक्तेश्च् एत्य् आशयः । ते जीवाः । अतस् त्वद् अधीनप्रवृत्तित्वात् । इति भाव इति—केनापि देवेन हृदि स्थितेन यथा नियुक्तो\ऽस्मि तथा करोमि । इत्य् उक्तेः । एवम्-भूते\ऽकुण्ठ-ज्ञानेश्वर्ये क्रीडतः पुरुष-रूपेण नित्यं चात्मना ज्ञानानन्दैक-रसेन भगवद् आदि-रूपेण स्व-योग-मायया चिच्-छक्त्यान्तर्याम्य् अवतारादि-शुद्ध-लीलायां चरतः निगमो वेद-समूहः प्रनुचरेत्त्वां प्रतिपादयेत् । अत्र श्रुतयो भृगुणा ब्रह्मणः किं लक्षणम् इति पृष्टो वरुणः प्राह—यतो वा इति । वै प्रसिद्धौ । यतो यस्मात् इमानि ब्रह्मादि-स्तम्ब-पर्यन्तानि जायन्ते जीवन्ति प्राणान् धारयन्ति वर्धन्ते च नाशकाले यत्प्रति प्रयन्ति गच्छन्त्य् अभिविशन्ति तादात्म्यम् एव प्रतिपद्यन्ते तत्-त्वं ब्रह्मेति विशेषेण ज्ञातुम्-इच्छेति उत्पत्ति-स्थिति-नाशकाले यद् आत्मतां न जहति भूतानि तद्-ब्रह्मणो लक्षणम् इत्य् अर्थः । तटस्थ-लक्षण-परेयं श्रुतिः । यः परमेश्वरः । पूर्वं सर्गादौ । विदधाति ससर्ज । तस्मै ब्रह्मणे । प्रहिणोति प्रददौ । तं देवं द्योतमानम् आत्म-बुद्धि-प्रकाशं स्व-विषयां बुद्धिं प्रकाशयन्तं मुमुक्षुरहं शरणं प्रपद्ये मोक्ष-सिद्ध्य् अर्थम् आश्रयं प्राप्नोमि । शरणपरेयं श्रुतिः । इत्य् उभे श्रुती, अजया चरतः इत्य् अस्योदाहरणम् । अगजगदोकसाम् इत्य् अस्योदाहरणं दर्शयति-य आत्मनीति । य आत्मनि तिष्ठन्न् आत्मनो\ऽन्तरो\ऽयम् आत्मा न वेद यस्यात्मा शरीरम् आत्मानम् अन्तरो यमयत्येष त आत्मान्तर्याम्य् अमृतः इति । अन्तर्यामिणं ब्रूहीत्य् उद्दालकेन मुनिना पृष्टः प्राह याज्ञवल्क्यः आत्म-पदेन जीवात्मा गृह्यते य आत्मनि जीवात्मनि तिष्ठन् आत्मनः सकाशाद् अन्तरः दूरस्थः आत्मा यं न वेद न जानाति कुतः यस्य शरीर-मात्मा भवति य आत्मानम् अन्तरो\ऽभ्यन्तरः सन् यमयति नियमयति एष ते तवान्तर्याम्य् आत्मामृत इत्य् अर्थः । तथा—
यः सर्वेषु भूतेषु तिष्ठन्-सर्वेभ्यो भूतेभ्यो\ऽन्तरः ।
यं सर्वाणि भूतानि न विदुः ।
यस्य सर्वाणि भूतानि शरीरम् ।
यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्य् अमृतः । इति ॥
नियमन-लीलापरेयं श्रुतिर् अपि ज्ञेया । आत्मना चरतः इत्य् अस्योदाहरणम् आह—सत्यम् इति । व्याख्यातचरम् । स्वरूप-लक्षण-परेयं श्रुतिः । निगम-कदम्बः श्रुति-समूहः । स्वामि-श्लोकार्थः । अगजङ्गमानाम् आवृति-वारकम् । निगमैर् गीतो गुणानाम् अर्णवो यस्य स तथा तान् जीवान् अव रक्ष ।
श्रीधरानुयायिनी : ॐ नमो विघ्नहर्त्रे । हे अजित कारुण्यात्-स्वप्रभावम् आविष्कुरु । आदरे हर्षे वा वीप्सा । यतस् त्वं वशीकृतमायो\ऽसि । अजितत्वे हेतुः । तथा स्वरूपेणैव सम्प्राप्त-समस्तैश्वर्यः सर्वेषाम् अन्तर्यामी अत एव सर्व-शक्त्य् उद्बोधको\ऽसि ।
नन्व्, अज्ञाननाशे\ऽपि भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इत्य् उक्त्या भक्तिं विना कथं मत्-प्राप्तिर् इत्य् आशङ्क्याह—सर्व-शक्त्य् उद्बोधको\ऽसीति । यथा बुद्ध्यादीन् सृष्ट्वा जीवानां भोगादि-शक्तीरुद्-बोधयसि तथा ज्ञान-योग-भक्तीर् अपि त्वम् एव कृपयोद्बोधयसीत्य् अर्थः । यद् वा, अगस्थिर् अजगदोकसां जगद् आश्रय-भूतानां ब्रह्मादीनाम् अपि सृष्ट्याद्य् अखिल-शक्त्य् अवबोधकेति । अतः स्वतो\ऽस्वतन्त्राणां स्थावर-जङ्गम-जीवानाम् आनन्दाद्यावरणार्थम् अङ्गीकृत-गुणां वेश्यावद्-भोगि-जीव-जात-वञ्चन-चतुराम् । यद् वा, दोषैर् अज्ञान-दुःखादिभिर् गृहीताः संवृता जीव-गुणाः सत्य-ज्ञानानन्दा यया तां त्वत्-प्राप्ति-प्रतिकूलाम् अविद्यां नाशय, अतो गुणवत्या अपि
हननम् आवश्यकम् एवेत्य् आशयः । किञ्च—सृष्ट्यादौ मायया क्रीडन्तम् अपि वर्णयन् वस्तुतस्तु तात्पर्येण सत्य-ज्ञानानन्दैक-रस-स्वरूपम् एव त्वां जहद् अजहल्-लक्षणया वेदः प्रतिपादयति सेवते वा । यथा गामानय, घटो भग्नः इत्य् आदौ गो-घट-शब्दयोर् व्यक्ताविव गोत्व-घटत्व-जात्योर् अपि शक्तत्वेन गोत्वे आनयनस्य घटत्वे भग्नत्वस्यासम्भवाद्-व्यक्ताव् एव तात्पर्यावसानं तथा तत्-त्वम् अस्यादि-वाक्येषु श्रूयमाणस्य जीवेशयोर् अभेदस्यासम्भवेनोपाधि-भाग-त्यागेन शुद्ध-चिदानन्द एव पर्यवसानम् । एवं मायोपहित एव प्रवृत्तस्य सत्यं ज्ञानम् अनन्तम् [तै।उ। २.१.१] इत्य् आदेश् चासत्य-जडसान्तोपाधौ सत्यत्व-ज्ञानत्वानन्तत्वासम्भवेनोपाधिम् अपहाय शुद्ध एव पर्यवसानम् इति भावः ।
यद् वा, क्वचित्-सृष्ट्यादाव् अजया प्रकृत्या आत्मना पुरुष-रूपेण जीवेन च चरतो वर्तमानस्य तव वेदः अनुचरेत् त्वच्-चित्तानुवर्तित्वेन विधि-निषेध-रूपेण प्रवर्तेत प्रलय-काले तु स्तुति-रूपेणेत्य् अर्थः । तदा विधि-निषेध-प्रयोजनाभावात् । तथा च, यस्माद्-विधि-निषेध-विषयो जीवस् तस्मात्-सृष्टिं विधाय वेदैर् जीवान्बोधयित्वा तद् उक्तानुष्ठानं सम्पाद्य स्व-ज्ञानम् उत्पाद्य त्वं प्रसन्नः सन् जीवेषु पिशाचीवद् आविष्टाम् अजां जहीति प्रार्थना । अत्राचार्याः—
सर्व-श्रुत्य् अर्थ-सम्पन्नाञ्-छ्लोकान्-सत्यवती-सुतः ।
एकैक-शाखा-श्रुत्य् अर्थाञ्जगौ सर्वोपलक्षणान् ॥
बबन्धतान्-भागवते प्रति-श्लोकं प्रति-श्रुति । इति ।
नीलकण्ठी : तत्र तावत्-प्रथमे श्लोके कृत्स्न-शास्त्रार्थ-प्रदर्शनेन श्रुतयः शिष्यं सम्मुखयन्तीत्य् आह—जय जयेत्य् आदि । जयत्य् अविद्यां शास्त्राचार्योपदेशाद् इति हे जय हे जीव त्वं जय उत्कर्षम् आविष्कुरु । कथम् । अविद्यां जहि अनात्मनि देहादाव् आत्म-बुद्धि-रूपाम् अविद्यां नाशय । एतेन स्वाज्ञानाद्-बन्धः स्वज्ञानान्-मोक्ष इत्य् उक्तम् । अत्र सैषा ह्य् उपनिषद्-ब्राह्मी । श्रुतयो बोधयाञ्चक्रुः, आश्रुत्य् आत्मानुशासनम् इत्य् उपक्रम-परामर्शोपसंहारेषु विद्यावतार-दर्शनाद् अविद्यावान् जीव एव सम्बोध्यः न तु तद्-रहित ईश्वरः स्तव्यः । स्तुति-फलस्य प्रार्थित-वरदानादेर् अत्रादर्शनात् । तेन अगजगदोकसाम् अजां जहीति व्यवहितान्-वयकल्पनाक्लेशो\ऽपार्थ इति दिक् ।
नन्व् ऐहिकाम् उष्मिक-सुख-हेतुर् अजा कुतो निहन्तव्येत्य् आशङ्क्याह अजित-दोष-गृभीत गुणाम् । अनिर्जित-रागादि-दोषैर् एव गृभीतो रमणीयता-लक्षणो गुणो यस्यां सा तथा । वार-वनितावद्-रागि-जन-वञ्चन-चतुरैषा हन्तव्यैव नीरागैर् इति भावः । गृभीतः कल्पितः छान्दसं हस्य भत्वम् । नन्व् अजयैवाहं जितः कथं तां नाशयेयम् अत आह—त्वम् इति । **यद्-**यस्माद्-धेतोस् त्वम् आत्मना स्वरूपेणैव प्राप्त-कृत्स्नैश्वर्यादि-षट्को\ऽसि, अतस् तव तन्-नाशनम् ईषत्-करम् इत्य् अर्थः ।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-विज्ञानयोश् चैव षण्णां भग इतीङ्गना ॥ [वि।पु] इति ।
इति ऐश्वर्यादि-षट्कम् । एवं तत्-त्वम् असीति शास्त्रान्न् एश्वरादन् अन्ययस् त्वम् इत्य् उक्तं शुक्तेर् इव रजतम् । साङ्ख्यास्तु-जीव एव सत्त्वोत्कर्षवशात्-**समवरुद्ध-समस्त-**भगो भवतीत्य् आहुस् तन्-निरासायात्मनेत्य् उक्तम् । ऐश्वर्यस्य परायत्तत्वे स्वतः-सिद्धैश्वर्य-प्रतिपादकं तत्-त्वम् असि । अहं ब्रह्मास्मि । इत्य् आदि-वाक्यं व्याकुप्येतैवेति भावः । यत्-पुनः साङ्ख्यो ब्रवीति पुरुषार्थ एव हेतुर् न केनचित कार्यते करणम् इत्य् आदि—
महा—भूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रयाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश् चेतना धृतिः । एतत्-क्षेत्रम्
इत्य् उक्त-रूपाणाम् अखिलाः प्राणनादि-शक्तयः तासाम् अवबोधक एतच् च येन प्राणः प्रणीयते, को ह्य् एवान्यात्कः प्राण्याद्-यदैष आकाश आनन्दो न स्यात् इत्य् आदि-श्रुति-प्रसिद्धम् । अत्रापि यो\ऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयति इत्य् उक्तम् । यदा तु अग-जगदोकसाम् अखिल-शक्त्य् अवबोधक ! जय जयेति सम्बन्धः क्रियते तदा जय जयेति द्विरुक्तिर् आदरार्था ।
ननु यद्य् अहम् ईश्वरस् तर्हि कथं ब्राह्मणो यजेतेति मम नियोज्यत्वम् इत्य् आशङ्क्य-शुद्ध-चिदात्मनस् तव द्वयम् अपि तन्-मृषेत्य् आह—त इति । ते चरत इति कर्मणि षष्ठ्यौ । त्वं क्वचित्-काले सुप्ति-प्रलयादेर् अन्यत्राजया मायया जीवेशावाभासेन करोषि माया चाविद्या च स्वयम् एव भवतीति सिद्ध-रूप-द्वयेन शुद्धाशुद्ध-सत्त्व-प्रधानेन त्वद् उपाधितां गत्वा तवेश्वरत्वं जीवत्वं चापादयन्त्या सह चरन्तं शास्तृ-शास्यत्वादि-धर्मम् अनुसरन्तं निगमः निश्चितं यथा-भूतम् अर्थं गमयन्-कर्मोपास्तिपरो वेदो\ऽनुचरति । मायिकाविद्यके तवैश्वर्य-ब्राह्मण्यादिके अनुवदत्य् एव न प्रतिपादयतीत्य् अर्थः । आत्मनां चानुपाधि-रूपेणानुचरन्तं कारण-प्रपञ्चं ग्रसन्तं रज्जुम् इव सर्पं सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इत्य् आदि-निगमः अनृत-जड-परिच्छिन्नत्वादि-व्यावर्तनेनानुचरेत् लक्षणया आवेदयेन् न साक्षात् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.९] इति श्रुतेः । अत्र क्वचिद् इति जीवेशयोः स्वप्नेन्द्र-जालादिवत्-कादाचित्क-जीवितव्येशितव्यसापेक्षत्वेन मृषात्वं तद् अनुवादिवेदस्य च स्वप्नादि-दृष्टार्थानुवादि-वाक्यस्येव नाप्रामाण्यमतो न निगमत्वव्याहतिः । एवं जीवेशोपाध्योर् बाधे यच्-छिष्टम् अनुपाधि तज्-ज्ञानाद् अजानाश इति दर्शितम् ॥१४॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : तत्र श्रुतयः व्रज-राज-कुमार-भावाविष्टा अपि तत्-तत्त्व-ज्ञान-संस्कारवत्यः न शुद्ध-प्रेम-रस-स्वरूप-कृष्णानुभविन्यः किन्तु मिश्र-प्रेम-रसमय-कृष्ण-सङ्गादि-भाजः शुद्ध-रस-प्राप्ति-सोत्कण्ठाः शुद्ध-रसमय-स्वरूपानुभविन्याश्चापराः ता उभयो\ऽपि जागरयन्ति । राधापि द्व्यवस्थेति ज्ञातव्यम् । तत्र श्रुतिरूपा एवं बोधयन्ति—जय जयेति । भो अजित अस्मद् आदिभिर् महा—मुनीश्वरादिभिः प्रसिद्धार्जुनोद्धवादिभिश् च ब्रह्म-शिवादिभिश् च श्रियापि च न वशीकृत विशुद्ध-प्रेम-निष्ठ-स्वभावत्वात्-तयैव हि त्वम् अत्यन्त-परमवश्यो भवसि । जय जय—अत्य् आदरे वीप्सा समस्त-भगवत्-स्वरूपोत्कृष्टं शूद्ध-रसमयं रूपं प्रकटीकुरु । तत्रैव च शक्तितो गुणतश् च परमानन्द-चमत्कारतश् चोत्कर्षकाष्ठा परमा । अजामविद्यां शुद्ध-रसमय-गोपाल-रूपावरण-कारिणीं जहि नाशय ।
ननु ब्रह्म-स्वरूपावरणं नष्टम् परमेश्वर-स्वरूपावरणं च नष्टम् एवातस् तन्-निष्ठायाः परमानन्द-साम्राज्य-संभृतायाः केवल-गोपाल-रूप-तल्-लीला-स्फुरणे प्रच्युतिर् एव स्यात् अतस् तद् अज्ञानं गूण एव तत्राह—दोषायैव गृहीतो गुणो यया त्वद् आवरणं ब्रह्मेश्वर-निष्ठा-निर्भरश् च दोष एव न गुणः । तत्र हेतुः—यद्-यस्मात् त्वम् आत्मना स्वरूपेनैव सन्-निधि-मात्र अतः न तु ममेदम् ऐश्वर्यम् इत्य् एवम् अभिमानतः सम्यक् सम्पूर्णतया महा—निरङ्कुश-तम-रूपेण चावरुद्धं प्राप्तं समस्तम् ऐश्वर्यम् येन प्राप्तः समस्तः कामः सुखं यस्मात् । ब्रह्मत्वेश्वरत्वाज्ञाने\ऽपि केवलत्वद्-विग्रहस्फूर्त्यैव परम-शुद्ध-भक्तेः प्राप्तं पूर्ण-सुखं यस्मात् । समित्य् अनेन महा—चमत्कारितया सम्यक्त्वम् उक्तम् ।
यद् वा, हे समवरुद्ध सम्यग् अवनं प्रीतिर् विशुद्ध-भावस् तेनैव रुद्ध वशीकृत यतस् तम् आत्मना केवलेनात्मना विशुद्ध-रसमय श्री-विग्रहणैव सम्यगस् तं क्षिप्तं भगं परमोत्कर्षसीम निजैश्वर्यं येन स्वस्य भक्तानां वा निज-विग्रह-दर्शन-स्पर्शनाद्य् आनन्दावेशेन ब्रह्मानन्द ईश्वरानन्दो वा दूरं निरस्त इत्य् अर्थः । शुद्ध-गोपाल-रूपस्य सर्वात्म-ब्रह्मत्व-तद्-रूप-भगवत्त्वा-दर्शिनः परम-महैश्वर्यम् आह—अगाः न गच्छन्ति कुत्रापि निष्क्रिय ब्रह्म-स्वरूपावस्थिता मुक्ता
इत्य् अर्थः । ज्अगन्ति संसार-चक्रे भ्रमन्तो जीवास्ते उभये ओकांसि स्थानानि येषाम् भगवत्-स्वरूपाणाम् अन्तर्यामित्वेन सर्वेषु स्थितानां तेषाम् अखिल-शक्तीनाम् अवबोधकस् त्वं परमात्यानन्दाख्य-शक्तिः पूर्णा त्वयि शुद्ध-गोपा-विग्रहे स्थिता—अन्यासाञ् च सर्वासां शक्तीनां तद् उपजीवित्वात् को ह्यवान्यात् कः प्राण्यादेष ह्यवानन्दयाति [तै। २.७.१] इति श्रुतेः । **अखिल-शक्तीरवबोधयतीत्य् अखिल-शक्त्य् अवबोधं तादृशं कं सुखम् आनन्दाख्या शक्तिर् यस्मिन्न् इति वा । एतादृशे समस्त-भगवत्-स्वरूपोत्कृष्टे नित्य-पूर्ण-सुख-सामान्य-रूपाच् च ब्रह्मणो\ऽप्य् उत्कृष्टे शुद्ध-**गोपाल-स्वरूपे किं प्रमाणम् तत्राह—निगमः [प्रमाणं] ते त्यामनुचरेद्-बोधयेत् । आत्मा सर्वानन्दातिशयि-परमानन्द-साम्राज्य-सारसिन्धु-कोट्य् आकारेण विग्रहेण शक्ति-गुणादिना च समस्त-भगवद् अल्पतापादकेनाजया च प्रपञ्चान्तर्वर्ति-प्राकृत-गोपतया दृश्यमानत्व-रूपेण च चरतश् चरन्तं वर्तमानम् इति ।
नित्य-शुद्ध-भावमय-गोपी-बोधनम् इत्थाम्—हे जय । महा—रसमय-समस्त-गुण-शीलाद्य् उत्कर्षेण वर्तमान त्वं जय अशंसायां लोट् । एकम् एव श्री-राधया सह तव सम्तत-मधुर-विलासोत्कर्षम् एव वयमाशाम्मह इत्य् अर्थः । अज्ञां निद्राहं जहि नित्या या योग-माया सैव निद्रा-रूपा कृष्णस्य् न तु तामसी प्राकृता देवता-रूपा निद्रा त्वां स्वप्न-विहार-सुखम् उपनयन्ती सेवते तां त्यक्त्वा प्रकट-बहिर्-विहारेणास्मानानन्दयेति भावः । अजां मायां कपटं त्यजेति वा प्रबुद्ध एव प्रियां त्यक्तुम् अशक्नुवन् निद्रां नाटयसीत्य् अर्थः । किञ् च गृहीतो गुणो यया धूत-सर्वातिशाष्यनुराग-सौन्दर्य-वैदग्ध्यादि-गुणां श्री-राधिकां समव सम्यक् प्रतिपालय गोप्यस्तरसङ्गरसासक्त्या नैनां चिरविरह-दुःखिनीं कुर्वित्य् अर्थः । नाहम् एतद् अन्यया कदापि रम इति चेत्-तत्राह—हे अजित-घोष अन्य-स्त्री-सङ्गौत्सुक्यं दोषस्त्वया न जितोऽभिभृत इत्य् अर्थः ।
यद् वा, हे अजित अन्यया कयापि न वशीकृत परम-महा—विदग्ध-चूडामणि-रसिकस् त्वं सकल-महा—विदग्ध-सीमन्तिनीसीमन्तमणेः श्र्ङ्राधाया विशुद्ध-पूर्णतमानुराग-रसमय-सौन्दर्य-लवण्यादि-शुणोत्कर्ष-परमावधेरन्यया कथं वश्ष्क्रियेत । तथा सस् ततम् इतस्ततो मार्गयन्तीभिर्-मिलितो बलाद् आकृष्यमाणोऽपि न विलम्वेधा उपेक्षेथा वा इति । राधां कीदृशीम् दोषेऽपि त्वदीये चाञ्चल्यान्यापेक्षादि-रूपे गृहीतो गुणो यया तव दोषानगणयित्वा मनाग् अपि मानवार्तम् अजानतीम् त्वद् आसक्ततयैव वर्तमानाम् यद् वा, न जिता दोषा तव बाहुर्यया अति-प्रगाढालिङ्गन-परत्वाद्बाहू नानया स्वबलेन शिथिली कर्तुं शक्येते तत् स्वयम् एवोत्तिष्ठेत्य् अर्थः । अनयैव च त्वं पूर्ण-कामः स्या नान्ययेत्य् आह—यद् आत्मना यस्यां श्री-राधायाम् एव य आत्मा तवान्तः-करणं तेनैव त्वं रुद्ध-समन्तकामो भवसि भग-शब्दः काम-वाची । किञ् च, त्वयि निद्राणे त्वद्-विलासादि-दर्शनानन्दाभावेन वृन्दावनस्थ-स्थिर-जङ्गमस्य सर्वस्य देहेन्द्रियादि-वृत्तिः कापि न भवति त्वद् अधीनत्वादित्य् आह—अगेति । यद् वा, ननु यदि दोष-शङ्का भवतीनाम् तर्हि यया गृहे न गन्तव्यम् इति चेत्तत्राह—त्वद्-दर्शनालापादिना विना कस्यापि पितृमातृ-सुहृदादेर् अन्यस्य वा व्रजगत-वृक्षादेर् अपि प्राण-नशक्तिर् अपि दुर्लभेति भावः । परन्तु एवं कर्तव्यम् इत्य् आह—निगमो वेद-प्राया तव-सत्या प्रतिज्ञा वाक् अमुक-समयेऽमुकस्मिन् वन-प्रदेशे मया तत्र गन्तव्यम् इत्य् एवं रूपा त्वाम् अनुचरेद् अनुवर्तताम् अव्यभिचारितया त्वयि तिष्ठत्व् इति प्रार्थयाम् एत्य् अर्थः प्रार्थनायां लिङ् । त्वां कथम्-भूतम् अजया मायया कपटेन आत्मना स्वभावेन चरन्तम् सङ्केतानागमनं तत्र कपट-नाटकं तवानुभूतम् अस्ति बहुधा तेनैवमुच्यत इति भावः । अजयात्मनापि चरन्तं यस्त्वां न गुणैर् वशीकरोति तादृशेनापि कौतुकात् कृपया वा व्यवहार-परमार्थो वा ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : जय जयेत्य् आदि । हे अजित श्री-कृष्ण ! जय जय, अजां निद्रां जहि । निद्रैव ते माया, अतो मायां जहि । निद्रां कीदृशीम् ? अजित-दोष-गृभीत-गुणां, अजिता दोषा रात्रिर् यैस् तैर् गृभीता गुणा यस्या इति वा । निद्रेयं माम् अपि परिभवति, कथम् इयं मया हन्तव्या ? तत्राहुः—त्वम् असीत्य् आदि । यद् यस्मात् समवरुद्धं वशीकृतं समस्त-भगं सर्व-इश्वर्यं येन, सर्वेश्वरत्वात् सर्व-नियामकः । केयं निद्रा नाम वराकी ? आत्मना समवरुद्ध-समस्त-भगत्वं स्पष्टयति—अग-जगद्-ओकसां स्थावर-जङ्गम-शरीराणाम् अस्मिन् शक्त्य् अवरोधक ! त्वच्-छक्त्यैव सर्वे शक्तिमन्त इति निद्रायाः शक्तिर् अपि तवैव शक्तिः, अतो नेयं स्वतन्त्रा, इयं तावन् न निद्रा, मायैवेयं, तत् कथं तद्-वचसैव झटिति हन्तुं शक्यते ? तत्राह—ते क्वचिद् इत्य् आदि । क्वचित् कुत्राप्य् अवतारे आत्मना स्वयं स्वातन्त्र्येणैव अजया मायया चरतस् ते चरन्तं त्वां निगमोऽस्मद्-विधो वेदश् च अनुचरेत् अनुचरति निरूपयति । न त्व् इह सर्वेश्वरेश्वरे सर्व-कारण-कारणे सर्व-शक्ति-कदम्ब-संवलिते सर्वात्म-विग्रहे भ्अगवति भवत्य् अजा-सम्बन्धः, अत्र वयम् एव प्रमाणम् इत्य् अर्थः ॥१४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : [यद्य् अपि सर्वासु कर-लिपिषु तथा मुद्रित-ग्रन्थेष्व् अपि श्रुतस् तवस्य साधारण-व्याख्यानानन्तरम् एव द्वादश-श्लोकत एक-चत्वारिंश-श्लोकं यावत् व्रज-लीला-परव्याख्यानम् एकत्र ग्रथितं विद्यते, तथापि पाठकानां पाठ-सौकर्यार्थं प्रतिश्लोकव्याख्यानम् अश्वेव तत्-तद्-व्याख्यानं विचितासन्निवेशितम् इति ज्ञेयम् ।]
अजित ! हे मायान् अभिभूत ! अनुचरेद् इति निगमस्य त्वत्-सेवकत्वं सूचितम् एव । वयम् इति वक्तव्ये निगम इति स्वजाति-कथनं परम-दैन्येनाति—नम्रता-बोधनार्थम् । अन्यत्-तैर् व्याख्यातम् । यद् वा, अजां मायां जहि, निःशेषतया अपसारया ।
ननु, सत्त्व-गुणेनोपकर्त्रीयं किम् इत्य् अपसार्या ? तत्राह—दोषेति । दोषैर् आवरण-विक्षेप-स्वभावादिभिर् गृहीत आक्रान्तो गुणः सत्त्व-लक्षणो यस्याः । ननु तथापि कासाञ्चिल्-लीलानां हेतुर् इयं नापसारयितुं युक्ता, तत्राहुः—त्वम् असीति । आत्मना स्वरूप-भूतया चिच्-छक्त्या त्वं प्राप्त-सकल-मधुर-लीलादि-परमैश्वर्यो\ऽसि, किं ते माययेति ।
नन्व् एवम्-भूत-सर्वाद्भुत-चिच्-छक्ति-विलासं माम् अनुभवितुं जीवा मद्-भक्तिं कुतो न कुर्य्युः ? तत्राहुः—अगेति । शक्ति-प्रदान-रूपं त्वद् अनुग्रहं विना जीवास् त्वद्-भकढतावशक्ता इत्य् अर्थः ।
ननु, सर्व-शक्तिभिर् अहं क्रीडामीति कुतो ज्ञातम् ? तत्राहुः—क्वचिद् इति । सृष्टि-लीलायां मायया पुरुष-रूपेण चरन्तं क्वचिद्-विशुद्धानन्द-लीलया आत्मना चिच्-छक्त्या श्री-नारायणादि-रूपेण चरन्तं त्वां निगमः सेवतेति त्वत्-सेवयैव ज्ञानम् इति भावः ॥१४॥
[जय जयेति माङ्गृये । हे अजित ! अजां निद्रां जहि जहीहीत्य् अर्थः । ननु ममैकलीलेयं किम् इति हेयाः ? तत्राहुः—दोषेति । दोषेण वचनामृत-लीलावलोकाद्य् अनाविर्भाव-रूपेण । यद् वा, दोषेण] व्रज-प्रामाणिक-जनागमनाशङ्का-लक्षणेन गृहीतो गुणो लीला-स्वरूपो यस्यास् ताम्, गृहीतस् तिरस्कृतो गुणो लीलात्व-लक्षणो यस्यास् ताम्, निद्रा-लीलातो जाग्रल्-लीलायाः सर्व-सुख-करत्वेन वैशिष्ट्यादित्य् अर्थः । ननु भवतु लीलात्वे गौणतास्याः, किन्तु विश्रामसुखकरीयं हातुं न युज्यते अत्राहुः—त्वम् असीति । स्व-स्वरूपेणैव सप्राप्त-सर्वानन्दो\ऽसि
ननु, यद्य् अहं स्व-स्वरूपानन्देनैवानन्दीत्य् उच्यते, तर्हि वृन्दावनस्य द्रुम-लतादयो भ्रमर-मयूर-मृगादयश् च ममानन्दोत्कर्षं न कुर्वन्तीति युष्माकभिप्रेतम् इत्य् आशङ्क्य् आहुः—**अगज् अगद्-**ओकसां द्रुमादि-भ्रमरादीनाम् अखिल-शक्त्य् अवबोधक ! हे निजानन्द-हेतु-तत्-तत्-सर्व-सामर्थ्य-प्रकाशक ! त्वत्-कृपावलोकाद्य् अलाभात्ते\ऽपि परदुःखेन लीन-शक्तयः स्युर् इति भावः । अतो\ऽवबुध्य कृपावलोकेन तेषां शक्तिं बोधयित्वा तान् आनन्दयंस् तद्-द्वारा आत्मानम् अप्य् आनन्दयेत्य् अर्थः । नन्व् एकेन मया कथं वृन्दशो वृन्दावनस्था आनन्दनीया इत्य् आहुः—क्वचिद् इति । वत्स-वत्स-पाल-हरण-पद्म-योनि-मोहनादौ सार-क्रीडादौ च अजया बहु-रूपताम् इव तन्वत्या चिच्-छक्त्या त्वरतश् चरन्तं सर्व-पार्श्वे विचरन्तं त्वाम्, क्वचिच् च गोवर्धनोद्धरणादाव् आत्मना एकेनैव स्वरूपेण चरन्तम्, निगमः श्रुतिः प्रतिपादयेत् । तथा च तापनी-श्रुतिः
एको वशी सर्व-गः कृष्ण ईड्य एको\ऽपि सन् बहुधा यो\ऽवभाति । [पू। २३] इति।
यद् वा, ननु मत्-प्रेयस्याव् अपि किम् इदानीं वृन्दावन-जीववद् अलब्धानन्दे ? न हि न हीत्य् आहुः—ते इति । ते राधा-चन्द्रावल्यौ राधाललिते वा, क्वचित् अन्तर्-लीलायाम्, अजया निद्रया द्वारा क्वचिज्-जागर-लीलायाम् [जाग्रल्-लीलायाम् [घ, ङ] ।] आत्मना तव स्वरू-पभूतया चिच्-छक्त्या । तथा च श्रुतिः
ते ध्यान-योगानुगता अपश्यन्, देवात्म-शक्तिं [देवात्म-भूतां [घ, ङ] स्व-गुणैर् निगूढाम् । [श्वे १.३] इति ।
सर्वत्र चरतः समीपे चरन्त्या वानन्दयत इत्य् अर्थः । स्वप्ने जाग्रति च ताभ्यां सह सदा वृन्दावने विहारात् । ननु मम स्वाप्निक-विहारः कथम् अन्य-वेद्यः स्यात् ? तत्राहुः निगमो विद्विधः, अनुचरेत् सेवेत, स्वप्ने विश्राम-सहचरत्वान्-मादृशाम् । यद् वा, निगमो गोपीरूपो मद्विधः परिचरेत्, निद्रावसरे त्वद् अङ्गे पुलकादि-सौष्ठवेन विहारं जानीयाद् इत्य् अर्थः । अत्र बहूनां वक्तृत्वात् काश्चिद् आहुर् इति सर्व-पद्येषु ज्ञेयम्, तथापि क्वचित् सङ्गतिः कार्य्या ॥१४॥]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वं बुद्धीन्द्रियेत्य् आदिना प्रणवस्य साक्षाद्-भगवद्-वाचित्वं दर्शयित्वा तद्-विवृति-रूपाः श्रुतयश् चाष्टाविंशतिधा तत्र च याः सर्वाध्यक्षा महोपनिषदः सर्व-श्रुति-समन्वयार्थं श्रुत्य् अन्तरानुदितातन्-निरसन-पूर्वक-स्वरूप-गुण-निर्देशेन तत्र चरन्ति प्रथमं ता एव बन्दि-जनोचित-परिहास-पूर्वकं प्रथमं स्व-मनोरथं निवेदयन्ति-जय जयेति । हे अजित ! मायाद्य् अनभिभूत ! जय जय निजोत्कर्षम् अवश्यम् आविष्कुरु । कथं वा न करोषीति वीप्सार्थः ।
ननु, मम **जगद्-वैभव-हेतुभूतायाः अस्या हनने ममैव हानिः स्यात्-तत्राहुः । त्वम् असीति । आत्मना स्वरूप-भूतेन परमानन्देनैव शक्त्य् एत्य् अर्थः । सम्यग् निरवशेषं प्राप्त-पूर्वैश्वर्यादिर् असि किं तुच्छया तयेति भावः । तथा च वक्ष्यते स्वामिभिः—न हि निरन्तराह्लादि-संवित्काम-धेनु-वृन्द-**पतेर् अजया कृत्यम् अस्तीति । भगवता देवर्षिणा चोक्तम्—विशुद्ध-विज्ञान-घनं स्वसंस्थया समाप्त-सर्वार्थम् इत्य् आदि ।
ननु, मम तादृश**-स्वरूप-शक्तेर् अस्तित्वे किं प्रमाणं तत्राहुः—अगेति । अगानि सर्वदा स्थिराणि वैकुण्ठादीनि । जगन्ति चास्थिराणि ब्रह्माण्डानि ओकांसि येषां तेषां जीवानां या अखिला अप्राकृत्यः प्राकृत्यो वा शक्तयः सन्ति हे तद् अवबोधक ! तच्-छक्तीनाम् अपि शक्ति-दायक ! तत्र प्रकृतेर् जडत्वात्-तद्-वृत्तीनां तत्-तच्-छक्तीनाम् अपि तादृशत्वाद् उद्बोधे तव स्वरूप-शक्तिश्-चिद्-रूपैव कारणं लभ्येतेति स्पष्टम् एव । अप्राकृतीनां चिच्-छक्ति-वृत्तीनाम् अप्य् उद्बोधस् तस्या एव स्यात्-**सर्वाश्रयत्वाद् इति च गम्यत एव चेति भावः ।
ननु, युक्ति**-मात्र-ज्ञातार्थाः साक्षिणो न भवन्ति किन्तु साक्षाद्-द्रष्टार एव । किञ् च, मन्-निकटस्था अपि मत्-तत्त्वं न जानन्ति किन्तु मत्सेवका एवेति नैतावता युष्मद्-वचसि प्रामाण्यं तत्राहुः—ते क्वचिद् इति । सृष्टि-लीलायां पूर्वक्तयाजया मायया पुरुष-**रूपेण चरन्तं **क्वचिद्-विशुद्धानन्द-लीलायाम् आत्मना पूर्वोक्तया स्वरूपानन्द-शक्त्या स्वयं भगवद् आदि-रूपेण चरन्तं त्वां निगमास्मल्-लक्षणो वेद-कदम्बः अनुचरेत्-सेवेत इति तस्माद् एनां जहि । तद् एवं वस्तुतो श्रुतयो गुण-वृत्तय एव न भवन्ति किन्तु तन्-निषेधार्थं तद् अनुवादिन्यः स्वरूपैश्वर्यादि-मति भगवति तत्-**तद् आलम्बनेनैव साक्षाच् चरेयुः । तत्रापि **अजित-सम्बोधनेन चरेयुर् इत्य् एव वक्तव्यं यासां श्रुतीनाम् अत्यन्तान्तरङ्ग-भूतेन तत्-तन्-नाम-रूपेण शब्द-**विशेषेण सो\ऽप्य् अभिमुखीक्रियत इति । अत्रानुचरेद् इति । तत्र तत्र मूलं कारणं भक्तिर् एवेति सिद्धान्तोपक्रमः । श्रुतयस् तु—सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] । विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] । न तस्य कार्यं करणं च विद्यते [श्वे।उ। ६.८] । इत्य् आदि । तम् एव-भान्तम् अनुभाति सर्वम् । इत्य् आदिकाः । सर्वे वेदा यत्-पदम् आमनन्ति । यस्य देवे परा भक्तिः [श्वे।उ। ६.२३] । इत्य् आदिकाश् च ज्ञेयाः ॥१४॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ११३) : तत्र प्रथमतो ज्ञानादि-गुण-सेवितेन सम्यग्-दर्शन-कारणेन भक्ति-योगेनानुभूयमानं भगवद् आकारम् अखण्डम् एव तत्-त्वं स्व-प्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्म-स्वरूपम् अपि तथात्वेन क्रोडीकुर्वन्त्यः श्रुतयः ऊचुः—जय जयेति ।
भोः अजित ! जय जय निजोत्कर्षम् आविष्कुरु । आदरे वीप्सा । अत्राजितेति सम्बोधनेनेदं लभ्यते, नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः [भा।पु। ६.२.१०] इति न्यायेन नाम्ना भगवान् असौ साक्षाद् अभिमुखीक्रियत इति लिङ्गाद् एव तच्-छ्री-विग्रहवत् तद् अपि तत्-स्वरूप-भूतम् एव भवति, तद्-विजातीयेन तद् अभिमुखी-करणानर्हत्वात् । अत एव भय-द्वेषादौ श्री-मूर्तेः स्फूर्तेर् इव साङ्केत्यादाव् अप्य् अस्य प्रभावः श्रूयते । विशेषतश् चात्र श्रुति-विद्वद् अनुभवाव् अपि पूर्वम् एव प्रमाणीकृतौ । तस्माद् यत् तत्-त्वं श्री-विग्रह-रूपेण चक्षुर् आदाव् उदयते, तद् एव नाम-रूपेण वाग् आदाव् इति स्थितम् । तस्मान् नाम-नामिनोः स्वरूपाभेदेन तत्-साक्षात्-कारे तत्-साक्षात्-कार एवेत्य् अतः किं वक्तव्यम् अन्यत्रान्यवद् भगवति श्रुतयोऽपि जात्य् आदि-कृत-सञ्ज्ञा-सञ्ज्ञि-सङ्केतादि-रीत्या रूढ्यादि-वृत्तिभिश् चरन्तीति । यासां श्रुत्य् अभिधानां वल्लीनां साक्षात् तथा-भूतानि नामान्य् एव फलानीति ।
उत्कर्षम् आविष्कुर्व् इत्य् अनेन इत्थं सर्वोत्कृष्टता-गुण-योगेन मुख्ययैव वृत्त्या श्रुतयस् तस्मिंश् चरन्तीति दर्शितम् । श्रुतयश् च न ते महि त्वाम् अन्व् अश्नुवन्ति [?]32, न तत् समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इत्य् आद्याः । अत्र श्रुतयो जय जयेति स्व-भक्त्याविष्कारात् भक्तिम् एव तत्-प्रकाशे हेतुं गमयन्ति । केन व्यापारेणोत्कर्षम् आविष्कर-वाणीत्य् आशङ्क्य माया-निरसन-द्वारा स्व-भक्ति-दानेनेत्य् आहुः—अजां मायां जहि ।
ननु माया नाम विद्याविद्या-वृत्तिका शक्तिः । तर्हि तद्-धनने विद्याया अपि हतिः स्याद् इत्य् अत्र आह—दोष-गृभीत-गुणां, जीवानाम् आत्म-विस्मृति-हेताव् अविद्या-लक्षणे दोषे एव गृभीतो गृहीतस् तत्-स्मृति-हेतोर् विद्या-लक्षणो गुणो यया ताम् । स्वयम् एव स्वावेशेनाविद्या-लक्षणं दोषम् उत्पाद्य क्वचिद् एव कदाचिद् एव कथञ्चिद् एव कञ्चिद् एव जीवं त्यजतीति तस्यास् त्यागात्मक-विद्याख्य-गुणोऽपि दोष एव । तस्मात् तां निर्मूलां विधाय जीवेभ्यो निज-चरणारविन्द-विषयां भक्तिम् एव दिशेति तात्पर्यम् ।
अतो माया-घातन-योग्य-शक्तित्वेन तद् अतीतत्वं व्यपदिश्य सच्-चिद् आनन्द-घनत्वं भगवतो व्यञ्जयन्त्योऽतन्-निरसन-मुखेन तात्पर्य-वृत्त्या श्रुतयश् चरन्तीति व्यञ्जितम् । श्रुतयश् च—मायां तु प्रकृतिं विद्यान् मयिनं तु महेश्वरम् [श्वे।उ। ४.१०]33 इति, अजाम् एकाम् [श्वे।उ। ४.५] इति, सर्व-स्याधिपतिः सर्व-स्येशानः [बृ।आ।उ। ४.६.१], स वा एष नेति नेति [बृ।आ।उ। ४.४.२२]34 इत्य् आद्याः ।
ननु माया-नाशं सम्प्रार्थ्य मम तद् उपाधिकम् ऐश्वर्यादिकम् अपि नाशयितुम् इच्छथेत्य् अत्र समाधत्ते—त्वम् इति । यद् यस्मात् त्वम् आत्मना स्वरूपेणैव समवरुद्ध-समस्त-भग-प्राप्त-त्रिपाद्-विभूत्य् आख्य-सर्व-इश्वर्यादिर् असि, तस्मात् तव तया तुच्छया तद् उपाधिकैर् ऐश्वर्यादिभिर् वा किम् इत्य् अर्थः ।
तथा च स यद् अजया त्व् अजाम् [भा।पु। १०.८७.३८] इत्य् अत्र पद्ये टीका—नहि निरन्तराह्लादि-संवित्-काम-धेनु-वृन्द-पतेर् अजया कृत्यम् इति । तथा न ह्य् अन्येषाम् इव देश-कालादि-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यं, अपि तु परिपूर्ण-स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः । इत्य् एषा ।
अत्रात्म-शब्देन स्वरूप-मात्र-वाचकेन, तथा भग-शब्देन स्वरूप-भूत-गुण-वाचकेनेदं ध्वन्यते—स्वरूपादि-शब्दा ईश्वरादि-शब्दाश् च स्वरूप-मात्रावलम्बनया स्वरूप-भूत-गुणावलम्बनयापि रूढ्या निर्देष्टुं शक्नुवन्तीति । श्रुतयश् च—यद् आत्मको भगवान् तद् आत्मिका व्यक्तिः [?] इत्य् आद्याः, परास्य शक्तिर् विविधैव श्रूयते इत्य् [श्वे।उ। ६.८] आदिकाश् च ।
सा च स्वरूप-शक्तिः सर्व-इर् एवावगम्यत इत्य् आहुः—अगानि स्थावराणि जगन्ति जङ्गमानि ओकांसि शरीराणि येषां, तेषां सर्वेषाम् एव जीवानां या अखिलाः शक्तयस् तासाम् अवबोधक इति सम्बोधनम् । तेषु विचित्र-शक्ति-व्यञ्जकता-दर्शनान् मायाया अपि त्वद्-ईक्षणेनैव क्षमत्वात् त्वं स्वरूप-भूताशेष-शक्ति-लहरी-रत्नाकर इत्य् अनुमीयत इत्य् अर्थः ।
यद् वा, ननु माया-हननेन तद् उपाधेर् जीवस्य तु शक्ति-हानिः स्यात् ? तत्राहुः—अग- इति । अथ पूर्ववद् एव । ततः स्वरूप-शक्त्यैव प्रत्युत तेषां सुखैक-प्रदा पूर्णा शक्तिर् भविष्यतीति भावः । अत्रेत्थं तटस्थ-लक्षणेन श्रुतयश् चरन्तीत्य् उक्तम् । श्रुतयश् च—को ह्य् एवान्यात् [तै।उ। २.७] इत्य् आदिकाः, प्राणस्य प्राणम् [बृ।आ।उ। ४.४.१८] इत्य् आदिकाः, तम् एव भान्तम् [कठ।उ। २.२.१५] इत्य् आदिकाः, देहान्ते देवस् तारकं ब्रह्म व्याचष्टे [नृ।ता।उ। १.७]35 इति, यस्य देवे परा भक्तिर् [श्वे।उ। ६.२३]36 इत्य् आद्याश् च ।
ननु विशेषतो भवत्यः कथं जानन्ति यद् अजया मम कृत्यं नास्ति, तथा सच्-चिद् आनन्द-घन एव स्वरूप-शक्त्या समवरुद्ध-समस्त-भगः ? इति तत्राहुः—क्वचिद् इति । क्वचित् कदाचित् सृष्ट्य् आदि-समये पुरुष-रूपेण अजया मायया चरतः क्रीडतः नित्यं च स्वरूप-शक्त्याविष्कृत-स्वरूप-भूत-भगेन सत्य-ज्ञानानन्दैक-रसेनात्मना चरतस् तवास्मल्-लक्षणो निगमः शब्द-रूपेण देवता-रूपेण च अनुचरेत् सेवते । तस्माद् वयं तत् सर्व-ं जानीम इत्य् अर्थः । कर्मणि षष्ठी ।
एतद् उक्तं भवति—अत्र द्विविधो वेदः—त्रैगुण्य-विषयः, निस्त्रैगुण्य-विषयश् च । तत्र त्रैगुण्य-विषयस् त्रिविधः । प्रथम-प्रकारस् तावत् तद् अवलम्बन-ताटस्थ्येन तल्-लक्षकः । यथा, यतो वा इमानि भूतानि [तै।उ। ३.१.१] इत्य् आदिः । द्वितीय-प्रकारश् च त्रिगुण-मय-तद् ईशितव्यादि-वर्णनादि-द्वारा तन्-महिमादि-दर्शकः । यथा इन्द्रो यतोऽवसितस्य राजा [ऋ।वे। १.३८.१५] इत्य् आदिः। तृतीय-प्रकारश् च त्रैगुण्य-निरासेन परम-वस्तूद्देशकः । सोऽप्य् अयं द्विविधः—निषेध-द्वारा, सामानाधिकरण्य-द्वारा च । तत्र पूर्व-द्वारा अस्थूलम् अनणु [बृ।आ।उ। ३.८.८], नेति नेति [बृ।आ।उ। ३.९.२६] इत्य् आदिः । उत्तर-द्वारा सर्व-ं खल्व् इदं ब्रह्म [बृ।आ।उ। ३.१४.१], तत् त्वम् असि [छा।उ। ६.८.७] इत्य् आदिः ।
पूर्व-वाक्ये तज्-जातत्वाद् इति हेतोः सर्व-स्यैव ब्रह्मत्वं निर्दिश्य तत्राविष्कृतः सद् इदम् इति प्रतीति-परमाश्रयो योऽंशः स एव शुद्धं ब्रह्मेत्य् उद्दिश्यते । उत्तर-वाक्ये त्वं-पदार्थस्य तद्वच् चिद् आकार-तच्-छक्ति-रूपत्वेन तत्-पदार्थैक्यं यद् उपपाद्यते, तेनापि तत्-पदार्थो ब्रह्मैवोद्दिश्यते । तत्-पदार्थ-ज्ञानं विना त्वं-पदार्थ-ज्ञान-मात्रम् अकिञ्चित्-करम् इति तत्-पदोपन्यासः । त्रैगुण्यातिक्रमस् तूभयत्रापि । अत्र त्रैगुण्य-निरासेन तद् उद्देशेन यत्र तदीय-धर्माः स्पष्टम् एव गम्यते, तत्र भगवत्-परत्वम् । यत्र त्व् अस्पष्टं, तत्र ब्रह्म-परत्वम् इत्य् अवगन्तव्यम् । व्याख्यातस् त्रैगुण्य-विषयः । तद् एतद् अजया चरतोऽनुचरेद् इति व्याख्यातम् ।
अथ निस्त्रैगुण्योऽपि द्विविधः—ब्रह्म-परः, भगवत्-परश् च । यथा आनन्दो ब्रह्म [तै।उ। ३.६.१] इत्य् आदिः ।
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इत्य् आदिश् च ।
तद् एतद् आत्मना चरतोऽनुचरेन् निगमः इति व्याख्यातम् । अतः श्रुतेस् तच्-चारित्वं सिद्धम् । साक्षाच्-चारित्वं च निस्त्रैगुण्यानां स्वत एव, अन्येषां तु तद् एक-वाक्यतया ज्ञेयम् । माया-निरसनार्थम् एव तत्-तद्-गुणानुवादः क्रियते । पश्चाद् अखण्डम् एव तां निरस्य साक्षाद्-भगवत्-स्वरूप-गुणादिकं निर्दिश्यत इति तद् एक-वाक्यता-द्योतनया स एष एव सिद्धान्तोऽस्मिन्न् उपक्रम-वाक्ये समुद्दिष्टः । तथोपसंहारे च—श्रुतयस् त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः [भा।पु। १०.८७.४१] इति । श्रुतयश् च मध्व-भाष्य-प्रमाणिताः—न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति [वे।सू। २.१.३-धृत-भाल्लवेय-श्रुतिः] इत्य् आद्याः, औपनिषदः पुरुष [बृ।आ।उ। ३.९.२६] इत्य् आद्याश् च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत्राष्टाविंशतिधा श्रुतयस् तत्र तत्र चरन्तीति वक्तुं तत्-तद्-वर्ग-भेदेनैकैकं पद्यं दर्शयितुं तत्राप्य् एकैक-प्रकरणान्ते शुद्ध-तद्-भक्ति-प्रतिपादक-श्रुतीनाम् उत्कर्षं दर्शयितुम् आह—श्रुतय ऊचुर् इति । तत्र च याः सर्वाध्यक्षा महोपनिषदः सर्व-श्रुति-समन्वयार्थं श्रुत्य् अन्तरानुदितास् तन्-निरसन-पूर्वक-स्वरूप-गुण-निर्देशेन श्री-भगवति चरन्ति । प्रथमं ता एव वन्दि-जनोचित-परिहास-पूर्वकं प्रथमं स्व-मनोरथं निवेदयन्ति—जय जयेति ॥१४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : प्रकृतं तत्-स्तवम् आह—जय जयेत्यादि । हे अजित ! श्री-कृष्ण ! जय जय, अजितस्य सर्व-दा जय एव ।
ननु किम् अर्थोऽयं जय-ध्वनिः ? अपि किञ्चिद् अभिलषितम् अस्ति ? बाढम् इत्य् आह—अजां जहि । जहि जहीहीत्य् अर्थः । निद्रां त्यज, निद्रा तु योग-निद्रा, सा तु अजा । अतस् त्वयैव सा स्वीकर्तुं त्यक्तुं च शक्यते । तेन नान्यैस् त्वन्-निद्रा दूरयितुम् अर्हा ! कीदृशीम् ? दोष-गृहीत-गुणां दोषाय परिचारकाणां सेवा-कलापहानाय गृहीतो गुणः स्वगुणो यया । अथवा अजिता दोषा यर् निद्रालुभिस् तैर् गृहीता गुणा यस्या, निद्रालुभिर् एव निद्रा-गुणो गृह्यते । अस्मिन् हे जय ! श्री-कृष्ण ! जयेति व्याख्येयम्—त्वं तु न निद्रालुः, लीला-गृहीत-निद्रत्वात्, इच्छाधीनाम् एनां जहीति भावः ।
नन्व् इयं मद्-वशा न भवति । कथं मया हातव्येत्य् आशङ्क्याह—त्वम् असीत्य् आदि । यद् यस्मात् त्वम् आत्मना स्वयम् एव समवरुद्धं वशीकृतं समस्त-भगं समस्तैश्वर्यं येन, सर्वेश्वरत्वात् सर्व-नियामकः, तत्र केयं निद्रा वराकी ?
समवरुद्ध-भगत्वं स्पष्टयति—अग-जगद् इत्य् आदि । अग-जगद्-ओकसां—अगाः स्थावरा जगन्तो जङ्गमा ओकांसि चतुर्दश-लोकास् तेषाम् । अथवा हे अग ! अगम्य ! जगद्-ओकसां स्थावर-जङ्गमानाम् अखिला या शक्तयस् तासाम् अवबोधक ! प्रकाशक ! त्वच्-छक्त्यैव सर्वे शक्तिमन्त इत्य् अर्थः । अतो नेयं स्वतन्त्रा ।
नन्व् इयं योगमायैव तावत्, न तु सामान्या निद्रैव, तत् कथं युष्माकं वाङ्-मात्रेणैव त्यक्तुं शक्यते ? तत्राह—हे क्वचिद् इत्य् आदि । क्वचित् कुत्राप्य् अवतारेर् ज्अगत्-सृष्ट्यादि-लीलायां वा अजया मायया आत्मना च स्वातन्त्र्येण च चरतस् ते चरन्तं त्वां निगमो वेदोऽनुचरेद् अनुचरति निरूपयति । न त्व् इह सर्वेश्वरे सर्व-कारणे त्वयि अजा-सम्बन्धः । त्वं स्वयं-भगवत्त्वात् स्वतन्त्र एव । आत्मनैव स्वातन्त्र्येणैव चरसीति भावः । तद् इदं तवेषत्-करं निद्रा-रूपाजाहानम् इति ।
अथवा हे अजय ! दुर्जय ! आत्मना स्वातन्त्र्येण चरतस् तव स्वैश्वर्येण विलसन्तं त्वां निगमोऽस्मद्-विधः क्वचित् कुत्रचिद् एवानुचरेत्, न सर्वदा । तेनायम् एवास्माकं सेवासमयस् तद् अवश्यं प्रबोधयितव्य एव भवान् । अव, मा कोपं कार्षीर् इति भावः ॥१४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जय जयेति । भो अजित ! जय जय सर्वोत्कर्षेण वर्तस्व, स्वीय-सर्वोत्कर्षम् आविष्कुरु इत्य् अर्थः । द्विरुक्तिर् आदरेण हर्षेण वा । केन प्रकारेण उत्कर्षम् आविष्कुर्याम् ? इति चेत्, जिवेषु करुणया स्व-चरण-माधुर्य-प्रापणेनैवेत्य् आहुः—अग-जगद्-ओकसाम् अगानि स्थावराणि जगन्ति जङ्गमानि ओकांसि शरीराणि येषां, तेषां जिवानाम् अजाम् अविद्यां त्वत्-प्राप्ति-प्रतिकूलां जहि नाशय ।
ननु, गुणवती सा कथं मत्-प्राप्ति-प्रतिकूला ? इत्य् अत आहुः—दोष-गृभीत-गुणां दोषाय ज्ञानाद्य् आवरणाय देहादिषु दुरभिमान-प्रापणाय च गृभीता गुणा यया ताम् । यद् वा, दोषैस् त्वद् अस्फूर्ति-रूपैर् गृभीता ग्रस्ता गुणाः सत्त्व-रजस्-तमांसि यस्यास् ताम् । हृ-ग्रहोर् भश् छन्दांसि इति भ-कारः । तस्या गुणा एवानर्थ-कारिणस् त्वत्-प्राप्ति-प्रतिकूला इति भावः । अजितेति त्वम् एवैकस् तया जेतुम् अशक्यः, अन्ये तु ब्रह्माद्या अपि तया स्व-गुणैर् जिता एवेति भावः ।
ननु तयाहम् अजित इत्य् अत्र किं चिह्नम् ? इत्य् अत आहुः—त्वम् इति । यद् यस्मात् त्वम् आत्मना स्वरूपेणैव समवरुद्ध-समस्त-भगः सम्प्राप्त-समस्तइश्वर्योऽसि वशीकृत-मायात्वाद् इति भावः ।
नन्व् अविद्योपरमे सत्य् अपि भक्त्या विना न मे प्राप्तिर् भवेत् । भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति मद् उक्तेः ? तत्राहुः—हे अखिल-शक्त्य् अवबोधक ! बुद्धीन्द्रियादीन् सृष्ट्वा जिवानाम् अखिलाः शक्तीः कर्म-करण-शक्तीः कर्म-फल-भोग-शक्तीश् च यथोद्बोधयसि, तथैव ब्रह्म-परमात्म-भगवत्-स्वरूपिणं स्वं प्रापयितुम् ज्ञान-योग-भक्ति-करण-शक्तीः कृपया त्वम् एव उद्बोधयसि, तत्-तत्-परिपाके सति ब्रह्म-परमात्म-भगवद् अनुभव-शक्तीश् चोद्बोधयसीत्य् अर्थः ।
अत्र किं प्रमाणम् ? इति चेद् द्वयम् एवेति स-विनयम् आहुः—क्वचिद् अजया कदाचित् सृष्ट्य् आदि-समये मायया बहिरङ्ग-शक्त्या च सह चरत इति कर्मणि षष्ठ्य् आर्षी । चरन्तं क्रीडन्तं त्वां निगमोऽस्मल्-लक्षणः श्रुति-कदम्बः अनुचरेत् परिचरेत् । तत्-तत्-प्रतिपादक-रूप-प्रमाणी-भवनम् एवास्माकं त्वत्-परिचरणम् इत्य् अर्थः ।
तेन सृष्ट्य् आदि-समय-भवं कर्मादिकं सार्वकालिक-त्वद् अनुभवं च वयम् एव प्रतिपादयाम इत्य् अतः साधूक्तं बुद्धीन्द्रिय-मनः-प्राणान् इति ब्रह्मोपनिषद्-वाक्यम् । अत्र प्रमाणानि, नित्यं विज्ञानम् आनन्दं ब्रह्म [?]37 इति,
एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११] इति ।
यः सर्व-ज्ञः स सर्व-वित् यस्य ज्ञान-मयं तपः [मु।उ। १.१.९], सर्व-स्य वशी सर्व-स्येशानः [बृ।आ।उ। ४.४.२२], यः पृथिव्यां तिष्ठन् पृथिव्याम् अन्तरः [बृ।आ।उ। ३.७.३], सोऽकामयत बहु स्यां [तै।उ। २.६.१], स ऐक्षत [छा।उ। ६.२.३], तत् तेजोऽसृजत [छा।उ। ६.२.३], सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इति सर्व-ज्ञ इति सम्पूर्णं ज्ञानम् ।
सर्व-विद् इत्य् अखिल-शक्त्य् उद्बोधकत्व-लक्षण-स्व-चिच्-छक्तिः स्वत एव लाभः । ज्ञान-मयं तप इति ज्ञानं परामर्शस् तन्मयं तपः प्रतापात्मकम् ऐश्वर्यम् । वशीति सर्व-नियन्तृत्वम् । ईशान इति सर्व-कर्म-फल-दातृत्वं सर्वोपास्यत्वे पृथिव्यां तिष्ठन्न् इति सर्व-व्यापकत्वं, अन्तरः अन्तर्-भूतः, तेन पृथिवी तन् न जानातीति सर्व-दुर्ज्ञेयत्वम् । सोऽकामयत इति प्रकृति-क्षोभात् पूर्वस्य कामस्याप्राकृतत्वात् कल्याण-गुण-मयत्वम् । ईक्षतेत्य् अड् आगमाभावश् छान्दसः । तत्-तेज इति तद् अंश-रूपस्य तेजसः पुरुषस्यैव **जगत्-**स्रष्टृत्वम् । तथैव तत्-तेज एव व्यापकं सत्येत्यादि-लक्षणं ब्रह्म ।
यस्य प्रभा प्रभवतः [ब्र।सं। ५.४०] इति ब्रह्म-संहितोक्तेः । मदीयं महिमानं च प्रपञ्चभाव् [भा।पु। ८.३.१८] इत्य् अष्टमोक्तेः, ब्रह्म-ज्योतिः सनातनम् [भा।पु। ३.१४.२३] इति दशमोक्तेः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति गीतोक्तेश् च इत्य् एवम् एता ब्रह्मत्व-परमात्मत्व-भगवत्त्व-प्रतिपादिकाः ।
यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इत्य् आद्याः सृष्ट्य् आदि-प्रतिपादिकाः । अक्षय्यं ह वै चतुर्मास्य-याजिनः सुकृतं भवति इति कर्म-प्रतिपादिकाः । ब्रह्म-विद् आप्नोति परम् इति, तम् एव विदित्वातिमृत्युम् एति इत्य् आद्याः ज्ञान-प्रतिपादिकाः ।
शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका तयोर्ध्वम् आयन्न् अमृतत्वम् एति [छा।उ। ८.६.६] इत्य् आद्या योग-प्रतिपादिकाः । भक्तिर् एवैनं नयति [माठर-श्रुतिः], सच्-चिद् आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७५] इत्य् आद्याः भक्ति-प्रतिपादिकाः श्रुतयः ॥१४॥
॥ १०.८७.१५ ॥
बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया
यत उदयास्त-मयौ विकृतेर् मृदि वाविकृतात् ।
अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं
कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कथं माम् एवं प्रतिपादयन्ति, यत इन्द्रो यातोऽवसितस्य राजा [ऋ।वे। १.३२.१५] इत्य् आदिभिर् इन्द्रो यातो जङ्गमस्यावसितस्य स्थावरस्य च राजेति प्रतिपाद्यते, तथा अग्निर् मूर्धा दिवः [ऋ।वे। १.५९.२] इत्य् आदिभिश् चैवं-भूतत्वेनाग्न्य् आदयः प्रतिपाद्यन्ते ? तत्राह—बृहद् उपलब्धम् एतद् इति ।
अयम् अर्थः—एतद् उपलब्धं दृष्टम् इन्द्रादि-सर्वं बृहद् ब्रह्मत्वम् इत्य् एव अवयन्ति जानन्ति । कथम् ? बृहत एव अवशेषतया अवशिष्यमाणत्वेन । कुतः ? यतो बृहतः सर्व-स्य उदयास्त-मयाव् उत्पत्ति-लयौ, सर्वोपादानत्वात् । तर्हि किं विकारित्वं बृहतः ? न, अविकृतात् । विवर्ताधिष्ठानत्वेनाविकाराद् इत्य् अर्थः । वा-शब्द उपमार्थः । यथा घटादेर् विकृतेर् मृदि उदयास्त-मयौ, तद्वत् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४], सर्व-ं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य् आदिभिस् तथा प्रतिपादनाद् इत्य् अर्थः ।
अतः कारणाद् ऋषयो मन्त्रास् तद्-द्रष्टारो वा त्वय्य् एव मनो-वचनाचरितं दधुः, मनसा आचरितं दधुः, मनसा आचरितं तात्पर्यं वचनाचरितम् अभिधानं च धृतवन्तः । न पृथग् विकारेष्व् इत्य् अर्थः । अत्र निदर्शनम्, कथम् अयथा ? इति । नृणां भू-चराणां यत्र कुत्रापि दत्तानि निक्षिप्तानि पदानि भुवि कथम् अयथा भवन्त्य् अदत्तानि भवन्ति ? अतो यथा मृत्-पाषाणेष्टकादिषु दत्तानि पदानि भुवं न व्यभिचरन्ति, तथा यत् किम् अपि विकार-जातं वदन्तो वेदास् त्वाम् एव सर्व-कारणं परमार्थ-भूतं प्रतिपादयन्तीत्य् अर्थः ।
द्रुहिण-वह्नि-रवीन्द्र-मुखामरा
जगद् इदं न भवेत् पृथग् उत्थितम् ।
बहु-मुखैर् अपि मन्त्र-गणैर् अजस्
त्वम् उरु-मूर्ति-रतो विनिगद्यसे ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भावार्थदीपिकाप्रकाशः वंशीधरी—सर्व-श्रुतिप्रतिपाद्यत्वमाक्षिपति-नन्विति । अत्र श्रुतयः यातो जङ्गमस्य, या-प्रापणे इत्यस्य शतृप्रत्ययान्तं रूपम् । अवसितस्य स्थावरस्य, अपूर्व षिञ्-बन्धने अस्य निष्ठान्तं रूपम् । तथा—
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतां सि जिन्वति ॥ इति ।
अयं परावर-रूपेणावस्थितो\ऽग्निर् दिवो मूर्धा, अहश् च सूर्यात्मना द्युलोकस्य मूर्धा भवति, ककुभां दिशां पतिः पालकः । भस्य तश्छान्दसः । तथा पृथिव्याः पतिः अपां पयसां रेतांसि वीर्याणि तृण्वति उद्रिक्तभावं नयति—
अग्नौ प्रास्ताहुतिः सम्यग् आदित्य् अमुपतिष्ठते । आदित्याज्-जायते वृष्टिः इति स्मृतेः ।
जिन्वतीति पाठस्तु शाखा-भेदेन । तथा सूर्य आत्मा जगतस् तस्थुषश् च इति सोमो\ऽस्माकं ब्राह्मणानां राजा । इत्य् आदिभिश् चैवम्भूतत्वेनेश्वरत्वेन । भेद-प्रतिपादन-परेयं श्रुतिः । अत्राशयम् आह—अयम् अर्थ इति । कथं जानन्ति । बृहतो । ब्रह्मणः अत्र हेतुम् आशङ्कते-कुत इति । तर्हि सर्वोपादानत्वेनेत्य् आह—इत्य् अर्थ इति—अतात्त्विकान्य् अथाभावो विवर्तस् तद् अधिष्ठानत्वेन यथा रज्जु-विवर्तो भुजङ्गस् तद् अधिष्ठान-भूता रज्जुर् निर्विकारा तथा ब्रह्म-विवर्त-जगतो\ऽधिष्ठानं ब्रह्मापि निर्विकारम् एव जगत्-प्रतीतेस् तत्रातात्त्विकत्वाद् इति भावः । घटदेर् इहादिना शरावादि-ग्रहः । वाचारम्भणं वचनालम्बनम् । वस्तु-तस्तु सर्वं नामधेयम् एव केवलं विकारो नाम वस्त्व् अन्तरम् अस्ति परमार्थतस् तु मृत्तिकेत्य् एव सत्यं तत्रोत्पत्ति-प्रलयत्वात् । तथा कार्यस्य प्रपञ्चस्य परम-कारण-ब्रह्म-मात्रत्वं बोधयति-सर्वं खल्विति । इदं सर्वं जगत् नाम-रूप-विकृतं प्रत्यक्षादि-विषयं ब्रह्मैव भवति कथं तज्-जलान् तस्माद्-ब्रह्मणो जातं तज्-जम्, तस्मिन् ब्रह्मणि लीयत इति तल्-लम्, तस्मिन्न् एव स्थितिकाले\ऽनिति प्राणिति चेष्टत इति तदन् तज्-जलान् इति जगदित्यस्य विशेषणम् । यस्मात्रिष्व् अपि कालेषु ब्रह्मतयावशिष्टं तद्-व्यतिरिक्तं किञ्चिन्-नास्ति, तस्मात्-सर्वम् इदं ब्रह्मातः शान्तः राग-द्वेषादिर् अहितः उपासीत वाचारम्भणं नर-देव-तिर्यग् आदिनाम् अधेयं परम-कारणं ब्रह्म सत्यम् इति ज्ञात्वोपासनां कुर्वीत अभेदोपासन-परेयं-श्रुतिर् इत्य् आदिना गृहीताः । तथा प्रतिपादनात्-सर्वोपादानत्वेन कथनात् । इत्य् अर्थ इति-परम-कारण-प्रतिपादन एव वाचारम्भणादीनां तात्पर्यं दृष्टान्ततयेति भावः । यतस् त्वम् एव सर्व-कारणमतो हेतोः । तद्-द्रष्टारो मन्त्र-द्रष्टारः । इत्य् अर्थ इति—सर्वे पदा हस्तिपदे निमग्नाः इति न्यायेन पृथक्-पृथग् न ध्यायन्तीति भावः । अत्र सर्वाधिष्ठानत्वेन निदर्शनं दृष्टान्तः यतो\ऽदत्तानि स्युरतो हेतोः । इत्य् अर्थ इति—परम-कारणाभिन्नत्वात्सर्व-स्येति भावः । द्रुहिणो ब्रह्मा द्रुहिणाद्य् अमरा एवेदं जगत् पृथग् नोत्थितं भवेत् । किन्तु त्वत्त एव उद्देश्य-विधेय-भावत्वाद् एक-वचनम् । अत एक-कारणकत्वात् बहुमुखैर् अग्नीन्द्रादि-वर्णन-रूपैर् अजो\ऽपि बहुमूर्तिः ब्रह्मेन्द्रादि-रूपेण प्रतिपाद्यस इत्य् अर्थः ।
श्रीधरानुयायिनी : इन्द्रादीनाम् अपि वेद-प्रतिपाद्यत्वादीश्वरत्वम् आशङ्क्याहुः घटादेर् मृत्तिकायाम् इवेन्द्रादि-रूप-प्रपञ्चस्य त्वयि विवर्ताधिष्ठान एवोत्पत्ति-प्रलयौ भवतः ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ।
मत्तः परतरं नान्यत्-किञ्चिद् अस्ति धनञ्जय ॥
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव । [गीता ७.७] इति गीतोक्तेः
इत्य् अत ईश्वरत्वेन प्रतीयमाना अपि इन्द्रादयो ब्रह्म त्वम् एवेति तत्त्वविदो जानन्ति यतो\ऽधिकृताद्-ब्रह्मणः सकाशात्-सर्व-स्योदयास् तमयौ भवतः । वाकार इवार्थे । मृदि विकृतेर् घटादेर् इवेत्य् अन्वयः । यद् वा, मृद इवेति च्छेदः । आर्षत्वात्-पञ्चम्य् अर्थे प्रथमा । यद् वा, बृहद् इति इत इदम् अधिकमितो\ऽपीदम् अधिकम् इत्य् अन्विष्य विचार्य सर्वाधिक्येनावशेषतया त्वाम् एव बृहत्-सर्वतो\ऽधिकं जानन्ति विज्ञा इत्य् अर्थः । ज्ञानेनेन्द्रियादि-रूप-प्रपञ्चे बाधिते ब्रह्मणस् तवैव घटादि-नाशे मृत्तिकाया इवावशिष्यमाणत्वात् । यद् वा, यन्-मनो-वाचाम् अगोचरस्यापि तव वर्णनं सेवनं वा तद् एतद् अति-दुर्लभं बृहत् महत्-फलमद्यास्माभिर् उपलब्धम्, तत्र हेतुः—अवयन्तीति । अत्र यतस् त्वाम् इत्य् आदिरर्थस्-तुल्य एव यतो वेद-वचनानाम् आसमन्ताच् चरितं तात्पर्येण पर्यवसानं त्वय्येव । अतः, ऋषयस् त्वयि मनो धृतवन्तः । अत्र दृष्टान्तम् आहुः—कथम् इति । नृणां पाषाणेष्टिकादि-रूपायां भुवि दत्तानि पदानि कथं भुव्यदत्तानि भवन्ति, पाषाणादीनाम् अपि भूविकारत्वात् । एवं यत्-किम् अपीन्द्रादि-विकार-जातम् अपि वदतां वेदानां तात्पर्यं त्वय्य् एवेत्य् अर्थः ।
नीलकण्ठी : यद्-भजनाद् अजानाशस् तस्य ब्रह्मणो लक्षणम् आह—बृहद् इति । ऋषय इत्य् उत्तरार्धाद-पकृष्यते । ऋषयो मन्त्र-द्रष्टारः स्वमन्त्रेभ्यः पुरुष एवेदं सर्वम् [पञ्चम्।उ १]इत्य् आदिभ्यः एतद् उपलब्धं प्रत्यक्षाद्य् अवगतम्, नाम-रूपात्मकं सर्वं **बृहद्-**बब्रह्मैवेत्य् अवयन्ति जानन्ति । किं प्रपञ्च एव ब्रह्म नेत्य् आह—अवशेषतयेति । रजतं शुक्तिर् इति-वद् इदं ब्रह्मेति सामानाधिकरण्यम् अध्यस्त-प्रपञ्चबाधाव् अधिभूतं ब्रह्मावशेषयन्ति । यथोक्तम्—
यो\ऽयं स्थाणुः पुमान् एष पुंधिया स्थाणुधीर् इव ।
ब्रह्मास्मीतिधियाशेषा त्वं बुद्धिर् विनिवर्तते ॥ इति ।
एवं जगद्-विवर्ताधिष्ठानत्वं ब्रह्मणो लक्षणं दर्शितम् । कुत एतद् इत्य् आशङ्क्योभय-विध-श्रुति-दर्शनादित्य् आह—यत इति ।
यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्-प्रयन्त्य् अभिसंविशन्ति । तद्-विजिज्ञासस्व । तद्-ब्रह्मेति । यथोर्णनाभिः सृजते गृह्णते च । यथा पृथिव्याम् ओषधयः सम्भवन्ति । यथा सतः पुरुषात्-केश-लोमानि तथाक्षरात्-सम्भवतीह विश्वम् । [तै।उ। ३.१.१]
इत्य् आद्याः श्रुतयस् तूर्णनाभि[तै।उ। ३.१.१]दृष्टान्तेन ब्रह्मैव स्वप्राधान्येन चोपाधिभूतमायाप्राधान्येन च क्रमाज्-जगतो निमित्तम् उपादानं चेत्य् आहुः । तत्रोपादानांशे दृष्टान्तः—मृदिवेति । यथा मृद्-विकृताः घट-शरावोदञ्चनाद्याः लोष्टपांसु-पिण्डाद्याश् च मृद् इत्य् एवावयन्ति । एवं जगद् अपि ब्रह्मेत्य् अवयन्ति । किं मृद्-विक्रियते ब्रह्म नेत्य् आह—अविकृताद् इति । अजायमानो बहुधा विजायते [मुद्गल्।उ ३] इत्य् अविक्रियमाणस्यैव बहु-भवन-श्रवणान्न विक्रियत इत्य् अर्थः । एवं ब्रह्मण उपादानत्वाविक्रियत्वश्रुतिभ्यां सिद्धं जगद्-विवर्ताधिष्ठानत्वम्, अन्यथा श्रुति-द्वय-विरोध-परिहारासम्भवात् । जगतश् च ज्ञाने द्वैतं न विद्यते । इति ज्ञान-निवर्त्यत्वश्रुत्य् अर्थापत्त्या सिद्धं मिथ्यात्वम् । नन्व् एवं मृद् इवेति विषमो दृष्टान्तः । न हि मृद्-विकाराणां रज्जु-भुजङ्गवद्-बाध्यतास्ति । न । वाचारम्भणं विकारो नामधेयम् [छा।उ। ६.१.४] इति तेषाम् अप्य् अनित्यत्वश्रवणात् । अयं भावः—पूर्व-रूप-परित्यागेन रूपान्तरापत्तिः परिणामः । स च नित्य-परिणामिनि प्रधाने पाकज-रूपाद्य् आश्रये पर्थिव-परमाणौ चास्ति । अतस्ताव् अपि विकारत्वाद् अनृतौ तेन परमाण्वादिप्रासादान्तेषु मिथो व्यावर्तमानेषु मृद्-विकारेषु यत्-कुसुम-सूत्रवद् अनुस्यूतं मृत्सामान्यं तद् एव सत्यं मृत्तिकेत्य् एव सत्यम् । इति श्रुतेः । तद् एव चास्माकम् आत्मा । यथाहुः शाब्दिकाः—
सम्बन्धि-भेदात्सत्-तैव भिद्यमाना गवादिषु ।
जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥
सा नित्या सा महानात्मा ताम् आहुस् त्व् अतलादयः ॥ इति ।
व्यावहारिकत्वेन बाधाभावे\ऽपि श्रुति-युक्तिभ्यां मृद्-विकाराणाम् अपि मिथ्यात्वं सिद्धम् इति न दृष्टान्त-वैषम्यम् इति । ननु—
अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजा जनयन्ती सरूपाः ।
अजो ह्य् एको जुषमाणो\ऽनुशेते जहात्येनां भुक्त-भोगाम् अजो\ऽन्यः ॥ [महा—नारायण।उप् ५] इति ।
मन्त्र-वर्णात्-साङ्ख्याः सुख-दुःख-मोहात्मकस्य जगतस् तादृशी-प्रकृतिर् उपादानं बन्ध-मोक्षादि-व्यवस्थार्थं पुरुषाश् च बहव इत्य् आहुस् तत्-कथं ब्रह्मण उपादानत्वं जगतश् च मिथ्यात्वम् इत्य् अत आह—अत इति । यतो वचनाचरितं त्वयि अतः ऋषयस् त्वयि मनो दधुर् इति योजना । वचनानां वेदान्तानाम् आसमन्ताच् चरितं तात्पर्येण पर्यवसानं त्वयि, अतो न प्रधानादेर् उपादानत्वम् ईक्षतेर् नाशब्दम् [वे।सू। १.१.५] । इति न्यायादित्य् अर्थः । तथा हि छान्दोग्ये तावत्—
सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ।
ऐतदात्म्यम् इदं सर्वं तत्-सत्यं स आत्मा श्वेत-केतो ॥
इत्य् उप-क्रमोप-संहारयोरैक-रूप्यम् ऐतदात्म्यम् इत्य् आदेवकृत्वः—श्रवणम् अभ्यासः मानान्तरान् अवगतत्वम् अपूर्वता उत्तमादेशम् अप्राक्ष्मः, येनाश्रुतं श्रुतं भवतीत्य् आदिना एक-विज्ञानात्-सर्व-विज्ञानं फलं न्यग्रोध-फलम् अत आहरेति बीजे वटस्य् एव सूक्ष्मे स्थूलस्य सद्-भावः-लवणम् एतद् उदकेवधायेति लवणोदकवत्-कारणे कार्यलयश् च न्यग्रोध-फलाहरणाद्य् अर्थवादैर् दर्शितः । यथा—
सौम्यैकेन मृत्-पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद् इत्य् एक-विज्ञानात् सर्व-ज्ञानात्-सर्व-विज्ञाने उपपत्तिश् चेति षड्-विध-तात्पर्य-लिङ्गैर् अद्वैतं ब्रह्म प्रतिपाद्यते ।
तथा आथर्वणे—कस्मिन्नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवति इत्य् उपक्रम्य ब्रह्मैवेदम् अमृतं पुरस्ताद् इत्य् उप-संहृतम् । एवम् अजामन्त्रे\ऽतितेजोबन्नरूपैवाजा प्रतिपत्तव्या । छान्दोग्ये—यद् अग्रे रोहितं रूपं तेजसस् तद्-रूपं यच्-छुक्लं तद् अपां यत्-कृष्णं तद् अन्नस्येति श्रूयमाणानाम् एव रोहितादीनां तत्रापि प्रत्य् अभिज्ञानात् । न च सुख-दुःख-मोहात्मत्वं घटादेर् घटते सुखादीनामन्तः-करण-धर्मत्वात् । बन्ध-मोक्ष-व्यवस्थाया अपि वक्ष्यमाणविधया सिद्धेर् न चेतन-बहुत्वम् अभ्य् उपेतव्यम् इति दिक् ।
ननु ब्रह्मण्य् अध्यस्त-प्रपञ्चस्यान्यत्र सत्त्वं वाच्यम् अत्यन्तासतो गगन-कुसुमादेर् अनध्यासादित्य् आशङ्क्य दृष्टान्त-मुखेन परिहरति-कथम् इति । भुवीत्यलुक्समासः । नृणां भुवि दत्तानि पदानि कथमयथा भुव्यदत्तानि भवन्ति । न कथञ्चित् । एवं ब्रह्मण्यध्यस् तस्य प्रपञ्चस्य नेह नानास्ति किञ्चन [बृहदारण्यक् उप्४.४.१९]। इति ब्रह्मण्य् एव निषिद्धस्यान्-यत्र सत्त्वं कथं स्याद् इत्य् अर्थः । एवं चानादि-भ्रम-तत्-संस्कार-परंपरयाध्यासोपपत्तिर् इति भावः ॥१५॥
[अत्र एकः श्लोको\ऽधिको\ऽतः क्रमभेदः ।]
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—भोः श्री-व्रजेन्द्र-नन्दन इदं तवोपलब्धं स्वरूपं बृहत् परंब्रह्मैव गोप-रामानन्द-रूपेणानुभूतत्त्वाद् इत्य् एव हेतुः । अवशिष्यमाणं यद्-ब्रह्म समस्त-द्वैतमात्रं जडं नेति नेतीति निरस्य सर्वावभासकतयावशिष्टं यत्-तद्-रूपेणान्ये\ऽप्य् अवयन्ति । न हि मायामय-मात्रं तुच्छीकृत्य केवल-ब्रह्म-निष्ठस्य भगवति परम-भक्त्या दत्त-भारेण तत्-प्रसादाद् अनुभूतं वस्तु मायिकं भवितुम् अर्हतीति भावः । यद् वा, एतत्-तव स्वरूपम् अस्माभिः श्रुतिभिर् ब्रह्म-शुद्ध-ब्रह्म-घन-रूपम् उपलब्धं शुद्धभाव गोप्यस् तु अवशेषतया जानन्तिअवनम्—अवः प्रेम तन्-मात्रस्य शेषतया ब्रह्मत्व-भगवत्वादि-ज्ञानं निरस्य सान्द्रानन्दैक-रस-घन-गोप-किशोरत्वेनैव जानन्तीत्य् अर्थः । नन्व् ईश्वरेण मया नन्द-पुत्र-रूपेण श्री-नारायणाख्येन वा सर्वासां गोपीनां सतत्त्व-ज्ञानं दास्यामि च तत्राह—एतद् एव बृहद्-ब्रह्म-स्वरूपाद्-भगवत्-स्वरूपाच्-चोत्कृष्टम् अवयन्ति अन्यश् चोपलब्धम् । मया ब्रह्मोपलब्धम् ता एतद् एवावयन्ति न ब्रह्म एतद् वा ब्रह्म-घनत्वेनेच्छतीति ईशः । अवशः कस्यापि वशो न भवति स ईशः सो\ऽपि इच्छति ईशो\ऽपि शुद्ध-गोप-रूपेण प्रेमास्पदत्वम् एव सदा दातुम् इच्छति ।
ननु ब्रह्मत्वे ईशत्वं न तद् अपेक्षयात्र परमानन्द-चमत्कारातिशयात् शुद्ध-स्वरूप-निष्ठानां शुद्ध-भावैक-परम-पुरुषार्थानां शुद्ध-निष्ठां भावे परेशेनापि प्रवर्तयितुम् अशक्यत्वादी-शस्यान् इष्टकारित्वाभावेन तस्याति-प्रियत्वेन च तत्-परिपन्थित्वाभावात् । अवशः सन्-निच्छति अव-शेषः शुद्ध-गोप-किशोरे महा—प्रेम-पारवश्ये न ब्रह्मत्वे सत्त्वादि-ज्ञानानां प्रसङ्ग-नैवानुपपत्तेर् इति भावः । प्रीतेर् एव शेषतयेति वा । सर्वतः परम-पूरुषार्थो ब्रह्म-स्वरूपावस्थिति-रूपा मुक्तिस् तस्याम् अप्य् आनन्द-चमत्कार-विशेषाभावेन निरस्तायां भगवद् एकान्त-भक्तिर् आनन्द-चमत्कारवती पूरुषार्थत्वेन धृता तस्याम् अपि सर्वात्मिब्रह्मत्व-भगवत्त्व-ज्ञानेन मिश्रितायां निर्भर-रति-रूपत्वाभावेन ममता-कोण्ठ्यम् न सम्भ्रमास्पदत्वेन च—परमानन्दसाम्राज्य-सम्पदतिनिरङ्कुशत्वाभावात् । तानप्य् अपास्य शुद्धा रतिर् एव गोपालाहं भाव-पर-भगवद्-विषयिणी गृहीता भवति सैव शिष्यते । अतो भगवत्-कृपया विचार—तीक्ष्णतया च शुद्ध-निष्ठा सैवान्यथा भवतीति । यतो यस्याः शुद्धरतेर् हेतोः केषाञ्चिन्-महा—भाग-शिरोमणीनां तद् अभिलाषकाणां विविधायाः कृतेर् यत्नस्योदयास् तमयौ भवतः । एकं यत्नं त्यक्त्वा अन्यं कुर्वन्ति अन्यं च त्यक्त्वा अपरं कुर्वन्ति अत्युत्कण्ठया नाना-विधयत्नेषु प्रवर्तन्ते इत्य् अर्थः । धारावाहिकतया विशिष्टाकृतिर् भवतीति वार्थः
यद् वा, यतो विशुद्धरतेर् हेतुत एव विशिष्टाकृतिमतः साधकस्य उदयास्तमयौ भवतो\ऽपरिपक्वावस्थायां यदैव सा रति-रुदेति तदैवोत्कृष्टो\ऽयः शुभावहो विधिर्भवति सर्वत्र सुखीभवतीत्य् अर्थः । यदा च सा रतिः सम्यक् नोदेति तदैवास्तमय-विनाश इव भवतीत्य् अर्थः । यत्र सत्यां विविधायाः कृतेर् उदयो\ऽस्तमयश् च कासाञ्चित् शुद्ध-भावानुबन्धि-व्यापृतीनाममूदयः लौकिक-वैदिक-कृतीनाञ् च शुद्ध-भाव-विरोधिनीनाम् अस्तमय इति वार्थः । यतश् च विशुद्ध-भावाद् अविकृताद् एक-रसतया निरङ्कुशं प्रवर्तमानात् कर्म-ज्ञानादि-प्रसङ्ग-मात्रस्य पुरुषार्थान्तरस्य च मृन्मार्दनमिव भवति । सर्व-मन्यत् मृत्-तुल्यम् अति-तुच्छं भवतीति वार्थः । अतो यस्मात्त्वं विशुद्ध-गोपाल-रूपो विशुद्ध-भाव-विषयस् तस्मात् त्वयेव केवल-व्रज-राज-कुमाराहंभाववति ऋषयो विशुद्ध-रसमय-गोपाल-रूपं समस्त-भगवत्-स्वरूपोत्तमम् ब्रह्मानन्द-भगवद् आनन्द-मन्दीकरण-महानन्द-सन्दोह-चमत्कार-निकराकरं जानन्तो मनो-वचनाचरितानि दधुः न च ब्रह्मत्वं भगवत्त्वं वा विस्मृत्य शुद्ध-गोपाल-रूपे शुद्ध-भावे मनआदि-वृत्तिकारणे\ऽपि अग्रे तज्-ज्ञानं भविष्यत्य् एवेति । यतो भुवि स्थाने दत्तानि पदानि कथम् अन्यथा भवन्ति अदत्तानि भवन्तीत्य् अर्थः । नहि शुद्ध-गोपाल-रूपे भगवति ब्रह्मत्व-भगवत्त्वानुसन्धान-रहिते\ऽपि निरावरण-पूर्वक-परमानन्द-महा—साम्राज्य-सार-मूर्तौ भासमाने विशुद्ध-भावो\ऽन्यथा भवतीति भावः ।
नित्य-गोपी-प्रबोधनम् इत्थम्—एतद् अस्माभिः श्री-राधिकैकान्त-सख्य-रस-समृद्धाभिर् उपलब्धम् अनुभृतम् । तव तया सह वृन्दावन-नव-निकुञ्ज-केलि-जातं बृहत् महत् सकल-महा—रसाम्भोधिसार-स्वर्वस्व-भूतम् इत्य् अर्थः । यतो यस्यावशेषतयोच्छिष्ट-रूपेण त्यक्तासार-भागेन रूपेण विकृतेर् विविधाकृतिर् लीला यया सा शैशवाद्यवस्थास्या आविर्भावतिरोभावौ कस्याश्चित्-तिरोभावः कस्याश्चिद् आविर्भावस् तं जानन्ति मादृश्यः ।
किञ् च यस्मात् आ ईषद् अपि विकृताद्-विच्छिन्नाद् अस्माकं मृत् मरणमिव भवति । अतआ सर्वात्म-भावेनास्मद्विधा ऋषयस्त्वद्-विलास-रसानुभविन्यः ऋची गतौ तुदादिकः त्वय् एव मनो-वाक्कायश् चेष्टा दधुः । वृन्दावन-निकुञ्जे तव राधया सह विहरतो यद् अस्माकं रसानुभवनं तद्-वृन्दावन-महिम्नैवेत्य् आह—अस्माकं वार्ता निष्ठतु नृणां प्राणि-मात्रस्य भूवि भवत्यत्रैव त्वद्-विषय-विशुद्ध-महा—भावोदय इति तादृश-स्थाने श्री-वृन्दावनाख्ये दत्तान्यारोपितानि पदानि कथम् अयथा अन्यथा भवन्ति विशुद्ध-महा—भावो भवत्येवेत्य् अर्थः ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : भोः श्रुतयः ! कथम् एवं भ्राम्यथ ? ब्रह्मैव तत् तथा-विधम्, नाहम् इत्य् आह—बृहद् उपलब्धम् इत्य् आदि । एतत् तवोपलब्धम् अनुभूतं परम् ऐश्वर्यं बृहद् ब्रह्म, इतः परं नान्यद् ब्रह्म इत्य् अवयन्ति जानन्ति सुधिय इत्य् अर्थः । अवशेषतया अवशिष्यमाणतया, यतो बृहद् इति उक्तिः, अतो मुनयस् त्वय्य् एव मनो-वचनाचरितं दधुः ॥१५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो वयम् ऋषयः, यत इति पञ्चम्य् अन्तत्वे\ऽपि मृदीति दृष्टान्ते सप्तम्य् अन्तत्वम् अर्थ-मात्रापेक्षया, मनोवचनाचरितं तच्-छ्रुतीनां तद्-वत्-कृत्येनात्मन एव वा, अन्यत्-तैर् व्याख्यातम् । यद् वा, ननु इन्द्रादीनाम् अपि माहात्म्य-वर्णनादिना तान् अपि वेदो\ऽनुचरेद् एव, तत्राहुः—बृहद् इति । तेषां तदीयत्वेन तद्-वर्णन एव पर्य्यवस्येद् इति भावः । शेषं समानम् । अथवैतत् मद्-विधैर् उपालब्धं त्वद् अनुचरण-लक्षणं बृहत् महद्-वन्तु जानन्ति मद्-विधा इति । तस्य दौर्लभ्यं सूचयन्त्यो माहात्म्य-विशेषम् आहुः—अवशेषतया अनश्वरतया हेतुना, अकृताद् एव यतो यस्मात् त्वद् अनुचरणात् त्वद्-भजनात् सकाशाद्-विकृतेः प्रपञ्चस्यास् तमयौ भवतः, विधिहरौ त्वद्-भजनेनैव सृष्टि-प्रलय-समर्थावित्य् अर्थः । यथा मृदि विकृतेर् घटादेर् उदयास्तमयाव् इति दृष्टान्तेन विधि-हरयोस् त्व् अत्र यत्-किञ्चिन्-निमित्त-मात्रत्वम्, भजन-कृत-सामर्थ्यम् एव मुख्यो हेतुः । यद् वा, यतो भजनाद्-विकृतेः सञ्चारि-सात्त्विक-भावादेर् निर्वेदौत्सुक्यादि-कम्प-पुलकादि-रूप-विकारस्योत्पत्तिलयौ मृद इव नवस्य पुराणस्य च बीजादेर् उत्पत्ति-प्रलयौ, अतस् त्वत्-पूजन-माहात्म्य-चमत्कारादृषयस्ते मनो वचनाचरितम्, द्वन्द्वैक्यम्, मनो वाक्-कर्माणि त्वय्य् एव दधुर् अर्पयामासुः । न च कथञ्चित् कदाचित्-तत्र वैफल्यं स्याद् इत्य् आहुः—भुवि सर्वार्पणयोग्स्थाने त्वयि नृणां नृभिर् जीवैर् दत्तान्य् अपि तानि पदानि वस्तूनि व्यवसाया वा कथम-यथा [कथम-यथा [च] ।] व्यर्थानि भवन्ति, अत एव दधुः ॥१५॥
[ननु कीदृशं तद्-वृन्दावनम्, यत्र मे सदा विहारः ? इत्य् अत आहुः—बृहद् इति । उपलब्धं दृष्टम्, एतद्-वृन्दावनादिकं बृहद्-ब्रह्मैव अवयन्ति अनुभवन्ति महा—भागवताः । कथम् ? अवशेषतया प्रलये\ऽप्य् अवश्यशिष्यमाणत्वेन, यतो वृन्दावनाद्-विकृतेर् विकृतिवत् प्रतीयमानस्य पुष्प-फलादेर् उदयास्तमयौ प्रादुर्भाव—तिरोभावौ । नन्व् आयातं तर्हि विकारित्वम्, तत्राहुः—अविकृतात् पुष्पादेर् हेतुत्वे\ऽपि विकारशून्यात् । प्राकृतो\ऽपि हि कल्प-तरुः स्वर्ण-रत्नादि-कुलं प्रसुवन्न् अप्य् अविकारी दृश्यते, किम् उत चिद्-रूपं श्री-वृन्दावनम् । तच् च स्वर्ण-रत्नादि-कुलं सत्यम् एव, तथापि विकार-शून्याद् एवास्मात् प्रादुर्भवत् पुष्पादिकं सद् एव, किन्तु प्रादुर्भाव-तिरोभावाभ्यां विकृतिवत् प्रतीयत इत्य् अर्थः । मृदि वा, वा-शब्दश्चार्थे, वृन्दावनादि-मृत्तिकायां च विकृतेस् त्वणादि-रूपाया उदयास्तमयौ अविकृताद् इति लिङ्गादि-विपरिणामेन मृदीत्यस्य च विशेषणं ज्ञेयम् । तथा च तापनी श्रुतिः भूगोल-चक्रे सप्त पुर्या भवन्ति, तासां मध्ये साक्षाद्-ब्रह्म-गोपाल-पुरी हीति । यथा वै सरसि पद्मं तिष्ठति, तथा भूम्यां हि तिष्ठति । [गो। भा। उ। २९] इति ।
किञ् च वृन्दावनस्य कृष्णवनत्वेन श्रुत्या प्रतिपादितत्वात् कृष्ण-वनं नित्यानन्द-वनम् इत्य् अर्थः । यतस् त्वद्-विलासाधारस्य वृन्दावनादिकस्यापि ईदृशं माहात्म्यम्, अत ऋषयो नारदादयः, मनश् च वचनं च, आचरितं च दैहिक-चेष्टा, तत्त्वय्य् एव दधुः, न तु क्वचिद् अन्यत्र । ननु तर्हि मदवताराः किम् उपास्या न स्युः ? तत्राहुः—कथम् इति । भुवि दत्त-पदानि यथा खर्परपाषाणादि-भू-परिणामं न व्यभिचरन्ति, तथा त्वद्-भजनम् एव तवावतार-भजनाय क्वचित्-त्वद् अवतार-भजनं च त्वद्-भजनाय स्यादित्य् अर्थः । तव सर्वावताराविर्भाव-पदत्वात् । यद् वा, ऋषयो\ऽत्र ऋक्स्व-रूपा मद्-विधा गोप्यः, शेषं पूर्ववत् । यद् वा, त्वयि तु अयि इति पद-द्वयम्, अयि भगवन् ! ऋषयस् तु वेद-तात्पर्याभिज्ञाः अतो\ऽत्र वृन्दावने, सार्व-विभक्तिकस् तसिः, मनोवचनाचरितं दधुः, मनो दधुर् ध्यानेन, वचनं दधुः स्तवादिना, आचरितं दैहिक-चेष्टां दधुः, सर्वतः पर्यटनादिना । ननु वृन्दावनादिकं ब्रह्मेत्य् उक्तं ब्रह्म-प्र-विष्टानामावृत्तिर्न श्रूयते, वृन्दावन-प्रविष्टानां तु ततो निष्क्रान्तिर् विषय-भोगश् च दृश्यते, तत् कथं तद्-धटताम् इत्य् अत आहुः—कथम् इति । भुवि वृन्दावन-भूमौ न्यस्तानि पदानि कथं व्यर्थानि भवन्ति ? अतस्ते\ऽपि सर्वान् अर्थक्षयेण त्वत्-पदाब्जम् एव प्राप्नुयुर् इति भावः ॥१५॥]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बृहद् इत्य् आदि-टीकायां यातो जङ्गमस्येति या प्रापणे इत्य् अस्य शतृ-प्रत्ययात् अवसितस्येति अवपूर्वस्य षिञ् बन्धने इत्य् अस्य क्त-प्रत्ययात् रूपम् अग्निर् मूर्धा दिवः [ऋ।वे। १.५९.२] इति यो\ऽयम् अहन्याद् इत्य् आत्मना द्यु-लोकस्य मूर्धा भवतीत्य् अर्थः । वाचारम्भणम् इति वाचारम्भणं वाग् आलम्बनम् इति यावत् । तत्-सर्वं नामधेयम् एव केवलम् । ननु विकारो नाम वस्त्व् इति परमार्थतो मृत्तिकेत्य् एव सत्यम् वस्त्व् इति परम-कारण-ब्रह्म-मात्र-सत्यत्वं बोधयति । सर्वं खल्व् इदं ब्रह्मेति तज्-जलान् इति शान्त उपासीतेति श्रुति-शेषः । कथं सर्वस्यैव ब्रह्मत्वं तत्राह—तज्-जलान् इति तस्माज्-जातं तज्-जं तस्मिन् लीयते तल्लं तस्मिन्न् एव अनिति तिष्ठति तदन् इति तद्व्य् अतिरेकेण व्यतिरेकाद् इति भावः । यस्मात् सर्वम् इदं ब्रह्म तस्माच्-छान्तः सन् वक्ष्यमाणैस् तद्-गुणैर् एवोपासीतेत्य् अर्थः । अथ स्वव्याख्या । तद् एवम् अस्वरूप-गुण-निरसन-पूर्वक-साक्षात्-स्वरूप-गुणनिर् देशेनान्य-श्रुति-श्रव्य-पक्षपात-शून्यासु श्रुतिषु स्तुवतीषु तत्-तत्-पक्षपातिन्यः काश्चिद् अन्यास् तद् अविवेकेन तन्-निर्देशिकाः श्रुतयः सलज्जा इव स्वेषां स्वापेक्षणीयानां च तत्रैव लक्षणामयम् अपि चरणं साक्षाद् एव घटयितुं स्तुवन्ति-बृहद् इति । उपलक्षकं दृष्टान्तम् इदं यत्-किञ्चिद् एतज्-जगत्-सर्वं बृहद्-ब्रह्म-स्वरूपस् त्वम् एवेत्य् अर्थः । तद्-व्यतिरिक्तस्याप्स्तित्वे बृहत्त्वहानेर् इति भावः ।
ननु बृहज्-जगतोर् वैलक्षण्यं महद् एव सत्यं तथाप्य् एवं घटेतेत्य् आहुः—अवशेषतया प्रलये तस्यैवावशिष्यमाणत्वेन तद् अनतिरिक्तत्व-प्राप्तेः । तत्र दृष्टान्तः । विकृतेर् घटादेः कारणं मृदेवेति । ननु घटादेर् उत्पत्त्य् आदिकं मृदो दृश्यते न तु जगतो बृहतः, तत्राहुः—बृहतः सकाशात्, उदयास्तमयौ जगतो वदन्ति श्रुति-विशेषाः । कथम्, तर्हि तस्या इव तस्यापि विकारित्वं न हि न हीत्य् आहुः—अविकृताद्-विकार-शून्याद् एव तस्मात् तौ वदन्ति । श्रुतेस्तु शब्द-मूलत्वाद् इति न्यायेन चिन्तामण्यादि-दृष्टान्तेन च श्रुतिभिस् तथैवाचिन्त्य-शक्तितया तत्-प्रतिपादनाद् इति भावः । विवक्षितम् आहुः—अत इति । अस्माद् एव हेतोर् ऋषयो वेदाः केचिद् अस्मद् अनुवर्तिनस् तज्-जगद् एक-देशस् तावकैवापि तथास्मद्-विधास् तच्-छुद्ध-स्वरूप-गुणाविवेकिन इवापि त्वय्य् एव बृहति मनोवचनाचरितं तात्पर्याभिधा-रूपं धृतवन्तः । तत्र तात्पर्यं सर्व-स्य कार्यस्य कारण-पर्यवसायित्वे स्थिते तन्-निर्देशस्यापि तत्-पर्यवसानात् । अभिधा च परम-कारणं त्वां विना तेषाम् अत्यन्ताभावाद् इति भावः । तद् एव स्पष्टयितुम् अर्थान्तरन्यासम् आहुः—कथम् इति । पदानि पदार्था घटादि-वस्तूनि तस्मात्-त्वाम् एकम् उद्दिश्य प्रवृत्तास्वस्मास्वज्ञानाम् एवान्यचारित्वं भाति न तु विज्ञानम् इति भावः । अत्र मुख्याः श्रुतयः सर्वं खल्व् इदं ब्रह्मेत्य् आदिकाः । अथ तत्-पक्षस्था इन्द्रो यतो\ऽवसितस्य राजा [ऋ।वे। १.३८.१५] । इत्य् आदिकास्तास्व् एव दृष्टान्त-दर्शिकाः, वाचारम्भणं विकारः इत्य् आदिकाः, अत्रेति-शब्देन सर्वम् एव वाक्यं परामृश्यते न तु मृत्तिकैव तस्यैव मुख्यत्वात् । विनापीति विवक्षितार्थ-सिद्धेः । तस्माद्-वाचारभ्यते प्राकृतेन्द्रियैर् यत्-किञ्चिद्-धटादिकं व्यवहारास् पदीक्रियते तत्-सर्वं विकार-सञ्ज्ञं मृत्तिका तद् अनन्य-भूतम् इत्य् अर्थः । इत्य् एव सत्यं न तु गौतममतादिवत्ततोभिन्नम् इत्य् अर्थः । तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे।सू। २.१.१४] इति न्यायात् ॥१५॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ११४) : अथ विशेषतो ब्रह्मण्य् अपि, यथा चरन्ति ब्रह्मणि चरन्तीनाम् अपि यथा भगवत्य् एव पर्यवसानं, तथैवोद्दिशन्ति—बृहद् उपलब्धम् इति ।
एतत् सर्वं बृहद् ब्रह्मैव उपलब्धम् अवगतम् । तत् कथम् ? विकृतेर् विश्वस्य38 सकाशाद् अवशिष्यमाणत्वेन । किम् इव ? मृद् इव । यथा विकृतेर् घटादेः सकाशाद् अवशिष्यमाणत्वेन सर्वं घटादि-द्रव्यं मृद् एवोपलब्धा दृष्टा, तथा बृहद् अपीत्य् अर्थः । तत्र हेतुः—यतो बृहतः सकाशाद् विकृतेर् उदयास्त-मयौ अवयन्ति मन्यन्ते श्रुतयः, यतो वा इमानि [तै।उ। ३.१.१] इत्य् आद्याः । तस्मान् मृत्-साम्यं तस्य युज्यत इति भावः
तर्हि कथं तद्-विकारि त्वम् अपि न ? इत्य् आहुः—अविकृतात्, श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायेनाचिन्त्य-शक्त्या तथाप्य् अविकृतम् एव यत्, तस्माद् इत्य् अर्थः । यद्यप्य् अत्रापि स-शक्तिकम् एव बृहद् उपपद्यते, तथाप्य् आविष्कृत-भगवत्त्वेनानुपादानात् ब्रह्मैवोपपादितं भवति, सर्वथा शक्ति-परित्यागे तद् उपपादानासामर्थ्यात् तुच्छत्वापाताच् च । तस्माद् अत्र ब्रह्मैवोदाहृतम् । अत एव मृन्-मात्र-दृष्टान्तेन कर्तृत्वादिकम् अपि तत्र नोपस्थापितम् ।
तद् एतद् ब्रह्म-प्रतिपादनम् अपि श्री-भगवत्य् एव पर्यवस्यतीत्य् आहुः—अत इति । अतो ब्रह्म-प्रतिपादनाद् अपि ऋषयो वेदास् त्वयि श्री-भगवत्य् एव मनस आचरितं तात्पर्यं, वचनस्याचरितम् अभिधानं च दधुर् धृतवन्तः । द्वयोर् एक-वस्तुत्वाद् भगादीनाम् आविष्कारानाविष्कार-दर्शन-मात्रेण भेद-कल्पनाच् च तत्रार्थान्तर-न्यासः ।
नॄणां भू-चराणां सम्यग्-दर्शिनाम् असम्यग्-दर्शिनां वा भुवि दत्तानि निक्षिप्तानि पदानि कथम् अयथा भवन्ति ? भुवं न प्राप्नुवन्ति, अपि तु तत्रैव पर्यवस्यन्ति । तस्माद् यथा कथम् अपि प्रतिपादयन्तु, फलितं तु त्वय्य् एव भवतीति भावः । तद् उक्तं—
ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः ।
द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥ [भा।पु। ३.३२.३२] इति ।
अत्र श्रुतयश् मध्व-भाष्य-प्रमाणिताः—हन्त तम् एव पुरुषं सर्वाणि नामान्य् अभिवदन्ति । यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम् अभिविशन्ति, एवम् एवैतानि नामानि सर्वाणि पुरुषम् अभिविशन्ति इति ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तत्र केवल-ब्रह्म-निर्देश-परा अपि श्रुतयः स्व-तात्पर्यं श्री-भगवत्य् एवं निर्दिशन्ति—बृहद् इति ॥१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भोः श्रुतयः ! वसुदेव-पुत्रोऽहं, कुत एवं माम् असदृशं स्तुथ ? इत्य् आहुः—बृहद् उपलब्धम् एतद् इत्य् आदि । एतत् तवोपलब्धम् अनुभूतम् ऐश्वर्यम् इति यावत् । ब्रह्म तवैश्वर्यम् एव ब्रह्म, अतो ब्रह्म वैभवत्वात् त्वं ब्रह्मैव, न तावद् वसुदेव-सुतत्वेन यादव एवेत्य् अवयन्ति, जानन्ति मनीषिण इत्य् अर्थः । किं रूपेण जानन्ति ? अवेशेषतया अवैशिष्यमाणत्वेन, इदं वैभवं तव सार्वकालिकं सदैक-रूपत्वात् । यतो वैभवाद् विकृतेर् उदयास्त-मयौ ब्रह्माण्ड-मण्डलानाम् उत्पत्ति-प्रलयौ । कीदृशात् ? अविकृतात् सदैकरूपात्
तत्र दर्शनः—मृदि वा मृद इव, पञ्चम्य् अर्थे सप्तमी, वा इवार्थः । यद् वा, मृदोर् विकृतेर् मृद् इव—मृत्तिकेव सत्यं [छा।उ। ६.१.४] इत्य् उक्तेः ।
अत्र न केवलम् अस्माकम् एव वचनम् एव प्रमाणं, ब्रह्मादि-व्यवहारोऽपि प्रमाणम् अत्रेत्य् आहुः—अत ऋषय इत्य् आदि । ऋषयो ब्रह्माद्यास् त्वयि श्री-कृष्णे मनश् च वचनं चाचरितं प्रह्वणादि दधुः, त्वद् अतिरिक्तम् अदृष्ट्वा त्वय्य् एव सर्वतो-भावेन भक्ता इत्य् अर्थः ।
ननु तर्हि कथम् एवम् अहं नृ-लोके नृ-लोकवद् आचरन् स्याम् इत्य् आशङ्क्याहुर् अर्थान्तर-न्यासेन कथम् इत्य् आदि । नॄणां मध्ये भुवि दत्त-पदानि कृत-व्यवसायानि वस्तूनि अयथा भवन्ति, स्वभावं त्यजन्ति, बहु-मानाद् बहु-वचनम् । भुवो भाग्याद् भक्तानुकम्पनाच् च भुवि क्रीडसि, तेन ते कृपा-विशेष एव, न तु ते महिम-हानिर् इत्य् अर्थः ॥१५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु च यूयं न केवलं माम् एव परमेश्वरं ब्रूध्वे, अपि तु इन्द्रो यातोऽवसितस्य राजा [ऋ।वे। १.३२.१५] इति यातो जङ्गमस्यावसितस्य स्थावरस्य च इन्द्र एव राजेन्द्रम् अपि, अग्निर् मूर्धा दिवः [ऋ।वे। १.५९.२] इत्य् अग्निम् अपीति चेत् सत्यं जगत्-कारणस्यैव पश्यत्व-नियमनाद् इन्द्रादीनां च जगत्-कारणत्वादर्शनात् त्वम् एव सर्व-जगत्-कारणं परमेश्वर इन्द्रादयस् त्वद्-दत्त-यत्-किञ्चिद् ऐश्वर्या एवेत्य् आहुः—बृहद् इति
एतद् उपलब्धं श्रोत्र-नेत्रादिभिर् अवगतम् इन्द्रादिकं सर्वं बृहद् ब्रह्मैव अवयन्ति जानन्ति । कुतः ? अवशेषतया ब्रह्मणस् तवैवावशिष्यमाणत्वेनेत्य् अर्थः ।
अत्र दृष्टान्तः । वा-शब्द उपमार्थः । विकृतेर् घटादेर् यथा मृदि उदयास्त-मयौ, तथैव यतस् त्वत्त एवोपादान-कारणाद् अस्य विश्वस्य उदयास्त-मयौ भवतः । तर्हि मम विकारित्वम् आयातम् ? न, अविकृतात् विकार-शून्यात् । एतद् अद्भुतम् एव यत् तवोपाधानत्वेऽपि विकाराभावः, यद् उक्तं गजेन्द्रेण—
नमो नमस् तेऽखिल-कारणाय
निष्कारणायाद्भुत-कारणाय । [भा।पु। ८.३.१५] इति ।
व्याख्यास्यते च श्री-धर-स्वाम्भिः—उपादानत्वेनापि मृद् आदिवद् विकाराभाव इति । अत एवेदम् अविक्रियमाण एव सृजसि हरसि पासीति । देवैर् अप्य् उक्तं, वयम् अपि ब्रूमः । यद् वा, प्रकृतेस् त्वच्-छक्तित्वाभावात् तस्या जगद् उपादानत्वाद् एव, तव जगद् उपादानत्वं यद् उक्तं त्वयैव—
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९] इति ।
किन्तु तस्याविकारत्वेऽपि न ते विकारित्वं तस्यास् त्वत्-स्वरूप-शक्तित्वाभावात् । त्वत्-स्वरूपस्य मायातीतत्वेन सर्व-शास्त्र-प्रसिद्धिः । अतः कारणाद् ऋषयस् त्वय्य् एव मनो-वचनाचरितं ध्यान-कीर्तन-परिचर्यां दधुः । न तु पृथग्-विकारेष्व् इन्द्रादिष्व् इत्य् अर्थः ।
अत्र खल्व् अर्थान्तर-न्यासः—कथम् अयथेति । नृणां भू-तल-वर्तिनां पदानि यत्र कुत्रापि दत्तानि निक्षिप्तानि भुवि कथम् अयथा अदत्तानि भवन्ति ? अतो यथा मृत्-पाषाणेष्टकादिषु दत्तानि पदानि भुवं न व्यभिचरन्ति, तथैव यत् किम् अपि विकार-जातं वदन्तो वेदास् त्वाम् एव सर्व-कारणं परमेश्वरं प्रतिपादयन्तीत्य् अर्थः ।
अत्र वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यं [छा।उ। ६.१.४], सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य् आद्याः श्रुतयः । अत्र सत्य-शब्देन कारणम् एव व्याख्यातम् । यद् उक्तं भगवता—
यद् उपादाय पूर्वस् तु भावो विकुरुतेऽपरम् ।
आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते ॥ [भा।पु। ११.२४.१८] इति ।
ततश् चास्याः श्रुतेर् अयम् अर्थः—आरम्भणं विकारः कार्यं भवति । वाचा यस्य नामधेयं घटादिकं भवति । मृत्तिकेत्य् एव सत्यं कारणं भवतीति ॥१५॥
॥ १०.८७.१६ ॥
इति तव सूरयस् त्र्य् अधिपतेऽखिल-लोक-मल-
क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः ।
किम् उत पुनः स्व-धाम-विधूताशय-काल-गुणाः
परम भजन्ति ये पदम् अजस्र-सुखानुभवम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वम् एव सर्व-निगम-गोचर इति सतां प्रवृत्त्या द्रढयति—इति तवेति । त्वम् एव सर्व-कारणत्वेन परमार्थ इति कृत्वा—भोस् त्र्य् अधिपते ! त्रि-गुण-माया-मृगी-नर्तक ! सूरयो विवेकिनस् तवाखिल-लोक-मल-क्षपण-कथामृताब्धिं सकल-जन-वृजिन-निरसन-हेतुं कीर्ति-सुधा-सिन्धुम् अवगाह्य निषेव्य तपांसि तपन्तीति, तपांसि पापानि दुःखानि वा जहुस् त्यक्तवन्तः । त्वदीय-कथा-मात्रेण यदा पाप-त्यागः, तदा किमु39 वक्तव्यं, ये पुनः स्व-धाम-विधूताशय-काल-गुणाः स्व-धाम्ना स्वरूप-स्फुरणेनैव विधूतास् त्यक्ता आशय-गुणा अन्तः-करण-धर्मा रागादयः काल-गुणा जरादयश् च यैस् ते, तथा हे परम ! तवाजस्र**-सुखानुभवम्** अखण्डानन्दानुभवं पदं स्वरूपं भजन्ति सेवन्ते तथा-भूता दुःखानि त्यजन्तीति ।
तद् यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवं-विदि40 पापं कर्म न श्लिष्यते [छा।उ। ४.१४.३], न कर्मणा लिप्यते पापकेन [बृ।आ।उ। ४.४.२३], तत् सुकृत-दुष्कृते41 विधुनुते [कौषीतकि ४], एतं42 ह वाव न तपति, किम् अहं साधु नाकरवम्, किम् अहं पापम् अकरवं [तै।उ। २.९] इत्य् आदि-श्रुतेर् इत्य् अर्थः ।
सकल-वेद-गणेरित-सद्-गुणस्
त्वम् इति सर्व-मनीषि-जना रताः ।
त्वयि सुभद्र-गुण-श्रवणादिभिस्
तव पद-स्मरणेन गत-क्लमाः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्वम् एव सर्व-वेद-प्रतिपाद्य इति । तद्-यथा दर्शयति । अत्र श्रुतिः शृणु तस्य ब्रह्मणो माहात्म्यम् । इत्य् उपकोशलं प्रति जाबालस्य वचनम् । यथा पुष्कर-पलाश इति । यथा पुष्कर-पलाशे पद्मपत्रे आपो जलानि न श्लिष्यन्ति न लगन्ति एवम् एवंविदि यथोक्त-ब्रह्म-विदि पापं कर्म न श्लिष्यते । तन्-महिमानम् आह—पापेन धर्माधर् **मल-क्षणेन कर्मणा न लिप्यते सम्बध्यते संसार-हेतुत्वादुभयम् एव पाप-पुण्ययोः परिपाकं ज्ञानेन परित्यजतीत्य् अर्थः । ह-वाव-शब्दाववधारणे । आसन्न-मरण-काले\ऽविदुषां नरक-पातादिभयं भवति तद्-भयम् एनं न तपते नोद्वेजयति । किं तद्-भयं तद् आह—किं कस्मात्-साधु शोभनं कर्म अहं नाकरवं न कृतवानस्मि । किं कस्मात्-पापं निषिद्धं कर्माकरवम् इत्य् आदिभयम् एनं न तपतीति । भक्तिस् त्रिधा कर्ममयी ज्ञानमयी प्रेममयीति । ज्ञानमयीभक्ति-**परेयं श्रुतिः । स्मृतिश् च—
समस्त-तत्त्वान्तर-सङ्गतो\ऽपि सच्-चिन्मय-श्रेष्ठयिता विशुद्धः ।
षड् ऊर्मि-भावैर् गुणजैर् विकारैर् न भिद्यते वार्भिरिवाब्ज-पत्रम् ॥ इति स्वामिचरणाः ।
सकलेति । सकल-वेद-गणैरीरिता उक्ताः सद्गुणा यस्य स त्वम् इति हेतोर्हे सुभद्र ! सर्वे च ते मनीषिजना विवेकिनः रता अनुराग-युक्ता भवन्ति तवेति गुण-श्रवणादिभिः पद-स्मरणेनोभयत्र सम्बध्यते । क्लमो दुःखम् ।
श्रीधरानुयायिनी : त्वम् एव सर्व-वेद-गोचर इति सतां प्रवृत्तिं द्रढयति-इतीति । हे त्रि-गुण-माया-मृगी**-नर्तक सर्व-कारणत्वेन परमार्थ-सत्यस्य तव या सर्व-जीव-पाप-नाशिकामृत-समुद्रात्मक-कीर्ति-रूपा कथा तच्-छ्रवण-मात्रेणैव यदा सामान्य-विवेकिनां परोक्ष-**ज्ञानवतां सन्तापक-पाप-दुःख-हानिस् तदा त्वदीय-स्वरूप-स्फुरणेन हेतुना राग-द्वेषादिभिर् अन्तःकरण-धर्मैर्-जरा-मरणादिभिः काल-धर्मैश् च रहितानां त्वदीयाखण्डानन्दानुभववताम् अपरोक्ष-ज्ञानवताम् अनन्य-भक्तानां सर्व-पाप-दुःख-हानिर् इति किमाश् चर्यम् । यद् वा, पदं त्वच् चरणारविन्दं तद्-विशेषणम् अजस्र-सुखस्यानुभवो यस्माद् इति ।
नीलकण्ठी : ऋषयस् त्वयि मनो दधुर् इत्य् उक्तं तत्र मनः-प्रणिधानस्याविक्षेपेण सिद्ध्यर्थम् एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति [बृ।आ।उ। ४.४.२२], वेदान्तान् विधिवच्-छ्रुत्वा सन्न्यसेदनृणो द्विजः । इति श्रुति-स्मृति-प्रसिद्धं विविदिषा-संन्यासम् आह—इति तव सूरय इति । हे त्र्य् अधिपते इति । इत्थम् उक्त-प्रकारेण तव कथा वेदान्त-श्रवणं सैवामृत-साधनत्वाद्-दुरवगाहत्वाच्-चामृताब्धिस्तम् अवगाह्य उपक्रमादि-तात्पर्य-लिङ्गैः पर्यालोच्य सूरयः पण्डिता भूत्वा, तपांसि तपन्तीति तपांसि एषणा जहुस् त्यक्तवन्तः । तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः [बृ।आ।उ। ४.४.२१]। वेदनिमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेद् इत्य् आदिवचनेभ्यः हे त्र्यधिपते ! हे अखिल-लोक-मल-क्षपणेति सम्बोधन-द्वयेन त्रयाणाम् आश्रमाणां कर्म-फल-प्रदातृत्वेनाधिपतिः अत एवाखिल-लोकमल-क्षपणः ।
त्रयो धर्म-स्कन्धा यज्ञो\ऽध्ययनं दानम् इति । प्रथमस् तप एव द्वितीयो ब्रह्मचार्याचार्य-कुल-वासी तृतीयः, सर्व एते पुण्य-लोका भवन्ति ब्रह्म-संस्थो\ऽमृतत्वमेति ।
आश्रम-त्रयोचित-कर्मणा शुद्ध-सत्त्वः सम्पन्नात्म-विविदिषः संन्यासे\ऽधिक्रियते इति दर्शितम् । विविदिषवः संन्यस्यन्तीत्य् उक्त्वा विदुषां संन्यसनं कैमुतिक-न्याय-सिद्धम् इत्य् आह—किमुतेति । स्वधाम्ना स्वरूप-प्रकाशनेन विधुता रज्जु-भुजङ्ग-वद्-बाधिता आशयो हृदय-ग्रन्थिः । कालो मुत्युः । गुणाः सुख-दुःख-मोक्षात्मकाः सत्त्व-रजस् तमः-सञ्ज्ञास् तन्-मयी मूलविद्या च यैस्ते । तथा—
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
यदा सर्वे प्रम् उच्यन्ते कामा ये\ऽस्य हृदि स्थिताः ।
अथ मर्त्यो\ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥
इत्य् आदि श्रुतिभ्यः कृत-कृत्याः पुरुष-धौरेयाः याज्ञवल्क्यादयः । हे परम ! अजस्र-सुखानुभवम् अखण्डानन्द-संविद्-रूपं पदं पदनीयं तत्त्वं ये भजन्ति समाधिना ते संन्यस्यन्तीति किमु वक्तव्यम् । सो\ऽयं विद्वत्-संन्यासः ।
एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
इत्य् आदि श्रुति-सिद्धः । तत्र पूर्वार्धे साधनभूतो विविदिषा-संन्यासः उक्तः उत्तरार्धे फलभूतो विद्वत्-संन्यास इति विवेकः ॥१६॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—इति हेतोः यस्मात्-त्वम् एव विशुद्धोज्-ज्वल-रस-साम्राज्यमयम् ऊर्तिः सर्वोत्तमः सर्वानन्दातिशायि-परमानन्द-सन्दोहावर्षी ततः सूरयो ज्ञान-निष्ठाद्याः न तु विशुद्ध-महा—भावेन त्वद्-भजन-विचक्षणाः तव कथामृताब्धिं राधा-सहित-निकुञ्ज-विलास-कथाः परिपक्व-तद्भावैः प्रतिपदं सपुलकाश्रु-कम्पादि-विकार-चमत्कारं कथ्यमाना एवामृत-समुद्रास् तेषाम् अविच्छिन्न-प्रवाह—रूपेण तादृश-महाश्चर्य-मधुर-विलास-स्फूर्तेः कथाया निवृत्त्य् अभावात्-तम् अवगाह्य तपांसि तापान् जहुः कथा-श्रवणेन प्रेमाविर्भावाद्-बहिरङ्ग-साधनानि वा तत्-यजूः किमूत वक्तव्यम् ये तव पदं चरणारविन्दं भजन्ति राधा-सख्य् अभावाविष्टाः अजस्रं सुखानुभवो यत्र अन्यत्र कदाचित् सुख-विच्छेदो\ऽपि भवेत् । स्वधाम वृन्दावनम्—राधा वृन्दावने वने इत्य् उक्तत्त्वात् तत्र विधुतश् चन्द्रभावो महा—रसाम्भोधि-समुज्जृम्भणेनाशय आश्रयो यासां श्री-कृष्ण-चन्द्रमास् तं कालयन्ति वशीकुर्वन्ति गुणाः स्मरकेलि-वैदग्ध्याद्यास्तद्-रस-परिपोषक-कलावत्त्वादयश् च यासां तासां सुख-सम्पदः किं वक्तव्या इति भावः । हे परम विशुद्ध समस्त-प्रेममयावस्थोत्तरावस्थ ।
नित्य-गोपी-प्रबोधनन्तु—सूरयो महा—रसमय-केलि-कलातिपण्डिता यत्-कथामृताब्धिम् अवगाह्यैव विहरतापं जहुः किम् उत वक्तव्यं याः स्वधाम्नि वृन्दावने विधुता आशय-कालयोर् गुणा याभिर् गृहबान्धवादि-स्मरण-रहिता दिन-रात्रि-विभाग-ज्ञान-रहिता अपारे श्री-राधा-कृष्णतीव्रप्रणय-विलसित-रसमय-निभृत-सपर्यारसोदधौ मग्ना इत्य् अर्थः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं द्रढयति—इति तवेत्य् आदि । इति कृत्वा सूरयः पण्डिताः । हे त्र्य् अधिपते ! अखिल-लोक-मल-क्षपणास् त्वद्-भक्तास् तेषां कथामृताब्धिम् अवगाह्य तपांसि जहुः । त्वत्-कथाः शृण्वन्त एव सन्ति, एतावान् एव तत्रानन्दः, किम् उत हे परम ! ये अजस्र-सुखानुभवं तव पदं चरणारविन्दं भजन्ति, ते तत्रानन्दितवन्तो यद् भविष्यन्ति, तत् किम् उतेति भावः । स्व-धाम्नि स्व-शरीर एव विधूताशय-काल-गुणा अप्राकृत-शरीरा इत्य् अर्थः ॥१६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यतस् त्वम् ऋषीणां त्रि-विध-क्रिया-विषयः, इति हेतोः, त्र्य् अधिपते ! हे मनोवाक्-काय-कर्मेश्वर ! अखिल-शब्दस्य लोक-विशेषणत्वे\ऽधिकारापेक्षा निरस्ता । मल-विशेषणत्वे सवासनाशेष-पापस्य, पक्षान्तरे समूल-दुःखस्य क्षपणम् अभिप्रेतम् । अब्धि-रूपकं स्वरूप-मात्रापेक्षया, अवगाह्य स्पृष्ट्वेत्य् अर्थः, तल्-लेश-सम्पर्क-मात्रेणैव सर्व-दुःख-त्याग-सिद्धेः । यद् वा, समास्वाद्य तन्-महा—माधुर्येण तत्-त्यागाशक्त्या स्वभावतस् तद्-बाहुल्यस्यैव वा प्रवृत्तेः । पुनर् वाक्यालङ्कारे । अन्यत्-तैर् व्याख्यातम् । यतस् त्वद्-भजनम् एव सर्व-सारम् इति हेतोः स्व-स्व-धाम्मा त्वद्-भक्ति-प्रभावेण विधूताशय-काल-गुणाः तत्रापि पदं त्वत्-प्रिय-स्थानं श्री-मथुरा-मण्डलम् । किम्-भूतम् ? अजस्र-सुखस्यानुभवो यस्मात्-तद् अखण्ड-सुखानुभव-रूपं वा ये भजन्ति सेवन्ते, तेषां तपांसि जहुर् इति किं वक्तव्यम् इत्य् अर्थः । तथा हि पाद्मे—
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
क्षणम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ [पद्म।पु] इति ।
यद् वा, स्वधाम्ना भवदीय-मथुरामण्डलेन विधूताशय-काल-गुणा जीवन्-मुक्ताः, ते तपांसि जहुर् इति किं वक्तव्यम् । तथा च सौरपुराणे—
अस्तीह मथुरा नाम त्रिषु लोकेषु विश्रुता ।
पवनेन नरस् तस्या मुच्यते जन्म-बन्धनात् ॥ इति ।
यद् वा, पदं स्वरूपं घनश्यामोज्ज्वल-पूर्णानन्द-श्री-विग्रहम्, मूर्तामूर्तयोर् भवत्-स्वरूपयोर् मूर्तस्यैव सर्वथा श्रैष्ठ्यात् ॥१६॥
[इति निखिल-स्वरूपेभ्यस् तवोत्कर्षाद्धेतोः । यद् वा, यतस् तद्-वृन्दावनस्यापीदृशो महिमेति हेतोः । त्र्य् अधिपते ! त्रयाणां नृत्य-गीत-वाद्यानाम् अधिपते, हे क्वाप्य् अभूत-पूर्वतौर्यत्रिक-माधुर्य-वैचित्रीन् अवसृष्टि-कारक ! यद् वा, त्रयाणां त्रिविधानां मुनि-चरी-श्रुति-चरी-नित्य-प्रियाणां गोपी-कुलानां प्राण-नाथ ! देवीनाम् अनुक्तिर् नित्य-प्रियाणाम् अंशत्वात् [प्रियाणाम् ऐक्यात् [घ, ङ] ।] । अखिल-लोक-मल-क्षपण-कथामृताब्धिम्—अखिलानि तपोयोगोपासनादिभिर् अप्य् अप्रहतानि प्रहन्तुम् अशक्यानि यानि लोकानां मलानि दुष्प्रारब्धादीनि भक्ति-प्रतिबन्धकानि त्वद् अपराधादीनि वा, तेषां क्षपणी परम-चमत्कारि-तौर्यत्रिकशोभाभर-रास-लीलादि-कथा, सैवामृतं तस्याब्धिम्, अवगाह्य तत्र निमज्ज्य, सूरयो महा—भागवताः, तपांसि स्वधर्मान् ज्ञान-मार्गादि-गति-परिश्रमान् वा । हे परम ! सर्वोत्कृष्ट ! अजस्र-सुखानुभवं यथा स्यात्-तथा ये तव पदं पदारविन्दं सेवन्ते—पाद-सेवायाः सर्व-विध-भजनास्पदत्वात्, स्व-धाम्नां निज-प्रभावाणां विधुता चन्द्रता स्वतः परम-सुखत्वात्, तथा सर्वेषां सन्ताप-हरत्वाद् आह्लाद-जनकत्वाच् च [आह्लादनत्वाच् च [घ, ङ] ।], धाम्नां विधुत्वम्, तस्यां शेरते लीयन्ते\ऽपुनरावृत्तितया नश्यन्तीति स्वधाम-विधुताशयाः, तथा-भूताः काल-गुणाः येषाम् । तत्र कालो मृत्युः, गुणाः प्रकृति-गुणाः, ते तपांसि जहुर् इति किमुत वक्तव्यम् इति ॥१६॥]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इतीत्य् अस्य टीकायां श्रुति-व्याख्यां शृणु । तस्य मयोच्यमानस्य ब्रह्म-ज्ञानस्य माहात्म्यम् इत्य् उपकोशलं प्रति जाबालस्य वचनं तद्-यथेति पापकेन धर्माधर्मलक्षणेन संसार-हेतुत्वादुभयम् एव पापकं विदुष इति पूर्वं साधनान्तर-नैरपेक्ष्येणैव विरजां नदीं मनसैवात्यैतीत्य् उक्तम् । तत्राशङ्कते-ननु सुकृतम् अप्य् अस्ति साहाय्यम् अस्य विरजोत्तारे इत्य् अत आह—तत्-तत्र उपास्यात्म-साक्षात्-कारावसरे सुकृत-दुष्कृते विधुनुते तयोः परिपाकं ज्ञानेन त्यजतीत्य् अर्थः । स्व-व्याख्या तु अथ शुद्ध-लीला-तात्पर्यं तेन तत्रैव केवलं चरन्त्यः श्रुतयस् तद् एवम् आसां सर्वासां तत्रैव तात्पर्यं श्रुत्वा लब्ध-समयाः स्तुवन्ति-इतीति । हे त्र्य् अधिपते ! ऊर्ध्वाधोमध्य-वर्तमानानां सर्वेषाम् अधीश्वर ! यत एवं सर्वासाम् एव श्रुतीनां त्वाम् एव प्रतिपादयितुं तत्-तद्-विचार-प्रयास इति हेतोस् तं परित्यज्य सूरयो विवेकिनः अखिलमलस्य वासना-पर्यन्त-कर्म-दोषस्य निरसनीया कथा सैवामृताब्धिः अपार-परमानन्दः तव तम् अवगाह्याविश्य तपांसि सर्व-सांसारिक-दुःखानि जहुः । तद् एवं सति हे परम ! हे सर्वोत्कृष्ट । किम् उत वक्तव्यं ये पुनः स्वधाम-विधुताशय-काल-गुणा आत्मारामतया जीवन्-मुक्ता अपि अजस्र-सुखानुभवं प्रतिक्षणं सुखानुभवोल्लास-रूपपदं त्वच् चरणारविन्दं भजन्ति ते तम् अवगाह्य तानि जहुर् इति । अपि तु तत्-सुखेनात्मारामतासुखावेशम् अपि जहुरित्य् अर्थः । तद् एवं स्वाभाविक एवातिशयित एव च लीला-प्रतिपादितानां श्रुतीनां भगवत्-सम्बन्धो विवक्षितः । अन्यथा तत्-तन् न स्याद् इति । अत्र मुख्याः श्रुतयः नैवाभ्यसेद्-बहूञ् शब्दान्-वाचो विग्लापनं हि तत् । यस्य नाम महद्-यशः [श्वे।उप् ४.१९]। विष्णोर् नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि [ऋ।वे। १.१५४.१] इत्य् आदिकाः । किम् इति क इत्य् अर्थः । प्रवोचम् इत्य् अडागमाभावश् छान्दसः, प्रकर्षण वदेदित्य् अर्थः । अथ तत्-पक्षस्थाः यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश् च [नृ।ता।उप् ४.१०]। इत्य् आद्या ज्ञेयाः । नानाश्रुतीनां सर्वोत्तमत्वं च—
यस्यां न मे पावनम् अङ्ग कर्म
सृष्टि-स्थिति-प्राण-निरोधम् अस्य ।
लीलावतारेप्सित-जन्म वा स्याद्-
वन्ध्यां गिरं तां बिभृयान् न धीरः ॥ [भा।पु ११.१०.२०] इत्य् एकादशात् ।
सृष्ट्याद्य्-अर्थं कर्म, साक्षाद्-ईक्षणादि-लीलेत्य् अर्थः ॥१६॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ११५) : तद् एवं भगवत्त्वेन ब्रह्मत्वेन न त्वम् एव तात्पर्याभिधानाभ्यां सर्व-निगम-गोचर इत्य् उक्तम् । तच् च यथार्थम् एव न तु काल्पनिकम् इत्य् आहुः—इतीति ।
भोस् त्र्यधिपते ! त्रयाणां ब्रह्मादीनां पतिस् तत्-तद् अवतारी नारायणाख्यः पुरुषस् तस्याप्य् उपरिचर-स्वरूपत्वाद् अधिपतिर् भगवान् । ततो हे सर्वेश्वरेश्वर ! यस्मात् त्वय्य् एव वेदानां तात्पर्यम् अभिधानं च पर्यवसितम् इति, अतो हेतोर् एव सूरयो विवेकिनः परम्परा-त्वत्-प्रतिपादन-मयं वेद-भागम् अपि परित्यज्य केवलं तवाखिल-लोक-मल-क्षपण-कथामृताब्धिं सकल-लोक43-वृजिन-निरसन-हेतु-कीर्ति-सुधा-सिन्धुम् अवगाह्य श्रद्धया निषेव्य, तपः-प्राधान्येन तापकत्वेन वा तपांसि कर्माणि तानि जहुस् त्यक्तवन्तः । तेषां साधकानाम् अपि यदि तत्रैवं, तदा किम् उत वक्तव्यम् ? स्वधाम-विधुताशय-काल-गुणाः शुद्धात्म-स्वरूप-स्फुरणेन निर्जितम् अन्तःकरणं जरादि-हेतुः काल-प्रभावः सत्त्वादयो गुणाश् च यैस् ते, ये पुनः तवाजस्र-सुखानुभव-स्वरूपं पदं ब्रह्माख्यं तत्-त्वं भजन्ति, ते तम् अवगाह्य तानि जहुर् इति । किं तर्हि ब्रह्म-मात्रानुभ्व-निष्ठाम् अपि जहुर् इत्य् अर्थः ।
एतद् उक्तं भवति—अत्र तावत् त्रिविधा जनाः—मुग्धा विवेकिनः कृतार्थाश् चेति । तत्र सर्वान् एवाधिकृत्य वेदानाम् अकल्पनामयत्वेनैव भगवन्-निर्देशकता दृश्यते । तथा हि यदि तथात्वेनैव सा न दृश्येत, तदा वस्तुतस् तत्-सम्बन्धाभावाद् अखिल-लोक-मल-क्षपणत्वेन पद-पदार्थ-ज्ञान-हीनानां मुग्धानाम् अपि यत् पाप-हारित्वं वेदान्तर्-वर्तिन्या भगवत्-कथायाः प्रसिद्धं, तन् न स्यात्, अस्पृष्टानल-लोह-दाहकतावत् ।
किं च, तस्याः कल्पनामयत्वे सति विवेकिनस् तु न तत्र प्रवर्तेरन्, बन्ध्यायाः सुप्रजस्त्व-गुण-श्रवणवत् । प्रवर्तन्तां वा तद् आवेशेन स्व-धर्मं पुनर् न त्यजेयुः । राज-यशसो गङ्गात्व-श्रवणेन तीर्थान्तर-सेवनवत् ।
अपि च, तथा सति ये पुनर् आत्मारामत्वेन परम-कृतार्थास् ते तद् अनादरेण तत्-कथां नैवावगाहेरन् । अमृत-सरसीम् अवगाढा आरोपित-तद् अधिक-गुणक-नदीवत् । श्रूयते च तस्यास् तत्-तद्-गुणकत्वम् । यथा वैष्णवे—हन्ति कलुषं श्रोत्रं स यातो हरिः [वि।पु। ६.८.५७] इत्य् आदौ । अत्रैव, त्वद् अगवमी न वेत्ति [भा।पु। १०.८७.४०] इत्य् आदौ । प्रथमे, हरेर् गुणाक्षिप्त-मतिः [भा।पु। १.७.११] इत्य् आदौ । तस्माद् गुणानां गुणादि-प्रतिपादक-वेदानां च भगवता सम्बन्धः स्वाभाविक एव सर्व-थेति सिद्धम् ।
अत्र श्रुतयः—ॐ आस्य जानन्त [ऋ।वे। १.१५६.३] इत्य् आद्याः । यथा पुष्कर-पलाशम् आपो न श्लिष्यन्ति एवम् एवं-विदं पापं कर्म न श्लिष्यति [छा।उ। ४.१४.३],
न कर्मणा लिप्यते पापकेन [बृ।आ।उ। ४.४.२३]
तत्-सुकृत-दुष्कृते विधुनुते [कौषीतकि ४]।
एवं ह वाव न तपति किम् अहं
साधु करवं किम् अहं नाकरवम् ॥44 [तै।उ। २.९] । इत्य् आद्याः
मुक्ता ह्य् एनम् उपासत इत्य् आद्याश् च । एवम् अन्येऽपि श्लोका उपासनादि-वाक्यानां भगवत्-परता-दर्शका यथायथं योजयितव्या इत्य् अभिप्रेत्य नोद्धियन्ते ।
ननु तर्हि भवन्-मते शब्द-निर्देश्यत्वे प्राकृतत्वम् एव तत्रापतति । किं च, श्रुतिभिर् अपि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.९], अवचनेनैव प्रोवाच [], यद्-वाचानभ्युदितं येन वाग् अभ्युद्यते [केन।उ। १.४], यत् श्रोत्रं न शृणोति येन श्रोत्रम् इदं श्रुतम् [केन।उ। १.७] इत्य् आदौ शब्द-निर्देश्यत्वम् एव तस्य निषिध्यत इत्य् आशङ्कायाम् उच्यते—यथा साक्षान्45-निर्देश्यत्वे दोषस् तथा लक्ष्यत्वेऽपि कथं न स्यात् । उभयत्रापि शब्द-वृत्ति-विषयत्वेनाविशेषात्46 ।
किं च, न तस्य प्राकृतवत् साक्षान्-निर्देश्यत्वं, किन्त्व् अनिर्देश्यत्वेनैव तथा निर्देश्यत्वम् इति सिद्धान्त्यते ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ शुद्ध-लीला-तात्पर्येण श्री-भगवत्य् एव केवलं चरन्त्यः श्रुतयस् तद् एवम् आसां सर्वासां तद् एव तात्पर्यं श्रुत्वा लब्ध-समयाः स्तुवन्ति—इति तवेति ॥१६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थं पुनर् द्रढयन्त्य आहुः—इति तवेत्य् आदि । इति सर्वेश्वरत्वादि-महिमवत्त्वेऽपि भुवि कृताविर्भावतया परम-कृपालुत्व-हेतोः सूरयः परम-महानुभावा मुनयः, हे अधिपते ! त्रयाणां ब्रह्म-विष्णु-महेशानां पुरुषाणां गुणानां वा, गोकुल-मथुरा-द्वारकानां वा अधिपते ! सर्वेश्वरेश्वर तवाखिलमल-क्षपणायाः कथास् ता एवामृताब्धिस् तम् अवगाह्य तपांसि जहुः । त्वत्-कथां शृण्वन्त एव सन्ति, तत्-कृतानन्दीन तपःसु युगुसैव तेषां जायते, न तु तेषु पुनः प्रवृत्तिः । हे परम ! अजस्र-सुखानुभवं तव पदं चरणारविन्दं ये भजन्ति, ते पुनस् तत्र तपआदिषु यज्-जुगुप्सां करिष्यन्ति, तत् किम् उतेति भावः । कीदृशाः ? स्व-धाम्नि स्व-शरीरे विधूता आशयः कालो गुणा रज आदयश् च यैस् तेनैव शरीरेण प्राकृता इत्य् अर्थः ॥१६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्वेश्वरत्वात् तवैवोपास्यत्वम् इति सतां प्रवृत्त्या निश्चिन्वन्ति—इतीति । हे त्र्य् अधिपते ! ऊर्ध्वाधो-मध्य-वर्तिनां सर्वेषाम् अधीश्वर ! इत्य् अतो हेतोः सूरयो विवेकिनोऽखिल-लोक-मलस्य वासना-पर्यन्त-कर्म-दोषस्य निरसनी कथैवामृताब्धिस् तम् अवगाह्य तपांसि ज्ञानाङ्ग-तपः कृच्छ्राणि सांसारिक-सर्व-दुःखानि वा जहुर् इति साधका उक्ताः । किम् उत किं पुनर् वक्तव्यं, ये स्व-धाम्ना स्व-प्रब्रह्माइव विधूता विध्वस्ता आशय-गुणा अन्तः-करण-धर्मा रागादयः, काल-गुणा जरादयश् च यैस् ते सिद्ध-भक्ताः, हे परम ! ते पदम् अजस्र-सुखानुभवम् यथा स्यात् तथा भजन्ति । ते तपांसि जहतीति ।
अत्र विष्णोर् नु कं वीर्याणि प्रवोचं यं पार्थिवानि विममे रजांसि [ऋ।वे। १.१५४.१] इत्य् आद्या लीला-प्रतिपादिकाः । कम् इति क इत्य् अर्थः । प्रवोचम् प्रावोचद् इत्य् अर्थः ।
एको वशी सर्व-गः कृष्ण ईड्यः
एकोऽपि सन् बहुधा योऽवभाति ।
तं पीठगं येऽनुयजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [गो।ता।उ। १.१९]
इत्य् आद्या भजन-प्रतिपादिकाः श्रुतयः ॥१६॥
॥ १०.८७.१७ ॥
दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा
महद् अहम् आदयोऽण्डम् असृजन् यद् अनुग्रहतः ।
पुरुष-विधोऽन्वयोऽत्र चरमोऽन्न-मयादिषु यः
सद् असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये केचात्म-हनो जनाः ॥47 [ई।उ। ३]
तथा, न चेद् अवेदीन् महती विनष्टिः [के।उ। २.५],48 ये तद् विदुर् अमृतास् ते भवन्त्य् अथेतरे दुःखम् एवोपयन्ति [बृ।आ।उ। ४.४.१४]49 इत्य् आद्याः श्रुतयः । पूर्व-श्लोकोक्तोभय50-विध-भजन-हीनान् निन्दन्ति—दृतया इवेति । असु-भृतो नरा यदि तेऽनुविधा अनुविदधतीत्य् अनुविधा अनुवर्तिनो भक्ता इति यावत् । तर्हि श्वसन्ति जीवन्ति स-फल-जीवना भवन्ति । इतरथा दृतय इव भस्त्रा इव, वृथाश्वासा इत्य् अर्थः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल् लोकाद् अमृता भवन्ति ॥
इति पूर्ण-श्लोकः।
चेत् यदि नावेएदीद् ब्रह्म न ज्ञातवांस् तदा महती विनष्टिर् हानिः ।
दुष्परिहरा जन्म-मरणादि-रूपा संसृतिर् इत्य् अर्थः । तथा च
मुण्डकोपनिषत्---इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन्
महती विनष्टिः इति ॥ \[रा।ते।\]
ये तद् विदुर् अमृतास् ते भवन्त्य् अथेतरे दुःखम् एवापि यन्ति ॥
नन्व् अभक्तानाम् अपि कामादि-फलम् अस्त्य् एव । न कार्य-कारणानुग्राहकत्वेन जीवन-हेतोस् तवाभजने कृत-घ्नानां, तद् अपि न सिध्येद् इत्य् आशयेनाह—महद् अहम् आदय इति । महान् अहङ्कारश् चादिर् येषां ते यद् अनुग्रहतो यस्यानुप्रवेशेन लब्ध-सामर्थ्याः सन्तोऽण्डं देहं समष्टि-व्यष्टि-रूपं सृष्टवन्तः । तत्र च पञ्चापि कोशान् अन्न-मयादीन् आविश्य, तत्-तद् आकारः सन् यश् चेतयते, स त्वम् । तद् आह—पुरुष-विध इति । पुरुषस्यान्न-मयादेर् विधेव विधा आकारो यस्य स तथा ।
ननु चिद् एक-रसस्य कथं तत्-तद् आकारता ? अत आह—अन्वयोऽत्र इति । अत्र एष्व् अन्न-मयादिष्व्51 अन्वेतीत्य् अन्वयः । अतस् तत्-तद् आकारतेति ।
एवं तर्हि सत्यत्वम्52 असङ्गत्वं च क्अथम् ? तत्राह—चरमोऽन्न-मयादिषु य इति । अन्न-मयादिषु उपदिश्यमानेषु यश् चरमो ब्रह्म-पुच्छं प्रतिष्ठा [तै।उ। २.५.१] इति पुच्छत्वेनोक्तः, स त्वम् इति सम्बन्धः ।
ननु53 तथाप्य् अन्न-मयादिष्व् अन्वितत्वेऽसङ्गत्व-व्याहतिर् एव ? तत्राह—सद् असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् इति । सद् असतः स्थूल-सूक्ष्माद् अन्न-मयादेः परं54 व्यतिरिक्तं तत् साक्षि-भूतम् अवशेषम् अवशिष्यत इत्य् अवशेषम् अबाध्यम् । अथ अत एव ऋतं सत्यम् ।
तर्हि किम् अर्थं तेष्व् अन्वय उक्तः ? शाखा-चन्द्र-वच् छुद्ध-स्वरूप-लक्षणार्थम्55 । तथा हि, स वा एष पुरुषोऽन्न-रस-मयस् तस्येदम् एव शिरः [तै।उ। २.१] इत्य् आदिना स्थूल-सूक्ष्म-क्रमेण पञ्च-कोशान् उपदिश्य, तस्य पुरुष-विधताम् अन्वयं पुरुष-विधः [तै।उ। २.१] इति पुनः पुनस् तद् अन्वितत्वेनालक्ष्य, ब्रह्म-पुच्छं प्रतिष्ठा [तै।उ। २.५] इति सर्व-साक्षि-शुद्ध-स्वरूप-निरूपणम् इत्य् अनवद्यम् ।
नर-वपुः प्रतिपद्य यदि त्वयि
श्रवण-वर्णन-संस्मरणादिभिः ।
नर-हरे न भजन्ति नृणाम् इदं
दृतिवद् उच्छ्वसितं विफलं ततः ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उभय-विध-भजनं तद्-धीनान् श्रुतयो निन्दन्ति । तथा हि-जनकं याज्ञवल्क्यः । असुर्या इति । भगवद्-विमुखाः सर्वे एवासुराः ते हि श्री-मुखेनैवोक्ताः—
अशास्त्र-विहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कार-संयुक्ताः काम-राग-बलान्विताः ॥
कर्शयन्तः शरीरस्थं भूत-ग्रामम् अचेतसः ।
मां चैवान्तः-शरीरस्थं तान्-विद्ध्यासुरनिश् चयान् ॥ [गीता १७.५६] इति ।
आग्नेये\ऽपि—
द्वौ भूत-सर्गौ लोके\ऽस्मिन् दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ इति ।
असुर्या नाम लोकाः कर्म-फलानि अन्धेन तमसा परमात्माज्ञानेनावृताः ये के च आत्महनो भवद्-विमुखाः प्रेत्या मृत्वा तांल्-लोकान् अभिगच्छन्ति । अभक्त-निन्दापरेयं श्रुतिः । आदिनास्या अन्यासां च ग्रहणम् ।
इहैव सन्तो\ऽथ विद्मस् तद्-वयं
न चेदवेदीर् महती विनष्टिः ।
यत्-तद्-विदुर् अमृतास् ते भवन्त्य्
अपरे दुःखम् एव यन्ति ॥ [बृ।आ।उ ४.४.१४] इति।
वयम् इहैव सन्तस् तद्-विजानीमः त्वं चेद् यदि नावेदीः तत्-परमात्म-तत्-त्वं न विदितवान् तर्हि तव महती विनष्टिर् जन्म-मरणादि-रूपा महत्यनन्ता संसृतिः स्यात्कुतः । ये तद्-विदुस्ते\ऽमृता जन्म-मरणादि-दुःखाद्-विमुक्ताः परमानन्द-रूपा भवन्ति । इतरे\ऽज्ञाः दुःखम् एव यन्ति प्राप्नुवन्ति, इति । उपवेश-परेयं श्रुतिः । असून्-प्राणेन्द्रियादीन् बिभ्रतीत्य् असुभृतः । अनुविदधति अनुसरन्ति । इतरथा भक्त्य् अभावे । अत्यर्थ इति—धिक्तेषां धिक्तेषां येषां भक्तिर् न केशवे राजन्! इत्य् आदि-पुराणात्
श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः ।
न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥ [भा।पु २०.३०.१९] इति
सफलं जीवितं तेषां येषां भक्तिर् जनार्दने । इत्य् उक्तेर् इतरेषां वृथैवेति मुखत एवोक्तम् इति भावः । अत्राक्षिपति-नन्विति । कामादीहादिनार्थावाप्त्य् आदिग्रहः । नेत्य् आह—कार्यं देहादि कारणं महद् आदि तयोर् अनुग्राहकत्वेन निज-चिच्-छक्त्य् आवेश-प्रदानेन जीवन-हेतोः विस्व-सामर्थ्यदातुः—
देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद् अंश-विद्धाः प्रचरन्ति कर्मसु ।
नैवान्यदा लौहम् इवाप्रतप्तं
स्थानेषु तद् द्रष्ट्रपदेशम् एति ॥ [भा।पु ६.१६.२४] इत्य् उक्तेः ।
कृत-घ्नानां तत्-कृतम् उपकारम् अजानतां तद् अपि कामादि-सुखम् अपि तत्राण्डे तत्-तद् आकारः अन्नमयाद्य् आकारः तद् अन्नमयाद्य् आकारत्वं विधेव प्रकार इव । अत्र पुनर् आशङ्कते-नन्व् इति । अतो\ऽन्वयात् । एवं तर्हि तत्-तद् आकारत्वे । तत्राक्षेपे । पुनर् आशङ्कते-नन्व् इति । तथापि पुच्छत्वेनोक्ते\ऽपि तत्-साक्षिभूतम् अन्नमयादेः साक्षिभूतम् । अत एवाबाध्यत्वाद् एव । पुनर् आक्षिपति—तर्हीति । शाखाचन्द्रेति । यथा—द्वितीयायां चन्द्र-निरीक्षणार्थं बालं बोधयति प्रथमं वृक्षम् एव चन्द्रम् आह—यदा स वृक्षं पश्यति शुद्धम् एवम् अत्रापि तथा दर्शयति-स वा इत्य् आदिना ।
अथ पञ्च-विधा अन्नमयादिषु यथा तैत्तिरीयोपनिषदि तथात्र लिखामः—ब्रह्म-विद् आप्नोति-परम् । इत्य् अधिकृत्य् आम्नायान्ते प्रथम् अन्न-रसमय-**पुरुष-**विधाम् आह—
स वा एष पुरुषोऽन्न-रस-मयस् तस्येदम् एव शिरः । अयं दक्षिणः पक्षः अयम् उत्तरः पक्षः अयम् आत्मा इदं पुच्छं प्रतिष्ठा [तै।उ। २.१.३] इति । अस्यार्थः—अन्नाद्वै प्रजाः प्रजायन्ते । अन्नाद्वै पुरुषः सम्भूतः इत्य् आद्य् उक्तः अन्न-रस-विकारः । एष पुरुषो देहः । स वै अन्न-रसमयः अन्न-रस-विकारः तस्येदं प्रसिद्धं शिरः न तु प्राणमयादिष्व् इव कल्पनामयम् । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुर् दक्षिणः पक्षः । अयं वामो बाहुर् उत्तरः पक्षः । अयं देह-भाग आत्मा अङ्गानां मध्ये ह्येष आत्मा । इति श्रुतेः । इदं नाभेर् अधस् ताद्-यद् अङ्गं तत्-पुच्छम् इव पुच्छम् अधोलम्बन साम्यात् तद् एव प्रकर्षेण तिष्ठत्यस्याम् इति प्रतिष्ठाश्रयः । इति ।
अथ प्राणमयं पुरुषम् आह—तस्माद् वा एतस्माद् अन्न-रस-मयादन्यो\ऽन्तर आत्मा प्राणमयस् तेनैष पूर्णः । स वा एष पुरुष-विधस् तस्य पुरुष**-विधताम् अन्वयं पुरुष-**विधस् तस्य प्राणम् एव शिरः । व्यानो दक्षिणः पक्षः अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तस्यैष शारीर आत्मा । यः पूर्वस्य ॥ [तै। द्वितीयोऽनुवाक्] इति ।
अर्थः—तस्माद् अन्न-रस-मयात्-पुरुषाद् अन्य अन्तरस् तद् अभ्यन्तरस्थ आत्मा प्राण-मयो वर्तते प्राणो वायुस् तन्-मयस् तेन प्राण-मयेन एषो\ऽन्न-रस-मयः पूर्णः । वायुना दृतिरिव [दृतिश् चर्म-यन्त्रम्] स वै एष प्राण-मय आत्मा पुरुष-विधः पुरुषाकारः । कुतः ।
तस्यान्न-रस-मय-स्यात्मनः पुरुष-विधताम् अनुलक्ष्यीकृत्यायं प्राणमयो\ऽपि पुरुष-विधो भवति तद् अन्तर्वर्तित्वात् । मूषा-यन्त्र-निषक्त-धातु-प्रतिमावत् तस्य प्रण-मयस्य वायु-विकारस्य मुख-नासिकादि-निःसरणशीलो वायु-वृत्ति-विशेषः प्राणः शिरः । व्यानो वायु-वृत्ति-विशेषः दक्षिणः पक्षः । अपनो\ऽधोवायुः उत्तरः पक्षः । आकाश आत्मा वायु-वृत्ति-विशेषः समानाख्यो यः स आत्मा मध्य-भागः । पृथिवी तद् अभिमानिनी देवता तस्य पुच्छं प्रतिष्ठा आध्यात्मिक-प्राणस्य धारयित्री स्थिति-हेतुत्वात् । सैषा पुरुषस्यापानम् अवष्टभ्य । इति श्रुतेः । अन्यथोदान-वृत्त्योर्ध्व-गमनं गुरुत्वात्-पतनं वा स्याच्-छरीरस्य तस्मात्-पृथिवी पुच्छं प्रतिष्ठेति । तस्येति शरीरे\ऽन्न-मये भवः शरीरः य एष प्राण-मयः । स तस्यान्नमयस्य शारीर आत्मा भवति । अन्न-मयात्-प्राण-मयः श्रेष्ठश् च प्राणं देवा अनुप्राणन्ति । इति श्रुतेः
। प्रण-बलेन सेन्द्रियस्य देहस्य बलम् इति । [२]
अथ मनोमयं पुरुषम् आह—तस्माद् वा एतस् मात्-प्राण-मयादन्यो\ऽन्तर आत्मा मनोमयस् तेनैष पूर्णः । स वा एष पुरुष-विधस् तस्य **पुरुष-**विधताम् अन्वयं **पुरुष-**विधः । तस्य यजुरेव शिरः । ऋग्-दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गि-रसः पुच्छं प्रतिष्ठा । तस्यैष शारीर आत्मा । यः पूर्वस्य ॥ इति ।
अर्थः—तस्मात्-प्राण-मयादे-तस्माद् अन्यः अन्तर आत्मा मनोमयः । मनः सङ्कल्प-विकल्पात्मकम् अन्तः-करणं तन्-मयः मनोमयः । सो\ऽयं प्राण-मयस्याभ्यन्तर आत्मा तेन मनोमयेन प्राणमयः पूर्णः । स एष **पुरुष-**विधो भवति । तस्य प्राणमयस्य **पुरुष-**विधतामुनलक्ष्यीकृत्यायम् अपि **पुरुष-**विधः । तस्य मनोमयस्य । यजुर् एव शिरः यजुर् वेद-मन्त्र-विशेषः शिरः । तस्य शिर-ःप्रधानत्वात् । यजुषां हि हविर्दीयते स्वाहाकारादिना । तथा ऋग्-वेद-मन्त्र-विशेषः तस्य दक्षिणः पक्षः । साम-वेद-मन्त्र-विशेष उत्तरे वाम-पक्षः । आदेशो\ऽत्र ब्राह्मण-मन्त्र-विशेषः आत्मा । अथर्वणाङ्गिसा दृष्टा मन्त्र-विशेषाः । ब्राह्मणं पुच्छं शान्ति-पौष्टिकादि-प्रतिष्ठा-हेतु-कर्म-प्रधानत्वात्-प्रतिष्ठा । य एष मनोमयस् तस्य पूर्वस्य प्राण-मयस्य शारीर आत्मा भवति । प्राण-मयाद् अस्य श्रेष्ठत्वं ज्ञान-सम्बन्धात् । मनसा पश्यति मनसा शृणोति इत्य् आदि-श्रुतेः [३]
अथ विज्ञान-मयं पुरुषम् आह— तस्माद् वा एतस्मान् मनो-मयात् । अन्योऽन्तर आत्मा विज्ञान-मयः । तेनैष पूर्णः । स वा एष पुरुष-विध एव । तस्य पुरुष-विधताम् । अन्वयं पुरुष-विधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः ।
सत्यम् उत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तस्यैष शारीर आत्मा । यः पूर्वस्य ॥ [तै।त।उप् चतुर्थोऽनुवाकः] इति ।
अर्थः—तस्मान्-मनोमयाद् अन्यो\ऽन्तरस्थ आत्मा विज्ञानयो भवति । निश्चयात्मिका-बुद्धिर् विज्ञानं तन्-मयः । बुद्धिर्-विज्ञान-रूपिणी इत्य् उक्तेः । एष मनोमयस्तेन विज्ञान-मयेन पूर्णः । स एष विज्ञान-मयः । पुरुष-विधः तस्य मनोमयस्य पुरुष-विधताम् अनुलक्ष्यीकृत्यायम् अपि पुरुष-विधो भवति । तस्य विज्ञान-मयस्य । श्रद्धैव शिरः । ऋतं सूनृता वाणी । दक्षिणः पक्षः । सत्यं यथार्थ-भाषणम् उत्तरः पक्षः । योगो युक्ति-समाधानं तस्यात्मा । महः महत्-तत्त्वं पुच्छं प्रतिष्ठा । सर्वेषां कारणत्वात् कारणं हि कार्याणां प्रतिष्ठेत्य् उक्तेः । य एष विज्ञानमयः । स प्राणमयाच्-छ्रेष्ठः सूक्ष्मश् च । मनोमयो हि वेदात्मक उक्तः । वेदार्थनिश् चयात्मिका बुद्धिर् विज्ञानं तन्-मय आत्मा विज्ञान-मयः । प्रमाण-विज्ञान-पूर्वको हि यज्ञादिर् वितन्यते विज्ञानं यज्ञं तनुते । इति श्रुतेः । निश्चय-विज्ञानवतो हि पुंसः कर्तव्यार्थेष्व् अपूर्व-श्रद्धोत्पद्यते । सा श्रद्धा सर्व-कर्तव्यानां प्राथम्यात् तस्य शिर इति [४]
आनन्द-मयं पुरुषम् आह—तस्माद् वा एतस्माद्-विज्ञान-मयाद् अन्यो\ऽन्तर आत्मा आनन्द-मयस् तेनैष पूर्णः । स वा एष पुरुष-विधस् तस्य पुरुष-विधताम् अन्वयं पुरुष-विधः । तस्य प्रियम् एव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तस्यैष शारीर आत्मा । यः पूर्वस्य ॥ [तै।त।उप् चतुर्थोऽनुवाकः] इति ।
अर्थः—तस्माद्-विज्ञान-मयाद् अन्यो\ऽन्तरो\ऽभ्यन्तर आत्मानन्द-मयः । अन्न-मयादीनां कार्यात्मनाम् अधिकारात् मयट्-प्रत्ययाच्-चानन्द-मयः कार्यात्मा वेदितव्यः । आनन्दस्य विकारः आनन्द-मयः शुद्ध-जीवस् तेनानन्द-मयेन । एष विज्ञानमयः पूर्णः । स वै आनन्द-मयः । पुरुष-विधः पुरुषाकारः । कुतस् तस्य विज्ञान-मयस्य पुरुष-विधताम् अनुलक्ष्यीकृत्य पुरुष-विधस् तस्यानन्द-मयस्य । प्रियम् एव शिरः । प्रियम् इष्ठ-स्त्री-पुत्रादि-सन्दर्शनं प्राधान्याच्-छिर इव शिरः । मोदः प्रिय-वस्तु-लाभ-निमित्तो हर्षः मुख-प्रसाद-रूपः । दक्षिणः पक्षः । प्रमोदः स एव प्रकृष्टो हर्ष-प्रहास्य-युक्तः । उत्तरः पक्षः । आनन्दः सुख-सामान्यं तस्यात्मा प्रियादीनां सुखावयवानाम् । तेषु तस्यानन्दस्यानुस्यूतत्वात् आनन्द आत्मा । एवं चोत्कृष्टमाणस्यानन्द-मयस्यात्मनः ब्रह्म पुच्छं प्रतिष्ठा आश्रयः यस्य शाखा-चन्द्रवद् अन्तरतमत्वज्ञानार्थम् अन्नमयादि-पञ्चकोशा उपन्यस् तास् तद्-ब्रह्म सर्वेषाम् आश्रयः [५] ॥ इति पञ्च-कोषः ।
अन्तर्यामि-ब्राह्मणं यः सर्वेषु भूतेषु तिष्ठन्न् इति प्राग् एव लिखितम् ।
यः प्राणे वै तिष्ठन्-प्राणाद् अन्तरो यं प्राणो न वेद । यस्य प्राणः शरीरम् । यः प्राणम् अन्तरो यमयत्य् एष त आत्मान्तर्यायाम्य् अमृतः । यो मनसि तिष्ठन्-मनसो\ऽन्तरो यं मनो न वेद । यस्य मनः शरीरम् । यो मनो\ऽन्तरो यमयत्य् एष त आत्मान्यर्याम्य् अमृतः । यो विज्ञाने तिष्ठन्-विज्ञानादन्तरो यं विज्ञानं न वेद । यस्य विज्ञानं शरीरम् । यो विज्ञानम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः । य आत्मनि तिष्ठन्न् आत्मनो\ऽन्तरो यम् आत्मा न वेद । यस्यात्मान्तर्याम्य् अमृतः । इति ।
अर्थस् तु प्राग्-लिखित-प्रायः । अत्र तु अन्न-मयादिषु यश् चरमः स त्वम् इत्य् अनेन श्री-कृष्ण एवोक्तः । यो\ऽन्यर्यामी स कृष्ण एव । तद् उक्तं ब्रह्म-स्तुतौ श्री-शुकेन—
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ [भा।पु १०.१४.५५]
सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः ।
तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् इति ॥ [भा।पु १०.१४.५७]
रास-क्रीडायां च—
गोपीनां तत्-पतीनां च सर्वेषाम् अपि देहिनाम् ।
यो\ऽन्तश् चरति सो\ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भा।पु १०.३३.३५]इति ।
तस्मात्-तद्-गुण-कीर्तनादिभिर् निर्दग्ध-पञ्च-कोशस्य भक्तस्य सुखेन तत्-प्राप्तिः सर्वत्रोक्ता—
पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये [भा।पु ३.५०.४५]।
त्वाम् एव धीराः पुरुषा विशन्ति [भा।पु ३.५०.४६] इत्य् आद्य् उक्तेः ।
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥ [भा।पु ३.५०.४६]
इत्य् आद्युक्तेश् च ।
अथ ज्ञानेन तत्-प्राप्तिम् आह—जीवात्मा द्विविधो विद्या-युक्ताविद्या-युक्त-भेदात् । यस्तु विद्या-युक्तः स तु नित्यम् उक्त आनन्द-मयः शुद्धः । यस् त्व् अविद्या-युक्तः शुद्धस्य प्रति-बिम्ब-रूपः स तु नित्य-बद्धो\ऽशुद्धश् चेति । अयम् एवान्नमयादि-पञ्च-कोशात्मकः संस् तत्-तत्-कोशोत्थ-सुख-दुःख-द्वेष-जरा-क्षुत्-पिपासा-शोक-मोहादि-कमनु भवति । यच्-चानन्दमस्यत्वम् अस्याविर्भवति तद् अपि स्वाभीष्टस्-त्री-पुत्रार्थ-दर्शन-लाभाध् उपाधिनैव, न त्व् आत्म-लाभेन सर्वेषाम् आनन्दानाम् उपस्थम् एकं परमायतनम् इति श्रुतेः । अत
एवात्म-ज्ञानाभावात् संसरतो\ऽस्य प्रबोधस् तत्-त्वम् असीत्य् आदि-वाक्यैः क्रियते यदा दैवादहं ब्रह्मास्मीति प्रबुद्धस् तर्हि शुद्धात्मना सहैकीभूयानन्द-मयो भूत्वा पञ्च-कोशाद् अविद्या-कार्याद् असङ्गः सन् विद्योपाधितो\ऽपि निर्मुक्तः सन् ब्रह्मैव भवतीति एतद् अर्थं पञ्च-कोशोपन्यासो\ऽत्रेति दिक् । स्वामि-चरणाः । नरेति । ततस् तर्हि तेषां नृणाम् उच्छ्वसितं जीवितं दृति-वद्-विफलम् इत्य् अर्थः । न भजन्ति नृणाम् इति पाठो लेखक-प्रमादस् तथापि अस्य योजनिकेयम्, त्वयि त्वां न भजन्ति किन्तु सप्तम्यां द्वितीयाकल्पनम् अपौरुषेयत्वादयो वेत्य् अपपाठ एव । नर-हरे न रमन्ति नृणाम् इदम् इति यथा विपूर्वस्य रमेः परस्मै-पदित्वं तथा न-पूर्वाद् अपि ज्ञेयम् अर्थ-साम्यात् । अधर्माद्-विरमतीत्य् अधर्मं न करोतीत्य् अर्थः । तद्-वद् अत्रापीति ।
श्रीधरानुयायिनी : उक्तोभय-विध-भजन-हीनान्-निन्दति—दृतय इति । हे हरे! प्राणिनो यदि ते भक्तास् तदैव सफल-जीवनाः अभक्ताश् चेत्-तदा ते भस्त्रा इव वृथाश्वासा जीवन्तो\ऽपि मृता एव । ननु भक्तानाम् अभक्तानाम् अपि कामादि-सुखम् अस्त्य् एवेत्य् आशङ्क्याहुः—महद् इति । महत्-तत्त्वाहङ्कारादयः स्वयम् असमर्थाः पुनस् त्वद् अनुप्रवेशेन लब्ध-सामर्थ्यास् ततो\ऽन्नमय-प्राणमय-मनोमय-विज्ञानमयानन्द-मयाख्य-पञ्च-कोश-समुदायात्मकं समष्टि-व्यष्टि-देह-समूहम् उत्पादितवन्तः । ततश् च तत्-तत्-कोशान्वयेन तत्-तत्-कोश-विधः सन्न् आनन्द-मय-कोश-पुच्छत्वेनोक्तस् त्वम् एव साक्षि-रूपो\ऽसि । एतेन त्वत्-कृत-प्रकाशादि-रूपानु-ग्रहं विना जीवानां काम-सुखादिकम् अपि न सिद्ध्यतीत्य् उक्तम् । तत्-तत्-कोशान्वयित्वे\ऽप्य् असंयोगित्वम् आह—स्थूल-सूक्ष्म-स्वरूपान्नमयादेः परं तत्-साक्षि-रूपम् अबाध्यं सत्यं त्वम् एवासीति ।
नीलकण्ठी : एवं स्व-धर्मानुष्ठानाच्-चित्त-शुद्धिस् ततो वेदान्त-श्रवणं ततः संन्यासस् ततो निदिध्यासनं तेनात्मानुभव इत्य् एवं क्रमान् अभिज्ञान्-निन्दति-दृतय इति । हे भगवन्! महद् अहम् आदयस् ते तवानुग्रहतो यद् अण्डम् असृजन् तद् अनुविधा यदि असुभृतः तर्हि दृतय इव पूजा श्वसन्तीति सम्बन्धः । अयम् अत्राण्ड-सृष्टि-क्रमः—
तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः । आकाशाद् वायुः । अग्नेर् आपः । अद्भयः पृथिवी [तै।उप् प्रथमोऽनुवाक्]। इति श्रुतेर् अविद्याशबलाद्-ब्रह्मणः शब्दवान् आकाश उत्पन्नः । ततः-शब्द-स्पर्शवान्-वायुः । ततः शब्द-स्पर्श-रूप-रसवत्य आपः । ताभ्यः शब्द-स्पर्श-रूप-गन्धान्-गृह्णन्ति तथा तेषाम् एव राजसांशेभ्यो व्यस्तेभ्यः क्रमाद्-वाक्-पाणि-पाद-पायूपस्थानि पञ्च कर्मेन्द्रियाणि जातानि । वह्नीन्द्र-विष्णु-मित्र-प्रजापतिभिर् अनुगृहीतानि
वचनाद् आगति-विसर्गानन्दान्-निर्वर्तयन्ति तेषाम् एव राजसांशेभ्यो मिलितेभ्यः प्राणो जायते । स कर्मेन्द्रियाण्य् अनुगृह्णाति । तस्य प्राणाद्याः पञ्च वृत्तयः तासु प्राणः श्वास-प्रश्वासौ करोति । अपानो\ऽशितपीतादेर् अधोनयनम् । व्यानो बलसाध्यं भारोद्यमन् आदि । उदानो देहाद् उत्क्रमणम् । समानो\ऽशितपीतादि-समीकरणम् । तद् एतल्-लिङ्ग-शरीरम् । तद् उक्तम्—
पञ्च-प्राण-मनो बुद्धि-दशेन्द्रिय-समन्वितम् ।
अपञ्चीकृत-भूतोत्थं सूक्ष्माङ्गं भोग-साधनम् ॥ इति ।
अत्र मनस्य् अहङ्कारस्यान्तर्भावः । बुद्धौ चित्तस्य । अत्र स्थूल-सूक्ष्म-कारण-व्यष्टयः क्रमाद्-विश्व-तैजस-प्राज्ञ-सञ्ज्ञाः स्थूल-सूक्ष्म-कारण-समष्टयस् तु वैश्वानर-हिरण्य-गर्भेश्वरापरपर्यायाः विराट्-सूत्रान्तर्यामि-सञ्ज्ञाः । तत्र हैरण्य-गर्भे बुद्धि-मनसी महद् अहङ्कारौ तत्-प्रभृतयो महद् अहम् आदयस्ते तवानुग्रहतस् त्वद् अनुप्रवेशेन लब्धात्मकाः सन्तः तादृशम् एव त्वद् अनुप्रविष्टं कार्यम् असृजन्-ब्रह्माण्डं सृष्टवन्तः । वटधानेव भूम्याद्य् अनुप्रवेशेन महान्त-वट-विटपिनम् । तद् इति द्वितीयान्तं यच्-छब्दाभि-सम्बन्धाद् अध्याहार्यम् । तत् अण्डम् अनुविदधति तद् अभेदाध्यासेन तद्-धर्मान् अनुकुर्वन्ति ते अनुविधाः देहादि-धर्मेणासङ्गमात्मानं विशिंषन्तो यदि स्युः तर्हि दृतिश् चर्म-कोशो यथा वृथा श्वसिति तथा ते असुभृतः प्राणिनो व्यष्टि-देहाभिमानिनो व्यर्थं जीवन्तीत्य् अर्थः । असुभृत इति बहुवचनाद्-व्यष्ट्य् अभिमानिनाम् एव व्यर्थं जीवनं न समष्ट्य् अभिमानिनाम् उपासकानाम् इति गम्यते । देहाद्य् अनुविधानं चासुभृताम् अमुष्य पुत्रो\ऽहं ब्राह्मणो\ऽहम् अन्धो\ऽहम् इत्य् आद्य् अनुभावात्-स्पष्टम् । अत एवात्म-विवादिनां विप्रतिपत्तिः । तथा हि-लोकायतेषु तावत्-केचित्-स्थूलो\ऽहं कृशो\ऽहम् इत्य् आद्यनुभवाद्-भूत-योगज-चैतन्यवान् स्थूलो देह एवात्मेत्य् आहुः । देहस्य स्वप्न-सुषुप्त्योर् अभोक्तृत्वाद् अन्धो\ऽहं बधिरो\ऽहं पश्यामि शृणोमीत्य् अनुभवाद् इन्द्रियाण्यात्मेत्यन्ये तेषां संहतानाम् आत्मत्वे एक-विनाशे\ऽप्य् आत्मनाशापत्तेः । प्रत्य् एकम् आत्मत्वे विरुद्ध-दिक्-क्रियया शरीरम् उन्मथ्येताक्रियं वा स्यादतो\ऽशित-पीतादि-भोक्ता प्राण आत्मेत्यन्ये । प्राणे\ऽपि सुप्तौ भोक्तृत्वादर्शनात्-सुख्य् अहं दुःख्य् अहम् इत्य् अनुभवात्-सुखादि-धर्मकं मन आत्मेत्य् अपरे । तथा बौद्धेष्व् अपि सर्वेन्द्रियानुग्राहकतया मनसः करणत्वानुभवात्-कर्तृ-रूप-विज्ञानम् आत्मा । तच् च क्षणिकं प्रदीप-कलिकावद् इति योगाचारादयः । विज्ञानस्यापि सुप्तौ लय-दर्शनाच्-छून्यम् आत्मेति माध्यमिकाः । यो\ऽहं बाल्ये पितरावन्-वभूवं सो\ऽहं स्थविरे प्रणप्तॄननुभवामि । इति बाल्य-स्थविरयोर् आत्मैक्य-प्रत्य् अभिज्ञानान् न क्षण-विनाशी नापि शून्यं निरधिष्ठानक-भ्रमासम्भवात् स्तन-पानादि-प्रवर्तक-जन्मान्तरीय-संस्कारानुवृत्ति-दर्शनाच् च नित्यः । स च न व्यापकः प्रमाणाभावात् एकस्मिन्-देहे सर्वात्म-सान्निध्याविशेषेण भोग-साङ्कर्य-प्रसङ्गाच् च । नाप्य् अणुः गङ्गा-ह्रद-निमग्नस्य युगपत्-सर्वाङ्गीण-शैत्योपलम्भाभाव-प्रसङ्गात् देह-परिमित इत्य् आहताः । एकस्यात्मनः क्रमेण मशक-मतङ्गजम् अनुज-शरीर-प्राप्तावयवोपचयापचयस्यावश्यक-वक्तव्यत्वात्-तथात्वे चानित्यत्व-प्रसङ्गाद् अणुत्वे चोक्त-दोषाद्-विभुत्वे\ऽपि तत्-तद् आत्म-मनसा-मनादि-स्व-स्वामि-भाव-सम्बन्ध-वशेन तत्-तद् आत्मनि
तत्-तन्-मनः-संयोग-जसुखादि-व्यवस्थोपपत्तेश् च नित्यो विभुः स्वतो जडो\ऽपि बुद्ध्यादि-गुणानाम् आश्रयः कर्ता भोक्तेति तार्कक-वैशेषिक-प्राभाकराः । अहम् अनुभवस्योभयात्मत्व-दर्शनाज्-जड-बोध-रूप इति भाट्टाः । मध्यमत्वे उक्त-दोषाद् विभुत्वे\ऽपि भोग-वैचित्र्यादात्म-मनसां स्व-स्वामिभाव-नियम-कल्पना ततश् च भोग-वैचित्र्यम् इत्य् अन्योन्याश्रयतापत्तेर् भोग-साङ्कर्यानिवारणाच् चन्दन-बिन्दु-वद् एक-देशस्थत्वे\ऽपि सर्वाङ्गीण-शैत्योपलम्भ-दर्शनाद् अणुरनागन्तुक-दुःखादिमानित्य् एक-देशिनः । सति घटे यावद्-रूप-नाशादर्शनात्-सत्यात्मनि यावद्-दुःख-नाश-लक्षणस्य मोक्षस्यासम्भवः मोक्षभ्युपगमे वा दुःखादेर् आत्मधर्मत्वासम्भवः वह्ण्यौष्ण्यवत्-स्वाभाविकस्य धर्मस्य धर्मिनाशमन्तरेण निवृत्त्य् असम्भवाद् अनिर्मोक्षापत्तेः । अतो विभुं दुःखाद्य् असंस्पृष्टम् अकर्तारं शुद्ध-चिन्-मात्र-रूपम्—
अजो ह्य् एको जुषमाणो\ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो\ऽन्यः [तै।उप् द्वादशोऽनुवाकः ५] ।
इति बन्ध-मोक्ष-व्यवस्थापक-श्रुत्य् अर्थापत्त्या जन्म-मरणादि-प्रतिनियम-दर्शनाच् च भोग-साङ्कर्यानुमानस्य दुर्बलत्वाच्-चानेकम् आत्मानं सङ्ख्याः पातञ्जलाश्चाहुः । अस्माकं तूक्त-प्रक्रियया स्थूल-देहो\ऽन्नमयः कोशः कर्मेन्द्रियैः सह प्राणः प्राणमयः ज्ञानेन्द्रियैः सह ते मनो-विज्ञाने मनोमय-विज्ञानमयौ एते त्रयो\ऽपि क्रमेण क्रिया-करण-कर्तृ-रूपाः । कारण-शरीरम् आनन्द-मयः एतैर् उपहितं चैतन्यं जीवो\ऽनुपहितम् ईश्वर इति । शुद्ध-चिन्-मात्रस्योपाधीभेदम् अन्तरेण भेदस्यासम्भवात् । तर्क-मते श्रोत्रैक्ये\ऽपि तत्-तत्-कर्ण-शष्कुल्य् उपाधि-भेदेन
शब्द-ग्रह-व्यवस्था-वद् आत्मैक्ये\ऽप्य् अन्तःकरण-भेदाद् एव बन्धादि-व्यवस्थोपपत्तेर् एक एवात्मेति । तत्र चार्वाका बौद्धाश् च एकैकं कोशम् आत्मानम् आहुः । तार्किकादीनां त्व् आनन्द-मय आत्मा विज्ञानमयस् तद्-गुणाः उभये\ऽपि क्षेत्रम् एवात्मानं वदन्तो मूढा एव ।
नग्न-भट्ट-वेदान्त्य् एक-देशिनस्तु क्षेत्र-क्षेत्रज्ञ-वैशिष्ट्यस्यात्मतां वदन्तो मध्यमाः । त एते उपाध्य् अनुविधाना दृतय इव श्वसन्ति । इदं श्लोकार्धं
पाठ-क्रमम् अनादृत्यार्थ-क्रमेण व्याख्यातम् । कुतो\ऽनुविधानम् इत्य् अत आह—पुरुषेति । त इत्य् अनुषज्यते । यतस्ते तवात्र अण्डे महद्आदि-सृष्टे द्विविधे शरीरे\ऽन्वयो\ऽनुगमो\ऽस्ति कीदृशो\ऽनुगमः पुरुष-विधः स्थूल-शरीर-प्रकारानुकारी तस्य पुरुष-विधताम् अन्वयं पुरुष-विध इत्य् अन्न-मयादिषु पूर्व-पूर्व-धर्मानुकारित्वम् उत्तरोत्तरस्य श्रूयते । को\ऽसौ यस्यान्वयो\ऽत्रास्ति तम् आह—चरमो\ऽन्न-मयादिषु य इति । आनन्द-मय इत्य् अर्थः । अस्य हि कारणी-भूतमायाशबलस्य कार्य-शबलता युक्ता । एवं देहाद्य् अनुविधानादीश्वरस्यापि संसार इत्य् उक्त्वा तन्-नाशोपायम् आह—सद् इति । सत्-कार्यम् असत्-कारणम् अतः परं पदेषु कोशेषु रज्जु-भुजङ्ग-वद्-वाध्यमानेष्व् अवशेषं बाधावधिभूतम् अत एव ऋतं सत्यं पुच्छं ब्रह्म तद् असि त्वम् इति शेषः । तज्-ज्ञानान्-मुक्तिर् इत्य् आशयः । पाठान्तरे तु अथ-शब्दो\ऽतः-शब्दार्थः । शेषं पूर्ववत् । सदसतः परं त्वम् अथेति । पाठो वृत्तम् अङ्गाद् उपेक्षितः [४] ॥१७॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—शुद्ध-कृष्ण-रसाविष्टाः समास्तान् अभक्तान्-निन्दन्ति—असुभृतो यदि ते तव राधया सह शुद्ध-रस-विलासेन क्रीडतो\ऽनुविधा अनु-रूपाभजन-प्रकारवन्तो हृदि तत्-कालीन-रसपोषानुकूल-विधायका वा तर्हि जीवन्ति नोचेद्-दृतय इव वृथा-जीवना इत्य् अर्थः । यद् वा, यदि ते\ऽसून् प्राणान् बिभ्रति आपूर्ण विशुद्धतद् अनुरागमयी राधिका तस्या अनुवर्तिनस् तद् आदृतय इव विश्वादर-विषय-भूताः श्री-राधा-सख्य इव ते भवन्ति तासां सारूप्यं प्राप्नुवन्तीत्य् अर्थः । यस्त्वं महद् अहम् आदयो महान् हिरण्य-गर्भः अहः श्री-रुद्रः हन्ति हरतीति हा विच् न विद्यते हा यस्माद् इति व्युत्पत्तेः मा लक्ष्मीः तास्वपि अदयो विशुद्ध-महा—भावाशयाखिद्यमानास्व् अपि तद्-दानेन न कृपा-कर्तत्य् अर्थः योग्यतानुसारित्वात्-तत्-कृपायाः योग्यता च तत्-तत्-स्वरूपत्वम् एवेति । किञ् च अण्डम् असृजन् ब्रह्माण्डस्य यो\ऽस्रष्टा इत्य् अर्थः । ब्रह्माण्ड-स्रष्टा स्वरूपो\ऽभिमान-रहितो देवकीनन्दन-रूपेण सर्वात्म-ब्रह्मत्व-समस्त-भगवत्-स्वरूपाभिमानः न तु व्रजेन्द्र-कुमार-रूपेणा ।
किञ् च यो\ऽनुग्रहतः उग्रा हता येन स न नहि असुर-हन्तृ-हननेन कर्म-स्थापके स्वरूपे यशोदेयस्याभिमानः । यद् वा, यस्यानुग्रह-हेतोर् महद् अहम् आदयो\ऽण्डं निज-जन्म-कारणेत्वेनासृजन् बहुतर-तपोभिः परमेश्वरं प्रसाद्य वृन्दावने\ऽण्डज-रूपता-वरो लब्ध इत्य् अर्थः । यस् त्वं पुरुषस्य प्राकृत-मनुष्यस्य् एव विधा ज्ञान-प्रकारा यस्य अतिमुग्ध-रूपः । अन्वेति अनुवर्तने । सदा रसज्ञ-गोपीकाम-पीडितो गोप्यं सद्-ब्रह्म-स्वरूपम् अन्यद् वा, ब्रह्ममय-सद्-यस्य महा—विशुद्ध-स्वभावाविष्ट-जनस्य त्वं कथम्-भूतः रमत इति रमः रमयतीति वा । अयादिषु मध्ये परमुत्कृष्टम् अयो ज्ञान-स्वरूपं ब्रह्म तदादिषु पुमर्थेषु । एषु शेषमृतं सत्यम् अव प्रतिपालय । समस्त-सत्य-पुरुषार्थेष्व् आनन्द-चमत्कार-न्यूनतया निरस्तेषु शिष्टं राधा-कण्ठ-भूषण-सेवा-रस-रूपं सत्यं पुरुषार्थोत्तमं श्रुतीनाम् अस्माकं तत्त्व-ज्ञानोदयेन तिरोभवद्-रक्षेत्य् अर्थः ।
नित्य-गोपी-बोधनन्तु—ते तव असुभृतो राधाया अनुविधा अनुवर्तिन्यो यदि सर्वात्म-भावेनेमास्तर्हि [ऋतं च सूनृता सत्यं वाणी] दृतये तव आदराय इव जीवन्ति इवेत्य् उत्प्रेक्षायाम् । ग्राहितामानायां श्री-राधिकायां तत्-प्रसादनाय हि त्वया तत्-सख्यो\ऽनुनीयन्ते दानमानादिना चाभ्य् अर्थ्यन्ते । ताश् च तां मानयित्वा वैदग्धीमधुर-सङ्गमेनोभयोर् विहारम् अतिविचित्रं पश्यन्त्यो\ऽति-रस-सागरे निमज्जन्तीति त्वत्-कृतादरेण च ताः सर्वोत्तम-पदवीं प्राप्नुवन्तीत्य् आह—यस्य तवानुग्रहादत्र वृन्दावने\ऽण्डम् अपि महद्-भवति ।
यद् वा, यस्या राधाया अनुग्रहतो\ऽत्र श्री-वृन्दावने अण्डम् अपि तव महद् आदरणीयं मह इव चरति महत् मूर्तिमांस् त्व् अदुत्सव इव भरतीत्य् अर्थः । किञ् च अत्र वृन्दावने पूर्ववद्-यस्य यस्या वा अनुग्रहादहमा प्राकृत-देहाहङ्कारेण अदयो निर्देयो\ऽपि अत् विषय-भोगस् तद् अर्थमय इतस् ततो भ्रमन्न् अपि असृजन् वस्तुतः किम् अपि
बहिर्मुख-कर्म न कुर्वन् भवति । तेन न लिप्यते देहपात एव परम-शुद्ध-रसमय-पदवीं प्राप्नोतीत्य् अर्थः । यद् वा, परदृष्ट्या परं बहिर्-मुखो दृश्यते स्वम् आत्मानं तथा न पश्यति वस्तुतो\ऽप्राकृत-चिद्-रस-घन-विग्रहो जात एव वृन्दावन-सम्बन्ध-महिम्नेति । यद् वा, न विद्यते सृजत् स्रष्टा यस्मात् स भगवान्-नारायणस् तत्-तुल्य-महिमा भवतीत्य् अर्थः । यस् त्वम् अत्र श्री-वृन्दावने पुरुष-विधो\ऽतिकामान्ध प्राकृत-पुरुष-तुल्यः कामान्धत्वाकार-मात्रेण साम्यम् वस्तुतस् तेषां जड-दुःखात्मकं तत्-तव पूर्ण-परमानन्द-महा—रसमयम् इति । अन्वयः सदा अन्त्य् एव [समीपे एव] न तु मनाक् विच्छेद-सहिष्णुः रमः सदा रममाणश् च । अस् धातुर् दीप्तौ दीप्यते इति असः सती उत्तमा असता दीप्तता यस्य यद् वा, अत्र वृन्दावने राधा-विलास-निकेतने तद् अनुग्रह-भजने सतो\ऽसतो वा सर्वस्य त्वम् अन्वयो\ऽनुवर्ती । सतो\ऽसतश् च रमयिता आनन्दयितेति वा । अथ अतो हेतोः अन्नमयं शरीरं मनो वा तेनादीयमानेषु मध्ये परम् अन्यत् सर्वम् अस्माकम् ऋतं गतं तद्-रस-लोभेनेहलोक-पर-लोक-चेष्टाः सर्वाम्त्यक्ता इत्य् अर्थः । अवशेषं वर्तते त्वत्-प्रीति-मात्रम् एव एषु शिष्टं वर्तत इत्य् अर्थः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् त्वत्-पदारविन्दं ये न भजन्ति, ते केवलं मृता एव । तर्हि कथा श्वसन्ति ? तत्राह—दृतय इवेत्य् अर्थः । यदि तेऽनुविधा अनु अनुचरत्वेन सेवां विदधतीत्य् अनुविधा भक्ताः, तदा अनुभूतो जिवन्त एव इत्य् अर्थः । अन्यथा मृता एव, ते तु श्वसन्तीति यद् दृश्यते, तद् दृतयो भस्त्रा इव । अन्यत् सर्वं तुल्यम् । यस्य तवानुग्रहतो महद् अहम् आदयोऽपि शक्तिमन्तः सन्तोऽण्डम् असृजन्, यस् त्वम् अन्न-मयादिषु विधा विधानं प्रेरणं यस्य, तेषाम् अपि प्रेरक इत्य् अर्थः । यतोऽत्र पुरुषेष्व् अन्वयस् तच्-छरीरेणानुगमनं यस्य, अतः सद् असतः परम्, अवशेषम् अवशिष्यते इत्य् अवशेष-रूपम् । ऋतं सत्यं त्वम् एवेति भावः ॥१७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दृतयो लोहकाराद्य् उपकरण-चर्म-कोश-विशेषाः, आदि-शब्दाद् इन्द्रिय-तद् अधिष्ठातृ देवतादयः, एष्व् अन्न**-मयादिषु** यद् अवशेषं
ब्रह्म-तत्त्वम् । अन्यत्-तैर् व्याख्यातम् । तत्रोत्तरथेत्य् अर्थवशाद्-व्याख्यातम् । यद् वा, विशुद्ध-वैष्णव-सम्प्रदायानुसारेण व्याख्यायते ।
भक्ति-महात्म्यम् एवाभक्त-निन्दा-पूर्वकं दर्शयन्ति-दृतय इति । ये दृतय इव श्व-सदाभासा अप्य् असुभृतो जीवा यदि ते\ऽनुविधास् त्वद्-भक्तास्ते भवन्ति, तदैव श्वसन्ति प्राणन्ति, तेषाम् एव जीवनं जीवनमुच्यते, न त्वन्य् एषाम् । समष्टि-व्यष्टि-जीव-देह-कारणानां
महद् आदीनाम् अनुत्पादकस्यापि तवोपेक्षणाज्-जीव-वद् आभासत्वप्राप्ते इति तुल्यत्वम् एव युक्तम् इति भावः । न केवलं जगत्-कारण-महद् आद्य् अनुग्राहकत्वेन तवोपास्यत्वम्, किन्तु सर्वदा परमोपकारित्वेन । तथैवासमोर्ध्वपरमैश्वर्य-स्वभावेन चेत्य् आहुः—पुरुषेति । अन्न-मयादिषु अन्न-मय-प्राण-मय-मनोमय-विज्ञान-मयानन्द-मयेषु पञ्चस्व् आत्मसु मध्ये यश् चरमः, स आनन्द-मयस् त्वम् एवासि, आद्यानां त्रयाणाम् आत्मानं तत्रात्माध्यासेन । कथम्-भूतः अत्र एष्व् अन्न-मयादिषु जीवानाम् उपकारार्थम् अन्वयः । प्राणादि-चेष्टानां परमानन्दाद् एव त्वत्तः समुद्भव इति श्रुति-प्रसिद्धेस् तवोपकारित्वम्, तत्र अन्न-मय आत्मा देह एव, प्राण-मयः पञ्च-वृत्ति-प्राण-रूपो\ऽन्न-मयाद् अन्तरङ्गः, यद् अपगमानन्मृतिः स्यात् । ततो जड-रूपात् प्राणान्-मनोमय आत्मान्तरङ्गः, तस्य चित्-सम्बन्धेन ज्ञान-सामर्थ्यात् । तस्मात् करण-रूपात् [करण-रूपात् [घ, ङ ।] विज्ञान-मय आत्मा जीवो\ऽन्तरङ्गः, तस्य कर्तृत्वेन सर्वतः श्रैष्ठ्यात् । पुनः कथम्-भूतः त्वं पुरुष-विधः पुरुषस्यान्न-मयादेर् विधैव विधा शिरः-पक्षादि-कथन-प्रकारो यस्य । यद् वा, पुरुषाणां चतुर्णाम् अन्न-मयादीनां विधा विधानं रचना यस्मात् तथा-भूत आनन्द-मय पञ्चम आत्मा त्वम् असि, तथा हि पारमर्ष् असूत्रम् आनन्द-मयो\ऽभ्यासात् [ब्र।सू। १.१.१२] इति सर्वथा प्रकृति-गन्धास्पृष्टः परिच्छेदातीतः परमानन्दो विवक्षितः श्री-रामानुजादिभिः सर्व-वेदार्थ-विवेकाभिज्ञैः । अस्यार्थस्यैव निरूपितत्वाद् अत्र । विरोधो नाशङ्क्यः । इत्य् आनन्द-मय आनन्द-प्रचुर इति मयट् । प्राचुर्यार्थत्वे\ऽपि प्रकाश-प्रचुरो रविर् इति तत्-तद्-विरोधान्तराप्रवेशात् नानन्दैक-स्वरूपता-हानिः, यद् वा, ब्रह्म-मोदादि-रूपानन्द-विशेष-प्रकाशेभ्यश् चानन्द-रूप-प्रकाशस्यैव चातुर्यात् सुसङ्गतम् एव, किं वा स्वरूपर्थे मयट्, स तु जीवन्-मुक्त-सेवक-गुरु-जन-जयस्यप्रेयसी-रूपेषु पञ्च-विधेषूपासकेषु ब्रह्म-मोद-प्रमोद-प्रियानन्द-स्वरूपेण पुच्छ-दक्षिणापक्षोत्तर-पक्ष-शिर आत्मतया निरूपितेन पञ्चधा प्रकाशते । पूर्वेषाम् अन्न-मयादीनां चतुर्णाम् उक्तिस्तु शाखा-चन्द्रन्यायेनो पलक्षणार्था । तत्र श्रेष्ठ्य-दृष्ट्या तावद् आर्थिक-क्रमेण व्याख्यायते—तथा हि द्विविधा जीवन्-मुक्ताः, एके भक्ति-शून्याः स्व-स्वरूपैक-निष्ठा आत्मा-रामाः, परे श्री-भगवत्-कृपा-लब्ध-शान्त-रतित्वान्न् आत्यादृता आत्मा-रामता-सुखाः शान्त-भक्ताः । तेषु द्वि-विधेषु उपासकेषु प्रायः स्वाभेदेन यत्-तस्य प्राकट्यम्, तादृश-प्रकाश एव ब्रह्म, तत्राद्येषु तावत् द्वैतैक-निष्ठेषु स्व-स्वरूप-निर्विशेषं चिद्-रूपम् एव ब्रह्म प्रकाशते, द्वितीयेषु तु चिद्-धन-रूपं मूर्तं परं ब्रह्म-घनाघनत्व-विशेषाविवेकेन, द्वयोश् चित्त्वेनैक्याद् अपृथक्त्वेन निर्देशः, तस्य च निर्विशेषत्वेन स्वाद-विशेषा [स्वादु [ग] भावाद् अनुत्तमाङ्गतया पुच्छत्वम्, पुच्छम् एवेदं प्रतिष्ठा मोदादीनाम् आधारः । यद्यपि सर्वेषाम् आनन्द-मय एव प्रतिष्ठा, तथापि तयोर्निर् विशेष-सविशेषयोर् वस्तुत ऐक्याभिप्रायेण तथोक्तम् । अथ न्यूनाधिक-सामान्यास् त्रिविधा उच्छन्ते, तत्रात्मानम् अतिन्यूनतया
जानन्तः, श्री-भगवन्तं सर्वोत्कर्ष-पदत्वात् सर्वाधिकत्वेन जानन्त एव ये तम् उपासते, तेषु भय-गौरवादिनानम्रेषु परमाधि-दैवततया स्फुरन्तं परमम् इष्टम् उत्तरोत्तरर् उच्युत्पादिनं प्रीतिरतेः प्रकर्ष-प्रमाणम् अनुभवत्सु तादृश-चमत्कार-कृदानन्द-रूपत्वेन श्री-भगवतः प्रकाश-विशेषे मोदः । तस्य पुच्छतो वैशिष्ट्याद्-दक्षिण-पक्षत्वम्, ये लालकत्व-पालकत्वादिना आत्मानम् अधिकतया जानन्तो लाल्यत्वेनानुग्राह्यत्वादिना श्री-भगवन्तं न्यूनं जानन्त एवोपसेवन्ते, ते व्रजेश्वरी-प्रभृतयो गुरुजनाः, तेषु पुत्रादि-भावेनोपासीनेषु वत्सलेषु परमानुग्राह्यतया स्फुरन्तं
वात्सल्य-रतेः प्रकर्षं प्रेम-विशेषम् अनुभवत्सु तादृश-परमानन्द-रूपत्वेन श्री-भगवतः प्रकाश-विशेषः प्रमोदः । पूर्वतो\ऽस्य श्रैष्ठ्याद् उत्तरस्य श्रैष्ठ्यार्थत्वाद् अत एव प्र-शब्दः । ये तु सहशयनाशन-क्रीडादिषु जय-पराजयादिषु च निर्विशेषत्वेन श्री-भगवता तुल्यम्मन्याः, स्वात्मना श्री-भगवन्तं चान्य् ऊनाधिकं मन्य-माना उपासते, ते तु श्री-दामादयो वयस्याः, तेषु भय-गौरवानुग्रहादि-शून्येषु
परम-स्वाधिष्ठ-मैत्रीभावादि-पूर्णं परम-प्रणयितया प्रादुर्भवन्तं सख्य-रतेः प्रकर्ष-प्रेम-वरम् अनुभवत्सु तादृश-भावानुसारेण परम-प्रेमास्पदत्वेन श्री-भगवतः प्रकाश-विशेषः प्रिय-शब्द-व्यप-देश्यः । तस्य पूर्वतः श्रेष्ठ्याच् छिरस् त्वम् । चतुर्विधा निरूपिताः । पञ्चमा उपासक-जना । निरूप्यन्ते, ये तु परम-कान्तत्वेन कन्दर्प-कोटि-रम्यत्वेन स्वात्म-कोटि-प्रियतया च श्री-भगवन्तम् उपासते, ते प्रेयसी-वर्गा व्रज-देवी प्रभृतयः । तेषु सन्त-तमसमोर्ध्व-माधुरी-भर-पूर्णम् अनुराग-राशि सदा-स्वादयत्सु तादृश-महा—भावानुगुण्येन परम-श्रेष्ठत्वेन श्री-भगवतः प्रकाश-विशेष आनन्दः, तस्यामोदादिभ्यः श्रेष्ठ्याद् आत्मत्वम् । एवं स्थिते तत्र प्रथमं ब्रह्मत्वम् आहुः—सद् इति । एषु पञ्च-प्रकाशेषु मध्ये त्वं सदसतः परम् । सत्-स्थूलम्, अन्नमयादि-त्रयम् । असत्-सूक्ष्मं विज्ञान-मय-रूपं जीवाख्यम्, तयोः परं ब्रह्मासि । तथा पञ्चसु मध्ये ब्रह्मत्वे निरूपिते, यद् अवशेषम् अवशिष्टं मोदादि-चतुष्टयं तच् च त्वम् असि, तत्र रश्मि-स्थानीयं ब्रह्म-स्वरूपम् अमूर्तं सूर्य-स्थानीयस्य घनानन्द-मूर्तेः प्रकाश-रूपं परब्रह्म-रूपम्, तथा मोदादि-चतुष्टयं च मूर्तम्, इत्य् एष शान्त-प्रीत-वत्सल-प्रियोज्ज्वलानां पञ्चानां मुख्य-रसानां विषय-भूत एको\ऽपि श्री-भगवान् उपासक-भेदेन पञ्चधोक्तः । किन्तु निरुपम-परम-सान्द्रानन्द-रूपत्वेनानुभवाद् उक्त-स्वरूपो\ऽयं रस एव भगवान् । तथा ह्य् आनन्द-मयाधिकारे श्रुतिश् च
रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति । [तै। २.७.१] इति
प्रोक्तम् एवार्थं किञ्चिद्-विशेषार्थम् अनुवदन्न् उपसंहरति-ऋतम् इति । श्रुत्य् उक्त-प्रतिष्ठानीयम् इदम्, आनन्द-मयं तद्-रूपम् ऋतं प्रतिष्ठा सर्वेषं मूर्तामूर्तानां प्रकाशानां तद् एक-स्वरूपत्वाद् इदम् एवानन्द-मयं तद्-रूपं श्री-भगवद्-गीतादिषु परम-निगूढोपदेशे दृष्ट-सर्वापरि-प्रतिष्ठा-भवत्वेन । सर्व-प्रतिष्ठार्-ऊपम् इत्य् अर्थः । तथा हि
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते । [गी। १४.१६] इत्य् अस्यानन्तरम्—
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२७] इति
अस्यार्थः—ब्रह्म-विद्भिः स्व-स्वरूपेण शान्त-भक्तैस्तु ब्रह्म-घनत्वेनोपास्यस्य श्रुत्या पुच्छत्वेनोक्तस्य ब्रह्मणः सर्व-व्यापकस्यापि श्यामोज्ज्वल-सर्वानन्द-कन्द-कदम्ब-मूर्तिर् एषो\ऽहं प्रतिष्ठा । तथा हि ब्रह्म-संहितायाम् आदि-**पुरुष-**रहस्यस्तोत्रे
यस्य प्रभा प्रभावतो जगदण्ड-कोटि,
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् ।
तद्-ब्रह्म-निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्र।स ५.५१]इति ।
तथा परमाभीष्ट-दैवतत्वेन सेवमानैः परमाराध्यस्य शाश्वतस्य धर्मस्य प्रीति-भक्ति-[प्रीत-भक्ति- [च]]तयाख्यातस्य प्रीति-भक्ति-प्रकाश्यत्वात् श्री-भगवानेवोपचारेण शाश्वत-धर्म-रूप-प्रीति-भक्ति-तयोक्त इत्य् अदोषः । तस्य मोदस्य मत्-प्रकाश[मुत्-प्रकाश [घ, ङ ]। विशेषस्याहं प्रतिष्ठा । प्रोक्तेनामुना मोद-रूपेण सेवकेष्व् अहं प्रतिष्ठितो भवामीति, तथा गुरु-जनैः प्रगाढ-वात्सल्य-विषयत्वेनानुशील्यमानस्यामृतस्याव्ययस्य मदैक-रूप-माधुर्य-सार-स्वरूपस्य प्रमोदाख्य-मत्-प्रकाश-विशेषस्याहं प्रतिष्ठा परमाचिन्त्य-सर्वैश्वर्य-भर-पूर्णत्वाज्-जगद् अनुग्राहको\ऽप्य् अहं पूज्येषु परमानुग्राह्येणैव प्रमोद-रूपेण प्रतिष्ठितो भवामीत्य् अर्थः । पूर्वोक्त-क्रमेण सेवक-गणनानन्तरम् एषां निर्देश उचित्ये\ऽपि गीतासु शान्त-भक्तानन्तर-निर्देशः पूज्यत्वेनोभयेषां साम्यात्, तथा परम-प्रिय-जनैः परम-प्रेयसी-गणैश् चानुशील्यमानस्य सुखस्यैकान्तिकस्य परमात्मन्तिक-सुख-रूपस्य प्रिय-शब्दानन्द-शब्दाभ्यां श्रुत्या व्यपदेश्यस्य
सर्वोत्तम-मत्-प्रकाश-विशेषस्याहं प्रतिष्ठा, पर-प्रेष्ठेषु परम-प्रेयसीषु च सर्वोत्कृष्ट-प्रेष्ठतया प्रतिष्ठितो भवाम् ईति । पञ्चमस्य परम-रहस्यत्वाद् अर्जुनस्योपदेश्यत्वाच् च तद् उभयम् एवाविविक्ततया युगपत् सूचितम् । केचित् तु श्री-पुरुषोत्तमे महा—वैकुण्ठ-नाथ आनन्द-मय-पद-वाच्यः, तस्य चत्वारो व्यूहाः-प्रिय-मोद-प्रमोदानन्द-शब्द-व्यपदेश्याः तस्यामूर्तं स्वरूपं ब्रह्मेत्य् आहुः ॥१७॥
[एवं भक्ति-निष्ठान् प्रशस्य तद्-विहीनान् अङ्गिरस-सत्र-याजिनो द्विजानाक्रोशन्त्यस् तत्-प्रिय-जन-प्रीणनं प्रार्थयन्ते-दृतय इवेति । ते कार्त्स्न्येन प्रसिद्धाः । असुभृतः प्राणिनः, दीक्षितत्व-ब्राह्मणत्वादेर् अनुक्त्या केवलम् असुभृत्त्वेन निर्देशः परम-क्रोधावेशात्, असून् प्राणान् एव बिभर्ति पुष्णन्ति, न तु त्वां विदन्तीत्य् अपीत्य् अर्थः । यदि यद्य् अपि अनुविधा अनु अन्वनु निरन्तरं विधा यज्ञ-विधयो येषां तादृशाः, तथापि त्वत्-प्रार्थनाभङ्गात् दृतय इव श्वसन्ति ।
ननु मम गोप-नन्दनस्य प्रार्थनाभङ्गात् को नाम दोषः तत्राहुः—महद् इति । यद् अनुग्रहाद्-यदीयांश-पुरुषानुग्रहात् । यद् वा, यस्य गोपाल-वेशस्यानुग्रहात्, महान् ब्रह्मा अहम् आदयो मद्-विधादयश्चेत्य् अर्थः । तथा च तापनी-श्रुतिः
गोपवेषो मे पुरस्ताद् आविर्बभूव, ततः प्रणतामयानुकूलेन हृदा मह्यम् अष्टादशाक्षरं स्वरूपं सृष्टये दत्त्वान्-तर्हितः, पुनः सिसृक्षा मे प्रादुर् अभूतेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्राकाशत [पू। २९-३०] इत्य् आद्याः ।
अस्तु तावत् प्राक्तनम् ऐश्वर्यम्, तथा आधुनिका व्रज-सम्पद् एव लोकोत्तरेत्य् आहुः—हे **पुरुष-**विधो नृचन्द्र! यद् वा, पुरुषाणां ब्रह्म-विष्णु-रुद्राणां विधो प्रकाशक! यश् च त्वम् अन्न-मयादिषु तत्र प्रचुरान्न-कूटादिषु कूटी-भूत-चतुर् विधान्न-शालि-गोवर्धनादिष्व् इत्य् अर्थः ।
आदि-शब्देन बहु-विध-गो-रसादि-प्रचुरेषु, बहु-वचनेन नन्दीश्वरादिकं च सगृह्णन्ति । अत्र एषु अन्वयः कृतासक्तिः सन्, रमत इति रमः, स्व-भक्त-दत्तत्वेन परम-प्रीत्य् आन्नादीन्यास्वादयन् रमस इत्य् अर्थः । एवम्-भूतम् अपि त्वां ये\ऽन्नाप्रदानेनावहेलयाञ्चक्रुः, ते दृतय इव श्वसन्तीति । अथ अतः क्रीडा-परत्वात्, एषु गोवर्धन-नन्दीश्वरादिषु सद्-वर्तमानं यद्-गोष्ठं तत् अव रक्ष प्रीणयेति वा । कथम्-भूतम् असतः परम-दुर्जनस्य कंसादेः परं वैरी-भूतम्, तेन वैरितया निश्चितम् इत्य् अर्थः । शेषं शेषिणस्तव यथेष्ट-विनियोगार्हम्—
ईश्वरेण प्रियं सर्वं यथेष्टं विनियुज्यते ।
यथेष्ट-विनियोगार्हं शेष-शब्देन कथ्यते ॥ इति श्री-वैष्णवाः ।
शेषं किम्-भूतम् ऋतं सत्य-स्वरूपम् ॥१७॥]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दृतय इत्य् अस्य टीकायाम् असूर्या इति श्री-भगवद्-बहिर् मुखाः सर्व एवासुरास् तेषाम् एते असूर्याः सांसारिका लोकाः कर्म-फलानि तथा चोक्तम् आग्नेय-विष्णु-धर्मोत्तरयोः—
द्वौ भूत-सर्गौ लोके\ऽस्मिन् दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ इति ।
अन्धेन तमसा परमाज्ञानेन तान् लोकान् प्रेत्य मृत्वाभिगच्छन्ति, आत्महनो भगवद्-विमुखा इति अथ एव ऋतं सत्यम् इत्य् अत्र अविद्ययैव तत्-तत्-कल्प्यत इति शेषः । अथ स्व-व्याख्या ।
तद् एवं सामान्याकारेण सर्व-श्रुतीनां समन्वयस् तच्-छुद्ध-भक्ति-प्रतिपादन-पर्यन्तो दर्शितः । अथ तद्-विशेषाणाम् अपि दर्श्यते । तत्र काश्चित्-पूर्वोक्त-शुद्ध-भक्ति-प्रतिपादक श्रुत्य् अनुगामिन्यः श्रुतयो\ऽन्वय-व्यतिरेकाभ्यां तद्-वाक्यं पुष्णन्त्य् अस्तेनैव तत्र चरन्त्यः काश्चित्-स्वानुगत-श्रुतीश् चान्यास् तत्-पर्यवसानवत्त्वेन स्तुवन्ति-दृतय इति । असुभृतो जीवा यदि ते तवानुविधा भक्ता भवन्ति तदैव श्वसन्ति प्राणन्ति अन्यथा दृतयो भस्त्रा इव श्व-सद् आभासा एव समष्टि-व्यष्टि-जीव-करणानां महद् आदीनाम् अनुग्राहकस्यापि तवोपेक्षणात् सर्वोपेक्षितत्वेन मृत-तुल्यत्व-प्राप्तेर् इत्य् अर्थः । न केवलं सृष्टाव् एव तवानुग्राहकत्वं किन्तु स्थितावपीत्याहुः—पुरुषेति अत्र तैत्तिरीयकोपनिषदि
ब्रह्म-विद् आप्नोति-परम् । इत्य् अधिकृत्य श्रूयते स वा एष पुरुषो\ऽन्न-रसमयस् तस्येदम् एव शिरः [तै।उ। २.१] । अयं दक्षिणः पक्षः । अयम् उत्तरः पक्षः । अयम् आत्मा । इदं पुच्छं प्रतिष्ठा [तै।उ। २.१.३]। तद् अप्य् एष श्लोको भवति । अन्नाद् वै प्रजाः प्रजायन्ते । तस्माद्-वा एतस्माद् अन्न-रसमयादन्यो\ऽन्तर आत्मा प्राणमयस् तेनैष पूर्णः । स वा एष असृजन्-विधस् तस्य **असृजन्-**विधतामन्वयं **असृजन्-**विधस् तस्य प्राणम् एव शिरः । व्यानो दक्षिणः पक्षः अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा [[तै।उ ब्रह्मानन्द-वल्ली,प्रथमोऽव्कः]।]{।मर्क्} तद् अप्य् एष श्लोको भवति । प्राणं देवा अनुप्राणन्तीत्य् आदि । तस्यैष शारीर आत्मा । यः पूर्वस्य । तस्माद् वा एतस्मात्-प्राणमयादन्यो\ऽन्तर आत्मा मनोमयस् तेनैष पूर्णः॥ स वा एष असृजन्-विध एव इत्य् आदि पूर्ववत् । तस्य यजुर् एव शिरः । ऋग्-दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा [तै।उ तृतीयोऽनुवाकः। ब्रह्मानन्द-वल्ली] तद् अप्य् एष श्लोको भवति, यतो वाचः" इत्य् आदि । तस्यैष इत्य् आदि पूर्ववत् । तस्माद् वा एतस्मान्-मनोमयाद् अन्यो\ऽन्तर आत्मा विज्ञान-मयस् तेनैष पूर्णः । स वा एष [तै।उ चतुर्थोऽनुवाकः। ब्रह्मानन्द-वल्ली] इत्य् आदि । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यम् उत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा [तै।उ चतुर्थोऽनुवाकः। ब्रह्मानन्द-वल्ली]। तद् अप्य् एष श्लोको भवति । विज्ञानं यज्ञं तनुते [तै।उ पञ्चमोऽनुवाकः। ब्रह्मानन्द-वल्ली]इत्य् आदि । तस्यैष इत्य् आदि। तस्माद् वा एतस्माद् विज्ञान-मयात् । अन्योऽन्तर आत्मानन्द-मयः । तेनैष पूर्णः । स वा एष[तै।उ चतुर्थोऽनुवाकः। ब्रह्मानन्द-वल्ली] इत्य् आदि । तस्य प्रियम् एव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म-पुच्छं प्रतिष्ठा [तै।उ। २.५.१] । तद् अप्य् एष श्लोको भवति । असन्न् एव स भवति । असद् ब्रह्मेति वेद चेत् [तै।उ। ६.५.१] । इत्य् आदि । तस्यैष एव शारीर आत्मा । यः पूर्वस्य [तै।उ। २.७.१]। इत्य् आदि श्री-वैष्णव-भाष्य-मतेन व्याख्या चेयम् । वै-शब्दः प्रसिद्धौ निश्चये वा । एष मृज्-जलादि-पिण्ड-लक्षणः असृजन्ः अन्न-रस-मयः । अन्न-रसो नामात्रान-रस-विकारस् तेन त्वग् आदि-रूपः
सर्वो\ऽपि तद्-विकारो लभ्यते ।
तन्-मयत्वं जलादि-विकार-श्लेष्माद्य् अपेक्षया तस्याधिक्यात् तत्-प्राचुर्य एव मयट् । मयड्-वैतयोर् भषिमित्य् अनेन भषायाम् एव विकारावयवयोर् यः मयट विधानात् छन्दसि तु व्यच् एव तद्-विधानात् । तत्-प्रकृतत्वेन मयड् इति तु प्राचूर्य एव सर्वतस् तद्-विधानात् । विकारार्थो\ऽत्र न प्रकृति इति इदं प्रसिद्ध शिर एव शिरः । ननूत्तरोत्तरत्र् एव कल्पना-मयम् एवं पक्षादिष्व् अपि व्याख्येयम् ।
पक्षो बाहुर् उत्तरो वामः । अयं मध्यमो देह-भाग आत्मा । अङ्गानां मध्यं ह्य् एषाम् आत्मेति श्रुतेः । इदम् इति नाभेर् अधस् ताद् यद् अङ्गं तत्-पुच्छम् इव पुच्छं लम्बन-साम्यात् तद् एव प्रकर्षेण तिष्ठत्य् अस्याम् इति प्रतिष्ठा आश्रयः । तद् एवं शाखा-चन्द्र-वद् अन्तरतमत्वज्ञानार्थं लोक-प्रसिद्धम् आत्मानम् अनूद्य तस्यान्तरम् अन्तरम् आत्मानं शास्त्र-प्रसिद्ध-साधनादि-क्रमेण प्रवेशयन् प्राणमयादीन् अप्य् आह—तत्र मनसो धारणार्थं तद् आधार-प्राणो धार्य्य इति प्रथमं प्राण-मयम् आह—तस्माद् इति । अनन्तरस् तद् अपगमाद् अन्न-रसमयस्य मृतेः एषो\ऽन्-नर-समयस् तेन पूर्णो वायुनेव दृतिः स च असृजन् विधः पुरुषाकारः कथं तस्य पूर्वस्यान्-नर-समयस्य असृजन् विधताम् एव लक्षीकृत्य विशेषं बोधयितुम् अयम् अपि रूपक-कल्पितैः शिरः-पक्षादिभिः पुरुषाकार एव वर्ण्यते तद् एवं रूपकं दर्शयति । तस्य प्राण-मयस्य हृदिस्थ प्राण-वायु-प्रचुरस्य प्राणं प्राण-वायुरेव प्रथम-धार्यत्वेन शिरः वर्ण्यते एवं साधन-क्रमेणैव दक्षिण-पक्षत्वादिक्रमो ज्ञेयः । उदानादि-निर्देशः प्राणेनाभेदोपासनात् आकाशः आकाशस्थः वायु-वृत्ति-विशेषः समानाख्यो वायुः वायु-वृत्त्य् अधिकारात् मध्यस्थत्वाद् इतराः पर्य्यन्त-वृत्तिर् अपेक्ष्यात्मा अध्यक्षः पृथिवी तद् अभिमानिनो देवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थिति-हेतुत्वात् सैषा पुरुषस्यापानम् अवष्टभ्येति श्रुत्य् अन्तरात् तस्य प्राण-मयस्य एषः तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। १.२.१] । इत्य् अत्रोपक्रमे प्रोक्त एवात्मा शारीर आत्मा तद्-रूप-शरीरान्तर्यामी । कथम्-भूतः । यः पूर्वस्यान्न-मय-रसस्यापि शारीर आत्मा एवं यः पूर्वस्य प्राण-मयस्येत्यादिकम् उत्तरत्रापि योज्यम् ।
यच्-चानन्द-मयान्ते\ऽपि तस्यैष एव शारीर आत्मा । इति श्रूयते । तत्र तस्योपचारिक-भेदनिर् देशेनानन्य् आत्मत्वम् एव बोधयति, नात्मान्तरं विज्ञान-मयाद् अन्यो\ऽन्तर आत्मेति-वदन्याप्रस्तावात् । प्राण-मयान्तोक्तेर् यः पूर्वस्येत्य् अत्रापरैर् अपि तथाभ्य् उपगमनीयत्वात् ततश् च तत्रैष पूर्वोक्त आनन्द-मयतात्-पर्यावसान-विवेक आत्मैतव तस्य शारीर आत्मेति योज्यम् । एवं प्राण-धारणया मनो वशीकृत्य तच् च मनो निष्काम-कर्मात्मकतया धारणीयम् इत्य् आशयेन मनोमयम् आह—मनः सङ्कल्पाव्यात्मकम् अन्तः-करणम् । अस्य पूर्वस्माद् अन्तरत्वं ज्ञान-सम्बन्धेन जड-रूपात् प्राण-मयात् श्रेष्ठतया यजुर् इत्य् अनियताक्षर-पादावशेषो मन्त्र-विशेषः तज्-जाति-वचनो यजुः-शब्दः तस्य शिरस् त्वं प्राथम्यात् । यजुषा हि हविर् दीयते । एवम् ऋक्-सामयोर् अपि वैशिष्ट्यं ज्ञेयम् । आदेशो\ऽत्र ब्राह्मणम् आदेष्टव्य-विशेषान्-निर्दिशति । अथर्वाङ्गिरसा दृष्टा मन्त्रा ब्राह्मणं च शान्त्यादि-प्रतिष्टा-हेतु-कर्म-प्रधानत्वात्-पुच्छं प्रतिष्ठा मनोमयाङ्गत्वं चैषां मनोवृत्ताव् आविर्भावित्वेन तत्-प्राचुर्यात् । तद्-विकारत्वे तु पौरुषेयत्वापातः स्यात् । अत्र पारमार्थिक-पथस्यैव प्रकृतत्वात् व्यावहारिक-सङ्कल्पाद्य् आत्मक-मनोमयत्वं न प्रयुज्यते । प्राण-धारणायाः पूर्वम् एव हि त्यक्तं तत् अत एव मनुष्याधिकारत्वान्-मनुष्य-शरीरम् एवोत्कान्तम् । एवम् उत्तरत्रापि । तथैव विज्ञान-मयम् आह—अस्य पूर्वस्माद् अन्तरत्वं करण-रूपात्-तस्मात्-कर्तृ-रूपत्वेन श्रेष्ठ्यात् श्रद्धा अध्यात्म-शास्त्रयाथार्थ्य-प्रतीतिः । ऋतं शास्त्रार्थ-निश्चिता बुद्धिः । सत्यं तद् अर्थानुभव-प्रयत्नः । योगो युक्तिः । समाधानम् आत्मा । श्रद्धादीनामेत्-साक्षात्काराङ्गत्वात् महः तत्-तत्-सर्व-प्रकाश-हेतुत्वेनोत्तमतरं शुद्ध-जीव-रूपम् । यस्यैव प्रसिद्धेन विज्ञान-मयत्वम् उच्यते । यो विज्ञाने तिष्ठन् विज्ञानाद् अन्तरो\ऽयम् । यस्य विज्ञानं शरीर [बृ।आ।उ ३.७.२३]मिति जीवान्तर्यामि-प्रतिपादक-श्रुतेः । अत्र स्थान एव यत्रात्मनि तिष्ठन्न् इत्य् आदि श्रुत्य् अन्तरात् प्रतिष्ठा तेषां सर्वेषाम् आश्रयः तद् एवं शुद्ध-जीव-पर्यन्तम् उपदिश्य तथा तथा लब्धान्तराणां पुनः सर्वान्तरतमत्वेन तत्रैव पूर्वोपक्रान्त-मुख्यात्मत्वं पर्यवसाययन आनन्द-मयम् उपदिशति । अस्य सर्वस्माद् अन्तरत्वम् । सर्वान्तर्यामित्वात् । अत्र पूर्व-पूर्व-शास्त्रीय-परमार्थ-प्रक्रियैव लब्धा, न तु व्यावहारिकी । ततो नेष्ट-पुत्र-दर्शनजानन्दादिकम् । प्रियादि-शब्दैर् व्याख्येयं किन्त्व् एकस्यैव परमानन्द-रूपस्य ब्रह्मण उत्तरोत्तरोत्कर्षता-रतम्यात् प्रियादीनाम् । चतुर्णां तत्-तन्-नामभेदः । आनन्दस्य तु सामान्यत्वेन प्रिय-शिरस्त्वाद्य् अप्राप्ति-रुपचयापचयौ हि भेदे इति न्यायेन ब्रह्मण आनन्दादिषु गुणेषु सर्वत्रोपासनायामादीयमानेषु प्रिय-शिरस्त्वादीनाम् अप्राप्तिः ते हि न गुणाः किन्त्व् एकस्यानमयादि-क्रमेणोपासनाभूमिकारोहावस्थानां भेदे खलु प्रियादि-शब्दैस् तस्यैवानन्द-मयस्य ब्रह्मण उदयोपचयापचयौ विवक्षिताव् इति हि तत्रार्थ आनन्दस्य पूर्व-पूर्व-क्रमानुसाराद् आत्म-स्थान-पतितत्वेनात्मत्व-रूपकम् । ब्राह्मणस् तु सर्वोत्तरोदितत्वेन पुच्छत्व-रूपकम् । सर्व-बृहत्तमत्वेन ब्रह्मत्वम् उक्तम् । पूर्ववत् सुख-पर्याय-शब्दानुक्तिर् अन्तरोक्तानन्द-शब्द-व्यपदेश्यत्वम् एवाभिप्रैति । एतद् एव च परकाष्ठा-रूपत्वात् । प्रियादि-लक्षणोत्तरोत्तराधिक-शुद्ध-स्वप्रकाश-विशेषाणाम् आश्रयत्वेन प्रतिष्ठा । इदम् एव च प्रियाद्य् आश्रयत्वेन सो\ऽकामयत । बहु स्याम् [तै।उ ६.१]। इत्य् आद्य् अन्तरोक्तेस् तत्-तद् अशेष-शक्ति-विशेषाश्रयत्वेन च आनन्द-मय आत्मेत्य् उच्यते । यत एव च ब्रह्मेति व्यपदिश्यते । एष च सो\ऽकामयत बहु स्यां प्रजायेयेति । स तपो\ऽतप्यत । स तपस् तप्त्वा । इदं सर्वम् असृजत । रसो वै सः । [तै।उ २.७.१]इत्य् आदिभिर् अभ्यस्तः आत्मतया पुच्छतया च परिभाषितस्यानन्दस्य प्राचुर्यान्मयट् । सो\ऽखण्डो\ऽपि परब्रह्मैव स्व-प्रकाश-विशेषाणां स्व-शक्तीनां चापृथग्-वस्तुत्वात प्रत्युत तत्-तत्-प्रकाशे प्रकाशाधिक्यात् । श्रुतौ च ब्रह्म-विद् आप्नोति परम् [तै।उ २.१.१]। इति **यद्-**ब्रह्मोपक्रान्तं तस्यैवात्मत्वम् । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१.१]। इत्य् अनेन दर्शयित्वा तस्यात्मत्वस्य पर्यवसानम् आनन्द-मय एव दर्शितम् अन्यानुक्तेः । ततश् च प्रकरण-प्राप्तं यत्-तस्य ब्रह्मत्वं तद् अभ्यासने निर्णीयते । ततो जीवस् तु सुतरां नासौ तद् उक्तम्—आनन्द-मयो\ऽभ्यासात् [ब्र। सू। १.१.१३] इत्य् आदिकम् आरभ्य नेतरो\ऽनुपपत्तेः [वे।सू। १.१.१६] इत्य् अन्तेन विवृत्तिश् चैषां सूत्राणां श्री-रामानुजाचार्यादि-मतेन श्री-भागवत-सन्दर्भस्य टीकायां कृतास्ति तद् अलम् अतिप्रसङ्गेन । तद् एतावति तत्-स्वरूपे श्रुति-प्रतिपादिते स्थिते यस्मात्-क्षरम् अतीतो\ऽहम् इत्य् आदि निजोक्तिसंवादेन स्वयं भगवद् आख्य-मूर्त-ब्रह्मण एवाखण्ड-स्वरूप-शक्ति-गुण-रूप-लीलादि-पूर्णतया प्रतिष्ठा-परकाष्ठात्वं स्वयम् एव तु दर्शितं श्री-गीतोपनिषत्सु—
मां च योऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ [गीता १४.२६-२७] इति ।
अस्यार्थः हि शब्दः प्राचीनार्थस्य हेतुता विवक्षया अतो गुणातीत-ब्रह्म-भव-लक्षण-प्राचीनार्थ-हेतुवचने अस्मिन् उपचारेण तच्-छब्दस्यान्यार्थत्वम् अप्राकरणिकत्वात्-कल्प्यत्वेन न्यूनत्वाद् अयोग्यत्वेन चायुक्तं किन्त्व् एवम् एव युक्तम् । ननु, त्वद्-भक्त्या कथं निर्गुण-धर्मत्व-प्राप्तिः । सा तु सर्वोत्कृष्ट-तद् एकानुभवेन भवेत् । तत्राह—ब्रह्मणो हीति । हि यस्मात् परम-प्रतिष्ठात्वेन प्रसिद्धं श्रुतं **यद्-**ब्रह्म तद् एव चानन्द-मयः तस्यापि स्वयं भगवदाख्य-पर-ब्रह्म-मूर्तिर् अयम् अहं प्रतिष्ठा अत एवामृतस्य परम-पुरुषार्थस्य मोक्षस्याहं प्रतिष्ठा तस्य लक्षणया स्वर्गादि-परत्वं वारयति अव्ययस्येति तथा—
कालेन नष्टा वाणीयं प्रलये देव सज्ज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद् आत्मकः ॥ [भा।पु ११.१४.३]
इत्य् एकादशोक्तेः । शाश्वतस्य धर्मस्य भगवद्-धर्माख्यस्य सर्व-पुरुषार्थैक-मूलस्य परम-साधनस्याप्य् अहं प्रतिष्ठा तथा नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भा।पु ११.१५.४८]। इत्य् आदि-तृतीयोक्तेः । एकान्तिकस्य सुखस्य मत्-प्रेम-रस-लक्षणस्य परमाति-परम-साध्यस्याप्य् अहं प्रतिष्ठा अत एव रसो वै सः । रसं ह्य् एव लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति यद् आनन्द-मयम् अधिकृत्योक्तं तच्-चैतद् अपेक्षयैव ज्ञेयम् । मल्लानाम् अशनिः [भा।पु १०.४३.१७] इत्य् आदि-दर्शित-प्रेम-पाञ्चविध्येन रस्यमानत्वाद् इति । अतः सर्वस्यापि मदधीनत्वात्-कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि लीयमानो ब्रह्म-धर्मम् अपि प्राप्नोति इत्य् अर्थः ।
यदा पश्यः पश्यते रुक्म-वर्णं
कर्तारम् ईशं असृजन्ं ब्रह्म-योनिम् ।
तदा विद्वान् पुण्य-पापे विधूय
निरञ्जनः परं साम्यमुपैति ॥ इति श्रुतेः ।
म अत्र श्री-विष्णुपुराणम् अपि-सम्प्रवदते
शुभाश्रयः स चित्तस्य सवर्गस्य तथात्मनः [वि।पु। ६.७.७५] । इति व्याख्यातं च तत्रापि स्वामिभिः सर्वगस्यात्मनः परब्रह्मणो\ऽप्य् आश्रयः प्रतिष्ठा तद् उक्तं श्री-भगवता
ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । तथा विष्णुधर्मोत्तरे नरक-द्वादशी-प्रसङ्गे श्री-विष्णुस्तवे
आकाशादिषु शब्दादौ श्रोत्रादौ महद् आदिषु ।
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि च स प्रभुः ॥
यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ।
तेन सत्येन मे पापं नरकार्ति-प्रदं भयम् ॥
प्रजा तु सुकृतस्यास्तु ममानुदिव-सञ्जयः ॥ इति ।
अत्र सर्वात्म-शब्देन दुःसमाधानान्तरं च निरस्तम् । तत्रैव मासर्क्ष-पूजा-प्रसङ्गे—
यथाच्युतस् त्वं परतः परस्मात् स ब्रह्म-भूतात्-परतः परात्मा ।
तथाच्युतत्वं कुरु वाञ्छितं तन्-ममापदं चापहराप्रम् एय ॥ इति ।
उत्तर-क्षत्र-बन्धूपाख्याने च ।
यन्-मयं ब्रह्म परमं तद् अव्यक्तं च यन्-मयम् ।
यन्मयं व्यक्तम् अप्य् एतद्-भविष्यामि हि तन्-मय ॥ इति।
श्रुतिश् च पूर्वम् उदाहृता । यस्य पृथिवी शरीरम् [बृ।आ।उ ३.७.४]। इत्य् आदिः । तस्मात् असृजन्-विध इत्य् अस्य प्रकृत-पद्यार्धस्यायम् अर्थः अत्र महद् आदि-परिणाम-रूपे समष्टि-व्यष्टि-जीव-देहे जीवानाम् अनुग्रहार्थम् अन्वयः प्रविष्टस् त्वम् । कथम्-भूतः । अन्न-मयादिषु यश्चरमः **असृजन्-**विधः पूर्व-पूर्ववत् **असृजन्-**रूपकेणानिरूपित आनन्द-मयस् तद्-रूपः प्राणन् आदि-चेष्टानां परमानन्दात्त्वत्त एव समुद्भव इति प्रसिद्धेस् तवानुग्राहकत्वम्
को ह्य् एवान्यात कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७.१]। इति श्रुतेः ।
नन्व् आनन्द-मयाख्यं ब्रह्म भवतु । तादृशं न चाहं तत्-तस्य कल्पित-शिरआदि-रूपत्वान्-मम तु साक्षात्-तद्-रूपत्वात् तत्राहुः एषु प्रतिष्ठान्तवाक्येषु यद् अवशेषं वाक्यशेषावगम्यं रसो वै स इत्य् आदिना पञ्च-विध-भक्ति-रसाश्रयत्वेन सूचितम् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । यस्मात्-क्षरमतीतो\ऽहम् इति च । श्री-गीतोपनिषदादौ प्रसिद्धम् । सतः प्रियादेर् असतो\ऽन्-नर-समयादेश् च परं श्रेष्ठं यत एव ऋतं तत्-तत्-सर्वाश्रय-रूपं तत्-सत्त्वम् इति । ऋ गतौ । इत्य् अस्माद् अधिकरणार्थ-क्त-प्रत्ययेन तच् छब्दस्य तद् अर्थत्वं गीतादि-वाक्यैक-वाक्यत्वाद् गम्यम् । अत्र मख्याः श्रुतयः असन्न् एव स भवति असद्-ब्रह्मेति वेद-चेद् अस्ति ब्रह्मेति चेद्-वेद । सन्तमेनं ततो विदुः । यद्आ ह्य् एवैष एतस्मिन्न् अदृश्ये\ऽनात्म्ये\ऽनिरुक्ते\ऽनिलयने\ऽभये प्रतिष्ठां विन्दते । अथ सो भयङ्गतो भवति । यद् आह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते । अथ तस्य भयं भवति [तै।उ। २.७.१] । इति उत् उत अरम् अल्पम् अपि अन्तरं व्यवधानं स्मरण-विच्छेदम् इत्य् अर्थः ।
सा हानिस् तन्-महच्-छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्त क्षणं वा पि वासुदेवं न चिन्तयेत् ॥ इति ।
श्री-विष्णु-पुराणानुसाराद् इत्य् अर्थः । अथ अन्याः श्रुतयः
एको वशी सर्व-भूतान्तरात्मा
एकं रूपं बहुधा यः करोति ।
तम् आत्म-स्थं येऽनुपश्यन्ति धीराः
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [का।उ २.२.१२]
इत्य् आद्याः ।
नित्योऽनित्यानां चेतनश् चेतनानां
एको बहूनां यो विदधाति कामान् ।
तम् आत्मस्थं येऽनुपश्यन्ति धीराः
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ [क।उ २.२.१३]
इति श्री-गोपाल-तापन्य्-आद्याश् च तद्-अनुगताः श्रुतयस् तु दर्शिताः १७॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ८२) : तद् एवम् एवाभिप्रायेण, स वा एष पुरुषोऽन्न-रस-मयः [तै।उ। २.१] इत्य् आदाव् अन्तरङ्गान्तरङ्गैकैकात्म्य-क्अथनान्ते, इदं पुच्छं प्रतिष्ठा, पृथिवी पुच्छं प्रतिष्ठा, अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा, महः पुच्छं प्रतिष्ठा, ब्रह्म पुच्छं प्रतिष्ठा [तै।उ। २.१-५] इति श्रुत्य् उक्तायाः पञ्चम्या अपि प्रतिष्ठाया उपरि । श्री-गीतोपनिषदो यथा—ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति । अत्र ब्रह्म-शब्द-सन्निहित-प्रतिष्ठा-शब्देन सा श्रुतिः स्मर्यते । ततश् चैवम् एव व्याख्येयम् । हि-शब्दः,
मां च योऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता १४.२६]
इत्य् अस्य निरन्तर-प्राचीन-वचनस्य हेतुता56-विवक्षया । अतो गुणातीत-ब्रह्मणः प्रकृतार्थत्वात् प्राचीनार्थ—हेतु-वचनेऽस्मिन्न् उपचारेण तच्-छब्दस्य ब्रह्म-शक्ति-रूपं हिरण्यगर्भ-रूपं वा अर्थान्तरम् अयुक्तं, किन्त्व् एवम् एव युक्तम् । यथा—
ननु त्वद्-भक्त्या कथ्अं निर्गुण-ब्रह्म-धर्म-प्राप्तिः, सा तु तद् एकानुभवेन ? तत्राह—ब्रह्मणो हीति । हि यस्मात् ब्रह्म-पुच्छं प्रतिष्ठा [तै।उ। २.५.१] इति परम-प्रतिष्ठत्वेन श्रुतौ यत् प्रसिद्धं, तच् च तस्याम् एव श्रुतौ आनन्द-मयाङ्गत्वेन दर्शितं तस्य पुच्छत्व-रूपित-ब्रह्मणः । आनन्द-मयोऽभ्यासात् [वे।सू। १.१.१३] इति सूत्र-कार-सम्मत-पर-ब्रह्म-भाव आनन्द-मयाख्यः प्रचुर-प्रकाशो रविर् इतिवत् प्रचुरश् चानन्द-रूपः श्री-भगवान् अहं प्रतिष्ठा ।
यद्यपि ब्रह्मणो मम च न भिन्न-वस्तुत्वं, तथापि श्री-भगवद्-रूपेणैवोदिते मयि प्रतिष्ठात्वस्य परा काष्ठेत्य् अर्थः, स्वरूप-शक्ति-प्रकाशेनैव स्वरूप-प्रकाशस्याप्य् आधिक्यार्हत्वात्, निर्विशेष-ब्रह्म-प्रकाशस्याप्य् उपरि श्री-भगवत्-प्रकाश-श्रवणात् ।
अत एकस्यापि वस्तुनस् तथा तथा57 प्रकाश-भेदो रजनी-खण्डिनो ज्योतिषो मार्तण्ड-मण्डल-तद्-गत-गभस्ति-भेदवद् उत्प्रेक्ष्यः ।
अतो ब्रह्म-प्रकाशस्यापि मद् अधीनत्वात् कैवल्य-कामनया कृतेन मद्-भजनेन ब्रह्मणि नीयमानो58 ब्रह्म-धर्मम् अपि प्राप्नोतीत्य् अर्थः ।
अत्र श्री-विष्णु-पुराणम् अपि सम्प्रवदते—शुभाश्रयः स चित्तस्य स-वर्गस्य तथात्मनः [वि।पु। ६.७.७६] इति । व्याख्यातं च तत्रापि स्वामिभिः—स-वर्गस्यात्मनः पर-ब्रह्मणोऽप्य् आश्रयः प्रतिष्ठा । तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति ।
अत्र च तैर् व्याख्यातम्—ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत-प्रकाश एव सूर्य-मण्डलं, तद्वद् इत्य् अर्थः । इति ।
अत्र च्वि-प्रत्ययस् तु तत्-तद् उपासक-हृदि तत्-प्रकाशस्याभूतत्वं59 ब्रह्मण उपचर्यते इतीत्थम् एव । अत्रैव प्रतिष्ठा प्रतिमेति टीका मत्सर-कल्पिता । न हि तत्-कृता, असम्बन्धत्वात् । न हि निराकारस्य ब्रह्मणः प्रतिमा सम्भवति । न च तत्-प्रकाशस्य प्रतिमा सूर्यः । न चामृतस्याव्ययस्येत्य् आद्य् अनन्तर-पाद-त्रयोक्तानां मोक्षादीनां प्रतिमात्वं घटते । न वा श्रुति-शैली-विष्णु-पुराणयोः संवादितास्ति । तस्मान् न सादरणीया । यदि वादरणीया, तदा तच्-छब्देनाप्य् आश्रय एव वाचनीयः । प्रति लक्षीकृत्य माति परिमितं भवति यत्रेति ।
तद् एतत् सर्व-म् अभिप्रेत्याहुः—दृतय इत्य् आदि । असु-भृतो जीवा दृतय इव श्वसद् आभासा अपि यदि ते तव अनुविधा भक्ता भवन्ति, तदा श्वसन्ति प्राणन्ति । तेषु तद्-भक्तानाम् एव जीवनं60 जीवनं मन्यामहे इति भावः । कथम्? यस्य तव अनुग्रहतः समष्टि-व्यष्टि-रूपम् अण्डं देहं महद् अहम् आदयोऽसृजन्, अतः स्वयम् एव तथाविधात् त्वत्तः पराङ्-मुखानाम् अन्येषां दृति-तुल्यत्वं युक्तम् एवेति भावः ।
अनुग्रहम् एव दर्शयन्ति—अत्र महद् अहम् आदिषु अन्वयः प्रविष्टस् त्वम् इति । कथं मत्-प्रवेश61-मात्रेण तेषां तथा सामर्थ्यं स्यात् ? तत्राहुः—यद् यस्मात् सत आनन्द-मयाख्य-ब्रह्मणोऽवयवस्य प्रियादेः, असतस् तद् अन्यस्माद् अन्नमयादेश् च यत् परं पुच्छ-भूतं सर्व-प्रतिष्ठा ब्रह्म, तत् खलु त्वम् ।
तत्रापि, एषु प्रतिष्ठा-वाक्येषु अवशेषं वाक्य-शेषत्वेन स्थितं, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् आदाव् अन्यत्र प्रसिद्धम्—
आत्म-तत्त्व-विशुद्ध्य् अर्थं यद् आह भगवान् ऋतम् ।
ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रतादृतः ॥62 [भा।पु। २.९.४] इति ।
अत्र ऋतत्वेनापि प्रसिद्धं श्री-भगवद्-रूपम् एव, तत् त्वम् । अतोऽन्न-मयादिषु पुरुष-विधः पुरुषाकारो यश् चरमः प्रिय-मोद-प्रमोदानन्द-ब्रह्मणाम् अवयवी आनन्द-मयः, स त्वम् इति । तस्मान् मूल-परमानन्द-रूपत्वात् तवैव प्रवेशेन तेषां तथा सामर्थ्यं युक्तम् एवेति भावः, को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात्? [तै।उ। २.७.१] इति श्रुतेः ।
प्रकरणेऽस्मिन्न् एतद् उक्तं भवति—यद्यप्य् एक-स्वरूपेऽपि वस्तुनि स्व-गत-नाना-विशेषो विद्यते, तथापि तादृश-शक्ति-युक्ताया एव दृष्टेस् तत्-तत्-सर्व-विशेष-ग्रहणे निमित्तता दृश्यते, न त्व् अन्यस्याः । यथा मांस-मयी दृष्टिः सूर्य-मण्डलं प्रकाश-मात्रत्वेन गृह्णाति, दिव्या तु प्रकाश-मात्र-स्वरूपत्वेऽपि तद् अन्तर्गत-दिव्य-सभादिकं गृह्णाति । एवम् अत्र भक्तेर् एव सम्यक्त्वेन तयैव सम्यक् तत्-त्वं63 दृश्यते । तच् च भगवान् एवेति तस्यैव सम्यग्-रूपत्वम् । ज्ञानस्य तु असम्यक्त्वेन दर्शितत्वात्, तेनासम्यग् एव तद् दृश्यते । तच् च ब्रह्मेत्य् अस्य असम्यग्-रूप्तवम् ।
तत्र च सामान्यत्वेनैव ग्रहणे एकाकारस्य64 ज्ञानस्य तद् अन्तरीणावान्तर-भेद-पर्यालोचनेष्व् असामार्थ्याद् बहिर् एवावस्थितेन तेन भागवत-परमहंस-वृन्दानुभव-सिद्ध-नाना-प्रकाश-विचित्रेऽपि स्व-प्रकाश-लक्षण-पर-तत्त्वे प्रकाश-सामान्य-मात्रं यद् गृह्यते, तत् तस्य प्रभा-रूपत्वेनैवोत्प्रेक्ष्यते । ततश् चाघनत्वम् अंशत्वं विभूतित्वं च व्यपदिश्यते तस्य । तस्माद् अखण्ड-तत्त्व-रूपो भगवान् सामान्याकार-स्फूर्ति-लक्षणत्वेन स्व-प्रभाकारस्य ब्रह्मणोऽप्य् आश्रय इति युक्तम् एव ।
अत एव, यस्य पृथिवी शरीरं, यस्यात्मा शरीरं, यस्याव्यक्तं शरीरं, यस्याक्षरं शरीरम्, एष सर्व-भूतान्तरात्मा, अपहत-पाप्मा, दिव्यो देव एको नारायणः [सुबालोपनिषद् ७.१] इत्य् एतच्-छ्रुत्य् अन्तरं चाक्षर-शब्दोक्तस्य ब्रह्मणोऽप्य् आत्मत्वेन नारायणं बोधयति ।
उक्तात्मादि-शब्द-पारिशेष्य-प्रमाणेन, चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि [भा।पु। ३.१५.४३] इति प्रयोग-दृष्ट्या चात्र ह्य् अक्षर-शब्देन ब्रह्मैव वाच्यम् । तथा श्री-भगवता साङ्ख्य-कथने—कालो माया-मये जीवे [भा।पु। ११.२४.२७] इत्य् आदौ महा—प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य द्रष्टृत्वं स्वस्मिन्न् उक्तम्,
एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः ।
प्रतिलोमानुलोमाभ्यां परावर-दृशा मया ॥ [भा।पु। ११.२४.२९]
इत्य् अत्र परावर-दृशेत्य् अनेन ।
सोऽयं चात्र विवेकः—साङ्ख्यं हि ज्ञानं,65 तच् छास्त्रं खलु स्वरूप-भूत-तद्-विशेषम् अननुसन्धाय66 यत् तत्-स्वरूप-मात्रं तदानीम् अवशिष्टं वदति, तद् एव च ब्रह्माख्यम् । तद् एव प्रपञ्चावच्छिन्न-चरम-प्रदेशे67 प्रपञ्च-लयाद् वैकुण्ठ इव स्वरूप-भूत-विशेषाप्रकाशाद्68 अवशिष्यमानत्वेन वक्तुं युज्यते । तच् च स्व-विशेष्य-मात्रं स्वरूप-शक्ति-विशिष्टेन वैकुण्ठ-स्थेन श्री-भगवता पृथग् इव तत्रानुभूयत इति । तद् एवं निर्विशेषत्वेन स्पर्श-रूप-रहितस्यापि तस्य भगवत्-प्रभा-रूपत्वम् उत्प्रेक्ष्य तद् अभिन्नत्वेन ब्रह्मत्वं व्यपदिष्टम् ।
ततः स्पर्श-रूपादि69-माधुरी-धारितया स-विशेषस्य साक्षाद् भगवद् अङ्ग-ज्योतिषः सुतराम् एव तत् सिध्यति । यथोक्तं श्री-हरिवंशे महा—काल-पुराख्याने श्रीमद् अर्जुनं प्रति स्वयं भगवता—
ब्रह्म-तेजो-मयं दिव्यं महद् यद् दृष्टवान् असि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत् सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विद् उत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत् परं परमं ब्रह्म सर्वं विभजते जगत् ॥
माम् एव तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ [ह।वं। २.११४.९-१२] इति ।
प्रकृतिर् इति तत्-प्रभात्वेन स्वरूप-शक्तित्वम् अपि तस्य निर्दिष्टम् । एवं पूर्वोदाहृत-कौस्तुभ-विषयक-विष्णु-पुराण-वाक्यम् अप्य् एतद् उपोद्वलकत्वेन द्रष्टव्यम् । तस्माद् दृतय इव इत्य् अपि साध्व् एव व्याख्यातम् ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं सामान्याकारेण सर्व-श्रुतीनां समन्वयस् तच्-छुद्ध-भक्ति-प्रतिपादन-पर्यन्तो दर्शितः । अथ तद्-विशेषाणाम् अपि दर्श्यते । तत्र काश्चित् पूर्वोक्त-शुद्ध-भक्ति-प्रतिपादक-श्रुत्य् अनुगामिन्यः श्रुतयोऽन्वय-व्यतिरेकाभ्यां तद्-वाक्यं पुष्णन्त्यस् तेनैव तत्र चरन्त्यः स्वानुगत-श्रुतिश् चान्यास् तत्-पर्यवसानत्वेन दर्शयन्त्यः स्तुवन्ति—दृतय इति ॥१७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतस् तत्-पदाब्जं ये न भजन्ति, ते केवलं जीव-च्छवा इत्य् आहुः—दृतय इवेत्य् आदि । यदि ते तवानुविधा अनुक्षणं सेवां विदधत इत्य् अनुविधाः, तदानुभृतः, सार्थकम् असून् बिभ्रतीत्य् अर्थः । अन्यथा दृतय इव भस्त्रा इव श्वसन्ति जीवच्छवा इत्य् अर्थः । यद् अनुग्रहतो यस्यानुग्रहान् महद् अहम् आदयोऽण्डम् असृजन्, स च पुरुष-विधः, पुरुष इति विधा सञ्ज्ञा यस्य, न नारायणोऽप्य् अत्र त्वय्य् अन्वयः, अनु अयत इति अनुगत इत्य् अर्थः । त्वयि विषयेऽनुगतवद् यः पुरुष-विधो नारायणोयतेअम् अयादिषु पञ्च-कोषेषु चरमः, न केवलं तथा, सद् असतः परं स्थूल-सूक्ष्मतः कार्य-कारणतः परम्, पारे इत्य् अर्थः । अथातो नारायणाद् अपि त्वम् इति यद् वस्तु तद् एषु नारायणादिषु पुरुषेषु प्रतिपाद्येषु अवशेषं, अवशिष्यत इत्य् अवशेषः, तत् । अत एव ऋतं सत्यम् । यद् वा, इति यद् उक्तं तद् ऋतं सत्यम् ॥१७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्व-श्लोकोक्त-भजन-व्यतिरेके जनाः कीदृशाः स्युः ? इत्य् अपेक्षायाम् आहुः—दृतय इवेति । ते जना दृतय इव श्वसन्ति, त्वद्-भक्ति-हीनत्वेन मृतक-साधर्म्यान् निष्प्राणत्वेऽपि भस्त्रा इव वृथा-श्वासा इत्य् अर्थः । यदि तु ते तवानुविधा अनुविदधत्यानुकूल्यं कुर्वन्तीत्य् अनुचरा भक्ता इति यावत् । तदैवासुभृतः प्राण-धारिणो जीवन्तो नरा उच्यन्त ।
नन्व् अभजताम् अपि सूक्ष्मः स्थूलश् च देहो जीवन्न् एव दृश्यते न तु म्रियमाणस् तत्राहुः—महद् अहम् आदयश् चित्ताहङ्कार-बुद्धि-मनः-श्रोत्र-चक्षुर् आदयो देह-द्वयारम्भकाः यद् अनुग्रहतः यद् भजन-प्राप्तानुग्रहाद् एव अण्डं समष्टि-व्यष्टि-शरीरम् असृजन् नमामि ते देव पदारविन्दं प्रपन्न-तपोपशमातपत्रम् । इत्य् आदि-तृतीयोक्तेश् चित्ताहङ्कारादयो भजने प्रवृत्ता एवदृषा अतो येषां चित्त-श्रोत्रादयो नैव भजने प्रवर्न्ते ते देहा नैव चित्त-श्रोत्रादिमन्त । अतो देहाभासा एव मृता एवेति भावः ।
नन्व् अहं कीदृशाकारः यं मां ते भजेरन्न् इत्य् अत आहुः पुरुष-विधः पुरुषस्य विधेव विधा आकारो यस्य स तस्माद् एवम्भूतो भगवान् एव त्वं सर्व-भूतेषु परमात्मा सर्व-बृहत्तमानन्द-रूपं ब्रह्म च भवसीत्य् आहुः । अन्नमयादिषु अन्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयाः स्थूल-देह-प्राणान्तःकरण-जीव-परमात्मानः क्रमेण वस्ति-पुच्छ-पृथ्विवी-पुच्छाथर्वाङ्गिर-पुच्छ-महः-पुच्छ-ब्रह्म-पुच्छा ये पञ्च-पुरुषाः श्रुताव् उक्तास् तेषु मध्ये यश् चरमः आनन्द-मयः स त्वम् इति सम्बन्धः।
ननु तर्ह्य् अन्न-मयाद्याः किम् अहं न भवामि तत्र विशिषन्ति—अत्रान्न-मयादिषु अन्वेति अनुप्रविशतीत्य् अन्वयः । स त्वं तव कारणत्वात् । अन्न-मयादीनां तत्-कार्यत्वादेते\ऽपि त्वम् एव भवसि किन्तु न स्वरूपेण, तु त्वमानन्द-मय एव सर्व-कारणं परमात्मेत्य् अर्थः । किन्त्व् एषु सर्वेष्व् अपि मध्ये यद् अवशेष परम-परमं रसो वै सः [तै। २.७.१]। इति श्रुत्या रसत्वेन प्रतिपादितम् स्त्रीणां स्मरो मूर्तिमान् [भा।पु। १०.४३.१७] इति भागवत-विवृतं सद् असतः परम् अन्न-मयादि-स्थूल-सूक्ष्म-सर्व-विलक्षणं सर्व-श्रेष्ठात् सत आनन्द-मयाद् असतस् ततो निकृष्टाद्-विज्ञान-मयादेश् च परमन्यत् यो\ऽसौ जाग्रत्-स्वप्न-सुषुप्तिमतीत्य तुर्यातीतो गोपाल इति । श्री-गोपाल-तापनी-श्रुत्य् उक्तम् ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति गीता-स्पष्टीकृतं सर्वोत्कृष्टं श्री-कृष्ण-स्वरूपं वस्तु तद् अपि ऋतम् अस्माभिः श्रुतिस् तपः-प्राप्त-स्वरूपभिः प्राप्तम् अनुभूतं वा । अर्तेर् गत्य् अर्थत्वाद्-गत्य् अर्थानां च प्राप्त्य् अर्थत्वाज्-ज्ञानार्थत्वाच् च । अत्र—
असुर्या नाम ते लोका अन्धेन तमसा-वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ [ई।उ। ३]
इत्य् आद्या भक्त्य् अभावे दोष-प्रतिपादिकाः । असुर्याः—
द्वौ भूत-सर्गौ लोके\ऽस्मिन् दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ [गीता १६.६]
इत्य् आग्नेयविष्णु-धर्मोत्तरोक्तेर् असुराणां विष्णु-भक्ति-हीनानां प्राप्य इत्य् अर्थः ।
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [गो।ता।उ।१.२०]
इत्य् आद्या भक्ति-सत्त्वे गुण-प्रतिपादिकाः श्रुतयः । स वा एष पुरुषोऽन्न-रस-मयस् तस्येदम् एव शिरः । अयं दक्षिणः पक्षः अयम् उत्तरः पक्षः अयम् आत्मा इदं पुच्छं प्रतिष्ठा [तै।उ। २.१.३] इत्य् एवम् अन्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मय-पुरुष-निरूपणानन्तरं पञ्चम आनन्द-मयो निरूपितो, यथा—तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्योऽन्तर आत्मा आनन्द-मयस् तस्य प्रियम् एव शिरो मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्ष आनन्द आत्मा ब्रह्म-पुच्छं प्रतिष्ठा [तै।उ। २.५.१] इति तैत्तिरीयक-श्रुतिर् जीवात्म-परमात्म-ब्रह्म-प्रतिपादिकाः । अत्र यो विज्ञाने तिष्ठन्-विज्ञानाद् अन्तरो यस्य विज्ञानं शरीरम् इति जीवान्तर्यामि-प्रतिपादक-श्रुतेर् आत्मनि तिष्ठन् इति श्रुत्य् अन्तर-वाच्य-विज्ञान-मयो जीवात्मैवोक्तस् तद् अनन्तरोक्त आनन्द-मयः सर्वान्तर्यामी परमात्मैव परमोपास्य इति वैष्णव-मते व्याख्या । अतो\ऽत्र पुत्र-दर्शनजानन्दादिकं प्रियादि-शब्दैर् न व्याख्येयम् किन्त्व् एकस्यैव परमानन्द-स्वरूपस्य परमात्मन आन्दोदयोत्कर्षतारतम्याद् एव प्रियादीनां चतुर्णां तत्-तन्-नाम-भेदः । ब्रह्मणस्तु सर्वतो\ऽपि बृहत्तम् आनन्दत्वाद् आनन्द-प्रतिष्ठात्वम् । प्रतिष्ठीयते\ऽस्याम् इति प्रतिष्ठा आश्रयः ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इत्य् उक्तेः रसो वै सः [तै। २.७.१] इति सर्वान्तिम-श्रुत्य् उक्तेश् च तस्यापि प्रतिष्ठा । कृष्णः सर्व-बृहत्तमानन्दस् तद् अवधि-रूपो गोपाल-तापनी-श्रुत्या तुरीयाद् अपि विलक्षणत्वेन प्रतिपादितः प्रेम-रस-मय-वपुर् उपास्येषु परमावधिर् उक्तः । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२]। इत्य् उक्तेर् अन्तर्याम्य् आनन्द-मयः खलु यस्यैक एवांशः । अत एव प्रेक्षावच् छिरोमणीनां श्रुतीनां कृष्णस्यैवोपासना बृहद्-वामने दृष्टा, प्राप्तिश् च गोपीत्वेन स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड- [भा।पु। १०.८७.२३] इति पद्येन वक्ष्यते । अतो भगवत्-स्वरूपेष्व् अपि मध्ये कृष्णम् एव सर्वोत्कृष्टतया श्रुतिभिः प्रतिपादितम् अवधार्य नारदः श्री-नारायणस्यापि पुर-स्थितो नमस् तस्मै भगवते कृष्णायामल-कीर्तये [भा।पु। १०.८७.४६] इत्य् उच्चारयन् कृष्णम् एव नमस्करिष्यते ॥१७॥
॥ १०.८७.१८ ॥
उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः
परिसर-पद्धतिं हृदयम् आरुणयो दहरम् ।
तत उदगाद् अनन्त तव धाम शिरः परमं
पुनर् इह यत् समेत्य न पतन्ति कृतान्त-क्मुखे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् सर्वात्मके परमेश्वरे सर्व-श्रुति-समन्वयेन सद्-भजनीयत्वम् उक्त्वा अभक्त-निन्दया च तद् एव दृढी-कृत्य, इदानीम् अनवगाह्य-महिमनि प्रथमं तावद् उपाध्य् आलम्बनम् उपासनं, उदरं ब्रह्मेति शार्कराक्षा उपासते हृदयं ब्रह्मेत्य् आरुणयो ब्रह्मा हैवैता इत ऊर्ध्वं त्व् एवोदसर्पत् तच्-छिरोऽश्रयत [ऐ।आ। २.४.१] इत्य् आद्याः श्रुतयो विदधतीत्य् आह—उदरम् उपासत इति ।
ऋषि-वर्त्मसु ऋषीणां संप्रदाय-मार्गेषु ये कूर्प-दृशस् ते उदरालम्बनं मणि-पूरक-स्थं ब्रह्म उपासते ध्यायन्ति । शार्कराक्षा [ऐ।आ। २.४.१]इति श्रुति-पदस्य प्रतिपदं कूर्प-दृश इति । कूर्पं शर्करा-रजो विद्यते दृक्ष्व् अक्षिषु येषां, ते तथा रजः-पिहित-दृष्टयः, स्थूल-दृष्टय इति यावत् । उदरस्य हृदयापेक्षया स्थूलत्वात् । यद् वा, कूर्पं सूक्ष्मम् । सूक्ष्म-दृश इत्य् अर्थः ।
तदा हृदय-स्थं सूक्ष्मम् एवालक्ष्य तत् प्रवेशाय प्रथमम् उदर-स्थम् उपासत इति भावः । आरुणयस् तु साक्षाद् धृदय-स्थं दहरं सूक्ष्मम् एवोपासते । हृदय-विशेषणं परिसर-पद्धतिम् इति । परितः सरन्ति प्रसर्पन्तीति परिसरा नाड्यस् तासां पद्धतिं मार्गं प्रसरण-स्थानम् इत्य् अर्थः ।
विशेषणस्य फलम् आह—तत इति । हृदयात् भो अनन्त, तव धाम उपलब्धि-स्थानं सुषुम्नाख्यां परमं श्रेष्ठं ज्योतिर्-मयं शिरो मूर्धानं प्रत्य् उदगाद् उदसर्पत् । मूलाधाराद् आरभ्य हृदय-मध्याद् ब्रह्म-रन्ध्रं प्रत्य् उद्गतम् इत्य् अर्थः ।
कथं-भूतं धाम ? यत् समेत्य प्राप्य पुनर् इह कृतान्त-क्मुखे संसारे न पतन्ति । तथा च श्रुतिः—
शतं चैका च हृदयस्य नाड्यस्
तासां मूर्धानम् अभिनिःसृतैका ।
तयोर्ध्वम् आयन्न् अमृतत्वम् एति
विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति ॥ [छा।उ। ८.६.६]
उदरादिषु यः पुंसां चिन्तितो मुनि-वर्त्मभिः ।
हन्ति मृत्यु-भयं देवो हृद्-गतं तम् उपास्महे ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या सर्व-श्रुतीनां समन्वयेन गतार्थत्वेन सतां शास्त्र-निष्ठानां भजनीयत्वं तद् एव सद्-भजनीयत्वम् एव अवगाह्यो दुर्ज्ञेयो महिमा यस्य तस्मिन् । प्रथमम् आदौ तावद् अधुना उपाधिर् आलम्बनं यस्य तत्
उदरम् इति वैश्वानराग्नि-रूपेण जाठरानल-भूतेन ब्रह्मणाधिष्ठितत्वाद् उदरं ब्रह्मेति । शर्कराक्षस्यापत्यानि शार्कराक्षा ऋषय उपासते । अरुणेर् अपत्यानि आरुणय ऋषयः । हृदयम् उदराद् ऊर्ध्व-प्रदेशं पर-ब्रह्मोपलब्धि-स्थानत्वात् ब्रह्मेत्य् उपासते । ब्रह्मा हैव ता ह स्फुटम् । ता ते उदरोरसी ब्रह्मा ब्रह्मणी उपास्ते । उदरोरसी ब्रह्मणी एव भवत इत्य् अर्थः । ब्रह्मा ता इति प्रथमा-द्वि-वचनान्ते पदे छान्दसत्वाद् आ-कारः । तद् ब्रह्म ऊर्ध्वत्वे चोदसर्पत् ऊर्ध्वम् उत्क्रम्यागच्छति । शिरोऽश्रयत आश्रितवान् । शिरसि चक्षुः-श्रोत्रादीनि करणानि स्व-स्व-स्थाने पृथङ् निक्षिप्य दर्शनादि-व्यापारं कारयित्वा चास्त इत्य् अर्थः ।
स्थूल-दृष्टीनां तूदर-स्थोपासनापि दुर्घटेत्य् आह—यद् वेति । इत्य् अर्थ इति—कूर्पं मृत्-कणिका-सूक्ष्म-हिंसादि-विक्षेपणेषु च इति निरुक्तिः । तदोदर-स्थोपासन-कालेऽपि तत्-प्रवेशाय हृदय-स्थ-सूक्ष्म-प्रवेशाय । इति भाव इति—स्थूल-मार्गं विना सूक्ष्म-मार्गस्य दुर्ज्ञेयत्वम् इति तात्पर्यम् । इत्य् अर्थ इति—मार्गाद् एव प्रसरणम् अस्तीति भावः । इत्य् अर्थ इति—सुषुम्णा हि नाडी मूलाधाराख्यश् चक्र-विशेषश् च पायु-देशेऽस्ति । ततो निःसृत्य हृदय-मध्यात् हृण्-मध्यं प्राप्य ब्रह्म-रन्ध्रं दशम-द्वारं ब्रह्म-लोकं गच्छतस् तद्-विवृतं भवति । योग-बलेन सुषुम्णया ब्रह्म-पथेन शोचिषा [भा।पु। २.१.२४] इत्य् उक्तेर् उद्गतोर्ध्वम् इतास्तीति भावः ।
अत्र प्रमाणम् आह—तथा चेति । एकोत्तर-शतं नाड्यो हृदयस्य सम्बन्धिन्यः सन्ति । तासां मध्ये एका नाडी मूर्धानम् अभि मूर्ध्नो बहिर् ऊर्ध्वम् अभिनिःसृता सुषुम्णाख्या। तया समन्ताद् अयन् गच्छन्न् उपासकोऽमृतत्वं मोक्षम् एति । अन्या नाड्यो विष्वङ् नाना-गतयस् तिर्यक् सर्पिण्यः उत्क्रमणे संसार-भ्रमण-द्वारे भवन्ति वर्तन्ते इति । स्वामि-श्लोकस् तु सुगमत्वान् न व्याख्यातः ॥१८॥
श्रीधरानुयायिनी : तव भजनम् आवश्यकम् इत्य् उक्त्वम् । तत्र सुन्दर-सूक्ष्माक्षर-लिखन-चातुर्येच्छोः प्रथम-स्थूलाक्षराभ्यास इव पद-ब्रह्म-प्राप्तीच्छोश् चित्त-स्थैर्यार्थं तावद् उपाध्यालम्बनं स्थूलोपासनं विधेयम् इत्य् आहुः—उदरम् इति । हे अनन्त ! तवोपासन-मार्गेषु ये स्थूल-दृष्टयस् ते उदरालम्बनं मणि-पूरक-चक्रे वैश्वानरान्तर्यामिणं त्वाम् अन्न-रसादि-प्रवर्तनया क्रिया-शक्ति-दायकं ध्यायन्ति ।
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥ [गीता १५.१४] इति गीतोक्तेः ।
तथा स्व-प्राप्त्या संसार-निवर्तिका भगवद् उपलब्धि-स्थान-रूपा या ज्योतिर्मयी सुषुम्णाख्या नाडी सा मूलाधाराद् आरभ्य हृदय-मध्यतः शिरो-गतं ब्रह्म-रन्ध्रं प्रत्युद्गतेत्य् अतः सुषुम्णा-सम्बन्धिनि सकल-नाडी-प्रसरण-मार्गे त्वन्-नैकट्य-प्रापके हृदये तव सूक्ष्मं रूपं जीवान्तर्यामिणं बुद्ध्यादि-प्रवर्तनया ज्ञान-शक्ति-प्रदायकं,
अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः [श्वे।उ। ३.१३] इति श्रुतेः ।
सूक्ष्म-दृष्टयो ध्यायन्ति । उदरापेक्षया हृदयस्य सूक्ष्मत्वात्, सूक्ष्म-रूप-ध्यानास्पदं हृदयम् एव । अनेन दूर-देश-गमनाद्य् अभावेनानायास-सेव्यत्वं दर्शितम् ।
यद् वा, उद्गतोऽरः परिच्छेदो यस्मात्, स उदरः, तम् । यद् वा, हे अनन्त ! ततः अनुपदोक्क्तत्वदुपासनतः तव परमं सर्वोत्कृष्टम् अत एव धाम शिरः ब्रह्म-लोकान्तानां चतुर्दश-धाम्नां शिरो मौलि-भूतं वैकुण्ठाख्यम् उदगात् उदयं प्रापेत्य् अर्थः । अग्रे पुनर् इहेत्य् आदि वैकुण्ठ-विशेषणम् एव ॥१८॥
नीलकण्ठी : सद् असतः परं यद् ऋतं तद् असीत्य् उक्त्वा तत्-प्राप्त्य् उपायम् आह—उदरम् उपासते य इति । अत्र यथा—भूमौ बीजाङ्कुर-द्रुमाः द्रमे च फल-शलाटवस् तथा शुद्ध-चैतन्ये ईश-सूत्र-विराजः विराजि च कृष्णादयो\ऽस्मद् आदयश् च । यथा-फलान्तर्गते बीजे द्रुम-प्रसव-सामर्थ्यम् अस्ति न शलाट्वन्तर्गते । एवं कृष्णादिषु जगत्-सृष्टि-सामर्थ्यम् अस्ति नास्मदादिषु ।
यथा—बीजादयो भूमात्राः सन्तः विशिष्ट-शक्ति-योगाद्-भुवापूरिता अङ्कुरादि-भावं प्रतिपद्यन्ते एवम् ईशादयो\ऽपि चिन्-मात्रा एव सन्तो माया-शक्ति-योगाच्-चिदापूरिताः सूत्रादि-भावम् । तत्रास्मद् आदीनां कृष्णादि-भावः कीटम् अङ्गन्याये न भावनाजन्यः विराडादि-भावस्तु लवणोदकन्यायेन मनः-प्रणिधान् अप्राप्यः उपादानोपादेय-भावस्याभाव-सद्भावाभ्यां तथावगमात् । यथा हि—घटोदरगता दीपप्रभा तन्-मात्रं व्याप्नोति घटच्-छिद्र-द्वारा बहिर्गता सती भवनोदर-गतं विषयं सर्वात्मना घटाद्-बहिर्-गता सती कृत्स्नं भवनोदरं व्याप्नोति । प्रबलाभिः सौरीभिर् भाभिर् अभिहता दीपक-लिकामात्रीभवति । कलिकोपरमे\ऽनुपाख्यं भावम् एति । सो\ऽयं प्रत्यक्-प्रवण-चित्तानाम् आत्म-प्राप्त्य् उपायो\ऽनेन श्लोकेन विधीयते । अन्येषां तु प्रत्यक्-प्राविण्य-सम्पादनाय कृष्ण-मूर्ति-ध्यानं तत्राशक्तानां कृष्णे स्व-धर्मार्पणं तत्राप्य् अशक्तानां कृष्ण-गुण-गानं च क्रमाद् उत्तरैस् त्रिभिर् विधास्यते । तत्र तावद् उदरं ब्रह्मेति शार्कराक्षा उपासते । हृदयं ब्रह्मेत्य् आरुणयो ब्रह्म हैव ता इत ऊर्ध्वत्वे चोद-सर्पत्-तच्-छिरोश्रयत इति श्रुत्य् उक्तम् आह—तत्र शर्कराभिनिर्वृत्तं शार्करं ब्रह्माण्डम् अदृंहथाः शर्कराभि-स्त्रिविष्टपीति मन्त्र-लिङ्गात् । अत्रापि छान्दसो द्वितीयालोपः । तत्राक्षि-दृष्टिर् येषां ते शार्कराक्षाः । अस्य प्रतिपदं कूर्प-दृशः ऋषि-वर्त्मसु आर्षोपासनामार्गेषु ये कूर्प-दृशः समष्टि-कार्योपासकास्ते उदरम् अल्पम् उपासते । कारणापरिज्ञानात् उदर-शब्दस्याल्पत्ववाचित्वम् उदरम् अन्तरं कुरुत इत्य् अत्र दृष्टम् । आरुणयः अरुणवद् अकृत्स्न-प्रकाशस्य मुनेः पुत्रास्ततो\ऽपि सूक्ष्मदृश इत्य् अर्थः । ते दहरं सूक्ष्मं हृदयं हृदयायतने ब्रह्मोपासत इत्य् अनुषङ्गः ।
अथ यद् इदम् अस्मिन्-ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरो\ऽस्मिन्न् अन्तराकाशस् तस्मिन्-यद् अन्तस् तद् अन्वेष्टव्यम् । तद्वाव विजिज्ञासितव्यम्
इत्य् उपक्रम्य तस्यैतद् एव निरुक्तं हृद्ययम् इति श्रुतेः । दहरं विशिनष्टि-परिसर-पद्धतिम् इति । परितः सर्वतः सरणं गमनं कामचारः सर्व-कामावाप्तिः पद्धतिर् मोक्ष-मार्गस् तयोः प्रापकत्वात्-परिसर-पद्धतिर् दहरस् तम् । तेषां सर्वेषु लोकेषु कामचारो भवति ।
शतं चैका हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥
इति दहरोपास्ति-फल-श्रुतेः ।
ननु अग्निर् ज्योतिर् अहः शुक्लः इति भगवद्-गीतासु योगिनाम् अमृतस्य काल-विशेषाधीनत्वोक्तेः पाक्षिकमस्य पद्धतित्वम् इति चेन् न अहर् आदि-शब्देनातिवाहिक-तत्-तत्-कालाभिमानि-देवता-परत्वेन काल-वाचित्वाभावात् । तत्-तल्-लोक-प्राप-कनाडी-रश्मि-सम्बन्धस्य नित्यत्वेन कालस्याकिञ्चित्-करत्वात् । अन्यथा कर्मणा पितृलोको विद्यया देवलोकः इति श्रुतेर् मरण-काल-भेदेन फल-भेदे\ऽसत्य् अप्रामाण्यं प्रसज्येत । तस्मान्-नित्यम् एव दहरस्य पद्धतित्वम् । तत इति ल्यब्-लोपे पञ्चमी । उदर-हृदये सोपाधिके ब्रह्मणी प्राप्येत्य् अर्थः । तयोर् ब्रह्मा हैव ता इति श्रुतेर् ब्रह्मावाप्ति-द्वारत्वावगमात् । हे अनन्त ! त्रिविध-परिच्छेद-शून्य ! तव धाम स्वरूप-प्रकाशः । राहोः शिर इति-वद् अभेदे\ऽपि भेदोपचारः । उदगात् उद्गतवत् निरुपाधिकस्य सोपाधिकाद् अधिकत्वाद् इत्य् अर्थः । अत्र तैत्तिरीयके सर्वं वैते माप्नुवन्ति । सर्वम् एव ते आयुर्यन्ति । न बिभेति कदाचन [तै।उ। २.४.१] इति । सर्वान्-कामान्-समश्नुते ।" इति । न बिभेति कुतश्चन [तै।उ। २.९.१] इति क्रमेणान्न-मय-प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयाख्यानां पञ्चानां कोशानां पृथग् उपास्ति-फलान्य् उक्तानि । माण्डूक्ये तु
जागरित-स्थानो वैश्वानरोकारः स्वप्न-स्थानस् तैजस उकारः सुषुप्ति-स्थानः प्राज्ञो मकारः ।
इत्य् आदिना त्रयाणां पादानाम् अयम् एव संन्यासिनाम् अनुष्ठान-क्रमश् चतुष्पदो ब्रह्मणः पूर्व-पूर्व-पादस्योत्तरोत्तरम् अस्मिन्-प्रविलापन-रूपः सर्वत्र दृश्यते । तत्र तैत्तिरीयोक्त-मध्यम-कोशत्रयात्मा माण्डूक्योक्त-तैजसः । अत्र तु कार्यत्व-सामान्याद्-विराट्-सूत्रयोरैक्य-विवक्षया कार्य-कारणोपास्ति-द्वयम् एवोक्तम् । अन्यत्र तु सोपाधिकत्व-सामान्यादीश-सूत्र-विराजाम् ऐक्यं विवक्षित्वा तस्यैव पुनर् जीवत्वम् ईश्वरत्वं चोक्तं विवक्षा-भेदेन । यथोक्तम्—
सोपाधिक-विवक्षायां जीव एव विराड्भवेत् ।
निरुपाधि-विवक्षाय परमात्मैव नेतरः ॥इति।
हिरण्य-गर्भे-पश्यत जायमानम्, हिरण्य-गर्भः सम-वर्तताग्रे इति मन्त्र-लिङ्गात्-तस्य कार्यत्वं कारणत्वं च सङ्गच्छते ।
श्रुतिश् च—
स एवं विद्वान् अस्माच्-छरीर-भेदाद् ऊर्ध्वम् उत्क्रम्याम् उष्मिन्-स्वर्गे लोके सर्वान्-कामान् आप्त्वामृतः सम-भवत्-समभवत् । इति ।
छान्दोग्ये\ऽप्य् एतद् एवोक्तम् अत्रोपसम्पद्य स्वेन रूपेण परं ज्योतिर् अभिनिष्पद्यते । इति ।
सम्बन्धः स्वरूपं य आत्मापहत-पाप्मा विजरो विमृत्युर्-विशोको विजिघित्सो\ऽपिसः सत्य-कामः सत्य-सङ्कल्पः । इति।
श्रुत-गुणाष्टक-युक्तं परं ज्योतिर् निष्कलं ब्रह्म सोपाधि-निरुपाधिश् च द्वेधा ब्रह्मविद् उच्यते । सोपाधिकः स्यात्-सर्वात्मा निरुपाख्यो\ऽनुपासिकः ।
इत्य् आदिना वार्तिक-सारे\ऽपि स्पष्टी-कृतम् । कीदृशं धाम शिरः परमं शीर्यते नश्यतीति शिर उपाधिः । ततः परमम् अनुपाधीत्य् अर्थः । शिरसि वेदान्ते तात्-पर्येण प्रतिपाद्यं वा इहास्मिन्न् एव देहे यद्-धाम समेत्य प्राप्य कृतान्त-मुखे मृत्यु-मुख-रूप-संसारे पुनः न पतन्ति । कर्तृत्वादिमद् अन्तः-करणस्य विविक्तेनात्मनि त्रैकालिक-कर्तृत्व-बाधात् । तद् यथैषीकातूल-मग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते ।
तद् यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवं-विदि पापं कर्म न श्लिष्यते । [छा।उ। ४.१४.३]। इति भूतभव्यकर्मणोर्दाहाश्लेषश्रुतेः
प्रारब्धस्य च भोगेनोपक्षयान् न संसारे पतन्ति हेत्वभावाद् इत्य् अर्थः । प्राञ्चस्तु—उदर-हृदय-शिरः-शब्दैस् तत्-स्थानि मणि-पूरानाहत-सहस्राराणि ब्रह्मोपस्ति-स्थानानि लक्ष्यन्त इत्य् आहुः ॥१८॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—हे अनन्त अनापेक्षिक-स्वरूप-गुणशक्त्य् आदि-परिच्छेद-रहित श्री-व्रज-राज-कुमार राधिका प्राण-नाथ ये ऋषीणां श्री-राधिका-प्रिय-सखी-भावेन विशुद्ध-रस-मय-त्वद्-भजन-परिपाटी-सम्यग् अभिज्ञास् तेषां वर्त्मसु कूर्प-दृशस् तद्-ग्रहणासमर्थ-दृष्टय इत्य् अर्थः । उत्कृष्टा अरा यस्य तद् उदरं काल-चक्रं संसार-चक्रम् एवोपासते उदरम्-भरय इति वा परितः सरन्ति परिसराः संसारिणस् तेषां पद्धति चक्रवद् अनव-स्थितां देवतान्तराद्य् उपासकाः कामिन इत्य् अर्थः । आरुणयः—अरुणस्य सूर्यस्य पुत्रा इव तेजस्विनः सत्त्व-गुण-प्रधाना दहरं सूक्ष्मं ब्रह्म उपासते । कथम्-भूतं दहरम् हृत् सर्वं हरती ताद्-ऋग् अयं ज्ञान-स्वरूपं ततो ब्रह्म-स्वरूपात् तव धाम वैकुण्ठाख्यं श्री-मूर्तिर् वा शिरः श्रेष्ठा इह पुनस् तव धाम परमं श्री-विग्रहाद् अप्य् उत्कृष्टं यद्-धाम समेत्य सम्यक् शुद्धभावेन प्राप्य कृतान्तक्मुखे न पतन्ति कृतस्य प्रेमानुबन्धस्यान्तो यत्र सर्वात्मत्व-केवल-ब्रह्मत्वज्ञानेन तस्य क्मुखे न पतन्ति तत्त्वानुसन्धानेन निरङ्कुश-प्रवृत्त-रति-प्रवाह—सङ्कोचकेन न ग्रस्यन्त इत्य् अर्थः ।
नित्य-गोप्य आहुः—हे अनन्त निःसीम-गुण-रूप-रसादि-निधे ये गोपी-जनाः अयन्ते प्राप्नुवन्ति कृष्णारसं ता गोप्य इति वा [विजन्त] ऋषीणां विशुद्ध-महा—भाव-विशारदानां ललितादीनां श्री-राधिका-सखीनां वर्त्मसु श्री-कृष्ण-सुख-साम्राज्य-सारसर्व-स्व-प्राप्ति-मार्गेषु ऐकान्तिक-राधा-तदात्म-भाव-प्रणयपूर-रूपेषु कूर्प-दृष्टयस् ताश् च तव धाम श्री-विग्रहम् उदरम् उत्कर्षेण राति ददाति श्री-कृष्ण-सुखोत्कर्ष-प्रदातृ इत्य् अर्थः । उपासते भजन्ति उदः प्रेम्णो रा दानं येन पूर्ण-मधुर-प्रेमा हि तत्र नोपलभ्यते—सुख-चमत्कारस्य तु न्यूनत्वात् ।
यद् वा, ललितादि-वर्त्मादर्शिन्यो गोप्यस् तत्-प्रेम्णा उन्दन्ति क्लिद्यन्ति उन्दि क्लेदने धातुः तां राधाम् एव इयति गच्छन्ति यत्-तव वपुस् तत् उपासते परं भावयन्ति कदा मिलिष्यतीत्य् आशया न तु स्वाच्छन्द्येन प्राप्तुं शक्नुवन्ति । अरुणस्य सूर्यस्य पुत्री यमुना आरुणिस् तत्-तुल्या या अविच्छिन्नाः श्याम-रस-महा—प्रवाहाः श्री-कृष्ण-सुख-प्रकाश-बहुला वा दहरं प्रति सूक्ष्मं समस्त-रसिक-गोपीनाम् अप्य् अगोचरं हृद् राधाया वक्षः-स्थलं तदयते प्राप्नोति तद्-रूपं राधा-वक्षः-स्थली-नित्य-भूषण-नील-मणि-हारायितम् इत्य् अर्थः । कथम्-भूतम् ततो\ऽन्य-गोपी-दृश्य-रूपात् परमसत् यत् यत् उदगात् प्रकटं परमा शोभा सुख-सम्पत्तिर् वा यत्र यल्-ललितादि-वर्त्म राधा-हृदय-वर्ति कृष्ण-रूपं वा समेत्य प्राप्य शिरः कृष्ण-सङ्ग-प्रत्याशया शीर्यमाणाः सन्तत-कृतान्तस्य मृत्योर् क्मुखे पतन्ति विरहेण मृतप्राया भवन्तीत्य् अर्थः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं भजनाभजनयोर् अभिनन्दन-निन्दे निरूप्य भजनस्यावश्यकत्वे किं भजनीयम् ? किं ब्रह्म, किं श्री-विग्रहो वेति श्री-विग्रहम् एव निर्णयति—उदरम् उपासत इत्य् आदि । ऋषि-वर्त्मसु ऋषीणां मार्गेषु ये सारासार-विवेकाः । अथवा ऋषि-वर्त्मसु केवलं ज्ञान-योग-मार्गेषु ये कूर्प-दृशः, कूर्पाः शर्करांशेस् तान् इव ये तद्-वर्त्मानि पश्यन्ति, ते तवाङ्गानि उपासते, किम् उदरं, किं हृदयं, किं परिसर-पद्धतिम् । परिसरः श्री-वृन्दावन-पर्यन्त-भूस् तत्र या पद्दतिश् चरण-चिह्नम् । किं शिरः, एतान्य् उपलक्षणानि, एकैकम् अङ्गं सर्वाण्य् एव वोपासत इत्य् अर्थः ।
उदरस्य प्राङ्-निर्देशस्यायं भावः—मात्रे यत्र विश्वम् अदर्शयत् । यत्र वा सा बबन्धेति च । ऐश्वर्य-कारुण्य-प्रकाशक-प्राङ्-निर्देशः । ततस् तेनैव हेतुना तव धाम श्री-विग्रह उदगात् प्रादुर्बभूव, उपासनार्थम् एव प्रकटीबभूव । किं-भूतम् ? परमं परा उत्कर्ष-युक्ता या लक्ष्मीर् यत्र परात्परं वा । पुनः कीदृशम् ? आरुणय इति । अरुणस्य सूर्यस्य समूह आरुणं तस्य या यानं प्राप्तिर् एक-कालोदयस् तद् अपि उन्दति क्लेदयति शीलयतीति तथा परम-शीतल-सूर्य-कोटि-भाभिर् भास्वरतरम्, तथापि अहरं न हरतीति तथा न दृष्टि-हरम् इत्य् अर्थः । लोचनयोः सुखदम् इति यावत् । यत् स्व-धाम श्री-विग्रहं समेत्य उपास्यत्वेन लब्ध्वा कृतान्त-क्मुखे न पतन्ति ॥१८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वर्त्मानि ज्ञान-मार्गाः । आरुणयोऽरुण-वंश्याः सूक्ष्म-दृष्टय इति भावः । अनन्त ! हे अपरिच्छिन्न ! इति धाम्नोऽप्य् अपरिच्छिन्नत्वम् अभिप्रेतम् । इह अस्मिन् सदा सर्वानुभूयमानानन्त-दुःख-मये, सम्यग् एत्य योगाभ्यासादिना नितरां लब्ध्वा । अन्यत् तैर् व्याख्यातम् ।
यद् वा, भक्ति-माहात्म्यम् एव दर्शयन्त्योऽधिकारि-भेदेन स्थूल-सूक्ष्मोपासनयोः फलम् आहुः—उदरम् इति । उदरं स्थूल-दृष्ट्य् उपास्यत्वात् स्थूलं ब्रह्माण्डान्तर्-वर्ति-विराड् आदि-रूपं, हृदयं सूक्ष्मम् अन्तर्यामि-रूपं, अतो दहरं दुर्गमं, अत एव परिसर-पद्धतिं त्वन्-निकट-मार्गम् । यद् वा, उदरं नभः-स्थल-रूपं वैराजस्य नाभि-विशिष्टोदरं—नभस्तलं नाभि-सरो गृणन्ति [भा।पु। २.१.२७] इति द्वितीय-स्कन्धोक्तेः । हृदयं स्वर्ग-रूपं वैराजस्योरः-स्थलम् उदर-स्थलं—उरः-स्थलं ज्योतिर् अनीकम् अस्य [भा।पु। २.१.२८] इति तत्रैवोक्तेः ।
किं-भूतम् ? परिसर-पद्धतिं त्वन्-निकट-प्रापकम् इत्य् अर्थः । उदरं गहनं ततस् तस्माद् उपासना-द्वयात् तव धाम सुषुम्णाख्यं कर्तृ-भूतम् । सुषुम्णया ब्रह्म-पथेन शोचिषा [भा।पु। २.१.२४] इति द्वितीय-स्कन्धोक्तेः । आधिदैविकी च सुषुम्णा ज्योत्र्मयी वर्तते । शिरः परमं कर्म-भूतं, उदगात् उदसर्पत्, शिरो ब्रह्म-लोकः सत्यं तु शीर्षाणि सहस्र-शीर्ष्णः [भा।पु। २.१.२८] इत्य् उक्तेः । ततोऽपि परमं श्रेष्ठं वैकुण्ठ-पुरं प्रविशतीत्य् अर्थः । तेनोपासका वैकुण्ठं व्रजन्तीति भावः । अतो यत् सुषुम्णाख्यं समेत्य नावर्तने उपासकाः, अथवा उदरं समुद्रं, कुक्षिः समुद्राः [भा।पु। २.१.३२] इत्य् उक्तेः, समुद्रोपलक्षितं समुद्र-शायिनम् इत्य् अर्थः । हृदयं ज्योतिर् अनीकं स्वर्ग-स्थ-विष्णु-पदं ज्योतिषाम् अनीकं चक्रं यत्रेति विष्णु-पदाधारत्वाज् ज्योतिश्-चक्रस्य, तेन विष्णु-पदोपलक्षितं विष्णुम् इत्य् अर्थः ।
कथं-भूतम् ? परिसर-पद्धतिं भजमानेषु स्वप्नाप्त्य् उपाय-सम्पादनेनोपलम्भकम्, स्वस्यैव साध्य-साधन-रूपत्वात्, ततस् तस्माद् आत्म-शब्द-वाच्याद् विष्णोः, उदक ऊर्ध्वस्थं तव धाम वैकुण्ठाख्यं श्री-वैकुण्ठ-पुर-विशिष्ट-महा—नारायणम् इत्य् अर्थः । द्वय-मन्त्राधिकारिण उपासकाः, सत इति पूर्वेणान्वयः । तत्राधिकारिणाम् अनुक्तिः सर्वोत्कृष्टत्वेन परम-रहस्यत्वात् ।
कथं-भूतम् ? शिरः सर्वोपरि-वर्तित्वेन सर्वेषां लोकानां मस्तक-रूपम् । अतः परमं सर्वथा सर्वत उत्कृष्टः किं वा परा सर्वोत्कृष्टा मा लक्ष्मीर् यस्मिन् तम् । यत् स्वरूप-त्रयम् उपेत्य उपास्य त्वद् उपासकाः पुनः संसारे न पतन्तीति ॥
अथ काश्चित् माथुर-वन-द्वयस्य सर्व-तः श्रैष्ठ्यं कथयन्त्यः प्रोक्तं गोष्ठ-माहात्म्यम् अतृप्त्या भूयोऽप्य् आहुः—उदरम् इति । ऋषि-वर्त्मसु ऋषि-योग्य-भक्ति-मार्गेषु ये कूर्प-दृशः सूक्ष्म-दृष्टयो वशिष्ठाद्याः, वशिष्ठादीनां मधु-पुरे आश्रम-दर्शनात्, ते माथुर-मण्डलस्य उदरम् उदर-स्थानीयं मधु-वनम् उपासते । मधु-वनस्य मुख-भूत-पुरी-समाश्रयत्वेनान्तरङ्गत्वात्, तथा सर्व-मध्य-वर्तित्वात्, तथा त्वदीय-जन्म-स्थानत्वाच् च उदरत्वम् ।
आरुणयोऽनुरागिणस् तु हृदयं श्री-वृन्दावनम् उपासते । हृदयं हि श्री-भगवद् आवासः । अतो भगवद् आवासत्वाद् वृन्दावनस्य हृदयत्वम् । तथा हि तापनी-श्रुतेः—
तम् एकं गोविन्दं सच्-चिद् आनन्द-विग्रहं पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं गोपाल-तापिन् १.३४] इत्य् आदि ।
कथं-भूतम् ? परिसर-पद्धतिं, परितः सरन्तीति परिसरा निर्झरादयस् तेषां पद्धतिम् आगमन-स्थानम् इत्य् अर्थः । तेन सुख-हेतुत्वं सूचितम् । दहरं कुञ्जादिभिर् गह्वरम् । हे अनन्त ! ततस् तद् अनन्तरं शिरः शिरो-भूतं परम-श्रेष्ठम् इति यावत्, नन्दीश्वरम् अभिव्याप्य । यद् वा, ततस् तस्मिन् शिरो नन्दीश्वर-शृङ्ग-रूपं तव धाम निवास-स्थानम् उदगात् । परमं सर्वोत्कृष्टम् । तथा हि श्रुतिः—
ता वां वास्तून्य् उश्मसि गमध्यै
यत्र गावो भूरि-शृङ्गा अयासः ।
अत्राह तद् उरुगायस्य वृष्णः
परमं पदम् अवभाति भूरि ॥ [ऋ।वे। १.१५४.६] इति ।
अस्या अर्थः—ता तानि, वां युवयोः, वास्तूनि गृहाणि गृहोचित-स्थानानि वा, गमध्यै प्राप्तये, उश्मसि कामयामहे । तानि कानि ? यत्र येषु वास्तुषु सद्मसु भूरि-शृङ्गा सुन्दर-शृङ्ग्यो गावोऽयासः सर्व-सुखदाः । अत्र वास्तुषु, अह स्फुटं तद् अनिर्वचनीयं पदं श्री-नन्द-गृहं, उरुगायस्य वृष्णः सर्व-काम-वर्षणस्य भूरि यथा स्यात् तथावभाति, सदा नित्य् अतया वर्तते ।
अतस् तव धाम समेत्य अर्वाचीन-जना अपि कृतान्त-क्मुखे दैव-क्मुखे न पतन्ति, दैव-वशगा न भवन्तीत्य् अर्थः । कृतान्तो यम-सिद्धान्त-दैवाकुशल-कर्मसु इत्य् अमरः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उदरम् इत्य् आदि । टीकायाम् उदरं ब्रह्मेत्य् आदि-श्रुतौ वैश्वानर-भूतेन ब्रह्मणाधिष्ठितत्वाद् इति भावः । हृदयं ब्रह्मेति ब्रह्मण उपलब्धि-स्थानत्वात् । ब्रह्मा हैवेति ब्रह्मा ह एवेति च्छेदः । ब्रह्मा ब्रह्मणी एवेति समुदायार्थः । ह स्फुटम् । ता इह इति शब्दो य वाक्य-पूरणे । ता ते इत्य् अर्थः । उभयत्र औ स्थाने डादेशश् छान्दसः । उदरोरसी ते ब्रह्मणी एवेति समुदायार्थः । पुनर् अपि ऊर्ध्वत्वे च उदसर्पत् तद् ब्रह्म । ऊर्ध्वम् उद्दिश्य शिरोऽश्रयत आश्रितवत् । तत्र चक्षुः-श्रोत्रादीनां महेन्द्रियाणां प्रकाशात् शतम् इति विष्वङ् नाना-गतयः अन्याः संसार-गमन-द्वार-भूता इत्य् अर्थः ।
अथ स्व-व्याख्या—तद् एवं तासु श्रुतिषु तत्र समन्वितासु ताभिः स्पष्टम् अप्रस्तुताः काश्चिद् अन्याः श्रुतयोऽपि स्वेषां तद् अनुगतिम् एव दर्शयन्ति । तत्र च प्रथमं क्रम-सोपानतया पञ्चात्म-वर्णन-मयं पूर्वोक्त-श्रुति-साम्याल् लब्धावसराः क्रम-मुक्ति-वर्त्म-दर्शक-योगोपदेष्ट्री-श्रुतयः स्तुवन्ति—उदरम् इति । उदरं तत्-स्थित-वैश्वानरान्तर्यामिणम् अन्न-रसादि-प्रवर्तनया क्रिया-शक्ति-दायकम् ।
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥ [गीता १५.१४] इति गीतोपनिषद्भ्यः ।
हृदयं तत्-स्थित-जीवान्तर्यामिणं बुद्ध्य् आदि-प्रवर्तनया ज्ञान-शक्ति-दायकम् ।
महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः [श्वे।उ। ३.१२],
अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः [श्वे।उ। ३.१३] इति श्रुतेः ।
क्रमस् तु द्वितीय-स्कन्धोक्तो ज्ञेयः । एवं व्यष्टिम् आरभ्य व्याख्यातम् । समष्टिम् आरभ्य त्व् एवं ज्ञेयम्—उदरं नभस्तलं वैराजस्य नाभि-विशिष्टोदरं, नभस्तलं नाभि-सरो गृणन्ति [भा।पु। २.१.२७] इति द्वितीयोक्तेः । हृदयं स्वर्ग-रूपं वैराजस्य—उरः-स्थलं ज्योतिर् अनीकम् अस्य [भा।पु। २.१.२८] इति तत्रैवोक्तेः ।
किं-भूतम् ? परिसर-पद्धतिं त्वन्-निकट-प्रापकम् इत्य् अर्थः । दहरं दुर्गमम् । ततस् तस्माद् उपासन-द्वयात् तव धाम षुषुम्णाख्यं कर्तृ-भूतम्, सुषुम्णया ब्रह्म-पथेन शोचिषा [भा।पु। २.१.२४] इति द्वितीयोक्तेर् आधिदैविकी च सुषुम्णा ज्योत्र्मयी वर्तते । शिरः परमं कर्म-भूतम् उदसर्पत् । शिरो ब्रह्म-लोकः, सत्यं तु शीर्षाणि सहस्र-शीर्ष्णः [भा।पु। २.१.२८] इति तत्रैवोक्तेः । ततोऽपि परमं श्रेष्ठं वैकुण्ठ-पुरं प्रविशतीत्य् अर्थः । तया षुषुम्णयोपासका वैकुण्ठं व्रजन्तीत्य् अर्थः । यद् वा, वैकुण्ठ-पुरं समेत्य नावर्तत उपासकाः इति श्रुतयस् तु दर्शिता एव ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं तासु श्रुतिषु तत्र समन्वितासु ताभिः स्पष्टम् अप्रस्तुताः काश्चिद् अन्याः श्रुतयोऽपि स्वेषां तद् अनुगतिम् एव दर्शयन्ति । तत्र प्रथमं क्रम-सोपानतया पञ्चात्म-वर्णन-मय-क्रम-साम्याल् लब्धावसराः क्रम-मुक्ति-वर्त्म-दर्शक-योगोपदेष्टृ-श्रुतयः स्तुवन्ति—उदरम् इति ॥१८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं भजनाभजनयोर् अभिनन्दानिन्दे निरूप्य भजनस्यावश्यकत्वे किं ब्रह्मोपासितव्यम्, किं श्री-कृष्णो भगवान् इति सन्देहे निःसन्देहतां दर्शयन्त्य आहुः—उदरम् इत्य् आदि । हे अनन्त ! ऋषयो भक्तास् तेषां वर्त्मसु ये कूप-दृशः सूक्ष्म-दृशः, ते तव परिसर-पद्धतिं क्रीडा-स्थानम् उपासते । अस्तु दूरतस् तव विग्रहः । यद् वा, ऋषि-वर्त्मसु ऋषीणां ज्ञानिनां वर्त्मस्व् अध्यात्म-मार्गेषु ये कूर्पाः कर्परांशास् तान् इव पश्यन्तीति । तथा तत्रापि केचिद् उदरं मध्य-वर्तित्वात् तव जन्म-स्थलत्वात् वा उदरं मथुराम् इत्य् अर्थः । केचिद् धृदयं वृन्दावनम् । तत् कीदृशम् ? आरुणयोत् अरुणो रागस् तस्य समूह आरुणम्, तस्य या प्राप्तिस् तया उन्दन्तीति अरुणोत्, अनुराग-वृन्द-प्राप्ति-मेदुरम् इत्य् अर्थः । पुनः कीदृशम् ? अहरं न ह्रियते न प्राप्यते इत्य् अहरं दुरापम् इत्य् अर्थः । यद् वा, न विद्यते हरो हरणं यस्य, शाश्वतम् इत्य् अर्थः ।
केचिच् छिरो द्वारका-रूपम् । कीदृशम् ? परा मा लक्ष्मीर् यत्र, अतः कारणात् तव धाम स्थानं क्रीडा-स्थानम् उदगात्, उपासकानाम् उपासनार्थम् उदगाद् इत्य् अर्थः । यद् धाम समेत्य पुनर् इह कृतान्त-क्मुखे न पतन्ति ।
यद् वा, हे अनन्त ! ऋषि-वर्त्मसु कूर्प-दृशः इति पक्ष-द्वयम् एव पूर्ववत् । ते तद् उदरम् उपासते, मात्रे यत्र विश्वम् अदर्शयः, यत्र च सा त्वां बबन्ध, येन बन्धेन दामोदरत्वम् अगात् । अत ऐश्वर्य-कारुण्य-प्रकाशकत्वाद् उदरम् एवोपासते ध्यायन्ति, आरुणयोऽनुरक्ताः परिसर-पद्धतिं परिसरे वृन्दावने पर्यन्ते पद्धतिश् चिह्नं यस्य तं चरणम् इत्य् अर्थः । तत्रापि केचिद् धृदयं वक्षः-स्थलम् । कीदृशम् ? अदहरम् उच् चैस्तरं विस्तारि वा अरुणो रागः तस्यापत्यम् इवारुणिः । ते अतस् ते धाम श्री-विग्रह उदगात् प्रादुर्बभूव, उपासकानाम् इति पूर्ववत् । कीदृशं धाम ? परमं शिरः सर्वेषां शिरः प्रायं यद् ऊर्ध्वं किञ्चिन् नास्ति, यत् समेत्य पुनर् इह कृतान्त-क्मुखे न पतन्तीत्य् अर्थः ।
अथवा तव धाम तव श्री-विग्रहम् उपासते, तत्र केचिद् उदरं, केचिद् द्हृदयम् इत्य् आदि । अत एवोदगात् प्रादुर्बभूव, उपासनार्थम् एव त्वद् आविर्भाव इत्य् अर्थः ॥१८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् इति तव सूरयः [भा।पु। १०.८७.१६] इति श्लोक-द्वयेन भक्तानां भगवद्-विषयिकां भक्तिम् उक्त्वा योगिनां परमात्म-विषयकं योगम् आहुः—उदरम् इति।
अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः ।
प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्-विधम् ॥ [गीता १५.१४]
इति श्री-गीतोक्तेर् उदरम् उदर-स्थ-वैश्वानरान्तर्यामिणं क्रिया-शक्ति-दायकं य उपासते, ते ऋषि-वर्त्मसु ऋषीणां सम्प्रदाय-मार्गेषु कूर्प-दृशः कूर्पं शर्करा रजो दृक्षु अक्षिषु येषां ते, रजः-पिहित-दृष्टयः स्थूल-दृष्टय इति यावत् । उदरस्य हृदयापेक्षया स्थूलत्वात् । यद् वा, कूर्पं सूक्ष्मं सूक्ष्म-दृश इत्य् अर्थः । तदा हृदय-स्थं सूक्ष्मम् एवालक्ष्य तत्-प्रवेशाय प्रथमम् उदरस्थम् उपासत इति भावः । आरुणयस् तु हृदयं हृदय-स्थित-जीवान्तर्यामिणं बुद्ध्य् आदि-प्रवर्तनया ज्ञान-शक्ति-दायकम् । दहरं दुर्ज्ञेयत्वात् सूक्ष्मं परितः सरन्ति प्रसर्पन्तीति परिसरा नाड्यस् तासां पद्धतिं मार्गं, प्रसरण-स्थानम् इति हृदय-विशेषणम् । विशेषणस्य फलम् आहुः—तत इति ।
ततो हृदयात् भो अनन्त, तव परमात्मनो धाम उपलब्धि-स्थानं ज्योतिर्मयं शिरः प्रत्य् उदगाद् उदसर्पत् । मूलाधाराद् आरभ्य हृदय-मध्याद् ब्रह्म-रन्ध्रं प्रत्य् उद्गतम् इत्य् अर्थः । धामइव स्थल-त्रय-गतं बभूवेति वस्त्व् अर्थः । यत् समेत्य शिरः-स्थं परमं धाम प्राप्य पुनर् इह कृतान्त-क्मुखे संसारे न पतन्ति । अत्र उदरं ब्रह्मेति शार्कराक्षा उपासते हृदयं ब्रह्मेत्य् आरुणयः [ऐ।आ। २.४.१] इति,
महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः [श्वे।उ। ३.१२],
अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा
सदा जनानां हृदये सन्निविष्टः [श्वे।उ। ३.१३] इति,
शतं चैका च हृदयस्य नाड्यस्
तासां मूर्धानम् अभिनिःसृतैका ।
तयोर्ध्वम् आयन्न् अमृतत्वम् एति
विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति ॥ [छा।उ। ८.६.६] इति श्रुतयः ॥१८॥
॥ १०.८७.१९ ॥
स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया
तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः ।
अथ वितथास्व् अमूष्व् अवितथं तव धाम समं
विरज-धियोऽनुयन्त्य् अभिविपण्यव एक-रसम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् ईश्वरस्यापि70 तर्हि जीववद् उदरादि-सम्बन्धे तद् अनुप्रविष्टस्य च तारतम्ये सति केन विशेषेणोपास्यत्वम् ? इतीमाम् आशङ्कां परिहरन्त्यः—
एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता71 केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११]
इत्य् आद्याः श्रुतयः स्तुवन्तीत्य् आह—स्व-कृत-विचित्र-योनिष्व् इति । स्वयं कृतासु उच् च-नीच-मध्यमासु योनिष्व् अभिव्यक्ति-स्थानेषु कार्येषु देहादिषु हेतुतया उपादानतया प्राग् एव विद्यमानत्वेन मुख्य-प्रवेशासम्भवाद् विशन्न् इव72 वर्तमानस् तरतमतो न्यूनाधिक-भावेन चकास्सि अवभाससे, स्व-कृता योनीर् अनुकरोतीति स्व-कृतानुकृतिर् अनलवत् । अग्निर् यथा स्वतस् तारतम्य-हीनोऽपि काष्ठानुसारेण तथा तथा प्रकाशते, तद्वत् ।
अथ अतो वितथासु मिथ्या-भूतास्व् अमूषु योनिष्व् अवितथां सत्यं यतः । समम् अविशेषम् अतः सत्यं तव73 धाम स्वरूपं विरज-धियो निर्मल-मतयोऽन्वयन्ति जानन्ति । नु इति पृथक् पदं वा । अत्र हेतुः—अभिविपण्यव इति । अभितो विगत-व्यवहाराः । पण व्यवहारे इत्य् अस्य रूपं पण्युर् इति, ऐहिकामुष्मिक-कर्म-फल-रहिता इत्य् अर्थः । अविशेषत्वाद् एव एक-रसं सन्-मात्रम् अतस् तवोपाधि-कृत-तारतम्याभावाद् अप्रच्युतैश्वर्यस्योपास्यत्वम् इति भावः ।
स्व-निर्मितेषु कार्येषु तारतम्य-विवर्जितम् ।
सर्वानुस्यूत-सन्-मात्रं भगवन्तं भजामहे ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते-नन्विति । तद् अनुप्र-विष्टस्योदरादिष्व् अनुप्रविष्टस्य देहानां योनि-भेदात्-तारतम्ये न्युनाधिक-भावे सति परिहरन्त्यः श्रुतयः स्तुवन्तीत्य् आह—तथा हि । एको देव इति । एक इति मूर्ति-भेदाभावम् आह । देव इति ज्ञान-घनत्वेनाजड इत्य् आह । सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु । तर्हि किम् इति न प्रतीयते गूढो\ऽनादिमायया छन्नः । तत्-तद्-भूतावच्छिन्नत्वेन परिच्छिन्नत्वाभावम् आह—सर्व-व्यापीति । नभोवत्ताटस्थ्यं वारयति-सर्व-भूतान्तरात्मेति । सर्व-भूतेष्व् अन्तस् त्वे\ऽपि तत्-तत्-क्रिया-कर्तृत्वाभावम् आह— कर्माध्यक्षः सर्व-कस्मसाक्ष्य् एव न तु कर्तेति । सर्व-भूतेष्वित्य् आदिना भूतानां पृथग् उक्तेः । सद्वितीयत्वम् आशङ्क्याह—सर्व-भूतानाम् अधिष्ठानं न च
कल्पितम् अधिष्ठानादर्थान्तरम् इत्य् अर्थः । न केवलं कर्मणाम् एवाध्यणो\ऽपि तु तत्-कर्तृणाम् अपीत्य् आह—साक्षीति । साक्षित्वे हेतुः—चेता इति । चित्-स्वभाव इत्य् अर्थः । केवलो दृश्यवर्जितो\ऽद्वितीयो निर्गुणो ज्ञानादि-गुण-वर्जित इति तद्-वत्त्वम् अपि स्थूलस्-ऊक्ष्म-शरीरेषु तथा-तथा भासीत्य् अर्थः । अन्वयन्तीति अनुपूर्वादयतेः परस्मै-पदाविधानाद् आर्षत्वाश्रयेण तन्-निष्पत्तिर् भवेत्-तच्-चागतिक-गति-रूपम् इत्य् आह—नु इति पृथक्-पदं यन्तीति इण्-गतौ लटो रूपम् । नु निश् चयेन जानन्ति । अत्र ज्ञाने । इत्य् अर्थ इति । कर्म-फलेप्सूनां ज्ञानं दुर्लभम् इति भावः । अविविशेषत्वाद्-विशेषाभाववत्त्वाद् एव । अत एक-रसत्वात् । इति भाव इति—अप्रच्युतैश्वर्यः प्रच्युतैश्वर्येणोपास्यत एवेति तात्पर्यम् । स्वामि-श्लोकः-कार्येषु देहेषु । तारतम्यं न्यूनाधिक-भावः ॥
श्रीधरानुयायिनी : ईश्वरस्यापि जीववद्-देहादौ प्रवेशे\ऽनुपास्यत्वम् आशङ्क्याहुः—स्वकृतेति । स्वतो\ऽसङ्गस्य निर्विकारस्यापी-श्वरस्य स्व-माया-रचितेषूत्तम-मध्यमाधम-देहेषु ब्रह्मादि-स्थावरान्तेषु कुण्डलादौ सुवर्णस्येवाग्र एवोपादानतया स्थितस्य पुनः तत्-सृष्ट्वा तद् एवानुप्राविशत् । इति श्रुतेस् तत्-तद्-देह-प्रवेशो न्यूनाधिक-भावेन तत्-तद्-देहानुकारिता च प्रतीयमानापि स्वतस् तारतम्य-रहितस्य वह्नेः काष्ठानुसारेणेव मिथ्यैव । अतस् त्यक्त-सर्व-विश्व-विश्व-व्यवहारास् तत्त्वविदो मिथ्या-भूत-तत्-तद्-देहेष्व् अविशेषं सत्यं सन्-मात्रम् एव तव स्वरूपं जानन्ति । तथा चोपाधि-कृत-तारतम्य-रहितत्वात्तवोपासना योग्यैवेत्य् आशयः ॥
नीलकण्ठी : उक्ता सङ्गतिः । स्व-कृत-विचित्र-योनिष्व् इति । सङ्कल्प-मात्रेण कृता विचित्रा । मत्स्य-कूर्मादि-योनयो\ऽभि-व्यक्ति-स्थानानि । योनि-शब्दस्य स्थानवाचित्वं योनिष्ट इन्द्र निषदे अकारि इति मन्त्रे दृष्टम् । तासु योनिषु विशन्न् इव घटाकाशवद्-व्यापकत्वेन मुख्य-प्रवेशायोगात् हेतुतया—
परित्रायाणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय सम्भवामि युगे युगे ॥ इति स्वोक्त-हेतोर् इत्य् अर्थः ।
ऐतदात्म्यम् इदं सर्वम् । इतिवत् स्वार्थे भाव-प्रत्ययः । हेतुतया योनि-कल्पनाधिष्ठानतया वा तासु योनिषु प्रविष्टश् च त्वं ।
तरतमतश् चकास्सि तारतम्येन दीप्यसे । कथम् । अनलवत् । यथानलो\ऽग्निरल्पे उपाधौ अल्पप्रकाशो महति महा—प्रकाशस् तद्वत् । अत्र हेतुम् आह—स्व-कृतानुकृतिः । स्वेन कृता या मर्यादा ताम् अनुकरोतीति स तथा । तथा हि-दाशरथेर् भार्या-वियोगजं दुःखं
भृगु-शापनिमित्तम् । बाणा-सुर-सङ्ग्रामे शङ्करस्य कृष्णात्-पराजय इति परमेश्वरस्यापि स्व-कृत-मर्यादापरि-पालनं दृश्यते । नन्व् ऐश्वर्य-तारतम्यं क्वचिद्-विश्रान्तं तारतम्यत्वाद्-घटादि-तारतम्यवत् इत्य् अनुमानात् य एष सर्वोत्तमः स एवोपास्यः । इत्य् आशङ्क्य अथ वितथास्व् इति । अथेत्य् उपास्त्य् अन्तरारम्भार्थः । अमूषु योनिषु वितथासु मिथ्या-भूतासु प्रविष्टम् अवितथं सत्यं तव धाम स्व-रूप-प्रकाशः समं तुल्यम् उपादानत्वात् । तथा हि योनीनां वितथत्वं गम्यते । शिवविष्णु-ब्रह्मणां मिथः पितृ-पुत्रादि-भावस्मृतिभ्यः श्रुतिष्व् अपि विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नाभियाति तृतीयम् । इति । विष्णोः
सोम-तत्त्व-ज्ञानाद् अर्चिरादि-मार्गेणोपासक-प्राप्य-ब्राह्म-लौकिकैश्वर्याद्-भूमादि-मार्गेण कर्मि-प्राप्य-चन्द्र-लोकैश्वर्याच्चान्यस्य तृतीयस्य । योगैश्वर्यस्यागस्त्यादेर् इव प्राप्तिः । न ते विष्णो जायमानो न जातो देव-महिम्नः परं मतमा उ इति । विष्णोर् अनन्त-महिमत्वं च सूचितम् । किन्तु विधित्सित-स्तुति-मात्रम् । अन्यथा हाने विधि-द्वय-वैयर्थ्यम् उपादाने त्व् अन्यतर-वैयर्थ्यम् । एकेनैव तत्त्व-साक्षात्कारोपयोगि-चित्तैकाग्र्य-सिद्धेः । तथा च—पारमर्षं सूत्रम्—विकल्पो विशिष्ट-फलत्वात् । इति । उपास्तीनं विकल्प-तुल्य-फलत्वाद् इति सूत्रार्थः । तस्मान्-नटवत्-सौभर्यादिवच् च पर्यायेण युगपद् वा राम-कृष्ण-हरि-हरमैरालादि-मूर्तीर् अधितिष्ठन्न् एक एव । शिव-विष्ण्वादि-शब्दैः प्रतिपाद्यते । सर्व-शास्त्र-पुराणेषु यो देवानां नामधा एक एव । इति श्रुतेः । परविद्याधिकारेषु शिव-विष्ण्वोर् विष्णु-शिवयोर् वा निन्दा-स्तुती कमात्-सगुण-निर्गुण-ब्रह्मापेक्षे । तत्र निन्द्यभजनान्-नरकं व्रजन्तीत्य् अपि कार्य-ब्रह्म-लोकं व्रजन्तीत्य् एव । परं शास्त्रीयस्य भजनस्य रागतः प्राप्त-ब्रह्म-वधादिवन्-नरक-हेतुत्वासम्भवात् । शौनकीय-प्रणव-पटल-व्याख्याने हेमाद्रिर् अप्य् एवम् एव । व्याचख्यौ नरकं ब्रह्म-लोकम् इति । तस्माद्-भगवान्-मूर्ति-षूत्क-र्षापकर्षचिन्ना पाखण्डापसद् अयोग्या स्वामि-द्रोह-हेतुः । अत एव तासु भेद-दृष्टिर् निन्द्यते । स्कान्दे—
ब्रह्माणं केशवं रुद्रं भेद-भावेन मोहिताः ।
पश्यन्त्य् एकं न जानन्ति पाखण्डोपहता जनाः ॥ इति ।
योनीनां प्रतिपाद्यत्वे तु कृत्स्नं शास्त्रं परस्पर-विरोधाद् अप्रमाणं स्यादतो युक्तम् उक्तं वितथास्वमूष्व् इति । यद् वा, अथेति हेतौ । यतः स्व-कृतानुकृतिः स्व-कर्मार्जित-देह-प्रतिकृतिः अनल इव दुष्पूरत्वात् । जाठरानल-सम्बन्धाद् अनस्य प्राणस्य लानादादानाद्-वानलो जीवद्-देहः । लुप्तोपमा ।
पक्षे अनलवान्यो जीवद्-देहः तद्वद्-भोगदा भवन्ति । अतो वितथास्व् इति योज्यम् । अयं भावः-यथा चैत्रः स्व-कर्मार्जिते देहे कौलिक-प्रसिद्ध्या शत्रु-निर्मितायां वा देह-प्रकृतौ कण्ठकेन तुद्यमानायां व्यथते एवम् ईश्वरो\ऽपि स्व-माया-कल्पिते जीवाविद्या-कल्पिते । वा कृष्णादि-विग्रहे द्रुग्धे पूजितेवा द्रुग्धः पूजितश् च भवति । यथा-चैत्रस्य देह-प्रकृत्य् एव देहेनापि सम्बन्धो मिथ्या तादृशेनापि भोग-निर्वाहे तत्-सत्य-कल्पनाया अयोगात् असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ। ४.३.१६] इत्य् आदि-श्रुत्या बाधाच् च ।
ततश् च सर्वास्ववस्थास्व् अनुवर्तमाने प्रत्यग् आत्मनि
कदाचिद् अभेदेन पर्यायेण च प्रतीयमानं देह-त्रयं मिथ्या शुक्ताविव रङ्ग-रजतादिकम् । नेह नानास्ति किञ्चन [बृ।आ।उ। ४.३.१९] । इति श्रुत्या बाधितत्वाच् च । एवम् ईश्वरे\ऽपि विग्रहादिर् मिथ्येति । तद् एवं वितथासु हरि-हरादिषु मूर्तिषु यत्-समं कारणम् एक-रसं शुद्धं तव धाम तद्-विरजधियो वीतरागमतयो\ऽन्वयन्ति मूर्त्य् उपास्तिम् अनुप्राप्नुवन्ति । के । अभिविपण्यवः सर्वतो विगत-व्यवहाराः एकान्ते ध्यातार इत्य् अर्थः । एतेनैकादशोक्तो\ऽर्थो दर्शितः यथा—
तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् ।
नान्यानि चेन्तयेद्-भूयः सुस्मितं भावयेन्-मुखम् ॥
तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् ।
तच् च त्यक्त्वा मद् आरोहो न किञ्चिद् अपि चिन्तयेत् ॥ [भा।पु ११.१४.४३-४४] इति ।
एकत्राङ्गे अन्यान्यङ्गानि न चिन्तयेत् । एकत्रेति यद् उक्तं तद् एवाङ्गं दर्शयति-सुस्मितम् इति । व्योम्नि सर्व-कारण-रूपे तच् च कारणत्वम् अपि त्यक्त्वा मयि शुद्ध-ब्रह्मण्य् आरूढः सन्न किञ्चित् ध्यातृध्येय-विभागम् अपि न चिन्तयेद् इति श्री-धराचार्य-व्याख्या ॥१९॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—स्वकृतासु विचित्र-योनिषु चित्रं परमाश् चर्य वस्तु भगवत्-स्वरूपम् ब्रह्म चित्रम् विशेषेण चित्रं वृन्दावन-विलासिनी-रति-लम्पटाकारम् तस्याभिव्यक्ति-स्थानेष्व् अन्तःकरणेषु विचित्र-शब्देन विशुद्ध-मधुर-प्रेमा वोच्यते तत्र त्वं विशन्न् इव हेतुतया-भिव्यक्तेः स्वरूप-योग्यान्तः-करणस्य हेतुतया फलोपधानेन परिपूर्ण-ब्रह्म-घन-रूपत्वेन सर्व-सत्ता-स्फुरणानन्द-हेतुतया सर्वत्र विद्यमानत्वेन वा विशन्न् इवेति तेषु चान्तः-करणेषु तारतम्येन च कस्मिन् स्वकृतं भावम् अनुकरोति—यस्य यो भावो दत्तन्तद् अनुरूपं निज-विग्रहं प्रकटयन्न् इत्य् अर्थः । यद् वा, स्वस्मिन् तैः कृतो यो\ऽनुरागन्तम् अनुकरोति—यस्य यथानुरागस् तथा प्रकाशमान इत्य् अर्थः । अनलवत् काष्ठ-योग्यतावशात् अमूषु त्वद्-रूपस्य त्वत्-प्रेम्णो वाभिव्यक्तिषु वितथासु मिथ्या-कल्पासु सर्वोत्कृष्टत्व-ज्ञानस्य भ्रमत्वात् तव राधा-प्रियतम-धाम श्री-मूर्तिर् अवितथं सकल-भगवत्-स्वरूपोत्कृष्टत्व-ज्ञानस्यान्यथाभावात् समं प्रमायुक्तं सर्व-स्वरूपोत्कृष्टत्व-बुद्धेः प्रमात्वेन युक्तम् मा लक्ष्मीः सा च परमा राधैव मा लोभा श्री-कृष्णस्य राधैव परम-शोभावत्त्वं च राधा-प्रिय-रूप एव । विरज-धियः रजो\ऽनुरागो विशिष्टानुराग-युक्तधियो\ऽनुवर्तन्ते । धाम कथम्-भूतम् एको मुख्यो रसो यत्र । अभिविपण्यवः—विगत-लौकिक-वैदिक-व्यवहाराः अति-शुद्ध-भावाविष्टा इत्य् अर्थः ।
नित्य-गोप्य् अस्तु आहुः—स्वीयाः कृता या **विचित्र-**योनयो वृन्दावनस्थ-स्थिर-चर-शरीराणि तेषु त्वं विशन्निव रूप-लावण्यादिभिर् अन्तः प्रविशन्न् इव हेतुतया पूर्वम् अपि तेषु वर्तमानत्वाद् आविर्भाव-तिरोभाव-परस् तरतमतश् चकास्सि तत्रापि प्रेम-तारतम्य-सत्त्वाद् अमूष्व् अपि वितथासु तत्-प्रेम-सुखात्कर्ष-चरम-काष्ठा-ज्ञानस्य मिथ्यात्वात् । तव धाम अवितथं प्रेम-सुखोत्कर्ष चरम-काष्ठाया अन्यथा-भावद् विरज-धियो महानुरागिण्यो राधानुचर्यो\ऽनुषन्ति राधानुरगताः सत्यो जानन्ति । एको मुख्यो रसो यत्र—शृङ्गार-रसो\ऽपि राधानु-गत-रसस्यैव मुख्यत्वात् । अभिविपण्यवो देह-गृहादि-व्यवहार-शून्याः ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु जिवस्यैवं ममाप्य् उदरादि-सम्बन्धे तेन सह को विशेषः? इत्य् आह—स्व-कृत-विचित्रेत्य् आदि । स्व-कृतासु त्वयैव कृतासु विचित्रासु योनिषु नाना-विधेषु शरीरेषु हेतुतया त्वम् एव विशन्न् एव तरतमत उच् च-नीच-भावेन चकास्सि भ्राजसे, स्व-कृत-विचित्र-योनिष्व् अनुकृतिर् अनुकारो यस्य तथा, इव-शब्दोऽंशेन प्रवेशे [स्वस्य] प्रवेश-सम्भावनायां, वस्तुतस् तु त्वद् अंश एव जिवः, स्वयम् एवोक्तं—ममैवांशो जिव-लोके जिव-भूतः सनातनः [गीता १५.७] इत्य् आदि । अनलवद् अग्निर् यथा काष्ठाद्य् उपाधि-वशात् तरतमतः प्रकाशते, अतस् त्वद् अंशस्य [चित्]-सम्बन्धाद् विचित्र-योनि-शरीराणि जडान्य् अप्य् अजडवद् भान्ति । वस्तुतस् तु तानि वितथान्य् एव ।
अथ प्रकृतोपक्रमे मङ्गले आनन्तर्ये च । अमूषु विचित्रासु योनिषु सतीषु तव धाम समम् अवितथं सत्यम् आनन्द-मयं, अभिन्नत्वाद् अन्तर्यामि-रहितं, समं तरतम-भाव-रहितं यद् अंशस्य प्रवेशाद् वितथा अपि नाना-योनयोऽवितथवद् भान्ति, तस्य त्वद् अभिन्नस्य तव धाम्नोऽवितथं किं विचित्रम् इति भावः । अत एक-रसम् आनन्द-मात्रम्, अतो विरज-धियोभक्तास् तद् अनुयन्ति अनुगच्छन्ति भजन्त इच्छन्ति अभिविपण्यव इति तुल्यम् ॥१९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हेतुर् नियोजकः, तत्तया अन्तर्यामित्वेनेत्य् अर्थः । इवेति बहिर् अपि वर्तमानत्वात् । तारतम्येन चकासने हेतुः—स्वेति । तद्-योनि-नितारतम्यानुसाराद् इत्य् अर्थः । सात्त्विकेषु भगवतो\ऽधिकः प्रकाशः, राजसेषु स्वल्पः, ताम् असेषु स्वल्प-तरः, इति तत्-तद्-भावानुसारेण तारतम्यं व्यक्तम् एव । स्व-शब्दद्-वयेन स्वेच्छयैव लीलया प्रवेशो\ऽनुकृतिश्चेति जीवतो वैलक्षण्यम् उक्तम् । वितथास्व् अवितथं सत्यत्वात्, समं विषमासु वर्तमानम् अपि तारतम्य-हीनं धाम रूपम् । नु निश्चितम्, यन्ति जानन्ति, अमूष्व् एव प्राप्नुवन्तीति वा । एक-रसम् अविकारम्
यद् वा, न केवलं प्रपञ्चाबहिर् एव त्वं विराजसे, किन्तु प्रपञ्चान्तरम् अपीत्य् आहुः—स्वेति । स्वयं कृतासु विचित्रासु सात्त्विकादिभेदेन बहुविधासु योनिषु मत्स्य-कूर्म-वराह—हंस-क्षत्र-देव-विप्रादिषु विशन्निव । इवेत्य् अनधिकार्यम्, हेतुतया स्वातन्त्र्येण प्राविशत् । तारतम्येन चकास्सि । हंस जामदग्न्यादिषु सर्व-शक्तीनाम् आविष्कारात्, श्री-नृसिंहादिष्व् आविकारात्-तारतम्यम्, यथा अनलः क्वचिद् अल्पः, क्वचित् स एव महत्तमः, तथा यथोपयोगम् एव शक्त्याविष्कारात् स्व-कृतानुकृतिः स्वकृतानां मत्स्यादि-जातीनाम् अनु सादृश्येन कृतिर्यस्य । पञ्चात्-सादृश्ययोर् अनु इत्य् अमरः । तत्-तज्-जात्य् अनुरूप-क्रिय इत्य् अर्थः ।
ननु यदि तत्-तज्-जातीय-निर्विशेषः स्याम्, तत्-तद्-रूपो\ऽहम् इति कथं ज्ञायेय? तत्राहुः—अथेति । प्रवेशानन्तरम् एव अमूषु वितथास्व् अनित्यासु जातिषु वर्तमानं तव धाम श्री-मूर्तिम् । कथम्-भूतम् अवितथं तत्-तज्-जाति-प्रादुर्भावेनापि तत्-समवेतत्वेनैव सत्यं विशुद्ध-बुद्धयो जानन्ति । तत्र हेतुः—समं सशोभम् एक-रसं श्रेष्ठ-क्रीडं चेति । यमलार्जुनाभ्याम्
यस्यावतारा ज्ञायन्ते शरीरिष्व् अशरीरिणः ।
तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्वस् अङ्गतैः ॥ [भा।पु १०.१०.३४] इति ।
अविपण्यवः सर्वथा विगतव्यवहाराः परमार्थदर्शिनो भक्ता इति यावत् । इदं ज्ञाने हेतुः ॥
[श्री-वृन्दावनादि-प्रसङ्गेन काश्चिद्-वत्स-वत्स-पादिहरणे श्री-भगवतस् तद्-रूपताम् उद्दिश्न्त्यो भक्त्येक-गम्यताम् आहुः—स्वकृतेति । स्वकृतासु कृईडार्थम् अत्र स्वयम् आविर्भावितासु विचित्रासु बहु-विधासु वत्स-वत्स-पादि-रूपासु योनिष्व् आकृतिषु हेतुतया उपादानत्वेन विशन्निव, तत्-तद्-रूपो भवन्न् इव, श्री-व्रजेन्द्रानन्दनस्य पृथक्त्वेन तथैवावस्थानात् । इव-शब्दो\ऽनधिकार्थे वा, तरतमतस् तारतम्येन च, क्वापि यष्टि-शृङ्गादि-रूपत्वेन च तथा च कामना-तारतम्यम् अनलवत् । यथाग्निकाष्ठादीनां न्यूनाधिकत्वेन न्यूनाधिकस् तथा तत्-तदाकृतीनां सादृश्येन त्वम् अपीत्य् अर्थः
ननु मायया तत्-तद्-रूपतास्तु नेत्य् आहुः—स्वकृतेति । सुष्ठु न कृता अनुकृतिर्मायया तद्-रूप-विडम्बनं येन स तथा । ननु न भवतु मायिकत्वं तेषाम्, किन्तु चिद्-रूप-विग्रहा मयैव ते जीव-विशेषा आविष्कृता इत्य् अन्तु, कथम् अहम् एव तत्-तद्-रूप इत्य् उच्यते इत्य् अत आहुः—अथेति
तद्-रूपताविष्कारानन्तरम् एवामूषु वत्स-पाद्याकृतिषु वितथास्व् अतत्-प्रकारासु सर्वत्र तत्-तद्-रूप-लक्षण-हीनास्व् अपीत्य् अर्थः । अभिविपण्यो\ऽभितो विशेषेण पणयन्ति स्तुवन्ति सेवन्ते इत्य् अभिविपण्यवः परम-भक्तास् तव धाम श्री-मूर्तिम् अवितथम् अबाधितं तत्-तद् आकृतिभिर् अनाच्छन्नं जानन्ति । तत्-तद्-रूपस् त्वम् एवासीति परिचिन्वन्तीत्य् अर्थः । तत्र लिङ्गम्-समम् इति, मा तरम-शोभा तत्-सहितम् । एक-रसं च मुख्य-रसं तत्-तद् असाधारण-लीला-रसिकम् इत्य् अर्थः ॥१९॥]
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वकृतेति तैरवतारितम् एव स्वेनैव कृताः अचिन्त्यशक्त्या स्वस्याविष्कृतस्यापि परिणामरूपा निष्पादित-रूपाश्चेत्य् अर्थः । विचित्र-योनयो ब्रह्मादि-स्थावरान्ताः हेतुतया प्रयोजकतया अन्तर्यामितयेत्य् अर्थः । तत्-सृष्ट्वा तद् एवानुप्राविशत् इत्य् आदि-श्रुतेः । अत्रैव शब्द-प्रयोगो विभोर् मुख्य-प्रवेशासम्भवात् । तरतमतश् चकास्सि तारतम्येन चकास्सि स्वशक्तिं तत्रतत्र प्रकाशयसि । तत्र हेतुः—स्व-कृतानुकृतिः यावत्-कार्यम् उपादत्से तावतीम् एव तत्र शक्तिं प्रकाशयसीत्य् अर्थः । अनलो यथा यावत्-स्फुलिङ्गादिकम् उपादत्ते तावतीम् एव तत्र शक्तिं प्रकाशयति । तद्वत् । स्वतस्तु तत्राप्य् अनन्त-शक्तितास्त्येवेति भावः । तथैवाहुः—अथेति । विकारावर्ति च तथा हि दर्शयति [वे।सू। ४.४.१९] इति न्यायात् । वितथत्वं नश्वरत्वम् । अन्यत्तैः । श्रुतयश् च तद्दर्शिता एव ॥६॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-कृतेति । अत्र टीकावतारेणैव गम्या ॥१९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु भो ममाप्य् उदरादि-सम्भवाज् जिवेन सह को भेदः ? इत्य् आशङ्क्याहुः—स्व-कृत-विचित्रेत्य् आदि । अथ भो भगवन् ! सर्व-कारण-कारणं तव धाम मूर्तिर् वितथास्व् असुषु विचित्रासु योनिषु वितथास्व् प्राकृतत्वाद् अवस्तुत्वेन ज्ञायमानासु, अवितथं वस्तु-भूतं समं सर्व-दा तुल्यावस्थं, सन्तं वयसि कैशोरे [भा।पु। ३.२८.१७] इत्य् उक्तेः । विरज-धियो निर्मल-बृहद् आरण्यक्यो भक्ता अनुयन्ति अनुभजन्ते, यतोऽमी अभिविपण्यवः सर्वतो-भावेन विशेषेण पण्यवः स्तुत्याः, पण व्यवहारे स्तुतौ च इत्य् औणादिको युन्, मन्यु-प्रभृतिवत् । कीदृशं धाम ? एक-रसं सानन्दं, नराकृति-ब्रह्मत्वात् ।
ननु मां सर्वान्तर्यामिणम् आहुः, सर्वान्तर्यामित्वे कथा मूर्तिमत्त्वं मे ? इत्य् आशङ्क्याहुः—स्व-कृतेत्य् आदि । तरतमतो मध्यमोत्तमादि-भावेन स्वेन त्वयैव कृतासु विचित्रासु नाना-प्रकारासु योनिष्व् स्व-कृतानुकृतिर् नारायणो विशन्न् इव वर्तत इति शेषः । स्वस्य तव कृतेऽनुकृतिर् अनुकारो यस्य त्वद् आद्य् अवतारः । तथा चोक्तं—अवाप नारायण आदि-देवः [भा।पु। ११.४.३] इति ।
तर्हि कस् तावद् अहम् ? किं वा करोमि ? इत्य् आशङ्क्याहुः—हेतुतया सर्व-कारण-कारणत्वेन चकास्सि भ्राजसे, न तु त्वं तासु विशन्न् इव वर्तसे, अनलवत् सर्व-प्रकाशक इत्य् अर्थः ॥१९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परमात्मनः प्रति-देह-गतत्वेन बहुत्वाद् देह-तारतम्येन तारतम्याच् च जीव-साम्ये सति कथम् उपास्यत्वम् इत्य् अत आहुः—स्वकृतासु स्वेनैवाचिन्त्य-शक्त्या निष्पादितासु ब्रह्मादि-स्थावरान्तासु योनिषु स्वाभिव्यक्ति-भूमिषु हेतुतया प्रयोजकतयान्तर्यामितया तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इति आदि-श्रुतेः । इवेन मुख्य-प्रवेशासम्भवो दर्शितः । तरतमतस् तारतम्येन चकास्सि स्वशक्तिं तत्र-तत्र प्रकाशयसि ।
तद् एवाहुः—स्वकृतासु ब्रह्मादि-स्थावरान्त-योनिषु अनुकृतिस् तद् अनुकरण-शक्ति-प्रकाशो यस्य सः अनलवत् अनलो यथा—यावत्-स्फुलिङ्गादिकम् उपादत्ते तद्वत् ।
अथ वितथासु विनष्टासु अमूषु योनिषु विरज-धियो निर्मल-मतयः अनुयन्ति जानन्ति । ते एव के । अभि सर्वतो भावेन विपण्यवो विगत-व्यवहाराः । पण व्यवहारे इत्य् अस्य रूपं पण्युर् इति । ऐहिकाम् उष्मिक-कर्म-फल-शून्या इत्य् अर्थः । एक-रसं केवलानन्दास्वाद-स्वरूपम् । अतस् तव सर्व-कारणत्वात् स्वातन्त्र्याद् उपाधि-कृत-तारतम्याभावाद् अप्रच्युतैश्वर्याच् चोपास्यत्वम् इति भावः ! अत्र तत् सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इति
एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११] इत्य् आद्याः श्रुतयः ॥१९॥
॥ १०.८७.२० ॥
स्व-कृत-पुरेष्व् अमीष्व् अबहिर् अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-कृतम्-कृतम् ।
इति नृ-गतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च74 कुतो न्व् इयम् आशङ्का स्याद् भगवतो देहाद्य् उपाधि-कृत-दोष-प्रसङ्ग इति यतोऽविद्या-काम-कर्मभिः संसरतो जीवस्यापि भगवद्-भावं लक्षणया बोधयन्त्यस् तं दोषं निषेधयन्ति—स यश् चायं पुरुषे । यश् चासाव् आदित्ये । स एकः [तै।उ। २.८.५], तत् त्वम् असि [छा।उ। ६.८.७] इत्य् आद्याः श्रुतयः ।
ननु क्रत्व् अर्थस्यात्मनः स्तुतिर् इयम् ईश्वरत्वेन क्रियते, न तु तस्येश्वरत्वं बोध्यते ? नैतद् युज्यते, यतस् तत्र—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते75 कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३]
इत्य् आद्याह् श्रुतयः । कृतावतारस्य76 भगवतश् चरण-भजनम् उपायं वदन्तीत्य् आह—स्व-कृत-पुरेष्व् इति । स्व-कर्मोपार्जितेषु पुरेषु देहेष्व् अमीषु नरादिषु भोक्तृत्वेन वर्तमानं पुरुषम् अखिल-शक्ति-धृतः सर्व-शक्त्य् आश्रयस्य पूर्णस्य तवांश-कृतं वदन्ति । अंश इवांशः, कृत इव कृतः । त्वद्-रूपं वदन्तीत्य् अर्थः
ननु कार्य-कारण-संवृतस्य कुत एवं-भूतत्वं ? तत्राह—अबहिर् अन्तर-संवरणम् इति। बहिः कार्यम्, अन्तरं कारणम्, वस्तुतस् तद् आवरण-शून्यम्, तयोर् असत्त्वाद् इत्य् अर्थः । इत्य् एवं नृ-गतिं नुर् जीवस्य गतिं तत्-त्वं विविच्य विशोध्य कवयोऽन्यथेदं77 न प्राप्यत इति जानन्तो निगमावपनं निगमोक्त-कर्मणाम् आ-वपनम्, आ समन्ताद् उप्यतेऽस्मिन्न् इत्य् आवपनं, क्षेत्रं सर्व-कर्मार्पण-विषयम् इत्य् अर्थः । यत्रार्पितानि कर्माणि मुक्ति-फलं फलन्ति, तं भवतोऽङ्घ्रिम् अभवं भव-निवर्तकं विश्वसिताः कृत-विश्वासा उपासतेऽर्चन-वन्दनादिभिः सेवन्ते । भुवि इति मर्त्य-लोके । इदम् एवोचितम् इति दर्शयन्ति ।
त्वद् अंशस्य ममेशान त्वन्-माया-कृत-बन्धनम् ।
त्वद् अङ्घ्रि-सेवाम् आदिश्य परानन्द निवर्तय ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्र पूर्वोक्तार्थासम्भवम् आह—अपि चेति । यतो हेतोर् अविद्या-काम-कर्मभिः देहादाव् आत्म-बुद्धिर् अविद्या, तद्-वशेन विषयेच्छा कामः, तन्-निष्पत्तये कर्माणि क्रियान्त इति तेन च संसार इति संसरतो जीवस्य लक्षणया भाग-त्याग-रूपया भगवद्-भावम् ईश्वरतां बोधयन्त्यः श्रुतयस् तद्-दोषं देहाद्य् उपाधि-कृत-सङ्ग-दोषं निषेधयन्ति । ततो हेतोर् भगवतोऽप्रच्युत-ज्ञानैश्वर्यस्येयम् आशङ्का देहाद्य् उपाधि-कृत-तारतम्यादि-रूपा शङ्का । नु वितर्के । कुतः स्त्या कथं सम्भवेत् ? न कथम् अपीति भावः ।
श्रुतीर् आह—स यश् चायं पुरुषे । यश् चासाव् आदित्ये । स एकः [तै।उ। २.८.५], अरे अयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव [बृ।आ।उ। ४.५.१३] इति । तत् त्वम् असि [छा।उ। ६.८.७] इत्य् आद्या । इहादिना अयम् आत्मा ब्रह्म [बृ।आ।उ। ४.४.५] इत्य् आदि ग्रहः ।
अर्थः—परमे व्योम्नि आकाशाद्य् अन्न-मयान्तं कार्यं सृष्ट्वा तद् एवानुप्रविष्टे यः स एवायं पुरुषः । अयं कः ? यश् चासाव् आदित्ये वर्तते । स एक एव भवति । अयम् आत्मानन्तरः अन्तर-शून्यः । अबाह्यो बाह्य-शून्यः । कृत्स्नः पूर्णः । ज्ञान-घनो ज्ञान-स्वरूप इति । तत् त्वम् असि [छा।उ। ६.८.७] व्याख्यात-चरम् ।
पुनर् आक्षिपत्य् अत्र—नन्व् इति । क्रतुर् यज्ञोऽहं-प्रयोजनं यस्य स तथा यज्ञ-कर्तेत्य् अर्थः । आत्मनः पुरुषस्य तत् त्वम् असीत्यादि वाक्यैः स्तुतिर् इयं, न तु तस्य यज्ञ-कर्तुः । परिहरति—नैतद् इति । एतद् यज्ञ-कर्तुः स्तवनं न युज्यते युक्तं यतो हेतोः भगवद्-भक्ति-युक्तस्यैव कथितार्थाः श्रुति-तात्पर्य-विषयीभूतार्था अतस् तत्रात्म-ज्ञानं यस्येत्य् आद्याः कृतावतारस्य राम-कृष्णादि-विग्रहस्य चरण-भजनम् उपायं तत्-प्राप्ति-कारणं वदन्तीति योज्यम् ।
श्रुतीर् आह—यस्य देवे [श्वे।उ। ६.२३] इति । श्वेताश्वतरेण कथिता अर्थाः पदार्थास् तस्यैव महात्मनः प्रकाशन्ते यथावत् स्फुरन्ति नान्यस्येत्य् अर्थः । कस्येत्य् आकाङ्क्षायाम् आह—यस्य पुरुषस्य देवे परमेश्वरे परा फलाभिसन्धान-शून्या भक्तिर् अनुरागो भवति। यथा देवे तथैव चेद् गुरौ सद् अर्थोपदेष्टरि भक्तिर् भवेत्, तस्येत्य् अर्थः । स्माद् एवं ब्रह्म-विद्यार्थिभिर् देवता-गुरु-विषया निरुपाधिर् भक्तिः कार्येति दर्शितम् ।
इत्य् अर्थ इति—निष्फलं निष्क्रियं शान्तम् इत्य् आदि-श्रुत्या निरंशत्व-बोधनाद् इति भावः । अत्राशङ्कते—नन्व् इति । कार्यं देहादि कारणम् अज्ञानं, ताभ्यां संवृतस्य आच्छन्नस्य एवं-भूतत्वं भगवद्-रूपत्वम् ।
इत्य् अर्थ इति—न ह्य् असद्भ्यां स्वाभाविकी सद्-रूपतापाकर्तुं शक्येति भावः । तत्-त्वं स्वरूपम् । अन्यथा भक्तिं विना इदं ज्ञानं नाप्येत
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवल-बोध-लब्धये
तेषाम् असौ क्लेशल एव शिष्यते [भा।पु। १०.१४.४] इत्य् आद्याः ।
इत्य् अर्थ इति—सुक्षेत्रार्पितं बीजं शुभ-फलाय भवतीति भावः । अंश-कृतम् इति । गोपाल-तापनीये—ब्रह्मांश-भूतस् तथेतरो भोक्ता [गो।ता।उ। २.१९] इति । नारद-पञ्चरात्रे प्राधानिक-सर्गम् उक्त्वा शुद्ध-सर्ग-कथने—
यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इत्य् आदौ ।
गीतासु च—ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.६] इति
अङ्घ्र्य् उपासनम् आह श्रुतिः—
चरणं पवित्रं विततं पुराणं येन पूतस् तरति दुष्कृतानि ।
तेन शुद्धेन पवित्रेण पूतेनातिपाप्मानम् अरातिं तरेम ॥
लोकस्य द्वारम् अर्चिष्मद् भ्राजमानं महस्वद् अमृतस्य धारा
बहुधा दोहमानं चरणं लोके सुधितां ददातु ॥ इति ।
अर्थः—श्री-कृष्णस्य कृत-त्रिविक्रम-रूपस्य चरणं याचमाना आहुः—येन पातक्य् अपि पूतः पवित्रः सन् दुष्कृतानि पापानि तरति, तच् चरणं पवित्र-करम् । विततं विस्तीर्णम्, भूर्-भुवः-स्वर् अतिक्रम्य वर्तमानम् । पुराणं सनातनम् । तेन चरणेनारातिं वैरिणं पाप्मानं तम् अतिशयेन तरेम । किम्-भूतेन ? शुद्धेन स्वयंभू-दत्तार्घ-जल-धौतेन । पुनश् च पवित्रेण पवित्र-कारकेण पूतेन निर्मलेन । तच् चरणं लोके सुधितां सुधा-धारां ददातु, तारकादित्वाद् इतच् । किम्-भूतम् ? लोकस्य वैकुण्ठस्य अर्चिष्मद् दीपवत् द्वारं भ्राजमानं देदीप्यमानम् । न केवलम् एतावद्, अपि तु महस्वत् महः ब्रह्म-तेजो-मण्डलं, तद्-युक्तम् । अत एव लोके बहुधा बहु-प्रकारा अमृतस्य धारा धर्मार्थ-काम-मोक्ष-भक्ति-रूपाः काम-धेनुर् इव भक्तेभ्यो दोहमानम् । अत एवं-भूतं चरणं भजामेत्य् अर्थः । भक्ति-परेयं श्रुतिः । स्वामिनां त्वद् अंशस्येति सुगमम् ॥
श्रीधरानुयायिनी : एवं परमात्मानम् उपास्यं निरूप्य जीवात्मानं तद् अंश-तुल्यत्वेन निरूपयन्-कैमुतिक-न्यायेन प्राग् उक्तम् एव द्रढयति-स्वकृतेति । यतः स्व-प्रारब्धोपाजितेषु मनुष्यादि-देहेषु भोक्तृत्वेन वर्तमानम् अपि जीवं जाताव् एकत्वम् । सर्व-शक्तेस् तव स्वरूपम् ममैवांशो जीवलोके जीव-भूतः सनातनः [गीता १५.७]। इति श्री-गीतोक्तेर् वस्तुतो देहाद्य् अनावृतं च विवेकिनो वदन्ति भेदकोपाधेः शरीरादेर् मिथ्यात्वात् । अत एव जीवतत्त्वं विवेकिनो विशोध्य यत्रार्पितानि वैदिकानि कर्माणि मद् अर्थम् अपि कर्माणि कुर्वन्-सिद्धिम् अवाप्स्यसि [गीता १२.१०] इति भगवद् उक्तेर् मोक्षदायकानि भवन्ति । तं गर्भ-वासादि-दुःख-हरं कल्प-पादपं तव पाद-पद्मम् । भारत-खण्डे माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति [गीता ७.१४] ते । इत्य् आदि-भगवद्-वाक्ये कृत-विश्वासा भजन्ति । यद्-वाखिल-शक्ति-धृतस् तवांशो\ऽयम् अतस् तत्-कृतम् अभक्त-दण्डनार्थं स्वर-चितेषु पुरेषु रौरवादि-नरकेषु पुरुषं देहादिलम्पटं जीवम् उद्दिश्याबहिरन्तर-संवरणम् अबहिर् यथा स्यात्-तथा चौरम् उद्दिश्य कारागार इवान्तरेव संवरणं बन्धनं वदन्ति तथा नरक-भोगानन्तरम् अमीषु ऐहिकेषु स्व-प्रारब्ध-रचितेषु पशु-पक्ष्यादि-विचित्र-शरीरेषु संवरणम् इत्य् एवं जीवगति विविच्य विचार्य कवयः शास्त्र-तात्पर्य-ज्ञास् त्वत्-कृपयैव बन्धनान्-मुक्तिर् इति विश्वसिताः सन्तो भुवि भारत-खण्डे निगमानां वेदोक्त-कर्मणाम् आवपनं क्षेत्र-मत एवाभवं भव-निवर्तकं भवतो\ऽङ्घ्रिम् उपासत इत्य् अर्थः ॥
नीलकण्ठी : सङ्गतिः पूर्वोक्ता । स्व-कृत-पुरेष्व् इति । स्वाज्ञान-कल्पितेषु अमीषु दृश्यमानेषु प्रविष्टं पुरुषं पुरि शयं जीवम् अखिल-शक्ति-धृतस् तव परास्य शक्तिर् विविधैव श्रूयते [श्वे।उ। ६.८] इति श्रुतेः । स्व-शक्ति-मतस् तवांश-कृतम् अविद्ययांशमिव कृतं घटाकाशवन् निरंशस्य वास्तवांशांशि-भावायोगात् वदन्ति श्रुतयः स्मृतयश् च
पुरश् चक्रे द्विपदः पुरश् चक्रे चतुष्पदः ।
पुरः स पक्षी-भूत्वा पुरः पुरुष आविशत् ॥ [बृ।आ।उ २.५.१८] इति
ममैवांशो जीवलोके जीव-भूतः सनातनः । [गीता १५.७] इत्य् आद्याः ।
अस्य जीवस्य पूर्व-श्लोक्तैक-रस-ब्रह्म-भावस्योपपादनाय तात्त्विकं रूपम् आह—अबहिर् अन्तर-संवरणम् । न सन्ति बहिः अन्तरं संवरणं च यस्य तम् अस्य बहिर् नास्ति महत्तरत्वात्, नान्तरम् अणुतरत्वात्, संवृणोति व्याप्नोति संव्रियते व्याप्यते इति कर्तृकर्मव्य् उत्पत्तिभ्यां संवरणम् उपादानम् उपादेयं च तद् उभयम् अस्य नास्तीत्य् अर्थः । तथा च श्रुतयः अणोरणीयान् महतो महीयाम्, न तद् अश्नोति कञ्चन, न त दश्नोति कश्चन इति शास्त्रानुभवाभ्यां नृणां जीवानां गतिं निःसङ्गित्व-दुःखित्व-रूपां विविच्य कवयः शास्त्रज्ञाः भवतो विष्णोर् अङ्घ्रिम् उपासते । अघ्रिं विशिषन्नेवोपासनायाः स्वरूपं फलं चाह-निगमावपनम् । अभवं वेदोक्त-कर्मणां समर्पण-स्थानं मद् अर्थम् अपि कर्माणि कुर्वन्-सिद्धिम् अवाप्स्यसि [गीता १२.१०]इति स्मृतेः । तत्त्व-जिज्ञासुना भगवत्-प्रीत्य् अर्थं कर्माणि कर्तव्यानीत्य् अर्थः । अभवं भव-निवर्तकं मूर्ति-ध्यानादि-क्रमेण विश्वसिताः श्रद्धालवः श्रद्धावाल्-लभते ज्ञानम् [गीता ४.३९] इति स्मृतेः, इदं मुख्यम् अधिकारि-विशेषणम् । इह चेद् अवेदीदथ सत्यम् अस्ति न चेद् इहावेदीर् महती विनष्टिः [के।उ। २.५] इति श्रुतेर् मर्त्य-लोक एव साधनानुष्ठानं घटते नान्यत्रेति दर्शयितुं भुवीत्य् उक्तम् ॥२०॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहु—स्वकृतानि स्वांशेन प्रकृति-नियन्तृ-रूपेण कृतानि पुराणि समष्टि-व्यष्टि-शरीराणि येषां हिरण्य-गर्भादीनां तेष्व् अन्तर्यामित्वेन वर्तमानं पुरुषं सुष्ठु अकृतेषु नित्येषु चिदानन्द-मयेषु शरीरेषु चतुर्-भुजादि-रूपेष्व् अभिमानित्वे च वर्तमानं पुरुषम् न विद्यते बहिर् अचेतन-दृश्य-प्रपञ्चो\ऽन्तर्-दृष्टचेतन-प्रपञ्चो यत्र सः संवृणोति सर्व-द्वैत-संवरणः कारणवस्थः प्रकृत्याद्य् आविर्भावको नारायणस्तं च पुरुषं बहिर् अन्तरं द्रष्टृ-दृश्य प्रपञ्च-रूपं संवरणं माया-वहिर् अन्तरयोर् द्रष्टृ-दृश्ययोस् तत्त्वस्याच्छादकं मायाख्यं वा तद्-रहितं वा पुरुषं पुरुषोत्तमम् इत्य् अर्थः । नारायण-रूपेनैव माया-प्रवर्तकः पुरुषोत्तम-देवकीनन्दनस्यावस्थ-विशेषः । तत्र बहिर् द्वैत-प्रपञ्च-मात्रम् अन्तरं परं ब्रह्म न विद्यते यत्र अस्फुरणम् एवासत्ता सम्यक् वरणं प्रेमा यस्मिंस् तं पूरुषं गोप-वेषं यादवेन्द्रं व्रज-वृन्दावन-प्रेमावेशात् संस्कार-शेष-यादवत्त्वाहंमानं पुरुषं तव शुद्ध-गोपाल-रूपस्यांश-कृतं शक्ति-गुणानन्दाद्यशेन शक्त्य् आदि-सम्पूर्णं कृतं वदन्ति । इति एवं प्रकारेण नृणां गतिं पुरुषार्थं विविच्य विवेकेन ज्ञात्वा नितरां गच्छति कृष्णेऽन्तः-करणं येन तस्य महा—प्रेम्ण आवपनं भाण्डं स्थानम् इत्य् अर्थः । अङ्घ्रिम् उपासते भुवि श्री-वृन्दावने भवत्याविर्भवति विशुद्धोअ महा—प्रेमा यस्मिन् । विशति प्रविशति रूपेण सर्वेषां मन इति विश्वो\ऽनन्त-कन्दर्प-रूप-विलास-निधिः कृष्णः सितो वद्धः प्रेम-रसनया यैः प्राप्तः ।
नित्य-गोप्यस्तु आहुः—पुरुषम्—उषति दहत्यन्तः करणम् उट् कामः पूर्यते इति [पूर्] पूर्णः कामो यस्याः न हि श्री-कृष्ण-चन्द्रे राधाया अन्यस्याः पूर्णः काम-रसः तां श्री-राधां स्व-कृतपूरेष्वात्मवत्-प्रेमास्पददीकृतेषु शरीरेषु शोभनो\ऽकृतः सहज-भावो येषु तादृशेषु वृन्दावनस्थ-स्थिरचर-शरीरेषु च स्वस्मै प्राण-धन-स्वरूपाय तुभ्यम् एव त्वद् अर्थम् एव कृतं शरीरं येषां विशुद्ध-प्रेमैक-सर्व-स्वेष्व् इत्य् अर्थः । ते तवांशकृतं त्वद्-भाग-कारिणीं वदन्ति अमी सर्वे सम्यग्-बुद्धिमन्तः इति । श्री-राधैव हि त्वां पूर्णं प्राप्ता अन्यत्रांश-मात्रम् इत्य् अर्थः तद् अपि तद् अनुग्रहाद् इति भावः । राधां कथम्-भूताम् यत्र बहिर् अन्तरं किम् अपि न स्फुरति तादृशः सम्यग्-वरणम् प्रेमात्मिकाम् इत्य् अर्थः । इति एवं प्रकारेण नराणां व्रज-वृन्दावन-गतानां जीवनानां सर्वेषां गतिं कृष्णं तत्-प्रेम वा विविच्य विवेकेन राधा-रसाविष्ट-स्वरूपम् एव निश्चित्य भवतो\ऽङ्घ्रिम् उपासते\ऽस्मद्-विधाः । पुरुषभित्यस्य विशेषणं निगमावपनम् इति नितरां गच्छन्नीति निगमाः सर्वात्म-भावेन महा—प्रेम्णा नागरेन्द्र-सङ्गरसं प्राप्नुवन्ति ता गोपीरवति पालयति यः श्री-कृष्णस् तेन स्तूयते रूप-विलास-वैदग्ध्यादिना सर्व-गोऽप्य् उत्तमत्वेन तां राधां भूवि वृन्दावने विश्वः श्री-कृष्णः सदा हृदि प्रविष्टत्वात् विशत्य् एव क्षणे क्षणेऽन्यान्य-रूप-शोभादि-चमत्कारवत्-स्वरूपेण न तु कदाचिद् अपि निर्गच्छति हृदयात् प्रविशति वा सततं रति-विलास-समुत्कण्ठया श्री-राधिकया सह निकुञ्जाभ्यन्तरम् इति विश्वः श्री-कृष्ण-चन्द्रः स सितो वद्धः प्रेम्णा याभिः तेन वा वद्धाः श्वयते वर्द्धते सौन्दर्यादि-चमत्कारैर् विगतं तादृशं तादृशं रूपं यस्माद् एतादृशो\ऽसितः श्री-कृष्णो यासाम् न विद्यते विशुद्ध-प्रेमाविर्भावकं रूपम् अस्मात् तादृशम् इत्य् अर्थः ॥२०॥
———————————————————————————————————————
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु सर्व-भूतेषु वर्तमानो हि पुरुष एव, कथं ममांशः ? इत्य् आह—स्व-कृत-पुरेष्व् इत्य् आदि । स्व-कर्मोपार्जितेषु शरीरेषु भोक्तृत्वेन सन्तं पुरुषम् एव अखिल-शक्ति-धृतस् तव श्री-कृष्णस्य अंश-कृतं वदन्ति । कीदृशम् ? अबहिर् अन्तर-संवरणं बाह्यान्तरावरण-शून्यम् अबहिर् अन्तर-संवरणं यथा भवति, तथाखिल-शक्ति-धृत इति वा । इति विविच्य कवयः [तवाङ्घ्रिम् उपासते], विश्वसिताः कृत-विश्वासाः सन्तो भजनेनैव श्रेयो भविष्यतीति जात-निश् चयाः । अतस् त्वच्-चरणारविन्दोपासनम् एव सर्वोत्तमम् इति भावः ॥२०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरेषु स्थिर-चर-देहेषु वर्तमानत्वात् पुरुषं तवांश-कृतं तवाचिन्त्य-शक्तेर् अंशेन सामान्य-चिच्-छक्ति-वृत्ति-विशेषेण कृतं विशिष्टं चिद् अणुं जीवं वदन्तीत्य् अर्थः । अतो न विद्यते बहिः क्रिया-शक्तौ अन्तश् च ज्ञान-क्रिया-शक्ताव् असंवरणं परिच्छेदाभावो यस्य तं, परिच्छिन्न-क्रिया-ज्ञान-शक्तिकम् इत्य् अर्थः । तथा च महा—वाराहे—
स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
तद् एव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥ इति ।
तत्र स्वांशो\ऽवतारः, विभिन्नांशो जीव इति । अखिलाः सृष्ट्यादि-शक्तीर् धरतीति तथा तस्येति जीवेभ्यो\ऽत्यन्त-वैलक्षण्यम् । इत्य् एवं नृ-गतिं भिन्नाभिन्नं जीव-तत्-त्वं कवयो विवेकिनो निगमावपनं सर्व-कृतार्पण-पूर्वकम् इत्य् अर्थः । भुवि वर्तमानम् इति श्री-वृन्दावन-विहारि-श्री-कृष्ण-पादाब्जाभिप्रायेण ।
यद् वा, स्वयम् आविष्कृतेषु पुरेषु वैकुण्ठ-विशेषेषु समष्टि-व्यष्टि-देहेषु च स्थितं पुरुषम्—
एकं तु महतः स्रष्टृ द्वितीयं त्व् अण्ड-संस्थितम् ।
तृतीयं सर्व-भूत-स्थं तानि ज्ञात्वा विमुच्यते ॥ इत्य् उक्तम् ।
पुरुष-त्रयं तवांश-कृतम् । अंशेन चिच्-छक्त्या प्रकटितं वदन्ति शास्त्रज्ञाः । अखिलाः शक्तिर् या या लीला-संविदाद्या धरतीति तस्य । कथं-भूतम् ? पुरुष-त्रयम् इति हेतोर् नृषु जीवेष्व् अपि तव गतिम् अन्तर्यामितया प्राप्तिं विविच्य शास्त्रानुभवाभ्यां निश्चित्य विश्वसिताः सन्तः कवयो विवेकिनो भुवि हृदय-स्थाने भवतो\ऽङ्घ्रिं सेवन्ते । कथं-भूतम् ? निगमावपनं वर्व-वेदानाम् आश्रयम् अवलम्बनम् । पुनः कथं-भूतम् ? अभवं संसार-ध्वंसकम् ॥
न केवलं गोकुलाविष्कृत-वत्सपादि-रूपं त्वत्-स्वरूपतया परिचिन्वन्ति, किन्तु तत्र तत्राविष्कृतं तत्-तद्-रूपम् अपीत्य् आहुः—स्व-कृतेति । स्व-कृतेषु पुरेषु निवासेषु बदरिकाश्रम-नीलाचल-पाण्डुरङ्गाख्येषु [सिद्ध-रङ्गाख्येषु]। सन्तं पुरुषं पुरुष-त्रयं नारायण-जगन्नाथ-विट्ठल-स्वरूपं तवांश-कृतं गोकुलेन्द्रस्यांशावतार-विशेषम् इत्य् अर्थः । अबहिर् अन्तर् असंवरणं यथा स्यात् तथा सुप्रकटम् एव वदन्तीत्य् अर्थः । अथवा स्व-कृतेषु पुरेषु स्वैर् भक्तैः कृतेषु बृहद्-वन-वृन्दावन-नन्दीश्वरादि-स्थित-व्रज-पुरेषु पुरुषं बलदेव-प्रद्युम्नानिरुद्ध-रूपं व्यूह-त्रय-लक्षणं त्वत्-स्वांश-कृतम् अंशावतार-रूपेणाविर्भाव-प्राप्तम् [अंशेनाविर्भातं]। तथा हि तापनी श्रुतिः—
तत्र हि रामस्य राम-मूर्तिः, प्रद्युम्नस्य प्रद्युम्न-मूर्तिः, अनिरुद्धस्यानिरुद्ध-मूर्तिः [गो।ता।उ। २.३५] इति ।
कथं-भूतम् ? अबहिर् अन्तर-संवरणं, न विद्यते बहिः सुव्यक्त-लीलायां, अन्तरे अबहिर्-लीलायां संवरणम् अनभिव्यक्तिः सहावस्थानाभावो यस्य । तत्र श्री-बलदेवस्य बहिर्-लीलायां सहावस्थानाभावो नास्ति, किन्तु सहचरत्वम् एव, प्रद्युम्नानिरुद्धयोस् तु सुव्यक्त-व्रज-लीलानुगुण्याभावाद् बहिर्-लीलायाम् अनैभिव्यक्तिर् इत्य् अर्थः
[व्रज-जनादृश्यतायाम् अनभिव्यक्तिर् इत्य् अर्थः] यद् वा, पुरुषं बलद् एवम् एव । कथं-भूतम् ? स्व-कृत-पुरेष्व् अमीष्व् अबहिर् अन्तर-संवरणं व्रज-नगरेषु बहुत्र, तत्र तत्र प्रसिद्धत्वाद् बहुत्वम् । न विद्यते बहिर् वर्तन-शैलादिषु अन्तरेषु च व्रज-गृहादिषु संवरणम् अनभिव्यक्तिर् यस्य तम् । अखिल-शक्ति-धृतो\ऽनन्त-साधारण-सर्व-शक्तीः सम्प्रति प्रकटयतः इति परमैश्वर्याद् धेतोः कवयः सर्व-ज्ञा ब्रह्म-रुद्रादयः, भुवि श्री-माथुर-भूमौ विराजमानस्य भवतो नृ-गतिं मनुष्य-लीलां विविच्य सर्वोत्कर्ष-पदत्वेन विमृश्य विश्वसिताः, अत्रैव लब्ध-विश्वासाः, अङ्घ्रिं त्वत्-पाद-पद्मम् उपासते । कथं-भूतम् ? निगमावपनं सर्व-श्रुतीनां तात्पर्य-विषयम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्व-कृत-पुरेष्व् इत्य् अस्य टीकायां तस्येश्वरत्वं बोध्यते । इत्य् अस्यायं विशेषः । अतो जीव एव तद् ईश्वरत्वेन स्तूयते इति स । यश् चायम् इत्य् आदि-वाक्येनेश्वराख्यं पदार्थान्तरं न कल्पनीयम् इति तत्राह—नैतद् युज्यत इति । कृतावतारस्येत्य् उत्तर-श्लोकाभिप्रायेण कृतावतारत्वेन शास्त्र-प्रसिद्धस् तदानीन्तनानुभव-सिद्धश् चैष इति भावः । अत्र त्व् अन्ये वदन्ति यदि चेश्वरो नाम कश्चिद् स्वतः सिद्धः स्यात्, तदा जीवस्य स्तवायैव तद् अभेद-निर्देशो घटते । यदि तु जीवाविद्या-कल्पितः स्यात्, तद् जीवैः कथं नोपलभ्यते ? सत्यं चानुपलब्धौ तस्य किं निर्देशेनाभेद-निर्देशेन चेति ।
अथ स्व-व्याख्या—तद् एवम् अन्तर्यामित्वांशेऽपि भगवतः शुद्धत्व-वर्णनेन तत्-पराणां श्रुतीनां वचनं श्रुत्वा स्वानुगृहीतानां जीव-तत्त्वानुवादिनीनां श्रुतीनाम् अपि तत्रैव तात्पर्यं काश्चिद् अन्याः श्रुतयो वर्णयन्ति—स्व-कृत-पुरेषु पूर्वोक्तेष्व् एव वर्तमानं पुरुषं जीव-समूहं त्वत्तो भिन्नत्वेनाभिन्नत्वेन वा या वदन्ति, तास् तवांशेनैव कृतं सिद्धं वदन्ति । तथाभिप्रायेणैव वर्णयन्ति—नान्यथेत्य् अर्थः । ब्रह्मणोऽंश-भूतस् तथेतरो भोक्ता भवति [गो।ता।उ। २.१९] इति श्री-गोपाल-तापनी-श्रुतेः ।
ननु, कथम् अपरिच्छेद्यस्यांशत्वं ? तथा ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति गीतोपनिषद् उक्तम् । द्वा सुपर्णा सयुजा सखाया [मु।उ। ३.१.१, श्वे।उ। ४.६] इत्य् आदि-श्रुत्य् उक्तं च नित्यत्वं स्यात् । अत्राहुः—अखिल-शक्ति-धृत इति—
विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्या-कर्म-सञ्ज्ञाख्या तृतीया शक्तिर् उच्यते ॥ [वि।पु। ६.७.६१]
इति विष्णु-पुराणोक्तानुसारेण,
भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महा—बाहो ययेदं धार्यते जगत् ॥
एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥
मत्तः परतरं नान्यत् किंचिद् अस्ति धनञ्जय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥ [गीता ७.४-७]
इति श्री-भगवतः प्रकृति-द्वय-तत्-कार्य-साधनत्व-सूचनया दर्शित-स्वरूप-शक्ति-पर्यन्त-श्री-गीतोपनिषद् अनुसारेण च या अखिलास् त्रिविधाः शक्तयः कार्य-मात्र-गम्याचिन्त्य-प्रभावास् ता धरसि । यस् त्वं तस्य तावत् तादृश्यः शक्तय एव तत्-तद्-दोषं विनैव तत्-तद्-दुर्घटं सम्पादयन्त्यो नित्यम् एव वर्तन्त इति स्थिते, तव तादृश-शक्त्य् आद्य् आत्मक-जीव-वृन्द-रूपांशो नित्यम् एव वर्तत इत्य् अर्थः
ननु तर्हि मत्स्य-देवादिवद् ऐश्वर्यम् एवास्य दृश्यते, तद् अभावे महदादिवन् मायिकत्वम् एव वा ? तत्राहुः—अबहिर् अन्तर् असंवरणम् इति । न विद्यते बहिर् मायिकत्वे अन्तस् तवान्तरङ्ग-स्वरूपत्वे\ऽसंवरणं व्याप्तिर् यस्य तथा-भूतम् इत्य् अर्थः । श्री-विष्णु-पुराणादाव् आन्तराल-पाठान् मार्तण्ड-मण्डल-च्छाययोर् अन्तराल-वर्ति-मयूख-परमाणु-वृन्दम् इति भावः । अतो मण्डल-स्थानीयस्य भगवत इव स्वल्प-शक्ति-व्यक्ति-मयाविर्भाव-विशेषत्वात् स्वांशत्वं श्री-मत्स्य-देवादीनां रश्मि-स्थानीयत्वाद् विभिन्नांशत्वं जीवानाम् इति तत्त्व-वादिनः । अत्र तद् उदाहृतं महा—वाराह—वचनं च—
स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ॥
तद् एव नाणु-मात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥ इति ।
अत इदं व्याचक्षते—न विद्यते बहिः क्रिया-शक्तिर् अन्तर् ज्ञान-शक्तिर् वा असंवरणम् असङ्क्षिप्तत्व-सर्व-व्यापकत्वं यस्य तम् इति । अतच्-छायया सूर्य-मण्डलम् इव भगवत्-स्वांश-श्री-मत्स्य-देवादिभिर् मायया नाव्रियते, रश्मि-स्थानीयो विभिन्नांशो जीवस् त्व् आव्रियते। यथोक्तं श्री-विष्णु-पुराणे शक्ति-त्रय-कथनानन्तरम् एव—यया क्षेत्रज-शक्तिः सा \॥॥ तारतम्येन वर्तते78 [वि।पु। ६.७.६२-६३] यया पूर्वोक्ताविद्या-कर्म-सञ्ज्ञया अविद्या-कर्म-वृत्तिर् यस्याः साविद्या-कर्मा तन्-नाम्नी मायेत्य् अर्थः । यथोक्तं नारद-पञ्चरात्रे प्राधानिक-सर्गम् उक्त्वा शुद्ध-सर्ग-कथने—
यत् तटस्थं तु चिद्-रूपं स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥ इत्य् आदौ ।
अथ एवांश-कृतम् इति । अंशश् चासौ कृतो मायोपाधितया सम्पादितश् चेति तम् इत्य् अयम् एवार्थः । विवक्षितम् एवाहुः—इतीति । पूर्वोक्त-प्रकारान्तरेण जीवस्य गतिं त्वद् अंशत्व-लक्षणं तत्-त्वं विविच्य विश्वसिता जात-विश्वासा ये कवयो विवेकिनस् ते भवतो\ऽङ्घ्रिम् उपासते, विनांशि-भजनम् अंशस्य तुच्छतापत्तेः ।
नन्व् अन्ये\ऽपि केषांचित् के\ऽप्य् अंशिनस् ते\ऽप्य् उपासन्तां, तत्राहुः—निगमाः सर्वे वेदाः आ समन्ताद् उप्यन्ते समन्विताः क्रियन्ते यस्मिंस् तादृशत्वात् सर्व-वेदार्थत्वात् त्वम् एव सर्वोत्तम-भजनीयः सर्वोत्तम-पुरुषार्थश् चेत्य् अर्थः ।
ननु, सावयवत्वेनान्य-तुल्यत्वात् कथं तादृशत्वम् ? तत्राहुः—निगमावपनत्वाद् एव न विद्यते भवो जन्म यस्य तं नित्यम् इत्य् अर्थः । न विद्यते भवो यस्माद् इति विग्रहे\ऽपि कैमुत्येन तत् सिद्ध्यति । भुवीति पृथिव्यां तादृश-साधक-प्राचुर्य-विवक्षयोक्तम् । अत्र मुख्याः श्रुतयः—
मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् ।
अस्यावयव-भूतैश् च व्याप्तं सर्वम् इदं जगत् ॥ [श्वे।उ। ४.१०]
यो योनिं योनिम् अधितिष्ठत्य् एको
यस्मिन्न् इदम् सं च विचैति सर्वम् ।
तम् ईशानं वरदं देवम् ईड्यं
निचाय्येमां शान्तिम् अत्यन्तम् एति ॥ [स्वे।उ ४.११] इत्य् आद्याः ।
तद् अनुगताश् च, सर्वे वेदा यत् पदम् आमनन्ति [क।उ १.२.१५] इत्य् आद्याः, चरणं पवित्रं विततं पुराणम् [म्हा।ना।उ १.५१]इत्य् आद्याश् च ॥२०॥
जीव-गोस्वामी (परमात्म-सन्दर्भः) : तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति—स्व-कृत-पुरे इति । अबहिर् अन्तर् असंवरणं बहिर् बहिर् अङ्गाणि कारणानि अन्तर् अन्तर् अङ्गानि कार्याणि, तैर् असंवरणं कार्य-कारणैर् असंस्पृष्टम् । अंश-कृतम् अंशम् इत्य् अर्थः । अखिल-शक्ति-धृतः सर्व-शक्ति-धरस्येति विशेषणं जीव-शक्ति-विशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच्-छक्ति-रूपत्वेनैवांशत्वम् इत्य् अनेनैवांशत्वम् इत्य् एतद् व्यञ्जयन्ति । अथ तटस्थत्वं च स यद् अजया त्यजाम् अनुशयीत [भा।पु। १०.८७.३८] इत्य् आदौ व्यक्तम् अस्ति, उभय-कोटाव् अप्रविष्टत्वाद् एव [३९] ॥२०॥
जीव-गोस्वामी (भक्ति-सन्दर्भ १७८) : स्वेन त्वया कृतेषु पुरेषु देहेषु वर्तमानं तव पुरुषं जनं तवैवांश-रूपेण त्वदीय-स्वरूपेण कृतं नित्य-सिद्धं वदन्ति । तत्र अखिल-शक्ति-धृतस् तव इत्य् उक्त्वा त्वद् अखिल-शक्ति-गुणान्तः-पाति-जीवाख्य-तटस्थ-शक्ति-विशिष्टस्यैव तवांशः, न तु स्वरूप-शक्ति-विशिष्टस्य केवल-स्वरूपस्येत्य् आयातम् । ततो मूल-मण्डल-स्थानीय-त्वद् आश्रयक-रश्मि-परमाणु-स्थानीया जीवा इति भावः । अंशत्वे हेतुः—अबहिर् अन्तर् असंवरणं बहिर् अन्तश् च यस्य संवरणं नास्ति, किन्तु तैस् तैर् उपाधिभिः संवरणम् एवास्तीत्य् अर्थः । अतः संवरण-हीनस्य तवायम् अंश एवेति भावः ।
इति एतत्-प्रकारां नुर् जीवस्य गतिं स्वभावत एव त्वद् आश्रयकस् त्वद् एक-जीवनश् चासौ जीव इति तत्-त्वं विविच्य ज्ञात्वा कवयः पण्डिताः विश्वसिताः श्रद्दधाना भवत एवाङ्घ्रिम् उपासते । विश्वासे हेतुः—निगमावपनं सकल-वेद-बीजोज्जीवनैकाश्रय-क्षेत्रं शास्त्र-योनिम् इत्य् अर्थः । अतो नित्य त्वद् आश्रयैक-जीवनानाम् अपि तेषां त्वद्-वैमुख्येन यत् संसार-दुःखं भवति, तद् अपि स्वयम् एव पलायत इत्य् आहुः—अभवम् इति, न विद्यते भवः संसारो यत्रेति ।
अथवा, भजनीयस्य नित्यत्वेन भक्तेर् अप्य् अनश्वरत्वं प्रतिपादयन्ति—अभवं जन्म-रहितम् अङ्घ्रिम् इति । तस्माद् अकिञ्चानाख्या भक्तिर् एव सर्वोर्ध्वम् अभिधेया ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवम् अन्तर्यामित्वांशेऽपि भगवतः शुद्धत्व-वर्णनेन तत्-पराणां श्रुतीनां वचनं श्रुत्वा स्वानुगृहीतानां श्रुतीनाम् अपि तत्रैव तात्पर्यं काश्चिद् अन्या दर्शयन्ति—स्व-कृत-पुरेष्व् इति ॥२०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु सर्वा अन्तर्यामी नारायण एव, अवाप नारायण आदि-देवः [भा।पु। ११.४.३] इत्य् उक्तेर् इति सत्यम् एव । किन्त्व् असाव् आदि-देवत्वात् कथा तस्य हेतुर् अहम् इत्य् आशङ्क्याहुः—स्व-कृत-पुरेष्व् इत्य् आदि । स्व-कृतानि स्वतः-सिद्धानि यानि पुराणि गोकुल-मथुरा-द्वारकाख्यानि पुराणि, तेष्व् अमीष्व् अबहिर् अन्तर-संवरणं यथा भवति बाह्यान्तर-सङ्गोपनाभाव-पूर्वकम् अखिल-शक्ति-धृतोऽखिलाः श्री-राधा-प्रभृतयो गोप्यः श्री-रुक्मिणी-प्रभृतयो महिष्यश् च या शक्तयस् ता धरतीति तस्य तव श्री-कृष्णस्यांशांश-कृतं पुरुषं नारायणं वदन्ति ब्रह्मादयो सुरादयश् च—नारायणोऽङ्गं नर-भू-जलायनात् [भा।पु। १०.१४.१४] इत्य् उक्तेः । इति विविच्य विचार्य कवयो ब्रह्मादयो भवतोऽङ्घ्रिम् उपासते । किं-भूताः ? निगमावपनं यथा भवति तथा विश्वसिताः सन्तः, निगमेषु वेदेषु आ सम्यक् वपनं यथा भवतीति । निगमानाम् अयम् एवार्थ इति कृत्वा कृत-विश्वासा इत्य् अर्थः । कीदृशम् अङ्घ्रिम् ? नृ-गतिं सर्व-लोकैक-शरणम् ॥२०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमात्मानम् उपास्यं निरूप्य जीवात्मानं तद् उपासकं च तद् अंश-तुल्यत्वेन निरूपयन्ति—स्व-कृतेति । स्व-कर्मोपार्जितेषु पुरेषु अमीषु नर-देहादिषु पुरुषं भोक्तृत्वेन वर्तमानं जीवं जात्या एकत्वम् । अखिल-शक्ति-धृतस् तव अंश-कृतम् अंशम् इव कृतं वदन्ति । वस्तुतस् तटस्थ-शक्तित्वेन प्रसिद्धम् अपि तम् अंश-तुल्यं वदन्तीत्य् अर्थः । यद् उक्तं विष्णुपुराणे विष्नु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा । इति । गीतासु च प्रकृतिं विद्धि मे परां जिव-भूताम् इति । नारद-पञ्चरात्रे—
यत्-तटस्थं तु चिद्-रूपं स्वसम्वेद्याद् विनिर्गत ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥
रञ्जितं गुण-रागेण स जीवः [नापरम्पर्ं।] इति कथ्यते इत्य् एवं तस्य तटस्थ-शक्तित्वेऽपि ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.६] इति भगवद्-वचनात् स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत्-स्वरूपं यथा स्थितिः ।
तद् एव नाणु-मात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किंचित् सामर्थ्य-मात्र-युक् ॥
इति महा-वराह-वचनाच्79 चांश-तुल्यत्वं कीदृशं न विद्यते बहिर् बहिरङ्ग-माया-शक्त्या अन्तरेणान्तरङ्ग-चिच्-छक्त्या च सम्यग्-वरणं सर्वथा स्वीयत्वेन स्वीकारो यस्य तम् । यद् वा । न विद्यते बहिर् अन्तश् च असम्वरणम् अनावरणं यस्य तम् । स्थूल-सूक्ष्मोपाधिभ्यां मायया बहिर् अन्तर् आवृतम् इत्य् अर्थः । इति एवं नृ-गतिं नुर् जीवस्य गतिं ताटस्थ्यं माया-बन्धनावस्थत्वं वा विविच्य विचार्य निगमावपनं निगमो वेदस् तद्-रूपे क्षेत्रे आ सम्यक्तया वपनं यस्य तथा-भूतम् अङ्घ्रिं भवच्-चरण-कल्प-तरुम् अभवं भव-बन्ध-निवर्तकं भुवि स्थित्वा उपासते विश्वसिताः, माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता ७.१४] इति भगवद्-वाचि कृत-विश्वासाः । अत्र ब्रह्मणोऽंश-भूतस् तथांश-भूतस् तथेतरो भोक्ता भवति । द्वौ सुपर्णौ भवतो ब्रह्मणोऽशभूतस् तथेतरो भोक्ता भवति । अन्यो हि साक्षी भवतीति । [भोक्तारौ]80 वृक्ष-धर्मे तिष्ठतः [गो।ता।उ। २.१७] इति ।
मथुरा-मण्डले यस् तु जम्बूद्वीपे स्थितोऽथ वा ।
योऽर्चयेत् प्रतिमां प्रति स मे प्रियतरो भुवि ॥ [गो।ता।उ। २.४०]
इति गोपाल-तापन्य् आद्याः श्रुतयः । प्रतिमां प्रति प्रतिमायाम् इत्य् अर्थः ॥२०॥
॥ १०.८७.२१ ॥
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परि लषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भक्तिर् अल्प81-साधनम् इति वचनम् अनुचितम् इव मन्वानो भक्तिं गुरू-करोति—दुरवगमेति । भो ईश्वर ! दुरवगमं दुर्बोधं यद् आत्म-तत्-त्वं, तस्य निगमाय ज्ञापनाय तवात्त-तनोर् अविष्कृत-मूर्तेश् चरित-महामृताब्धि-परिवर्त-परिश्रमणाः, चरितम् एव महान् अमृताब्धिः82, तस्मिन् परिवर्तो विगाहस् तेन परिश्रमणाः । परिर् वर्जनार्थः । श्रमणं श्रमः । गत-श्रमा इत्य् अर्थः । अपवर्गम् अपि केचिन् न परिलषन्ति नेच्छन्ति, कुतोऽन्यद्83 इन्द्र-पदादि । केचिद् इत्य् एवं-भूता भक्ति-रसिका विरला इति दर्शयन्ति ।
न केवलम् अन्यन् नेच्छन्ति, किन्तु तेनैव सुखेन पूर्णाः सन्तः पूर्व-सिद्धं गृहादि-सुखम् अप्य् उपेक्षन्त इत्य् आह—तव चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहा इति । तव चरण-सरोजे हंसा इव रममाणा ये भक्तास् तेषां कुलं तेन सङ्गस् तेन विसृष्टा गृहा यैस् ते तथा । अनेन श्रवण-कीर्तने दर्शिते ।
श्रुतिश् च मुक्तेर् अप्य् आधिक्यं भक्तेर् दर्शयति । यथाह—यं सर्वे देवा84 नमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।ता।उ। ४.१०] इति । व्याख्यातं च सर्व-ज्ञैर् भाष्य-कृद्भिः, मुक्ता अपि लीलया विग्रहं कृत्वा भजन्ति85 [तट्-टीका]86 इति ।
त्वत्-कथामृत-पाथोधौ विहरन्तो महा—मुदः ।
कुर्वन्ति कृतिनः केचिच् चतुर्-वर्गं तृणोपमम् ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तम् एतं वेदानुवचनेन यज्ञेन दानेन तपसानाशकेन इत्य् आदिषु ज्ञान-साधनेषु भक्तेर् अनुक्तत्वात् साल्पेति वचनम् अनुचितम् इति मत्वाह—भक्तिर् इत्य् आदिना । इत्य् अर्थ इति—व्याख्या । अन्यत् स्वर्गादि । तेनैव भक्ति-सुखेन । श्रुत्यर्थस् तु तु—सर्वे देवा यं परमेश्वरं नमन्ति, तथा मुमुक्षवो ब्रह्म-वादिनश् च यं नमन्ति । अत्र देवाः पृथिव्य् अन्तरिक्ष-नाक-ब्रह्म-लोक-निवासिनो ये भगवद्-भक्तास् ते सर्वे देवाः संसार-विजिगीषुत्वान् मोद-शालित्वाच् च । तेषां मध्ये द्विविधा उपासकाः—मुमुक्षवः संसारान् मुक्ति-कामाः, ब्रह्मवदन-शीला ब्रह्म-वादिनो मुक्ता एते सर्वे यं नमन्ति भजन्त इति व्याख्यातं सर्व-ज्ञैर् भाष्य-कृद्भिर् भगवत्-पूज्य-पादैर् नृसिंह-तापन्याम्—मुक्ता अपि श्री-शुकादयो लीलया विग्रहं ध्र्ट्वा भजन्ति ।
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकिं भक्तिम् [भा।पु। १.७.११] इत्य् आद्य् उक्तेः ।
स्वामिनां त्वद् इति । तव कथैवामृत-पाथोधिर् अमृत-समुद्रस् तत्र
श्रीधरानुयायिनी : सर्व-साधनेभ्यो भक्तेर् आधिक्यं वदन्ति-दुरवगमेति । भो ईश्वर! केचित्-त्वदीयानन्य-भक्त-समूह-सङ्ग-लब्ध-त्वत्-कीर्ति-श्रवण-कीर्तन-हेतुक-सुखेन परि-पूर्णा अत एव प्राक्-सिद्धम् अपि गृह-पुत्रस्त्र्यादि-सुखं परित्यज्य ते दुर्ज्ञेयात्म-तत्त्व-ज्ञापनाय प्रकटीकृत-श्री-मूर्तेस् तव चरित्रामृत-समुद्रावगाहनेन दूरीकृत-संसार-श्रम-सन्तापास्त्वया दीयमानमि मोक्षम् अपि नेच्छन्ति कुतो\ऽन्यदिन्द्रादि-पदम् इति । विरला एव ते । यद् वा, तव चरितान्य् एव महा—मृताब्धयस् तेषु ये परिवर्तास् तरङ्ग-भ्रमि-पुञ्जास् तेषु निमज्जनोन्मज्जनोत्थं परिश्रमणम् अतिश्रमो येषां त इत्य् अर्थः ।
ननु-मोक्षम् अपि त्यक्त्वा पुनर् ईदृश-परिश्रम-स्वीकारः कथम् इति चेच्छृणु-यथा विषय-लम्पटाः परम-सुकुमाराः परिश्रमासहना अपि भोग-सुखाद्य् उपयोगिनं युद्ध-व्यवहारादि-परिश्रमम् एव सर्व-सुखाधिकं सुखं मन्यन्ते तथा त्वद्-भक्तास्वल्-लीला-कथा-माधुर्य-पानोत्थं नर्तन-कीर्तनादि-परिश्रमम् एव परमानन्द-साधनत्वेन परम-सुखं मन्यमाना ब्रह्मास्वाद-सुखं पसूनां तृण-चर्वण-सुखम् इव मन्यन्ते\ऽत एवोक्तं भाष्यकारैः—मुक्ता अपि लीलया विग्रहं धृत्वा भगवन्तं भजन्ते, इति । त्वत्कथेत्याद्या श्रीधर-कारिकाप्य् एतद् अभिप्रायिकैव ॥
नीलकण्ठी : सङ्गतिर् उक्ता । दुरवगमात्मतत्त्वेति । दुरवगमं दुर्बोधम् आत्मनस् तत्त्वं याथात्म्यं तस्य निगमायापरोक्ष-ज्ञानाय तव ब्रह्मणः आत्ततनोः स्वीकृतमत्स्यादि-मूर्तेश् चरितं वेदोद्धारादि तद् एव महन्-निरतिशय-फल-हेतुत्वात् अमृतवन्-मधुरत्वात् अब्धिवदनतत्वाच् च महामृताब्धिः । तत्र परिवर्तो नित्यं वर्तनम् । तेन हेतुना परिर्वर्जनार्थः । परित्यक्तं श्रमणं शोक-मोहायासो यैस्ते तथा-बूताः । केचिद्-विरलाः । ईश्वर ! ते तव चरण-सरोजे रममाणाः हंसा इव हंसाः संन्यासिनः । तेषं कुलं समूहस् तेषां सङ्गेन विसृष्टा गृहा यैस्ते तथा-भूता यतय इत्य् अर्थः । ते अपवर्गं मोक्षम् अपि न परिलषन्ति नेच्छन्ति । पूर्व-श्लोकोक्त-कर्म-योगापेक्षया भक्ति-योगो महीयानित्य् अर्थः ।
यत्-तु भक्तेर् मोक्षाद्-गरीयस्त्वम् उक्तं यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनः [नृ।ता।उ ४.१०] इति श्रुत्या मुक्ता अपि लीलया विग्रहं कृत्वा सेवन्त इति तद्-भाष्येण च दृढी-कृतं तद्-भक्ति-स्तुत्य् अर्थम् । कार्य-ब्रह्म-लोकैक-देश-भूत-वैकुण्ठ-कैलासादि-प्राप्तौ भक्त्य् उपचारात् इति ध्येयम् । यत्र त्वस्य सर्वम् आत्मैवाभूत् तत्-केनकं पश्येद् इति विद्यायां भेद-दर्शनाभाव-श्रुतेः यत्र हि द्वैतम् इव भवति तदितर इतरं पश्यतीत्य् अविद्या-विषयत्वात् भक्तेस् तद्-वतां मुक्तत्वायोगाच् च प्रजापति-शिष्यस्यापि विरोचनस्य मोहवत्त्व-श्रुतेर् जय-विजययोर् वैकुण्ठात्-पतनस्मृतेश् च न कार्य-प्राप्तेः
क्रम-मुक्ति-हेतुतापि सम्भाव्यते । अतो भक्ति-स्तुत्य् अर्थम् एव । तच् छुतेस्तु जीवन्मुक्त-विषयत्वम् अपि सम्भवतीति दिक् ॥२१॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—हे ईश्वर ऐश्वर्योत्कर्ष-परमसीमन् अन्यत्रैश्वर्यमापेक्षिकं तव विशुद्ध-प्रेमैक-शक्ति-विलासिन् दुरवगमं महा—सर्व-ज्ञैर् महा—भक्तर् अपि दुर्योधं यदात्म-तत्त्वं निज-रहस्यं रूपं राधानुराग-विवशम् । आत्मा श्री-मूर्तिस् तत्-तत्त्वं परमानन्द-साम्राज्य-सारत्वानुभवान्यथा-रहितं स्वरूपम् इत्य् अर्थः । नितरां गमनायानुभवाय प्रपञ्चान्तः-प्रकट-श्री-वृन्दावने मायया स्वाश्रित-शक्त्या तादृश-भाव-योग्य-जीवानुग्रहाय दर्शित-स्वरूपस्येत्य् अर्थः । चरितम् एव महामृतम् अमृतं परमानन्दं तस्य महत्त्वम् अनापेक्षिक उत्कर्षस् तद् एवाब्धिस् तत्र परितो वर्तनं तेन परिश्रमणाः शुद्ध-प्रेम-निष्ठा-प्रकर्षेण विना श्रमेण अनायासेन श्री-कृष्णस्य प्रेम्णाकृष्टस्य-स्वत एव दर्शन-स्पर्शनाद्य् आनन्द-साम्राज्योदयात् । केचिद्-विरला अपकृष्टो वर्गो धर्मार्थ-काम-मोक्ष-लक्षणो यस्मान् ते\ऽपि देवकीनन्दन-पर्यन्त-भगवत् स्वरूपैकान्त-प्रेमाणं नाभिलषन्तीत्य् अर्थः । चरण-सरोजस्य हंसा आनन्दाद्य् उत्कर्ष-विवेचकास् तेषां कुलैयः सङ्गः सङ्गतिस् तेषु वा सङ्ग आसक्तिस् तेन विसृष्टं गृहं गृह्यमाणं सम्यग् अनुभूयमानं मिश्र-प्रेममयं शुद्ध-मधुरेतर-रसमयं च कृष्ण-स्वरूपं यैः ।
यद् वा, सङ्गेन कर्त्रा सम्यक्-शुद्ध-कृष्णानुयोगि-शरीरन्तराद् अपि विशिष्टतया सृष्टं गृहं शरीरं ग्राहकं बहिर् अन्तरिन्द्रियं च येषाम् । आविर्भूत-श्री-रधा-प्रिय-सख्यालङ्कृत-देहेन्द्रियादय इत्य् अर्थः ।
नित्य-गोप्यस्तु आहुः—दुरवगमात्मा अतिनिगूढानुरागत्वात् त्वत्-तत्त्व-निगमाय ज्ञानाय सदा बहिर्नेति नेतीत्य् एव वदति प्रतिपदञ् च वैमुख्यम् एव नाटयति मानञ् च हेतुम् एव तदैव दृढं कुरुते अतस् तनु स्पर्शेन विवशीकर्तुमात्ता गृहीता धृता राधायास् तनुर् येन तादृशस्य तव महा—रममय-चरित-समुद्रावगाहेन परिश्रमणा मानापनोदकाद्यायारस-रहिताः केचिन्-मद्-विध-राधा-परिजना अपवर्गम् अपि नेच्छन्ति अपकृष्टो\ऽन्यः प्रियतमो वर्गो यस्य तादृशम् अपि त्वां सम्भोगेच्छुं नेच्छति । अपकृष्टो\ऽन्यो\ऽनुरक्त-गोपीवर्गो यत्र तादृशम् अपि तव सप्रेमातिशय-रति-विलासं नेच्छन्तीति वार्थः । तव चरण-सरोजयोर् हंस-कूलं राधैवान्त-सख्येन समस्त-तद्राद्विविच्य रम-विशेष-सह-निपुण-ललितादि-सङ्गेन विविध-प्रकारेण सृष्टं निर्मितं गृहं केलि-कुञ्ज-मन्दिरं यैर् इति ॥२१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अभवम् इत्य् उक्तं, तर्हि किं मोक्षार्थम् उपासते ? नेत्य् आहु—दुरवगमेति । अचिन्त्यं यद् आत्मनस् तव तत्-त्वं, तत्त्वत एकस्याप्य् अनेकत्वम्, निर्विशेषस्यापि चमत्कारि-बहु-विशेषवत्त्वं, चतुर्भुजादि-मूर्तेर् अप्य् अपरिच्छिन्नत्वं चेत्यादि लक्षणम् । किं वा, सच्-चिद् आनन्द-घन-मधुर-मधुर-रूप-गुण-लीलादिमत्त्वं स्वरूपम् । तस्य निगमाय भक्तेषु ज्ञापनाय ।
आत्त-तनोर् इति श्री-कृष्णस्य प्राकट्याभिप्रायेण, एतस्यैव मधुर-मधुरानन्ताश् चर्य-लीलत्वेन चरित्रस्य महामृताब्धत्वं, चरितेत्य् आनुषङ्गिकत्वेन संसार-भ्रमण-श्रम-ध्वंसः सूचित एव । अपि-शब्दश् चतुर्वर्गेषु तस्य श्रैष्ठ्यात्, तथापि परिहासे\ऽपि न लषन्ति, दुःखाभाव-मात्रत्वेन तुच्छ-सुखत्वाद् भक्ति-रस-विधातत्वाच् च । हे ईश्वर इति त्वद्-भक्ति-प्रभावेण तेषां तादृशत्वम् इति भावः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, चरित-महामृताब्धि-परिवर्तनार्थम् एव त्वच्-चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहा इति त्वद् एक-रसत्वम् उक्तम् । चरण-सरोज-हंसा एकान्तिनो भगवत्-प्रियाः, त्वत्-सङ्ग एव मोक्ष-तुच्छतापादकः । यत उक्तम्—
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भा।पु। १.१८.१३] इति ।
अतस् त्वद्-भक्तेर् एव सर्वोत्कृष्टत्वाद् भक्तानाम् अनन्य-निष्ठता युक्तेत्य् आहुः—दुरवगम- इति । विभुत्वे\ऽपि परिच्छिन्नत्वं, अजत्वे\ऽपि जनिमत्त्वं, निरुपमैश्वर्य-भर-युक्तत्वे\ऽपि पलायनादि-कार्पण्यवत्त्वम् इत्य् आदि दुरवगमत्वम् । चरितानि दाम-बन्धन-स्वीकार-गोवर्धनोद्धरणादि-रास-क्रीदादीनि । चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः सत्यव्रतादयः । तथा हि पाद्मे कार्त्तिक-माहात्म्ये सत्यव्रत-वचनम्—
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे\ऽहं वरेशाद् अपीह ॥ इति ।
अत्र सौपर्ण-श्रुतिश् च श्रीमद्-आनन्द-तीर्थ-पाद-पद्मैः प्रमाणिता—सर्व-दैनम् उपासीत यावद् विमुक्तिः, मुक्ता अपि ह्य् एनम् उपासते इति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच्-छ्रुत्वा लब्ध-निज-भावोद्दीपनाच् चरणोपनिषदाद्याः साक्षाद् एव तन्-माधुर्यं वर्णयन्ति—दुरवगमेति । हे ईश्वर ! सर्वोपरि विराजमान-वैभव ! केचिद् विरल-प्रचारा अपवर्गम् अपि परि सर्वतो-भावेनैकांशेनापि न लषन्ति, किम् उतान्यत् । कथं-भूतास् ते ? तत्राहुः—दुरवगमं सर्वागोचर-परम-गोलोकादि-वैकुण्ठ-विहारित्वेन दुर्बोधं यद् आत्मनस् तव तत्-त्वं स्वरूप-गुण-लीलादि याथार्थ्यं, तस्य निगमाय निगमनाय अनुभावनाय आत्त-तनोः प्रपञ्चे समानीत-निज-विग्रहस्य तव चरित-रूपे महामृताब्धौ, यदि महामृताब्धिः कश्चिद् भवति, तदा साधारण-जन-बोधनाय तेन रूप्येत, श्लेषात् स्वतस् त्व् अमृतानां सालोक्यादि-मोक्षानन्दानां तद् अन्तर्-भावित्वात् तदीय-महा—समुद्र-तुल्ये यः परिवर्तः मुहुर् अवगाहो\ऽनुभवः, तेनानुषङ्गिकतयैव गत-संसार-श्रमाय इत्य् अर्थः ।
ननु बहवो\ऽपि तच्-चरितं शृण्वन्ति, तथापि न तादृशत्वम् इति । केषांचित् तादृशत्वे किं कारणम् ? इत्य् आशङ्क्य परम-रहस्यतया सर्वान्त एव तद् व्यञ्जयन्ति—चरणेति । हंसाः परम-तत्त्वानुभाविनस् तेष्व् अपि चरण-सम्बन्दिनो मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.५] इत्य् आदि-शास्त्रे तच्-चरण-सम्बन्धे लोके\ऽपि सरोज-सम्बन्धे हंसानाम् उत्कर्षो वर्ण्यत इति परमोत्कृष्टा ये तन्-माधुरी-समास्वाद-तिरस्कृत-मोक्षानन्दाः, तेषां कुलं शिष्योपशिष्यादि-रूपं तद् एकस्यापि प्रसङ्गेन विसृष्टं त्यक्त-मात्रं गृहं यैः, ते\ऽपि, किम् उत तत्र चिरं प्रावृताः, किम् उततरां तादृश-हंसानां शिष्यादयः, किम् उततमां स्वयम् एव तादृश-हंषा इत्य् अर्थः ।
अत्र मुख्याः श्रुतयः—
चरणं पवित्रं विततं पुराणं
येन पूतस् तरति दुष्कृतानि ।
तेन शुद्धेन पवित्रेण पूतेन
अतिपाप्मानम् अरातिं तरेम ॥ [म।ना।उ। १.३.५१]
लोकस्य द्वारम् अर्चिष्मद् भ्राजमानं महस्वद् अमृतस्य धाराः
बहुधा दोहमानं चरणं लोके सुधितां ददातु । ॐ तत् सत् ॥ इत्य् आद्याः ।
अमृतस्य धारा बहुधा दोहमानम् इति चरित-महामृताब्धिमत्त्वम् उक्तम् । भक्त्या चरण-वर्णनं तद् उपलक्षणत्वेन श्री-भगवन्तम् एव बोधयन्तीति श्रुत्यैकार्थम् ।
तद् अनुगाः श्रुतयस् तु—यं सर्वे देवा नमन्ति [नृ।ता।उ। १.४.१०] इत्य् आद्याः । अत्र देवा विषयिणः । ततश् च मुमुक्षव इत्य् अत उत्तर-पाठाद् ब्रह्म-वादि-शब्देन क्रमोत्कृष्ट-दृष्ट्या तद् उपदेष्टारो मुक्ता एव लभ्यन्ते, ब्रह्मणि वदन्ति प्रकाशन्त इति ।
अत्र मध्वाचार्य-धृताः श्रुतयः—मुक्ता ह्य् एनम् उपासते मुक्तानाम् अपि भक्तिर् हि परमानन्द-रूपिणी इत्य् आद्याः । तथा च ब्रह्म-सूत्रं—मुक्तोपसृज्य-व्यपदेशात् इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् छ्रुत्वा लब्ध-निज-भावोद्दीपनाश् चरणोपनिषद् आद्याः साक्षाद् एव तन्-माधुरीं वर्णयन्ति—दुरवगमेति । आत्म-तत्-त्वं स्वीय-स्वरूप-गुण-लीला-रहस्यम् आत्ता जगत्य् आकृष्टा प्रकटिता तनुर् येन तस्य । परिश्रमणाः श्रम-वर्जिताश् चरण-सरोजयोर् ये हंसाः श्री-शुकादयः, तेषां कुलं शिष्योपशिष्य-परम्परा, तस्य सङ्ग-मात्रेण विसृष्ट-मात्रं गृहं यैस् तेऽपि । किम् उत तेषां हंसानां कुलम्, ते वा स्वयम् इत्य् अर्थः ॥२१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् अङ्घ्रि-भजनं नाम किम् अङ्घ्रिर् गतिर् ज्ञानं, किं वाङ्घ्रिम् एव चरणारविन्दम् ? अहि गतौ इत्य् अस्माद् भाव-साधनः करण-साधनो वाङ्घ्रि-शब्द इत्य् आशङ्क्य स्पष्टम् आहुः—दुरवगमात्म-तत्त्वेत्य् आदि । हे ईश्वर ! केचिद् विरला अपवर्गं कैवल्यम् अपि न परिलषन्ति । ते के ? इत्य् आहुः—चरण-सरोजेति । ते तव चरण-सरोजयोर् ये हंसास् तन्-निवासिनो महा—भागवताः, तेषां यत् कुलं समूहः, तस्य सङ्गेन विसृष्टा गृहा यैर् महद् उपदेशेन त्यक्त-संसाराः ।
ननु तेषाम् उपदेश-मात्र-त्यक्त-गृहत्वम् एव पुरुषार्थाः ? किं वा, तत्रान्यत् किञ्चिद् अस्ति ? इत्य् आशङ्क्याहुः—चरितेत्यादि । तव यच् चरितं वृन्दावन-विलासादि-लीला तद् एवापारोऽ मृताब्धिः, तत्र यः परिवर्तोऽवगाहः, तत्र परि-गतं श्रमणं श्रमः संसार-क्लेशो येषां, परि वर्जनार्थः ।
तव कीदृशस्य ? दुरवगमं दुर्बोधं यद् आत्म-तत्-त्वं सच्-चिद् आनन्द-घनत्व-नित्य-लीलात्वादिकं, तस्य निगमाय सुख-बोधाय आत्ता आविर्भाविता तनुर् मूर्तिर् येन।
अथवा, हे दुरधिगमात्म-तत्त्व ! हे निगमाय ! निगमानां वेदानाम् अय ! शुभावह-विधे ! आयश् चाश्रय वेदाश्रय इति वा । तव कीदृशस्य ? आत्ता दोर्भ्याम् आलिङ्गनेन गृहीतास् तनवः श्री-रुक्मिणी-प्रभृतीनां शरीराणि येन । शयानं सह शक्तिभिः [भा।पु। १०.८७.१२] इत्य् उक्तेः । एवं-भूतस्य तवेति भावः ॥२१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवद्-विषयकस्य भक्ति-योगस्य सर्वोत्कर्षं स्वाभिधेयत्वं च द्योतयितुम् तम् एव पुनर् अप्य् अभ्यस्यन्ति—दुरवगमेति चतुर्भिः । हे ईश्वर ! दुरवगमं जिवैर् ज्ञातुम् अशक्यं यद् आत्म-तत्-त्वं स्वीय-रूप-गुण-लीला-कृपैश्वर्य-माधुर्यं, तस्य निगमाय ज्ञापनाय आत्त-तनोर् अविष्कृत-श्री-मूर्तेस् तव चरितान्य् एव महामृताब्धयस् तेषु ये परिवर्तास् तरङ्ग-भ्रमि-पुञ्जाः, तेषु निमज्जनोन्मज्जनोत्थं परिश्रमणम् अतिश्रमो येषां, ते केचिद् विरल-प्रचारा भक्ता अपवर्गं मोक्ष-सुखम् अपि न परिलषन्ति नेच्छन्ति, किम् उत त्रैवर्गिक-सुखम् । किन्तु तद् एव त्वच्-चरित-महामृताब्धि-तरङ्गेषु निमज्जोन्मज्जन-परिश्रम-सुखम् एवेति भावः । यथा विषय-लम्पटाः परम-सुकुमाराः श्रम-लेशासहना अपि साम्प्रयोगिकं परिश्रमम् एव सर्व-सुखाधिकं सुखं मन्यन्ते, तथैव त्वद्-भक्तास् तल्-लीला-कथा-माधुर्य-पानोत्थं नर्तन-कीर्तन-क्रोशन-मिथः-पाद-तल-प्रपतन-मूर्छन-प्रबोधन-हाहा-करण-रोदन-द्रवणादि-परिश्रमम् एव परमं सुखं मानयन्तो ब्रह्मास्वाद-सुखं पशूनां तृण-चर्वण-सुखम् इव मन्यन्ते । तद् उक्तम् श्री-स्वामि-चरणैः—
त्वत्-कथामृत-पाथोधौ विहरन्तो महा—मुदः ।
कुर्वन्ति कृतिनः केचिच् चतुर्-वर्गं तृणोपमम् ॥ [भा।पु १०.८८.११] इति ।
त्वत्-सुख-प्राप्ति-कारणं वदन्तो विशिंषन्ति । ते **तव चरण-सरोज-**माधुर्य् आस्वादनिनो हंसा ये परम-भागवताः, तेषां कुलस्य सङ्गेन विसृष्टं गृहं स्त्री-पुत्रादि-सङ्ग-सुखं यैस् तैः ।
श्रुतिश् च मुक्तेर् अप्य् आधिक्यं भक्तेर् दर्शयति, यथाह—यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [नृ।ता।उ। ४.१०] इति । व्याख्यातं च सर्व-ज्ञैर् भाष्य-कृद्भिः, मुक्ता अपि लीलया विग्रहं कृत्वा भजन्ति [तट्-टीका] इति । अत्र मध्वाचार्य-धृता अन्याः श्रुतयश् च—मुक्ता ह्य् एतम् उपासते । मुक्तानाम् अपि भक्तिर् हि परमानन्द-रूपिणी इत्य् आद्याः । अमृतस्य धारा बहुधा दोहमानं चरणं नो लोके सूधितां दधातु । ॐ तत् सत् इत्य् आद्याश् च ॥२१॥
॥ १०.८७.२२ ॥
त्वद् अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच्
चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।
न बत रमन्त्य्87 अहो असद् उपासनयात्म-हनो
यद् अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आरामम् अस्य पश्यन्ति न तं पश्यति कश् चन88 [बृ।आ।उ। ४.३.१४],
न तं विदाथ य इमा जजानान्यद्
युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासु-
तृप उक्थ-शासश् चरन्ति ॥89 [ऋ।वे। १०.८२.१७]
इत्य् आद्याः श्रुतयोऽनुक्रोशन्त्यो90 जगद् आत्मनीश्वरे रतिम् उपदिशन्तीत्य् आह—त्वद् अनुपथम् इति। त्वद् अनुवर्तित्वात् त्वत्-सेवौपयिकम् इदं कुलायं कौ पृथिव्यां लीयत इति कुलायं शरीरम् आत्म-सुहृत्-प्रिय-वत् आत्मा च सुहृच् च प्रियश् च तद्**-वच्** चरति, स्वाधीनतया वर्तत इत्य् अर्थः । तथापि त्वयि उन्मुखे हिते प्रिये आत्मनि च । अप्य् अर्थे च-कारः । एवं-भूते सुसेव्येऽपि त्वयि बताहो कष्टं न रमन्ति, न सख्यादिना भजन्ति । असद् उपासनया देहाद्य् उपलालनेनात्म**-हनः** प्रमादिनः । कुतः ? यद् अनुशयाः यस्याम् असद् उपासनायाम् अनुशयो वासना येषां ते कुशरीर-भृतः सन्त उरु-भये संसारे भ्रमन्ति परिवर्तन्ते । अत आत्म-हन इति भावः ।
त्वय्य् आत्मनि जगन्-नाथे मन्-मनो रमताम् इह ।
कदा ममेदृशं जन्म मानुषं सम्भविष्यति ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विषयिणो बहिर् मुखान्-प्रत्य् अनुक्रोशन्त्यो जुगुप्सन्त्य आराममस्य इत्य् आद्याः श्रुतयः ता यथा आरामम् इति । अस्यात्मन आरामम् आरमणं ग्रामं नगरं स्त्रियं पुत्रम् अन्नाद्यम् इत्य् आदि-वासना-रूपम् आक्रीड-स्थानं सर्वे पश्यन्ति ।
तवात्मानं कश् चन कश्चिद् अपि न पश्यति । अहो भाग्य-हीनता लोकस्येति लोकं प्रत्यनुक्रोशं दर्शितम् । अत्यन्त-विविक्तः स्वयञ्ज्योतिर् आत्मा स्वप्नादौ भवतीत्य् अर्थः । अनुक्रोश-परेयम् । विश्वकर्मा मनुष्याणां हितम् उपादिशति-न तम् इति । तं यूयं न विदाथ न जानीथ । य इमा इमानि भूतानि । जजान जनयामास । अतो युष्माकं तस्य चान्यन्-महद् अन्तरं बभूव स पुरुषो जनको यूयं जन्याः यदि ज्ञात्वात्मतत्-त्वं सत्येनोपासिष्यध्वे तदा न संसृतिः स्याद् इत्य् अभिप्रायः । उपदेश-परेयं श्रुतिः । एवं प्रत्यक्षम् उक्त्वा परोक्षम् अभिनयेन दर्शयन्न् आह—नीहारेण ये च जल्या जल्प्रवृत्तास् तार्किकाः, ये चासुतृपः असूनेव तर्पयन्तीत्य् असुतृपो विषयिणः, ये चोक्थानां कर्म-फलानाम् आशासितारो यज्वानः एते नीहारेणाविद्ययावृताः सन्तश् चरन्ति संसारे भ्रमन्तीति सनिन्दोपदेश-परेयम् । आदिनासुर्यानाम् एत्य् आदि-ग्रहः । त्वाम् अनु पन्था यस्य तत्-तथा । उपयिकम् उपयोगः । इत्य् अर्थ इति—यथात्मादयः स्वाधीना भवन्ति तथेदम् अपीति भावः ।
यद् वा, पन्थान् अमनुगतम् अनुपथम् । स्वाधीनत्वं देहस्याह—आत्मवद् अहङ्कारास्पदत्वात् सुहृद्-वद्-विषय-समर्पकत्वात् प्रियवत् सर्वतः प्रीति-विषयत्वाद्-देहस्त्व् एवम् आचरति तथापि तदापि । उन्मुखे भजन-मात्रात्-संसाराद् उद्धर्तुम् उद्यते । हिते पितृवद्-धितकरे । प्रिये मनोनुकूले सख्यौ । एवम्-भूते उन्मुखत्वादि-रूपे सुखसेव्ये । यतो देहाद्द्य् उपासका अतो हेतोः । इति भाव इति—देहादि-लालनपरा आत्म-हन एवान् आत्म-प्रवृत्तत्वान्-मोक्ष-मार्ग-मुग्धत्वाद् इति रहस्यम् स्वामिनाम् । त्वयीति । ईदृशं त्वद्-रमणशीलम् ॥
श्रीधरानुयायिनी : अतः सर्वथा परमेश्वरे रतिम् एव व्यतिरेक-मुखेनोपदिशन्ति—त्वद् अन्व् इति । समर्थम् आत्मवत् । अहङ्कारास्पदत्वाद् आत्म-तुल्यत्वम् । सुहृद्-वद्-विषय-समर्पक-लक्षण-हितकारित्वात् सुहृत्-तुल्यं प्रियवच् च सर्वतः प्रीति-विषयत्वात्-प्रिय-तुल्यत्वम् स्वाधीनं त्वत्-सेवा-योग्यं ब्राह्मणादि-देहं लब्ध्वापि तथा सदा प्रसादोन्मुखं परम-दयालुम् आत्मत्वेन प्रियं सुसेव्यं च स्वामिनमि त्वं लब्ध्वा ये मिथ्या-भूत-देहाद्य् उपलालनपरा भोग-लम्पटा महा—प्रमादिनस् त्वां बताहो कष्टं सख्यादिनाम् अपि न भजन्ति ते व्यर्थीकृत-जन्मानः श्व-शृगालादि-योनि-गता महा—भये संसार एव भ्रमन्ति, अत आत्म-घातिनस्ते । रमन्तीत्य् आर्षम् ॥
नीलकण्ठी : एवम् ईश-सूत्र-विराड्-विष्णूनां बीजाङ्कुर-द्रुम-फलाभानाम् उपास्त्या प्रत्यक्तत्त्वावगम उक्तः । अशक्तानां विष्णौ कर्मार्पणं तन्-नाम-कीर्तनादिकं च चित्त-शुद्ध्य् अर्थम् उक्तम् । तद् उभय-भ्रष्टं निन्दति-त्वद् अनुपथं कुलायम् इति । इदं कुलायं कौ पृथिव्यां लीयत । इति कुलायं नीडं शरीरं त्वद् अनुपथं त्वत्-सेवानुकूलम् आत्म-सुहृत्-प्रियवत् आत्मवत्स्वायत्तत्वात्, सुहृत्-प्रत्य् उपकारम् अनपेक्ष्योपकर्ता प्रियः प्रत्य् उपकारमन् अपेक्ष्योपक्रियमाणः पुत्रादिस् तद्वत्, स्वाधीनतयानुवर्तते श्रवण-कीर्तन-ध्यानादिना त्वद्-भजनं कर्तुं योग्यं शरीरम् अस्तीत्य् अर्थः । तथा त्वयि उन्मुखे भक्तान् अनुग्रहीतुम् अत एव हिते मत्रे प्रिये च निरुपाधि-प्रेम-गोचरत्वात् । प्रियत्वाद् एव आत्मनि प्रतीचि सुसेव्ये सतीत्य् अर्थः । अहो आश्चर्ये । बत खेदे । न रमन्ति त्वय्य् एव त्वद्-गुण-गानादिना न रमन्ते । कुतः । असद् उपासया मृषा-कल्पतस्त्र्याद्य् अमङ्गल-वस्तु-प्रावण्याद् इत्य् अर्थः । अत एवात्महनः आत्मानं नाना-दुःखेषु पातनात् घ्नन्ति हिंसन्तीति तथा । यद् अनुशयः । यस्याम् असद् उपासनायाम् अनुशयो वासना येषां ते भोग-लम्पटाः, उरुभये महा—भयवति संसारे भ्रमन्ति । अत एव कुशरीर-भृतः । कापुरुषास्ते कुत्सितं शरीरं बिभ्रतीति वा । श्रूयते च-देव-पितृ-मार्ग-भ्रष्टानां क्लिष्टागतिः ।
अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिम् आपद्येरन् श्वयोनिं शूकर-योनिं वा चण्डाल-योनिं वा । अथैतयोः पथयोर् न कतरेण च तानीमानि क्षुद्राण्य् असकृद् आवर्तीनि भूतानि भवन्ति जायस्व म्रयस्वेत्येतत्-तृतीयं स्थानम् ॥ इति ।
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ई।उ। ३] इति च ॥२२॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—उन्दति प्रेम्णा आर्द्री-भवति सा रधा तस्या उन्मुखम् एव मुखं यस्य सदा-सन्मुखवर्ति राध इत्य् अर्थः । सैव मुखं प्राप्त्य् उपायो यस्य पूर्ण-रसमय-स्वरूपस्य-राधानन्य-भावं विनानुभवितुम् अशक्यत्वात् । हिते सदानुकूले नहि राधा-प्रातिकूल्यम् अन्य-गोपी-सङ्ग-प्रसङ्ग-मात्र-रूपम् अपि
कर्तुं कृष्णः शक्नोति । प्रियवत् इति प्रियस् तस्मिन् राधायाम् एव ह्य् अधिकाधिकां प्रीतिं सदा वहतीति राधा-स्मृति-मात्रेणान्यासु प्रीति-शैथिल्यात् । आत्मनि राधाया आत्मवद्-वर्तमाने न हि राधा श्री-कृष्ण-क्षण-विच्छेदे आत्मवती भवति अचेतनैव स्यादित्य् अर्थः । एतादृशे त्वयि न रमन्ति इत्य् आश्चर्ये रमन्ते इति रमा ललिताद्यास् तद्वद् आचरन्तीति वा । असन्तो विशुद्ध-भाव-तन्मय-कृष्ण-तत्-प्रिय-स्वरूपासत्त्ववादिनस् तेषाम् उपासनया आत्म-हनस् त्वद्-द्वेषाल्-लब्धैकान्त-भक्तेर् अपि च्यूता भवन्ति पुरुषार्थान्तराच् च भ्रश्यन्तीत्य् अर्थः । यस्य श्री-कृष्णस्य राधया मह विहारिणस् तवानुशया विहृत्य तव शयनानन्तरं शयाना इत्य् अर्थः । यद् एकवामना इति वा ललितादयो भ्रमन्ति व्याकुला भवन्ति इतस् ततस् त्वद् अर्थं भ्रमन्तीति वा । कथम्-भूताः कुर्वंशीनादः म एव शरः कामिनी-मनोमृगवेधको यस्यास्ति स कुशरी कामस् तस्माद्-भयेन ईरः कम्पस् तद्-भृतः उरुभीर् यस्य स उरुभः कृष्णस् तं याति वंशी-नाद-श्रवणेनाति-व्याकुलतया यस्यां दिशि शब्दस् ताम् एव धावित्वा याति उरुभया श्री-राधा तद् अर्थं तद्-दुःखेन दुःखिता इत्य् अर्थः ।
नित्य-गोप्य् अस्तु आहु—श्री-राधिकैकान्त-सख्यर् अहित-गोपीर् निन्दन्ति—इदं कुलायं शरीरम् अस्माकम् आत्म-सूहृच्छीराधिका तस्याः प्रिय-जनवद्वर्तते यतस् त्वद् अनुपथं त्वत्-पन्थानम् अनुसृतं तद् अनुरागीति यावत् । कुः शब्दः कृष्णत्य् आदिर्मुरलीध्वनिर्वा तेन-लीयते तल्-लीनं भवति प्रेमा इत्य् अर्थः । तथापि त्वयि श्री-कृष्ण-चन्द्रे आत्मनि अस्माकम् आत्म-भूत्नायां श्री-राधिकायाञ् च न रमन्ति । त्वयि कथम्-भूते उन्मुखे हिते प्रिये च राधायाम् एव मुखं यस्य सैव वशीकरण-द्वारं यस्य हिते अनुकूले राधा-रमर-सिकायाम् एव प्रिये अधिक-प्रीतिकरे च । एताश् च असती अनुत्कृष्टा या उपासना [तया] स्वातन्त्र्येण कृष्ण-सङ्ग-सुखेच्छैवानुत्कर्षः अतएवात्म-हनो विरह-दुःखेनात्मघातिकाः कुशरीर-भृत सद्यः कुशरी कामस् तेन कम्प-भूतः यस्मिन् श्री-कृष्णे वासनावत्य उरुभये वन-प्रदेशे भ्रमन्ति परं न तु राधा-सुखावशीकृतस्य सङ्गं प्राप्नुवन्तीति ।
श्रुति-रूपा इत्थम् अप्य् आहुः—इदं कुलायं पार्थिवं शरीरं त्वद् अनु-पथं सत् श्रवण-कीर्तनादि-त्वद्-भजनानुसारि सत् आत्मवचरति आत्म-स्वरूपं यद्वद् अयं ब्रह्म तद्वं सच्चिदानन्दात्मको भवतीत्य् अर्थः । किञ्च तव सुहृद्वं अत्य् उपकार निरपेक्षोपकारकर्तृवच् च भवति । तवोपकारोयम् एव यत्-तिरोभृत-भक्तीनां जीवानाम् उपदेशेन भक्त्य् आविर्भावनं भक्त-प्राप्त्या च तव महान् सम्भाषः तव प्रिय-जनवच् चरति तदाकार-तद्-भावव च शरीरं स्फुरतीत्य् अर्थः । त्वयि आत्मन्य् अपि पूर्वं ब्रह्म-रूपात्मतया भाते\ऽपि उदः प्रेम्णो मुखे प्रारम्भ एव हिते भक्ति-वृद्ध्य् अनुकूले सति प्रिये परम-महानन्द-साम्राज्य-सार-प्रवाहकन्द-श्री-विग्रह-स्फुरणेन प्रीति-कर्तरि सति तथापि त्वयि न रमन्ति ऐकान्तिक-रतिं न कुर्वन्ति । तत्र हेतुः—असत उपासनयात्म-हनो विशुद्ध-पर-ब्रह्म-घन-नित्य-विग्रहम् असहमाना हि ते कल्पितम् अनित्यं वा शरीरं वा उपासते तेनात्म-घातकाः पुरुषार्थाद् भ्रंशनशीलाः । असताम् एकान्तरतिवर्त्मासद्वादिनाम् उपासनयेति वा । यद् अनुशयासद्-वासनायुता उरुभये संसारे भ्रमन्ति प्राकृत-शरीर-भृतः—भगवन्-मायया निर्विशेषात्म-ज्ञानादेर् विलापात् । भगवदीयम् आत्मानम् अन्यथा मन्वाना आत्म-हनः—सन्तम् आत्मानम् इत्य् उक्तेः ॥२२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवत्-पादाब्ज-रतिर् एव परमात्यन्तिक-पुरुषार्थ इत्य् आशयेन रतिम् उपदिशन्ति-त्वद् इति । कुलायम् इति नश्वरत्वं सूचितम् । इदं मानुष्यं तस्यैव बहु-पार्थिवत्वेन प्रायः कौ लयात् ।
यद् वा, इदं प्रत्यक्षम् एवात्मादिवच् चरति । तत्रात्मेति प्रायस् तस्मिन् लोकानाम् आत्मत्वाध्यासां सुहृत्तमत्वातिशयात्, किं वा आत्मनः सुहृद् इति जन्म-सम्बन्धात् हिताचरणाद् वा । प्रियम् इति पुत्रादिभ्यो\ऽप्य् अधिक-स्नेह-विषयत्वात् निजेच्छाकारित्वाद् वा । वति-प्रत्ययस् तत्त्व-विचारेण तादृशत्वाभावात् ।
तथा तथापि किं वा तथा तेनानिर्वचनीय-प्रकारेण, अस्य सर्व-इरप्य् अन्वयः । उन्मुखे\ऽभिमुखे सहज-नित्य-कृपार्णवत्वात्, हिते निरुपाधि-बन्धौ, प्रिये प्रीतिविषये प्रीतिकारिणि वा, आत्मनि परमात्मनि, अंशित्वेनात्मनो\ऽप्य् अत्यन्त-प्रिये, किं वा चेतयितरि सत्कर्मसु प्रवर्तके गुरावित्य् अर्थः । एवम् उभयथा रतेः साधनस्य विषयस्य च महा—योग्यतोक्ता । तथापि न रमन्ते । तत्र हेतुः—असद् उपासनयात्म-हन इति । अथवा कुत्सितो लोयो भस्मादि-रूपत्वेन विनाशो यस्य तद् इदं देहं त्वद् अनुपर्थत्वद्-भक्ति-मार्गानुवर्ति चेद्-भवति, तर्हि चात्म-सुहृदादिवद् आचरति । किञ् च, त्वम् अप्य् उन्मुखादिः स्याः, तथापि त्वयि श्रवण-कीर्तनादिना न रमन्त इत्य् अर्थः ॥२२॥
एवम् असमोर्ध्व-भक्ति-माहात्म्ये प्रस्तुते काश्चिच् छ्रुतयः कांश्चिद्-यादवान् अपि भक्ति-हीनानालोच्य तान् स्वात्मना सह सदैवाविनाभावेन सम्बद्धम्, अर्थाच् छरीरम् इत्य् अर्थः । अत एव आत्म-सुहृत्-प्रीयवच् चरति, आत्मनः स्वस्य सुहृत् प्रियवत् चरति परमानुकूलत्वेन वर्तत इत्य् अर्थः ।
कुलायं कुलं त्वत्-प्रभव-यदु-कुलम्, अयते जन्मना समेतीति यदु-कुलोद्भवम् इत्य् अर्थः । अत एव त्वद् अनुपथं यादवत्वात्-त्वत्-सेवोचितम्, बत कष्टम्, अहो आश्चर्य्यम्, तथा तथापि, प्रसेन-शतधन्वादयस् त्वयि रतिं न कुर्वन्ति । त्वयि कथम्-भूते उन्मुखे स्वबान्धवत्त्वात् त्वद्-भजनापेक्षके आत्मनि स्व-विषये हिते प्रिये च, असतो धनादेर् उपासनया आत्म-हन आत्म-घातिनः, यद् अनुशया यत्र धनादौ अनुशयो वासना येषां तेषां ते कुशरीर-भूतस् त्वद्-भजनाभावात् कुत्सित-देहं पुष्णन्तः । उरुभये महति त्रासे, भ्रमन्ति त्वत्तो धन-प्राणादि-नाशशङ्कया सदा महा—भये मग्ना वर्तन्त इत्य् अर्थः । यथा—
वृषमयात्मजाद्-विश्वतो भयात् [भा।पु १०.३१.३] इत्य् आदौ भविष्यमति सूचितम् । तद्-वद् अत्रापि ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वद् अनुपथम् इत्य् अस्य टीकायां श्रुतौ आरामम् अधिष्ठानं जगद्-रूपं विदाथ जानीथ इमा इमानि भूतानि जजान जनयति अन्यद्युष्माकम् अन्तरं बभूव । अतः कारणाद्य् उष्माकं तस्य च महद् अन्तरम् इत्य् अर्थः । नीहारेणाविद्यया जल्प्याः जल्प-प्रवृत्तास् तार्किकाः इत्य् अर्थः । असुतृपः विषयिणश् च उक्थ-शासो यज्वानः उक्थानि हि यज्ञे शस्यन्ते चरन्ति संसरन्तीति । अथ स्व-व्याख्या ।
तद् एवं पूर्ववत्-तदीय-शुद्ध-रतेर् एवं सर्वतः प्रकर्षं ताभ्यां श्रुत्वापरास् तद् अनुगताः श्रुतयो व्यतिरेकेण पुष्यन्त्यः स्तुवन्ति-त्वद् इति ।
पन्थानम् अनुगतम् अनुपथम् । जीव-रूपत्वद् अंश-सम्बन्ध-परम्परायाम् अनुगतम् इत्य् अर्थः । तथा-भूतम् एव सद् इति परमात्मनस् तव सम्बन्ध-परम्परयैव इदं जडं कुलायं नश्वर-शरीरम् आत्मादिवच् चरति भाति । तत्-तद्-रूपतया स्फुरणेन रति-विषयतया प्रतीयत इत्य् अर्थः । मृत-शरीरे तत्-तद्-भानाभावाद् इति । भावः । अत्रात्वमत्त्वम् अहङ्कारास्पदत्वात् । सुहृद्-वत्त्वं तस्मिन् विषय-समर्पण-लक्षण-हितकारित्वात्, प्रियवत्त्वं ततस् ततः प्रीति-विषयत्वात् । किं वात्मवत्त्वाद् एव तद्-युगलवत्त्वम् इति ज्ञेयम् । एवं यत्-सम्बन्ध-परम्परयैव तस्मिंस् तत्-तद्-भानाद्रतिविषयत्वं तस्मिन् परमात्मत्वात्-साक्षात्-स्वयम् एव तत्-तद्-रूपे विशेषत उन्मुखे स्व-प्रकाशत्वात्-स्वत एव तत्-तद् अनुसन्धानस्य कर्तरि कारयितरि च न तु जडत्वाद्-देहवत्-तद् अभाववति त्वयि तथा तुल्यतया न रमन्ति रतिं न कुर्वन्ति इत्य् अहो आश्चर्यम्, बत कष्टं चेत्य् अर्थः । नाप्याश् चर्यम् इदम् इति स्वयं हेतुं च विन्यस्यति । असतस् तस्य कुलायस्य तत्-सम्बन्धिनां चासताम् उपासनया शुश्रूषयेति तस्माद्-युक्तम् एवैतद् इत्य् आह—यद् इति । तैर् व्याख्यातम् ।
श्रुतयो\ऽप्य् अत्र दर्शिता एव ज्ञेयाः । अन्याश् च असुर्या नाम ते लोकाः इत्य् आद्याः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं पूर्ववत् तदीय-रतेर् एव सर्वतः प्रकर्षं ताभ्यः श्रुत्वापरास् तद् अनुगत-श्रुतयो व्यतिरेकेण पुष्णन्त्यः स्तुवन्ति—त्वद् इति ॥२२॥91
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं मोक्ष-नैरपेक्ष्येण चरणारविन्दं भजतोऽभिनन्द्य भजन-विमुखान् निन्दन्त्य आहुः—त्वद् अनुपथम् इत्य् आदि । हे भगवन् ! इदं कुलायं शरीरं, कुलायं नीडम् । तद् आकारत्वात् तद्-व्यपदेशः ।
यद् वा, इदं शरीरं कीदृशम् ? कुलं परम्परा तेनायति संसरति कुलायं, तद् यथात्मवत् सुहृद्वत् प्रियवच् चरति भजति, अर्थाज् जनः । जाताव् एक-वचनम् । तथा त्वयि शरीर-भृतो जना न रमन्ति, न रमन्ते । बत खेदे । अहो आश्चर्यम् । त्वयि कीदृशे ? त्वद् अनुपथं यथा स्यात् तथा उन्मुखे त्वय्य् अनुगतः स्वयम् उपगतः पन्था इत्य् उन्मुखे । अथवेदं कीदृशम् ? त्वद् अनुपथं त्वद्-भजनम् अकृत्वा स्थितायां भजतीत्य् अर्थः । पुनः कीदृशे ? हितेऽनुकूले, अतः प्रिये, यत आत्मनि यत् हितं प्रियम् आत्मा च न भवति, तत् हितादिवद् भजति, यत् हितादि भजति, तन् न भजतीत्य् अहो आश्चर्यम् ।
ननु तद् एव कुतः ? इत्य् आहुः—आत्म-हनः आत्म-घ्नाः । तथैव कुतः ? तत्राहुः—असद् उपासनया, असतः संसारस्य कुजनस्य वा । कीदृशाः ? यद् अनुशयाः । यस्याम् असद् उपासनायाम् अनुशयो वासना येषां तथा-भूताः सन्त उरु-भये संसार-चक्रे भ्रमन्ति, अत एव कुशरीर-भृतः ॥२२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विसृष्ट-गृहा इत्य् उक्तम् अतो गृहासक्तान् भक्ति-योगम् अकुर्वतो जिवान् शोचन्ति । त्वद् अनुपथं तव पन्थानं भक्ति-योगम् अनुपगतं श्रोत्र-रसनादिमत्त्वात् त्वच्-छ्रवण-कीर्तनाद्य् उपयोगि-कुलायं जिवात्म-पक्षिणो नीडम् । यद् वा, कुं पृथिवीं लीयते श्लिष्यतीति कर्मण्य् अण् । कुलायं शरीरम् इदम् आत्मा च सुहृच् च प्रियश् च तद्वच् चरति भाति । मृत-शरीरे आत्मादि-भानादर्शनात् यत्-सम्बन्धेनैव आत्मादिवद् इदं भाति तस्मिंस् त्वयि कृपालुत्वाद् उन्मुखे सौहार्दवत्त्वाद् एव हिते हित-कारिणि देह-जिवाभ्याम् सकाशाद् अप्य् अतिप्रीति-विषयत्वात् । प्रिये आत्मनि परमात्मनि परम-सुसेव्येऽपि बत अहो कष्टं न रमन्ति दास्यादिना न भजन्ति । असद् उपासनया असच्-छास्त्राध्ययनाध्यापनादि-लक्षणाभ्यासेन ।
यद् वा, पुत्र-कलत्र-गेह-देहाद्य् उपलालनेन आत्म-हन आत्म-घातिनः । कुतः ? यद् अनुशयो यस्याम् असद् उपासनायाम् अनुशयो वासना येषां ते कुशरीर-भृतः शृगालादि-योनि-गताः सन्तः उरु-भये संसारे भ्रमन्ति परिवर्तन्ते । अत आत्म-हन इति भावः ।
अत्र आरामम् अस्य पश्यन्ति न तं पश्यति कश् चन [बृ।आ।उ। ४.३.१४],
न तं विदाथ य इमा जजानान्यद्
युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासु-
तृप उक्थ-शासश् चरन्ति ॥ [ऋ।वे। १०.८२.१७] इति ।
अर्थश् च तस्य परमेश्वरस्य आरामम् अधिष्ठानं घट-पटादि-मयं जगद् एव पश्यन्ति । अरे जल्प्या जल्प-परास् तार्किका न तम् विदाथ यूयं तं न जानीध्वे य इमा इमानि जजान ससर्ज । अन्यत् सृज्येभ्यो भूतेभ्योऽन्यः । युष्माकम् अन्तरं बभूव युष्मत्तः परमाणु-कारण-वादिभ्यः सकाशाद् अन्तर्भूतो बभूव । यतो यूयं नीहारेणाविद्यया प्रकर्षेणैवावृता अत एवासुतृपः स्व-प्राणांस् तर्प्यन्तिअ इतस् ततः उक्थ-शासः कर्म-प्रवर्तका भ्रमन्तीति ।
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशो। ३] इत्य् आद्याः ॥२२॥
॥ १०.८७.२३ ॥
निभृत-मरुन्-मनोऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इदानीम्, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ।आ।उ। २.४.५] इत्य् आद्याः श्रुतयो ध्यानम् अङ्गत्वेनोपदिशन्तीत्य् आह—निभृत-मरुन्-मनोक्ष-दृढ-योग-युज इति । मरुत् प्राणो मनश् चाक्षाणीन्द्रियाणि च निभृतानि संयमितानि यैः, ते च ते दृढं योगं युञ्जन्ति, ते दृढ-योग-युजः । ते तथा-भूता मुनयो हृदि यत् तत्-त्वम् उपासते, तद् एवारयोऽपि तव स्मरणाद् ययुः प्रापुः । स्त्रियोऽपि कामत उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियः, अहीन्द्र-देह-सदृशयोर् भुज-दण्डयोर् विषक्ता धीर् यासां ताः परिच्छिन्न-दृष्टयः सम**-दृशः**, समम् अपरिच्छन्नं त्वां पश्यन्त्यः, वयं श्रुत्य् अभिमानिन्यो देवता अपि ते समा एव कृपा-विषयताया अङ्घ्रि-सरोज-सुधाः अङ्घ्रि-सरोजं सुष्ठु धारयन्त्यः ।
अयं भावः—इत्थं-भूतस् तव स्मरणानुभावा ये योगिनस् त्वां हृद्य् आलम्बनम् उपासते, याश् च वयं त्वां समं पश्यामो, याश् च स्त्रियः कामतः परिच्छिन्नं ध्यायन्ति, ये च द्वेषेण सर्वान् अपि तांस् त्वाम् एव प्रापयतीति ।
चरण-स्मरणं प्रेम्णा तव देव सु-दुर्लभम् ।
यथा कथञ्चिन् नृ-हरे मम भूयाद् अहर्-निशम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधुना ध्यानम् आत्म-प्राप्ताव् अङ्गत्वेनाहुः—आत्मा वा [बृ।आ।उ। २.४.५] इत्य् आद्याः श्रुतयस् ता आह—स्व-भार्यां मैत्रेयीं प्राह यज्ञवल्क्यः—
न वा अरे सर्व-स्य कामाय सर्वं प्रियं भवति, आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्य् आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं [बृ।आ।उ। २.४.५] इति ।
अरे इति निकृष्ट-सम्बुद्धौ भार्यात्वात् । मैत्रेयि ! सर्व-स्य पति-स्त्री-पुत्र-धनादि-वसु-मात्रस्य कामाय सर्वं प्रियं न भवति, किन्त्व् आत्म-कामाय सर्वं प्रियं भवति । स आत्मा द्रष्टव्यः साक्षात्-कर्तव्यः, श्रोतव्यः पूर्वम् आचार्यतः आगमतश् च पश्चान् मन्तव्यः तर्कादितः, ततो निदिध्यासितव्यो निश् चयेन ध्यातव्यः । एवम् आत्मनो दर्शनं भवति, मत्या मननेन विज्ञानेन निदिध्यासेन । इयम् अप्य् उपदेश-परा । एतद् अभिप्रेत्यैव श्री-शुकेनोक्तं—
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ [भा।पु। २.१.५] इति द्वितीये ।
तथा पाद्मेऽपि शिवः—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ इति ।
तद् एव तत्-त्वम् अत्र निर्गलितार्थम् आह—अयं भाव इति । वयं श्रुत्य् अभिमानिन्यो देवताः । ये च द्वेषेण शिशुपालादयः भवांस् तान् योगि-प्रभृतीन् त्व् आत्मानम् एव प्रापयतीति । अत्रेदम् अवधेयम्—यद्यपि भगवत्-प्रसादो गोपीनाम् असाधारणोऽस्ति—
नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतोऽन्याः ।
रासोत्सवेऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भा।पु। १०.४७.६०]
इत्य् आदिभिर् उक्तस् तथाप्य् अत्र, तन्-मध्य-पतितस् तद्-ग्रहणेन गृह्यते इति न्यायात् मुन्य् आदीनां मध्ये कथितानां गोपीनाम् अपि श्री-कृष्ण-स्मरण-जन्य-ब्रह्मानन्द-सुख-समम्यं भवतु नाम, किन्तु भजनानन्द-सुखाधिक्यम् अस्त्य् एव निदर्शनं च—
अहल्या द्रौपदी सीता तारा मद्नोदरी तथा ।
पञ्च कन्याः स्मरेन् नित्यं सुप्रभातं दिने दिने ॥
एताः पञ्च कन्या नित्यं दिने दिने स्मरेत् तर्हि तद्-दिनं सुप्रभातं भवतीत्य् अर्थः । अहल्यादीनां मध्ये श्री-सीतापि पठिता । एतावता ताभिः सह सीतायाः साक्षाल्-लक्ष्म्याः किं साम्यं भवति, किन्तु कन्या-स्मरण-फल-दातृत्वेन साम्यम् उक्तम् । सीता तु साक्षाल्-लक्ष्मीर् अहल्याद्यास् तद् अंशांशा एवेति । तथा कर्मादौ पञ्च-देवता-पूजा-विधौ गणेशादीनां मध्ये विष्णुर् अप्य् एको देव उक्तः । एतावता विष्णुना तेषां किं साम्यं मन्तव्यम् । किन्तु कर्म-फल-दातृत्वेन कर्माङ्गत्वात् समत्वम् । अन्यदा तु विष्णुर् ईश्वरो गणेशाद्यास् तद् अंशांशा एवेति दिक् । स्वामिनां चरणेति सुबोधः ॥
श्रीधरानुयायिनी : इदानीम् ईश्वर-भजने ध्यानम् अङ्गत्वेनापदिशन्त्यस् त्वां स्मरता सर्वेषां तुल्यैव त्वत्-प्राप्तिर् इत्य् आहुः—निभृतेति । ये वशीकृत-प्राणेन्द्रिय-मनसो दृढ-योगिनो हृद्य् उपासते, ये च कांस-चैद्यादयो द्वेषेण त्वां स्मरन्ति, याश् च भवदीय-शेष-शरीरानुकारि-भुज-दण्ड-द्वयासक्त-धियो गोप्यस् त्वां परिच्छिन्नं कामोपभोगाय ध्यायन्ति । याश् च त्वत्-पाद-पद्माराधन-परा वयं श्रुतयस् त्व् आत्म-परिच्छिन्नं ध्यायाम इति ते सर्वेऽपि सम-दृशस् तव समा एव । अहो अपूर्वस् तव स्मरणानुभावो यः सर्वान् अपि त्वाम् एव प्रापयतीति कीट-भृङ्ग-न्यायेन ध्यान-मात्रस्यैव ध्येय-सारूप्यापादकत्वं न भक्तेर् एवेत्य् आशयः ॥२३॥
नीलकण्ठी : एवम् अभक्तान् अनुक्रोश्य भक्तिं स्तौति—निभृतेति । निभृता निगृहीताः मर्तु-प्राणाः । मनः प्रसिद्धम् । अक्षा इन्द्रियाणि । यैस् ते निभृत-मरुन्-मनोऽक्षाः । ते च दृढ-योग-युजश् च निभृता मरुन्-मनोऽक्षा यस्मिन् दृढ-योगे तद् यो वा मुनयो यद् धृदि तत्-त्वम् उपासते । तत् तद् एव तत्-त्वम् । द्वेष-पूर्वकं नित्यं चिन्तयन्तः अरयः कंस-शिशुपालादयो ययुः प्रापुः । कुतः ? स्मरणात् । कीट-भृङ्ग-न्यायेन ध्यान-मात्रं ध्येय-सारूप्य-प्रापकं न भक्तिर् एवेत्य् अर्थः । यथोक्तं सप्तमे—
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ [भा।पु। ७.१.३०] इति ।
त्वां प्राप्ता इति शेषः । अत एव स्त्रियो गोप्य् आदय उरगेन्द्र-भोगः फणीन्द्र-शरीरं तत्-सदृशौ यौ भुज-दण्डौ तत्राशॢएष-सुख-लिप्सया विषक्ता संलग्ना धीर् यासां तास् तथा । ता अपि यन् मुनय उपासते तद् ययुर् इति सम्बन्धः
ननु, यम् एवैष वृणुते तेन लभ्यः, [क।उ १.२.२३] एष भक्त्या तुष्ट ईशः यम् एव भक्तं वृणुते माम् अयं साक्षात्करोत्व् इति वाञ्छति, तेन् लभ्य इत्य् अर्थः । एष ह्य् एवैनं साधु कर्म कारयति, तं यं यमेभ्यो लोकेभ्य उन्निनीषति, एष ह्य् एवासाधु कर्म कारयति, तं यम् अधो निनीषति [कौ।उ। २.९, शभक्ति-रसा। ३.४] इतीश्वर-प्रसाद-प्रकोपापत्तेर् ऊर्ध्वाधो-गती श्रूयेते तत् कथं तद् अरयोऽपि ययुर् इत्य् उच्यते ? इत्य् आशङ्क्याह—वयम् अपीति ।
वयं वेद-वाचोऽपि ते त्वत्-सम्बन्धिन्यः समाः तद् अरयोऽपि ययुर् इत्य् अस्य प्रतिपादने समाः । अयं भावः—तं यथायथोपासते तथेतः प्रेत्य भवति—
यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।
तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ॥ [गीता ८.६]
इत्य् अन्त्य-प्रत्यय-वशात् स्मर्यमाण-सारूप्यं प्राप्यते अन्त्य-प्रत्ययश् च यथा कथञ्चित् तीव्र-ध्यानायत्तो न केवलं भक्त्यायत्तः, एव ह्य् एवेति श्रुतिस् तु कर्म-गोचर-गति-विषया न ध्यान-विषया । एवं ध्यानेन भगवत्-सारूप्यं प्राप्योपाधि-विशेष-महिम्ना पूर्वं द्वेषादिमन्तोऽपि भगवल्-लोके दिव्य-ज्ञानादिमन्तो भूत्वा मुच्यन्ते इति कुत एतत् यतः सम-दृशः ब्रह्म-दर्शिन्यः ब्रह्म-दर्शनम् अपि तासां कुतः यतस् ते तवाङ्घ्रि-सरोजं पाद-पद्मं सुधेवामृतम् इवातिवल्लभं यासां ताः । अङ्घ्रि-सरोजं सुष्ठु धारयन्तीति वाङ्घ्रि-सरोज-सुधाः ॥२३॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—मुनयो मननशीलास्त्वां गोपाल-वेशेन व्रज-वृन्दावन-स्थिर-चर-प्रेमाविष्टम् अपि सर्वात्मक-पर-ब्रह्म-घनत्वेन जानन्तो महा—प्रगाढ-योगेन चिन्-मात्रैक-रस-पर-ब्रह्मणि प्रथमं चेतः समावेश्य तत्र तद्-घनं व्रज-वृन्दावनाख्यं धाम संस्मृत्य तत्र स्वेष्टपार्षद-रूपेण सप्रेम-भरं यत् स्वरूपम् उपासते त्वत्-सेवापरा इत्य् अर्थः । तद् एवारयो वकाघ-शङ्ख-चूडादयो दृढ-भावनायोगात् प्रापुः स्त्रियः खेचर्यादयः कश्मलं ययुर् अपस्मृतनीव्यः [भा। १०.३५.३] इत्य् उक्तः सकलाद्भुत-सौन्दर्येण काम-मोहिता अपि यद् एवापुः वयम् अपि त्वद् अङ्घ्रि-सरोजस्य सुधाः सुष्ठु सम्यक्त्वावबोधेन प्रेम-मूल-प्रायस्य धारिकाः सुष्ठु रस-पान-कर्त्र्यो वा समा मुन्यादिभिः समाः शुद्ध-भावाभावेन शुद्ध-प्रेम-रस-विलासि-स्वरूपानुभवाभावात् । तत्र कथम्-भूतस्य समदृशः समम् सर्वात्मकं परब्रह्मात्मत्वेन पश्यतः समम् एक-रूपं सर्वं वा समा ब्रह्मत्वेनैक-रूपा दृष्टिर्यस्येति वा शुद्ध-भावमयेषु तु त्वं न ब्रह्म । मा शुद्ध-प्रेम-सम्पत्तिः माम् इतिः परिच्छेदः शुद्ध-प्रेमवत एव त्वं पश्यसि तैरेव च त्वं दृश्यसे परिच्छिन्नं यशोदा-किशोरम् एवात्मत्वेन पश्यतः परिच्छिन्न-व्रज-वृन्दावनस्थ शरीराभिमानिभिर् दृश्यसे । तस्य मुन्यादयो वयम् अपि च समाः— शुद्ध-रूपेण व्यवहाराभावस्य समानत्वात् ।
नित्य-गोप्यस्तु आहुः—निभृते विजन-श्री-वृन्दावने-निकुञ्जोदेर मरुन्-मनो\ऽक्षाणि दृढानि यत्र [निकुञ्जो] तादृश-योग-युजः प्राणस्य तादृशता सुरत-सङ्ग्रामखेलनाशौर्यराहित्या-भावः मनो-दृढता रतत्वानुत्साहाभावः अक्ष-दृढता तच्-चेष्टा-शौथिल्याभावः तस्या राधाया हृदि वक्षसि यद्-विलास-विशेषाय यतमानः तव स्वरूपम् अरयो विपक्ष-नायिकाश् चन्द्रावल्यादयो\ऽपि प्रापुः स्मरणाद् एव न तु साक्षात् । एवं राधायाः सख्यापि काश् चन कृष्णसङ्गे\ऽपि लालसावत्यो राधा-सङ्गपि प्रीयमाणाः स्मरणाद् एव प्रापुः न तु साक्षात्—ऐकान्तिक-सख्याभावात् । समौ राधां त्वाञ्च सम-स्नेह-विषयौ । समम् एक-रूपं वा केलि-सम्पद्युक्तौ महा—शोभा-युक्तौ वा पश्यन्त्यो वयम् अपि समा राधा-तादात्म्य-भावा-वेशेन त्वत्-सङ्ग-सुख-सम्पद्युक्ताः सदृश्यो वा राधया तत्-सङ्ग-सुख-भोगा इति तव चरण-सरोजं सुष्ठु धारयन्त्यः क्रीडा-श्रान्तौ संवाहयन्त्य इत्य् अर्थः । चरण-सरोजं युवयोर् इति वा तद्रसं वा सुष्ठु पिबन्त्यः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु मोक्ष एव परः पुरुषार्थः । तन्-निरपेक्षतया चरणारविन्द-भजनम् एव कार्यम् । तद् अकरणे च कुशरीर-भृतो भूत्वात्म-हत्य् आदि-निन्दानुपूर्व-पूर्वाभ्याम् । तद् अयम् अतिस्तवनैर् अलम्, यतोऽनुभव-सिद्धम् एवैतद् इत्य् आहुः—निभृतेत्यादि । निभृतानि संयमितानि मरुन्-मनोऽक्षाणि यैस् ते तथा ते च दृढ-योग-युजश् चेति कर्मधारयः । एवं-भूता मुनयो हृदि यद् उपासते, उपासत एव, न त्व् अनुभवन्ति, तद् अरयः पौण्ड्रकादयोऽपि स्मरणात् स्मरण-मात्रेणैव ययुः । अतो मोक्षस् तावद् अतिसुलभ एव । सुलभे हि साधकास् तथा न प्रयतन्ते, दुर्लभत्वं त्वच्-चरण-सेवाया एव ।
तत्र स्वानुभवं प्रमाणयन्ति—स्त्रिय इत्य् आदि । ते तव उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो वयम् अपि स्त्रियो गोपी-रूपा अभवाम । कीदृशस्य तव ? समदृशः । वयं कीदृश्यः ? समा भाव-सिद्धानां गोपीनां तद्-रूपाभिर् अस्माभिः साम्यम् एव । तारतम्यं तव नास्ति, समदृक्त्वाद् इत्य् अर्थः । अङ्घ्रि-सरोजं सुष्ठु दधतीति तथा वयं ब्रह्मोपासनाम् अपि त्यक्त्वा चरण-सरोजम् एव सुष्ठु धृतवत्य इति वयम् एव तत्र प्रमाणम् इति वाक्य-शेषः । एतेन स्व-सृष्टम् इदम् आपीय [भा।पु। १०.८७.१२] इत्य् आदिना श्री-कृष्ण-परैवेयं श्रुति-स्तुतिर् इति यन् निरणायि, तस्यैव निश्चायकम् एतत् ॥२३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं तत्र विमुखानां संसार-भ्रमणम् उक्त्वा तद् उपासकानां तत्-प्राप्तिम् आहुः—निभृतेति । मुनयो मनन-शीलाः, यद् ब्रह्म हृद्य् उपासते ययुश् च, तद् अरयोऽपि द्वेषेण स्मृति-मात्रतो ययुः । किं च, स्त्रियो वयं किं वा मथुरा-पुर-स्त्रियः, तत्र उरगेति सौन्दर्यातिशयानुभवेनासक्त-धीत्वाद् भाव-विशेष उक्तः । तथा सम-दृशः—अन्तर्यामित्वेन सम-दृष्ट्या भक्ताः । यद् वा, समं स-लक्ष्मीकं हरिं पश्यन्तः सालोक्य-भाज इत्य् अर्थः । तथा अङ्घ्रि-सरोज-सुधा विशुद्ध-भक्ति-निष्ठाः । किं वा, संवानादिना साक्षात् सेवमाना अपि, तव समास् तुल्याः । एतेषां सर्वेषां प्राप्यस्यैक्यात् । तत्र यद्यपि द्वेषिणां भक्तानां च प्राप्यस्यैक्यं न स्यात्, तथापि ब्रह्म-स्वरूपस्य श्री-भगवत्-स्वरूपस्य चाभेद-विवक्षया तथोक्तम् ।
यद् वा, पूर्वम् उक्ता द्विविधा भक्ति-शून्यत्वाद् ब्रह्मैव ययुः, स्त्री-प्रभृतयस् तु तव समाः प्रियतया तुल्यास् त्वयि भाव-शालित्वात्
काश्चिच् छ्रुतयो गाढानन्द-प्रकर्ष-कृतेन चापलेन मुखरीकृताः श्री-भगवति स्वेषाम् एव भाव-माधुर्य-सार-प्रदर्शनाय भक्ति-हीनानां प्राप्यम् आहुः—निभृतेति । यद् ब्रह्म उपासते, उपासनया प्राप्नुवन्ति, अरयोऽप्य् अघासुरादयस् तद् एव प्रापुः । स्त्रियस् तु गोपिकास् ते तवाङ्घ्रि-सरोज-सुधाः पाद-पद्म-मकरन्दान् सान्द्रानुराग-माधुरीर् इत्य् अर्थः । तत्र हेतुः—उरगेति । तासाम् असमोर्ध्वत्व-माधुर्य-भर-मग्नत्वात् तद् एवोचितम् इति भावः । वयम् अपि श्रुतयस् तद् अङ्घ्रि-सरोज-सुधा ययिम । कथं-भूताः ? समा गोपीभिस् तुल्यास् तत्-सखीत्वं प्राप्ताः । अत एव सम-दृशः सजातीय-भावाः । मुनीनाम् अरीणां च प्राप्यस्यैकत्वाद् अपि-शब्द-प्रयोगः । स्त्रीणां प्राप्यस्य तु भिन्नत्वाद् अपि-शब्दो नात्र प्रयुक्तः । वयम् अपीत्य् अत्र तु स प्रयुक्त एव । गोपीनां श्रुतीनां च प्रापस्यैकत्वाद् इति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वद् अनुपथम् इत्य् अस्य टीकायां श्रुतौ आरामम् अधिष्ठानं जगद्-रूपं विदाथ जानीथ इमा इमानि भूतानि जजान जनयति अन्यद्युष्माकम् अन्तरं बभूव । अतः कारणाद्य् उष्माकं तस्य च महद् अन्तरम् इत्य् अर्थः । नीहारेणाविद्यया जल्प्याः जल्प-प्रवृत्तास् तार्किकाः इत्य् अर्थः । असुतृपः विषयिणश् च उक्थ-शासो यज्वानः उक्थानि हि यज्ञे शस्यन्ते चरन्ति संसरन्तीति । अथ स्व-व्याख्या ।
तद् एवं पूर्ववत्-तदीय-शुद्ध-रतेर् एवं सर्वतः प्रकर्षं ताभ्यां श्रुत्वापरास् तद् अनुगताः श्रुतयो व्यतिरेकेण पुष्यन्त्यः स्तुवन्ति-त्वद् इति ।
पन्थानम् अनुगतम् अनुपथम् । जीव-रूपत्वद् अंश-सम्बन्ध-परम्परायाम् अनुगतम् इत्य् अर्थः । तथा-भूतम् एव सद् इति परमात्मनस् तव सम्बन्ध-परम्परयैव इदं जडं कुलायं नश्वर-शरीरम् आत्मादिवच् चरति भाति । तत्-तद्-रूपतया स्फुरणेन रति-विषयतया प्रतीयत इत्य् अर्थः । मृत-शरीरे तत्-तद्-भानाभावाद् इति । भावः । अत्रात्वमत्त्वम् अहङ्कारास्पदत्वात् । सुहृद्-वत्त्वं तस्मिन् विषय-समर्पण-लक्षण-हितकारित्वात्, प्रियवत्त्वं ततस् ततः प्रीति-विषयत्वात् । किं वात्मवत्त्वाद् एव तद्-युगलवत्त्वम् इति ज्ञेयम् । एवं यत्-सम्बन्ध-परम्परयैव तस्मिंस् तत्-तद्-भानाद्रतिविषयत्वं तस्मिन् परमात्मत्वात्-साक्षात्-स्वयम् एव तत्-तद्-रूपे विशेषत उन्मुखे स्व-प्रकाशत्वात्-स्वत एव तत्-तद् अनुसन्धानस्य कर्तरि कारयितरि च न तु जडत्वाद्-देहवत्-तद् अभाववति त्वयि तथा तुल्यतया न रमन्ति रतिं न कुर्वन्ति इत्य् अहो आश्चर्यम्, बत कष्टं चेत्य् अर्थः । नाप्याश् चर्यम् इदम् इति स्वयं हेतुं च विन्यस्यति । असतस् तस्य कुलायस्य तत्-सम्बन्धिनां चासताम् उपासनया शुश्रूषयेति तस्माद्-युक्तम् एवैतद् इत्य् आह—यद् इति । तैर् व्याख्यातम् ।
श्रुतयो\ऽप्य् अत्र दर्शिता एव ज्ञेयाः । अन्याश् च असुर्या नाम ते लोकाः इत्य् आद्याः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ श्री-गोपाल-तापिनी-प्रभृतयः श्री-कृष्णैक-परा गाम्भीर्येण सर्वान्ते स्तोतु-कामनया स्थिता अपि तासां नानान्य-प्रकारेणैव तत्-पर्यवसानतां श्रुत्वा समुत्कण्ठां संवरीतुम् अशक्ताः सेर्ष्यम् इव साक्षात् तदीय-महिमानं सर्वं तद् आविर्भावोत्कृष्टतया वर्णयन्ति । तत्राप्य् अनन्तरोक्तिम् अवलम्येदम् उद्भावयन्ति—कथम् अहो ! साधारणं वर्ण्यते ? तद् इदम् असाधारणं श्रूयताम्, यतो निभृतेति । इतिहासश् चात्र बृहद्-वामने—
ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-सञ्ज्ञितः ।
तल्-लोक-वासी तत्रस्थिअः स्तुतो वेदैः परात्परः ॥
चिरं स्तुत्या ततस् तुष्टः परोक्षं प्राह तान् गिरा ।
तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन् मनसीप्सितम् ॥
श्रुतय ऊचुः—
[कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।]{।मर्क्}
[कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयम् ॥]{।मर्क्} अतिरिक्तः श्लोकष्ः
यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनि नस् तथा ॥
श्री-भगवान् उवाच—
आगामिनि विरिञ्चौ तु जाते सृष्त्य् अर्थम् उद्यते ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥ इति ।
एवं गायत्र्या अपि गोपिकात्व-प्राप्तिः पाद्मे सृष्टि-खण्डे कथितास्ति । अत्र गोपाल-तापिनी-श्रुतयः—
अपूतः पूतो भवति यं मां स्मृत्वा, अव्रती व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो^३^ भवति । यं मां स्मृत्वाश्रोत्रियः श्रोत्रियो भवति यं मां स्मृत्वा । [गो।ता। २.५] इति ॥२३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु मोक्ष एव पुरुषार्थः । तन्-निरपेक्षतया मच्-चरण-भजनम् एव कार्यम् । तद् अकरणे कुशरीरी भूत्वा आत्म-हत्य् आदिना निन्दा च कृता पूर्व-पूर्व-श्लोकाभ्याम् । तद् अयम् अतिस्तवः, मैवम् । अनुभव-बाधाद् इत्य् आहुः—निभृतेत्यादि । निभृतानि यमितानि मरुतः प्राणा मनोऽक्षाणीन्द्रियाणि यैस् ते दृढ-योग-युजश् चेति बहुव्रीहि-गर्भः कर्मधारयः । एवं-भूता ये मुनयस् ते यत् कैवल्यम् उपासत आकाङ्क्षन्ति, तद् अरयः शिशुपालादयोऽपि वैरानुबन्धेन यत् स्मरणं तस्माद् अपि हेतोर् ययुः प्रापुः । अतः कैवल्यं तावन् न दुर्लभं, यद्-विग्रह-द्वेषिण एव प्राप्नुवन्ति । तव चरणारविन्द-रतिर् एव दुर्लभा । तत्र वयम् एव प्रमाणं यतो ब्रह्मोपासनाम् अवहेलयन्त्य् अस्मच्-चरण-रत्य् अर्थं श्रुति-रूपम् अपहाय व्रजे गोपाङ्गना-भावम् आसादिता इत्य् आहुः—स्त्रिय इत्य् आदि । वयम् अपि श्रुतयोऽपि तव उरगेन्द्र-भोगवद् वृत्तः कोमलो यो भुज-दण्डस् तत्र विषक्त-धियः सत्यः स्त्रियो भूत्वा अङ्घ्रि-सरोजं सुष्ठु दधतीति अङ्घ्रि-सरोज-सुधा अभवा इत्य् अर्थः । ते इत्य् उभयत्र योज्यम् । कथं-भूतस्य ? समदृशः, नित्य-सिद्धासु गोपाङ्गनासु यथानुरक्त आसीस् तथा ॥२३॥
जीव-गोस्वामी (दुर्गम-सङ्गमनी १.२.२८२) : तत्र ब्रह्मण्य् एवेति पद्यार्धेन राग-बन्धेनेति पद्येन च दशम-स्थ-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तःस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च हृदि यद् ब्रह्माख्यं तत्-त्वं मुनय उपासते, तद् अरयोऽपि स्मरणाद् ययुः । स्त्रियः श्री-गोप-सुन्दर्यः, तासाम् एव तथा प्रसिद्धेः । ता अङ्घ्रि-सरोज-सुधास् तत्-प्रेम-मय-माधुर्याणि ययुर् वयम् अपि सम-दृशस् ताभिः सम-भावाः सत्यः समास् ताभिस् तुल्यतां प्राप्ता व्यूहान्तरेण गोप्यो भूत्वा ते तवाङ्घ्रि-सरोज-सुधा ययिमेत्य् अर्थः । अर्थ-विशेषस् त्व् अस्य दशम-टिप्पन्यां वैष्णव-तोषणी-नाम्न्यां दृश्यः । तथा च बृहद्-वामन-पुराणे श्रुतिभिः प्रार्थ्य-गोपिकात्वं प्राप्तम् इति प्रसिद्धिः । कारिकायां भजन्त92 इत्य् आदिना जन-सामान्य-निर्देशस् तु एतद् उपलक्षणतया कृतः । तद् एवं स्त्रिय इत्य् अनेन वक्ष्यमाणा काम-रूपा वयम् इत्य् अनेन कामानुगा च उट्टङ्किता । तद् एतद् अनुसारेण वृष्ण्य् आदीनाम् अपि तत्-प्राप्ति-विशेषो ज्ञेयः ॥२८२॥
मुकुन्दः (भक्ति-रसामृत-सिन्धु १.२.२८२) : निभृतेति । स्त्रियस् तव नित्य-प्रेयस्यः श्री-राधादयः ते तवाङ्घ्रि-सरोज-सुक्धास् तदीय-स्पर्श-माधुर्याणि यान्ति, वयम् अपि सम-दृशः श्री-मन्-नन्द-व्रज-गोपी-भावानुगत-भावाः सत्यः समास् तु तुल्य-रूपाः सत्यो ययिम ॥२८२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवत्-स्वरूपेष्व् अपि मध्ये श्री-कृष्णस्य तद्-विषयक-सर्व-विलक्षण-भक्ति-योगस्य च सर्वोत्कर्षं वक्तुं प्रथमं ब्रह्म-विषयकं ज्ञान-योगम् अपकर्ष-कक्षायां निक्षिपन्त्य आहुः—निभृतेति । निभृतैः संयमितैर् मरुन्-मनो-ऽक्षैर् यो दृढो निश् चलो योगस् तं युञ्जन्तीति ते तथा-भूता मुनयो हृदि परम-शुद्धे ब्रह्माकारी-भूते यद् ब्रह्म-स्वरूपम् उपासते तद् अरयः कृष्णावतार-समय-गता असुरा अपि अरि-भाव-मयाद् अपि स्मरणाद् ययुः । अहो कृष्णाकारस्य माहात्म्यम् । तादृशा अपि मुनयोऽपरिच्छिन्न-दृष्टयोऽपि यावद् ब्रह्म केवलम् उपासीना एव तिष्ठन्ति तन्-मध्य एव कंसादयोऽसुराः परिच्छिन्न-दर्शिनः पापात्मत्वाद् अशुद्ध-चित्ता अपि अरि-भाववत्त्वात् कृष्णाङ्ग-सङ्ग-माधुर्यस्यापरोक्षानुभव-रहिता अपि केवल-तद् आकार-मात्र-स्मरणात् तद् एव ब्रह्म प्राप्यैव स्थितः । मुनयस् तु न जानीमहे कियता कालेन तत् प्राप्स्यन्तीति भावः। एवं च तच्-छक्र-गण-प्राप्तं ब्रह्म-रसास्वादं मुनयो यत्नेन प्राप्नुवन्तीति पूर्वोर्ध्वेनोक्त्या तन्-मित्र-गण-प्राप्तं प्रेम-रसास्वादं वयं श्रुतयो यत्नेन प्राप्नुम इत्य् आहुः—स्त्रियो व्रज-देव्य उरगेन्द्रस्य भोगोदेहस् तत्-सदृशयोस् त्वदीय-भुज-दण्डयोर् अतिरागेणैव विषक्ता धीर् यासां ता हृदि स्व-वक्षः-स्थले—यत् ते सुजात-चरणाम्बुरुहं स्तनेषु [भा।पु। १०.३१.१९] इत्य् उक्ति-रीत्या अङ्घ्रि-सरोजयोर् याः सुधा उपासते सेवन्ते अनुभवन्तीति यावत् । ता एव वयं श्रुतयोऽपि ययिमः समाः प्राप्नुतेति तपसा गोपीत्व-प्राप्त्या तत्-तुल्य-रूपाः सत्यः कथं तत्राहुः । सम-दृशः सम-दृष्टयस् तासां यस्मिन् वर्त्मनि तद् अनुगत्या दृष्टिं ददाना इत्य् अर्थः । अत्र चत्वारो गणा वर्णितास् तत्र पूर्वार्ध-गतौ मुनि-गण-दैत्य-गणौ यथा-सम-प्राप्यौ पृथक् तथैवोत्तरार्ध-गतौ गोपी-गण-श्रुति-गणौ सम-प्राप्यौ पृथक् पृथग् अपि-शब्दाभ्याम् अवगम्यते इतिहासश् चात्र बृहद्-वामने उत्तर-स्थाने खिले—
ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-सञ्ज्ञितः ।
तल्-लोक-वासी तत्रस्थिअः स्तुतो वेदैः परात्परः ॥
चिरं स्तुत्या ततस् तुष्टः परोक्षं प्राह तान् गिरा ।
तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन् मनसीप्सितम् ॥
श्रुतय ऊचुः—
[कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।]{।मर्क्}
[कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयम् ॥]{।मर्क्} अतिरिक्तः श्लोकः
यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः ।
भजन्ति रमणं मत्वा चिकीर्षाजनि नस् तथा ॥
श्री-भगवान् उवाच—
दुर्लभो दुर्घटश् चैव युष्माकं सुमनोरथः ।
मयानुमोदितः सम्यक् सत्यो भवितुम् अर्हति ॥
आगामिनि विरिञ्चौ तु जाते सृष्त्य् अर्थम् उद्यते ।
कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥
पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले ।
वृन्दावने भविष्यामि प्रेयान् वो रास-मण्डले ॥
जार-धर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।
मयि सम्प्राप्य सर्वेऽपि कृत-कृत्या भविष्यथ ॥
ब्रह्मोवाच—
श्रुत्वैतच् चिन्तयन्त्य् अस्ता रूपं भगवतश् चिरम् ।
उक्त-कालं समासाद्य गोप्यो भूत्वा हरिं गताः ॥ इति ।
अत्र आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ।आ।उ। २.४.५] इति । अर्थश् च द्रष्टव्यः साक्षात् कर्तव्योऽस्य साधनान्य् आह—श्रोतव्यः श्री-गुरोर् मुखाद् उपक्रमादिभिस् तात्पर्येणावधारयितव्यो मन्तव्योऽदम्भावनाविपरीत-भावना निवारणाय स्वयं पुनर् विचार-णीयो निदिध्यासितव्यो निश् चयेन ध्यातव्य इति अत्र ज्ञानिनां मते स-विशेष-निर्विशेषे भेदेऽपि निर्विशेष एव तात्पर्यम् । वैष्णवानां मते तु अप्राकृत-विचित्र-विविध-विशेषवति श्री-भगवद् आकार एव—
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [कठ।उ। १.२.२३] इति श्रुतेः ।
कल्याण-गुण-मय-तनु-मानात्मा श्री-भगवान् द्रष्टव्यः, तस्य साधनान्य् आह—श्रोतव्य इति । श्री-गुरोर् मुखात् तन्-मन्त्र-श्रवणं मन्त्र-मय-वपुषः इति क्रम-दीपिकाद्य् उक्तेस् तन्-मन्त्रस्य तत्-स्वरूपत्वोक्तेः । मन्तव्य इति मन्त्र-शब्दार्थयोः सम्यङ्-मनन-लक्षणं स्मरणम् । निदिध्यासितव्य इति—निर्वर्णनं तु निर्ध्यानं दर्शनालोकनेक्षणम् इत्य् अमरोक्तेर् निर्ध्यानं दर्शनं तस्येच्छा निदिध्यासनं मन्त्रार्थ-सम्यङ्-मनन-पूर्वक-जपाभ्यासाद् द्रष्टव्य इति । वेदानां काम-भावेच्छायां तु यं मां स्मृत्वा निष्कामः सकामो भवति [गो।ता।उ। २.५] इति कृष्णोक्ति-रूपा गोपाल-तापिनी-श्रुतिः । व्रज-स्त्री-जन-सम्भूत-श्री-भ्यो ब्रह्म-सङ्गतः इति च ।
अर्थश् च व्रज-स्त्री-जनेषु सम्भूता बृहद्-वामन-पुराण-दृष्ट-तपोभिर् उत्पन्ना याः श्रुतयस् ताभ्यो हेतुभ्यः ताः प्राप्येति वा कृष्णो ब्रह्म-सङ्गतः प्राप्त-वेदाङ्ग-सङ्गोऽभूत् ॥२३॥
विश्वनाथ-चक्रवर्ती (भक्ति-रसामृत-सिन्धु १.२.२८२) : तत्र ब्रह्मण्य् एव लयम् इति पद्यार्धेन राग-बन्धेनेति पद्येन च सह दशम-स्कन्ध-श्रुति-वाक्यं तुलयति—निभृतेति । प्रतियुग्मान्तस्थस्यापि-शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवगम्यते । ततश् च निभृतैर् नितरां धृतैर् अर्थाद् धारणादिना वशीकृतैर् मरुन्-मनोऽक्षैः करणैर् दृढ-योग-युक्ता मुनयः यद् ब्रह्माख्यं तत्-त्वम् उपासतो मात्रम् । प्राप्तौ तु सम्भावना एव, तद्-वयोऽपि स्मरणाद् ययुः प्रापुः । उरग-शरीर-तुल्ये कृष्णस्य भुज-दण्डे विषक्त-धियः । अन्यत् समम् ॥२३॥
॥ १०.८७.२४ ॥
क इह नु वेद बतावर-जन्म-लयोऽग्र-सरं
यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये ।
तर्हि न सन् न चासद् उभयं न च काल-जवः
किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१],
को अद्धा93 वेद क इह प्रवोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.६]
अनेजद्94 एकं मनसो जवीयो
नैतद् देव आप्नुवन् पूर्वम् अर्शत् । [ईशो।उ ४.४]
तद् धावतोऽन्यान् अत्येति तिष्ठत्
तस्मिन्न् अपो मातरिश्वा दधाति ॥ [ईशो। ४]
इत्य् आद्याः श्रुतयो भगवत्-तत्-त्वं दुर्ज्ञेयं वदन्त्यो भक्तिम् एवोररी-कृत्य स्तुवन्तीत्य् आह—क इह नु वेदेति । बत अहो भगवन्न् ! इह जगत्य् अग्र-सरं पूर्व-सिद्धं त्वाम् अवर-जन्म-लयोऽर्वाचीनोत्पत्ति-नाशवान् को नु पुमान् वेद जानाति ? ईश्वरस्य पूर्व-सिद्धाव् अन्यस्य चार्वाचीनत्वे प्रमाणं वदन् ज्ञान-कारणाभावम् आह—यत उदगाद् इति । यतस् त्वत्त ऋषिर् ब्रह्मा उत्पन्नो यं ब्रह्माणम् अनु उभये आध्यात्मिकाधिदैविका देव-गणा उत्पन्नास् ततोऽप्य् अर्वाचीनाः सर्वे
यदा तु भवान् सर्वम् अवकृष्य उपसंहृत्य शयीत, तर्हि तदा अनुशायिनां जीवानां ज्ञान-साधनं नास्ति, यतस् तदा न सत् स्थूलम् आकाशादि, न चासत् सूक्ष्मं महदादि । न चोभयं सद् असद्भ्याम् आरब्धं शरीरम् । न च काल-जवस् तन्-निमित्त-भूतं काल-वैषम्यम् । एवं सति, तत्र तदा न [[किम् ]{।मर्क्}[अपीन्द्रिय-प्राणाद्य् अपि, न च ज्ञापकं शास्त्रम् अपि ।]{।मर्क्}
[अयम् अभिप्रायः]{।मर्क्}---अतिरिक्तः पठम्]—अर्वाक् सृष्टि-गतानां देहाद्य् उपाधि-कृतान्तराणां काल-वशेन च मलिन-सत्त्वानां न तावद् भगवज्-ज्ञान-सामर्थ्यम् । तथा च श्रुतिः—न तं विदाथ य इमा जजानान्युद् युष्माकम् अन्तरं बभूव [ऋ।वे। १०.८२.१७] इत्य् आद्या । यदा तु प्रलय-समये न बह्व् अन्तरम् अस्ति, तदापि साधन-भावान् न भगवज्-ज्ञान-सामर्थ्यम् । अतस् त्वद् एक-शरणतया श्रवण-कीर्तनादि भक्तिर् एव सुकरेति ।
क्वाहं बुद्ध्यादि-संरुद्धः क्व च भूमन् महस् तव ।
दीन-बन्धो दया-सिन्धो भक्तिं मे नृ-हरे दिश ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो ध्यान-ज्ञान-द्वेष-भय-काम-सम्बन्ध-स्नेह-भक्ति-पराणां विषम-स्वभाव-कर्मणां सर्वेषं त्वत्-सायुज्यम् एकम् एव फलं स्याद् अतस् तव तत्-त्वं दुर्जेयं वदन्त्यो यतो वाचः [तै।उ। २.४.१] इत्य् आद्याः श्रुतयः उररी-कुर्वन्ति ता आह—यत इति । ब्रह्म-प्रकाशनाय प्रयोक्तृभिः सर्वथा प्रयुज्यमाना अपि वाचः मनसा सह यद् अप्राप्य यतो यस्मान्-निर्विकल्पाद् अद्वयानन्दात्मनो निवर्तन्ते तद्-ब्रह्मण आनन्दं विद्वान् जानन् कुतश् चिन्-निमित्तान् न बिभेतीति अलभ्य-लाभ-माहात्म्य-परेयम् । परमात्मनो दुर्विज्ञेयत्वे श्रुत्य् अन्तरम् उदाहरतिक इति । तं परमात्मानमद्धा साक्षात् को वेद जानाति । इह कः प्रवोचत्-प्रावोचद्-वदति । इयं विसृष्टिर् विविधा सृष्टिः कुतो जाता कुतः कस्माद् आयाता ।
ननु हिरण्य-गर्भादेः सकाशात् सृष्टि-रुत्पद्यते नेत्य् आह अर्वाग्-देवा अर्वाचीना ब्रह्मादि-देवा अस्य जगतो विसर्जने न । समर्था इत्य् अर्थः । अथा इत्य् आकारान्तो निपातो\ऽथेत्य् अर्थे । अथा तं को वेद यत एतत्-सर्वम् आबभूवेति दुर्विज्ञेयत्व-प्रतिपादन-परेयम् ।
ननु यदि को\ऽपि न वेद कथं तर्हि संसार-निवृत्तिः तद् अर्थं तत्-स्वरूपम् अनिर्वचनीयत्वेनाह अनेजद् इति । तत्-परमात्म-तत्त्वम् अनेजत्-स्वरूपाच्-चलन-रहितम् एकद्वितीयं मनसो जवीयः मनसो\ऽपि वेगवत्तमम् । यत्र मनो धावति तत्र तस्य पूर्वम् एव तद्वर्तत इत्य् अर्थः । एतत्-परमात्म-तत्त्वं देवश् चक्षुरादीनीन्द्रियाणि तद् अधिष्ठातारो वा नाप्नुवन् न प्राप्ताः । तत्र हेतुः—यस्मान्-मनसो\ऽपि पूर्वम् अर्शत् पूर्वम् एवागच्छत् । तत्-तिष्ठत्-स्थितरतम् अपि धावतो\ऽन्यान्वागिन्द्रियादीनत्येति अतिक्रम्य गच्छति । मातरिश्वा वायुः । तस्मिन्न् अपः प्राणिनां चेष्टा-लक्षणानि कर्माणि । दधाति धारयति । यः सर्व-प्राणभृत् क्रियात्मकः यद् आश्रयाणि कार्य-कारणजातानि यस्मिन्न् ओतानि प्रोतानि च । यः सूत्र-सञ्ज्ञः वायुर् वै गौतम-सूत्रम् इत्य् आदिभिर् उक्तः सर्वस्य जगतो विधारयिता स मातरिश्वा वायुर् इति ज्ञातव्यम् ।
अनिर्वचन-परेयम् । ब्रह्माणम् अनु पश्चात् आध्यात्मिका देव-गणा वाय्विन्द्रादयो\ऽधिकारिणो देवा आधिदैविकास् तान्-देवान् अधिकृत्य तत्तन्-नामन
इन्द्रियाद्य् अधिष्ठातारश् च दिग्-वातार्कप्रचेतोश्वि-वह्नीन्द्रोपेन्द्रमित्रकाः एत इत्य् अर्थः । अधिकारि-देवानां ब्रह्मणः पश्चाद्-भावित्वेन तत्-समाननामत्वाद् आधिदैविकेष्व् अग्रभाविष्व् अपि पाश्चात्य-कथनं ज्ञेयम् इति । ततो देव-गणेभ्यो\ऽपि सर्वे मनुष्यादयः । निर्गलितार्थम् आह अयम् अभिप्राय इति । न तम् इत्य् आदि-श्रुतिस्तु व्याख्यातार्था । साधनाभावाद्-गुरु-शास्त्रादि-रूप-साधनस्याभावात् । यतः सर्वथा तव जानं दुर्घटम् अतो हेतोः स्वामिनां क्वाहम् इति । अत्यन्ताघटनायां द्वौ क्वौ । हे भूमन्न् अपरिच्छिन्न-व्यापक बुद्ध्यादि-संरुद्धो बुद्ध्यादि-रहितः महः-स्वरूपं वागाद्य-गोचरं क्व अत्यन्तासम्भावनातो भक्तिं देहीति ॥
श्रीधरानुयायिनी : पुनर् अपि भक्तेर् एवावश्यकत्वं द्रढयितुं तद् अभावे तव ज्ञानम् अशक्यम् इत्य् आहुः—क इति । यतस् त्वत्तः सकशात्-तावत्-तव किञ्चिन्-मात्र-तत्त्व-ज्ञापको वेदो ब्रह्मा वा जातस् तत उभये उभयेन्द्रियाधिष्ठातारो देवाः पश्चाद् अर्वाचीनाः सर्व-इत्य् अतः सर्वेभ्यः त्वामाधुनिको जन्म-मरण-भागी कः पुमान् जगति ज्ञातुं समर्थः स्यात् । प्रलय-काले\ऽप्य् आकाशादीनां महद् आदीनां तद् आरब्ध-शरीराणां तन्-निमित्त-भूत-काल-वैषम्य-स्येन्द्रिय-प्राणाद् एवास् तत्त्व-ज्ञापकस्य शास्त्रस्य च लीनत्वान् न त्वां ज्ञातुं को\ऽपि समर्थः । अयं भावः—सृष्टि-काले देहाद्य् उपाधि-कृत-बहु-व्यवधाने सत्य् अपि ज्ञापकस्य शास्त्रस्य साधन-समूहस्य च सम्भवाद्-यत्-किञ्चित्-तत्त्व-ज्ञानं कदाचित्-कस्यचिद्-भवेद् अपि प्रलय-काले तु बहु-तर-व्यवधानाभावे\ऽपि शास्त्रस्य साधन-समूहस्य चाभावान् न किञ्चिन्-मात्रम् अपि तत्त्व-ज्ञानं सम्भवेद् अतो ज्ञानाग्रहं त्यक्त्वा त्वद्-भक्तिर् एव कर्तुं युज्यत इति ॥
नीलकण्ठी : ननु तत्त्व-ज्ञानेनैव मुच्येमहि किं सगुण-भक्त्य् एत्य् आशङ्क्य ज्ञान-दौर्लभ्यम् आह—त्रिभिः-क इह नु वेदेति । इह लोके कः अवर-जन्म-लयः
अन्तरालिक-जन्म-मरणः तौ जन्म-लयौ समासान्तः स्थावपि बुद्धिस्थतया गृह्येति । ताविति । तौ जन्म-लयौ तं चाग्र-सरं पूर्व-सिद्धं कर्तरं को वेद । न को\ऽपीत्य् अर्थः । वेद ताववर-जन्म इति पाठे इदं व्याख्यानम् । वेद ताववर-जन्म-लयेति पाठस्तु वर्ण-व्यत्यासम्रम-निबन्धनो वृत्त-भङ्गाद् उपेक्षितः । अयं भावः—क्षणिकाः स्थिरा वा खर-स्नेहोष्णेरण-स्वभावाः पार्थिवाप्य् अतैजस-वायवीयाः परमणवः पुञ्जात्-पुञ्जक्रमेण घटाद्य् आकारेण संहन्यन्ते त एव नित्या निरधिष्ठातृकाः साधिष्ठातृका वा द्व्यणुकादि-क्रमेण कार्यम् आरभन्त इति सौगत-लोकायत-तार्किकाः । अधिष्ठातुर् विकरणत्वात्-कुलालवत्-क्रियया वा योगिवत्-सङ्कल्पेन वा स्वष्टृत्वायोगाद् असहायं त्रिगुणात्मकं प्रधानं क्षीरादिवत्-स्वयम् एव महद् आद्य् आकारेण परिणमत इति साङ्ख्याः । तद् अस्मिन्-मत-त्रये\ऽपि पुञ्जात्-पुञ्ज-क्रमेण व्यणुकादि-क्रमेण वा महद् आदि-क्रमेण वा उत्पन्नैर् देहेन्द्रियादिभिर् अवच्छेद-लाभे सत्यात्मनो बुद्ध्याद्य् उदयः । तथा तेषां नाशात्-प्राग् एव बुद्ध्यादेर् नाशः । एवं सत्यान्तारालिकया बुद्ध्या पार्यन्तिकौ प्रथम-चरम-कार्योत्पाद-विनाशौ तत्-कर्ता च न केनचित्-परिच्छेत्तुं शक्य इति । यतः अग्रेसराद् ऋषिर् ब्रह्मा उदगात् उत्पन्नः यो ब्रह्माणं विदधाति पूर्वम् [श्वे।उ ६.१८] इति श्रुतेः । यं ब्रह्माणम् अनु पश्चात् उभये देव-गणाः ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चोदगुः पश्चाद्-भावित्वाद् एनम् अग्र-सरं तत्-कर्तव्यौ जगज्-जन्म-लयौ च ऋषिर् देवाश् च न विदुरित्य् अर्थः । तथा च श्रुतिः—
को अद्धा वेद क इह प्रवोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.६]
इति सृष्टेर् दुर्ज्ञेयत्वम् आह—सृष्टेः प्राक्को\ऽपि ताम् ईशं च ज्ञातुं नासीदित्य् आह—तर्हीति । यदा भवान् सर्वं प्रपञ्चम् अनुकृष्य संहृत्य शयीतम् स्वरूप-मात्रेणास्ते तर्हि तदा न सत् प्रधान-परमाण्वादिकं नासीत् न असत् शून्यम् अपि नासीत् उभयं च सद् असद् आत्मकम् अव्याकृतम् अपि नासीत् । चकारान्न् एत्य् अनुकृष्यते । काल-जवो\ऽपि संवत्सरर्त्वयन-मासादि-परिवर्तः नासीत् सूर्याद्य-भावात् । न रात्र्या अह्न आसीत्-प्रकेतः इति श्रुतेः । न च किम् अपि शास्त्रं शास्तृशास्ययोर् अभावात् तत्र स्वरूपे किम् अपि नासीदित्य् अर्थः । श्रुतिश् च नासद् आसीन्नो सदासीत्-तदानीम् । नासीद्-रजो नो व्योमापरो यत् । इति असद् इति शून्यस्य सद् इति प्रधानस्य रज इति परमाणूनां व्योमेत्वव्याकृतस्य परमात्मनो हिरण्य-गर्भस्य चाभावं भक्ति-मार्गेणैवावस्था-त्रयातीतं तव स्वरूपं विज्ञातुं शक्यम् इति भावः ।
ननु यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति । तद् एनं वाक्-सर्वैर् नामभिः सहाप्येति, चक्षुः सर्वै रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैर् ध्यानैः सहाप्येति, स यदा प्रबुद्ध्यते यथाग्नेर् ज्वलतः सर्वा दिशः विस्फुलिङ्गाः प्रतिष्ठन्ते । एवम् एवैतस्माद् आत्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते । प्राणेभ्यो देवा देवेभ्यो लोकाः । [कौषि।उ ३.१९]
इति जीवस्यैव नामरूपप्रपञ्चलगोदयाधिष्ठानत्वं श्रूयते नान्यो\ऽतो\ऽस्ति द्रष्टेति द्रष्ट्रन्तरप्रतिषेधाच् च कस्येदं प्रतीचोन्यस्योपास्यत्वमुच्यते यद्येवं प्रतिबुद्धो\ऽसि नास्ति कश्चित्त्वदन्य इत्यवेहि । तर्हीत्यत्र—
रेफात्स्वरोपहिताद्व्यञ्जनोदयाद्दकारवर्णा स्वर-भक्तिर् उत्तरा इति प्रातिशाख्ये स्वर-व्यञ्जनयोर् मध्यः स्याद्-रेफात्-परः स्वर-भक्तिः ऋ-कार-रूपास्ति तस्याश् च द्राघीयसी तूष्मपरा इति दीर्घत्वं विहितम् । तथा च तकारः दीर्घ-स्वर-भक्त्या सहितो रेफः हिकार इति । वर्णत्रयं वैदिकरीत्या सिद्धं वेदवद्-वेदविदां वचनम् इति न्यायेन च नात्र वृत्त-भङ्ग-शङ्कावकाशः ॥२४॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुतिरूपा आहुः—न विद्यते वरं वरणीयं यस्मात् तद्-भवद् एकान्त-भक्ति-रूपं तस्य जन्मना लयो भगवद्-विषये चित्तलयो यस्य तादृशो\ऽपि को वा त्वां वेद कथम्-भूतम् अग्रसरम् एकान्त-भक्तेर् अपि नाना-प्रकारायाः अग्रसरम् एकान्त-भक्ति-मात्रेणागम्यम् इत्य् अर्थः । इह वृन्दावने वर्तमान ऋषिर् ब्रह्मापि यतस् तत्त्व एव तवानुग्रहाद् एव उदगात् उत्कृष्टतया परं ज्ञातवान् परं गोपाल-वेशं यमनु ब्रह्मणः पश्चात् तद् अनुग्रहात् देव-गणा अपि उत्कृष्टतया परं ज्ञानवन्तः न तु साक्षाद्-व्रज-वृन्दावनस्था इव तत्-सुखम् अनुभूतवन्तः । गोप-वेश-विग्रहो लीला च तद् अनुरूपा परम-चमत्कारवतीत्य् एव ज्ञातवन्तः न तु शुद्ध-गोपाल-स्वरूपं तल्-लीलां च शुद्ध-रूप-लीलायाम् अपि विशेषम् आह—यदा सर्वम् अवकृष्य सर्वान्य-दृष्टिम् आकृष्य भवान् राधया सह निकुञ्ज-तल्पे शयीत तदा सद्ब्रह्म तद् आत्मकः को\ऽपि तन्न जानाति असत् ब्रह्मात्मता-रहितः शुद्ध-भाव-मयो\ऽपि न वेद न च उभयं ब्रह्मता व्रज-वृन्दावन-गत-पार्षदता च उभयात्मको\ऽपि न जानाति न च कालजवः कालः श्याम-सुन्दरः कृष्णस् तद् अर्थम् एव जवो गमनं तत्र तत्र यस्य तादृश-गोपीजनो\ऽपि न वेद । शास्त्रम् अपि किम् अपि भगवद्-रहस्य-प्रतिपादकम् अपि सर्वज्ञम् अपि न वेद । किं बहुना शासनाच्छास्त्रम् एतस्य वा अक्षरस्य प्रशासने गार्गि [वृ। ३.८.६] इति श्रुतेः । विश्वशास्तृ किम् अपि भगवत्-स्वरूपम् अपि यन्न वेद ।
नित्य-गोप्यस्तु आहुः—अग्रसरं त्वाम् अग्रत एव सर्वेषां सरत्यभिसरति सङ्केत-कुञ्जवनम् इह व्रज वृन्दावने वा को वेद न को\ऽपि । कुतः आवृणोतीति आवरं तमस् तस्य जन्मना बुद्धेर् लयो यस्य तवाभिसरणेच्छायाम् एव तमोहत-दृष्टिता सर्वस्य भवतीत्य् अर्थः । ऋषिर् विदग्ध-राधिकापि यं त्वाम् उत्कृष्टतया केनाप्य् अलक्षतयैवागात् सङ्केत-कुञ्जम् इति शेषः । यतो यत्नात् यतो हेतोर्वा वर-जन्म-लय इति वा । यदा पुनर् अवकृष्यातिकामातुरतया सखीमध्यात् राधां निकुञ्ज-गर्भं प्रत्य् आकृष्य शयीत तदा न सत् अहम् अमुकस्य पुत्रः प्राणेभ्यो\ऽप्य् अधिकः सा मे माता मद् एकजीवना ते मम सखायः इत्य् आदि विशेष-विज्ञानं नास्ति न च सुषुप्त इव ज्ञा-नमात्राभावः न वा उभयं स्वप्नः न च कालजवो रात्रि-दिन-ज्ञानम् न वा किम् अपि शास्त्रम् अनुशासनकर्तॄ मान्यवर्गानुसाधनम् इति ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् अहं वसुदेव-गृहे कृतावतारतया वृन्दावने च गोपीभिः सह कृत-विहारतया चार्वाचीन-व्यवहारतया च परात्परत्वेन कथा स्तूये ? नैवम् । यतस् त्वाम् एवं-भूत-निखिलाचिन्त्य-परमैश्वर्य-शालिनं निरतिशयान्तः-शक्ति-कदम्बं कोऽपि न जानातीत्य् आह—क इह न्व् इत्य् आदि । यतो यस्मात् ऋषिर् ब्रह्मा उदगात्, तस्माद् अपि श्री-नारायणाद् अग्रसरं त्वाम् इह लोकेषु को वेद ? न कोऽपीत्य् अर्थः । सर्व-स्यैवार्वाचीनत्वात् पूर्व-सिद्धस्य तव श्री-कृष्णस्य तत्त्व-ज्ञानं कथा भवतु ? अतस् तव तत्-त्वं त्वम् एव जानासि । क इत्य् अस्य विशेषणम्—अवरजन्म-लयोऽर्वाचीनोत्पत्ति-लयवान् अयं ब्रह्माणम् अनु उभये आध्यात्मिकाधिदैविका देव-गणा इति तुल्यम् । यदा सर्वम् अवकृष्य नारायणः शयीत, तर्ह्य् एव न सत् न चासत्, न चोभयम्, न च काल-जवः, न च शास्त्रम् । सर्वम् इदं तुल्यम् एव त्वद् उपदिष्टाद् अपि पूर्व-सिद्धस्य भवतस् तदा कः किं वेत्तुम् अर्हत्व् इत्य् अर्थः । अतस् त्वं हि सर्व-कारण-कारणं सर्वेश्वरेश्वरः श्री-कृष्णः । अतः शास्त्रम् अपि त्वां न वेत्तीति भावः । प्राग् असिद्धत्वात्, न ह्य् अर्वाचीनाः प्राचीन-वृत्तिं जानन्ति ॥२४॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं श्री-भगवच्-छ्रवण-कीर्तन-स्मरण-माहात्म्यम् अद्भुतम् उक्तम्, तथापि ज्ञानं केचिन्-मन्यन्ते, तच्-चायुक्तम् इत्या हुः—क इति । नु वितर्के सम्भू-भङ्गे, न को\ऽपि वेदेत्य् अर्थः । तत्र हेतुः अवरेति । तत्रान् अपेक्ष्यस्यापि लयस्यासक्तिश् चिर-जीवने सत्य् अपि, तद् असम्भवापेक्षया, अवरौ ब्रह्माद्य् अपेक्षया निकृष्टौ जन्म-लयौ यस्येति ।
किञ्च, अग्र सरं स्वत एव पूर्वतो वर्तमानम्, किं वा इन्द्रियाणाम् अग्रेसरं तद् अगोचरम् इत्य् अर्थः । यद् वा, ऋषिः परमेष्ठी, देव-गणा इन्द्रियादयः उभये च प्रवृत्ति-निवृत्तिपरा मुनय इति, दिने सृष्ट्यादि-व्यापारेण ज्ञानासिद्धिः सूचिता, रात्रौ शयानस्य तस्य नैश्चित्येनापि न सिध्येद् इत्य् आहुः—यदा तु श्री-नारायण-नाभि-पद्मे स ऋषिः शयीत, तत्र तस्मिन् ज्ञाने तन्-निमित्तं न सदादि, सत् स्थूलं यज्ञादि-कर्म, असत् सूक्ष्मं ध्यानादि, उभयं सद् असन्-मिश्रितम् उपासनादि, काल-जवो नित्यं दिन-रात्र्यादि-परिवर्तः, शास्त्रं वेदागमादि, तस्य प्रवृत्ति स्त्रि-लोक्यां नास्तीत्य् अर्थः । तस्या लयात् जन-लोकादौ त्वस्त्य् एव ।
यद् वा, ऋषिः पुरुषो यत्र तत्रैव महद् आदीनां जन्म, तथा तेभ्यो ब्रह्माण्डे उत्पन्ने तत्रान्तर्यामितया प्रविष्टस्य जलाशायिनो भगवतः श्री-नारायणस्य नाभि-कमलाद्-ब्रह्मणो जन्म । अत उभय इति कारण-रूपा महद् आदयः, कार्य-रूपाश् च ब्रह्मादयः, इति सर्वेषाम् अर्वाचीनत्वं स्याद् एव, काल-वाचिनोस् तर्हि-यदा-शब्दयोः प्रयोगात् । कालो\ऽस्त्य् एव, तस्य तु जवो नास्ति । शास्त्र च वेदो\ऽस्त्य् एव, श्री-भगवन्-निःश्वास-सहचरत्वात्-तस्य किन्तु बहिर् न प्रचरतीति नास्तीत्य् उक्तम् । महोपनिषदश् च बहिरपि सन्त्य् एव-तदा ताभिर् एवास्याः स्तुतेः क्रियमाणत्वात् । अवकृष्य निखिल-ब्रह्माण्ड-मण्डलम् एव संहृत्य । तथा च विष्णु-धर्मोत्तरे—
अनन्तानि तथोक्तानि यान्य् अण्डानि मया पुरा ।
सर्वाणि तानि संहृत्य सम-कालं जगत्-पतिः ॥
प्रकृतौ तिष्ठति तदा सा रात्रिस् तस्य कीर्तिता ॥ इति ।
प्रकृतौ स्वरूपे । शेषं समानम् ॥
[गोपीनां प्रसङ्गे तासां महा-मोहनस्य तस्य वेणोर् माधुर्य-वर्णनेन कृष्णं स्तुवन्ति-क इहेति । नु भो भगवन्! अग्रसरम् अग्रे पुरतः शब्द-रूपेण सरति गच्छतीत्य् अग्रसरो वेणुस्तम्, इह अखिल-भुवने, अवर-जन्म-लयो\ऽवरस्य प्राकृतस्य जन्मनो लयो यस्य सः, प्रत्यासन्न-चिद्-रूप-देह-लाभ इत्य् अर्थः । तादृशो\ऽपि को वेद । बत आश् चर्ये, तयो वेणोर् ऋषिर् मन्त्रो मेहिन-मन्त्र-रूपो नाद इत्य् अर्थः । उदगात् स्वयम् एवाभ्युत्थित उदितो वा, कृष्णस्य वंशी कदाचित् स्वयम् अपि शब्दायत इति हि प्रसिद्धिः । यमनु यं वेणुनाद-महा-मन्त्रम् अनु, उभये तत्रैके अधिकारिणो ब्रह्म-रुद्रादयः, अन्ये श्री-गरुड-विष्वक्सेनादयो वैकुण्ठेश-नित्य-पारिषदाः, इति द्विविधा देव-गणा उदगुः, वृन्दावनोपरि गगने उदयं चक्रुः । यदा तु शस्त्रं गान्धर्व-विद्या-शास्त्रम् अवकृष्य समानीय स्वस्मिन् समावेश्य तत्र भवद् अधर-बिम्बे शयीत, परमासक्त्या निविष्टो भवेत्, वेण्व् अधरयोः नामाग्रहणं मोह-शङ्कया ।
तर्हि न सत् प्रिय-जन-कुलम्, तस्य परमानन्देन मोहात्, न चाद्-विद्वेषि-कुलम्, तस्य केनाप्य् अनिर्वचनीयेन महाक्षोभकारिणा भावेन मोहात् । यद् वा, महा-त्रासेन मोहात् । यथा जगत्-प्रकाशिकापि भानु-दीप्तिर् उलूकानाम् अन्धहङ्करणी, न चोभयं भक्ति-द्वेष-रहितं मध्यस्थं ज्ञानि-कर्मि-कुलं [ज्ञानि-कर्मिशैव-कुलं । चेत्य् अर्थः ।
यद् वा, न सत् चेतन-कुलम्, तस्य मोहेन जाढ्यतिशयात्, न चासत् अचेतन-कुलं पाषाणादि, तस्य द्रवभावापत्तेः, न च उभयम्, वस्तुतः चेतनम् अपि जडत्वेन प्रतीयमानं तरु-लतादि, तस्य पुलक-मधु-धारा-कम्पाद्य् उद्गेमन वैलक्षण्यातिशयात् । न च कालजवः, कालस्यापि स्तब्धत्वात् [स्तम्भत्वात्] । सूर्यादीनां गत्यभावात् काल-स्तम्भो\ऽनुमेयः । न चान्यत् किम् अपि, नदी-मरुदादीनां बहनादिकम् इत्य् अर्थः । सर्वम् एव जगद्-वेणुनाद-सन्दर्भाम्बुधौ मज्जतीत्य् अर्थः । तथा च श्रुतिः—
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धयन्धात्, पावीरवी तन्यतुरेक-पादजो दिवो धर्ता सिन्धुर् आपः समुद्रियः । [ऋक् ६.४९.७–१०.६५.१३]
अस्यार्थः—अजः श्री-कृष्णः एक-पाद् भूत्वा पावीरवी वेणु-नादानतन्वत ततान । कीदृशः? सन्! दिवः सूर्य-चन्द्रादेर्धर्ता स्तम्भकः सन् सिन्धुर् इवापो नद्यादि-जलानाम् अपि स्तम्भकः सन्, अतः पावीरवी तथा-भूतैः पावीरवैः कन्या व्रज-कन्याः, चित्र आयुः, चित्रवद् बभूवुर् इत्य् अर्थः । किम्-भूता अपि सरस्वती या वीर-पत्नी पतिव्रता तस्या धियं धारयन्ती या तथा विवेक-वीर्य-युक्तापीत्य् अर्थः ।
यद् वा, सा पावीरूपा सरस्वती वीरस्य तस्यैव पत्नी कान्ता प्रायो मम बुद्धिं दधातु, आगृह्णातु, आकर्षयत्वित्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क इह न्वित्यस्य टीकायां श्रुतौ प्रवोचत् प्रावोचत् । अथेत्य् अर्थे । अथाशब्द आकारान्तः । अनेजत् । स्व-स्वरूपाच् चलन-रहितो\ऽपि जववत्तरं यत्र यत्र तत् धावति तत्र तत्र तद् अगोचरत्वात् । देवा इन्द्रियाणि मर्शत् । पूर्वम् एव गतम् इत्य् अर्थः । सर्वागोचरत्वाद् एवेति भावः । तिष्ठत् स्थिरम् अपि तस्मिन् परमात्मचैतन्य इति तद् आश्रयत्वेनैव वर्तमानः सन्न् इत्य् अर्थः । स मातरिश्वा सूत्राख्यो वायुः अपस् तद्वत्-प्रवाहापन्नाः सर्वेषां सर्व-चेष्टा दधाति सम्पादयतीति । स्व-व्याख्यायां तु अथ काश्चिच्-छ्रुतयस् तद् एवानुमोदमानास् तद् अज्ञाने स्वदोषं परिहरन्तिक इति । इह जगतीति तदानीं तद् अभावे\ऽपीदं शब्देनोक्तिः पूर्व-संस्कारात् । ता एव तद् अधिकृता एव । श्रुतय इति । नु सभ्रूभङ्गं वितर्के न को\ऽपि वेदेत्य् अर्थः । तत्र हेतुः अग्रसरम् । सर्वेषां जन्मादेर् ज्ञानादेश् चागोचर एव वर्तमानम् । तत्र च हेतुः—यत ऋषिर् निःश्वासेन सर्व-वेद प्रवर्तकः कारणार्णवशायी उदगात् । आद्यो\ऽवतारः पुरुषः परस्य इति द्वितीयात् । यस्यांशांशांश-भङ्गेन विश्वस्थित्य् अप्य् अयादयः । इति । श्री-कृष्णं लक्ष्कृत्य दशमात् । यमृषिमनु उभयेन्द्रियाधिष्ठातारो ब्रह्म-लोकाद्य् अधिष्ठातारश् च दिग्वातार्कादयो\ऽध्य् आत्म-सञ्ज्ञा ब्रह्मादयश् चाधिदैवसञ्ज्ञा देवगणा जाता इति एको ह वै नारायण आसीन् न ब्रह्मा नेशानस् तस्माद् एवैते व्यजायन्ते [मह।उ १] । इति श्रुतेः । तस्मात्-ततो\ऽप्य् अवर-जन्म-लयस्तु को वेद सुतराम् एव कश्चन न वेदेत्य् अर्थः । एवं स्थिति-समये शास्त्रे प्रवर्तमाने\ऽप्य् अश्रवण-शक्तिभ्यां तत्-त्वद् अज्ञानं यदा तु प्रलय-समये स्वस्तावकं शास्त्रं स्वलोक एव नीत्वा भगवान् जगत्-कार्यं प्रत्यनवधानं करोति ज्ञा-नमात्राभावात्-सुतराम् एव तेषां त्वद् अज्ञानम् इत्य् आह तर्हीति । काल-जगस् तद्-व्यापारः सृष्ट्यादि-रूपः । अत्र श्रुतयस् तैर् एव दर्शिताः ॥२४॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ११९) : तद् एवं सच्चिदानन्दैक-रूपः स्वरूप-भूताचिन्त्य-विचित्रानन्त-शक्ति-युक्तो धर्मत्व एव धर्मित्वं, निर्भेदत्व एव नाना-भेदवत्त्वम्, अपरूपित्व एव रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यम् एवेत्य् आदि-परस्पर-विरुद्धानन्त-गुण-निधिः । स्थूल-सूक्ष्म-विलक्षण-स्व-प्रकाशाखण्ड-स्व-स्वरूप-भूत-श्री-विग्रहस् तथा-भूत-भगवद् आख्या-मुख्यैक-विग्रह-व्यञ्जित-तादृशानन्त-विग्रहस् तादृश-स्वानुरूप-स्वरूप-शक्त्य् आविर्भाव-लक्षण-लक्ष्मी-रञ्जित-वामांशः स्व-प्रभा-विशेषाकार-परिच्छद-परिकर-निज-धामसु विराजमानाकारः स्वरूप-शक्ति-विलास-लक्षणाद्भुत-गुण-लीलादि-चमत्कारितात्मारामादि-गणो निज-सामान्य-प्रकाशाकार-ब्रह्म-तत्त्वो निजाश्रयैक-जीवन-जीवाख्य-तटस्थ-शक्तिर् अनन्त-प्रपञ्च-व्यञ्जित-स्वाभास-शक्ति-गुणो भगवान् इति विद्वद् उपलब्धार्थ-शब्दैर् व्यञ्जितम् । तत्र तत्-स्वभावं वस्त्व् अन्तरम् अपश्यताम् अविदुषाम् असम्भावना न युक्तेति विविदिषून् श्रद्धापयितुं प्रक्रियते । तत्रैकेन श्लोकेन तस्याविदुषां ज्ञानागोचरत्वं, किन्तु वेदैक-वेद्यत्वम् एवेत्य् आहुः—क इहेति ।
बत अहो भगवन् इह जगति अग्र-सरं पूर्व-सिद्धं त्वाम् अवर**-जन्मालयः** अर्वाचीनोत्पत्ति-नाशवान् कोऽपि पुमान् वेद जानाति । ईश्वरस्य पूर्व-सिद्धाव् अन्यस्य चार्वाचीनत्वे कारणं वदन्त्यो ज्ञान-कारणाभावम् आहुः—यत उदगाद् इति । यतस् त्वत्त एव ऋषिर् ब्रह्मा उत्पन्नः । अतोऽर्वाचीनाः सर्वे । यदा तु भवान् शास्त्रं स्व-विज्ञापकं वेदम् अवकृष्य वैकुण्ठ एवाकृष्य शयीत जगत्-कार्यं प्रति दृष्टिं निमीलयति, तर्हि तदा अनुशायिनं जीवानां ज्ञान-साधनं नास्ति । यतस् तदा न सत् स्थूलम् आकाशादि, न चासत् सूक्ष्मं महदादि, न चोभयं सद् असद्भ्याम् आरब्धं शरीरम् । न च काल-जवः तन्-निमित्ती-भूतं काल-वैषम्यम् । एवं सति तत्र तदा किम् अपि इन्द्रिय-प्राणाद्य् अपि न ।
अयम् अर्थः—यदा सृष्टि-गतत्वात् देहाद्य् उपाधि-कृतान्तरत्वात् काल-कर्म-वशेन मलिन-सत्त्वात् तेषाम् तद् अवधारणे सामर्थ्यं नास्ति, यदा तु प्रलये समये न बह्व् अन्तरम् अपि, तदापि तेषां वेदान्तर्धान-महा—तमो-मय-सुषुप्तिभ्यां साधनाभावान् न तवानुभव-सामर्थ्यम् इति ।
तथा श्रुतयः—
न तं विदाथ य इमा जजानान्यद्
युष्माकम् अन्तरं बभूव [ऋ।वे। १०.८२.१७]
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.४.१] ।
को अद्धा वेद क इह प्रवोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.६]
अनेजद् एकं मनसो जवीयो
नेदं देवा आप्नुवन् पूर्वम् अर्शद् ।
तद्-धावतोऽन्यान् अत्येति तिष्ठत्
तस्मिन्न् अपो मातरिश्वा दधाति ॥ [ईशो। ४]
न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति इत्य् आद्याः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ काश्चित् श्रुतयस् तद् एवानुमोदमानास् तद् अज्ञाने स्व-दोषं परिहरन्ति—क इह नु वेदेति । ऋषिर् अत्र नारायणः कारणार्णवशायी । उभये देव-गणा इन्द्रियाधिष्ठातारो ब्रह्म-लोकाद्य् अधिष्ठातारश् च—एको ह वै नारायण आसीन् न ब्रह्मा नेशानस् तस्माद् एवैते व्यजायन्त [महो। १.१] इति श्रुतेः ॥२४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् भक्तिर् एव सर्व-श्रेष्ठा सुघटा च, भक्ति-विषयस्य तव ज्ञानं तु सदैव दुर्घटम् इत्य् आहुः—क इहेति । बत अहो भगवन्न् ! इह जगत्य् अग्र-सरं पूर्व-सिद्धं त्वाम् अवर-जन्म-लयोऽर्वाचीनोत्पत्ति-नाशवान् को नु पुमान् वेद सम्यक्तया जानाति ? यतस् त्वत्त ऋषिर् वेदः, वेद-गुह्यानि हृत्-पतेः इति, श्रुति-मृग्यम् एव इत्य् आद्य् उक्तेस् तव यत् किञ्चिन्-मात्र-तत्त्व-ज्ञापकं प्रथमम् उदगात् प्रादुर्बभूव । यं वेदम् अनु उभये देवा इन्द्रियाधिष्ठातारो दिग्-वातार्कादयो ब्रह्म-लोकाद्य् अधिष्ठातारो ब्रह्मादयश् च उदगुः, तस्मात् तेभ्योऽप्य् अवर-जन्म-लयस् तु सुतराम् एव न वेदेत्य् अर्थः । यदा तु भवान् सर्व-म् अवकृष्य उपसंहृत्य शयीत, तदा न सत् स्थूलम् आकाशादि, न चासत् सूक्ष्मं महदादि । न चोभयं सद् असद्भ्याम् प्रारब्धं शरीरम् । न च काल-जवः, तन्-निमित्त-भूतं काल-वैषम्यम्, न किम् अपीन्द्रिय-प्राणाद्य् अपि, न च ज्ञापकं शास्त्रम् अपि ।
अयम् अभिप्रायः—सृष्टि-समये देहाद्य् उपाधि-कृत-बहु-व्यवधाने सत्य् अपि ज्ञापक-शास्त्र-सत्त्वात् साधन-सम्भवाच् च वरं यत् किञ्चित् त्वज्-ज्ञानं सम्भवेद् अपि प्रलय-समये तु बहुतर-व्यवधानाभावेऽपि शास्त्राभावात् साधनाभावाच् च न किञ्चिन्-मात्रम् अपि तज्-ज्ञानम् अतस् त्वज्-ज्ञानाग्रहं परित्यज्य त्वद्-भक्तिर् एव कर्तुं युज्यते इति ।
अत्र,
को अद्धा वेद क इह प्रवोचत्
कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा
को वेद यत आबभूव ॥ [ऋ।वे। १०.१२९.६] इत्य् आद्याः ।
अर्थश् च—अद्धा साक्षात् को जानाति ? नापि कश्चित् ज्ञापयितेत्य् आहुः—कः प्रवोचत्, अस्य विसर्जनेन एतत् कर्तृक-विविध-सृष्ट्या एव देवा अर्वाग् अभवन्न् इति । अथेत्य् अर्थे । अथा आदन्तः तस्मात् यत इदं विश्वम् आबभूव । तं को वेदेति ॥२४॥
॥ १०.८७.२५ ॥
जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां
विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः ।
त्रि-गुण-मयः पुमान् इति भिदा यद् एवाबोध-कृता
त्वयि न ततः परत्र स भवेद् अवबोध-रसे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इतोऽपि ज्ञानं न सुशकम् । उपदिशताम् अपि भ्रम-बाहुल्याद् इत्य् आह—जनिम् असत इति । असतो95 जगतो जनिम् उत्पत्तिं ये वैशेषिकादयो96 वदन्ति । असत एव ब्रह्मत्वस्योत्पत्तिं ये च पातञ्जलादयः97 । सत एवैकविंशति-प्रकारस्य दुःखस्य नाशं मोक्षं वदन्ति ये नैयायिकाः । उतापि ये च साङ्ख्यादय आत्मनि भिदां भेदं च, ये मीमांसका विपणं कर्म-फल-व्यवहारम् ऋतं सत्यं स्मरन्ति वदन्ति, ते सर्वे आरुपितैर् आरोपितैर् भ्रमैर् एवोपदिशन्ति न तत्त्व-दृष्ट्या । सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१], ब्रह्मैव सन् ब्रह्माप्य् एति [बृ।आ।उ। ४.४.६], अनीशया शोचति मुह्यमानः98 [श्वे।उ। ४.७],
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथन्धाः ।
[अविद्यायाम् अन्तरे वर्तमानाः]{।मर्क्}
[स्वयं धीराः]{।मर्क्}99 [पण्डितं-मन्यमानाः ।]{।मर्क्}
[जन्घन्यमानाः]{।मर्क्}100 [परियन्ति मूढा]{।मर्क्}
[अन्धेनैव नीयमाना यथान्धः ॥ [मु।उ। १.२.८]]{।मर्क्} अतिरिक्तः श्लोकः
एकम् एवाद्वितीयं ब्रह्म101 [छा।उ। ६.२.१],
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल-चन्द्रवत् ॥102
इत्य् आदि-श्रुति-विरोधात् । किं च, वस्तुनः पुरुषस्य त्रि-गुण-मयत्वे सर्वम् इदं सङ्गच्छते, न तु तद् अस्तीत्य् आह—त्रिगुण-मयः पुमान् इति भिदा यद् अबोध-कृता त्वयीति । त्रिगुण-मयः पुमान् इत्य् अनेन हेतुना या भिदा । उपलक्षणम् एतद् भिदादि । सा यस्मात् त्वयि विषये अबोध-कृता त्वद्-विषयाज्ञान-विजृम्भिता । तर्हि किम् अज्ञानम् अस्ति ? वस्तुतः पुंसि नैवेत्य् आह—ततः अबोधात् परत्र परेऽसङ्गेऽवबोध-रसे ज्ञान-घने स अबोधो न भवेन् न सम्भवतीत्य् अर्थः ।
मिथ्या-तर्क-सुकर्कशेरित-महा-वादान्धकारान्तर-
भ्राम्यन्-मन्द-मतेर् अमन्द-महिमंस् त्वज्-ज्ञान-वर्त्मास्फुटम् ।
श्री-मन्-माधव वामन त्रिनयन श्री-शङ्कर श्री-पते
गोविन्देति मुदा वदन् मधुपते मुक्तः कदा स्याम् अहम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतो\ऽस्माद् अपि हेतोः कुतः यत उपदिशताम् उपदेष्टृणाम् आचार्याणां भ्रमाधिक्यम् अस्ति इत अन्वयः ।
ननु भक्त्या ब्रह्मात्म-बोधेन मोक्ष इती कथं तत्र वादिनां प्रतिपत्तिस् तत्राह—जनिम् इति । असतः जगतः कार्यस्योत्पत्तिं पुनस् तस्यैव सत एक-विंशति-प्रकार-दुःखस्य मृतिं नाशं ध्वंसं मोक्षं ये तार्किकास् तत्र सद् एव सौम्येदम् अग्र आसीत्, नासतो विद्यते भावो नाभावो विद्यते सतः । इत्य् आदि-श्रुति-स्मृति-विरोधस् तथा स्वकारणे समवायः स्वस्मिन् सत्ता-समवायो वाजनिः असतः समवाय-निरूपकत्वाद्-हारत्वयोर् असम्भवेन जन्यनुपपत्तिर् असति सत्ता-समवाये व्याघातः स्वभाव-परित्यागश् च । एक-विंशति-दुःखानि शरीरम् । षड् इन्द्रियाणि । षड् ऊर्मयः । सुखम् । दुःखं चेति । तत्र श्रोत्रं चक्षुर्-घ्राणं त्व् अग्रसना मन एतानीन्द्रियाणि । शब्दो रूपं गन्धः । स्पर्शो रसः सङ्कल्पादिर् एते विषयाः ।
बुभुक्षा च पिपासा च प्राणस्य मनसस् तथा ।
शोक-मोहौ शरीरस्य जरा-मृत्यू षड् ऊर्मयः ॥
नन्व् एक-विंशति-दुःखान्तर्गतयोर् मनः-श्रवणयोर् नित्यत्वात्-कथं तन्-नाश इति चेन् न, यद्-रूप-विशिष्टस्य श्रवणस्य ज्ञान-द्वारा दुःख-हेतुतया दुःखं तद्-रूपस्य कर्ण-शष्कुल्या नाशेन तद्-विशिष्ट-श्रवणेन्द्रिय-दुःखस्य नाशात् । एवम् आत्म-संयोग-रूप-व्यापार-विशिष्टस्यैव मनसो ज्ञान-द्वारा दुःख-रूपतया व्यापार-नाशेन तद्-विशिष्ट-मनो-रूप-दुःखस्यनाशसम्भवाद् इति विशेषणाभावे विशिष्टाभावात् । एतच् च मतं विरुद्धं सदेवेति श्रुत्योक्तं तद् अर्थश् च-हे सौम्य! श्वेत-केतो इदं नाम-रूपं विकृतं जगत् अग्रे सृष्टेः पूर्वं सदेवासीत् । सद्-वस्तु निर्विशेषं-निरञ्जनं नित्यं निरवयवं यद्-वेदान्तेषूपपाद्यं तद्-रूपम् आसीत् । अनेन असद्-वादः परिहृतः । सतो मृतिम् इह श्रुतिम् आह—
अथ यो\ऽकामो निष्काम आप्त-काम आत्म-कामो ब्रह्मैव सन् ब्रह्माप्येति ।
यदा सर्वे प्रमुच्यन्ते कामा ये\ऽस्य हृदिस्थिताः ।
अथ मर्त्यो\ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ इति ।
अर्थः—सकामस्य गतिम् उक्त्वा निष्कामस्य गतिम् आह—यस्तु अकामो नास्ति कामो\ऽभिलाषो यस्य स तथा निष्कामो निर्गतसर्व-कामः आप्त-कामः पूर्ण-कामः अत्मैव कामो यस्य स एवम्-भूतः आत्मानं निर्विशेषम् अद्वैतं चिद्-रूपं ज्योतिः-स्वरूपं पश्यति, स यद्यपि देहवान् इव लक्ष्यते तथापीह ब्रह्मैव सन् शरीर-पातोत्तर-कालं ब्रह्माप्येति प्राप्नोति । एतद् अर्थद्योतकम् एव यदा सर्वे इति श्रुति-पद्यं स्पष्टम् एव । अनेनैकविंशति-दुःख-ध्वंसो मोक्ष इत्य् अपास्तम् । ये चासतो ब्रह्मत्वस्य योगाज्-जनिं ये पातञ्जला योग-ज्ञास् तत्रापि ब्रह्मैव सन्न् इति श्रुति-विरोधो जन्य-ब्रह्मत्वस्य नश्वरत्वापत्तिश् च, ये साङ्ख्यादयः आदिना तार्किकादि-ग्रहः एकम् एवेत्य् आदि-श्रुति-विरोध नास्ति । एकं ब्रह्मैव । नन्व् अनेकत्वं प्रतीयत इति चेदाह एक एव परमेश्वरः सर्वेषु भूतेषु व्यवस्थितः । तत्रोपाधेर् एकत्वं एकधा भनं तद् अनेकत्वे चानेकधा भानम् । तत्र दृष्टान्तः-जल-चन्द्रवद् इति । यथा बहुयोजन-व्यापके जल-ह्रदे प्रतिबिम्बितश् चन्द्र एकधैव दृश्यते । घट-शरावादिषु प्रतिबिम्बितश् चानेकधेति तद्वद् इति एतावता साङ्ख्यादि-मतं स्पष्टम् एव निराकृतम् । अद्वैत-प्रतिपादन-परेयम् । ये च मीमांसका इति । कर्म-फलं सत्यम् इति निराकरोति श्रुतिः समान-वृक्षे पुरुषो निमग्नो ह्य् अनीशया शोचति मुह्यमानः । इत्य् आदि । अर्थः—समाने वृक्षे देहे निमग्नो निरूढाभिमानः पुरुषः अनीशा माया तया मुह्यमानः शोचति अनेकैर् अपि प्रकारैश् चिन्तामाप्नोतीत्य् अर्थः । किञ्चाविद्यायाम् अन्तरे मध्ये वर्तमाना अविवेकप्रायाः स्वयं वयम् एव धीरा धीमन्त इति मन्यमाना जरारोगाद्य् अनेकानथैर् जङ्घन्यमाना
अत्यर्थं हन्यमानाः परियन्ति भ्रमन्ति । स्वयं मूढेर् एवोपदिष्टा भ्रमन्तीत्य् अत्र दृष्टान्तम् आह अन्धेनेति । कर्म-फल-निन्दापरेयम् । अथैतद् अपि स्याद् एव पुरुष आत्मा यदि त्रि-गुणात्मको भवेद् इत्य् आह—किञ्चेति । इदं पूर्वोक्तम् एव जनिः सतो मृतिः कर्म-फल-सत्यत्वात्म-भेदादि-तत्-पुरुषस्य त्रि-गुणात्मकम् । स्वामिनाम्-मिथ्या-तर्केण सुकर्कशं यथा स्यात्-तथेति । यो महा-वादान्धकारस् तस्यान्तरे भ्राम्यतो मन्द-मतेः हे अमन्द-महिमन्न् अतीवोत्कृष्ट-कीर्ते त्वज्-ज्ञानस्य वर्त्मास्फुटं भवति अतः श्री-मन्-माधवेत्यादीनि नामानि वदन् संसारात्-कदाहं मुक्तः स्यां भवेयम् । शिवनामान्य् अपि विष्णोर् नामानि भवन्तीति ज्ञापयितुम् अत्र त्रि-नयनादिनामोक्तम् । नामापराध-श्रवणाच् च यथोक्तं श्री-सनत्-कुमारेण—
सतां निन्दा नाम्नः प्रथमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उत्सहेत्-तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर्य इह गुण-नामादि सकलं
धिया भिन्नं पश्येत् स खलु हरिनामाहितकरः ॥
इत्य् आदिकं वर्णाश्रमाचार-धर्म-पराणाम् अयम् अपराधः भगवद् एक-पराणां नाम-पराणां तु नास्तीति तेनैवोक्तम् नामापराधांस् तरति नाम्न एव सदा जपात् । इति । श्री-गोविन्द-पदारविन्द-शरणाः शुद्धा भवन्तीति दिक् ॥
श्रीधरानुयायिनी : उपदिशताम् अपि भ्रम-बहुल्यात्-तव ज्ञानं दुष्करम् एवेत्य् आहुः—जनिम् इति ।
[१] वैशेषिकाः—परमाण्व् आदिष्व् असत एव द्व्यणुकादेर् उत्पत्तिं वदन्ति । अत्र मते सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] । इति । श्रुति-विरोधः ।
[२] पातञ्जलाश् च यथा—ताम्रादिकम् असुवर्णम् अपि रसायन-प्रभावात्-सुवर्णं सम्पद्यते तथैवाब्रह्म-भूतो\ऽपि जीवो योग-प्रभावाद्-ब्रह्म सम्पद्यते\ऽत्र मते ब्रह्मैव सन् ब्रह्माप्य् एति [बृ।आ।उ। ४.४.६] इत्य् आदि-श्रुति-विरोधः ।
[३] नैयायिकाश् च—षड् इन्द्रियाणि षड् इन्द्रिय-विषयाः षड् इन्द्रिय-जन्य-ज्ञान-षट्कं शरीरं वैषयिक-सुखं दुःखं चेत्य् एक-विंशति-दुःखानां सत्यानाम् एव ज्ञानान्नाशो मोक्ष इति वदन्ति । अत्र मते नासतो विद्यते भावो नाभावो विद्यते सतः । इति गीता-विरोधः ।
[४] साङ्ख्यादयश् च—आत्मनि वास्तवं नानात्वं वदन्ति, अत्र मते एको देवः सर्व-भूतेषु गूढः [श्वे।उ। ६.११] इत्य् आदि-श्रुति-विरोधः ।
[५] मीमांसकाश् च—न कदाचिद् अनीदृशं जगत् इत्य् उक्तेर् यज्ञादि-फलं स्वर्गादि-कमनाश्यं परम-पुरुषार्थं च वदन्ति । अत्र मते नेह नानास्ति किञ्चन । अतो\ऽन्यदार्तं तद्-यतेह कर्मचितो लोकः क्षीयते एवम् एवामुत्र पुण्यचितो लोकः क्षीयते इत्य् आदि-श्रुति-विरोधः ।
एवम् इमे पञ्चापि मत-प्रवर्तका अन्ध-परम्परया भ्रमेणैवोपदिशन्ति शिष्यादीन्न तु तत्त्व-दृष्ट्या अविद्यायाम् अन्तरे वर्तमाना अन्धेनैव नीयमाना यथान्धाः [कत्।उ १.२.५]। इत्य् आदि-श्रुतेः अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे । इति न्यायेनैते स्वयं नष्टाः परानप्य् उपदेशेन नाशयन्तीत्य् आशयः । किञ् च—यदि पुरुषे त्रि-गुणमयत्वं वास्तवं स्यात्-तदानेन हेतुना तत्र भेदादिकम् अपि वास्तवं स्यात् तच्-चासम्भवि यतो भेदादिकं त्वदीयाविद्या-शक्त्यैव कल्पितं न वस्तुतः । सा च जीवात्मन्य् एव प्रभवति न तु त्वय्य् अपीत्य् आहुः—सो\ऽबोधस् त्वयि न कुतः ततः परत्र आदित्य-वर्णं तमसः परस्तात् । इति श्रुतेः तद्-विषयत्वाश्रयत्वयोर् अयोग्ये । तव मायातीतत्वाद् अविद्यायाश् च माया-वृत्तेत्वात्वन्-नियम्यत्वाच् चेति भावः । तद् अपि कुतः अवबोधरसे सम्पूर्ण-चिद् एक-रसे यथान्धकारस् तेजों\ऽशीभूत-स्वर्णाद्यावरको\ऽपि तेजः पुञ्जं सूर्यम् आवरीतुम् असमर्थ एवेत्य् आशयः । यद् वा, तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्भुजं शङ्ख-गदार्युदायुधम् । इत्य् एवं रूपेण तव वसुदेव-गृहे दर्शनम् अभूत् । तथा च प्राक् तेन रूपेणासत एव तत्र जनिं तवोत्पत्तिं ततस् तेनैव रूपेण सतो वर्तमानस्य तव पुनर्म् ऋतिं यादव-वंशावसाने प्रभासे मरणं तथात्मनि त्वयि सच्चिदानन्द-विग्रहे भिदां देहात्म-भेदं तथा विपणं तव पितृ-मातृ-गुर्वादि-व्यवहारम् ऋतं सत्यं ये वदन्ति, तथा पुराण-पुरुषो\ऽपि श्री-कृष्णस् त्रि-गुणमयो जीव-विशेष एवेति ये वदन्ति पुनः शिष्येभ्यस् तथैव सर्वम् इदम् उपदिशन्ति त आरुपितैर् भ्रमैर् मौढ्याद् एव न वस्तुत इत्य् अर्थः । श्रुति-स्मृति-युक्त्यनुभवविरोधात् । तत्-फलम् अनिष्टम् एवेत्य् आहुः—यद् यतः अवबोध-रसे त्वयि अबोध-कृता अबोधम् अज्ञानं करोतीत्य् अबोध-कृत् प्राग् उक्तो वादिसमूहस् तेन तत् सङ्गेन स्फुरितेन भिदा भेदादिना हेतुना ततः जन्मान्तरे\ऽपि परत्र पर-लोक\ऽपि स बोधो मोक्षो वा न भवेद् एव तेषाम् इत्य् अर्थः । किन्तु तेन पापेन जन्म-मरण-नरक-वासादि-दुःखम् एवानिशमनुभवन्तीति यावत् । अत्रत्य् अस्वामिश्लोक-पदार्थम् आह—मिथ्या-तर्केण सुकर्कशं यथा स्यात् तथेरितो यो महा-वादः स एवान्धकारस् तस्यान्तरे तस्यान्तरे भ्राम्यतो मन्दमतेर् इत्य् अन्वयः । त्रिनयनेति सम्बुद्धि-द्वयं हरिहरयोर् अभेद-बोधनाय ।
यद् वा, त्रयाणां लोकानां नेत्र-रूपो नायको वा । तथा श्रिया प्रेम-सम्पत्त्या वा भक्तानां शं सुखं करोतीत्य् अर्थः । गोविन्द! गोकुलादौ विहारशील! मुक्तः मुक्त्य् उत्तरकालम् अपि मुदा मोक्षतो\ऽधिकानन्देन वदन् कदा स्याम् इत्य् अन्वयः ॥
नीलकण्ठी : एवं स्व-मते जगद् उत्पत्त्यादेर् दुर्जेयत्वम् उक्त्वा परोक्तान् सृष्ट्य् उपपादन-प्रकारान् दूषयति-जनिम् असत इति । अत्रासतः सत इति पद-द्वयं पञ्चम्यन्तं कार्यस्येति षष्ठ्यन्तं पदं जनि-मृति-सम्बन्ध-वाचकम् अध्याहार्यम् । ततश् चासतः कारणात् सतो\ऽसतो वा कार्यस्योत्पत्ति-प्रलयाव् इति शून्य-वादिनां द्वौ पक्षाव् उक्तौ तौ चात्यन्त-हेयौ न ह्य् असतः सतः शश-शृङ्गस्य विकारो विवर्तो वा धनुः क्वचिद्-दृष्टम् ।
अप्रकृतिक-विकारासम्भवान्-निरधिष्ठानक-भ्रमासम्भवाच् च कथम् असतः सज् जायतेत्य् असद्-धेतुक-कार्यासम्भव-श्रुतेश् च । अतः सत एव कारणाद् असतः सतो वा कार्यस्य जनिमृती वक्तव्ये । तत्र वैशेषिकास् तार्किकाश् च कारक-व्यापारात्-प्राग् असद् एव कार्यं तद् ऊर्ध्वम् उत्पद्यते ध्वस्तं च निरन्वयनाशमेति । ईदृशाव् एव जीवोत्पत्ति-विनाशाव् इच्छन्तः पाञ्चरात्राः कृतहानाकृताभ्यागम् अदोषं न पश्यन्ति । एवं सर्वे\ऽपि तैर्थिकाः सतो बन्धस्य निरन्वयनाशमसतो मोक्षस्य जनिं चेच् छन्ति । साङ्ख्य-पातञ्जलास्तु असत उत्पत्तौ निदर्शनाभावात्-कूर्मावयववत्-सिन्धु-सैन्धववद् वा सत एव कार्यस्याविर्भाव-तिरोभावाव् एव जनिमृती इत्य् आहुः । अत्यन्तासतो जन्मायोगादत्यन्त-सतो निरन्वयनाशायोगाच् च एकस्य सतो विवर्तः कार्यम् इति वृद्धाः ।
तद्-व्याख्यातं बृहद् उपलब्धम् इत्य् अत्र । एवं जनिम-सतः सतो मृति ये स्मरन्ती उत अपि च आत्मनि भिदां भेदं च ये स्मरन्ति साङ्ख्यादयः यथा जन्म-मरण-करणानां प्रति-नियमाद् अनुयुगपत्-प्रवृत्तेश् च पुरुष-बहुत्वं सिद्धं त्रैगुण्य-विपर्ययाच् चेति । तार्किकास्तु पर-समवेतानां जन्मादीनाम् आत्मनि घटनामिव व्योम्नि भेदकत्वासिद्धेर् आत्म-समवेतम् एव दुःखं स्वाश्रय-भेद-सिद्धि-हेतुर् वाच्यं नान्य-समवेतम् इत्य् आहुः । ये च मीमांसका विपणं व्यवहारम् ऋतं प्रवाहन् इत्यं न कदाचिद् अनीदृशं जगत् इति स्मरन्ति ते सर्वे आरुपितैर् आरोपैः क्षेत्र-धर्मं क्षेत्रज्ञे दृतय इवेत्यत्रोक्तदिशा स्फटिके जपाकुसुम-लौहित्यवद् आरोप्य् आत्मानं दुःखादिम् अन्तम् उपदिशन्ति स्वशिष्यान्-प्रति बोधयन्ति । अत्रेदं विवक्षितं यावद्-दुःख-नाशो हि तेषां मोक्षः स च घटे यावद्-रूप-नाशवद् आत्मनि धर्मि-नाशम् अन्तरेण न सम्भवति वक्ष्यमाणरीत्या जगतः सत्यत्वं प्रधानाद्य् उपादानत्वं च न सम्भवतीति ते अन्धस्येवान्ध-लग्नस्य विनिपातः पदे पदे । इति न्यायेन स्वयं नष्टाः परानपि नाशयन्तीति तद् इदम् आह श्रुतित—
अविद्यायाम् अन्तरे वर्तमानाः
स्वयं धीराः पण्डितं-मन्यमानाः ।
जङ्गन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ [मु।उ। १.२.८] । इति ।
त्रि-गुण-मयः पुमान् इत्य् अत्रेति-शब्दः प्रकारार्थः । तेनैवं प्रकारकम् आकाश-काल-दिङ्-मनसां पार्थिवाप्य् अतैजस-वायवीय-परमाणूनां च नित्यत्वम् अपि तेषु सत्त्वं निरवयवत्वं चारोप्य स्वोत्प्रेक्षितम् आरम्भ-प्रकारम् अपश्यन्तः उपदिशन्तीत्य् अपि सङ्ग्राह्यम् । नन्व् आरुपितैर् उदिशन्तीत्य् एतद् एव कुत इत्य् आशङ्कय् आह—भिदा यद् अबोध-कृतेति । भिदा भेदो यत् यस्माद् अबोधेन भाव-रूपेणाज्ञानेन
अमित्रादि-पदवद् अबोध-पदस्यात्र भाव-वाचित्वं न त्व् अभाव-परत्वं तेनाबोधेन कृता । इदम् अत्राकूतं स्वप्न-द्रष्टरीव स्वरूपाबोध-कृतैवेयं ब्रह्मणि जगत्-कल्पना न च स्वप्नादिकं निःस्वरूपाज् ज्ञानाभावाद्-भवितुम् अर्हति तस्य सर्वत्र सुलभ्वेन सर्वस्मात्-सर्वोद्भवापत्तेः । दृश्यते हि निद्रा-रूपम् अज्ञानं व्यावहारिको जगज्-जीवाव् आवृत्य स्वाप्नौ जगज् जीवौ विक्षिपतीति तस्माद् आवरण-विक्षेप-शक्ति-योगाद् अज्ञानं भाव-रूपं त्रि-गुणात्मकं प्रकृतिर् अविद्या माया प्रधानं देवात्म-शक्तिर् अव्यक्तम् अव्याकृतम् इत्य् आदि-शब्दैर् वेदान्तेषूच्यते न तं विदाथ [ऋ।वे। १०.८२.१७] इति मन्त्रे\ऽपि जगज् जनयितृ ज्ञानाभावम् उक्त्वा नीहारेण प्रावृता इति तन्-निमित्तं भावपम् अज्ञानम् उक्तम् । अज्ञानेनावृतं ज्ञानम् इति गीतास्व् अपि न ह्य् अभावस्य स्वप्रति-योग्यावरकत्वं खड्ग-कोशवत्-सम्भवत्यतो भाव-रूपम् एवाज्ञानं न च तेन द्वैतापत्तिः शक्ति-शक्तिमतोर् अभेदात् । भेदे हि गौर् अश्व इतिवद् अग्निर् उष्ण इति सामानाधिकरण्यं न स्यात् । न च वह्नावौष्ण्यं समवाय-सम्बन्धेनास्तीति तत्र सामानाधिकरण्यं युज्यते । अन्यत्र तद् अभावान्न् एति वाच्यं वह्नि-समवाययोर् अपि भिन्नत्वाविशेषात्-सम्बन्धान्तरापेक्षावश्यम्भावेनानवस्थापातात् । अनुपेक्षायां च समवायवद् एवौष्ण्यम् अपि वह्नौ सम्बन्धान्तरम् अनपेक्षैवास्तु किं समवाय-कल्पनेन तस्माद्-द्रव्यम् एव तत्-तद् अवस्था-विशेषापनम् । उष्णो लोहितः प्रकाशते बालो युवा वृद्धो भूर्बीजम् अकुरो वृक्षः, कनकं कटकं कुण्डलम् इति भेदेन विकल्प्यते न त्व् औष्ण्यादिकं भावान्तरं स्वतन्त्रम् इति श्लिष्टम् । न चैवं ब्रह्मणो विचित्र-शक्ति-योगाद् ऐक-रस्यहानिः शक्ति-मद्-विनाशम् अन्तरेण शक्त्य् अनाशापत्तिश् चेति वाच्यम,
तम आसीत्-तमसा गूढम् अग्रे प्रकेतं सलिलं सर्वम् आइदं तुच्छेनाभ्व् अपिहितं यद् आसीत् तपसस् तन्-महिनाजायतैकम् ॥ इति ।
तमः-शब्दितायाः शक्तेस् तुच्छत्व-श्रवणात् न ह्य् अध्यस् तेनाधिष्ठानस्य स-द्वितीयत्व् अमस्ति । तमसो\ऽध्यस् तत्वं चोपरिष्टात्-सत इदम् इत्य् अत्रोपपादयिष्यते । तस्मान्-माम् अहं जानामीत्य् अनुभव-सिद्धम् आत्माश्रय-विषयं वा जीवाश्रयं ब्रह्म-विषयं वाज्ञानं जगत्-कारणम् अस्तीति सुष्ठुक्तम् । भिदा यद् अबोध-कृतेति । आरुपितैर् उपदिशन्तीति च ।
ननु स्वप्न-दृष्टवन्-ममापि कारीभूताज्ञानाधीनतयानीश्वरत्वं स्यादत आह-कृता नेति । स अबोधः कृता आश्रये न भवेन्न सम्भवति कुतः न परत्र अबोधात्-परस्मिन् आदित्य-वर्णं तमसः परस्तात् [मह।उ२] इति श्रुतेः । अत एवावबोध-रसे शुद्ध-चिन्-मात्रे । तथा च श्रुतिः—
स यथा सैन्धव-घनोऽनन्तरोऽबाह्यः कृत्स्नो रस-घन एव ।
एवं वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन ॥ [बृ।आ।उ ४.५.१३] इति ।
अकार्य-कारणे त्वय्य् अज्ञान-सम्बन्ध-सम्भावनापि नास्ति माया-शबलस्यापि तवैन्द्र-जालिकवन्-माया-प्रयोक्तुर् न मायाधीनत्वम् । अस्मान्-मायी सृजते विश्वम् एतत्-तस्मिश् चान्यो मायया सन्-निरुद्धः [श्वे।उ। ४.९]। इति । माया-नियामकात्-त्वत्तो माया-नियम्यस्य श्वेताश्वतरैः पृथग् आम्नानात् ॥२५॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—असतः पूतना-कंस-वकादेर् अपि त्वत्-पार्षद-रूपेण जनिं स्मरन्ति सतो\ऽपि जय-विजयादेर् मृतिं नाशं स्मरन्ति । आत्मनि ब्रह्माद्वितीय-रूपे भिदां वैकुण्ठे सेव्य-सेवकादि-रूपेण भेदं स्मरन्ति ऋतम् अद्वयं ब्रह्म विगत-व्यवहार-मात्रं निर्विशेष-रूपं च स्मरन्ति पुमान् जीवस् त्रि-गुण-मयः ईशश् च मायया त्रि-गुणाधिष्ठाता इति भिदा त्वद् अबोध-कृता विशुद्धत्वत्-स्वरूपा [भगवज्] ज्ञान-कृता इत्य् अर्थः । ते सर्वे त्वयि व्रज-राज-कुमारे आरोपितैर् भ्रमैर् एवोपदिशन्तीति भिदा त्वयि न यतो\ऽबोध-कृता । परत्र त्वद् अन्यस्व-रूपे स भवेत् । न ज्ञानैक-स्वरूपे । त्व् अन्तु गोप-किशोर-स्वरूपः ।
यद् वा, त्वयि कथम्-भूते ततः परत्र । असुरहन्ता न त्वम् न च तस्य स्व-पार्षदत्व-प्रदः न वा त्वत्-प्रिय-जनस्य भ्रंशः न वा तव त्वदीयानां वा ब्रह्म-विशेषत्वेनात्म-विज्ञानम् न वा तव त्वदीयानां च विशेषम् आह—भान-रहितावस्था प्रकाशः कदापि न वा त्वं त्वदीयाश् च प्रकृति-गुण-संसर्गं कदापि भजन्ते—शुद्ध-प्रेमैक-रस-मयत्वात् ।
नित्य-गोप्यस्तु आहुः—ये असतो राधायां पूर्वम् अविद्यमानस्य भावस्येदानीं जनि वदन्ति चन्द्रावल्याञ् च सतो भावस्य राधा-परिचयेन नाशं वदन्ति आत्मनि श्री-कृष्ण-विग्रहे बाल्य-पौगण्ड-कैशोर-भिदाञ् च ये स्मरन्ति विपणं व्यवहारञ् च कृष्णस्य तवास्मदीश्वरीकण्ठ-भूषणस्य व्यवहारान्तरं सत्यं वदन्ति ते भ्रमैर् एवोपदिशन्ति । पुमान् त्वं त्रि-गुण-मयो बाल्य-पौगण्ड-कैशोर-गुण-मय इति भिदा च त्वत्-स्वरूप-ज्ञान-कृता राधायां त्वयि नित्य एव भावः चन्द्रावल्यां पूर्वम् अपि न निर्भरः प्रेमा राधा-प्रियश् च सदा किशोर एव व्यवहारान्तरानभिज्ञश् च रधा-सहितस्या गुणा एव तस्य नान्या इति त्वयि नापरत्र आश्चर्य-किशोर-चन्द्रे अवः प्रेमा तन्मय-बोध एव रसो यस्य प्रेमैव बोधो यस्य स च रस-रूपश् च । अवसन्ना बोधा ज्ञानान्तराणि यत्र एतादृश्य-रस-रूप इति वा ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु सर्वेषाम् एवार्वाचीनत्वात् शास्त्र-कृतां च शास्त्रस्य चार्वाचीनत्वे शास्त्र-कृतोऽत्र रमन्ते एव । नो चेद् अन्योन्यं कथा विवदन्ते ? तेन तव तत्त्वं न जानन्त्य् एवेत्य् आहुः—जनिम् असत इत्य् आदि । अस्स्अतो जगत उत्पत्तिं केचिद् वैशेषिकाः स्मरन्ति, उत अपि च केचित् साङ्ख्या आत्म-भिदां स्मरन्ति, विपणं कर्म-फलम् अमृतं सत्यम् इति केचिन् मीमांसकाः स्मरन्ति, ते सर्वे आरुपितैर् आरोपैर् भ्रमैर् एवोपदिशन्ति, न तु तत्त्वतः किम् अपि केऽपि निर्णेतुं शक्नुवन्ति । अतः कार्य-विवेचन एव ते भ्रान्ताः । अस्तु तावद् दूरे सर्व-कारण-कारणस्य तव तत्त्व-निरूपणम् ।
ननु कथा मत्-तत्त्व-निरूपणं दूरे वर्ततां निरुच्यतां—पुरुषं तु ते जानन्त्य् एव, पुरुष-ज्ञानेनैव मज्-ज्ञानं भवतीत्य् आहुः—त्रि-गुण-मयः पुमान् इत्य् आदि । यत् यद्यप् पुमान् इति भिदा अबोध-कृता अज्ञान-कृताः, पुरुषोऽपि त्वम् एवेति वास्तवम्, तथापि स त्रि-गुण-मयः । त्वं त्रि-गुण-रहितः । तेन ततः परत्र तस्मात् पुरुषाद् अपि परे त्वयि स शास्त्र-कृताम् अवबोधो वादो न तु भवेत्, त्वत्-समीप-गामी न भवतीत्य् अर्थः ।
कथं-भूते त्वयि ? अवबोध-रसे अवबोधोऽपि यस्मात् तथा-भूतो रसो लीला यस्य । यद् वा, त्रि-गुण-प्रकृति-मय इति त्रि-गुण-मयत्वं तु न तथा ॥२५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): आत्मनि भिदां ब्रह्मतोऽत्यन्त-भिन्नत्वम् । यद् वा, बहु-विधं भेदम् । अन्यत् तैर् व्याख्यातम् । यद् वा, असतोऽनित्यस्य धन-पुत्रादेः । स्मरन्ति चिन्तयन्ति । ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-संचयान् [गीता १६.१२] इति श्री-गीतोक्तेः । किं वा, दुष्टस्य स्वस्य दुष्टत्वाद् आत्मानुरूपस्यैव पुत्रादेर् लाभ-चिन्तनाद् दुष्टत्वं सतः साधु-जनस्य स्व-दोषेणैव साधु-जनं विपक्षीकृत्य तस्य मृतिं मरणोपायं चिन्तयन्तीत्य् अर्थः । उत अपि । आत्मन्य् अपि भिदां भिन्नत्वम् अन्यतो वैलक्षण्यम्—
इदम् अद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् ।
इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम् ॥
असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि ।
ईश्वरोऽहम् अहं भोगी सिद्धोऽहं बलवान् सुखी ॥
आढ्योऽभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः ॥ [गीता १६.१३-१५]
इत्य् आदि-गीताद्य् उक्तानुसारि-दुर्मदत्वम् इत्य् अर्थः । विपणं व्यवहारं पुत्र-दार-धनाद्य् उपभोग-सुखम् । ऋतं सत्यं ध्यायन्ति ये दुर्मतयस् ते आरुपितैर् मनसि मिथ्यैवाध्यस्तैर् दुरभिमानैर् एव कथयन्तीत्य् अर्थः । यतः पुमान् सर्व-जीवस् त्रिगुण-मयः । अतस् तत्रैवासुर-स्वभावा निज-राजस-तामसादि-स्वभावानुरूपं तत् तत् स्मरन्त्य् उपदिशन्ति चेति भावः । यद् वा, त्रयो गुणाः सम्पत्-पौरुष-विद्याः । यथोक्तम् अर्थ-शास्त्रे—
सम्पद् आत्मोपभोगाय शत्रु-नाशाय पौरुषम् ।
गोष्ठी-जयाय विद्येति सङ्ख्याः पुंसां गुणास् त्रयः ॥ इत्य् एतत् ।
त्रिगुण-मयस् त्रि-प्रचुरः पुमान् भवेद् इति चोपदिशन्ति । इति ईदृशी भिदा मति-भेदः, यस्य तवाबोधेन त्वद्-विषयकाज्ञानेन कृता, तस्मिंस् त्वयि विषये स भिदायाः स्मर्ता उपदेष्टा च पुमान् न भवेत्, त्वद्-दिग्-ज्ञानवान् अपि न स्याद् इत्य् अर्थः, किन्तु घोर-संसारम् एव प्राप्नुयाद् इति । पूर्वं बहु-वचनान्ततया निर्दिष्टस्यापि तच्-छब्दस्य पुनः स इत्य् अनेनैक-वचनान्तेन परामर्शस् तेषां मिथ्योपदिशतां मध्ये कश्चिद् एकोऽपि त्वद् उन्मुखो न स्याद् इत्य् एतद्-बोधनार्थम् । यद् वा, स परमाज्ञानमयो दुर्व्यवसायस् त्वयि तद्-विषये नैव भवेत्, त्वद्-वर्त्म्-दिशम् अपि न स्पृशेत्, किनु महानरकायैव कल्पत इति भावः । कुतः ? ततस् तस्मात् पुंसः परत्र दूरतो वर्तमाने । तच् च कुतः ? अवबोध-रसे ज्ञान-घनस्य तव ज्ञानेनापि दुर्लभत्वम् । अतस् तथा भेदादिना अत्यधो-गतिर् एव ॥
अथ काश्चिद् गोवर्धनोद्धर्णादि-लीलां सूचयन्त्यः स्तुवन्ति जनिम् असत इति । असतो दुष्टस्य संवर्तक-मेघाशनि-झञ्झानिलादेर् जनिम् उत्पत्तिं ये शत्रु-तद् अनुगादयः स्मरन्ति, हृदि चिन्तयन्ति । न केवलं स्मरन्त्य् एव, उपदिशन्ति, सर्वत्र प्रकटयन्ति च । तथा सतो गोकुलस्य मृतिम्—नन्द-गोष्ठ-जिघांसया [भा।पु। १०.२५.७] इत्य् उक्तत्वात् । किं च आत्मनि त्वयि भिदां श्री-जगदीश्वराद् भिन्नत्वं सामान्य-मनुष्य-दृष्टित्वम् इत्य् अर्थः । तथा ह्य् उक्तम् इन्द्रेण वाचालं बालिशं स्तब्धं [भा।पु। १०.२५.५] इत्य् आदि । विपणं व्यवहार-मात्रं शत्रु-ध्वजोत्थापनादिना शत्रु-मखम् ऋतं नित्यं स्मरन्ति, ते आरुपितैः स्व-बुद्ध्यारोपितैः स्व-बुद्ध्या निरूपितैर् वा, अज्ञानैर् एतद् एवाहुः—त्रिगुणेति । अस्तु तावत् सामान्य-मनुष्य-दृष्टित्वं, यद् यस्मात् कृष्णस् त्रिगुण-मयः प्रकृत्य् अधिष्ठाता पुरुष इति भिदापि लीला-पुरुषोत्तमाद् अन्यत्व-कथनेऽबोध-कृता अज्ञान-विजृम्भिता । कथम्-भूते त्वयि ? ततः पुरुषात् परत्र, अत एवाबोध-रसे । अतस् त्वयि गोवर्धनोद्धरणेन व्रज-पालके स इन्द्रस्य सङ्कल्पो न भवेत्, पदं न कुर्यात् । भग्न-स्तम्भो हतोद्यंअः [भा।पु। १०.२५.२४] इत्य् उक्तत्वात् । तथा च श्रुतिः—
जज्ञान एव व्यवधात स्पृधः
प्रापश्यद् वीरो अभि पौंस्यं रणम् ।
अवृश् चद् अद्रिम् एव सस्यदः सृजद्
अम्भभ्नान् नाकं स्वपस्यया पृथुम् ॥ [ऋ।वे। १०.११३.४] इति ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनिम-सत इत्य् अस्य टीकायाम् एक-विंशतीति षड् इन्द्रियाणि । षड्-बुद्धयः । षड्-विषयाः । सुखं दुःखं शरीरं चेति । श्रुतौ सद् एवेति सत्तादात्म्य् एनैवेत्य् अर्थः । ब्रह्मैव सन्न् इत्य् अज्ञान-रूप-तद् आवरणापगमात् अनीशया मायया जङ्घन्यमानाः परियन्ति दुःखैर् अत्यन्तं पीड्यमाना भ्रमन्ति ।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल-चन्द्रवत् ॥
इति पूर्ण-वाक्यम् इति । स्व-व्याख्यायां तु अथ तद् एवानुमोदमानाः काश्चित्-पारिशेष्य-प्रमाणेनैव तत्र चरन्त्यः सर्व-गुरु-मन्यानाम् अपि तद् अज्ञानं दर्शयन्ति-जनिम् इति । आत्मनि सर्वस्मिन् जीवे स्थितिं परमात्मन एकस्यामननात् ।
किञ् च त्वयि परमात्मनि येनावबोधेन वयन्यथाज्ञानेन कृता त्रिगुण-मयः पुमान् जीव इति भिदा भेदः केनचिन्-मन्यते स एव स्वयम् अबोधस् त्वयि न सम्भवति किम् उत सद्भिदेत्य् अर्थः । यस्मात्-ततः परत्र प्रत्यग्-रूपे तद्-विषयत्वाश्रयत्वयोर् अयोग्य इत्य् अर्थः । तत्र हेतुः अवबोध-रसे । स खलु बोधस्त्वं पुनर् अवबोधैक-रसः कथम् इव यस्त्वां तिमिरमिव तेजोमालिनं विषयमाश्रयं करोत्वित्य् अर्थः । तस्मात्-तवाचिन्त्य-शक्ति-वैभवस्याज्ञानाद् एव ते तथोत्प्रेक्षन्त इति भावः । शेषं टीकाभिप्रायम् । अत्र जनिमसत इत्य् अस्य परिहाराय सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इति सतो मृतिर् इत्य् अस्य प्रत्य् अन्त्यभिसंविशन्ति इति यथोदके शुद्धम् उदकम् आसिक्तं तादृग् एव भवति । एवं मुनेर् विज्ञानत आत्मा भवति गौतम [क।उ २.१.१५] इति, समाने वृक्षे पुरुषो निमग्नो\ऽनीशया शोचति मुह्यमानः [स्वे।उ ४.७] इति च आत्मनि भिदाम् इत्य् अस्य एको देवः [स्वे।उ ६.११]इत्य् आदौ । सर्व-भूतान्तरात्मा [स्वे।उ ६.११] इति । एकधा बहुधा चैव दृश्यते जल-चन्द्रवत् । इति च । विपणम् ऋतं स्मरन्तीत्य् अस्य यथेह कर्मचितो लोकः क्षीयते एवम् एवामुत्र पुण्यचितो लोकः क्षीयते इति । त्रि-गुणमय इत्य् आदेः आदित्य-वर्णं तमसः परस्तात् [मह।उ२]। इति । अचिन्त्य-शक्तित्वस्य परास्य शक्तिर् विविधैव श्रूयते[श्वे।उ। ६.८], मायां तु प्रकृतिं विद्यात् [श्वे।उ। ४.१०] इत्य् आदि-श्रुतीरवलम्ब्य श्रुतयो\ऽप्येताः नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ [क।उ १.२.९]
अविद्यायाम् अन्तरे वर्तमानाः स्वयं
धीरा पण्डितम् मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ [मु।उ। १.२.८] इत्य् आद्याः ।
जल-चन्द्रवद् इत्य् अनेकधात्वमात्रे प्रतिबिम्ब-तुल्यत्वान् न तु प्रतिबिम्बत्वाद् एव अम्बुवद् अग्रहणात् तु न तथात्वम् [वे।सू। ३.२.१९] वृद्धि-ह्रासभाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एव-दर्शनाच् च [वे।सू। ३.२.२०] इति न्यायेन ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ देवानुमोदमानाः काश्चित् पारिशेष्य-प्रमाणे तत्र चरन्त्यः सर्व-गुरुं-मयानाम् अपि तद् अज्ञानं दर्शयन्ति—जनिम् इति । आत्मनि सर्वस्मिन् भिदां स्वतन्त्रां स्थितिं परमात्मन एकस्यामननात् । किं च, त्वयि परमात्मनि येनाबोधेनान्यथा-ज्ञानेन कृता त्रिगुण-मयः पुमान् जीव इति भिदा भेदः कैश्चिन् मन्यते, स एव स्वयम् अबोधस् त्वयि न सम्भवति, किम् उत तद्-भिदेत्य् अर्थः । यस्मात् ततः परत्र तद्[[एतद्]]{।मर्क्}-विषयत्वाश्रयत्वयोर् अयोग्य इत्य् अर्थः । तत्र हेतुः—अवबोध-रसे । स खल्व् अबोधस् त्वं पुनर् अवबोधइक-रसः । [कथम् इव ? स त्वां तिमिरम् इव तेजो-मालिनं विषयम् आश्रयं वा करोत्व् इत्य् अर्थः । तस्मात् तवाचिन्त्य-शक्ति-वैभवस्याज्ञानाद् एव ते तथोत्प्रेक्षन्त इति भावः । शेषं टीकाभिप्रायम्]{।मर्क्} ॥२५॥ अतिरिक्त पाठः
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : उत अपि । केचित् साङ्ख्या आत्म-भिदां स्मरन्ति । विपणं कर्म-फलम् ऋतं सत्यम् इति केचिन् मीमांसकाः स्मरन्ति । ते सर्वे आरुपितैः स्व-स्व-मत्य् अनुसारेण कृतैर् आरोपैर् एवोपदिशन्ति, न तु तत्त्वतः किम् अपि केऽपि निर्णेतुं शक्नुवन्ति । अतस् तव तत्त्व-विचारेण ते भ्रान्ता एव ।
ननु, कथम् अमी भ्रान्ताः ? पुरुषम् अमी जानन्त्य् एव, तज्-ज्ञानेनैव मज्-ज्ञानम् इत्य् आशङ्क्याहुः—त्रि-गुण-मयः पुमान् इत्य् आदि । यद् यद्यपि पुरुष इति भिदा अबोध-कृता अज्ञान-कृता, पुरुषोऽपि त्वद् अंश एव, अतस् त्वद् अभिन्न एव । तथापि स त्रि-गुण-मयः, ब्रह्म-विष्णु-रुद्रात्मकत्वात् । एक एव त्वं तु निर्गुण एव, तेन ततः पुरुषात् परे त्वयि स शास्त्र-कृताम् अबोधो वादे न भवेन् न भवितुम् अर्हति । कीदृशे त्वयि ? अवबोध-रसे ज्ञानानन्द-घने ॥२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं भगवतस् तवैव तत्त्वं दुर्ज्ञेयम् अपि तु विदुषाम् ऐकमत्याभावात् परम-पुरुषार्थतया जीवात्मनोऽपि तत्त्वतो ज्ञानं प्रायो दुःशकम् इत्य् आहुः—जनिम् असत इति । असत एव ब्रह्मत्वस्योत्पत्तिं मोक्षं ये पातञ्जलादयो वदन्ति, षड्-इन्द्रियाणि षड्-ऊर्मयः षड्-बुद्धयः षड्-विषयाः सुखं दुःखं शरीरं चेत्य् एकविंशति-प्रकारस्य दुःखस्य सत एव मृतिं नाशं मोक्षं वदन्ति ये नैयायिकाः । उतापि आत्मनि भिदां तस्य अगुणमयात्मनि भिदां तस्य अगुणमयात्मताम् एव मोक्षं वदन्ति ये साङ्ख्यादयः, विपणं व्यवहारं कर्म-फलं स्वर्गाद्य् एव ऋतं सत्यं परम-पुरुषार्थं स्मरन्ति वदन्ति ये च मीमांसकास्, ते सर्वे आरुपितैर् आरोपितैर् एवोपदिशन्ति, न तत्त्व-दृष्ट्या, यतः पुरुषस्य जीवात्मनस् त्रि-गुण-मयत्वे सर्वम् इदं सङ्गच्छते ।
न तु तद् अस्ति स तु वस्तुतो निर्गुण एवेति द्योतयन्त्य् आहुः—त्रि-गुण-मयः पुमान् जीव इति या भिदा जीवस्य त्रि-गुण-मयत्व-रूपो ये भेद इत्य् अर्थः । सा यत् यस्मात् अबोध-कृता या त्वदीया अविद्या-शक्तिस् तत्-कल्पितैव, न तु वस्तुत इत्य् अर्थः । सा च जीवात्मन्य् एव प्रभवति, न तु त्वयि परमात्मनीत्य् आहुः—स अबोधस् त्वयि न जीवस्यैवाविद्यया आवरणं प्रतीतं, न तु भवेत्य् अर्थः । कुतः ? ततः परत्रः तव मायातीतत्वात् अविद्यायाश् च माया-वृत्तित्वात् त्वन्-नियम्यत्वाच् चेति भावः । कीदृशे ? अबोध-रसे सम्पूर्ण-चिद् एक-रसे । यथान्धकारस् तेजः-पुञ्जं सूर्यम् आवरीतुम् असमर्थस् तेजः-कणं स्वर्ण-रजतादिकं स्व-व्याप्तं करोतिय् एवेति भावः । अत्र—
अविद्यायाम् अन्तरे वर्तमानाः
स्वयं धीराः पण्डितं-मन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धः ॥ [मु।उ। १.२.८] इत्य् आद्याः ।
अर्थश् च पण्डितं-मन्यमानाः पण्डितं-मन्याः जङ्घन्यमाना वाद-विवादैर् इत्य् अर्थः । पीड्यमानाः परियन्ति भ्रमन्ति ॥२५॥
॥ १०.८७.२६ ॥
सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् आ-मनुजात्
सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः ।
न हि विकृतिं त्यजन्ति कनकस्य तद् आत्मतया
स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यद्य् असन् नोत्पद्यते, यदि च त्रि-गुण-मयः पुरुषो न भवति, तर्हीदं प्रपञ्च-जातं पुरुषश् च पृथङ् नास्तीत्य् उक्तं स्यात्, कथं तर्हि तयोः सत्त्वेन प्रतीतिः ? अत आह—सद् इव मन इति । मनो मनो-मात्र-विलसितम् इदं त्रि-वृत् त्रि-गुणात्मकं प्रपञ्च-जातम् असद् एव सद् इव विभाति । कथम् ? इति चेत् तत्राह—त्वयीति । त्वय्य् अधिष्ठाने । अधिष्ठान-सत्तया सद्वत् प्रतीयत इत्य् अर्थः । न केवलम् इदं-कारास्पदं, किन्त्व् आ-मनुजात्। मनुजः पुरुषः । अभि-विधाव् आ-कारः, पुरुषम् अभिव्याप्येति । पुरुषस्यापि पृथक् सत्त्व-प्रतीतिर् मनो-मात्र-विलसितेत्य् अर्थः । तथा च श्रुतिः—
असतोऽधि मनोऽसृज्यत । मनः प्रजापतिम् असृजत । प्रजा-पतिः प्रजा असृजत । तद् वा इदं मनस्य् एव परमं प्रतिष्ठितं यद् इदं किं च103 [तै।ब्रा। २.२.९.१०] इति ।
नन्व् आत्म-विदाम् अपि विश्वं सद् एव स्फुरति, अतः कथम् असत् स्यात् ? अत आह—सद् अभिमृशन्ति इति । आत्म-विदस् त्व् अशेषम् इदं भोक्तृ-भोग्यात्मकं विश्वम् आत्मतयैव सद् अभिमृशन्ति, सद् इति जानन्ति, आत्म-कार्यत्वान् न पृथग् इत्य् अर्थः । तथा हि, यद् उपादानकं यत् कार्यं भवति, तत् तेनैव रूपेण प्रतीयते उपादीयते चेति ।
लोकाचारेण दर्शयति—न हि विकृतिम् इति । कनकस्य विकृतिं कुण्डलादिकं कनकार्थिनो न त्यजन्ति । अत्र हेतुः—तद् आत्मतया, कनक-रूपत्वेनेत्य् अर्थः । अतः स्व-कृतम् इदं विश्वम् अनुप्रविष्टं च पुरुष-रूपम् आत्मतयैवावसितं निश्चितम् ।
यत् सत्त्वतः सदा भाति जगद् एतद् असत् स्वतः ।
सद् आभासम् असत्य् अस्मिन् भगवन्तं भजाम तम् ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते—नन्व् इति । पृथङ् नास्ति किन्त्व् एक एवेत्य् एवं स्यात् भवत्व् इति चेद् आह—कथम् इति । तयोः प्रपञ्च-पुरुषयोः । नन्व् असतः प्रतीतिः कथम् इति चेद् आह—त्वयीति। इत्य् अर्थ इति—रज्जु-सत्तयाहिर् असन्न् अपि यथा सद्वत् प्रतीयते इति भावः । इदं-कारास्पदं घटादि पुरुषा आत्मा । इत्य् अर्थ इति—पृथक्-सत्त्व-प्रतीतिर् न वास्तवी स्वप्नादिवन् मनस्य् एवेति भावः
विश्वस्य मानसत्वे प्रमाणम् आह—तथा चेति । असतः अव्याकृतात् परमेश्वराद् अधि अधिकं समष्टि-रूपं मनो\ऽसृज्यताभूद् इत्य् अर्थः । कर्म-कर्तरि प्रयोगः । अनायासेन सृज्यमानत्वात् स्वयम् अभूद् इत्य् अर्थः । पच्यते ओदनः स्वयम् एवेत्य् आदिवत् । तच् च मनः प्रजायते ब्रह्माणम् असृजत् स तत् तस्माद् इदं दृश्यमानं किं च किञ्चन वस्तु तन्-मनस्य् एव मनो-भावापन्ने\ऽव्याकृते एव परमं यथा भवति तथा प्रतिष्ठितं प्रकर्षेण स्थितम् इत्य् अर्थः । सृष्टि-परेयम् ।
पुनर् आशङ्कते—नन्व् इति । यथो ज्ञानिनाम् अपि सत्त्वेन प्रतीयते\ऽतो हेतोः । इत्य् अर्थ इति—कार्यस्य कारणात्मकत्वाद् इति भावः । अत्रात्यागे । इत्य् अर्थ इति—कुण्डलादि-रूपत्वेन स्वर्णम् एव प्रतीयते, न तस्य पृथक्-सत्त्वं दृष्टम् इति भावः । यतः कारणम् एव कार्य-रूपेण प्रतीयते\ऽतो हेतोः । आत्मतया परमात्म-रूपतया ।
स्वामिनां यद् इति । एतज् जगत् असत्-स्वरूपेण यत् सत्त्वतः यतस् त्वत्तः सत्तां प्राप्य तत् सत्यम् आभाति । अस्मिन्न् असति संसारे सद् आभासं सर्वदा प्रकाशमानम् ॥
श्रीधरानुयायिनी : ननु कथं भिदाया मिथ्यात्वं सत्यत्वेन प्रतीतेर् इत्य् आशङ्कयाहुः—सदिवेति । जल-चन्द्रवद् अध्यस् तेन प्रमात्रा सहितं त्रि-गुणात्मकम् इदं प्रपञ्चजातं यतो मनोमात्र-विलसितम् अतो\ऽसद् एव तद् अप्य् अधिष्ठानस्य तव सत्तयैव त्वयि सदिव रज्जु-सर्पादिवद्-विभाति । आत्म-विदस्तु भोक्त-भोग्यात्मकम् इदं विश्वं न शिष्यत इत्य् अशेषं यथा स्यात्-तथात्मतयैव सद् इति जानन्ति न तु प्रमातृ-प्रमेयादि-विभक्त-रूपेणापि यद् अपादानात्मकं तत्-तेनैव रूपेण प्रतीयते उपादीयते चेति प्रसिद्धेः । यथा सुवर्ण-विकारं कुण्डलादिकं सुवर्णार्थिनो न त्यजन्ति किन्तु सवर्णत्वेन तद्न्त्ये व तथात्रापि । अतः स्वकृतम् इदं विश्वं तद् अनुप्रविष्टं पुरुष-स्वरूपं चात्मतयैव निश्चितम् । यद् वा, अवसितम् अवसानं बाधं प्रापितम् इत्य् अर्थः । एतद् एवापरोक्ष-ज्ञानं संसार-बन्ध-मोचकम् । एवं चाज्ञानां सत्यत्वेन प्रतीयमानापि भिदा ज्ञानोदये मिथ्यैव । ज्ञानं च भक्तिं विना नैवोदेतीत्य् आशयः । यद् वा, अमनुजात् मनुजम् अविद्याद्य् उपहितं जीवम् अभिव्याप्य त्रिवृत्रि-गुणात्मकम् अशेषम् इदं विश्वं मनो-विलसितम् अतः सदिव शोभनम् इव वर्तमानम् अप्य् असत् अशोभनम् एव । पुनर् एवम्-भूताम् अपि यदि त्वयि त्वत्-सेवानिमित्तं समर्पितं स्यात्-तदा सच्-छोभनम् एव विभाति । नन्व् इदम् अज्ञानाम् एव किम् इत्य् आशङ्कयाहुः—आत्मविदस् त्यक्त-देह-मात्रैषणा अपि त्वयि समर्पितम् इदम् आत्मतया वल्लभतयाभिमृशन्ति स्पृशन्ति अङ्गीकुर्वन्ति नान्यवत्त्य् अजन्तीत्य् अर्थः । अत्यागे दृष्टान्तम् आहुः—नहीति । यथा सुवर्णस्य विकृति स्व-सम्बन्धाद्-विकार-कारकम् अपि रौप्यताम् रादिकं तद् आत्मतया सुवर्ण-प्राप्ति-हेतुत्वेन त-त्स्वरूपतया न हि त्यजन्ति तद्वत् । किञ्च—स्वकृतं त्वया स्वयं निर्मितं पुनर् आत्मतयान्तर्यामितया त्वयानुप्रविष्टं विश्वम् अतस् त्वद् आवास-स्थानम् इत्य् अपि निश्चित्य न त्यजन्तीत्य् अर्थः ॥
नीलकण्ठी : ननु भेदस्याबोधकृतत्वे शुक्ति-रजतवन्-मिथ्यात्वं स्यात्-तथा च कथं लौकिक-वैदिक-व्यवहार इत्य् अत आह—सदिव मन इति । आमनुजाति-वृन्-मनः असद् अपि सदिव त्वयि विभातीति सम्बन्धः । आ इत्य् अभिविधावाङ् । मनुजः प्रमाता जल-चन्द्रवत्-प्रमातुर् अप्य् अध्यस्तत्वेन तत्-सहितं मनो-मयं सर्वं मन एव स्वरूपेणासदपि त्वयि अधिष्ठाने स्वप्न-सदृशीव विविधं भाति भेदस्य मिथ्यात्वे\ऽपि स्वप्न-वव्यवहारोपपत्तिर् इति भावः । मनो विशिनष्टि—त्रिवद् इति। त्रि-भिर् मातृमानमेयैः सत्त्व-रजस् तमोभिस्तेजो\ऽबनर् वा सह वर्तते इति त्रिवृत् । तत्र तेजो\ऽबन्न् आत्मत्वे मनसस् तत्त्वान्तरित्व-निरासो लभ्यते । तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् इति तेजो\ऽबन्नानां त्रिवृत्-करणे श्रुतेः । तच्-चैषाम् एकैकस्मिन्न् अर्धं स्वांशः अर्धम् इतरयोर् अंशः समत्वेनेति तद् एतत्-त्रिवृत्करणं पञ्चीकरणोपलक्षणार्थं सृष्टिवदित्येके । अन्ये तु सम्प्रदायागतम् अपि पञ्चीकरणं नाद्रियन्ते त्रिवृत्-करणम् एव श्रौतं विवक्षितम् इत्य् आहुः ।
ननु स्वप्न-वव्यवहारश् चेद्-बुद्धानां तद्वद् एव स लुप्येतेत्य् आशङ्क्य् आह—सद् इति । आत्मविद इदं सत् अशेषं न शिष्यते इत्य् अशेषं यथा स्यात्-तथा आत्मतयाभिमृशन्ति तत्त्वज्ञाः परिदृश्यमानं कार्यं द्विचन्द्र वत्सहैव बाधेनात्मतया जानन्ति । समाधौ भेद-दर्शाभावे\ऽपि व्युत्थाने दग्ध-पटवद् अविद्या-संस्काराद् अनुवर्तमान-मनः-कल्पितं भेदं प्रत्याख्यातुं समर्थास्ते इत्य् अतो न तेषां व्यवहारलोप इति भावः ।
ननु, स्वरूपानन्द-तृप्तास्ते मातृमानमेयात्मकं मनो-व्यवहारं कुतो न त्यजन्तीत्य् अत आह—न हीति । अत्र मनस इति षष्ठ्यन्तं विपरिणामेनानुषञ्जनीयम् । कनकस्येति दृष्टान्तार्थम् उक्तम् । तद् आत्मतयेति हेतुः । यथा कनकार्थिनः कनकस्य विकृतिं कुण्डलादि-रूपां कनकात्मतया न त्यजन्ति एवात्म-विदो\ऽपि प्रारब्ध-कर्मावष्टब्ध-मनः-कल्पित-देहेन्द्रियादि-निर्वाहार्थिनः मनो-विकृतिं मात्रादि-रूपां व्यवहर्ति चक्र-भ्रमिवद् अनुवर्तमान-मनस् तादात्म्यमत्तया न त्यजन्तीत्य् अर्थः । मनस् तादात्म्ये बीजम् आह—स्वकृतम् अनुप्रविष्टम् इति । तत्-सृष्ट्वा तद् एवानुप्राविशत् । इति श्रुतेः । स्वकृतं स्वस्मिन्-कल्पितम् अनुप्रविष्टं स्वेनैव सद् आत्मतानुविद्धं शुक्ति-सत्तयेव तत्र कल्पितं रजतं प्रतीच्य् अध्यस्तत्वात्-तत्त्व-विदाम् अपि व्यवहारे\ऽस्त्य् एव मनस् तादात्म्यम् इत्य् अर्थः । मनसो\ऽध्यस्तत्वे\ऽनुमानम् आह—इदम् आत्मतयावसितम् इति । इदम् अर्थास्पदत्वेन दृश्यत्वेन हेतुनेति यावत् । अवसितम् अवसानं बाधं प्रापितम् । तथा चायं प्रयोगः सूचितः । अहम् आदिर् बाध-योग्यः दृश्यत्वात् स्वप्न-मायादिवद् इति । न च पुष्कलार्थ-क्रियाकारित्वेन बाधायोग्यत्वम् अपि सिद्ध्यतीति वाच्यम्-गरुडो\ऽस्मीति भावनायाः सत्यविषनिवर्तकत्वे\ऽपि बाध-दर्शनात् । एवं च तुच्छाद् अज्ञानान्-मनस उत्पत्तिः ततः प्रमात्रादि-विकल्प इति सिद्धम् । तथा च श्रुतिः—
असतो\ऽधि मनो\ऽसृज्यत । मनः प्रजापतिम् असृजत । प्रजापतिः प्रजा असृजत । तद् वा इदं मनस्य् एव परमं प्रतिष्ठितं यद् इदं किञ् च [तै।ब्रा। २.२.९.१०]॥२६॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—त्वयि त्वद्-विषये त्रिवृन्मनः त्रिभिर् द्वारका-मथुरा-व्रज-विलासि-रूपेण तव वर्तनम् ईदृङ्-मनो मननम् असद् एव सदिव भाति । आमनुजात् भूत-भवद्-भावि-समस्तार्थम् अननान्मनुर् ईश्वरस् तस्माज्-जातो हिरण्य-गर्भस् तम् अभिव्याप्य सर्वे एव जानन्ति य एव द्वारकायां स एव मथुरा-गोकूलयोर् इति । वस्तुतस् त्वं शुद्ध-प्रेम-रस-शक्ति-विलासी व्रजेश्वरीगर्भ-सम्भवो\ऽन्य एव । तर्हि किं तत्रयैक्यं मिथ्यैव तथा च पूराणादि-विरोधः तत्राह—सद् इति । इदम् अशेषं स्थानत्रय-विहार-स्वरूपं सदैव जानन्ति । कुतः आत्मतया सर्वात्म-भूतं यद् अद्वितीय-परिपूर्ण-स्व-प्रकाश-चिदानन्दैक-रस-परब्रह्म-तन्मयतया । ब्रह्म-मयत्वे\ऽपि विशेषम् आह—कनकस्य विकृतिं विशिष्टा अतिमनोहरा कृतिर् निर्माणं यस्य तत् कुण्डलादि नैव त्यजन्ति कनकं त्यक्त्वापि बहुतर-संस्थान-विशेष-रागिणो\ऽङ्गद-कुण्डलाद्य् एव गृह्नन्ति । तत्रापि महानवान्तर-रूप-चमत्कारावेशोपादयतेति ।
नित्य-गोप्य् अस्तु आहुः—त्रिषु पितृ-मातृ-सुहृदादिषु चन्द्रावल्यादि-गोप-सुन्दरीषु श्री-राधायाञ् च वर्तमानं मनस् त्वयि असद् अपि सदिव भाति श्री-राधायाम् एव हि मनः परमासक्त्या वर्तते अन्यत्र बहिरेव इदम् अशेषम् अपि सत् उत्कृष्टम् एवान्य् अतः सर्वत प्रेमविलासात् । तत्र हेतुः— आत्मतया तवात्यतया श्री-मूर्तितया तद् अवस्थत्वेनेत्य् अर्थः । किञ् च सर्वास्ववस्थास्वन्तः श्री-राधाविष्टम् एव तवान्तः-करणाम् न हि तद् अवस्थाः कनकस्य विकृतिः पूत्रलिका तत्-तुल्यां राधिकां त्यजन्ति सर्व-व्यवहारेष्व् अपि त्वद् अन्तरं श्री-राधा न त्यजतीत्य् अर्थः । तद् आत्मतया राधायाम् एवात्मा यस्य तत्त्वेन राधात्मकतया वा राधाविष्ट-रूपम् एव हि धर्मि धर्मास्त्व् अन्ये साक्षात्-परम्परया वा तस्यैव सर्व-शक्तितश् च प्रेम-शक्तिर् एव वरीयसी आनन्दाविर्भावकत्वात् आनन्दस्यैव परमोपादेयत्वात् कोह्य ह्यवान्यात् [तै। २.७.१] इति च श्रुतेः तत्रापि शुद्धा प्रेम-शक्तितो महानन्द-रसाविर्भावकत्वात् तत्राप्य् आदिभावात्मिका अतिपरमा तत्रापि राधैकान्त-सख्य-भावेन परम-काष्ठा । अतो राधा-भावमग्न-रूप एव धर्मीति । इदं राधा-रसाविष्टं तव स्वरूपम् एव स्वकृतं स्वस्मिन् कृतम् अवस्था-भेदम् अनुप्रविष्टम् अवसितम् निश्चितम् अस्माभिः आत्मतया धर्मितया ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु जनिम् असत इत्य् अनेन जगतो\ऽसत्त्वम् एव वास्तवम् । सद् असत्त्वे तद् अन्तर्यामिनः पुरुषस्यापि पृथक्त्वम् असत्, तत् कथम् अयं प्रपञ्च एतद् अन्तर्यामि पुरुषश् चेति प्रतीतिर् इत्य् आहुः—सद् इवेत्यादि ।
त्रिवृत् त्रिगुणात्मकं विश्वम् आ-मनुजात् आपुरुषात् पुरुषम् अवधि-कृत्य सर्वं मनः मनः-कल्पितत्वात् । एतेन असद् अपि सद् इव भाति । कुतः ? त्वयि त्वद्-विषये । त्वद्-विषयं यदि भवति, तदा सद् इव सद् एव भवतीत्य् अर्थः । अत आत्म-विद आत्मानं भवन्तं विन्दन्तीति आत्म-विदो भक्ता इदम् अवशेषं त्वत्-सम्बन्धेन सत् सत्यम् इति जानन्ति, आत्मतया भवदीयतया
अयम् अर्थः—इदं विश्वं स्वतो\ऽसद् एव, त्वल्-लोक-वर्ति यत् किञ्चित्, तत् सत्यम् एव । अत उक्तं, यत्र त्रिसर्गो\ऽमृषा [भा।पु। १.१.१] ।
तद् एव दृष्टान्तेन स्पष्टयति—न हीत्यादि । कनकस्य विकृतिं कनकार्थिनो न त्यजन्ति तद् आत्मतया हेतु-भूतया । अतस् तव सम्बन्धो ह्य् एव विकृतिः, तेन तव विकृतं त्वं त्वदीयम् इति तद् अपि सत्, न हि वस्तुतस् त्वं प्रपञ्च-रूपेण विकरोषि, अत इदं स्व-कृतं विश्वम् अनुप्रविष्टं पुरुष-रूपम् आत्मतया भवदीयत्वेन आवसितं व्यवसितं यद् यद् भवदीयं, तत् तद् एव सत्यम् इत्य् अर्थः ॥२६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो भगवन् ईदृशो\ऽपि विसदृश-भेदोपदेष्टा पुमान् यदि कदाचित् केनापि दुस्तर्क्य-भाग्योदयेन त्वद् आश्रितः स्यात्, तर्हि सो\ऽपि साधुर् भवेद् इत्य् आशयेनाहुः—सद् इति । इवेति लोकोक्ति-रीत्यानधिकारार्थम् ।
आ-मनुजात् मनुजो मनुष्यस् तम् अभिव्याप्य तिर्यक्-पर्यन्तम् एव जातम् । कथम्भूतम् ? मनस् त्रिवृत् त्रिगुणात्मकं मन इत्य् अर्थः । तथा-भूतम् अपि तथा असद् अपि त्वयि त्वद्-विषयकं यथा कथञ्चिद् भजन-परं तत् स्यात् । तर्हि तत् साधु-स्वरूपं विशेषेण ज्ञानादि-कृत-शुद्धितो\ऽप्य् आधिक्येन भाति । अत आत्म-विदः—आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इत्य् आत्मानं त्वाम् सेव्यतया विदन्तीति त्वद्-भक्ता इदं त्वद्-भजन-परम् अशेषं जीव-जातम् आत्मतया आत्मनो\ऽपृथक्तया सद् एवाभिमृशन्ति, साध्व् एव जानन्ति ।
अत एव जनाः कनकस्य विकृतिम् इव तत् ते न त्यजन्ति, अपि तु स्वीकुर्वन्ति । तद् अत्मतया तस्मिन् त्वयि आत्मा मनो यस्य तत् तद् आत्मा, तस्य भावस् तदात्मता, तया तद्-गत-मनस्तया हेतुना गृह्णन्ति च । भवता चेदं त्वद्-भजन-परं स्व-कृतं तस्य तव कृतं चरितम् अनुप्रविष्टम्, आत्मतया प्रियतया, अवसितं निश्चितम्
यद् वा, आ-मनुजात् मनुजादेस् तिर्यक्-पर्यन्तस्य मनः प्रायस् त्रिवृत् ताप-त्रयावर्तितम् अपि, असत् सर्व-दोषास्पदम् अपि, यदि कथञ्चिद् भवज्-जन-कारुण्यादिना त्वयि त्वद्-विषयकं स्यात्, स किञ्चित् त्वत्-सम्बन्ध-गन्धि भवेद् इत्य् अर्थः, तर्हि सद्यः सद् इव स्यात् । तर्हि त्वदीय-सुष्ठु-सम्बन्ध-पदार्थानां नैर्गुण्य-पर्यवसायित्वे किं चित्रम् इत्य् आहुः—सद् इति । ये तु आत्म-विदस् त्वद्-विदः । यथा पाद्मे—
चेतना तु द्विधा प्रोक्ता जीव आत्मा च सा प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस् तु जनार्दनः ।
इतरेष्व् आत्म-शब्दस् तु सोपचारो\ऽभिधीयते ॥ इति ।
ते इदं त्वत्-सम्बन्धि-प्रमेय-जातम् अशेषम् एव पदम् अभिमृशन्ति, आत्मतया ज्ञान-तादात्म्यापन्नतया सद् एवानुभवन्तीत्य् अर्थः । श्रीमद् एकादश-स्कन्धे पञ्चविंशाध्याये—ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् [भा।पु। ११.२५.२४], तथा मन्-निकेतं तु निर्गुणम् [भा।पु। ११.२५.२५], तथा निर्गुणो मद् अपाश्रयः [भा।पु। ११.२५.२६] इत्य् आदिना सर्वेषां स्व-सम्बन्धिनां श्री-भगवता नैर्गुण्यस्यापादितत्वात्, यत् प्राकृतस्यापि स्पर्श-मणेः स्पर्श-मात्राद् एव लोहम् अपि सुवर्णीभवति, किम् उताप्राकृताचिन्त्यानन्त-शक्तेः कृतं स्व-भक्त-सम्बन्धेनेत्य् अर्थः । एतद् एवाह—न हि विकृतिम् इति । तद् एवावधारणार्थम् अनुवदति—स्व-कृतेनेति । स्वैर् भक्तैः कृतं स्व-भक्त-सम्बन्धेत्य् अर्थः । आत्मतया श्री-भगवत्-तादात्म्यापन्नतया, अनुप्रविष्टम् इत्य् अवशिष्टम् इत्य् अवसितम् ।
यद् वा, आत्म-विदस् त्वद्-भक्ता इदं शेषम् एव सत्यम् अनुभवन्ति, सर्व-स्यैव प्रपञ्चस्य सद् असद्-रूपत्वात् । त्वद्-भक्त्या अस्यासद्-रूपत्वे विलीने सत्य-रूपताम् एवानुभवन्ति, अतः सत्य् अनुभवेनैव तानि तानि गन्ध-पुष्प-धूप-दीप-सद् अन्नादीनि वस्तूनि प्रभवे निजाभीष्ट-दैवताय तुभ्यं समर्पयन्तीति । इदम् एव द्रढयति—न हीति । भवतापि भक्त-कृतम् आत्मतया प्रियतया अनुप्रविष्टं सुष्ठु स्वीकृतम् इत्य् अस्माभिर् निश्चितम् ॥
अथान्याः काश्चिद्-गोवर्धन-स्वरूप-प्रिय-स्थान-कथन-प्रसङ्गेन सर्व-स्यैव भगवत्-प्रिय-स्थानस्य सत्यता-प्रतिपादनेन तं स्तुवन्ति-सदिवेति । आमनुजान्-मनुष्यम् अभिव्याप्य स्थावर-पर्यन्तं मर्त्य-भुवनम् असद् अपि मन इवास्थिरम् अपि, त्रिवृत् तापत्रयावृतम् अपि सदिव सर्वोत्तममिव विभाति । तत्र हेतुः—त्वयीति । त्वयि सति त्वय्य् अत्रावतीर्णेन इति शेषो वा, तवावतारादित्य् अर्थः ।
ननु मर्त्य-भुवनान्तर्वर्ति । श्री-मथुरा-द्वारकादि-स्थानम् अपि किं खल्व् असद् इत्य् उच्यते? नेत्य् आहुः—सद् इति । आत्मविद आत्मनि त्वां जानन्तः, इदम् अशेषं मथुरा-द्वारकादिकं तव स्थानं सत् सत्यं जानन्ति । तत्र हेतुः आत्मतया चिद्-रूपतया हेतुना चित्त्वाद् आत्म्यापन्नत्वादित्य् अर्थः । तत्र निदर्शनम्-न हीति । अतः स्वकृतं स्वयम् एवाविर्भावितम् इदं त्वदीय-स्थानम् आत्मतया निश्चितम्, तत्राप्य् अचिन्त्याद्-भुत-शक्तिना त्वयानुप्रविष्टं निरन्तरं कृत-प्रवेशं
त्वन्-नित्यास्पवदम् इति यावत् । तथा हि तापनीश्रुतिः—
प्राप्य-मथुरां पुरी रम्यां सदा ब्रह्मादि-सेविताम् ।
शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुषलादिभिः ॥
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समन्वितः ॥ इत्य् आदि ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सद् इवेति । अस्य टीकायां श्रुतौ, असद् वा इदम् अग्र आसीत् [छा।उ। ६.२.१] इति श्रुतेर् असतो ब्रह्मणो निमित्तत्वात् अधि न विद्यते धीर् यस्माद् इत्य् अज्ञानम् एव मनो-रूपेण व्यवर्ततेत्य् अर्थः । तच् च समष्ट्य् आत्मकं मनः प्रजापतिं तद् अभिमानिनं ब्रह्माणं व्यक्तम् अकरोद् इत्य् अर्थः ।
स्व-मते त्व् इयं व्याख्या—अत्र असतो\ऽधि मनो\ऽसृज्यत [तै।ब्रा। २.२.९.१०] इत्य् आदि-श्रुतिर् अपि अत्रासच्-छब्देन सच्-छब्द-प्रसिद्ध-कार्य-परम्परातिरिक्तं सर्व-कारणं श्री-भगवान् उच्यते—असद्-व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषात् [वे।सू। २.१.१७] इति न्यायात् । अधि-मनः-शब्देन सर्वाधिकारि तदीयम् एव मनः, ततश् चासत इत्य् असता तेनासृज्यतेति तद् अर्थं व्यापारयामासेत्य् अर्थः ।
अथ पुनर् एव नारायणः—सो\ऽन्यं कामं मनस्आ ध्यायेत्, तस्य ध्यानान्तः-स्थस्य ललाटात् स्वेदो\ऽपतत् । ता इमाः प्रथमापः, तासु तेजो हिरण्मयम् अण्डम् । तत्र ब्रह्मा चतुर्मुखो\ऽजायत इति श्रुतेः ।
एतम् अर्थम् अज्ञातुः कस्यचित् पूर्वपक्षम् आशङ्क्य समादधत्ते—तत्राशङ्क्य ननु । श्रुत्या शून्यम् एव प्रथमम् उपदिष्टं, तद् अनन्तरं मनो-विज्ञान-परम्परा । ततो\ऽसत एव पर्यवसाने\ऽपि स्थितिः स्यात् । तथा मनसः प्रधानत्वात् तर्क एव सर्वत्र ज्ञान-हेतुः । श्रुतेस् तु कल्पितत्वात् तद् अनन्तरम् एव कथं पुनः श्रुत्या तत् तद् दूष्यत इति ?
समाधानं तु—सद् इवेति । त्रिवृत् उत्पत्तितो गुण-त्रये वर्तमानं मनस् त्वयि असत् प्रवर्तमानं चेत् तदा सद् इव यथार्थ-दर्शीव प्रतीयते, वस्तु-विचारे त्व् अयथार्थ-दर्श्य् एवेत्य् अर्थः । तर्काप्रतिष्ठानात् [वे।सू। २.१.११] इति भावः । यत एवात्म-विदः सर्व-मूल-स्वरूपस्य तव वेत्तारो ये ते तु [आ-मनुजात्] जीवम् अभिव्याप्य अशेषम् इदं सद्-रूपत्वेनानुगतं त्वाम् एव पश्यन्ति, तच् च आत्मतया सर्व-मूल-स्वरूपतया । यथा पाद्मे—
चेतना तु द्विधा प्रोक्ता जीव आत्मा च सा प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस् तु जनार्दनः ।
इतरेष्व् आत्म-शब्दस् तु सोपचारो\ऽभिधीयते ॥ इति ।
तद् एवार्थान्तर-न्यायेन बोधयन्ति—न हीति । कनकस्य विकृतिं कटक-कुण्डलादिकं कनक-वणिजो हि न त्यजन्ति । तत्र हेतुः—तद् आत्मतया तद् अनुगत-तन्मात्र-दृष्ट्येति । उभयत्र साम्यं योजयन्ति—स्वकृतम् इति । स्वेन कृतं स्वेनाप्य् अनुगतं चेति । उपसंहरति—तस्माद् आत्मतया तत्-स्वरूपतयैव निश्चितम् इति । तस्मान् न शून्यस्य कारणत्वं न वा मनसः प्राधान्यं, किन्तु तवैव तत् तद् इति त्वद्-वचन-रूपायाः इतरैव मुख्यं प्राधान्यम् इति भावः । अत्र श्रुतयः—
यस् त्व् अविज्ञानवान् भवत्य् अयुक्तेन मनसा सदा ।
तस्येन्द्रियाण्य् अवश्यानि दुष्टाश्वा इव सारथेः ॥
यस् तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सद् अश्वा इव सारथेः ॥
यस् त्व् अविज्ञानवान् भवत्य् अमनस्कः सदाशुचिः ।
न स तत् पदम् आप्नोति संसारं चाधिगच्छति ॥
यस् तु विज्ञानवान् भवति स-मनस्कः सदा शुचिः ।
स तु तत् पदम् आप्नोति यस्माद् भूयो न जायते ॥
विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः ।
सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् ॥
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः ॥ [क।उ। १.३.५-११] इत्य् आद्याः ।
औपनिषदः पुरुषः इत्य् आद्याश् च ॥२६॥
जीव-गोस्वामी (परमात्म-सन्दर्भ ६९) : तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्य् असद् अंशम् एव गृह्णन्ति, ये तु परमात्म-विदस् ते सद् अंशम् एव गृह्णन्तीत्य् आहुर् भागवताः—सद् इवेति ।
त्वय्य् असद् अवर्तमानं यन् मनः, तत् खलु त्रिवृत् त्रि-गुण-कार्ये जगति वर्तमानं सत् त्वयि सद् इव वर्तमानम् इव विभाति । दर्वी-सूप-रस-न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात्, न तु वर्तमानम् एव विभातीत्य् अर्थः । अत एवासद् अंशस्य त्रिगुण-माया-मयत्वं मनो-मयत्वं चोक्तम्—
यद् इदं मनसा वाचा
चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च
विद्धि माया-मनो-मयम् ॥ [भा।पु। ११.७.७] इति ।
ये त्व् आत्म-विदस् त्वद्-वेत्तारस् ते आ-मनुजात् सोपाधिक-जीव-स्वरूपम् अभिव्याप्य इदम् अशेषं जगद् एव आत्मतया त्वद्-रूपतया सद् अभिमृशन्ति, तेषां सद् अंश एव दृष्टिर् नान्यत्रेत्य् अर्थः ।
तत्र दृष्टान्तः—न हि विकृतम् इति । तेषां कनक-मात्रं मृगयमानानां कनक-वणिजां हि कनक-विकारे सुन्दर-कुरूपाकारतायां104 दृष्टिर् नास्ति, शुद्ध-कनक-मात्र-गृआहित्वात् । तथात्म-विदाम् अपीति भावः ।
दार्ष्टान्तिकेऽपि तद् आत्मत्वे हेतु-त्रयम् आहुः—इदं जगत् स्वेन सच्-छक्ति-विशिष्टेन उपादान-रूपेण त्वया कृतं, पश्चात् सिद्धेऽपि कार्ये कारणांश-व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य् आत्मतया सच्-छक्ति-विशिष्ट-सद्-रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि विवेचनीयम् । तद् एतत् सर्व-म् अभिप्रेत्योक्तं वैष्णवे—
ज्ञान-स्वरूपम् अखिलं जगद् एतद् अबुद्धयः ।
अर्थ-स्वरूपं पश्यन्तो भ्राम्यन्ते मोह-सम्प्लवे ॥
ये तु ज्ञान-विदः शुद्ध-चेतसस् तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्-रूपं परमेश्वर ॥ [वि।पु। १.४.४०-४१] इति ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : स खलु बोधस् त्वं पुनर् अवबोधैक-रसः । कथम् इव सत्तां तिमिरम् इव तेजोमलिनं विषयम् आश्रयं वा करोत्वित्य् अर्थः । तस्मात्-तवाचिन्त्य-शक्ति-वैभवस्याज्ञानाद् एव तथोत्प्रेक्षन्त इति भावः । शेषं टीकाभिप्राये । अथ असतोऽभिमतोऽसृज्यतेत्य् [तै।ब्रा। २.२.९.१०] आदि श्रुतिर् अस्ति—तत्रासच्-छब्देन सच्-छब्द-प्रसिद्ध-कार्य-परम्परातिरिक्तं सर्व-कारणं श्री-भगवान् उच्यते असद् व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषात् [वे।सू। २.१.१७] इति न्यायात् । अधिमनः-शब्देन समष्टि-मनोऽधिकारी अनिरुद्ध एवोच्यते । तस्य सृष्टिश् च प्रादुर्भावनम् एव । तद् अभेद-विवक्षायां तु सर्वाधिकारी तदीय-मन एवैतेनोच्यते । असृज्यत—तद् अर्थं व्यापारयामासेत्य् अर्थः । अथ पुनर् एव नारायणं सोऽन्यं कामं मनसा ध्यायेत् । तस्य ध्यानान्तःस्थस्य ललाटात् स्वेदोऽपतत् । ता इमा पतताप, तासु तेजो हिरण्मयम् अण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत [महो। १.४] इति श्रुतेः
एतद् अर्थम् अज्ञातुः कस्यचित् पूर्व-पक्षम् आशङ्क्य समादधते । तत्राशङ्का—ननु श्रुत्या शून्यम् एव प्रथमम् उपदिष्टम्, तद् अनन्तरं मनो-विज्ञान-परम्परा, ततोऽसत एव पर्यवसाने स्थितिः स्यात् । तथा मनसः प्रधानत्वात् तर्क एव सर्वत्र ज्ञाने हेतुः । श्रुतेस् तु तत्-कल्पितत्वात् तद् अनन्तरं कथं पुनः श्रुत्या तत् तद् दूष्यते ? इति । समाधानं तु—सद् इव ॥२६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं त्वम् एव निर्गुणः, अपि तु तव धाम-पार्षदादयश् च निर्गुणाः । यतः स्वयम् एवोक्तम्—निर्गुणं मद् अपाश्रयं [भा।पु। ११.२५.२६] इत्य् आदि । अतस् तद् एव सत्यम् इति तत्-प्रकारम् आहुः—सद् इव मन इत्य् आदि ।
इदं विश्वं मनः, मनः-कल्पितत्वात् । अत आ-मनुजात् आ-पुरुषात्, पुरुषं मर्यादीकृत्य, आङ् मर्यादाभिविध्योः । पुरुषं त्यक्त्वा सर्वम् इदं त्रिवृत् त्रिगुणात्मकम्, अतोऽसद् अपि सद् इव भाति । सद् एव भातीव एवार्थः । कथं भाति ? इत्य् आहुः—त्वयि त्वद्-विषयकं यदि भवतीत्य् अर्थः । त्वत्-सम्बन्धेनासद् अपि विश्वं सद् इव भाति । किं पुनः सत् ? नित्य-भूतं यत् तव लोकादि, तस्य नित्यत्वे कारणम् आहुः—अशेसम्, न विद्यते शेषो यस्य ।
ननु, क एवं मम लोकादेः सत्यतां वदन्तीत्य् आहुः—आत्म-विदः । आत्मानं भवन्तं विदन्तीति आत्म-विदः । कया युक्त्या वदन्ति ? इत्य् आहुः—आत्मतया त्वत्-स्वरूपतया । त्वल्-लोकादिकं त्वत्-स्वरूपम् एव—क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु। ११.२०.३७] इति तवैवोक्तेः । अत उक्तं—न यत्र कालोऽनिमिषां परः प्रभुः [भा।पु। २.२.१७] इत्य् आदि ।
आत्मतयेति यद् उक्तं तद् दृष्टान्तेन स्पष्टयति—न हीत्य् आदि । कनक-विकृतिं कुण्डलादि-कनकार्थिनो न त्यजन्ति । कुतः ? इत्य् आहुः—तद् आत्मतया । तद् अपि कुण्डलादि कनकम् एवाकार-मात्रेणैव विकृतत्वम्, न तु वस्तुत्वेऽपि विकृतिः । एतेन त्वं कृष्ण-रूपेण नित्याविकृत एव, घनानन्दत्वात् । तव लोकाश् च घनाघनानन्दत्वेन न विकृतम्, अपि तु पार्षदादि-तरु-गुल्म-खग-मृगाद्य् आकारेणैव । अतस् त्वत्-सम्बन्धाद् असद् अपि सद् इव भासते । यत् तु नित्य-सत्, तत् सद् एवेति तात्पर्यार्थः ॥२६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र त्रि-गुण-मयः पुमान् इति भिदेत्य् अत्र ज्ञानिनां मते जिवात्मनस् त्रि-गुण-मयत्वेन भिदा परमात्मः सकाशाद् भेदोऽज्ञान-कल्पित एव । ज्ञानेन तु तस्मिन्न् अज्ञाने नष्टे सति भेदे च तिरोहिते स परमात्मैव भवति । अतो जिवात्मा नाम परमात्मतो न पृथग्-वस्तु-रूप इति तत्-त्वम् । बन्ध-मोक्षौ त्व् अज्ञान-विजृम्भिताव् एव । किं च, एवम् इदं-कारास्पदं विश्वम् अपि ततः पृथक् प्रतीतम् अज्ञानाद् एवेत्य् आहुः—सद् इवेति ।
इदम् अशेषं त्रिवृत् त्रिगुणात्मकं परस्पर-जातम् आ-मनुजात् मनुजः पुरुषो जीवस् तम् अप्य् अभिव्याप्य सद् इव, न तु सत्, यतो मनः मनो-मात्र-विलसितम् इत्य् अर्थः । तथा च श्रुतिः—
असतोऽधि मनोऽसृजत । मनः प्रजापतिम् असृजत । प्रजा-पतिः प्रजा असृजत । तद् वा इदं मनस्य् एव परमं प्रतिष्ठितं यद् इदं किं च [तै।ब्रा। २.२.९.१०] इति ।
अर्थश् च—असद् वा इदम् अग्र आसीत् [तै।उ। २.६.१] इति श्रुतेर् असतो ब्रह्मणो निमित्तात् अधि न विद्यते धीर् यस्माद् इत्य् अज्ञानम् एव मनो-रूपेण व्यवर्ततेत्य् अर्थः । तच् च समष्ट्य् आत्मकं मनः प्रजापतिं तद् अभिमानिनम् असृजत्, व्यक्तम् अकरोद् इत्य् अर्थः ।
नन्व् आत्म-विदाम् अपि विश्वम् सद् एव स्फुरति, अतः कथा असत् स्यात् ? अत आहुः—सद् अभिमृशन्ति सद् इव जानन्ति । आत्म-कार्यत्वान् न ततः पृथग् इत्य् अर्थः । तथा हि, यद् उपादानकं यत् कार्यं भवति, तत् तेनैव रूपेण प्रतीयते उपादीयते चेति ।
लोकाचारेण दर्शयन्ति—न हि विकृतिम् इति । कनकस्य विकृतिं कुण्डलादिकं कनकार्थिनो न त्यजन्ति । अत्र हेतुः—तद् आत्मतया, कनक-रूपत्वेनेत्य् अर्थः । अतः स्व-कृतम् इदं विश्वम् तद् अनुप्रविष्टं पुरुष-स्वरूपम् च आत्मतयैव अवसितं निश्चितम् ज्ञानिभिः । एतद् एव अपरोक्ष-ज्ञानं संसार-बन्ध-मोचकम् इति भावः ॥२६॥
॥ १०.८७.२७ ॥
तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया
त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः ।
परिवयसे पशून् इव गिरा विबुधान् अपि तांस्
त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१], नेह नानास्ति किञ्चन105 [बृ।आ।उ। ४.४.१९], मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति106 [बृ।आ।उ। ४.४.१९] इत्य् आदि-श्रुतिभिर् एवं-भूतस्य भगवतः प्रतिपादनात् तज् ज्ञानं सुकरम् एवेति, कृतं भक्त्या ? अत आह—तव परि ये चरन्तीति
तव इति कर्मणि षष्ठी । त्वां ये परिचरन्ति । छन्दसि व्यवहिताश् चेति यच्-छब्देन व्यवधानम् अदोषः । केन रूपेण ? अखिल-सत्त्व-निकेततया, अखिलानि सत्त्वानि निकेतो यस्य स, तथा तस्य भावस् तत्ता, तया । सर्व-भूतावासतयेत्य् अर्थः । उत एव अविगणय्य तिरस्-कृत्य त एव निरृतेर् मृत्योः शिरो मूर्धानं पदा पादेन आक्रमन्ति, मृत्योर् मूर्ध्नि पदं दधति । ते तरन्ति मुच्यन्त इत्य् अर्थः ।
ये पुनर् विमुखा अभक्तास् तान् गिरा वचा पशून् इव विबुधान् विदुषोऽपि परिवयसे बध्नासि । कुतः ? त्वयि कृत-सौहृदाः त्वयि कृतं सौहृदं प्रेम यैः, ते खलु निश्चितं पुनन्ति पवित्रयन्ति । आत्मानम् अन्यान् अपीति शेषः, नेतरे । तथा च श्रुतिः,
तस्य वाक्-तन्तिर् नामानि दामानि । तस्येदां वाचा तन्त्या नामभिर् दामभिः सर्वं सितम्107 इति ।
अयम् अभिप्रायः—सत्यम् एवं-भूतम् आत्मानं श्रुतयः प्रतिपादयन्ति । तत्र च108 यद्यपि वस्तुनोऽपरोक्षत्वाद् अपरोक्षम् एव ज्ञानम् उत्पद्यते, तथाप्य् असम्भावना-विपरीत-भावना-तिरस्कृतत्वान् मलिन-चित्तेषु परोक्षम् इव भवतीति नापरोक्ष-संसार-भ्रम-निवृत्ति-समर्थम् । भगवत्-परिचर्यया तु सम्यग् अमल-चित्तानां तत्-प्रसादेन लब्ध-परोक्ष-ज्ञानानाम् अयत्नत एव कर-कलितो मोक्ष इति । तथा च श्रुतयः—देहान्ते देवः परं ब्रह्म तारकं व्याचष्टे [नृ।ता।उ। १.७], यम् एवैष वृणुते तेन लभ्यः109 [क।उ। १.२.२३], यस्य देवे परा भक्तिः [श्वे।उ। ६.२३] इत्य् आदयः ।
तपन्तु तापैः प्रपतन्तु पर्वताद्
अटन्तु तीर्थानि पठन्तु चागमान् ।
यजन्तु यागैर् विवदन्तु वादैर्
हरिं विना नैव मृतिं तरन्ति ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्ञानस्य सुलभत्वेनातीव भक्तौ प्रयासो न कार्यो ज्ञानैकावाप्तव्यत्वेन मोक्षस्येत्याशङ्कते-नन्विति । एवम्-भूतस्य सत्य-ज्ञानादि-रूपस्य तज्-ज्ञानं भगवज्ञानम् इति श्रुत्य् अर्थः पूर्वम् उक्तः । इत्य् अर्थ इति एक [एक एव हीत्य् आदेरर्थः । जगतो ब्रह्मादि-भेदेन प्राप्तम् ईश्वरानेकत्वं निरस्यति एक इति । एक एव हि रुद्रो न द्वितीयाय तस्थुः इति । रुद्रः परमात्मा एष एव रुद्र एष एवेन्द्रः । इत्य् आदि-श्रुतेः । एतेषाम् ऐश्वर्यं प्राकृतम् अनित्यं चाभासिकं चेति एवकारेणासूचि । तत एकत्वं कारणत्वं चाव्याकृते पर्यवसितं निरस्यति-देव इति । काल-त्रये\ऽपीतरानपेक्षयाखण्ड-चिदात्मना स्वयम् एव दीप्यते प्रकाशत इति देवः । अव्याकृतस्य जडत्वेन देवत्वासम्भवात् स्वतः कारणत्वानुपपत्तेः देवत्वेकत्वसम्पत्त्या रवेः प्राप्तम् ईश्वरत्वं निरस्यन्न् आह सर्वेति । सर्वेषु भूतेषु चिद् एक-रसात्मना स्थित इत्य् अर्थः । एतेन रवेर्दैवत्वे एकत्वे\ऽपि चिदात्मना भूतेष्व् अवस्थितेर् असत्त्वाद् ईश्वरत्वाभावः । सर्व-भूतेषु सर्वदैक-रूपेण चित्-प्रकाशात्मना स्थितत्वेन ब्रह्मणः प्राप्तं सर्व-वेद्यत्वं निरस्यति-गूढ इति । सर्व-भूतेषु प्रकाशात्मना विद्यमानत्वे\ऽपि मेधैः सूर्यवद् अविद्या-तत्-कार्यैस् तिरोहितत्वात्-परमात्मा न सर्वेषां वेद्यो\ऽस्तीत्य् अर्थः ।
भूतेषु गूढत्वे सति ब्रह्मणा प्राप्तं बुद्ध्यादिवत्-परिच्छिन्नत्वं निरस्यति-सर्व-व्यापीति । घटादिकं मृदिव जगद्-बहिरन्तश् च सर्वतः स्वसत्तया व्याप्नतीति सर्व-व्यापी बहिरन्तः
पूर्णत्वाद्-ब्रह्मणः परिच्छित्य् अभावः । गूढात्मना सर्व-व्यापकत्वम् आकाशे\ऽस्ति तत्राह—सर्व-भूतान्तरात्मेति । सर्वेषां भूतानाम् अन्तर् बुद्धि-गुहाय् आमात्म-रूपेण तिष्ठतीत्य् अर्थः । सर्व-व्यापकत्वे\ऽप्य् आकाशस्य जडत्वेन सर्व-भूतात्मत्वासम्भवान् न सर्व-भूतात्मत्वे ब्रह्मणः कर्म-कर्तृत्व-तत्-फल-भोक्तृत्व-संसारित्वं च प्राप्तं तत्राह—कर्माध्यक्ष इति ।
उपाधिम् अधिष्ठाय तद्-धर्मान् ईक्षत इत्य् अध्यक्षः, भूतानां तत्-कर्मणां तत्-फल-भोगानां च साक्ष्येवात्मा निरवयवत्वान्-निष्क्रियत्वाच् च स्वयं कर्म न किञ्चित्-करोतीति नापि भुङ्क्ते इत्य् अर्थः ।
ब्रह्मणः सर्व-भूतान्तरत्वे भूताश्रयत्वं तद् अधीनत्वं चाप्तं निरस्यति-सर्व-भूताधिवास इति । वसत्य् अस्मिन्-सर्वम् इति वासः । अधिकतमश्चासौ वासश्चेत्य् अधिवासः । शुक्तौ रजतवद्-दर्पणे पुरवत् स्वस्मिन्-कल्पितानां भूतानां परमात्माधिवासो\ऽधिष्ठानम् एवास्ति, न तु स्वयं तद् अधिकरण इत्य् अर्थः ।
न केवलं कर्मणाम् एव ज्ञातायम् आत्मा किन्तु भूतानां तद्-धर्माणां तत्-कर्मणां तत्-फलानुभूतीनां तद् अवस्थानां च द्रष्टेत्य् आह—साक्षीति । बुद्धि-तद्-विकाराणां सर्वेषां साक्षीत्य् अर्थः । साक्षाद् ईक्षत इति साक्षीत्य् आत्मन ईक्षण-क्रिया-कर्तृत्वे प्राप्ते सत्य् आह—चेतेति । चेतयितृत्वम् अविक्रियत्वं स्वयम् अविक्रियात्मना सर्वं पश्यतीत्य् अर्थः ।
अविक्रियत्वे हेतुः—केवल इति । केवलो निरवयवः निरवयवत्वाद् अविक्रियः स्वयम् अविक्रियः सन्न् एव सर्वं पश्यतीत्य् अर्थः । शब्द-गुणम् आकाशम् इति निरवयवस्याप्य् आकाशस्य यथा गुणवत्त्वं तथा ब्रह्मणो निरवयवस्यापि सत्त्व-चित्त्वादि-गुणवत्त्वे प्राप्ते परिहरति श्रुतिः-निर्गुण इति । आत्मन आकाशः सम्भूतः [तै।उ। २.१.१]। इत्य् आकाशस्य जनि-श्रुतेस् तस्य जनिमत्त्वेन सावयवत्वाद् आकाशस्य गुणवत्त्वं युक्तम् । निष्कलम् इति श्रुतेर् ब्रह्मणो निरवयवत्वाद्-गुणवत्त्वम् अनुपपन्नम् एव । ततः सत्त्व-चित्त्वादि-स्वरूपम् एव भवति, न तु गुण इति परस्य ब्रह्मणो\ऽखिल-विशेषाभाव-प्रतिपादनाय चकार इति शङ्करानन्दो गीतायां व्याचख्यौ । एव हि भूतात्मा—इत्य् आदि-श्रुतिभिः सर्व-भूतावासत्वेनोक्तत्वाद् इति भावः । इत्य् अर्थ इति—
ये मां सर्वेषु भूतेषु भगवन्तम् उपासते ।
ऐहिकाम् उष्मिकं त्यक्त्वा तान्-मृत्योर् अतिपारये ॥
इत्य् आदि-श्री-मुखोक्तेर् मृत्युम् अतितुच्छं कृत्वा मुच्यन्त इति भावः । अन्यान्-निज-सङ्गिनो\ऽपीत्य् अर्थः । इतरे त्वद्-विमुखा नात्मानं कुतो\ऽन्यानिति भावः । अभक्तान् बध्नातीत्य् अत्र श्रुतिम् आह—तथा चेति । तस्येश्वरस्य वाक् वेद-रूपा तं तिर्बन्धनार्थं महा-रज्जुः नामानि ब्राह्मणादीनि दामानि गल-बन्धनानि नामभिर् दाम-स्थानीयैः सर्व-मशेषं सितं बद्धम् अमुकस्त्वम् एवं कुर्वित्य् आज्ञया बद्धम् इत्य् अर्थः । अभक्त-बन्धन-परेयं श्रुतिः । स्वमि-चरणानाम् आशयस् त्व् अयम् इत्य् आह अयम् इति । सत्यं निश्चितं तत्र प्रतिपादने\ऽपरोक्षत्वात्-प्रत्यक्षत्वात् करे कलितः स्थापितः । अत्र प्रमाणम् आह—तथा चेति । श्री-नृसिंह-तापन्यां—
य इह स्थातुम् अपेक्षते सर्व-इश्वर्यं ददाति यत्र कुत्रापि म्रियेत
देहान्ते देवः तारकं व्याचष्टे येनामृतीभूत्वा सो\ऽमृतत्वं गच्छति ॥ [नृ।ता।उ। १.७] इति ।
अर्थः—अयम् आत्मा प्रवचनेन शास्त्राध्ययनेन मेधया बुद्ध्या बहुना श्रुतेन श्रवणेन च न लभ्यते किन्तु यम् आत्मानम् एष उपासको वृणुते\ऽनन्य-भावेन भजते तेनैव वरणेनैव स आत्मा लभ्यो नान्य-साधनान्तरेण । यद् वा, यम् एव भक्तं भक्त्या परितुष्ट आत्मा हरिर् वृणुते आत्मसात्-कर्तुम् इच्छति तेनैवैष लभ्यते नान्यैर् इति भक्त-मोक्ष-परेयम् । यस्य देवे परा [श्वे।उ। ६.२३] इति व्याख्यातैव । स्वामिनाम्-
तपन्त्विति । तापैः पञ्चाग्न्यादिभिः । पर्वतात् भृगुतुङ्गात् । तीर्थानि पुष्करादीनि । आगमान्-साङ्गवेदादीन् । यागैर् अग्निहोत्रादिभिः । योगैर् युक्ति-समूहैः । वादैर् इति पाठे तु वादैर् जल्प-वितण्डादिभिः मृति मृत्युं सृतिम् इति पाठे संसृति जन्म-जरा-मृत्यु-रूपाम् इत्य् अर्थः ॥
श्रीधरानुयायिनी : सत्य-ज्ञानादि-स्वरूपेण तस्य ज्ञानं सुकरम् एव किं भक्त्य् एत्य् आशङ्क्य् आहुः—तवेति । द्वितीयार्थे षष्ठी । ये च त्वां सर्वान्तर्यामितय भजन्ति ते को\ऽयं वराको मृत्युर् इति तिरस्कृत्य मृत्योर् अपि शिरसि पदं धृत्वा मुच्यन्ते तत्-सोपानेन त्वत्-पदं गच्छन्तीति निश्चितम् । किन्तु महता कष्टेन तत्रापि केचिदेव ये तु त्वयि प्रेम-भक्तास्ते सर्वे स्वयम् अतिपूता एवान्यान् शिष्यादीन्-निश्चितं पुनन्ति । एवं च भगवद्-भक्त्या नितरां निर्मली-कृतमनसां सर्वेषाम् एव त्वत्-कृपया विना प्रयासं लब्धापरोक्ष-ज्ञानानां सुलभ एव मोक्षः । ये तु त्वय्य् अभक्तास्ते स्वात्मानम् अपि न पवित्रयन्ति कुतो\ऽन्यानतस्तान् विबुधान् अपि ऐहिकाम् उष्मिक-साधन-समूह-दक्षान् अपि ज्ञानिनो\ऽपि वा विधि-निषेध-रूपायां तत्-तन्-मत-प्रतिपादिकायां वा वेदवाचि तन्त्यां ब्राह्मण-तार्किकादिनाम् अभिस्त्वं खरोष्ट्र-महिषादि-पशून् इव बध्नासि । एवं चापरोक्ष-ज्ञानम् एवापरोक्ष-भ्रम-निवर्तकम् इति नियमाज्-ज्ञानिनाम् अपि भक्तिं विना ज्ञानं परो\ऽक्षमेवातो व्यर्थम् इत्य् आशयः ।
यद् वा, नराकारत्वे\ऽपि पशु-तुल्यत्वम् आहुः अविबुधान् इति । अवयो मेषाख्याः पशवस् तद्-वद्बोधो येषां तान् आहार-निद्रा-भय-मैथुनमात्रं जानत इत्य् अर्थः । त एवाग्रे\ऽविमुखा इत्य् उक्ताः । नये वेद-शास्त्र-रहस्ये तद्-वर्णने\ऽविवन्-मेष-पशुवन्-मुखानि येषां ते इत्य् अर्थः । यथा ते वृथैवामङ्गलं प्रलपन्ति तथा तवाभक्ताः पण्डितं मन्या अपि स्व-स्व-मतारूढाः परबुद्धि-भ्रंशार्थं वृथैव प्रलपन्ति । अत एव मदीयम् आशयम् अन्यथैते वर्णयन्तीति महता क्रोधेन तांस् त्वं बध्नासीत्य् अर्थः । यद् वा, ये त्वयः कृत-सौहृदा अत एव न ये सांसारिक-व्यवहारे विमुखा विरक्ताः । अत एव वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः [गीता ७.१९]। इति-गीतोक्त्या सर्वात्मत्वेन त्वाम् उपासते ते मृत्युं तिरस्कृत्य तस्य शिरः स्वपादेनाक्रमन्त्य् एव । तथात्मानमन्यांश् च पवित्रयन्त्य् एव । भक्तानां मृत्यु-भयाभावे हेतुः तान्-मृत्यु-प्रभृतीन्देवान् अपि गिरा मद्-भक्तेष्व् एवं कुरुध्वम् इति अप्रतिहता-ज्ञारूपया वाण्या त्वं पशून् इव बध्नासि ॥
नीलकण्ठी : एवं क इहेत्य् आदि-श्लोक-त्रयेण जगत्-कारणस्य दुर्ज्ञेयत्वं तमसो जगत्-कारणत्वं जगतो मनोमात्रत्वं चोक्तम् । अर्थाच् च । तत्त्व-ज्ञानेनाज्ञाननाशे तत्-कार्यस्य मनसो नाशः तस्मिन् सति संसारोच्छेद इति श्रौतयौक्तिक-विचारः साङ्ख्य-नामोक्तः अत्यन्त-बुद्धिमान्-द्याद्वा विशिष्ट-गुर्वाद्य् अलाभाद् वा ये तत्राशक्तास् ते निर्गुण-ब्रह्मोपास्ति-लक्षण-योगेनापि मुच्यन्त इत्य् आह—तव परि ये चरन्तीति । येन ये विमुखा अखिल-सत्त्वनिकेततया तव परिचरन्ति ते उत निरृतेः शिरः पदाक्रमन्तीत्य् अन्वयः । ये पुरुषा नये श्रवण-मननात्मकन्यनय-विचारे विमुखा अयोग्याः सन्तः अखिल-सत्त्वनिकेततया सर्व-भूताधिवासतया—
एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेता केवलो निर्गुणश् च ॥ [श्वे।उ। ६.११]
इति श्रुत्य् उक्त्या । तव त्वां कर्मणि षष्ठी । परिचरन्ति—
ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ।
प्रणमेद्-दण्डवद्-भूमाव् आश्वचण्डाल-गोखरम् ॥
इति स्मृत्य् उक्त-प्रकारेणोपासते व्युत्थान-काले । समाधि-काले तु-उपाध्यंशम् अनन्तर् भाव्य केवलं निर्गुणम् उपासते ते उत ते\ऽपि विमुच्यन्त इति शेषग्रन्थार्थः । यद् वा, अखिलं रजस् तमोबोधशून्यत्वेन कृत्स्नं शुद्धं सत्त्वम् अन्तःकरण-सत्त्वं तद् एव निकेत उपलब्धिस्थानं ज्ञापकं वा यस्य तस्य भावस् तत्ता तया । विशुद्धा-सत्त्वस् ततस्तु तं पश्यति निष्कलं ध्यायमानः । इति श्रुतेः । तव शुद्ध-सत्त्वे प्रकाशमानतया हेतुना ये त्वाम् आत्मानं सर्व-प्रत्यग्-भूतं परिचरन्ति तत्-तद् उपाध्याकारतां परित्यज्य प्राप्नुवन्ति त उत ते\ऽपि निरृतिः शिरः अविगणय्य हेलया पदा आक्रमन्ति मुच्यन्त इत्य् अर्थः । विनापि श्रवणादि-प्रनाडीं केवलोपास्त्यापि मुच्यन्त इति गीतास्व् अपि दृष्टम्—
अन्ये त्व् एवम् अजानन्तः श्रुत्वान्येभ्य उपासते ।
ते\ऽपि चातितरन्त्य् एव मृत्युं श्रुति-परायणाः ॥
ध्यानदीपे—
अत्यन्त-बुद्धिमान्द्याद् वा सामग्र्या वाप्य् असम्भवात् ।
यो विचारं न लभते ब्रह्मोपासीत सो\ऽनिशम् ॥
वाशिष्ठे—
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
योगो वृत्ति-निरोधो हि ज्ञानं सम्यग् अवेक्षणम् ॥
असाध्यः कस्यचिद्-योगः कस्यचित्-तत्त्व-निर्णयः ।
प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥ इति ।
ननु—ज्ञानाद् एव तु कैवल्यम्, नान्यः पन्था विद्यते\ऽयनाय [मह।ना।उ २]। इति प्रकारान्तर-व्यावृत्तेः कथम् उपास्त्यापि मुच्यन्त इति उच्यते उपास्तेर् अपि साक्षात्-कारार्थत्वान् न को\ऽपि दोषः । यथोक्तं भगवता—
यत्-साङ्ख्यैः प्राप्यते स्थानं तद्-योगैर् अपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥
ननु—कुतो मत्-परिचर्याया ईदृशो महिमेत्य् आशङ्क्य तव सर्वेश्वरत्वाद् इत्य् आह—परीति । **विबुधान्-**सूर्यादीन्-गिरा आज्ञा-वचनेन पशून् इव परिवयसे कालयसे ।
भीषास्माद्-वातः पवते भीषोदेति सूर्यः ।
भीषास्माद् अग्निश्चेन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ।
एतस्य वा अक्षरस्य प्रशासते गार्गि सूर्या-चन्द्रम् असौ विधृतौ तिष्ठतः [बृ।आ।उ ३.८.९]। इत्य् आदि-श्रुतिभ्यः अत्यल्पम् इदम् इत्य् आह अपि तानिति । तान् अपि विबुधान् अपि त्वयि कृत-सौहृदाः नारदादयः खलु निश्चितं पुनन्ति दर्शनादिना । अयम् अर्थः—द्विविधम् उपास्त्य् अपरपर्यायं ध्यानं योषितम् अग्निं ध्यायीत इत्य् आदि प्रभूत-विषयं भावना-रूपम् एकम्, परोक्तस्य रत्य् आदि-गत-सूक्ष्म-विशेषस्य ग्रहणाय चक्षुष इव श्रुत्य् उक्तस्य प्रतीचो\ऽवस्थात्रयातीत-निर्विशेषत्वस्य ग्रहणाय मनसः प्रणिधान-रूपं द्वितीयम्, आद्यं मानस-क्रिया-रूपत्वाद् अनित्य-फलं द्वितीयं धर्मम् एधसम् आधि-रूपं वस्तु-तत्त्व-विषयत्वान्-मुक्ति-हेतुर् अपि क्षणम् एकं क्रतु-शतस्य चतुः-सप्तत्या इति श्रुतेर् धर्मर्द्धि-हेतुर् अपि ध्यानज-धर्माधिक्याच् च नारदादयो\ऽन्यान् पुनन्ति स्वयं च जीवन्-मुक्ति-सुखं पुष्कलम् अनुभवन्ति । श्रवणादि-प्रनाडी-प्राप्त-ज्ञानास्तु स्वयं कृतार्था अपि पुष्कल-तपोवृद्ध्य-भावान्-नान्यं पातुं क्षमा इति ध्यान-योगस्य श्रेष्ठत्वम् इति । अत्रायं योगानुष्ठान-क्रमः—शम-दमादि-सम्पन्नो मनो\ऽनुकूले शुचौ देशे स्थिर-सुखम् अध्यासीनः उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नील-कण्ठं प्रशान्तम्—
य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य-श्मश्रुर् हिरण्यकेश आप्रणखात्-सर्व एव सुवर्णस् तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी तस्योद् इति नाम स एवष सर्वेभ्यः पाप्मभ्य उदितः । अथ यदतः परो दिवो ज्योतिर् दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद्-यद् इदम् अन्तः पुरुषे ज्योतिः ।
इत्य् आद्याध्यात्म-विद्यानाम्—
सैषा दहर-विद्यात्र द्विधा ते परिकीर्तिता ।
आध्यात्मिकी भवेद् एका तथान्या त्वाधिभौतिकी ॥ इति ।
शैवे चिद् अम्बर-माहात्म्यादौ आधिभौतिकी-करणात् । ध्यानम् अन्तः परे तत्त्वे लक्ष्येषु च निवेशयेत् । इति बाह्य-लक्ष्य-श्रुतेश् च उमा-महेश्वर-प्रतिमायां सूर्य-मण्डले वा निबिडतर-शुक्ल-भास्वरान्धकार-कल्प-सततोदितानस् तम् इत-रूपान्तर-दर्शनापलापिषु सूर्य-रश्मिषु वा गुरुक्त-युक्त्या दत्त-दृष्टिर् उमा-सहायादि-शब्दान्-सञ्ज्ञा-सञ्ज्ञि-सङ्केत-ग्राहकान् उमानस्मृति-पूर्वकं तद् अर्थांश्चानुसन्दधानो\ऽयम् अहम् अस्मि साम्बशिव इत्य् आद्याकारं प्रत्ययान्तरानन्तरितां सवितर्काख्यां भावनां कुर्यात् । इयम् एवोक्त-विधानुसन्धानाकार-शून्या देहाहंधीवद् अर्थम् आत्र-निर्भासाकारा निर्वितर्केत्य् उच्यते । तथा च श्रुतिः अतो विशेष-विज्ञानं विशेषम् उपगच्छति । इति । अतो विशेषेषु ध्यान-निवेशनाद्-विशेषः स्थूल-भौतिकः । तत्र विविधं शब्दादि-विकल्पोपेतं ज्ञानं विज्ञानं विगलितः शेषो ज्ञानादन्यो विकल्पो यस्मात्-तत्-तथेति श्रुत्य् अर्थः । इदम् एव प्रतिमादिकं यदा विषयेभ्यः प्रत्य् आहृत-करणः स्वप्न इव विगलित-स्थूल-देहाभिमानः पूर्ववद् एव शब्दाद्य् उल्लेख-सहितं च समापद्यते तदा ते सविचार-निर्विचार-समापत्ती उच्यते । एतद्-द्वयं मानसम् । एताश् चतस्रः समापत्तयः सूत्रिता भगवता पतञ्जलिना । तत्र शब्दार्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का । एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता । अतिपरि-शुद्धिर् वर्जनं स्वरूप-शून्याहम् इदं भावयामीत्य् आकार-शून्या, उत्तरत्र सूक्ष्म-विषयेति विशेषणात्-पूर्वयोः स्थूल-विषयत्वं सिद्धम्, तेन स्थूले आत्म-मनः-शरीर-विषयाणां सान्निध्यम् अस्ति सूक्ष्मे आत्म-मनसोर् एव । स्थूले\ऽपि यदा देहासङ्गाद्-वृत्ति-लाभस् तदासौ महा-विदेहा नाम धारणा । अत्रेदम् उक्तम् बहिर् अकल्पिता वृत्तिर् महा-विदेहा तत्-संयमात्-प्रकाशावरणक्षयः । इति । अस्यां चावश्यं ध्येयस्यातिवाहिकत्वं व्यक्तीभवति । तथा हि वितर्कालम्बने प्रतिमादौ यद्यपि लोकदृष्ट्या देवता-दृष्टिर् अध्यस्यते तथाप्य् आतिवाहिकी देवतैवाधिभौतिक्याः प्रतिमायास् तत्त्वं शुक्तिर् इव रूप्यस्य तत्र भातस्य । यथोक्तं वासिष्ठे—
आतिवाहिक एवायं त्वादृशैश् चित्त-देहकः । आधिभौतिकया बुद्ध्या गृहीतश् चिरभावनात् । इति । अयं प्रपञ्चः अतिक्रम्य शिलोदरादिकम् अपि वहत्य् अभिमानिनम् इत्य् अतिवाहि अप्रतिमं भूत-सूक्ष्मं तेन निर्वृत्त आतिवाहिकः । अस्यापि तत्-त्वं चित्त-देहकः चित्तम् एव
देहो यस्य स तथा । एवं च यथा तीव्राभियोगेन निरीक्ष्यमाणे शुक्ति-रजते रजतं तिरोधीयते शुक्तिश् च प्रकाशते, एवं देवता-भावनादार्ढ्ये प्रतिमाया अचेतनत्वं तिरोधीयते शास्त्रीयं चेतनं देवता-रूपम् आविर्भवति । अत एव दृढ-भक्ता बाणादयः स्वाराध्यैः शङ्करादिभिः सह व्यवहरन्तीति बहुलम् उपाख्यायते । एवं परिच्छिन्न-विग्रहवत्या देवताया अपि तत्त्वम् अनन्तत्वम् एव । तद्-भावनया तत्-परिच्छेद-तिरोधाने\ऽनन्तं सर्वतः पाणिपादं तद् इत्य् आद्य् उक्त-लक्षणं विश्व-रूपम् अपि प्रकाशते, यद् अपश्यद् यशोदा कृष्ण-मुखे । विश्व-रूपाध्यायो\ऽप्य् एतम् अर्थम् उपबृंहयति । तद् एतद् एव निर्वितर्कजं प्रत्यक्षं प्रकृत्योक्तं योगभाष्ये तत्-परं प्रत्यक्षं तच् च श्रुतानुमानयोर्बीजम् इति विश्व-रूपस्यापि तत्त्वं निर्विशेष-सन्मात्रम् । तद् एव चक्षुर् आदीनां प्रमेयम् इत्य् उक्तम् बुद्धीन्द्रिय-मनः-प्राणान् इत्य् अत्र । उपपद्यते चैतत् । यथा गो-पुराकारे मुकुरे दत्त-दृग् अपि तम् अतिस्वच्छत्वाद् अजानंस् तत्र प्रतिबिम्बितं पुरम् एव पश्यति यथा वा हिङ्गुला-रूढं स्फटिकं पश्यन्न् एव चिन्द्रिकायां नीलमणिम् इव सौरालोके पद्म-रागम् इव च मन्यते । एवं चक्षुः-सौक्ष्म्य-तारतम्यात्-प्रतिमादौ चेतनत्वम् अनन्तत्वं सन्-मात्रत्वं चास्मितापरपर्यायं गृहीत्वा विलीयते तद् एतत्-सम्यग्-दर्शनं श्रुत्याप्य् उक्तम्—
मानसे च वव्लीने तु यत्-सुखं स्वात्म-साक्षिकम् ।
तद्-ब्रह्म चामृतं शुक्रं सा गतिर्लोकः एव सः ॥ इति ।
सो\ऽवितर्क-क्रमो\ऽनलवत्-स्व-कृतानुकृतिर् इत्य् अस्य द्वितीय-व्याख्यानरीत्या कौलिक-न्यायेन बहुतर-महा-मुनि-महीकृतायां श्री-कण्ठ-श्री-नाथादि-प्रतिमायां प्रयुक्तः क्षिप्रं प्रसिद्ध्यति निबिडतरार्क-रश्म्यालम्बनस् त्वव्य् अवधानेन विश्व-रूपम् एव गोचरयन्न् आशुतर इति विवेकः । निर्विचार-वैशारद्य् अफलं सार्वज्यं पातञ्जले प्रोक्तम् । तत्-सर्वस्य कल्पितत्वं विना न सङ्गच्छते इत्य् उक्तं वेदान्तकतके—
अतीतान् आगतं वस्तु वीक्षते कर-बिल्ववत् ।
योगी सङ्कल्प-मात्रोत्थम् इति शास्त्रेषु डिण्डिमः ॥
मायायां सर्वदा सर्वं सर्वावस्थम् इदं जगत् ।
अस्तीति तद् उपाधिश् चित्-सार्वात्म्यात् सर्वम् ईक्षते ॥
आरम्भ-परिणामाभ्यां स्वेन रूपेण यन् न सत् ।
अतीतान् आगतं वस्तु योगी तद्-वीक्षतां कथम् ॥
सङ्कल्प-मात्र-भातं वस्त्वतीतादि यद् ईष्यते ।
नष्ट-स्त्री-दर्शनाभं तत्-स्याद्-योगि-ज्ञानम् अप्रभा ॥
योगि-सङ्कल्प-मात्रेण तस्योत्पत्तिर् यद् ईष्यते ।
ईश-सङ्कल्प-मात्रेण सर्वोत्पत्तिस् तद् एष्यताम् ॥
नारम्भे परिणामे वा दृष्टः कालाद्यति-क्रमः ।
कल्पनायां तु स स्पष्टः स्वप्न-माया-भ्रमादिषु ॥
तस्मान्न् आणुभिर् आरब्धं भित्तिवन्नापि गव्यवत् ।
प्रकृतेः परिणामो वा जगत्किं त्व् इन्द्र-जालवत् ॥ इति ।
उक्ता ग्राह्य-समापत्तिर् ईश्वर-प्रणिधान-रूपास्याः फलं व्याधि-दुःखाद्य् अन्तरायाभाव-पूर्विका आशुसमाधि-सिद्धिः । यतो भगवान् । पतञ्जलिः अधि-मात्र-श्रद्धाद्य् उपायोपेतानाम् अधिमात्र-वैराग्याद् आसन्नतमं समाधि-लाभम् उक्त्वासूत्रयत् ईश्वर-प्रणिधानाद् वा । इति । ततः प्रत्यक्-चेतनाधि-गमो\ऽप्य् अन्तरायाभावश् च । इति च । अन्तराया व्याधिदुःखादयः । निर्विचार-ग्राह्यं षष्ठ-श्रलोकोक्तरीत्या विलाप्य मनोमये समष्टौ चित्तं धारयतो मनोमयः प्राण-शरीरो भारूपः सत्य-सङ्कल्पः सर्व-कामः सर्व-गन्धः सर्व-रसः । इत्य् आदि-श्रुत्य् उक्त-सार्वज्ञं सत्य-सङ्कल्पत्वं चाविर्भवति तत्र कुतूहलितया मनसो विषय-विकल्पाभिमुख्ये सानन्दस् तद् अभावे सास्मितः सम्प्रज्ञातो भवति । त एते ग्रहण-गृहीतृसमापत्ती पूर्ववच्-छब्दाद् इविकल्प-सङ्कीर्णत्वासङ्कीर्णत्वाभ्यां प्रत्येकं द्विविधे । मनो महान्-मतिर् ब्रह्मा-पूर्बुद्धिः ख्यातिर् ईश्वर इत्य् अनयोर् एव नाम-द्वन्द्वानि । सो\ऽयम् अवान्तर-भेदाद् अष्ट-विधश् चतुर् विधः सूत्रितः । वितर्क-विचारानन्दास्मितारूपानुगमात्-सम्प्रज्ञातः । इति । अस्मितासमापत्तिर् एव शास्त्र-संस्कृतधियां तत्-त्वम् अस्यादि-वाक्योत्था ब्रह्म-विद्याख्या चेतोवृत्तिः । अस्याः फलम्—
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [महो।उ ३.८२] इति ।
परो हिरण्य-गर्भः अवरे यस्मात् स परावर ईश्वरः । उपबृंहितश् चायम् अन्त्यः पाद एकादशे दृष्ट एवात्मनीश्वरे [भा।पु १०.२.२१] इति । हृदय-ग्रन्थि-भेदः सत्त्व-पुरुषान्यताख्यातिर् इत्य् अनर्थान्तरम् । विवेकख्यातेर् अपि परवैराग्य-बलान्-निरोधे दग्धेन्धनानलवद् उपशमे वा सति असम्प्राज्ञातो धर्मम् एधाख्यः समाधिर् भवति । यम् अपेक्ष्य श्रूयते—
यत्र त्वस्य सर्वम् आत्मैवाभूत्-तत्-केन कं पश्येत् । यत्र नान्यत्-पश्यति नान्यच्-छृणोति नान्यन्मनुते नान्यद्-विजानाति स भूमाथ यत्रान्यत्-पश्यत्यन्यच्-छृणोति अन्यन्म् अनुते अन्यद्-विजानाति तद् अल्पं यो वै भूमा तत्-सुखं नाल्पे सुखम् अस्ति ॥ इति ।
तावन्-मनो निरोद्धव्यं हृदि यावत्-क्षयं गतम् ।
एतद् ज्ञानं च ध्यानं च शेषो\ऽन्यो ग्रन्थ-विस्तरः ॥
स्मर्यते च वशिष्ठेन निर्विकल्प-समाधिर्हि सिद्धान्तः सर्व-वाङ्मये । इति । यं चासूत्रयत् प्रसङ्ख्याने\ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्मम् एधः समाधिः । प्रसङ्ख्याने\ऽस्मितान्त-ध्यान-फले ऋतम्भर-प्रत्यक्षादावभिलाष-शून्यस्य सर्वथा विवेक-ख्यातिर् एव भवति । तत्-फले\ऽपि सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्वाज्ञातृत्वं चेति सूत्रिते विरक्तस्य धर्मम् एधो भवतीत्य् अर्थः । तत्-त्वं चास्य क्षणम् एकं क्रतुशतस्य चतुःसप्तत्या यत्-फलं तद् अवाप्नोति इति श्रुतेः एतत्-समापत्ति-पञ्चकम् । यच्-छेद्-वाङ्-मनसी इति । श्रुत्या वाङ्-मनो-ज्ञान-महच्-छान्त-शब्दैर् उपात्तं वाचं बाह्येन्द्रियं स्वविषये निरुध्य जित्वा स्वकारणे मनसि प्रविलापयेद् इति यच्-छेद् इत्य् अस्यार्थः । एवम् उत्तरत्र शान्तावधि यच्छेत् । अत्रापि विशेषाविशेष-लिङ्ग-मात्रालिङ्गानि गुण-पर्वाणि । तत्र वितर्कालम्बनाद्-विशेषाद्-विचारानन्दालम्बनम् अविशेषं प्रतिविवक्षतो योगिनो दैनन्दिनलयाभ्यासान्-मनो लीयते प्रविष्ट-मात्रं वा रजः-प्राबल्यात्-पूर्वां भूमिम् उत्सर्पति सर्व-क्षेपः तावेतौ लय-विक्षेपौ हेयतया श्रूयेते—
लय-विक्षेप-रहितं मनः कृत्वा सुनिश् चलम् ।
यदा यात्यमनीभावं तदा तत्-परमं पदम् ॥ इति ।
एवम् अविशेषाद् अस्मितालम्बनं लिङ्ग-मात्रं प्रविविक्षतस् ततः पुरुषं च प्रविविक्षतो लय-विक्षेपौ स्तः । तेष्वाद्यो लीनो मूढ एव । द्वितीय-तृतीयौ क्रमाद्-विदेह-प्रकृतिलयान्-वर्थ-सञ्ज्ञौ क्रम-मुक्ति-भाजौ । एतयोर् अवान्तर-भेद-कल्पनया फल-भेदः स्मर्यते वायु-पुराणे—
दश मन्वन्तराणीह तिष्ठन्तीन्द्रिय-चिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दश-सहस्राणि तिष्ठन्ति विगत-ज्वराः ।
पूर्णं शत-सहस्रं तु तिष्ठन्त्य् अव्यक्त-चिन्तकाः ॥
पुरुषं निर्गुणं प्राप्य काल-सङ्ख्या न विद्यते॥ इति ।
सूत्रं च—भव-प्रत्ययोविदेह-प्रकृतिलयानाम् । इति । एषाम् असम्प्रज्ञातो लय-रूपत्वाद्-भव-प्रत्ययो जन्म-हेतुर् इति सूत्रार्थः । असम्प्रज्ञातावस्थायां योगी जीवन्-मुक्त इत्य् उच्यते । यां प्रकृत्योक्तं योग-भाष्ये अस्याम् अवस्थायाम् ईश्वरस्यान् ईश्वरस्य विवेक-ज्ञानवतो\ऽन्यस्य वा कैवल्यं सिद्धम् इति । सो\ऽयं योगी व्यवस्थः । यः स्वतो व्युत्तिष्ठति स विद्वदव्रः । यः परतः स विद्वद्-वरीयान् । यो नोभयतः स विद्वद्-वरिष्ठः । इमं प्रकृत्योक्तं देहं विनश्वरम् अवस्थितम् उत्थितं वा सिद्धो न पश्यति यतो\ऽध्यगमत्-स्वरूपम् । इति । वासिष्ठे सप्त योग-भूमयः उक्ताः—
ज्ञान-भूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनु-मानसा ॥
सत्त्वापत्तिश् चतुर्थी स्यात्-ततो\ऽसंसक्तिनामिका ।
पदार्थ-भावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ [महो।उ ४.२४-२५]इति
आस्वाद्या शास्त्रोक्ता धन-सम्पत् । द्वितीया श्रवण-मनने । यस्यां क्रमेण मीमांसा-तर्काव् उपक्षीणौ । तृतीया निदिध्यासनम् । यस्यां पातञ्जलं योग-शास्त्रं चरितार्थम् । चतुर्थी साक्षात्कारो, यस्यां ध्यायी विद्वान् इत्य् उच्यते । शेषा जीवन्-मुक्तेर् अवान्तर-भेदाः । यासु योगी क्रमेण विद्वद्वरादि-सञ्ज्ञां लभते । आसु विचार-णादार्ढ्ये क्षणिक-सत्त्वापत्त्यापि कृतार्थतास्तीति श्रवणादि-प्रणाली नेदीयसी इतरापि नित्योद्य् उक्तस्य शीघ्रम् एव सिद्ध्यति नान्यस्येति श्रूयते—
षड्भिर् मासैस्तु युक्तस्य नित्य-युक्तस्य देहिनः ।
आनन्दः परमो गुह्यः सम्यग्-योगः प्रवर्तते ॥
रजस् तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः ।
पुत्र-दार-कुटुम्बेषु सक्तस्य न कदाचन ॥
अथेदानीं ज्ञानोपसर्गाः राजन् इत्य् उपक्रम्य—
अथ ये चान्ये ह नित्य-प्रमुदिता नित्य-प्रवासिता नित्य-याजनका नित्य-शृपोपजीविनो\ऽथ ये चान्ये ह पुरयाचका अज्याज्य-याजकाः शूद्रशिष्याः शूद्राश् च शास्त्र-विद्वांसो\ऽथ ये चान्ये ह यक्ष-राक्षस-भूत-गण-पिशाचोरगग्रहादीनाम् अर्थं पुरस्कृत्य
श्रमयाम इत्य् एवं ब्रुवाणा अथ ये चान्ये चाट-जट-नट-भट-प्रव्रजित-रङ्गाद् अतारिणो राजकर्मणि पतितादयो\ऽथ ये चान्ये ह वृथा-तर्क-दृष्टान्त-कुहकेन्द्र-जालैर् वैदिकेषु परिष्ठातुम् इच्छन्ति तैः सह न संवसेत् । बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमाम् अविद्याम् असृजत् । तया शिवम् अशिवम् इत्य् उपदिशन्त्य् अशिवम् इति वेदादि-शास्त्रं हिंसा-धर्माभिधानं मास्त्व् इति वदन्तः । इत्य् आदि ।
एवं चात्र नये विमुखा इत्य् अशास्त्र-ज्ञानां पुनन्तीति गुर्वनुग्रहः उक्तः । त्वयि **कृत-सौहृदा इति । ग्राह्य-समापत्तिः परिवयसे पशून् इति ग्राह्यैश्वर्यम् । अखिल-सत्त्व-निकेततयेति । ग्रहण-**गृहीतृसमापत्ती । निरृतेर् इति । द्वितीयाद्वै भयं भवति [तै।उ१.४.२]इति श्रुतेर् भय-हेतुर् द्वैतम् । अविगणय्येति । ब्रह्म-लोकान्ते यत्र वैराग्यम् आक्रमन्तीति । तद् अतिक्रमेण भूम-ब्रह्म-स्थितिः । इत्य् एते अर्थाः दर्शितह् । विस्तर-भयात्तु नातिप्रपञ्चिताः ॥२७॥
प्रबोधानन्द-सरस्वती : २७। श्रुति-रूपा आहुः—ये तव त्वां परिचरन्ति अखिलं पूर्णं सत्त्वं भगवद्-भक्तत्वं यत्र राधानुरागिण्येव कृष्ण-चन्द्रे या शुद्धा रतिः सैव सर्व-भक्ति-रसेभ्य उत्कृष्ठा यतो\ऽखिलस्य सत्वं यत्रेति वा । सत्त्वम् उत्कृष्टत्वं ते निरृतेर् ज्ञान-मार्गस्य ज्ञान-मिश्रित-भक्ति-मार्गस्य वा शिरः पदा आक्रमन्ति अखिलं सत्त्वतया निरृतेर् इति वा । तान् विविधान् अपि त्वं पशूनि परिवयसे सप्रेम-बद्धान् करोषीत्य् अर्थः । गिरा गृणाति मोहन-शब्दं करोतीति गीर्वंशी तथा शक्रशर्व-परमेष्ठि-पुरोगपः [भा। १०.३५.१५] इत्य् उक्तेः त्वत्-प्रेम-विवशानां गिरा कीर्तनेन वा । तत्र हेतुः—त्वयि कृत-सौहृदास् त्वयि कृत-प्रेमाणः खलु निश् चयेन पुनन्ति विशुद्ध-भाव-प्रतिबन्धकाघनाशनम् एव परित्रीकरणम् यान् ब्रह्मशो रमा देवी दधुर् मूर्ध्न्यघनुत्तये [भा। १०.३०.२६] अघं तद् एव । येन भाग्य-विशेषेण त्वयि शुद्धानुरागो न जायत इति ये त्वद्-विमुखास्ते न पुनन्ति । त्वद्-भाव-निष्ठ-सङ्गादि-महिम्ना ज्ञान-निष्ठ-ज्ञान-मिश्र-भक्ति-निष्ठा अपि शुद्ध-प्रेम-रस-वर्त्मनि प्रविशन्तीति भावः ।
नित्य-गोप्यस्तु आहुः—अखिलेभ्यः सत्त्वम् उत्कृष्टत्वं नयति प्रापयति कमेकान्त-सख्य-सुखं यस्यास्तया इततया सङ्गततया ये त्वां परिचरन्ति नहि राधैकान्त-भक्तयस् त्वाम् अपि स्वातन्त्र्येण सेवन्ते ते च राधा-परिजना निःशेषेण निश् चयेन ऋतिः त्वत्-प्राप्तिर् यस्य गोप्यादेस् तस्यापि शिरः पदा आक्रमन्ति अविगणय अवहेलया अतिसौभाग्य-भरेणान्यान् त्वद् अनुरागिणस् तुच्छयन्तीत्य् अर्थः । यद् वा, ये राधा-शरणागततया तव परिमनोरथपूरके प्रीति-कर्तरि वृन्दावने चरन्ति वर्तन्ते ते निरृतेस् तवापि शिरः पदा आक्रमन्ति निर्गता ऋती राधायाः प्राप्तिर् यस्य राधाया अप्राप्ति [दशायां]{।मर्क्} कामानुरततया तद् अन्य-भावानां परिजनानाम् अपि त्वं राधा-प्रसादनाय पदे लुठच्छिखण्डम् उकुटो भवसीत्य् अर्थः । तांश् चित्त्वं पशून् अपि परितो वयसे गच्छसि सङ्गता भवसि गिरा मधुर-मधुरानुनय-वाचा देवानिव विज्ञतरान् इवेति वा अत्यन्ताभ्यर्हनां करोषीत्य् अर्थः । राधा-प्रिय-सख्य-रस-संतृप्तानां निष्ठाम् आहुः—कृत-सौहृदाः सुहृदो राधाया इदं सौहृदम् कृतं राधाया एव त्वन्-मिलनादि याभिस्ताः त्वयि नये\ऽपि क्रीडार्थं कुञ्जान्तर्वलान्नयत्य् अपि विमुखास् त्वत्-सङ्गे विमुखाः राधया सह त्वत्-सङ्गम् एव बहुमन्यमानाः पुनन्ति श्री-राधानुगतिं शोधयन्ति—कृष्ण-सङ्गेच्छाया अपि त्यक्तत्वात् । अन्यासाम् अपि निष्ठां तादृशीं शिक्षयन्त्यः शोधयन्ति ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तदीयस्य सत्यत्वम् उक्त्वा त्वदीयतायाश् च एकान्त-भक्त-परत्वे प्रतिपादिते त्वद्-भजनम् एव सर्वोत्तमम् इति पुनर् भजनम् एवाभिनन्दन्ति—तव परीत्यादि । ये तव चरणारविन्दं परिचरन्ति, परि ये इति यच्-छब्दस्य व्यवधानं छान्दसम् । परि ये चरन्ति ध्यायन्तीत्यादि प्राग् अपि दृष्टम् । तवेति कर्मणि वा षष्ठी । ते उत निश्चितम् अखिल-सत्त्व-निकेततया सर्व-प्राणिनाम् आश्रय-रूपतया विशिष्टा अविगणय्य अविचारेणैव निरृतेर् मृत्योः शिरः पदा आक्रमन्ति, ये पुनर् न भजन्ति, त्वयि विमुखास् तान् विबुधान् अपि गिरा—स्वर्ग-कामोऽग्निष्टोमेन यजेत् इत्य् आदिक-मद्-विधैकतमया रज्जू-रूपया वाचा परिवयसे बध्नासि । वेञ् तन्तु-सन्ताने । पशून् इव पशवो यथा रज्ज्वा बध्यन्ते । अतस् त्वयि कृत-सौहृदा एव पुनन्ति पवित्रयन्ति, न ये विमुखाः । नेतरे ये पुनर् विमुखास् तेषां गतिर् उक्तैव । अथवा ये विमुखास् तान् त्वयि कृत-सौहृदा अपि न पुनन्ति, गिरा पशून् इव, त्वम् अपि परिवयसे विबुधान् देवान् अपीत्य् अन्वयः ॥२७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अखिल-सत्त्व-निकेततया सकल-**सत्त्व-**गुण-नियामकतया पुरुषावतारो यः स्थितिकर्ता विष्णुस् तत्तयेत्य् अर्थः । परिचरन्ति भजन्ति अत अपि, ते\ऽपि आक्रमन्ति, किं पुनर् वृन्दावनादि-विहारि-श्री-कृष्ण-रूपत्वेन ये परिचरन्ति, ते मृत्युम् आक्रामन्तीति । तत्राविगणयेति तस्यानायास-सिद्धत्वेनानु-षङ्गिकत्वम् अभिप्रेतम् । तान्-कर्मण्य् एव पुरुषार्थ-बुद्ध्या त्वय्य् अभक्तान् । गिरा विधि-निषेध-लक्षणया वाक्तव्या । परिवयसे । विबुधान् अपि सुबुद्धीन् अपि, अनेन भक्तानां विधि—निषेधाधीनत्वं निरस्तम् । यद् वा, त्वयि कृत-सौहृदास्तु पुनन्ति, ये तु विमुखास्ते न पुनन्ति । यतस् तान् परिवयस इति योग्यम् योज्यम् । अतस्ते मुहुः संसार-दुःखं लभन्त इति भावः ।
अथवा पशून् इव पशुवद् अबुद्धान् मूर्खान् यान् गिरा परिवयसे कर्म-जडान् इत्य् अर्थः । तान् अपि त्वयि कृत-सौहृदाः पुनन्ति ॥
ननु कंसाद्-भयेन वने निलीय वसतो मे किम् इयम् अतिस्तुतिः क्रियते? इत्य् आशङ्क्य कंसात्ते भयं तावद्-दूरे\ऽस्तु, साधारणा अपि त्वत्-पाद-सेवका मृत्योर् अपि न बिभ्यतीत्य् आहुः—तवेति । हे अखिल-सत्त्व-निकेत! हे सम्पूर्ण-शुद्ध-सत्त्वाश्रय! तया प्रसिद्धया प्रत्प्रेयस्या सह त्वां ये ये केचिज्-जनाः परिचरन्ति, त उत ते\ऽपि मृत्योर् अपि न बिभ्यतीत्य् आहुः—तत्र को वराकस् त्वयि कंस इत्य् अर्थः ।
तर्हि स्वरूप-निष्ठाः किम् इति मां न भजेरन्? इत्य् अतः आहुः—परिवयस इति । गिरा मोक्षोत्कर्ष-प्रतिपादकवेद् अरूपया । तथा च वेदः येनाहं नामृतः स्यां किम् अहं तेन कुर्याम् [बृ। २.४.३]। इत्य् आदि । खलु निश्चितं त्वयि कृत-सौहृदाः पुलिन्दीप्रभृतयो\ऽपि भुवनानि पुनन्ति ।
ये तु विमुखा याज्ञिकविप्रादयस्ते नात्मानम् अपीत्य् अर्थः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव परीत्य् अस्य टीकायां श्रुति-व्याख्या नेहेति पूर्वं मनसैवानुद्रष्टव्यम् इत्य् उक्तं तत्राहुः—दर्शन-विषये ब्रह्मणि नाना नास्ति किञ्चन किञ्चिद् अपीत्य् अर्थः । वाक्तन्तीति तन्ती रज्जुः वाग् एव तन्तिर् इव तन्तिः तत्-संयुक्तानि नामानि दामानीव सितम् अमुकस्त्वम् एवं करिष्यस्यसीत्याज्ञया बद्धम् इत्य् अर्थः । देहान्त इति य इह स्थातुम् अपेक्षते सर्व-इश्वर्यं ददाति । यत्र कुत्रापि म्रियेत देहान्ते देवः परं ब्रह्म-तारकं व्याचष्टे । येनामृतीभूत्वा सो\ऽमृतत्वं गच्छतीति श्री-नृसिंह-तापन्यां ह्य् उक्तम् । अथ स्व-व्याख्या । काश्चिद् अन्या भक्ति-पराः श्रुतय आहुः—किं तेन कृच्छ्र-साध्येन त्वत्-प्रेम-शून्येन ज्ञानेन तत्-फल-भूतं परम-प्रेममयं त्वत्-परिचरणम् एव श्रेयो यतस् तत्रेति अखिल-सत्त्व-निकेततया सर्वाश्रयतया सर्व-गुणाकार-खण्ड-शुद्ध-सत्त्वाश्रयतया वा सर्वान्तः-करणाभिनिवेशात्मतया वा हेतुना ततः परम-प्रेम्ण कृतत्वात्-तद् एव तेषां यद्यपि परम-पुरुषार्थस् तथाप्य् अपवर्गश् चानुषङ्गिकतया त्वत्-प्रसादेन निर्विरोध एव स्यात् । पूर्वोक्त-ज्ञान-साधकानां तु त्वन्-माया-मय-विधि-निषेध-लक्षण-गिरा स्वाभाविक-बन्धो नापयात्य् एवेत्य् आहुः—त उतेति पदद्वयेन । उतापि ते मृत्योः शिरो\ऽप्य् अविगणय अननुसन्धायैव पदाक्रमन्ति मुच्यन्ते इत्य् अर्थः । विबुधान् अपि श्रुति-निर्णीत-पूर्वोक्त-ज्ञानान् अपि तान्-परिवयसे यतस् त्वयि कृतं सौहृदं तादृश-प्रेम-सेवेच्छा तद्-युक्ता एवात्मानं परं च पुनन्ति न तु ये ततो विमुखास्त इति । तद् उक्तम् श्रेयः-स्रुतिं भक्तिम् उदस्य इत्य् आदिना । श्रुतयश् च–जुष्टं यदा पश्यत्यन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः । [श्वे।उ ४.७]
ऋचो अक्षरे परमे व्योमन् यस्मिन्-देवा अधिविश्वे निषेदुः ।
यस् तं न वेद किम् ऋचा करिष्यति य इत्तद्-विदुस्त इमे समासते ॥ [श्वे।उ ४.८] इत्य् आद्याः ।
जुष्टं प्रीत्या सेव्यमानं सन्तं पश्यति तदास्य महिमानं च पश्यत्यनुभवति इत्य् अनेन प्रकारेण वीतशोको भवति । कुत्र । परमे व्योमन् परमव्योमाभिधे महावैकुण्ठे । कीदृशे\ऽक्षरे नित्यरूपे । यत ऋच इति । ऋचः सम्बन्धिनि तत्प्रतिपाद्य इत्य् अर्थः । यस्मिन् परमव्योमनि देवाः पार्षदादयः विश्वे सर्वे\ऽधिनिषेदुरधिरूढा इत्य् अर्थः । अग्रे च जुष्टत्वम् एव दर्शयति—
यो देवानाम् अधिपो यस्मिंल् लोका अधिश्रिताः ।
य ईशे अस्य द्विपदश् चतुष्पदस् तस्मै देवाय हविषा विधेम ॥ [तै।उ ३.१.१३] इति ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् छ्रुत्वा काश्चिद् अन्या भक्ति-पराः श्रुतयः प्राहुः—किं तेन कृच्छ्र-साध्येन त्वत्-प्रेम-शून्येन ज्ञानेन ? तत्-फल-भूतं परम-प्रेम-मयं त्वत्-परिचरणम् एव श्रेयः । यतस् तव परिचरन्तीति ॥२७॥
[श्रुतयश् च—]{।मर्क्}
[जुष्टं यदा पश्यत्य् अन्यम् ईशं]{।मर्क्}
[अस्य महिमानम् इति वीत-शोकः ॥ [श्वे।उ। ४.७]]{।मर्क्}
[ऋचोऽक्षरे परमे व्योमन्]{।मर्क्}
[यस्मिन् देवा अधिविश्वे निषेदुः ।]{।मर्क्}
[यस् तं न वेद किम् ऋचा करिष्यति]{।मर्क्}
[य इत्तद् विदुस् त इमे समासते ॥ [श्वे।उ। ४.८] इत्य् आद्याः ।]{।मर्क्}
[अन्यं स्वस्माज् जीवान् महा—विलक्षणम् । जुष्टं प्रीत्या सेवमानम् ईशं यदा पश्यति, तदास्य महिमानं च पश्यत्य् अनुभवतीत्य् अनेन प्रकारेण वीत-शोको भवति । कुत्र ? परमे व्योमन्—पर-व्योमाभिधे महा—वैकुण्ठे । कीदृशे ? अक्षरे नित्य-रूपे । यद् ऋच इति ऋक्-सम्बन्धिनि तत्-प्रतिपाद्ये इत्य् अर्थः । यस्मिन् पर-व्योम्नि देवाः पार्षद् आदयः । इत् इत्थम् इति श्रुति-पदस्यार्थः । अग्रे च जुष्टत्वम् एव दर्शयति—]{।मर्क्}
[यो देवानाम् अधिपो]{।मर्क्}
[यस्मिन् लोका अधिश्रिताः ।]{।मर्क्}
[य ईशे अस्य द्विपदश् चतुष्पदः]{।मर्क्}
[कस्मै देवाय हविषा विधेम ॥ [श्वे।उ। ४.१३] इति ॥२७॥]{।मर्क्} अतिरिक्तः शॢओकाः
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वदीयस्य सत्यत्वम् उक्त्वा त्वदीयताया एकान्त-भक्त-परत्वे प्रतिपादिते त्वद्-भजनम् एव सर्वोत्तमम् इति निर्णीय पुनर् भजनम् एवाभिनन्दन्त्य आहुः—तव परीत्यादि । तव चरणारविन्दं ये परिचरन्ति, तवेति द्वितीयार्थे षष्ठी । ते उत निश्चितम् । अखिल-सत्त्व-निकेततया अखिल-प्राण्य् आश्रयतया विशिष्टाः सन्तः, विशेषेण तृतीया । तेऽविगणय्य अविचारेणैव निरृतेर् मृत्योः शिरः पदाक्रमन्ति । ये पुनर् न भजन्ति, त्वयि विमुखाः, तान् विबुधान् अपि देवान् अपि, किं पुनर् मनुजान्, गिरा स्वर्ग-कामोऽग्निष्टोमेन यजेत् इत्य् आदिकया वेद-रूपया वाचा परिवयसे सर्वतो-भावेन बध्नाति । वेत्र-तन्तु-सन्ताने । पशून् इव पशवो यथा पाशेन बध्यन्ते । त्वयि कृत-सौहृदास् तु खलु निश्चितं पुनन्ति, परान् अपि पवित्रयन्ति । भजन्तस् तु मृत्यु-शिर आक्रमन्ति, कृत-प्रेमाणस् तु सर्वान् एव पवित्रयन्ति । ननु तर्ह्य् अभजतोऽपि पवित्रयेयुः ? नेत्य् आहुः—न, ये विमुखाः, ये त्वयि विमुखास् तान् तेऽपि न पवित्र्यन्तिईत्य् अर्थः ॥२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पूर्वस्मिन् श्लोक-द्वये परम-पुरुषार्थ-निरूपणम् अधिकृत्य असद् उत्पत्ति-वादिनः, सद्-विनाश-वादिनः, सगुणत्व-भेद-वादिनः विपण-वादिनः, विवर्त-वादिन इत्य् एवं पञ्च-वादिन उक्ताः । अत्र श्लोके तु परिचर्या-वादिन उच्यन्ते । एषां वैष्णवानां मते जिवाः खलु चित्-कणः अल्पज्ञः अल्प-व्यापी अस्वतन्त्रो निर्गुण एव । तस्य संसार-दुःख-निवृत्तये भगवत्-प्राप्तये च भक्तिर् एव घटते, न त्व् अन्यो ज्ञानादिकः कोऽप्य् उपायः—
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४] इति ।
भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति च भगवद् उक्तेस् तद्-भक्तिर् एवोपायो दुरवगमात्मेत्य् आद्य् अस्मद् उक्तेश् च सैवोपायः परम-पुरुषार्थ इति वैष्णव-मतस्यैव सर्व-मतेषु मध्ये श्रेष्ठत्वं प्रतिपाद्यन्तियोवैष्णवान् एवोत्कर्षयन्त्योऽन्यान् सर्वान् एव वादिन आक्षिपन्ति—तवेति ।
तव इति द्वितीयार्थे षष्ठी । त्वां ये परिचरन्ति । छन्दसि व्यवहिताश् च [पा। १.४.८१-८२] इति यच्-छब्देन व्यवधानम् अदोषः । अखिलानां लोकानां सत्त्वं सत्यत्वम् एव निकेत आश्रयो येषां तेऽखिल-सत्त्व-निकेताः**,** तेषां भावस् तत्ता, तयोपलक्षिताः सत्यं ह्य् एवेदंविश्वम् असृजत इति माध्व-भाष्य-प्रमाणित-श्रुतेः । प्रधान-पुम्भ्यां नर-देव सत्य-कृत् [भा।पु। ७.१.११] इति सप्तमोक्तेश् च द्वैत-प्रपञ्चस्य सत्यत्वम् इति मतम् आश्रित्य वर्तमाना इत्य् अर्थः । श्लेषेण खिलं निकृष्टम् अशुद्धम् अखिलं श्रेष्ठं शुद्धं यत् सत्त्वं तद् एव निकेतो विशेष्कृतादि-धाम यस्य तत्तयोपलक्षितं त्वाम् इत्य् अर्थः । ते उत ते एव अविगणय्य तिरस्-कृत्य निरृतेर् मृत्योः शिरः पदा स्व-पादेन आक्रमन्ति, अवहेला-मात्रेणैव संसारं तरन्तीत्य् अर्थः ।
ननु पूर्वे वादिनोऽपि श्रुत्य् उक्त-ज्ञानाद्य् उपायेन तरन्त्य् एव तत्र नेत्य् आहुः—परिवयसे इति । गिरा तत्-तन्-मत-प्रतिपादिकया वेद-वाचैव, असतो मनोऽधिसृज्यत, मनः प्रजापतिम् असृजत् इत्य् आदिकया रज्ज्वा तान् विशिष्ट-बुधान् दार्शनिकान् अपि पशून् इव बध्नासि, न च सोपपत्तिकं वक्तुम् अपारयन्त्यो वैष्णवा एव न ज्ञानवन्त इति वाच्यम्
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे। ६.२३]
इति श्रुतेस् त एव सम्यग् ज्ञानवन्तो ज्ञेयाः । तस्मात् त्वयि कृतं सौहृदं प्रेम यैस् ते खलु निश्चितं पुनन्ति, स्वयं पूताः अन्यान् अपि स्वोपदेश्यान् पवित्रयन्तीत्य् अर्थः ।
ये विमुखा अभक्तास् ते तु नात्र,
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [गो।ता।उ।१.२०]
जुष्टं यदा पश्यत्य् अन्यम् ईशं
अस्य महिमानम् इति वीत-शोकः ॥ [श्वे।उ। ४.७]
ऋचोऽक्षरे परमे व्योमन्
यस्मिन् देवा अधिविश्वे निषेदुः । [श्वे।उ। ४.८] इत्य् आद्याः ।
अर्थश् च—यदा स्वेन जुष्टं प्रीत्या सेव्यमानं पश्यति, तदास्य महिमानं च पश्यत्य् अनुभवतीति । अनेन प्रकारेण वीत-शोको जित-मृत्युर् भवति । कुत्र परमे व्योमन् परम-व्योमाभिधे महा—विशेष्कृते अक्षरे नित्य-रूपे ऋच इति ऋचः-सम्बन्धिनि तत्-प्रतिपाद्य इत्य् अर्थः । यस्मिन् देवाः पार्षदा विश्वे सर्वे अधिनिषेदुर् अधिरूढाः ॥२७॥
॥ १०.८७.२८ ॥
त्वम् अकरणः स्वराड् अखिल-कारक-शक्ति-धरस्
तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः ।
वर्ष-भुजोऽखिल-क्षिति-पतेर् इव विश्व-सृजो
विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यद्य् अखिल-सत्त्व निकेतनत्वेन भवतः सेव्यत्वम् उच्यते, तर्हि तत्-करण-सम्बन्धात् कर्तृ-भोक्तृत्वे प्रसज्येयाताम्, न वस्तुतः । तथा त्वम् इति चेत् तर्हि जीवानाम् अपि तत्-तुल्यत्वम् इति केन विशेषेण पुनः सेव्य-सेवकत्वम् ? इतीमाम् आशङ्कां परिहरन्त्यः,
अपाणि-पादो जवनो ग्रहीता
पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
स वेत्ति वेद्यं न च तस्य वेत्ता
तम् आहुर् अग्र्यं पुरुषं पुराणम् ॥ [श्वे।उ। ३.१९]
इत्य् आद्याः श्रुतयः स्तुवन्तीत्य् आहुः—त्वम् अकरण इति । करण-सम्बन्ध-रहित एवाखिल-कारक-शक्ति-धरः अखिलानां प्राणिनां यानि कारकाणीन्द्रियाणि, तेषां शक्तीर् धारयति प्रवर्तयतीति तथा । कुतः? स्वराट्, यतः स्वेनैव राजसे दीप्यसे । न हि स्वतः-सिद्ध-ज्ञान-शक्तेर् इन्द्रियापेक्षेत्य् अर्थः । अतस् तव बलिम् उद्वहन्ति, पूजां कुर्वन्ति । अजया अविद्यया सहितास् तया वृता इत्य् अर्थः । अनिमिषा देवा इन्द्रादयः, तत्-पूज्या विश्व-सृजो ब्रह्मादयोऽपि । यथा स-स्त्रीका एव किङ्कराः स्वामिनं सेवन्ते, तथाविद्या-युक्ता देवादयस् त्वाम् इति लोकोक्तिः। समदन्ति च मनुष्यैर् दत्तं हव्य-कव्यादि-लक्षणं बलिं भक्षयन्ति ।
अत्र दृष्टान्तः—वर्ष-भूजोऽखिल-क्ष्इति**-पतेर्** इवेति । यथा वर्ष-भुजः खण्ड-मण्डल-पतयोऽखिल-क्ष्इति**-पतेर्** महा—मण्डलेश्वरस्य स्व-प्रजाद् अत्त-बलि-भुजो बलिम् उद्वहन्ति तद्वद् इति ।
कथं बलिं वहन्ति ? तद् आह—विदधति यत्र ये त्व् अधिकृता भवतश् चकिता इति । त्वत्तो भीताः सन्तो यस्मिन् कर्मणि नियुक्ताः, ते तत् कुर्वन्तीति । त्वद् आज्ञा-पालनम् एव बल्य् उद्वहनम् इत्य् अर्थः । तथा च श्रुतिः,
भीषास्माद् वातः पवते भीषोदेति सूर्यः ।
भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति ।
अनिन्द्रियोऽपि यो देवः सर्व-कारक-शक्ति-धृक् ।
सर्व-ज्ञः सर्व-कर्ता च सर्व-सेव्यं नमामि तम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । तत्-तत्-करण-सम्बन्धात् तद्-देहेन्द्रिय-संयोगात् ब्रह्मणोऽहं पश्यामि तीर्थम् इत्य् आदि-प्रतीतेस् तीर्थ-दर्शने कर्तृत्वं तज्-जन्य-फल-भोक्तृत्वं च प्रसक्तम् एवात्मनीति चेद् आह—न वस्तुत इति । तथात्वं तत्-तत्-करण-सम्बन्धत्वम् आत्मनः, असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ ४.३.१५]इत्य् आत्मनोऽसङ्गत्वाद् एवं चेज् जीवस्यात्मत्वाविशेषात् परमात्म-साम्यैवेत्य् एवं-रूपाम् आशङ्कां परिहरन्त्यः, अपाणि-पादः [श्वे।उ। ३.१९] इत्य् आद्याः । तासाम् अर्थस् तु सुगमः । अकरणेऽपाणि-पाद इत्य् आद्याः । अखिल-कारक-शक्ति-धरत्वं तु,
प्राणस्य प्राणम् उत चक्षुषश् चक्षुर्
उत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुस्
ते निविचिक्युर् ब्रह्म पुराणम् अग्र्यं [बृ।आ।उ। ४.४.१८] इति ।
पुरुषस्यातर्क्य-शक्ति-परेयम् । कारण-सम्बन्ध इन्द्रिय-सम्बन्धस् तेन रहितः । इन्द्रियाणि श्रोत्रादीनि । तेषां शक्तीः शब्द-ग्रहाद्याः । अत्र हेतुम् आशङ्कते—कुत इति । इत्य् अर्थ इति—स्व-प्रकाशस्य प्रकाशकान्तरापेक्षणे स्व-प्रकाशत्वम् एव न स्याद् इति भावः । करणं कारकं चेमे इन्द्रियेऽपि स्मृते पदे इति निरुक्तिः । यतः स्वराड् अतो हेतुओः । इत्य् अर्थ इति—अविद्वद् अधिकारित्वात् कर्म-मार्गस्येति भावः । अत्र साविद्य-देव-कर्तृक-भगवत्-सम्प्रदानक-बलौ तद्वत् त्वाम् अनिमिषा इत्य् अर्थः । इत्य् अर्थ इति—
एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ ।
यद् आदरेण ग्रहणम् आज्ञायाः
इत्य् आद्य् उक्त-न्यायेन मुख्य-सेवनम् आज्ञा-धारणम् एवेति भावः । अत्र प्रमाणम्—तथा चेति । भीषा इति । अस्माद् ईश्वराद् भीषा भीत्या पवते वातीत्य् अर्थः । धावति स्व-काल-वशं प्राप्तान् एव प्राणिनो नयन् सर्वत्र चरतीत्य् अर्थः । यद्यपीह पञ्चानां ग्रहणं तथापि तदादि-न्यायेन ब्रह्मादीनाम् अपि ग्रहणं ज्ञेयम् । सर्वेश्वरत्व-कथन-परेयम् । स्वामि-श्लोकः स्पष्टार्थः ॥
———————————————————————————————————————
श्रीधरानुयायिनीः : ननु सर्वान्तर्यामित्वे तत्-तज्-जीवेन्द्रिय-सम्बन्धेनेश्वरे कर्तृत्व-भोक्तृत्वापत्त्या तस्यावास्तवत्वे जीवेऽपि तथात्वम् एवेति जीव-साम्याद् असेव्यत्वम् आशङ्क्याहुः—त्वम् इति । यस्मात् स्व-प्रकाशत्वेनेन्द्रियानपेक्षतयेन्द्रिय-सम्बन्ध-रहितोऽपि सर्व-जीवेन्द्रिय-प्रवर्तकोऽसि, तस्माद् अविद्यया वृता इन्द्राद्या देवास् तत्-पूज्या ब्रह्मादयश् च त्वां स-स्त्रीकाः सेवकाः स्वामिनम् इव सेवन्ते । यथा खण्ड-मण्डलेश्वराः स्व-स्व-प्रजा-दत्तं बलिं चक्रवर्तिने निवेद्यैव तद् आज्ञया यत् किञ्चित् स्वयम् अपि गृह्णन्ति, तथा यथा कर्मणीन्द्रादयस् त्वया यथा नियुक्तास् ते त्वत्तो भीताः सन्तस् तथैव तत् कुर्वन्तीति त्वद् आज्ञां पालयन्तो यज्ञादौ मनुष्यैर् दत्तं हव्य-कव्यादि-रूपं बलिं त्वयि निवेद्यैव स्वयम् अपि भक्षयन्ति ।
यद् वा, त्वम् अकरणः असाधारणं कारणं करणम् । यथा च—घटादौ दण्ड-चक्रादि । सृष्ट्य् आदौ करणानपेक्षोऽसीत्य् अर्थः । न तु सर्व-सौन्दर्य-हानि-कारक-कर-नेत्राद्य् अभाववान् इत्य् अर्थः । अन्यथा परम-सुन्दर-श्री-कृष्ण-मूर्ति-ध्यानम् असङ्गतं स्यात् । करणानपेक्षत्वे हेतुम् आह—अखिलेत्य् आदि । अखिलानां कारकाणां ब्रह्मादीनां शक्तीर् धारयसीत्य् अर्थः । अनेन ब्रह्मादिभिर् विनापि तदीय-सर्व-व्यापार-साधन-सामर्थ्यम् एकस्मिन्न् एव त्वयीति सूचितम् । सृष्ट्य् आदौ तेषां प्रवृत्तिश् च केवलं त्वत्-कृपयैवेत्य् आशयः । अत एवाजया श्री-राधया श्री-रुक्मिण्या वा सह सिंहासने स्थितस्य तवाग्रे महिष्या सह सार्व-भौमस्याग्रे मण्डलेश्वरा इव ब्रह्मादयो भीताः सन्तो बलिम् उद्वहन्ति, स्वयं च तद्-दत्तम् अदन्तीत्य् अर्थः ।
अथवा नन्व् एवं मम माहात्म्यं व्यर्थं कथम् उच्यते ? यतोऽहं नन्दात्मजः कंस-कर-प्रदोऽस्मीति चेत्, तत्राहुः—हे अखिल-कारक ! अखिलं विश्वं ब्रह्मादि-द्वारा कारयसीति तथा तत्-सम्बोधनम् इदम् । अत एव त्वम् अकरणः स्वयं सृष्ट्यादि-श्रमं न करोषि, यतस् त्वं शक्ति-धरः, शक्तिं सामर्थ्यम् अव्याहताज्ञां वा धारयसि । अत एव स्वराट् सकल-चक्रवर्ति-शिरोमणिस् त्वम् एवासि । अत एव यत्र कर्माणि ये यथा कृतास् ते विश्वसृजो ब्रह्मादयोऽपि त्वद् आज्ञप्त-कार्यान्यथा-भाव-भयान् निमेष-रहिताश् चकिताश् च सन्तोऽजया स्वाव्विद्यया पत्न्या सहितास् तथैव त्वद् आज्ञां पालयन्तश् चक्रवर्तिनोऽग्रे **वर्ष-**भुज इव तवाग्रे बलिम् उद्वहन्ति । उत ऊर्ध्वं शिरसि कृत्वा वहन्ति प्रापयन्ति विष्टिं कुर्वन्तीति यावत् । ते च त्वद्-दत्तं विष्टि-वेतन-रूपं समदन्ति । लोके विष्टि-कर्तृभ्यो भोजनं दीयत एवेत्य् अर्थः । तथा च यस्य ब्रह्मादयो विष्टि-कर्तारस् तस्य कंसाय कर-दानम् अत्यन्तासम्भावितम् एवेत्य् आशयः ॥
नीलकण्ठी : एवं साङ्ख्य-योगाभ्यां शोधितौ तत्त्व-पदार्थावनूद्य तयोर् अभेदम् अभिधत्ते द्वाभ्याम्-त्वम् अकरण इति । हे भगवन् ! त्वम् अकरणः अनिन्द्रियो\ऽपि स्वराट् राजसे प्रकाशसे । अनिन्द्रियो\ऽपि स्वरूप-प्रकाशेनैव सर्वम् अवभासयसीत्य् अर्थः । तस्य भासा सर्वम् इदं विभाति
अपाणि-पादो जवनो ग्रहीता
पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥ [श्वे।उ ३.१९]। इति श्रुतिभ्याम् ।
यद् वा, न सन्ति करणानि सृष्टि-क्रियायां साधकतमानि मृद्-दण्डादि-स्थानीयानि यस्य सो\ऽकरणः । अत एव प्राक्सृष्टेः स्वेनैव एकाद्वितीयेन स्वरूपेण राजत इति स्वराट् आत्मा वा इदम् एक एवाग्र आसीत् [ऐत।उ १.१]। इत्य् आदि-श्रुतिभ्यः । एवं-विधो\ऽप्य् **अखिल-कारक-शक्ति-**धरः सर्वेषां कर्तृ-करणादि-कारकाणां शक्तयः कार्य-जनन-सामर्थ्यानि धारयतीति स तथा—
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे॥उ ६.८] इति श्रुतेः ।
केवलात्-त्वत्त एव सर्वम् उत्थितम् इति भावः । एवं तत्-पदार्थम् उक्त्वा त्वं-पदार्थम् अनुवदति-तवेति । अनिमिषाः प्राणाद्य् अभिमानि-देवताः । अजया आत्मनस् त्व् अभेदाज्ञानाच् च तत्-तत्-करणात्मताभिमानेन तव देहेन्द्रियादि-सातापन्नस्य तुभ्यं बलिम् अन्नाद्य् अपहारम् उद्वहन्ति प्रापयन्ति समदन्ति स्वयं च भुञ्जते ।
सर्वे\ऽस्मै देवा बलिम् आवहन्ति प्राणे तृप्यति सति चक्षुस् तृप्यति चक्षुषि तृप्यत्याद् इत्यस् तृप्यत्यादित्ये तृप्यति द्यौस् तृप्यति दिवि तृप्यन्त्यां यत्-किञ्चिद्-द्यौश्चादित्यश् चाधितिष्ठतस् तत्-तृप्यति तस्यानु तृप्ति तृप्यति ॥ इति श्रुतेः ।
प्राणादयः स्वयं तृप्यन्ति स्वाधिष्ठातारं त्वाम् अपि तर्पयन्तीति भावः । अत्र-दृष्टान्तः-वर्षेति । अत्रापि तर्हीतिवत्-स्वर-भक्त्या अक्षर-पूरणम् । यथा वर्ष-भुजो मण्डलाधिपतयः स्वयं प्रजाभ्यो बलिम् आददानाः सन्तः **अखिल-**क्षिति-पतेः सार्वभौमस्य तस्मै बलिम् उद्वहन्ति तद्वत् । किञ् च—तेषाम् अनिमिषाणां मध्ये ये चक्षुः-श्रोत्रादयो यत्र रूप-शब्दादि-ग्रहणे अधिकृताः ते तत्-स्वग्राह्य-विषयाश्रय-भूतं तेजोवियदादि विदधते निर्मिमिते अत एव ते विश्व-सृजः एतेन यदा सुप्तः स्वप्नं न कञ्चन पश्यत्य् अथास्मिन्-प्राण एवैकधा भवति तदैनं वाक्-सर्वैर् नामभिः सहाप्येति [कौषि।उ ४.१९]। इत्य् आरभ्य स यथा प्रतिबुद्धयेत यथाग्नेज्वलतः इत्य् अग्निविस्फुलिङ्ग-दृष्टान्तेन जीवस्यैव सुप्ति-प्रबोधयोर् जगल्-लयोदयाम्नानाद्-दोष-निमित्तं रूपादयो विषयाः सङ्कल्प-कृता इत्य् अक्षपाद-सूत्राच् च सिद्धा दृष्टि-सम-समयैव सृष्टिर् इति शास्त्र-रहस्यं दर्शितम् । आत्मन आकाशः सम्भूतः [तै।उ। २.१.१] इत्य् आदि-श्रुतीनाम् अद्वैत-प्रतिपत्तावेव तात्पर्यं न सृष्टौ वियत्-प्राण-पादयोर् अपि सृष्टि-श्रुति-विरोध-परिहारो\ऽप्य् अभ्युपेत्य वाद एव । वक्ष्यते चैतन्न यद् इदम् इत्य् अस्मिन् श्लोके । भवतश् चकिता इति । सर्व-लयाधिष्ठानात्त्वत्तः स्वनाशभीत्या त्रस्ताः । श्रुतिश् चैषां प्राक्-प्रावण्यं प्रत्यग् अवृत्तिम् आह—पराञ्चि खानि व्यतृणत्-स्वयम्भूस् तस्मात्-पराङ्पश्यति नान्तरात्मन् । इति । व्यतृणर्द्धि-सितवान् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : त्वयि बद्ध-सौहृदा इति त्वच्-छब्दार्थं व्याचक्षते—त्वम् अकरण इत्य् आदि । त्वं श्री-कृष्णोऽकरणः करणं कृतिः क्रिया अक्रिय इत्य् अर्थः । तर्हि प्रपञ्चस्य कर्तादिः कः ? तत्राह—अखिल-कारक-शक्ति-धरः । अखिलेषु ब्रह्माण्डादिषु कारयतीति कारिका या शक्तिस् तस्या धरः । किम् इति कारयसि एव, स्वयं न कुरुषे ? तत्राह—स्वराट् स्वैर् गोपी-जनैः सह राजस इति स्वराट् । अत उक्तं—जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट् [भा।पु। १.१.१] । ते तु अनिमिषा देवा विश्वसृजो ब्रह्मादयस् तव बलिम् उद्वहन्ति, अन्यैः कृतं बलिम् अदन्ति च । अजया मायया विशिष्टाः । त्वं तु न तथा । तत्र दृष्टान्तः—अखिल-क्ष्इति**-**पतेश् चक्रवर्तिनो राज्ञः पूजां यथा **वर्ष-**भुजोऽखण्ड-मण्डलेश्वरा उद्वहन्ति, कथं ब्रह्माद्या अप्य् एवं कुर्वन्ति ? तत्राहुः—भवतः सकाशाच् चकिता भीताः सन्तः । तत्र येऽधिकृतास् ते तद् विदधति, यद् भयात् वाति वातोऽयं [भा।पु। ३.२९.४०] इत्य् आद्य् उक्तत्वात् ॥२८॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—अखिल-कर्ता भगवान्-नारायण स्तस्यापि शक्तिं त्वम् एव धारयसि त्वद् आश्रित-महा-शक्त्या तत्-तच्-छक्ति-स्वीकारस् तस्य त्वच्-छक्तिश् चेन् न धारयति तदा सो\ऽपि कुण्ठित-शक्तिर् भवतीति भावः । अकरणो निज-महा-शक्ति-प्रवर्तनादि-रहितः त्वत्-सन्निधानाद् एव त्वन्-महा-शक्तिः स्वयम् एव प्रवर्तत इत्य् अर्थः
तत् कुतः स्वैर्भक्तैः सह राजते निज-परम-महेश्वर्ये\ऽर्थ-दृष्टिर् इत्य् अर्थः । सर्वे अनिमिषा अलुप्त-ज्ञान-शक्तयो भगवतस् तव बलिम् उद्वहन्ति आज्ञां कुर्वन्ति समदन्ति सम्यग् अदन्ति च नित्य् अनिरवद्यत्वेन सदास्वानन्दतृप्तत्वे\ऽपि ब्रह्मादि-समस् तद् एवमुनि-वर्यादि-कृतस्तुत्य् आदि श्रवण-सुखम् अनुभवन्तीत्य् अर्थः । अजया त्वच्-छक्त्या विश्व-सृजो भगवतो भीता भवद् आश्रित-महा-शक्तितो भयाकुलाः को वेद किं करोतीति ।
नित्य-गोप्यस्तु आहुः—त्वम् अकरणो राधाविरहे सर्वेन्द्रिय-वृत्ति-रहितो राधा-दर्शनादिकं विनेष्टक्रियान्तर-शून्य इति वा । स्वराजा श्री-राधयैव संयुक्तया कृत्वा अखिलानाम् इन्द्रियाणां शक्तीर् धारयति । तथा स्वस्य राट् दीप्तिर् यतः स्वस्य नियन्त्रीति वा । अनिमिषा गोप्यः अजया राधया सह अजति क्षिपति लावण्य ऐदग्ध्यादिभिर् अन्या इति अजा राधा । न जायते
इति वा सा हि नित्य-किशोरी तव बलिं पूजां कुर्वती यद् वा, अजया गुण-रजया न विद्यते जया उत्कर्षवती अस्या इति वा । तया राधया सह निमिषन्ति स्पर्द्धन्ते याश् चन्द्रावल्याद्यास् तव बलिम् ऊद्वहन्ति सङ्गार्थम् इति शेषः । सङ्गत्य अदन्ति त्वां भूञ्जते च । तव कथम्-भूतस्य अखिला क्षितिर् वृन्दावन-भूस् तत्-सत्पतेः श्री-राधिकाया वर्ष-भुजः परम-सुख-वर्ष-भोगिनो राधाया विश्व-सृज इव वृन्दावन-गत-रस-विलासानां स्वं स्रष्टा इव ये परिजना यत्र अधिकृताः कुञ्ज-परिष्कार-गन्ध-स्रग् आभरण-निर्मणादौ ते तद् एव स्व-स्व-कार्यं विदधति चकिता भीता भवतः प्रेमतः सन्ततं भवन्त्य् एव न तु विच्छिद्यन्ते भवतः । विश्वेसृज इति तव समस्त-कार्याद्य् उत्कर्षस्य सैव स्रस्ट्री तत्-सन्निधावेवाविर्भावात् ॥२८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अकरणः प्राकृत-जीवेन्द्रिय-सम्बन्ध-रहितः, प्राकृताप्राकृतयोर् योगासम्भवात् । तथाप्य् अखिल-कारक-शक्ति-धरः । कुतः ? स्वराट्, स्व-शक्ति-विशेषेण स्वयं राजत इति तथा सः । सम्बन्धाभावेऽपि त्वच्-छक्ति-प्रभावेणैव सर्व-जीवेन्द्रिय-शक्ति-प्रवृत्तेर् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।
यद् वा, करणं कर्म घटादि-निर्माणे कुलालादेर् इव व्यापारः, तद्-रहित एवात्राखिलानां कारकाणां सृष्टि-हेतुऊनां महद् आदीनां शक्ति-धरः सृष्ट्यादि-सामर्थ्य-प्रवर्तकः । इच्छा-मात्रेणैव तत्-सिद्धेः । यतः स्वराट् अन्य-नैरापेक्ष्येण स्व-शक्त्या स्वयम् एव राजसीत्य् अर्थः । इति सर्वे जीवास् त्व् अधीना एवेति भावः ।
यद् वा, जीवेन्द्रियवद् इन्द्रिय-रहितः । सच्-चिद् आनन्द-घन-विग्रहत्वात् । श्री-भगवति देह-देहि-विभागवद् इन्द्रियेन्द्रियवद् विभागोऽपि नास्तीत्य् अर्थः । अपाणि-पादो जवनो ग्रहीता [श्वे।उ। ३.१९] इत्य् आदि श्रुतेः । अखिलानां ब्रह्मादीनां यानि कारकाणि कारणानि तेभ्योऽपि शक्तीर् दर्शन-श्रवणादि-सामर्थ्योत्कर्षा धरतीति करणानाम् अपृथक्त्वेऽपि सर्वातिशायि-करण-सामर्थ्योत्कर्ष इत्य् अर्थः । अत एव स्वराट् । केचित् तु वैष्णवास् तस्य देहेन्द्रियादेः पार्थक्यं मन्यन्ते । बल्य् उद्वहनाद् एव सम्यक् सुखम् अदन्ति भुञ्जते । अनिमिषाः श्री-ब्रह्म-रुद्रादयो देवाः, न च बल्य् उद्वहनेन समदनेन च वर्स-भुजाम् इव सम्राजः सकाशान् निर्भयतया क्षणम् अपि स्वातन्त्र्य-सुखम् इत्य् आहुः—**विश्व-**सृजः श्री-ब्रह्मादयः, चकिता इत्य् अनेन सदा स-शङ्कत्वम् उक्तम् ॥
श्री-भगवतोऽवश्य-सेव्यता-प्रतिपादनाय ब्रह्मादीनाम् अपि सेव्यताम् आहुः—त्वम् इति । अजय हे अन्य-कर्तृक-जय-रहित ! हे अजितेत्य् अर्थः । त्वम् अकरणः क्रिया-रहितः ।
ननु विविध-क्रीडां कुर्वन्न् अहं कथम् अक्रियः ? तत्राहुः—स्वराट् स्वेन स्वरूप-भूत-चिच्-छक्ति-विलासेन रास-क्रीडादिना राजसे । त्वं प्राकृत-क्रिया-शून्य इत्य् अर्थः । कथं तर्हि जगत्-सृष्ट्यादि-सिद्धिः ? तत्राहुः—अखिलेति । अखिलानां कारकाणां सृष्ट्यादि-कर्तॄणां गुणादीनां ब्रह्मादीनां च शक्ति-धरं, त्वच्-छक्त्यैव ते ब्रह्मादयः सृष्ट्यादिकं च कुर्वन्तीत्य् अर्थः । अतो विश्व-सृजो ब्रह्माद्याः, अनिमिषाश् चेन्द्र-चन्द्रादयोऽपि तव बलिम् उद्वहन्ति, सेवां कुर्वन्ति । तत्र ब्रह्मेन्द्रादीनां श्री-भगवतः स्तवादिभिः परमोत्कर्ष-वर्णादिना गोविन्दाभिषेकादिना च सेवा । पवनस्य मन्द-वायुर् उपवात्य् अनुकूलं [भा।पु। १०.३५.२१]110 इत्य् आद्य् उक्त-प्रकारेण । चन्द्रस्य रास-विहारादौ सम्पूर्ण-मण्डलतया सहोदयेन, अन्येषां च वैमानिकैः कुसुम-वर्षिभिर् ईड्यमानः [भा।पु। १०.३३.२४] इत्य् आद्य् उक्तेन प्रकारेण सा ज्ञेया ।
तथा च त्वत्-कृतेन दुर्मद-महा—दुष्टासुर-दमनेन यज्ञादिषु निर्विघ्नं बलिं च समदन्ति । तत्र दृष्टान्तः—वर्ष-भुज इति । किं च, न केवलं स्व-स्व-देहेनैव ते भजन्ति, किन्तु निज-निजैश्वर्यार्पणेन चेत्य् आहुः—विदधतीति । यत्र यस्मिन् ऐन्द्राद्य् ऐश्वर्ये ये इन्द्रादयोऽधिकृताः सम्भ्रान्ताः सन्तः, तेनैश्वर्येण भवतो विदधति सेवाम् इति शेषः । तथा ह्य् अत्रैवोक्तम्—
यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये ।
सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप ॥ [भा।पु। १०.५०.५७] इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्वम् अकरण इत्य् अस्य टीकायाम् अपाणीति यथा जीवस् तद् उपाधाव् आसक्तस् तथा अन्तर्यामित्वेन तत्र प्रविश्याप्य् अनासक्त इत्य् अर्थः । एवम् उत्तरत्रापि जवनः विभुत्वाज् जवाम्बवायां तच्-छक्ति-धारकत्वात् तच्-छक्तिमान् इत्य् अर्थः । ग्रहीता सर्व-धारकत्वात् । धारणा-शक्ति-हेतुत्वाच् च पश्यति । स्वरूप-ज्ञानेन सार्वदिकं सार्वत्रिकम् अपि पश्यतीत्य् अर्थः । एवं शृणोतीत्य् अपि भीषेति भीत्य् अर्थः । पवते वातीति ।
स्व-व्याख्यायां तु—अन्यास् तद् एव पुष्णन्त्य आहुः—त्वम् इति । अकरणः सृष्ट्य् आदौ कुलालादिवत् पृथक्-तत्-साधन-रहितः, अत एव क्रिया-रहितश् च । ब्रह्मादि-जीवेन्द्रिय-प्रवर्तन-लीलायां तद्-इन्द्रिय-सम्बन्ध-रहितः स्वतः स्थितौ, तद्वत् पृथग्-इन्द्रिय-रहितोऽपि त्वं स्वरूपतस् तत् तद्वत् करण-परार्धातिक्रमि-परमातिपरम-शक्तितया प्रादुर्भाव-भेदेन सङ्क्यातश् चानन्ततया अखिलानि यानि कारकाणि करणानि तानि यथा सर्व-तः पाणि-पोआदं तद् इति न्यायेन कदाचित् तत्र तत्र तादृश-निज-करण-प्राकट्य-रहितोऽपि तत्-तद् अर्थं तत्-तच्-छक्तीर् धरस्इ बिभर्षि । तथा यथा योग्यांस् तत्-तद् अंशाभासांस् तत्र तत्र प्रापयसि चेति तथा-भूत इत्य् अर्थः ।
कथम् ? स्वराट् अचिन्त्य-शक्ति-मयेन स्वेनैव तथा तथा राजसे इति अतो जीविव-करणानाम् इव तव करणानां तद् अधीन-प्रकाशत्वाभावात्, प्रत्युत तत्-करणानां तद् अधीनत्वाद् अनिमिषा ब्रह्मादयस् तव बलिम् उद्वहन्ति । सन्तु च ते तेषाम् अधिकारिणी माया च तथेत्य् आहुः—अजयेति । सहार्थे तृतीया । शेषं तैर् व्याख्यातम् ।
अतः साधूक्तं पूर्वाभिः तव परि ये चरन्तीति भावः । श्रुतयश् चात्र—न तस्य कार्यम् इत्य् आद्य् अनुगता एव, अपाणि-पाद [श्वे।उ। ३.१९]इत्य् आद्याः ॥२८॥
जीव-गोस्वामी (भगवत्-सन्दर्भः ३६) : तस्माद् अपाणि-पाद-श्रुतेर् अपि यद् अनन्त-स्व-प्रकाशानन्द-विग्रह एव भगवति तात्-पर्यं नान्यत्रेति प्रतिपादयन्ति—त्वम् इति ।
अयम् अर्थः—अत्र करणं नाम वास्यादिवत् कर्तृ-शक्ति-प्रेरिततया कार्य-करं कर्तुर् भिन्न-तमं केवल-करणत्वापन्नम् एव वस्त्व् अङ्गीकृतं, न तु स्वरूपत्वापन्नम् अपि यत् तद् अपि । यथा दहनादौ तच्-छक्त्य् आदिकम् । गौणार्थत्वात् स्वराट्-पद-निरुक्तौ स्वेनेति तृतीयान्त-पदस्य स्वरूप-शक्ताव् एव पर्यवसानाच् च । ततो जीवस्य चिद्-रूपत्वात् पाण्यादीनां स्वतो जडत्वात् तद् अधीन-शक्तीनां तेषां भिन्नतमानां करणत्वं मुख्यार्थम् एव । ततोऽसौ तद् आसक्तत्वात् सकरणः त्वं तु तद् अन्तर्यामी तद् अनासक्तत्वात् तद् अनपेक्षो यतः स्वराट् स्वरूप-शक्त्यैव राजसे इति । तथा प्रलय-कालावसाने ।
स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः समदृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भा।पु। १०.८७.२३]
इति विद्वद्-गण-गुरुभिर् अस्माभिर् अपि निजालम्बनत्वेन वर्ण्यमान-परम-दिव्य-करण-गण-विचित्रोऽप्य् असौ अकरण एव । कुतः ? स्वराट् स्वेन स्वरूप-शक्ति-विशेष-सिद्ध-प्रादुर्भाव-विशेषेषेण स्वरूपेणैव तत्-तत्-करणतया राजसे । तेषां स्वरूप-भूतत्वेन मुख्य-करणत्वायोगाद् इति भावः । अन्यथौपाधिक-वस्तु-द्वारा तवापि प्रकाशे कथं नाम स्वराट्त्वं सिध्येद् इति च ।
आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानं, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य् आदि-श्रुतेः । आनन्द-मात्र-कर-पाद-मुखोदरादिर् [नापरम्पर्ञ्च्] इत्य् आदि-स्मृतेश् च
ननु, मयि तथाभूत-स्वरूप-शक्तीनाम् अस्तितायां किं प्रमाणम् ? तत्राहुः—अखिल-कारक-शक्ति-धर इति । अखिलेभ्यः प्राणिभ्यः कारकाणि करणानि चक्षुरादि-गोलकानि, तेषु शक्तीश् चेन्द्रियाणि धरसि ददासीति, तथा सर्वेषु तेषु तत्-तद्-धारणात् तास् तु त्वयि स्वतः-सिद्धा अव्ययाः पूर्णा एव सन्तीति भावः । तथा च श्रुतिः—प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् [बृ।आ।उ। ४.४.१८] इत्य् आद्या, स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इत्य् आद्या च ।
तद् उक्तम् एकादशे—
यस्येन्द्रियस् तनु-भृताम् उभयेन्द्रियाणि
ज्ञानं स्वतः श्वसनतो बल-भोज ईहा ॥ [भा।पु। ११.४.४] इति ।
अत एव विकरणत्वान् नेति चेत् तद् उक्तम् [वे।सू। २.१.३२] इत्य् अत्र सूत्रकारोऽपि तद् उक्तम् इत्य् अनेन श्रुतेस् तु शब्द-मूलत्वाद् [वे।सू। २.१.२७] इत्य् उक्त-रीत्यैव श्रुत्य् एक-गम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् । श्रुतिश् च—न तस्य कार्यं करणं च विद्यते [श्वे।उ। ६.८] इत्य् आद्या ।
अथवा, अखिल-कारक-शक्ति-धरोऽपि त्वम् असाव् अकरण एवेत्य् अन्वयः । कुतः ? स्वराड् इत्य् आदि। अतः सर्वतो विलक्षण-महिमत्वाद् अनिमिषा देवा इन्द्रादयस् तत्-पूज्या विश्व-सृजो ब्रह्मादयोऽपि तव तुभ्यं बलिम् उपहारं तद् उच् चैः शिरोभिर् वहन्ति । अजया तेषाम् अधिकारिण्या माययापि सहिताः ।
सापि आभास-शक्ति-रूपा स्वरूपानन्द-शक्ति-मयाय तुभ्यम् आत्म-सम्पद् उद्भावनार्थं बलिं हरतीत्य् अर्थः । समदन्ति च मनुष्यैर् दत्तं हव्य-कव्यादि-लक्षणं बलिं भक्षयन्ति च । अत्र दृष्टान्तः—वर्ष-भुज इति । वर्षं खण्ड-मण्डलम् ।
कथं बलिम् उद्वहन्ति ? तद् आहुः—विदधतीति । त्वद् आज्ञा-पालनम् एव बलि-हरणम् इत्य् अर्थः ।
भीषास्माद् वातः पवते भीसोदेति सूर्यः ।
भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८.१] इति श्रुतेः ।
अथवा, ननु मम पाण्यादि-करणानां स्वरूप-भूतत्वे युक्तिं कथयतेत्य् अत आहुः अनिमिषाः करणाधिष्ठातृ-देवास् तव बलिम् उद्वनतीति । आज्ञान-देवत्वाद् विश्व-सृजः विश्वेषां सृष्टि-हेतवः । अन्ये तत्-तद् अधिष्ठातृ-देवताश्रयाद् एव करणैर् विषयं प्रकाशयितुं शक्नुवन्ति । त्वं पुनस् तेषाम् अप्य् आश्रय इति त्वत्-करणानां स्व-प्रकाशतापत्तेः स्वरूप-भूतत्वम् एवेति । अथाप्य् आस्तां महा—शक्तिर् मायैवाश्रय इत्य् अत आहुः—अजयेति ।
ननु जीवा अपि निजेन्द्रियाधिष्ठातॄणाम् आश्रया भवन्ति ? तत्राहुः—विदधतीति । विषय-भोग-द्वारेएष्व् इन्द्रियेषु भवता विश्व-पतिना दत्ताधिकाराणां देवानाम् एवाधिकार्याः कतिपय-ग्राम-भौमिका इव जीवा इति न तेषाम् आश्रयाः । किन्तु भवान् एव तेषाम् अधिकारकत्वाद् आश्रय इति भावः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
जुष्टं यदा पश्यत्य् अन्यम् ईशं
अस्य महिमानम् इति वीत-शोकः ॥ [श्वे।उ। ४.७]
ऋचोऽक्षरे परमे व्योमन्
यस्मिन् देवा अधिविश्वे निषेदुः । [श्वे।उ। ४.८]
यस् तन् न वेद किं ऋचा करिष्यति ।
य इत्तद्-विदुस्त इमे समासते [बह्व्-ऋच्।उ ९]। इत्य् आद्याः ।
अन्यं स्वस्माज्-जीवान्-महा-विलक्षणं जुष्टं प्रीत्या सेवमानम् ईशं पश्यति तदास्य महिमानं च पश्यत्य् अनुभवति । इति ।
अनेन प्रकारेण वीत-शोको भवति । कुत्र । परमेव्योमन् पर-व्योमाभिधे महा-वैकुण्ठे । वीदृशे । अक्षरे नित्य-रूपे यत ऋच इति ऋक्सम्-बन्धिनि तत्-प्रतिपाद्ये इत्य् अर्थः । यस्मिन् परम-व्योम्नि देवाः पार्षदादयः इत् इत्थम् इति श्रुति-पदार्थः । अग्रे च जुष्ट-त्वम् एव दर्शयति -
यो देवानाम् अधिपो यस्मिल्-लोका अधिश्रिताः ।
य ईशो द्विपदश् चतुष्पदस् तस्मै देवाय हविषा विधेमेति ॥
अन्यास् तद् एव पुष्णन्त्य आहुः—त्वम् अकरणः ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : त्वयि बद्ध-सौहृदा इति त्वच्-छब्दार्थं विवृण्वते—त्वम् अकरण इत्य् आदि । त्वं श्री-कृष्णोऽकरणः, करणं कृतिः क्रिया, अक्रिय इत्य् अर्थः । तर्हि जगत्-कर्ता कः ? इत्य् आहुः—आत्मनः कारक-शक्ति-धरः, अखिलेषु ब्रह्मादिषु या कारिका शक्तिस् तां धरतीति तथा । जगत्-कर्तृत्वादि-शक्तिं तेषु प्रकाशयन् स्वयम् उदास्स्व इत्य् अर्थः ।
ननु तेषु स्व-कर्तृत्वादि निक्षिप्य स्वयम् उदासीन-दशया स्थितस्य किं सुखम् अधिकम् ? इत्य् आहुः—स्वराट् स्वैः प्रिय-गोष्ठी-गरिष्ठैः सह राजत इति स्वराट् । उक्तं पुरैव—जन्माद्य् अस्य यतोऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट् [भा।पु। १.१.१] । आनन्द-लीलाम् अन्तरङ्गां हित्वा बहिरङ्गां सृष्ट्यादि-लीलां किम् इइत् स्वयं करिष्यसि ? सा तु पर-द्वारापि कारयितुं शक्यते ।
ननु ते यदि जगत्-कर्तृत्वादिमन्तः, तदा किम् ईशितृत्वं मम ? इत्य् आहुः—तव बलिम् इत्य् आदि । तेऽनिमिषा देवा ब्रह्मादयो विश्व-सृजस् तव बलिम् उद्वहन्ति, तुभ्यं पूजां प्रापयन्ति । अन्यैर् दत्तं बलिं चादन्ति च । अजया तवैव मायया विशिष्टाः । त्वं तु तयास्पृष्टः । तत्र दृष्टान्तम् आहुः—वर्ष-भुज इत्य् आदि । यथाखिल-क्ष्इति**-**पतेः सार्वभौम-महाराजस्य बलिं वर्षभुजः खण्ड-मण्डलेश्वराः । ब्रह्माद्याः कथं-भूताः ? भवतः सकाशाच् चकिता भीताः । तथापि ये यत्राधिकृताः, ते तद् विदधति, त्वद्-वशा एव तत् तत् कुर्वत इत्य् अर्थः । यद् भयात् वाति वातोऽयं [भा।पु। ३.२९.४०] इत्य् आदि ॥२८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्माद् अस्वतन्त्रैर् ईशितव्यैर् जीवैस् त्वम् एव स्वतन्त्र ईश्वरः सेव्य इति चेन् मैवम्, नेत्र-श्रोत्र-भुजादिमत्त्वाद् अहम् अपि जीव इव करण-परतन्त्र इत्य् अतः कुतो मे स्वातन्त्र्यम् ऐश्वर्यं वेत्य् अत आहुः—त्वम् अकरणः । आहङ्कारिक-मनो-नेत्र-श्रोत्रादि-रहितः, तर्हीमानि मन्-नेत्र-श्रोत्रादीनि । कुतस्त्यानि ? तत्राहुः—स्वराट् । अत एव अखिल-कारक-शक्ति-धरः, खिलानि तुच्छानि प्राकृतानीत्य् अर्थः । अखिलानि खिल-भिन्नानि चिद् आनन्द-मय-त्वत्-स्वरूप-भूतानीन्द्रियाणि । शक्तिः, चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् [बृ।आ।उ। ४.४.१८]इति श्रुतेः । प्राकृतेन्द्रिय-शक्तीश् च धरतीति तथा सः न त्वं प्राकृतेन्द्रियः नाप्य् अनिन्द्रियः । किन्तु पराख्य-स्वरूप-शक्ति-मयेन्द्रियः प्रत्युत प्राकृतेन्द्रियेष्व् अपि श्रवणादि-शक्त्य् अध्यायक इत्य् अर्थः ।
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति श्रुतेः ।
महैश्वर्यम् आहुः—तव बलिं पूजोपहारम् अनिमिषाः ब्रह्माद्या देवा उद्वहन्ति प्रापयन्ति तुभ्यं समर्पयन्तीत्य् अर्थः । अजया सहेति या तेषाम् अधिकारिणी खल्व् अजा माया सापि ते बलिहारिणीत्य् अर्थः । समदन्ति च मनुष्यैर् दत्तं हव्य-कव्यादि-लक्षणं त्वं प्रसादाद् भक्षयन्ति च ।
तत्र दृष्टान्तः—**वर्ष-भुजः खण्ड-मण्डल-पतयः अखिल-क्ष्इति-**पतेः समस्त-मण्डलेश्वरस्य बलिम् उद्वहन्ति प्रजाभिर् दत्तं बलिम् अदन्ति च । तद्वत् कीदृशा भूत्वा ? इत्य् अत आहुः—यत्र कर्मणि येऽधिकृता नियुक्तास् ते तत्-कर्मणि त्वत्तश् चकिता भीता एव सन्तो विदधति । अत्र
भीषास्माद् वातः पवते भीषोदेति सूर्यः ।
भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः । [तै।उ। २.८.१] इत्य् आद्याः।
भीषा भीत्या पवते वाति ॥२८॥
॥ १०.८७.२९ ॥
स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो
विहर उदीक्षया यदि परस्य विमुक्त ततः ।
न हि परमस्य कश्चिद् अपरो न परश् च भवेद्
वियत इवापदस्य तव शून्य-तुलां दधतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं करण-प्रवर्तकम् ईश्वरं करण-पर-तन्त्रा नरा भजन्तीत्य् उक्तम्, न केवलम् इयद् एव कारणं तत उत्पन्नत्वेनापि तत्-परतन्त्रत्वाद् इति वदन्ति—
यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच् चरन्ति, एवम् एवास्माद् आत्मनः सर्वे प्राणाः, सर्वे श्लोकाः, सर्वे देवाः, सर्व-णि भूतानि, सर्व एत आत्मानो व्युच् चरन्ति ॥ [बृ।आ।उ। २.१.२०]
इत्य् आद्याः श्रुतय इत्य् आह—स्थिर-चर-जातय इति । हे विमुक्त ! नित्य-मुक्त ! यदि तव अजया मायया विहरः, विहारः क्रीडा भवति, तदा स्थिर-चर-जातयः स्थिराश् च चराश् च जातयो जात्यालिङ्गिता देहा येषां ते जीवाः स्युर् भवेयुः । कथं भूतस्य ? ततोऽजातः परस्य दूरे वर्तमानस्यासङ्गस्येत्य् अर्थः । कथं विहारः ? उदीक्षया ईक्षण-लेशेन111 ।
ननु मयि लीनानां जीवानां कथं जन्म स्यात् ? तत्राह—उत्थ-निमित्त-युज इति । ईक्षयैवोत्थान्य् उत्थितान्य् आविर्भूतानि निमित्तानि कर्माणि, तद्-युक्तानि लिङ्ग-शरीराणि वा, तैर् युज्यन्त इति तथा ।
ननु किं-निमित्तोत्थानेन मद्-इच्छयैव भवन्तु ? न, त्वयि वैषम्याभावाद् विषम-सृष्टेर् अयोगाद् इत्य् आह—परमस्येति । तव परमस्य उत्तमस्य परम-कारुणिकस्य वियत इव आकाश-सदृशस्य, समस्येत्य् अर्थः । कश्चिद् अपरः स्वीयः परोऽस्वीयश् च न भवेत्, न सम्भवतीत्य् अर्थः ।
असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत112 [तै।उ। २.७.१] इत्य् आदि-श्रुत्या शून्य-पूर्वकत्वम् इव प्रतीयते तद् अर्थं पुनर् विशिनष्टि—शून्य-तुलां दधतः शून्य-साम्यं भजतः । तद् एव दर्शयितुं पुनर् विशिनष्टि—अपदस्य इति । न पद्यत इत्य् अपदः, तस्य, वाङ्-मनसयोर् अगोचरस्येत्य् अर्थः ॥
त्वद्-ईक्षण-वश-क्षोभमानाबोधित-कर्मभिः ।
जातान् संसरतः खिन्नान् नृ-हरे पाहि नः पितः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवं तदित्थम् । इयद् एव इयन्-मात्रम् एव । तद्-भजने कारणं किन्तु तत ईश्वरात् । यथाग्नेः [बृ।आ।उ। २.१.२०] इत्य् आद्याः श्रुतयो वदन्तीति योज्यम् । तद् अर्थः पूर्वम् आत्म-व्यतिरिक्तं वसत्वन्तरं नास्तीत्य् उक्तं तद् उत्पन्नत्वात्-सर्वस्य । तत्र दृष्टान्तः-यथैक-रूपाद् एकस्माद् अग्नेः सकाशात् क्षुद्रा अल्प-प्रमाणा विस्फुलिङ्गा वह्निकणा विविधा उच् चरन्ति उत्तिष्ठन्ति एवम् अस्माद् आत्मनः विज्ञान-मयस्य प्राक्-प्रबोधाद्यत्-स्वरूपं तस्मात् एत आत्मनो जीवा व्युच् चरन्ति उपाधि-सम्पर्क-जनित-विशेष-प्रतिबुद्ध्यमाना आत्मान इत्य् अर्थः ।
तत्र प्राणा इन्द्रियाणि । लोकाः कर्म-फलानि । देवा इन्द्रियाणां लोकानां चाधिष्ठातारो\ऽग्न्यादयः । भूतानि ब्रह्मादिस्थावरान्तानि । एते आत्मान इति । केवलात्म-सृष्टि-परेयम् । यद्-गत्वा न निवर्तन्ते, न स पुनर् आवर्तते इत्य् आदि-स्मृति-श्रुत्योर् अर्थं मनस्याधायाक्षिपति-नन्व् इति । तत्राक्षेपे । केवल-कर्मणा विना शरीराणाम् अकिञ्चित्-करत्वाद् आह—तद्-युक्तानीति । कर्म-युक्तानीत्य् अर्थः । लिङ्ग-शारीर-सम्बन्ध एव तेषां जन्म न तूत्पत्ति-लक्षणम् सर्गे\ऽपि नोपजायते इत्य् आद्य् उक्तेः । पुनर् आक्षिपति-नन्व् इति । नेत्य् आह—त्वय् ईति । इत्य् अर्थ इति असङ्गस्येति भावः । इत्य् अर्थ इति अविषमत्वेन सर्वत्र समत्वाद् इति भावः । श्रुत्य् अवष्टम्भेनाशङ्कते असद् इति । इदं सर्वम् अग्रे जगद् उत्पत्तेः पूर्वम् असद् एवाविद्यमानम् एवासीत् । ततः सृष्ट्य् अवसरे सदजायत सद्-रूपत्वेनाविर्बभूव इत्य् आदि-श्रुतेः । तद् अर्थं तन्-निवृत्त्य् अर्थम् । तद् एव **शून्य-**साम्यम् । इत्य् अर्थ इति अविषयत्वाच्-छून्यमिव प्रतीयत इति भावः । स्वामिनां त्वद् ईक्षणवशेन क्षोभो यस्यां मायायां तया बोधितैः कर्मभिर् जातान् ॥
श्रीधरानुयायिनी : स्वजनकत्वाद् अपि त्वद्-भजनम् आवश्यकम् इत्य् आहुः—स्थिरेति । हे नित्यम् उक्त! त्वम् असङ्गो माया-सङ्गरहितो\ऽपि यदा दिक्षण-मात्रेण मायया क्रीडसि मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः । इति पाद्यात् । तदा तव वीक्षणेन कार्यत्-पत्य् अनुकूल-क्षणेनैवोत्थितैर् आविर्भूतैः प्रारब्ध-कर्मभिस् तद्-युक्त-लिङ्ग-शरीरैर् वा **निमित्त-**भूतैर् युक्ताः स्थावर-जङ्गम-स्थूल-शरीरोपाधयो जीवा घत्टाकाशवद् उपाधि-सृष्टि-समकालम् एव भवेयुः ।
ननु मद् इच्छयैवाविर्भवन्तु किन्-निमित्तोत्थापनेनेत्य् आशङ्कायाम् आहुः—नहीति । परम-दयालोर् वाङ्-मनसयोर् अगोचरत्वेन शून्यवत्-प्रतीयमानस्य महा-दुरात्मनाम् अपि मूढानां नास्तिकानां शून्य-तुलाम् अविद्यमानसा-दृश्यं दधतो\ऽप्य् आकाशवत्-समस्य तव को\ऽप्य् एको\ऽपि स्वीयः परकीयो वा न सम्भवति । एवं च त्वयि समो\ऽहं सर्व-भूतेषु न मे द्वेष्य्\ऽओस्ति न प्रियः । इत्य् आदि-गीतोक्तेर् वैषम्याभावात्तवेच्छया कथम् इयं विषमा सृष्टि-रुप-पद्यते इति भावः ।
यद् वा,-तव श्री-कृष्णस्य शून्य-तुलां ख-पुष्प-तुल्याम् असतीम् एव तुलाम् अहम् एवेश्वर इतीश्वर-तुल्यतां दधतो\ऽङ्गीकुर्वतो\ऽत एवापदस्य त्वम् अपदस्य त्वाम् अनादृत्य क्वाप्य् अलब्ध-शरणस्य वेनादेरिवाभाग्यस्य साहङ्कारस्य पापिनः पुरुषस्य फलम् एकैकस्थावर-जङ्गमयोनावनेक-जन्मानि स्युः ।
ननु कृष्णो\ऽहं पश्यत गतिं ललिताम् इति तन्-मनाः । [भा।पु १०.३.१९] मा भैष्ट वात-वर्षाभ्यां तत्त्राणं विहितं हि वः । [भा।पु १०.३.२०]
इत्य् आदिश्री-कृष्ण-सादृश्यं भजतीनां गोपीनाम् अपि किम् इयम् एव गतिर् इत्य् आशङ्क्य न हि न हीत्य् आहुः अजयेति । अजया व्रतैर् आराधितया श्री-कात्यायन्या कर्त्र्या उत्थितम् उद्बोधितं यन्-निमित्तं श्री-कृष्ण-विहार-प्राप्तिकारणम् अदृष्टं तद्वत्यो गोप्यस् तु विहरे श्री-रास-विहारे इपरस्य इः काम-सुखं तत्-परस्य तव उदीक्षया प्रेमामृत-दृष्ट्या स्थावर-जङ्गम-जन्म-भागिन्यो हि निश् चयेन न स्युः किन्तु परं सर्वोत्कृष्टं श्री-कृष्ण-प्राप्ति-रूपम् एव तासां फलं भवेद् इत्य् अर्थः ।
नन्व् एवं मयि वैषम्यम् आगतम् इत्य् आशङ्क्य् आहुः—वियत इवेति । आकाशवत्-समस्येत्य् अर्थः । साम्यम् एवाहुः अस्य तु कश्चिद् अनपरः स्वजनो\ऽपि परो भवति, यथा कंसो रुक्मी वा । कश्चित् परो\ऽपि अनपरः स्वीयो भवति, यथा रावणानुजो विभीषणः । एवं च सर्व-शुभाशुभ-फल-प्रदस्य जडस्य प्रारब्धस्योद्बोधन-मात्रम् एव त्वया क्रियत इत्य् आशयः । अत एव ततो वैषम्याद्-विमुक्तेति सम्बुद्धिः
नीलकण्ठी : पूर्व-श्लोके जीव-कर्तृका जीव-सृष्टिर् उक्ता । तत्रैव प्रथमे पादे ईश-कर्तृकापि सृष्टिः शक्ति-धर इति सूत्रिता, तां प्रपञ्चयति स्थिर-चर-जातय इति । हे ततो विमुक्त! अजातो नित्य-मुक्त! यदि तव विहरः विहारः भोगः क्रीडा वा इष्टा भवति भोगार्थं
सृष्टिर् इत्य् अन्ये क्रीडार्थम् इति चापरे । इति श्रवणात् तर्हि तव उदीक्षया ईक्षणेन स्थिर-चर-जातयः स्थावर-जङ्गम-शरीराणि तद् उपाधयो जीवाश् च घटाकाशवद् उपाधि-सृष्टि-समकालम् एव स्युः प्रादुः स्युः स ऐक्षत लोकान्नु सृजा इति स इमांल्-लोकान् असृजत । [छा।उ। ६.२.३]
यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच् चरन्त्य् एवम् एतस्माद् आत्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि च भूतानि सर्वे एत आत्मनो व्युच् चरन्ति । इति श्रुतिभ्याम् ।
नन्व् एवं सृष्टेर् आकस्मिकत्वे ईश्वरस्योच्चनीच-स्रष्टुर् नैपुण्य-वैषम्ये जीवानां च कृत-नाशादि-प्रसक्तिर् अत आह अजयोत्थ-निमित्त-युजः । माययोत्थितं यन्-निमित्तं कालादृष्टादि तेन युज्यन्ते इति तथा । ईशा पर्जन्यवत् साधारणं कारणं जीव-जातीनाम् अदृष्टन्तु बीजवद् असाधारणं फल-भेद-हेतुर् अतो नोक्त-दोष-प्रसक्तिः ।
ननु कुलालवद्-विहरत उदीक्षितुर् अप्य् अदृष्टादि युक्तं । स्याद् इत्य् आशङ्क्य् आह—परस्येति । अदृष्टादिभ्यो हि वर्जितस्य हिरुग्-वर्जने इत्य् अव्ययपाठात् रुग्-भूतस्येत्य् अर्थः । अत एव सम्बोधनम् ततो विमुक्तेति । अयं भावः—देवस्य हि स्वभावो\ऽयम् आत्मकामस्य का स्पृहा । इति श्रुते रज्ज्वा भुजङ्ग-स्रष्टृत्वम् इव तव । जगत्-स्रष्टृत्वं न स्वादृष्ट-निमित्तं किन्त्व् अज्ञानाश्रय-जीवादृष्ट-निमित्तेन विवर्तमानत्व-रूपम् । एवम् ईश्वर-सृष्टिम् उक्त्वा पूर्व-श्लोके त्वम् अकरणः तव बलिम् इत्य् एक-पदोपादानेन सूचितं जीवेशयोर् अभेदम् उपाधि-प्रहाण-सिद्धम् आह—न हीति । परमस्य माया-तत्-कार्य-बहिर्भूतस्य तव कश्चिन्-नापरः पूर्व-भाविकारणं भवेद् अस्ति नापि परः पश्चाद्-भाविकार्यम् अस्ति । अत्र परमतसिद्धो दृष्टान्तः-वियत इवेति ।
यथा निरवयवत्वाद्-वियतः करणं कार्यं वा नास्ति तथा तवापीति । अत एवापदस्य पद्यते गम्यते\ऽनेनेति पदं गमकं नास्येत्य् अपदस् तस्य यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै।उ। २.९]। इति श्रुतेर् वाङ्-मनसातीतस्य् एत्य् अर्थः । अत एव शून्य-तुलां शून्यत्वान्-निर्गुणत्वम् अनुपाख्यत्वं च दधतो न तु शून्यतां तत्-साक्षित्वात् । अयं भावः—
न रूपम् अस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥
न रूपम् अस्य नान्तो\ऽस्य छित्त्वैनम् इति चेशगीः ।
युक्ता भवतरोरिन्द्रजालत्वे सति नान्यथा ॥
सम्यग्-दृशा वीक्ष्यमाणं रूपं नास्योपलभ्यते ।
उपादानस्य नित्यत्वाद् अयम् आद्यन्त-वर्जितः ॥
दुःस्वप्न इव संसारः सङ्गमात्रेण दुःखदः ।
तम् असङ्गासिना छित्त्वा प्रयाति परमं पदम् ॥
इति वेदान्त-कतकोक्त-दिशा ईश्वरो\ऽस्त्य् एव सर्वदा इन्द्र-जाल-तुल्यः प्रपञ्च इति तस्य तत्-स्रष्टृत्वं युक्तम् । तथा सत्य् एव विषये द्वौ स्तो घटौ मृन्-मयधीमयावित्य् उक्तेर् असति विषये धीमय एव घटो\ऽस्ति नान्यः अत एव स्वप्ने न तत्र रथा न रथ-योगा न पन्थानो भवन्त्य् अथ रथान्-रथ-योगान्-पथः सृजते [बृ।आ।उ ४.३.१०]।
इति श्रुतिर् भौतिकान् रथादीन्-निषिध्य सृष्टिम् आह—प्रपञ्चो\ऽपि धीमय एव तेन तत्-स्रष्टा बुद्ध्य् उपाधिर् जीव इत्य् अपि युक्तम् । तथा च गताः कलाः पञ्च-दश प्रतिष्ठा देवाश् च सर्वे प्रति देवतासु इति । एवम् एवास्य परिद्रष्टुर् इमाः षोडश-कलाः पुरुषायणाः पुरुषं प्राप्य् आस्तं यान्ति । इति च श्रुतिद्वयोक्तो विदुषो विदेह-कैवल्य-काले प्राण-मनः-प्रभृतीनां कलानां प्रलयः परदृष्ट्या स्वकारणेषु विद्वद्-दृष्ट्या स्वरूपे चेत्य् उपपद्यते । यथा धीमयम् अपीन्द्र-जालं नास्त्य् एवाबुद्धानाम् अस्त्य् एव तद्वत् । अत्र सार्द्धश-लोकेन जीवेशयोः सोपाधिके रूपे भूत-मय-धीमय-जगत्-कर्तृत्वेनानूद्यार्धेन घट-मठाकाशवत्तयोर् अनुपाध्योर् अभेद उक्त इति ध्येयम् ॥२९॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—ते तव अजया राधिकया सह विहरे विहरत्य् अत्रेति विहरं वृन्दावनं तत्र स्थिर-चर जातयो भवन्ति । कदा यदि राधया सह परस्य तवोदीक्षया प्रेमार्दृष्ट्या उत्थितानि निमित्तानि पूर्व-जन्म-सुकृत-तद्-वासना-स्तैर् युक्ता भवन्ति । बहु-जन्मसू वृन्दावने स्थिर-चर-शरीर-प्राप्त्य् अर्थं कृतानां सराध-त्वत्तोषि-कर्मणां त्वद् ईक्षयैव उद्वोधे सति । परस्येत्य् अनेन प्रपञ्चान्तर्दृष्टिर् मया कृतैवेति सूचितम् ।
कथम्-भूताः स्थिर-चर-जातयः विमुक्त-ततो विमुक्तं विशिष्टा मुक्तिः विशिष्टा वा मुक्ता येन तद् एकान्त-राधा-कृष्ण-प्रेम-रस-वैभवं तन्वन्ति स्मरण-दर्शन-वन्दनादिना । एतेन प्राकृतत्वं निरस्तम् । यद् वा, विगता मुक्ता यस्मान्न् इत्य् अमुक्त-स्वरूपं ब्रह्म वा मुक्तिर् वा शुद्धात्म-ब्रह्म-स्वरूपावस्थिति-रूपा यस्मात्-तादृशं शुद्ध-प्रेमात्म-वस्तु प्रकाशयन्तीति विमुक्तं शूद्ध-प्रेम-रस-शक्तिमत् परब्रह्म तद्-रूपेण वा तन्वन्ति निजस्व-रूपं प्रकाशयन्ति । एवं शुद्ध-भाव-वासनया जाता अत्रत्य-स्थिर-चरा इत्य् उक्तम् । शुद्ध-प्रेम-रसं विना च तव परमस्य पूर्ण-शुद्ध-रसः को\ऽपि स्वीयश् च न भवेत् परश् च न भवेत् । अन्यत्र दृष्टिर् एव तव नास्तीत्य् अर्थः । तव कथम्-भूतस्य वियत इव आकाशस्य् एव केनापि सङ्ग-रहितस्य शून्य-तुलां दधतः शुद्ध-प्रेम-रस-मयं स्वरूपं सद् अपि नान्येषां स्फुरति शुद्ध-प्रेम-रहितैस्त्वं कदापि आकाशवन्न संसृज्यसे शून्यवच्-चाणुमात्रम् अपि न प्रकाशस इत्य् अर्थः ।
नित्य-गोप्यस्तु आहुः—यदि तवोदीक्षया कृपार्द्रदृशा राधया सह तव विहारो भवति तदा स्थिर-चर-जातयो\ऽजया राधया तद् उत्थनिमित्तेन श्री-राधानुराग-प्रयुक्त-विहार-निमित्तेन युज्यन्ते क्रीडानुकूला भवन्तीत्य् अर्थः । यदि तद् उत्थ-निमित्त-युजः स्युर् भवन्ति तदा उदीक्षया राधया सह तव विहारः स्याद् इति परस्य क्रीडार्थम् एव सदा व्याप्रियमाणस्य महा-केलि-सम्पदश् च तव स्वीयः परश् च को\ऽपि न भवेत् स्फुरद् इति । वियत इवान्य-सङ्ग-सम्भावना-रहितस्य शून्य-तुलां दधतः अन्यागोचरस्येत्य् अर्थः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : सर्व एव भवद् अधिकृताः सर्व एव भवतो भयं दधति, सर्व एव बलिम् उद्वहन्ति । तत्राहुः—स्थिर-चर-जातय इति । आब्रह्म-स्तम्बा जातयो\ऽजया स्युः, सर्व एव जीवाः । ननु अजा तावत् जडा, तस्याः कथं तद् उत्पत्तौ शक्तिर् इति तत्राह—हे अजया विमुक्त! तव विहरे या तां प्रति उदीक्षा तया तव उदीक्षयैव तत्र कारणम् । स्थिर-चर-जातयः किम्-भूताः उत्थ-निमित्त-युजो तव विहारे या उदीक्षा तयैव उत्थानि उत्थान-शीलानि यानि निमित्तानि तानि युजः, अतः सर्वेषाम् एव परस्परया त्वद् उद्भवत्वात् कुत्रापि तव न वैषम्यम्, वैषम्यं तु अजाकृतम्, सा त्वयि नास्त्य् एवेत्य् आह—ततः परस्य सर्वोत्तमस्य तव कश्चिद् अपर आत्मीयः परो\ऽनात्मीयो न भवेत् । कान्येव शून्य-तुलां शून्य-स्योपमां दधतो\ऽपदस्य अनालम्बस्य वियत आकाशस्य् एव, आकाशस्य यथा दूरतरम् उत्पतन्तं मन्दतरम् उत्पतन्तं च खड्गं प्रति साम्यम्, सर्व-स्यैव खड्गत्वात् न हि काश्चित्-तद् अन्तं लभन्ते, अन्यत्वात्-तथा तव च यथा-शक्ति भजतः प्रति वैषम्यं नास्तीति भावः ॥२९॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे विमुक्तेति नित्य-माया-कार्य-सङ्ग-राहित्यम्, तत्र च वि-शब्देन मुक्त-जीवेभ्यो\ऽपि वैलक्षण्यं सूचितम्, सत्य-नित्य-सर्वैश्वर्यवत्त्वात् विमुक्तत्वम् एवाभिव्यञ्जयति-परस्येति । हि निश्चितम्, स्थिर-चर-जातयः-स्थिराः स्थावराः, चरा जङ्गमाः, जातयो भाविन्यो येषां ते, परमेश्वराज्-जीव-वृन्दानां प्रादुर्भावो महद् आदीनां च सर्गः स्या, विरिश्चेस्तु स्थिर-चराणां विसर्ग इति ।
तत एव तैर् व्याख्यातम्—जीवा भवेयुर् इति । ननु विहारो\ऽपि किम् अर्थम् तत्राहुः—विमुक्तेति । हे परम-स्वतन्त्रेति, तत्रैव हेतुः—परस्य परमेश्वरस्येति, अतस् तवाभिप्रायः केन ज्ञातुं शक्यताम् इत्य् अर्थः । अन्यत्-तैर् व्याख्यातम् । यद् वा, यदि स्थिर-चर-जातयो विविधा जीवास् तवोदीक्षया इच्छया भवेयुः ततो\ऽजया तव विहारः स्यात्, विचित्र-विहारार्थम् एव तव विसर्ग इत्य् अर्थः ।
ननु तर्हि किम् अहं माया-कार्येष्व् आसक्तः स्याम् इत्य् अत आहुः—परस्येति, । माया-सङ्ग-रहितस्य । यतो विमुक्त! हे नित्य-मुक्त! ननु यदि नित्य-मुक्त एवाहम्, तर्हि कथं देवासुरादिषु मैत्री-वैरादिकं मम दृश्यते इत्य् अत आहुः—न हीति । कुत्रापि तवानुग्रह-निग्रहादिकं न स्यात्, तवाज्ञेयत्वाज्-जनैः केवलं जय-पराजयादि-दृष्ट्या तथा कल्पत इत्य् अर्थः ।
यद् वा, ननु स्थिरा दुःखिन एव, चरेषु च तिर्यग् आदयो दुःखिनः, ततः कथं तथाभूता जीवा मया सृज्येरन्न् इत्य् अत आहुः—उत्थनिम् इत्तेति । स्थिरत्व-चरत्वयोर् निमित्तानि कर्माणि तेषु सन्त्य् एव, तानि तवेक्षया केवलम् उत्तिष्ठन्ति ।
ननु तेषां तान्यनादीनि दुष्कर्माण्य् अपनीय कथं ते सुखिन एव क्रियेरन् इत्य् अत आहुः—न हीति । परमस्याविषमस्य कश्चिद् उपकार्यः कश्चिद् अपकार्यश् च न स्यात् । कथम्-भूतस्य अपदस्य तैस् तैर् जीवैर् अकृत-प्रतिपत्तेः, अतस् तेषु वियत इव शून्य-तुलां दधतः, कदाचिद् अपि तच्-छ्रुति-पथम् अप्य् अनारोहत इत्य् अर्थः ।
अयम् अर्थः—भक्तेतरेषु सामान्य-जीवेषु कर्मानुसारेण फलं प्रयच्छतस् तव साम्यम् एव, भक्तेषु तु प्रारब्धम् अपि क्षपयतो वैषम्यम् अपि साम्य-शिरसि विराजमानत्वाच्-छोभैव ॥
नातीवान्तरङ्गाणाम् अधिकारि-भक्तानां सेवामुक्त्वा परमान्तरङ्गाणां वृन्दावन-वासिनां सेवाम् आहुः—स्थिरेति । विमुक्त! हे विमुक्त-चित्त! हे महा-वदान्य-शेखरेत्य् अर्थः । परस्य पुरुषोत्तमस्य तव अजया योग-निद्रयापि हेतु-भूतया यदि विहारः, किं पुनर् लीला-शक्त्या । ततो वृन्दावनस्य स्थिर-चर-जातयः स्थिराश् च चराश् च जातयश् च स-जातयः, तास्तव उदीक्षया साभिलाषावलोकनेन उत्थ-निमित्त-युजः स्युः, उत्था प्रकटा निमित्ता विहार-कारणानां युग् योगो यासु तथा-भूता भवेयुः । तत्र स्थिरेषु लता-द्रुमादिषु विहार-निमित्तानि पुष्पकोरक-पल्लवादीनि, चरेषु मयूर-भृङ्ग-कोकिलादिषु शिखण्ड-मधुर-कूजितादीनि स्वजाति-श्री-दाम-प्रभृतिषु व्रज-सुन्दरीषु च तत्-तद् उचित-वेष-भूषण-वैदग्धी-नर्म-विलासादीन् इति ज्ञेयम् । इति बहिर् विहार इवान्तर्-विहारे\ऽपि सर्वेषां भजनम् उक्तम् । तत्र यदि विहार इत्य् अनेनान्तर् लीलायां सर्वैर् विहारः कादाचित्कः एवेति ध्वनितः, प्रेयसीभिर् विहारस्तु सार्वदिकः, स तु ते क्वचिद् अजया [१४श। श्लो।] । इत्य् अनेन पूर्वं समर्थितः ।
यद् वा, अजया लीला-शक्त्या, शेषं समानम् । प्रिय-जनेषु श्री-भगवतो भाव-मुक्त्वा सामान्य-जनेषु विद्वेषिषु च क्रमेण साम्यम् अस्फूर्तिं चाहुः—न हीति । परमस्य तव सामान्येषु पुण्य-पापकारिषु मध्ये कश्चिद् अपरो मित्रं हि निश्चितं न भवेत्, परः शत्रुश् च न भवेत्, पक्षपातं विना कर्मानुसारेण स्वर्ग-नरकादि-रूपं फलं ददासीत्य् अर्थः । कथम्-भूतस्य तव विद्वेषिषु भक्त-जन-वैरि-प्रभृतिषु शून्य-तुलां दधतो मनाग् अप्य् अस्फुरत इत्य् अर्थः । अत एवापदस्य तेषां चक्षुर् आद्य् अविषयस्य वियत इव, यथा बाढम् अदृश्ये\ऽपि वियति भ्रान्त्य नीलम् आकाशम् इति बुद्धिः स्यात्, तथा त्व् आभास-मात्रे विद्विषां त्वद्-बुद्धिर् इति भावः ।
यद् वा, व्रज-वासि-जनेषु श्री-भगवतो भावम् अभिव्यज्य तस्यैवोत्कर्षाय परमैश्वर्यम् आहु—न हीति । परमस्यासमोर्ध्व-स्वातन्त्र्यादि-वैभवस्यापदस्य मन-आद्य-गोचरस्य, अत एव वियत इव शून्य-सादृश्यं दधतः, स्वेच्छां विना परम-शुद्ध-हृदयानाम् अपि ब्रह्म-रुद्रादीनां महा-समाधाव् अपि क्षणम् अपि मनाग् अप्य् अस्फुरत इत्य् अर्थः । तथा च बृहद्-वामने श्री-रुद्र-वचनम्—
कृतः समाधिस् तं द्रष्टुं सहस्रं परिवत्सरान् ।
अहो बत मम स्वान्ताद्-दूराद्-दूरतरो हरिः ॥ इति ।
अत एव निरतिशयैश्वर्य-परि-पूर्णत्वात्तव न कुत्रापि परा-परबुद्धिः । एवम्-भूतस्यापि तव व्रज-वासिषु तादृक्-प्रेमोद्रेक इत्य् अहो चित्रम् इति भावः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्थिरेत्य् अस्य टीकायां श्रुतौ प्राणा इन्द्रियाणि लोकाः कर्म-फलानि देवा इन्द्रियाणां लोकानां चाधिष्ठाताराः भूतानि ब्रह्मादि-स्थावरान्तानि आत्मन उपाधि-सम्पर्क-जनित-विशेष-प्रतिबुद्ध्या नानात्मान इति ।
स्व-व्याख्यायां तु—तद् एवं करण-प्रवर्तकः परमोत्कृष्ट-गुणः श्री-भगवांस् तद् अधीन-करण-परतन्त्रैः स्वल्प-गुणैर् जीवैर् भजनीय इति पूर्वाचारेण पूर्वाभिर् दृढीकृतम् । तत्र परा शक्तिश् च दर्शिता । तथैवान्याः श्रुतयो\ऽभिप्रयन्ति । यतो न केवलम् इयद् एव कारणं तत उत्पन्नत्वम् अपीत्य् आहुः—स्थिरेति । हे विमुक्त! प्रकृत्य् आदि-सङ्गातीत! यदि तव विहरः प्रपञ्च-गत-भक्त-वृन्द-सुखार्थं प्रपञ्चे तत्-तद् अवतारैर् विहारो दृष्टः स्यात्-ततस् तद् अनन्तरम् उदीक्षया प्रकृति-लीला-सिद्ध-भक्तोद्देशत्वेनोत्कृष्टया त्वद् उदीक्षया उत्थानि प्रकृति-क्षोभेणोत्थितानि यानि निमित्तानि कर्मादीनि तैर् युक्ताः स्थिर-चर-जातय उद्बुद्धतत्-तज्-जाति-संस्कार-सूक्ष्म-देहाः सर्व एव जीवा उद्भवन्ति स्वाविर्भावम् आप्नुवन्ति । कीदृश्येक्षया? । अजया प्रकृति-क्षोभाप्राचीनत्वात् स्वभाव-सिद्धयैवेत्य् अर्थः । तथैव व्याख्यातं भाष्य-कृद्भिः ईक्षतेर् ना-शब्दम् [वे।सू। १.१.५]। इत्य् अत्र । कथम्-भूतस्य तव । परस्य सर्व-विलक्षण-स्वरूप-तच्-छक्तिकस्य ।
ननु यैः सह विहरेच्छा तेषाम् एवोद्बोधो यथा स्यात्-तथैव कुतो नेक्षते तत्राहुः—न हीति । परमस्येति-परमत्वात्-प्राकृत-धर्मेष्वादर-रहितस्येत्य् अर्थः । अत एव न कश्चिद् अपरः परमश् च भवेत्, अन्यत्र राग-द्वेषाभावेन तद् असङ्कोचनाद् इत्य् अर्थः ।
समो\ऽहं सर्व-भूतेषु न मे द्वेष्यो\ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९]
इति श्री-गीतोक्तेः । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः । इति पाद्मोक्तेश् च । तर्हि कथं ते\ऽपि न भजन्ति येन तव विहार-हेतवः स्युस् तत्राह—शून्य-तुलां दधतः । वियत इवापदस्येति सर्व-गोचरस्येत्य् अर्थः । अयं भावः—यद्यपि वियत् खलु वस्त्व् एव तथापि न । केनचिद्-ग्रहीतुं शक्येत तद्-ग्रहण-शक्त्य-भावात् । एवं सर्वा-गोचर-स्वभाव्-अगुणो भवान् अपि भक्त्य् अभावाद् इति । तस्माद्-भक्तेभ्यो भक्तिर् ग्राह्येति
च श्रुतयश् च स ऐक्षत [छा।उ। ६.२.३]। इति । यथाग्नेः क्षुद्राः [बृ।आ।उ। २.१.२०] इत्य् आदि । अक्षरात्-परतः परः । इति । असद् वा इदम् अग्र आसीत् [तै।उ। २.७.१]। न सन्दृशे तिष्ठति रूपम् अस्य [कत्।उ २.३.९] इत्य् आदि । सद्-रूपम् अद्वयं ब्रह्म मध्याद्यन्त-विवर्जितम् । सुप्रभं सच्-चिद् आनन्दं भक्त्या जानाति चाव्ययम् ॥ इत्य् आद्याः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अतः साधूक्तं पूर्वाभिस् तव परि ये चरन्तीति भावः । श्रुतयचात्र न तस्य कार्तम् इत्य् आद्य् अनुगता एव अपानि-पादः इत्य् आद्याः । तद् एवं करण-पूर्वकः परमोत्कृष्ट-गुणः श्री-भगवान् तद् अधीन-करण-परतन्त्रैः स्व-गुणैर् जीवैर् भजनीय इति सदाचारेण पूर्वाभिर् दृढीकृतम् । तत्र परा शक्तिश् च दर्शिता । तत्रैवान्याः श्रुतयोऽभिप्रयन्ति । यतो न केवलम् इयद् एव कारणम् । तद् उत्पन्नत्वम् अपीत्य् आहुः—स्थिर-चरेति ॥२९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : सर्व एव त्वद् अधिकृताः, सर्व एव तुभ्यं बलिम् उद्वहन्ति, सर्व एव भवतो भयं विदधति । एषु स्व-पर-भावस् तव नास्त्य् एवेत्य् आहुः—स्थिर-चर-जातय इत्य् आदि । स्थिर-जातयश् चर-जातयश् च आ-ब्रह्म-स्तम्ब-पर्यन्ताः प्राणिनोऽजया अजयैव सम्पादिताः । अजैव तेषां कारणम् इत्य् अर्थः
ननु अजा तावज् जडा, कथा अस्यास् तद् उत्पादने कर्तृत्वम् ? इत्य् आहुः—हे ततो विमुक्त ! अजातो विमुक्त ! विहरे विहारे तां प्रति या ते उदीक्षा दृक्-पातः, तया ते, इत्य् अर्थापत्त्या ज्ञेयम् । कथम्-भूतस्य तव ? उत्थ-निमित्त-युजः, उत्तिष्ठतीति उत्थं, यन्-निमित्तं सर्व-कारण-कारणता, तद्-युजः, अत एव प्रस्परात्-परस्य यदि एवं, तदा परमस्य सर्वोत्कृष्टस्य तव न हि कश्चिद् अपर आत्मीयः, न कश्चित् परोऽनात्मीयो भवेत् । प्रपञ्च्सर्व-या सर्वेषां त्वद् उद्भवत्वात् ।
कस्येव ? शून्य-तुलां शून्योपमां दधतः । अपदस्य निरालम्बस्य वियत आकाशस्य यथा दूरं दूरतरं दूरतमम् अल्पम् अल्पतरम् अल्पतमम् च सम् उत्पतन्तं खग-समूहं प्रति साम्यं सर्व-स्यैव निरालम्बनत्वादिना साम्यम्, तथा तवापि यथा-शक्ति भजतः प्रति साम्यम् एव, न वैषम्यम् इति भावः ॥२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : परमेश्वरस्योपास्यत्वे स्वातन्त्र्यम् ऐश्वर्यं च कारणम् उक्त्वा, जिवानाम् अपि तद् उपासकत्वे तद् उत्पन्नत्वात् तत्-पारतन्त्र्यम् अनैश्वर्यं च कारणम् आहुः—स्थिरेति । हे विमुक्त ! यदि तव अजया मायया सह उदीक्षया उद्गतेन ईक्षणेनैव कादाचित्केन विहरः, विहारः क्रीडा भवति । तदा स्थिर-चर-जातयः स्थिराश् च चराश् च जातयो जात्य् आलिङ्गिता देहा येषां ते जीवाः स्युः । कथं-भूतस्य ? ततोऽजातः परस्य दूरे वर्तमानस्यासङ्गस्येत्य् अर्थः ।
ननु मयि लीनानां पुनः कथं जन्म स्यात् ? तत्राह—उत्थ-निमित्त-युज इति । ईक्षयैवोत्थान्य् उत्थितानि निमित्तानि कर्माणि, ततश् च तद्-युक्तानि लिङ्ग-शरीराणि च, तैर् युज्यन्त इति ते तथेति । कार्योपाधीनां लयाद् एव जिवानां लीनत्वं । तेषां जन्मनैव जन्म व्यवह्रियत इति भावः । एवं च कर्म-नियम्यत्व-लक्षणम् अनैश्वर्यत्वम् उक्तम् ।
ननु किं-निमित्तोत्थानेन मद्-इच्छयैव भवन्तु ? न, त्वयि वैषम्याभावाद् विषम-सृष्टेर् अयोगाद् इत्य् आहुः—परमस्य निर्दोष-पुरुषोत्तमस्य कश्चिद् अपरः आत्मीयः, परोऽनात्मीयश् च न भवेत्, न सम्भवेद् इत्य् अर्थः ।
तत्र दृष्टान्तः—वियत इवापदस्य आकाशवन् निर्लेपत्वाद् वैषम्यानस्पदस्येत्य् अर्थः । न चात्र आकाशस्यापि तुलाम् उपमां दधतः । तत्र श्रुतयः—
यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच् चरन्ति, एवम् एवास्माद् आत्मनः सर्वे प्राणाः, सर्वे श्लोकाः, सर्वे देवाः, सर्व-णि भूतानि, सर्व- एत आत्मानो व्युच् चरन्ति ॥ [बृ।आ।उ। २.१.२०] इत्य् आद्याः ॥२९॥
॥ १०.८७.३० ॥
अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास्
तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत्
समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावत् परमात्मनः सकाशाद् अविद्या-कृत-कार्योपाधयस् तद् अंशा एव जीवा जाताः संसरन्तो113 भजन्तीत्य् उक्तम् । तत्र यद्य् एकाविद्या, तदा जीवस्याप्य् एकत्वाद् एक-मुक्तौ सर्व-मुक्ति-प्रसङ्गः । अथ नानाविद्यास् तर्हि तस्यैवांशान्तरेण114 संसारानपगमाद् अनिर्मोक्ष इत्य् आदि-तर्क-बलेन, वस्तुत एव नानात्मानस् तत्र च तेषाम् अणुत्वे देह-व्यापि चैतन्यं न स्यात्, देह-परिमाणत्वे च मध्यम-परिमाणानां सावयवत्वेनानित्यत्वं स्यात् । अतः सर्व-गता नित्याश् चेति केचन मन्यन्ते । तत्र न तावद् उक्त-दोष-प्रसङ्गः, अविद्या-भेदेन तच्-छक्ति-भेदेन वा बद्ध-मुक्त-व्यवस्थासम्भवात् । ईश्वरस्य तु न केनाप्य् अंशेन संसार-शङ्केत्य् उक्तम् एव । प्रसिद्धं चात्मैक्यं सर्व-श्रुतिषु । किं च, इमं पक्षम् अन्तर्यामि-ब्राह्मणम् अपि न सहत इत्य् आह—अपरिमिता इति ।
वस्तुत एवानन्ता ध्रुवाः, तेनैव रूपेण नित्याः, सर्व-गताश् च तनु-भृतो जीवा यदि स्युः, तर्हि तेषां समत्वाच् छास्यता न घटत इति कृत्वा, हे ध्रुव ! नियमो नियमनं त्वया न स्यात्, इतरथा तु घटेत । कथम् ? यन्-मयम् उपाधितो यद् विकार-प्रायं यज् जीवाख्यम् अजनि जातं, तत् तस्य स्व-विकारस्य नियन्तृ नियामकं भवेत् । अविमुच्य कारणतयापरित्यज्य । किं तत् ? समम् अनुस्यूतम् ।
ननु किं यत् तच् छब्दैर् ज्ञायते चेत् उच्यताम् इदं तद् इत्य् अत आह—अनुजानतां यद् अमतम् इति । जानीम इति वदतां यद् अमतम् अविज्ञात-प्रायम्, अविषयत्वात् । तथा च श्रुतिः—
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातम् अविजानताम् ॥ [केन।उ। २.३]
अवचनेनैव प्रोवाच, सह तूष्णीं बभूव इत्य् आदिः ।
किं च, मतस्य ज्ञातस्य दुष्टतया दोष-श्रवणात् । तथा च श्रुतिः—यदि मन्यसे सुवेदेति दभ्रम् एवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यद् अस्य त्वं यद् अस्य देवेषु115 [केन।उ १.१] इत्य् आदि । तस्माद् यत् तच्-छब्दाव् अद्योत्यम् अतर्क्यं किम् अपि सर्वानुस्यूतत्वेन समं नियन्तृ भवेद् इत्य् अर्थः ।
अन्तर्यन्ता सर्व-लोकस्य गीतः
श्रुत्या युक्त्या चैवम् एवावसेयः ।
यः सर्व-ज्ञः सर्व-शक्तिर् नृसिंहः
श्री-मन्तं तं चेतसैवावलम्बे ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् । तत्र पक्षे । अस्यथार्थः—अत्र तार्किका दूषयन्ति यद्य् एकाविद्या जिवोऽपिप्य् एक-विधस् तया बद्धोऽस्ति तर्हि जिवस्याप्य् एकत्वाद् एकस्य मुक्तौ सर्व-जिव-मुक्ति-प्रसङ्गः स्यात् । अथैक-विधो जिवो नाना-विधा अविद्यास् ताभिर् बद्धश् चेत् तर्हि तस्यैवेश्वरस्यैवांशान्तरेण जिव-रूपांशेन कृत्वा संसारानपगमात् संसार-निवृत्त्य् अभावाद् अनिर्मोक्षः स्यात् । एकयाविद्यया मुक्तो जिवः पुनर् अन्यया बद्धः पुनर् अन्यया मुक्तः पुनर् अन्यया बद्ध इत्य् अनिर्मोक्षः । एवं च सति चतुर्थ-पुरुषार्थाभावः स्याद् इत्य् आदि तर्क-बलेन नानात्मानः स्थाप्यन्ते । तत्र च नानात्वेऽपि सर्व-गतत्वम् आह—तेषाम् आत्मतृतीय् अणुत्वे सूक्ष्मत्वे देहस्य स्थूलत्वे सर्व-व्यापि चैतन्यं न स्याद् इति जिव-परिमाणम् उक्तं श्रुत्या आराग्र-मात्रो ह्य् अपरो हि दृष्टः [श्वे।उ। ५.८] इति । श्रुत्य् अन्तरं च—
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः सुख-दुःख-फलैक-भुक् ॥ [श्वे।उ। ५.९] इति ।
सूक्ष्माणाम् अप्य् अहं जीवः [भा।पु। ११.१६.११] इत्य् एकादशे भगवद् उक्तेः । एवम्-भूत-सूक्ष्मस्य स्थूल-देहैक-प्रदेशे पिपीलिकादि-स्पर्शजं चैतन्यं कथा स्यात्, तस्मात् सर्व-गता इति नित्यत्वं साधयति—देह इति । देह-परिमाणत्वं च देहस्य मध्यमं हृदयं दशाङ्गुलि-परिमाणं, अत्यतिष्ठद् दशाङ्गुलम् इति श्रुतेः । हृदय-परिमाणानाम् आत्मनां सावयवत्वाद् अनित्यत्वं स्यात् तस्मात् परिमाणाभावान् नित्या अत एवात्मानो नाना सर्व-गता जिव-रूपेणैव नित्याश् चेति ।
केचन तार्किका मन्यन्ते, एतन्-मतं निराकुर्वन् सिद्धान्तयति—तत्र न तावद् इत्य् आदिना । तत्र बन्ध-मोक्ष-प्रसङ्गे उक्त-दोषः एकस्मिन् बद्धे मुक्ते च सर्व-बन्ध-रूपो दोषो नास्ति । कुतः ? अविद्या-भेदेन अविद्यया बन्धो विद्यया च मोक्षः । अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते [ईषो।उ ११] इति श्रुतेः । एकादशे च—
काम-मय एवायं पुरुष इति । स यथा-कामो भवति तत् क्रतुर् भवति । यत् क्रतुर् भवति तत् कर्म कुरुते । यत् कर्म कुरुते तद् अभिसम्पद्यते ॥ [बृ।आ।उ। ४.४.५] इति ।
तम् एव विदित्वातिमृत्युम् एति
नान्यः पन्था विद्यतेऽयनाय ॥ [श्वे।उ। ३.८] इति च ।
ईश्वरांशस्य जिवस्य बन्ध-मोक्ष-व्यवस्थां प्रदर्श्यांशिनस् तु बन्ध-शङ्कां निराकरोति—ईश्वरस्येति । समष्ट्य् उपाधेर् अखण्डितत्वस्येश्वरत्वात् तस्य विद्या-शक्ति-प्रधानत्वात् केनाप्य् अंशेन संसार-शङ्का नेत्य् अर्थः । एक एव हि भूतात्मा इत्य् आदि-श्रुतिष्व् आत्मैक्यं प्रसिद्धम् अस्त्य् एव । कुतो नानात्वम् ? किं च, जिवस्य कुतः स्वातन्त्र्यम् आचार्य्स्थिति-सम्भवात् ? अत इमं तार्किक-पक्षं नाना जिवाः स्वतन्त्रा नित्याः सर्व-गता इति मतम् आचार्य्स्थिति-ब्राह्मणाख्यो वेदो न सहते इत्य् आह—अपरिमिता इति । ध्रुवाः स्थिराः । तेनैव रूपेणैव ध्रुवत्व-रूपेणैव । तेषां जिवानाम् । शास्यता शासन-गोचरता इति कृत्वा व्यापकान् एकात्म-वादे भोग-साङ्कर्य-प्रसङ्गोऽपि दुर्वारस् तथा हि न ह्य् एकत्रान्तः-करणे सुखादि-रूपेण परिणते तत्-प्रतिसंवेदी एक एव चेतन इति नियन्तुं शक्यं सर्वेषां सान्निध्याविशेषेण प्रतिसंवेदनापत्तेर् अवर्जनीयत्वात् । श्रोत्रस्यैकस्यापि कर्ण-शष्कुली-रूपोपाधि-भेदाद् इवान्तःकरण-रूपोपाधि-भेदाद् एकस्याप्य् आत्मनः शब्द-ग्रह-व्यवस्थावज् जन्मादि व्यवस्थापि सेत्स्यतीति न पुरुष-बहुत्वं वक्तव्यम् इति नीलकण्ठः ।
शास्यता गोचराभावत्वेन नियमनं नियोगत्वम् । इतरथा समत्वाभावे कथा तद् आह—यद् अग्निमयं विस्फुलिङ्गं जातं तद् अग्नित्वं कर्तृ विस्फुलिङ्गं स्व-कार्यम् अपरित्यज्य स्वरूपांशेन सत्यांशेन च सर्वंशं व्याप्यैव नियन्तृ प्रवर्तकं भवेत् । कार्याभावे कारणस्य प्रवृत्त्य् अभावात् तद्वत् ।
किं तत् ? इति प्रश्ने तद् दर्शयति—समम् अनुस्यूतं मणिषु सूत्रम् इव प्रोतम् । अत्राक्षिपति—नन्व् इति । तद् ब्रह्मेदम् इदम् आकारकम् इति सम-पदम् आवृत्त्या योज्यम् । समं क्वचिद् अप्य् अम्शेन तुल्यं वस्त्व् अन्तरं ज्ञात्वा तद् ब्रह्मेति यद् आचार्य्स्थित्य् आख्यं तद्-रूपं परम-कारणम् अमतम् ।
अत्र प्रमाणम् आह—तथा चेति । यस्य ब्रह्म-विद अमतम् अविज्ञातम् अविदितं ब्रह्मेति मतं, तस्य मतं ब्रह्म सम्यग् ज्ञातम् इति यस्य पुनर् मतं मया ब्रह्म ज्ञातम् इति स न वेदैव । अत एव विजानतां जानीम इति वदताम् अविज्ञातम् अज्ञातम् एव । अविजानतां न जानीम इति वदताम् विज्ञातम् इति निदर्शनम् ।
अवचनेनेति । वेदान्त-शास्त्रम् अधीत्य गुरुकुलाद् आगतं पुत्रं पिता पृष्टवान् प्रत्यग् ब्रह्म त्वं ज्ञातवान् न वेति । अविशेषे प्रत्य ब्रह्मणि शब्द-प्रवृत्ति-हेतु-जाति-गुणादेर् अभावाद् ब्रह्म-वित्त्व-प्रद्योतक-मुख-कान्त्यादिना तद् अभिनयं कृत्वावचनेनैव प्रोवाच प्रत्यग् ब्रह्म मयानुभूतम् इति सूचितवान्, स पिता तूष्णीं बभूव ब्रह्मात्म-तत्-त्वम् अयं ज्ञातवान् इति निश् चयं जगामेत्य् अर्थः ।
अन्यद् आह—किं चेति । मतस्य दुष्टत्वे श्रुतिः—यदीति । यदि कदाचिद् अस्य ब्रह्मणो यद्-रूपम् अहं सुवेदेति मन्यसे, तर्हि दह्रं दभ्रं स्वल्पम् एवापि त्वं न वेत्थ न जानीषे न केवलम् एतावद् अपि तु अध्यात्मोपाधि-परिच्छिन्नस्यास्य ब्रह्मणो वेदेषु यद् रूपं गीतं तद् अपि त्वं दभ्रम् एव वेत्थेति मन्येऽहं यत् तु निरुपाधि-भूतम् आख्यं ब्रह्म न तत् सुवेद्यम् इत्य् अभिप्रायः । मत-खण्डन-परेयं श्रुतिः । आचार्य्स्थिति-ब्राह्मणम् यः पृथिव्यां तिष्ठन्116 [बृ।आ।उ। ३.७.३] इत्य् आदिकं प्राग् एव लिखितम् । स्वामिनां—अन्तर् इति । आचार्य्स्थिती श्रुत्या गीतो युक्त्या चैवम् एवावसेयो निश्चितस् तम् ॥३०॥
श्रीधरानुयायिनी : ननु किम् इति लिङ्गाद्य् उपहितत्वेनैकस्यैव परमस्य पुंसो बहुत्वम् उक्तम् । यतः साङ्ख्यादयस् तार्किकाश् च वस्तुत एव बहवो नित्या विभव आत्मान इति मन्यन्ते तत्राहुः—अपरिमिता इति । हे ध्रुव ! जिवा यदि वस्तुत एवानन्तास् तेनैवोपहित-रूपेणैव नित्याः सर्व-गताः स्वतन्त्राश् चेश्वरत्वात् स्युस् तदा सर्वेषां तेषां त्वत्-तुल्यत्वापत्त्या न शास्यता । सर्वैः सर्व-दानुभूयमानम् अपि त्वच्-छासन-योग्यता न स्याद् इत्य् अर्थः । तत्रेष्टापत्तौ त्व् आह—इति नियमो नेतरथेति । इतीत्य् अनेन सर्वैः शिष्टैः प्रमाणीकृतः, शास्ता विष्णुर् अशेषस्य इति नियमोऽभिनीय दर्शितः, स च नेतरथा कदाप्य् अन्यथा न भवतीत्य् अर्थः । य आत्मानम् अन्तरो यमयति इति श्रुतेः, न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ ६.८], स्वतन्त्रो नापरः कश्चिद् विष्णोः प्राण-पतेः परः इत्य् आद्य् उक्तेश् च । तद् एव स-युक्तिकम् आह—अजनीति । मुखाद् इव बिम्ब-रूपाद् ब्रह्मणः सकाशाद् दर्पणादौ प्रतिमुखम् इवाविद्यान्तः-करणादौ प्रतिबिम्ब-रूपं यज् जिवाख्यं यन्-मयम् उपाधि-प्राधान्येनाजनि उपाधि-जन्मना तद् अध्यासेन जातं तद् इदं जिवाख्यं कार्यम् अत्यजन्न् एवोपाधाव् अपि समत्वेनानुस्यूतं कारणीभूतं बिम्ब-रूपं ब्रह्म सर्वेषां जिवानां स्वतो मिथो व्यावृत्तत्वेन प्रपञ्च्सर्वम् अनियम्यानां प्रतिमुखानां मुखम् इव नियन्तृ भवेत् । तच् च मनो-वाचम् अगोचरम् अतर्क्य किम् अपि सर्व-त्रानुस्यूतं साक्षि-भूतम् इत्य् एव तस्य ज्ञानं नान्यत् अविषयत्वात्, यस्यामतं तस्य मतं मतं यस्य न वेद सः117 [केन।उ १.३] इत्य् आदि-श्रुतेर् ज्ञातस्य दोष-चरणारविन्दाच् च जानीम इति वदताम् अविज्ञात-प्रायम् ॥
———————————————————————————————————————
नीलकण्ठी : एवं द्वैतस्य मिथ्या-भूत-मनो-मात्रत्वेन जीवस्य ब्रह्माभिन्नत्वेन च ब्रह्माद्वैतं साधितम् । परे तु जीव-बहुत्वं जीवेश्वरयोर् भेदं चाहुस् तन्-निरस्यति-अपरिमिता इति । हे ध्रुव ! यदि अपरिमिता असङ्ख्याता ध्रुवा अबाध्याः तनु-भृतो जीवाः सर्वे सर्व-गता व्यापकाः स्युस्तहि तेषां न शास्यता स्यात् । पृथिव्यादि-वद्-विभूनां व्योमादीनां परस्पराधीनत्वादर्शनेन त्वत्-तुल्यत्वादित्य् अर्थः । न चैषाम् अदृष्टाद्य् अचेतन-शास्यता युज्यते दृष्टान्ताभावात् । न हि चेतनस्याचेतनः शास्ता क्वचिद्-ऋष्टो\ऽस्ति नापि स्वस्य स्वशास्यता धी-पूर्वकारिणश् चेतनस्य निषिद्धे प्रवृत्त्य् अनुपपत्तेः ।
यो विज्ञाने तिष्ठन् विज्ञानाद् अन्तरो यं विज्ञानं न वेद ।
यस्य विज्ञानं शरीरं विज्ञानम् अन्तरो यमयति
य आत्मनि तिष्ठन्न् आत्मोत्तरः ॥ [बृ।आ।उ ३.७.२२]
इति विज्ञान् आत्म-शब्द-वाच्याज् जीवात्-तच्-छास्तुः पृथग् आम्नानात् । तस्मात्-त्वच्-छास्यानां जीवानां त्वत्-तौल्यत्वं वाच्यम् । तच् च मध्यमत्वाणुत्वयोर् उक्य्त-दोषात्—
घट-संवृतम् आकाशं नीयमाने यथा घटे ।
घटो नीयेत नाकाशं य्तद्-वज् जीवो नभोपमः ॥
एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जल-चन्द्रवत् ॥
इति श्रुत्य् अनुसारेण घटाकाशवज् जल-चन्द्रवद् औपाधिका बोध्यम् । ननु, शास्यतैव मास्त्वित्य् आशङ्कयाह—इतीति । इतरथा जीवानां शास्यत्वाभावेन प्रवृत्तेर् यादृच्-छिकत्वाभ्य् उपगमे इति नियमो न स्यात् । इति-शब्देन दृश्यमानं नियमम् अभिनीय दर्शयति दृश्यन्ते हि दुर्बलैर् अपि बलवन्तो बाध्यन्ते अनिरुद्धा अपि व्याघ्रादयः स्व-भक्ष्यैर् नृ-पशुभिः परिपूर्णे\ऽपि भुवने क्षुधा पीड्यमाना मितम् एवाहारं लभन्ते न यथेष्टम् । सो\ऽयं नियमः शास्यत्वाभावे न स्याद् इत्य् अर्थः ।
ननु देहेन्द्रियावच् छेदेन जीवानां शास्यत्वं न विभुत्वेन रूपेणेति चेत्-तर्हि कार्योपाधिर् अयं जीवः कारणोपाधिर् ईश्वरः । इति श्रुतेर् औपाधिके जीवेश्वरयोर् जीवानां च परस्परं भेदे सिद्धे किम् अन्तर् गडुना तेषां विभुत्वेन बहुत्वेन वा । तर्क-मते श्रोत्रैक्ये\ऽपि कर्ण-शष्कुली-रूपोपाधि-भेदेन शब्द-ग्रह-व्यवस्थावद् आत्मैक्ये\ऽप्य् उपाधि-भेदाद् एव शास्यशासितृ-विभागस्य बन्ध-मोक्ष-व्यवस्थायाश् च सिद्धेर् इत्य् आशयवान् आह—अजनि च यन्मयं य्तद् अविसुच्य नियन्तृ भवेद् इति । अत्र द्वयी प्रक्रिया-उदाहृत श्रुतेर् माया-प्रतिबिम्बितं चैतन्यम् ईश्वरः, माया-कार्यान्तः-करण-प्रतिबिम्बित जीवः, बिम्ब-स्थानीय शुद्ध चैतन्य तृतीयम् एत्य् अका ।
यथा ह्य् अयं ज्योतिर् आत्मा विवस्वान् अथो भिन्ना बहुधैको\ऽनुगच्छन् ।
उपाधिना क्रियते भेदस्यो देवः क्षेत्रेष्व् एवम् अजो\ऽयम् आत्मा ॥
इति श्रुतेः प्रतिबिम्बो जीवः, बिम्ब-भूत ईश्वरः, इति चिद्-वैविध्य-रूपापरा । तत्राद्यायाम् उभाव् अप्य् अध्यस्तौ परस्यां
याम । जीव एव । तथा च कार्य-कारणोपाधिकयोर् अध्यस्ताधिष्ठान-स्वरूपयोर् वा जीवेशयोर् मिथो वियोगाभावेन नियम्य-नियामकत्वं सम्भवति । परेषां तु तटस्थस्येश्वरस्य नान्तर्यामित्वं सम्भवतीत्य् आशयः । अक्षरार्थस् तु—यन्-मयं यस्य कारणस्याधिष्ठानस्य वा विकारो विवर्तो वा यत् कार्यं घटादि रजतादि वा तस्य कार्यस्य तन्-मृच्छुक्त्यादि-रूपं नियन्त भवेत् । कथं तत् अविमुच्य अपरित्यज्य । कार्यम् इति । यन्-मयं कार्य तत्-किं विधम् इत्य् अपेक्षायाम् आह—समम् अनुजानतां यद् अमतं मत-दुष्टतयेति । समं सर्वं नमन्तामन्यके समे, माभूवन्न् अन्यके सर्वे इति मन्त्र-तन्-निरुक्ताभ्यां सम-शब्दस्य सर्व-पर्यायत्वावधारणात । तेन समं कारणं ब्रह्मेत्य् अर्थः । अस्य तात्त्विकं रूपम् आह—यद् अनजानताम् । शास्त्राचार्योपदेशम् अनु साक्षात्-कुर्वताम् अमतम् अज्ञातं प्रत्यक्त्वेनाविषयत्वात् । अदृष्टं द्रष्टु अमतं मन्तृ अज्ञातं विज्ञातृ इति श्रुतेः ।
अमतत्वे हेतुः—मत-दुष्टतयेति । मतस्य ज्ञातस्य घटादिवद् अनात्मत्वेन अतो\ऽन्यदार्तम् इति श्रुतेर् मिथ्यात्वापत्ति-दोष-ग्रस्ततया यत् ज्ञातं तन् न ब्रह्मेत्य् अर्थः । तथा च श्रुतिः—
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातम् अविजानताम् ॥ [केन।उ १.३]
यदि मन्यसे सुवेदेति दह्नम् एवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपम् ॥ [केन।उ १.१] इति ॥३०॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—यदि तनु-भृतस् तव तनुं श्री-मूर्तिम् एवैकान्त-भावेन विभ्रतो ध्रुवा नित्यम् आत्मानं मन्यन्ते ब्रह्म-रूपेण पार्षद-रूपेण वा अपरिमिताश् च ब्रह्म-रूपेण परिच्छेद-रहिताः सर्व-गताः सर्वं गताः प्राप्ताः सर्वात्मक-ब्रह्मत्व-ज्ञानान् न शास्यता शुद्ध-भाव-वर्त्म-शिक्षा-योग्या न भवन्ति ते इति हेतोः हे ध्रुव स्थिर कदापि व्रज-राज-कुमार-भावाद् अप्रच्युत इतरथा विशुद्ध-भावेतर-वर्त्मना तव न नियमो वशीकरणं भवेत् । यन्-मयं चाजनि व्रज-वृन्दावनादौ स्थिर-चरादि-रूपेण जातं तद् अविमुच्य तद् अहं-भावं कदापि न मूक्त्वा नियन्तृ त्वद्**-**वशीकर्तृ भवेत् । अनु-रूपं शुद्ध-भाव-मयत्वात् तद् अनु-रूपं जानताम् अपि मध्ये यत् समं सशोभं तव स्वरूपं तद् अमतं कस्यापि न ज्ञातम् शुद्ध-भाव-मयम् अपि तव स्वरूपं कथञ्चित् ज्ञातुं शक्नुवन्ति । वात्सल्यादि-रसात्मकं पूर्ण-महा-मधुरोज्ज्वल-रस-मयं श्री-राधानुरागाविष्टं तव स्वरूपम् अति-दुर्ज्ञेयम् इत्य् अर्थः । मत-दुष्टतया—अन्यैर् विशुद्ध-भाव-मग्नैर् अपि मतानां त्वत्-स्वरूपाणां राधा-सङ्ग-रसोन्मत्त-स्वरूपापेक्षया दुष्टत्वाद् इत्य् अर्थः । तत्-स्वरूप-सूखस्यापि विच्छेद-सम्भवात् न हि राधानूपुर-ध्वनि-श्रवणे राधा-प्रिय-सखी-सङ्केत-विहारादि-श्रवणे वा अन्यसङ्गेन मनाग् अपि स्थातुं शक्नुयात् श्री-कृष्ण-चन्द्रः ।
नित्य-गोप्यस्तु आहुः—अपरिमिता भावेन रूप-वैदग्ध्यादिना च ध्रुवाः स्थिरानुरागाश् च तनु-भृतस् तव श्री-मूर्तिम् इव विभ्रति च तथाविधा अपि यदि सर्व-गताः सर्वेण सङ्गता भवन्ति राधा-चरणैकान्त-निष्ठा-रहिता इति यावत् तर्हि तदा हे ध्रुव राधायाम् एव स्थिरासक्त न तव शास्यता नियम्यता राधानन्य-भक्तिं विना त्वं न वशीकर्तुं शक्य इत्य् अर्थः । इति हेतोर्हे ध्रुव इतरथा राधा-प्रिय-सख्यं विना तव नियमनं न नियमः विहाराद्यावश्यकता नास्तीत्य् अर्थः ।
यन्-मयं राधा-रस-मयं स्वरूपं यद् अजनि तद् अविमुच्य काल-त्रये\ऽपि न मुक्त्वा नियन्तृ त्वद्-वशीकर्तृ भवेत् । समम् एक-रूपं यस्याः तथा आनुकूल्येन अनुवृत्त्या वा जानतां सर्व-त्रानुरागिषु कृष्णं समानासक्तिं जानतां तत्-स्वरूपम् अमतम् । न ज्ञातम् एव नहि राधा-सक्तं तव रूपम् अन्य-समम् एतद् अपेक्षया रूप-लावण्याद्य् अभिव्यक्तेस् तत्र न्यूनत्वात् मतानाम् अज्ञानानां कृष्णस्य चन्द्रावल्यादौ प्रेम-विलासानां दुष्टतया राधा-हृत-चेतसो\ऽन्यत्रासक्तेर् अभावाद् अन्यासक्त्य् अभिनय-मात्रम् इति भावः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु स्थिर-चर-जातीनां मद्-ईक्षया मद्-विहारे अजया निइमित्त-भूतया उत्पन्नत्वम् उक्तं भवतीति, तत् कथा सङ्गच्छताम् ? यतो जिवा अपरिमिता ध्रुवाः, अतः स्वतन्त्राः, अतः कुतो वा तेषु मद् अंशत्वम् इत्य् आशङ्क्याहुः—अपरिमिता इत्य् आदि । हे ध्रुव ! नित्य ! नित्यस् तु त्वम् एवेत्य् अर्थः । यदि तनु-भृतो जिवा ध्रुवाः, तदा तव ध्रुवत्वे तेषाम् अपि ध्रुवत्वे च साम्यात्, साम्यता न घटते इति कृत्वा नियमो नियमनं तेषां न स्यात् । ते कीदृशाः ? अपरिमिता अनन्ताः सर्व-गता ध्रुवा इव, समत्वे विशेषण-द्वयम् । इतरथा अन्यथा तु एतद् वैपरीत्ये नियमनं स्यात् । कुतः ? इत्य् आह—अजनीत्यादि । यज् जिवाख्यं वस्तु यन्-मयम् अजनि मद् अंशत्वेन यन्-मयं जातं, तद् अंशि-रूपं वस्तु नियन्तृ भवेत्, अविमुच्य कारणत्वम् अविहाय, यतः समम् अंश-भावेनैव समम् अविसदृशम् ।अतोऽंशस्यांशी हि नियन्ता भवति
ननु अंशी तावन् निरूप्यताम् । यत्-तद्भ्यां किं निर्दिश्यते ? इति स त्वं निरूपितो भवतीत्य् आहुः—अनुजानतां जानीम इति वदतां त्वम् इत्य् अनिर्वचनीयं वस्तु, अमतम् अविज्ञातं मतं चेत् स-दोष इत्य् आहुः—मत-दुष्टतया, मतं यत् तद् दुष्टम् । अतस् त्वं ज्ञेयो न भवसि, त्वद् अंशा एव जिवाः, त्वं सर्व-नियन्ता सर्व-कारण-कारणम् इति ॥३०॥
———————————————————————————————————————
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु प्रोक्तानां जिवानां किं स्वरूपम् इत्य् अपेक्षायां प्रथमं पर-मत-व्याक्षेपेण तेषां स्वरूपम् आहुः—अपरिमिता इत्य् असङ्ख्याः, प्रति-महा-कल्पं कोटिशो मुच्यमानेष्व् अपि जिवेष्व् अनादिना कालेनापि तेषां बाहुल्याभावस्यादर्शनात् । ध्रुवा वैष्णवानां मते नित्या एव स्युः । भक्त्या तेषाम् अविद्योपाधिषु लिङ्ग-देहादिषु लीनेषु विशुद्ध-चिद्-देहाविर्भावात्, किन्तु अनन्ता ध्रुवाश् च यदि सर्व-गता व्यापकाः स्युः, ततस् त्वया साम्याच् छास्यता न स्यात् ।
इतरथा उक्ताद् व्यापकत्वादेर् अन्य-प्रकारेण तम् एवाहुः—अजनि इति । यन्-मयं यद् वह्नि-मयं विस्फुलिङ्गादिकम् अजनि, तद् वह्नि-रूपम् अविमुच्य स्वीयतया तत् स्वीकृत्य तस्य विस्फुलिङ्गादेर् नियामकं भवेत्, निजांशत्वात् क्षुद्रत्वाच् च ।
द्विविधा हि चिच्-छक्ती—परमोत्तमा सामान्या च । तत्राद्या श्री-भगवत्य् एव विराजते, यस्या वृत्ति-विशेषस् तत्-प्रसादेन पारिषद-गणे । अन्तिमा तु काल-प्रधान-जिवादिषु वर्तते, इत्य् अतः सामान्य-चिच्-छक्ति-वृत्ति-विशिष्टा वह्नेर् विस्फुलिङ्गा इव महा—प्रलयस्यान्ते परमात्म-लक्षण-महा—चैतन्य-रूपाद् वासुदेवाच् चिद्-रूपा अनाद्य् अविद्या-भाजो जिवा अपि व्यक्तिं यान्तीति श्री-भगवन्-नियम्या एवामी ।
ननु विष्णु-धर्मोत्तरे—
कल्पानां जन118-साम्ये हि मुक्तिर् नैवोपपद्यते ।
कदाचिद् अपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥
एकैकस्मिन् नरे मुक्तिं कल्पे कल्पे गते द्विज ।
अभविष्यज् जगच् छून्यं कालस्यादेर् अभावतः ॥
अथ श्री-मार्कण्डेयस्योत्तरम्—
जीवस्यान्यस्य सर्गेण नरे मुक्तिम् उपागते ।
अचिन्त्य-शक्तिर् भगवान् जगत् पूरयते सदा ॥
ब्रह्मणा सह मुच्यन्ते ब्रह्म-लोकम् उपागताः ।
सृज्यन्ते च महा—कल्पे तद्-विधाश् चापरे जनाः ॥
सर्वे जिवाः प्रमाणाः स्युः सर्वे कल्पास् तथा नृप ॥ [वि।ध।पु। १.८१.११-१४] इति ।
जिवानां सर्ग-चरणारविन्दात् कथा तेऽनादयः ? उच्यते, सत्यम् । कूटीभूत-कर्म-कदम्बा अप्य् अनुपस्थित-कर्म-भोगत्वाद् भगवन्-माया-शक्ति-विशेष-गह्वर एवानन्ताः खलु जिवानां गणा लीना वर्तन्ते । तेषां मध्यात् केषाञ्चित् तत्र तत्र कल्पे प्रादुर्भावनम् एव सर्गः, न तु नूतन-जिव-सृष्टिर् इति सर्व-वादिनां सम्मतम् । वैष्णव-सिद्धान्ते ते च अणव एव, आराग्र-मात्रत्वेन [श्वे।उ। ५.८] श्रुत्या प्रपञ्च्दृशनात्, तथा सूक्ष्माणाम् अप्य् अहं जिवः [भा।पु। ११.१६.११] इति श्री-भगवद्-वचनात् ।
बालाग्र-शतशो भागो कल्पितो यः सहस्रधा ।
तस्यापि शतशो भागो जीवः इत्य् अभिधीयते ॥ इति श्री-विष्णु-धर्मोत्तर-वचनाच् च ।
तेषाम् अणुत्वेपि देह-व्यापि-चैतन्यं सम्भवेद् एव । यथा गृहैक-देश-स्थायां दीपः सर्वं गृहं तेजसा व्याप्नोति, तथायम् अणुर् अपि चेतना-लक्षणेन स्व-प्रभा-विशेषेण सर्व-देहं चेतयति । यथा अयस्कान्तः स्व-सन्निहितं लोहं चालयतीति, तथा च ब्रह्माण्ड-पुराणे—
अणु-मात्रोऽप्य् अयं जिवः स्व-देहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरि-चन्दन-विप्रुषः ॥ इति ।
किन्तु, यद्यप् सामान्यतः सर्व-जिवानां स्वरूपम् इदम् उक्तं, तथापि भक्ति-प्रभावेणाविर्भूतालौकिक-शक्तीनां भगवत्-प्रियाणां स्वरूपं सर्वतो विलक्षणम् एव, ते हि भक्तैक-प्रियतयैव श्री-भगवन्तम् अनुभवन्ति, तद् इतरे तु सर्वत्र समतयैवेति तद् विदन्ति—समम् इति । प्रियेषु प्रियतरेषु च श्री-भगवन्तं समम् अनुजानताम् । यद् वा, जिवानां नियम्यत्वात् तैस् त्वां समम् अनुजानतम् । मतस्य ज्ञानस्य दुष्टतया तद् अमतं, अज्ञानम् एवेत्य् अर्थः ।
यद् वा, ननु भवन्तु ते जिवास् तस्य नियम्याः, रुद्रादयस् तु तत्-समा एव ? इत्य् अत आहुः—समम् इति । रुद्रादीनाम् अपि समं तुल्यम् इति ॥
ननु व्रज-वासिषु मत्-प्रेमा कथा ज्ञातः ? तेषां गोपानां पशूनां च सर्वेषां पुत्रत्व-स्वीकारात्? इति चेत्, न, ते खलु जिवा एव भवन्तु, किम् इति मद्-रूपा इत्य् उच्यन्ते इत्य् अत आहुः—अपरिमिता इति । वत्स-वत्सपालादिषु ब्रह्मणा हृतेषु ये केऽप्य् अपरिमिता असङ्ख्या ध्रुवा नित्याः सर्व-गता व्यापकाः प्रादुर्भूतास् ते यदि तनु-भृतो जिवाः स्युः, तर्हि हे ध्रुव ! त्वया सह तेषां सर्वथा साम्यात् शास्यता न स्यात्, इति नियमनं त्वद्-इच्छैक-मयता न स्यात्, इतरथा तेषां तादृश-जिवत्वं विना सम्भवेद् इत्य् अर्थः । तद् एवाहुः—अजनीति । यन्-मयं यस्य तव स्वरूप-भूतं वत्सपालादि-रूपम् अजनि प्रादुर्भूतं, तत् तव स्वरूपं वत्सपालादि-रूपस्य निज-रूपत्वेन नियन्तृ प्रादुर्भाव-तिरोभावादिषु समर्थं भवेत्, तस्मात् त्वद्-रूपा एव ते, न तु जिवा इत्य् अर्थः । यद्यपीयं लीला पूर्वं स्व-कृत-विचित्र-योनिषु [भा।पु। १०.८७.१९] इत्य् अत्रोद्दिष्टाः, तथापि परम-मङ्गलयतिआत् पुनर् उच्यते इत्य् अदोषः ।
ननु ब्रह्म-रुद्रादीनां मत्-साम्याद् एते त्वद्-रूपाः किं न स्युः ? इत्य् अत आहुः—समम् इति। त्वत्-समम् अन्यम् अनुजानतां यन्-मतं तस्य मतस्य दुष्टतया तद् अमतम् एव, ब्रह्म-रुद्रादीभिस् तवाभेदेऽपि परमाचार्ययतिआदिषु परम-वैसादृश्याद् इत्य् अर्थः । तथा च श्रुतिः—न तस्य कार्यं करणं च विद्यते, न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अपरिमिता इत्य् अस्य टीकायाम् एकैकांशस्य बन्ध-मोक्षौ स्थापयित्वा सर्वंशेऽप्य् अनिर्मोक्ष-प्रसङ्गस्य सिद्धान्तम् आह—ईश्वरस्य त्व् इति । समष्ट्य् उपाधेर् अखण्ड-तत्त्वस्येश्वरत्वात् तस्य च विद्या-शक्ति-प्रधानत्वाद् इत्य् अर्थः । श्रुतौ तु अवचनेन इति । वेदान्तम् अधीत्यागतं पुत्रम् इपिता पृष्टवान्—प्रत्यग् ब्रह्म त्वं ज्ञातवान् न वेति । तत्रोत्तरम् इदम् इति ज्ञेयम् । दह्रम् इत्य् अल्पम् एवेत्य् अर्थः । यद् अस्य ब्रह्मणो रूपम् इति पूर्वेण सम्बन्धः । न केवलम् अध्यात्मोपाधि-परिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वं दभ्रम् अल्पं वेत्थ । तद् अप्य् अधिदैवतोपाधि-परिच्छिन्नस्यास्य ब्रह्मणो रूपं, तद् अपि त्वं दभ्रम् अल्पं वेत्थेति मन्येऽहम् इति ।
अथ स्व-व्याख्यानम्—तद् एवं भगवद्-भक्ति-प्रपञ्च्दृशनोपयोगार्थम् एव वयम् अपि एवं जिव-स्वरूपं निरूपयाम इत्य् अन्या आहुः—अपरीति । अत्रैके वदन्ति—एकम् एव सर्व-व्यापि चैतन्यम् एकस्या एवाविद्याया रजस् तमः प्रधान-वृत्ति-भेदोपाधित्वेनानन्त-जिवायते । सत्त्व-प्रधान-मूलाविद्योपाधित्वेन तु परमेश्वरायते इति । अपरे तु वदन्ति तद् असत्, अविद्यायाः शुद्ध-चैतन्याश्रयत्वात् । तन्-मूल-पक्षान्तराणां च तत एव निरस्तत्वात् तस्माद् एवं मन्तव्यम् ईश्वरवत् स्वत एव सिद्धा अनन्ता नित्या विभवश् च जिवा इति । तत्राग्रे स्वतः-सिद्धत्वम् खण्डयिष्याम इति मनसि कृत्वानन्तत्वं नियतत्वं च यदि-शब्दात् पूर्व-पाठेन स्वीकुर्वन्त्यः, तद् उत्तर-पाठेन विभुत्वं परिहरन्ति—हे ध्रुव ! सर्वाश्रय ! उभय-सम्मताव् अनन्ता नित्याश् च जिवा यदि सर्व-गता विभवो भवन्ति, तर्हि जिवानां त्वच्-छास्यता इति यो नियमः शास्त्रे निर्णयः स न स्यात्, व्याप्यत्वाभावात् । इतरथा विभुत्वाभावे तु त्वन्-नियमो न स्याद् इति न, किन्तु स्याद् एवेत्य् अर्थः व्याप्यत्वात् ।
किं च, त्वत्तो न कश्चित् पदार्थः स्वत्न्त्रोऽस्ति, सर्वेषाम् अन्वयिर् ऐकात्म्य-चरणारविन्दात्, एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञानाच् च । विशेषतो जिवानां त्वत्तो जन्मापि श्रूयते, तत एव त्वद्-व्याप्यत्वात् त्वच्-छस्यत्वं तेषांम् इत्य् आहुः—अजनि च इति । यद् अग्न्यादि-मयं स्फुलिङ्गादिकम् अजनि जातं, तद् अग्न्यादिकम् एव कर्तृ स्फुलिङ्गादि-स्व-कार्यम् अविमुच्य स्वरूपांशेन शक्त्यांशेनैव वा सर्वांशं व्याप्यैव नियन्तृ भवेत् प्रवर्तकं भवेत्, तद् अभावे तत्-प्रवृत्त्य् अभावात् ।
किं च, समं क्वचिद् अंशे तुल्यं वस्त्व् अन्तरम् अनुजानतां यत् किञ्चित् तथा वदन्ति तत्रानुज्ञाम् अपि ददतां यद् आचार्य्स्थित्य् आख्यं त्वद्-रूपं परम-कारणं वस्तु अमतम् अज्ञातम् । तत्र हेतुः—मतस्य तस्य दुष्टतया दर्शयिष्यमाण-श्रुति-त्यक्ततयेति । तस्माद् रवि-तद्-रश्मि-परमाणु-वृन्दवत् तद् उद्भूत-नित्य-तटस्थांश-रूपाश् चित्-परमाणवोप्य् अयस्कान्तादिवत् स्व-प्रभाव-विशेष-रूपेण गुणेन गुणाद् वेति न्याय-सिद्धेन स्व-शरीरम् अखण्डम् अपि चेतयन्ति तस्य महान् अज आत्मेति महद्-व्यपदेशश् च प्राज्ञस्येव यत् किञ्चिद् गुण-सारत्वाद् एव लोके महा—रत्नादि-शब्द-प्रयोगवत् । तद् एवम् एव शास्य-शासकत्वे सिद्धे सेवकत्वम् अपि सिद्ध्यतीति पूर्वापर-दर्शिता भक्तिः सिद्ध्यतीति भावः । अत्र श्री-गीतोपनिषदि—
यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ [गीता १३.३३] इति ॥
भगवद् उद्धव-संवादश् च महतां च महान् अहम् इति महत्त्वस्य स्वरूप-परिमाणानन्तर्येणोक्तत्वात् तथैव जिवस्य परिमाणोक्तौ, सूक्ष्माणां चाप्य् अहं जिवः इति । अत एव विष्णु-धर्मोत्तरे—
बालाग्र-शतशो भागो कल्पितो यः सहस्रधा ।
तस्यापि शतशो भागो जीवः इत्य् अभिधीयते ॥ इति ।
श्रुतयश् च—
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वे।उ। ५.९] इत्य् आद्याः ।
एको देवो सर्व-भूतेषु गूढः [श्वे।उ। ६.११] इत्य् आद्याः । न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इत्य् आद्याश् च । अत्र विशेष-विचारश् च बुद्ध्हेतुअ-परमात्म-सन्दर्भ-तट्-टीकयोश् च दृश्यः ॥३०॥
जीव-गोस्वामी (परमात्म-सन्दर्भः ३२) : जीवानां प्रतिक्षेत्रं भिन्नत्वं स्व-पक्षत्वेन निर्दिशन्ति—अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गताः इति । अत्र यदि-शब्दात् पूर्व-पाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धम् इति । तत्र स्व-पक्षत्वं पश्चात्-पाठेन सर्व-गतत्वं तु सन्दिग्धम् इति । तत्र पर-पक्षत्वं स्पष्टम् एव । अत एव, एको देवः सर्व-भूतेषु गूढः [श्वे।उ। ६.११] इत्य् आदिकं परमात्म-परं वाक्यं जीवानाम् एकत्वं बोधयति ॥
जीव-गोस्वामी (परमात्म-सन्दर्भः ३५) : अयम् अर्थः—परमात्मनोऽंशत्वं तस्माज् जायमानत्वं च जीवस्य श्रूयते । तत्र ममैवांशो जीव-लोके [गीता १५.७] इत्य् आदि-सिद्धेऽंशत्वे तावत् तस्य विभुत्वम् उक्तम् इत्य् आहुः—अपरिमिताः, वस्तुत एवानन्त-सङ्ख्या नित्याश् च ये तनु-भृतो जीवाः, ते यदि सर्व-गता विभवः स्युः, तर्हि तेषां व्याप्यत्वाभावेन समत्वात् शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो नियम्य इति वेद-कृत-नियमो न घटत इत्य् अर्थः । हे ध्रुव ! इतरथा जीवस्याणुत्वेन व्याप्य-भावे तु सति, न तन्-नियम इति न, अपि तु स घटत एवेत्य् अर्थः ।
अथ यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१] इति जायमानत्वावस्थायाम् अपि व्याप्य-व्यापकत्वेनैव नियम्य-नियन्तृत्वं भवति । सर्वत्रैव कार्य-कारणयोस् तथा-भाव-दर्शनाद् इत्य् आहुः—अजनि इति । यन्-मयं यद् उपादानकं यद् अजनि जायत इत्य् अर्थः, तद् उपादानं कर्तृ तस्य जायमानस्य यन् नियन्तृ भवेत्, तद् अविमुच्य किञ्चिद् अप्य् अनुक्त्वा व्याप्यैवेत्य् अर्थः ।
किं च, यद् उपादान-रूपं परमात्माख्यं तत्-त्वं केनाप्य् अपरेण समं समानम् इत्य् अनुजानतां यः कश्चित् तथा वदति तत्रानुज्ञाम् अपि ददताम् अमतं, ज्ञातं न भवतीत्य् अर्थः । तत्र हेतुः—मत-दुष्टतया तस्य मतस्याशुद्धत्वेन, तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश् च, असमो वा एष परो न हि कश्चिद् एव दृश्यते, सर्वे त्व् एते न वा जायन्ते च म्रियते, सर्वे ह्य् अपूर्णाश् च भवन्ति इति चतुर्वेद-शिखायाम् । न तत्-समश् चाभ्यधिकश् च दृश्यते [श्वे।उ। ६.८] इति । अथ कस्माद् उच्यते ब्रह्मा बृंहति बृंहयति च [अ।शि।उ। ३.५] इति चान्यत्र । बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः [वि।पु। १.१२.५७] इति श्री-विष्णु-पुराणे ।
अतः परमात्मन एव सर्व-व्यापकत्वम्, एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा [श्वे।उ। ६.११] इत्य् आदौ । तस्माद् अणुर् एव जीव इति ।
यत् तु श्री-भगवद्-गीतासु नित्यः सर्व-गतः स्थाणुः [गीता २.२४] इत्य् आदिना जीव-निरूपणं, तत्र सर्व-गतः श्री-भगवान् एव, तत्-स्थस् तद् आश्रितश् चासाव् अणुश् च इति सर्व-गतः स्थाणुर् जीवः प्रोक्तः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं भगवद्-भक्ति-प्रतिपादनोपयोगार्थम् एव वयम् अप्य् एवं जीव-स्वरूपं निरुपयाम इत्य् अन्या आहुः—अपरिमिताः ॥३०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु स्थिर-चर-जातीनां मद्-विहारे मद्-ईक्षयाजया निमित्त-भूतयोत्पन्नत्वम् उक्तम्, तत् कथा सङ्गच्छताम् ? यतोऽपरिमिता जिवाः सर्वे ध्रुवाः, अतः स्वतन्त्राश् च । कुतो वा तेषां मद् अंशत्वं मद् अधीनत्वं च ? इत्य् आशङ्क्याहुः—अपरिमिता इत्य् आदि । हे ध्रुव ! नित्य ! यदि तनु-भृतो ध्रुवाः, तदा तव ध्रुवत्वे तेषाम् अपि च ध्रुवत्वे साम्यात् शास्यता न घटत इति कृत्वा नियमो नियमनं न स्यात् । येऽपरिमिता अनन्ताः सर्व-गता व्यापका ध्रुवा नित्या भवन्ति, तेषां को नियन्ता ? इतरथा अन्यथा यद्यप्य् अपरिमितादयो न भवन्ति, तदैव नियमनं स्यात् । केवलम् इत्य् एव न, अपि तु अपरिमिता एव जिवास् तद् अंशत्वात् । अहं बहु स्याम् इति बहु-शब्दोऽपरिमित-परः । तेन त्वद् अंशा ध्रुवाः सर्व-गताश् च ।
तथापि तेषां शास्यतैव ततो नियमनं चेत्य् आहुः—अजनि इति । च-कारः पक्षान्तरं सूचयति। यज् जिवाख्यं वस्तु यन्-मयम् अजनि, यद् अंशत्वेन यन्-मयं जातं, तद् अंशि-रूपं वस्तु नियन्तृ भवेत्, अविमुच्य कारणत्वम् अविहाय । यतः समम् अंशत्वेन समम् अविसदृशम् इत्य् अर्थः । अतोऽंशानाम् अंशी नियन्ता भवतीति भावः ।
ननु स एव तावत् कस् तन् निरूप्यताम् इत्य् आहुः—अनुजानतां जानीम इति वदतां यद् अमतम् अनिर्वचनीयं वस्तु अमतम् अविज्ञातम् । मतं चेत् को दोषः ? इत्य् आहुः—मत-दुष्टतया । मतं यत् तद् दुष्टं, अतस् त्वं ज्ञेयो न भवसि । यो ज्ञेयो न भवति, स एवांशीति त्वद् अंशास् तु जिवाः । न चैतद् वक्तव्यं, मद् अंशा न भवन्ति जिवाः, यतः— ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति तवैवोक्तिः । अतस् त्वम् एवामतस् त्वम् एवांशी, अतो नियन्ता च, न तु जिवः । उक्त-प्रकारा अपरिमिता ध्रुवादिमन्तोऽपि न स्वतन्त्रा इति वाक्यथार्थः ॥३०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत्र स्थिर-चर-जाति-जिव-तत्त्व-विचार--वादिनां नाना-विधान्य् एव मतानि । तत्र यद्य् एकैवाविद्या, एक एव जीव इति मतं तर्ह्य् एक-मुक्तौ सर्व-मुक्ति-प्रसङ्गः । यदि च नाना चाविद्याः, तर्हि तस्यैवांशान्तरेण संसारानपागमाद् अनिर्मोक्षः । तस्माद् बहव एवात्मानः । तत्र तेषाम् अणु-परिमाणत्वे देह-व्यापि अं न स्यात् । देह-मात्र-व्यापित्वे मध्यम-परिमाणत्वं नानित्यत्वं स्यात् । तस्मात् ते सर्व-गता नित्याश् च, न तु जन्यास् तत्र न तावद् उक्त-दोष-प्रसङ्गः । अविद्या-भेदेन तच्-छक्ति-भेदेन वा बद्ध-मुक्त-व्यवस्थासम्भवाद् इत्य् एतन्-मतम् अप्य् अन्ये न सहन्ते इति तन्-मतम् अनुवदन्ति ।
अपरिमिता असङ्ख्या एव तनु-भृतो जीवा यदि ध्रुवाः नित्या एव, न तु तज्-जन्याः, सर्व-गता एव च स्युः, तर्हि तेषां त्वत्-साम्याद् एव छास्यता इति नियमो न स्यात्, जिवास् त्वच्-छासनीया एवेत्य् अवधारणं सर्व-शास्त्र-प्रतिपादितं न घटत इत्य् अर्थः । हे ध्रुव ! हे नित्य-स्वरूप ! नेतरथा तेषां त्वज्-जन्यत्वे सति जन्यत्वाद् एवासर्व-गतत्वे च सति त्वच्-छास्यत्वाभावो न स्यात्, किन्तु त्वच्-छास्यतेति घटत इत्य् अर्थः । कथम् ? यन्-मयम् यत्-कार्यं जीवाख्यम् वस्त्व् अजनि, तत् किल ब्रह्म तेषां जिवानां नियन्तृ शास्तृ भवेद् एव । किं कृत्वा ? तद् अविमुच्य अकारणतया तान् जिवान् अपरित्यज्य । तद् ब्रह्मैव किम् ? तत्राह—समम् यत् सर्वान् जिवान् प्रति अन्तर्यामिइत्वांशेन समं तुल्यम् इत्य् अर्थः ।
ननु किं यत् तच् छब्दैर् ज्ञायते चेद् उच्यताम् इदं तद् इति तत्राह—अनुजानतां यद् अमतम् इति । जानीम इति वदतां यद् ब्रह्म अमतम् अज्ञात-प्रायम् । किं च, मतस्य ज्ञातस्य दुष्टतया दोष-श्रवणाच् च । अत्र श्रुतयः—
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातम् अविजानताम् ॥ [केन।उ। २.३] इति ।
अवचनेनैव प्रोवाच, सह तूष्णीं बभूव इति ।
यदि मन्यसे सुवेदेति दभ्रम् एवापि
नूनं त्वं वेत्थ ब्रह्मणो रूपं ।
यद् अस्य त्वं यद् अस्य देवेषु [केन।उ १.१] इत्य् आद्याः ।
अर्थश् चास्य—ब्रह्मणो यद् रूपं तद् यदि सुवेद सुवेद्मीति मन्यसे, तर्हि त्वम् एव दभ्रम् एव अल्पम् एव वेत्थ इत्य् अन्वयः । यद् अस्य देवेष्व् अधिदैवादिषु रूपं त्वं मन्यसे, तद् अप्य् अल्पम् एवेति पूर्वेणैवान्वयः ॥३०॥
॥ १०.८७.३१ ॥
न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर्
उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुदवत् ।
त्वयि त इमे ततो विविध-नाम-गुणैः परमे
सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि च परमात्मनो जीवा जायन्त इति नियन्तृ-नियम्य-भाव उच्यते, तथा सति जीवानाम् अनित्यत्व-प्रसङ्गेन प्रतिदिनं कृत-नाशाकृताभ्यागम-प्रसङ्गः स्यात् । किं च, तदा मोक्षो नाम जीवस्य स्वरूप-हानिर् एव स्यात् । न चैतद् युक्तम्, स्व-प्रकाशानन्दात्मनोऽविद्या-कृतार्थ-निवृत्ति-मात्रस्य मोक्षत्वाभ्युपगमाद् इत्य् आशङ्क्योपाधि119-जन्मनैव जीवानां जन्मोच्यते, न स्वतः अघटनाद् इत्य् आह—न घटत इति ।
तत्र किं प्रकृतेर् जीव-रूपेणोद्भवः स्यात्, पुरुषस्य वा, उभयोर् वा ? आद्ये जीवानां जडत्वापत्तिः । द्वितीये पुरुषस्य विकारित्व-प्रसङ्गः । अत एव तृतीय इत्य् आशयेनोक्तं प्रकृति-पूरुषयोर् उद्भवो न घटत इति । श्रुत्याजत्व-प्रतिपादनाद् अपीत्य् आह—अजयोर्120 इति । तथा च श्रुतिः—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥121 [श्वे।उ। ४.५] इति ।
उभय-युजा तु भवन्ति, उभयं च तद् युज्यत इति युक् सम्बद्धम् । परस्पराध्यस्तम् इति यावत् । तेन असु-भृतः प्राणाद्य् उपाधयो जीवा जायन्त इत्य् अर्थः । जल-बुद्बुदवद् इति । यथा केवलेन जलेनानिलेन व जल-बुद्बुदा न भवन्ति, किन्तु मिलिताभ्यां तद्वत् । तत्र यथानिलो निमित्तं जलम् उपादानम्, एवम् अत्रापि प्रकृतिर् निमित्तं पुरुष उपादानम् । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.१] । सोऽकामयत बहु स्यां प्रजायेय [तै।उ। २.६.१] इति । यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच् चरन्ति, एवम् एवास्माद् आत्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व- एवात्मानो व्युच् चरन्ति [बृ।आ।उ। २.१.२०] इत्य् आदि-श्रुतिषु चेतनाचेतन-प्रपञ्चस्य परमात्मोपादानत्व-श्रवणात् ।
न च विकारित्वम्, परिणामानङ्गीकारात्122 । केचित् पुनः परिणामम् अङ्गीकृत्यात्मनो विकार-भिया विपरीतं निमित्तोपादान-भावम् इच्छन्ति । सर्वथा तावत् प्रकृति-पुरुषैक्याद् भवतीति सिद्धम् । तत् एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१], अजाम् एकां [श्वे।उ। ४.५], अविनाशी वारेऽयम् आत्मा [बृ।आ।उ ४.५.१४] इत्य् आदि-श्रुति-बलात्, उत्पत्ति-श्रवणाच् च जीवानाम् औपाधिकम् एव जन्म, न वस्तुत इत्य् उक्तम् ।
उपाधि-लयेन परमात्मनि पुनर् लय-श्रवणाद् अपि न वास्तवं जन्मेत्य् आह—त्वयि त इति । त्वयि कारणात्मनि त इमे जीवाः । तत इति । यतो न वास्तवं जन्म, तस्माद् विविध-नाम-गुणैर् अनेक-प्रकार-कार्योपाधिभिः सह लिल्युर् लीना बभूवुः । तत्र सुषुप्ति-प्रलययोर् मधुन्य् अशेष-रसा इव लीयन्ते । यथा मधुनि सकल-कुसुम-रसा विशेषतोऽनुपलक्ष्यमाणा अपि सामान्येनोपलक्ष्यन्ते, एवं स्वापादौ विशेष-मात्र-लयात् कारणस्य विद्यमानत्वात् सामान्यतो वर्तन्ते । मुक्तौ तु कारणस्यापि लयात् त्वयि परमे निरुपाधौ सरित इवार्णवे लीयन्त इति विवेकः । तथा च श्रुतयः—
यथा सोम्य मधु मधु-कृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहास्रम् एकतां सङ्गमयन्ति । ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्म्य् अमुष्याहं वृक्षस्य रसोऽस्मीत्य् एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामहे इति123 ॥ [छा।उ। ६.९.१-२]
यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मु।उ। ३.२.८] इत्य् आद्याः ।
यस्मिन्न्124 उद्यद्-विलयम् अपि यद् भाति विश्वं लयादौ जीवोपेतं गुरु-करुणया केवलात्मावबोधे ।
अत्यन्तान्तं व्रजति सहसा सिन्धु-वत् सिन्धु-मध्ये
मध्ये चित्तं त्रि-भुवन-गुरुं भावये तं नृसिंहम् ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति तथा सति आनाम् उत्पत्त्य् अङ्गीकारे सति, यज् जन्यं तद् विनाशि इति व्याप्तेर् अनित्य-प्रसङ्गेन । तथा च कृतानां कर्मणां विनैव फल-भोगं नाशोऽकृतानां पूर्व्म् असम्पादितानाम् एवे फल-दानायाभ्यागमः प्राप्तिः स्याद् इति । ने केवलम् एतावान् एव दोषः किन्त्व् अन्योऽपीत्य् आह—किं चेति । तदोत्पत्ति-स्वीकारे स्वरूप-हानिः स्वरूप-नाशः । भवत्व् इति चेद् आह—न चेति । एतज्-जीव-स्वरूप-नाश-लक्षण-मुक्त्य् उपादानं न च युक्तं स्व-प्रकाशानन्दात्मनः स्वयं-ज्योतिः-सुख-स्वरूपस्यात्मनोऽविद्याकृतानर्थस्य कर्तृत्व-भोक्तृत्वादि-धर्माणां निवृत्ति-मात्रस्य । तत्रोत्पत्ति-स्वीकारे उभयोः प्रकृति-पुरुषयोः । आद्ये प्रकृतेर् जीव-रूपेणोद्भवे । अत एव पूर्वोक्तोभय-दोष-त्रासाद् एव तृतीयः उभयोर् जीव-रूपेणोद्भव-पक्षोऽपि नेत्य् अभिप्रायेणाह—प्रकृति-पुरुषयोर् इति ।
श्रुतिम् आह—तथा चेति । न जायत इत्य् अजा मूल-प्रकृतित्वात् । मूल-प्रकृतिर् अविकृतिर् इति सप्तम्याम् उक्तेः । तां लोहित-शुक्ल-कृष्णां रजः-सत्त्व-तमो-वर्णाम् । सरूपां राजसी-सात्त्विकी-तामसी-रूपां नर-सुर-नारकीम् इत्य् अर्थः । अजः पुरुषः एकोऽजः क्षेत्रज्ञो जीवः अजां जुषमाणः सेवमानः अनुशेते निरन्तरं मुह्यति । अन्योऽजः परमात्मा एनाम् अजां जहाति । किम्-भूताम् ? पुरुष-रूपेण भुक्तो भोगो यस्यास् ताम् । सृष्टेः प्रकृतौ पुरुषस् तु वीर्यं निहितवान् । तद्-वीर्यं प्रकृतेर् गर्भान् महत्-तत्-त्वं जातम् इत्य् अत आह—भुक्त-भोगाम् । बन्ध-मोक्ष-निदर्शन-परेयम् । उभयं प्रकृति-पुरुषं तेन परस्पराध्यासेन ।
इत्य् अर्थ इति—तात्पर्यम् । दृष्टान्तेनोक्तम् अर्थं स्फुटयति—जल-बुद्बुदेर् इति । दृष्टान्तं स्फुटयति मिलिताभ्यां जल-निलाभ्यां तद्वद् अत्रापीति । तत्र च दृष्टान्ते । अत्रापि प्रकृतेऽपि । पुरुषोपादानत्वे श्रुतिम् आह—तस्माद् वा [तै।उ। २.५.१] इति । सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इत्य् उक्तं यत् तस्माद्द् आत्म-शब्द-वाच्यात् । स्पष्टम् अन्यत् । सृष्टि-परेयम् । श्रुत्य् अन्तरे च व्याख्याए । यथाग्नेहः इत्य् आदि-श्रुतौ चेतनाचेतनात्मक-प्रपञ्चस्य परमात्मोपादानकत्वम् एव श्रूयते ।
तथा च परमात्मन उपादानत्वे विकारित्वं स्याद् इति चेद् आह—न चेति । केचित् परिणामे वस्तु-स्वरूप-स्थितेः कुण्डलादि-रूपेण परिणामेऽपि स्वर्ण-स्वरूपानाश-दर्शनात् तम् अङ्गीकृत्यापि विकार-भियात्मन उपादानत्वं नाङ्गीकुर्वन्ति किन्तु निमित्तत्वं स्वीकुर्वन्ति । एवं कृतेऽप्य् अस्मत्-पन्था एवाङ्गीकृतो भवेद् इत्य् आह—सर्व-थेति । तद् इत्थम् अजम् एकम् इत्य् आदि-श्रुतेर् अजत्वम् अस्मरणात्, यथाग्नेः इत्य् आदि-श्रुतेर् उत्पत्ति-श्रवणान् न वास्तवं किन्त्व् औपाधिक्ं देहाद्य् उपाधि-कृतम् एवेत्य् आह—न वस्तुत इति । लयो हि नित्य-नैमित्तिकात्यन्तिक-भेदात् त्रिधा । तत्र तेषु सुषुप्तिर् नित्य-लयः, प्रलयः प्राकृतिक-नैमित्तिक-रूपो ज्ञेयः ।
सुषुप्ति-प्रलययोर् दृष्टान्तम् आह—मधुनीति । विशेषोऽनेक-भेद-भिन्नः प्रापञ्चिकः कारणस्याज्ञानस्य विद्यमानत्वात्, न किञ्चिद् अवेदिषम् इति तत्-स्मृतेः । आत्यन्तिक-लये त्व् अहं ब्रह्मास्मीति स्वरूप-साक्षात्कारेणाज्ञानं निवर्तत एवेत्य् आह—मुक्तौ त्व् इति ।
मधुनि लिल्युर् इत्य् अत्र प्रमाणम् आह—यथा चेति । यथेति । यत् पृच्छसि अहन्य् अहनि सम्पद्य न विदुः सत्-सम्पन्नाः स्म इति । शृणु तत्र दृष्टान्तं—हे सोम्य श्वेतकेतो ! यथा लोके मधुकृतो मधुमक्षिका मधु निस्तिष्ठन्ति थूत्कृत्य निष्पादयन्ति, तत् प्रकारम् आह—नानात्ययानाम् । नाना-शब्द उभयत्र सम्बध्यते । नाना-भवा नानात्या, नाना यान्तीति नानायाः । ततश् च नानात्यानां नाना-स्थानोद्भवानां नानायानां नाना-जातिं प्राप्तानां वृक्षाणां रसान् समवहारं समवहृत्य एकतां गमयन्ति मधुत्वम् आपादयन्ति, तथा ते रसास् तत्र मधुनि विवेकं न लभन्तेऽमुष्य वृक्षस्याहं रसोऽस्मीति । एवम् एवेमाः सर्वाः प्रजाः सति श्री-नारायणे सम्पद्य न विदुः सुषुप्ति-काले मरण-प्रलययोश् च । अत एव, तस्मिन् सति सम्पद्यामहे इति । सोपाधि-लय-परेयम् । सरित इवार्णव् इत्य् अत्र श्रुतिम् आह—यथेति । यथा स्यन्दमाना गच्छन्त्यो नद्यः नाम-रूपे विहाय समुद्रेऽस्तं गच्छन्ति अदर्शनं यान्ति, एवं विद्वान् ज्ञानी नाम-रूपे त्यक्त्वा परात्परं सूक्ष्मात् प्रकृति-पुरुषाद् अपि परं दिव्यं यथोक्त-लक्षणं पुरुषम् उपैति । निरुपाधि-लय-परेयम् ।
श्रुत्य् अन्तरं चात्र टीका-कारैर् गृहीतं—
यथोदकं शुद्धम् उदकम् आसिक्तं तादृग् एव भवत्य् ।
एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [क।उ। २.१.१५] इति ।
यथा नद्यादि-जले घटादि-ष्ठं शुद्धं निर्मलं जलम् आसिक्तं तादृग् एव भवति हे गौतम ! एवं विजानतो ज्ञानवतो मुनेर् आत्मा देहान्ते शुद्धो लिङ्ग-निर्मुक्तः सन् ब्रह्मणि युक्तो ब्रह्मैव भवतीति ।
अथ स्वामिनां—यस्मिन्न् इति । तं नृसिंहं मध्ये चित्तं चित्तस्य मध्ये, परे मध्ये षष्ठ्या वा इति समासः । भावये चिन्तयामि । भू-मिश्री-करण-चिन्तनयोः । तं कम् ? यस्मिन् जीवोपेतं जीव-समेतं विश्वम् उद्यद् उद्भवत्, यस्मिन् विलयम् अपि यत् गच्छत्, यस्मिन् भासते प्रकाशते तम् । लयादौ सुषुप्ति-प्रलयादिषु भाति । गुरु-करुणया केवलात्मावबोधे सति यस्मिन्न् अत्यन्तम् अपुनर् आवृत्तिं व्रजति तम् । तत्र दृष्टान्तः—सिन्धुवन् नदीवत् । सिन्धु-मध्ये समुद्र-मध्ये यथा सन्धुर् गङ्गा समुद्रेऽत्यन्तान्तं व्रजति, तद्वत् सर्वा नद्यो गङ्गायां निपतन्ति सैव समुद्रे प्रविशतीति । यद् वा, सिन्धुभिस् तुल्यं सन्धुवत् यथा नद्यः समुद्रे इति ॥
श्रीधरानुयायिनी : बिम्बाद्-ब्रह्मणो जातानां प्रतिबिम्ब-रूपाणां जीवानां कारणत्वेन ब्रह्मैव नियामकम् इत्य् उक्तम् । तथा च जीवानाम् अनित्यत्वापत्त्या कृत-नाशाकृताभ्यागम् आदि-दोषापत्तिर् इत्य् आशङ्कयान्तः-करण-रूपोपाधि-जन्मनैव जीवानां जन्म न स्वतः । यथानवच्छिन्नम् आकाशम् एव घटोपाधिना घटाकाशं भवति घट-भङ्गे तु पुनस् तद् एव महाकाशम् एवम् अविद्योपाधिनान्तः-करणोपाधिना वा जीवानां जन्म तद्-भङ्गे मोक्षः । अतः स्वरूपतो जीवो\ऽपि ब्रह्मैवेत्य् आहुः—नेति । प्रकृतेर् जीव-रूपेणोत्पत्तौ जीवानां जडत्वापत्तिः पुरुषस्य जीव-रूपेणोत्पत्तौ तस्य विकारित्व-प्रसङ्गः । उभयोः प्रकृति-पुरुषयोर् मिलित्वापि जीव-रूपेणोत्पत्तिर् न सङ्गच्छते । अजाम् एकाम् अजो ह्य् एकः [श्वे।उ। ४.५] इत्य् आदि-श्रुतौ प्रकृति पुरुषं चैव विद्ध्यनादी उभावपि इति श्री-गीतायां च द्वयोर् अप्य् अजत्वेन प्रसिद्धः । अत उभयोः परस्पराध्या-सरूप-सम्बन्धेनैव त उत्पाद्यन्ते, तथात्राप्य् उपादान-कारण-भूते पुरुषे निमित्त-कारणी-भूतया प्रकृत्या विवर्त-रूपा बुद्बुदा इव जीवा जायन्ते । यद् वा, प्रकृतिर् ऊपोपादान-कारणे निमित्त-कारणी-भूतेन वायुनेति मिलितयोस् तयोः सम्बन्धेनैव त उत्पद्यन्ते, तथात्राप्य् उपादान-कारण-भूते पुरुषे निमित्त-कारणी-भूतया प्रकृत्या विवर्त-रूपा बुगुदा इव जीवा जायन्ते । यद् वा, प्रकृतिर् ऊपोपादान-कारणे निमित्त-कारणी-भूतेन पुरुषेण परिणाम-रूपा जीवा जायन्ते । उभयथापि प्रकृति-पुरुषयोर् ऐक्याद् एवाविद्यया परस्पराध्यासाद् एवेत्य् अर्थः । परमात्मनि प्रकृतिः स्वरूपेणाध्यस्ता प्रकृतौ च परमात्मापि सत्ता-स्फूर्ति-रूपेण संसर्गे\ऽध्यस्तः । यथाधिष्ठानस्य शुक्त्यादेः संसर्ग-मात्रं रजते\ऽध्यस्यते रजतं तु स्वरूपेण शुक्तावध्यस्यते परमात्मनो\ऽपि स्वरूपेणाध्यासे बाधापत्त्या शून्य-वाद-प्रसङ्गाद् इति । एवं चौपाधिकम् एव जीवानां जन्म न वास्तवम् इत्य् उक्तम् । उपाधिलयेन जीवानां ब्रह्मणि लय-श्रवणाद् अपि न वास्तवं जन्मेत्य् आहुः—त्वयीति । सर्वे जीवाः स्वोपाधिसहिता यतस् त्वत्तः उत्पन्ना अतस् त्वय्य् एव कारणे लीना बभूवुः । लयश् च सुषुप्ति-प्रलययोर् मुक्तौ चेति द्विधा । आद्यो यथा-मधु-मक्षिकाभिर् नीता अनेक-पुरष्परसा मधुनि लीनाः सन्तो\ऽमुकस्य पुष्पस्याहं रस इति विशेषतो\ऽनुपलक्ष्यमाणा अपि सामान्यत उपलक्ष्यन्त एव, तथा प्रारब्ध-कर्मनीता अन्तः-करणाद्य् उपाधिसहिता जीवास् त्वयि लीनाः सन्तो मनुष्य-पशु-पक्ष्यादि-रूपेण विशेषतो\ऽनुपलक्ष्यमाणा अपि सामान्यतो\ऽविशिष्ट-संस्कारा लक्ष्यन्त एव, तदानीं संसारकारणीभूताविद्यायाः विद्यमानत्वात् । अत एव जीवानां पुनर् जन्म ।
द्वितीयो यथा—मुक्तौ च ज्ञानेनाविद्याया अपि विलयात्-तदा त्वयि निरुपाधि-ब्रह्मणि सर्वे जीवाः समुद्रे श्री-गङ्गादि-नद्य इव सामान्य-विशेषाभ्याम् अनुपलक्ष्यमाणा अनवशिष्ट-संस्कारा एव लीयन्ते । अत एव तेषां न पुनर् जन्मेत्य् अर्थः । एवञ्चाविद्योपहितानाम् अप्य् अनादित्वाज् जीवानां वास्तव-जन्म-मरण-राहित्यान् न कृतनाशाकृताभ्यागमादि-दोषापत्तिर् इति ध्येयम् ।
यद् वा, ननु, स्वप्रियया सह लोकवद्-विदेह-वृषभानु-भीष्मक-दशरथ-नन्द-वसुदेवादि-गृहे वारं वारम् उत्पद्यमानस्य कथं मम महती स्तुतिर् इत्य् आशङ्ख्य सर्व-वैलक्षण्यं वदन्त्यः स्तुवन्ति—नेति । हे प्रभो ! प्रकृति-पुरुषयोर् जगज् जननी-जनकयोः श्री-सीता-रामयोः श्री-राधा-कृष्णयोः श्री-रुक्मिणी-वासुदेवयोर् वोद्भवो जन्म न घटते । यतः अजयोर् नीत्य-सिद्धत्वेन जन्म-रहितयोः । इमे जीवास् तु ततः त्वत्तो नियन्तुर् ईश्वराद्-धेतु-भूतात् उभय-युजा मातृ-पितृ-संयोगेन जल-वायु-संयोगज-बुबुदवत् असु-भृतः क्षण-विनाशि-देह-धरा भवन्ति । एवम्-भूता अपि ते केचित्-कृत-पुण्य-पुञ्जास्तव विविध-नाम-गुणैः कृत्वा त्वदीय-नाना-विश्वनाम् अगुण-कीर्तन-श्रवणादिना परमे मधुनि परमामृत-रूपे त्वयि लिल्युर् लयं प्रापुः त्वत्-पाद-पद्म-च्छायायां लीना बभूवुः ।
ननु, नाना-भेदाः प्राणिनः कथं सम-फल-भाज इत्य् आकाङ्क्षायां दृष्टान्तम् आहुः—यथाशेष-रसाः मधुर-क्षारादि-विविध-जलाः सरितो नद्यो\ऽर्णवे समुद्रे लीना बभूवुर् तद्वद् इत्य् अर्थः । अभीष्ट-प्राप्तौ मार्गे निरोधकाभावे\ऽप्य् अयं दृष्टान्तो बोद्धव्यः । यद् वा, हे उभय ! युगल-मूर्ते श्री-राधा-कृष्ण ! असु-भृतो देवम् अनुष्याद्या जीवाः अजयोः आद्वासुदेवात्-त्वत्तो जातयोर् आविर्भूतयोः प्रकृति-पुरुषयोर् युजा संयोगेन जल-वायु-संयोगेन बुद्बुदा इव जायन्ते । ततस् तद् अनन्तरं त इमे जीवाः अशेष-रसाः न शेषो रसः पुनर् उत्पत्ति-हेतुर् अदृष्टादिर् येषां ते तथा-भूताः सन्तो मधुनि अमृताद् अपि मिष्टतमे परमे परा मा यस्येति । युगल-मूर्ताव् एव त्वयि समुद्रे नद्य इव विविध-नाम-गुणैः सह लीना भवेयुः । एवं च्अ त्वयि लीनानां तेषां पुनर् उद्भवो जन्म न घटत इत्य् अर्थः । स्वामि-श्लोक-पदार्थःलयादौ प्रलये सुषुप्ति-काले च सर्व-जीव-सहितं लिङ्ग-देहादि-रूपं विश्वं यस्मिंस् त्वय्य् अधिष्ठाने विलयं यद् अपि प्राप्नुवद् अपि भाति संस्कार-रूपेण सूक्ष्मतया तिष्ठति । इण्-गतौ अतः शतरि यदिति स्वरूपम् । ततः सृष्टि-काले जाग्रति चोत्पन्नं भवतीत्य् अर्थः । गुरूपदेशेन कूटस्थात्म-साक्षात्कारे सति अत्यन्तान्तं निरवशेष-प्रलयम् समुद्र-मध्ये श्री-गङ्गावत् चित्तस्य मध्ये ॥
नीलकण्ठी : एवं जीवेश्वरयोर् जीवानां च परस्पर-भेदो निराकृतः । इदानीं कार्योपाधीनां जीवानाम् उपाधि-जन्मना जन्मवतां कृत-नाशाकृताभ्यागम् अप्रसङ्गः स्याद् इत्य् आशय न हि वयं कार्यस्य प्राग् अत्यन्तासत उत्पत्तिं ब्रूमः । नासतो विद्यते भावः इत्य् असदुत्पत्ति-निषेधात् । किन्तु कारणे सत एव तिलतैलवद् आविर्भावं जन्मेति मत्वा किं प्रकृत्य् उत्पत्त्या पुरुषोत्पत्त्या वा जीवानां जन्माशङ्कयत इति विकल्प्य दूषयति-न घटत इति । प्रकृति-पूरुषयोर् उभयोर् अपि उत्पत्तिर् न घटते । अत्र हेतु-गर्भं विशेषणम् अजयोर् इति । अजाम् एकाम् अजो ह्य् एकः इति श्रुत्या, प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । इति स्मृत्या च तयोर् अजत्वावगमादित्य् अर्थः ।
कथं तर्हि, एते आत्मनो व्युच्चरन्ति इत्य् अग्नि-विस्फुलिङ्ग-न्यायेन ब्रह्मणः सकाशाज् जीवोत्पत्तिर् आम्नायते\ऽत आह—उभय-युजेति । जल-बुद्बुअदे यथा जलं नोत्पद्यते नापि तावद् अच्छिन्न आकाशः अथापि केनचिन्-निमित्तेन जल-क्षोभे सत्युभयात्मको बुद्रुद आविर्भवति । एवं जीवे\ऽपि नान्तः-करणम् उत्पद्यते नापि तद् अवच्छिन्नं चैतन्यम् । अथापि अनादि-काल-प्रवृत्त-जीवादृष्टादिना माया-क्षोभे सत्य् उभयात्मा आविर्भवतीति युज्यते । एवं व्युच्चरण श्रुतिः कृतहानाद्य् अभावश् चेति भावः । यत एव ततो हेतोः त इमे जीवाः जले बुद्बदा इव त्वयि परमे विविधैर् नामभिर् गुणैश् चोपलक्षिताः सन्तो\ऽर्णवे सरित इव मधुनि अशेष-रसा इव च पूर्व-कल्पान्ते लिल्युः लीनाः । अस्मिन् कल्पे\ऽपि त्वत्त एवोत्पन्नास् त्वय्य् एव वसन्तीत्य् अर्थः । तथा च श्रुती भवतः—
यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मु।उ। ३.२.८]
यथा सौम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान्-समवहारम् एकतां रसं गमयन्ति ।
ते यथा तत्र न विवेकं लभन्ते\ऽमुष्याहं वृक्षस्य रसो\ऽस्म्यमुष्याहं वृक्षस्य रसो\ऽस्मीति । एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहे ॥ इति ।
यद् वा, मधुनीति सम्बन्धः इदं वैतन्-मधु दध्यड्डाथर्वणो\ऽश्विभ्याम् उवाच इति ब्रह्मण्य् अपि मधु-शब्द-प्रयोग-दर्शनात् । स च एतद्वै मधु दैव्यं यदाज्यम् इति श्रुतेर् घृतापर-पर्यायः सन् ब्रह्मणि घृत-काठिन्यवत्-प्रपञ्च-प्रलयोदयौ, इति दर्शयति—अस्मिन् पक्षे रसा विषयानन्दाः एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [वृ। ४.३.३२] इति श्रुतेः सर्वे\ऽपि विषयानन्दा ब्रह्मानन्दाम्भोधेर् एव विपुष इति दर्शितम् । पूर्वस्मिन्-व्याख्याने रसाः कटु-तिक्त-कषायादयस् तत्-तद् ऋक्षोद्भवाः ॥३१॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—प्रकृति-पुरुषयोः प्रकृष्टं करोति प्रकृतिर् भगवच्-छक्तिः पुरुषः पूर्णत्वात् कर-चरणादिमद् आकारत्वाच् च भगवान् । या काचन शक्तिर् यत्-किञ्चन भगवत्-स्वरूपम् इत्य् अर्थः । तयोर् अजयोः अजो ब्रह्म-स्वरूपाहंमानात् अजगति-क्षेपणयोः इत्य् अस्य वा ब्रह्मात्मत्व-ज्ञयोश्चिद् अचिद्-द्वैत-मात्र-क्षेपिणोर् वा उत्कृष्टा प्राप्तिर् ऐकान्तिक-महा—भावेन सम्बन्धोनास्ति सर्वात्म-ब्रह्मानुसन्धान-दशायां ममकाराभावात् । उदः प्रेम्णो भवो वा न घटते उभयञ् च तद्-युक् च तेन कृत्वा असून् प्राणान् धारयन्ति ये विलासास्ते भवन्ति शुद्ध-रताव् एव विलासानां प्राण-धारकत्वम् न तु मिश्रानुरागे तत्र कदाचिद्-विलासाभावे\ऽपि स्वरूप-निष्ठया सुखानुभव-तृप्तेः । उभय-युक् परस्पर-चित्त-समाधानवत् न तु कदापि ब्रह्मत्वादौ ततो हेतोः यस्माच्-छ्री-राधा त्वञ् च विशुद्ध-पूर्ण-मधुर-प्रेमैक-रस-मयौ अतस् तद् इमे विशुद्ध-महा—भाव-वर्त्म-निष्ठैर् अनुभूता अस्माभिश् चानुभूयमाना युवयोः शुद्ध-भाव-मयाः परिजनास्वयि परमे परम-काष्ठापन्न-परमानन्द-रस-सम्पन्निधाने लिल्युर् लीना मग्ना बभूवुः । विविधनाम् अगुणैः सह त्वद्-रसम् अग्नतया नाम-गुणाद्य् अस्फुर्तेः विविध-नाम-गुणैः परमे त्वयोति वा । सरित इवार्णवे लीला भवन्ति मधुनि अशेष-रसा इव । विशेष-विज्ञानाभावे दृष्टान्तौ ।
नित्य-गोप्यस्तु आहुः—प्रकृष्टम् अनुरागं करोति प्रकृतिः श्री-राधिका सकल-नायिका-गुणैः पूर्णत्वात् । राधा-विषय-पूर्णानुरागत्वात् पुरुषः श्री-कृष्ण-चन्द्रः उभयो राधायां केवलायां श्री-कृष्णे वा केवले परस्पर-वियुक्तावस्थायाम् इति भावः । उद्भव उत्कृष्ट-सुख-प्राप्तिर्न घटते । कथम्-भूतयोः अजयोः परस्पर-निमिषार्द्ध-विरहे\ऽपि समस्त-व्यवहारं क्षिपतोः जन्माभि-व्यक्तिस् तद्-रहितयोर् वा मिथो विरहे शरीरेन्द्रिय-प्राण-मनोवृत्तीनां कासाञ्चिद् अपि नाभिव्यक्तिस् तयोर् इत्य् अर्थः । उभय-युजा तु परस्परम् इलनेन सर्वा अस्मद्-विधा अपि असुभृतोभवन्ति प्राणान् धारयन्तीत्य् अर्थः । इमे ततः काम-सम्पत्ति-ज्ञान-प्रकाशिकायाः कन्दर्प-विलासे स्ववैदग्ध्य-प्रख्यापिकायाः श्री-राधिकायास् त्वयि **अशेष-**रसा लिल्युः लीना भवत्-सन्निधावेवाभिव्यक्ता भवन्ति । त्वयि कथम्-भूते महार्णव इव गम्भीर-रस-निधौ । राधायाः कथम्-भूतायाः सरित इव महा-प्रेम-वेगेन त्वत्-सङ्गौत्सुक्य-परोत्कर्ष-भाजः मधुनीव मादके ।
यद् वा, ततो हेतोर् इमे ते प्रसिद्ध राधा-चरणैकान्तिकतया परिजना नाम-गुणैः सह त्वयि लीना अर्णवे सरित इव मधुनि **अशेष-**रसा इव । त्वयि कथम्-भूते परमे परम-शोभावति राधा-सहित-विहारेण यतः परा शोभा न भविष्यति ताः प्राप्तवतीति ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु जीवत्वं नाम किं यत् तु मद् एक-नियन्तृत्वेन नियमनम्? इत्य् आह—न घटत इत्य् आदि । कथं न घटेत ? तत्रेयं युक्तिः—जडाया प्रकृतेर् जीव-रूपेणोद्भवश् चेत्, अतो जीवस्यापि जडत्वं, पुरुषस्य चेत् तदा विकारित्वम् । उभयं युनक्तीत्य् उभय-युक्, तेन तवेच्छा-विलसितेनासु-भृतः प्राणाद्य् उपाधयो जीवा भवन्ति, अन्यथोभयोर् एव न घटते इति । कथं न घटते ? प्रकृतेर् निमित्तत्वे पुरुषस्योपादानत्वे उभयोर् एव उद्भवो घटत एव ।
एवं चेत् तर्हि उभयोर् एक-जातीय-कारणवतोर् इति बोद्धव्यम्, वस्तुतस् तु तयोर् निमित्तोपादान-रूपयोः कारणत्वे विजातीयत्वम् । जल-बुद्बुदा यथा अनिल-जलाभ्यां निमित्तोपादानाभ्यां भवन्ति, तथा ते\ऽपि चेत् तथापि उभयोः कारणत्वम् अनुगतम् उभयोर् उद्भव इति पक्षे निर्वाच्यः । तेनान्यद् अपि बुद्बुदान्तर्-वर्त्य् आकाश इव तवेच्छान्तरं तृतीयम् एष्टव्यं सर्व-कारण-कारणात् तव ।
ततस् तद् अनन्तरं प्रलयादौ मोक्षे वा इमे असु-भृतो विविध-नाम-गुणैः सह ते तव त्वयि ब्रह्मणि त्वद् अभिन्ने तव परमैश्वर्ये ब्रह्मणि लिल्युर् लीयन्ते । कस्मिन् क इव ? मधुनि अशेष-रसा इव । यद्यपि विविधानां कुसुमानां रसा, विशेषतो\ऽनुपलक्ष्यमाणा अपि सामान्येनोपलक्ष्यन्ते इति स्वाम्य् उक्तेन तुल्यम् ।
त्वयि ब्रह्मणि कीदृशे ? परमे परे भवति मा यस्येति, तथा तस्मिन् । यद् वा, त इमे असु-भृतस् त्वयि समयम् आसाद्य लीयन्ते । ननु मयि श्री-कृष्णे कथं लीयन्ते ? तत्राहुः—अशेष-रसाः सर्वे आनन्दास् त्वयि लिल्युः । तेन ब्रह्मानन्दो\ऽपि त्वय्य् एव, अतस् त्वयीत्य् उक्तम्, यथा मधुनि कुसुम-रसाः ॥३१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु स्थिर-चर-जातयः [भा।पु १०.८७.२९] इत्य् आदिना शक्ति-सम्बन्धान् मत्तो जीवानां जन्मोक्तं, तत्र किं मत्-प्रकृतेर् अंशस्य जीव-रूपेण जन्म, मद् अवतारस्य पुरुषस्य वेत्य् आशङ्क्य निराकरोति—न घटत इति । तत्र हेतुः—अजयोर् इति । ननु ततः कथम् एते स्युः ? इत्य् अपेक्षायाम् आहुः—उभयेति । उभयस्य प्रकृति-पुरुषयोर् द्वयस्य युजा योगेन, योगस् तावत् प्रकृतौ पुरुषस्येक्षा-रूपस् तेन चिद्-रूपा जीवाः प्रादुर्भवन्ति, तयोर् योगस्य स्वाभाविक-प्रभावाद् उह्यन्त इत्य् अर्थः । यद् वा, उभयं प्रकृति-पुरुष-रूपं युनक्ति नियोजयतीति उभय-युक् सामान्य-चिच्छक्तिः । तथा च श्री-विष्णु-पुराणे—
प्रधानं च पुमांश् चैव सर्व-भूतात्म-भूतया ।
विष्णु-शक्त्या महा-बुद्धे वृतौ संश्रय-धर्मिणौ ॥ [वि।पु। २.७.२९]
यद् वा, उभयस्य जीव-भिन्नाभिन्नत्वस्य युग् योगः समाधानम् यया सा उभय-युक् सामान्य-चिच्-छक्तिः, तया तु भवन्त्य् एव । अतस् ते त्वदीय-शक्ति-विलसितत्वात् त्वत्तो भिन्नाभिन्नाश् चेति भावः ।
चिच्-छक्ति-विशिष्ट-चित्-कणत्वाज् जीवस्य तत्रानुरूपो दृष्टान्तः—जलेति । यथा बुद्बुदा वायु-विशिष्टत्वाज् जलादि-भिन्ना एव, जल-रूपत्वाद् अभिन्नाश् चेति । एतद् उपलक्षणम् । यथा सूर्य-तत्-किरण-कणादयश् चेति । अतस् त्वत्तो नात्यन्त-भिन्नत्वात् त्वयि लय-विशेषं प्राप्नुयुर् इत्य् आहुः—त्वयीति ।
परमे परम-कारणे सरिताम् अर्णवे लयेनात्यन्त-भेदाभावम् आशङ्क्य दृष्टान्तान्तरम् आहुः—मधुनीति । मोक्षणे तेषां श्री-भगवति लये सत्य् अपि पृथक् सत्ता भात्य् एव, अतो लिङ्ग-देहादि-सर्वोपाधि-क्षयात् मुक्त्या लीनानाम् अपि श्री-भगवद्-इच्छया पुनः कल्याण-देह-भाक्त्वं सिध्येत्, तच् च ब्रह्माण्ड-पुराणादौ श्री-भगवति लीनस्यापि श्री-प्रह्लादस्य तादृशत्वोक्त्याव्यक्तम् एव ।
यद् वा, ननु लक्ष्मी-सहितस्य मम तत्र तत्र जन्मना जीवैः साम्यं किं न स्यात् ? तत्राहुः—नेति । प्रकृति-पुरुषयोर् लक्ष्मी-नारायणयोर् उद्भवो जीववद् उत्पत्तिर् न घटत एव, यतो\ऽजयोः । जीववन् न जायेथे । किन्तु लीलया स्वयम् एव प्रादुर्भवतथ इत्य् अर्थः । असु-भृतो जीवा एवोभय-युजा माता-पितृ-योगेन भवन्ति उत्पद्यन्ते, बुद्बुदा यथा वायु-जलयोर् योगेन युवयोः प्रादुर्भावो\ऽप्य् एषां संसार-ध्वंसायैवेत्य् आहुः—त्वयीति । युवयोर् विविधैर् नामभिर् गुणैर् वा नाम्नां गणनैर् अनुशीलनैर् इति वा । अशेष-रसा अशेषो रसो येषु तथा-भूताः सन्तस् त्वयि मधुनि महा-महा-मधुर-रस-रूपे निलिल्युर् इत्य् अतीत-निर्देशस् तन्-निर्धार-विवक्षया, ध्रुवम् अत्यन्त-संयोगं प्राप्नुवन्तीत्य् अर्थः । शेषं समानम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न घटत इत्य् अस्य टीकायाम् उपाधि-जन्मनैवेति तज्-जन्मनो\ऽप्य् अनादि-प्रभावो मन्तव्य इति भावः । परस्पराध्यस्त इत्य् अविद्यया समारोपितम् इत्य् अर्थः । तेन कारणोपाधिना जीव्न असु-भृतः कार्योआपाधय इति यावत् । अत एव न विकारित्वम् । बुद्बुद-दृष्टान्तस् तु संयोगमात्रांशे ज्ञेयः ।
श्रुतौ लोहित [श्वे।उ। ४.५] इति रजः-सत्त्व-तम आत्मिकाम् इत्य् अर्थः । सरूपाः रज आद्यात्मिका अनुशेते निरन्तरं मुह्यति जहात्येनाम् अस्यां न सज्जतीत्य् अर्थः । भुक्तो भोगो यस्याः जीव-रूपेण अजैव इति शेषः । अन्यः परमात्मेति अग्रिम-श्रुतौ निस्तिष्ठन्ति निष्पादयन्ति । नानात्ययनां नाना-गति-नाना-दिक्-कालानां यथा तत्रेत्यादिकम् औपचरिकोक्तिः सम्पाद्येति सुषुप्ति-प्रलययोः यथा नद्य इति मुक्त्य् अवस्थायां परात् पूर्वोक्ताद् अक्षरात् परं दिव्यं पुरुषं यथोक्त-लक्षणम् इति ।
स्व-व्याख्यायां तु—अथ पूर्वोक्तम् अजनि च यन्-मयम् इति व्याचक्षाणा जीवानां तद् व्याप्यत्वम् एव स्थापयन्तस् तद् अनुगताः काश्चिद् अन्याश् च श्रुतयस् तत्-तात्पर्येणैव स्व-तात्पर्यं ज्ञापयन्ति—न घटत इति
अयम् अर्थः—कार्य-लक्षणं द्विविधं, अन्यथा सिद्धीनयत-पश्चाद्-भावित्वम् परान्वय-व्यतिरेकानुकारित्वं चेति । तत्र पूर्वं रसादाव् अव्याप्तम् आश्रय-समान-कालत्वेन प्रतीयमानत्वात् । भवतु वा स्वादौ वस्तुनि रसादेर् उत्तर-भावित्वम् । अण्व् आदौ न घटते । कुतः ? अजयोः, अजाम् एकाम् इत्य् आदि-श्रुतौ द्वयोर् अप्य् अजत्वेन सिद्धयोर् ईश्वरवद् अनाद्य् अन्तयोर् इत्य् अर्थः । प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि [गीता १३.१९] इति तद्-वाक्यादौ ततश् चाजनि च यन्-मयम् इति यद् उक्तं तत् तु परमेश्वर-व्याप्यत्वेनोपाधि-जन्मनि । तत्-तादात्म्यापेक्षयैवेत्य् आहुः— उभय-युग् इति । उभयं प्रकृति-पुरुष-रूपं युनक्ति व्याप्नोतीत्य् उभय-युक् । त्वद् अंशः परम-पुरुषः, तेन तच्-छक्ति-द्वय-विशिष्टेन हेतुनासुभृतः सोपाहिकावस्थतया ते जीवा जायन्ते । यथा जल-वायु-विशिष्टेनाकाशेन बुद्बुदा इत्य् अर्थः । तथापि त्वद् उपादानत्वम्—
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः ।
सतो\ऽभिव्यञ्जकः कालो भाव् तत् त्रितयं त्व् अहम् ॥ [भा।पु। ११.२४.१९]
इत्य् एकादश-स्थ-श्री-भगवद् उक्त-न्यायेन लभ-शक्तिमतः सकाशाश् छक्तेर् अनन्यत्वेन एव स्वरूपतो\ऽपि त्वद्-व्याप्यत्वम् एव तेषां स्थितम् इति । तथा च विष्णु-पुराणे—
प्रधानं च पुमांश् चैव सर्व-भूतात्म-भूतया ।
विष्णु-शक्त्या महा-बुद्धे वृतौ संश्रय-धर्मिणौ ॥ [वि।पु। २.७.२९]
यत एवम् आत्यन्तिकाख्ये\ऽपि किम् उत प्राकृताख्ये प्रलये तेषां त्वयि प्रवेश एवेत्य् आहुः—त्वयीति । अत्र यथा सरिताम् अशेष-रसानां च तत्-तद्-गुण-नाम्नाम् एव नाशः । न तु तत्-तत्-स्वरूपस्य नाप्य् अभेदवत्त्वं पृथक्-तत्-तद् अंश-सम्भवात् तथा मयि त्वयीत्य् अपि ज्ञापितम् ।
अत्र पूर्वार्धे श्रुतयः—हन्तेमास् तिस्रो देवता अनेनात्मनानुप्रविश्य नाम-रूपे विहाय व्याकरवाणि इत्य् आद्याः । उत्तरार्धे च—यथा सोम्य मधुकृतः इत्य् आद्याः ॥३१॥
जीव-गोस्वामी (परमात्म-सन्दर्भः ४७) : तद् एवम् अनन्ता एव जीवाख्यास् तटस्थाः शक्तयः । तत्र तासां वर्ग-द्वयम् । एको वर्गोऽनादित एव भगवद् उन्मुखः, अन्यस् त्व् अनादित एव भगवत्-पराङ्-मुखः, स्वभावतस् तदीय-ज्ञान-भावात् तदीय-ज्ञानाभावाच् च । अत्र प्रथमोऽन्तरङ्गा-शक्ति-विलासानुगृहीतो नित्य-भगवत्-परिकर-रूपो गरुडादिकः, यथोक्तं पाद्मोत्तर-खण्डे त्रिपाद्-विभूतेर् लोकास् तु [प।पु। ६.२२८.१] इत्य् आदौ भगवत्-सन्दर्भोदाहृते [[§७५, ८१]]{।मर्क्} 125 । अस्य च तटस्थत्वं जीवत्व-प्रसिद्धेर् ईश्वरत्व-कोटाव् अप्रवेशात् । अपरस्य तत्-पराङ्मुखत्व-दोषेण लब्ध-च्छिद्रया मायया परिभूतः संसारी, यथोक्तं हंस-गुह्य-स्तवे—सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति । एकादशे च—भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इति ।
तद्-वर्ग-द्वयम् एवोक्तं श्री-विदुरेणापि—
तत्त्वानां भगवंस् तेषां कतिधा प्रति-सङ्क्रमः ।
तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ [भा।पु। ३.७.३७] इत्य् अनेन ।
तत्र परमेश्वर-पराङ्मुखानां शुद्धानाम् अपि तच्-छक्ति-विशिष्टान् परमेश्वरात् सोपाधिकं जन्म भवति । तच् च जन्म निजोपाधि-जन्मना निज-जन्माभिमान-हेतुकाध्यात्मिकावस्थात्व-प्राप्तिर् एव । तद् एतद् आहुः—न घटत इति ।
प्रकृतेस् त्रैगुण्यं, पुरुषः शुद्धो जीवः, तयोर् द्वयोर् अप्य् अजत्वाद् उद्भवो न घटते । ये च असु-भृत आध्यात्मिक-रूपाः सोपाधयो जीवा जायन्ते, तत्-तद् उभय-शक्ति-युजा परमात्मनैव कारणेन जायन्ते । प्रकृति-विकार-प्रलयेण सुप्त-वासनत्वात् शुद्धास् ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि-काले विकारिणीं प्रकृतिम् आसज्य क्षुभित-वासनाः सत्यः सोपाधिकावस्थां प्राप्नुवन्त्य एव व्युच् चरन्तीत्य् अर्थः ।
एतद् अभिप्रेत्यैव भगवान् एक आसेदम् [भा।पु। ३.५.२३] इत्य् आदि तृतीय-स्कन्ध-प्रकरणे—
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भा।पु। ३.५.२६]
इत्य् अनेन वीर्य-शब्दोक्तस्य जीवस्य126 प्रकृताव् आधानम् उक्तम् । एवं श्री-गीतोपनिषत्स्व् अपि मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् [गीता १४.३] इत्य् अत्रोक्तम् । टीका-कारैश्127 च ब्रह्म-शब्देन प्रकृतिर् व्याख्याता, गर्भ-शब्देन जीव इति। पुनर् एष एव तृतीये—
दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत महत् तत्-त्वं हिरण्मयम् ॥ [भा।पु। ३.२६.१९]
इत्य् अत्र वीर्यं चिच्-छक्तिम् इति टीकायां व्याख्यातम्, अतः शक्तित्वम् अस्य टीका-सम्मतम् ।
ततोऽकस्माद् उद्भव-मात्रांशे दृष्टान्तः—जल-बुद्बुदवद् इति । अतः पुनर् अपि प्रलय-समये इमे सोपाधिका जीवास् त्वयि बिम्ब-स्थानीय-मूल-चिद्-रूपे रश्मि-स्थानीय-चिद् एक-लक्षण-शुद्ध-जीव-शक्तिमये । तत एव स्वम् अपीतो भवति [छा।उ। ६.८.१]128 इत्य् आदि श्रुतौ स्व-शब्दाभिधेये परमे परमात्मनि विविध-नाम-गुणैर् विविधाभिर् देवादि-सञ्ज्ञाभिर् विविधैः शुभाशुभ-गुणैश् च सह लिल्युर् लीयन्ते ।
पूर्ववत् प्रलयेऽपि दृष्टान्तः—सरित इवार्णव इति अशेष-रसा इव मधुनि इति च । अत्र देव-मनुष्यादि-नाम-रूप-परित्यागेन तस्मिन् लीनेऽपि स्वरूप-भेदोऽस्त्य् एव, तत्-तद् अंश-सद्-भावाद् इत्य् अभिप्रायः । अत्र श्रुतयः, हन्तेमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति [छा।उ। ६.३.२] इति, अजाम् एकाम् [श्वे।उ। ४.५] इत्य् आदि ।
यथा नद्यः स्यन्दमानाः समुद्रे
ऽस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मु।उ। ३.२.८] इति ।
यथा सौम्येमा मधु मधु-कृतो निस्तिष्ठन्ति, नाना-रूपाणां129 वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति, ते यथा विवेकं न लभन्ते\ऽमुष्याहं वृक्षस्य रसोऽस्म्य् अमुष्याहं वृक्षस्य रसोऽस्मीति, एवम् एव खलु सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः, सति सम्पद्यामहे [छा।उ। ६.९.१-२] इति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ पूर्वोक्तम् अजनि च यन्-मयं [भा।पु। १०.८७.३०] इति व्याचक्षाणा जीवानां तद्-व्याप्यत्वम् एव स्थापयन्त्यस् तद् अनुगताः काश्चिद् अन्याः श्रुतयस् तत्-तात्पर्येणैव स्व-तात्पर्यं ज्ञापयन्ति—स घटत इति ॥३१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ननु प्रकृति-पुरुषाभ्याम् जिवानां समुद्भवः । कथा तेषां मद् अंशत्वम् ? भवतु वा तेषां मद् अंशत्वं, मत्-पार्षदैः सह वा तेषां कथा न साम्यम् ? तेऽपि मद् अंशाः, इत्य् आशङ्क्याहुः—न घटत उद्भवः इत्य् आदि । प्रकृति-पुरुषयोर् इति पञ्चम्य् अर्थे षष्ठी । ताभ्याम् सकाशात् तव पार्षद् आदीनाम् उद्भवो न घटते । कीदृशयोर् अजयोः ? पुरुषश् च तवांशत्व्द् एवाजः, प्रकृतिश् चाजा, अजाम् एकां [श्वे।उ। ४.५] इत्य् आदिनोक्तेः । एति भावःभावयोर् अपि पुरुष उपादान-कारणं, अजा निमित्त-कारणम् । अयं तु प्रकारः खलु जिवानाम् एव, यत उभय-युजा प्रकृति-पुरुष-योगेन असु-भृतो जिवा एव भवन्ति । ये जिवा जल-बुद्बुदवत् क्षण-भङ्गुराः ।
त्वत्-परिकरास् तु नित्य-भूताः, तेन तैः समं कथा जिवानां साम्यम् ? यतः प्रकृति-पुरुष-योगस्य प्राग् अपि तेषां ते परिजनानाम् अस्तित्व-[[श्रवणात्]]{।मर्क्}चरणारविन्दात्—न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः [भा।पु। २.९.१०] इति मायायाः प्रकृतेस् तत्राभावात्।
तर्हि कुतस् तेषां ह्य् आविर्भावः ? इति पुनर् आहुः—त्वयि त इमे इति । त इमे तव परिजनास् ततो हेतोस् त्वय्य् एव । कीदृशे त्वयि ? परमे परा उत्कृष्टा मा शोभा यस्य तस्मिन् । पुनः कीदृशे ? मधुनि मधुवन् मधुरे । ते कीदृशाः ? अशेष-रसा अशेषो रसोऽनुरागो येषाम् । तर्हि किं मयि कैवल्यं प्राप्ता एव ते वर्तन्ते ? नेत्य् आहुः—सरित इवार्णवे इति । विविध-नाम-गुणैर् युक्ताः सत्यो हि सरितोऽर्णवे निलिल्युः**,** तथा सरितो हि, इयं गङ्गा, इयं यमुना, इयं नर्मदा इत्य् आदि नामानि न त्यजन्ति । अथ चैक-देशेनैवार्णवे लीयन्ते, लीनतायां च तत्-तद् आकारेण पृथग्-विधा एव । तथा ते परिजना इन्द्रिय-वृत्तिभिस् त्वयि प्रविशन्ति, नाम-गुणाकारैः पृथग् वर्तन्त एव । अतस् त्वयीत्य् उच्यते, त्वद् एक-निष्ठत्वादिना त्वयीत्य् उपर्यते । तेनामी प्रकृति-पुरुषोद्भवा न भवन्ति, न चानित्या भवन्ति, अतो नैषां जिव-साम्यम् इति स्थितम् ॥३१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतन्-मतम् अप्य् अन्ये दूष्यन्तिओ दृष्ट्याः । तथा हि—ननु यदि परमात्मनो जिवा जायन्त इत्य् उच्यते, तथा सति जीवानाम् अनित्यत्व-प्रसङ्गेन प्रतिदिनं कृत-नाशाकृताभ्यागम-प्रसङ्गः स्यात् । किं च, तदा मोक्षो नाम जीवस्य स्वरूप-हानिर् एव स्यात् । तस्य स्वरूपस् तु ब्रह्मैव, तस्मात् यथा अनवच्छिन्नम् आकाशम् एव घटावच्छिन्नं भवेत्, घट-भङ्गे सति तन् महाकाशम् एव, एवम् एवाविद्यकोपाधेर् भङ्ग एव मोक्षस् तज्-जन्मन्य् एव सति जन्म जिवानाम् उच्यते, न तु स्वत इति ये वदन्ति तन्-मतम् अप्य् अनुवदन्त्यः स्तुवन्ति—न घटत इति ।
तत्र तत्र किं प्रकृतेर् जीव-रूपेणोद्भवः स्यात्, पुरुषस्य वा, उभयोर् वा ? आद्ये जीवानां जडत्वापत्तिः । द्वितीये पुरुषस्य विकारित्व-प्रसङ्गः । अत एव न तृतीय इत्य् आशयेनोक्तं प्रकृति-पूरुषयोर् उद्भवो न घटत इति । श्रुत्याजत्व-प्रतिपादनाद् अपीत्य् आह—अजयोर्130 इति । तथा च श्रुतिः—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५] इति ।
अर्थश् च—लोहित-शुक्ल-कृष्णां रजः-सत्त्व-तमो-स्वरूपाः रज आद्य् आत्मिकाः, अनुशेते निरन्तरं मुह्यति जहात्य् एनाम् अस्यां नासज्जतीत्य् अर्थः । भुक्तो भोगां भुक्तो भोगो यस्यां जिव-रूपेणाजेन ताम् । अन्यः परमात्मेति ।
तस्माद् उभयस्य प्रकृतेः पुरुषस्य च युजा योगेनैव तनु-भृतः प्राणादि-महद् उपाधयो जायन्त इत्य् अर्थः । जल-बुद्बुदवद् इति । यथा केवलेन जलेनानिलेन वा जल-बुद्बुदा न भवन्ति, किन्तु ताभ्याम् मिलिताभ्याम् एव, तद्वत् । तस्माज् जिवानाम् उपाधि-जन्मनैव जन्म न स्वत इत्य् उक्तम् ।
उपाधि-लयेनैव पुनर् ब्रह्मणि लय-चरणारविन्दाद् अपि न वास्तवं जन्मेत्य् आहुः—त्वयीति । त इमे जिवाः, तत इति यतो न वास्तवं जन्म, तस्माद् विविध-नाम-गुणैर् सहिताः त्वयि लिल्युर् लीना बभूवुः ।
तेषां लयो द्विविधः । तत्र मुक्तौ स्थूल-सूक्ष्माणां कार्योपाधीनाम् अविद्यायाः कारणोपाधेश् च लयाद् आत्यन्तिको लयः । तत्र दृष्टान्तः—सरितो नद्योऽर्णवे लीना इव । सुषुप्ति-प्रलययोस् तु कार्योपाधीनाम् एव लयः, न तु कारणस्याविद्यायाः । अतस् तत्र विशेष-मात्रस्यैव लयः, सामान्यस् तु वर्तत एव । तत्र दृष्टान्तः—मधुन्य् अशेष-रसाः सकल-कुसुम-रसा विशेषतोऽनुपलक्ष्यमाणा अपि सामान्यतः उलक्ष्यन्ते एव ।
अत्र श्रुतयः—
यथा नद्यः स्यन्दमानाः समुद्रे
अस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मु।उ। ३.२.८] इति ।
यथा सोम्य मधु मधु-कृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारम् एकतां सङ्गमयन्ति । ते यथा तत्र न विवेकं लभन्ते अमुष्याहं वृक्षस्य रसोऽस्म्य् अमुष्याहं वृक्षस्य रसोऽस्मीत्य् एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामहे इति ॥ [छा।उ। ६.९.१-२] इत्य् आद्याः ।
अर्थश् च—निस्तिष्ठन्ति निष्पादयन्ति नानात्ययानां नाना-विध-परिणतिमतां रसानां समवहारम् समाहृत्य एकतां रसम् एकरसताम् इत्य् अर्थः । यथा नद्य इत्य् आद्या मुक्ति-व्यञ्जिका यथा सौम्येत्य् आद्याः श्रुतिः प्रलय-व्यञ्जिका ॥३१॥
॥ १०.८७.३२ ॥
तव तव मायया भ्रमम् अमीष्व् अवगत्य भृशं
त्वयि सुधियोऽभवे दधति भावम् अनुप्रभवम् ।
कथम् अनुवर्ततां भव-भयं तव यद् भ्रू-कुटिः
सृजति मुहुस् त्रि-नेमिर् अभवच्-छरणेषु भयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं तावत् परमेश्वराज् जीवा जायन्ते, तद्-वशेन च कर्माणि कुर्वन्ति, पुनस् तत्र लीयन्त इति संसार-चक्रे परिभ्रमणम् उक्तम् । इदानीं तन्-निवृत्तये,
परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथम-जाम् ऋतस्यात्मनात्मानम् अभिसंविवेश131 ॥ [म।ना।उ। २.१८]
इत्य् आद्याः भगवद् अनुवृत्तिं विदधतीत्य् आह—तव तव माययेति । तव जीवेष्व् अमीषु तव मायया भ्रमम् उक्त-लक्षणम् अवगत्य ज्ञात्वा सुधियो भृशं त्वय्य् अभवे भव-निवर्तके भावं स्वभावम् अनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम् ? अनुप्रभवम् अन्व् अनु प्रभवो यस्मिंस् तं भ्रमम्
ततः किम् ? अत आह—कथम् इति । अनुवर्तताम् अनुवर्तमानानां त्वाम् एव शरणं भजतां भव-भयं संसार-भयं कथं भवेत् ? न कथञ्चिद् अपीत्य् अर्थः । कुतः ? यद् यस्मात् तव भ्रु-कुटिर् भ्रू-भङ्ग-रूपस् त्रिणेमिस् तिस्रो नेमय इवावच्छेदाः शीतोष्ण-वर्षा-काला यस्य संवत्सरात्मकस्य कालस्य सः । अभवच्-छरणेषु न भवान् शरणं रक्षिता येषां, तेष्व् एव भयं जन्म-मरणादि-लक्षण सृजति करोति, अत एवं-भूतं संसारम् आकलय्य तन्-निवृत्तये सुधियस् त्वयि भावं दधतीति ।
संसार-चक्र-क्रकचैर् विदीर्णम्
उदीर्ण-नाना-भवतापतप्तम् ।
कथञ्चिद् आपन्नम् इह प्रपन्नं
त्वम् उद्धर श्री-नृहरे नृ-लोकम् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या तद्-वशेनेश्वर-प्रेरणया पुनः सृष्ट्यन्ते तत्रेश्वरे तन्-निवृत्तये संसार-भ्रमण निवृत्त्य् अर्थम् । परीत्य [महा।ना।उ १८] इत्य् आद्याः श्रुतयो भगवद् अनुवृत्तिं भगवद्-भक्तिं विदधतीति श्रुतत्य् अर्थः । स मुनिः भूतानि प्राणिनः परीत्य संसरचक्रे भ्रमन्तीति ज्ञात्वा लोकान्-स्वर्गादीन्-क्षयिष्णुत्वेन परीत्य ज्ञात्वा सर्वा दिशः प्राच्याद्या विदिश आग्नेय्याद्याश् च दुःख-मयत्वेन दिगादि-शब्दस् तत्रत्य् अपरो ज्ञेयः । ऋतस्य सदा सत्यस्य श्री-विष्णोः प्रथमजां वाचं त्रयीलक्षणाम् उपस्थाय त्रय्य् उक्त-नैष्कर्म्यम् आसेव्यात्मना सर्वतो विरक्तेन मनसात्मानं परमात्मानं भगवन्तं शरणम् अभिसंविवेश गतवान् । व्याख्यान्तरं पूर्वैः कृतम्, सर्वेषु भूतेषु अहम् अस्मि सर्वाणि भूतानि मयि सन्तीति ज्ञात्वा प्रथमजां वाचम् उपस्थाय यावज्-ज्ञानोत्पत्तिः तावत् आत्मना शुद्धेन त्वं-पदार्थेनात्मानं तत्-पदार्थं परमात्मानम् अभिसंविवेशैक्यं गतवान् इति ततस् त्वद् अनुवृत्तेः । इत्य् अर्थ इति व्याख्या ।
अत्र हेतुम् आशङ्कते—कुत इति । यतस् त्वद्-विहीनानां संसारो\ऽतो हेतोः एवम्-भूतं पौनः-पुन्येन भवनशीलम् आकलय विचार्य तस्य संसारस्य निवृत्तये सुधियो विवेकिनः । स्वामिनाम् संसारेति । संसार-चक्रम् एव क्रकचं करपत्रं काष्ठ-विदारणास्त्र-विशेषस् तेन विदीर्णम् । बहुत्वं संसार-चक्र-दुःखानन्त्य् अपरम् । उदीर्णा उत्कटा नानाध्यात्मादि-रूपा भवतापाः संसार-तापास् तैस् तप्तम् । अत आपन्नम् आपद्-ग्रस्तम् इह संसारे कथञ्चित्-केनापि भाग्योदयेन त्वां प्रपन्नं शरणागतं त्वम् उद्धर ॥
श्रीधरानुयायिनी : एवं नाना-मतान्य् अनूद्य वैष्णव-मतम् एव स्थापयन्ति—नृष्व् इति । तव विद्वन्-मानिषु अमीषु जनिम-सत इत्य् आदि-श्रुति-कदम्बोक्त-नाना-वादिषु तव मायया भृशं भ्रमं भ्रान्त्यैव नाना-मत-कल्पनं ज्ञात्वा भव-निवर्तके त्वयि अनु प्रतिजन्म सुधियः श्री-नारदाद्या भक्तिं कुर्वन्ति—
नाना-योनि-सहस्रेषु येषु येषु भ्रमाम् यहम् ।
तत्र तत्राच्युता भक्तिर् अच्युतास्तु दृढं त्वयि ॥ इति विष्णु-पुराणात् ।
एवम् एषां वैष्णवानां संसार-भयं कथम् अनुवर्तताम् अनुवृत्तं भवतु न कथम् अपीति त्वद्-भजनारम्भ-दशायाम् एव तेषां तस्यापगमात् । अतस् त्वद्-**भ्रू-**भङ्ग-रूपः कालस् तवाभक्तेष्व् एव जन्म-मरणादि-भयं मुहुः सृजति न तु भक्तेष्व् अपीत्य् अर्थः । यद् वा, अन्य-सर्व-साधन-सम्पन्नानाम् अपि त्वद्-भजनं विना संसार-भयं न निवर्तत इत्य् आहुः—नृष्व् इति । अमीषु वेद-विज्ञेष्व् अपि तव दीक्षित-विप्रादिषु तव मायया भ्रमम् इन्द्रादिभ्यो\ऽन्नमदत्त्वा प्राग् एव गोपाल-जातये श्री-कृष्णाय न देयम् इति भ्रमं भगवद्-याचना-भङ्गेन तेषां भावि-जन्म-मरण-भ्रमणानवस्थां वा निश्चित्य सुधियो यज्ञ-पत्न्यादयस् त्वयि भव-निवर्तके अनुप्रभवम् अन्वनु प्रति क्षणं प्रभव उल्लासो यस्य तं तादृशं भावं भक्तिं भृशम् अत्य् अन्तं कुर्वन्ति । एवं त्वाम् अनुवर्ततां भजतां संसार-भयं कथं न कथम् अपीत्य् अर्थः ।
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वथा तस्मै ददाम्य् एतद् व्रतं मम ॥ इति श्री-भगवद्-उक्तेः ।
अयं भावः—संसार-दशायां त्वन्-माधुर्य-रसावेशेन भयान् अवधानम् एव भय-हेतूनाम् अकिञ्चित्-करत्वं वा । संसारातीतद् अशायां तु । भय-हेतव एव न सन्ति । अत एव त्रयो गुणा नेमयश् चक्रधारावदावरका यस्यां सा तव भ्रुकुटिर् अभक्तेषु जन्म-मरणादि-दुःखं मुहुः । सृजति । अथवामीषु भगवद् आराधन-परेष्व् अपि तव पञ्चायतन-मध्ये को देवः पूज्यः सेव्यश् चेति भ्रमं मनो-भ्रमणात्मकं संशयम् अवगत्य तेषां निश्चयार्थं सुधियः श्री-नारदाद्यास् तव मायया कृपया माया दम्भे कृपायां च इति विश्वः । अभवे भव-निवर्तके त्वय्य् एव सर्व-देवेभ्यः मुख्यतया भावं सख्य-दास्यादिकं प्रति-जन्म प्रति-क्षणं कुर्वन्तीत्य् अर्थः । स्वामि-श्लोक-पदार्थस्तु-चक्रवद् ऊर्ध्वाधोभावेन भ्रमणवति संसारे क्रकचवद्-दुःखप्रदै रोगादिभिर् विदीर्णम् उदीर्णैर् उत्कटैर् नाना-विधाध्यात्मिकादि-संसार-तापैस् तप्त-मत आपन्नम् आपद्-ग्रस्तम् इह संसारे कथञ्चिद् आर्ततया जिज्ञासुतया कामनया दम्भादिना वा केनापि भाग्योदयेन त्वां शरणागतं नृलोकम् उद्धरेत्य् अर्थः ॥
निलकण्ठी : एवं ब्रह्माद्वैतं प्रसाध्य तद्-अज्ञानाद् बन्धस् तज्-ज्ञानान्म् उक्तिर् इत्य् आह—तव तव इति । अमीषु तव पुरुषेषु, न तु मनुष्य-मात्रेषु—
तद् यो यो देवानां प्रत्यबुध्यत,
स एव तद् अभवत्, तथ र्षीणां तथा मनुष्याणाम् । [बृ।आ।उ। १.४.१०]
इति देवादीनां ब्रह्म-विद्यायां तुल्यवद् अधिकार-श्रवणात् तव मायया कर्तैर् वाहं पुत्रादिर् एव हितः, अर्थ-कामाव् एव पुरुषार्थाव् इत्य् एवं-रूपया अविद्यया भ्रमम् ऊर्ध्वाधो-गमनेनानेक-योनि-सञ्चरणं भृशम् अत्यन्तम् अवगत्य—
न साम्परायो प्रतिभाति बालं
प्रमाद्यन्तं वित्त-मोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी
पुनः पुनर् वशम् आपद्यते मे ॥ [कठ।उ १.२.६]
इति श्रुतेर् ज्ञात्वा सुधियः सूक्ष्म-धियः--दृश्यते त्व् अग्रयया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः [कठ।उ। १.३.१२]। इति श्रुतेः शोभन-धियो वा त्वयि अभवे न भवत्य् अयम् इति न भवत्य् अस्माद् इति व्युत्पत्तिभ्याम् अकार्य-कारणे ब्रह्मणि भावं जीवात्मानं मनो वा आत्म-भावो मनो-भावः इत्य् अनेकार्थ-पद-मञ्जरी । दधत्य् अभेदेन स्थापयन्ति ।
यच्छेद् वाङ्-मनसी प्राज्ञस् तद्-यच्छेज्-ज्ञान आत्मनि ।
ज्ञानम् आत्मनि महति तद् यच्छेच् छान्त आत्मनि ॥ [कठ।उ। १.३.१३]
इति श्रुत्य्-उक्त-प्रकारेण यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते । अथ तस्य भयं भवति [तै।उ। २.७.१]। इति भेद् अदर्शनस्य निन्दितत्वात् । यच्छेत् इति श्रुतिस्तु भाष्ये व्याख्याता-वाचं मनसि नियच्छेत् वाग् आदि-बाह्येन्द्रिय-व्यापारम् उत्सृज्य मनो-मात्रेणावतिष्ठेत्, मनो\ऽपि
विषय-विकल्पाभिमुखं विषय-दोष-दर्शनेन ज्ञान-शब्दोदितायां बुद्धौ अध्यवसाय-स्वभावायां धारयेत्, ताम् अपि बुद्धिं महत्य् आत्मनि भोक्तरि अग्र्यायां वा बुद्धौ सूक्ष्म-तापादनेन नियच्छेत्, तं महान्तम् आत्मानं शान्त आत्मनि प्रकरणवति परस्मिन् पुरुषे परस्यां काष्ठायां । प्रतिष्ठापयेद् इति । ये त्वयि भावं विदधति तेषां भव-भयं संसार-दुःखं कथम् अनुवर्तताम् । न कथम्अ पीति यत्-तच्-छब्दाध्याहारेण योज्यम् । भयाननुवृत्तौ हेतुः अनुप्रभवम् । प्रभव उपाध्यभिव्यक्तिः ताम् अनुसृत्य वर्तत इत्य् अनुप्रभवम्—
न ह वै स-शरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति ।
अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः ॥
इति श्रुतेः उपाधि-निरसनेन त्वयि भावं विदधतां नास्ति भव-भयम् इत्य् अर्थः । ननु कुतो मय्येव भावो विधेयो नान्यत्र धर्मादाव् इत्य् अत आह तत्र-यद् इति । यत् यस्माद्-धेतोस् तव भ्रु-कुटिस् तल्-लक्ष्या ईक्षा तद् ऐक्षत बहु स्यां प्रजायेय इति श्रुत्या अभवच्-छरणेषु नभवान् शरणं रक्षिता येषां तेषु भयं जन्म-मरणादि-दुःखं मुहुः सृजति । भ्रु-कुटिं विशिनष्टि-त्रिणेमिर् इति । त्रयो गुणा नेमिश् चक्र-धारा तद्वत्
आवरका यस्यां सा तथा ।
न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृति-जैर् मुक्तं यद् एभिः स्यात्-त्रिभिर् गुणैः ॥ इति स्मृतेः ।
त्वद्-विमुखाः त्वद् ईक्षाकृ ते त्रि-गुणमये संसार-चक्रे\ऽनवरतं भ्रमन्तीति भावः ॥३२॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—अमीषु तव परम-मुक्तेष्व् अपि राधा-प्रिय-शुद्ध-भाववज् जनापराधतस् तव राधा-रसमग्नस्य शुद्धगोपाल-किशोरस्य सन्निधानवर्तिन्या तत्सन्निधानवर्तिन्या तत्सन्निधिमात्र-क्षोभ्यया महा**-मायया** समस्त-भगवत्स्वरूप-प्रवर्त्यमानया महानियन्त्र्या भ्रमं संसारभ्रमणम् अवगत्य सुधियः परम- महा-प्रकर्ष-परसीमवत्त्वन्-महिम-निविष्ट-बुद्धयोऽअनुप्र-भवं प्रकृष्टो भवो जन्म यस्य प्रकर्षण प्राप्नोति भगवन्तम् इति वा राधा-कान्त-भाव-योग्य-शरीर इत्य् अर्थः । वीप्सायाम् अनु यो यो योग्या भवति तस्मिन् तस्मिन् त्वयि भावं दधति धारयन्ति प्रवर्तयन्तीत्य् अर्थः । यद् वा, सुधियस् त्वत्-शुद्ध-भाव-वर्त्म-विश्वस्त-धियः अनुगतः प्रकृष्टो भवो जन्म राधा-सख्यालङ्कृत-गोप-किशोरी-रूपेण यत्र तं भावं धारयन्ति मनाग् अपि तत्र शिथिला न भवन्तीत्य् अर्थः । त्वां विशुद्ध-भावेनानुवर्ततां भजतां कथं भव**-भयं** संसार-भयं स्यात् भव-भयम् इति भवो भगवान्-नारायणस् ततो\ऽपि भयं कथं स्यात् तत्-तदीयापराधकोटाव् अपि राधा-प्रियानुरागिणां न संसार-पात इति भावः । यद्-यस्मात् तव भृकुटिर् भवच्-छरणभिन्नेषु भयं सृजति श्री-नारायणैक-भक्तानाम् अपि त्वद्-भावाभासवत्य् अपि अपराधिनां क्रोधाज् जाता भ्रु-कुटिर् भयं तनोत्येव् एत्य् अर्थः ।
नित्य-गोप्यस् तु आहुः—अमीषु तव व्रज-वृन्दावन-वर्तिषु जीवेषु तव मायया यूयं मम प्राणेभ्यो\ऽपि प्रियतमाः युष्मात्-समः प्रियो नास्ति इत्य् एवं-विध-कपट-व्याहारेण भ्रमम् अवगत्य पश्चाद् अनासक्तितो व्याकुलतां दृष्ट्वा सुधियः सुबुद्धयो गोप्यस् त्वयि त्वन्-निमित्तं त्वत्-सुख-विशेष-सम्पत्तये त्वद्-वशीकारायेति यावद्-भावं दधति । कथम्-भूतम् अनुगत्या राधानुगत-रूपेणा प्रकृष्टं भवनं यस्य तं भावम् इत्य् अर्थः । राधा-सख्ये स्थित्वा हि त्वयि तन्यमानो भावस् तस्या इव महान् भवतीति भावः । त्वद्-विषये भावं दधातीति वा । कथम्-भूतम् प्रकृष्टो भवः कृष्ण-प्राप्तिर् यस्याः सा राधा प्रभवा अनुकूला यत्र राधा हि कृष्णे स्वप्रिय-जनस्य भावे\ऽनुकूला भवति राधाया अनुकूलं वा तत्-सखीनाम् एव हि तद् अनुरूपो भावो भवति अनुक्षणं प्रकृष्ट-त्वद्-रस-प्राप्तिर् वा यत्रेति राधानुगततया वर्तमानानां कथं भयम् हे भव अस्मद्गृहे सदा विद्यमान सदा अस्मान् प्राप्नोतीति वा यत् यस्मात्-तव भृकुटिर् भवतः शरणं राधा न हि कामार्ति-समुद्र मग्नस्य तव राधां विना अन्यतस् तद् उद्धारो भवति न विद्यते भवच्-छरण राधा येषां सर्वात्म-भावेन वाध्या तेषु गोपी-जनेषु भयं काम-भयं सृजाति वयन्तु सर्वात्मना राधां प्रपन्नास्त्वत्तो न विभीम इति भावः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् तवैव परात्परत्वे त्वम् एव भजनीय इति पुनर् भजनम् अभिनन्दति—तव तवेत्यादि । तव उक्त-लक्षणेषु जिवेषु सुधियः पण्डितास् तव मायया भ्रमम् अवगत्य भृशं त्वयि भावं प्रेमाणं दधति । कीदृशे त्वयि ? अभवे न विद्यते भवो यस्मात् । भावं कीदृशम् ? अनुप्रभवम् । नन्व् अनुप्रभवः प्ररोहो यस्य यथोत्तरं वर्धमानम् ।
भाव-करणे सति किं भवति ? इत्य् आह—कथम् इत्य् आदि । अनुवर्तताम् अनुभजतां कथा भव-भयम् इति । भव-भय-निवृत्तिर् एव भाव-फलम् । यद् वा, तेषां भव-भयं कथा अनुवर्ततां, कथा अन्वेतु यद् यस्मात् तव भ्रू-कुटि-रूपः कालस् त्रिनेमिर् अभवच्-छरणेषु भयं सृजति, भवच्-छरण-भिन्नेषु ॥३२॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो भगवन् ! ऋतेस् तैः कृतो\ऽयं मोक्ष-स्वीकारो\ऽपि सुधीभ्यस्त्वद्-भक्तेभ्यो न रोचत इत्य् आहुः—नृष्व् इति । अमीषु भक्तेषु अमीष्व् अभक्तेषु । तव तव मायया भ्रमं त्वद्-भक्ति-महा-नन्दाब्धि-त्यागेन सर्वोत्तमतया मोक्ष-ज्ञान-रूपम् अवगत्य, सुधियो विवेकिनो भावं भक्तिं भद्रे सर्व-श्रेयोरूपे त्वयि । इति मोक्ष-सुखस्यापि भक्ति-सुखे एवान्तर्भावो\ऽभिप्रेतः, कूपादि-प्रयोजनस्य सम्प्लुतोदक इव । तथा च गीतासु—
यावान् अर्थ उदपाने सर्वतः सम्प्लुतोदके । [गीता २.४६] इत्य् आदि ।
अनुप्रभवं प्रति-जन्म, भक्ति-रसिकतया मोक्षास्वीकारेण जन्म-ग्रहणात् ।
ननु तर्हि जन्म-मरणादिना संसार-दुःखं स्याद् एव, तत्राहु—कथम् इति । तेषु संसार-भयं कथम् अनुवर्तताम् भक्तौ प्रवृत्त्यैव निवृत्तं पुनः कथम् आयात्वित्य् अर्थः । तत्र हेतुः—तवेत्य् आदि । अभवच्-छरणेष्व् इति त्वच्-छरणागतेष्व् अपि काल-भयं नास्ति, भावं कुर्वत्सु च तत् कथं स्यात् अतो भक्ति-वासनाभरानुवृत्त्या सदा सुखिनां तेषां गर्भ-वासाद्य् अस्फूर्त्या कथञ्चिद् अपि दुःख-स्पर्शो\ऽपि न स्याद् एवेति । यद् वा, शुद्ध-बुद्धयस्तु त्वयि भक्तिं कुर्वन्तीत्य् आहुः—नृष्व् अति । नृषु भृगु-वंशादि-भवेषु पुरुषेषु षण्डामर्कादिषु भ्रमं श्री-विष्णु-परित्यागेन दैत्य-सेवा-लक्षणम्, तथा नारदेनोक्तम्, हरि-भक्ति-सुधोदयः विष्णुं विसृज्यान्वचरच् च दैत्यं किं वा न कुर्युः भरणाय लुब्धाः [ह।भ।सु ८.१००] इति । अधिगत्य अनुभूय, सुधियः प्रह्लाद-प्रभृतयः, त्वयि भावं रतिम् । कथम्-भूतम् अनुप्रभवम् अनन्तरम् एव प्रभवः प्रकृष्टौ भवो\ऽभ्य् उदयस् त्वत्-प्रसाद-रूपो यस्मत्-तम् ।
ननु भक्तानाम् अपि जन्म श्रूयते, तस्मिंश् च सति कथं संसृति-भय-निवृत्ति-हेतुर् इत्य् अत आहुः—कथम् इति । अनुवृत्तिभावं कुर्वताम् अपि भवमयं नास्ति, किं पुनर् भावं दधताम् । अत एव श्री-प्रह्लादेन प्रार्थितम् नाथ योनि-सहस्रेषु येषु येषु [वि। पु। १.२०.१८] इत्य् आदि । अस्तु तावद् अनुवर्तिनाम्, शरणागतानाम् अपि तावत् काल-भयं नास्तीत्य् आहुः—तवेति । तथा श्री-राघवेन्द्र-वचनम् रामायणम्, युद्ध-काण्डम्—
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते [रामा १८.३३] इत्य् आदि ॥
प्रिय-जन-प्रसङ्गेन दीक्षित-पत्नीनाम् अपि भावम् आहुः—नृष्व् इति । पुंसु पतिष्व् इति यावत् । भ्रमं त्वयि मनुष्य-दृष्टि-रूपां भ्रान्तिम्, भृश्यमत्य् अर्थं ज्ञात्वा, भवे प्रपञ्च-मध्ये सुधियो याज्ञिक-भार्यास् त्वयि भावं दधति । कथम्-भूतं भावम् अनुप्रभवम् अनुभवम् एव प्रकृष्टः स्वाभिष्ट-साधकत्वेन श्रेष्ठो भवो जन्म यस्मात्-तथा-भूतम् ।
ननु दिदृक्षवो व्रजम् अथ कंसाद्-भीता न चाचलन् [भा।पु १०.२३.५२]इति विप्रणाम् अपि मयि भक्तिर् जातैव । ननु किम् इति ते भ्रान्ता इत्य् उच्यते, इत्य् आशङ्क्याहुः—कथम् इति । अनुवर्ततां तवानुवृत्तिं कुर्वतां जनानां भव-भयं भवात् कालाग्नि-रुद्राद् अपि भयं कथम् यद्-यस्मात् तव भ्रुकुटिर् मन्यु-रूपो हरः, त्रिनेमिस् त्रिनेत्र इत्य् अर्थः । अभवच्-छरणेषु तवाभक्तेष्व् एव मुहुः प्रति-प्रलयं भयं सृजति । भक्तास् तु प्रलये\ऽपि निर्भयाः, तेन भक्त्य् अभावात्ते कंसाद्-भीता इति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृष्व् इत्यस्य टीकायां श्रुतौ परीत्य ज्ञात्वा प्रथमजां वाचं त्रयी-लक्षणाम् ऋतस्य श्री-विष्णोः आत्मना मनसाम् आत्मानं स्वरूपम् अभिसंविवेश आश्रितवान् इति । अथ स्व-व्याख्या-तद् एवं पूर्वोक्तानुसारेण लब्धावसरा भव-भय-निवर्तकता-लक्षणे तस्मिन्-भक्ति-तात्पर्यकाः काश्चिद् अन्याः श्रुतयः स्तुवन्ति—नृष्व् इति । साधार-जीवानां यया मायया भ्रमो भवति सैव त्वद्-भक्त-सङ्ग-जात-सद्-बुद्धीनां । भक्ति-माधुर्यानुभावेन तां त्यक्तुं न शक्नुवन्तीत्य् अर्थः । हेतुर् भवति भ्रममयां तस्यां भय-हेतुत्वं त्वयि तु तन्-निवर्तकत्वं बुद्ध्वेति भावः ।
तत्रापि तु अनुक्षणं प्रभव उल्लासो यस्य तादृशं भावम् । यद् वा, प्रति-जन्मैव तं दधति पक्ष-द्वय\ऽपि परम-माधुर्यानुभावेन तां त्यक्तुं न शक्नुवन्तीत्य् अर्थः । तद् उक्तं वैष्णवे सा हानिस् तन्-महच्-छिद्रम् इत्य् आदि नाथ योनि-सहस्रेषु [वि। पु। १.२०.१८] इत्य् आदिना न वै जनः इत्य् आदि विहातुम् इच्छेन्न रस-ग्रहो यतः इति श्री-भागवते च ।
तर्हि किं तस्माद्-भक्तिर् जाता तद् अपि नेच्छेत् न हीत्य् आहुः—संसारि-दशायां तन्-माधुर्यावशेनतद् अनवधानात् भय-हेतूनां किञ्चित्-कर्तुम् अशक्तत्वाद् वा । तद् अतीतद् अशायां तु भय-कारणानाम् अपि नाशाद् इति भावः । तत्र कैममुत्येनाहुः—तवेति ।
सकृद् एव प्रपन्नो यस्तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद्-व्रतं मम ॥ [रामा १८.३३]
इति रामायणे श्री-राघवेन्द्र-प्रतिज्ञानुसारेण च ददात्य् एतद्-व्रतं हरेः इत्य् अत्र तादृश-गरुड-पुराणोक्तानुसारेण च शरणागत-मात्रेष्व् अपि भयाभावाद् इत्य् अर्थः । **त्रि-**णेमिर् इति । भूत-भविष्यद्-वर्तमानार्थकत्वेनेति । अत्र श्रुतयः परीत्येत्याद्या एव । तत्र प्रथमजाम्—
कालेन नष्टा वाणीयं प्रलये वेद-सञ्ज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद् आत्मकः ॥
इत्य्-एकादशानुसारेण भक्ति-प्रतिपादिका ऋतस्य स्वयं भगवतो वाणीति व्याख्येयम् । यद् वा, तादृश-मोक्ष-प्रस्तावम् असहिष्णवः काश्चिद् अन्या आहुः । तव अमीषु पूर्वोक्तेषु मुक्ति-साधकेषु त्वद्-भक्ति-सुखानवधान-रूपं त्वन्-माया-हेतुक-भ्रमम् अवगत्येति व्याख्येयम् । श्रुतयस्तु पूर्व-पूर्वानुसारेणान्वेषणीयाः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं पूर्वोक्तानुसारेण लब्धावसरा भव-भय-निवर्तकता-लक्षणे तस्मिन् भक्ति-तात्पर्य-धराः काश्चिद् अन्याः श्रुतयः स्तुवन्ति—तव तवेति ॥३२॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अत एव सुधियो जनास् त्वद्-भजनेन त्वत्-पार्षदत्वं प्रार्थयन्ते इत्य् आहुः—तव तव माययेत्यादि । नृषूक्त-प्रकारेषु प्रकृति-पुरुषोद्भवत्वाज् जल-बुद्बुदायमानेष्व् अमीष्व् असुभृत्सु तव मायया भ्रमम् अज्ञानम् अवगत्य सुधियो जनास् त्वय्य् अनुप्रभवम् अनुजन्म-भावं प्रमाणं भृशं दधति । कीदृशे त्वयि ? अभवे, न विद्यते भवः संसारो यस्मात्, पार्षदत्वं प्राप्य न पुनः संसरणम् इति भावः । अतस् तेषां भव-भयं क्? अनुवर्तताम् ? तद् अनुवर्तने योग्यता नास्ति । यद् यस्मात् तव भ्रू-कुटिः कालोऽभवच्-छरणेषु भयं सृजति, न तु भवच्-छरणेषु, तत्रापि मुहुः । कीदृशः ? त्रिनेमिर् भूत-भविष्यद्-वर्तमानाख्यः ॥३२॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं नाना-मतान्यन् ऊद्य दूषयन्त्यो वैष्णव-मतम् एव स्थापयन्ति । नृषु विद्वन्-मानिषु अमीषु पूर्व-श्लोक-द्वयार्थावगमितेषु नाना-वादिषु भ्रमम् अवगत्य भ्रान्त्यैव नाना-मत-कल्पनं ज्ञात्वा त्वयि अभवे भव-निवर्तके भावं दास्य-सख्यादिकम् एव केवलम् अनु प्रतिक्षणं प्रभव उल्लासो यस्य तम् । यद् वा, प्रतिजन्मैव दधति कुर्वन्ति । यथोक्तं वैष्णवे—
नाथ योनि-सहस्रेषु येषु येषु भ्रमाम्य् अहम् ।
तत्र तत्राच्युता भक्तिर् अच्युतास्तु दृढा त्वयि ॥ [वि। पु। १.२०.१८] इति ।
ननु, तर्हि त्वं-पदार्थ-तत्-पदार्थयोर् ज्ञानाभावाच् च तेषां संसारस् तु नैव निवर्तते तत्राहुः—कथम् इति । भव-भयं तेषां कथम् अनुवर्तताम् अनुवृत्तं भवेत् त्वद्-दास्यारम्भ-दशायाम् एव तस्यापगमात् । किन्तु निष्कामत्वात्-इशयाद्-भजनोत्थ-दैन्याच् च स्वेषु तेषां संसारित्वाभिमानः यद्-यस्मात्-तव भ्रुकुटिर् भू-भङ्ग-रूपस् त्रिणेमिस् त्रिगुणः तीक्ष्ण-धारः कालः अभवच्-छरणेषु त्वच्-छरणापत्तिर् अहितेष्व् एव भव-भयं जन्म-मरणादि-लक्षणं सृजति । तद् उक्तं सकृद् एव प्रपन्नाय इत्य् आदिना—
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गीता ७.१३] इति ।
अयं भावः—
अन्येषां वादिनाम् इव परमत-खण्डने स्व-मत-स्थापने च नात्याग्रहः, अत्याग्रहस्तु त्वद्-भजन एव । वैष्णवानां तत्र च केषम् अपि वादिनां विप्रतिपत्तिर् इति तन्-मतम् एव सर्व-शास्त्रार्थ-सारम् । विचित्र-रूप-गुण-लीला-महोदधौ त्वयि कृष्ण-रामादि-स्वरूपे उपास्य-बुद्धिः स्वेषपासक-बुद्धिर् इत्य् एव तेषां तत्-पदार्थ-त्वं-पदार्योर् ज्ञानं सूर्योपमस्य भगवतो बाह्य-प्रभोपमा जीवा अत एव ततो भिन्नत्वेनाभिन्न व्यपदिश्यन्ते सूक्ष्माणाम् अप्य् अहं जीवः [भा।पु ११.६.११] इति भगवद् उक्तेः एषो\ऽणुरात्मा चेतसा वेदितव्यो यस्मिन्-प्राणः पञ्चधा संविवेश । इति ।
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः । [श्वे।उ। ५.९]
इति । आराग्र-मात्रो ह्य् अपरो हि दृष्टः [श्वे।उ। ५.८] इत्या तेषां परमाणुपरिमाणत्वम् एव तदपि सम्पूर्ण-देह-व्यापि शक्तिमत्त्वं जतु-जटितस्य महा-मणेर् महौषध-खण्डस्य च शिरस्युर् असि वा धृतस्य सम्पूर्ण-देह-पुष्टिकरिष्णु-शक्ति-मत्त्वम् इव नासमञ्जसम् । स्वर्ग-नरक-नाना-योनिषु गमनं च तेषाम् उपाधि-पारवश्याद् एव । यद् उक्तं प्रमाणम् अधिकृत्य दत्तात्रेयेण येन संसरते पुमान् इति । तेषां बहुत्वं नित्यत्वं च—
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् । [गो।ता।उ।१.२०]
इति श्रुत्या प्रतिपादितम् । समुदितानां तेषां भगवतस् तटस्थ-शक्तित्वेनैकत्वं च ज्ञेयम् । ते च मेघोपमयाविद्ययावृता बद्ध-जीवा एके, अन्ये भक्तिमज् ज्ञानेन तद् आवरणोन्मुक्ता मुक्त-जीवाः, अन्ये के वलया प्रधानीभूतया वा भक्त्या तद् आवरणोन्मोचित-प्रापित-चिदानन्द-मय-भजनोपयोगि-शरीराः सिद्ध-भक्ताः, अन्ये\ऽविद्या-योग-रहिता एव नित्य-पार्षदा इति चतुर्विधाः । तल्-लक्षणं च नारद-पञ्चरात्रे—
यत्-तटस्थं तु विज्ञेयं स्वसंवेद्याद्-विनिर्गतम् ।
रञ्जितं गुण-रागेण स जीव इति कथ्यते ॥
अस्यार्थः—यत्-तटस्थं विशेषतो ज्ञेयं चिद्वस्तु स जीवः यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच् चरन्ति [बृ।आ।उ। २.१.२०] इति श्रुतेः । स्व-संवेद्याच्-चित्पुञ्जाद्-भगवतः सकाशाद्-विनिर्गतं चेत्-तदा गुण-रागेण रञ्जितं बहिरङ्गया माया-शक्त्या स्वीयानां गुणानां रागेण रञ्जितं मायिकाकारं स्याद् इत्य् अर्थः । यदा तु केवलया प्रधानी-भूतया वा भक्त्या मायोत्तीर्णं स्यात्-तदान्तरङ्गया चिच्-छक्त्या स्वीय-कल्याण-गुणेन रञ्जितं भगवत्य् अनुरक्ती-कृतं चिन्मयाकार-युक्तं स्याद् इत्य् अर्थः । एवं च, माया-चिच्-छक्त्योस् तटस्थ-वर्तित्वात्-तटस्थम् इति तन्नाम कृतम् । यदा तु भक्तिमज् ज्ञानेन मुक्तं स्यात्-तदा ब्रह्मण्य् अपृथग्-भूय स्थितं नैव गुण-रागेण रञ्जितम् इत्य् उपासक-निरूपणम् । अत एव राजकीय-पुरुषो\ऽपि राज-पुरुष इति तत्-पदार्थ-सम्बन्धी त्वं-पदार्थ इति तत्-त्वम् असीत्महा-वाक्यार्थं केचित् तु तस्य त्वम् इति षष्ठी-तत्-पुरुषेणापि वदन्ति । अथोपास्य-निरूपणम्—सूर्योपमस्य भगवतः प्रसृमरसान्द्रज्योतिः-पुञ्जोपमं ब्रह्म ब्रह्म-सञ्ज्ञम् अभूद् एकं ज्योतिर् यत्-सर्व-कारणम् । इति नारसिंहोक्तेः मामैव तद्-धनं तेजो ज्ञातुम् अर्हसि भारत । इति हरिवंशोक्तेश् च । तस्यान्तर् मण्डलोपमः परमात्मा रथ-सारथ्यादि-परिकर-विशिष्ट-वदन-नयन-पाणि-पादादि-सुन्दर-सूर्योपमः सपरिकरः श्री-भगवान् यथा-नगरस्याति-दूरस्था जना विशेषम् अनुपलभमाना इदम् अग्रे स्थितं कान्तिमयं वस्तु-मात्रम् इति तद् एव तद् एव नगरं पश्यन्ति, अनति-दूरस्था ध्वज-पताकादि-विशिष्टं वृक्ष-खण्डम् इति, अतिसमीप-स्थास्तु पुर-गोपुर-निष्कुट-रथ्याप्रासादादि-युक्तं नगरम् इति, तथैवाति-दूरस्था भगवन्तम् एव ज्योतिर् मयं ब्रह्मेति, अनति-दूरस्था अतिचिद्-विशेष-मयः परमात्मेति, अतिसमीपस्था नानानन्त-चिद्-विशेषमयो भगवानिति तत्राप्य् अन्तःप्रविष्टा अपार-माधुर्यानुभविनः कृष्ण इति वदन्ति । यथाहुः-प्राञ्चो\ऽपि—
चयस् त्विषाम् इत्य् अवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर् विभक्तावयवं पुमान् इति क्रमाद् अमुं नारद इत्य् अबोधि सः ॥
इत्य् एवम् एतावन्-मात्रम् अपि स्वमतं वैष्णवाः के\ऽपि ज्ञातुम् अपेक्षन्ते च के\ऽपि नापेक्षन्ते सदैवापेक्षन्ते भजन-प्रकारम् एवेति । अत्र श्रुतयः—
एतद्-विष्णोः परमं पदं ये नित्योद्य् उक्ताः संयजन्ते न कामात् ।
तेषाम् असौ गोप-रूपः प्रयत्नात्-प्रकाशयेद् आत्म-पदं तदैव ॥ इत्य् आद्याः ॥३२॥
॥ १०.८७.३३ ॥
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुरगं
य इह यतन्ति यन्तुम् अतिलोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स च भगवति भावो मनो-नियमे सति भवति, सोऽपि गुरूपसदनाद् इति गुरूपसदनं विदधति तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [मु।उ। १.२.१२], आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२], नैषा तर्केण132 मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ [कठ।उ। १.२.९] इत्य् आद्याः श्रुतय इत्य् आह—विजित-हृषीक-वायुभिर् इति ।
विजितानि हृषीकाणि इन्द्रियाणि वायुश् च प्राणो यैस् तैर् अप्य् अदान्त-मनस् तुरगम् अदान्तम् अदमितं मन एव तुरगो दुर्दमत्व-साम्यात् तं ये यन्तुं नियन्तुं यतन्ति प्रयतन्ते । अतिलोलम् अतिचञ्चलम् । गुरोश् चरणं समवहाय अनाश्रित्य, ते उपायेषु खिद्यन्ते क्लिश्यन्तीत्य् उपाय-खिदः सन्तो व्यसन-शतान्विता बहु-व्यसनाकुला इह संसार-समुद्रे सन्ति तिष्ठन्ति, दुःखम् एव प्राप्नुवन्तीत्य् अर्थः ।
हे अज, अकृत-कर्णधरा अस्वीकृत-नाविका वणिजो यथा तद्वत् । उक्तं च—
[नृ-देहम् आद्यं सुलभं सुदुर्लभं]{।मर्क्}
[प्लवं सुकल्पं गुरु-कर्ण-धारम् ।]{।मर्क्}
[मयानुकूलेन नभस्वतेरितं]{।मर्क्}
[पुमान् भवाब्धिं न तरेत् स आत्महा ॥ [भा।पु। ११.२०.१७] इति ।]{।मर्क्}
[प्राकृतैः संस्कृतैश् चैव गद्य-पद्याक्षरैस् तथा ।]{।मर्क्}
[देश-भाषादिभिः शिष्यं बोधयेत् स गुरुः स्मृतः ॥]{।मर्क्} अतिरिक्तः श्लोकाः
गुरुणोपदर्शित-भगवद्-भजन-सुखानुभूतौ तु स्वत एव मनो निश् चलं भवति नान्यथेति भावः ।
यदा परानन्द-गुरो भवत्-पदे
पदं मनो मे भगवंल् लभेत ।
तद् निरस्ताखिल-साधन-श्रमः
श्रयेय सौख्यं भवतः कृपातः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स च भक्ति-लक्षणो भावः प्रेमा मनस्ओ नियमे निरोधे, सो\ऽपि मनो-नियमो\ऽपि गुरूपसदनं गुरु-समीप-गमनं श्रुतयो विधानं कुर्वन्ति । ताश् च तद्-विज्ञानार्थम् [मु।उ। १.२.१२] इत्य् आद्याः ।
परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो
निर्वेदम् आयान् नास्त्य् अकृतः कृतेन ।
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत्
समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ [मु।उ। १.२.१२]
अर्थः—ब्राह्मणः ब्राह्मणत्व-जाति-विशिष्टः कर्म-चितान् संसार-गत-भूतान् लोकान् परीक्ष्य प्रत्यक्षानुमानागमैः सर्वतो याथात्म्येनावधार्य निर्वेदं वैराग्यम् आयात् कुर्यात् । ब्राह्मण-ग्रहणं ब्रह्म-विद्याधिकारिषु प्राधान्यात् । वैराग्य-प्रकारं दर्शयति—इह संसारे कश्चिद् अपि पदार्थः अकृतो नास्ति, किं कृतेन कर्मणायास-बहुलेन इत्य् एवं निर्विण्णो चिद्वज् जन-प्राप्यं नित्यं पद यत् तद्-विज्ञानार्थं स ब्राह्मणः समित्-पाणिः गृहीत-काष्ठ-भार-हस्तो गुरुम् एवाभिगच्छेत् प्राप्नुयात् । समित्-पदं रिक्त-पाणिर् न गच्छेद् इति परं वस्त्व् अन्तराभावे काष्ठम् एव गृहीत्वा गच्छेद् इति । श्रोत्रियम् अध्ययन-श्रुतार्थ-सम्पन्नं, ब्रह्म-निष्ठं सर्वाणि कर्माणि हित्वा केवले ब्रह्मणि निष्ठा यस्य तम् ।
ननु, चिद्-वस्त्व् अयम् एव जानातु नेत्य् आह—आचार्यवान् गुरुमान् एव पुरुष आत्मानं वेद जानाति नान्य इति ।\
यदा तु आत्मन्य् उत्पन्नागम-प्रतिपाद्यात्म-मतिः एषा तर्केण स्व-बुद्ध्याभ्यूहन-मात्रेण नापनेया न हन्तव्या, किन्तु सेयं मतिर् अन्येनैवागमाभिज्ञेनाचार्येण प्रोक्ता सती सुज्ञानाय भवति । हे प्रेष्ठ ! प्रियतम नाचिकेत । सम्प्रति यमस्य सम्बुद्धिः । यद् वा, एषा ब्रह्मात्म-विषया मतिस् तर्केणोहापोह-रूपेण नापनेया न प्राप्या, किन्त्व् अन्येन गुरुणा प्रोतैव सुज्ञानाय सुबोधायेति । गुरूपसदन-परेयम् ।
नवो\ऽश्वो यथा दुर्दमो भवति तथा मनो\ऽपीति साम्यात् । इत्य् अर्थ इति—दुःख-तरण-ज्ञानाभावात् तद् अनुभवन्तीति भावः । कर्ण-धारस् तु नाविकः इत्य् अमरः । छन्दो-भङ्ग-भयात् कर्णधरा इति । यो मनुष्य-देहं प्राप्य गुरुं नाश्रयेत सो\ऽतिपापीयान् भवतीत्य् अभिप्रायेणोक्तं श्री-कृष्णेनैकादशे—नृ-देहम् आद्यम् [भा।पु। ११.२०.१७] इति ।
नृ-देहं प्लवं संसार-तरण-साधनं सुलभमधुना विना यत्नं प्राप्तुं सुदुर्लभं पुनर् यत्नेनापि प्राप्तुं दुर्लभं सुकल्पं रोगादि-रहितम् आद्यं पुरुषार्थ-चतुष्टय-हेतुम् । यद् वा, आद्यं द्विजोत्तम-रूपं देहं प्राप्येति शेषः । मयानुकूलेन पवनेन पवनवत् पारं नेतुं चालयित्रेत्य् अर्थः । ईरितं प्रेरितम् । गुरुर् एव कर्ण-धारो यस्मिंस् तम् । यो भवाब्धिं संसाराब्धिम् । स आत्महा आत्म-घातीत्य् अर्थः ।
अभियुक्तोक्तं गुरु-लक्षणम् आह—प्राकृतैर् नर-नाग-पैशाचादि-भाषादिभिः, संस्कृतैर् देव-भासाभिर् गद्यैश् छन्दो-बन्ध-हीन-वाक्यैः पद्यैश् छन्दो-बन्ध-युक्तैर् वाक्यैर् अक्षरैर् देश-भेद-भिन्नैर् वर्णैः देश-भासा तत्-तद्-देश-भाषादिना सङ्केतैः परम्परावाप्तैः बोधयेत् विद्वांसं कुर्यात् स गुरुर् इति ।
इति भाव इति—गुरु-भक्ति-लब्धोपायं विना संसार-तरणं भवतीति तात्पर्यम् ।
स्वामिनां यदेति । पदं स्थानम् । निरस्तो\ऽखिल-साधन-श्रमो येन स तथा ॥३३॥
श्रीधरानुयायिनी : सा च भगवति भक्तिर् गुरूपदेश-साध्यं मनो-निग्रहं विना दुर्लभेत्य् आहुः—विजितेति । हे अजित! जित-बहिर् इन्द्रिय-प्राणैर् योगिभिर् अप्य् अशक्य-वशीकारम् अतिचञ्चलं दुर्दम-तुरग-तुल्यं मनो वशीकर्तुं गुरूपदेशं विना कर्ण-धारस्य गुरोस् तव परिचरणं विना वा ये प्रयतन्ते ते\ऽनेक-विधभक्ति-भिन्नोपायक्लेशेन दुःखिता एव—
युञ्जानानाम् अभक्तानां प्राणायाम् आदिभिर् मनः ।
अक्षीण-वासनं राजन् दृश्यते क्वचिद् उत्थितम् ॥ [भा।पु। १०.५१.६०]
इत्य् उक्तेर् मनो-निरोध-रूप-फलालाभाद्-व्यसन-शतान्विता असङ्ख्य-विपदाकुलाः सत्स्व् अपि ज्ञान-साधनेषु संसार-समुद्रे कर्ण-धारं विना नाव्यारूढा वणिजः सत्य् अपि पोते समुद्र एव निमज्जन्ति एवं च गुरूपदिष्ट-सत्-साधनानुष्ठानेनानायासेन स्थिरीकृते मनसि स्वत एव भगवन्-मूर्ति-स्फूर्तिर् इति सुलभा भक्तिर् इति भावः
नीलकण्ठी : एवं ज्ञानान्-मुक्तिर् अन्यथा बन्ध इत्य् उक्तम् । तत्र ज्ञानावाप्तये
परीक्ष्य-लोकान्-कर्म-चितान्-ब्राह्मणो
निर्वेद-मायान्-नास्त्य् अकृतः कृतेन ।
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत्
समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ [मु।उ। १.२.१२]
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिताः ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे। ६.२३]
इति श्रुतिभ्याम् उक्तं निर्वेद-पूर्वकं गुरु-भजनम् आह—विजित-हृषीकवायुभिर् इति । हे अज! ये नरा गुरोश् चरणं समवहाय परित्यज्य विजितानि हृषीकाणि इन्द्रियाणि वायवश् च प्राणा यैस्ते तैः अदान्त-प्रतिपत्त्य-योग्या मनस्तुरगं तिच्-चहयम् अतिलोलं स्वभावतः तं नियन्तुं निग्रहीतुं यतन्ति यतन्ते यत्नं कुर्वन्ति ते इह संसारे जलधौ अकृत-कर्ण-धराः वणिज इवावसन्नाः सन्ति न बहिर् निर्गन्तुं शक्नुवन्तीत्य् अर्थः । अत एव ते उपाय-खिदः आसन-बन्धाद्यैर् उपायैः खिद्यन्ते व्यर्थ-श्रमा इत्य् अर्थः । व्यसन-शतान्विताश् च ते भवन्ति । व्यसनानि नानौषधि-मन्त्र-यन्त्रादि-शक्ति-पातादि-साधनानि प्राकृत-निदाघ-भारद्वाजादिवद् अर्थानुष्ठान-पाठाग्रह-रूपाणि तेषां शतैर् अन्विताः । गुरूप-युक्तिं विना नानोपायैर् अपि मनोजयो न भवति तद् अभावाद् अभवे भाव-निधानासम्भवः ततो भावमयं न निवर्तते । इति मुमुक्षुणा गुरु-भक्ति-पूर्वकं श्रवणादि-कर्तव्यम् इत्य् अर्थः ॥३३॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—विशेषेण वशीकृतेन्द्रिय वायुभिर् अपि परम-भक्त्या समाधि-गृहीत-चरणारविन्दैर् अपि न दमितो न स्वायत्तीकृतो मनस् तुरगो यस्य तं त्वां यन्तुं वशीकर्तुं ये यतन्ति । वशीकरणे हेतुः—शुद्ध-भावोदयाय साधनानुष्ठानं कुर्वन्ति गुरोश् चरणं समवहाय शुद्ध-भावैक-निष्ठ-गुरोश् चरणं त्यक्त्वा तत् उपदेशम् अगृहीत्वा स्वातन्त्र्येणैवेत्य् अर्थः । ते उपायैः क्लिश्यन्ते सम्यग् उपायापरिज्ञानेनानुपायानाम् एवोपायत्वेन ग्रहणाद् उद्देश्यासम्पत्तेः । व्यसन-शतान्विताः कदाचिन्-महत्त्वमत्व-प्रथामोहिततया शुद्ध-भावाशातो\ऽपि भ्रंशः स्यात् । पुनः सङ्गान्तरेणाशावन्ध इत्य् एवं व्यसन-शतैर् अन्विता इह संसार एव सन्ति तिष्ठन्ति न तु शुद्ध-भाव-प्राप्त्या उत्तीर्य गच्छन्तीत्य् अर्थः । हे अज अजस्र-परिपूर्ण-परमानन्द-रस-साम्राज्य-सार-सर्व-स्वनिधान मूर्त्या चक्षुरादि-विषयो\ऽन्तः-करण-गोचरो वा नैव जायते विशुद्ध-भाव विना । ते अकृत-कर्ण-धारा इव वणिजो जलधौ सन्ति नोत्तरीतुं शक्नुवन्ति । एवं तादृश-गुरु-चरण-विश्वास-पूर्वक-परिचरणं विना शुद्ध-भाव-वर्त्मन्यसत्त्व-बुद्धिर् न गच्छति । न वा तत्र महती प्रत्याशोदेति न वा तत्-साधनम् अतिगहनम् महा-भागवतैर् अप्य् अगम्यं जानाति ।
नित्य-गोप्यस्तु आहुः—विजित-हृषीक-वायुभिः सर्वेन्द्रिय-वृत्तयः समस्त-प्राणादि-वृत्तयश् च त्वद्-विषया एव यासां ताभिश् चन्द्रावल्यादिभिर् अपि दमित-मनस्तुरगं त्वां ये गोपी-जना अन्ये यन्तुं वशीकर्तुं यतन्ति सेवादिभिर् नृत्य-गीतादि-विनोदैस्ते उपाय-खिदस् तैस् तैर् उपायैः क्लिश्यन्ति परं दुःख-शतान्विता इह उपाय-चिन्तार्णवे मग्ना एव सन्ति गुरोः श्री-राधायाः सैव हि सर्व-प्रकारेण गरीयसी अनुरागेण रूपेण वैदग्ध्यादिभिश् च । तच् चरणम् अवहाय वशीकरणं कथं भवेत् तच् चरणैकान्त-भक्तौ तस्याः प्रसादेन तद्-वशीकरण-समस्त-गुण-माधुरी-सम्पत्त्या स्वयम् एव वशीभवसीत्य् अर्थः । हे अज राधा-प्रिय-परिजन-भिन्नानां कदापि विषयो न जायत इति ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : स च त्वयि भावो विना गुरूपदेशं न परिणाम-स्वरसः स्याद् इत्य् आह—हे विजित-हृषीकेत्यादि । विजितैर् अपि हृषीकैर् वायुभिश् च प्राणैर् ये अदान्तम् अदमितं मनो-रूप-तुरगं नियन्तुं यतन्ति, ते गुरोश् चरणं समवहाय व्यसन-शतान्विताः सन्त उपाय-खिदो भूत्वा सन्ति । हे अज श्रेष्ठ ! क इव ? जलधौ अकृत-कर्णधरा इव । कर्ण-धरः कर्ण-धारः । अन्यत् सुगमम् ॥३३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु किं तद्-भक्त्या, स्वयम् एव योग-शास्त्रम् अवेक्ष्य तन्-निरूपितैर् उपायइः सुधीर्भिर् निस्तरिष्यते ? इत्य् अत आहुः—विजितेति । विजित-हृषीक-वायुभिर् अपि योगिभिर् यो\ऽदान्तो मनस्-तुरगस् तम् इति स्व-शक्त्य् अनियम्यत्वं सूचितम् । यतो\ऽतिलोलम् । गुरोश् चरणं विना केनाप्य् अदमितं मनस्-तुरगं, ये गुरोश् चरणं सम्यग् अवहाय नियतं यत्नन्ते, सं-शब्देन कथंचिद् आश्रयणेनापि संसारार्णव-तरणं सूचयति । उपाय-खिदत्वादौ हेतुः—हे अजेति । यतस् त्वं प्राणायामादिभिर् न प्रकटो भवसि, किन्तु गुरोः परम-भागवतत्वात् त्वत्-पादाश्रयणेनैवेति भावः । वणिजः सांयात्रिकाः । कर्ण-दरः कर्ण-धारः । इह अस्मिन् लोके । व्यसन-शतान्विताः सन्ति भवन्ति, बहुल-साधन-सद्-भावे\ऽपि एकाभावेन बहु-व्यसन-प्राप्तौ दृष्टान्तः—जलधाव् अकृत-कर्ण-धरा वणिज इवेति ॥
कर्म-निष्ठानाम् अभक्तानां प्रसङ्गेन केवल-शुष्क-ज्ञानेच्छून् योगिनो\ऽपि निन्दति—विजितेति । अज ! हे जीववज् जन्म-रहित ! गुरोब्रह्मादीनाम् अप्य् उपदेशकस्य तव । तथा हि तापनी-श्रुतिः
असावनवरतं मे ध्यातः स्तुतः परार्द्धान्ते सो\ऽवबुध्यत ।
गोप-वेषो मे पुरस्ताद् आविर्बभूव ।
ततः प्रणतो मयानुकूलेन हृदा मह्यम्
अष्टादशाण स्वरूपं सृष्टये दत्त्वान्तर्हितः ॥ [पू २९-३०]इति ।
चरण-पद्मं समवहाय सम्यग् दूरतस् त्यक्त्वा ये योगिनः प्रत्याहार-प्राणायामादिना विजितैर् अपीन्द्रिय-प्राणैर् मनो वशीकर्तुं प्रयत्न कुर्वन्ति, ते साधन-क्लिष्टाः सन्त इह संसार-समुद्रे व्यसन-शतान्विता वर्तन्ते । तथा युक्तम् तेषाम् असौ क्लेशल एव शिष्यते नान्यत् [भा।पु १०.१४.४] इत्य् आदि । शेषं सुसङ्गतम् एव ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विजितेत्य् अस्य टीकायां श्रुतौ समित्-पाणिः गृहीत-काष्ठ-भार-हस्तः । श्रोत्रिय-मध्य-वन-श्रुतार्थ-सम्पन्नम् एषा उपनिषत्-प्रभवा अन्येन औपनिषदेनाचार्येण हे प्रेष्ठ ! प्रियतमेति नाचिकेतं संलक्षीकृत्य यम-सम्बोधनम् । तद्-व्याख्यया गुरुणोपदर्शितेत्य् आदौ गुरूपदेश-प्रभावेण भक्ति-माहात्म्यावगेत्र् या सुखानुभूतिस् तस्यां सत्यां स्वत एव मनो निश् चलं भवति, ततो\ऽवतारितोक्त-भाव-पर्याय-पूर्वोक्तानुवृत्तिः स्वत एव प्रवर्तत इत्य् अर्थः ।\
स्वा-स्व-व्याख्यायां तु—तच् छ्रुत्वान्याः श्रुतय आहुः—वयम् इति एव श्री-गुरु-चरणाश्रयं प्रशंसामः । सर्व-गुरुत्वस्य तद् उपदेष्टृ-गुरुत्व एव विश्रान्तेः । तत्-प्रभावं विना त्वद्-भावासिद्धेश् च । साप्य् अस्तु संसार-ध्वंस-निदानम् । केवल-मनो-निरोधो\ऽपि न स्यात्,
युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः ।
अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् ॥ [भा।पु। १०.५१.६०]
इति न्यायेन तद्-भक्त्य् अभावात् तद् असिद्धेः । यतो विजितेति । हे अज ! जीववज् जन्म-मात्रेण सुकरं यत् प्रत्यक्षत्वं तद् अतीतेत्य् अर्थः । ये तादृशस्य गुरोश् चरणं समवहाय ईषद् अप्य् अनाश्रित्य यतः स्वत एवातिलोलं तद् अनाश्रयेणादान्तं दमनाशक्यं च मनस् तद् एव तुरगस् तं विजित-हृषीक-वायुभिः प्राणेन्द्रियैश् च विजितैः क्रियमाणैर् नियन्तुं प्रयतन्ते, ते तु तद्-विजयाद्य् उपायेषु खिद्यमाना एव भवन्ति, यतस् तत्-प्रभावं विना वय्सन-शतान्विता भवन्ति । अतः साधन-बाहुल्ये सत्य् अपि वणिजः सांयात्रिका जलधाव् अकृत-कर्ण-धरा इव संसार-जलधाव् एव तिष्ठन्ति, न तु तत्-पराः परमानन्द-द्वीपायमानं त्वां प्राप्नुवन्तीत्य् अर्थः । श्रुतयस् तु, तद्-विज्ञानार्थं [मु।उ। १.२.१२] इत्य् आद्या एव ॥३३॥
जीव-गोस्वामी (भक्ति-सन्दर्भः २०९) : शिक्षा-गुरोर् अप्य् अवश्यकत्वम् आहुः—विजित-हृषीक-वायुभिर् इति । ये गुरोश् चरणं समवहाय अतिलोलम् अतिलोलुपम् अदान्तम् अदमितं मन एव तुरगं विजितैर् इन्द्रियैः प्राणैश् च कृत्वा यन्तुं भगवद् उन्मुखीकर्तुं प्रयतन्ते ते उपाय-खिदः, तेषु तेषु उपायेषु खिद्यन्ते । अतो व्यसन-शतान्विता भवन्ति । अत एव इह संसारे तिष्ठन्त्य् एव । हे अज ! अकृत-कर्णधरा अस्वीकृत-नाविका जलधौ यथा तद्वत् । श्री-गुरु-प्रदर्शित-भगवद्-भजन-प्रकारेण भगवद्-वर्त्म-ज्ञाने सति तत्-कृपया व्यसनानभिभूतौ सत्यां शीघ्रम् एव मनो निश् चलं भवतीति भावः । अतो ब्रह्म-वैवर्ते—
गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्येत जीवैर् अहमिका-परैः ॥
श्रुतिश् च—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरुः ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इति ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् छ्रुत्वान्याः श्रुतय आहुः—वयम् इत एव श्री-गुरु-चरणाश्रयं प्रशंसामः—सर्व-गुरुत्वस्य तद् उपदेष्टृ-[श्रुति-मन्त्रोपदेष्टृ-]गुरुत्व एव विशृआन्तेस् तत्-प्रभावं विना भावासिद्धेश् च । साप्य् अस्तु संसार-ध्वंस-निदानम् । केवल-मनो-निरोधोऽपि न स्यात् ।
युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः ।
अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् ॥ [भा।पु। १०.५१.६०]
इति न्यायेन तद्-भक्त्य् अभावात् तद् असिद्धेः । यतो विजितेति ॥३३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : स च त्वयि भावो विना गुरूपसत्तिं न परिणाम-सुरसः स्याद् इत्य् आहुः—विजित-हृषीकेत्यादि । गुरोस् तद्-भावोपदेशकस्य चरणं समवहाय त्वद्-भक्तं गुरुम् अकृत्वा स्वयम् एव यथा-श्रुतं विजितैर् हृषीकैर् वायुभिः प्राणैश् च येऽदान्तं मनस् तुरगम् अतिलोलं यन्तुं नियन्तुं यतन्ते, ते व्यसन-शतान्विताः सन्त उपाय-खिदः सन्तीह संसारे । क इव ? अकृत-कर्णधरा इव । कुत्र ? जलधौ । सुगमम् ॥३३॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु च तैर् अपि मद्-भजने मनो-निश् चली-करणार्थम् अष्टाङ्ग-योगः खल्व् अनुष्ठेय एव ? मैवम् । तेषां श्री-गुरु-चरण-दृढ-भक्त्यैव मनो-नैश् चल्यम् अनायासेनैव भवेत् । यद् उक्तं
सर्वं चैतद् गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् [भा।पु। ७.१५.२५] इति । गुरु-भक्तिं विना तु मनो-जयार्थका अपि योगा अकिञ्चित्करा एवेत्य् आहुः—विजितैर् अपि हृषीकैर् इन्द्रियैर् वायुभिः प्राणैः । अदान्तः अप्राप्त-दमनः । मन एव तुरङ्गस् तं यन्तुं नियन्तुं ये यतन्ति प्रयतन्ते, ते गुरोश् चरणं चरण-परिचरणं समवहाय विहाय उपाय-खिदः अन्येषूपायेषु खिद्यमानाः सन्तः व्यसन-शतान्विता बहु-विपद्-व्याकुला इह संसार-सिन्धौ सन्ति तिष्ठन्ति । हे अज ! अकृत-कर्ण-धरा अस्वीकृत-नाविका वणिज इव । अत्र श्रुतयः—
तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् ।
समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ॥ [मु।उ। १.२.११]
आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति ।
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे। ६.२३] इत्य् आद्याः ॥३३॥
॥ १०.८७.३४ ॥
स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस्
त्वयि सति किं नृणां श्रयत आत्मनि सर्व-रसे ।
इति सद् अजानतां मिथुनतो रतये चरतां
सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान् नास्त्य् अकृतः कृतेन [मु।उ। १.२.१२], तथा,
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [बृ।आ।उ ४.४.७]
इत्य्-आद्या वैराग्यम् अङ्गं विदधतीत्य् आह—स्व-जन-सुतेति । आत्मा देहः । धाम गृहम् । असुः प्राणः । स्व-जनादिभिः किम् । सर्व-रसे सर्वे रसाः सुखानि विद्यन्ते यस्मिंस् तस्मिंस् त्वयि परमानन्दे एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ती [बृ।आ।उ ४.३.३२] ति श्रुतेः । श्रयतस् त्वं सेवमानस्य पुंस आत्मनि सति नृणां तुच्छैर् एतैः किं क उपयोग इति सत् सत्यं परमार्थ-सुखम् अजानताम् अत एव मिथुनतः स्त्रिया मिथुनी-भूय रतये माया-सुखाय चरतां प्रवर्तमानानाम् । कर्मणि षष्ठ्यौ । अजानतश् चरतः पुरुषान् को न्व् अर्थः सुखयत्य् आनन्दयति । न कोऽपीत्य् अर्थः । इह संसारे । कथं-भूते । स्व-विहते स्वत एव नश्वरे । स्व-निरस्त-भगे स्वत एव गत-सारे । पाठान्तरे तु को न्व् इत्य् अस्यैतद् विशेषण-द्वयम् । अतस् त्वद्-भजनम् एवोचितम् इत्य् अर्थः ।
भजतो हि भवान् साक्षात् परमानन्द-चिद्-घनः ।
आत्मैव किम् अतः कृत्यं तुच्छ-दार-सुतादिभिः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीं भक्तेर् अङ्गं वैराग्यम् आहुः परीक्ष्येत्य् आद्याः श्रुतयः—यदेति । व्याख्यातापि पुनर् अत्र व्याख्यानं सुखबोधाय । अस्य विदुषो ज्ञानात्-प्राक् ये कामा वासना-रूपेण हृदि मनसि स्थितौ ते सर्वे यदा प्रमुच्यन्ते\ऽथानन्तरं मर्त्यो\ऽमृतो भवति तदात्रैव दीप-निर्वाणवत् सर्व-बन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवतीति । कामास्तु मनस्य् एव स्थिता न । त्व् आत्मनि । तथा च श्रुतिः—
कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर् अधृति-ह्रीर् धीर् भीरित्येतत् सर्वं मन एवेति ।
किं किं प्रयोजनं न किम् अपीत्य् अर्थः । रसः स्यात्-पारदे सुखे इति धरणिः । परमानन्दत्वे पूर्णां श्रुतिम् आह, यथा स यो मनुष्याणां राद्धः समृद्धो भवत्य् अन्येषाम् अधिपतिः सर्वइर् मानुष्यकैर् भोग्यैः सम्पन्नतमः स मनुष्याणां परम आनन्दो\ऽथ ये शतं मनुष्याणाम् आनन्दाः स एकः पितृ-लोक आनन्दो\ऽथ ये शतं पितृणां जित-लोकानाम् आनन्दाः स एको गन्धर्व-लोक आनन्दो\ऽथ ये शतं गन्धर्व-लोकानाम् आनन्दाः स एकः कर्म-देवानाम् आनन्दो\ऽथ ये शतं कर्म-देवानाम् आनन्दाः स एक आजानदेवानाम् आनन्दो\ऽथ ये शतम् आजानदेवानाम् आनन्दाः स एकः प्रजापति-लोक आनन्दो\ऽथ ये शतं प्रजापति-लोक आनन्दाः स एको ब्रह्मण आनन्दो\ऽथैष एव परम आनन्द एषो\ऽस्य परमानन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति ॥ इति ।
आजानदेवा अधिकारिण इन्द्राद्याः । कर्म-देवाः कर्मणा देव-भावं प्राणाः । मात्रा अंशः । स्पष्टम् अन्यत् । आत्मनि त्वयि अत एव ज्ञानाभावाद् एव पाठान्तरे स्व-विहितः स्व-निरस्त-भग इति पाठे यतो\ऽज्ञानां सुखाभावो\ऽतो हेतोः । इत्य् अर्थ इति-तव ज्ञानार्थं तव भजनम् एव योग्यम् अयुज्य-मानया भक्त्या इत्य् आद्य् उक्तेर् इति भावः । स्वामिनाम्-भजत इति । हि यतो भजतो जनस्य साक्षाद् आत्मैव भवान्-भवति अतस् तुच्छैर् दारादिभिः किं कृत्यं न किम् अपि अवाप्तावाप्तव्यत्वात् ॥
श्रीधरानुयायिनी : इदानीं भक्तौ वैराग्यम् अङ्गम् आहुः—स्वजनेति । नृणां भारत-खण्ड-वासिनां मनुष्याणां मध्ये श्रयतः अनेक-जन्म-साधित-पुण्य-पुञ्जस्य कस्यापि विरलस्य गोप्यादेर् इव यज्ञ-पत्न्य् आदेर् इव वा त्वाम् अनन्य-भक्त्या सेवमानस्य सर्व-रसे सर्व-सुख-स्वरूपे सर्वेषां सुखानां बिम्ब-भूते एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेर् आत्मनि जीवनिदाने च त्वयि सति सन्निहिते सति वा तुच्छैः स्वजन-सुत-शरीर-प्राण-पत्नी-पति-धन-धामादिभिश् चिन्तामणौ लब्धे काचादिभिर् इव किम् अपि तु न किम् अपि प्रयोजनम् इति यत्-तत्-सत्सत्यम् एव अत एव स्वाम्यादिभिर् निरोधिता अपि श्री-रास-लीलादि-विलासार्थं गोप्यस् त्वद्-दर्शनार्थं यज्ञपत्न्यो वा त्वाम् एवाभिययुः । किञ्चाजानतां चरताम् इति कर्मणि षष्ठ्यौ । अजानतः प्राग् उक्तम् इदं सत्यतया ये न जानन्ति तान् स्वत एव नश्वरे गत-सारे च इह देहादि-संसारे मिथ्या-भूताय मिथुनी-भूय काम-सुख-लेश-लवाय कृत-व्यर्थ-श्रमान् त्वद्-दयां विना को\ऽर्थः स्वजनादिः सुखयत्य् अपि तु न को\ऽपि क्वचिच् चक्रवर्तिनाम् अप्य् आधि-व्याध्यादिना स्वजन-सुत-विरोधादिना वा सुख-लेशादर्शनात् । यद् वा, भगवद्-भजनम् एव सद् इत्य् अजानतो दीक्षित-विप्रादीन् मिथुनतो रतये स्वर्गादाव् उर्वश्यादिभिर् मिथुनी-भूय रतये काम-सुखाय चरतो यज्ञादि-कर्म कुर्वतः स्वत एव नश्वरे गतसारे च इह ऐहिक-विषय-तुल्ये यज्ञादि-फलीभूते स्वर्गादौ कः पदार्थः सुखयति अपि तु न को\ऽपि स्वर्गादि-पतीनाम् अपीन्द्रादीनां विपत्-सहस्र-श्रवणात्-तत्रापि तवानुग्रहं विना न किम् अपि सुखम् अतस् त्वद्-भजनम् एवोचितम् इत्य् आशयः ॥
नीलकण्ठी : तत्र अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते । [गीता ६.३५] इति स्मृतेर् गुरु-मनोजयाभ्यास-वैराग्ये उपदिशति तत्र वैराग्येण विषय-स्रोतः खिली-क्रियते अभ्यासेन कल्याण-स्रोत उद्घाट्यते । तद्-द्वयं क्रमेण द्वाभ्याम् आह—**स्वजन-**सुतेति । नृणां त्वयि सति स्वजनादिभिः किम् इत्य् अन्वयः । आत्मा देहः, स च द्विविधो विदितो मैत्रायणीये—
भगवन्न् अस्थि-चर्म-स्नायु-मज्जामांस-शुक्र-शोणित-श्लेष्माश्रु-दूषिका-विण्-मूत्र-वात-पित्त-कफ-सङ्घाते दुर्गन्धे निःसारे\ऽस्मिञ्छरीरे किं कामोपभोगैः काम-क्रोध-लोभ-मोह-भय-विषादेर्ष्येष्टवियोगानिष्ट-सम्प्रयोग-क्षुत्-पिपासा-जरा-मृत्यु-रोग-शोकाद्यैर् अभिहते\ऽस्मिञ् छरीरे किं कामोपभोगैः ॥ इति ।
अथान्यत्राप्य् उक्तम्—शरीरम् इदं मैथुनाद् एवोद्-भूतं संवृद्ध्य् उपेतं निरये\ऽथ मूत्र-द्वारेण निष्क्रान्तम् अस्थिभिश् चितं मासेनानुलिप्तं चर्मणावनद्धं विण्-मूत्र-पित्त-कफ-मज्जाम् एदोवसाभिर् अन्यैश् चामयैर् बहुभिः परिपूर्णं कोश इव सुनेति ॥ इति च ।
कोशो जरठ-कोशातकी । सुना तन्तु-जालेन । धाम गृहम् । असुः प्राणः । रथो गजादेर् उपलक्षणम् । कीदृशे त्वयि श्रयत आत्मनि त्वां ध्यायतः प्रत्यग्-भूते अत एव सर्व-रसे यद् वै तत्-सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । [तै।उ। २.७.१] इति श्रुतेः।
यथा कृताय विजितायाधरे याः संयन्त्य् एवम् एवैनं सर्वं तद् अभिसम इति यत्किञ्च । प्रजाः साधु कुर्वन्ति यस् तद्वेद ।
इत्य् आत्म-विद्यायां सर्व-साधु-क्रिया-फलान्तर्भाव-श्रुतेश् च निरुपाधि-प्रेम-गोचरत्वाल्लिङ्गाच् च सर्व-सुख-स्वरूपे अत एव त्वयि लब्धे स्वजनादिभिः किम् अपि प्रयोजनं नास्ति । इत्य् एवं-प्रकारेण सत्-प्रत्यग् आत्मैव परं ब्रह्मेत्य् अजानताम् अत एव मिथुनतो विषय-सम्बन्धेन रतये सुखाय चरताम् इतस् ततो धावताम् । कर्मणि षष्ठ्यौ । तान् इह संसारे को नु स्वजनादिष्व् अन्यतमः स्व-विहिते स्वतो नश्वरे सर्वं चेदं क्षयिष्णु यथेमे दंशम् अशकादयः इत्य् उपक्रम्य—
शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं व्रश् चनं वात-रज्जूनां निमज्जनं पृथिव्याः स्थानाद् अपसरणं सुराणाम् ।
इति मैत्रायणीये सर्वस्य क्षयिष्णुत्वोपपादनात् आब्रह्म-भुवनाल्-लोकाः पुनर् आवर्तिनो\ऽर्जुन इति ब्रह्म-लोक-सहितानां लोकनाम् असकृद् आवृत्ति-श्रवणाच् च । स्वनिरस्त-भगे निरस्तैश्वर्ये । एतद् अपि । तत्रैव श्रूयते—
महा-नदीषूर्मय इवानिवर्कस्य यत्-पुरा कृतं समुद्रवेलेव दुर्निवार्यम् अस्य मृत्योर् आगमनं सद् असत्-फलमयैः पाशैः । पङ्गुम् इव बद्ध-बन्दन-स्थस्येवास्वातन्त्र्यम् । यम-विषय-स्वरूपस्य् एव बहुभयावस्थम् । मदिरोन्मत्त इव मोह-मदिरोन्मत्तम् । पाप्मना गृहीत भ्राम्यमाणम् । महो-रगदष्टम् इव विषयाविष्ट । महान्ध-कारम् इव रागान्धम् इन्द्र-जालम् इव मायामयम् । स्वप्न इव मिथ्या-दर्शनम् । कदली-गर्भ इवासारम् । नट इव क्षणवेषम् । चित्त-भित्तिर् इव मिथ्या-मनोरमम् ॥ इति ।
एवं बाह्य-विषय-सङ्गेन सुख-प्रेप्सून्नरापसद् आनिह संसारे स्वविहते स्व-निरस्त**-भगे** च स्व-जनादिष्व् अन्यतमः को नु सुखयति न को\ऽपीत्य् अर्थः । तस्माद् आत्मैव सर्व-रस इत्य् अन्वेष्टव्यः । तथा च श्रुतिः तद् एतत्-प्रेयः पुत्रात्-प्रेयो\ऽन्यस्मात्-सर्वस्माद् अनन्तरतरं यदयम् आत्मा । इति ।
अन्यत्रापि न वा अरे पत्युः कामाय पतिः प्रियो भवति । [बृ।आ।उ ४.५.६] इत्य् उपक्रम्य न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस् तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्य् आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं [बृ।आ।उ। २.४.५] । इति ॥३४॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—त्वयि राधिका-सङ्गैकर-समग्ने विशुद्ध-पूर्ण-मधुरोज्ज्वलानुराग-शक्ति-विलासिनी आत्मनि अन्तः-करणे सति केनापि महा-भागधेयेन तादृश-महा-महत्तम् आनुग्रहादिना हृद्यायाते सति स्वजनादिभिः किं क उपयोगस् तव भजने स्वजन-भावेन भजन हि स्वजनानु-सन्धानम् उपयुज्यते-कृष्णस्यैते स्वजनास् तेष्व् अहम् अप्य् एक इति भावनया तादृश-प्रेम्णस् तद्-विनानुपपत्तेः । कृष्ण-मुकस्य सुतस्-तथाहम् अपि स्वभावनया तद्वत् स्नेहानुबन्ध करोतीति सुतानुसन्धानोपयोगः । कृष्णस्यात्मतादर्थ्यभावेन स्नेहास्पदी-भृतो\ऽमुकस् तस्य च कृष्ण एवम् अहम् अपि स्याम् इति भाव-बन्धे आत्मानुसन्धानोप-योगः कृष्णस्य दारा इमे तत्-सङ्गरसं प्रतिभावतः समुपलभन्ते तथाहम् अपि कथं तादृश-भावनया भाव-बन्धं करोमीत्य् एवं भजने दारानुसन्धानोप-योगः । कृष्णस्य धन-रक्षिण एते भृत्या गोधनादि वा तथाहम् अपि तत्-सम्बन्धेन तद्-भक्ति-रसम् अनुभावयामीत्य् एवं भजने धनानु-सन्धानोप-योगः । कृष्णस्य इदं धाम तत्र-स्थानां तस्मिन्न् अत्य् अन्त-महा-भक्तिस् तेषु च येनाहम् एको\ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् [भा।पु १०.१४.३०] इत्य् एवं भगवज् जने धामानुसन्धानोपयोगः धाम निवास-स्थानम् धरा तदीयत्वेन साधारण-भूमिः यथा व्रज-वृन्दावन-मण्डले मुख्य-गृहं विहारादि-भूमिश् च असवः प्राणाः—कृष्णेनामुकस्य प्राण-रक्षणं कृतम् प्रीत्या तस्य चासाधारण-प्रेम-विषय इत्य् अहम् अपि तद्-भावेन भजामीत्य् एवं भजन-प्रकारे\ऽस्व् अनुसन्धानोप-योगः । एवं दारुकादेर् गरुडादेश् च रथ-सम्बन्धेन भक्ति-रसोल्लासस् तथा भाववतो ममापि रसानुभवः स्याद् इति भजने रथानुसन्धानोप-योगः । एवं मिश्र-शुद्ध-भाव-भजनोप-योगिभिः स्वजनादिभिस् त्वयि स्व-प्राण-सख-भाववतः स्वस्य प्राण**-सर्व**-स्वभूततया हृद्यागते क उपयोगः तत्र हेतुः—सर्वे रसा यस्मिन् सर्वेषाम् एव मिश्र-शुद्ध-प्रेम-रसानां त्वम् एवाश्रयः । अतस् त्वयि हृद्गते पूर्ण-महा-रसमये न्यून-रसोप-योग्यनुसन्धानेन किं प्रयोजनम् इत्य् अर्थः । सर्वे रसा यस्माद् इति वा एतच् छक्ति प्रवृत्त्यत्वाद् अन्य-रसानाम् एतद्-रस एव च सर्वे रसा अन्तर्भूताः । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [वृ। ४.३.३२] इति श्रुतेः । रसो वै सः रसं ह्य् अवायं लब्ध्वा आनन्दीभवति [तै।उ २.७.१] इति च । रसानां च मुख्यः शृङ्गारः—शृङ्गं प्राधान्यम् इयर्ति इति व्युत्पत्तेः । तस्यापि पूर्णता विशुद्धाद्यरतिमय-गोप-सुन्दरीणां शिखामणौ श्री-राधायाम् एव—रेणु-कामाग्निना अधिकेति राधिका-पद-व्युत्पत्तेः रम् आ सम्यग्-दधातीति राधा-समाख्यातेश् च राति सम्भोग-सुखं चैव परमं शुद्ध-रतिनाय-कशिखामणेः श्री-कृष्णस्य धारयति च यैव सदा तं पिबति वा । रायं धनं स्व-प्राण-सर्व-स्वभूतं सदा धारयति स वा बहिर् अन्तर्धारको यस्या इति । इत्य् एवं प्रकारेण सत् सर्वोत्कृष्टं तव स्वरूपम् अजानतां मिथुनतो या रतिः श्री-कृष्णे तद् अर्थं चरतां चेष्टमानानां कोन्व् अर्थः प्राप्तो\ऽपि कृष्ण-सङ्गादिः किं तान् सुखयति राधिका-पराधीनस्य तद् एक-जीवनस्य श्री-कृष्णस्य सङ्गो हि परम-महा-दुर्घटः कथञ्चित् कदाचित् जातो\ऽपि महा-दुरन्त-दुःख-कारण एव स्वत एव विहतो विघ्न-सहस्र-पराहतः स्वै राधा-परिजनैर् विहितः कथञ्चित् कृपा-पारवश्येन कृष्णेच्छायाम् अपि तेषां तद् असहनात् स्वत एव निरस्त-श्री-कञ्च । न हि राधा-प्रिय-सखीनाम् इवान्यासां रस-सम्पद् इति । सप्तम्यन्ते त्वयि । कथम्-भूते सुष्ठु अविहते—केनापि कथम् अपि न विघ्नते सुष्ठु अनिरस्त-कामे चेति ।
नित्य-गोप्यस् तु आहुः—त्वयि श्री-कृष्ण-चन्द्रे महा-रसिक-मुकुट-मणौ अस्माकम् आत्मनि च श्री-राधिकायां सर्वः सम्पूर्णो रसो यस्य तथा-भूतो सर्व-रसाश्रिये वा इति श्री-वृन्दावन-वाटिकायाम् अस्यां राधा-साधारण-निकेते वर्तमाने स्वजनादिभिः किम् स्वजनाद्य् अपेक्षया प्रेयोजनं नान्ति स्वजनाः पित्रादि-सम्बन्धिनो ज्ञातय उपनन्दाद्याः स्वतो बलदेवः स्वपित्रोः स्वस्मिन्न् इव अस्मिन्न् अपि पुत्रोबुद्धिः । आत्मानो वयस्याः श्री-दाम-सुबलाद्याः धनं गोधनम् धाम पितृ-मन्दिरम् धरा समस्त-व्रज-भूमयः गोकुलं स्नानं वा असुभिः प्राण-तुल्यैर् अन्यैर् वा रथैर् वाहनैर् वा शकटादिभिः रथ-स्थैर्दिव्य-विमान-गतैर्-ब्रह्मादिभिर् वा व्रज-तिर्यग् आदि-भावाशंसकैः किम् श्रुतय आश्रयणात् परस्पर-सेवनाद् वा सर्वात्म-भावेनेहैवाश्रय-करणाद् वा पूर्वन्तु राधा-परिचयात् । इति एवं प्रकारेण सद् उत्कृष्ट-रस-साम्राज्यम् अजानताः श्री-मतां मिथुनीभूय रतये क्रीडायै चरतां विचरतां को नु वितर्क इत्य् अर्थः । गोपी-सङ्गादिः सुखयति—बहु-वचनं वयस्याभिप्रायेण तेषां तत्रैवानुकूल्यात् । स्वतः एव विहतो राधा-च्छटालोक स्वत एव तत्र तुच्छ-बुद्धेः स्वत-एव निरस्तशोभे सप्तम्य् अस्ति सुष्ठु अविहते राधा-रसादि-विघ्निते । सुष्ठु अनिरस्त**-भगे** स्वत एवान्य-सङ्गो विहतो । यस्य—अन्य-गोपी-दर्शने\ऽपि शक्ति-कौण्ठ्यात् ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गुरोरुपदेशो हि प्रथमं वैराग्यम् एव जनयति तच् च भगवद्-भक्तेर् अपि परिपोषकम् इत्य् आहुः—स्वजनेत्य् आदि । श्रयतो भजतो । भक्त-जनस्य आत्मनि आत्म-स्वरूपे त्वयि सति नृणां स्वजनादिभिर् न किम् अपि प्रयोजनम् इति भावः । कीदृशे सर्वसरे सर्वे रसाः सुखानि यत्र, एकत्र चेत् सर्वाणि सुखानि लभ्यन्ते, तदा किं पृथक् पृथग् अन्वेष्टव्यानि, वस्तु-तस्तु तानि सुखान्य् एव न भवन्ति सुखाभासान्य् एव, तेन किं तैर् इति सत् सत्यम् अजानतां मिथुनतो मिथुनी-भूय रतये चरतां जनानाम् इह संसारे को नु सुखयति न को\ऽपीत्य् अर्थः । कर्मणि षष्ठी । ये तु सद् इति जानन्ति, तान् सुखयत्य् एव । इह किम्-भूते स्वविहते स्वयम् एव विहते स्व-निरस्त-भगे स्वयम् एव निरस्त-भगे । प्रथमान्त-पाठे को न्व् इहेत्य् अत्र विशेषणद्वयम् ॥३४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वजना बान्धवाः । यद् वा, स्वा ज्ञातयो जना भृत्याः । सुता अपत्यानि । दाराः कलत्रम् । केवलं ते । त्वद् अवेक्षण-प्रयासमात्रम् इत्य् अर्थः । रथ इत्य् उप-लक्षणं वाहनादि-भवि-भूतीनाम्, श्रयतो जनस्य, सर्व-रसे सर्व-सुख-रूपे किं वा सर्वे रसाः । सान्द्र-परमानन्दा यस्मात्-तस्मिंस् त्वयि सति । एतैः स्वजनादिभिः किं को न्व् अर्थः अपि तु न को\ऽपीत्य् अर्थः । तत्र हेतुः—स्वेत्य् आदि-पदद्वयम् । अनेन नश्वरतया शोकावहत्वं वर्तमाने\ऽप्य् अति-तुच्छतया तत्त्वतः सुख-राहित्यं चोक्तम् । सप्तम्य् अन्तपाठे\ऽपि स एवार्थः । अन्यत्-तैर् व्याख्यातम् ।
तत्र चार्थो वस्त्वित्य् अर्थः । यद् वा, ननु कथं व्यसन-शतान्विताः सन्तीत्युच्यते स्व-स्व-वैभवैर् एव नृणां सुखित्वम् अननेन व्यस-नित्वाभावाद् इत्य् अत आहुः—स्वजनेति । आत्मा यत्नः [श]परीरादि-पालन-प्रयत्नः, सुरथः शोभन-रथः, नृणाम् आत्मनि सर्व-जीवानाम् अन्तर्यामि-रूपे । यद् वा, नृणां सद् अजनिताम् इत्य् उत्तरेणान्वयः । इत्य् एतत् सत् तत्-त्वम्, मिथुनतो मिथुन-भावात्, रतये स्त्री-सम्भोगाय । अर्थः पदार्थः ॥
व्रज-वासिनां गुण-वर्णने तावद् अतृप्त्या पुनर् अपि तेषाम् एव भावम् आहुः—स्वजनेति । त्वय् आत्मनि प्रिये । यद् वा, आत्मनि स्व-विषये व्रज-वासि-जन-विषय इत्य् अर्थः । सर्व-रसे सम्पूर्ण-परमानन्द-रूपे सति विराजमाने नृणां व्रज-वासिनां स्वजन-सुतात्म-दार-धन-धामेति । द्वन्द्वैकत्वम् । किं श्रयते किं करोतीत्य् अर्थः । अपि तु न किञ्चिद् अपि । कथम्-भूतम् धराश् च गिरयो गोष्ठाश्रया नन्दीश्वरादयः, असवश् च
प्राणाः, रथाश् च श्रेष्ठ-शकटानि, तैर् विशिष्टम् । एषाम् आत्मार्थम् एतैः कृत्यं नास्ति, किन्तु भवद् अर्थम् एव तत् सर्वम् इति भावः । तथा ब्रह्मणाप्य् उक्तम् —
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास्त्वत्-कृते । [भा।पु १०.१४.३५] इति ।
इति एवं विधं त्वद्-भजनं सत् सत्यम् अजानतो जनान् को न्व् अर्थः सुखयति, त्वद्-भजनम् अन्तरेणान्यत् किम् अपि सुखं नास्ति, विषय-सुखस्य प्रान्त-विरसत्वान्-नश्वरत्वाच् चेत्य् अर्थः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव वयम् अन्यासक्तिं निन्दाम इत्य् अपरा आहुः—स्वजनेति । श्रयतो भजत आत्मनि सर्वेषां परमस्व-रूपत्वेनावगतत्वान्-निरुपाधि परम-प्रेष्ठत्वेन स्फुरतीत्य् अर्थः । न केवलं सामान्यतस् तादृशी स्फूर्तिः किन्तु विशेषतः सर्वे प्रेममया रसाः शान्तादयो यस्मात् तस्मिन् मिथुनत इति ल्यब्-लोपे पञ्चम्या मिथुनी-भूयेत्येवार्थः । अन्यत्-तैः । श्रुतयस्तु अमृतत्वस्य तु नाशास्ति वित्तेनेत्य् आरभ्य न वा अरे पत्युः । कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवतीत्य् उपक्रम्य न वा अरे सर्वस्य कामाय सर्वं प्रियं भवतीत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेदं ब्रह्म तं परादाद्योन्य आत्मनो ब्रह्म वेद । क्षेत्रं तं पराद् इत्य् आद्याः । तद् एवं साधारणात्मनो निरुपाधि-प्रियत्वेन परमात्मैव परम-निरुपाधि-प्रिय एव स एव द्रष्टव्य इति श्रुति-वाक्यार्थः । सर्व-विज्ञानस्य सर्व-प्रतिज्ञास्यमानत्वात्
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भा।पु। १०.१४.५५] इति शुकोक्तेश् च ॥३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अत एव वयम् अप्य् अन्यासक्तिं निन्दाम इत्य् अपरा आहुः—स्वजनेति ॥३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गुरूपदेशो हि संसारे वैराग्यं जनयित्वा त्वयि भावम् उत्पादयतीत्य् आहुः—स्वजन-सुतेत्यादि । श्रयतः सेवमानस्य जनस्यात्मनि परम-सुहृदि सर्व-रसे सर्व-सुख-स्वरूपे त्वयि सति नॄणां स्वजनादिभिः किम् ? न किम् अपीत्य् अर्थः । त्वयि सति नित्य इति वा, स्वजनादयस् त्व् अनित्या इति हि सत्यम् एव । तद् एतद् अजानताम् एतत् सत्यत्वेनाज्ञात्वा मिथुनतो मिथुनीभूय रतये चरताम् इह लोके को नु सुखयति सुखं करोति ? न कोऽपीत्य् अर्थः । ये तु सत्यम् इति ज्ञात्वा त्वां भजन्ते, तान् सर्वं सुखयतीत्य् अर्थः । इह किम्-भूते ? स्व-विहते स्वेनैव विहते, स्वेनैव निरस्त-भगे । प्रथमान्त-पाठे क इत्य् अस्य विशेषणम् ॥३४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं योगाद्यमिश्रा केवलैव भक्तिर् वैष्णवानाम् इत्य् उक्तम् । इदानीं सा खलु कामनान्तर-हितैव भवितुर् महतीत्य् उपपादयति स्वजनेति । नृणां मध्ये श्रयतस् त्वां सेवमानस्य जनस्य त्वयि सति आत्मनि परमात्मनि त्वय्य् अवश्य-प्राप्तये सति स्वजनादिभिः किं स्वजनाः स्वकीय-सेवक-जनाः । सुता गुणवन्तः पुत्राः । आत्मा सुन्दरं शरीरम् । दाराः सुन्दर्यः कामिन्यः । धनानि स्वर्ण-रत्नादि-सम्पदः । धामानि दिव्य-दिव्या गृहाः । धरा भूयसी पृथ्वी । असवः शरीर-बलानि । रथास् तद् उपलक्षिता हस्त्यश्व् आदयः । एतैः कामितैः किं फलम् इत्य् अर्थः । त्वयि कीदृशे । सर्वे रसाः आनन्दा यत्र तस्मिन् एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्तीति श्रुतेः इति सत् सत्यं परमार्थ-सुखम् अजानताम् अत एव मिथुनीभूय रतये रत्य् अर्थं चरतां जनानाम् इह संसारे को नु अर्थः । स्वजनादिकः सुखयति सुखदायको भवतीत्य् अर्थः ।
ननु कथम् अर्थस्य सुखदत्वाभावस् तत्राह—स्वविहतः स्वत स्वत एव विहतः ।
काल-ग्रस्तत्वान्-नश्वर इत्य् अर्थः । तथा स्व-निरस्त-भगः उत्पत्ति-समयम् आरभ्यैव स्वत एव माहात्म्य-रहितः भगं श्री-ज्ञान-माहात्म्य-वीर्ययत्नार्ककीर्तिषु । इत्य् अमरः । परिणाम-दर्शिभिः साधुभिर् विगीतत्वाद् इति भावः । स्वविहते स्वनिरस्त-भगे इति । सप्तम्यन्त-पाठे इहेत्यस्य विशेषणद्वयम् । अत्र श्रुतयः—
भक्तिर् अस्य भजनं तद् इहामुत्र उपाधि-नैराश्येनाम् उष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् इत्य् आद्या उपाधिः सकामत्वम् ॥३४॥
॥ १०.८७.३५ ॥
भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास्
त उत भवत्-पदाम्बुज-हृदोऽघ-भिद् अङ्घ्रि-जलाः ।
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं गुरूपदेशेन तत्-त्वम् अवगम्य सारासार-विवेकेन च सर्वतो निर्विद्य तद् एव महत्-सङ्गेनोपपत्तिभिः सम्यग् अवधारयितुं तीर्थ-सदनानि मुनयः पर्यटन्तीति श्रोतव्यो मन्तव्यः [बृ।आ।उ। २.४.५]इत्य् आदि-श्रुत्य् अर्थम् आह—भुवि पुरु-पुण्य-तीर्थ-सदनानीति ।
ते उक्त-लक्षणा ऋषयो विमदा निरहङ्कारा यतो भवत्-पदाम्बुज-हृदः भवतः पदाम्बुजं हृदि येषां ते । अतः स्वयम् एवाघ-भिद् अङ्घ्रि-जलं येषां ते उत अपि तथा-विधा अपि पुरूणि बहूनि पुण्यानि तीर्थानि सदनानि च क्षेत्राणि, तान्य् एवोपासते सेवन्ते । प्रायस् तत्रैव महत्-सङ्गो भवतीति ।
अथवा, पुरु अधिकं भगवद्-भजन-लक्षणं पुण्यं येषां तानि च तानि तीर्थानि च गुरवो महान्त इत्य् अर्थः । तेषां सदनान्य् आश्रमान् । यथाहामर-सिंहः निपानागमयोस् तीर्थम् ऋषि-जुष्ट-जले गुरौ इत्य् अमरः
न पुनः पुरुष-सार-हरावसथान् उपासते । पुरुषाणां सारं विवेक-स्थैर्य-धैर्य-क्षमा-शान्ति-प्रमुखं हरन्तीति तथा ते च ते आवसथा गृहास् तान् । न च तेषां गृहादि-भव-कुत्सित-सुखापेक्षेत्य् आह—दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे इति । सकृद् अपि त्वयि ये मनो दधतीति तेऽपि गृहाद्य् आसक्ता न भवन्ति, किं पुनर् एवं-भूता इत्य् अर्थाह्।
मुञ्चन्न् अङ्ग-तद् अङ्ग-सङ्गम् अनिशं त्वाम् एव सञ्चिन्तयन्
सन्तः सन्ति यतो यतो गत-मदास् तान् आश्रमान् आवसन् ।
नित्यं तन्-मुख-पङ्कजाद् विगलितत्वत् पुण्य-गाथामृत-
स्रोतः-संप्लव-संप्लुतो नर-हरे न स्याम् अहं देह-भृत् ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं तद् एव गुरूपदेशाप्त-तत्-त्वम् उपपत्तिभिर् उपपादन-युक्तिभिः । श्रुतिस् तु श्रोतव्य इत्य् आदि । तथा तद् वा एतद् अक्षरं गार्ग्य् अदृष्टं द्रष्टृ, अश्र्उतं श्रोतृ, अमतं मन्तृ, अविज्ञातं विज्ञातृ । नान्यद् अतोऽस्ति [बृ।आ।उ। ३.८.११] इत्य् आदि । अर्थस् तु—हे गार्गि ! तद् एतद् अक्षरं ब्रह्मान्यैर् अदृष्टं स्वयं सर्वेषां द्रष्टृ तथाश्रुतं श्रोतृ, अमतं मननाविषयं स्वयं मन्तृ अन्यैर् अविज्ञातं स्वयं विज्ञातृ, अतोऽन्यत् किञ्चिद् अपि वस्तु द्रष्टृ-श्रोत्रादि नास्तीति एतन्-मननार्थं पर्यटन्तीत्य् उक्तम् ।
उक्त-लक्षणा गुरूपदेशावाप्ति-विद्याः । तथाविद्या निजाङ्घ्रि-जल-स्पर्शि-पाप-नाशका अपि प्रायो बाहुल्येन तत्रैव तीर्थ-क्षेत्रेष्व् एव । प्रायः पदेनास्वरसाद् आह—अथवेति । इत्य् अर्थ इति—तीर्यते संसारो यैर् इत्य् अर्थ-साम्यान् महान्तोऽपि तीर्थान्य् एवेति भावः । तीर्थ-पदस्य गुरु-वाचकत्वे प्रमाणम् आह—यथेति । एवं-भूताः सदा भक्ताः । इत्य् अर्थ इति—सदा हरि-भक्ति-पराणां तु गृहाद्य् आसक्तिः कदापि न सम्भवतीति ।
स्वामिनां मुञ्चान्न् इति । अङ्गेन स्वाङ्गेन तेषां पुरुष-सार-हरावसथानां सङ्गं मुञ्चन् तन्-मुख-पङ्कजात् सतां मुख-कमलात् । विगलिते त्वत्-पुण्य-गाथमृत-स्रोतसि यः सम्प्लवः स्नानं तेन सम्प्लुतो युतः, पुनर् अहं देह-भृन् न स्यां भवेयम् ॥
श्रीधरानुयायी : गुरूपदिष्ट-तत्त्व-निश्चायक-सत्सङ्गार्थं तीर्थ-सेवाम् उपदिशन्ति—भुवीति । हृद्-गत-भगवत्-पाद-प्रब्रह्मा स्वत एव पापापनोदक-पादोदका अपि निरहङ्काराः प्राग् उक्ता भगवद्-भक्ताः सत्-सङ्गार्थं बहूनि बहु-पुण्य-जनकानि श्री-गङ्गादि-तीर्थानि श्री-वृन्दावनादि-क्षेत्राणि च सेवन्ते ।
यद् वा, भगवद्-भजनाभिध-बहु-पुण्य-शालिनां महताम् आश्रमान् सेवन्ते, न पुनः पुरुष-सार-रूप-विवेक-धैर्यादि-हरान् गृहान् । यतो ये त्वय्य् आत्मनि नित्य-सुखे सकृद् अपि मनो धारयन्ति, तेऽपि गृहाद्य् आसक्ता न भवन्ति, किं पुनः प्राग् उक्ता मुक्ता भगवद्-भक्ताः ।
यद् वा, तद् एवं याज्ञिक-विप्र-प्रसङ्गेनाभक्ता योगिनोऽर्थ-पराश् च निन्दिताः । अथ परम-निर्भय-श्री-कृष्ण-चन्द्र-दर्शनार्थं कुतोऽपि मिषात् क्रोश-चतुष्टय-मात्र-व्यवहित-तद्-विहार-भूमौ वासम् असाधितवतस् तान् एव पुनर् निन्दन्ति—एतेन प्रकटीभूय श्री-कृष्ण-दर्शनार्थम् अस्मद्-गमने कंसस् तत्र श्री-कृष्णं निश्चित्यापकारं करिष्यतीति भगवति कंस-कृतानिष्ट-भयं कंस-दत्त-जीविकोच्छेदादि-भयं च निरस्तम् ।
भुवीति—ये त्वयि स्व-स्वरूपं नित्य-सुख-स्वरूपे च सकृद् अपि मनो धारयन्ति, तेन ते स्व-मनस्इ त्वत्-पदाम्बुजं दधाना, अत एव स्वयम् अघ-भिद् अङ्घ्रि-जलाश् च भूत्वा, अत एव ऋषयः परम-पूज्या निरहङ्काराश् च भूत्वा, भुवि सर्वतोऽपि पुरु-पुण्यानां सार्धं विजह्रुः । कृत-पुण्य-पुञ्जाः [भा।पु। १०.१२.११] इत्य् उक्त-महिम्नां श्री-गोपानां तीर्थ-रूपाणि सदनानि गृहान्, तथा श्री-कृष्ण-विहार-महिष्ठानि चोपासते, न पुनः पुरुष-सार-हराणां कंसादि-दुषानाम् आवसथान् तत्-पालित-नगर-गृहादीन् इत्य् अर्थः । अतस् तत्-पराङ्-मुखा याज्ञिक-विप्रादयो मन्द-भाग्या एवेत्य् उपसंहारः ।
यद् वा, पुरुष-सार ! हे पुरुषोत्तम ! ये एक-वारम् अपि त्वयि मनो धारयन्ति, ते पुनर् जन्मान्तरे हरस्य श्री-रुद्रस्यावसथान् श्मशान-भूमिर् न सेवन्ते, जन्म-मरण-शून्या भवन्तीत्य् अर्थः ।
महा-भाग्यं तु कैवल्यम् अज्ञानां कः प्रदास्यति ।
अतः सन्तो विजानन्ति हरिं ते त्व् अनहङ्कृताः ॥ इति विमद-पदार्थः ।
अङ्गं शरीरं तद् अङ्गानि सुत-दार-धनादीनि, तेषु सङ्गम् आसक्तिं मुञ्चन्न् इति स्वामि-श्लोक-पदार्थः ॥
नीलकण्ठी : एवं व्याख्याम् उक्त्वा यान्य् एव विद्वल्-लक्षणानि तान्य् एव ज्ञान-साधनानीति मत्वा विद्वद् आचार-प्रदर्शनेनाभ्यासं विधत्ते—भुवीति । ये त्वयि नित्य-सुखे आत्मनि प्रतीचि सकृन् मनो दधति, त एव भुवि कर्म-भूमौ पुरु-पुण्यादिमन्तः सन्तः पुनः ज्ञानोत्पत्त्य् अनन्तरं पुरुष-सार-हरावसथान् पुरुषाणां सारं बुद्धि-वैभवं हरन्ति तादृशान् गृहान् नैवोपासते । दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम्, तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यं [यो।सू। १.१५-१६] इति योग-सूत्रोक-दिशा साधक-दशायाम् एव विरक्तस्य सिद्ध-दशायां ज्ञात-विषय-वैरस्य यस्य सुतरां तेषु वैतृष्ण्यं भवतीति भावः ।
अत्र पुरूणि पुष्कलाणि पुण्यानीष्टा-पूर्त-व्रत-जपादीनि चित्त-शुद्धि-द्वारा आत्म-विविदिषोत्पादकानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन दानेन तपसानाशकेनैतं [बृ।आ।उ। ४.४.२२] इत्य् आदि-श्रुतेः तीर्थ-सदनं गुरूपसदनं तेन तद्-द्वारके श्रवण-मनने लक्ष्येते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश् च [बृ।आ।उ। २.४.५] इत्य् आत्म-दर्शनार्थत्वेन वेदान्त-श्रवणादि-विधानात् पुरु-पुण्य-तीर्थ-सदनानि कृतवन्तः इत्य् अध्याहारः । अत एव ऋषयः ऋषन्ति प्राप्नुवन्त्य् आत्मानम् इत्य् ऋषयः । पारोक्ष्येण ज्ञातात्म-ज्ञातात्मतत्त्वा भूत्वा विमदाः, अत्र मदाभावेन शमादि-षट्कम् उच्यते । तथा च श्रुतिः—
तस्माद् एवं-विच् छान्तो दान्त उपरतस् तितिक्षुः
समाहितो भूत्वात्मन्य् एवात्मानं पश्यति [बृ।आ।उ। ४.४.२३] इति ।
श्रद्धान्वितो भूत्वा इति शाखान्तरम् । श्रवणादि-प्रणाड्या परोक्ष-ज्ञानवत आत्मापरोक्षार्थं शमादीन् विधत्ते । प्रणाड्यन्तरम् आह—उतापि च भगवतो विष्णोः पदं पदनीयं, सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् ॥ [क।उ। १.३.५-११] इति श्रुत्य् उक्तं कृष्णादि-मूर्तेः पदं वा अम्बुजवद् अभिरामं तत्रैव हृन्-मनो येषां ते निर्गुणस्य सगुणस्य ब्रह्मण उपासका इत्य् अर्थः । तेऽप्य् आवसथान् नोपासत इत्य् आवर्तते उभयेऽपि अघभिद् अङ्घ्रि-जलाः शुद्ध्यादि-कामैर् आराधनीया इत्य् अर्थः ।
यं यं लोकं मनसा संविभाति विशुद्ध-सत्त्वः कामयते ।
यांश् च कामान् तं तं लोकं जयते, तांश् च कामांस् तस्माद् आत्मज्ञं ह्य् अर्चयेद् भूति-कामः ॥ इति श्रुतेः ॥३५॥
प्रबोधानन्दः- श्रुति-रूपा आहुः—ये सकृद् अपि त्वयि मनो दधति तेऽपि भुवि पृथिव्यां पुरूणि पुण्यानि येषु भवद्-भाव-हेतुत्वात् तानि तीर्थानि द्वारका-मथुरादीनि सदनानि त्वद् अर्चायतनानि च उपासते ऋषयो विशुद्धत्वद्-भावस्यैव परम-परमत्वेन ज्ञातारः सर्वदा ये मनो दधति ते उपासत इति किं वक्तव्यम् तीर्थानि शास्त्रात्त्वद् उत्कर्ष-प्रतिपादकानि गुरुत्वात्-त्वद्-धर्म-वर्त्मोपदेष्टॄन् पुरुपुण्यानां त्वद्-भाव-निष्ठावतां त एव हि सर्वतः पुण्यातिशालिनः । येषां शुद्ध-भाव-प्रतिबन्धकम् अपि नास्ति तेषां तीर्थ-रूपाणि सदनानि शुद्ध-सेवास्थानानि विमदा विशेषेण माद्यन्ति त्वत्-प्रेम-माध्व्या विगत-पाण्डित्य् आदि-गर्वा वा भवत्-पदे अम्बुजवत् हृत् हृदयं येषां प्रेम-मधु-रस-सरित्त्वेन बहिर् निःसरद् अनुराग-लपित-रूपामोदत्वाच् च परिमलवत्त्वाच् च कृष्ण-भ्रम-रसद् आक्रान्तत्वाच् च ।
यद् वा, भवन्तम् एव पद्यते जानाति भवतो प्रद्यते प्रपद्यते च राधा भवान् पूर्ण-परमानन्द-रस-सार-साम्राज्याकर-मूर्तिः पदं विषयो यस्याः न हि तादृशस् त्वम् अन्यस्या गोचरः तस्याम् अम्बुजवत् हृद्येषां अत-एवान्येषां त्वच्-छुद्ध-भाव-प्रतिबन्धकाद्य् अघ-भिदङ्घ्रि-जलाः स्वयम् अपि । त्वयि कथं-भूते आत्मनि **नित्य-**सुखा राधिकैव यस्य नित्यम् अविच्छिन्न-प्रवाह-रूपेण वर्तमानं त्वत्-सङ्ग-सुखं यस्या सा तथा नित्यानि शोभनानि खानि इन्द्रियाणि यस्याः शोभनत्वं श्री-कृष्ण-सङ्ग-सुख-मयत्वं त्वत्-प्रेमाविष्टत्वं वा नित्यं सततं शोभनं खं हृदयाकाशं यस्या इति सदा वरीवृध्यमान-कृष्ण-महानुराग-भरत्वात् । न पुनस् तादृशाः **पुरुष-सार-**हराणाम् आवसथान् उपासते । पुरुषस्य यत्-**सार-**वस्तु सकल-परम-पुरुषार्थोत्तमत्वेन गृहीतं विशुद्धत्वद् अनुराग-वर्त्मतद्-धारकाः शास्त्र-तर्कादि-जालोपन्यासेन तेषां स्थानान्य् अपि नोपासते कुतः पुनस्तान् यद् वा, ऋषयः सर्वज्ञा अपि पुरु-पुण्यानां ये तीर्थ-भूता भक्ति-मार्ग-समुद्रात्तारका गुरु-भूता ये न हि तेऽल्पभाग्यानां परम-निगूढ-रस-वर्त्मोपदिश्य शास्त्र-समुद्रात्-तारका भवन्ति तेषां निवास-स्थानानि उपासते भवत्-पदाम्बुजे हृद्-येषां त्वत्-पदाम्बुज-रसानुभावार्थम् इत्य् अर्थः । विमदाः स्व-सार्वज्ञ्यादिना गर्वरहिताः अन्येषाम् अघ-भिदङ्घ्रि-जला अपि स्वस्य शुद्धि-विशेषार्थं शास्त्र-पाण्डित्य् आतिशय-रहितानाम् अपि शुद्ध-भाव-परम-निष्ठानां सदनानि उपासते तेषां प्रेम-दुःख-चमत्कारोपालम्भेनैव सकल-सन्देहोच्छेदात् । ये त्वयि सकृत् कृती छेदने भजन-मार्गान्तरणवासनाच्-छेद-सहितं शुद्ध-भावेनैव मनो धारयन्ति ।
कथं-भूते त्वयि आत्मनि स्वस्यात्म-भूतायां राधायाम् एव नित्यं शोभनं स्व हृदयं यस्य सुखं यस्य शोभनानीन्द्रियाणि वा यस्य । अथवा ऋषयः सर्व-ज्ञाः विगतमानं ब्रह्मात्म-वस्तु उपसन्नेभ्य उपदेश-मात्रेण ददति विमदा एतादृशा अपि ये भवत्-पदाम्बुजे प्रेम-रसवन्तस्ते त्वयि सकृन्-मनो दधति त्वत्-सङ्कल्पं सति भुवि वृन्दावन-भुवि तादृश-शुद्ध-भावो यत्रैव भवति पुरु-पुण्यं यत्-तीर्थं यमुना तत्र सदनानि आवसथान् क्लेशानुपासते शुद्ध-भावाशयास् तपश् चरन्तीत्य् अर्थः ।
पुरु-पुण्यं येभ्यो दर्शनादिनैव शुद्ध-भाव-प्रतिबन्धक-क्षयकारि भवत्इ तादृश-तीर्थानां गुरूणां स्थानानि उपासनात् न तु विशुद्ध-भावद्वेषिणाम् आवसथान् इति ।
नित्य-गोप्यस्तु आहुः—स्व-स्वामिन्याः श्री-राधायाः सौभाग्यातिशयं वर्णयन्त्य आहुः—ऋषयो विचित्र-कन्दर्प-केलि-कलाभिज्ञा अपि विगत-गर्वा गोप-सीमन्तिन्यो भगवत्-पदाम्बुज-हृदः सत्यो राधा-विषय-विमल-सख्य् अभावैक-मनसस् त्वयि त्वन्-निमित्तं भुवि वृन्दावने पुरु-पुण्य-तीर्थं यमुना तत्-सम्बन्धि-सदनानि कुञ्ज-गृहाणि पुनर् नोपासते किन्तु पुरुषस्य तव सारं धैर्यं हरति या पुरुष-सार-हरा राधिका तस्या अवसथानेव उपासते । त्वयि कथं-भूते आत्मनि अस्मद् आत्म-भूतायां राधायाम् एव सकृत् इतर-गोप्यासक्तिच्-छेदन-सहितं मनो धारयति । अघ-भिद्-दुःख-नाशकम् अङ्घ्रि जलं यासां श्री-राधायाश् चरणामृतं परम-भक्त्या पीत्वा भिन्न-कृष्ण-विरह-दुःखाः तव दुःखं कामार्तिं भिनत्ति या राधा तद् अङ्घ्रिणा जला जडास् तत्-प्रपत्ति-लब्ध-सुख-साम्राज्येन निष्पन्दीभूता इत्य् अर्थः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : गुरूपदेशाद् एव वैराग्यम् उत्पद्यते, गुरवश् च द्वेधा—दीक्षा-गुरवश् च, शिक्षा-गुरवश् च । आद्यास् तु, मद् अभिज्ञं गुरुं शान्तं [भा।पु। ११.१०.५] इत्य् आदिना वक्ष्यमाणाः । द्वितीये तु महद्-रूपा यदृच्छया उपसन्ना भगवद्-भक्ता ये केचित्, तेषाम् उपासनैव कार्येति सद् आचारं प्रमाणयति—भुवीत्यादि । ऋषयोऽपि विमदाः सन्तः पुरु-पुण्य-तीर्थ-सदनानि उपासते, सन्तु तावत् प्रवृत्त-मात्राः । पुरु-पुण्या भगवद्-भक्ता एव तीर्थानि गुरवस् तेषां सदनानि, निपानागमयोस् तीर्थम् ऋषि-जुष्ट-जले गुरौ इत्य् अमरः ।
अथवा पुरूणि पुण्यानि तीर्थानि सदनानि क्षेत्राणि तेषु तेषु महान्तः प्रायशः सन्तीति कृत्वा उपासते । ते प्रसिद्धा अपि उत शब्दोऽप्य् अर्थः ।
स्वयं किम्-भूताः ? भवत्-पदाम्बुजे हृद् येषाम् । ततोऽघ-भिद् अङ्घ्रि-जला येषाम् अङ्घ्रि-जलम् अन्येषाम् अघं भिनत्ति । कथं-भूता भगवद्-भावे सिद्ध-प्राया अपि महत एवोपासते ? तत्राहुः—दधतीत्यादि । ये पुनस् त्वयि सकृद् एव मनो दधति, तेऽपि पुरुष-सार-हरावसथान् हित्वा पुरु-पुण्य-तीर्थ-सदनान्य् उपासते ।
तत् किम् ? त्वयि कीदृशे ? आत्मनि आत्म-स्वरूपे नित्य-स्वरूपे नित्य-शुद्धे, अतोऽसत्-सङ्गो हि सिद्धानां साधकानां च त्याज्य एव । सत्-सङ्ग एव कार्यः । न स्वातन्त्र्येण कुत्रापि स्थातव्यं गुरूपसत्तिं विनेत्य् अर्थः ॥३५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना वैराग्य-सिद्धये सत्-सङ्गार्थं महा—तीर्थ-सेवाम् उपदिशन्ति—भुवीति । प्रायः पृथिव्याम् एव तादृश-तीर्थादि-सद्-भावात् । ऋषयः सर्व-शास्त्रार्थ-तत्त्वज्ञा विप्राः । अतो विमदाः, अत एव भवत्-पदाम्बुज-हृदः । आत्मनि स्वतः प्रेष्ठे नित्य-सुख-स्वरूपे च । किं वा, अतो नित्यम् अव्याहतं सुखं यस्मात् तस्मिन् । पुनर् इति वाक्यालङ्कारे । किं वा, तीर्थादि-सेवनां पश्चात् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ते महा—भागवता ऋषयो भू-मण्डले पुरुष-पुण्य-तीर्थ-सदनानि महा—पुण्य-हेतु-तीर्थ-रूपाणि सदनान्य् आश्रमान् अर्थात् महा—पुण्यार्थिनो दधति, पोषणार्थोऽत्र धा धातुः, पुष्णाति दुष्ट-जन-सङ्ग-मालिन्य-निरासेन संवर्धयन्तीत्य् अर्थः । पोषणे सामर्थ्यम् आहुः—भवत्-पदाम्बुज-हृदः । तीर्थीकुर्वन्ति तीर्थानि स्वान्तः-स्थेन गदा-भृता [भा।पु। १.१३.१०] इत्य् उक्तेः । अत एवाघभिद् अङ्घ्रि-जलाः, विमदाः सर्वाभिमान-शून्याः ।
यद् वा, भुवि पुरु-पुण्य-तीर्थ-सदनानि दधति धारयन्ति कुर्वन्तीत्य् अर्थः । ऋषि-जुष्ट-जलादीनाम् एव तीर्थत्वात् । ये च सकृद् अपि त्वयि मनो दधति, तेऽपि पुरुषाणां सारं शान्ति-ज्ञानादिकं हरन्तीति पुरुष-सार-हराः । ते च ते आवसथाश् च नृप-धनि-प्रभृतीनाम् आलयास् तन् नोपासते, तत्र न गच्छन्तीत्य् अर्थः । किम् उत भवत्-पदाम्बुज-हृदः ।
यद् वा, पुरुष-सार ! हे पुरुषोत्तम ! हरावसथान् रुद्रस्याप्य् आलयान् न सेवन्ते, रुद्र-मन्दिर-सेवां न कुर्वन्तीत्य् अर्थः, किम् उत प्राकृत-दैवत-नृपादीनाम् ।
ननु श्री-रुद्रेण श्री-विष्णोर् भेदे कृते शास्त्रे दोषः श्रूयते । तथा च पुराण-वचनम्—
यो विष्णुः स वै रुद्रः स हरि यस् तु रुद्रकः ।
भेद-कृत् नरकं याति यावद् आहूत-सम्प्लवम् ॥ इत्य् आदि बहुलम् ।
न कृते भेदे गुणश् च । तथा तत्रैव—
त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् ।
सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ [भा।पु ४.७.५४] इति ।
सत्यम्, तौ गुण-दोषौ त्रैगुण्य-धर्म-निष्ठतया वैष्णव-दीक्षा-रहितेषु साम्येनैव देव-त्रयं जानत्सु वैदिकेषु स्मार्तादिषु च विज्ञेयौ, न तु परम-भागवतेष्व् एकान्तिषु । तथा च पद्म-पुराणादिषु—
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेत् सदा ॥ इत्य् आदीनि बहूनि वचनानि ।
एतद् एवाष्टाशीतितमाध्याये वृकासुरोपाख्याने सारस्वत-मुन्य् उपाख्याने च श्री-विष्णोः सर्वातिशायि-महिमा-निरूपणात् स्फुटीभविष्यति । श्री-विष्णु-धर्मोत्तरे च लिङ्ग-स्फोट-नृसिंहोपाख्यानम् एवात्र प्रमाणम् । तथा हि विष्वक्सेन-नामानम् एकान्तिनं प्रति ग्रामाध्यक्ष-पुत्र-वचनम्—
देव-कर्मणा शक्तिर् मे तात पूजय शङ्करम् ।
देवतायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥
लिङ्गम् अस्ति सुरेशस्य महादेवस्य निर्मलम् ॥
एतद् उक्तः प्रत्युवाच वयम् एकान्तिनः श्रुताः ।
चतुरात्मा हरिः पूज्यः प्रादुर्भावं गतोऽथवा ।
पूजयामश् च निवान्यं तस्मात् त्वं गच्छ मा चिरम् ॥ इत्य् आदि ।
ततो ग्रामाध्यक्ष-पुत्रे तस्य विष्वक्सेनस्य शिरश् छेत्तुम् उद्यते लिङ्गं स्फोटयित्वा निर्गतेन श्री-नृसिंहेन सपरिवारस्य ग्रामाध्यक्ष-पुत्रस्य शिरांसि छिन्नानीति, किन्तु वैष्णवानां यथा शम्भुः [भा।पु। १२.१३.१६] इत्य् अत्रैवोक्तत्वाद् अस्मिन्न् एकान्तिभिर् अपि प्रमाणादिभिर् आदरः कर्तव्यः, निन्दा तु सर्वथा परिहर्तव्या ।
यो मां समर्चयेन् नित्यम् एकान्तं भावम् आश्रितः ।
विनिन्दन् देवम् ईशानं स याति नरकं ध्रुवम् ॥ इत्य् आदि-पुराण-वचनेभ्य इति ॥
अज्ञा दुःम् एव लभन्त इत्य् उक्तम्, त्वद्-भक्तास् तु त्वन्-नित्य-प्रियास्पदं परम-प्रेम-वर्धनं माथुर-मण्डलम् एव सेवन्त इत्य् आहुः—भुवीति । भूविषये पुरु-पुण्यानि तीर्थानि विश्रान्त्य् आदीनि, सदनानि च श्री-कृष्ण-जन्म-गृहादीनि । यद् वा, पुरु सर्वतो\ऽधिकं भवद्-भजन-लक्षणं पुण्यं यस्मात्-तत् पुरु-पुण्यं तच् च तत्-तीर्थं च मथुराख्यम् । तथा च पाये
अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरेर् भक्तिर् र्मथुरायां तु लभ्यते ॥ इति ।
तत्र सदनान्याश्रमान्, ते प्रसिद्धा ऋषयः श्रीनारदादयः उत भवत्-पदाम्बद-हृदः सदा हृदि भवत्-पाद-पद्म-मन-भवन्तो\ऽपि उपासते, इत्य् उत्तरेणान्वयः । इति श्री-मथुराया माधुरी दर्शिता । तथा च माथुर-खण्डे नारद-वाक्यम्—
तस्मिन् वृन्दावने पुण्यं [रम्यं [ख] । श्री-गोविन्द-निकेतनम् । तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ॥ इति ।
किं वा पुरु-पुण्याः कृत-पुण्य-पुञ्जा महा-भाग्यवन्तः श्री-नन्द-व्रजौकसो गोपादयः । तथा चात्रैवोक्तम् सार्द्धं विजहः कृत-पुण्य-पुञ्जाः [भा।पु १०.१२.११] इति । किं वर्ण्यते दिष्टम् अहो व्रजौकसाम् (भा।पु १०.१२.१२] इत्य् आदि । तेषां तीर्थानि गोकुल-जल-पानार्थं श्री-यमुना-घट्टान्, सदनानि च श्री-व्रजेन्द्र-गृहादीनि, यतः भवतः पदं स्थानं मथुराख्यम्, तद् एव मण्डलाकारतया सकल-तापहरत्वादिना च पद्म-सादृश्यादम्बुजम्, मथुरा-मण्डलस्य पद्माकरत्वेन शास्त्रे कथितत्वात्, तस्मित् हृद्-भावो येषां ते । कथम्-भूताः? अघभिद् अङ्घ्रिजलाः, अघभिदस् तवाछ्योर्जलं येषु ते, सदा त्वत्-पाद-तीर्थधारिण इत्य् अर्थः । अत एव विमदाः सर्व-प्रकारकमदशून्याः, तादृशानां तु नेदं चित्रम्, किन्तु त्वयि श्री-व्रजेन्द्र-नन्दने ये सकृद् अपि मनो दधति । कथम्-भूते? आत्मनि नित्य-सुखे मनोधायक-रूपे स्वस्मिन् विषये । नित्य-सुखे इति व्यधिकरणे सप्तम्यौ, स्वात्मानं प्रति स्मृति-मात्रेण नित्य-परमानन्द-प्रदे । ते\ऽपि पाद्य-कार्तिक-माहात्म्योक्ताः सत्य-व्रतादयः, पुरुष-सार-हरानावसथानोपासते, किन्तु श्री-वृन्दावनम् एव । ये त्वय्य् अभक्ता याज्ञिक-द्विजादयस्त एव गृहसक्ता इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवान्याः सद् आचारेण दृढयन्ति—भुवीति । ये ऋषयः सर्व-वेदार्थ-तत्-त्वं जानन्तः त्वयि सकृद् अपि मनो दधति ते पुनः स्वजनादिमयान् पुरुष-सार-हरावसथान् नोपासते । तेषु न रमन्ते कीदृशे त्वयि आत्मनि परमात्मै, अत एव निरुपाधि-परम-प्रेमास्पदत्वान् नित्य-सुखे निरवधि-सुख-स्वरूपे ।
कथं-भूताः सन्तः ? भवत्-पदाम्बुज-हृदः, तद् अवधानवच् छिन्न-तत्-स्फूर्तयः सन्तः ततः अघ-भिद् अङ्घ्रि-जलाः सन्तः । ततः स्वयम् एव भुवि पुरु-पुण्य-तीर्थ-सदनानि सन्तः । उत अपि । तथापि विमदा विगत-गर्वाः सन्त इति ।
यद् वा, तादृशा अपि विगत-गर्वाः सन्तः, तादृशावसथान् नोपासते । तत्-सम्बन्धेनैतेऽपि त्ईर्थत्वम् आपन्ना इति तत्रैव न तिष्ठन्ति, किन्तु भुवि वर्तमानानि पुरु-पुण्य-तीर्थ-सदनान्य् एवोपासते इति उभयथापि तीर्थ-पादत्वात् तवेति भावः । एवं तीर्थ-महिम-श्रुतेर् अपि सन्-महिम-प्रतिपादकेषु पर्यवसाययन्ति श्रुतयश् च ।
भिद्यन्ते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [महो।उ ४.८२]
नमः परम्र्षिभ्यो नमः परमर्थिब्यः ॥ इत्य् आदि ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवान्याः सदाचारेण दृढयन्ति—भुवि पुरु-पुण्येति । [एवं तीर्थ-महिम-पर-श्रुतीर् अपि सन्-महिम-प्रतिपादकेषु स्वेषु पर्यवसाययन्ति । श्रुतयश् च—]{।मर्क्}
[भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।]{।मर्क्}
[क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मु।उ। २.२.९]]{।मर्क्}
[नमः परमर्षिभ्यः, नमः परमर्षिभ्यः [मु।उ। ३.२.११] इत्य् आद्याः]{।मर्क्} ॥३५॥ अतिरिक्तः पठः
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : गुरवश् च द्वेधा भवन्ति—दीक्षा-गुरवः शिक्षा-गुरवश् च । आद्यास् तु, मद् अभिज्ञं गुरुं [भा।पु। ११.१०.५] इत्य् आदिना वक्ष्यमाणाः । द्वितीये तु भागवतास् तेषाम् उपासनैव प्रथमं कार्येति सद् आचारं दर्शयन्ति—भुवि पुर्व् इत्य् आदि । ऋषयोऽपि विमदाः सन्तः पुरु-पुण्य-तीर्थ-सदनानि क्षेत्राणि उपासते, सन्तु तावत् प्रवृत्त-मात्राः पुरु-पुण्याः । भगवद्-भक्तास् त एव तीर्थानि गुरवः तेषां सदनानि, तीर्थं त्व् ऋषि-जुष्ट-जले गुरौ इत्य् अनुशासने ।
यद् वा, पुरूणि पुण्यानि तीर्थानि सदनानि क्षेत्राणि । यद् वा, पुरु-पुण्य-तीर्थानां सदनं गतिर् येषु तानि वृन्दावन-मथुरा-द्वारकाख्यानि, तेषु तेषु महा—भागवताः प्रायशः सन्तीति तान्य् उपास्यानीत्य् अर्थः । ते प्रसिद्धा अपि । उत-शब्दोऽप्य् अर्थः ।
ते के ? इत्य् आहुः—ये भवत्-पदाम्बुज-सुहृदः । षष्ठ-तत्पुरुषो बहुव्रीहिर् वा । अघ-भिद् अङ्घ्रि-जलं येषाम्, एवं-भूतास् त्वयि मनो दधति । अथवा ये त्वयि सकृद् अपि एक-वारम् अपि मनो दधति, ते अघ-भिद् अङ्घ्रि-जलाः ।
त्वयि कीदृशे ? आत्मनि परम-सुहृदि नित्य-सुखे नित्यं सुखं यस्मात् । तेन पुनः पुरुष-सार-हरावसथान् हित्वा पुरु-पुण्य-तीर्थ-सदनानि नोपासते । नोपासत द्विर् आवर्तनीयम्
अथवा सकृद् अपि ये त्वयि मनो दधति, ते पुरुष-सार-हरान् गृहान् नोपासते, किं पुनर् भगवत्-पदाम्बुज-सुहृदोऽघ-भिद् अङ्घ्रि-जलाः । ते तु पुरु-पुण्य-तीर्थानि, तानि तत्-स्वरूपाणि, यत ऋषय ऋषिर् इति ख्याताः । अन्ये तु ऋषयो न भवन्ति ।
विमदा विगतो मदो येभ्यः, यद्-दर्शनाद् अन्येषाम् अपि मदो यातीति भावः ॥३५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव स्वजन-सुतात्म-दार-गृहांस् त्यक्त्वा साधवो भजनानुकूलेषु तीर्थेषु वसन्तीत्य् आहुः—भुवि पुरु-पुण्यानि तीर्थानि गङ्गादीनि सदनानि वृन्दावनादि-क्षेत्राणि भगवद्-धामानि ऋषयो भक्ता अधिवसन्तीति शेषः । विमदा विगत-गर्वाः । उत यतस् ततः । भवत्-पदाम्बुद-हृदः मनस्इ त्वत्-पदाम्बुजं दधानाः । अत एवाघं भिन्दन्ति अङ्घ्रि-जलानि येषां, ते तादृशाः कदापि स्वजन-सुतात्म-दार-गृहान् नोपासते इति किं वक्तव्यम् ? ये जनाः सकृद् अपि त्वयि नित्य-सुख-मय-स्वरूपे मनो दधति, तेऽपि पुनः पुरुषाणां सारं विवेक-धैर्य-क्षान्त्यादिकं हरन्तीति तथा-भूतान् आवसथान् गृहान् नोपासते । अत्र श्रुतयः—
सकाम्या मेरोः शृङ्गे यथा सप्त-पूर्यो भवन्ति, तथा निष्काम्याः सकाम्या भू-गोल-चक्रे सप्त-पूर्यो भवन्ति । तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरीति ॥
मथुरायां स्थितिर् ब्रह्मन् सर्व-दा मे भविष्यति । [गो।ता।उ। २.३८]
चित्-स्वरूपं परं ज्योतिः स्वरूपं रूप-वर्जितम् ।
हृदि मां संस्मरन् ब्रह्मन् मत्-पदं याति निश्चितम् ॥ [गो।ता।उ। २.३९]
इति गोपाल-तापिन्याम् ॥३५॥
॥ १०.८७.३६ ॥
सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं
व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् ।
व्यवहृतये विकल्प इषितोऽन्ध-परम्परया
भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु, आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतद् अर्थानाम्133, तद्-भूतानां क्रियार्थेन समाम्नायः134 [जै।सू। १.१.२५] इति तत्र तत्र जैमिनिना वेदस्य क्रिया-परत्वाभिधानाद् उपनिषदाम् अपि तद् एव युक्तम्, यथोक्तं तन्त्र-वार्तिक-कृता, एतेन क्रत्व् अर्थ-कर्तृ-प्रतिपादनेनोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् इति न, एकम् एवाद्वितीयं ब्रह्म [छा।उ। ६.२.१], विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८], अचक्षुर् अश्रोत्रम् [बृ।आ।उ। ३.८.८] इत्य् एवं तद्-विपरीतात्म-प्रतिपादनात्। न ह्य् अद्वितीय-परमानन्द-रूपस्य कर्माङ्गत्वं युज्यते । अननुमतं चैतद् वार्तिक-कृतः । कथम् ?
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।
पराङ्गं चात्म-विज्ञानाद् अन्यत्रेत्य् अवधार्यताम् ॥135 इति तेनैवोक्तत्वात् ।
एतद् अर्थम् एव मननाय मुनयः पर्यटन्तीत्य् उक्तम् । तत्र तावद् वैतस्य सत्यत्वे भवेद् अप्य् एवं तद् एव तु न सम्भवतीति प्रश्नोत्तराभ्यां मननेन तत्त्वावधारण-प्रकारम् आह—सत इदम् उत्थितं सद् इति चेद् इति । इदं136 विश्वं धर्मि । सद् इति साध्यो धर्मः । सत उत्पन्नत्वाद् धेतुः । यद् यत उत्पन्नं तत्-तद् आत्मकम् एव दृष्टम् । यथा कनकाद् उत्पन्नं कुण्डलादि तद् आत्मकं तद्वद् इति । तत्र यदि सद् अभेदः साध्यते तदापादानत्व-निर्देशेनैव भेद-प्रतीतेर् विरुद्धो हेतुर् इत्य् आह—ननु तर्क-हतम् इति ।
ननु नाभेदं साधयामः, किन्तु तद् उत्पन्नत्वेन कुण्डलादिवद् भेदं प्रतिषेधयामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन दूषयति—व्यभिचरति क्व च इति । पितृ-पुत्रादिषु मुद्गर-घट-प्रध्वंसादिषु च तथा दर्शनाद् इति भावः ।
ननु तद् उत्पन्नत्वं नाम तद् उपादानत्वं, न तु तन्-निमित्तत्वम् अतो नानैकान्तिकत्वम् इत्य् आशङ्क्य दूषयति—क्व च मृषा इति । गुणोपादानस्यापि फणिनो न गुणत्वं, किन्तु मिथ्यात्वम् । अन्यथा कुण्डलादिवद् अबाध-प्रसङ्गात् । अतः पुनर् अप्य् अनैकान्तिकत्वम् एवेति भावः ।
ननु न तत्र केवलं गुण-मात्रं फणिन उपादानं, किन्त्व् अविद्या-युक्तम् । तथा-भूतस्यावस्तुत्वाद् युक्तं, फणिनो मिथ्यात्वम् इत्य् आशङ्क्य तत्-तुल्य-मत्रापीति दूषयति—न तथोभय-युग् इति । अयम् अर्थः—अत्राप्य् अविद्या-युक्तस्यैव सत उपादानत्वम् । एवं-भूतस्य च न वस्तु-सत्त्वम् । अतः सद् उपादानत्वम् असिद्धम् इति न वस्तु-सत्त्वं प्रपञ्चस्येति ।
ननु मा भूद् अनेन हेतुना प्रपञ्चस्य सत्त्वं, हेत्व् अन्तरेण तु साधयामः । तथा हि, सद् इदम् अर्थ-क्रिया-कारित्वात्137 । न यद् एवं न तद् एवं, यथा शुक्ति-रजतम् इति तत्राह—व्यवहृतये विकल्प इषित इति । व्यवहारायार्थ-क्रियार्थं विकल्पो भ्रम इषित इष्ट एव, कूट-कार्षापणादिनापि क्वचिद् व्यवहार-दर्शनात् ।
नन्व् एकत्र सतोऽन्यत्रारोपो भ्रमः प्रसिद्धोऽत्यन्तासत्त्वे कथं प्रपञ्चो भ्रमः स्यात्, सत्त्वे वा नाद्वैत-सिद्धिः ? उक्तं च भट्टैः—
अध्यस्यते ख-पुष्पत्वम् असत् कथम् अवस्तुनि ।
प्रज्ञात-गुण-सत्ताकमध्यारोप्येत वा न वा ॥ इति ।
नेत्य् आह—अन्ध-परम्परयेति । अन्ध-परम्परया यो विकल्प इत्य् अन्वयः । अयं भवः—संस्कार-जन्यो भ्रमः संस्कार-सिद्धये पूर्व-प्रतीति-मात्रम् अपेक्षते, न वस्तु-सत्त्वम्। प्रतीतौ138 सत्यां वस्तु-सत्त्वाभावेन ब्रह्म-व्यतिरेकादर्शनात् । अतोऽनादित्वात् पूर्व-पूर्व-भ्रम-दृष्टस्योत्तरोत्तर आरोपो भविष्यति । अन्ध-परम्परा-न्यायेन139 व्यवहारः सेत्स्यतीत्य् अप्रयोजको हेतुर् इति
ननु अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति, अपाम सोमम् अमृता अभूम [ऋक् ८.४८.३] इत्य् आदिभिः कर्म-फलस्य नित्यत्व-प्रतिपादनाद् असत्त्वं न घटते, न हि नित्यं वस्त्व् असद् भवति, तस्माद् वेद-प्रतिपादितत्वाद् द्वैतं सद् एवेत्य् आशङ्क्याह—भ्रमयतीति । हे भगवन् ! ते भारती वेद-लक्षणा उरु-वृत्तिभिर् बह्वीभिर् गौण-लक्षणादि-वृत्तिभिर् उक्थ-जडान् कर्म-श्रद्धा-भराक्रान्त-मन्द-मतीन् भ्रामयति मोहयति ।
अयं भावः—न हि वेदः कर्म-फलं नित्यम् अभिप्र इति किन्तु लक्षणया प्राशस्त्य-मात्रम्, विध्य् एक-वक्यत्वात् । अन्यथा वाक्य-भेद-प्रसङ्गात् । तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते इति न्यायोपबृंहित-श्रुत्य् अन्तर-विरोधाच् च। अतः कर्म-जडान्आम् इदं भ्रम-मात्रम् इति । एतेनैव तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आदीनाम् अप्य् अन्य-परत्वं दर्शितः भवति ।
उद्भूतं भवतः सतोऽपि भुवनं सन् नैव सर्पः स्रजः140
कुर्वत् कार्यम् अपीह कूट-कनकं141 वेदोऽपि नैवं परः142 ।
अद्वैतं तव सत् परं तु परमानन्दं पदं तन् मुदा
वन्दे सुन्दरम् इन्दिरा-नुत हरे मा मुञ्च माम् आनतम् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मीमांसका हि कर्मण एव स्वर्गादि-रूप-पुरुषार्थ-हेतुत्वं निश्चित्य सर्वस्य देहस्य क्रिया-परत्वं यज्ञादि-कर्तुर् यजमानस्य कर्माङ्गस्य स्तावकत्वेनोपनिषआम् अपि क्रिया-परत्वं वर्ण्यन्तिईति तन्-मताभिप्रायेणाक्षिपति—नन्व् इति ।
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतद् अर्थानां [जै।सू। १.२.१], तस्माद् अनित्यम् उच्यते इति पूर्व-पक्ष-सूत्रम् । अस्यार्थः चोदना-लक्षणोऽर्थो धर्मः इत्य् उपक्रमात्, तस्य ज्ञानम् उपदेशः [जै।सू। १.१.५] इति मध्ये परामर्शात् । तद्-भूतानां क्रियार्थेन समाम्नायः [जै।सू। १.१.२५] इत्य् उपसंहाराच् चाम्नायस्य क्रियार्थत्वम् अवगतम् ।
ततश् चायम् अर्थः—आम्नायस्य वेदस्य क्रियार्थत्वात् यज्ञादि-क्रिया-परत्वात् अतद् अर्थानाम् अक्रियार्थानां वेदानाम् आनर्थक्यम् अनर्थता ।
सोऽरोदीत् तद् रुद्रस्य रुद्रत्वं प्रजापतिर् आत्मनो वपाम् उदखिदद् देवा वै देव-यजनम् अध्यवसाय दिशो न प्राजानन् ।
इत्य् एवम् आदीनाम् आनर्थक्यं धर्माधर्म-रूपार्थ-प्रतिपादकत्व-राहित्यम् । तस्माद् एवं जातीयकं वाक्य-जातम् अनित्यम् उच्यतेऽनित्यम् इव न पुनर् अनित्यम् एव अपौरुषेयत्वेन तन्-निरासात् । एवम् आदि-वाक्यानाम् अक्रियार्थत्वं तु रोदन-वपोत्खात-दिग् अज्ञानादि-रूप-सिद्धार्थ-बोधकत्वेनेति बोद्धव्यम्
अथ सिद्धान्त-सूत्रम् आह तद्-भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्-निमित्तत्वात् [जै।सू। १.१.२५] इति सूत्रम् ।
अस्यार्थः—तेषु पदार्थेषु रोदन-वपोत्खात-दिग् अज्ञानादिषु भूतानां वर्तमानानां पदानां सोऽरोदीत् इत्य् आदीनां क्रियार्थेन पदेन यजेतेत्यादिना समाम्नायः समुच्चारणं सम्बन्ध इत्य् अर्थः । कुतः ? अर्थस्य पदार्थस्य तन्-निमित्तत्वात् तस्य वाक्यार्थ-प्रत्ययस्य निमित्तत्वात् पदानि तावत् स्वार्थानभिदधति पश्चात् ते पदार्था आकाङ्क्षायोग्यता-सन्निधिमत्त्वाद् वाक्यार्थम् अवगमयन्ति । अत आकाङ्क्षादि-महिम्ना रोदनादि-वाक्यानां कथञ्चिद् विध्य् एक-वाक्यता कल्पनीयेति तस्माद् यथा-शक्ति आवेशेन क्रिया कर्तव्येत्य् अर्थः ।
कल्प्यते इत्य् आदि-सूत्रैर् मीमांसायां तत्र तत्र जैमिनिना वेदस्य क्रिया-परस्याभिधानाद् उपनिषदाम् अपि क्रिया-परत्वम् एव युक्तं, यथोक्तम् इति क्रत्व् अर्थः यज्ञाङ्ग-भूतो यः कर्ता यजमानस् तस्य प्रतिपादनं तत्-त्वम् असीत्यादि-वाक्यैर् ईश्वराभेदेन स्तुत्यत्वेन निरूपणम् । एतेनोपनिषआं नैराकाङ्क्ष्यं सार्थकत्वं ब्रह्म-प्रतिपादन-रूपं प्रत्याख्यातम् अपास्तम् । उपनिषद्भिर् यजमानः स्तूयते, न तु निर्विशेषं ब्रह्म प्रतिपाद्यत इति भावः । तद् एवं वेदस्य क्रिया-परत्वाभिधानम् उपनिषदां नैराकाङ्क्ष्यम् ईश्वरस्य कर्माङ्गत्वं न भवतीत्य् आह—नेति । एकम् एवाद्वितीयम् इत्य् आदि-श्रुतिभिस् तद् उक्ताद् विपरीतस्यात्मनः प्रतिपादनात् न ह्य् अद्वितीय-परमानन्द-रूपात्मनः कर्माङ्गत्वं युज्यते । अतो न भवति कर्तुः स्तुतिर् इयम् इत्य् अर्थः । कथा तर्हि वार्तिक-कृता तथा व्याख्यातम् ?
सत्यं, एतद् व्याख्यानं तस्य वार्तिक-कृतोऽप्य् अननुमतम् असम्मतम् अस्ति । कथा ? इति चेद् आह—सर्व-त्रेति । असांसर्यात्म-ज्ञानं विना हि सर्वत्र विज्ञानं यत् किञ्चिद् विध-ज्ञान-जातं संस्कारत्वेन गम्यते ज्ञायते परेषां कर्मणाम् अङ्गं पराङ्गं ज्ञानं च प्राक्-कृतस्यानुप्रवर्तकः संस्कारः जात-मात्रस्य स्तन-पानादि-ज्ञानं संस्कार-वाशाद् एव जायते, औपनिषदं परमात्म-ज्ञानं तु गुरूपदेशं विना न भवतीति तात्पर्यम् ।
तेनैव वार्तिक-कृतैव एतद् अर्थम् एवात्म-ज्ञानार्थम् एव पूर्वोक्त-श्रुति-समूह-विरोध-निवृत्त्य् अर्थं मननस्योपयोगोऽस्तीत्य् उक्तम् एतद् अर्थं मननायेति । तत्र तावत् तव मतेऽपि द्वैतस्य स्वर्गादि-विश्वस्य सत्यत्वे भवेद् एवं, उपनिषदां यजमान-स्तुति-परत्वं स्यात् ।
तद् एव उपनिषदां यजमान-स्तुति-परत्वम् एव न सम्भवतीति प्रश्नोत्तराभ्याम् मननेन विचारेण तत्त्वावधारणस्य परमार्थ-निश् चयस्य प्रकारं रीतिम् आह—सत इति ।
धर्मि-पक्षः सतः परमेश्वरात् इदम् अनुमानं मीमांसकानां तत्र तस्मिन् सद् अभेदः साध्यते चेत्, तदा दोषम् आह वेदान्ती—तर्क-हतम् इति ।
भेद-साधकेन हेतुनाभेद-साधनं युक्ति-विरुद्धं हेतौ सत इति पञ्चम्या अपादानार्थकाया भेद-प्रतीतेर् विरुद्धो हेतुर् इत्य् अर्थः । साध्याभाव-व्याप्तो हेतुर् विरुद्धः । यथा, शब्दो नित्यः कृतकत्वाद् इत्य् अत्र कृतकत्व-हेतुः साध्याभावेनानित्यत्वेन व्याप्तस् तथात्रापि सत उत्पन्नत्व-रूपो हेतुर् अभेद-रूप-साध्यस्याभावेन भेदेन व्याप्तः । वृक्षात् पत्रं पततीत्य् आदाव् इव यत्रापादान-निर्देशस् तत्र भेद इति नियमात्, न ।
नन्व् अत्राभेदं पुनर् भङ्ग्य् अन्तरेणाक्षिपति—नन्व् इति । साधयामः, किन्तु तद् उत्पन्नत्वेन कुण्डलादिवद् भेदं प्रतिषेधयामः । तद्-भेद-निषेधे च जगति सत्यत्वम् एव सिद्ध्येत्, एवं चापादान-निर्देशेन जातापि भेद-प्रतीतिर् न भेद-निषेधस्य विरोधिनी, यथा कनकात् कुण्डलम् उत्पन्नम् इति पञ्चम्या जातापि भेद-प्रतीति-कारण-कार्ययोः कनक-कुण्डलयोः सुवर्णत्वेन भेद-निषेध-साधने विरुद्धा न, तथा सत उत्पन्नत्वाद् इत्य् अपादान-पञ्चम्या जातापि भेद-प्रतीतिर् ब्रह्म-जगतोः सत्यत्वेन भेद-निषेध-साधने विरुद्धा नेति ।
तथा चेदम् अनुमानं विश्वं सद् भिन्नं न सत उत्पन्नत्वात्, यद् यद् उत्पन्नं तत् ततो भिन्नं न, यथा कनकाद् उत्पन्नं कुण्डलं कनकान् न भिन्नम् । अत्र हेतोः साध्याभाव-व्याप्तत्वाभावान् न विरुद्धो हेतुर् इत्य् अभिप्रेत्याहुः स्वामि-चरणाः—तत्राभेद एवेति ।
तत्र भेद-निषेधे अनैकान्तिकत्वेन व्यभिचरित्वेनेति व्यभिचरति—क्व चेति । हेतुमति साध्याभावो व्यभिचारः । यथा पर्वतो वह्निमान्ब् द्रव्यत्वाद् इत्य् अत्र जलादौ द्रव्यत्व-रूप-हेतोः सत्त्वेऽपि वह्नि-रूप-साध्यस्यासत्त्वाद् व्यभिचारः, तथात्रापि पितुर् उत्पन्ने पुत्रे मुद्गर-प्रहाराद् उत्पन्ने घट-ध्वंसे च तत उत्पन्नत्व-रूप-हेतोः सत्त्वेऽपि तद्-भेदाभाव-रूप-साध्यस्यासत्त्वाद् व्यभिचारः । पुत्रे पितृ-भेदस्याभाव-रूपे घट-ध्वंसे भाव-रूप-मुद्गर-प्रहार-भेदस्य च प्रसिद्धत्वात् । आदिना चक्र-घटादि-ग्रहः । तथादर्शनाद् भेद-दर्शनात् ।
इति भाव इति—भावाद् अभावस्याभावाद् भावस्योत्पत्ति-दर्शनान् न नियतं कार्य-कारणाभेदम् अभावाद् अप्य् अविद्या-नाशाद् भाव-रूपस्य ज्ञानस्योत्पत्तेर् इति तात्पर्यम् ।
पुनर् आक्षिपति—नन्व् इति । तद् उत्पन्नत्वं तद् उपादानकत्वं तथा चेत्थम् अनुमानं विश्वं सतो भिन्नं, न सद् उपादानकत्वात् । यद् यद् उपादानकं तत् तत् ततो न भिन्नम् इति । अतो नात्र व्यभिचारः । पुत्रे पितृ-भेदाभाव-रूपस्य घट-ध्वंसे च मुद्गर-भेदाभाव-रूपस्य साध्यस्यासत्त्वे तद् उपादानकत्व-रूप-हेतोर् अप्य् असत्त्वात् । न हि पुत्रस्य पिता घट-ध्वंसस्य मुद्गरो वोपादान-कारणं, किन्तु पिता मुद्गरश् च ।
तत्र निमित्त-कारणम् एव पुत्रोत्पादनं वीर्यं, घट-ध्वंसोपादानं कपालादीत्य् आशङ्क्याह—क्व च मृषा इति । क्वचिद् उपादान-कार्यं मिथ्य भवतीत्य् अर्थः । तथा च रज्जूपादानके सर्पे पुनर् अपि व्यभिचारः । अत्र सर्पे रज्जूपादानकत्व-रूप-हेतोः सत्त्वेऽपि रज्जोर् भिन्ने सर्पे रज्जु-भेदाभाव-रूप-साध्यस्यासत्त्वात् । रज्जोर् व्यावहारिक-सत्यत्वात् सर्पस्य च प्रातीतिकत्वात् तत्र सर्पो रज्जुतो भेदो निराबाध एव । अन्यथा रज्जु-ज्ञाने जाते सर्पस्य बोधो न स्यात्
ननु सन्-मात्रोपादानकत्वं हेतुः—तथा च विश्वं सतो भिन्नं न सन्-मात्रोपादानकत्वात् यत् तन्-मात्रोपादानकं तत् ततो न भिन्नम् इत्य् अनुमानम् । तथा च न रज्जु-सर्पे व्यभिचारः । रज्जु-भेदाभावस् तद् असाध्याभाववति मिथ्या-भूते रज्जु-सर्पेऽज्ञान-युक्त-रज्जूत्पादके रज्जु-मात्रोपादानकत्व-रूप-हेतोर् अभावाद् इत्य् आशङ्क्य तत्-तुल्यम् अत्रापीत्य् आह—न तथेति ।
उभाभ्याम् सद् अविद्याभ्याम् उभय-युक् उभय-युग् अपीदं जगन् न तथा सद् इत्य् अर्थः । अविद्या-संवलितस्यैव ब्रह्मणो जगद् उपादानत्वम् न सन्-मात्रस्येति । सन्-मात्रोपादानकत्व-रूपो हेतुर् विश्वस्मिन् पक्षे नास्तीति स्वरूपासिद्धो हेतुः, पक्षे हेत्व् अभावः स्वरूपासिद्धः । एवं च रज्जु-सर्पादेर् इव विश्वस्यापि कल्पनम् अध्यास-मूलकम् एव । अध्यस्तस्य च मिथ्यात्वाद् विश्वं मिथ्यात्वाद् विश्वं मिथ्यैवेति सिद्धम् । अयम् एवार्थोऽयम् अर्थ इत्य् आरभ्य न वस्तु-सत्त्वं प्रपञ्चस्येत्य् अन्तेनोक्तं स्वामि-चरणैः ।
पुनर् अत्राशङ्कते-नन्व् इत्य् आदिना । अनेन हेतुना सत उत्पन्नत्वाद् इत्य् अनेन हेतुना हेत्वन्तरेणान्य-हेतुना । तथा हि-विश्वं सत्, अर्थक्रिया-कारित्वात् । न यदेवं न तद् एवम् यथा शुक्ति-रजतम् इत्य् अनुमानेन विश्वसत्यत्वं साधयाम इत्याशङ्क्यात्रापि व्यभिचारम् आह—व्यवहृतये\ऽर्थ-क्रियार्थं विकल्पो भ्रम इषित इष्ट एव कूटकार्षापणादिनेति । मिथ्या-भूत-कृत्रिम-रजत-सुवर्णादेर् अप्य् अर्थ-क्रियाकारित्वात्, आदिना मिथ्या-गजागमने सत्यस्य भयाङ्ग-कम्पादेः स्वप्नाङ्गम् असङ्गम् असर्पादिनासत्येन सुख-भयादेर् विशुभाशुभस्य च ग्रहणम्, एवं चात्र सर्वत्र मिथ्या-भूते सत्य-स्वरूप-साध्यस्यानधिकरणे\ऽर्थ-क्रिया-कारित्व-रूप-हेतोः सत्त्वाद्-व्यभिचार इत्य् आशयः । पुनर् अत्राक्षिपति-नन्व् इति । एकत्र सत्यत्वेन प्रमाविषयीभूतस्यान्यत्रारोपो भ्रमः । यथा-हट्ट-पत्तनादौ बिलादौ च सत्यत्वेन प्रमाविषयीभूतस्य रजत-सर्पादेर् अन्यत्र शुक्ति-रज्ज्वादाव् आरोपो भ्रमः स चात्र न सङ्गच्छते ब्रह्मणो\ऽन्यत्राधिष्ठाने प्रपञ्चस्य सत्त्वे तव द्वैतापत्तिः असत्त्वे च क्वाप्य् अदृष्टत्वेनाकाश-पुष्प-तुल्यस्य विश्वस्य ब्रह्मणि कथम् आरोपः तस्माद्-विश्वं सत्यम् एव न तु मिथ्येत्य् अभिप्रेत्यैवोक्तं भट्टैर् मीमांसकैः ख-पुष्पत्वम् असत् अवस्तु तस्मिन् कथम् अध्यस्यते\ऽध्यासः क्रियते सुगन्धादेः प्रज्ञाता गुण-सत्ता यस्य रजतादेस् तत्-प्रज्ञात-गुण-सत्ताकं शुक्त्यादाव् अप्य् आरोप्येत भ्रमादि स्याच्-चेत्-तद् अभावेनाध्य् आरोपो भवतीत्य् अर्थः ।
तथा च विश्वस्मिन्-पक्षे सत्यत्व-रूप-साध्यवत्येव् आर्थ-क्रिया-कारित्व-रूप-हेतुर् अस्तीति न व्यभिचार इत्य् आशङ्क्य व्यभिचारताद् अवस्थ्यम् एव वदन् हेतोः साध्या-साधकत्व-रूपम् अप्रयोजकत्वम् अप्य् आह अन्धेति । अन्ध**-परम्परया** विकल्प इत्य् अन्वयः ।
अथाशयम् आह—अयम्-भाव इति-संस्कार-जन्यो भ्रमः स्वजनक-संस्कार-सिद्धये पूर्व-कालिकं ज्ञा-नमात्रम् अपेक्षते न तु यथार्थ-ज्ञानं विषय-सत्यत्वं वा भ्रान्ति-ज्ञानेनापि संस्कार-सिद्धेः, तादृश-संस्कार-मात्रेण चोत्तरत्र भ्रम-सिद्धिः । यथा-यक्ष-शून्ये एव वटे ततो\ऽन्यत्र तत्-प्रमायाम-जातायाम् अपि इह वटे यक्षो दृष्ट इति केनचिद् अन्धेनान्ध उपदिष्टस् तेनान्यस् तेनान्य इत्य् अन्ध-परम्परा-भ्रम-सिद्धस्य मिथ्यारोपितस्यापि यक्षस्य मूर्च्छा-मरणाद्य् अर्थ-क्रिया-कारित्वं दृष्टम् एव तत्र, तथात्रापि । एवं च विश्वस्मिन्-पक्षे सत्यत्व-रूप-साध्या-साधकतयार्थ-क्रिया-कारित्व-रूपो हेतुर् अप्रयोजकः, पक्षे हेतुर् अस्तु साध्यं मास्त्व् इत्य् उक्ते\ऽनुकूल-तर्काभावात् तथा च प्राग् उक्त-व्यभिचारो\ऽपि तद् अवस्थ एव । पुनर् आशङ्कते-ननु—
अक्षयं ह वै चातुर्मास्य-याजिनः सुकृतं भवति ।
अपाम सोमम् अमृता अभूम ॥ [ऋक् ८.४८.३]
इत्य् आदि-श्रुत्य् अनुगृहीतस्य विश्वस्मिन् यदि सत्यत्वं न स्यात्-तदा सर्वेषाम् अर्थ-क्रिया-कारित्वं न स्याद् इत्य् अनुकूल-तर्कस्य सत्त्वाद्व्-इश्वं सत्यम् एव तथा चात्र कूटकार्षापण-मिथ्या-यक्षादि-नार्थक्रिया च महा-मूढानाम् एव न तु विज्ञानाम् अपि विश्वस्मिञ्-छरावादिना जला-हरण-जल-पानाद्य् अर्थ-क्रिया तु महा-मूढानाम् इव नारददत्तात्रेय् आदीनां ज्ञानिनाम् अपि समानैव ज्ञानिनाम् अपि यद् अर्थ-क्रिया-कर्तरि तत्-सत्यम् एवेति नियमाद्-विश्वं सत्यम् एवेति हेतोर् अप्रयोजकत्वं व्यभिचारो वा नैवेत्य् आशङ्क्याह—भ्रमयतीति । हे हर! तव वेद-लक्षणा भारती उरु-वृत्तिभिर् मुख्यालक्षणा-गौण्यादि-वृत्तिभिः आदिनासां भेद-ग्रहः । उत्तिष्ठति स्वर्गादि-फलं यस्मात्-तद् उक्थं कर्म तत्र । जडान्-कर्म-श्रद्धा-भराक्रान्तमतीन् वेद-तात्पर्यान् अभिज्ञान् भ्रमयति मोहयति । अत्राशयम् आह अयम्-भाव इत्य् आदि । तथा हि प्राग् उक्तार्थ-वाद-वाक्यस्थाक्षयामृत-पदयोर् याग-प्राशस्त्ये जहल्-लक्षणा यतश्-चातुर्मास्य-यागः प्रशस्तस् तस्माच्-चातुर्मास्य-यागेनेष्टं भावयेद् इत्य् एवम् अक्षयम् इत्य् आद्य् उक्तार्थ-वादयोश् चातुर्मास्येन यजेतेति विधिनैकवाक्यत्वात् । यतो मीमांसक-मते\ऽर्थवादानां प्राशस्त्ये लक्षणा तेषां स्वार्थ-परित्यागेनैव विधिवाक्ये\ऽन्वयश् च अन्यथा वाक्य-भेद-प्रसङ्गात् । एकोद्देशेनानेक-विधानं वाक्य-भेदः । चातुर्मास्य-याग-जनित-स्वर्गादि-फलम् उद्दिश्य चातुर्मास्य-नामा यागो विधीयते, इत्य् एकं स्वर्गादि-फलस्य नित्यत्वं चेति द्वितीयम् इत्य् उभय-विधाने स्पष्टतरो वाक्य-भेदः । स च वाक्य-गतत्वान्-महा-दोषः । लक्षणा चामृतादि-पद-गतत्वाद् अल्प-दोष-रूपा । तस्माद् अक्षयामृत-पदयोः प्राशस्त्य-मात्र-लक्षणया प्रशस्त-याग-मात्रम् एव कर्म स्वर्गादि-फलोद्देशेन विधीयते इत्य् एकस्यैव विधानान् न वाक्य-भेद इत्य् अर्थः ।
ननु वेदान्त-सिद्धान्ते इन्द्रो वृत्राय वज्रम् उदयच्छत् इत्य् आद्य् अर्थवादानाम् अपि स्वार्थे प्रामाण्यम् अङ्गीकृतं तद्वद् अय्यादि-वाक्येष्व् अप्य् अस्त्व् इति चेन् न, स्वर्गादिः क्षयिष्णुः यागादि-कर्म-सम्पादितत्वात् कृष्यादि कर्म-सम्पादित-सस्यादिवद् इत्य् अनुमान-गर्भितेन तद्-यथेह कर्मचितो लोकः क्षीयते इत्य् आदि-श्रुत्य् अन्तरेण विरोधात् दृष्टान्त-दार्ष्टन्तिकयोर् उक्तार्थवादयोर् महा-वैषम्याच् च । तथा चोक्तम्—
विरोधे गुणवादः स्याद् अणुवादो\ऽधारिते ।
भूतार्थवादस् तद्-धानाद् अर्थ-वादस् त्रिधा मतः ॥
अयम् अर्थः—प्रमाणान्तर-प्रविरोधे सत्य् अर्थवादो गुण-वादः यत्राक्षयम् इति अमृता अभूम [ऋक् ८.४८.३] इत्य् आदि च कर्मजन्य-स्वर्गादेः सत्यत्वस्य तद्-यथेहेत्य् आदि-श्रुतिभिर् युक्तिभिश् च बाधितत्वात् । ऐहिकापेक्षया चिर-काल-सत्त्वपरत्वेनैव तद्-वाक्यानां निर्वाहात् । प्रमाणान्तरावगतार्थ-बोधको\ऽनुवादः यथा अग्निर् हिमस्य भेषजम् इत्य् आदि हिम-विरोधित्वस्याग्नौ प्रत्यक्षावगतत्वात् । प्रमाणान्तराविरुद्धार्थ-बोधको भूतार्थ-वादः । यथा-इन्द्रो वृत्राय वज्रम् उदयच्छत् । इत्य् आदि स्वर्गादिकं तथा च कर्म-फलं यतः प्राशस्त्य् अपरत्व-श्रुत्य् अन्तर-विरोधवतो हेतोर् इत्य् अभिप्रेत्य् आह—नित्यम् इति । कर्म-जडानां भ्रम-मात्रम् एतेन जगतो\ऽनित्यत्व-साधनेनान्य-परत्वम् अद्वैत-परत्वम् इत्य् अन्तस्य तात्पर्यम् आह तथा तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।उ। २.५.१] इत्य् आदि-श्रुतयो\ऽपि नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य् आदि-निषेधक-श्रुत्य् अपेक्षित-निषेध्य-समर्पिका ब्रह्मोपादानकत्वोक्त्या जगतो ब्रह्मण्येवोत्पत्ति-प्रलयाव् इत्य् अद्वैत-साधिका वा न तु नाना-विधद्वैत-प्रतिपादन-पराः । एवं च कूट-कार्षापणादाव् उक्त-दोषे\ऽप्य् आदिपदोपात्त-मिथ्या-भूतस्यापि स्वप्नाङ्गनादेः स्वप्नाध्याय-वाक्यैर् मूढ इव ज्ञानिन्य् अपि यावच्-छरीरं भावि-शुभाशुभ-फलोत्पादकत्वात् वीर्य-पातादि-जनकत्वाच्-चार्थ-क्रिया-कारित्वं दृश्यत एव । तथा च ज्ञानिनाम् अपि यद् अर्थ-क्रिया तत्-सत्यम् एवेति नियमो भग्न एव तस्माद् अर्थ-क्रिया-कारित्व-रूप-हेताव् अप्रयोजकत्वं व्यभिचारश् च तद् अवस्थ एवेति नानेनानुमानेन विश्वस्मिन्-पक्षे सत्यत्व-रूपं साध्यं सिद्ध्यति । प्रत्युतान् उमान-गर्भित-प्राग् उक्त-श्रुतिभिर् मिथ्यात्वम् एवेति निश्चितं विश्वस्येति सङ्क्षेपः । किञ् च कर्मिणां गतागत-प्रकारस्य श्रुत्या ।
वर्णितत्वेनानित्यत्वम् एव कर्म-फलस्य । तथा च श्रुतित—
अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति ते धूमम् अभिसम्भवन्ति । धूमाद्रात्रिं रात्रेर् अपक्षीयमाण-पक्षम् अपक्षीयमाण-पक्षाद्यान् । षण्मासान् दक्षिणादित्य एति मासेभ्यः पितृ-लोकं पितृ-लोकाच् चन्द्र-लोकं प्राप्यान्नं भवन्ति तांस् तत्रैव देवा यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्य् एवम् एतांस् तत्र भक्षयन्ति । तेषां यदा तत्-पर्यवेत्यथेमम् आकाशम् अभिनिष्पद्यन्ते आकाशाद् वायुर् वायोर् वृष्टिर् वृष्टेः पृथिवीं प्राप्यान्नं भवति एवम् एवानुपरिवर्तन्ते । [बृ।आ।उ ६.१.१६] इति ॥
स्फुटो\ऽर्थः कथ्यते—धूमम् अभिसम्भवन्ति प्रथमं धूमम् अभिमानिनीं देवतां प्राप्नुवन्ति । एवम् उत्तरोत्तरं ज्ञेयम् । अपक्षीयमाण-पक्षं कृष्ण-पक्षं यान् दक्षिणादित्य एति तान्-षण्-मासान् कर्कादिचापान्तान् इत्य् अर्थः । अन्नं देवानामन्नं तत्रस्था देवा यथा चन्द्रं चन्द्रादमृतं पिबन्ति तथा तान्-भक्षयन्ति तेभ्यः पुण्य-फलम् अन्नं भक्षयन्तीत्य् अर्थः । तेषां तत्-पुण्यं यदा पर्यवैति नाशं गच्छति तदा सोम-लोकादिममाकाशम् अभिनिष्पद्यन्ते प्राप्नुवन्ति । पृथिवीं प्राप्य मनुष्यादीनाम् अन्नं भवति, इति अन्नाद्-वीर्य-रूपेण परिणतात्-पुनर् जायन्ते इति । प्रवृति-मार्ग-परेयं श्रुतिः । स्वामिनां तु उद्भूतम् इति । सतो\ऽपि भवतः सकाशात् उद्भूतं भुवनं न सत् यथा स्रजो मालातः उद्भूतः सर्पो न सत् तद्वत् कार्य-व्यवहारं कुर्वद् अपि न सत् कूट-कनकम् इव, वेदो\ऽप्येवम्परः कर्म-फल-प्रतिपादनपरो न भवति किन्तु परमानन्दाद्वैत-पर एवेत्य् आह तवाद्वैतं मद्-द्वैतापादकं परमानन्दं सत्-पदं तत्-ततो\ऽहं वन्दे हे इन्दिरानुत! स्पष्टम् अन्यत् । केचिद् इदं पद्यं माथुर-विप्र-स्तुतिं पुरस्कृत्य कृष्ण-भक्त-परत्वेन योजयन्ति । तथा हि ननु—
माथुरा मम पूज्या हि माथुरा मम वल्लभाः ।
माथुरे परितुष्टे हि तुष्टो\ऽहं नात्र संशयः ॥
इति वाराहोक्त्या माथुराणां मद्-भक्तत्वात्-तत्-कुलोत्पन्ना इमे\ऽपि विप्राः सन्त एवेति कुतो निन्दन्त इत्य् आशङ्क्य् आहुः—सत् इति । इदं दीक्षित-विप्र-वृन्दं सत् सतो दीक्षित-कुलाद् उत्थितम् उत्पन्नम् इति चेन् न । नु इति वितर्के । यत इदं तर्क-हतं युक्तिबाधितं तद् एवाहः-व्यभिचरति क्व चेति । त्रयीमयात्-त्वत्-प्रिय-यमुना-जनकात्-सतः सूर्याद् उत्पन्नस्यापि कर्णस्य दुष्टत्व-दर्शनाद्-व्यभिचार इत्य् अर्थः । किञ्च क्व च मृषेति-यथा श्री-वेद-व्यासाद् उत्पन्ने\ऽप्य् अन्तर् निगूढ-दुष्टभावे धृतराष्ट्रे दृश्यमानाद् अपि बहिः-साधुता मिथ्यैवेत्य् अर्थः ।
ननु ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् [भा।पु १०.४९.२८] इत्य् उक्त्या धृतराष्ट्रस्य श्री-कृष्णेच्छावशवर्तित्वान् न दुष्टत्वम् इत्य् आशङ्क्याहुः—न तथेति । तथापि यथा विदुरादयस् त्वयि भक्तास् तथा नायम् अन्तर्-निगूढ-धूर्त-भावत्वात् ।
ननु कर्णस्य सूर्योत्पन्नत्वे\ऽपि सहस्र-कवचाख्य-दैत्यावतारत्वाद् युक्तम् एव दुष्टत्वं दीक्षितानां विप्रत्वात्-कथं दौष्ट्यम् इत्य् आकाङ्क्षायाम् आहुः—उभय युग् इति । दीक्षित-वृन्दम् उभाभ्यां खलत्व-ब्राह्मणत्वाभ्यां युक्तं ब्रह्मणत्वे\ऽपि कंसस्याहिताशंसनात्-तद् अन्नवृत्ति-भोगाच् च खलत्वम् ।
ननु तर्हि तथाविधास्ते कथं मद्-भक्तैर् गोपैः प्रणतास् तत्राहुः—व्यवहृतये इति । दुष्टेष्व् अपि विप्रेष्व् अन्ध-परम्परया विकल्पो विविधो नमस्कारादि-कल्पना-रूपो व्यवहार इष्ट एव खलेष्व् अपि तेषु ब्राह्मणत्वेन गोपैस् तथा व्यवहृतम् इत्य् अर्थः ।
ननु सर्व-वेद-वेद्ये मयि वेद-विदो\ऽपि ते कथम् अभक्तास् तत्राहुः—भ्रमयतीति । अत्रापि पूर्व एवार्थः । एवं च दीक्षित-ब्राह्मण-निन्दायां न तात्पर्यं किन्तु यद् ईदृशा वेद-विदो विप्रा अपि श्री-कृष्णानुराग-रहिता निन्द्या एव तदा किमु वक्तव्यम् । तथा-विधा इतर इति श्रेयो\ऽर्थिभिः सर्वथा श्री-कृष्णानुराग एव कार्य इत्य् अत्रैव तद् इत्य् आशयः ॥
श्रीधरानुयायिनी : सत इदम् इत्य् आदेर् दीक्षित-विप्र-पक्षे प्रसिद्ध-पक्षे च व्याख्यानं पूर्व-व्याख्यानेषु लिखितम् अतस् तत्रैव द्रष्टव्यम् ॥
———————————————————————————————————————
नीलकण्ठी : एवं गुरुम् उपासीनः श्रुतोपनिषत्कः शास्त्रात्-प्रपञ्चस्य ब्रह्म-विवर्तत्वम् अज्ञान-परिणामत्वम् अज्ञानस्य च तुच्छत्वम् इत्य् अवगच्छति अत्रापि यत उदयास् तमयौ विकृतेर् मुदि वा विकृतात्, भिदा यद् अबोध-कृता [भा।पु १०.८७.२५], असदाम् अनुजात् इति तत्रयम् उक्तं तत्राशङ्कते-सत इदम् इति । इदं सत् सद् उत्थत्वात् यद्-यद् उत्थं तत्-तद् आत्मकं यथा कनकोत्थं कुण्डलं कनकात्मकम् । यद् वा, इदं सदुत्थम् अनात्मत्वे सति सत्त्वात् यद्य् अदात्मकं तत्-तद् उत्थं यथा कनकात्मकं कुण्डलं कनकोत्थम् इति । अत्र कारणस्य श्रुति-सिद्धं सत्यत्वम् आश्रित्य प्रपञ्चस्य सत्यत्वं साध्यत इत्य् एकः पूर्व-पक्षः
प्रपञ्चस्य रज्जु-भुजङ्गादिवद्-बाधा-दर्शनात्-तत्-सत्यत्वम् आश्रित्य तत्-कारणस्य प्रधानादेः सत्यत्वं साध्यत इत्य् अन्वयः । तद् एतद्-द्वयं तन्त्रेण निरस्यति-ननु तर्क-हतम् इति । सर्वथापि निर्युक्तिकम् एतद् इत्य् अर्थः । तथा हि-सुदत्थत्वं सद्-विवर्तत्वं सत्-परिणामत्वं वा आद्ये इष्टापत्तिः द्वितीये परिणामिनः सतः क्षीरादिवद् अनित्यत्वेन कारणत्वासिद्धिर् इत्य् आह—व्यभिचरति क्व चेति ।
ननु दध्यादाव् अपि प्रधान-गतं सुख-दुःख-मोहात्मत्वम् अस्त्य् एव कुण्डलादाव् इव कनकात्मत्वम् अतः कनकवद् अस्य नित्यत्वं स्याद् अत आह—क्व मृषेति । सुखाद्य् आत्मकस्यापि स्वप्नाङ्गनादेः कार्यस्य मृषात्वात्-तत्-कारणस्यापि मृषात्वं दुर्वारम् इत्य् अर्थः ।
अस्तु तर्हि कार्यस्यासत्यत्वम् अत आह—न **तथोभय-**युग् इति । स्वप्नाङ्गना हि न स्वघटादिवद् अबाध्या अनुभव-विरोधात् । नाप्य् अत्यन्तम् असती शश-शृङ्गवत् चरम-धातु-विसर्गान्तार्थक्रिया-कारिरत्य् आदि-सुख-हेतुत्वात्, न च तादृश-परस्पर-विरुद्ध-धर्म-द्वय-योगि एकं वस्त्व् इति वक्तुं शक्यम् अतो न सत्या किन्त्व् अनिर्वाच्या । यच्-चास्या उपादानं निद्रादि-रूपम् अज्ञानं पराभिमतं प्रधानं वा तद् अप्य् अनिर्वाच्यं वाच्यं कार्य-कारणयोः । साजात्य् अनियमात् । एवं द्वितीयानुमाने\ऽप्य् एतैर् एव श्लोक-पदैर् हेत्व् असिद्धिर् वक्तव्या । तथा हि-कार्यस्य सत्त्वात्-कारणम् अपि सद् इति चेत् ननु तर्क-हतं सत्यस्यापि-भय-कम्पादेर् हेतौ रज्जु-सर्पे मृषात्व-दर्शनात् । न चायं सन् सत्त्वे ह्यस्य विज्ञा-नमात्रं देशान्तरस्थत्वं स्मर्यमाणत्वं वा वाच्यम्, नायं सर्प इति स्वाधिष्ठाने बाधितत्वात् । किञ्चिद्-विज्ञानं सद्-विषयं किञ्चिद् असद्-विषयम् इन्द्रियाणि किञ्चित्-सन्-निकृष्टम् अर्थं गृह्णन्ति । कञ्चिद् असन्-निकृष्टं स्मर्यमाणं किञ्चिद् इदन्तया गृह्यते किञ्चिद् अनिदन्तयेति पक्षत्रये\ऽपि व्यभिचार इत्य् आह—व्यभिचरति क्व चेति । तस्मान् न रज्जु-सर्पः सत्यः नापि शश-शृङ्गवद् अत्यन्तम् असन्न् इत्य् आह—क्व च न मृषा नेति ।
असत्त्व-पक्षे अलीकम् अपि नेत्य् अर्थः । शश-शृङ्ग-रज्जु सर्प-योनिः-स्वरूपत्वे समाने\ऽपि, अन्त्यो दृश्यत्वाद्-भयादि-कार्य-जनकत्वाच् च नात्यन्तम् असन् शश-शृङ्गं
तद्-विपरीतत्वाद् अत्यन्तम् असद् इत्य् अर्थः । नन्व् अत्यन्तसत्त्वे अत्यन्तासत्त्वे चासिद्धे अस्तूभयात्मेत्य् आशङ्क्य् आह—तथोभय-युग् इति । यथा मृषा न तथा सद् असदात्मापि न विरोधादित्य् अर्थः । तस्मात्-सत्त्वेनासत्त्वेन सद् असदात्मत्वेन वा निर्वक्तुम् अशक्यत्वेनानिर्वाच्यत्वात् मिथ्या-भूतम् अपि रज्जु-सर्प-शङ्काविषादिकं व्यवहार-कालाबाध्य-भय-मरणाद्य् अर्थ-क्रियाकारि दृष्टम्, तथा वियदाद्य् अपि स्वरूपेणेन्द्र-जालवन्-मिथ्या-भूतम् अपि । स्वर्ग-नरक-बन्ध-मोक्ष-गुरु-शिष्यादि-व्यवहार-कालाबाध्य-व्यवस्था-हेतुर् भविष्यति स्वप्नाङ्गनासङ्गम् अवद-बाधितार्थ-क्रिया-कारित्वे\ऽप्य् अनिर्वाच्यं वियदादि तादृशाज्ञानोपादानकम् इति सिद्धं प्रधानादेर् अनिर्वाच्यत्वम् ।
नन्व् इदं सत्यम् इदं मिथ्येति सत्य-सर्प-रज्जु-सर्पयोः कथं विविधाकारेण । कल्पनं सर्वस्य तुल्यवन्-मिथ्यात्वे तद् अनुपपत्तेर् इत्य् आशङ्क्य् आह—व्यवहृतये विकल्प इति । स्वप्न-दृष्ट-रज्जु-रज्जु-भुजङ्गयो-मिथ्यात्वाविशेषे\ऽपि । रज्जुः सत्या रज्जु-भुजङ्गो मिथ्येति स्वाप्न-व्यवहार-मात्रालम्बनो विकल्पो न वस्तु-तत्त्वावलम्बनः । एवं जाग्रत्य् अपि भविष्यति न हि गरुड-भावनाशङ्काविषादेर् असत्याज् जातो विष-देह-वियोगस् तत्-प्रति-योगी वर्तमानो वा विष-देह-संयोगः परमार्थ-सत्य इति वक्तुं शक्यं शून्य-भावनयापि पारमामाथिकं नैरात्म्यं सेत्स्यतीति जितं माध्यमिकेनेति भावः ।
ननु जाग्रद्-दृष्टौ सत्य-मिथ्या-रूपौ स्वप्ने\ऽपि संस्कारवशात् तेन रूपेण भात इति युक्तं तत्र द्वयोर् अपि मिथ्यात्वम् । तर्हि जाग्रत्य् अपि प्राग्-भवीय-भ्रम-संस्कारवशाद् एतद् युज्यते अनादित्वाच् च । भ्रम-तत्-संस्कार-परम्परायाः न क्वचिद्-दृश्येषु सत्यासत्य-विभागो\ऽस्तीत्य् आह—इषितो\ऽन्ध-परम्परयेति । आरोपे हि पूर्व-प्रतीति-मात्रम् उपयुज्यते ।
ननु प्रतीतस्य स्वरूप-सत्त्वम् अपि तेन विनापि संस्कार-मात्राद् उत्तर-भ्रम-सम्भवात् मूर्ख-परम्परयायं सत्यासत्य-विकल्प इषितो\ऽभ्युपगतो न शास्त्र-दृग्भिर् इत्य् अर्थः । नन्व् एतद् एव शास्त्र-तत्त्वं सर्वे\ऽपि कुतो न जानन्तीत्य् आशङ्क्य् आह—भ्रमयतीति । ते तव भारती निःश्वास-रूपा वेदवाणी अक्षयं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इति । अपाम-सोमम् अमृता [ऋक् ८.४८.३], प्रजामनु प्रजायसे तद् उते मर्त्यामृतं नापुत्रस्य लोको\ऽस्ति इत्य् आदिका उक्थ-जडान् उत्तिष्ठति स्वर्गादि-फलं यस्मात्-तद् उक्थं कर्म प्रतीकोपास्तिश् च तत्र विषये श्रद्धा-जडान् **उरु-**वृत्तिभिः बह्वीभिर् गौण-लक्षणादि-शब्द-वृत्तिभिः भ्रमयति मोहयति यस्माद् अतस्ते शास्त्र-तत्त्वं न जानन्तीत्य् अर्थः ।
अत्र शब्द-वृत्तिस् तावत्-रिविधा-मुख्या गौणी लक्षणा च । आद्या-जाति-सङ्केत-योगैस् त्रिधा । तत्र जाति-शब्दाः-गौः, घटः अश्वकर्ण इत्य् आदयः । सङ्केत-शब्दाः-डित्थ डवित्थ इत्य् आद्याः । योगस् त्रेधा-कृत्-तद्धित-समास-भेदात् । आद्यौ प्रकृति-प्रत्यय-योगौ द्वौ, अन्त्यः पद-द्वय-योगः, पाठकः औपगवः पङ्कजम् । गौणी तु-लक्ष्यमाण-गुण-योगात्-पर-शब्दस्य परत्र प्रवृत्तिः, यथा यजमानः प्रस्तरः सिंहो देव-दत्तः । अत्र हि यजमान-शब्देन यजमान-गतं क्रतुर् निवर्तकत्वं तत्-प्रस्तरे\ऽप्यस्ति एवं सिंहवत्-क्रौर्यं देवदत्ते सेयं लक्षित-लक्षणेत्य् उच्यते । लक्षणापि शब्दस्य स्व-शक्य-सम्बन्धे वृत्तिः । सा त्रिधा-जहत्-स्वार्था अजहत्-स्वार्था जहद् अजहत्-स्वार्था च । गङ्गायां घोष इत्य् आद्या अत्र गङ्गा-पद-शक्यस्य प्रवाहस्य घोषाधारत्वासम्भवात्-तत्-सम्बद्धे तीरे गङ्गा-पदस्य वृत्तिः । सो\ऽयं देवदत्त इति तृतीया अत्र हि तद्-देश-काल-विशिष्टो देवदत्तस् तच्-छब्दार्थः, एतद्-देश-काल-विशिष्ट इदम्-शब्दार्थः । तत्र विशिष्टयोर् अभेदासम्भवाद् उभयत्र विशेषणांशं त्यक्त्वा विशेष्ये देवदत्त-स्वरूपमात्रे तद् इदं शब्दयोर् वृत्तिः । एवं तत्त्वम् अस्यायम् आत्माब्रह्मेत्य् आदाव् अप्य् एषैव लक्षणेति वक्ष्यते ।
क्वचिद्-वाक्ये\ऽपि लक्षणा भवति । यथा विषं भुक्ष्वेति । अत्र हि विष-भोजन-रूप-स्वार्थ-परित्यागेन शत्रु-गृहे न भोक्तव्यम् इत्य् अस्मिन्न् अर्थे वाक्यं वर्तते । एवं सति ये कर्म-जडाः ते अक्षय्यं ह वै अमृता अभूम इत्य् आदाव् अक्षयादि-शब्दानां यत्-कृतकं तद् अनित्यम् इति न्यायेन तद् अनुगृहीतया तद्-यथेह कर्मचितो लोकः क्षीयते एवम् एवामुत्र पुण्यचितो लोकः क्षीयते इति श्रुत्या च गम्यमानं कर्म-फलस्यानित्यत्वं स्वयम् अप्रतिपद्य-मानाः आभूत-सम्प्लवं स्थानम् अमृतत्वं हि भाष्यते इति स्मृत्या व्याख्यातम् अपि चिर-कालता-मात्र-परत्वं न पश्यन्ति तान्-कर्म-फलस्य नित्यत्वं मन्यमानान्-भारती भ्रमयति । एवं ये उपासनाजडाः ।
अथ यो\ऽन्यां देवताम् उपास्ते\ऽन्योसावन्यो\ऽहम् अस्मीति न स वेद । यथा पशुर् एव स देवानां तद् एव ब्रह्मत्वं विद्धि । नेदं वद् इदम् उपासते । यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरं कुरुते । अथ तस्य भयं भवति । सर्वं परादाद्योन्यत्रात्मनः सर्वं वेद ॥
इत्य् आदि-भेद-दर्शन-निन्दायां सत्याम् अपि एष ह्य् एव साधु-कर्मेत्य् आदि-शास्तृ-शास्य-भेद-श्रुतेर् औपाधिक-भेद-परत्वं सत्स्व् अपि नान्यो\ऽतो\ऽस्ति द्रष्टा तत्त्वम् अस्यहं ब्रह्मास्मीति जीव-ब्रह्माभेद-परवाक्येषु अप्रति-पद्य-मानाः भेदं सत्यं मन्वते तान् अपि भ्रमयति तान् अपि भ्रमयति भारती । तथा च श्रुतिः—
न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश् चरन्ति ॥ [ऋ।वे। १०.८२.१७] इति ।
स्मृतिरपि—
याम् इमां पुष्पितां वाचं प्रवदन्त्य-विपश्चितः ।
वेद-वादरताः पार्थ नान्यद् अस्तीति वादिनः ॥ इति ।
ये तु हार्दादि-विद्या-विदो\ऽहङ्ग्रहेण ब्रह्मोपासते ते भेद-दृष्ट्य् अभावान्-मूर्धन्यनाद्याचिरादि-मार्गेण ब्रह्म-लोकं गत्वा तत्रैव लब्धात्मबोधा ब्रह्मणा सहैव मुच्यन्ते । तथा च श्रुतिः—
शतं चैका च हृदयस्य नाड्यः [छा।उ। ८.६.६]। इति । ते ब्रह्म-लोके तु परान्त-काले [मह।ना।उ २.१५] इति । एवं च कर्म-प्रजा स्तुतिपरो वेदः कर्मणामक्षय-फलत्वं प्रजायाश् चामृतत्वं ब्रवीति न तात्पर्येणेति भावः ॥३६॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा विचार-मवतार्य शुद्ध-भाव-पदवीं शुद्ध-रस-मय-श्री-कृष्ण-स्वरूपं च निरूपयन्त्य आहुः—सतः सर्वोत्कृष्टात् श्री-कृष्ण-स्वरूपाद् उत्थितम् इदं नाना-विधम् ऐकान्तिकं प्रेम तत्-तद्-भुत-लीला-जातं च परमाश्चर्य-परमानन्द-साम्राज्य-रस-सम्भृतत्वेनानुभूयमानं सर्वं सद् एव परमोत्कृष्टम् एव । न तत्र विशेषो\ऽस्तीति चेत् या निर्वृतिस् तनुभृतां [भा।पु ४.९.१०] तस्यारविन्द-नयनस्य [भा।पु ३.१५.४३] न परिलषन्ति केचित् [भा।पु १०.८७.२१] इत्य् आदिना ब्रह्म-स्वरूपाद्-भगवत्-स्वरूप-मात्रस्योत्कृष्टं निर्णीतम् । कृष्णस् तु भगवान् स्वयं [भा।पु १.३.२८] इति च कृष्णस्य भगवत्-स्वरूप-मात्रात् उत्कृष्टत्वोक्तिः सर्वोत्कृष्ट-परमानन्द-घन-विग्रहत्व-प्रतिपादिका कृष्णेति समाख्या च तथा परम-हंसानां मुनीनां [भा।पु १.८.२०] इत्य् आदिना च तस्य महा-प्रेम-शक्ति-प्रधानत्वं वामनत्व-नारायणत्वाद् युक्तिः कृष्णे सर्वांशानां सत्त्वात् समस्त-भगवत्-स्वरूपाश्रयत्वाच् च वत्स-हरणे ब्रह्माणं प्रत्यनन्त-ब्रह्माण्ड-वैकुण्ठ-तन्-नाथादि-प्रकटी-करणात् । एवं सर्वोत्कृष्टस्य श्री-कृष्णस्य चिद् अचिन्-मय-समस्ताश्रयस्य लीला-जातं सर्वं सर्व-विधञ् च तद् एकान्त-प्रेम उत्कृष्टम् एव न कुत्रापि विशेषः । असत्ता अविद्यमानता च कस्यापि नास्तीति चेत् ननु तर्क-हतं यदि सर्वं श्री-कृष्णस्य लीला-प्रेमादि समं स्यात्तर्हि पूर्वापर-व्याघातः प्रकृति-मगन् किल यस्य गोप-वध्वः [भा।पु १.९.४०] नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया [भा।पु १०.९.२१] नायं सुखापो भगवान् देहिनां गोपिका-सुतः [भा। पु १०.९.२०] इत्थं सतां ब्रह्म-सुखानुभूत्या [भा। पु १०.१२.११] नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः [भा।पु १०.४७.६०] यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य-घनुत्तये [भा।पु १०.३०.२९] तद्-भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां [भा।पु १०.१४.३४] आसामहो चरण-रेणु-जुषाम् अहं स्याम् [भा।पु १०.४७.६१] एवं समोत्कर्षे उत्कर्ष-तारतम्य-व्याघातः ।
व्यभिचरति क्व च—कृष्ण-लीलात्वेन कृष्ण-प्रेमत्वेनैव समोत्कर्षवत्त्वं व्यभिचारि । दुर्भगो वत लोको\ऽयं यदवो नितराम् अपि [भा।पु ३.२.८] दुर्भगेदम् अयाचत इत्य् आदौ [भा। १०.४८.८] नायं श्रियः [भा।पु। १०.४७.६०] इत्य् आदिना आसामहो [भा।पु १०.४७.६१] विरहेण महा-भागा महान्-मे\ऽनुग्रहः कृतः [भा।पु १०.४७.२७] इत्य् आदिना च व्रज-सुन्दर्य-पेक्षयान्यत्र कृष्णे प्रेम्णो लघुत्वोक्तेः । क्व च मृषा व्रज-भावोदये द्वारका-भावस्य निवृत्तेः शुद्ध-प्रेम-सुख-समृद्ध्य् अनुभवे मिश्र-प्रेम-सुखस्य पूर्वम् अनुभूतस्याप्य् असत्-तुल्यत्वात् । महति सुखार्णवे मग्नस्य सुखान्तरम् अपि किम् अप्य् अस्तीति हृद्यनुदयात् शुद्ध-मिश्र-समस्त-कृष्ण-प्रेमानन्दानां चाभिभावकं श्री-राधा-रसाविष्टावस्थ-तत्-प्रेम-सुख-साम्राज्य-चमत्कारः तत्-रत्य् अप्रेम-सुख वस्तु-बुद्ध्य् अभावात् उभयस्य श्री-राधा-कृष्णाख्यस्य पूर्ण-महा-प्रेम-मय-नव-किशोर-मिथुनस्य युक् योगो यत्र प्रेम-सुखे तद् उभय-विषय-प्रेमोद्-भूत-सुख-साम्राज्य-महा-चमत्कार-प्रवाह इत्य् अर्थः । स न तथा मृषा इत्य् अर्थः—तद् अभिभावक-तद् अतिशायि-प्रेम-सुखान्तराभावात् ।
ननु तत्-तद्-भक्ता अपि तत्र तत्र सर्वोत्तमत्वेन स्तूयन्ते सत्यम् व्यवहृतये तेषां तेषां भक्तानां परम-प्रेमास्पदत्वेन तत्र तत्र कृष्णावस्थया व्यवहाराय विकल्पो विविधः पक्षः विविधा कल्पना वा विशिष्टतया कल्पनं वा इष्टम् एव । अन्ध-परम्परया परमोत्कर्षं विना आदर्शिन्या परम्परया केनचित् किञ्चित् सर्वोत्तमत्वेन बोधितम् केनचित् किञ्चिद् एकेन कश्चित् अत्रद्बोधितो\ऽपरेण कश्चिद् इत्य् एवम् ।
ननु निर्मूल-परम्परा-मात्रेण कथं तत्र तत्र निर्भरः स्यात् तत्राह—तव भारती वेद-लक्षणा भ्रमयति उक्थ-जडान् कर्म-जडान् प्राचीन-कर्मभिः कृत्वा जडान् परम-प्रेम-रसोत्कर्षसीम्नि बुद्धि-जाड्यवत इत्य् अर्थः ।
ननु नाहं वेद-कर्ता कथं मम भारतीत्य् उक्तम् **उरु-**वृत्तिभिः—उरूणां श्री-नारायणादीनां वर्तनात् त्वच्-छक्त्यैव वेद कर्तॄणाम् अपि वेद-कर्तृत्वम् अतस् तवैव भारतीति ।
नित्य-गोप्यस् तु आहुः—सतः साधोः सन्-नायकस्य राधा-गुण-माधुरी-सम्यग् अभिज्ञतया व्रज-नागर्यन्तर-सङ्ग-प्रसङ्ग-रहितस्य इदम् उत्थितम् अस्यै राधायै एतद् अर्थम् एवोत्थानं समुद्योगः सत् सदा वर्तमानम् न त्व् अन्यासङ्गार्थम् इदं शय्यात उत्थानं वा सत् उत्कृष्टम् । अत्रैवोत्थायावस्थानात् स्वगृहे गोप्यन्तरोद्देशेन वागमनात् ।
अन्या सख्य् आह—ननु चेद् इत्थं वदसि तर्हि तर्क-हतं त्वद्-वचनं महा-विदग्ध-रूप-शीलादि-सम्पन्नैकान्तानु-रागि-गोप-सीमन्तिनी-मण्डले कृष्ण-सङ्गाशाग्रह-गृहीतयाति-निरस्त-त्रपाधैर्ये व्रज-वन-वीथिषु निशि दिवा सञ्चरण-परे राधाद्या-सक्तस्यापि त्वद्-बन्धोस् तर्कित एवान्यासङ्गः कथं तद्-राहित्यं स्याद् इति भावः । उत्थायात्रैवावस्थानं चानया सह विहार-प्रवाहेण नैव सम्भवति कृष्ण-गत-जीवनानां तेषां न तद्-दर्शनादि विना जीवितानुपपत्तेः । क्व च मृषैव एतद् अन्यासङ्ग-राहित्यम् अन्यत्रागमनं बहुशो\ऽनुभूयमानत्वात् । पूर्ववादिन्य् आह—उभय-युक् उभयस्य राधा-कृष्णाभिध-गौरश्याम-नव-नागर-मिथुनस्य योगस् तथा न भवति महा-प्रगाढतर-प्रेम-रज्जुभिर् अन्योन्य-संस्यूतात्मानावतो नान्यापेक्षौ स्वप्ने\ऽपीति भावः । प्रत्यक्ष-विरोध इति चेत्-तत्राह—व्यवहृतये\ऽन्यैर् व्यवहार-मात्रार्थं न तु महा-प्रेम-विलास-विशेषार्थं विविधं कल्पनम् इष्टम् एव । तत्र हेतुः—अन्ध-परम्परया श्री-कृष्णस्य राधैक-रस-मग्नतायाम् अन्धा ये तेसां ज्ञान-परम्परया ।
अयं भावः—श्री-कृष्ण-चन्द्रः सदा राधा-सङ्ग्येव अन्येषाम् अपि प्रेमवतां भावनावशात् कस्याश्चिद् अवस्थायास् तत्र तत्राविर्भावेन तत्-तद्-व्यवहार-संपत्तेः स्वरूपेण तु श्री-कृष्णः श्री-राधा-नित्य-सङ्ग्य् एव अन्धयति जनान् या परम्परा कृष्णस्य स्वाभाविकी अवस्था-परम्परा तयेति । एतच्-चानुभव-सिद्धम् एव पित्रोर् निकटे बाल्योचित-वृत्तिम् आचरन्न् एवान्यतो महा-नागर-लीलां रचयन् यतो बहुशो दृष्टः । योग-माया भगवती हि श्री-कृष्ण-हिताय व्रजे वर्तते समस्त-व्रज-निषेव्य-माणा कृष्ण-हितायैव तया देव्या सर्व-समाधानात् रासो\ऽपि तयैव निर्वाहितः । अन्यासङ्गि-रूपाविर्भावनेन च तयैव राधाया मानादि-जननेन कृष्ण-रस एवोल्लास्यत इति । तेषां तेषां कृष्णस्य स्वैक-निष्ठता-भ्रमस् त्वत्-समो\ऽन्यः प्रियो नास्त्य् एव ममेति कृष्णस्य वचनाद् एवेत्य् आह—कृष्णस्य भारती इतः कृष्णं प्राप्नुवतः परम-प्रेमास्पदतया जानतो वा उक्थे सेवने राधायाः प्राण-भृते कृष्णे जडान् तद्-विषये\ऽज्ञान् भ्रमयति मद् एकासक्त इति भ्रान्ति-भाजः करोति । यद् वा, भा भानं तत्-तत्-सुहृदादीनां अस्माकम् एवाति-प्रीति-बन्धकरः कृष्णः इति यत्-प्रति-भानं तया या रतिस् तम् इतः प्राप्तः । अन्य-गोपीनां भानेन राधां त्यक्त्वा इदानीम् अस्मान् प्राप्त इति बुद्ध्या रतिं रति-क्रीडां प्राप्तः । वस्तुतो राधा-सङ्गि-रूपो नैवान्यागोचर इति ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नन्व् अर्थ-वादोऽयं यद् अघभिद् अङ्घ्रि-जला अपि भवत्-पदाम्बुज-हृदो गुरूपसत्तिम् एव कुर्वन्ति ? इति नैवम् इत्य् आहुः—सत इदम् इत्य् आदि । इदं मतं सतः सच्-छास्त्राद् उत्थितं, अतो न मृषा अर्थ-वादः, न च क्वचिद् व्यभिचरति, अतो नु भोः न तर्क-हतं तर्कासिद्धम् । अतः सद् उभय-युक् उभयस्मिन् उपासन-काण्डे ज्ञान-काण्डे च युज्यते इति युक् । अत्र अन्धैर् इव विकल्पः क्रियते, इत्य् आह—व्यवहृतय इत्य् आदि। अन्ध-प्रपञ्चात्मया विकल्प इषित इष्टः । कथा एषाम् आन्ध्यम् ? तत्राह—भ्रमयतीत्यादि । ते तव भारती कर्म-काण्ड-प्रपञ्च्दृशक-श्रुति-रूपा मद्-विधानाम् एकतमा व्यवहृतये यथार्थ-व्यवहाराय भ्रमयति, उपासना-काण्डात् ज्ञान-काण्डाच् च भ्रमयति । कान् ? उक्थ-जडान् । अन्योऽर्थः प्रसिद्ध एव ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैराग्यार्थं तीर्थ-सेवनम् उक्तं, तच् च वैराग्यादिकं प्रपञ्चस्य मिथ्यात्वे घटेतेति सन्यायं तद् उपपादयति—सत इति । इदं विश्वं सत् सत्यम् । तत्र हेतुः—सतः सत्यात् त्वद् अवतार-विशेषाद् उत्थितं, सत्याद् उत्पन्नं सत्यम् एव दृश्यते, यथा ऊर्ण-नाभाद् उत्पन्नं तन्तु-जालकम् इति चेत् ।
ननु भो तर्क-हतं युक्ति-बाधितम् इदम् । तद् एवाहुः—व्यभिचरति क्वचिद् इति । सत्याद् ऐन्द्रजालिकाद् उत्पन्ने पदार्थे व्यभिचारः, मुहूर्तान्तरे विलयनात् । नन्व् अत्र निमित्त-कारणोत्पन्नो व्यभिचार उक्तः, ऊर्णनाभि-दृष्टान्तेन तूपादानोत्पन्नं दर्शितम् । तत्राहुः—क्व च मृषेति । मरीचिकोपादाने जले मिथ्यात्वम् एव ।
ननु तत्राज्ञान-योगाद् एव मरीचिकायां जलत्वं प्रतीयते, इह तद् अभावात् सत्यत्वम् एव, इति चेन् न, नेदं युक्तम् इत्य् अर्थः । इहापि तथा, तथात्वम् एवाहुः—उभय-युग् इति । माया-सम्बन्धेन पुरुषाद् उत्पन्नत्वात् मायिकत्वेनासत्यम् एव ।
ननु मरीचिका-जल-दृष्टान्तेनासत्यत्वं साध्यते, दृष्टान्तस् तु सादृश्ये सति प्रवर्तते, तेनानयोर् बहु-वैसादृश्यात् दृष्टान्तो नोपपद्यते । विश्वं हि विविधानन्त-वैचित्रीभिर् विलक्षणं, न तथा मरीचिकाद् उपादानं जलादिकम् इत्य् अत आहुः—व्यवहृतय इति । विकल्पो विविध-कल्पना-शतम् अप्य् अन्धा न पश्यन्तीत्य् अन्ध-परम्परा-न्यायेन व्यवहारार्थम् इषितः प्राप्तः, इष गतौ इत्य् अस्मात् ।
ननु तर्हि कथं पदार्थज्ञाः पण्डिता अपि व्यवहार-मात्रार्थेषु कर्मस्व् आसक्ता दृश्यन्ते ? तत्राहुः—भ्रमयतीति । यद् वा, इदं सत्यं सत उत्थितत्वात् ।
ननु भो युक्ति-बाधितम् इति चेत्, न क्व च व्यभिचरति । क्व च मृषा न स्यात् । तथानेन प्रकारेणोभय-युक् उभयेन सत्ता-सत्ता-लक्षणेन युज्यत इति सद् असद्-रूपम् इत्य् अर्थः । प्रायः सद्-रूपम् एव क्वचिद् असत् प्रतिभासत इति । तथा हि जीवे मुच्यमने तस्य भूत-पञ्चाकादि-सङ्घाते प्रवाह—सातत्य-रूपत्वेनैव नित्यत्वात् सत्यं मन्यन्ते, केचित् क्षणिकं, केचित् तु मिथ्या-भूतम् अपि प्रातीतिक-सत्तयैव सत्यम् इति चेत् तत्राहुः—व्यवहृतये केवल-लौकिक-कृत्य-निर्वाहाय, अन्ध-परम्परया विकल्पः कृतः
श्रुत्य् आदि-तात्पर्याज्ञानाद् अन्धत्वं, तद् एव विशदयन्ति—भ्रमयति इति । उक्थ-जडान् निज-दुराग्रह-रक्षा-व्यग्रतया पूर्वापर-परामर्श-शून्यान्, भारती सरस्वती देवी तेषां हृदि तथा बहुधावर्तनैः स्फुरन्ती, इतो\ऽस्मिन्न् अर्थे भ्रमयतीति वैष्णवानां सम्मतस् तु सिद्धान्तः सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः [भा।पु। १०.८७.२६] इत्य् अत्र लिखितः । सत्कार्य-वादिनो वैष्णव-वाः परमाभीष्ट-दैवतात् परमाचिन्त्य-शक्तेर् आविर्भूतत्वात् सद् एव विदन्ति । न च श्री-भगवतो विकारित्व-शङ्का, यत् प्राकृतस्यापि चिन्तामण्य् आदेः स्वर्ण-रत्नादि-प्रसवे\ऽप्य् अविकारित्वेनाचिन्त्य-शक्तित्वं दृश्यते, ततः किम् उत अप्राकृताचिन्त्यानन्त-शक्तेः श्री-भगवतः । तथा च श्री-विष्णु-पुराणे—
सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः ।
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [वि।पु। २.७.३६] इति ।
तथापि विवर्त-वादिनस् तथा वैनाशिकादयश् चासद् एव वदन्ति । तच् चासद्-रूपत्वं श्री-भगवत एवासम्मतं तस्यासुर-पक्षीयत्वेनोपेक्षाकक्षा-निक्षिप्तत्वात् । तथा हि तस्य वचनं गीतासु असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् [गीता १६.८] इति । तत्र कथाञ्चिद् भगवद् ऐश्वर्यस्याप्य् अविद्या-कल्पित-मात्रत्वेनैव स्वीकारात् । तथोक्तं श्री-भगवद् आज्ञया तत्-सङ्गोपन-परैर् भगवद्भिः श्री-शङ्कर-पाद-पद्मैः शारीरक-भाष्ये—
तद् एवम् अविद्यात्मकोपाधि-परिच्छेदापेक्षम् एवेश्वरस्येश्वरत्वं सर्व-ज्ञत्वं सर्व-शक्तित्वं च, न परमार्थतः [शारीरक-भाष्ये २.१.१४] इति ।
केषांचित् तु साङ्ख्य-वैशेषिक-वैनाचिकादीनाम् ईश्वरस्यास्वीकाराद् अनीश्वरत्वम् इति । किन्तु क्वचिद् वैराग्यार्थम् एव विश्वस्यासत्त्वं प्रतिपद्यते, यथा जीवः सर्वं मिथ्येति ज्ञानेन सर्व-त्रानासक्तो भूत्वा श्री-भगवद्-भजनोन्मुखः स्याद् इति ॥
ननु—
मथुरा मम पूज्या हि माथुरा मम वल्लभाः ।
माथुरे परितुष्टे वै तुष्टो\ऽहं नात्र संशयः ॥
इति श्री-वाराह—देवोक्त्या माथुराणां मद्-भक्तत्वात् तत्-कुलोत्पन्नं दीक्षित-ब्राह्मण-कुलं भक्तम् एवेति चेद् उच्यते, तद् आकर्ण्यताम् इत्य् आहुः—सत इति । इदं दीक्षित-द्विज-कुलं ये मद्-भक्त-माथुर-कुलोत्पन्नत्वात् । यथा मद्-भक्त-पराशर-कुलोत्पन्नः शुक इति चेत्, तर्हि तर्क-हतं युक्ति-शून्यम् इदं, व्यभिचाराद् इत्य् आहुः—व्यभिचरति क्व्अ चेति । कर्णादौ व्यभिचारः मत्-प्रिय-सुग्रीव-जनकात् परम-भक्तात् सूर्याद् उत्पन्नस्यापि कर्णस्य दुष्टता-दर्शनात्, क्वचित् तु सत्कुलोत्पन्नस्य मृषात्वं च दृश्यत इत्य् आहुः—क्वचिद् इति । अन्तर् निगूढ-दुष्ट-भाव एव बहिः सर्वतः साधुता-प्रकटनेन सर्वैः साधुत्वेन ज्ञाते\ऽपि मृषा साधुर् एव—साधुतायाः कृत्रिमत्वात्, यथा द्वैपायनाद् उत्पन्नो\ऽपि धृतराष्ट्रः—
ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् ।
भूमेर् भारावताराय योऽवतीर्णो यदोः कुले ॥ [भा।पु। १०.४९.२८] इति तद् उक्तेः ।
अथम् अभक्तो धृतराष्ट्र इत्य् अत आहुः—न तथेति । यथा श्री-विउरादयस् त्वयि भक्तास् तथा नायं निगूढ-धूर्त-भावत्वात् तद् उक्तेः ।
ननु कर्णस्य सूर्योत्पन्नत्वे\ऽपि सहस्र-कवचाख्य-दैत्यत्वाद्य् उक्तम् एव दुष्टत्वम् । दीक्षितानां तु विप्रत्वात् कथं तद् घटताम् ? इत्य् अत आहुः—उभय-युग् इति । दीक्षितेषु उभयस्य खलत्वस्य ब्राह्मणस्य च युग् योगो वर्तते, कंसस्य हिताशंसनात्, तद्-दत्त-वृत्ति-भोगाच् चेत्य् अर्थः ।
ननु तर्हि कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि [भा।पु। १०.२३.५] इति मत्-प्रियैर् गोपैः कथं तादृशास् तथा प्रणताः ? तत्राहुः—व्यवहृतय इति । दृष्टेष्व् अपि विप्रेषु अयम् अन्ध-परम्परया गड्डरिका-प्रवाह—न्यायेन विकल्पो विविध-कल्पना व्यवहारायैव, न तु परमार्थाय । खलेष्व् अपि तेषु ब्राह्मण-जातित्वाद् गोपैस् तथा व्यवहृतम् इत्य् अर्थः ।
ननु श्रुत्या तत्-सुकृतस्याक्षयत्व-प्रतिपादनात्, अक्षयस्य चास्य मल्-लोक-निर्विशेष-लोक-प्रापकत्वात् ते खलु निन्दां नार्हन्तीत्य् अत आहुः—भ्रमयतीति । शेषं समानम् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सत इदम् इत्य् अस्य टीकायाम् आम्नायस्येति पूर्व-पक्ष-सूत्रं तद्-भूतानाम् इति सिद्धान्त-सूत्रं । तत्र प्रथम-सूत्रस्य तस्माद् अनित्यम् उच्यते इति शेषः । अर्थश् च—
सोऽरोदीत् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वं, प्रजापतिर् आत्मनो वपाम् उदखिदद् देवा वै देव-यजनम् अध्यवसाय दिशो न प्राजानन् ॥
इत्य् एवम् आदीनाम् अतद् अर्थिनां पुरुषास्वाधीनत्वेन विधौ पर्यवसायितुम् अशक्यानर्थक्यं स्यात् । यत आम्नाय क्रिया-मात्रार्थत्वं तां विना फलासिद्धेः । तस्माद् एवं जातीयं वाक्य-जातम् अनित्यम् उच्यते । धर्माधर्म-प्रम् इति रूप-नित्य-कार्य-कर्तृत्वाभावात्, न तु स्वतोऽनित्यत्वम् । अपौरुषेयत्वात् ।
कथं तद्-भूतानाम् इति सिद्धान्त-सूत्रस्य तु अर्थस्य तन्-निमित्तत्वाद् इति शेषः । अर्थश् च तेष्व् एव पदार्थेषु भूतानां वर्तमानानां वेदानाङ्क्रियार्थेन कार्यार्थेन समाम्नायः समुच्चारणं सम्बन्ध इत्य् अर्थः । क्रियैव सर्वेषाम् अर्थानां निमित्तं फलम् इति यस्मात् ते क्रियायांतथा-तथाविष्टा बभूवुः, तस्माद् अन्यैर् अपि यथा-शक्त्य् आवेशेन कर्तव्या सेति भट्ट-वार्तिके । प्रज्ञातो गुणो रूपं सत्ता च यस्येति विग्रहः । पुनः श्रुतौ चातुर्मास्य-याजिन इति चतुर्षुचतुर्षु मासेषु क्रियते इति चातुर्मास्यानि । प्राग् उक्तानि वैश्वदेवादीनि ।
तैर् इष्टवान् तस्येति तद्-व्याख्यायां न तथोभय-युग् इति शिरश्-चालन एव नञ् सङ्गच्छते । स्व-व्याख्यायां तु—ननु कथम् आवसथानांपुरुष-सारहरत्वं विश्वस्यसच्-चिद् आनन्द-घनात् त्वत्त उत्थितत्वेन स्वर्ण-तद्-विकारवत् तद् एक-रूपत्वात् । तद् उत्थितत्वं च श्रूयते—यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इत्य् आदौ । अतो नारोपितत्वम् अपि मन्तव्यम् । जन-धातोः विवर्ते प्रयोगासिद्धेः । यदि वा गौणी-वृत्तिम् आरोप्य युक्त्य् अन्तरेण मन्यते, तदा विवर्त-वादे\ऽद्वैत-मात्रस्य मिथ्यात्वात् । पदाम्बुज-हृदम् इति न घटते, तस्यापि हेयत्वापातात् । तस्य तु मोक्षाद् अप्य् अधिक-पुरुषार्थत्वम् उक्तं न परिलषन्ति केचिद् [भा।पु। १०.८७.२१] इत्य् आदौ ततो युक्त्य् अन्तरं चावश्यं हेयम् ।
तद् एतद् आशङ्क्य न तद् एक-रूपत्वं न चारोपितत्वं, किन्तु नश्वरादि-रूपत्वम् इति वदन्त्यः पूर्वोक्तम् एव स्वेषाम् अपि दर्शयन्ति—सत इति । तत्र स्व-मते पूर्व-पक्षम् अनूद्यात्यन्ताभेदं निषेधयन्ति—सतः सद् एव सोम्येदम् अग्र आसीद् [छा।उ।६.२.१] इति सच्-छब्देन कारणतयानिर्दिष्टत्वात्सच्-चिद् आनन्द-रूपात् त्वत्त उत्थितं जातम् इदं विश्वं सत् ।
तादृशत्वाद् अभिन्नम् इति चेत् तन् न घटते । नु वितर्के । तर्क-हतं हि तत् अपादान-निर्देशेन स्वर्ण-तद्-विकारादौ कारणत्व-कार्यत्व-रूपावस्था-भेद-दर्शनेन न भेद-प्राप्तेः । न च सतो जगत् तादृशो विकारः सत्त्व-विरोधाद् एवेत्य् अर्थः ।
तस्माच् चिन्तामण्य् आदेर् नाना-पदार्थवद् एव तस्मात् तद् उत्थितम् इति स्थिते तद्वद् एव ततो विश्वस्य वैलक्षण्यम् इत्य् आहुः—व्यभिचरति क्व च इति । ततः सम्यक् त्वद्-वर्तमानानुगतेर् न सच्-चिद् आनन्द-रूपत्वं विश्वस्येति स्थितम् ।
ननु तर्हि न कथं रज्जु-सर्पादिवद् विवर्त-रूपम् एवास्ताम् ? तत्राहुः—क्व च रज्ज्व् आदौ सर्पादिकं मृषा आरोपितम् एव, न तु तस्माद् उत्थितम् । विश्वस्य तद् उत्थितत्वम् एव धर्मीकृतम् । तच् च शास्त्रे श्रूयत इत्य् अर्थः ।
ननु शास्त्रम् अप्य् उत्थितत्वम् एव वदतु ? तत्राहुः—न तथोभय-युग् इति । स तु न तथा आरोप्यारोपकाभ्यां युज्यते । अविषयत्वाद् इत्य् अर्थः । तद् वा तत्रैव विवर्तो न्याय्यः, यद् अध्यारोपापवाद-सामान्यांशे च प्रकटे सर्पत्वाध्यारोप-भाक् स्यात् । पुनर् विशेषांशे व्यक्तत्वापवाद-भाक् स्यात् । न त्व् एकस्मिन्न् एवांशे विवर्त-वादिनां तु नाश-भेद-स्वीकार इति ।
किं च, जलादि-मयं जगद् इदं न प्रातीतिक-मात्र-सत्ताकं यथा खं यावद् अर्थ-क्रिया-कारित्वात् यन् नैवं तन् नैवं यथा मरीचिका-जलादि । एवम् आहुः—विकल्पः कूत-कनकादि-रूपो\ऽर्थस् तु न तथा, किन्तु क्रय-विक्रयादि-लक्षण-व्यवहार-मात्रायेष्टं, न तु रसायनादि-प्रयोगाय । दानतः पुण्याय वा च स व्यवहारो न तद् अभिज्ञेषु किं त्व् अन्ध-परम्परया एव स्याद् इति ।
यद् वा, व्यवहार-सिद्धये विवर्त-वादः । खल्व् अनादि-सिद्ध-ज्ञान-परम्परयैवेष्टः अद्वैत-भङ्ग-भयात् स चेत् दोष एव । यथोकं शारीरक-भाष्ये विज्ञान-वाद-निराकरणे । अनादित्वे\ऽप्य् अन्ध-परम्परा-न्यायेनाप्रतिष्ठैवानवस्था-व्यवहार-लोपिनी स्यात्, नाभिप्राय-सिद्धिर् इति । एतद् उक्तंभवति—यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह—अनेनान्धेनेति । अनेन कथं परिचितम् इति पुनर् आह—तेनान्धेन परिचायितम् । तेन च कथम् इत्य् आह—केनाप्य् अपरेणान्धेनेत्य् अनवस्थान्ध-परम्परयापि न सिद्ध्येद् व्यवहारः । किन्तु तत्रान्ध-परम्परायां यद्य् एको\ऽपि चक्षुष्मान् सर्वादि-प्रवर्तको भवति, तदैव सिद्ध्यति ।
यथा च तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वम् । तथा कस्मिंश्चिद् आरोप्ये वस्तुनि सत्ये सत्येवान्यत्रारोपेण व्यवहारः सिद्ध्यति, तद् एवानुसन्धाय प्रवृत्तेः, तद् विना भ्रमादर्शन-व्याप्तेश् च प्रयोगश् च जगत्-परम्परा-भ्रम-सिद्धम्, अनादि-सिद्ध-द्रव्यवत् यद् भ्रम-सिद्धं द्रव्यं तन् नानादि-सिद्धम् । यथा शुक्ति-रजतादीनि
किं च, कुत्रापि वस्तुनः कल्पना न दृश्यते षष्ठ-भूतादीनां कल्पयितुम् अशक्यत्वात्, किन्तु सम्बन्ध-कल्पनैव दृश्यते । सैव च मिथ्या-शब्देनोच्यते । यथा शुक्त्य् आदौ रजतादेः । यथा अपामसोमम् अमृता अभूमेत्यादि-श्रुत्य् अवष्टम्भेन पुनर् अनीश्वर-वादिनः प्रत्युत्तिष्ठन्ते । तान् प्रत्य् आहुः—भ्रमयति इति । उक्थान् मन्त्र-विशेषान् यज्ञे शस्यन्ते तदादिभिर् जडान् । भट्टेनापि सृष्ट्यादिकम् अङ्गीकृतम् ।
अथवेतिहास-पुराण-प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते । इति तस्माद् विश्व इदं न च सच्-चिद् आनन्द-रूपं न च विवर्त-रूपं, किन्तु नश्वरादि-रूपम् एवेति स्थितम् । श्रुतयश् च,
यथोर्ण-नाभिः सृजते, यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
यथासतः पुरुषात् केश-लोमानि, तथाक्षरात् सम्भवन्तीह विश्वम् ॥ इत्य् आद्याः ।
अत्राक्षर-शब्दाद् दार्ष्टान्तिकस्य वैलक्षण्यं च दर्शितवत्यः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं तीर्थ-महिम-श्रुतीर् अपि सन्-महिम-प्रतिपादकेषु पर्यवसाययन्ति श्रुतयश् च—
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्-दृष्टे परावरे ॥ [महा।उ ४.८२]
नमः परमर्षिभ्यो नमः परमर्षिभ्य इत्य् आद्याः ।
ननु, कथम् आवसथानां पुरुष-सार-हरत्वं विश्वस्य सर्वात्म-घनात् त्वत्त उत्थितत्वेन स्वर्ण-तद्-विकारवत्-तद् एक-रूपत्वात् ? तद् उत्थितत्वं च श्रूयते—यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इत्य् आदौ । अतो नारोपितत्वम् अपि मन्तव्यम् । जन-धातोर् विवर्ते प्रयोगासिद्धेः । यदि वा गौणीं वृत्तिम् आरोप्य युक्त्य् अन्तरेण मन्यते, तदा विवर्त-वादे द्वैत-मात्रस्य मिथ्यात्वात्, पदाम्बुज-हृदः [भा।पु। १०.८७.३५] इति न घटते, तस्यापि हेयत्वापातात् । तस्य तु मोक्षाद् अप्य् अधिक-पुरुषार्थत्वम् उक्तम् । न परिलषन्ति केचित् [भा।पु। १०.८७.२१] इत्य् आदौ ततो युक्त्य् अन्तरं चावश्यं हेयम् । तद् एतद् आशङ्क्य न तद् एक-रूपत्वं न चारोपितत्वं, किन्तु नश्वरादि-रूपत्वम् इति वदन्त्यः पूर्वोक्तम् एव स्वेषाम् अपि दर्शयन्ति—सत इदम् उत्थितम् इति ॥३६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नन्व् अर्थ-वादोऽयम्, यन् मच्-चरण-सुहृदोऽघभिद् अङ्घ्रि-जला इति । मैवम् इत्य् आहुः—सत इदम् उत्थितम् इत्य् आदि । इदं भगवद्-भक्त-माहात्म्यं सतः सत्यात् त्वत्तः सकाशाद् एवोत्थितम्, त्वन्-महिम्नैव तेषां महिमा, अतः सद् इति मतम्, चेत् चेतयतीति तथा । सर्वा एव न प्रबोधयति ननु भो भगवन् न तर्क-हतम् । यो मद्-भक्तः स एव सः, नादेवो देवम् अर्चयेत् इति सत्-तर्कः । तथा तेनैव प्रकारेण क्व च न व्यभिचरति, क्व च कुत्रापि मतेन मृषा । न-कार उभयत्र योज्यः । उभय-युक् उभयं भेदाभेदौ तद् युनक्तीति तथा । उपासकत्वेन भेदो महिम्नाभेदः ।
तत्र ये विकल्पयन्ति, तेऽन्द्धा एवेत्य् आहुः—व्यवहृतय इत्य् आदि । अन्ध-परम्परया हि विकल्प इषित इष्टः । किम् अर्थम् ? व्यवहृतये व्यवहाराय व्यवहारं दृष्ट्वेत्य् अर्थः । उपास्योपासक-भाव एव व्यवहारः ।
कथं ते विकल्पयन्ति ? भवत्य इव मज्-जन-माहात्म्यं कथा नानुवदन्ति ? इत्य् आहुः—भ्रमयतीत्यादि । ते तव भारती उरु-शक्तिभिर् विशिष्टा उक्थ-जडान् तान् भ्रमयति । कर्म-श्रद्धावतस् तु तव भक्ता तथाद्रियन्तिए, तेन त एव विकल्प्यन्तिईति भावः । ते तु कर्म-प्रतिपादिकया तव भारत्यैव भ्रान्ताः ॥३६॥
परमात्म-सन्दर्भ [७०] : तद् एवं परिणामादिकं साधितम् । विवर्तश् च परिहृतः । ततो विवर्त-वादिनाम् इव रज्जु-सर्पवन् न मिथ्यात्वं किन्तु घटवन् नश्वरत्वम् एव तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकाल-व्यभिचार-भावाज् जगतो न सत्त्वम् ।
विवर्त-परिणामासिद्धत्वेन तद्-दोष-द्वयाभाववत्य् एव हि वस्तूनि सत्त्वं विधीयते । यथा परमात्मनि तच्-छक्तौ वा । सद् एव सौम्येदम् अग्र आसीद् [छा।उ। ६.२.१] इत्य् आदौ इदं-शब्दोक्तं जगत् । सूक्ष्मावस्था-लक्षण-तच्-छक्ति-ब्रह्मणोर् मिथस् तादात्म्यापन्नयोः सच्-छब्द-वचनात् । अतः सत्-कार्य-वादश् च सूक्ष्मावस्थाम् अवलम्ब्यैव प्रवर्तते । तद् एवं स्थितेऽपि पुनर् आशङ्कते ।
ननु सद् उपादानं जगत् कथं तद्वन् नश्वरताम् अपि भजन् न खलु सत् स्यात् । यदि च नश्वरं स्यात् तर्हि कथं शुक्ति-रजतवत् व्यभिचारित्वेन केवल-विवर्तान्तः पाति न स्यात्। तद् एतत् प्रश्नम् उट्टङ्क्य परिहरन्ति—सत इदम् इति ।
इदं विश्वं धर्मि सद् इति, साध्यो धर्मः सत उत्पन्नत्वात् यद् यत उत्पन्नं, तत् खलु तद् आत्मकम् एव दृष्टं, यथा कनकाद् उत्पन्नं कुण्डलादिकं तद् आत्मकं, तद्वत् । तत्र उत्थितम् एव न तु शुक्तौ रजतम् इव तत्रारोपितम् इति सिद्धान्तिनः स्व-मतम् अनूदितं नैवेत्य् आहुः—ननु तर्क-हतम् इति, अपादान-निर्देशेन भेद-प्रतीतेर् विरुद्ध-हेतुत्वात् ।
ननु नाभेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद् भेदम् अनूद्य प्रतिषेधामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन हेतुं दूषयन्ति—व्यभिचरति क्व च इति । क्व च कुत्रापि कारण-धर्मानुगतिर् व्यभिचरति । कार्य-कारण-धर्मस्य सर्वांशेनानुगतं भवतीति नियमो न विद्यत इत्य् अर्थः । दहनाद्य् उद्भवे प्रभादौ दाहकत्वादि-धर्मादर्शनाद् इति भावः ।
द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च ।
क्षराक्षर-स्वरूपे ते सर्व-भूतेष्व् अवस्थिते ॥
अक्षरं तत्-परं ब्रह्म क्षरं सर्व-म् इदं जगत् ॥ [वि।पु। १.२२.५३-५४]
इत्य् आद्य् अनन्तरम्—
एक-देश-स्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस्
तथेदम् अखिलं जगत् ॥ [वि।पु। १.२२.५५] इत्य् एतद् ।
एवं व्याख्यातं श्री-स्वामिभिर् एव श्री-विष्णु-पुराणे—नन्व् अक्षरस्य पर-ब्रह्मणस् तद्-विलक्षणं क्षर-रूपं कथं स्यात् ? इत्य् आशङ्क्य दृष्टान्तेनोपपादयति—एकदेशेति । प्रादेशिकस्य अग्नेर् दीपादेर् दाहकस्यापि तद्-विलक्षणा ज्योत्स्ना प्रभा यथा तत्-प्रकाश-विस्तारः, तथा ब्रह्मणः शक्ति-कृत-विस्तार इदम् अखिलं जगत् इति ।
प्रकृतम् अनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्ति-रजतवद् एवास्तु । तत्राहुः—क्व च मृषा इति । क्व च शुक्तादाव् एव प्रातीतिक-मात्र-सत्ताकं रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिम् अर्थ-क्रिया-कारित्वं च युनक्ति भजते, तत्र न तथा मृषेति ।
ननु कूट-ताम्रिकादिष्व् अर्थ-क्रिया-कारितापि दृश्यते इत्य् आशङ्क्याहुः—व्यवहृतय इति । क्रय-विक्रयादि-लक्षण-व्यवहारायैव विकल्पो भ्रम इष्टः, न तु तत्-तत्-प्रसिद्ध-सम्यग् अर्थ-क्रिया-कारितायै । तद्-दानादौ यथावत् पुण्य-फलादिकं न भवतीति । तथा शुण्ठीतया प्रख्यापितं विष-ग्रन्थ्यादिकं क्रीत्वा शुण्ठी-ज्ञानेन भक्षितम् अपि नारोग्य-जनकं, प्रत्युत मारकम् एवेति । तस्मात् तत्-तत्-प्रसिद्ध-सम्यग् अर्थ-क्रिया-कारितयैव जगतः सत्यत्वम् अङ्गीक्रियते । एकाङ्गेन सा कूट-सर्पादौ भयादि-रूपा त्व् अस्त्य् एवेति, न तद्-धेतुः ।
किं च, अन्ध-परम्परया इति । स च क्रय-विक्रयादि-लक्षण-व्यवहारोऽपि, न तु यथार्थ-ताम्रिकस्येव तद्-व्यवहार-कुशलेष्व् अपि किन्त्व् अन्ध-परम्परयैव । अतस् तत्र तदीय-कुशलेष्व् असिद्धत्वेन व्यवहारस्याभास-मात्रत्वात् तस्माद् अन्यथा नानुमेयम् । धूमाभासे हि वह्नि-व्यभिचारस्यौचित्यम् एवेति भावः ।
तद् एवम् अर्थ-क्रिया-कारित्वेनास्त्य् एवेतरस्य भ्रम-वस्तु-वैलक्षण्यात् सत्यत्वम् इति विवर्त-वादिनि निरस्ते पुनर् अनश्वर-वादी प्रत्युत्तिष्ठते । नन्व् अपाम सोमम् अमृता अभूम अक्षय्यं ह वै चातुर्मास-याजिनः सुकृतं भवति [ऋ।वे। ८.४८.३] इति श्रुत्यैव कर्म-फलस्य नित्यत्व-प्रतिपादनान् नश्वरत्वं न घटते ? इत्य् आशङ्क्याहुः—भ्रमयति इति । हे भगवन् ! ते तव भारती उरु-वृत्तिभिः बह्वीभिर् गौण-लक्षणादिभिर् वृत्तिभिः उक्थ-जडान् उक्थानि यज्ञे शस्यन्ते, तत्र जडाः कर्म-श्रद्धा-भाराक्रान्त-मन्द-मतय इत्य् अर्थः, तान् भ्रमयति ।
अयं भावः—न हि वेदः कर्म-फलं नित्यम् अभिप्रैति, किन्तु लक्षणया प्राशस्त्य-मात्रम् । अन्येषां वाक्यानां विध्य् एक-वक्यत्वेन विधाव् एव तात्पर्यात् । अन्यथा वाक्य-भेद-प्रसङ्गः, तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयत [छा।उ। ८.१.६] इति न्यायोपबृंहित-श्रुत्य् अन्तर-विरोधश् च । अतः कर्म-जडानाम् इदं भ्रम-मात्रं, जगत् तु सत्यम् अपि परिणाम-धर्मत्वेन नश्वरम् एवेति । तद् उक्तं भट्टेनैव—अथवेतिहास-पुराण-प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते इति
अथवा नाभेदं साधयाम इत्य् आदिकम् आशङ्क्य प्रसिद्धस्य सत्ता-त्रयस्य मिथो वैलक्षण्यात् परिहरन्ति—क्व च घटादौ अर्थ-क्रिया-कारिण्य् अपि व्यभिचरति सत्तेति शेषः । वस्त्व् अन्तरस्यार्थ-क्रिया-कारितायाम् असामर्थ्यात् देशान्तरे स्वयम् अविद्यमानत्वात्, कालान्तरे तिरोभावित्वाच् च । क्व च शुक्ति-रजतादौ तत्रापि तदानीम् अपि मृषा अर्थ-क्रिया-कारित्वाभावात् । या तु उभय-युक् उभयत्र घटादि-सत्तायां शुक्ति-रजतादि-सत्तायां च युग् योगो यस्याः, यया सा सत्ता लब्ध-पदा भवतीत्य् अर्थः । सा परम-कारण-सत्ता न तथा, किन्तु सर्व-त्रापि सर्व-दापि तत्-तद् उपाध्य् अनुरूप-सर्वार्थ-क्रियाद्य् अधिष्ठान-रूपेत्य् अर्थः । तस्माद् अर्थ-क्रिया-कारित्वेन सत्यम् अपि परिणतत्वेन घटवन् नश्वरम् एव जगत्, न प्रतीत-मात्र-सत्ताकं, न चानश्वर-सत्ताकम् इति परस्पर-वैलक्षण्य-दर्शनात् कथम् एकम् अन्यद् भवितुम् अर्हतीति भावः ।
कूट-ताम्रिकत्वम्143 आशङ्क्याहुः—व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते इति विकल्पः स्वतः-सिद्धस् ताम्रिकादिर् अर्थः, स एव व्यवहृतये इषितः ।
अयम् अर्थः—अत्र कूट-ताम्रिकेण यं व्यवहारं मन्यसे, सोऽपि न तेन सिध्यति । किं तर्हि सत्य-ताम्रिकेणैव ? अर्थान्तरं व्यवहर्तुर् हृदि तस्यैव प्रत्यक्षत्वात् । कूट-ताम्रिकम् अत्रोपलक्षणम् एव । क्वचित् तं विनापि तव गृहे ताम्रिको दत्त इति पश्चाद् दातव्य इति वा छल-प्रयोगे स्मार्यमाणेनापि तेन तथा व्यवहार-सिद्धेः । तस्माद् व्यवहार-रूपाप्य् अर्थ-क्रिया-कारिता तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतम् अप्य् अन्धानां न पश्यतीति न्यायेन कूट-ताम्रिक-परम्परयापि व्यवहारोऽपि न सिध्येद् इत्य् आहुः—अन्ध-परम्परया इति । अन्ध-परम्परा-दोषात् स एव व्यवहृतय इषित इत्य् अन्वयः । यथान्ध-परम्परया व्यवहारो न सिध्येत्, तथा कूट-ताम्रिक-परम्परयापीत्य् अर्थः ।
इत्थम् एव विज्ञान-वादोऽपि निराकृतः । शङ्कर-शारीरिकेऽपि, अनादित्वेऽप्य् अन्ध-परम्परा-न्यायेनाप्रतिष्ठैवानवस्था-व्यवहार-विलोपिनी स्यात्, नाभिप्राय-सिद्धिः [२.२.३०] इत्य् उक्तम् ।
एतद् उक्तं भवति—यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह—अनेनान्धेनेति । अनेन कथं परिचितम् ? इति पुनर् आह—तेनान्धेन परिचायितम् । तेन च कथम् ? इत्य् आह—केनाप्य् अपरेणान्धेनेत्य् अन्ध-परम्परयापि न सिध्येद् व्यवहारः । किन्तु तत्रान्ध-परम्परायां यद्य् एकोऽपि चक्षुष्मान् सर्वादि-प्रवर्तको भवति, तदैव सिध्यति । यथा च तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वं, तथा कस्मिंश्चित् ताम्रिके प्रथमं सत्ये सत्य् एव व्यवहारः सिध्यति । तत्र च सत्यसैव व्यवहार-साधकत्वं, तद् अनुसन्धानेनैव तत्र प्रवृत्तेश् चक्षुष्मत इव प्रवर्तकत्वात्144 ततश् च कश् चन ताम्रिकः सत्य इति स्थिते, यत्र तद्-व्यवहार-कुशलैः परीक्षया सत्यतावगम्यते, स एव कूट-ताम्रिकेऽप्य् आरोप्यमाणः सत्यो भवेत् । तद् एवम् अर्थ-क्रिया-कारित्वेन तस्य सत्यत्वे तद् उपलक्षितं विश्वम् एव भ्रम-वस्तु-विलक्षणं सत्यम् इति सिद्धम् ।
परमात्मन145 एवावयवित्व-व्यवहार-साधितत्वाद् युक्तम् एव तत् । तथा च भ्रमादिभिः स्तुतम्—सत्यस्य योनिम् [भा।पु। १०.२.२६] इति । तत् सत्यम् इत्य् आचक्षत [तै।उ। २.६] इति श्रुतिश् च । शिष्टम् अन्यत् समानम् ॥३६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् आवसथानां पुरुष-सार-हरत्व-सार-प्रदत्वाभ्यां किम् इमे निन्दा-स्तुती ? न हि मरीचिका-जलम् इदं विरसं सुरसं वा ? इत्य् उच्यते इत्य् असत्-कार्य-वादि-मताश्रयिणीभिः श्रुतिभिः सह सत्-कार्य-वादि-मताश्रयिण्यः श्रुतयः ।
सत् यथा कारण-गतम् एव सत्त्वं स न घट इत्य् अत्र घट-निष्ठट् भासते, तद्वद् इत्य् अर्थः । तत्र सतः कारणस्य कार्याभेदः साध्यते
यदि तदा अपादान-निर्देशेनैव भेद-प्रतीतेर् विरुद्धो हेतुर् इत्य् अत आह—ननु तर्क-हतम् इति। चिज्-जडयोर् अभेदस्य सर्व-प्रमाण-वाधितत्वाद् इति भावः ।
ननु नाभेदं साधयामः, किन्तु तद् उत्पन्नत्वेन कुण्डलादिवद् भेदं प्रतिषेधयामः । न हि कारण-सत्त्वातिरिक्ता क्वापि कार्यस्य सत्तेत्य् अत आह—व्यभिचरति क्व च क्व च इति । पितृ-पुत्रादिषु भेदस्यैव दर्शनात् ।
ननु यथा शुक्ति-सत्तातिरिक्त-सत्ता-रूप्यस्य नास्ति, तथा अधिष्ठान-रूप-परमेश्वर-सत्तातिरिक्ता सत्ता प्रपञ्चस्य नास्तीत्य् अत आह—नेति । यथा शुक्ति-रूप्यादि मृषा, तथेदं विश्वं मृषा न भवति, किन्तु सत्यम् । उभय-युक् कारण-कार्ययोर् उभयस्मिन् युज्यत इत्य् उभय-युक् । तत् सत्यम् [तै।उ। २.६] इति श्रुत्य् उक्तं सत्त्वम् उभयत्र अस्तीत्य् अर्थः । किन्तु कारणस्य सत्त्वं सार्वकालिकं, कार्यस्य सत्त्वं कैञ्चित्कालिकं, तथा दृष्टेर् इति ।
कार्यस्य सत्यत्वं विना व्यवहारोऽपि न सिद्ध्यतीत्य् आह—व्यवहृतये व्यवहार-सिद्ध्य् अर्थं विकल्पः कार्यम् इषित इष्टः । स च सत्य एव सत्येनैव घटादिना व्यवहार-सिद्धेः । असता घटादिना जलाहरणाद्य् असिद्धेः ।
ननु कूट-कार्य-पणादिनापि व्यवहार-सिद्धिर् दृश्यते ? इत्य् अत आह—अन्ध-प्रपञ्चात्मया इति । सा सिद्धिर् अन्ध-प्रपञ्चात्मयैव अज्ञ-प्रपञ्चात्मयैव, न तु विज्ञ-प्रपञ्चात्मया । न हि भ्रान्तानाम् इव विज्ञानां कूट-कार्यापणाद्यैः क्रय-विक्रयादि-व्यवहारः सिद्ध्यति । न च तै रसायन-प्रयोगो नापि पुण्यथार्थिनां तद्-दानादिकं सम्भवेत्, तस्माज् जगद् इदं सत्यम् एव विज्ञानां नारद-दत्तात्रेयादीनाम् अप्य् अर्थ-क्रिया-कारित्वात् न यद् एवं न तद् एवं, यथा शुक्ति-रजतम् इत्य् अनुशासनेनैव जगत् सत्यम् एव, किन्तु नश्वरत्वाद् अनित्यम्।
यत् तु कर्मिणः खलु अपाम सोमम् अमृता अभूम [ऋ।वे। ८.४८.३] इत्य् आदिभिर् वेद-वाक्यैः कर्म-फलस्य नित्यत्व-प्रपञ्च्दृशनात् नित्यम् एव न कदाचिद् अनीदृशं जगद् इति ब्रुवते, सृष्टि-प्रलयौ च न मन्यन्ते, तन्-मतम् असद् इत्य् आहुः—भ्रमयति इति । हे भगवन् ! ते तव भारती वेद-लक्षणा उरु-वृत्तिभिर् बह्वीभिर् मुख्य-लक्षणादि-वृत्तिभिर् उक्थ-जडान् कर्म-श्रद्धा-जाड्याक्रान्त-मतीन् भ्रमयति मोहयति ।
अयं भावः—न हि वेदः कर्म-फलस्य नित्यत्वम् अभिप्रैति, किन्तु लक्षणया प्राशस्त्य-मात्रम्, विध्य् एक-वक्यत्वात् । अन्यथा वाक्य-भेद-प्रसङ्गात् । तद् यथेह कर्म-चितो लोकः क्षीयते एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छा।उ। ८.१.६] इति न्यायोपबृंहित-श्रुत्य् अन्तर-विरोधाच् च। अतः कर्म-जडान्आम् इदं भ्रम-मात्रम् इति ।
अत्र श्रुतयः—
यथोर्ण-नाभिः सृजते गृह्णते च
यथा पृथिव्याम् ओषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केश-लोमानि
तथाक्षरात् सम्भवतीह विश्वम् ॥ [मु।उ। १.१.७] इत्य् आद्याः ।
अत्राक्षर-शब्दाद् दार्ष्टान्तिकस्य कारणस्य नित्यत्वं, कार्यस्य तु सत्यत्वम् एव, न तु मिथ्यात्वं, नापि नित्यत्वम् इति वैष्णवानां मतम् एवोक्तं श्रुतिभिः ॥३६॥
॥ १०.८७.३७ ॥
न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद्
अनुमितम् अन्तरा त्वयि विभाति मृषैक-रसे ।
अत उपमीयते द्रविण-जाति-विकल्प-पथैर्
वितथ-मनो-विलासम्146 ऋतम् इत्य् अवयन्त्य् अबुधाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं प्रपञ्चस्य सत्त्वे साधकं नास्तीत्य् उक्तम्, इदानीम् असत्त्वे सृष्टि-प्रलय-श्रुतयो यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१] इत्य् आद्यास् तन् मूलं चानुमानं प्रमाणम् इत्य् आह—न यद् इदम् इति । यद् यस्माद् इदं विश्वम् अग्रे सृष्टेः पूर्वं न आस नासीत्, सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१], आत्मा वा इदम् एक एवाग्र आसीत् [ऐ।उ। १.१] इत्य् आदि-श्रुतेः । न च निधनात् प्रलयाद् अनु अनन्तरं भविष्यत् भविस्यति । नासद् आसीन् नो सद् आसीत् तदानीम् [ऋ।वे। १०.१२९.१] इत्य् आदि-श्रुतेः । अतः कारणाद् अन्तरा मध्येऽप्य् एक-रसे केवले त्वयि मृषा मिथ्या-रूपम् एव विभाति इति मितं निश्चितम् ।
यत एवम्, अतः श्रुत्या द्रविण-जाति-विकल्प-पथैर् द्रविण-जातीनां द्रव्य-मात्राणा मृल्-लोह-कार्ष्णायस-रूपाणां विकल्पा भेदा घट-कुण्डलादयः, तेषां पन्थानो मार्गाः प्रकाराः, तैर् उपमीयते सदृशतया निरूप्यते । यथा तत्र कार्या-काराणां नामधेय-मात्रता कारणं मृद् आद्य् एव तु सत्यं, तथात्राप्य् आकाशादीनां नाम-मात्रता ब्रह्मैव सत्यम् ।
तथा च श्रुतिः—
यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं भवति, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम्, यथा एकेन लोह-मणिना सर्वं लोहमयं विज्ञातं स्यात्, यथा एकेन नख-निकृन्तनेन सर्वं कार्ष्णायसम् [छा।उ। ६.१.४-६] इत्य् आदि ।
तस्माद् अस्य सत्त्वे प्रमाणाभावाद् असत्त्वे प्रमाणस्य विद्यमानत्वाद् वितथ-मनो-विलासम् ऋतं सत्यम् इति ये अवयन्ति जानन्ति तेऽबुधाः, अज्ञा इत्य् अर्थः । अत्रैवं प्रयोगः—
विवादाध्यासितं न सत् । आद्य् अन्तयोर् अविद्यमानत्वाद् विकारित्वाद् दृश्यत्वाच् च शुक्ति-रजतादि-वत् इत्य् अन्वये दृष्टान्तः । आत्मवच् चेति व्यतिरेके दृष्टान्तः ।
मुकुट-कुण्डल-कङ्कण-किङ्किणी-
परिणतं कनकं परमार्थतः ।
महद् अहङ्कृति-ख-प्रमुखं तथा
नर-हरेर् न परं परमार्थतः ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवम् उक्त-रीत्या सत्त्वे सत्यत्वे सृष्टि-प्रलययोः प्रतिपादकाः श्रुतयह् सृष्टि-प्रलय-श्रुतयः । आदिना, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य् आदि-ग्रहः । तन्-मूलं श्रुति-मूलकं चानुमानम् अत्रैवं-प्रयोगः इत्य् आदिनात्रैव वक्ष्यमाणं प्रमाणं मानम् । सद् एवेत्य् आद्याः श्रुतयस् तु सुगमा एव । नासद् इति । इदं जगत् अग्रे सृष्टेः पूर्वम् आत्मैवासीत् अखण्डैक-रसो जगद् अधिष्ठानत्वेन वास्त-स्वरूप-भूतः पदार्थ एवासीत् । न तु तत्-कार्य-भूतं नाम-रूपात्मकं जगद् आसीद् इत्य् अर्थः । तदानीं प्रलयानन्तरं सृष्टेः पूर्वम् असत्-कारणं नो आसीद् इत्य् अर्थः । यत आद्य् अन्तयोर् नैवास्ति अतो हेतोः । यतो हेतोर् एवं मिथ्यातो हेतोः । तत्र द्रविण-विकल्प-पथिषु अत्रापि ब्रह्मण्य् अपि अत्र प्रमाणं तथा चेति श्रुतीर् आह—
यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्याद् वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् ॥
यथा सोम्यैकेन लोह-मणिना सर्वं लोह-मयं विज्ञातं स्यात्, वाचारम्भणं विकारो नाम-धेयं लोहम् इत्य् एव सत्यम् ॥ यथा सोम्यैकेन नख-निकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्याद् वाचारम्भणं विकारो नाम-धेयं कृष्णायसम् इत्य् एव सत्यम् ॥ [छा।उ। ६.१.४-६] इत्य् एव सत्यम् इति ।
अर्थस् तु—हे सोम्य, यथैकेन घटादि-कारण-भूतेन मृत्-पिण्डेन विज्ञातेन सर्वम् अन्यत् कुम्भ-शरावादिकं विज्ञातं स्यात्, कारणानन्यत्वात् कार्यस्य । कथं तर्हि लोके इदं कारणम् इदं कार्यं वदन्ति व्यवहरन्ति च ? इति तत्राह—वाचारम्भणम् इति । वाचारम्भणम् यावद् वस्तु तत् सर्वं नाम-धेयं केवलं, न तु विकारो नाम वस्त्व् अन्तरम् अस्ति परमार्थतो मृत्तिकेत्य् एव सत्यम् । एवम् उत्तरत्रापि योज्यम् । यथा लोह-मणिना मणि-कारण-भूतेन सुवर्णपिण्डेन लोहमयं स्वर्ण-मयं नख-निकृन्तनेन नख-निकृन्तन-कारण्-भूतेन कार्ष्णायस-पिण्डेन कार्ष्णायसं छुरिकादात्रादिकम् । यथा विकारो न सत् कारणं सत्यं तथा विकारस्य प्रपञ्चस्य परम-कारणं ब्रह्म-मात्रत्वं सत्यम् इति यतो मृन्मयादि-तुल्यत्वं तस्माद् धेतोः ।
इत्य् अर्थ इति—असतः सत्यत्वेन मननम् अज्ञ-धर्म एवेति भावः । श्रुति-मूलकम् अनुमानम् आह—अत्रायम् इति । अत्र जगद् असत्यत्वे विवादाध्यासितं विवादास्पदीभूतं जगत्, अन्वये दृष्टान्तः—यदाद्य् अन्तयोर् अविद्यमानं दृश्यं विकार च तद् असत् यथा शुक्ति-रजतम् इति । व्यतिरेके दृष्टान्तम् आह—यद्य् आद्य् अन्तयोर् अविद्यमानं न दृश्यं विकारि च न तद् असद् अपि न यथात्मेति ।
स्वामिनाम्—मुकुटेति । मुकुटादि-रूपेण परिणतं परमार्थतः कनकम् एव तथा महदादि-प्रमुखं जगन् न किन्तु परमार्थतः परम् एव ब्रह्मैवेति ॥
श्रीधरानुयायिनी : तद् एवं विश्वस्य सत्यत्वे वाद्युक्त-जगत्-सत्यत्वानुमानादिकं किम् अपि साधकं नास्ति, तथा च गौतमस् स्वप्न-विषयाभिमान-वदयं प्रमाण-प्रमेयाभिमानः माया-गन्धर्व-नगर-मृग-तृष्णावद् वेति । साङ्ख्य-वृद्धा अपि—
गुणानां परमं रूपं न दृष्टि-पथम् ऋच्छति ।
यत्-तु दृष्टि-पथं प्राप्तं तन्-मायैव सुतुच्छकम् ॥
तथा—आरम्भ-परिणामाभ्यां पूर्वं सम्भावितं जगत् ।
पश्चाद्-गौतम-साङ्ख्याभ्यां युक्त्या मिथ्येति निश्चितम् ॥ इति ।
इदानीं विश्वस्यासत्यत्वे साधकं श्रुत्य् अनुमानादिकं प्रमाणम् अस्तीत् याह—नेति । यस्माद्-विश्वं सृष्टेः पूर्वं नासीत्-प्रलयानन्तरं च न भविश्यति तस्माद् आदावन्ते च यन्न् आस्ति वर्तमाने तत्-तत्-हेत्य् उक्ते मध्ये केवले त्वय्य् अधिष्ठाने मृत्-सुवर्णादौ घट-कुण्डलादिवत्-प्रतीयमानम् अप्य् आकाशादि नाम-मात्रं मिथ्यैव मृद् आदिवद्-ब्रह्मैव सत्यम् इति निश्चितम् । ये तु मिथ्या-भूतं सद्वा इदं मनस्येव परमं प्रतिष्ठितम् । यद् इदं किञ्च [महा।उ ३.३]। इति श्रुतेर् मनो-विलास-मात्रं विश्वं सत्यम् इति जानन्ति ते मूढाः । अत्र प्रमाणं श्रुतयः—
यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१.१]। वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४]। इत्य् आद्याः तन्-मूलकम् अनुमानं च विवादास्पदं विश्वं मिथ्याद्य् अन्तयोर् असत्त्वाद्-विकारित्वाद् ऋश्यत्वाद् वा शुक्ति-रजतादिवद्-व्यतिरेके आत्मवद् वा
यद् वा, ननु दीक्षित-विप्रादय एव मुहुर् निन्द्यन्ते कथं कल-भाषणम् आरभ्य मन्-निन्दातत्-परौ दुरात्मानौ शिशुपाल-दन्त-वक्त्राव् अपि नेत्य् आशङ्क्य तयोर् दौरात्म्यं वास्तवं नेत्य् आहुः न यद् इदम् इति । यद् यस्माद् इदं दौरात्म्यम् अग्रे तयोर् जय-विजय-भावे नासीत् तथा निधनात् धतत्क्षत्र-देहनाशाद् अनु च न भविष्यति तदा तयोः पुनः पर्षदत्व-प्राप्तेः । अतोन्तरा मध्ये एव शिशुलदन्त-वक्त्राख्य-क्षत्रिय-जन्मन्य् एव त्वयि विषये तयोर् दौरात्म्यं विभाति तन्-मृषैव् एति मितं निश्चितई अत्यन्तापराधिनोर् अपि तयोः पुनः पार्षदीकरणे हेतुम् आहुः—एक-रस इति । सर्वदा प्रेम-भक्ति-विषयक-परमानुग्रहैक-रस इत्य् अर्थः ।
यथा पूर्वं पश्चाच् च तयोस् तवानुग्रहस् तथैवान्तरापीति यावत्, अन्यथा तद् अनुपपत्तेः । आद्यन्तयोर् असत्त्वे\ऽपि मध्ये प्रतीयन्ते तद्वद् एवेदं दौरात्म्यं तयोर् इत्य् अर्थः । अतो ये शाल्वादय इदं वैरानुबन्धादिकम्, ऋतं सत्यम् एवेत्य् अवयन्ति जानन्ति ते मूर्खा एव । ईदृशानन्य-भक्तयोर् अपि स्वामिनि वैरानुबन्धे हेतुम् आहुः—वितथमनोविलासम् इति । विशिष्टं तथा तथ्यं स्वस्मिन्न् इति वितथः सत्यवादी वैकुण्ठ-वासी श्री-विष्णुस् तस्य मनो-विलासं जानन्ति न तु कंसादिवत्-तयोः स्व-मनो-विलास-रूपम् इदं दौरात्म्यं किन्तु तव युयुत्सायां सत्यां मत्-तुल्य-बलाव् एताव् एव नान्यः कश्चनेति विचार्य त्वयान्तर्यामिणा प्रेरिताभ्याम् एव ताभ्यां निरुद्धैः सनकादिभिर् दत्तं शापं निमित्ती-कृत्य सर्वम् इदं त्वयैव सम्पादितम्, अन्यथा वैकुण्ठ-स्थयोः पुना राक्षस-जन्मानुपपत्तेर् इत्य् आशयः । तथा च शापो मयैव निर्मितस् तद् अवैत विप्राः [भापु ३.६.२६] इति तृतीयोक्तिः समञ्जसा ब्रह्म-तेजः समर्थो\ऽपि हन्तुं नेच्छते मतं तु मे [भापु ३.६.२९]। इति च । यथा मुकुटादि-रूपेण तं विकार-भावं प्राप्तं सर्वं परमार्थतः स्वर्णम् एव । तथा-महद् आदिकं कार्यजातं परमार्थतो वस्तुतो नर-हरेः परम-कारणात्-परं भिन्नं नास्तीति स्वामि-श्लोकार्थः ॥
नीलकण्ठी : जगतः सत्यत्वे युक्त्य-भावम् उक्त्वा मिथ्यात्वे युक्तिम् आह—न यद् इदम् अग्र इति । इदम् अन्तराम् इतं मृषेति सम्बन्धः । तथा चायं प्रयोगः । इदं प्रत्यक्षादि-सिद्धं जगन्-मृषा अन्तरा मितत्वात् स्वप्तवद् इति हेतुं साधयति न यद् इति । यत् यतः इदं दृश्यम् अग्रे सृष्टेः प्राक् । नाभूत् तथा निधनाद् अनु विनाशाद् ऊर्ध्वं न भविष्यद् अभावं गमिष्यत्—
तथाक्षराद्-विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ।
इति सर्वेषां भावानाम् उत्पत्ति-प्रलययोः श्रवणाद्-बहुवादि-सम्मतत्वाच्-चेदम् अन्तराम् इतम् अतो मृषेत्य् अर्थः । यदाहुः सम्प्रदाय-प्रवर्तकाचार्याः आदावन्ते च यन्न् आस्ति वर्तमाने\ऽपि तत्-तथा । इति । ये तु स्वरूपेणाद्य् अन्तयोर् असन्न् अपि घटः सन्न् इति तार्किकाः प्राहुः, साङ्ख्याश् च स्थूल-रूपेण सूक्ष्म-रूपेण वा घटादिः सन्न् एव सर्व-देत्य् आहुस् तान्-प्रत्य् आह—त्वयि एक-रसे विभातीति । यद्धि यत्रैकस्मिन्न् अविकृतेनेकं रूपं भाति तन्-मृषा रज्ज्वां सर्प-दण्डादिवत् तस्मात्-स्वप्नवत्-सर्व-व्यवहारोपपत्तौ जगतः सत्यत्वं कल्प्यम्—
माया-मात्रम् इदं द्वैतम् अद्वैतं परमार्थतः । इति श्रुत्या सत्यत्व-कल्पनाबाधात् । नापि प्रत्यक्ष-सिद्धं तत् रज्जु-भुजङ्गादौ अनैकान्तत्वात्-प्रत्यक्षस्य यत एक-रसे इदं विभाति अतः द्रविण-जाति-विकल्प-पथैर् उपमीयते द्रविणं मृल्-लोहादिस् तद्-दृष्टान्त-मार्गेण तथा । जातिः ज्ञापयत्य् अर्थम् इति जाति-लिङ्गं युक्ति-मार्गेण तथा विकल्पः शब्द-ज्ञानानुपाती वस्तु-शून्यस् तन्-मार्गेण चेदं जगद्-वेदे उपमीयते । तत्र छान्दोग्ये तावत्—
येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् । इत्य् एक-विज्ञानात्-सर्व-विज्ञानम् उपक्षिप्य—
कथं नु भगवः स आदेशो भवति यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् यथा सोम्यैकेन लोह-मणिना सर्वं लोह-मयं विज्ञातं स्यात् ।
इत्य् आक्षेप-पूर्वकं दृष्टान्तम् उखेन समर्थितं सो\ऽयं द्रविण-पथो द्वैत-प्रतिपत्त्य् उपायः । यथोक्तं—
मृल्-लोह-विस्फुलिङ्गैस्तु सृष्टिर् या चोदिता पुरा ।
उपायः सो\ऽवताराय नास्ति भेदः कथञ्च न ॥ इति ।
अस्मिन् मार्गे मृद्-घटवत्-कनक-कुण्डलवच् च ब्रह्म-जगतो-रुपादानोपादेय-भावः सगुणोपास्त्य् अर्थं बन्ध-मोक्षादि-व्यवस्थार्थम् इष्टः । तथा जात एव न जायते को न्व् एनं जनयेत्-पुनः [बृ।आ।उ ३.९.२८]। इति श्रुतिः लोकदृष्ट्या जातो घटादिर् एव नोत्पद्यते किन्तु अजायमानो बहुधा विजायते [महा।ना।उ ३] इति जन्माख्यं विकारमन-श्नुवान एव परमात्मा बहुधा विजायत इति श्रुतेर् अध्यस्यत एव रज्जु-भुजङ्गमवत् उपादानाभावात् । न च प्रधानं परमाणवो वास्त्युपादानम् इति वाच्यम् । आद्यस्य पूर्व-श्लोके निरस्तत्वात् अणोर् अपि ।
दिग्द-शकाव् अच्छेद्य-प्रदेश-भेदवत्त्वाभ्य् उपगमे\ऽणुत्व-व्याघातः, अन्यथा परमाणु-व्योम्नोर् निःप्रदेशत्वाविशेषात्-तुल्य-परिमाणतापत्तिः ।
संयुक्तयोर् अण्वोरणुमात्रत्ववत्तयोर् अप्य् अन्यतर-मात्रत्वापत्त्य् अवश्यम्भावात् । तथा च व्योम्नो\ऽणुत्वमणोर् विभुत्वं चापद्येत निःप्रदेशस्यापि
कल्पितैः प्रदेशैर् अवच्छेद-कल्पने स्वप्न-दृष्टेष्टकानिचयेनापि सत्यं गृहम् आरभ्येत करणवच्-चेतनान् अधिष्ठितेषु तेष्व् अचेतनेषु प्रथम-चरम-संयोग-विभागासम्भवात्, व्यणुकोत्पत्तिनाशाद्य् अयोगेनारम्भवादासम्भवः क्षीर-परमाणोर् दधि-परमाणूत्पत्तौ अवयव-संयोग-रूपस्यासमवायिकारणस्याभावेन केवल-व्यावृत्तत्वेन केवल-समवायि-कारणाद् एव कार्योत्पत्तेर् अवश्यवक्तव्यतया
परिणामवादस्यैव ततो लघुत्वात् । एतेन निरवयवतया समवाय्य्-असमवायि-कारणासम्भवाव्योमादीनाम् अणूनां चानुत्पत्तिः परास्ता दधि-परमाणुवत्-केवला याः प्रकृतेर् एव तद् उत्पत्त्य् उपपत्तेः शब्दाद्-यनित्य-गुणाश्रयत्वेन च तेषां घटादिवत् कार्यत्वोपपत्तेश् च । एतेन सगुद्वस्तात्मवादो\ऽपि परास्तः । निर्गुणाद्-वैतात्मवादिनस्तु नैते दोषाः प्रादुःष्युः । तस्मान् न वियदादि सत्यं नापि तत्-कारणं प्रधानं सत्यं पूर्व-श्लोके तन्-मिथ्यात्वस्योपपाद् इतत्वात्, व्यावृत्तत्वाद् एव कार्यत्वात् । तस्माद् अव्यक्तम् उत्पन्नं त्रि-गुणं द्विज-सत्तम । इति स्मृतेश् च सोऽयम् असत्यस्योपादानस्यासम्भवो\ऽनूद्यते श्रुत्या-को न्व् एनम् इति । सो\ऽयं **जाति-पथो ब्रह्म-प्रपञ्चयोर् गुण-भुजगयोर् इवोपादानोपादेयभावं प्रख्यापयति ब्रह्मणः कौटस्थ-**साधकः । तथा सः यथा सैन्धव-घनो\ऽनन्तरो\ऽबाह्यः कृत्स्नो रस-घन एवं वा अरे\ऽयम् आत्मात्मानन्तरो\ऽबाह्यः कृत्स्नः प्रज्ञान-घन एव [बृ।आ।उ ४.५.१३]। इति । यथा कनक-कुण्डलयो-रज्जु-भुजङ्गमयोर् वा उपादान-स्वरूपम् अन्तरम् उपादेय-स्वरूपं बाह्यं नैवं ब्रह्म-जगतोर् अन्तर्बहिर् भावो\ऽस्ति यथा सैन्धवघनो बहिरन्तश् चैक-रस एवम् अयम् आत्मा व्युत्थान-समाध्योः प्रज्ञान-घन एव तत्र या कार्य-कारण-भाव-कल्पना सावन्ध्यायाः सुतः पुरुषस्य चैतन्यम् इतिवद्-विकल्प-मात्रम् । अत एव छान्दोग्ये मृदादि-दृष्टान्तान्ते—
वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४]। इति विकाराणां वाग् आलम्बनत्वात्-परपर्यायं विकल्प-मात्रत्वं श्रुतं सोऽयं **विकल्प-**पथः त एते द्रविण-जाति-विकल्प-पथास् तापनीये\ऽप्य् उक्ताः ओतानुज्ञात्-त्रनुज्ञा-विकल्पैः इति—
ओतत्वं कारण-व्याप्तिः कार्ये यद्-वन्-मृदो घटे ।
सर्वं ब्रह्मेति तन्-निष्ठा जानते परिणामतः ॥
कार्यस्यासमसत्त्वं य-त्कारणे समुदीरितम् ।
तद् अनुज्ञा-तृ-शब्दार्थो मरौ वारिविवर्तनम् ॥
एतन्-निष्ठास् ततो भूत्वा जगन्-मिथ्येति जानते ।
अनुज्ञायां जगत्-तुच्छं शश-शृङ्गादिवन्-मतम् ॥
तत्-स्थास्त्वन्तर् बहिर्-ब्रह्म सत्ता सामान्य-मात्रकम् ।
दिक्-कालाद्य् अनवच्छिन्नम् एकम् अस्तीति जानते ॥
एवं सोपानरीत्यैव भूमि-त्रि-तयलङ्घनात् ।
अविकल्पं परं यत्-तद् अहं ब्रह्मास्मि निर्भयम् ॥
विवृतं चैतत्-सर्वं-ज्ञात्म् अगुरुभिर् आरोप-दृष्टिर् इत्य् आदिना । यत एक-रसे कनक-शुक्ति-शश-स्थानीये त्वयि कुण्डल-रजत-शृङ्ग-स्थानीयम् इदं परिणामारोप-विकल्पैर् विविधं यथा स्यात्-तथा विभाति, अतः द्रविण-जाति-विकल्प-पथैर् मन्द-मध्यमोत्तमाधि-कारिणां क्रमेणाद्वस्तेप्रतिपत्तये उपमीयते इति निष्कर्षः । ततश् च—
न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः ।
न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता ॥
इति श्रुत्य् उक्तम् अर्थं फलितम् आह—वितथमनो-विलसितम् इति । असतो\ऽधि मनो\ऽजायत मनः प्रजापतिम् असृजत [तै।ब्रा। २.२.९.१०]। इति श्रुतेर् मिथ्या-ज्ञानोपादानक-मनो-मात्रं जगद् इत्य् अर्थः । यतो द्रविणादि-पथैर् उपमीयते\ऽतो **वितथ-मनो-**विलास-मात्रम् इदम् ।
तथा च गौतमः—
स्वप्न-विषयाभिमानवद् अयं प्रमाण-प्रमेयाभिमानः माया-गन्धर्व-नगर-मृग-तृष्णावद् वा ॥ इति ।
साङ्ख्य-वृद्धा अपि—
गुणानां परमं रूपं न दृष्टि-पथम् ऋच्छति ।
यत्-तु दृष्टि-पथं प्राप्तं तन्मायैव सुतुच्छ[क]म् ॥ इति ।
आरभ्य-परिणामाभ्यां पूर्वं सम्भावितं जगत् ।
पश्चाद्-गौतम-साङ्ख्याभ्यां युक्त्या मिथ्येति निश्चितम् ॥ इति ।
एवं-विध-बोध-शून्यान् अनुक्रोशति । ऋतम् इत्य् अवन्त्य-बुधा इति । असद् अप्य् एतन्-मूढाः सत्यम् इति जानन्ति यथेन्द्र-जालिक-निर्मिते नगरे व्यवहरतो वणिग्-जनान् निरालम्बन-व्यवहारतया पुरतत्त्व-विद-व्यहरन्न् उपहसति ते\ऽप्य् एनं लाभद्वारानभिज्ञो\ऽयं निर्व्यापार इत्य् उपहसन्ति एवं बुद्धाबुद्धौ परस्परम् उपहसतः । तथोक्तं वार्तिके—
बुद्ध-तत्त्वस्य लोको\ऽयं जडोन्मत्त-पिशाचवत् ।
बुद्ध-तत्त्वो\ऽपि लोकस्य जडोन्मत्त-पिशाचवत् ॥ इति ।
गीतास्व् अपि—या निशा सर्व-भूतानाम् [गीता २.६९] इति
परिणाम-विवर्त**-**विकल्प-पथैर् जड-मध्यम-सत्तम् अपुंविषयैः
शिवम् एक-रसं प्रतिपद्य पुमान् अभयं पदद्वयम् एति सुखम् ॥३७॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—यत् श्रुत्य् आदि-प्रसिद्धम् इदम् अनुभव-सिद्धम् इदं भगवत्-स्वरूप-जातं नारायणादि अङ्गे पूर्वं प्रकृत्याविर्भावान् न आस प्रकटं नासीत् निधनात् प्रकृत्यन्तलयादनु च न भविष्यति प्रकट-रूपेण न स्थास्यति अन्तरा मध्ये मितं प्रकटतया ज्ञातं प्रमाण-ज्ञानेन महा-पूर्ण-ब्रह्मानन्द-घनतया यथा स्वानुभवात् सर्वं त्वयि विभाति हृदि बहिर् वा भासमाने सति मृषा मिथ्यैव भवति । त्वयि कथम्-भूते एको मुख्यो रसो यस्य एक एव रसो यस्येति महा-सुख-साम्राज्य-सिन्धु-कोटि-प्रति-पादन-निस्यन्दि-परम-मधुर-पदारविन्दे त्वयि समनुभूयमाने\ऽन्यत्र सुख-बुद्ध्य् अनुदयान्-महा-सुखमयत्वेन ज्ञानस्य प्राक्तनस्य वाधात् । अतो द्रविण-जातीनां द्रव्य-जातीनां ये विकल्पा विविध-प्रकारास् त एव पन्थानो ज्ञानोपायास् तैर् भगवत्-स्वरूपम् अपि तारतम्येनानुमीयते यथा सुवर्णादेः कुण्डलाद्या विकल्पा बहवो भवन्ति यथा वा रसानां विविधाः प्रकाराः यथा वा दुग्धादेर् विकृतिर् भेदास् तारतम्येन रमणीयता चमत्कारं बिभ्रति । महा-चमत्कार-विकल्प-विशेषे चानुभूते पूर्व-गृहीत-रूपं मिथ्यैव भवति सर्वोत्तमेन वाधितत्वात् । एवं भगवत्-स्वरूपानन्दादि-चमत्कारः परमतया पूर्वं गृहीतो\ऽपि त्वद् आनन्दादि-चमत्कारानुभवेन बाधितो भवतीत्य् अर्थः । अबुधास् त्वद्-रूपास्वाद-रहिता वितथं मिथ्यैव **मनोव्-इलास-**मात्रं सर्वोत्तमत्वेन ज्ञातं स्वरूपम् इत्य् अर्थः । ऋतं यथार्थम् इत्य् अवयन्ति सर्वोत्तमत्वेन जायमानां बुद्धिं यथार्थां मन्यन्त इति ॥
नित्य-गोप्यस् तु कृष्णे स्वाधीनतां राधायाञ्चातिस्नेहं व्यञ्जन्त्य आहुह्—यद् इदं तवान्य-गोपीभिर् विहरणादि तद् अग्रे राधा-परिचयानन्तरं राधा-सङ्गात् पूर्वं नास । राधा-रूप-गुण-माधुरी-चमत्कारानुभवानन्तरं तुच्-छतुच्छवत् कृत्वा समस्त-व्रज-वर-सुन्दरीणाम् उपसन्नानाम् अपि दर्शनाद् इत्य् आगात् । अतो\ऽनु अतः पश्चाद् अपि न भविष्यति । निधनं स्वसङ्गाभावे मरणं दृष्ट्वापि नियतं धनं सर्वस्व-भूतस् त्वं यस्य तादृश-परमानुरागि-गोपी-जनं प्राप्यापि यच्-चान्तरा मितं ज्ञातम् अस्माभिर् अन्यया विहरणं त्वयि तन्-मृषा तितिक्षयास्माकम् उपेक्षयैव । कथं-भूते त्वयि एकं राधा-सङ्ग-सुखम् एव रसयति अन्यत्र कृष्णः सुख-बुद्ध्या न प्रवर्तते किन्त्व् अनुरोधाद् एव । भवतु तावता किम् इत्य् उपेक्षितम् आसीत् । अतः-परम् अन्यया आलापो\ऽपि दृक्-पातो\ऽपि कर्तुं न दातव्यः सन्ततम् अस्मत्-प्राण-सखी-सविध एव त्वं स्थापनीयः मनाग् अपि नास्यास् त्वद्-विच्छेद-दुःखं सोढुं शक्नुम इति भावः । अतो यतः श्री-राधायाम् एव तवाद्यासक्तिर् अन्यत्रासक्त्य् अभिनय-मात्रम् न वस्तुतः । ततो द्रविण-जाति-विकल्प-पथैर् उपमीयते विकारो मिथ्या मृदाद्य् एव सत्यं यथा तथान्यासक्तिर् मिथ्या राधा-सक्तिर् एव वास्तवीति । अबुधा गोप्यो वितथं **मनो-**विलास-मात्रम् ऋतम् इत्य् अवयन्ति—कृष्णस्य कपट-प्रीत्य् अतिशय-व्यञ्जनेन कृष्णो\ऽस्मास्वत्य् आसक्त इति यो मनो-विलासो मनः-कल्पनं तद् एव सत्यम् अवयन्ति । इदनीम् अस्माभिर् अन्याप्रसङ्गो\ऽपि निषेध्यस् तदा तासां मध्ये गमिष्यति—कृष्णो\ऽस्मद्-वशवर्तीति ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : ननु भ्रमयति भारतीत्यादिना कर्मिणो भ्रान्ता इत्य् आयातम् । उपासका एवाभ्रान्ताः, उपासनायां गुरूपसत्तिर् अस्य कार्यैवेति चायातम् । तत्रैवं विचार्यते—उपासना च कर्मैव, तत्-कृताः कथा अभ्रान्ताः ? सत्यं, मत्-सेवायां तु निर्गुणाः [भा।पु। ११.२५.२७], मन्-निकेतस् तु निर्गुणम् [भा।पु। ११.२५.२५] इत्य् आदिईनां वक्ष्यमाणत्वात् । त्वत्-सम्बन्धि यत् तद् एव निर्गुणम् अप्राकृतम् इति तव धाम्नि विशेष्कृतादिकस्य प्रपञ्चवन् न मिथ्यात्वम् एवेत्य् आहुः—न यद् इदम् इत्य् आदि ।
अतः कारणात् द्रविण-जातीनां द्रव्य-कारणादीनां मृत्-कनकादीनां ये विकल्पा भेदा घट-कुण्डलादयः, तेषां पथिभिर् मार्गैर् उपमीयते, सदृशत्वेन निरूप्यते, यथा तेषां पथिषु घट-कुण्डलादय आकारेण नाम-मात्र-भेदाः, वस्तुतस् तु मृत्-कनकाद्य् एव ऋतं सत्यं, तव धाम वितथं मनो-विलासम् अबुधा अवयन्ति, न तु बुधाः । बुधास् तु वितथ-मनो-विलासात् पृथक्, कैवल्यम् इव मूर्तिमत् [भा।पु। ३.१५.१६] इत्य् आदिना बहुशो निरूप्यमाणं तव धाम ऋतम् इत्य् एव वदन्ति ।
तद् एव किम् ? इत्य् आह—न यद् इदम् इत्य् आदि । यद् इदं न मृषा, यतोऽग्रे आस आस्त इत्य् अर्थः । निधनाद् अनु अनन्तरं च भविष्यत् नष्टं दृष्टा पुनर् भविष्यतीति, न सर्व-दा भवेद् एवेति भावः । अतोऽन्तरा सृष्टि-प्रलययोर् मध्ये च एक-रसे सम-रसे त्वयि विभाति, त्वदीयत्वेन शोभते, एक-रसस्य रसान्तराभावात्, तत्राप्य् एक-रसत्वं तव तेन सत्यम् एव तद् इति भावः । मितं निश्चितम् एवेदम् इति ॥३७॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतत्-पूर्वोक्तम् एव विशदयन्ति—नेति । इदं विश्वं सृष्टेः पूर्वं त्वयि लीनत्वान् न आस, पृथङ् नासीद् इत्य् अर्थः । त्वयि लयस्य भावित्वात् पृथङ् न भविष्यति । अतोऽन्तरा मध्ये एक-रसे चिद्-घने त्वयि यद् विभाति, विभिन्नतया भाति, तन् मृषा । अत इदं चित् तादात्म्यापन्नत्वाद् द्रविण-जाति-विकल्प-पथैर् द्रविण-जातयः सुवर्ण-रजतादयस् तद्-विकल्प-पथैः कटक-किरीट-कुण्डलादिभिर् उपमीयते, तानि यथा सुवर्णादि-तादात्म्यापन्नत्वात् तद्-रूपाण्य् एव, तथेदं विश्वम् अपीति । अतो हेतोः ऋतम् एवेदम् अबुधा मनो-विलासम् अवयन्ति ।
यद् वा, ननु ते पाषण्डादयः शास्त्र-युक्त्यैव वदन्ति, तत् कथा अन्धत्वं तेषाम् ? तत्राहुः—इदं जैन-जङ्गम-म्लेच्छादि-शास्त्रम् । अग्रे कृत-युगादौ यस्मान् नासीत्, निधनाद् अनु कल्किना करिष्यमाणात् पाषण्डिनां निधनाद् अनन्तरं च न भविषति । अतोऽन्तरा मध्ये द्वापरान्त-कलि-सम्बन्धिनि काले त्वयि त्वद्-विषये तेषां मितं मानं ज्ञानम् इति यावत् मृषा विभाति, एक-रसे एकस्मिन् वेद एव स्व-माहात्म्य-बोधकत्वाद् रसो यस्य, अतो द्रविण-जाति-विकल्प-पथैः । द्रविणस्य स्वर्गादेर् जातये जन्मने सिद्धये धूर्त-धातु-वादिनां ये विकल्पा नानौषध्यादिभिर् विविध-कल्पनास् तेषां पथिभिर् मार्गैर् उपमीयते, तथा तेषां विविध-कल्पना मृषा धातु-वादेन वित्ताशाहताशान्तस्य दुर्मतेर् इति प्रसिद्धेः । तथैतेषां शास्त्रम् अपीति ।
ननु तर्हि कथा सुबुद्धि-प्राया अपि तत्-पथानुवर्तितया तत्र सुष्ठु विश्वस्ता दृश्यन्ते ? तत्राहुः—वितथेति । मनो-विलासं निर्मूलं, अबुधा एव, न तु ते सुबुद्धय इत्य् अर्थः ॥
ननु दीक्षित-विप्रादय एव मुहुर् निन्द्यन्ते, न तु कथं कल-भाषणम् आरभ्य मन्-निन्दैक-निष्ठौ सुष्ठु दुरात्मआनौ शिशुपाल-दन्तवक्रौ ? इत्य् आशङ्क्य ताभ्याम् कृतं दौरात्म्यं वास्तवं न स्याद् इत्य् आहुः—न यद् इति । यद् यस्माद् इदं दौरात्म्यम् अग्रे तयोर् जय-विजय-भावे नास, तथा निधनात् एतत् क्षत्र-देह-नाशाद् अनु च न भविष्यति, पारिषदत्व-प्राप्तेः । अतोऽन्तरा मध्ये एव तयोर् दौरात्म्यम् एक**-रसे** कदाप्य् अव्यभिचारि-परमानुग्रहैक-रसे त्वयि मृषा विभाति इति मितं ज्ञातम् । अतो द्रविण-जातयः स्वर्ण-रूप्यादयस् तासां विकल्पाः कटक-कुण्डलादयस् तेषां पथिभिः प्रकारैः, यथा तत्राद्य् अन्तर्वर्ति-स्वर्णादिकम् एव सत्यं, न तु कुण्डलादि, तथा तयोर् भक्तिर् एव स्थायिनी, न तु दौरात्म्यम् इत्य् अर्थः । वितथं मनो-विलास-मात्रं ब्रह्म-शापेन कृत्रिमतया मनसि प्रकटितं दौरात्म्यं त्वयि द्वेष-रूपं, अबुधाः शाल्वादयस् तत्-सुहृदः सत्यम् इति जानन्ति ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न यद् इदम् इत्य् अस्य टिकायां श्रुतौ असत् कारणं महदादि सत् कार्यं पृथिव्यादिः पूर्वोक्तौ हेतुः वाचारम्भणम् इति लोहमणिना सुवर्ण-पिण्डेन । एतच्-छ्रुत्य् अनन्तरं च वाचारम्भणम् इत्य् आदिकं च ज्ञेयम् । किन्तु लोहम् इत्य् एव सत्यम् इति यथायथं वाक्य-शेषो ज्ञेयः । व्याख्यायाम् आत्मवच् चेति व्यतिरेके दृष्टान्तः ।
अथ स्व-व्याख्यायाम्—ननु तर्हि कथं नहि विकृतिं त्यजन्तीत्य् उक्तं तत्रान्यः सिद्धान्तयन्तः पूर्वार्थम् एव द्रढयन्ति—नेति । यत् यदि इदं विश्वं निधनात् प्रलयं प्राप्याग्रे सृष्ट्य् आदौ नासीत्, तदा न भविष्यत् त्वत्तो नाभविष्यद् एव सिकताभ्य इति तैलम् । अतः सत्-तादात्म्येन इदं-शब्द-वाच्यस्य विश्वस्य सूक्ष्म-रूपेण तदानीं स्थितिः श्रूयते सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य् आदौ, नासद् आसीत् इत्य् आदि-श्रुतिस् तु प्राकट्यम् एव निषेधति । अतो\ऽनुमितं किम् अन्तरास्थिति-समये\ऽपि त्वय्य् एव विभातीति यद् भूतं भवच् च भविष्यच् च [बृ।आ।उ ३.८.६] इति श्रुतेः । एक-रसे शुद्धे त्वयि विभाति यत् तन् मृषैवाविवेकाद् एवेत्य् अर्थः । अयम् आत्मापहत-पाप्मा [छा।उ। ८.१.५] इति श्रुतेः ।
अयं भावः—विश्वं यज् जायते त्वच्-छक्तित्वेन त्वद् अन्यस्मात् त्वद् उपहिताप्रधानाद् एव, तदा स्थिति-प्रलयाव् अपि तत्रैव अतस् त्वद्-व्यतिरेकेण तद्-व्यतिरेकाद् एव हि त्वय्य् अच्युते, स्वतस् तु त्वम् अन्तरङ्गया चिच्-छक्त्या बहिरङ्ग-तद् अस्पृष्ट एवेति । तद् उक्तं प्रथमे श्रीमद् अर्जुनेन—
त्वम् आद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि ॥ [भा।पु। १.७.२३] इति ।
अतस् तद् अविवेकाद् एवेदं द्रविण-जाति-विकल्प-पथैर् उपमीयते, न तु तद्-विवेकात् । ततश् च तद् आत्मतयेति तन्-मात्र-दृष्ट्यैव न हि विकृतिं त्यजन्तीत्य् उक्तं, न तु विकृति-दृष्ट्येति । तस्माद् इदं वितथं मनो-विलासं मनः-सङ्कल्प-मात्र-सिद्धं ये वदन्ति, ये च ऋतं त्वद् अत्यन्ताभिन्नम् अपि वदन्ति, ते उभये\ऽपि मूर्खा एव मनसो\ऽपि कार्यान्तः-पातात् अनिर्मोक्ष-प्रसङ्गाच् च । श्रुतयो दर्शिता एव ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तर्हि कथं न हि विकृतिं त्यजन्तीत्य् उक्तम् ? तत्राद्याः सिद्धान्तयन्त्यः पूर्वार्थम् एव द्रढयन्ति—न यद् इदम् इति ॥३७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न केवलं त्वत्-परिजना एव त्वद् अभिन्नाः, अपि तु तव वृन्दावनादि-धाम-कदम्बम् अपि तथेत्य् आहुः—न यद् इदम् इत्य् आदि । इदं तव वृन्दावन-मथुरा-द्वारकादि-स्थलं यत्, तन् न मृषा, प्रपञ्चवन् न नश्वरम् । अग्र आस अग्रे सृष्टेः प्राग् अप्य् आसीत्, न भविष्यत् नाष्टं भूत्वा पुनर् भविष्यतीति न । अतः कारणात् निधनान् महा—प्रलयाद् अप्य् अनु पश्चाद् आसेत्य् अर्थः । सृष्टि-प्रलयोर् मध्येऽपि मितं स्थितम् ।
कुतः ? इत्य् आहुः—एक-रसे एकावस्थे त्वयि विभाति चेद् यथा-स्वम् एवैक-रसस् तथा तव धामापि । अहम् एवासम् एवाग्रे [भा।पु। २.९.३२] इत्य् आदिना यथा त्वं त्रैकालिके सिद्धस् तथा तद् अपि तत्रैवोक्तम् । एतच् च एतद् विशेष्कृताख्यं मद्-धामाप्य् अहम्, अतोऽस्यापि त्रैकालिकी सिद्धिर् इति ।
एतद् एवाभिन्नत्वं दृष्टान्तेन स्पष्टयति—अत उपमीयत इत्य् आदि । द्रविण-जातीनां द्रव्य-प्रकाराणां मृत्-कनकादीनां ये विकल्पा भेदा घट-कुण्डलादय आकारास् ते वस्तुतस् तु मृत्-कनकाद्य् एव । तेन त्वया सह तव लोकस्याकार-मात्रेणैव भेदं, न वस्तुत इति । एवं-प्रकारेण ऋतं तव वृन्दावनादिकं लोकम् अबुधाः कुतर्क-परा वितथ-मनोऽभिलाषं147 वितथो यो मनोऽभिलाषस् तद् अनित्यो यः प्रपञ्चस् तम् इव अवयन्ति । बुधास् तु कैवल्यम् इव मूर्तिमद् इत्य् आद्य् एव जानन्तीति भावः ॥३७॥
परमात्म-सन्दर्भ [७१] : एवं जगतः सत्यत्वम् अङ्गीकृतं तच् च नश्वरम् इति । तत्र नश्वरत्वं नात्यन्तिकं किन्त्व् अव्यक्ततया स्थितेर् अदृश्यता-मात्रम् एव । सत्-कार्यता-सम्प्रत्तिपत्तेः । यद् भूतं भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३] इत्य् आदि-श्रुतेः । अत एव शुक्तित्वे रजत्वम् इव तस्याव्यक्त-रूपत्वे जगत्त्वम् असन् न भवति । पटवच् च [वे।सू। २.१.२०] इति न्यायेन जगद् एव हि सूक्ष्मतापन्नम् अव्यक्तम् इति दृश्यत्वेन भ्रान्ति-रजत-कक्षम् अपि जगत् तद्-विलक्षण-सत्ताकं तथात्मवद् अपरिणतत्वाभावेन नैकावस्थ-सत्ताकम् इत्य् एवम् अर्थ-सिद्धये तद् अनन्तरम् एवाहुः—न यद् इदम् इति ।
यद् यदि इदं विश्वम् अग्रे सृष्टेः पूर्वं नास नासीत्, तदा न भविष्यन् नाभविष्यद् एव, अड् आगमाभाव आर्षः, आकाश-कुसुमम् इवेति भावः । श्रुतयश् चासीद् एवेति वदन्ति— सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१], आत्मा वा यद् इदम् अग्र आसीत् [बृ।आ।उ। १.४.१] इत्य् आद्याः । तद् एवं सूक्ष्मतया त्वत्-तादात्म्येन स्थितं कारणावस्थम् इदं जगत् विस्तृततय कार्यावस्थं भवति । अतो यन् निधनान् नाश-मात्राद् धेतोः शुक्तौ रजतम् इव त्वयि तद् इदम् अन्तरा सृष्टि-मध्य एव, न त्व् अग्रे चान्ते च विभाति इत्य् अनुमितं, तन् मृषा इति, प्रमाण-सिद्धं न भवतीत्य् अर्थः ।
तत्र हेतुम् आहुः—एक-रसे इति । अनुभवान्तरा-विषयानन्द-स्वाद इति, यस्मिन्न् अनुभूते सति विषयान्तर-स्फूर्तिर् न सम्भवति, तस्मिंस् त्वयि शुक्त्यादि-निकृष्ट-वस्तुनीव विषयारोपः कथं स्यात् ? इत्य् अर्थः ।
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावस्थान् ॥ [भा।पु। १०.८७.३५] इत्य् अस्माकम् एवोक्तेः॥
अतोऽचिन्त्य-शक्त्या स्वरूपाद् अच्युतस्यैव तव परिणाम-स्वीकारेण द्रविण-जातीनां द्रव्य-मात्राणां मृल्-लोहादीनां विकल्पा भेदा घट-कुण्डलादयस् तेषां पन्थानो मार्गाः प्रकारास् तैर् एवास्माभिर् उपमीयते, न तु कुत्रापि भ्रमरजतादिभिः । यस्माद् एवं, तस्माद् वितथा मनो-विलासा यत्र तादृशम् एव ऋतं तद्-रूपं ब्रह्मैवेदं जगद् इत्य् अबुधा एव अवयन्ति मन्यन्ते, तस्य तद् अधिष्ठानत्वासम्भवाद् इति भावः । ऋत-शब्द-प्रयोगस् त्व् अत्र मिथ्या-सम्बन्ध-राहित्य-व्यञ्जनार्थम् एव कृत इति ज्ञेयम् ।
अत्र सत्कार्य-वादिनाम् अयम् अभिप्रायः—मृत्-पिण्डादि-कारकैर् यो घट उत्पद्यते स सन्न् असन् वा । आद्ये पिष्ट-पेषणम्, द्वितीये क्रियायाः कारकैश् तत्-सम्बन्धस्य ख-पुष्प-धारणवद् असम्भवात् तेन च तेषाम् अन्यथात्वात् कथं तत्-सिद्धिः ? इति दिक् । तस्मान् न प्रकटम् एव सन् न चात्यन्तम् असत्, किन्त्व् अव्यक्ततया148 मृत्-पिण्डे एव स्थितोऽसौ । यथा कारक-तन्-निष्पन्न-क्रिया-योगेन व्यज्यते, तथा परम-कारणे त्वयि स्थितं विश्वं त्वत्-स्वाभाविक-शक्ति-तन्-निष्पन्न-क्रिया-योगेनेति ।
अत्र स्व-वेदान्तित्व-प्रख्यापकानाम् अप्य् अन्यथा-मननं149 वेदान्त-विरुद्धम् एव । मन एव भूत-कार्यम् इति हि तत्र प्रसिद्धं, युक्ति-विरुद्धं च, मनोऽहङ्कारादीनां मनः-कल्पितत्वासम्भवात् । तथा हि सति वेद-विरुद्धोऽनीश्वर-वादश् च प्रसज्येत । स च निन्दितः पाद्मे—
श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् ।
वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ इति ।
असत्यम् अप्रतिष्ठं ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ [गीता १६.८]
इति श्री-गीतोपनिषदादि-दृष्ट्यैवानीश्वर-वादिन एवं150 व्याचक्षते—असत्यं मिथ्या-भूतं सत्यासत्याभ्याम् अनिर्वचनीयत्वेन अप्रतिष्ठं निर्देश-शून्यं, स्थाणौ पुरुषत्ववत् ब्रह्मणीश्वरत्वस्याज्ञान-मात्र-कल्पितत्वाद् ईश्वराभिमानी तत्र कश्चिन् नास्तीत्य् अनीश्वरम् एव, जगत् अपरस्पर-सम्भूतम् अनाद्य् अज्ञान-परम्परा-सम्भूतम्, अपरस्पराः क्रिया-सातत्ये । अतः काम-हैतुकं मनः सङ्कल्प-मात्र-जातं स्वप्नवद् इत्य् अर्थः । अत्र प्रवृत्तिं च [गीता १६.७] इत्य् आदिना तेषां संस्कार-दोष उक्तः । एतां दृष्टिम् [गीता १६.९] इत्य् आदिना तु गतिश् च निन्दिष्यते इति ज्ञेयम् । एभिर् एव ब्रह्मण ऐश्वर्योपाधिर् मायापि जीवाज्ञान-कल्पिता तयैव जगत्-सृष्टिर् इति मतम् ।
यद् उक्तं तदीय-भाष्ये तद् अनन्यत्वम् [वे।सू। २.१.१५] इत्य् आदि-सूत्रे—सर्व-ज्ञेश्वरस्यात्म-भूते इवाविद्या-कल्पिते नाम-रूपे तत्त्वातत्त्वाभ्याम् अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते सर्व-ज्ञेश्वरस्य माया-शक्तिः प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति, किन्त्व् अत्र विद्याविद्ये मम तनू [भा।पु। ११.११.३,५४] इत्य् आदि-श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो माया-वादतया चायं वादः ख्यायते । तद् एवं च पाद्मोत्तर-खण्डे देवीं प्रति पाषण्ड-शास्त्रं गणयता श्री-महा-देवेनोक्तम्—
मायावादम् असच् छास्त्रं प्रच्छन्नं बौद्धम् उच्यते ।
मयैवं कथितं देवि कलौ ब्राह्मण-रूपिणा ॥
वेदान्ते तु महा-शास्त्रे मायावादम् अवैदिकम् ।
मयैव वक्ष्यते देवि जगतां नाश-कारणात् ॥ [प।पु। ६.९३.६६, ६९] इति ।
तच् चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तम् अस्ति । तया च पाद्म एवान्यत्र शैवे च—
द्वापरादौ युगे भूत्वा कलया मानुषादिषु ।
स्वागमैः कल्पतैस् त्वं च जनान् मद्-विमुखान् कुरु ॥
इति श्री-भगवद्-वाक्यम् इति दिक् । अत एवोक्तं श्री-नृसिंह-पुराणे यम-वाक्ये—
विषधर-कणभक्ष-शङ्करोक्तीर्
दशबल-पञ्चशिखाक्षपाद-वादान् ।
महद् अपि सुविचार्य लोक-तन्त्रं
भगवद् उपास्तिम्151 ऋते न सिद्धिर् अस्ति ॥ इति ।
सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टाः, न तु मन्त्र-ग्रन्था इति नामाक्षरम् एव साक्षान् निर्दिष्टम् इति च नान्यथा मननीयम्,152 आनन्द-मयो\ऽभ्यासात् [वे।सू। १.१.१२] इत्य् आदिषु वेदान्त-सूत्र-कार-मतं तत्र दूष्यत इति । अतो यत् क्वचित् तत्-तत्-प्रशंसा वा स्यात्, तद् अपि नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य-वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् ।
तस्मात् स्वतन्त्र ईश्वर एव सर्व-स्रष्टा, न तु जीवः स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् । तद् उक्तं श्री-बादरायणेनापि बहुत्र, सञ्ज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [वे।सू। २.४.२०] इत्य् आदिषु ।
अतस् तन् मनोऽसृजत, मनः प्रजापतिम् [तै।ब्रा। २.२.९.१०] इत्य् आदौ मनः-शब्देन समष्टि-मनोऽधिष्ठाता श्री-मान् अनिरुद्ध एव, बहु स्यां प्रजायेय [छा।उ। ६.२.३] इति तत्-सङ्कल्प एव वा वाच्यः । सत्य-स्वाभाविकाचिन्त्य-शक्तिः परमेश्वरस् तुच्छ-मायिकम् अपि न कुर्यात्, चिन्तामणीनाम् अधिपतिः स्वयं चिन्तामणिर् एव वा कूट-कनकादिवत् । तथा च माध्व-भाष्य-प्रमाणिता श्रुतिः—अथैनम् आहुः सत्य-कर्मेति सत्यं ह्य् एवेदं विश्वम् असृजत इति । एवं च—
सत्य-व्रतं सत्य-परं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम् ऋत- सत्य-नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [भा।पु। १०.२.२६]
इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-परायणत्वं सृष्ट्यादि-लीला-त्रयेषु सत्यत्वं, सत्यस्य विश्वस्य कारणत्वं सत्य एव, विश्वस्मिन्न् अन्तर्यामितया स्थितत्वं सत्यस्य तस्य सत्यता-हेतुत्वं, सत्य-वचनस्याव्यभिचारि-दृष्टेश् च प्रवर्तकत्वं, सत्य-रूपत्वम् इत्य् एतेषाम् अर्थानाम् आकृतं153 परिपाटी च सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य् आदौ त्रये तत्रापि निहितं च सत्य इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-कल्पना-मयार्थान्तरे तु भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य् अतो ब्रह्मादिभिस् तस्य तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च । तस्मात् सत्यम् एव विश्वम् इति स्थितम् ॥३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् एवार्थं सत्-कार्यवादि-मताश्रयिण्यः श्रुतयः स्पष्टतया सोपपत्तिकम् आहुः—नेति । यद् इदं प्रसिद्धं विश्वं तत् अग्रे सृष्टेः प्राक् नासन् नासीत् । अतः अस्माद्भाविनः प्रलयात् अनु पश्चात् न भविष्यत् न भविष्यति । किन्तु अन्तरा मध्य एव मितं प्रमाण-विषयी-भूतं विभाति । कुत्र मृषति परामृषतीति मृषः । जगद् एवं सृजामीति परामर्षवान् यः परमेश्वरस् तस्मिन् त्वयि । किञ् च । प्राग् अभाव-ध्वंसवत्-त्वाद् इदं
यस्मान्-नित्यत्वेन न प्रमितम् । अतो द्रविण-जातीनां मृत्-सुवर्णादीनां विकल्पा भेदा घट-कुण्डलादयः । तेषां पन्थानो मार्गाः प्रकारास् तैर् उपमीयते । तत्-सदृशयतया सत्यत्वेनैव, न तु शुक्ति-रजत-रज्जु-सर्पादि-प्रकारैर् मिथ्यात्वेन निरूप्यत इत्य् अर्थः । अत एव विभातीति विशिष्ट-भानार्थं वि-शब्दः प्रयुक्तः ।
किञ् च । तथापि वितथ-मनो-विलासम् इदं मिथ्येति ये विगीत-ज्ञानिनः ये च ऋतं सार्व-कालिक-सत्ताकम् इदम् इति विगीत-कर्मिणो\ऽवयन्ति जानन्ति ते अबुधाः अपण्डिताः ॥३७॥
॥ १०.८७.३८ ॥
स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन्
भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः ।
त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो
महसि महीयसेऽष्ट-गुणितेऽपरिमेय-भगः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यदि प्रपञ्चो नाम नास्त्य् एव, तदासता तेन न चैतन्यस्य सम्बन्ध-गन्धोऽपि, तर्हि किम् अपराद्धं जीवेन यतोऽयं संसरति ? किं वा, बहु-पुण्यम् ईश्वरस्य यतो नित्य-मुक्तः, किं-विषयां च तदा कर्म-काण्डम् ? इत्य् अपेक्षायां जीवेश्वर-विशेषं,
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभिचाकशीति ॥ [श्वे।उ। ४.६]154
अजाम् एकां लोहित-शुक्ल-कृष्णां [श्वे।उ। ४.५] इत्य् आद्या वदन्तीत्य् आह—स यद् अजयेति ।
स तु जीवो यद् यस्मात् अजया मायया अजाम् अविद्याम् अनुशयीत आलिङ्गेत् । ततश् च गुणांश् च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया अध्यस्यन् । तद् अनु तद् अनन्तरं सरूपतां तद्-धर्म-योगं च जुषन् अपेत-भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति । त्वम् उत त्वं तु जहासि तां मायाम् ।
ननु सा मय्य् एवास्ति कथं त्यागस् तत्राह—अहिर् इव त्वचम् इति । अयं भावः—यथा भुजङ्गः स्वगतम् अपि कञ्चुकं गुण-बुद्ध्या नाभिमन्यते तथा त्वम् अजां मायाम् । न हि निरन्तराह्लाद-संवित्-कामधेनु-वृन्द-पतेर् अजया कृत्यम् इति ताम् उपेक्षसे ।
कुत एतत् ? तद् आह—आत्त-भगो नित्य-प्राप्तैश्वर्यः । महसि परमैश्वर्ये अष्ट-गुणिते अणिमाद्य् अष्ट-विभूतिमति । महीयसे पूज्यसे विराजसे ।
कथम्-भूतः ? अपरिमेय-भगः अपरिमेयैश्वर्यः । न त्व् अन्येषाम् इव देश-काल-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यम्, अपि तु परिपूर्ण-स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः ।
नृत्यन्ती तव वीक्षणाङ्गण-गता काल-स्वभावादिभिर्
भावान् सत्त्व-रजस्-तमो-गुण-मयान् उन्मीलयन्ती बहून् ।
माम् आक्रम्य पदा शिरस्य् अतिभरं संमर्दयन्त्य् आतुरं
माया ते शरणं गतोऽस्मि नृ-हरे त्वम् एव तां वारय ॥३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते-नन्व् इति । असतासत्येन तेन प्रपञ्चेन सम्बन्धस्य गन्धो लेशः सम्बन्ध-गन्धः । अपराद्धम् अपकृतम्, अयं जीवः किं-विषयः को\ऽधिकारी जीवेश्वरयोर् विशेषं भेदं द्वा सुपर्णा [श्वे।उ। ४.६] इत्य् आद्या वदन्ति । तद् अर्थः—द्वौ सुपर्णौ प्रथम-द्विवचनस्याकारादेशः छन्दसि । एवम् अग्रे\ऽपि । शोभन-गमनौ । सयुजौ बिम्ब-प्रतिबिम्ब-भावेन सदा संयुक्तौ सखायौ नित्योपकारकोपकार्यत्वेन वर्तमानौ समानम् एकम् एव वृक्षं देहं परिषस्वजाते परिष्वक्तावन्तौ नियामक-नियम्याद्य् उपाधि-मत्त्वेन परिगृह्य वर्तेते तयोर् द्वयोर् मध्ये\ऽन्यः प्रति-बिम्बभूतो जीवः पिप्पलं कर्म-फलं स्वादु विविध-विषयास्वादनं यथा भवति तथा उपभुङ्क्ते, तस्माद् अन्यो बिम्ब-भूतः परमात्मेश्वरः पिप्पलम् अनश्नन्न् अभिचाकशीति स्व-प्रकाशाखण्ड-वृत्ति-मात्र-रूपेणास्त इत्य् अर्थः । अत्र सुपर्णत्वं पक्षित्वं तयोर् नानाधिष्ठान-स्वीकार-परित्याग-साम्यात् । अजाम् एकां [श्वे।उ। ४.५]इति पूर्वव्याख्याता । अजया तव मायया मोहित इति शेषः ततस् तस्मात् गुणान् गुण-परिणामान् अध्यस्यन्-मन्यमानः तद्-धर्म-योगं देहेन्द्रिय-धर्माणां कार्य-बाधिर् यशो-कादि-रूपाणां योगं सम्बन्धं तद्-विषयम् अविद्यावद्-विषयम् । इति भाव इति अविद्यया देहाद्य् अध्यासेन च तत्-तत्-फलेच्छया कर्म-मार्ग-प्रसक्तो भवतीति तात्पर्यम् । स्वगतस्य परित्यागो\ऽसम्भव इत्य् आक्षिपति—नन् विति । तत्-त्यागो माया-त्यागः । निर्गलितार्थम् आह अयम्-भाव इति—निरन्तराह्लादिन्यो याः संवित्-काम-धेनवः स्वस्व-रूप-विद्या-काम-धेनवस् तासां वृन्दस्य सङ्घस्य पतेः । बहुत्वं वृत्त्य् अभिप्रायम् । अजया छागीसमया यथा-परिमित-दुग्ध-प्रद-धेनु-वृन्दपतेः छाग्या कृत्यं न, तथा परमानन्द-स्वरूपावस्थितस्य मायाया निवृत्तत्वात्तया सह कृत्यं सङ्गच्छेतेति भावः ।
एतन्-मायोपेक्षणं कुतः तदाह आत्म-भग इति । अन्येषाम् इन्द्रादीनाम् इव । इत्य् अर्थ इति अपरिमितैश्वर्यस्य तव परिमितैश्वर्याज् जीवान्महान्-विशेष इति भावः । स्वामिनाम्-नृत्यन्तीति । भो नृहरे! त्वाम् एव शरणं गतो\ऽस्मि तां मायां वारय । का सा स माया, त्वां किं करोतीत्य् अत आह—ते तव माया तव वीक्षणम् एवाङ्गणं तत्र गता नृत्यन्ती तव दृष्टि-लब्ध-सामर्थ्या नाना-विध-भावं कुर्वन्ती गुण-मयान्-भावान् शान्त-घोर-मूढ-लक्षणान् उन्मीलयन्ती प्रकाशयन्ती सती मां शिरसि पदा पादेनाक्रम्यातिभारं यथा स्यात्तथा सम्मर्दयन्ती तवैव माया त्वम् एव तां वारय नान्यस्य **तद्-**वारणे सामर्थ्यम् अस्ति—
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति श्री-मुखोक्तेः ॥
श्रीधरानुयायिनी : नन्व् अविद्या-तत्-कार्य-रूप-संसारस्यासत्त्वे तेनासता सम्बन्धाभावात् किन्-निमित्तको [केनापराधेन ।] जीवस्य संसारः कथं वा [केन पुण्यौघेन ।] नित्य-मुक्तत्वम् ईश्वरस्य कर्म-काण्डं च किं विषयम् इत्य् आकाङ्क्षायां संसारे निमित्तं जीवेश्वर-विशेषं चाह—स इति । स च जीवो यस्मान्-मायया मोहितः स्थूल-सूक्ष्म-देहाकारेण परिणताम् अविद्याम् आलिङ्ग्य देहेन्द्रियादीन् आत्मतयाध्यस्य तद् अनन्तरम् एव तत्-**तद्-**धर्मान् आत्मन्यध्यस्य भोग्य-विषयान्-प्रीत्या सेवमानस् तेनैव हेतुना मनसा भोग्याकारतां सम्प्राप्याविद्यया पिहितानन्दादि-गुणः संसरति एतद्-विषयकम् एव कर्म-काण्डम् ।
किञ् च—यथा सर्पः स्वगतम् अपि कञ्चुकं गुण-बुद्ध्या नाभिमन्यते किन्तु स्वेच्छया तं दूरतस् त्यजत्य् एव तथैव नित्य-प्राप्तापरिमितैश्वर्यत्वं ताम् अविद्यां मायां वा दूरतस् त्यक्त्वाणिमाद्य् अष्ट-विभूतिम् अति परमैश्वर्ये सदा विराजसे । न हि कोटि-काम-धेनु-पतेश्छाग्या कृत्यं किम् अपीति प्रसिद्धतरम् । अयम् आशयः—तेजों\ऽशं सुवर्णादिकं तम इव त्वद् अंशं जीवम् अविद्या-वृणोत्य् एव । तेजः-पुञ्जं भास्करम् इव चिद्-धनं त्वां तमो-रूपाविद्या कदापि नावृणोति चिद्-रूपत्वाविशेषे\ऽपि न त्वय्य् अविद्या-सम्बन्ध-गन्धो\ऽपि, अत एव न माया-सम्बन्ध-गन्धो\ऽपीति ध्येयम् ।
यद् वा,-चैद्यादि-प्रसङ्गेन स्मारितस्य कंसस्य व्यवस्थाम् आहुः—स यद् इति । स प्रसिद्धो महा-वैरी कंसः यद्यस्मात् इत-गुणान् इतान् देवक्याम् आगतान्-गुणान् त्वद् अवतार-सूचक-प्रभावान् जुषंश् च अनुभवन्न् अपि सरूपतां तद् अवस्थाम् एव दुष्टतां भजति स्म । इतः कर्बुर आगते इति मेदिनी । अतस् तवाजया माययाजाम् अविद्यां मोहम् अनुशयी त्वद् अवतारावसरे स-परिजनः कंसो निद्राम् अवाप त्वम् उत त्वं तु श्री-गोकुलम् आगत्य तां मायां जहासि भगिनीत्वेनाङ्गीकृताम् अपि कंसं प्रत्य् एव प्रस्थापयसि । तत्रान् आसक्तौ दृष्टान्तम् आहुः— अहिर् इवेति । तद् अनु तद् अनन्तरं स कंसो मृत्यु भजति स्म यतः स कंसः अपेत-भगः हत-भाग्यः त्वं तु आत्त-भगः नित्य-प्राप्त-परिपूर्णैश्वर्यो\ऽसि तत्राप्य् अष्टभिः श्री-राधादि-प्रियाभिर् महा-लक्ष्म्य् अवतार-निज-कान्तिभिः श्री-रुक्मिण्य् आदिभिर् वा गुणिते शोभिते महसि वन-विहार-जल-विहार-रास-विहारान्तः-पुर-विहार-महोत्सवे महीयसे विराजसे वैमानिकादिभिः कुसुम-वर्षणादिभिः पूज्यसे वा तत्राप्य् अपरिमेय-भगो\ऽसि ॥
नीलकण्ठी : एवं परिणाम् अविवर्त-विकल्प-मार्गा अद्वैत-प्रतिपत्ति-सोपान-रूपा मन्द-मध्यमोत्तमाधिकारि-गम्या उक्ताः । तत्र द्वितीये जीवैक्यं स्वप्नवद्-व्यवहारः एकम् उक्तौ सर्व-मुक्तिर् इति न बन्ध-मोक्ष-व्यस्थास्ति । नतरां तृतीये सर्वापवाद-रूपत्वात् । प्रथमे तु तत्-सर्वं सम्भवतीत्य् अभिप्रेत्य तद्-यो-यो देवानां प्रत्य् अबुद्ध्यत स एव तद् अभवत्-तथर्षीणां तथा मनुष्याणाम् । इति श्रुत्य् उक्तां बन्ध-मोक्ष-व्यवस्थाम् आह स यद् अजयेति । यद् इति क्लीबत्वम् आर्षम् । यः त्वम् अजयाजाम् अनुशयीत स त्वम् उत अपरिमेय-भगो\ऽसीति सम्बन्धः । यस् त्वं पूर्वम् अजया मूल-विद्ययाजां स्थूल-सूक्ष्म-देह-द्वयाकारेण परिणतां मायाम् अनुशयीत तद्-धर्मान् आत्मन्यध्यस्यासीत च ततो\ऽध्यासानन्तरं गुणान्-भोग्य-जातं **जुषन्-**प्रीत्या सेवमानः । हेतौ शतृ-प्रत्ययः । सेवनाद्-धेतोः सरूपतां भोग्याकारतां मनसा भजति तद् अनु भोग्य-सारूप्यम् अनु मृत्युं संसारं भजतीत्य् अनुषज्यते । कुत एवं यतो\ऽपेत-भगः अविद्यया तिरस्कृतैश्वर्यः य एवं-विधः संसारी स त्वम् उत त्वम् एव कथम् आत्त-भगः उपात्त-वैराग्यादि-साधन-सम्पत्तिः सन् ताम् उक्त-विधाम् अविद्यां शास्त्राचार्य-प्रसाद-लब्ध-सन्-मार्गो भूत्वा जहासि त्यजसि । क्षिर-सर्पिर् न्यायेनाविद्यातः सकृत्-पृथग्-भूय न पूर्ववत्-तद् ऐक्यम् अनुकरोषि । अत्र दृष्टान्तः अहिर् इव त्वचम् इति । यथा सर्पः पूर्वम् आत्मतयोपात्तं त्वचं त्यक्त्वा पुनर् वल्मीकबिले शयानायां तस्यां सञ्चरन्न् अपि न ताम् आत्मत्वेनाभिमन्यते, एवं त्वम् अपि देहादाव् अभिमानम् इति । तथा च श्रुतिः—
तद् यथाहि-निर्लपिनीं वल्मीके मृतो प्रत्यस् तां शयीत एवम् एवेदं शरीरं शेते\ऽथायम् अशरीरो मृतः प्राणो ब्रह्मैव तेज एव चक्षुर् अचक्षुर् इव सकर्णो\ऽकर्ण इव सवागवाग् इव समना अमना इव सप्राणो\ऽप्राण इव ॥ इति ॥
अयं भावः—रज्ज्वादीनाम् एअक-तूला-ज्ञान-विषयत्वात्-तत्र निवृत्तो\ऽपि सर्प-भ्रमः पुनर् उदेति न त्व् एक-मूलाज्ञान-विषये प्रतीचि सकृन्-निवृत्तस्य देहात्म-भ्रमस्य पुनः सम्भवो\ऽस्ति कारणाभावात् । तत्-त्व् अपक्षपातित्वाच् च बुद्धेः । यदाहुर् बाह्या अपि—
निरुपद्रव-भूतार्थ-स्वभावस्य विपर्ययैः ।
न बाधो यत्नवत्त्वे\ऽपि बुद्धस् तत्-पक्ष-पाततः ॥ इति ।
तस्मात्-सुष्टूक्तम् अहिर् इव त्वचम् इति । एवम् अनर्थ-निवृत्तिं विद्या-फलम् उक्त्वानन्दावाप्तिम् अप्य् आह—महसि महीयस इति । अजां हित्वा स्वे महिम्न प्रतिष्ठिते चित्-प्रकाशे स्वरूपभूते विद्योतस इत्य् अर्थः । कीदृशे महसि, अष्ट-गुणिते ।
य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघित्सो\ऽपिपासः ।
सत्य-कामः सत्य-सङ्कल्पः ॥
इति श्रुत्य् उक्तैः अपि-मां महिमा-लघिमा-गरिमा-प्रति-प्राकाम्येशित्ववशित्वाख्यैर्वाष्टभिर् गुणैर् युक्ते । अत एव त्वम् अपरिमेय-भगः अनन्तैश्वर्यः । अत्र—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५]
इति श्रुतेर् अजानुशयी बद्धः तत्-त्यागी मुक्त इत्य् उक्तम् । तत्र-कार्योपाधिर् अयं जीवः कारणोपाधिर् ईश्वरः । इति श्रुतेर् अनेक-तरङ्ग-प्रतिबिम्ब-चन्द्राभा अनेके जीवाः । जलाशय-प्रतिबिम्बाभ एक ईश्वरः । तत्र यस् तरङ्गो जलाशये लीनस् तत्-प्रतिबिम्बो जलाशय-प्रतिबिम्बत्वम् एति नान्यः । एवं यद् अन्तःकरणं विद्यया जीवोपाधिभूतं स्वकारणे मायायां लीयते तद् उपहित-चितिर् ईशत्वम् एति नान्योपहिता । ततो मायाया अपि बाधे शुद्ध-चिन्-मात्रत्वम् इति युज्यते—
लवणं सलिल-द्वारा तेजो\ऽभ्येति न तु स्वतः ।
एवं जीव-शिव-द्वारा याति विष्णोः परं पदम् ॥३८॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपाः आहुः—श्री-कृष्णस्य नारायणाद् उत्कर्ष श्री-कृष्णस्य च सर्व-वस्थातः श्री-राधा-रसाविष्टावस्थाया उत्कर्ष वर्णयन्त्य आहुः—स नारायणो यद्-यस्मात् अजया स्वपरशक्तिमायया अजां जड-त्रि-गुण-प्रकृति-रूपाम् अनुशयीत आलिङ्गत् ततो गुणान् समष्टि-व्यष्टि-देहान् स्वनिर्मितान् जुषन् सेवमान आहार्याभिमानं कुर्वन् सरूपतां भजति प्राकृत-कर्तृत्वादि-रहितो\ऽपि तद्वान् इव भवति । अपेत-भग उपाधि-संसर्ग-दोषाद्-अनभिव्यज्यमान-निज-महैश्वर्यः । जीवा अथान्ये समष्टि-व्यष्टि-देहा अविद्याभिमानिनस् तद् अनु मृत्यु संसारं भजति प्राकृत-धर्मेण तद्वान् इव भवतीत्य् अर्थः । त्वन्तु ताम् अजां मायां जहासि मायाम् अधिष्ठाय सृष्ट्यादि न करोषि सृष्टानां च परिपालन-निग्रहानुग्रहादि-वैयग्र्य-रूप-संसारवान् इव न भवसीति । अहिरिव त्वचं सापि माया त्वद् आश्रितव तथापि सख्यान् न तां त्वम् अधितिष्ठसि किन्तु नारायण-रूपेणैव आत्तं गृहीतमैश्वर्यं येन ऐश्वर्याभि-व्यक्तिस् तव सर्वोपाधि-रहितस्य नास्तीति भावः । आत्तं स्वीकृतं भगं भजनम् एव येन न तु सृष्ट्यादि तथापि अष्टाभिर् नायिकाभी राधा-चन्द्रावली-ललिता-विशाखा-श्यामा-पद्मा-भद्रा-शैव्याभिर् गुणितेन\ऽप्रधानीकृते स्वायत्तीकृते महसि परम-महोत्सव-रूपे विलासे महीयसे विराजसे । महा-ज्योतिर्मय-विग्रहे वा महा-महोत्सवमये वृन्दावने वा । एवं महा-रस-साम्राज्य-सार-महार्णवम् अग्नो\ऽपि त्वम् अपरिमेय-भगोऽपरिमितैश्वर्य-निधिः । त्वदैश्वर्यापेक्षया । त्वत्-स्वरूपान्तरेषु त्वद् अवस्थान्तरेषु वा ऐश्वर्यं परिमितम् एवेति भावः ।
यद् वा, परितो मा शोभा मधुर-रस-सम्पत्तिर् वा यस्याः सर्वासु गोप-सुन्दरीषु रमादि-दिव्य-रमणी-वृन्द-मृग्य-नख-मणी-रामणीयकासु यस्या एव प्रेम-रूप-रस-वैदग्ध्याद्य् अंशाः प्रसृताः सा श्री-राधैव पूर्ण-महानुराग-रूप-विलासादि-निधिस् तस्या इः कामस् तं याति प्राप्नोति भगं भजनीय-गुण-धाम-वपुर्-यस्य आपरिमेय-श्रीर् इति वा । अपरिमापरिमिता इः शोभा इः कामः कृष्ण**-विषयो वा यस्यास् तां राधां याति भगं सर्वम् ऐश्वर्यं यस्य राधाया हृतम् इत्य् अर्थः । इत्थं वा श्रुत्य् उक्तिः—स भगवान् अजया अजां निज-शक्तिं लक्ष्मी-रुक्मिण्यादि-**रूपाम् अनुशयीत वर्तते माययैव तद्-गुणांश् च शब्द-स्पर्श-रूपादीन् जुषन् सेवमानो भवति माययैव स्वरूपताञ् च भजति **तद्-वद् अत्यासक्तो भवतीत्य् अर्थः तं मेनिरे\ऽवला मौढ्यात् स्त्रैणं पार्श्वगतं रहः [भा।पु १.१.४०] कुहकैर् न शेकुः [भा।पु १.११.३७] इत्य् आद्य् उक्तेः । माययैवापेतैश्वर्यो भवतीति तद् अधीनो भवति । वस्तुतः सर्वात्म परब्रह्मानन्दानुभव-मग्नस्यान्यासक्तत्वादिनां न सम्भवतीति । त्वं तु तां मायां जहासि सान्द्रानन्द-महा-रस-साम्राज्य-साराकर-विशुद्ध-प्रेम-शाक्त्य् एक-विलासितया स्वप्रेम-शक्त्य् उपजीविनीं तां मायां फल्गुतया त्यजसि तेन स्वाभाविक एव तवासक्त्य् आदिर् इत्य् अर्थः । अष्टनायिका-गुण-भूती-कृते महसि स्वरूपे महीयसे । आत्त-विशिष्टैश्वर्यं श्री-कामादिः तत्रापि विशेषम् आह—परितो मा यस्याः सा राधा तद्-विषयेण इना कामेन अत्य् उद्रिक्तेनापरिमेय-भगो निज-महा-महैश्वर्येऽअपि अदृष्टिर् इत्य् अर्थः । ऐश्वर्यं निमिषार्द्धम् अपि राधासङ्गति-त्याग-सामर्थ्यं तद् रहितः अन्यासङ्गतिस्तु तदैव त्यक्तं शक्यते राधा-**रसाकृष्टतया न विद्यतेऽन्याभजनं वा स्वारसिकं यस्य कामो वा अन्यस्याम् इति ।
नित्य**-गोप्यस् तु आहुः—यद्यो भवान् मायया अजां लज्जा-भयादिकं क्षिपति स्वयम् एव कामोन्मत्ततां गच्छति सविधं प्राप्नोति देवाद्वनवीथ्यादौ निरन्तरं भ्रमन्ती जानाति च तम् एव नान्यत् स्व-देह-गेहादिकं किम् अपि तां गोपाङ्गनाम् अजया मायया कपट-प्रेमावेशेनानुवर्तते तद्-गुणांश् च शब्द-स्पर्शादीन सेवते माययैव च तद्वत्-**तदासक्तो भवति । **अपेत-भगश् च तत्-सन्निधानत्यागासमर्थ इव च भवति—स एव त्वं मायां कपटं जहासि अहिर् इव त्वचम् त्यक्तायाम् अपि मायायां कदाचिद् अपि वर्तसे रसपोषार्थम् एव अन्यया मिलन-विडम्बन-मात्रं कृत्वा न मया कयापि क्रीडितम् इत्य् आदि मायां करोषि श्री-राधाया वा मानादिकम् उत्पादयितुं किं कर्तव्यम् मय्याबाल्यम् अत्यन्तानुरागिणीनां समाधानार्थं पित्रोः प्राण-वयस्यानां च मद् एक-जीवानानां निर्वृत्य व्रजे गमनम् अपेक्षितम् । मम तत्र न मनः खेदनीयमत्यचिरेणागन्तव्यम् इत्य् आद्य् अपेक्षाभावे\ऽपि तद् उपन्यास-कपटं वा कदाचिद् अवलम्बलम्बसे इत्य् एवं दृष्टाशयः अष्टाभिर् मुख्याभिर् गुणिते विहारादिभिर् अभ्यस्ते\ऽपि महसि तव वपुषि त्वं परिमा राधा तत्-कामेनैव अभगः किम् अपि चेष्टितुम् अनीश्वरः अश्री-को वा निमिष-विरहेण परम-म्लानः अभमदीप्तिं निज-**वपुर् गच्छतीति वा । **आत्त-**भगो\ऽपि परमैश्वर्य-परमश्री-सम्पन्नो\ऽपीति ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एवं तस्य धाम्नो नित्यत्वम् उक्त्वा जीवेभ्यः पार्षदानाम् अपि सर्वोत्कर्षत्वेन वर्तमानत्वं च विचार-णीयम् इत्य् आहुः—स यद्-अजयेत्य् आदि । स जीवो यद्य यस्माद्-अजया मायया अजाम् अविद्याम् अनुशयीत, न केवलम् अजां गुणांश् च तत्**-कृतधर्मांश् च तद् अनुमृत्युम् अनुशयीत मृत्युम् उपैत्य् अपेतभगो गतैश्वर्यः । सरूपतां जुषन् भक्तस् तु भजति न मायाम् अनुशेते, न च तद्-गुणांश् च अनुशेते, सदा भजत्य् एव । कथं भक्तो मायावशो न भवति तत्राह—त्वम् इत्य् आदि । त्वम् उत त्वं तु ताम् अविद्यां जहासि हापयसि अन्तर्-**भूतण्यर्थः । अहिरिव जहतीं तां हापयसि । **त्वद्-भजनेन कुण्ठिततया स्वयं निर्गच्छन्ती मायामनुकूलः सन् त्वम् अपि हापयसीत्य् अर्थः । यतो माया-**मुक्तस् तव भक्त इत्य् अर्थः । उक्तं च
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता। ७.१४]इति
अतो जीवो\ऽपेत**-भगः**, भक्तस् तु आत्त-भगः, व्यवहितत्वान् न दोषो वास्मिन् ग्रन्थे ग्राह्यः । अतस् त्वं कर्तुम् अकर्तुम् अन्यथा कर्तुं समर्थ इत्य् आहुः—महसीत्य् आदि । अपरिमेय-भगो-\ऽपरिमेयैश्वर्यस् त्वम् अष्ट**-गुणितैर् अणिमाद्य् अष्ट-विभूतिम् अति महसि महीयसे पूजितो भवसि । अष्ट-गुणिते महसि अपरिमेय-भगः** सन् महीयसे इत्य् एवार्थः । अन्येषां योगिनाम् अष्ट**-विभूतयः सन्ति, त्वं तु अष्टस्व् एव विभूतिष्व् अपरिमेय-भगः**, ते न तथा ॥३८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं प्रपञ्चस्य मिथ्या-रूपत्वे\ऽपि निज-दुर्वासनया मायिक-विषय-भोगाभिनिवेन जीवो विविध-दुःखं प्राप्नोतीत्य् आहुः—स इति । यया अजया ।
ननु मायया बहिरङ्ग-श्क्त्या कथं चिद्-रूपस्य मद् अंशस्य तस्येदृशो\ऽनर्थः सम्भवेत् मायोपेक्षके त्वयि **तद्-**वैपरीत्येनानर्थस्य मायिक-शक्त्य् एक-हेतुकत्वावगमाद् इति व्यतिरेक-मुखेनाहुं-त्वम् इति । जहासि उपेक्षसे नाद्रियस इत्य् अर्थः । स्वकीयया अपि दोषावहत्वात् त्यागे दृष्टान्तः अहिरिवेति । अतो माया-सम्बन्धेन महा-दोषं मायोपेक्षया महा-गुणं च विचार्य मिथ्या-भूते\ऽपि मायिक-विष-भोगादौ कथम् अपि बुधैर् आसक्तिर् नैव कार्येति तात्-पर्यम् । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, यद्-यस्माद् अनुशयीत भोगार्थम् अनुवर्तते, तत् तस्माद् गुणान् विषयान् जुषन्न् अपेत-भगो ध्वस्त-निज-ज्ञानः सन्, किं वा त्वद्-भक्ति-भाग्यर् अहितः सरूपतां प्रपञ्चातीतो\ऽपि प्रपञ्चसाम्यम्, अतो\ऽनु वारं-वारं मृत्युं च भजति । यद् वा, प्रपञ्चस्यासद्-रूपत्वे\ऽपि मिथ्यैव जीवो दुःखं प्राप्नोतीत्य् आहुः—स इति । हे अज! जीववज् जन्म-रहित! स जीवो\ऽजामविद्यां यातु प्राप्नोतु नाम, यद् यस्माद्-गुणान् जुषन् जोषितुम् । हेतौ शतृ-प्रत्ययः । तामनु शयीत तत्र परमा-सक्तिं कुर्वीत, तद् अनु सरूपतां जन्मेत्य् अर्थः । तद् अनु जन्मानन्तरम् अपेत-भगो हत-निज-ज्ञानः सन् मृत्युं भजति, सर्वदा जन्म-मरण-प्रवाहे पततीत्य् अर्थः ।
ननु प्रपञ्च-मध्ये कृतावतारस्य ममापि तत्-सम्बन्धे सम्भावनास्तु, तत्राहुः—त्वम् उत त्वं ताम् अविद्याम् । आविद्यक-सृष्टिं जहासि, दूरतः परिहरसि । अहिर् इव कञ्चुकम् । यथा त्यक्ते कञ्चुके सर्पो दृशम् अपि नार्पयति, तथा त्वम् आविद्यक-सृष्टाव् इत्य् अर्थः । परम-चित्-प्रकाश-रूपे ब्रह्म-तादात्म्यापन्ने वैकुण्ठ-लोके\ऽष्ट-गुणितेऽष्टैश्वर्य-पूर्णे आत्त-भगः प्रकटित-सर्व-इश्वर्यो महीयसे शोभसे । ननु सत्य-लोकादि-विभूतिवत्-तद् ऐश्वर्यस्यापि गुण-विलासतास् तु, तत्राहुः अपरिमेय-भग इति । तद् ऐश्वर्यस्यानन्त्यात् सर्व-गुणातीतमेवेत्य् अर्थः ॥
ननु भवतु तयोः संसारित्वस्य मिथ्यात्वम्, निद्रादि-रूपां प्रापञ्चिकज्-ईवावस्थां भजतो मे जीव-निर्विशेषत्वेन कथं संसारित्वाभाव इत्य् आशङ्क्य साधारण-जीवानाम् एव दुःख-भरस्याविच्छेदं वर्णयन्त्यः श्री-भगवतो नित्य-निर्भर-परमानन्दास्वादम् आहुः—स इति । स जीवः । जाताव् एकवचनम् । अजया अविद्यया अजाम् अजाकार्य-भृतां निद्राम्, दुःखमय-स्वप्नं यद्-यस्मात्-तत्रैव स्वाप्निक-विषयान् सेवमानः सरूपतां सुर-नर-तिर्यक्-समान-रूपतां भजति, तद् अनु कदाचिन्-मृत्युं मृत्यु-तुल्यां सुषुप्तिम् अपि भजति, ततश्चापेत-भगः सर्वथा विस्मृत-निज-साध्य-साधन-भावः स्यात्, इति घोर-संसार-धर्म-मज्जनेन सदा दुःखम् एवानुभवेद् इत्य् उक्तं भवति, त्वं पुनस् तां निद्रां जहासि, दूरतः परिहरसि । श्री-भवतो जीववद्-रजः-कार्य-भूता निद्रा नास्त्य् एव, किन्तु शक्ति-विशेष-विलासभूता सा योग-निद्रेत्य् उच्यते । तथापि तच् चब्देन तस्याः परामर्शो बहिर् वृत्त्य् अभावेन द्वयोः साम्यात् । योग-निद्ररायाम्-अप्य् आत्त-भगः प्रकटित-परमैश्वर्यः । तथा-भूताया अपि परिहारः सर्वासु रात्रिषु रासादि-महा-लीलास्व्-अभिनिवेशेन निद्राया अवसराभावात्, तथा तादृश-बहिर् लीलातो\ऽन्तर् लीलाया गौणत्वात् । अतस् ताम् एवाह—महसि रासादि-रूपे महोत्सवे\ऽपरिमेय-भगः सन् युगपत् सर्व-व्रज-सुन्दरी-गण-पार्श्ववर्तित्वाद् अप्रकटित-पूर्वाणां सर्व-गुण-रूप-माधुरी-विशेषाणां प्राकट्याच् च, परमाद्भुत-स्वरूपो विराजसे । कथम्-भूते अष्ट-गुणिते अष्टभिर् मुख्य-भूताभिः प्रेयसीभिः श्री-राधादिभिर् गुणिते परिशीलिते ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स यद् इत्य् अस्य टीकायां श्रुतौ द्वेतिद्वाव् इत्य् अर्थः । एवम् उत्तरत्रापि सुपर्णत्वं पक्षित्वम् । तच् च नानाधिष्ठान**-स्वीकार-परित्याग-**साम्यात् । तत्रैकस्य भोक्तृत्वेनान्यस्य भोजयितृत्वेनेति ज्ञेयम् ।
सयुजेति संयुक्तौ मिथो व्यभिचार**-शून्याव् इत्य् अर्थः । पिप्पलं कर्म-फलम् इति । स्वव्याख्यायां तु—अथ श्रीमद् ईश्वरस्य प्रधाना स्पृष्टत्वम् एव जीव-वैलक्षण्येन दर्शयन्त्यः काश्चित् तद् अनु गताः स्तुवन्ति किञ् च ननु भवतु जगतो मद्-वैलक्षण्यं तादृश-जाड्यादितः जीवस्य तु अनाश-चिद्-रूपत्वात्-सालक्षण्यम् एव तर्हि कथं ममैव भजनीयत्वं पूर्वाभिर्दर्शितम् इत्य् आशङ्क्य तद् अर्थम् एव जीव-श्वर-स्वरूप-**वैलक्षण्यं प्रतिपादयन्त्यः स्तुवन्ति-स इति । तैर् व्याख्यातम् ।
पिहितानन्दादि**-गुणत्वेन स्वतो\ऽपि जीवस्य स-विशेषत्वं प्राप्तं तच् च युक्तम् एवेश्वरांशत्वात्, एतद्-विवरणं श्री-भागवत-सन्दर्भ-तट्-**टीकयोर् दृश्यम् । यद् वा, स जीवो यद्-यस्माद् अजया माययाजां स्वरूपाज्ञानम् **अनु-**लक्ष्यी-कृत्य शयीत मुह्यति तत्-तस्माद् अपेत-स्वरूप-सामर्थ्यः सन् सरूपतां माया-कार्योपाधि-सामर्थ्यं भजन् गुणांश् च विषयान् जुषन् अनुमृत्युं संसारं भजतीति । तत्रैकेनोपाधिना स्वस्मिन् स्थितेन कस्यचित्-स्पर्शः कस्यचिन् नेति सामर्थ्य-वैलक्षण्यात्-स्वरूप-वैलक्षण्यम् अवगम्यते तच् च ब्रह्म-स्तवे दर्शितम् । अत्र श्रुतयो द्वा सुपर्णा [श्वे।उ। ४.६] इत्य् आद्याः ॥३८॥
जीव-गोस्वामी (भगवत्-सन्दर्भः २०) : अत ऊर्ध्वं गुणादीनां स्वरूपात्मता-निगमनात् स्वरूप-शक्तिर् एव पुनर् अपि विव्रियते यावत् सन्दर्भ-समाप्तिः ।155 तत्र गुणानां स्वरूपात्मताम् आहुः—
तथा च तत्रैव पूर्वम् उक्तं त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः [भा।पु। १०.८७.१४] इति । यद् वा, अहिर् इव त्वचम् इत्य् अत्र त्वक्-शब्देन परित्यक्ता जीर्ण-त्वग् एवोच्यते । स यथा तां जहातीति तत्-समीपम् अपि न व्रजति, तथा त्वम् अपि माया-समीपं न यासीत्य् अर्थः ।
अन्यत्र च—
विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् ॥ [भा।पु। १०.३७.२२] इति ।
तथोद्धवं प्रति श्री-भगवद्-वाक्यं—
सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पारगैः ।
तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥ [भा।पु। ११.१५.३] इति ।
अग्रे च एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः । [भा।पु। ११.१५.५] इति ।
अत एव दैत्य-बालकान् प्रति श्री-प्रह्लाद-वाक्यम्—
केवलानुभवानन्द-स्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुण-सर्गया ॥ [भा।पु। ७.६.२३]
टीका च—ननु स एव चेत् सर्वत्र, तर्हि सर्वत्र सर्व-ज्ञताद्य् उपलभ्येत ? तत्राह—गुणात्मकः सर्गो यस्यास् तया मायया अन्तर्हितम् ऐश्वर्यं येन इत्य् एषा । अत्र भगवद् ऐश्वर्यस्य माययान्तर्हितत्वेन, गुण-सर्गयेति मायाया विशेषण-विन्यासेन च तद् अतीतत्वं बोधयति स्वरूपवत् । अतः परमेश्वर इति विशेषणम् अपि तत्-सहयोगेन पूर्वम् एव दत्तम् इति ज्ञेयम् । श्रुतयश् च—
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां स-रूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५]
यद् आत्मको भगवांस् तद् आत्मिका व्यक्तिः । किम् आत्मको भगवान् ? ज्ञानात्मक ऐश्वर्यात्मकः शक्त्य् आत्मकश् च । दैवात्म-शक्तिं स्व-गुणैर् निगूढां [श्वे।उ। १.३] इत्य् आद्याः । अत्र स्व-गुणैर् इति यातीत-गोचरा वाचां [वि।पु। १.१९.७६] इत्य् उक्तैः स्वीय-स्वभावैर् इत्य् अर्थः । अत्र श्री-विष्णु-पुराणे षष्ठांशे, निरस्तातिशयाह्लाद- [वि।पु। ६.५.५९] इत्य् आदि-प्रकरणं तदीय-श्री-धर-स्वामि-टीका चानुसन्धेया ॥३८॥156
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ श्रीमद्-ईश्वरस्य प्रधानास्पृष्टत्वम् एव जीव-वैलक्षण्यं दर्शयन्त्यः काश्चित् तद् अनुगताः स्तुवन्ति । किं च, ननु भवतु जगतो मद्-वैलक्षण्यं नाश-जाड्यादितः, जीवस्य त्व् अनाश्य-चिद्-रूपत्वात् सालक्षण्यम् एव । ततः कथं ममैव भजनीयत्वं पूर्वाभिर् दर्शितम् ? इत्य् आशङ्क्य तद् अर्थम् एव जीवेश्वर-स्वरूप-वैलक्षण्यं प्रतिपादयन्त्यः स्तुवन्ति—न यद् अजया त्व् अजाम् इति ॥३८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं श्री-कृष्ण-लोकस्य नित्यत्वम् आनन्द-मयत्वम् उक्त्वा पुनस् तत्-पार्षदानां जिव्ःअतिरिक्तत्वं दर्शयन्त्यो जिव-निरूपणं कुर्वन्ति—स यद् अजयेत्यादि । स जिवो यद् यस्मात् अजया तव मायया अजाम् अविद्याम् अनुशयीत, न केवलम् अविद्यां, गुणादींश् च तत्-कृतान् धर्मांश् चानुशयीत स्वीचकार । पूर्व-क्रियाम् अनुवर्तयति, युगपत् सेवमानो भक्तस् तु भजति, अर्थात् भवन्त्तम् । तेषां तेनाविद्या-सम्बन्धो नास्ति । तद् अनु भजनानन्तरं सरूपतां भजति, रूपं शुद्ध-चैतन्यत्वं, तेन सह वर्तमानस् तथा तस्य भावं शुद्ध-चैतन्यत्वम् आसाद्य त्वाम् भजतीत्य् अर्थः । उक्तं च—
यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपं [भा।पु। ११.१४.२५] इत्य् आदि ।
स तु जिवस् तद् अनु अजानुशयनाद् अनु मृत्युं भजति । कुतः ? अपेत-भगः, त्वद् अभजनाद् अपास्त-सौभगः ।
ननु कथं भजन-परोऽजया न बाध्यते ? इत्य् आहुः—त्वम् उत इत्य् आदि । त्वम् उत त्वं तु ताम् अजां जहासि हापयसि, अन्तर्-भूत-ण्य् अर्थः । भजनात् स्वयम् एव भजतो जनान् जहतीम् अजां त्वं हापयसि, अनुकूलः सन् त्याजयसि । अहिर् इव त्वचम् । वस्तुतस् तु अहिं स्वयम् एव त्वक् प्रथमतो जहाति शिथिल-भावेन, पश्चाद् अहिस् त्यजति, कालस् तत्रानुकूलो भवति । अहि-स्थानीयो भक्तः, त्वक्-स्थानीयाविद्या । काल-स्थानीयस् त्वम्, कालस्यानुकूलत्वात् ।
त्वं कीदृशः ? आत्त-भग आत्त-माहात्म्यः, तथैव ते माहात्म्यं यद् भजतः प्रत्यनुकूलो भवति । अतः स्व-महसि महीयसे, ब्रह्म-स्वरूपे तेजसि महीयसे भासि । तर्हि निर्विशेष ब्रह्माहम् ? नेत्य् आहुः—अष्ट-गुणिते, अणिमाद्य् अष्ट-महैश्वर्येऽपरिमेय-भगः । अन्यो योगी तु अष्ट-गुणित-वैभवे परिमेय-भग एव भवति, त्वं तु न तथा, इदम् एव भगवत्त्वं तवेति वाक्यथार्थः ॥३८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवम् इदङ्कारास्पदस्य मायिक-गुणमयस्य जगतः सत्यत्वम् उक्त्वा तद्वर्तिनो जीवस्य चिद्-रूपस्यापि माया-ग्रस् तत्वादेव तथा गुणमयतो रूपम् अनुत्तमत्वम् इत्य् आहुः—स तु जीवः । यत् यस्मात् । अजया अविद्यया । अजां मायाम् । अनुशयीत आलिङ्गेत । उपाधिलिप्तो भवेदित्य् अर्थः । अत एव गुणानां देहेन्द्रियादींश् च जुषन् सरूपतां तत्-साधर्म्यं भजति । तद् अनु तद् अनन्तरम् । अपेत-भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति ।
ननु चिद्-रूपत्वाविशेषादहम् अपि कथम् अविद्ययालिङ्गितो न भवेयम् इति चेत् मैवं जीवः खलु चित्कणः त्वं तु चिन्महा-पुञ्जः ताम्र-पित्तल-स्वर्णादितेन एव तमसा आवृतं भवेन्न तु सूर्यतेज इत्याहुः—त्वम् उत । त्वं पुनस्तां जहासि ।
अयम् अर्थः—माया-शक्तिर् हि तव स्वरूप-भूत-योगमायोत्था तद्-विभूतिर् एव यद् उक्तं नारद-पञ्चरात्रे श्रुति-विद्या-संवादे—
अस्या आवरिका शक्तिर्-महा-माया-खिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्वे देहाभिमानिनः ॥ इति ।
सा अंशभूता तया स्व-स्वरूपत्वेनानभिमन्यमाना स्वतः पृथक्-कृत्य त्यक्ता भवति । सैव बहिरङ्गा माया शक्तिर् इत्य् उच्यते । तत्र दृष्टान्तः अहिर् इव त्वचम् । अहिर् यथा स्वतः पृथक्कृत्य त्यक्तां त्वचं कञ्चुकाख्यां स्व-स्वरूपत्वेन नैवाभिमन्यते तथैव तां त्वं जहासि । यत आत्त-भगः नित्य-प्राप्तैश्वर्यः । एतद् एवोक्तपोषन्यायेनाहुः—महसि परमैश्वर्ये अष्ट-गुणिते स्वतः सिद्धाणिमाद्य् अष्ट-विभूतिम् अति महीयसे पूज्यसे ज्यसे । कथम्-भूतः । अपरिमेय-भगः अपरिमितैश्वर्यः । न ह्य् अन्येषाम् इव देश-कालादि-परिच्छिन्नं तवैश्वर्यम् अपि तु स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः । अत्र श्रुतयः—
अजो ह्य् एकः जुषमाणो\ऽनुशेते जहात्य् एनां भुक्त-भोगामजो\ऽन्यः ॥ इत्य् आद्याः ॥३८॥
॥ १०.८७.३९ ॥
यदि न समुद्धरन्ति यतयो हृदि काम-जटा
दुरधिगमोऽसतां हृदि गतोऽस्मृत-कण्ठ-मणिः ।
असु-तृप-योगिनाम् उभयतोऽप्य् असुखं भगवन्न्
अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तावद् उक्त-साधन-कदम्बेन ये भगवन्तं भजन्ति, ते मृत्युं तरन्ति, इतरे संसरन्तीत्य् उक्तम् । इदानीं ये बहिः सङ्गं परित्यज्य भगवन्-मार्गे प्रवृत्ता अपि कथञ्चिद् अन्तर् वान्ताशिनः कामान् न मुञ्चन्ति, न भगवन्तं प्राप्नुवन्ति, न चेह सुखं लभन्ते, केवलं कुयोनीर् एव प्राप्नुवन्ति, तान् शोचन् कामान् यः कामयते मन्यमानः, सः कर्मभिर् जायते तत्र तत्र [मु।उ। ३.२.२] इत्य्-आदि-श्रुत्य् अर्थम् आह—यदि न समुद्धरन्ति इति । हे भगवन्, ये यतयो हृदि स्थिताः काम-जटाः कामस्य मूलानि वसना यदि न समुद्धरन्ति नोत्पाटयन्ति, तेषाम् असतां भवान् हृदि गतोऽपि दुरधिगमो दुष्प्रापः । कथम् ? अस्मृत-काण्ठ-मणिर् विस्मृतो यः कण्ठ-मणिः, तत्-तुल्यः । स यथा कण्ठे वर्तमानोऽप्य् अस्मृतश् चेद् अप्राप्त इव भवति, तद्वद् इति । न केवलम् एतावत्, किन्त्व् असु-तृप-योगिनाम् इन्द्रिय-तर्पण-पराणां योग-च्छद्मनाम् उभयतोऽप्य् असुखम् इहामुत्र च दुःखम् एव । तद् आह—अनपगतान्तकाद् अनिवृत्तान् मृत्योः । लोकाराधन-धनार्जनादि-क्लेशाद् भोग-वैभव-प्राकट्य-भयाच् चेह तावद् दुःखम् । भवत ईश्वराद् अपि दुःखम् । कथं भूतात् ? अनधिरूढ-पदात् अनधिरूढं पदं स्वरूपं यस्य, तस्मात् । त्वत्-स्वरूप-प्राप्त्य्-अभावाद् अविद्यावद् विषयत्वेन प्राप्त-निज-धर्मातिक्रम-निबन्धनत्वद् दण्ड-रूप-नरक-प्राप्तेर् अमुत्राप्य् असुखम् इत्य् अर्थः ॥
दण्ड-न्यास-मिषेण वञ्चित-जनं भोगैक-चिन्तातुरं
संमुह्यन्तम् अहर्-निशं विरचितोद्योग-क्लमैर् आकुलम् ।
आज्ञा-लङ्घिनम् अज्ञम् अज्ञ-जनता-संमान-नासन् मदं
दीना-नाथ दया-निधान परमानन्द प्रभो पाहि माम् ॥३९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतरे भक्ति-विमुखाः । बहिङ्सङ्गं विषय-सङ्गम् । अन्तर्वान्ताशिनश्च् एतसि वान्ताश-नवत्त्यक्त-विषय-ध्यानं कुर्वन्तो ये तान् । श्रुतिं पूर्णां पठति—
कामान् यः कामयते मन्यमानः
स कामभिर् जायते तत्र तत्र ।
पर्याप्त-कामस्य कृतात्मनस् तु
इहैव सर्वे प्रविलीयन्ति कामाः ॥ [मु।उ। ३.२.२]
इति मुमुक्षोः काम-त्याग एव प्रधान-साधनम् इति दर्शयति—कामान् दृष्टादृष्ट-विषयान् यः कामयते मन्यमानस् तद्-गुणांश् चिन्तयानः । स तैः कामभिः सह जायते यत्र यत्र विषय-प्राप्ति-निमित्त-कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र इष्ट-विषयेषु तैर् एव कामैर् वेष्टितो जायते इत्य् अर्थः । कृतात्मनः परमात्मनि कृत आत्मा येन, तस्य प्राप्तात्म-तत्त्वस्य तु इहैव सर्वे कामाः प्रविलीयन्ति विलयं गच्छन्ति । किम्-भूतस्य ? परमार्थ-तत्त्व-विज्ञानात् परि समन्ततः प्राप्ताः कामा येन, तस्य पर्याप्त-कामस्य इति । तद् उक्तं गीतासु—
आपूर्यमाणम् अचल-प्रतिष्ठं
समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामाः यं प्रविशन्ति सर्वे
स शान्तिम् आप्नोति न काम**-**कामी ॥ [गीता २.६९] इति ।
नन्व् अयम् आत्मज्ञः कृतात्मायं कामीति कथं ज्ञायते ? तज्-ज्ञानम् आह श्रुतिः—
आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः ।
किम् इच्छन् कस्य कामाय शरीरम् अनु सञ्चरेत् ॥ [बृ।आ।उ। ४.४.१२] इति ।
अर्थश् च—सच्-चिद् आनन्द-रूपः परमात्मा देहादि-व्यतिरिक्तो\ऽयम् अहम् अस्मि इति आत्मानं यः पुरुषश् चेद् यदि जानीयात्, तर्हि स किम् इच्छन् किम् आत्मातिरिक्तं वस्त्व्-अन्तरम् अस्ति, तद् इच्छन् कस्य कामाय आत्मनो व्यतिरिक्तस्य कस्य वस्तुनः कामाय प्राप्तये शरीरम् अनु सञ्चरेत् शरीरोपाधिकृत-सुख-दुःख-राग-द्वेष-भय-मानापमानादिभिः सन्तप्तो भवेत् स्वार्थाद्-भ्रश्येत् तस्माद् आत्म-ज्ञान-विमूढानां विषयासक्त-चित्तानां कुयोगिनाम्-उभयतो\ऽप्य् असुखम् इत्य् उक्तम् ।
प्रकृतम् अनुसरामः । अस्मृत-कण्ठ-मणिर् इह लुप्तोपमा बोध्या, एतावत् । अप्राप्तवद् एव त्वं भवसीत्य् एतावन्-मात्रम् एव । तद् आह उभयतो दुःखम् आह । निज-धर्मस्यातिक्रम उल्लङ्घनम् एव निबन्धनं कारणं यस्यास् त्वद्-दण्ड-रूप-नरक-प्राप्तेः । अमुत्रापि पर-लोके\ऽपि । इत्य् अर्थ इति—
कालिका भिक्षवो दृष्टा उभाभ्यां मार्गतो गताः ।
दुग्ध-श्री-फल-लोभेन हंसोद्दिष्ट-बको यथा ॥
इति न्यायेनेह भोग-प्राप्तेः परत्र सुख-प्राप्तेश् च दुःखम् एवेति भावः । न्यायार्थस् तु मत्स्यान् निघ्नन्तं सुरूपं बकं दृष्ट्वा हसन्तं सुभोगेन लोभयित्वा निष्पापं कर्तुम् इच्छन् उवाच—"अहो किम्-अर्थं हिंसया जीविकां करोषि ? मया सार्धं गच्छ । त्वाम् अतिस्वादुतरं भोजनं पेयं च दास्यामि ।" स च भोग-लोभेन तेन साकं गच्छंस् तत्-तुल्यम् उड्डयितुम् अशक्नुवन्न् आह—"त्वया साकं गन्तुं न शक्तोऽस्मि" इति । ततो हंसस् तं स्व-पृष्टम् आरोप्य ययौ । स चोवाच—"मां क्षुधार्तं भोजनं देहि" इत्य् उक्तः सन् नारिकेल-फलं चञ्च्वा निर्भिद्य तद्-गतं दुग्धं बकाय पाययामास । स च तद् एवातिस्वादु मत्वा, “अत्रैवाहं प्रतिदिनम् इदं क्षीरं पीत्वा स्थास्यामि” इति विचार्य हंसम् आह—"नाहम् इतो\ऽग्रे यास्ये । त्वं याहि" इति । एवं सत्सङ्ग-मिषेण स्व-गृहं त्यक्त्वा भोगेष्व् आसक्तो हरि-भजनम् अकुर्वाणो\ऽप्य् उभय-भ्रष्टो भवतीत्य् अर्थः ।
स्वामिनां दम्भेति । अत्रैतज् ज्ञातव्यं स्वयं परमहंस-र्षभो निवृत्त-समस्त-माया-गुणेन्द्रिय-व्यापारो\ऽनवरत-भगवद्-गुण-स्मरण-कीर्तनादिभिर् निदिध्यासित-परमात्म-तत्त्वो\ऽपि स्वस्य संन्यासित्वात् कुसंन्यासिनां दोषान् आत्मन्य् आरोप्य परमानन्दं श्री-कृष्णं प्रार्थयन्न् आह—दम्भेन यो न्यासः, तस्य मिषेण छलेन वञ्चिता जना येन तम् । दम्भ-न्यासत्वात् भोगेषु एका केवला या चिन्ता, तयातुरं दुःखितम् । अत एवाहर्निशं मुह्यन्तं मोहं प्राप्नुवन्तम् । विरचितो य उद्योगो मठ-निर्माणादि-व्यापारस् तत्र यः क्लम इतस् ततो धनाद्य्-अर्थ-परिश्रमः, तेनाकुलम् अवशम् अतो\ऽज्ञम् अतस् तवाज्ञा-लङ्घिनम् । यावज् जीवम् अग्नि-होत्रं जुहुयाच् छान्तो दान्तः इत्य् आज्ञां विलङ्घ्य कृत-संन्यासम् । तत्रापि संन्यास-धर्मं परित्यज्य भोगाद्य्-आकुलत्वाद् आज्ञा-लङ्घिनम् इति । तत्-कुतः यतः अज्ञानां जनतानां समूहानां सम्माननाभिः सत्-कारैः सम्यग्-मदो\ऽभिमानो\ऽहो एते मां सर्वोत्कृष्टं ज्ञात्वार्चयन्तीत्य् एवं-लक्षणो यस्य तम् एवम्-भूतं माम् । हे दीनैर् आसमन्तान्नाथ्यते प्रार्थ्यते इति तथा-भूत, दयैव निधानं धनं यस्य हे तथा-भूत! एतेनैवम्-भूतं कुमार्ग-गामिनं समुद्धर्तुं श्री-कृष्ण एव प्रभुर् नान्य इति दर्शितं स्वामि-चरणैः ॥३९॥
श्रीधरानुयायिनी : ये तु कपट-भक्तास् तेषां न तव प्राप्तिर् न वा किम् अपीहामुत्र सुखम् इत्य् आहुः—यदि इति । हे भगवन् ! ये च बहिर् बकाकारा मिथ्या-संन्यासिनो वासना-सहस्राक्रान्तान्तः-करणा देहेन्द्रिय-लालन-परा रहसि रात्रौ पर-स्त्री-बाल-भोगादि-सुख-भोक्तारः, तेषां त्वं हृदि स्थितो\ऽपि गुरूपदेशान् मनसि प्राप्तो\ऽपि वा विस्मृत-कण्ठ-मणिर् इव यथावद् अनुभवितुम् अशक्य एवासि । प्रत्युत तेषां लोकाराधनार्जनादि-क्लेशाद् भोग-वैभव-प्राकट्य-भयाच् चैहिकं दुःखम् एव, तथा तवेश्वरस्याज्ञानाद् अज्ञत्वेनावश्य-कर्तव्य-सन्ध्योपासनादि-निज-नित्य-धर्म-परित्यागाच् च त्वत्तो दण्ड-रूप-नरक-प्राप्त्या पारलौकिकम् अपि दुःखम् एव । यदि योगिनाम् अप्य् एवं, तदा किम् उ वक्तव्यम् असताम् इत्य् आशयः ॥३९॥
नीलकण्ठी : पूर्वस्मिन् श्लोके सत्त्वम् इत्य् अपेत-भगस्य जीवस्यापरिमेय-भगवत्त्व-लक्षणम् ईश्वरत्वम् उक्तं तस्य शश-शृङ्गवद्-विकल्प-मात्रत्वे शुक्ति-रजतवत्-प्रातिभासिकत्वे मनोरथ-वनितावत्-प्रतिभा-मात्रत्वे वा मिथ्यात्वापत्त्या तत्-त्वम् असि [छा।उ। ६.८.७], अहं ब्रह्मास्मि [छा।उ। १.४.३], अयम् आत्मा ब्रह्म [माण्ड्।उ १.२] इति वाक्य-जातम् अनर्थकं स्यात् । कीट-भ्रमरवद् उत्पाद्यत्वे दधिवद् विकारत्वे जन्यतया तस्यानित्यत्वापत्तिः नदी-सिन्धुवद् अवाप्यत्वम् अपि न नागारवद्-भेदेन घटाकाश-महाकाशवद् अभेदेन आद्ये वाक्यानर्थक्यम्, अन्त्ये जीव-ब्रह्मणोर् वास्तवांशांशि-भावापत्तेः निष्कलं निष्क्रियं
शान्तिं निरवद्यं निरञ्जनम् [श्वे।उ ६.१९]। इति निरवयवत्व-श्रुति-व्याकोपः काञ्चन-शुद्धिवद् भावकत्वे [संस्कार्यत्वे ।] निरञ्जनत्व-श्रुति-व्याकोपः । असङ्गो ह्य् अयं पुरुषः [बृ।आ।उ। ४.३.१५] इति श्रुतेः । इत्य् अभिसन्धाय कण्ठ-मणिवन् नित्य-प्राप्तम् अप्य् आवरणापगम-मात्र-लभ्यं जीवस्येश्वरत्वम् इत्य् आह—यदि न समुद्धरान्ति इति ।
यदि न समुद्धरन्ति यतयो हृदि काम-जटा
दुरधिगमोऽसतां हृदि गतोऽस्मृत-कण्ठ-मणिः ।
असु-तृप-योगिनाम् उभयतोऽप्य् असुखं भगवन्न्
अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥
हृदि गत इत्य् उपलब्धि-स्थानम् उक्तम्, शेष-ग्रन्थेन वासना-क्षय उपलब्धि-हेतुर् उक्तः । एवं श्रुत-युक्तिभ्यां निश्चिते\ऽप्य् आत्मैक्ये भेद-वासना-प्राबल्याद् विपरीत-वासना न निवर्तते, अतस् तन्-निवृत्त्य्-अर्थं निदिध्यासन-मत्र-श्लोके विधीयते इति तात्पर्यार्थः । अक्षरार्थस् तु—हे भगवन् ! यतयः संन्यासिनो यदि हृदि स्थिताः काम-जटाः काम**-**मूल-वासनाः न समुद्धरन्ति समूलं नोन्मूलयन्ति, तर्हि त्वं तेषाम् असतां दुरधिगमो दुष्प्रापः, कामोन्मूलन-कृतां तु हृदि गतः स्मृत-कण्ठ-मणिर् इव सुख-लभ्यः ।
यदा सर्वे प्रमुच्यन्ते कामा ये\ऽस्य हृदि श्रिताः ।
अथ मर्तो\ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [बृ।आ।उ। ४.४.७]
प्रत्यक्षावगमं धर्म्यं
सुसुखं कर्तुम् अव्ययम् [गीता ९.२] इति श्रुति-स्मृतिभ्याम्।
ननु—
अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं कदाचिद् अपि गौतम ॥
इति रागि-गीता-वचनात् कामो\ऽपि रागिणां सुख-हेतुर् एवातः कथं तस्य हेयत्वम् उच्यते ? इत्य् आशङ्क्याह--असुतृप- इति । इन्द्रिय-तृप्ति-कामानां योगिनं परिव्राड्-अपसदानाम् उभयतो\ऽप्य् असुखं भवति ।
अयं भावः—वैराग्य-पूर्वकं यम-नियमाद्य्-अष्टाङ्गोपेतम् अनुतिष्ठतां
पुरस्ताद् अणिमादि-सिद्धि-षूपस्थितासु योगैश्वर्यासक्तास् ते\ऽसुतृप-योगिनः, तेषां न सिद्धिजं सुखम्, अनन्तवत्त्वात् । नापि मोक्ष-सुखम् अवैराग्यात्, किन्तु संसार एव । यद् आह भगवान् पतञ्जलिः—स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनर् अनिष्ट-प्रसङ्गात् [यो।सू। ३.५१] इति । स्थानिनो देवाः । किं तद् उभयं यस्माद् असुखं ? तद् आह—अनपगत- इति । अनपगतो\ऽनतिक्रान्तो\ऽन्तको बन्धको मृत्यु-रूपी कामः विषयाभिलाषः अशनाया हि मृत्युः [बृ।आ।उ ४.४.७] इति श्रुतेः । अवैराग्याद् एकं भयं यद् आह भगवान्—
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।
अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ [गीता ६.६] इति ।
तथा भवतः श्री-विष्णोः अनधिरूढान् निदिध्यासन-बलेन अनधिगतात्-पदात् पदनीयात् स्थानात् सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् [क।उ। १.३.५-११] इति श्रुति-प्रसिद्धात् अज्ञाताद् आत्मनो जन्म-मरण-प्रवाह-पाताख्यं द्वितीयं भयम् इत्य् अर्थः । तस्माद् वैराग्य-बलेन काम-वासनानां समूलम् उन्मूलने यतमानस्य योगि-श्रेष्ठस्य स्वरूपानन्द-लाभः कण्ठ-मणिवद् भवति, नान्यस्येति तात्पर्यम् ॥३९॥
यदि न समुद्धरन्ति यतयो हृदि काम-जटा
दुरधिगमोऽसतां हृदि गतोऽस्मृत-कण्ठ-मणिः ।
असु-तृप-योगिनाम् उभयतोऽप्य् असुखं भगवन्न्
अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः ॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—यतयो भगवच्-चरणारविन्द-प्राप्तय एव यत्न-परा अपि यदि हृदि स्थिताः काम-जटाः कामस्य मूलानि सम्यग् उद्धरन्ति उत्पाटयन्ति, तदा तेषाम् असताम् अनुत्कृष्ट-भक्तानां हृदि-गतो\ऽपि आपाततः शास्त्र-श्रवणेन भाव-विकार-चमत्कार-दर्शनेन च हृद्य् आयातेऽपि दूरधिगमो दुष्प्रापः सम्यग्-अनुभव एवाप्राप्तिः अस्मृत-कण्ठ-गत-मणिवद् अज्ञानाम् एकस्मिन्न् अभिमतार्थे प्राप्त एव चित्त-विश्रामात् काम-निवृत्तिः । परम-सुख-विचारकाणां तु ब्रह्म-सुख-प्राप्त्यापि तत उत्कर्षालोचने भगवत्-सूखे कामो जायते । तत्रापि स्वरूप-विशेषे चमत्कार-विशेषालोचनात् तत्र कामो भवति सुख-चमत्कार-परमावधि-चित्त-विश्रामे पुनः सुखान्तर-कामानुदयः ततश् च विचार्य विचार्य यतमानाः परम-विचारेण परम-चमत्कार-सर्व-स्वरूपोत्तम-सुखैक-परमाशा-बन्धेन सुखान्तर-काम-विच्छेदं यदि न कुर्वन्ति तदा त्वं तेषाम् उत्कृष्ट-विचारादि-रहितानाम् उत्कृष्टतम-त्वत्-सुखाभिमान-निवेशाभावाच्-छुद्ध-महा—भावाभावेन दुष्प्राप एव त्वम् । सुष्ठु तृप्यन्ति श्री-राधा-रति-लम्पट-विशुद्ध-महा-प्रेम-सुखेन परम-सुखिनो भवन्ति न ये येषां योगिनां भाव-योगिनाम् उभयतो\ऽसुखं सूखाभावः । भवतो\ऽनपगता कदापि न वियुक्ता या श्री-राधा, ताम् अन्तयति बन्धयति महा-स्नेह-रज्जुभिर् यः, तद्-एकान्त-प्रिय-सखी-जनः राधा-बन्धको वा यः स्नेहानुबन्धः सखीनां ततः भवतो वा । अनधिरूढम् अन्यैर् विशुद्ध-महा-प्रेमवद्भिर् अपि न प्राप्तं यत् स्वरूपं श्री-राधा-सहित-मधुर-मधुरोन्मद-मदन-केलि-विलास-सक्तम्, ततश् च न सुखम् इति ।
नित्य-गोप्य आहुः—यतयो भवत्-सङ्गार्थं प्रयत्नवत्यो गोप्यः यदि **हृदि-स्थिताः काम-जटाः काम-**वासना न समुद्धरन्ति, श्री-कृष्ण-सङ्गाभिलाषं न दूरीकुर्वन्तीत्य् अर्थः, तदा तासाम् असतां न विद्यते सत् उत्कृष्टं राधैकान्त-सख्येन अनुषङ्गिकेणापि स्व-तत्-सङ्ग-प्रसङ्गेन रहितेन शुद्ध-प्रेम-वस्तु यासां, तासाम् हृदि वक्षसि गतो\ऽपि दुरधिगमः सम्यग् अनुभव-गोचरो न भवसि । यथा कश्चित् स्व-कण्ठ-गतम् अपि मणिं महार्ह-बहु-गुणवत्त्वेन श्रुतं न स्मरन्तः सम्यग् यथा नानुभवन्ति । गुण-स्मृत्यैव हि सुख-विशेषोदयः । राधा-सङ्गे सुरत-रङ्ग-तरङ्गिणं सकल-सौन्दर्यादि-गुण-परम-चमत्कारवन्तं श्रुत्वापि विस्मृत्य स्व-सङ्गतम् एव रोचयन्त्यः सम्यक् तं नानुभवन्ति । असु-तृपः स्वेन्द्रिय-तृप्ति-परा योगिनः संसर्गिणो यासां कृष्ण-सङ्ग-कामुकीनां सङ्ग-भाजाम् इत्य् अर्थः । समासान्तानित्यत्वात् क-भावः । गोपी-जनानां वा सुष्ठु तृप्यन्ति सुतृपा राधा-सुखेनैव तृप्यन्तः अतादृशाः स्वाङ्ग-सङ्गे\ऽपि लुब्धा इत्य् अर्थः । ताश् च योगिन इवाचरन्तीति योगिनः आचार-क्विब्-अन्तत्वात् पुनः क्विपि सन्तत-कृष्ण-समाधय इत्य् अर्थः । तासाम् अपि उभयतो राधा-कृष्णतस् तद्-उभय-विलास-दर्शनात् सुखाभावः ।
यद् वा, तासाम् अपगता स्वप्ने\ऽपि हृदयान् न गता या राधा, तया सह अन्तः प्रेम-बन्धः, तस्माद् धेतोः कं सुखं यस्य एवम्-भूतं यं तव अन्य-गोपीभिर् अप्राप्तं पदं स्वरूपं तस्माद् अनपगतो\ऽन्तर् बहिश् च न वियुक्तो बन्धकः प्रीति-पाशेन पितृ-मातृ-सुहृद्-भावानूरक्त-गोप्यादिस् तस्माद्-धेतोर् भवतो\ऽपि अनधि-रूढम् अप्राप्तं यत् पदं राधायास् तस्माद् इति यदा सर्वम् अपि महा-प्रीतिमण्डलीं त्यक्त्वा सर्वात्मना आसक्तस् तदैव कृष्णो\ऽपि राधा-पदं लब्धवान् इति ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अतस् त्वद्-भक्ता मायां तरन्ति अन्ये तया संसरन्त्य् एवेति भक्त उत्कर्षं प्राप्त एव, ये तु यतयः केवलं दमिनो\ऽपि अन्तर्-दुर्वासनां न त्यजन्ति, तदा ते निन्द्या एवेत्य् आहुः—यदीति । यतयो ज्ञान-मार्गे यत्नशीलाः, अथ च हृदि कामजटा ये न समुद्धरन्ति सम्यङ् नोन्मूलयन्ति तेषाम् असतां हृदि गतो\ऽपि त्वं दुरवगमो दुर्जेयः । तत्र दृष्टान्तः अस्मृत-कण्ठ-मणिर् यथा कण्ठेस्थितो\ऽपि मणिर् अस्मृतश् च दुरधि-गम एव । अतः खलु असुतृप्-योगिनाम् असु-तृप्ति-पराणां योगच्-छद्मनाम् उभयत एवासुखम् अपिरेवार्थः, हे भगवन्! अनपगतात् अनृइत्तात् अन्तकादि-तुल्यम् । एतेन यदि कदाचिद्-भक्तानां दुर्वासना भवति, तदा स्वयम् एव तां नाशयसीति भावः । धुनोति सर्वम् [भा।पु ५.१९.२७]157 इत्य्-आदि ॥३९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति विषय-सेवाया महान् अर्थावहत्वे\ऽपि यतयः कृत-संन्यासा अपि न सम्यङ् निःशेषम् उद्धरन्ति, हृदि गतः सामान्येन सर्वेषाम् अन्तर्यामितया स्वस्य च हृदि वर्तमानो\ऽपि स्वस्मिन् वर्तमानस्याप्य् अप्राप्यत्वे दृष्टान्तः अस्मृतेति । हे भगवन्न् इति परमेश्वरस्य तवाज्ञालङ्घनादिना तेषां तद् उचितम् एवेति उभयत्र दुःखम् एवाहुः अनपगतेति । अनपगतः संन्यासेन निवृत्त्य् उन्मुखो\ऽपि विरुद्धाचरणेनानपयातो यो\ऽन्तको यमस्-तस्मात्, अमुत्र नरक-पातादि-दुःखं तथा भवतः संसारात् ।
कथम्-भूतात् **अनधि-रूढ-**पदात् अनधि-रूढान्य-लब्धानि पदानि वाञ्छित-भोग-वस्तूनि यत्र तस्मात् । भोगेच्छायाम् उत्कटायाम् अपि लोक-निन्दाशङ्कया भोगार्थम् उद्यमाकरणादिहापि दुःखम् इति ॥
साधारण्येनाविद्या-भाजां दुःखम् उक्त्वा तत्रैव दाम्भिकानां गतिम् आहुः—यदि इति । यतः परित्यक्त-दारादिका अपि यदि हृदि स्थिताः कामस्य मन्मथस्य जटा दुःख-संस्कारान् नोन्मूलयन्ति गोकुल-लीला-श्रवण-कीर्तन-रूपया त्वद्-भक्त्या न निरस्यन्ति, किन्तु
नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः ।
विनश्यत्य् आचरन् मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ [भा।पु १०.३३.३०]
इत्य् आदि-वाक्यम् अनाद्रियमाणाः, प्रत्युत वयं श्री-गोपालवन्-निर्लेपाः कथम् अति-क्षुद्र-कर्मणानेन बाधिता भवेमेति वदन्तः स्वच्छन्दं
परदार-सेवां कुर्वन्तीत्य् अर्थः । ततस् तेषाम् असतां त्वं साधारण्येन सर्वान्तर्यामित्वाद्-धृदि गतो\ऽपि दुरधि-गमो दुर्बोधः । यदा, इति वृन्दावने गतो\ऽपि—
वत्सैर् वत्सतरीभिश् च सरामो बालकैर् वृतः ।
वृन्दावनान्तर-गतः सदा क्रीडति माधवः ॥ इति स्कान्द-मथुरा-खण्डोक्तेः ।
सदा वृन्दावने विहरन्-नव-स्थितो\ऽपि दुरधि-गमो दुर्बोधः परमाश्रद्धोपहतान्तः-करणत्वात् [परमाशुद्धान्तः-करणत्वात्] । प्रतीतेर् अविषयस् त्वम् इत्य् अर्थः । अस्मृत-**कण्ठ-**मणिर् इत्य् अनेन सर्वथैवास्मरणात् त्वद्-वर्त्म-वार्ताप्य् एषां दवीयसीति शैश्न-सुखाकृष्टानाक्रुश्य जैह्व-सुखाकृष्टान् आक्रोशन्ति असुतृपेति । असुशब्दस्येन्द्रियवाचित्वे\ऽप्य्-अत्र दुर्वशत्वेन मुख्यत्वाज्-जिह्वाया ग्रहणम—
तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् ।
न जयेद् रसनं यावज् जितं सर्वं जिते रसे ॥ [भा।पु ११.८.२१] इत्य्-उक्तेः ।
भगवन् ! हे व्रजाविष्कृत-विचित्र-मधुर-लीलैश्वर्या ! तद्-अनादरेणैव जिह्वातर्पणार्थम् एव प्रकटि-तद् अम्भ-योगानाम् उभयतः परस्मिन् लोके इह च दुःखम् एव । तद् एवाहुः अनपगतान्तकाद् उपस्थित-कृतान्तात् परत्र महा-नरक-दुःखम्, स्वधर्म-त्यागेन दम्भाचरणात् । किञ् च, भवतो भवात् संसारात् । कथम्-भूतात् अनधि-रूढ-पदाद् अज्ञात-दुःख मात्र-स्वरूपात् । तेन जिह्वा-लौल्येन साप्ताहिक-पाक्षिक-मासिक-निज-समाधि-सूचन-चातुर्योत्पन्नया प्रतिष्ठया द्वार-भूतया तथा योग-मठिका-ध्यान-गुहा-वास-पूजादि-च्छलेन च धनार्जने परम-सङ्गोपनेन, तद्-भोगे च इहापि मह-दुःखम् एवेत्य् अर्थः ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यदि इत्य् अस्य टीकायां श्रुतौ कामान् विषयान् मन्यमानस् तद्-गुणान् चन्तयन् कामभिस् तैर् एव कामैर् धर्माधर्म-प्रवृत्ति-हेतुभिर् विषयेच्छा-रूपैः सह जायते । आदि-शब्दात्-पर्याप्त-कामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामा इति तेषां व्याख्येयं लोकाराधनेत्य् आदेर् एतद्-वयं मृत्यु-रूपम् एवेति भावः । अथ स्व-व्याख्यायां तद् एव सत्-सन्तत-भक्त्य् अर्थम् एवान्य-परत्वम् ईषद् अपि वयं न सहामह इत्य् अन्या ज्ञान-योग-मिश्र-भक्ति-प्रतिपादक-श्रुतय आहुः—यदीति । यतयो निर्जित-बहिर् इन्द्रियाः संन्यासिनो\ऽपि यदि हृदि काम-वासनाः समस्ता एव नोन्मूलयन्ति तर्हि तेषाम् असताम् उत्तमावस्थान-प्राप्तानां हृदि गतो ज्ञान-सिद्ध्य् अर्थं मनस्या-श्रितो\ऽपि भवान् दुरधि-गमो यथा-कथञ्चिद् एव स्मृति-विषयः स्यात् ताभिर् आवृत-चित्तत्वात् ।
ननु, परम-दुर्लभो\ऽपि भाग्येन लब्धश् चेत्क इव तादृशः स्यात् । अस्मृतेति । कण्ठे परिहितो\ऽपि महा-मणिः कामाद्य् आसक्ति-समये विस्मृतो दृश्यत इत्य् अर्थः । ये त्व् इन्द्रिय-तर्पण-परास्तेषां योगिनां योग-सिद्ध्य् अर्थं त्वद् उपासनाप्रवृत्तानाम् अप्य् उभयतो\ऽप्य् असुखम् । तत्रान् अपगतान्तकान्-मृत्यु-परम्परामय-संसाराद् आध्यात्मिकादि-दुःखं न अधिगतं नात्मोन्मुखी-कृतं पदं चरणारविन्दं यस्य तस्माद्-भूत-वस्तुपेक्ष्य-रूपम् इति । श्रुतयस् तद्-दर्शिता एव ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं त्वत्-सन्तत-भक्त्य् अर्थम् एवान्य-परत्वम् ईषद् अपि वयं न सहाम इत्य् अन्या ज्ञान-योग-मिश्र-भक्ति-प्रतिपादक-श्रुतय आहुः—यदि न समुद्धरन्तीति । यतयो निर्जित-बहिर्-इन्द्रियाः सन्न्यासिनोऽपि यदि हृदि काम-वासनाः समस्ता एव नोन्मूलयन्ति, तर्हि तेषाम् असताम् उत्तमावस्थाम् अप्राप्तानां हृदि-गतो ज्ञान-सिद्ध्य् अर्थं मनस्य् आश्रितोऽपि भवान् दुरधिगमो यथा कथञ्चिद् एव स्मृति-विषयः स्यात्, ताभिर् आवृत-चित्तत्वात् ।
ननु परम-दुर्लभोऽपि केनापि भाग्येन लब्धश् चेत् क इव तादृशः स्यात् ? तत्राहुः—अस्मृतेति । कण्ठ-परिहितोऽपि महा**-मणिः** कामाद्य् आसक्ति-समये विस्मृतो दृश्यत इत्य् अर्थः । ये त्व् इन्द्रिय-तर्पण-तत्परास् तेषां योगिनां योग-सिद्ध्य् अर्थं त्वद् उपासना-प्रवृत्तानाम् अप्य् उभयतोऽप्य् असुखम् । तत्रानपगतान्तकान् मृत्यु-परम्परा-संसाराद् आध्यात्मिकादि-दुःखं न त्व् अधिगतअं, नात्मोन्मूखीकृतं पदं चरणारविन्दं यस्य, तस्माद् भवतस् तूपेक्षा-रूपम् इति । श्रुतयस्तु तद्-दर्शिता एव तच्-छ्रुत्वा तद् एक-परायणाः सोल्लासम् अभिष्टं स्पष्यन्ति ॥३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अतस् त्वद्-भक्ता एव मायां तरन्ति, उक्तं च भवतैव माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते [गीता ७.१४] इति । अन्यथा यतयोऽपि नेत्य् आहुः—यदीत्य् आदि । यतयो ज्ञान-मार्गे यत्न-शीला यदि त्वद्-भजनेन हृदि काम-जटा न समुद्धरन्ति, नोन्मूलयेयूह्, तदा तेषां हृदि गतोऽपि त्वं दुरधिगमो दुष्प्रापः । तत्र दृष्टान्तः—अस्मृत-कण्ठ-मणिर् यथा कण्ठे स्थितोऽपि दुरधिगम एव, समासगा लुप्तोपमा । अतोऽसुतृप-योगिनां त्वद्-भजन-विमुखतया येऽसून् एव तर्पयन्ति, तेषाम् उभयत इहामुत्र च असुखं, भजतां तूभयत्रैव सुखम् । हे भगवन् ! कुतोऽसुखम् ? तत्राहुः—अनपगतान्तकात् । अनपगतो योऽन्तकः कालस् तस्मात् । कीदृशात् ? भवतोऽनधिरूढ-पदात्, भवतो हेतोर् अनधिरूढं पदं येन । त्वं यस्य सहायस् तत्र कालः पदं कर्तुं न शक्नोति, अतो भजताम् उभयतः सुखम् इति भावः ॥३९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं श्लोक-त्रयेण प्रतिपादितम् आवसथानां पुरुष-सार-हरत्वम् । तत्र ये ऋषय उक्तास्ते द्विविधाः । निर्गुण-ब्रह्मोपासकाः ज्ञानिपदवाच्याः । सगुण-ब्रह्मोपासकाः भक्त-पद-वाच्याश् च । ते यदि विमदाः सदाचारास्-स्युस् तदा ते उभये एव कृतार्थाः । यदि तु दुराचाराः स्युस्तदा तेषां का गतिर् इत्य् अपेक्षायाम् आहुर् यदीति द्वयेन । हे भगवन्! यतयः सन्न्यासिनो निर्गुण-ब्रह्मोपासकाः हृदि-स्थिताः काम-जटाः कामस्य मूलानि वासनाः यदि न समुद्धरन्ति नोत्पाटयन्ति तदा तेषाम् असतां भवान् हृदि गतो\ऽपि दुरधिगमो दुष्प्रापः । कथम् । अस्मृत-कण्ठ-मणिः विस्मृतो यः कण्ठ-मणिस् तत्-तुल्यः । स यथा कण्ठे वर्तमानो\ऽप्य् अस्मृतश् चेदप्राप्त इव भवति तद्वद् इति । केवलम् एतावद् एव किन्तु तेषाम् असृतृप-योगिनाम् इन्द्रिय-तर्पण-पराणां योगच्-छद्मनाम् उभयतो\ऽप्य् असुखम् इहामुत्र च दुःखम् एव । तत्रैहिकं दुःखम् आहुः अनपगतो\ऽनिवृत्तो यो\ऽन्त-कस्तस्मात् लोकाराधनादि-क्लेश-धनार्जनादि-क्लेश-विषय-भोगाच्-छादनादि श्लोक-रूप-मृत्यु-त्रितयात् प्राप्ताद् इत्य् अर्थः । पारत्रिकं दुःखम् आहुर्न अधि-रूढं पदं स्वरूपं यस्य तथा-भूतात् भवतः सकाशात् यत् दुःखं तत् त्वत्-स्वरूप-प्राप्त्य् अभावात् । प्रत्युत त्वद्-दत्त-नरकयातनातिशयाच्-चेत्य् अर्थः । अत्र श्रुतयः—
कामान् यः कामयते मन्यमानः स कामभिर् जायते । तत्र तत्र [मु।उ। ३.२.२] इत्य् आद्याः ।
मन्यमानः मनन-परायणो\ऽपि यतिर् इत्य् अर्थः ॥३९॥
॥ १०.८७.४० ॥
त्वद् अवगमी न वेत्ति भवद् उत्थ-शुभाशुभयोर्
गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः ।
अनु-युगम् अन्व् अहं स-गुण गीत-परम्परया
श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनुजैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु यतेर् न किम् अपि कृत्यम् अस्ति प्रारब्धम् एव सुखोपभोगेनापक्षय्यते अतः किम् इति वृथा शप्यते उभयतोऽप्य् असुखम् इति, श्रूयते च एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् [बृ।आ।उ ४.४.२३] इत्य् आदि ? तत्राह—त्वद् अवगमीति । हे स-गुण! षड्-गुणैश्वर्य-युक्त, त्वद् अवगमी त्वज्-ज्ञानवान् भवद् उत्थ-शुभाशुभयोर् भवतः कर्म-फल-दातुर् ईश्वराद् धेतोर् उत्थयोर् आविर्भूतयोः शुभाशुभयोः प्राचीन-पुण्यापुण्य-कर्मणोः फल-भूतान् गुण-विगुणान्वयान् सुख-दुःख-सम्बन्धान् न वेत्ति नानुसन्धत्ते । तर्हि तदानीं च देह-भृतां देहाभिमानिनां प्रवृत्ति-निवृत्ति-करीर् गिरो विधि-निषेध-लक्षणा न वेत्ति । विगत-देहाभिमानतया कार्याकार्य-बोधाभावान् न नियुज्यत इत्य् अर्थः । युक्तं चैतत्, यतः कारणान् मनुजैर् अन्व्अहं श्रवण-भृतः अनु-दिनं श्रवणेन चेतसि धृतस् त्वं तेषाम् अपवर्ग-गतिः अपवर्ग-रूपा गतिर् भवसि ।
कथम् ? श्रवण-भृतः अनु-युगं प्रति-युगं या गीत-परम्परा उपदेश-सन्ततिः, तया, सत्-संप्रदायानुसारेणेत्य् अर्थः । एतद् उक्तं भवति—ये तावत् तत्त्व-ज्ञानिनो न तेषां कर्माधिकार-शङ्कापि, ये चानवरतं त्वत्-कथा-श्रवणादि-निष्ठाः, तेषाम् अप्य् आसन्न् अभवत् पदानां विधि-निषेध-बाधः, इतरेषां तु योग-च्छद्मनेन्द्रिय-लालसानाम् उभयतोऽप्य् असुखम् इति ।
अवगमं तव मे दिश माधव
स्फुरति यन् न सुखासुख-सङ्गमः ।
श्रवण-वर्णन-भावम् अथापि वा
न हि भवामि यथा विधि-किङ्करः ॥४०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति-नन्विति । यतेः संन्यासिनः । कृत्यं कर्तव्यम् । सुखोपभोगेन विषयसुखास्वादनेन । अपक्षयते\ऽपाक्रियते । यतो\ऽतो हेतोः स यतिः शप्यते उपालभ्यते उभयतो\ऽप्यसुखम् इत्य् एवंरूपेण । श्रुत्यापि तथैव प्रोक्तमित्याह—श्रूयते चेति—
एको नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात्-पद-वित्तं विदित्वा न लिप्यते कर्मणा पापकेन नैनं पाप्मा तरति सर्वं पाप्मानं तरति । नैनं पाप्मा तपति । विपापो विरजो विचिकित्सो ब्राह्मणो भवति ॥ [बृ।आ।उ ४.४.२३]इति ।
अर्थः—ब्राह्मणस्य ब्रह्म-विदः एष महिमा माहात्म्यं नित्यम् अतः कर्मणा शुभेन न वर्धते वृद्धिं न याति, तथाशुभेन कर्मणा नो कनीयान् क्षीयते अन्ये तु महिमानः कर्मकृता अनित्याः अतस्तं महिमानं विदित्वा यस्यैष महिमा तस्यैव परमात्मनः पदवित्स्वरूपवित् स्यात् स पापकेन शुभाशुभ-लक्षणेन कर्मणा ज्ञानाज्ञान-कृतेन न लिप्यते इति । ततः किम् अत आह श्रुतिः एनं ब्रह्म-विदं पाप्मा पापं न तरति नातिक्रामति स तु सर्वं भूतं भवद्-भविष्यत्-पापं तरति अतिक्रम्य वर्तते एवं योज्यं न तपति न तापयति स तु सर्वं तपति भस्मसा-त्करोति इति । तदानीं त्वद् अवगमावसरे । इत्य् अर्थ इति-देहाभिमानिनाम् एव विधि-निषेधे प्रवृत्तिर् अस्ति तद्-धीनानां न सास्तीति भावः । एतद्-विधि-निषेधराहित्यं युक्तम् उचितम् । इत्य् अर्थ इति एतेन काल्पनिकासत्य-सम्प्रदाय-प्रवृत्तानां स्वप्ने\ऽपि भगवत्-प्राप्तिर् न सम्भवतीति भावः । फलितम् आह एतद् उक्तं भवतीत्य् आदिना । इतरेषां त्वद् अवगम-**त्वद्-**भक्ति-रहितानाम् । स्वामिनाम् अवगमम् इति । अवगमं ज्ञानम् । यद्येन त्वद् अवगमेन । सुखासुखयोः सङ्गमो न स्फुरति भासते । अथापि यद् वा, । यथा येन । विधिकिङ्करः प्रवृत्ति-मार्गानुयायी ॥
श्रीधरानुयायिनी : इदम् एव स्पष्टीकरोति-त्वद् इति । यतस् तव यथार्थ-साक्षात्कारवान्-अत एव देहाभिमान-शून्यः, अत एव स कर्म-फल-प्रद-परमेश्वर-प्रेरित-प्राचीन-धर्माधर्म-कर्म-फलीभूत-सुख-दुःख-सम्बन्धान् देहाध्यास-प्रयुक्त-कर्मादि-कर्तव्यता-बोधक-वेद-वाचश् च नानुसन्धत्ते । ये वा परम्परा-गत-सनातन-सत्-सम्प्रदायानुरोधेनानुक्षण-प्रवर्तमानत्वत्-कथाश्रवणादि-निष्ठया त्वां चित्ते धारयन्ति तेषाम् अपि त्वत्-पाद-पद्मासन्नतया मिथ्या-संन्यासिनाम्-इव न विधि-निषेधाधिकारो दुःखं वा किन्तु तस्य तेषां च मोक्षाख्या तुल्यैव गतिस् त्वम् एव भवसि । यद् वा, युगे युगे प्रतिदिनं मनुजैः कृता या स-गुणस्याप्राकृत-गुणाढ्यस्य तव या **गीत-**परम्परा त्वन्-नाम-कीर्तनादि-प्रवाह-रूपा तया त्वं **श्रवण-**भृतस्-तत्-कर्णयोः परिपूर्णः सन्न् अपवर्ग-गतिर् भवसि । अपकृष्टा वर्गा धर्मार्थ-काम-मोक्षाख्याश् चत्वारः पुरुषार्था यतस् तथा-भूता **गतिर्-**भवसि प्रेम-भक्ति-प्रद इति यावत् कुर्वन्ति कृतिनः केचिच् चतुर् वर्गं तृणोपमम् । इत्य् आद्युक्तेः ॥
नीलकण्ठी : एवं **श्रवण-**मनन-निदिध्यासनाभ्यासेन साक्षात्-कृतात्म-तत्त्वस्य स्थित-प्रज्ञस्य द्वे अवस्थे समाधिर् वयुत्थानं च क्रमेण पूर्वोत्तरार्धाभ्याम् आह—त्वद् अवगमीति । त्वद् अवगमी त्वां साक्षाद्-विद्वान् भवतो विदुषः सकाशाद् उत्थे उत्थिते दूरी-भूते त-त्सुकृत-दुष्कृते विधुनुते [कौषीतकि ४], तदा विद्वान् पुण्य-पापे विधूय इत्य् आदि-श्रुतिभ्यः त्वत्तो दूरी-भूतयोः शुभाशुभयोः सुख-दुःखयोः । कर्मणि षष्ठी । न वेत्ति न जानाति । समूलमु न्मूलित-वासनो विद्वान् समाधौ दुःखं न वेत्ति यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते [गीता ६.२२] । इति स्मृतेः । अत्र हेतुः, यस्मात्-तर्हि समाधि-काले देह-भृतां प्राणिनां **गुण-**विगुणान्वयानुत्तमत्वाधमत्वसम्बन्धान्न वेत्तीत्यनुषज्यते । तथा गिरः शब्दादीन्विषयांश् च न वेत्ति । अत्र पितापिता भवति मातामाता-लोका अलोका वेदा अवेदाः इत्य् आदि-श्रुतेः ।
यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्-विजानतः ।
तत्र को मोहः कः शोक एक-त्वम् अनुपश्यतः ॥ [ईष।उ ७]
यदा पञ्चावति-ष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश् च न विचेष्टेत ताम् आहुः परमां गतिम् ॥
तां योगम् इति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ ॥ [कठ,उ २.३.१०-११] इत्य् आदि च ।
उत्तमाधम-जात्य् आदि-व्यवस्था वेद-शास्त्रादि-प्रामाण्यं च प्रबोधात्-प्राग् एव न तद् ऊर्ध्वम् इति भावः । एवं स्थित-प्रज्ञस्य समाध्य् अवस्थाम् उक्त्वा व्युत्थानावस्थाम् आह अनु**-युगम्** इति । युगं मिथुनं चिज् जडैक्यं प्रमातृ-त्वम् अनुसृत्य् एत्य् अर्थः । अन्वहम् अहङ्कार-ममकारावनुसृत्येति । अनु-युगम् अन्व् अहं सत्यानृते मिथुनी-कृत्याहम् इदं ममेदम् इति नैसर्गिको\ऽयं लोक-व्यवहारः तं दग्ध-पटवद् अनुवर्तमानम् अनुसृत्य स्थितो योगी स-गुणस्य श्री-कृष्णादेर् गीतं यशोवर्णनं तस्य परम्परया सातत्येन पूर्वोक्तं सर्वं न वेत्तीत्य् अनुवर्तते । समाहितो योगी ज्ञेयाभानात्-सुख-दुःखादिकं न वेत्तीति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत्-तत्-केन कं पश्येत् [बृ।आ।उ। ४.५.१५]। इति श्रुतेः । व्युत्थितश् च भगवद्-**गुण-**गानानन्द-निमग्नो न द्वैतात-पसन्ताप-कणिकाम् अनुभवति स चक्षुर् अचक्षुर् इव इत्य् आदि-श्रुतेः ।
देहं च नश्वरम् अवस्थितम् उत्थितं वा
सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् [भा।पु ११.३.३६]
दैवाद् उपेतम् अथ दैव-वशाद् अपेतं
वासो यथा परिकृतं मदिरा-मदान्धः ॥ [भा।पु ३.२८.३७] इति स्मृतेश् च ।
अयम्भावः—उभे उ हैवैष एते तरति [बृ।आ।उ ४.४.२२]इति विदुषः पूर्व-पुण्य-पाप-तरणस्य तस्य पुत्रादायम् उपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पाप-कृत्याम् इत्य् आगामि-पुण्य-पापा-सम्बन्धस्य च श्रवणान् न तद् उत्थ सुखादि-प्रसिक्तिर् अस्ति, अस्ति तु प्रारब्ध-कर्मोत्थयोस् तयोः विमुक्तश् च विमुच्यते [क।उ। २.२.१] भूयश् चान्ते विश्व-माया-निवृत्तिः [श्वे।उ १.१०] इति द्विर् विमुक्ति-श्रवणेन प्रारब्ध-कर्मणाम् अनष्टत्वावगमात् । तथाप्य् उक्त-विधो योगी नान्यवत्स्-उख-दुःखे विन्दतीति ।
ननु विद्वद् अविदुषोर् व्यवहारः समानः पश्वादिभिश् चाविशेषात् इति न्यायात् । तथा च व्युत्थितो योगी कर्म वा **देह-**पुत्राद्य् अभिमानं वा कुतो नानुसरतीत्य् अत आह—श्रवणेति । यतो हेतोर् अपवर्ग-गतिस् त्वं मोक्ष-लक्षणः प्राप्यात्मा त्वं मनुजैर् अधिकारिभिः श्रवणेन भगवत्-कथा-श्रवणादि-प्रणाड्या भृतो धृतः साधक-दशायाम् अतः सिद्ध-दशायाम् अपि तद् एव ते\ऽव्यवहित-पूर्व-संस्कार-दार्ढ्यादनु-तिष्ठन्ति न कर्मादीत्य् अर्थः । अन्यद् अपि जीवन्-मुक्त-लक्षणम्—
अद्वेष्टा सर्व-भूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ [गीता १२.१३]
इत्य् आदि-शास्त्राद् अवगन्तव्यम् ॥४०॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुति-रूपा आहुः—हे स-गुण सदा गुणैः सह वर्तमान ब्रह्मात्मानु-सन्धान एव गुण-स्फुर्त्तिस् तत्-तव शुद्ध-प्रेमैकर-समग्नस्य नास्ति गुणयन्ति सदा महा-प्रेमानु-शीलयन्ति ये प्रिय-जनास्तैः सदा वर्तमान गुणयन्ति मन्त्रयन्ति त्वया सह नव-नव-कुञ्ज-विलासम् अभ्यस्यन्ति वा त्वद्-गुण-रूप-शीलाद्य् एव सदा तत्-सहित गुणम् उपकारं कुर्वन्ति राधया सह मिलनेन गुणाः सख्यस् तत्-सहित प्रशस्त-बहुतर-गुणवती राधिका तत्-सहित त्वद् अवगमी त्वद् अनुभवी तव प्रीतिर्येन स्वेष्ट-भावानुसारी-भजनेन तत्रैव गमो\ऽवबोधो यस्यास्ति त्वयि अवः प्रीतिर् अनुरागः तत्रैव गमी ज्ञानवान् भवद् उत्थ-शुभाशुभयोः त्वयैव वेद-रूपेण प्रतिपादितं तच्-छुभं कर्म अशुभञ् च पुरुषार्थ-साधकम् अनर्थं च तयोर् गुण-विगुणान्वयान् उपकारान् उपकार-सम्बन्धान् न वेद विहिते\ऽपि नोपकार-बुद्धिः निषिद्धे\ऽपि नापकार-बुद्धिः स्वेष्ट-भावानुकूल-मात्र प्रवर्तमानो निवर्तमानश् च तत्-प्रतिकूल-मात्रात् नित्य-भावानां स्वाभाधिक-कृष्ण-विषय-चेष्टित-सम-चेष्टित-निष्ठाम् एव तादृश-भाव-समुज्जृम्भण-परम-साधनं निश्चिन्वन्न् इत्य् अर्थः । तर्हि तदा विशुद्धायां भाव-विनिष्ठायाम् एव भाव-विरोधि-कर्माद् इत्य् आगेनाधिकार सम्पत्ती देह-भृतां सर्वेषाम् एव लोकोत्तर-धर्म-पाण्डित्यादिना विश्व-कृतार्थी-करणेन स-फल-देह-धारिणां महा-भक्ति-निष्ठया पार्षद-देह-धारिणां वा परमैकान्त-भावेन भगवच्-छ्री-विग्रह-धारिणां वा सर्व-पुरुषार्थ-प्रदा ईहा यस्य तस्य भगवतो वा धारकाणाम् । दैप धातुः शोधने । भाव-शोधनेन ईहयति भावानुरूप-चेष्टां प्रेम-वैवश्येन कारयति यो भगवान् कृष्णस् तस्य धारकाणाम् अपि गिरो मिश्र-भाव-विषयाः शुद्ध-भावान्तर-विषया वा गिरो न वेत्ति श्रवण-जज्ञानेनापि न विषयी-करोतीत्य् अर्थः । अनु-युगं युगं राधा-कृष्णाख्यं पूर्ण-विशुद्ध-महा-रस-मय-नागर-द्वयं लक्ष्मी-कृत्य या गीत-परम्परा तद् उभय-विलास-विशिष्ट-गीत-श्रेणी तया यतो देतोस् त्वं । श्रवणेन चेत् असि धृतः मनुजैर् मनन-शीला राधा-कृष्ण-विलासान् एव भावेन नित्यम् अनुसन्दधानास् तस्मात् तत्-सङ्ग-प्रभावाज्-जातैर् भावैः । कथम्-भूतस् त्वम् अपकृष्टा वर्गा धर्मार्थ-काम-मोक्षाख्या येषां तेषाम् एकान्त भक्तानाम् एव गतिर् गम्यः कथञ्चिद्-बोध-योग्यः । यता अनुगताः अहिंसादैर् गुणैस् तादृश-गुणवद्भिर् गीतानाम् उपदेश-वाक्यानां परम्परयेत्य् अर्थः अहङ्कारं स्यति ब्रह्मात्म-बोधेन पश्चाद्-भगवद् रतौ हन्त्य-ज्ञान-तत्-कार्ये वाक्योत्थ-चरम-धी-वृत्त्या-रूढो हंसः शुद्ध-ब्रह्मात्मा सो\ऽपि नास्ति येषां त्यक्त-ब्रह्मात्मानुसन्धाना इत्य् अर्थः । पश्चाच् च महा-विशुद्ध-रति-मद् अतिवश्यतां भगवत आलोच्याहं सम्यग्-भवद्-वशकर्ता महा-रत्या इत्य् अभिमानम् अपि स्यन्ति राधा-चरणैकान्त-सख्यवशेन कृष्ण-रति-निष्ठा यैर् यैर् गुणैस् तादृशेर् अपि अनुगतास् तद् उपदेश-श्रेण्य इति । अनुक्षणम् अन्यगोपीनां वयं श्री-कृष्णस्य परम-प्रेयस्यः इत्य् अहङ्कार-रूप-गुण-माधुर्याद्य् अहन्तां वा स्यन्ति ये राधायाः गुणाः क्षणे क्षणे\ऽन्योन्य-मधुरतर-चमत्कारवन्तस् तद्-दान-परम्परया वा ।
नित्य-गोप्य आहुः—त्वद्-विषये\ऽवगमिर् अवगमनं सम्यग रसानुभवो यस्याः सा त्वद् अवगमी । इक् कृष्यादेस् ततो ञीप् त्वद् अवगमिनी ईर् ज्ञानं यस्यास् ततो ङीपि वा त्वत्-प्रेम वा जानाति राधा-तादात्म्य-भावेन चरमोत्कर्षं प्राप्तं तथा भवतोर् उत्थानेन शुभं भद्रं यस्याः सेवा-रसादि-लाभेन तादृशी । शुभयोः परम-शोभनयोर् भवतोर् गुणैर् विगुणा विगतोपकारा अन्वयाननुवृत्तीः सेवा न वेद तर्हि तदा युष्मद्-रूप-माधुर्यातिशयेनेवाति-कर्तव्यता-मौढ्ये सति परम-महानन्द-रस-प्रदा ईहा लीला ययोस् ता एव विभ्रति पुष्णन्ति तत्-तद् वैदग्ध्य-प्रवर्तित-स्मर-रस-विलास-विशेषैर् या
ललिताद्या मुख्य-सख्यस् तासां गिरो\ऽपि न वेद—अत्याविष्ठानन्तः-करणत्वात् यतस् त्वं मनुजैर् भार्वैः श्रवणेन चेतसि भृतः अनुयुगं राधा-कृष्णाख्य-महा-रसिक-मिथुनं लक्ष्मी-कृत्य अन्व् अहं सगुणानां राधा-कृष्ण-गुणानां स्वकृत-गीत-परम्परया श्रवणेन च महा-विदग्ध-मुख्य-सखीतो गुण-स्वरूप-चमत्कारादि-श्रवणेन चेतसि भृतः ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : इमम् एवार्थं प्रपञ्चयति-त्वद् अवगमीत्य् आदि । तव अवगम उपास्यत्वेन यथार्थ-ज्ञानं यस्य तत् सत्तायां नित्य-योगे इन् । अथ वा, त्वाम् उपगन्तुं शीलं यस्य । गमिन-गामिन-प्रभृति द्वितीया-तत्-पुरुषः, त्वद् एकान्त-भक्त इत्य् अर्थः । भव-दुःखयोः शुभाशुभयोर् गुण-विगुणान्वयान् सुख-दुःख-परम्परा न वेत्ति । दुरवगमानन्देन विस्मृत-देहादिः । प्रारब्ध-शुभाशुभ-जन्य-सुख-दुःखं न जानाति, तर्हि तदा न च देह-भृतां प्राकृतानां गिरः । युक्तम् इदम् यतस् त्वं मनुजैः सामान्यैर् अपि जनैः श्रवण-भृतः श्रवणे पूरितो\ऽपवर्ग-गतिर् भवसि । हे स-गुण! सच्-चिद् आनन्द-गुण-मय श्री-कृष्ण! तस्य तु त्वद् अनुगमिनो\ऽनुयुगं प्रति-युगम् अविनाशित्वाद् अन्व् अहम्, गीत-परम्परया तु किम् सद्-यद् अनु-युगम् अनु**-**दिनं त्वां गायति, तेन त्वं तस्य किं न भविष्यसीति भावः । तेभ्यः केवलं प्रेमानन्दम् एव ददासीति भावः ॥४०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतच्-चाशेषं त्वद् अभक्त-विषयकम् एव, त्वद्-भक्तस्य तु दैवापतित-विषय-भोगेनापि न कुत्रापि दुःखम्, किन्तु सर्वत्रैव महत् सुखम् इत्य् आहुः—त्वद् अवगमीति । सर्वथा सर्वोत्कृष्टतया यस्त्वां जानाति, स इत्य् अर्थः । किं वा तवागमो ध्यानादि-लक्षणः । यद् वा, असम्भावनादि-निरासकय् उक्त्या स्फोरणं तद्वान्, भवद् उत्थयोर् विचित्र-विनोदार्थं भवद् इच्छयोद्-भुतयोर् इति विशेषणं गुण-विगुणान्वयावेदने हेत्व् अन्तरम् अपि ज्ञेयम् । भक्तैर् ईश्वरेच्छायाः परिपाल्यत्वाद् गभीर-भक्त-वात्सल्य-जातत्वादत एव प्रीत्यानुमोद्यत्वाच् च । कथं भक्त इत्य् अपेक्षायाम् आहुः अनु युगम् इति । प्रति-युगम् अन्व् अहं च । मनुजैः सर्व-मनुष्यैर् द्वार-भूतैषा गीत-परम्परा तन्-माहात्म्य-सम्बन्धि-पीत-श्रेणीतया त्वं श्रवण-भृतः, किं वा श्रवणयोर् भूतः, ते परि-पूर्ण-धृतः सदैव श्रुत इत्य् अर्थः ।
हे सगुणेति, तच् च त्वत्-कारुण्य-प्रभावाद् एवेति भावः । किं वा हे सर्व-सद्-गुणार्णवेति गीत-परम्पराया अपि तादृशत्वम् अभिप्रेतम् । न च तस्य त्वां विना किञ्चिद् अन्यत् साध्यम् इत्य् आहुः अपवर्ग-गतिः, अपवर्गस्यापि गतिर् आश्रयः, किं वा अपवर्गेण गतिर् गम्यो\ऽपि त्वम् एवेत्य् अर्थः । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, भवद् उत्थयोर् भवद् इच्छोद्-भूतयोः शुभाशुभयोः सद् असत्-कर्मणोर् गुण-दोष-सम्बन्धान् न वेति न मन्यते, नापेक्षत इत्य् अर्थः । तत्र भवद्-उत्थेत्य् एव, एव हेतुः यथा नियुक्तो\ऽस्मि तथा करोमि इति सर्वत्रेश्वरेच्छामननात् । अतस् तर्हि त्वद्-भक्ति-प्रवृत्ति-काल एव देह-भृतां गिरो न वेत्ति, तत्रानधिकारात्, तथा चोक्तं श्री-भगवता—
तावत्-कर्माणि कुर्वीत न विर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा।पु ११.२०.९] इति ।
अत एवोक्तं करभाजनेन देव-र्षि-भूताप्त-नृणां पितृणाम् [भा।पु ११.५.४१] इत्य् आदि-सगुणा सर्व-सद्-गुणालङ्कृता या **गीत-**परम्परा तया । यद् वा, **त्वद्-**भक्तस् तु सदा परम् आत्यन्त-सुखे मग्न एवेत्य् आहुः—त्वद् अवगमी त्वयि मग्न-मनाः परम-भक्तो भवद् उत्थ-शुभाशुभयोर् भवज्-जायमानम् उत्थम् उत्थितं च तयोर् जायमानोत्थितयोः, देह-भृतां देह-भृद्भिः क्रिय-माण-कृतयोर् इति यावत्, शुभाशुभयोः पुण्य-पापयोर् **गुण-**विगुणान्वयान् **गुण-**दोष-सम्बन्धान् न वेत्ति । कः किं करोति कृतवान् वा, ततो वा भद्राभद्रं किं जातं तत् सर्वं न जानातीत्य् अर्थः ।
तर्हि तेषं स्व-विषयका गिरश् च न वेत्ति । किञ् च, यैर् मनुजैर् युगे युगे सगुणा त्वदीयुणसहिता या **गीत-**परम्परा तया **श्रवण-**भृतः कर्णयो-धृतस् त्वम् तेषाम् **अपवर्ग-**गतिः प्राप्त्युपायो यस्य तथा-भूतस् त्वम्, तेषाम् **अपवर्ग-**गतिः प्राप्त्य् उपायो यस्य तथा-भूतस् त्वं भवसि, संसारध्वंसेन निज-सामीप्य-प्रदो भवसीत्य् अर्थः ॥४०॥
अभक्तान् आक्षिप्य भक्तानां वर्णनस्य श्री-भगवतः स्तुतौ पर्यवसानात् सिद्धान्, साधकांश् च भक्तान् वर्णयन्ति त्वद् अवगमीति । त्वाम् आत्मकोटेर् अपि प्रेष्ठं जानन् प्रेम-भरेण त्वयि कन्दर्प-वृन्दनिन्दि-पाद-नख-सौन्दर्ये रासादि-मधुर-विविध-लीलाशालिनि भग्न-चित्त इत्य् अर्थः । भवद् आविर्भूत-पुण्य-पापयोः फल-रूप-सुख-दुःख-सम्बन्धान् न वेति, तदा प्रेमाब्धिमज्जने देहिनाम् अन्येषां कर्म-पराणां भो इदं कुरु, भो इदं मा कृथाः इत्य् आदि-लक्षणा गिरश् च न वेत्ति, त्वद्-व्यततिरिक्त-संवेदनाभावात् । इति सिद्धानुक्त्वा साधकानाहुः— अनु-युगम् इति । गुणाः सौन्दर्य-माधुर्य-भक्त-वात्सल्य-वैदग्ध्यादयस् तैः सहिता प्रति-युगम् अनुवर्तमाना या गीत-परम्परा गीत-गोविन्दादि-तुल्या गनावली तया, मनुजैः प्रत्य् अहं श्रवणेषु भृतः सन् मोक्षस्य प्रभुर् अपि त्वम् । यतः संयतः हृदीति शेषः । श्रवणेन्द्रिय-द्वारा हृदि बद्ध इत्य् अर्थः ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तच्-छ्रुत्वा तद् एक-परायणाः सोल्लासम् अभिस्पष्टयन्ति—त्वद् इति । त्वद्-याथार्थ्यानुभवी तु भवद् उत्थयोर् भवद्-भक्ति-प्रभावेण स्थातुम् असमर्थयोर् अपि साधन-बाहुल्याय तद्-देहं रिरक्षूणां भवतैव तदाभासत्वेन स्थापितयोः शुभाशुभयोः प्रारब्ध-रूपयोर् गुण-विगुणौ सुख-दुःखे तयोर् अन्वया अनुवृत्तयस् तान् न वेत्ति ते सन्ति न वेति न जानात्यपि, यदा तान् न वेत्ति तदा देह-भृतां देहाभिमानिनां विधि-निषेध-रूपा गिरः सुतरां न वेत्ति । यद् वा, गिरः स्तुति-निन्दा-रूपाश् च न वेत्तीति । अथवा भवत् उद्भवत् उत्थम् उत्थितं च देह-भृतां तयोर् जायमानोत्थितयोः देह-भृद्भिः क्रियमाणयोः कृतयोर् इति यावत्, तयोः शुभाशुभयोः पुण्य-पापयोर् गुण-विगुणान्वयान् गुण-दोष-सम्बन्धान् न वेत्ति कः किं करोति कृतवान् वा । ततो वा भद्राभद्रं किं जातं तत्-सर्वं न जानातीत्य् अर्थः ।
तर्हि तेषां स्तुति-निन्दा-रूपाः स्व-विषयिका गिरश् च न वेत्ति, त्वद् अनुभवानन्दाविष्टत्वाद् एवेत्य् अर्थः ।
तर्हि किं करोतीत्य् अपेक्षायां तत्-सम्प्रदाय-प्रवर्तक-महा-जन-दृष्टान्तेन दर्शयति अन्व् इति । यतो\ऽनुगमाद्-धेतोः स्व-भक्त्य् एक-वशत्वं मनुजैः श्री-स्वायम्-भुवमनु-तुल्यैः प्राणिभिर् अनुयुगं तत्राप्य् अन्व् अहं गुण-गीत-परम्परया श्रवण-द्वारा चेतसि धृतो भवसि । तद् उक्तं तृतीये श्री-मनुम् उद्दिश्य—
अयातयामास् तस्यासन् यामाः स्वान्तरयापनाः ।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ [भा।पु। ३.२२.३५] इति ।
तत्र हेतुः अपवर्गस्यापि गतिर् आश्रयो दशम-पदार्थस् त्वं परम-पुरुषार्थत्वाद् एवेति भावः । तद् एवं—
यावत्त्वच् छ्रवणादेर् एवम्-भूतं महिमानं
न जानन्ति तावद् एव साधनान्तरे प्रवर्तन्ते ॥
इति च तावत्-कर्माणि कुर्वीते [भा।पु ११.२०.९] इत्य् आदेः । अथवा कथं तादृश-मद् अवगमित्वं स्यात् । तत्र तथैव सदाचारं दर्शयन्ति अनु-युगम् अन्व् अहम् इति । सर्व-देवेत्य् अर्थः । यत इति यद् अर्थम् इत्य् अर्थः । अतः पूर्ववन्नास्य साधनस्य दौर्बल्यम् इति भावः । श्रुतयस् तु दर्शिता एव ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : त्वद् इति । त्वद्-याथार्थ्यानुभवोनु-भवद् उत्थयोः भवत् उद्भवद् उत्थम् उत्थितं च । देह-भृतां तयोर् जायमानोत्थितयोर् देह-वद्भिः क्रियमाण-कृतयोर् इति यावत् । तयोः शुभाशुभयोः पुण्य-पापयोर् गुण-विगुणान्वयाद् गुण-दोष-सम्बन्धान् न वेत्ति,
कः किं करोति ? कृतवान् वा ? ततो वा भद्राभद्रं किं जातम् ? तत् सर्वं न जानन्तीत्य् अर्थः । तर्हि तेषां स्तुति-निन्दारूपाः स्व-विषयिका गिरश् च न वेत्ति । त्वद् अनुभवानन्दाविष्टत्वाद् एवेति वेत्य् अर्थः ।
तर्हि किं करोति ? तत्राहुः—अनु-युगम् इति । यतोऽवगमाद् धेतोः स्व-भक्त्य् एक-वशत्वं मनुजैः श्री-स्वायम्भुव-मनु-तुल्यैः प्राणिभिर् अनुग्युगं तत्राप्य् अन्व् अहं गुण-गीत-परम्परया श्रवण-द्वारा चेतसि धृतो भवसि । तद् उक्तं तृतीये श्री-मनुम् एवोद्दिश्य—
अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः ।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ [भा।पु। ३.२२.३५] इति ।
तत्र हेतुः—अपवर्गस्यापि गतिर् आश्रयो दशम-पदार्थस् तम् इति ॥४०॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : इमम् एवार्थं पुनः प्रपञ्च्यन्तिय आहुः—त्वद् अवगमीत्य् आदि । त्वाम् अवगन्तुं शीलं यस्य, तवावगमो यथार्थ-ज्ञानं नित्य-लीलामृत्-सच्-चिद् आनन्द-विग्रहत्वादि-ज्ञानं वर्तते यस्येति, नित्य-योगे इन् वा, तद् एकान्त-भक्त इति यावत्, भवतो भवच्-छक्ति-रूपाद् दैवाद् उत्थयोः शुभाशुभयोर् गुण-विगुणान्वयान् न वेत्ति । तस्य शुभाशुभ-जनक-प्रारब्धाभावात् । तर्हि तदा देह-भृतां प्राकृत-देहिनां गिरश् च न जानाति । अतः प्राकृत-देहि-वार्तापि न तस्य कर्ण-गोचरः ।
अथवा तर्हि तदा तत इति यावत्, देह-भृतां गिरो वार्तापि तत्र नास्तीति । **न-**कार एवानुवर्तनीयः । तद् इदं युक्तम् एवेत्य् आहुः—यतस् त्वं मनुजैर् यैः कैश्चिद् एव जनैः चरणारविन्द-भृतः श्रुत-मात्र एव सन्न् अपवर्ग-गतिर् भवसीति शेषः । स पुनस् त्वद् अवगमी अनुयुगं कल्प-कल्पम् अनु तत्राप्य् अन्व् अहं गुण-गीत-परम्परया विशिष्टः । अतस् तस्य शुभाशुभ-जनक-प्रारब्धाभाव इति यत्, तत् किं चित्रम् इत्य् अर्थः । अनु-युगम् इति नित्यत्वात् ॥४०॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये तु ऋषयो भक्ताः दुराचारास्ते यतय इव नोभय-लोक-भ्रष्टाः किन्तु कृतार्था एवेत्य् आहुः—त्वद् अवगमी त्वां भजनीयत्वेन अवगन्तुं शीलं यस्य सः । **भवद् उत्थ-शुभाशुभयोर् गुण-**विगुणान्वयान् न वेत्ति । भक्तिर् अस्य भजनं तद् इहा-मुत्रोपाधि-नैराश्येनाम् उष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् इति श्रुतेर् भक्तस्य भजने सत्य् एव नैष्कर्म्य जाते\ऽपि ये शुभाशुभे दृश्येते ते खलु न कर्म-फले किन्तु भवद् उत्थ एव स्वभक्ति-योगस्य रहस्यत्व-रक्षणार्थं बहिर्मुखम् अतोत्-खाताभावार्थं च भक्त-उत्कण्ठावर्धनार्थं वा भवतैव कल्पिते स्व-भक्त्य् अपराध-फले एव वा ते भवता कर्म-फले इव दर्शिते इति भावः । तयोर् गुण-विगुणान्वयान् गुण-दोष-सम्बन्धान् न वेत्ति अयं भक्तो दयालुः क्षमाशीलो वदान्यः इत्य् आदि गुणानामन्वयान् अयं भक्तो विषयासक्तो धन-लुब्धो दम्भीत्य् आदि-दोषाणाम् अप्य् अन्वयांश् च लोकै रुक्तान् स्वस्मिन् न जानाति नाधिकम् अनुसन्धत्त इत्य् अर्थः ।
तर्हि तस्मिंस् तस्मिन् समये देह-भृतां मनुष्याणाम् उत्तमाधमानां गिरश् च स्तुति-निन्दा-वतीर् वाचश् च नानुसन्धत्ते माममी जना मिथ्या गुण-दृष्ट्यैव स्तुवन्ति चेत् स्तुवन्तु माममी जनाः विषयासक्त्यादीन् मयि सत्यान् एव दृष्ट्वा निन्दन्ति चेद् एतद् उचितम् एव निन्दन्त्व् इति मनसि विमृशतीति भावः । तत्र हेतुः अनुयुगं युगे युगे अवतीर्णस्य तवेत्य् अर्थः । अन्व् अहम् अहन्यहनि मनुजैर् या सगुणस्य अप्राकृत**-गुण**-सिन्धोस् तव **गीत-**परम्परा तादृशानाम् अगुण-सङ्कीर्तन-प्रवाहः तया त्वं श्रवण-भृतः तत्-करणयोः पूर्णः सन् अपवर्ग-गतिः पञ्चम-स्कन्ध-गद्य-दृष्ट्या प्रेम-भक्ति-प्रदः । अपकृष्टा वर्गाश् चत्वारो\ऽपि यतस् तथा-भूतो वा गतिर् भवसीत्य् आह अत्र श्रुतयः—
तैर् अहं पूजनीयो वै भद्र कृष्ण-निवासिभिः ।
तद्-धर्म-गतिहीना ये तस्यां मयि परायणाः ॥
कलिना ग्रसिता ये वै तेषां तस्याम् अवस्थितिः ।
यथा त्वं सह पुत्रैश् च यथा रुद्रो गणैः सह ॥
यथा श्रियाभियुक्तो\ऽहं तथा भक्तो मम प्रियः ॥ गोपाल-तापन्यः
तद्-धर्म-गतिहीना इति कलिना ग्रसिता इति च दुराचारत्व-व्यञ्जकम् । तस्यां मथुरायां तद् एव दुराचारे सति द्वयोर् उपासकयोर् मध्ये—
यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः ।
ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्म् अहा ।
अविपक्व-कषायो\ऽस्मादम् उष्माच् च विहीयते ॥ इति भगवता यतिर् निन्दितः ।
अपि चेत्-सु-दुराचारः भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ [गीता ९.३०]
इति स्व-भक्तो\ऽभिनन्दितो यथा तथैव स्वस् तवान्ते श्रुतिभिर् अपि त्वद् अनुवर्तिनीभिः समवादीति ज्ञेयम् ॥४०॥
॥ १०.८७.४१ ॥
द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद् अन्तराण्ड-निचया ननु सावरणाः ।
ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस्
त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : त्वद् अवगमी न वेत्ति [भा।पु। १०.८७.४०] सुख-दुःखे, न च विधि-निषेधाव् इत्य् उक्तम् । तत्र ननु कथम् अवगन्तुं शक्यते, दुरधिगमत्वस्योक्तत्वात् ? इत्य् एवम् आशङ्क्य सत्यम् एवम् अनवगाह्य-महिम्नो वाङ्-मनसागोचरत्वाद् अविषयत्वेनइव ज्ञानम् इति दर्शयन्,
यद् ऊर्ध्वं गार्गि दिवो यद् अर्वाक् पृथिव्या यद् अन्तरा द्याव् आपृथिवी इमे यद् भूतं भवच् च भविष्यच् च [बृ।आ।उ। ३.८.३]
इत्य् आदि-श्रुति-प्रतिपादितम् अपरिमितं महिमानम् आह—द्यु-पतय एवेति । हे भगवन्, ते अन्तं द्यु-पतयः स्वर्गादि-लोक-पतयो ब्रह्मादयो न ययुर् न प्रापुः । तत् कुतः ? यद् अन्त-वद् वस्तु, तत् किम् अपि त्वं न भवसि ।
आस्तां द्यु-पतयो न ययुर् इति, यद् यस्मात् त्वम् अप्य् आत्मनोऽन्तं न यासि । कुतस् तर्हि सर्व-ज्ञता सर्व-शक्तिता वा ? अत आह—अनन्ततया अन्ताभावेन । न हि शश-विषाणाज्ञानं सार्वज्ञ्यं तद् अप्राप्तिर् वा शक्ति-वैभवं विहन्ति । अनन्तत्वम् एवाह—यद् अन्तरेति ।
यस्य तवान्तरा मध्ये ननु अहो सावरणा उत्तरोत्तरं दश-गुण-सप्तावरण-युक्ता अण्ड-निचया ब्रह्माण्ड-समूहा वान्ति परिभ्रमन्ति । वयसा काल-चक्रेण खे रजांसीव सह एकदैव, न तु पर्यायेण । हि यस्माद् एवम्, अतः श्रुतयस् त्वयि फलन्ति तात्पर्य-वृत्त्या पर्यवस्यन्ति, न तु साक्षाद् वदन्त्य् अयम् एतावान् इति । स-गुणस्य गुणानन्त्यान् निर्गुणस्य चागोचरत्वात् ।
कथं तर्ह्य् अपदार्थे तात्पर्यम् ? इति तत्र विधि-मुख-वाक्ये भवेद् अयं नियमः पदार्थस्यैव वाक्यार्थत्वम् इति । निषेध-मुखे तु नायं नियम इत्य् आह—अतन्-निरसनेनेति । अन्यद् एव तद् विदिताद् अथो अविदिताद् अधि [के।उ। १.३],158 अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् [क।उ। १.२.१४],159 अस्थूलम् अनणु [बृ।आ।उ। ३.८.८] इत्य् आदि-प्रकारेण लक्षणया च तत् त्वम् असीत्य् आदयः पर्यवस्यन्ति ।
न च वाच्यं निषेधैः शून्यम् एव ज्ञाप्यत इति । यतो भवन्-निधनाः, भवन्ति त्वयि निधनं समाप्तिर् यासां तास् तथा । न हि निरवधि-निषेधः सम्भवति, अतोऽवधि-भूते त्वयि फलन्तीत्य् अर्थः ।
द्यु-पतयो विदुर् अन्तम् अनन्त ते
न च भवान् न गिरः श्रुति-मौलयः ।
त्वयि फलन्ति यतो नम इत्य् अतो
जय जयेति भजे तव तत् पदम् ॥४१.४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपत्य् अत्र—त्वद् अवगमीति । पूर्वोक्त-पद्ये त्वद् अवगमीत्यादि यद् उक्तं तत्राशङ्कते—नन्व् इति । अवगन्तुं ज्ञातुम् । दुरधिगमत्वस्य दुर्ज्ञेयत्वस्य अनवगाह्य-महिम्नो दुर्ज्ञेय-माहात्म्यस्य । तथा हि श्रुतिः—
स होवाच**—यद्** ऊर्ध्वं गार्गि दिवो यद्
अर्वाक् पृथिव्या यद् अन्तरा द्याव् आपृथिवी इमे ।
यद् भूतं भवच् च भविष्यच् चेत्य् आचक्षते,
कस्मिंस् तद् ओतं च प्रोतं च ? इति ॥ [बृ।आ।उ। ३.८.३]
अर्थः—सा ह यज्ञवल्क्य उवाच—हे गार्गि ! त्वयोक्तं यद् ऊर्ध्वम् उपरि दिवः, अण्ड-कपालात्, यच् चार्वाग् अधः पृथिव्या अण्ड-कपालात्, यच् चान्तर् मध्ये द्याव् आपृथिवी द्याव् आपृथिव्योः, अण्ड-कपालयोर् इमे द्याव् आपृथिवी, यद् भूतम् अतीतम्, भवच् च वर्तमानं, भविष्यच् च भवितव्यम्, तच् च यत् सूत्रम् आचक्षते तत् सूत्रम् आकाशे ओतं प्रोतं च । यद् वै व्याकृतं सूत्रात्मकं जगत्, अव्याकृताकाशे ब्रह्म-रूपे वस्तु-मात्रं त्रिष्व् अपि लोकेषु वर्तत इत्य् अर्थः । [इत्य् उपनिषदोऽर्थः ।]
अनन्तत्व-परे यद् अप्रापणे हेतुं पृच्छति—तत् कुतः ? इति । अन्त-ज्ञाने सर्व-ज्ञता तव कथं स्याद् इत्य् आशयेनाह—कुतस् तर्हि ? इति । विद्यमान-वस्तुनो ज्ञानाग्रहणे हि सार्वज्ञं शक्ति-वैभवं च विहन्ति न त्व् अविद्यमानस्यापीति भावः । हि यस्माद् एवम् अनन्तोऽसि । अतो हेतोः ।
पुनर् आशङ्कते—कथम् इति । अपदार्थे पदाशक्ये । तत्र तात्पर्य-निर्णये । विधि-मुखे वाक्ये तत् त्वम् असीत्यादिके । अयं क इति चेद् आह—पदार्थस्यैवेति । अतन्-निरसनेन आरोप्तिआपवादेनेति । तद् आह श्रुत्या—
अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि । अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यस्मात् कृताकृतात् । अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद [के।उ। १.३] इति ।
अर्थः—तद् वस्तु विदितात् ज्ञानात् वस्तुनोऽन्यत् पृथग् एव भवति । तर्हि अवच्छिन्नम् अज्ञातं प्राप्तम् अत आह—अथो अविदिताद् अधि अथो अप्य् अर्थे अविदिता अज्ञाताद् अपि वस्तुनो अधि उपरि तद् वर्तते उपर्य् अर्थ-लक्षणयान्यद् इत्य् अर्थः । यद् धि यस्माद् उपरि भवति, तद् धि तस्माद् अन्यद् इति प्रसिद्धम् । धर्माच् छास्त्रीयाद् अन्यत्र तथाधर्माद् अन्यत्र तथा कृतं कार्यम् अकृतं कारणं तस्माद् अन्यत्र भूताद् अतिक्रान्तात् कालाद् भाव्याद् भविष्यतश् चकाराद् वर्तमानाच् चान्यत्र यद् ईदृशं सर्व-व्यवहार-गोचरातीतं पश्यसि जानासि तद् एति यमं प्रति नचिकेतसः प्रश्नः ।
अत्रैव श्रुत्य् अन्तरं—यस्मिन्न् आकाशे सर्वम् ओतं प्रोतं स कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च [बृ।आ।उ। ३.८.७] इति गार्गि-प्रश्ने याज्ञवल्क्यो वदतीत्य् आह—
स होवाच—एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमो अवाय्व् अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अर्वाग् अमनोऽतेजस्कम् अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यम् । न तद् अश्नाति किंचन, न तद् अश्नाति कश् चन ॥ [बृ।आ।उ। ३.८.८] इति ।
यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्माल् लोकात् प्रैति, स कृपणः । अथ य एतद् अक्षरं गार्गि विदित्वास्माल् लोकात् प्रैति, स ब्राह्मणः ॥ [बृ।आ।उ। ३.८.१०] इति ।
सुगमत्वात् किञ्चिद् व्याख्यायते—हे गार्गि ! यद् एतत् कथितं तद् अक्षरं परमं परं ब्रह्म ब्राह्मणा ब्रह्म-विदोऽभिवदन्ति, तद् आह—अस्थूलम् इत्य् आदि । अलोहितम् अग्नेर् गुणो लोहितः अपां स्नेहस् ताभ्याम् अन्यत् सर्वथाप्य् अनिर्देश्यम् । लाञ्छः छाया तद्-रहितम् अच्छायम् । तर्हि तमः, न अतमः । अमुखम् अद्वारम् । मीयन्ते येन तन्-मात्रं रूपं तद् अस्य नास्तीत्य् अमात्रम् । छिद्रवद् अन्तरं नास्तीत्य् अनन्तरम् । तर्हि बाह्यम्, न अबाह्यम् । इति ।
अतन्-निरसनेन ब्राह्मणास् तद् अक्षरं वदन्ति तद् अक्षरं किञ्चन वस्तु नाश्नाति नोपभुङ्क्ते कश् चन कोऽपि पुमांस् तन् नाश्नाति नानुभवतीति पर्यवस्यन्ति प्रतिपादयन्ति । इत्य् अर्थ इति—निरवधिक-निषेधादर्शनात् तद् अवधिभूतं त्वाम् एव प्रतिपादयन्तीति भावः । स्वामिनां द्युपतय इति । हे अनन्त ! हे तवान्तं द्युपतयो न विदुर् भवांश् च न वेत्ति । श्रुतीनां वेदानां मौलयो मुकुटीभूता गिरो वेदान्त-वाक्यानि न विदुः किन्तु यतस् ता गिरस् त्वयि नमो जय जयेतीत्य् उक्त्वा फलन्ति निवृत्त-व्यापारा भवन्ति, अतोऽहं त्वत्-पदं नमो जय जयेति ब्रुवन् भजे ॥
श्रीधरानुयायिनी : निर्विषयत्वेन ब्रह्मणः साक्षात्कारासम्भवम् आशङ्क्य वाग् आद्य् अगोचरं ब्रह्मेति ज्ञानम् एव ब्रह्म-साक्षात्कार इत्य् आहुः—द्युपतय इति । उत्तरोत्तर-दश-गुण-भूम्यादि-सप्तावरण-संयुता ब्रह्माण्ड-कोट्योऽपि त्वय्य् आकाशे रजांसीवैकदैव, न तु क्रमेण काल-चक्रेण परिभ्रमन्तीति ।
यद् वा, सृष्ट्य् आदौ लब्ध-प्राकट्या निष्क्रामन्ति प्रलयादौ लब्धाप्राकट्याः प्रविशन्तीत्य् अर्थः । यद् वा, अहो कियद् अस्माकं वाग्-वैभवं येन त्वदीय-वैभवं विषयीकृत्य स्तोष्याम इत्य् उपसंहरन्ति—द्युपतय इति । यद् अन्तरा यस्य तवैकैक-रोम-कूप-मध्ये काल-चक्रेण सहैव सावरणासङ्ख्य-ब्रह्माण्डानि द्युपतयो ब्रह्मादयो देवताश् च गवाक्षेषु परमाणव इव परिभ्रमन्ति । अत एव ते ब्रह्म-विद् आदयस् तवान्तं न ययुर् एव । तथा तवान्ताभावात् त्वम् अपि स्वस्यान्तं न यासि यत् यद्यप्य् एवं, तथापि विषयेऽस्मद् आद्याः श्रुतयः फलन्त्य् एव त्वां विषयीकृत्य सफला भवन्त्य् एव, त्वदीय-वास्तव-स्वरूप-निरूपासांआर्थेऽपि श्रुतयः खलु भगवद्-विषयिण्य इति प्रथमैवास्माकं साफल्यम् इति भावः ।
अथ कथम् एवं विषण्णा भवथ ? इति चेत्, तत्राहुः—अतन्-निरसनेनेति । अतत् मिथ्या-भूतं विश्वं तस्य, नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९]160, अस्थूलम् अनणु [बृ।आ।उ। ३.८.८] इत्य् आदिना निरसनेन बाधेनैव भवतीति भवद् वर्तमानं प्राप्तं निधनं मरणं यासां ता वयम् इत्य् अर्थः । आसन्न-मरणा इति यावत् ।
अयं भावः—यथा सुवर्ण-वज्रादि-क्षेत्रे मृत्-पाषाण-जलादिषु महता यत्नेन दूरीकृतेष्व् एव सुवर्ण-वज्रादिकं लभ्यते तथात्रापि मिथ्या-भूत-प्रपञ्चान्तर्गतानन्त-वस्तूनां निरासे कृत एव तत्-पद-लक्ष्यार्थ-प्रार्थान्यथा । एवं च सृष्ट्य् आरम्भ-कालम् आरभ्य प्रलय-काल-पर्यन्तम् अप्य् अतद्-वस्तूनां गणनम् अप्य् अशक्यं किं वक्तव्यं तन्-निरसनम् अशक्यम् इति । तन्-निरसनेन विना च तव ज्ञानम् अशक्यं तद् विना तु सुतरां त्वद्-वर्णनम् अशक्यम् इति कृत्वात्यन्तासाध्ये कार्ये प्रवृत्तानाम् अस्माकम् अन्ततो मरणम् एव प्राप्तम् इत्य् आशयः ।
यद् वा, नन्व् एवं दुर्गमश्चेद् अहं तदा भवतीभिर् वृत्त्यन्तरम् एवाङ्गीकार्यम् इति चेत् तत्राहुः—भवन् निधना इति । भवान् एव नितरां धनं यासां ता वयम् इत्य् अर्थः । त्वां विनाक्ष्णम् अप्य् अस्माकं न निर्वाहस् तस्मात् तव जागरण-लक्षण-प्रकाश एवास्माकं जीवन-मतो जागृहीत्य् आशयः । तस्माद् यदा तवानुकम्पां वयं लभेमहि । अन्यो वा कश् चन लभेत, तदैव दुष्प्रापम् अपि तव तत्-त्वं सुगमं भवेद् इति । अखिल-शक्त्य् अवबोधकेति प्रथम-श्रुत्य् उक्तम् एवात्राप्य् अनुसन्धेयम् इति सङ्क्षेपः ॥
नीलकण्ठी : एवं ब्रह्म-विदः स यो ह वै तत्-परमं ब्रह्म वेद ब्रह्मैव भवति ब्रह्मैव सन् ब्रह्माप्येति [बृ।आ।उ। ४.४.६] इत्य् आदि-श्रुतेः प्राप्त-ब्रह्म-भावस्य य एवं वेद [बृ।आ।उ ५.४.३] अहं ब्रह्मास्मि इति स इदं सर्वं भवति [बृ।आ।उ। १.४.१०] सलिल एको द्रष्टाद्वैतो भवति [बृ।आ।उ। ४.३.३२] तत्-केन कं पश्येत् [बृ।आ।उ। २.४.१४] इत्य् आदि-श्रुति-सिद्धौ सार्वात्म्य् अनिर्विशेष-भावौ तयोर् आद्यो विशेषानन्त्यात्-परो निर्विशेषत्वाच् च वाङ्-मनसातीत इत्य् अस्य विदुषो\ऽनन्तत्वम् आह—द्युपतय इति । ते तव ज्ञातात्म-तत्त्वस्य स एकधा भवति त्रिधा भवति इत्य् आदि-श्रुतेः
आत्मनां तु सहस्राणि बहूनि भरतर्षभ ।
योगी कुर्याद्-बलं प्राप्य तैश् च सर्वैर् महीं चरेत् ॥
प्राप्नुयाद्-विषयान् कैश्चित्-कैश्चिद् उग्रं तपश् चरेत् ।
सङ्क्षिपेच् च पुनस्तानि सूर्यो रश्मिगणान् इव ॥ इत्य् आदि-स्मृतेश् च
प्रदीपवद् आवेशस् तथा हि दर्शयति [वे।सू। ४.४.१५] इति न्यायाच् च योग-बलेन प्रदीप-वदन् एकधा भावं गतस्य अन्तम् अवसानं द्युपतय एव ये सर्व-ज्ञत्वेन प्रसिद्धाः ब्रह्मेन्द्रादयस्त एव न ययुर् न प्रापुः किम् उतान्ये\ऽल्पज्ञाः । किञ् च त्वम् अपि ते अन्तं न यासीति विपरिणामेनानुषञ्जनीयम् । अतः अनन्ततया यथा एकस्मिन् बीजे कृत्स्नो वटस् तत्रानन्तानि बीजानि तेषु प्रत्येकं वटा इत्य् एवं सन्तान-परम्परया तवाप्य् आनन्त्यम् अस्तीत्य् अर्थः । कुतो\ऽनन्तत्वम् अत आह—यद् इति । यद्-यस्माद्-धेतोः ते इत्य् अनु-कृष्यते ते तवान्तरा मध्ये हार्द्दाकाशे अण्डनिचयाः प्रत्येकं परितः पञ्चाशत्-कोटि-योजन-प्रमिताः ब्रह्माण्ड-समूहाः सावरणाः स्वापे क्षयोत्तरोत्तर-दश-गुणैः पृथिव्य् अप्-तेजो-वाय्वाकाश-मनो-बुद्धि-प्रकृत्यावरणैः सहिताः खे आकाशे रजांसीव धूलिकणा इव वयसा भूत-भविष्यद्-वर्तमान-कालेन सह वाकन भ्रमन्ति । तथा च श्रुतिः यावान् वा अयम् आकाशस् तावान् एषोन्तर्हृदय आकाशः इत्य् उक्त्वा यच्-चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति हार्दाकाशे सर्व-सद्भावं दर्शयति । स्मृतिर् अपि—
अनागतम् अतीतं च भविष्यत्-स्थूलम् अण्व् अपि ।
तथा दूरम् अदूरं च निमेषः कल्प इत्य् अपि ॥
चिद् आत्मनि स्थितान्य् एव पश्य माया-विजृम्भितम् । इति ।
ननु, माया तु काचिन्-मरु-मरीचि-महा-ह्रद-तरङ्ग-तुल्यानां विशेषाणाम् अन्तं भू-तुल्यस्याधिष्ठान-भूतस्य सत्यस्य त्व् अन्तं यास्यत्य् एवेत्य् आशङ्कय् आह—यच्-छ्रुतय इति । यत् यस्मिन् त्वयि विषये हि यस्मात् श्रुतयः सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] तत्-त्वम् असि [छा।उ। ६.८.७] अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [बृ।आ।उ। ३.८.८] इत्य् आदयः अतन्-निरसनेन अनृतत्व-जडत्व-परिच्छिन्नत्वाद् ईनां पारोक्ष्य-सद्वितीयत्वयोर् वा उपाधि-भूतयोर् माया-विद्ययोर् वा स्थूलत्वाणुत्वादीनां चानात्म-भूतानां क्रमेण व्यावर्तनेन फलन्ति ब्रह्म ज्ञापयन्ति न विधि-मुखेन, अतस्तव वाचाम् अगोचरत्वाद् अनन्तत्वम् इति भावः । एवं सर्व-निषेधे शून्यता-पत्तिं वारयति-भवन्-निधना इति । भातीति भवान् चिज्-ज्योतिः-स्वरूपः तत्र त्वयि निधनं तात्पर्येण पर्यवसानं यासां तास्तथा निरवधिक-निषेधासम्भवात्-सर्व-निषेधेन त्वाम् एव चिन्-मात्रं सत्य् अदि-श्रुतयो\ऽवशेषयन्तीत्य् अर्थः । अयं भावः—यद्यपि
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति । [तै।उ। ३.१.१] सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इत्य् आदि-वाक्यानि विधि-मुखेन ब्रह्म प्रतिपादयन्तीव भान्ति तथाप्य् अतन्-निरसनेनैव तान्य् अपि पर्यवस्यन्ति । तथा हि तत्-त्वम् असीत्य् अन्तः-करणोपाधेर् जीवस्य मायोपाधिना ईश्वरेणाभेदः श्रूयते स च विशिष्टयोर् न सम्भवतीति उभयत्राप्य् उपाध्य् अंश-प्रहाणेन शुद्धं चैतन्यं
लक्षणया प्रतिपाद्यते वाक्येन तत्-त्वम् इति सामानाधिकरण्यात् सो\ऽयं देवदत्त इतिवत् । अत्र पदद्वये\ऽपि लक्षणा एक-पद-लक्षित-निष्कृष्टस्येतर-पदोक्त-विशिष्टेनाभेदायोगात् । अंशाशिभावेनाभेदोपगमे तु त्वम् अहम् अस्मि भगवो देव ते अहं वै त्वम् असि । इति श्रुति-व्यतिहार-सङ्कोचापत्तेः कनक-कुण्डल-तुल्ययोः श्रुति-रज-ततुल्ययोर् वा जीवेशयोर् अंशांशि-भावायोगात्, अन्यथा कण्ठ-मणि-दृष्टान्त-बाधः स्यात् । तथा च-तत्-त्वम् असि-वाक्येन एक-वाक्यताम् आपादितं यतो वेत्य् आदि-वाक्यं कारणत्व-निरसनेनैव ब्रह्मणि पर्यवस्यति, राधेयः कौन्तेय इतिवद् वा राधेयत्वबाधेन च कौन्तेयत्व इव जीवत्व-बाधेन ब्रह्मणि पर्यवस्यति । एवं सत्य् आदि-वाक्यम् अपि । प्रकृष्ट-प्रकाशादि-वाक्यवत् । अत्र हि असतो\ऽज्ञानस्य शून्यता-पत्तेरचितः सतो भानायोगाच् च सत्त्वे सति चित्त्वम् अज्ञात-ब्रह्म-ज्ञापकं प्रकृष्टत्वे सति प्रकाशत्वम् इव चन्द्रस्य । न च चन्द्रमसीव ब्रह्मणि वैशिष्ट्यं प्रत्यक्षं नापि शाब्दं शब्दस्याज्ञात-ज्ञापनार्थस्य वैशिष्ट्याप्रतिपादकात् । नापि लक्षण-वैशिष्ट्यानुमेयम् अनन्तम् इति विशेषणेनानुमानबाधात् । एवं च सत्यं ज्ञानम् इत्य् अपर्यायपदाभ्याम् अप्य् अखण्डं वस्तु सिद्धं तच् च परम-प्रेमास्पदत्वानन्द-रूपम् अर्थाच्-चानृत-जड-दुःखादेर् व्यावृत्तिः । एवं च यथा तरङ्ग-चन्द्र-घटाकाशानुगताभ्यां चन्द्रत्व् आकाशत्वाभ्यां लक्ष्यमाणौ मुख्य-चन्द्राकाशौ चन्द्रत्व् आकाशत्वे न त्यजतः । एवं ब्रह्माध्यस्त-घटाद्य् अनुगत-सत्त्वेन चित्त-वृत्त्य् उपाधि-भेद-भिन्न-चिद्-व्यक्त्यनुगत-चित्त्वेन च लक्ष्यमाणं ब्रह्मापि सत्त्वचित्त्वे न त्यजति नाप्य् अखण्डत्वं सत्ताजातिवत्, सा हि स्वतो व्यावृत्तैर् अपि गोत्वादिभिर् न विशेष्टुं शक्या नीलत्वादिनेवोत्पलम् । अथ च तदात्मिका एवं ब्रह्मापीत्य् अत्र विस्तरः । तथा च-सत्य् आदि-पदानां विशिष्ट-प्रतिपादकत्वाद् अनृतादि-व्यावर्तनेनैव ब्रह्म-प्रमापकत्वं पर्यवस्यति । नेति नेत्य् अस्थूलादि-वाक्यानं तु स्पष्टम् एव मूर्त-प्रपञ्च-तद्-गत-स्थौल्यादि-निषेधेनाखण्डे ब्रह्मणि पर्यवसानं ततश् च ब्रह्मणो जन्मादि-हेतुत्वं जन्मादि-सापेक्षत्वाद् औपाधिकं सत्-तटस्थतया शुद्धं लक्षयति शाखाग्रम् इव चन्द्रम् । एवं परापर-विद्याधिकार-स्थानां सविशेष-वाक्यानां तत्त्व-प्रपत्त्य् उपास्ति-विधि-शेषतया देवताधिकरण-न्यायेनावान्तर-तात्पर्यवत्त्वे\ऽपि न परम-तात्पर्य-विषयत्वम् उभयत्र तत्-कल्पने वाक्य-भेदापत्तेः । ये तु कृत्स्नं शास्त्रं स-विशेष-परम् इत्य् आहुः तेषां सर्व-विशेषवति तस्मिन्न् अस्थूलम् इत्य् आदि-निषेध-वाक्यानामत्यन्तानर्थक्यं तस्मान्न् इत्य् अशुद्ध-बुद्ध-मुक्त-स्वभावं निरस्ताशेष-विशेषम् एकरसं प्रत्यग् अभिन्नं ब्रह्माशेष-विशेष-निषेध-मुखेन श्रुतयः प्रतिपादयन्तीति सिद्धम् ॥४१॥
प्रबोधानन्दः श्रुति-स्तुति-व्याख्या- श्रुति-रूपा राधा-कृष्ण-निभृत-परिजन-भावस्याति-दौर्लभ्यम् आहुः—द्युपतयः स्वर्गादि-लोक-पतयः दिवः परब्रह्म-पदस्य वा पतयः स्व-सङ्कल्प-मात्रेण यस्य कस्यापि हृद्य् आविर्भावने समर्थाः दिवि द्योत-मानायाः समस्त-पुरुषार्थ-जिगीषोर् वा भगवद् एकान्त-भक्तः पतयस् तद्-दान-समर्थास् ते सर्वे\ऽपि तव राधा-सहित-नित्यातिप्रोन्मद-विचित्र-वृन्दावन-कुञ्ज-विहारस्यान्तं समीपं राधा-सखी-भावेन अन्यस्य तत्रायोग्यत्वात् न ययुरेव न प्रापुर् एव त्वम् अपि न सामीप्य प्राप यदन्तरा अण्ड-निचयास् तद्-रूपो नारायणात्मकस् त्वम् अपि न ययावित्य् अर्थः । तत्र हेतुः—अनन्तं ब्रह्म अनन्तत्वेन स्वस्य तव च ज्ञातत्त्वात् अतस् त्वं शुद्ध-गोपाल-विग्रहाद् अहंमानी शुद्ध-महा-प्रेमैक-शक्ति-विलासी
कथं ब्रह्म-दर्शिनां गोचरः स्याद् इति । न तु भोः सावरणा अपि अः श्री-हरिस् तत्-सहिता लक्ष्मीः सा तद्-रूपा वरणाः श्री-कृष्ण-चन्द्रं त्वाम् एव वरयन्तीति ता गोप्यो विमिश्रभावा इत्य् अर्थः ता अपि न ययुः । त्वत्-सङ्गं वरयन्ते याः शुद्ध-भावा अपि गोप्यस् ताश् च न समीपं प्रापुः किन्तु खे आकाशे रजांसीव वान्ति ते यथा रजसां ख स्पर्शो नास्ति तथा तेषां सर्वेषां त्वत्-स्पर्श इत्य् अर्थः । वयसा सह काले\ऽपि त्वन्-सम्बन्धं न प्रापेत्य् अर्थः । यद्यत्र त्वयि श्रुतयः मादृश्यो\ऽतन्-निरसनेन फलन्ति निष्पद्यन्ते न त्वद्यापि निष्पन्नास् तत्त्व-ज्ञान-संस्कारस्य सर्वात्मना नाश एव तन्-निष्पत्तेर् इति भावः ।
नित्य-गोप्य आहुः—दीव्यन्तः सह-क्रीडन्तः पतायो यासां तास्ते तव अन्तं बन्धकं परमैकान्तिक-प्रेम न ययुः । द्यौ सुख-रूपो दिव्यन् त्वं पतिर् यासां तास् त्वत्-सङ्गरङ्गिण्यो नापुर् इति वा त्वम् अपि अनन्तस् ते कीडा यस्याः [देव देवने क्विपि] तथा राधया सह बन्धं निविड-प्रेम बन्धं नापुः । कुतः यस्य तवान्तर् हृदि अण्डो\ऽण्डोद्भवाः पक्षि-निचया अपि आवृण्वन्ति ये श्री-दामादयस् तत्-सहिताः । अन्तर्बहिः सदा श्री-राधा-मात्र-गाचर-वृत्त्य् अभावान् न दृढः प्रेम-बन्ध इति भावः ।
ननु शपथ-पूर्वकं ब्रवीमि यदि मम राधां विनान्यत्रासक्ति-गन्धो\ऽप्यस्तीति चेत् सत्यम् इत्य् आह—वयसा कालेन कालं प्राप्य खे रजांसीव सहैव वान्ति गच्छन्ति सङ्गस् तेन नास्तीति भावः । तथापि श्रुतयः सर्वत्र श्रूयमाणास् तव श्री-राधा-विषय-महा-प्रगाढ-प्रेम-बन्धा अतन्-निरसनेनैव फलन्ति निष्पद्यन्ते बहिर् अप्य् अन्य-संसर्गश् चेन् न भवति तदानुराग-प्रसिद्धिः सत्येति ज्ञायत इति भावः । भवान्-नियतधनो यैर् अनुरागैः प्राण-सर्व-स्वभूत-राधिका-सङ्ग-रूप-धनं यैर् नियतम् आवश्यकं भवतीत्य् अर्थः । अतन्-निरसने सति फलन्तीति वा न भवतो न प्राप्नुवतः प्रिय-वस्तु-सङ्गं निधनं मरणम् एव यैर् इत्य् अर्थः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तर्हि हे नाथ ! त्वन्-महिमानं केऽपि न जानन्तीत्य् उपसंहरन्ति—द्युपतय इत्य् आदि । तुल्यम् एव सर्वम् । यत् श्रुतयो मद्-विधास् त्वय्य् एव फलन्ति, सफला भवन्ति । भवति निधनं पर्याप्तिर् यासाम् ॥४१॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् अनन्त-महिम्नो भगवतो माहात्म्यं वर्णयन्त्यः शक्ति-रहिता इव तथैव स्तुतिम् उपसंहरन्ति—द्युपतय इति । एव अपि । द्युपतयोऽपि, तेऽन्तं त्वन्-माहात्म्यावधिम्, यस्य श्री-चतुर्भुज-मूर्तेस् तवान्तरा एक-रोम-कूप-मध्ये सह वान्ति । तथा चोक्तं षष्ठे चित्रकेतुना—
क्षित्य् आदिभिर् एष किलावृतः
सप्तभिर् दश-गुणोत्तरैर् अण्ड-कोशः ।
यत्र पतत्य् अणु-कल्पः
सहाण्ड-कोटि-कोटिभिस् तद् अनन्तः ॥ [भा।पु। ६.१६.३७]
एवं परिच्छिन्नत्वेऽप्य् अपरिच्छिन्नत्वम् अपरिच्छिन्नत्वेऽपि परिच्छिन्नत्वम् इत्य् एवं परम-दुर्वितर्क्य-स्वरूपत्वेनानन्त-माहात्म्य-भरत्वम् एव दर्शितम् । वयसेति—कालस्य नित्यत्वेन सदा तेषां परिभ्रमणं सूचितम् । यच्-छब्दस्य पूर्वेणैवान्वयः । तच् च तैर् अपि व्याख्यातम् एव । यद् यस्मात् त्वम् अपीत्यादि । अतन्-निरसनेन त्वद्-व्यतिरिक-निवारण-मात्र-द्वारा । अन्यत् तैर् व्याख्यातम् ।
यद् वा, हि अतो हेतोः, मद्-विधाः श्रुतयस् त्वयि फलन्ति, त्वद्-भजनेन त्वां प्राप्नुवन्तीत्य् अर्थः । एवं पर-ब्रह्मणि कथं श्रुतयश् चरन्तीत्य् अस्य प्रश्नोत्तरम् अन्तेऽत्राप्य् उक्तम् इति, ज्ञान-काण्ड-श्रुतयस् तु अतन्-निरसनेन भवन्-निधना भवति ब्रह्म-रूपे निधनं पर्यवसानं यासां ताः ।
यद् वा, श्लेषेणान्ते प्रार्थैतम् इदं यद् यस्माद् ईदृशस् त्वन्-महिमा । अतः श्रुतयो मद्-विधा भवान् एव नितरां धनं यासां तथा-भूताः सत्यः, अतन्-निरसनेन अन्य-सर्व-परित्यागेन त्वयि फलन्ति, सफल-मनोरथा भवन्ति ।
यद् वा, अ-कारो विष्णुः । अ ! हे विष्णो ! तस्यास्मन्-मनोरथस्य निरसनेन निराकरणेन भवत् सद्यो जायमानं निधनं मरणं यासां तथा-भूता भविष्यन्तीति । वयम् इत्य् अनुक्तिर् लज्जादिना । ततश् च श्री-भगवत्-कृपया काले श्री-नन्द-गोकुलेऽत्र गोप्यस् ता बभूवुर् इत्य् उपाख्यानं प्रसिद्धम् एव ॥
भक्तानाम् एवं-भूतोऽपि त्वं ब्रह्म-लोकाद्य् अधीश्वराणाम् अप्य् अविज्ञात-पारोऽसीति श्री-भगवन्-महिम-वर्णनेनैवोपसंहरन्ति—द्युपतय इति । द्युपतयो ब्रह्म-रुद्र-शक्रादयोऽपि तवान्तं नैव ययुः, वत्सपालादि-हरणाद्य् अवसरे रास-क्रीडाद्य् उत्सवे च तव वैभवान्तं न प्रापुर् इति । अनन्ततया तासां त्वन्-मूर्तीनां पार्श्वे युगपद् ब्रह्माण्ड-कोटि-दर्शनात्, तथा कोटि-सङ्ख्य-व्रज-सुन्दरीणां प्रत्येकं पार्श्व-वर्तित्वेन च त्वद्-वैभवस्यान्ताभावेन त्वम् अपि तदानीम् आत्म-वैभवं चिद्-विलास-पर्यवसानं न लब्धवान् असीति, यस्य तवान्तरा त्वल्-लोम-विवराणां मध्ये सावरणा ब्रह्माण्ड-समूहा द्वि-परार्ध-काल-चक्रेण सह घूर्णन्ति । तथा ब्रह्मणाप्य् उक्तम् क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-वाताध्व-रोम-विवरस्य च ते महित्वं [भा।पु। १०.१४.११] इति । अतोऽपरिच्छिन्नत्वात् ज्ञान-काण्ड-श्रुतयोऽतन्-निरसनेन त्वयि फलन्ति, लक्षणया त्वयि पर्यवस्यन्ति, वयं तु प्रेम-निष्ठत्वाद् भवद् एक-परायणतया भवन्-निधनास् तन्-मात्र-मग्नात्मानस् त्वां विनान्यन् न जानीम इत्य् अर्थः । तस्माद् अस्मत्-कृपया त्वं जागृहीति ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्युपतय इत्य् अस्य टीकायाम् अनन्तयेत्य् उभय-लक्षणत्वान् निर्गुणस्य चेति व्याख्यातम् । श्रुतौ अविदिताद् अधि [के।उ। १.३] अव्याकृताद् उपरि अनादीत्य् अर्थः । कृताकृतात् कार्य-कारणाभ्याम् अस्थूलम् अनणु [बृ।आ।उ। ३.८.८] इत्य् आदि-कापीदृशी,
अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमो अवाय्व् अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अवाग् अमनोऽतेजस्कम् अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यम् । [बृ।आ।उ। ३.८.८] इत्य् आदि
तत्रालोहितम् आग्नेय-गुण-रहितं, अस्नेहं वारि-गुण-रहितं, अमात्रम् अनंशं सर्व-विशेष-रहितम् इत्य् अर्थः । स्व-व्याख्यायां तु तद् एवं स्तुतौ सङ्क्षेप-दर्शित-निज-निजार्थाः सर्व-विध-श्रुतीर् मुख्यया लक्षणया च वृत्त्या तत्-स्वरूप-निरूपण-द्वारा तत्-स्वरूप-वैभव-निरूपण-द्वारा च तत्र चरन्तीर् अपि पर्याप्तिम् अनाप्तवतीर् दृष्ट्वा लब्ध-समयास् तथैव स्वेषां तत्र चरणं युक्तम् इत्य् उपसंहरन्त्यः काश्चिद् उपक्रम-श्रुतीनां संवादेनाहुः—द्युपतय इति । अनादि-काल-परम्परा-सम्बन्धिनोऽनन्त-ब्रह्माण्ड-सम्बन्धिनश् च नाना-ब्रह्म-रुद्रादयोऽपि त्वं सर्व-काल-देश-व्यापकोऽपि अनन्ततयेति द्युपतय इत्य् अस्य च तत्त्वाप्राप्तौ हेतुः । इदम् एव टीकायां यद् अन्तरेत्यादिना पूर्वत्रापि योजितम् ।
यस्य तवांशेनाविर्भूतस्य कारणार्णव-शायि-रूपस्याप्य् अन्तरा एकैक-रोम-कूप-मध्ये ब्रह्माण्ड-निचया असङ्ख्येया वान्ति सृष्ट्य् आदौ लब्ध-प्राकट्या निष्क्रामन्ति प्रलयादौ लब्धाप्राकट्याः प्रविशन्ति चेत्य् अर्थः । गवाक्षे परमाणव इवेति भावः । वयसा तेषां परिच्छेदकेन काल-चक्रेण सह इति देश-कालानन्त्यं दर्शितम् । तस्य स्वरूप-वैभवाभ्याम् एव तत् तदीय-तत्-तत्-सर्वाश्रयत्वात् यद् यस्माद् आनन्त्याद् धेतोः श्रुतयोऽप्य् अतन्-निरसनेन अनन्ताद् अनन्त-वैभवाच् च त्वत्तोऽन्येषां सान्तानां सान्त-वैभवानां, त्वत्तोऽन्येषां सान्तानां चानुवाद-पूर्वकपूर्वक-त्यागेन भवत्य्भवत्य् एवानन्तेऽनन्त-वैभवे पाराप्राप्त्या निधनं समाप्तिर् यासां तथा-भूताःयासां तथा-भूताः सत्यः सर्वासर्वा अपि श्रुतयः फलन्ति स्फला भवन्ति,श्रुतयः फलन्ति सफला भवन्ति । अनन्त-पुरुषार्थ्पुरुषार्थ-प्राप्त्या सार्थका जायन्तेआर्थका जायन्ते ।
एतद् उक्तं भवतिएतद् उक्तं भवति—यस्माच् छ्रुतयः सर्व-सर्व-वाक्यान्वयेन त्वय्य् एव सार्थका जाय्यन्ते, तस्मात् तासामार्थका जायन्ते । तस्मात् तासाम् एक-देश-वाक्य-रूपस्रूपस् तत्-तद् अनुवादोऽपिअनुवादोऽपि तत्-तन्-निरसन-पूर्वकम्पूर्वकत्वद् उपदेश-वाक्यार्थ-पर्यवसान एव । अतन्-निरसन-वाक्यम् अपि त्वद् अधिकम् एव साक्षात्-त्वद् उपदेश-वाक्यम् अपि तथैवातन्-निरसन-पूर्वकम् एवेति लक्ष्यो वाच्यो वा भवसि । अस्माद् एक-प्रामाण्येन सर्व-थैवाप्राकृतानन्त-स्वरूप-वैभवतयासर्व-थैवाप्राकृतानन्त-स्वरूप-वैभवतया निर्णीयमानस् त्वम् अस्माकं परम-पुरुषार्थ्परम-पुरुषार्थोऽसि । एतद् एवोक्तम् उपक्रम-वाक्येऽपिवाक्येऽपि जय जय जह्य् अजां [भा।पु। १०.८७.१४] इत्य् आदीति ।
तत्रानन्ततया प्रतिपादिकाः श्रुतयोऽपि, यतो वाचो निवर्तन्ते [तै।उ। २.४.१] इत्य् आद्याः सर्व-ब्रह्माण्डाद्य् आश्रयत्वस्य, यद् ऊर्ध्वं गार्गि द्इवः [बृ।आ।उ। ३.८.३] इत्य् आद्याः सर्व-कालाश्रयत्वस्य, सर्वे निमिषा जज्ञिरे विद्युतः पुरुषाद् अधीत्य् आद्याः सर्व-श्रुत्य् अर्थ-रूपस्य, सर्वे वेदा यत् पदम् आमनन्ति [क।उ। १.२.१५] इत्य् आद्या अतन्-निरसन-पूर्वक-श्रुत्य् अर्थत्वस्य, न तस्य कार्यं [श्वे।उ। ६.८] इत्य् आद्याः ।
अतन्-निरसनं तु तावद् विविधम् असाक्षाद्-वृत्त्या तात्पर्य-वृत्त्या चेति । यथा न तस्य कार्यं [श्वे।उ। ६.८] इत्य् आदिषु, इन्द्रो यातोऽवसितस्य राजा [ऋ।वे। १.३२.१५]161, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इत्य् आदिषु ।
तत् पुनश् चतुर्विधं—शान्त-स्वरूप-निरसनं, स्वाभाविकानन्त-गुणत्वेन प्राकृत-नियत-सान्त-वैभव-निरसनं, सान्त-फल-साधन-साध्यत्व-निरसनं, सान्त-सम्बन्धेनानृजु-मार्ग-मय-तत्-प्रतिपादन-निरसनं चेति । तत्राद्यम् अन्यद् एव तद्-विदितात् [के।उ। १.३] इत्य् आदौ । द्वितीयम् अस्थूलम् अनणु [बृ।आ।उ। ३.८.८] इत्य् आदौ, न तस्य कार्यं [श्वे।उ। ६.८] इत्य् आदौ च । तृतीयं अन्यत्र धर्माद् अन्यत्राधर्मात् [क।उ। १.२.१४] इत्य् आदौ । चतुर्थं नैषा तर्केण मतिर् आपनेया [क।उ। १.२.९], नैवाभ्यसेद् बहूञ् छब्दान् वाचो विग्लपनं हि तत् इत्य् आदाव् इति
इत्य् एवम् एतच्-छ्रुत्य् उक्तम् आत्मानुशासनं जीव-हितोपदेशं सर्व-मूल-स्वरूप-स्वयं-भगवत्-सम्बन्ध्य् उपदेशं वा आ सम्यक् श्रुत्वा अथ अत एव आत्मना जीवस्य गतिं गम्यं तादृश-भगवतो ज्ञान-प्रकारं वा ज्ञात्वा भगवद्-वैभव-वर्णनस्य तादृश-स्वभावत्वाद् अपूर्ववद् अनुभूय सिद्धा अपि किं वा पूर्ण-मनोरथाः सन्तः ॥४१॥
भगवत्-सन्दर्भः [११६] : तथैव तासां महा—वाक्योपसंहारः—द्युपतय इति । अत्र स्वरूप-गुणयोर् द्वयोर् अपि द्विधैवानिर्देश्यत्वम् । आनन्त्येन इदम् इत्थं तद् इति निर्देशासम्भवेन च । तत्र प्रथमम् आनन्त्यम् आहुः—हे भगवन् ! ते तव अन्तम् एतावत् त्वं द्युपतयः स्वर्गादि-लोक-पतयो ब्रह्मादयोऽपि न ययुर् न विदुः । तत् कुतः ? अनन्ततया । यद् अन्तवद् वस्तु तत् किम् अपि न भवसीति । आसतां ते, यस्मात् त्वम् अपि आत्मनोऽन्तं न यासि । कुतस् तर्हि सर्व-ज्ञता सर्व-शक्तिता वा ? तत्राप्य् आहुः—अनन्ततयेति अन्ताभावेनैव, न हि शश-विषाणाज्ञानं सार्वज्ञ्यं तद् अप्राप्तिर् वा शक्ति-वैभवं विहन्ति । श्रुतिश् च योऽस्याध्यक्षः परमे व्योमन् । सोऽङ्ग वेद यदि वा न वेद [ऋग्-वेद १०.१३०.१८] इति । अनन्तत्वम् एवाहुः—यद् अन्तरेति यस्य तवान्तरा मध्ये ।
ननु अहो सावरणा उत्तरोत्तर-दश-गुण-सप्तावरण-युक्ता अण्ड-निचया वान्ति परिभ्रमन्ति वयसा काल-चक्रेण खे रजांसीव सह एकदैव न तु पर्यायेण । अनेन ब्रह्माण्डानाम् अनन्तानां तत्र भ्रमणात् स्वरूप-गतम् आनन्त्यं तेषां विचित्र-गुणानाम् आश्रयत्वात् गुण-गतं च ज्ञेयम् । श्रुतयश् च—यद् ऊर्ध्वं गार्गि दिवः यद् अर्वाक् पृथिव्या यद् अन्तरं द्याव् आपृथिवी इमे यद् भूतं भवच् च भविष्यच् च [बृ।आ।उ। ३.७.३] इत्य् आद्याः । विष्णोर् नु कं वीर्याणि प्रवोचं यं पार्थिवानि विममे रजांसि [ऋ।वे। १.१५४.१] इत्य् आद्याश् च ।
हि यस्माद् एवम् अतः श्रुतयश् त्वयि पर्यवस्यन्ति । अतः श्रुताव् अपि प्राजापत्यानन्दतः शत-गुणानन्दत्वम् अभिधाय पुनर् यतो वाच इत्य् आदिना अनन्तत्वेन वाग् अतीत-सङ्ख्यानन्दत्वं ब्रह्मण उक्तम् । यद् उक्तम्—
न तद् ईदृग् इति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न जानन्ति मेरो रूपं विपश्चितः ॥ इति ॥
अतोऽत्रानिर्देश्यत्वेनैव निर्देश्यत्वम् । यत् तु सत्यं ज्ञानं [तै।उ। २.१.२] इत्य् आदौ स्वरूपस्य साक्षाद् एव निर्देशः । स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इत्य् आदौ गुणस्य च श्रूयते तत्र च तथैव इत्य् आहुः । अतन्-निरसनेन भवन्-निधना इति । अतत् प्राकृतं यद् वस्तु तन् निरस्यैव भवत्-पर्यवसानात् । अयम् अर्थः । बुद्धिर् ज्ञानम् असंमोहं [गीता १०.४] इत्य् आदिना ह्रीर् धीर् भीर् एतत् सर्वं मन एव [बृ।आ।उ। १.५.३] इत्य् आदिना च यत् प्राकृतं ज्ञानादिकम् अभिधीयते, तत् सर्वं ब्रह्म न भवतीति नेति नेति [बृ।आ।उ। २.३.६] इत्य् आदिना, न तस्य कार्यं करणं च विद्यते [श्वे।उ। ६.८] इत्य् आदिना च निषिध्यते ।
अथ च सत्य-ज्ञानादि-वाक्येन स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इत्य् आदि-वाक्येन च तद् अभिधीयते । न तस्मात् प्राकृताद् अन्यद् एव तज्-ज्ञानादीति तेषां ज्ञानादि-शब्दानाम् अतन्-निरसनेनैव त्वै पर्यवसानम् इति । ततश् च बुद्ध्य् अगोचर-वस्तुत्वाद् अनिर्देश्यत्वं तथापि तद्-रूपं किञ्चिद् अस्तीति उद्दिश्यमानत्वाद् अनिर्देश्यत्वं च ।
तथा परोक्ष-ज्ञाने च दशमस् त्वम् असीतिवद् वाक्य-मात्रेणैव तस्य स्वप्रकाश-रूपस्यापि वस्तुनो विशुद्ध-चित्ते सुप्रकाश-दर्शनात् श्रुति-शब्दस्य स्वप्रकाशता-शक्तिमयत्वम् एवावसीयते । शब्द-ब्रह्म परं ब्रह्म ममोभे शाश्वती तनू [भा।पु। ६.१६.५१]162 इति । वेदस्य चेश्वरात्मत्वात् [भा।पु। ११.३.४४] इति । वेदो नारायणः साक्षात् स्वयम्भूर् इति शुश्रुम [भा।पु। ६.१.४०] इति । किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत् क्षणाद् [भा।पु। १.१.२] इति । अत एवौपनिषदः पुरुषः इत्य् अत्रोपनिषन्-मात्र-गम्यत्वं श्रुतिर् बोधयति । चाक्सुषं रूपम् इतिवत् ।
ततश् च श्रुतिमय्या स्व-प्रकाशता-शक्त्या प्राकृत-तत्-तद्-वस्तु-जातं तम इव निरस्य स्वयं प्रकाशते । तस्मान् न तत्रापि निर्देश्यत्वम् । नहि स्वेन प्रकाशेन रविः प्रकाश्यो भवति यथा तेन घट इति वक्तुं युज्यते स्वाभिन्नत्वात् । यदि च शक्ति-शक्तिमतोर् भेद-पक्षः स्वीक्रियते तदा निर्देश्यत्वम् अपीत्य् अत्रानिर्देश्यत्वेनैव निर्देश्यत्वं सिद्धम् । अत एवोक्तं गारुडे—
अप्रसिद्धेर् अवाच्यं तद् वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यम् अज्ञेयं ज्ञेयम् एवं परं स्मृतम् ॥ इति ।
श्रुतौ च—अन्यद् एव तद्-विदिताद् अथोऽविदिताद् अधि [के।उ। १.३] इति । इदम् अभिप्रेत्योक्तं श्री-पराशरेणापि ।
यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिर् ॥ [वि।पु। ६.८.५९] इति ।
नन्व् आविष्कृत-शक्तेर् भगवद् आख्यस्य ब्रह्मणः स्व-प्रकाशता-शक्ति-स्वरूपत्वं वेदस्य स्मभवति । ततश् चानाविष्कृत-शक्तेर् ब्रह्मणः प्रकाशस् तस्मात् कथम् इति । उच्यते—अस्मन्-मते तस्यापि प्रकाशो भगवच्-छक्त्यैव । तद् उक्तम्—
मदीयं महिमानं च पर-ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] इति ।163
न चैते न पर-प्रकाश्यत्वम् आपतति । ब्रह्म-भगवतोर् अभिन्न-वस्तुत्वात् । अत्र लौकिक-शब्देनापि यः कश्चित् तद् उपदेशः स तु तद् अनुगतेस् तया श्रुत्यैवानुगृहीततया सम्भवतीत्य् उक्तम् । अतस् तद् अनुशीलनावसरे तद्-भक्त्य् अनुभाव-रूपस्य तच्-छब्दस्य तु सुतरां तत्-स्वरूप-शक्ति-विलास-मयत्वात् न तत्र निषेधः । किं तर्हि मनो-विलासमयस्यैवेति सर्वम् अनवद्यम् । अत एव सुपर्ण-श्रुतौ प्रकृतिश् च प्राकृतं च यन् न जिघ्रन्ति जिघ्रन्ति, यन् न पश्यन्ति पश्यन्ति, यन् न शृण्वन्ति शृण्वन्ति, यन् जानन्ति जानन्ति च इति ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नद स्तुतौ सङ्क्षेप-दर्शित-निजानिजार्थाः सर्व-विध-श्रुतीर् मुख्यया लक्षणया वृत्त्या तत्-स्वरूप-निरूपण-द्वारा तत्-स्वरूप-वैभव-निरूपण-द्वारा च तत्र चरन्तीर् अपि पर्याप्तिम् अनाप्नुवतीर् दृष्टा लब्ध-समया साप्य् एव स्वेषां तत्र चरण-युक्तम् इत्य् उपसंहरन्त्यः काश्चिद् उपक्रम-श्रुतीनां संवादेनाहुः—द्युपतय इति ॥४१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : हे नाथ ! तर्हि त्वन्-महिमानं न कोऽपि जानीयाद् इत्य् उपसंहरन्ति—द्युपतय इत्य् आदि । द्युपतयो ब्रह्मादयो देवाः, ते तव अन्तं न ययुः । किं बहुना, त्वम् अपि ते अन्तं न यासीः, तर्हि किम् अहम् असर्व-ज्ञः ? नेत्य् आहुः—अनन्ततया अनन्तस्यान्ताज्ञानेन न सर्व-ज्ञत्व-हानिः । अनन्तताम् एवाहुः—यत् यस्य तवांश-रूपस्य सहस्र-शिरसः श्री-नारायणस्य अन्तरा मध्ये अण्ड-निचया ब्रह्माण्ड-समूहाः सावरणा एव वान्ति सञ्चरन्ति ।
ननु भोः कृष्ण ! कस्मिन् क इव खे रजांसीव अतस् त्वम् अनन्त एव वयसा काल-चक्रेण सह यत् यस्मात् श्रुतयो वयं त्वयि अतन्-निरसनेन निद्रा-निरासेन फलन्ति पर्यवस्यन्ति तज्-जागरणम् अतन्-निद्रा । कथं-भूताः श्रुतयः ? भवन्-निधनाः । त्वन्-निद्रया भवत्-सम्पत्यमानं निधनम् इव निधनम् अप्रकाशो यासां त्वयि जागरितेऽस्माकम् उत्साहः स्याद् इति जागृहीति भावः । अथवा भवान् एव निःशेषं धनं यासाम् अतस् तव जागरणम् एवास्माकं श्रेय इति ॥४१॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं सर्वात्म-महा—समुद्रस्य स्तुति-मिषेण तत्-त्वं निरूपयितुं प्रवृत्ताः श्रुतयः इयत्ताम् अप्राप्य परावृत्तास् तत्र स्वासामर्थ्यम् अभिव्यञ्जयन्तञ् स्तुतिम् उपसंहरन्ति—द्युपतय इति । स्वर्गादि-लोक-पतयो ब्रह्माद्या अपि ते तवान्तं न ययुः, न प्रापुः । तत्र वयं काः ?
ननु यूयं तेभ्यः सकाशाद् अपि सूक्ष्म-दर्शिन्योऽन्तं प्राप्स्यथ मा विरमत । तत्राहुः—त्वम् अपि तवान्तं न यासि । आसतां दूरे तावद् अन्ये इति भावः । कुतस् तर्हि सर्व-ज्ञता सर्व-शक्तिता वा ? तत्राहुः—अनन्ततया । अन्तताभावेन न हि शश-विषाणाज्ञानं सार्वज्ञ्यं तव प्राप्तिर् वा शक्ति-वैभवं विहन्ति ।
अनन्तत्वम् एवाहुः—यद् अन्तरेति । यस्य तव अन्तरा मध्ये । ननु अहो सावरणा उत्तरोत्तरं दश-गुण-प्राप्तावरण-युक्ता अण्ड-निचया ब्रह्माण्ड-समूहा वान्ति परिभ्रमन्ति वयसा काल-चक्रेण खे रजांसीव सह एकदैव, न तु पर्यायेण, यद् यस्मात् एव तस्मात् त्वयि विषये श्रुतयोऽस्मद् आद्याः फलन्ति । त्वां स्व-विषयीकृत्य सफला भवन्ति । त्वत्-तत्त्व-निरूपणासामर्थ्येऽपि श्रुतयः खलु भगवद्-विषयिण्य इति प्रथयैवास्माकं साफल्यम् अभूद् इति भावः ।
कथम् एवम् अतिविषण्णा भवथ ? इति तत्राहुः—अतन्-निरसनेन भवन्-निधना इति । ब्रह्म-तत्त्व-परमात्म-तत्त्व-भगवत्-तत्त्वानि समासेनोक्त्वा पुनर् व्यासेन विवरीतव्यानां तेषां मद्ये यद् ब्रह्म तस्मिंस् तत्-पदार्थे प्रथमं निरूपयितव्ये आदाव् अतन्-निरसनं कार्यम् । तत्र एतत्-पदार्थो माया मायिक-वस्तुनि चेत्य् अत्राप्य् अभ्यापतन्तो नाना नाना-वादाः समाहिता एव । यथा मणि-क्षेत्रे मृत्-पाषाण-जलादिषु दूरीकृतेष्व् एव मणि-लाभस् तथैवातत्-पदार्थेषु दूरीकृतेष्व् एव ब्रह्म-लाभः । अतोऽत्र मायिक-वस्तूनां निरसनेनैव भवद्-वर्तमानं निधनं मरणं यासां ताः वयं सृष्टि-कालम् आरभ्य प्रलय-काल-पर्यन्तम् अपि अतद्-वस्तूनां स्थावर-जङ्गमानां प्रत्येकं जाति-व्यक्ति-गुण-कर्मणाम् एतावती सङ्ख्येति गणयितुम् अप्य् अशक्यत्वात् तन्-निरसनानन्तरं ब्रह्म-परमात्म-भगवत्त्वानि ततोऽप्य् अतिदुर्गमानि ततोऽप्य् अनन्तानि कथं विवृत्य निरूपयितुं प्रभवेमायांभाव् । तस्मात् यदि त्वत्-कृपां वयं लभेमहि, अन्यो वा कश् चनापि लभेत, तदैव दुर्गमम् अपि तत्-त्वं सुगमं भवेद् इति प्रथम एव श्लोके अखिल-शक्त्य् अवबोधक ते इति तद् अनन्तरम् अपि तव परि ये चरन्तीत्य् अत्र नृषु तव माययेत्य् अत्रापि बुद्धीन्द्रियेत्य् अत्रापि व्यञ्जितम् एव । अत्रातन्-निरसने श्रुतयः—
अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् अतमो अवाय्व् अनाकाशम् असङ्गम् अरसम् अगन्धम् अचक्षुष्कम् अश्रोत्रम् अर्वाग् अमनोऽतेजस्कम् अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यं [बृ।आ।उ। ३.८.८] इत्य् आद्याः ॥४१॥
॥ १०.८७.४२-४३ ॥
श्री-भगवान् उवाच—
इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।
सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥
इत्य् अशेष-समाम्नाय-पुराणोपनिषद्-रसः ।
समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : इत्य् अशेष-समाम्नाय-पुराणोपनिषद्-रस इति, सर्व-श्रुति-पुराण-रहस्य-तात्पर्यम् इत्य् अर्थः ॥४२-४३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अनेन प्रकारेणोक्तम् एतद् आत्मनोर् जीव-ब्रह्मणोर् ऐक्य-रूपस्यानुशासनम् । अथ श्रवणोत्तरम् आनर्चुः । आत्मनो गतिं स्वरूपम् ॥४२॥
इतीत्थं पूर्व-जातैः सनकादिभिः । व्योम्नाकाशेन यानं येषां तैः ॥४३॥
श्रीधरानुयायिनी : श्री-भगवान् उवाच—एवं श्रुति-कृतं ब्रह्मोपदेशं श्रुत्वा ज्ञात्वा कृत-कृत्याः सन्तः सनकादयः सनन्दनम् आनर्चुः ॥४२॥
हे ब्रह्मणो मानस-पुत्र नारद ! तव ज्येष्ठ-भ्रातृभिः व्योम-यानैः, खं ब्रह्म इति श्रुतेर् ब्रह्मानन्द-विहारैः ब्रह्म-पारगैर् वा समुद्धृतं नॄ,नां सर्व-काम-वासना-बाधकं यद् इदम् अशेष-वेदोपनिषत्-पुराण-रहस्य-तथापिअं तच्-छ्रद्धया मनसि धारयंस् त्वं यथेच्छं भुवि चरेति ॥४३॥
नीलकण्ठी : आख्यायिकामनुसरति श्री-भगवानुवाचेत्य् आदिना-इत्य् एतद् इति ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : आत्मा श्री-कृष्णः सो\ऽनुशिष्यते अनुरूपतया निरूप्यते यत्र वचसि अन्यत्र यथा श्री-कृष्णस्य तत्-त्वं तद् अनुरूपं निरूपणं नास्ति अनुगततया प्रेम-पारवश्येन श्री-राधानुवर्तितया शासनम् इति वा । अनुक्षणं शासनं नियमनं राधयेति वा आततत्वाच् च मातृत्वादात्मा हि परमो हरिः इत्य् उक्तेः । समस्तान्य् अस्वरूपाश्रयत्वात् समस्तान्य् अप्रेम-रस-मयावस्थाश्रयत्वाद् वा आततः राधा-रस-मग्नावस्थास्वरूपम् एव धर्मि अन्ये धर्माः मिमीते परिमितं करोत्य् अन्यत्-स्वरूपं स्वगुण-रस-शक्त्य् आद्य् अपेक्षया मातृत्वाद् उत्तम-वस्तु-ज्ञातृत्वाद् वा । शुद्ध-महा-प्रेम-रसमय-शक्ति-विलासा एव सर्व-मेयोत्तमाः परमानन्द-महा-साम्राज्य-साराकरत्वात् तज्-ज्ञाता श्री-राधानुराग-मग्न-रूप एव श्री-कृष्णः ।
यच् चाप्नोति यदादत्ते यच्-चात्ति विषयानिह ।
यच्-चास्य सन्ततो भावस् तस्माद् आत्मेति गीयते ॥
इत्य् अस्य चार्थः—श्री-राधाप्रिय एव विषयान् यत् प्राप्नोति शब्द-स्पर्शादीन् सदा प्राप्नोति तद् एकासक्तत्वात् राधायाः कृष्ण-विषय-स्पर्शाद् एव विच्छेदेन रसमयस्य करणात् गृह्णाति च कृष्णो\ऽपि तान् एव नान्यन्-निज-पारमैश्वर्यादिकम् भुङ्क्ते च तानेव न त्व् आनन्दान्तरम् । सन्ततो भावः अविच्छिन्नो राधायाम् एव प्रेमा । आत्मनो गतिम् आत्मनः श्री-कृष्णस्यापि गतिं प्राप्यां राधाम् ॥४२-४३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एवमीदृशं वा एते पूर्वोक्ताः श्री-सनकादयः, एतद् इति पाठे पाठान्तरे एतच्-छ्रुत्य् उक्तम्, आत्मानुशासनं जीव-हितोपदेशम्, आ सम्यक् श्रुत्वा, तथा त एवात्मनो हरेर् गतिं ज्ञात्वा सिद्धा अपि योगेन, किं वा पूर्ण-मनोरथाः सन्तः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एवं समाम्नायादि**-रसः** । **पूर्व-जातैः सर्वादौ ब्रह्मणः प्रादुर्भूतत्वात्-सर्वतः श्रेष्ठैर् इत्य् अर्थः । अतो व्योयानैः सर्व-त्रान् आसक्त्या चद्भिर् अत एव महात्मभिर् उदार-मतिभिस्तैः रम्यग् उद्धृतः गुरु-कृताभ्यस् ताभ्य एव श्रुतिभ्य इति शेषः, इति योग्यता दर्शिता । अत्र समाम्नायः सामान्यत उक्तः, पुराणं च तद् उपलक्षणत्वेनेतिहासश् च । तत्रयं च वक्ष्यमाणावशिष्टत्वेन कर्मोपासना-रूपं द्विविधम् एव ग्राह्यम् । उपनिषत्तु-तत्र तत्र च्छान्दोग्यादि-रूपो भगवद्-गीतादि-रूपो वा ज्ञान-भागः । पुराणस्य मध्ये पाठस् तद् अभेद-विवक्षया । यद्-ब्राह्मणान् इतिहासान्-पुराणानि इति स्वाध्यायोपदेश-**श्रुतेः । एवम्—
वा अरे अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर् वेदः साम-वेदो\ऽथर्वाङ्गिरस इतिहास-पुराणम् ॥ इत्य् आदितः सोदरत्व-श्रुतेः ।
ऋग्-वेदं भगवो\ऽध्येमि यजुर् वेदं साम-वेदम् अथर्वणं चतुर्थम् इतिहास-पुराणं पञ्चमं वेदानां वेदम् ॥ इति ।
इति छान्दोग्योपनिषदि । एतद् एवानून्दते पुराणेषु इतिहास-पुराणानि पञ्चमो वेद उच्यते [भा।पु ३.१२.३९]। इत्य् आदिना । तथाप्यत्र सूताधिकारो भगवन्नामादिवद्विधिबलादेव लभ्यते वर्षासु रथकारो\ऽग्नीनादधति इत्य् आदिवत् तेषां रसः पिबत भागवतं रसम् [भा।पु १.१.३] इत्य् आदिदृष्ट्या भगवद्-भक्ति-रसमयं तात्पर्यम् । तच् च त्रि-विधम्-प्रत्येक-वाक्य-गतम् अवान्तर-वाक्य-गतं महा-प्रकरण-गतं च । तत्राद्ययोः **पूर्व-पूर्व-**दर्शितम्, अन्यस्य तु—
उपक्रमोपसंहारावभ्यासो\ऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इति षड्भिर् अङ्गैः ।
तच् च सर्व-वेदाद्य् अन्तस्थितस्य सृष्ट्याद्य् अनुवादेन दर्शित-प्रणवार्थस्य प्रकाशके नाप्रसिद्धानां प्रसिद्धानाम् अपि श्रुतीनाम् ऐक्यार्थेन मूल-पद्यैर् एवोदाह्रियते । यथा जय जयेति । द्युपतयः इत्य् उपसंहारोपक्रमयोर् ऐक्येन स यद् अजया त्वजाम् [भा।पु। १०.८७.३८] इत्य् आदिभिर् अभ्यासेन । अनुचरेन्-निगमः [भा।पु। १०.८७.१४] श्रुतयस् त्वयि हि फलन्ति [भा।पु। १०.८७.४१] इत्य् आद्या अपूर्वतया । न परिलषन्ति केचित् [भा।पु। १०.८७.२१] इत्य् आदिभिः फलेन । त्वम् अकरणः स्वराट् [भा।पु। १०.८७.२८]इत्य् आदिभिर् अर्थवादेन । दृतय इव श्वसन्त्य् असु-भृतः [भा।पु। १०.८७.१७] इत्य् आदिभिर् उपपत्त्या यथोक्त-लक्षणः श्री-भगवान् एव विवक्षित इति । अस्य श्री-कृष्णत्वं तु पूर्वोक्त-युक्त्या ज्ञेयम् ॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : आत्मानुशासनं जीव-हितोपदेशं सर्व-मूल-स्वरूप-स्वयं-भगवत्-सम्बन्ध्य् उपदेशं वा, आत्मनो जीवस्य गतिर् गम्यं तादृश-भगवतो ज्ञान-प्रकारं वा, ज्ञात्वा यथा स्वयम् अवधारितवन्तस् तथैवावधार्येत्य् अर्थः ॥४२॥
समाम्नायादीनां रसः पिबत भागवतं रसं [भा।पु। १.१.३] इत्य् आदि-दृष्ट्या भगवद्-भक्ति-रस-मयं तात्पर्यम् ॥४३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम् ॥४१-४५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इत्य् एतद् अष्टाविंशत्या वेद-स्तव-श्लोकैर् बुद्धीन्द्रिय-मनः-प्राणान् इति ब्रह्मोपनिषद्-विवरण-मयम् आत्मानुशासनम् आत्मनः स्वस्य गतिं प्राप्य भगवत्-प्रेमाणम् ॥४२-४३॥
॥ १०.८७.४४ ॥
त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् ।
धारयंश् चर गां कामं कामानां भर्जनं नृणाम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-दायादेति ब्रह्मैव दायम् इवायत्न-प्राप्यम् अत्ति सेवत इति तथा । ब्रह्म-पुत्रेति वा ॥४४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् आत्मानुशासनम् । कामानां कर्मवासनानाम् । भर्जनं दाहकम् । यथा सनकादयो ब्रह्म-दायादा **ब्रह्म-**पुत्रास् तथा त्वम् अपीत्य् आह—**ब्रह्म-**पुत्रेति । यथा त एतदृहीत्वा चरन्ति तथा त्वम् अप्य् एतगृहीत्वैव चरेति भावः ॥
श्रीधरानुयायिनी : न व्याख्यातम्।
**नीलकण्ठी : ब्रह्म-**दायादः ब्रह्मणो मानसः पुत्रः ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् अयं रसो मधुर-सार-भागः सम्यग् उद्धृतः प्रकटितः आकृष्य गृहीतो वा यतः पूर्व-जातैः सर्वादौ श्री-ब्रह्मणा प्रादुर्भूतैः सर्व-ज्येष्ठैः श्री-भगवद् अवतारैर् इत्य् अर्थः । अतो व्योमयानैः सर्व-त्रानासक्त्या चरद्भिर् अपि, किं वा सिद्धैः, अत एव महात्मभिर् उदारम् अतिभिश् च, तु त्वन्तु, हे **ब्रह्म-**दायादेति **ब्रह्म-**पुत्रत्वेन तवापि तैः साम्यादत्र योग्यतास्तीति भावः । धारयन् हृदि मुखे च कामं यथेच्छं गां चर, पृथ्व्यां परिभ्रमेत्य् अर्थः । किमर्थम् नृणां मनुष्याणां कामा विषय-भोगादीच्छास् तासां वर्जनं निवारणम्, पाठान्तरे\ऽपि स एवार्थः । एतच्-छ्रवणेन श्री-भगवद्-भक्त्य् उत्पत्त्या नृणां कमा विनश्यन्त्व् इति त्व् एतद् अर्थम् इत्य् अर्थः । च-शब्दोक्तो\ऽयं तेभ्यो विशेषः ॥४३-४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म-दायादेति योग्य-**ब्रह्म-**पुत्रतोक्त्यापि योग्यतोक्ता । धारयन् हृदि मुखे च कामं यथेच्छं गां चर । पृथिव्यां परिभ्रमेत्य् अर्थः । किमर्थं नृणां कामानां वर्जनं निवारण-रूपं भर्जनम् इति पाठे\ऽपि स एवार्थः । एतच्-छ्रवणेन श्री-भगवद्-भक्त्य् उपपत्त्या नृणां कामा विनश्यन्तु एतद् अर्थम् अपीत्य् अर्थः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ब्रह्म-दायाद ब्रह्मात्मज ॥४४॥
॥ १०.८७.४५ ॥
श्री-शुक उवाच—
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् ।
पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूर्णः कृत-कृत्यः । श्रुत-धरः श्रुतम् अर्थं मनसि धारयन् । वीर-व्रतो नैष्ठिकः ॥४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स मुनिर् नारदः । ऋषिणा नारायणेन । एवम् आदिष्टम् इत्थं प्रोक्तं तत्-त्वम् । श्रद्धया गृहीत्वाह ॥
श्रीधरानुयायिनी : श्री-शुक एवं नारायणोपदिष्टं श्रद्धया श्रुत्वा मनसि धारयन्न् अविस्मरन् कृत-कृत्यो भूत्वा नैष्ठिको नारद उवाच ॥
नीलकण्ठी : श्रुत-धरः श्रुत-मात्रं धारयति न बहुकृत्व उपदेशम् अपेक्षते । श्वेत-केतुवद्**-वीरव्रतो** नैष्ठिकः ॥४५॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : कामानां भर्जनं श्री-कृष्ण-सङ्गादि-वामनानां भर्जनं राधैकान्तिक-सख्य-रस एव निर्भरत्वात् कामानां श्री-कृष्ण-भावान्तर-कामनानाम् वर्जनम् इति पाठान्तरे\ऽर्थः स एव ॥४४-४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवमित्थमेतद्वा आदिष्टं प्रयोजनम् । गुरुणेति पठे पूर्वत एव तस्य श्री-नारायणशिष्यत्वात्, किंवा अधुना तादृशोपदेशात् श्रद्धया गृहीत्वा ओमित्य् आदरेण स्वीकृता । यद् वा, उपदिष्टमात्मानुशासनं शिक्षित्वा, यत आत्मवान् बुद्धिमान् । किञ्च, मुनिर्मननशीलः, यतो वीर-व्रतः, अतः **श्रुत-**धरः पूर्णश् च सन् । हे राजन्न् इति परमगुरुत्वेनात्मनो\ऽपि धन्यतां गृहीत्वा हृदि धृत्वा पूर्णः सन् । अन्यत्-तैर् व्याख्यातम् । यद् वा, गृहीत्वा हृदि धृत्वा पूर्णः सन् । ननु कथं सद्य एव गृहीतम् तत्राह आत्मवानिति । अतः **श्रुत-**धरः श्रुतं धरतीति तथा सः । अन्यत् समानम् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतो वीरव्रतो नैष्ठिक-ब्रह्म-चारित्वाद् अविक्षिप्त-चित्तः । अतः **श्रुत-**धरः सकृच्-छ्रवण-मात्रेण शब्दस् तद्-धरः । यतश् च मुनिर् मनन-शीलः आत्मवान् श्री-भगवन्-निष्ठश् च अतस् तत्-क्षणादर्थतो\ऽपि श्रद्धया निश्चयात्मिकया बुद्ध्या स्वगुरुणा श्री-नारायणेनादिष्टं गृहीत्वा पूर्णः प्राप्त-स्व-मनो-रथ-पूर्तिः सन्न् आह । स ऋषिणेति पाठः क्वचित् । राजन्न् इति तद् अभीष्टम् उत्तरयित्वा प्रोत्साहयति ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रुत-धरः श्रुतम् अर्थं मनसि धारयन् वीर-व्रतः वीरस्येव व्रतं प्रतिज्ञा यस्य सः ॥४५ ॥
॥ १०.८७.४६ ॥
श्री-नारद उवाच—
नमस् तस्मै भगवते कृष्णायामल-कीर्तये ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नम इति श्री-कृष्णावतारतया नारायणं नमस्यति । उक्तं हि एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति ॥४६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सर्वाः श्रुतयस् तावच्-छ्री-कृष्णम् एव स्तुवन्तीति ज्ञात्वा स-प्रेम-श्री-कृष्णस्यावतारतय नारायणं प्रणमति—नम इति । को\ऽसौ कृष्णः यः अभवाय संसार-निवृत्तये उशतीः कमनीयाः कला अवतारान् । तच्-चोक्तं प्रथमे एते चांश-कलाः [भा।पु। १.३.२८] इत्य् आदिना रक्षा-भूमि-कृपा-मूर्ति-षोडशांशे कला मता । इति वारतन्तविः ।
वंशैश्वर्ये धने लेशे सम्भृतौ खत्रि-भागके ।
मेषादीनां तथा वीर्ये सतालव्यों\ऽश ईरितः ॥ इति च ॥
श्रीधरानुयायिनी : भक्तानां संसार-निवृत्त्य् अर्थं गृहीत-नाना-कमनीयावताराय विमल-कीर्तये श्री-कृष्ण-रूपाय नारायणाय तुभ्यं नमः ॥
नीलकण्ठी : अभवाय मोक्षाय । उशतीः कमनीयाः । कलाः अवतारान् ॥४६॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : नारदः श्री-राधा-नागरं समस्त-भगवत्-स्वरूपतया नमति—तस्मै भगवते परम-पूर्णतम-भगवत्त्वाय कृष्णाय समस्त-भगवत्-स्वरूपोत्कृष्ट-परमानन्द-विग्रहाय शृङ्गार-रसाधिष्टातृत्वेन श्यामवर्णाय व्रज-कामिनी-चित्ताकर्षकाय श्री-राधया स्वगुणैर् आकृष्यमाणाय अमलो विशुद्ध-प्रेम-रसस् तन्-मयी कीतिर्यस्य श्री-कृष्णो राधया इत्थं विहरतीत्याद्या । य एव सर्व-भूतानाम् अभयाय न विद्यते कुतो\ऽपि भयं यस्मात्-तादृश-विशुद्ध-स्वप्रेम-विशेषाय उशतीः कमनीयाः कला अवस्था वात्सल्य-सख्यादि-रसमयीर् धत्ते कलयति ता अपि अवस्थान्तरं मिश्र-प्रेम-रसमयं धारयन्ति ता अपि स्वरूपान्तराण् ईत्य् एवम् । एतेन नारायणो\ऽपि महा-परम्परया कृष्णान्तर्भूत इति ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : नमस् तस्मै भगवत इति । कृष्ण-नमस्काराद् एव कृष्ण-परा स्तुतिर् इयम् उपपद्यते ॥४६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्ण-बुद्ध्या माहात्म्य-विशेष-सम्पत्त्या श्री-नारायणं नितरां प्रीणयन्नम् अति-नम इति । प्रत्यक्षे\ऽपि परोक्षोक्तिर् अत्यन्त-गौरवात् । यद् वा, अवतारि-श्री-कृष्णं प्रति नत्यैव तस्य सा सम्पद्यते सन्तोषश्चेति । श्री-कृष्णम् एव भक्त्या प्रणमति-भगवते साक्षात् परमेश्वराय, तत्रापि कृष्णाय निजाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षकाय, अत एवामल-कीर्तये । भगवत्त्वम् एवाह—य इति । सर्व-भूतानाम् इत्य् अधिकारापेक्षा निरस्ता । अभवाय संसार-दुःख-निवृत्तये, कलाः रूपाणि, नारायणाद्य् अवतारानित्य् अर्थः । कथम्-भूताः उशतीर् जगन्-मङ्गला इति मुख-प्रापकत्वादिकं चोक्तम् । यद् वा, अमल-कीर्तित्वम् एवाह—य इति । कला रास-क्रीडा-वैदग्धीर् धत्ते पुष्णाति ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तन्-मनो-रथ-पूर्तिम् एव दर्शयितुम् आह श्री-नारद उवाचेति । अथ सर्व-श्रुति-तात्पर्यं श्री-कृष्ण एवावधार्य तस्यैवोत्कर्षं व्यञ्जयति नमस् तस्मा इति । अत्र मार्गेषु ज्ञान-योग-भक्तिषु मध्ये भक्तिर् एव श्रेष्ठा । उपासकेषु ज्ञानि-प्रभृतिषु भक्त एव श्रेष्ठः । उपास्येषु ब्रह्म-स्वरूपादिषु भगवान् एव श्रेष्ठ इति सकल-श्रुति-वाक्यैर् एव निर्धारितम् । भगवत्यपि सदसतः परं त्वम् अथ यद् एष्व् अशेषम् इति स्त्रिय उरगेन्द्र-भोग इति वाक्याभ्यां कृष्ण एव श्रेष्ठो निश्चित इत्य् अभिज्ञायैव साक्षाद् अपरोक्षस्य श्री-नारायणस्याग्रे\ऽपि नमस्तुभ्यं नारायणायेत्य् अप्रयुज्य नमस् तस्मै कृष्णायेत्युच् चैर् उच्चारयामास । अमला असुर् एभ्यो\ऽपि मोक्ष-प्रदत्वाद् अविद्या-मालिन्य-निवर्तिका कीर्तिर् एव यस्य तस्मै ।
ननु, किं पुरः सन्तं मां स्वगुरुं हित्वा तम् एव प्रणमसि तत्राह—य इति । अभवाय भव-निवृत्तये उशतीः कमनीयाः कला भवद्-विधानवतारान्-धत्ते इति तन्-नमस्कारेणैव त्वन्-नमस्कारो\ऽप्य् अभूद् इति भावः । वर्तमान-निर्देशेन तस्य नित्यत्वम् अपि स्पष्टीकृतम् । तथा च श्रुतिः—
तस्मात् कृष्ण एव परो देवस् तं धारयेत्तं रसयेत्तं भजेत्तं यजेत् ॐ तत् सत् ॥ इति गोपाल-तापनी ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ सर्व-श्रुति-तात्पर्यं स्वयं-भगवति श्री-कृष्ण एवावधार्य सन्तोषात् तद्-रूप-निजेष्ट-देवाभेदेन तद् अवतारं स्व-गुरुं श्री-नारायण्-र्षिं नमस्यति—नम इति ॥४६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : नमस् तस्मै भगवते कृष्णायामल-कीर्तय इत्य् आदि । कृष्णायेति कृष्ण-नमस्कारेणैव कृष्ण-परैव श्रुति-स्तुतिर् इयम् उपपद्यते ॥४६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वेदस्तुत्य् अर्थ-तात्पर्यम् निर्धार्य सप्रतिज्ञम् एव श्री-कृष्णस्यैव-सर्वोत्कर्षम् अभिव्यञ्जयति-नमस्तस्मै इति । अत्र मार्गेषु ज्ञान-योग-भक्तिषु मध्ये भक्तिर् एव श्रेष्ठा । उपासकेषु ज्ञानि-प्रभृतिषु भक्त एव श्रेष्ठः । उपास्येषु ब्रह्म-स्वरूपादिषु भगवान् एव श्रेष्ठ इति सकल-श्रुति-वाक्यैर् एव निर्धारितम् । भगवत्य् अपि सदसतः परं त्वम् अथ यदेष्व् अशेषम् इति स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड [भा।पु १०.८७.२३] इति वाक्याभ्यां कृष्ण एव श्रेष्ठो निश्चित इत्य् अभिज्ञायैव साक्षाद् अपरोक्षस्य श्री-नारायणस्याग्रे\ऽपि नमस्तुभ्यं नारायणायेत्य् अप्रयुज्य नमस्तस्मै कृष्णायेत्युच् चैर् उच्चारयामास । अमला असुरेभ्यो\ऽपि मोक्ष-प्रदत्वाद् अविद्या-मालिन्य-निवर्तिका कीर्तिर् एव यस्य तस्मै ।
ननु, किं पुरः सन्तं मां स्व-गुरुं हित्वा तम् एव प्रणमसि तत्राह—य इति । अभवाय भवनिवृत्तये उशतीः कमनीयाः कला भवद्-विधानवतारान्-धत्ते इति तन्-नमस्कारेणैव त्वन्-नमस्कारो\ऽप्यभूद् इति भावः । वर्तमान् अनिर्देशेन तस्य नित्यत्वम् अपि स्पष्टीकृतम् । तथा च श्रुतिः—
तस्मात् कृष्ण एव परो देवस्तं धारयेत्तं रसयेत्तं भजेत्तं यजेत् ॐ तत् सत् । इति गोपाल-तापनी ॥४६॥
॥ १०.८७.४७ ॥
इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः ।
ततोऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अनेन श्लोकेनर्षिं नारायणं तच्-छिष्यांश् च्आनम्य ॥
श्रीधरानुयायिनी : एवं श्री-कृष्णं सशिष्यं नारायणं च । नारदस् तद् आश्रमात्-साक्षाद्-योनि-व्यवधानम् अन्तरेण पितुर् व्यासस्या श्रमम् अगात् ॥
नीलकण्ठी : आद्यम् ऋषिं नारायणम् । साक्षात् पितुः योनि-व्यवधानं विना जनकस्य । अग्नि-मथनावसरे कथञ्चिद् अरणौ रेतः पतितं ममन्थ व्यासस् तद् एव तत उत्पन्नः शुक इति हि वदन्तीति श्री-धराचार्याः ॥४७॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : इत्य् एवं प्रकारेण आद्यम् ऋषिं नारायणम् आनम्य ॥४७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एवम् आनम्य पृष्ट्वा अनुज्ञाऊ प्रार्थ्य् एत्य् अर्थः । आमन्त्र्येति पाठे\ऽपि स एवार्थः । पाठन्तरं स्पष्टम् । तस्य शिष्यान् कलाप-ग्राम-वासि-प्रमुखान् । श्री-ब्रह्म-पुत्रेणापि तेन तेषाम् आमन्त्रणे हेतुः—महात्मनस् तद् एक-भक्ति-परान् इत्य् अर्थः । ततस् तत्-पश्चाद् एवेति परमो विनय उक्तः । यद् वा, तस्मात् श्री-नारायणाश्रमात् नारद इति शेषः । अन्यत्-तैर् व्याख्यातम् ।
यद् वा, साक्षात् प्रकटं सुप्रसिद्धम् आश्रमं श्री-बदर्याख्यम्, तत्-सम्बन्धेनैव श्री-बादरायणत्वख्यातेः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साक्षाद् अव्यवहितं तदानीं तेनास्थितम् आश्रमं ब्रह्मवैवर्ते तु श्री-शुक-जन्म-कथेयं श्री-द्वैपायन-पत्न्या उदरे जातः श्री-शुकदेवो बहूनि वर्षाणि योग-बलेन स्थितः । पित्रा मुहुः प्रार्थितो\ऽपि न निष्क्रान्तवानुक्तवांश् च, कथं निष्क्रमाणि । निष्क्रम-मात्रेण श्री-भगवन्-मायाव्याप्तो भविष्यामि । इति तच्-छ्रुत्वा तद् उपदेशेन द्वारकां गत्वा द्वैपायनेनानीतः स्वयं भगवान् श्री-कृष्णस् तम् उवाच । तव मातेयं दुःखितास्ति । कथं न निष्क्राम् असीति । तच्-छ्रुत्वा तेन प्रार्थितम्, यदि भवता माया दूरीक्रियते तदाहं निष्क्रमाणीति भगवता तथाङ्गीकृते\ऽसौ निष्क्रान्त एव प्रव्रजितवानिति ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इति-शब्दः प्रकारे समाप्तौ वा । इति प्रकारेणैव आद्यम् आनम्य आनतो भूत्वा । यद् वा, इति कृष्ण-प्रणाम-समाप्तौ वृत्तायाम् आद्यं तम् ऋषिम् आनम्य । ततो नारायणाश्रमात्॥४७ ॥
॥ १०.८७.४८ ॥
सभाजितो भगवता कृतासन-परिग्रहः ।
तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सभाजितो\ऽर्चितः । तस्मै मत्-पित्रे ॥
श्रीधरानुयायिनी : स च व्यासेनातिथ्यरीत्यादृतो व्यासाय नारायणाच्छ्रुतं सर्वं वर्णयामास । अनेन श्री-नारायणान्-नारदस् ततो । व्यासस् तस्माद् अहं मत्तश् च त्वं प्राप्तवान् असीति गुरूपदेश-परम्परा सूचिता ॥
नीलकण्ठी : सभाजितः पूजितः ॥४८॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : विशुद्ध-महा-प्रेमास्पदतया श्री-कृष्ण-मननं मनो बोधः चैतन्यं तज् जनो राधा-सखी-जनश् चरेत् तद्-विषये आलिङ्गन-दर्शन-स्पर्शनादि-चेष्टां कूर्याद् इति ॥४८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता श्री-द्वैपायनेन भगवच्-छब्देन तु तस्यापि तद्-विज्ञानादि-सामर्थ्यं सूचितम् । तस्मै भगवते इति तस्य श्री-नारद-शिष्यतापि सूचिता ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवता श्री-द्वैपायनेन भगवच्-छब्दनिर् देशेन सनकादिवत्-तस्यापि तद्-विज्ञानादि-सामर्थे\ऽपि तच्-छ्रवणं सूचितम् । तस्मिन् स्वभक्तिश् च ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भगवता व्यासेन । तस्मै व्यासाय ॥४८ ॥
॥ १०.८७.४९ ॥
इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया ।
यथा ब्रह्मण्य् अनिर्देश्ये निर्गुणेऽपि मनश् चरेत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : साक्षात् पितुर् इति योनि-व्यवधानं विना जनकस्य अग्नि-मन्थनावसरे कथञ्चिद् अरणौ रेतः पतितं ममन्थ व्यासस् तदैव तत उत्पन्नः शुक इति हि वदन्ति॥४७-४९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा मनः-श्रुतिः तथा हि प्राणन्न् एव प्राणो नाम भवति वदन्-वाक्-पश्यंश् चक्षुः [बृ।आ।उ १.४.७] इत्य् आदि-श्रुतेर् वाक्-प्रबन्ध-रूपायाः श्रुतेर् मनो-रूपत्वान् मन इत्य् उक्तम् । मनः पूर्व-रूपं वाग् उत्तर-रूपम् । इति श्रुतेर् वा । ब्रह्मणि यथा चेरत्-प्रविशति तथा वर्णितम् ॥
श्रीधरानुयायिनी : हे राजंस् त्वया कृतस्य प्रश्नस्य सर्व-मिदम् उत्तरं मया दत्तम् । तत्-किम् इत्य् अपेक्षायाम् आह—यथा स-गुणालम्बनेन प्रकारेण चरन्तीनां श्रुतीनां द्वारा निर्गुणे ब्रह्मणि मनो\ऽपि प्रचरेत् किमुत श्रुतयः ॥
नीलकण्ठी : तद् एवम् अनिर्देश्ये ब्रह्मणि कथं चरन्तीत्य् आक्षेपस्य बुद्धीन्द्रिय-मनः-प्राणान् इति श्लोकेन बुद्ध्यादीनां
वस्तु-तत्त्वावधारणाद्य् अर्थत्वोक्त्या तासां शब्दादि-प्रमाण-जन्यत्वेनास्ति ब्रह्मण्य् अपि शब्द-प्रवृत्तिर् इति सङ्केपेणोत्तरं दत्तम् । तद् एव पुनः श्री-भगवन्-नारद-संवाद-रूपाख्यायिकामुखेन विस्तरतः प्रतिपाद्याख्यायिकां च समाप्योपसंहरति—इत्य् एतद् इति । मन इति बुद्ध्यादि-चतुष्टयोपलक्षणम् ।
मनसा ह्य् एव पश्यति मनसा शृणोति ।
कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिर्
अधृतिर् ह्रीर् धीर् भीतिर् इत्य् एतत् सर्वं मन एव ॥ [बृ।आ।उ १.५.३]
इति दर्शनादि-करणानाम् इन्द्रियाणां
धी-शब्दिताया बुद्धेश् च मनो\ऽनतिरिक्तत्व-श्रवणात् । प्राणस्याप्य् अत्रैवान्तर्भावः । स एष इह प्रविष्ट आनखाग्रेभ्यः [बृ।आ।उ १.४.७] इति पूर्व-प्रकृतस्य बुद्ध्यादि-सङ्घात-प्रविष्टस्य—
स प्राणन्न् एव प्राणो नाम भवति वदन् वाक् पश्यंश् चक्षुः शृण्वञ् छ्रोत्रं मन्वानो मनः तान्य् अस्यैतानि कर्म-नामान्य् एव ॥ [बृ।आ।उ १.४.७] इति प्राणाद्य् आत्मत्व-श्रुतेः ।
तत्रापि बुद्धिर् एव प्राणाद्य् आत्मत्वं युक्तं न चित इति युक्तो\ऽत्र मनसैवेतर-सङ्ग्रहः । एवं च निर्मृष्ट-निखिलान् अर्थ-व्रात-निरतिशयानन्द-प्रत्यग् आत्म-ज्योतिः-स्वरूपे ब्रह्मणि प्रमातृत्वाद्य् अनर्थ-मूल-स्तम्भ-भूताज्ञानध्वान्तविध्वंसिनी तत्-त्वम् अस्यादि-वाक्य-करणिका मनो-वृत्तिः सम्भवतीति युज्यत एवानिर्देश्ये\ऽपि ब्रह्मणि वाचः सञ्चार इति सिद्धम् ॥४९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽस्मान् प्रति यः प्रश्नः कृतः, इत्य् अत्र एतद्-वर्णितम्, पाठान्तरे\ऽपि । तत्-तत्र किम् इत्य् अपेक्षायाम् आह—यथेति । मनश् चरेत्, श्रुति-द्वारा चित्तं प्रविशतीत्य् अर्थः । यद् वा, मानयति ज्ञापयतीति मनो वेदः, हे राजन्नितीदृशं प्रश्नं कर्तुं त्वम् एवार्हसि, एतद् उत्तर-पात्रं च त्वम् एवेति भावः । तस्य तादृश-प्रश्न-विषयत्वेनात्मनो बहुमानान्त इति बहुत्वम् इति ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति—इतीति । नो\ऽस्मान् प्रति यः प्रश्नः कृत इत्य् अत्रैतद्-वर्णितम् । तद् एतत् इति पाठे तु तत्-तत्र किम्, इत्य् अपेक्षायाम् आह यथेति । यथा भगवत्त्वाद्य् अवलम्बनेन भगवत्-प्रसादोत्थ-भक्ति-प्रकारेण वा चरन्तीनां श्रुतीनां द्वारा मनो\ऽपि **चरेत्-**प्रविशेत् किम् उत श्रुतय इत्य् अर्थः । एता हि तत् तु समन्वयात् । इति न्यायेन तद् एक पर्यवसानतया पूर्वं दर्शिताः । शब्द-ब्रह्म-परं ब्रह्म ममोभे शाश्वती तनू [भा।पु ६.६.५१] इति न्यायेन तद् एक-रूपत्वात्-तादृश-शक्तयश् च । यथोक्तं स्वयं भगवति श्री-कृष्णे श्रुतीर् विनापि शक्ति-प्राग् अल्भ्यं निभृत-मरुन्-मनो-ऽक्ष [भा।पु १०.८७.२३] इत्य् आदौ तद् अरयो\ऽपि ययुः स्मरणात् [भा।पु १०.८७.२३] इत्य् अत्र ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यथा भगवत्-प्रसादोत्थ-भक्ति-प्रभावेणेत्य् अर्थः ॥४९ ॥
॥ १०.८७.५० ॥
योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो
यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा
तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : समस्त-वेद-स्तुत्य् अर्थं सङ्गृह्यानुस्मारयति—योऽस्योत्प्रेक्षक इति । योऽस्य विश्वस्य उत्प्रेक्षकः, एवम् एतद् अनुशायिनां समस्त-पुरुषार्थ-सिद्धये सृष्टि-स्थिति-प्रलयादि-प्रापणीयम् इत्य् आलोचक इत्य् अर्थः । अनेन निमित्तत्वम् उक्तम् एवम् आऌओक्यास्यादि-मध्य-निधने आदिर् जन्म मध्यः पालनं निधनम् अन्तः एतेषु कर्मसु यो वर्तते । अनेनोपादानत्वम् उक्तम्
ननु प्रकृति-पुरुषयोर् उपादान-निमित्तत्वे प्रसिद्धे ? सत्यम्, तयोर् अपि तत एवोद्भूतत्वान् मूल-कारणं स एवेत्य् आह—योऽव्यक्त-जीवेश्वर इति । प्रवेश-नियमने दर्शयति—य इति । पूर्वोक्त-प्रकारेणेदं सृष्ट्वा यद् अर्थम् एतत् सृष्टं तेन ऋषिणा सृष्टे कार्येऽहम् इति दर्शनात् ऋषिर् जीवः, तेन सह अनुप्रविष्टः पुरः शरीराणि तस्य भोगायतनानि चक्रे । ताः पुरः शास्ति तस्य भोगं ददत् परिपालयति ।
उपासकस्य च कैवल्य-रूपो भवतीत्य् आह—यं संपद्येति । यं संपद्य प्राप्य अनुशयी अन्व् अनु दण्डवत्-प्रणामैश् चरण-मूले शेते इति तथा स जीवोऽजां कार्य-कारण-रूपाम् अविद्यां [जहाति] त्यजति ।
ननु ब्रह्म-संपन्नस्यापि जीवस्य तत्-सम्बन्धो दृश्यते ? अत आह—सुप्तः कुलायं यथेति । अयं भावः—यथा सुप्तं शरीरवन्तम् अन्ये पश्यन्ति, स तु नात्मानं तथा पश्यति, एवं जीवन्-मुक्तम् अप्य् अन्ये देहवन्तं पश्यन्ति, स तु न किञ्चित् पश्यतीति तं हरिम् अजस्रम् अनवरतं ध्यायेत् ।
किम् इत्य् अत आह—अभयं न भयं यस्माद् भय-निवर्तकम् इत्य् अर्थः । कुत एतत् ? कैवल्य-निरस्त-योनिं कैवल्येनाप्रच्युत-स्वरूपावस्थानेन निरस्ता तिरस्-कृता योनिर् मूल-कारणं माया येन तम् ।
सर्व-श्रुति-शिरो-रत्न-नीराजित-पदाम्बुजम् ।
भोग-योग-प्रदं वन्दे माधवं कर्मि-नम्रयोः ॥५०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं विश्वम् । इत्य् अर्थ इति-भगवद् इच्छा-पूर्वकत्वात्-सृष्ट्यादेः स ऐक्षत [छा।उ। ६.२.३] इत्य् आदि-श्रुतेर् इति । भावः अनेनालोचकत्व-कथनेन । अनेनादि-मध्यान्तेषु वर्तनेन तथा चाभिन्न-निमित्तोपादानत्वम् उक्तं भगवतः सृष्ट्य् आदेः । पुनर् आशङ्कते-नन्व् इति । सत्यम् इत्य् अर्द्धाङ्गीकारे । तयोः प्रकृति-पुरुषयोः । ततो भगवत एव । स भगवान् एव । अव्यक्तं प्रकृतिः जीवः पुरुषस् तयोर् ईश्वरः शक्त्य् अंश-रूपेणाश्रयः । यद् अर्थं यस्य भोगाद्य् अर्थम् । एतद्-विश्वम् । अहम् इति दर्शनात् सो\ऽहम् इति ज्ञानात् । यमीशम् । तत्-सम्बन्धो\ऽविद्यासम्बन्धः । अतो\ऽत्र । अत्राशयम् आह—अयम्-भाव इति । किं तद्-ध्यानेनेति चेद् आह—अभयम् इति । इत्य् अर्थ इति पुंसां नो मम सेवाया ऋते दुःखं निवर्तते इत्य् आद्य् उक्तेर् इति भावः । अत्र हेतुम् आशङ्कते—कुत एतद् इति । यो\ऽस्योत्प्रेक्षक इत्य् आद्य् अर्थे श्रुतिम् आह—
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् । [क।उ। २.२.१४]
तम् ईश्वराणां परमं महेश्वरं
तद्-देवानां परमं तु दैवतम् ॥ [श्वे।उ ६.७]
तम् आत्मस्थं ये तु पश्यन्ति
धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ [क।उ। २.२.१३]
इति । सर्वेश्वर-परेयम् । सुगमत्वान् न व्याख्याता । यः सृष्ट्वेत्य् अत्र सृष्टे कार्ये सो\ऽहम् इति दर्शनाद् ऋषिर् जीवः । तथा च श्रुतिः—
अत्मैवेदमग आसीत्-पुरुष-विधः । सो\ऽनु वीक्ष्य नान्यद् आत्मनो\ऽपश्यत्-सोहम् अस्मीत्य् अग्रे व्याहरत्-ततो\ऽहं नामाभवत्-तस्माद् अप्य् एतर्ह्य् आमन्त्रितो\ऽहमयम् इत्य् एवाग्र उक्त्वाथान्यानाम प्रब्रूत ॥ इति ।
अर्थः—अग्रे सृष्टेः कार्यं प्रथमं पुरुष-विधः पुरुषाकारो जीवात्मा एवासीत् । स अनु अनन्तरं सर्वतो विक्ष्यात्मनः स्वस्माद् अन्यन्नापश्यत्सो\ऽहम् अस्मीति व्याहरत् प्रथमम् उक्तवान् ततः कारणाद् अहं नामाभवत् तस्मात्-कारणाद् एतर्हीदानीम् अपि केनप्य् आमन्त्रितः सन्न् अग्रे प्रथमं अहम् अयम् इत्य् एवम् उक्त्वाथानन्तरम् अन्यन्-नाम ब्रूते कस् त्वम् इत्य् उक्तः अहम् अमुको\ऽस्मीति ।
सुप्तः कुलायम् इत्य् अत्र श्रुतिः तद् यथा—
प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् एवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्च न वेद नान्तरम् ॥ [बृ।आ।उ। ४.३.२१] इति ।
सम्भोग-काले मरण-काले वा प्रिययालिङ्गितः प्राज्ञेन सुषुप्ति-साक्षिणा विशुद्धात्मना सम्परिष्वक्त एकी-भूत इति श्रुति-पदार्थः । स्वामिनाम्-सर्वेति । सर्व-श्रुतीनां शिरोरत्नैर् उपनिषद्भिर् दीपस्थानीयैर् निराजितं निर्मंछ-नीकृतं पदाम्बुजं यस्य तम् ।
सुदीपैर् विविधैर् विष्णोश् चालनेन यतस् ततः ।
प्रोक्तं निर्मंछनं तद्-धि नीराजनम् इति स्मृतम् ॥ इति संहितोक्तेः ।
पुनश् च कर्मिणां भोग-प्रदं नम्राणां भक्तानां भक्ति-योग-प्रदम् । यद् वा, योगः सायुज्यं तत्-प्रदम् इत्य् अर्थः ॥
श्रीधरानुयायिनी : समस्त-वेद-श्रुत्य् अर्थं स्मारयन्-भोग-मोक्ष-प्रदत्वेन हरिर् एव भजनीय इत्य् आह—यो\ऽस्येति । जीवानां सर्व-पुरुषार्थ-सिद्धय एवम् इदं सृष्ट्य् आदिकं करिष्यामीत्य् आलोच्य तथैव तत्र प्रवृत्तः सन् यो हरिः प्रकृति-पुरुषयोः प्रवर्तको\ऽपि वियदादि विराडन्तं विश्वं तद् अन्तर्गतानि जीव-भोगायतनानि देवम् अनुष्यतिर् यग् आदि-शरीराणि च सृष्ट्वा तेषु शरीराभिमानिना सह साक्षि-रूपेण प्रविश्य तानीन्द्रियादि-रूप-शरीराणि तत्-तद् इन्द्रिय-गोलकाधिष्ठातृ देवता-रूपेण शास्ति स्व-स्व-विषय-ग्रहणे प्रवर्तयति जीवं च नाना-भोग-सुख-दानेन पालयति । तथा येन हरिणा पालितो\ऽविद्याश्लिष्टो जीवो यं सम्प्राप्यानुक्षणं यच् चरण-मूले दण्डवत्-पतितश् चेत्-तदानाद्य् अविद्यां तथा परैर् दृश्यमाने\ऽप्य् आविद्यके शरीरेसुप्त इवाभिमानं च यद् अनुकम्पया त्यजति तं भक्त-भय-हरं नित्यानन्द-स्वरूप-महिम्ना दूरतो\ऽपास्तमायं च हरिं ध्यानोत्तरभाविनोपाधित्वाविशेषेण स्व-स्वेतर् ओपाधि-विरोधिना चरमसाक्षात्-कारेण सत्-कार्यम् अज्ञानं हरतीत्य् एकः परमात्मैव हरिस्तं प्रतिक्षणं ध्यायेत् । अनात्म-प्रत्यय-तिरस्कार-पूर्वकात्मैकाकारप्रत्यय-प्रवाहात्मकं तद्-ध्यानं कुर्याद् इति वेद-स्तुति-सारम् ॥
पुत्रस्यान् अन्वितालापैः पितराव् इव तुष्यतः ।
मम श्री-राधिका-कृष्णौ वेद-गोलार्थ-भाषया ।
नीलकण्ठी : तम् इमं सर्वोपनिषदर्थं सङ्गृह्य स्मारयति—यो\ऽस्योत्प्रेक्षक इति । यो हरिः समूल-संसार-दुःख-संहर्ता अस्य चेतनाचेतनस्य जगतः आदि-मध्य-निधने सर्गस्थित्य् अन्तविषये उत्प्रेक्षकः कल्पकः रज्जुर् इव भुजङ्गस्य तेन जगद्-विवर्ताधिष्ठानत्व-रूपम् उपादानवम् उक्तम् । अत्र हेतुः—यो\ऽव्यक्तजीवेश्वरः अव्यक्तं माया जीवश् चिद् आभासस् तयोर् ईश्वरः प्रवर्तकः प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [श्वे।उ ६.१६] इति श्रुतेः । अज्ञान-विषयीकृता शुक्तिर् यथा रजताभासस्य रजत-ज्ञानाभासस्य च प्रवर्तिका एवं ब्रह्माप्य् अनादौ जीवेश्वर-विभागे विवाश्रिताज्ञान-विषयीकृतं सत्-सद् आभासस्य कार्य-कारणस्य चिद् आभासस्य प्रवर्तकमितो युक्तम् अस्योपादानत्वम् इत्य् अर्थः अज्ञानाश्रय-विषय-भेदाच् चेतन-भेदः प्राप्तः स्रष्टृ-प्रवेष्ट्रोर् ऐक्याद् औपाधिक इत्य् आशयवान् आह—यः सृष्ट्वेदम् अनुप्रविश्येति । इदं वियद् आदि-विराडन्तं । सृष्ट्वानुप्रविश्य च ऋषिणा । इत्थम्-भावे तृतीया । ब्रह्म-रूपेण पुरः जरायुजाण्डज-स्वेदजोद्भिज्जानि चतुर्विधानि शरीराणि चक्रे निर्ममे। तत्र दृष्टान्तः-सुप्तः कुलायं यथेति । यथा-सुषुप्तः स्थूल-सूक्ष्म-देहौ त्यजति एवं समाहितः कारण-देहम् अपीत्य् अर्थः ।
द्वैतस्याग्रहणे तुल्यम् उभयोः प्राज्ञ-तुल्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा तु तुर्ये न विद्यते ॥
इति श्रुति-सिद्धो\ऽयं दृष्टान्तः । अत एव तं हरिं कैवल्येन निरुपाधिकत्वेन निरस्तं योनिर् मूलाज्ञानं येन स तथा । एतेन ब्रह्मैव संसरति ब्रह्मैव मुच्यत इत्य् अपि दर्शितम् । अत एवाभयं संसार-भय-शून्यं द्वितीयाभावात् द्वितीयाद् वै भयं भवति [बृ।आ।उ १.४.२] इति श्रुतेः । अजस्रं सन्ततं ध्यायेत् अनात्म-प्रत्यय-तिरस्कारेणात्मैकाकारं प्रत्यय-प्रवाहं कुर्यात् आत्मनो वृत्ति-व्याप्यत्वाद्-ध्यायेद् इत्य् उक्तं न तु पश्येद् इति प्रत्यय-ब्रह्म-प्रकाशस्य स्वरूपत्वाद् इति भावः ॥
व्याचक्रतुः श्री-धर-रामचन्द्रौ वेद-स्तुतिं गाम् इव सूर्य-चन्द्रौ ।
व्याचक्र चान्यः कवितारकामः सुलोचनानां पदवी-प्रसिद्धयै ॥
पारावार-श्रित-कचकविर् ज्येष्ठ-गङ्गा-प्रतीची सेव्या
चातुर्धर-कुल-भृतां कूर्पर् अग्रामवासात् ।
काश्यां तेषां हरि-हर-परः को\ऽपि गोविन्द-सूनुः
फुल्लाम्बाजः श्रुतिन् उतिमसौ व्याकरोन्-नील-कण्ठः ॥
प्रबोधानन्द-सरस्वती (श्रुति-स्तुति-व्याख्याः) : श्रुतिभिः स्तुतं गोपीभिश् च नित्याभिः केवल-रसमयत्वेन वर्णितं श्री-कृष्णं सर्वस्य परमोत्कृष्ट-तत्-प्रेम-सुखार्थिनो ध्येयत्वेन्पन्यस्यति श्री-शुकः—य इति । तं हरिं ध्यायेत् मनोहरं समस्त-शास्त्र-मर्यादाहारिणं वा यो\ऽस्य विश्वस्य आदौ सृष्टेः पूर्वं मध्ये सृष्ट्य् अनन्तरं निधने प्रलये सति उद एव स्व-प्रेम-भाजः प्रेक्षकः—कस्य प्रेमाविर्भूतम् कस्य वा नाविर्भूतम् कस्य वा कियद् आविर्भूतम्—इत्य् एवं य एव व्यक्तानां स्वीय् जीवानाम् ईश्वरः न तु नारायणस्य तत्रेशितृत्वम् य एव इदं स्वभाव-विशिष्टं शरीरजातं सृष्ट्वा ऋषिणा स्वरस-तत्वज्ञेन रूपेण तत् प्रविश्य ताः पुरो\ऽव्यक्तभावानि शरीराणि शास्ति शिक्षयति निज-भावम् इत्य् अर्थः । यं च राधा-रसाविष्ट-स्वरूप हरिं सम्पद्य सम्यक् प्राप्य जहात्य् अजां निरविद्यो भवति निर्मायो वा । अनुशयी तद् रसैक-वासनावान् सन् । यथा सुषुप्तः कुलायं शरीरं त्यजति तद् अभिमानर् अहितो भवति तथा मायिक-पाञ्च-भौतिक देहे अभिमानं त्यक्त्वा तद्-धर्मान् अभिभूतः श्री-राधानुचरीभूत-शरीराहंमानेनैव महा-प्रेम-बन्धनश् चरतीत्य् अर्थः । हरिं कथम्-भूतम् कैवल्येन समस्तान्य-रस-त्यागेन केवल-राधा-सङ्गै-कर-साविष्टत्वेनेत्य् अर्थः । निरस्ता योनिर् अभिव्यक्ति-स्थानान्तरं येन राधा-रसावेशाद्-विषयान्तरा-दर्शनेन प्रियान्तरङ्गकारणाभावाद् इति ॥५०॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः सर्वथा श्री-भगवन्तं प्रेम्णा भजेद् इति सर्व-श्रुति-स्तुति-फलितम् इत्य् अशेष-समाम्नायेत्य् आद्य् उक्तं निरूपयन् कृपा-भरेण भक्त्य् उद्रेकेण वा लोकान् उपदिशति—य इति । अस्योत्प्रेक्षक इत्य् आदिना जगत्-कारणत्वं योव्यक्त-जीवेश्वर इति परमेश्वरत्वम्, यः सृष्ट्वेत्यादिना सहज-कारुण्यं यम् इत्य् आदिना भक्त-वात्सल्यं कैवल्याय मोक्ष-सुखाय निरस्ता योनि-जीवानाम् अविद्या येन तम् । यद् वा, केवला एकान्तिनस् तेषां चोक्तम् । हरिम् इति परम-सुन्दर्याआदिना मनो-हरत्वम् अपि सूचितम् । एषां यथोत्तरं ध्यान-हेतुत्वे श्रैष्ठ्यम् । अतो\ऽजस्रं ध्यायेच् चिन्तयेत् । यद् वा, प्रेम्णा भजेद् इत्य् अर्थः । प्रेम-भजनस्यैव सदा स्वतो ध्यान-कारित्वात् । किं वा, सदा ध्यानेनैव प्रेम-सम्पत्त्या तस्यैव परमापेक्षत्वाद् इति ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यो\ऽस्योत्प्रेक्षकः आदि-मध्य-निधन इति त्रिष्व् अपि कालेषु परम-साक्षित्व-युक्तम् । यो\ऽव्यक्त-जीवेश्वर इति कारणान्तर्यामित्वं तन्-निज-शक्ति-द्वय-द्वारैव चेतनासर्गोपादानत्वं च यः सृष्ट्वेदम् इति सृष्ट्य् उपलक्षितत्वेन समष्टि-स्थिति-प्रलय-कर्तृत्वम् । अनुप्रविश्येति प्रवेश-लीला-समष्त्य् अन्तर्यामित्वं च ज्ञेयम् ।
ऋषिणा द्वार-भूतेन पुरो व्यष्टि-शरीराणि च चक्रे इति विसर्ग-कर्तृत्वम् । ताः शास्ति चेति व्यष्त्य् अन्तर्यामित्वम् । तद् एवं माया-वैभव-प्रवर्तकत्वेन तस्य स्वरूप-शक्तिं दर्शयित्वा तद् उच्छेदकत्वेनापि दर्शयति—यम् सम्पद्येति । अजां माया-वृत्तिम् अविद्याम् अनुशयी सोपाधिर् जीव इति मोचन-लीला दर्शिता । तद् एवं यथा-क्रम-तटस्थ-लक्षणेन स्वरूप-शक्ति-वैभवतया तं व्यज्य साक्षाद् अपि व्यञ्जयति तम् इति । तत्र हरिम् प्रसिद्ध-नाम्ना प्रसिद्ध-स्वरूपत्वम् अभिहितं । यं सम्पद्येत्य् आदौ स्थिते स्वतस् तु सुतराम् एव कैवल्येन शुद्ध-शक्ति-वैभवैकाश्रय-शुद्ध-स्वरूपत्वेन निरस्ता नित्यम् एव दूरे क्षिप्ता योनिर् जगत्-कारणं माया यस्मात् तम् इति । य एवम् एवं-भूतः स एव परम-शुद्ध-स्वरूपत्वात् तादृश-परम-शक्तित्वाज् जीव-हितार्थ-तत्-तत्-कर्तृत्वावगत-परम-कारुण्यत्वात् ध्यानादि-भक्ति-योग्य इति वाक्यथार्थः ।
अत्र माया-वैभवम् अनूद्य निरसनात् शुद्ध-शक्ति-विलास-वैभव-पुरःसर-श्री-भगवतः स्थापनात् तस्य च ध्यानोपलक्षित-भक्ति-साध्यत्व-व्यञ्जनाद् ध्यानादेश् च वेदोपदेश-सापेक्षत्वात् । प्राचीनस् तवेनैकार्थ्यं दर्शितं तत्-तद्-विशेषेण च द्रष्टव्यम् । एतत् तात्पर्यकम् एव जन्माद्य् अस्य यत [भा।पु १.१.१] इत्य् आदिकम्, अत्र सर्गो विसर्गश् चेत्य् आदिकं चेति ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समस्त-वेद-स्तुत्य् अर्थं सङ्गृह्यानुस्मारयति—य एवास्य विश्वस्योत्प्रेक्षकः, मयानुशयिनां जीवानां कर्मिणां कर्म् प्रोद्बोध्य कर्म-फलस्य साधनार्थं भोगार्थं च तथा ज्ञानिनां ज्ञान-फलस्य सायुज्यस्य साधनार्थं तथा भक्तानां भक्ति-फलस्य प्रेमवत्-पारिषदत्वस्य साधनार्थं बुद्धीन्द्रियादिकं सृष्ट्वा एवम् एवं तत्र तत्र प्रेरयिष्यामीत्य् आलोचक इत्य् अर्थः । त्रैकालिकीं सत्ताम् आह—अस्य विश्वस्यादि-मध्य-निधनेषु स एव वर्तते इति । विश्व-सृष्टेः पूर्वं विश्व-मध्ये विश्वनाशे\ऽपि । यद् उक्तं भगवतैव—
अहम् एवासम् एवाग्रे नान्यद् यत् सद् असत् परम् ।
पश्चाद् अहं यद् एतच् च योऽवशिष्येत सोऽस्म्य् अहम् ॥ [भा।पु। २.९.३२] इति ।
सर्व-कारणत्वं सर्व-नियन्तृत्वं चाह—यो\ऽव्यक्तेति । सर्वं जगद् इदं यन्-मयं तयोर् माया-जीवयोर् अपि य एवेश्वरः कारणं नियन्ता च तयोस् तच्-छक्तित्वाच् छक्तीनां च शक्तिमतो\ऽनन्यत्वाद् अव्यक्त-जीवाव् अपि स एवेत्य् अतस् तस्यैवोआदानत्वं निमित्तत्वं नियन्तृत्वं च सिद्धम् । प्रवेश-विसर्गाव् अपि करोतीत्य् आह—य एवेदं सृष्ट्वानुप्रविश्य ऋषिणा ब्रह्मणा पुरः देव-मनुष्य-तिर्यग् आदि-शरीराणि चक्रे । तथा ऋषिणेति । ऋषेर् इव निर्लेपत्वाद् ऋषिर् अन्तर्यामी तेन स्व-स्वरूप-भूतांशेन ताः पुरः शास्ति यद् भक्त्यैव जीवः संसारं तरतीत्य् आह—यं सम्पद्याशयी अविद्या-श्लिष्तो जीवः अन्व् अनु दण्डवत् प्रणामैश् चरण-मूले शेत इति तैर् व्याख्यातम् । अजां कार्य-कारण-रूपां मायां त्यजति ।
ननु भगवत्-प्रपन्नस्यापि मायिकं शरीरं दृश्यत एव ? तत्राह—सुप्ते जनः कुलायं स्व-शरीरं जहात, यथा वर्तमानम् अपि तन् नानुसन्धत्ते, तद्वद् इति भगवत्-प्रपन्नानां शरीराभिमान-त्याग एवाविद्या-त्याग उच्यते इत्य् अर्थः । क्वचित् तत्-त्यागस् तु सम्यक्-प्रपत्त्य् अभाव-मूलक एव ज्ञेयः । किं च, साधन-निरपेक्षम् अपि तस्य क्वचित् संसार-निस्तारकत्वम् आह—कैवल्येति । कृतायांवैशिष्ट्य्लक्षणत्व् भावः कैवल्यम् एकाकित्वं, तेन जीवानुष्ठित-मोक्ष-साधनं विना भूतेनापि निरस्ता दूरीकृता योनिर् जीवाविद्या येन तम् । यम् इह निरीक्ष्य हता गताः स्वरूपम् [भा।पु। १.९.४०] इति भीष्मोक्तेर् अघ-बक-केश्य् आदीनाम् अन्येषां बहूनां मोक्ष-साधनं विनापि मोक्ष-दर्शनाद् इति भावः । विशेषणेनानेन स्वयं भगवन् श्री-कृष्ण एव द्योतितः । हरिं स्व-माधुर्येण प्रेमवतां मनोहारकस् तम् । अभयं यथा स्यात् तथा स्वीय-कर्म-काल-कूट-विविध-वादिभ्यो भयं परित्यजैव निरन्तरं ध्यायेद् इति विधिर् उक्तः ॥
हे भक्ताद् वार्यययञ् चञ्चद्-वालधी रौति वो मनाक् ।
प्रसादं लभतां यस्माद् विशिष्टः श्वेव नाथति ॥
इति चञ्चती चञ्चला बाला जडा धीर् यस्य सः । पक्षे चञ्चल-बालधीः पुच्छो यस्य सः । बाल-हस्तस् तु वालधीर् इत्य् अमरः । इति विश्वनाथ-पद-व्युत्पत्तिः ॥५०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्ताशीतितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥
-
गुण-लम्बेति गुणानां आलम्ब आश्रयणं यस्याफ़्ं सा, निर्गुणम् अवधिः पर्यवसानं बोध्यं यत्र यथा स्यात् तथेति । [रा।ते।] ↩︎
-
स्वीयानां छात्राणां निर्बन्धेन वशीकृतः । [रा।ते।] ↩︎
-
सन्निषेवितं व्याख्यातम्। [रा।ते।] ↩︎
-
तैर् उपस्पृष्टं किञ्चिद् व्याख्यातं विशेषतस् त्व् अवशिष्टं विस्तार्यत इत्य् अर्थः । [रा।ते।] ↩︎
-
स्वत इति । पौरुष-वाक्येष्व् अप्रामाण्य-कारणं भ्रम-प्रमादादि-पुरुष-दोषाः, अपौरुषेये वेदे तद्-असम्भवात् स्वतः-प्रामाण्यम् । [रा।ते।] ↩︎
-
शब्दस्य प्रवृत्तिर् बोधनानुकूल-व्यापारः। [रा।ते।] ↩︎
-
सञ्ज्ञा-सञ्ज्ञिनोः शब्दार्थयोः सङ्कः अस्माच्-छब्दाद् अयम् अर्थो बोद्धव्य इतीश्वरेच्छा-रूपस् तेन। [रा।ते।] ↩︎
-
डित्थो मृत्-पिण्डः। [रा।ते।] ↩︎
-
त्रिविध-सङ्केतेनोक्तो यः सिंहादि-पशु-विशेष-रूपोऽर्थस् तत्र लक्षिता ये शौर्य-क्रौर्यादि-गुणास् तद्-युक्ते देवदत्तादौ तत्-सदृशे सिंहाद्-सदृशे प्रवृत्तिर् गौणीत्य् अर्थः । [रा।ते।] ↩︎
-
अभिधेयं गङ्गादि-पद-वाच्यं प्रवाहादि तेन अविनाभूते नित्य-सम्बद्धे तीरादौ गङ्गादि-पदस्य या प्रवृत्तिः सा लक्षणेष्यते इष्टेत्य् अर्थः । वाच्ये सिम्ःआदि-रूपे अभिधेये लक्ष्यमाणा ये गुणाः शौर्यादयस् तैर् योगात् सम्बन्धात् या सिंहादि-पद-वृत्तिस् तत्र वृत्तेर् गौणता, सा गौणीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
मुख्यया द्वितीयं भेदं योगम् आह—योगेति । [रा।ते।] ↩︎
-
त्रिविधेति रूढि-लक्षणा-गौणीति त्रितयान्यतम-वृत्ति-प्रतिपादितयोः पदार्थयोर् योगेन योगः । अथवा प्रकृति-प्रत्ययार्थयोर् योगेन योगः । इत्थं चातुर्विध्यम् । तत्र पङ्कजम् इत्य् अत्र रूढि-वृत्त्या पङ्केति-जेति-पदाभ्यां प्रतिपादितयोः कर्दम-जनित-पदार्थयोः कर्दमोपादानक-जनि-कर्तृत्व-रूपेण योगात् पङ्कज-पदं तामरसे यौगिकम् । [रा।ते।] ↩︎
-
रूढि-वृत्त्या प्रतिपादितयोर् अर्थयोर् योगस्योदाहरणं पङ्कजम् इति । औपगवः पाचक इति द्वयं प्रकृति-प्रत्ययार्थयोर् योगस्य । आदि-पदेन लक्षणा-बोधितार्थ-योगस्य खड्ग-शूलो हन्तीति । गौणी-प्रतिपादितार्थयोर् योगस्य तु सिंहोऽग्निर् माणवक इत्य् उदाहरण-द्वयम् । आद्ये खड्ग-शूल-पदयोस् तद्-भारके लक्षणा । द्वितीये सिंहाग्नि-पदयोस् तत्-सदृशे गौणी ॥ [रा।ते।] ↩︎
-
द्वितीय-श्लोकस्य श्रीधर-टिकायाम्। एवम् एवोत्तरत्र। [जगत्] ↩︎
-
अस्यार्थः—शब्दस्य हि वृत्तिर् मुख्य-लक्षण-गुण-भेदेन त्रिधा । मुख्यापि रूढि-योग-भेदेन द्विधा । तत्र प्रथमं तावद् ब्रह्मणि रूढि-वृत्तिर् न सम्भवतीति—षाक्षात् कथं चरन्तीति । तत्र हेतुर्—अनिर्देश्य इति । सा हि स्वरूपेण जात्या गुणेन वा सञ्ज्ञा-सञ्ज्ञि-सङ्केतेन प्रवर्तते । अनिर्देश्यत्वे हेतुं वदन् गुण-वृत्तिं निराकरोति—निर्गुणे गुण-वृत्तय इति । गुणैर् वर्तमाना अपि निर्गुणे कथं चरन्तीत्य् अर्थः । निर्गुणत्वे च हेतुं वदन् लक्षणा-योगौ निराकरोति—सद् असतः पर इति । सद् असतः परे कार्य-कारणाभ्यां परस्मिन्न् असङ्गे । लक्षणारूढिश् च सङ्केतेनाभिहितः सम्बन्धि-नियोगस् तु तत्-त्रिविध-वृत्ति-प्रतिपादित-पदार्थयोः प्रकृति-प्रत्ययार्थयोर् योगेन भवतीति तस्य केनचिद् अपि सम्बन्धाभावात् ते न सम्भवत इत्य् अर्थः । एवं॥। [च-करलिप्यां तथा झ-ग्रन्थेऽपि पाठान्तरम्।] ↩︎
-
अ-चिह्नयोर् मध्य-वर्तिनी वाक्ये च-झ-ग्रन्थयोः प्राप्येते। ↩︎
-
बुद्ध्य्-आदीन् इति । मात्रार्थं मीयन्ते गुण-कार्याणि गुणातीतं च याभिर् इति मात्राः श्रुतयस् तद्-अर्थं तद्-धारणार्थं बुद्धिं तद्-धारण-योग्याम् असृजत् । ततश् च भवार्थं पूर्व-काण्डस्य श्रुत्य्-उक्त-त्रिवर्ग-रूपाभ्युदय-प्राप्त्य्-अर्थं तत्-साधनस्य यज्ञादि-कर्मोत्पादन-योग्यतावन्तीन्द्रियाणि श्रोत्र-वाग्-आदीन्य् असृजत् । ततश् च आत्मने लोकान्तर-गामिने आत्मनस् तल्-लोक-गमन-पूर्वकं तत्-तत्-फल-भोगाय मनः सर्व-विकारात्मकं तत्-सम्पादकम् असृजत् । अकल्पनाय कल्पनातीतं यन् निराकारं साकारं च ब्रह्म तज् ज्ञापयितुं । क्रियार्थोपपदस्य इति चतुर्थी इति तोषणी ॥ [रा।ते।] ↩︎
-
लक्षण-श्रुतीनां तात्पर्यम् आह—सगुणम् एवेति ॥ [रा।ते।] ↩︎
-
समस्ता ये कल्याण-गुणाः सर्जनादि-सङ्कल्प-जगत्-स्रष्टृत्व्-दयालुत्वादयस् तन्-निलयम् ॥ [रा।ते।] ↩︎
-
सामान्यतः सर्वं जानातीति सर्वज्ञः । तत्-तद्-विशेष-धर्म-पुरस्कारेण सर्वं वेत्तीति सर्व-वित् ॥ [रा।ते।] ↩︎
-
स ईक्षत इत्य् ऐतरेय-पाठः । तद् ऐक्षत इति छान्दोग्ये पाठः ॥ [रा।ते।] ↩︎
-
ऐक्य-पर-श्रुतीनां लक्षणया निर्गुण-पर्यवसानम् आह—तथा-भूतेति ॥ [रा।ते।] ↩︎
-
अपर्याय-पदानाम् एक-विभक्त्य्-अन्तत्वे सत्येकार्थ-निष्ठत्वं सामानाधिकरण्यम् ॥ [रा।ते।] ↩︎
-
भाग-त्याग-लक्षणेतर-प्रकारेण ॥ [रा।ते।] ↩︎
-
तप्ते पयसि दध्य् आनयति सा वैश्वदेव्य्-आमिक्षा भवति ॥ [आप्ते] ↩︎
-
विश्व-देवा देवता यस्याः सा वैश्वदेवीति देवतार्थे विहित एष तद्धितोऽण्-प्रत्ययः । सामान्यतो ऋग्-आदि-वाचकत्व-सम्भवेऽप्य् आमिक्षा-पद-संनिध्यात् आमिक्षाम् एव वदति, अतस् तस्यैव तद्धित-कर्तृकम् एव विषयार्पणम् आमिक्षा-रूप-विषय-बोधनम् इत्य् अर्थः । चातुर्मास्यान्तर्गत-वैश्वदेवताको यागो विधेयः, यद् द्रव-द्रव्यं तद्-वाजितं तेन च वाजि-देवताको यागो विधेय इति ॥ [रा।ते।] ↩︎
-
परोक्षापरोक्षादि-रूपार्थ-भेदाद् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
नीलम् उत्पलं इत्य् अत्र येन नीलादिना स्व-बुद्ध्या स्वाकार-ज्ञानेन विशेष्यम् उत्पलादि रज्यते भास्यते इतरस्माद् व्यावर्त्यते तद् विशेषणम् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
-योग्यतया इति ञ-टयोः पाठान्तरम्। ↩︎
-
इति स्थितम् इति ञ-टयोः पाठान्तरम्। ↩︎
-
गुणादौ इति यादवपुर-संस्करणे। ↩︎
-
न ते महि त्वाम् अनु ये शेष-रुद्राद्यास् ते न व्याप्नुवन्ति, महि महिमानम् इति उद्धृतांशस्य पाठान्तरम् (ग-करलिप्यं)। ↩︎
-
क़ुओतेद् अबोवे। ↩︎
-
थिस् फ्रसे इस् फ़ोउन्द् इन् मन्य् प्लचेस् इन् थे बृहद्-आरण्यक उपनिषद्। ↩︎
-
देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे इति आकरे। तारकः फ़ोर् तावकम्, देव-स्तावकम् (ञ, ट) ↩︎
-
अत्र पूर्ण-श्लोकः पुरी-दास-महाशयैर् उद्धृतः। ↩︎
-
विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] ↩︎
-
विश्वस्मात् (ञ-ट-यादवपुर)। ↩︎
-
तथा-भूता दुःखानि त्यजन्तीति किम् उ वक्तव्यम् इत्य् अन्वयः ॥ [रा।ते।] ↩︎
-
एवं-विदि ब्रह्म-ज्ञानवति ॥ [रा।ते।] ↩︎
-
तत् तदा ब्रह्म-लोक-मार्गे विरजानदीतरण-काले साक्षात्कार-काले वा पुण्य-पापे विधुनुते त्यजतीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
यथोक्तात्म-विदं प्रति न तपति न सन्तापयति । हवावेत्य् अवधारणे । सन्तापम् एवाह—किम् इति ॥ [रा।ते।] ↩︎
-
सर्वेषु संस्करणेषु लोक-शब्दो न दृश्यते। ↩︎
-
अयं श्लोकोऽज्ञातः—एकांशः बृहद्-आरण्यकस्य ४.४.२३-गद्यांशानुरूपः, द्वितीयांशः तैत्तिरीयस्य २.९-गद्यांशानुरूपः। ↩︎
-
माया-निर्देश्यत्वे (च, झ) ↩︎
-
शब्द-वृत्ति-विषयत्वेन समान-पथत्वात् (ग), शब्द-वृत्ति-विषयित्वेनाविशेषात् (झ)। ↩︎
-
असुर्या इति ह्रस्व-मध्यं पदम् । असुराणाम् इमिए असुर्यास् ते प्रसिद्धा लोका अन्धेन गाढेन तमसा आत्माज्ञानेन प्रसिद्धान्धकारेण वा वृता व्याप्ताः । प्रेत्य मृत्वा तान् लोकांस् तेऽभिगच्छन्ति । ये केचन आत्म-हनः अविद्या-दोषेणात्मापलाप-कर्तारः । ब्रह्म-ज्ञान-शून्या दुर्योनीः प्राप्नुवन्तीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
इह चेद् अवेदीद् अथ सत्यम् अस्ति न चेद् इहावेदीन् महती विनष्टिः ↩︎
-
इहैव सन्तोऽथ विद्मस् तद् वयं न चेद् अवेदिर् महती विनष्टिः ↩︎
-
उभय-विधेति कथामृताब्धीत्य् उक्त-श्रवण-कीर्तन-रूपं भजनम् एकं, भजन्ति ये पदम् अजस्रेत्य् आद्य्-उक्त-सत्-सुख-स्वरूप-भजनम् अपरम् ॥ [रा।ते।] ↩︎
-
अन्नमयादिषु अन्न-मय-प्राणमय-मनोमय-विज्ञानमयानन्दमयेषु पुच्छत्वेन सर्वाधारत्वेनोक्त इति ॥ [रा।ते।] ↩︎
-
तर्हि सत्यत्वम् इति । पुरुष-विधस्य साकारत्वेन सावयवत्वान् नाशावश्यंभावात् कोशेष्व् अन्वये कोश-सम्बन्ध-ध्रौव्यात् सत्यत्वासङ्गत्वाव्याहतिर् इति भावः ॥ [रा।ते।] ↩︎
-
ननु कोशेष्व् अन्वयेऽसङ्गत्व-क्षतिर् अनन्वये व्यापकत्व-क्षतिर् इति गूढाशयः शङ्कते—नन्व् इति ॥ [रा।ते।] ↩︎
-
परं व्यतिरिक्तम् इति असङ्गम् इत्य् अर्थः । अन्नमयादेः कल्पितत्वेन मिथ्यात्वात् । उभयोः सम्बन्धिनोः सत्यत्व एक-सम्बन्धस्य सत्यत्व-नियमात् कल्पित-सम्बन्धेन न वास्तविकासङ्गत्व-क्षतिर् इति भावः ॥ [रा।ते।] ↩︎
-
शाखेति । सूक्ष्म-चन्द्र-कला-प्रदर्शनायात्यन्तं चन्द्र-सम्बन्ध-शून्यापि वृक्ष-शाखा मुग्धं प्रति चन्द्रत्वेन प्रथमं प्रदर्श्यते । ततः शाखाग्रे चन्द्र इत्य् आदि प्रदृश्यते तद्वत् शुद्ध-स्वरूप-बोधार्थं कोश-पञ्चकेऽन्वयोऽसङ्गस्याप्य् आत्मन उच्यत इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
हेतुतया इति यादवपुर-संस्करणम्। ↩︎
-
तथा-शब्दस्य एक-वारत्वम् इति कानाइलाल-अधिकारि-संस्करणे। ↩︎
-
लीयमान- इति हरिदास-शास्त्रिणः संस्करणे। ↩︎
-
प्रकाशस्यात्म-भूतत्वं इति कानाइलाल-अधिकारि-संस्करणे। ↩︎
-
जीवानां इति यादवपुर-पाठो नेष्टः। ↩︎
-
मद्-आदेश- (यादवपुर) ↩︎
-
श्लोकस्य द्वितीय-चरणं यादवपूर-संस्करणे नास्ति। ↩︎
-
सम्यक्त्वं इति कानाइलाल-संस्करणे। ↩︎
-
कारकस्य [च, झ, यादवपूर] ↩︎
-
ख्यानम् (यादवपूर) ↩︎
-
अनुसन्धाप्य (ग, झ) ↩︎
-
प्रपञ्चावच्छिन्नतर-प्रदेशे (ग, च, झ, कानाइलाल) ↩︎
-
स्वरूप-भूत-प्रकाशात् इति कानाइलाल-पाठः। ↩︎
-
स्वरूपादि (यादवपूरः) ↩︎
-
उदर-स्थं हृदय-स्थं च भगवन्तम् उपासते इत्य् उक्तं भगवतो हृदयाद्य्-उपाधि-प्रवेशेनोपाधि-तारतम्य-कृताल्पत्व-महत्त्व-भाव-प्राप्त्या जीव-साम्यम् आशङ्क्य जीवोऽविद्यान्तःकरण-प्रतिबिम्बितः परिच्छिन्नः प्रतिशरीरं भिन्न उदरादिषु वर्तते । ईश्वरस् तूपाधि-परिच्छेद-शून्य एकः सर्व-व्यापित्वादि-रूपेणेति प्रतिबिम्बेन जीवेन बिम्ब-भूतः स्व-नियन्तोपास्य इत्य् आशयेन समाधत्ते—नन्व् इत्य् आदिना ॥ [रा।ते।] ↩︎
-
चेता ज्ञान-स्वरूप इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
विशन्न् इव वर्तमान इति । अन्तः-करणादिषु प्रतिबिम्बिततया जीव-रूपेण वर्तमानोऽत एव न्यूनाधिक-भावेनाजगवादिषु उपाधि-तारतम्य-कृत-प्रतिबिम्बाद्य्-अल्पत्व-महत्त्वादिना चकास्सीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
सत्यं तवेति । य आत्मनि तिष्ठन्न् इत्य्-आद्य्-अन्तर्यामि-ब्राह्मणोक्तं नियन्तृ-रूपं बिम्बात्मकम् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
इदानीं भारती-तीर्थादि-सम्मतं प्रतिबिम्ब-मिथ्यात्व-पक्षम् अनादृत्य प्रतिबिम्बो बिम्बाद् अभिन्नत्वाद् बिम्बात्मना सत्यः, बिम्ब-भेदादि-धर्मा एवाध्यस्ताः, न त्व् अत्र धर्माध्यास इति विवरणादि-सिद्धान्तेन जीव एवोपाधिकृता दोषा वस्तुतो न सन्ति, किम् उत बिम्ब-भूतेश्वर इति दर्शयितुम् आह—अपीति ॥ [रा।ते।] ↩︎
-
एते श्वेताश्वतरोपनिषदि कथिता अर्था जीव-ब्रह्मैक्यादयः प्रकाशन्ते ॥ [रा।ते।] ↩︎
-
कृता मत्स्याद्य्-अवतारा येनेति तद्-गुण-संविज्ञानो बहुव्रीहिः । अवतारस्यावतारिणश् च भगवतश् चरण-भजनं ब्रह्मात्मैक्य-ज्ञानोपायं वदन्तीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अन्यथा चरण-भक्तिं विनेदं साक्षात्कार-रूपं ब्रह्म-ज्ञानं न प्राप्यते ॥ [रा।ते।] ↩︎
-
यया क्षेत्रज-शक्तिः सा वेष्टिता नृप सर्वगा ।
संसार-तापान् अखिलान् अवाप्नोत्य् अतिसन्ततान् ॥६२॥
तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-सञ्ज्ञिता ।
सर्व-भूतेषु भूपाल तारतम्येन वर्तते ॥६३॥ ↩︎
-
कृष्ण-सन्दर्भे २८-परिच्छेदो द्रष्टव्यः। ↩︎
-
आकरे ताव् इति पाठो दृश्यते। भोक्ताराव् इति नातीव सङ्गच्छते वा। [जगत्] ↩︎
-
अल्पस्य तत्त्व-ज्ञान-मात्रस्य साधनम् एवेति वचन-स्थानौचित्यं मत्वा भक्तिं गुरूकरोति । पुरुषार्थ-चतुष्टय-साधनत्वं मोक्षाधिक-पञ्चम-पुरुषार्थ-रूपत्वं च स्थापयतीत्य् अर्थः । अन्य-साधनं इति पाठे अन्यस्य तत्त्व-ज्ञानादेः साधनम् एव, न तु परम-फल-रूपेति वचनम् अनुचितं मत्वा भक्तिं गुरूकरोति । मोक्षोपरि विराजमानं पञ्चम-पुरुषार्थ-रूपत्वं च स्थापयतीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
श्लेषेणामृतानां सायुज्यादि-मोक्षाणां समुद्र-तुल्ये ॥ [रा।ते।] ↩︎
-
इन्द्र-पदादीति । इन्द्र-पद-शब्देन अर्थ-कामौ आदि-पदाद् धर्मश् च । तथा च चतुर्वर्गम् अपि भक्ति-वशाद् एव बलात् प्राप्तम् अपि नेच्छन्ति ॥ [रा।ते।] ↩︎
-
देवा विषयिणः । ब्रह्म-वादिनो मुक्ताः ॥ [रा।ते।] ↩︎
-
विग्रहं कृत्वेति । भगवतश् चतुर्भुज-पीताम्बर-धारि-मूर्तिम् अन्तर्-मनो-मयीं कृत्वेति साकार-भजनम् उक्तम् ॥ [रा।ते।] ↩︎
-
नूनम् एषा टीका नादि-शङ्कराचार्याणां भवितुम् अर्हति। ↩︎
-
रमन्तीति परस्मैपदम् आर्षम् ॥ [रा।ते।] ↩︎
-
आरामम् इति । अस्य परमात्मनः आरामम् उपवनं क्रीडा-स्थानं ग्राम-नगरादि विश्वं सर्वे पश्यन्ति । तम् आराम-निर्मातारं परमात्मानं कश्चन कोऽपि न पश्यति ॥ [रा।ते।] ↩︎
-
न तम् इति । यूयं तं न विदाथ न जानीथ य इमाः प्रजा जजान जनयति स्म । अतो युष्माकं तस्य चान्यन् महद्-व्यवधानं बभूव । यतो भवन्तो नीहारेणाविद्यया प्रावृता अवगुण्ठिता जल्प्याः प्रजल्पन-परास् तार्किका इत्य् अर्थः । अत एवासुतृपः प्राण-तर्पण-परायणाः उक्थानां शासितारो यज्वानस् ते चरन्ति संसरन्तीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अनुक्रोशन्त्यः कृपयोच्चैर् उपदिशन्ति इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अत्र भा। ७.१५.१०-पद्यस्य भावार्थ-दीपिका-धृता श्रुतिर् द्रष्टव्या ॥ ↩︎
-
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥ [भ।र।सि। १.२.२८१] ↩︎
-
को अद्धेति । इयं विसृष्टिर् आकाशादि-सृष्टिः कुतः कस्माज् जाता ? कुतः कस्माद् धेतोः स्थितिं प्राप्ता ? एतद् अद्धा प्रत्यक्षतः को वेद ? नो कोऽपीत्य् अर्थः । इह संसार-मण्डले कः प्रवोचत् प्रावोचत् । कोऽपिप्रवक्ता न बभूवेत्य् अर्थः । ननु ब्रह्मादि-देवा ज्ञास्यन्ति ? तत्राह—अर्वाग् इति । अस्य विसर्जनेन एतत्-सृष्टत्वेन ब्रह्मादि-देवा अप्य् अर्वाचीना एवेत्य् अर्थः । यो ब्रह्माणं विदधाति पूर्वम् इति श्रुतेः । अथ तस्माद् इयं विसृष्टिर् यत आबभूव तं को वेद ? न कोऽपीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अनेजद् इति । एकम् अद्वितीयम् । एजनं कम्पनं स्व-स्थानाच् च्यवनं तद्-रहितम् अपि । मनसो जवीयो वेगवत्तरम्, विभुत्वाद् इत्य् अर्थः । एतद् आत्म-तत्त्वं देवा इन्द्रियाणि नाप्नुवन् । यतः पूर्वम् अर्शत् पूर्वम् एव गतं सर्वान्तरतया स्थितम्, न तु पराग्-भूतम् इत्य् अर्थः । इन्द्रियाणि पराग्-वस्तु-विषयाणीति भावः । तिष्ठत् स्थिरम् अपि तच् छीघ्र-गति-मतोऽन्यान् अत्येत्य् अतिक्रम्य वर्तते । तस्मिन् परमात्म-चैतन्ये सति तद्-आश्रयत्वेन वर्तमानो मातरिश्वा वायुः । अपः उदक-प्रवाहवत् सततं वर्तमानाः सर्वेषां सर्वत्र चेष्टा दधाति सम्पादयति ॥ [रा।ते।] ↩︎
-
असत उत्पत्तेः प्राग् अविद्यमानस्य जगतः। ↩︎
-
वैशेषिकाः काणादाः सप्तम-पदार्थ-वादिनो नवीनास् तार्किकाः । एते ह्य् एवम् आहुः—उत्पत्तेः पूर्वं कार्य-मात्रस्य प्राग्-अभावोऽस्ति । स च तत्-तत्-प्राग्-अभावस् तत्-तत्-कार्ये निमित्त-कारणं, उत्पन्ने कार्ये प्राग्-अभाव-नाशः, तसानादित्वे सति सान्तत्वाद् इति । साङ्ख्य-वेदान्तिनौ तु सत्-कार्य-वादिनौ । उत्पत्तेः पूर्वं कारणे सूक्ष्म-रूपेण सद् एव कार्यं कुलालादि-कारक-व्यापारेण व्यक्तीक्रियते । प्राग्-अभावस्य तु न कारणता । अभावाद् भावोत्पत्तेर् असम्भवात्, नासतो विद्यते भावः इत्य्-आदि-वचनयोर् आशयः ॥ [रा।ते।] ↩︎
-
पातञ्जला योग-शास्त्र-प्रणेतारः जीव-रूपं सत्यं न त्व् औपाधिकं यथा ताम्रादिर् असुवर्ण-रूप एव सन्न् औषधि-पुट-पाकादि-प्रभावात् सुवर्णं भवति । एवम् अब्रह्म-भूतो जीवो योग-प्रभावाद् ब्रह्म भवतीति योग-शास्त्राशयः । वेदान्तिनस् तु जीवः सर्वदा ब्रह्म-रूप एवास्ति । अज्ञानेन स्वस्याब्रह्म-रूपत्वं मत्वा संसरति । यथा कश्चन राज-पुत्रो राज्ञा वने त्यक्तो व्याधैः संवर्धितो व्याध एवाहम् इति राजत्वाज्ञानान् मन्यते स्म । स च केनचित् त्वं राष्ट्राधिपो राजा त्वम् असीत्य् आदिनोपदिष्टोऽज्ञान-कृत-व्याधत्वं विहाय राजत्वं ज्ञात्वा राजा भवति तद्वद् इति वदन्ति ॥ [रा।ते।] ↩︎
-
अनीशया मायया मुह्यमानः शोचतीति गौतमीय-मत-निरासः ॥ [रा।ते।] ↩︎
-
धीरा धीमन्तोऽपि स्वयम् आत्मानम् एव पण्डितं-मन्यमानाः ॥ [रा।ते।] ↩︎
-
जङ्घन्यमानाः भृशं पीड्यमानाः परियन्ति परिभ्रमन्ति इति मीमांसक-मत-परिहारः ॥ [रा।ते।] ↩︎
-
एक-पदैव-काराद् द्वितीय-पदैः स्वगत-सजातीय-विजातीय-भेद-निरासः ॥ [रा।ते।] ↩︎
-
शाङ्कर-शारीरके ३.२.१९-सूत्रे उद्धृतः श्लोकः। ↩︎
-
असतोऽधीति । असतो नाम-रूप-व्याकृति-रहितत्वेन शून्य-तुल्याद् ब्रह्मणो निमित्त-भूतात् । न विद्यते धीर् यस्मात् तद् अपि मूलाज्ञानम् । मनो महत्तत्त्वाख्या समष्टि-बुद्धिर् असृजत अजायत । अज्ञानम् एव समष्टि-मनो-रूपेण विवर्तितम् अभूद् इत्य् अर्थः । तच् च मनः प्रजापतिं सत्य-लोक-वासिनं ब्रह्माणम् असृजत । तस्माद् यद् इदं परिदृश्यमानं किं च किञ्चन, तद् इदं मनस् एव समष्टि-बुद्धाव् एव परमं, यथा स्यात् तथा प्रतिष्ठितं प्रकर्षेण स्थितम् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
सुन्दर-स्वरूपाकारतायां (घ) ↩︎
-
नाना सजातीयादि-भेद-युतम् ॥ [रा।ते।] ↩︎
-
मृत्योर् इति । इह ब्रह्मणि यो नानेव कल्पित-भेद-शालि-चेतनाचेतनात्मकं विश्वं पश्यति, स मृत्योर् अनन्तरं मृत्युं जन्म-मरणादि-परम्परा-रूपं संसारं प्राप्नोतीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
तस्य वाग् इति । वेद-रूपा वाक्-तन्तिर् महा-रज्जुः ब्राह्मणादि-नामानि तन्ति-संयुक्त-दामानीव । यथा तत्न्यां दामभिर् वृषा बध्यन्ते, एवम् ईश्वरस्य विधि-निषेध-लक्षणया वेद-वाण्या तन्ति-रूपया दाम-रूपैर् नामभिर् इदं सर्वं जगत् सितं बद्धम् । ब्राह्मणस् त्वं षट् कर्माणि कुरु । क्षत्रियादिस् त्वं यजनादि-त्रयम् । ब्रह्मचारी वेद-पाठम् इत्य् एवम्-आदिना संयतम् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
तत्रापरोक्ष-वस्तु-विषयक-प्रमाणानाम् अपरोक्ष-ज्ञान-जनकत्व-नियमं वाद्यभिप्रेतम् अङ्गीकरोति यद्यपीति ॥ [रा।ते।] ↩︎
-
एष परमात्मा यं वृणुतेऽनुगृह्णाति ॥ [रा।ते।] ↩︎
-
मन्द-वायुर् उपवात्य् अनुकूलं मानयन् मलयज-स्पर्शेन ।
वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः ॥ ↩︎
-
ईक्षण-लेशेनेति । सर्जनेच्छादि-रूपेणेत्य्-अर्थः ॥ [रा।ते।] ↩︎
-
असद् वा इति । अग्रे शून्यम् आसीत्, शून्याद् एव जगद् अभूद् इति पूर्व-पक्षार्थः । सिद्धान्ते तु, इदं जगद् एव अग्रे सृष्टेः प्राग्-असद् अव्याकृत-नाम-रूपत्वाद् असत्-तुल्यम् अतिसूक्ष्मं ब्रह्मैवासीत् । ततो ब्रह्मणः सत् व्याकृत-नाम-रूपं जगद् अजायतेति ॥ [रा।ते।] ↩︎
-
संसरन्तो भजन्तीति संसारोन्मोक्षाय भजन्तीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
तस्यैवेति । अवच्छेद-वादाभिप्रायेण पूर्व-पक्षः ॥ [रा।ते।] ↩︎
-
यद् इति । यदि कदाचिन् मन्यसे सुष्ठु वेदाहं ब्रह्मेति, तर्हि त्वं यद् अस्य ब्रह्मणो रूपं तद् दभ्रम् अल्पम् एव वेत्थ । यद् अस्य ब्रह्मणो देवेष्व् अधिदैवतं रूपं तद् अल्पम् एव त्वं वेत्थेत्य् अर्थः ॥ [रा।ते।] ↩︎
-
यः पृथिव्यां तिष्ठन् पृथिव्याम् अन्तरः [बृ।आ।उ। ३.७.३] ↩︎
-
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातम् अविजानताम् ॥ [केन।उ १.३] ↩︎
-
जीव- इति प्रीति-सन्दर्भे। ↩︎
-
उपाधीति । अन्तःकरणोपाधि-जन्मना जीवानां बुद्धि-प्रतिबिम्बित-प्रमातृ-सञ्ज्ञकानां जन्मोच्यत इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अजयोर् इत्य् अनाद्योर् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अजाम् इति । न जायत इत्य् अजा, तां मूल-प्रकृतिं लोहित-शुक्ल-कृष्णां रजः-सत्त्व-तमो-गुणां सरूपां त्रिगुणात्मिकां प्रजां जनयन्तीं एकोऽजो जीवस् तां शब्दादि-विषय-रूपतापन्नां जुषमाणः सन्न् अनुशेते निरन्तरं मुह्यति । जीवेन भुक्तो भोगो यस्यां तां जीवेन भुज्यमानाम् एनाम् अन्यः परमात्मा जहाति । नास्याम् आसक्तिं करोतीत्य् अर्थः ॥ [रा।ते।] ↩︎
-
परीति । कारण-सम-सत्ताकोऽन्यथा-भावः परिणामः । कारण-विषम-सत्ताकोऽन्यथा-भावो विवर्तः । व्यवहारिक-सत्यत्व-युक्त-मृद्-दुग्धादेर् व्यावहारिक-सत्यं घट-दध्य्-आदि जायत इति घटादिः परिणामः । व्यावहारिक-सत्यत्व-युक्त-शुक्त्य्-आदेः प्रातिभासिक-सत्यं रजतादि जायत इति रजतादिर् विवर्तः परिणामिन एव कारणस्य विकारित्वं न विवर्तोपादानस्य । प्रकृते पारमार्थिक-सत्याद् ब्रह्मणो व्यावहारिक-सत्यं जगद् उत्पद्यत इति विवर्तोपादानत्वं ब्रह्मण इति न विकारित्व-प्रसङ्ग इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
हे सोम्य, मधुकृतो मधु-मक्षिका मधु निस्तिष्ठन्ति निष्पादयन्ति । नानात्ययानां नाना-गतीनां नाना-जातीनां वृक्षाणां पुष्प-रसान् समवहारम् आहृत्यैकतां मधु-रूपतां आपादयन्ति । ते रसा यथामुषुय वृक्सस्याहं रस इति भेदं न लभन्ते न विदुः । पुरुषैर् ज्ञायमान-भेदवन्तो न भवन्तीत्य् अर्थः । पुरुष-ज्ञानानां रसेषूपचारात् । एवम् इमाः प्रजाः स्वाप-प्रलयादौ सति ब्रह्मणि सम्पद्यैकीभूय ब्रह्मैक्यं प्राप्ता वयम् इति न विदुर् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
प्रलय-स्वाप-काले जीव-सहितं विश्वं विलयं यद् अपि प्राप्नुवद् अपि भाति संस्कार-रूपेण सूक्ष्मतयास्मिंस् तिष्ठति । तत्र हेतुः—उद्यद् इति । सृष्टि-काले जागरण-काले चोत्पन्नं भवद् इत्य् अर्थः । निरवशेष-लये पुनर् उत्पन्नं न स्याद् इति भावः । गुरूपदेशेनात्म-साक्षात्कारे सति । अत्यन्तान्तं निरवशेष-लयं समुद्र-मध्ये नदीवद् यस्मिन् व्रजति, तं त्रिभुवन-गुरुं नृसिंहं चित्तस्य मध्ये भावये इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः
शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः
सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः
सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः
सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः
नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः
निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः
सर्वे पञ्चोपनिषत्-स्व-रूपया वेद-वर्चसः ↩︎
-
बीजस्य (ग) ↩︎
-
मम मदीयं कृत्स्नस्य जगतो योनि-भूतं महद् ब्रह्म यत् तस्मिन् गर्भं दधाम्य् अहम् । भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च । अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ अपरेयम् [७.४-५] इति निर्दिष्ट-चेतना प्रकृतिर् महद्-अहंकारादि-विकाराणां कारणतया महद् ब्रह्म इत्य् उच्यते । श्रुतव् अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते । यः सर्वज्ञः सर्व-वित्, यस्य ज्ञान-मयं तपः, तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नं च जायते [मु।उ। १.१.९] इति । इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीव-भूताम् [७.५] इति चेतन-पुज-रूपा या प्रकृतिर् निर्दिष्ट, सा इह सकल-प्राणि-बीजतया गर्भ-शब्देनोच्यते । तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपं गर्भं दधामि । अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूतां चेतन-प्रकृतिं संयोजयामीत्य् अर्थः । ततस् तस्मात् प्रकृति-द्वय-संयोगान् मत्-संकल्प-कृतात् सर्व-भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां सम्भवो भवति ॥१४.३॥ इति रामानुजः। ↩︎
-
उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति, स्वम् अपीतो भवति, तस्माद् एनं स्वपितीत्य् आचक्षते, स्वं ह्य् अपीतो भवति ॥६.८.१॥ ↩︎
-
नानात्ययानां इति मूल-पाठे। ↩︎
-
अजयोर् इत्य् अनाद्योर् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
परीत्येति । भूतानि परीत्य सर्व-भूतेष्व् आत्मैक एवेति ज्ञात्वा लोकान् स्वर्गादीन् कर्म-चितत्वेनानित्यात् ज्ञात्वा सर्वा दिशः प्रदिशश् चैहिक-विषयान् अप्य् अनित्यान् ज्ञात्वा प्रथमजां त्रयी-लक्षणां वाचम् उपस्थाय संसेव्य आत्मना मनसा ऋतस्य परमेश्वरस्यात्मानं स्वरूपम् अभिसंविवेश आश्रितवान् कश्चन मुमुक्षुर् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
नैषेति । वेदान्त-शास्त्र-जन्या मतिस् तर्केण स्व-मत्य्-ऊह-मात्रेणापनेया बाधार्हा न । यद् वा, तर्केण प्राप्तव्या नेत्य् अर्थः । किन्त्व् अन्येन निपुणेनाचार्येण प्रोक्ता प्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति । प्रेष्ठ हे प्रियतमेति नाचिकेतसं प्रति यम-सम्बोधनम् ॥ [रा।ते।] ↩︎
-
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतद्-अर्थानां, तस्माद् अनित्यम् उच्यते इति एतावत् पूर्व-पक्ष-सूत्रम् । अस्यार्थः—आम्नायस्य वेदस्य यज्ञादि-क्रिया-प्रतिपादन-परत्वाद् अतद्-अर्थानाम् अक्रियार्थानां “सोऽरोदीत्” “प्रजापतिर् आत्मनो वपाम् उदिक्खिदत्” “वायुर् वै क्षेपिष्ठा देवता” इत्य्-आदि-वाक्यानां आनर्थक्यं निरर्थकत्वं तस्माद् अनित्यम् अनियतम् वेदानां प्रामाण्यम् उच्यते इति ॥ [रा।ते।] ↩︎
-
तत् तेषु वेद-वाक्येषु भूतानां सिद्धार्थ-प्रतिपादक-वाक्येन बर्हिषि रजतं न देयं, पशुना यजेत इत्य्-आदिना सहान्वयः । तथा च विधि-प्रत्यवाय-रहित-वाक्यानां विधि-वाक्यैः संनिहितैर् दूरस्थैर् वा विधि-वाक्याकाङ्क्षित-नित्यत्वाद्य्-अर्थ-पूरणेनान्वये कृते क्रिया-परत्व-सिद्ध्या प्रामाण्यं सिद्धम् ॥ [रा।ते।] ↩︎
-
सर्वत्र वेदे विज्ञानं तत्-तद्-वाक्य-जन्यं देवता-कर्मादि-विषयं ज्ञानं संस्कारत्वेन गम्यते, संस्कार-रूपं भवति । अत एव ब्रीह्य्-आदिष्व् अवघात-प्रोक्षणादि-संस्कारवत् परस्य यागादेर् अङ्गं च गम्यते, आत्म-विज्ञानाद् अन्यत्र तद् विना उपनिषज्-जन्यात्म-ज्ञानं संस्कार-रूपं कर्माङ्गं च नेत्य् अर्थः। अतः कर्म-कर्त्रा तद्-विचारो न कार्य इति भावः ॥ [रा।ते।] ↩︎
-
पक्षः [रा।ते।] ↩︎
-
अर्थः प्रयोजनं जलाहरणादि तस्य क्रिया निर्वाहस् तत्-कारित्वात् ॥ [रा।ते।] ↩︎
-
प्रतीतौ सत्याम् इति । वस्तु-सत्त्वाभावेन विषय-सत्यत्वाभावेन व्यतिरेकस्य भ्रमाभावस्यादर्शनात् गुञ्जा-पुञ्जे वह्नि-भ्रमाहित-संस्कारेणापि पुनस् तत्रैव गुञ्जा-पुञ्जादौ भ्रम-परम्परा-दर्शनाद् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
अन्धेति । इह वटे यक्षो दृष्ट इति केनचिद् अन्धेनान्ध उपदिष्टः, तेनान्यस् तेनान्य इति परम्परायां यक्ष-भ्रमः पूर्व-पूर्व-भ्रम-जन्य एव, न कस्यचिद् यक्ष-प्रमा, तेन च मूर्च्छा-मरणाद्य्-अर्थ-क्रियापि दृश्यते तद्वद् इत्य् अर्थः ॥ [रा।ते।] ↩︎
-
सत्यायाः स्रजः सकाशाद् उत्पन्नः सर्पः सत्यो न ॥ [रा।ते।] ↩︎
-
कूट-कनकं कार्यम् अर्थ-क्रियां कुर्वद् अपि भवति ॥ [रा।ते।] ↩︎
-
वेदोऽपि एवं-परो विश्व-सत्यत्व-परो न ॥ [रा।ते।] ↩︎
-
ख-कर-लिप्यां ताम्रिक इत्य् अत्र सर्वत्र कार्सापण इति पाठान्तरम्। ↩︎
-
प्रवर्तमानत्वात् (ज) ↩︎
-
परमात्म-चैतन्यस्य (ज) ↩︎
-
वितथ-मनोऽभिलाषं इति बृहत्-क्रम-सन्दर्भानुसृत-पाठान्तरम्। ↩︎
-
अत्र श्री-जीव-प्रभुः श्रीधर-स्वामि-पठित-विलास-शब्दस्य स्थाने “अभिलाषं” इति पाठान्तरं पठति। [जगत्] ↩︎
-
अनादितया (ङ,ज) ↩︎
-
स्व-वेदान्तिता-ख्यापकानाम् अपि विश्वस्य मनो-विलासत्वेन (ग) ↩︎
-
दृष्त्या केचिच् चैवं (ज) ↩︎
-
उक्तिम् इति यत् क्वचिद् दृश्यते तच् छन्दो-भङ्ग-दोषाद् व्यावृत्तम्। ↩︎
-
यतनीयम् (ङ, छ) ↩︎
-
आकूतं (जादवपूर) ↩︎
-
ऋ।वे। १.१६४.२०, मु।उ। ३.१, क।उ। १.३.१ ↩︎
-
थिस् परग्रफ् इस् तकेन् अस् अ सेपरते सेच्तिओन् नुम्बेर् २४ इन् थे जदव्पुर् एदितिओन्, बुत् थिस् दोएस्न्ऽत् सेएं तो बे नेचेस्सर्य्। ↩︎
-
थिस् लस्त् सेन्तेन्चे नोत् इन् जदव्पुर्। ↩︎
-
स्व-पाद-मूलं भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ↩︎
-
अथात आदेशो नेति नेति अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि। ↩︎
-
अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद ॥ ↩︎
-
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति ॥ ↩︎
-
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्र-बाहुः ।
सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव ॥ ↩︎
-
क़ुओतेद् अबोवे इन् सेच्तिओन् ९४। ↩︎
-
सेच्तिओन्स् ४ अन्द् ९५ अबोवे। ↩︎