७४ १० ८६ १

श्री-राजोवाच—

ब्रह्मन् वेदितुम् इच्छामः स्वसारं राम-कृष्णयोः ।
यथोपयेमे विजयो या ममासीत् पितामही ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) :

षड् अशीतितमे दम्भात् सुभद्राम् अर्जुनोऽहरत् ।

गत्वा च मिथिलां कृष्णो नृप-विप्रावनन्दयत् ॥

पित्रोः स्व-ज्ञानम् आदिश्य सुभद्रां फाल्गुनाय च ।

जगाम मिथिलां कृष्णः स्वभक्त-प्रियकृत्तमः ॥

देवक्या मृत-पुत्र-लाभवद् अर्जुनस्य सुभद्रा-लाभोऽपि राम-प्रातिकूल्याद् दुर्घट इति मन्यमानः प्रसङ्गात् पृच्छति—ब्रह्मन्न् इति ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लोक-वचन-विहितम् इथ्यानुष्ठानं दम्भः । अनन्दयत् साह्लादौ चक्रे । स्वसारं सुभद्राम् । विजयो \ऽर्जुनः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-भगवतः पित्रोर् भ्रातृषु चानुग्रहं श्रुत्वा भगिन्याम् अपि तम् अधिकं सम्भाव्य तत्-प्रकारं सादरं पृच्छति—ब्रह्मन्न् इति । हे वेद-स्वरूप ! अतस् त्वं तत् सर्वं समूलं वेत्सीति भावः । अत एव तत्-प्रकारं वेदितुम् इच्छामः । बहुत्वं सर्व-श्रोतॄणाम् अपेक्षया, सा च विनयाद् एव । राम-कृष्णयोर् इति रमन्ते योगिनोऽनन्ते [र्तु] च्च् २.९.२९; ब्सोभ् ३.३.४० इत्य् अत्रेति, तथा कृषिर् भूर् वाचकः शब्दः इति वचनतः साक्षाद्-भगवतोर् इत्य् अर्थः । अनेन तथा स्वसारम् इति द्वयोर् अपि तस्यां स्नेह-सूचनेन च, द्वयोस् तयोः सम्मत्यैवोपयमस्य सिद्ध्या तस्य दुष्करत्वम् अभिप्रेतम् । विजय इति वक्ष्यमाण-रक्षि-यादव-सैन्य-जय-पूर्वक-श्री-सुभ्दरा-हरणस्य किं वा तद्-विवाहेन तद्-उत्कर्ष-लाभस्याभिप्रायेण । ननु, किं तव तद्-विविदिषया ? तत्राह—येति । यस्याः सम्बन्धेन मम भगवदीयत्व-विशेषः सम्पन्न इति भावः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथोपसंहार-मुद्राम् आलक्ष्य श्री-परिक्षित् तु भीत एव पुनस् ताम् अवतारयितुं पृच्छति-तत्रापि श्री-भगवता निज-देह-सम्बन्धे मुख्य-कारण-रूपायाः स्व-पितामह्या मूल-कथा-रूपं विवाहं चिरं प्रष्टुम् इष्टं पृच्छति—ब्रह्मन् इति । यथा येन प्रकारेणोपयेमे तेन प्रकारेण तद् उपयमनं वेदितुम् इच्छामः तत्र राम-कृष्णयोर् इति दुर्लभत्वम् अभिप्रेतम् । विजय इति तत्रैव तस्य सान्वय-सञ्ज्ञत्वं पर्यवसितम् इति भावः । निजोत्कण्ठातिशयेन कारणं येति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्याध्ययस्य व्याख्यानं नास्ति ॥१॥

———————————————————————————————————————

विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

यति-वेशोऽर्जुनोऽहार्षीत् सुभद्रां मिथिलाम् अगात् ।

धिन्वन् विप्र-नृपौ भक्तौ षडशीतितमे हरिः ॥

अथ कथोपसंहार-मुद्राम् आलक्ष्य ननु, भोः प्रभो ! बलदेवादीनाम् अनिरुद्ध-पर्यन्तानां विवाहाः श्रुता एव, किन्तु सुभद्रा-विवाहो न श्रुत इत्य् आह—ब्रह्मन्न् इति । विजयोऽर्जुनः तद्-विवाहो ममत्व-वश्य प्रष्टव्य इत्य् आह—येति ॥१॥

जगदानन्दः- अत्रत्योपाख्यानस्य मूलम् श्री-महा-भारते आदि-पर्वणि अर्जुन-वन-वास-सुभद्रा-हरण-पर्वयोर् अन्यथा लभ्यते । आख्यायिकाया विस्तृतार्थ-जिज्ञासुना तत्र द्रष्टव्यम् । सुभद्राया रोहिणी-तनयात्वं, यथा हरि-वंशे—

चित्रां नाम कुमारीं च रोहिणी-तनया दश । > चित्रा सुभद्रेति पुनर् विख्याता कुरुनन्दन ॥[ह।व १.३६.६]

तस्या सारणस्य सहोदरत्वं च, यथा—ममैषा भगिनी पार्थ सारणस्य सहोदरा [म।भा। १.१२८.१७] इति । सारणस्य रोहिणी-तनयत्वं, यथा भागवते,

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् । > वसुदेवस् तु रोहिण्यां कृतादीन् उदपादयत् ॥ [भा।पु। ९.२४.४६]

यद्यप्य् अत्र कृष्णस्य भगिनीत्वेऽपि सहोदरात्वं निरस्तम्, श्री-मद्-भागवत-मते सुभद्राया देवकी-तनयत्वम् । यथा—

अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल । > सुभद्रा च महाभागा तव राजन् पितामही ॥ [भा।पु। ९.२४.५५]

श्री-वैष्णव-तोषणी—कृतां मते च अथ काल उपावृत्ते [भा।पु। ६.१४.३२] इति टीकायां कन्यां सुभद्राम् इति लिखितम् ।

ननु, सुभद्राया एकानंशात्वम् किम् ? अत्रपि मम मानसं सन्देह-पङ्के पनीपातीति । वसुदेवानीता यशोदा-प्रसूता योगमाया आकाशे उड्डीय कंसं प्रति घोरं वाक्यम् उक्त्वा एकांशेन देवालयं गता, अन्येन वसुदेव-गृहे बालिका-रूपेण स्थित्वा ववृधे । यथा तत्र हरि-वंशे—

एवम् उक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना । > खं सा देवालयं देवी स-गणा विचचार ह ॥ > सा कन्या ववृधे तत्र वृष्णि-सङ्घ-सुपूजिता । > पुत्रवत् पाल्यमाना सा वसुदेवाज्ञया तदा ॥ > विद्धि चैनाम् अथोत्पन्नाम् अंशाद् देवीं प्रजापतेः । > एकानंशां योग-कन्यां रक्षार्थं केशवस्य तु ॥ > तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः । > देववद् दिव्य-वपुषा कृष्णः संरक्षितो यया ॥[ह।व। २.४.४५-४८]

न त्व् अत्र तस्या एकानंशाया योगमायाया रोहिणी-तनयात्वं प्रमानीकृतम्, न तु तस्या देवकी-प्रसूतत्वम् ॥१॥


॥ १०.८६.२ ॥

श्री-शुक उवाच—

अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः ।
गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तीर्थ-यात्राय ब्राह्मण-धन-रिरक्षया युधिष्ठिर-द्रौपदी-गृहान्तर्गत-धनुर् ग्रहणार्थ-तद्-गत-प्रतिज्ञा-तद्वादश-वार्षिक-**तीर्थ-**यात्रायाम् इति स्फुटं रमहाभारते । सो\ऽर्जुनः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रभुर् इति श्री-कृष्ण-सख्येन विशेषतश् च श्री-सुभद्रा-पतित्वेन परमादरात् । यद् वा, पर्यटनादौ समर्थ इति । तत्रैव विशुद्ध-कर्म-कारित्वाद् अर्जुन इति । आत्मनो मातुलेयीम् इति तत्-परिणयन-योग्यता सूचिता । तदानीं लोके तद्-व्यवहार-वृत्तेः ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्जुन इति सार्धकम् । दुर्योधनाय राम एव तां दास्यति दातुम् इच्छति न चापर इत्य् अनेन प्रकारेण मातुलोयीमश्राणोदित्य् अन्वयात् प्रभुर् इति । श्री-कृष्ण-सख्येन विशेषतश् च श्री-सुभद्रा-पतित्वेन परमादरात् आत्मनो मातुलेयीत्वेन तत्-परिणयने श्रेष्ठता सूचिता । दक्षिण-देशवत् तदानीम् अन्यत्रापि तद्वद् व्यवहार-वृत्तेः ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां प्रसिद्धां मातुलेयीं रामो दुर्योधनाय दास्यतीत्य् अशृणोद् इत्य् अन्वयः । न चापरे वसुदेव-कृष्णादयस् तु न दित्सन्तीत्य् अर्थः ॥२॥


॥ १०.८६.३-४ ॥

दुर्योधनाय रामस् तां दास्यतीति न चापरे ।
तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् ॥**

तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थ-साधकः ।
पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता** च सः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् अशृणोत् ? दुर्योधनायेति । अपरे वसुदेवादयो न दास्यन्तीति । तल्-लि1प्सुस् तस्या मातुलेय्या लिप्सुः । रामं वञ्चयितुं पूज्यतमं त्रि-दण्डि-वेशं विधाय गत इत्य् आह स यतिर् इति ॥३॥ स्वार्थ-साधकः कन्यां प्रेप्सुः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : लिप्सुर् इच्छावान् । त्रिदण्डीति एक-दण्ड-धारणं तु परम-हंसस्यैव न तु हंसादेस् तेषां त्रि-दण्ड-विधानं ग्रन्थान्तरे प्रतिपादितम् । अत्र भारत-विरोधः त्रिषु लोकेषु दण्डो यस्य स त्रि-दण्डो जिष्णुर् विष्णुर् वा पुत्रत्वेन पालकत्वेन च यस्य विद्यते त्रिदण्डी यतिः । कन्या-हरणे यत्नवान्-भैक्ष्यं प्रार्थनया दत्तं बुभुजे भिक्ष-याञ्चायाम् इत्य् एव परिहार्यः ॥३॥ तत्र द्वारकायाम् । सो\ऽर्जुनः ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम इति गदा-युद्ध-शिक्षणादिना दुर्योधन-रमणाभिप्रायेण । विजयो यतिर् भूत्वेति श्री-सुभद्रां द्रष्टुं तेन च तस्या भावं स्वस्मिन् जनयितुं तद्-आवासे श्री-रामस्य गेहे तद्-अलक्ष्यत्वेन प्रवेशार्थम् ॥३॥

वै च । तत्र तस्याम् एवावात्सीत् । यतीनां चातुर्मास्यम् एकत्रैव वासात् । अजानतेति श्री-कृष्णेच्छयैवेति ज्ञेयम् । अन्यथा सर्वज्ञस्य तद्-असम्भवात् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राम इति । श्री-कृष्ण-क्रीडा-कौतुकार्थम् एव तस्य तादृश-चेष्टावेशो\ऽपि भवतीति पूर्ववद् अभिप्रायः । तद् इत्य् अर्धकम् । तल्-लिप्सुर् इति सम्बन्ध-विवक्षया षष्ठी-समासः तां लिप्सुर् इत्य् अर्थः । यतिर् भूत्वेति भिक्षा-व्याजेनान्तः-पुर-प्रवेशाय । अन्यत् तैः । तत्र पूज्यतमम् इति त्रि-दण्डित्वम् एव स्व-मतत्वेन स्थापितम् ॥३॥ अजानतेति । श्री-कृष्ण-लीलासक्ति-मोहितत्वेनैवेति भावः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अजानतेति श्री-कृष्ण-लीला-मोहितत्वेनवेति भावः ॥४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तां लिप्सुः स्व-प्रिय-सख-कृष्ण-साहाय्य-साहसेन रामं वञ्चयितुं पूज्यतमं त्रि-दण्डि-वेशं अकरोद् इत्य् आह—यतिर् इति ॥३-४॥


॥ १०.८६.५ ॥

एक2दा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् ।

श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तम् आतिथ्येन निमन्त्र्य गृहम् आनीय बलेन यच् छ्रद्धयोपहृतं परिविष्टं तद् भैक्ष्यं किलार्जुनो बुभुजे इत्य् अन्वयः ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सन्ध्य् अभाव आर्षः । बलेन रामेण ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकदा चातुर्मास्यान्ते । अन्तस् तन्-निर्गम-शङ्कया निमन्त्र्यानीय । किल प्रसिद्धौ ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा चतुर्मास्यान्ते तन्-निर्गम-शङ्कया निमन्त्र्यानीय किल प्रसिद्धौ ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकदा चातुर्मास्यान्ते तं निमन्त्र्यानीय बल-देवेनोपहृतं भैक्ष्यंबुभुजे इत्य् अन्वयः ॥५॥


॥ १०.८६.६ ॥

सोऽपश्यत् तत्र महतीं कन्यां वीर3-मनो-हराम् ।

प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भावेन रत्य्-अभिप्रायेण क्षुभितं मनो दधे ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स त्रिदण्डवेष्य् अर्जुनः । तत्र गृहे । तस्यां कन्यायाम् । क्षुभितं सञ्चलितम् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महतीं प्रौढाम् । धीराणाम् अपि । वीरेति पाठे कामादि-जय-समर्थानाम् अपि मनोहराम्दधे निदधे ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महतीं प्रौढां धीरेति वीरेति च पाठे कामादि-जय-समर्थस्यार्जुनस्यापि । **मनो-**हरां दधे निदधे ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वीरेति धीरेति च पाठे तादृशस्याप्य् अर्जुनस्य मनो-हरन्ती ॥६॥


॥ १०.८६.७ ॥

सापि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम् ।
हसन्ती व्रीडितापाङ्गी तन्-न्यस्त-हृदयेक्षणा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : व्रीडितापाङ्गी स-व्रीड-कटाक्षा । तस्मिन्न् एव न्यस्तं हृदयम् ईक्षणं च यया सा ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सापि कन्यापि । तं त्रि-दण्डिनम् । चकमे कामयामास ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वीक्ष्य परोक्षे लोक-द्वारा श्रुतं साक्षद् दृष्ट्वा, चकमे तं प्रति जात-कामाभूत् । पतित्वेनैच्छद् इति वा । कामस्य लक्षणान्य् आह—हसन्तीत्य् आदि-विशेषण-त्रयेण । यद् वा, यतिनोऽपि स्वस्मिन् भाव-क्षुब्धं मनः संलक्ष्य कपट-वेशं बुद्ध्वा तं चार्जुनम् अभिज्ञाय प्रहर्षेण कामेनैव वा हसन्ती ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्यासाम् अपि नारीणां मनो-हरं किं पुनः स्वस्य तं वीक्ष्य विशेषेण दृष्ट्वा नायं यतिः किन्तु को\ऽपि मम पतित्वार्ह इति वैदग्ध्या प्राचीन-संस्कारेण चानुभूय तन्-न्यस्ता-हृदयेक्षणा सती चकमे । तत्र भावेन हर्षेण निर्मणा च हसन्ती स्मित-विकसितनेत्र-गण्डा जाता कुलवती स्वभावेन व्रीडितापाङ्गा च जात इत्य् अर्थः ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं नारीणां हृदयङ्गमं वीक्ष्य तादृश-लक्षणैर् निश्चित्य नायं यतिः, किन्तु मम प्रेयान् एवेति स्वमन एव प्रमाणीकृत्य चकमे ॥७॥


॥ १०.८६.८ ॥

तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः ।
न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्तरं हर्तुम् अवसरं प्रेप्सुः प्राप्तुम् इच्छुः । कामेन भ्रमच्-चित्तं यस्य सः । शं रामादि-सन्-मान-निमित्तं सुखम् ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां कन्याम् ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : परं केवलं ताम् एव सम्यग् अन्याशेष-त्यागेन अनु निरन्तरं ध्यायन् कथं कदा लभेयेति । किं वा तत् सौन्दर्यादिकं भावयन् । परम् उत्तमम् अम्भरम् इति वान्वयः । अर्जुनो विशुद्ध-कर्मापीति भावः । अन्यत् तैर् व्याख्यातम् ।

तत्र रामादि-पौर-जनैर् यः सम्मानः, स एव निमित्तं कारणं यस्य तथाभूतम् अपि । सुखम् इति, अन्यथा शं शान्ति-लक्षण-सुखम् । तत्र हेतुः—भ्रमद् इति ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ताम् इति । तैर्व्याख्यां । तत्र रामादि-पौरजनैर् यः सम्मानः स एव निमित्तं कारणं यस्य तथा-भूतम् अपि सुखं न लेभे सुखत्वेन न मेन इत्य् अर्थः अथवा शं शान्ति-लक्षणं सुखं तत्र हेतुर्धमाद् इति ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्तरं हर्तुम् अवसरं शं सुखम् ॥८॥


॥ १०.८६.९ ॥

महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गताम् ।
जहारानुम**4तः पित्रोः कृष्णस्यमहा-रथः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पित्रो**-**देवकी-वसुदेवयोः । अनुमतो\ऽङ्गी-कृतः । श्री-कृष्णेनैकान्ते सुभद्राम् इच्छसि चेत्-तर्हि **देव-**यात्रागतां गृहीत्वा गच्छानुमतं चैतन्-मम पित्रोश् च विना रामम् इति स्पष्टं भारते ॥९-१०।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महत्याम् इति देवोत्थान-महोत्सवाद् दुर्गतो निर्गताम् इति सुख-हार्यत्वम् उक्तम् । ननु तथापि तादृशं साहसं कथम् उपपद्यते ? तत्राह—अनुमत इति । तद्-यात्रायां तेन प्रकारेण हरणाद्य्-अर्थं निभृतम् अनुज्ञातोऽनुमोदितो वा, श्री-वसुदेव-देवकीभ्यां श्री-कृष्णेन च । ननु, तथापि यदु-कुल-मध्यतः कथं सम्भवेत् ? तत्राह—महारथः । भगवच्-छ्री-नरावतारत्वात् । तत्रापि श्री-भगवत्-पैतृष्वसेयत्वात् ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महत्याम् इति युग्मकम् । देव-यात्रायां देवोत्थान-लक्षणायां पित्रोः पितृभ्यां श्री-वसुदेव-देवकीभ्यां चातुर्याञ् छ्री-कृष्णेनैव—नुमिताभ्याम् इति ज्ञेयम् । पश्चात् कृष्णस्य श्री-कृष्णेन चानुमतः अत एव रथ-स्थां तस्मै स्व**-रथ**-सामग्री दातुं श्री-भगवतैव स्व-रथम् आरोपिताम् इत्य् अर्थः । तच्-चादि-पर्वणि ज्ञेयम् ।

ननु तथापि यदुकुल-मध्यतस् तत् दुष्करम्। **महा-**रथो वीरश्रेष्ठः श्री-भगवत्-प्रिय-सखत्वात् ॥९-१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-यात्रायां देवोत्थानोत्सव-विहित-रथयात्रायां जहारेत्य् अत्र हेतुः । पित्रोः कृष्णस्य च अनुमतः प्राप्तानुमतिः ॥९॥


॥ १०.८६.१० ॥

रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् ।
विद्राव्य क्रोश**5तां स्वानां स्व-भागं मृग-राड् इव ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आसमन्ताद् रुन्धत आवरणं कुर्वतः ॥१०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा),

जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रथस्थो धनुर् आदायेति तद्-अनुमत्या प्रभासे निह्नुतस्य स्वरथादेर् एवानयनात् । शूरान् रथाद्य्-आरूढान् यदु-वीरान् भटांश् च पदातीन् विद्राव्य भङ्गं प्रापय्य स्वानां बन्धूनां क्रोशताम् उच्चैर् आर्त-नादं कुर्वताम् । अनादरे षष्ठी । यद् वा, क्रोशत्स्व् अपि स्वत्स्व् इत्य् अर्थः । इति तस्य निर्भयत्वं सूचितम् । तत्रैव दृष्टान्तः—स्वभागम् इति । मृगाणां मध्याद् यथा सिंहः स्वभोग्यं हरति, तद्वद् इत्य् अर्थः ॥१०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रोशताम् इत्य् अनादरे षष्ठी ॥१०॥


॥ १०.८६.११-१२6

तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।
गृहीत-पादः कृष्णेन सुहृद्भिश् चा**7नुसान्त्वितः ॥

प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः ।
महा-धनोपस्क**8रेभ-रथाश्व-नर-योषितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पारिबर्हाणि वर-वध्वोः प्रीति-देयानि ॥११-१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-सुभद्रा-हरणम् । पर्वणि पूर्णिमायाम् ॥११-१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत् क्रोशनं हरणं वा, रामः सर्व-लोक-रमणोऽपि भगवान् क्षुभितः क्रोधोद्रेकेण त्यक्त-धैर्यः सन्, अक्षोभस्यापि कदाचित् क्षोभे दृष्टान्तः—पर्वणीवेति । अनेन क्षोभस्याधियम् अपि ध्वनितम् । सुहृद्भिः श्री-वसुदेवादिभिर् अनुसान्त्वितः प्रियोक्त्यानुनीय प्रबोधितश् च सन्, प्राहिणोद् इति परेणान्वयः । पाठान्तरे सुहृद्भिः श्री-गदादिभिश् च गृहीत-पादः सन्न् अनुक्रमेणाशाम्यत् । बल इति तत्-तत्-प्रस्थापने महा-समर्थ इति । किं वा बुद्धि-बलेनाधिक इति । सुहृदां श्री-कृष्णस्य चानुमत्यैव तेन सा हृतेत्य् अबुध्यतेति भावः । अत एव मुदा प्राहिणोत् । पारिबर्हाण्य् एवाह—महेति । **महा-**धना महा-मूल्या या उपस्करादयस् ताः । तत्रोपस्करा विचित्र-वस्त्रालङ्कार-पर्यङ्कादयः, नराः पदात्य्-आदयः । योषितो दास्यादयः । यद् वा, महा-धनानि स्वर्ण-रत्नादय उपस्करादयश् च ताः । महा-धनादीनां यथोत्तरं निकृष्टत्वं बाहुल्यं वा ज्ञेयम् ॥११-१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुसान्त्वितः प्रियोक्त्यानुनीय प्रोबधितः । अन्व् अशाम्यतेति पाठो\ऽपि स एवार्थः ॥११॥

अत एव बलो बलेनाधिक्यात्-तन्-नामापि मुदा पारिबर्हाणि प्राहिणोद् इति सुहृदां श्री-कृष्णस्य चनुमत्यैव तेन सा हृतेति बुद्ध्वेति भावः । पारिबर्हण्येव् आह—महेति । **महा-**धना **महा-महा-**मूलाः याः उपस्कारादयस् ताः तत्रोपस्कारा विचित्रालङ्कार-पर्यङ्कादयः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पारिबर्हाणि प्रीति-देयानि ॥११-१२॥


॥ १०.८६.१३ ॥

श्री-शु9क उवाच—

कृष्ण10स्यासीद् द्विज-श्रेष्ठः श्रुतद् एव इति श्रुतः ।

कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पटः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यम् एवैष वृणुते तेन लभ्यः इति श्रुत्य् अर्थं व्यक्ती-कुर्वन्न् इति-हासम् आह—पूर्णार्थः भक्तिम् अन्तरेणान्यम् अर्थम् अनाकाङ्क्षमाणः । कृष्ण-लीला-प्रबन्ध-कर्तृत्वात्कविः । शब्दादि-विषयेच्छा-रहितत्वाद् अलम्पटः ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सख्यावर्जुने श्री-भगवतो\ऽनुग्रहमुक्त्वा प्रसङ्गाद्-भुक्तवरयोर् अन्ययोर् अपि तम् आह—कृष्णस्येति । श्री-शुकदेवस्योक्तौ प्रकृतायाम् अपि श्री-शुक उवाचेति पुनरुक्तिः प्रसङ्गान्तरापेक्षया । एवम् अन्यत्रापि ज्ञेयम् । श्रुतेन शास्त्रेण दीव्यति द्योतत इति श्रुतद् एवाख्यया विख्यातः द्विजेषु विप्रेषु श्रेष्ठः, यतः कृष्णस्य एवैकस्मिन् किं वा, एका विशुद्धा या भक्तिस्तया पूर्णाः समाप्ता अर्थाः सर्वे धर्मादयो यस्य सः, शान्तः श्री-भगवद् एक-निष्ठ-चित्तः शमो मनिष्ठता बुद्धेः [भा।पु।११.१९.३६] इति भगवद् उक्तेः । कविः सर्वज्ञः, अलम्पटश् च विषयानासक्तः । विशेषणानाम् एषां यथोत्तरं हेतु हेतुमद्-भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ स्वयम् एव स्मृतिपथम् आगतं साक्षाद्-भक्तानुग्रह-मयत्वेन स्व-सहयोगेन चातिचित्ताकर्षकं तच्-चरित-विशेषम् अपृष्टम् अय्याहेत्य् आह—श्री-शुक उवाचेति । पुनर् उक्तिः प्रसङ्गान्तरापेक्षया कृष्णस्येति—कृष्णस्वामिको द्विज-श्रेष्ठ इत्य् अर्थः । कृष्ण एवैकस्मिन् किं वा, एका विशुद्धा या भक्तिस् तया परिपूर्णा अनादृता अपि सर्वतः सर्वांशेन वर्तमाना अर्था धर्मादयो यस्य सः स्वयं तु शान्तः श्री-भगवन्-निष्ठ-चित्तः यतः कविः सर्व-तत्त्वज्ञः अलम्पटश् च विषयानासक्तः ॥१३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अथ स्वयम् एव स्मृति-पथ-मागतं तच्-चरित-विशेषं स्वसाक्षात् दृष्टम् अपृष्टम् अप्य् आह—कृष्यस्येति । कृष्ण-स्वामिक इत्य् अर्थः ॥१३॥

———————————————————————————————————————

बलदेव-विद्यभूषणः : अथ स्वयम् एव स्मृति-पथम् आगतं तच्-चरित-विशेषं स्व-साक्षाद् दृष्टम् अपृष्टम् अप्य् आह—कृष्णस्येति । कृष्ण-स्वामिक इत्य् अर्थः ॥१३॥


॥ १०.८६.१४ ॥

स उवास विदेहेषु मिथिलायां गृहाश्रमी ।
अनीहयागताहार्य-निर्वर्तित-निज-क्रियः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनीहयानुद्यमेनैवागतं यद् आहार्यं भोज्यं तेन निर्वर्तिता निजाः क्रिया येन सः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मिथिलायां नगर्याम् । आहर्यम् इत्य् उपलक्षणं वस्त्रादेः निवर्तिताः सम्पादिताः क्रिया भोजनाच्छादनादि-रूपा नित्य-नैमित्तिका वा ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विदेहेषु देशेषु मिथिलायां पुर्याम्, क्रिया देवपूजादिलक्षणा ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विदेहेषु देशेषु मिथिलायां पुर्यां क्रिया देव-पुजादि-लक्षणा । श्री-भगवत्-पूजा-लक्षणा यदयाचितं लभ्यते तद् अपि स्वनाम्नैव यादवार्थम् एव च प्रति-गृह्णाति न तु भगवन्-नाम्ना नाप्यधिकम् इत्य् उत्तरार्धार्थः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विदेहेषु देशेषु मिथिलायां पुर्याम् अनीहया अनुद्यमेनैव आगतं यदाहार्यं भोज्यं तेनैव निवर्तिता निजा क्रिया भगवत्-परिचर्यापि येन सः ॥१४॥


बलदेव-विद्यभूषणः : विदेहेषु देशेषु मिथिलायां पूर्याम् अनीहया अनुद्यमेनैवागतं यद् आहार्यं भोज्यं तेनैव निर्वर्तिता निजा क्रिया भगवत्-परिचर्यापि येन सः ॥१४॥


॥ १०.८६.१५ ॥

यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत ।
नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यात्रा-मात्रं शरीरादि-निर्वह-मात्रं भोज्यम् उपनमति तं प्रत्य् आगच्छति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावता देवागत-मात्रेण । उचिता अतिथि सत्-कारादि-रूपाः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्प्रकारम् एवोक्तपोषण्यायेन विशदयति-यात्रेति । तु एव, **यात्रा-**मात्रम् एव, दैवात् प्रारब्धवशात्, अनायासेनैव इत्य् अर्थः । उत एव, उपनमत्य् एव, न तु कदाचिन्नोपतिष्ठतीत्यर्थः । अन्यथा श्री-भगवद्भोगाद्यसिद्ध्या दुःखोदयात् । तावतैव तुष्टः सन् यथोचिता भगवद्भक्त्यनुरूपा इत्य् अर्थः ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-भगवद् आनुकूल्यम् अप्य् अस्तीत्य् आह—यात्रेति । तु एव यात्रा-मात्रम् एव दैवाद् ईश्वराद्धेतोः योगक्षेमं वहाम्य् अहम् [गी। ९.२२] इति तद्-गीतातः उत बडम् उपनमत्य् एव न तु कदाचिन्नोपतिष्ठतीत्य् अर्थः । तावतैव तुष्टः सन् यथोचिता भगवद्-भक्त्य् अनुरूपा इत्य् अर्थः ॥१५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अप्य् आहार्यं दैवाद्-भगवद् इच्छावशात् यात्रा-मात्रं सपरिकर-स्वशरीर-निर्वाहो यावता भवति तावन्-मात्रम् एवाहर् अहर् उपनमति मिलति न त्वधिकम् ॥१५॥


बलदेव-विद्यभूषणः : तद् अप्य् आहार्यं दैवाद् भगवद्-इच्छा-वशाद् यात्रा-मात्रं सपरिकर-स्व-शरीर-निर्वाहो यावता भवति तावन् मात्रम् एवाहर् अहर् उपनमति मिलति न त्व् अधिकम् ॥१५॥


॥ १०.८६.१६ ॥

तथा तद्-राष्ट्र-पालोऽङ्ग बहुलाश्व इति श्रुतः ।
मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : मिथिलस्य जनकस्य वंश्यो मैथिलः ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा श्रुतदेवस् तत्-परायणस् तथा **तद्-**राष्ट्र-पालो मिथिला-प्रान्त-देशापतिः । उभौ श्रुत-देव-बहुलाश्वौ ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-**राष्ट्रस्य पालो राजापि, तथा तादृश एव, श्री-कृष्ण-भक्त्यादिना श्रुतदेव-सदृश इत्य् अर्थः । अतो **निरहम्-**ममानो राजत्वाभिमान-शून्यः । यद् वा, पाल-शब्देन प्रजा-पालनादि-स्व-धर्म-परत्वमपी सूचितम् । तथापि निरहम्-ममानोऽगर्वः

अतः सहर्षं सम्बोधयति-अङ्ग! हे राजन्न् इति । अत एवोभावपि ताव-विशेषेणाच्युतस्य सर्वैश्वर्य-परिपूर्णस्य श्री-कृष्णस्य प्रियौ । यद् वा, अच्युतः स्वचित्ततो विच्युति-रहितो भगवान् एव प्रियो ययोस् तौ, अयं तु तयोस् तथा-भूतत्वे हेतु-ज्ञेयः । अतो भक्ति-विशेष-विजृम्भित-दैन्यभरेण श्री-भगवद्-दर्शने निजायोग्यतां मन्यमानौ तद् अर्थम् अपि श्री-द्वारकां किल न प्रयाताव् इति ज्ञेयम् ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथेति । **तद्-**राष्ट्रस्य पालो राजापि तादृश एव श्री-कृष्ण-भक्त्यादिना श्रुत-देव-सदृश इत्य् अर्थः । अतो **निरहम्-**मानः राजा त्वद्-भक्तत्वाभिमान-शून्यः अत एवोभावपि अविशेषेण अच्युतस्य भक्तानुग्रहादि-गुणेभ्यश् च्युति-रहितत्वेन तन्-नान्मस् तस्य प्रियौ ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मिथलस्य जनकस्य वंश्यो मैथिलः मिथिलायाम् ईश्वर इति वा निरहम्मानः राजत्वाभिमानशून्यः ॥१६॥


बलदेव-विद्यभूषणः : मिथिलस्य जनकस्य वंश्यो मैथिलः मिथिलायां ईश्वर इति वा । निरहन् मानः राजत्वाभिमान-शून्यः ॥१६॥


॥ १०.८६.१७-१९ ॥

तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।
आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः ॥**

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।
अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः ॥**

तत्र तत्र तम् आयान्तं पौरा जानपदा नृ11प ।

उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रभुर् एव स्वयं विदेहान् देशान् प्रययौकृष्णो व्यासः । रामो भार्गवः । अहं शुकः । एवम् आदिभिः सह ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयोश् श्रुतदेव-बहुलाश्वयोः । भक्त्य् एति शेषः ॥१७॥

मुनीन्-नामतो निर्दिशति नारद इत्य्-आदि । कृष्णो व्यासः । रामो जाम-दग्न्यः । अहं शुकः । आदिना भृग्व्-आदयः ॥१८॥

तत्र तत्र पुरादौ । तं श्री-कृष्णम्। सूर्योदय-समये ग्रहाणाम् अपि किञ्चित्-प्रतीतिरस्तीति तेन प्रभु-समीपे\ऽपि ते पूज्या एवेत्य् उक्तम् ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्रसन्नः सन्, यतो भगवान् तयोर् भावाद्य् अशेषज्ञः परम-भक्त-वात्सल्यादि-गुणनिधिर् वा, रथं स्वयम् आरुह्य, मुनिभिः प्रायो द्वारकायां निवसद्भिः, किं वा, स्व-भक्तयोस् तयोः सन्तोष-विशेषार्थं श्री-भगवत्-स्मृति-मात्रेण सद्यः समागतैः सहितः, अत एव प्रकर्षेण ययौ, दारुकेण श्री-भगवद्-भावाभिज्ञेनाहृतम् इति तद् एक-भृत्यत्वं शीघ्र-गमनादिकं च सूचयति । यद् वा, व्योम-मार्ग-गामिभिर् मुनिभिः साहित्येन प्रभोर् अपि तादृश-गमनम् आशङ्क्य स्व-सेवा-सौभाग्यस्य प्रभु-शोभा-विशेषस्य च सम्पत्तये समानीतवम् । मुनिभिः सहारुह्य ॥१७॥

मुनीनेव नामभिर् निर्दिशति-नारद इति । आदि-शब्दाद्-भरद्वाज-गौतमादयः । अन्यत् तैर् व्याख्यातम् ।

तत्र चैवमादिभिः सहेति मुनिभिर् इति प्राक् तृतीयान्ततया निर्दिष्टैः सह योजनार्थं किं वा, केनचित् कल्पितम् इति ॥१८॥

तं श्री-भगवन्तमायान्तम् इति वर्तमानतया सद्योऽग्रेभिगमनादिकं बोधयति । हे नृपेति प्रहर्षात् । पाठान्तरे तत्-तद्-देशन्-ऋपतयश् च । ग्रहैः सहितम् इत्य् अभूतोपमा, सूर्योदये ग्रहाणाम् अदृश्यत्वात्, तथापि महा-तेजस्विनां मुनीनां श्री-भगवत्-सान्निध्यात्-तेजोहानिः सूचत एव ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव तयोः प्रसन्न इति युग्मकम् । मुनिभिः सहारुह्य तैर् एव सह गमनं तयोस्-तादृश-रुचित्वात् ॥१७॥

मुनीन् एव नामभिः निर्दिशति—नारद इति ॥१८॥

हे नृपेति । प्रहर्षात् तथापि महा-तेजस्विनां मुनीना भगवत्-सान्निध्यात्-तेजोहानिः सूच्यत एव ॥१९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तयोः-**प्रसन्न इति । तौ स्वेष्ट-देवश्री-विग्रह-परिचर्यानुरोधवशाद् एवागन्तुम् असमर्था वा लक्ष्यातिदि-दृक्षुभ्यां ताभ्यां स्वयम् एव दर्शनं दातुं प्रययौ । मुनिभिः सहैवारुह्य् एत्य् अन्यथा तेषां श्रमम् आलक्ष्य बलादेव मुनयः स्व-रथम् आरोहिता इति भावः । कृष्णो व्यासः रामो भार्गवः अहं शुकः ॥१७-१९॥


बलदेव-विद्यभूषणः : तयोः प्रसन्न इति । तौ स्वेष्ट-देव-श्री-विग्रह-परिचर्यानुरोध-वशाद् एवागन्तुम् असमर्थावालक्ष्यातिदि-दृक्षुभ्यां ताभ्यां स्वयम् एव दर्शनं दातुं प्रययौ मुनिभिः सहैवारुह्येतान्यथा तेषां श्रमम् आलक्ष्य बलाद् एव मुनयः स्व**-रथम्** आरोहिता इति भावः । कृष्णो व्यासो रामो भार्गवः अहं शुकः ॥१७-१९॥


॥ १०.८६.२० ॥

आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य-

पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः ।

अन्येतन्-मुख-सरोजम् उदार-हास-

स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आनर्ताद्य्-अर्णान्तास् तद्-देश-वर्तिनो नृ-नार्यःउदार-हासं स्निग्धम् ईक्षणं यस्मिंस् तत् । दृशिभिर् नेत्रैः ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : *तद्-देश-वर्ति-*नृ-नार्यः, तेष्व् आनर्ताद्य्-अर्णान्तेषु देशेषु वर्तिन्यो नृ-नार्यो नर-सहिता नार्यः तात्स्थ्यात् तच्-छब्द्यम् इति न्यायेन वानर्ताद्या विद्यन्ते यासां निवासत्वेन तास् तथा । अन्ये उक्त-देशेभ्यो\ऽन्य-देशस्थाश् च ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आनर्तादयः श्री-द्वारकातो विदेह-देश-प्रयाणे पथि क्रमेण देशाः, अन्ये च कौशलाद्य् अग्रे पथि वर्तमाना आनर्ताद्य् अन्तर्गताश् च देशाः । पपुर् इति दृशां तद्-दर्शन-रस-लाम्पट्येन मधुपत्वं ध्वनितम् । परमासक्त्या [परमया भक्त्या] ददृशुर् इत्य् अर्थः । तत्-तद्-देशैर् बोधितांस् तत्रत्यान् एव जनान् निर्दिशति—नृ-नार्य इति । हे नृप ! इति श्री-बादरायणेर् भाव-विशेषेण तद्-दर्शनामृत-पानौत्सुक्यात् । किं वा, तद् असिद्ध्यानुतापात् । अन्यत् तैर् व्याख्यातम् ।

तत्रानर्ताद्य्-अर्णान्ता देशाः, नृ-नार्यश् च तत्-तद्-देश-वर्तिन्य इति लेख्ये सङ्क्षेपार्थम् आनर्ताद्य्-अर्णान्ता इत्य् अस्यैव व्याख्या तत्-तद्-देश-वर्तिन्य इति, स्त्रीत्वं चान्ते निर्दिष्टम्, नारीणां विशेषणात्। तथा स्निग्धं चेति लेख्ये च-कार-पातो लेखक-भ्रमाद् इति । अथवा आनर्ताद्या नृ-नार्यः, अन्ये तद्-देशीयाः पश्व्-आदयो\ऽपि । उदार-हासंतत्-स्निग्धेक्षणं चेति तथा तत् ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनर्तादि-देशीयाः अन्ये अन्य-देशीयाश् च जनाः पपुः परमासक्त्या ददृशुर् इत्य् अर्थः । ते के ? तत्राह—नृ-नार्य इति, सर्व एव इत्य् अर्थः । आनर्तादयः श्री-द्वारकातो विदेह-प्रयाणे क्रमेण देशाः केचित् पार्श्वस्थाश् च अत्युत्कण्ठया दूरतो\ऽपि मिलनात्, केषाञ्चिच् च कृपार्थम् एव क्रमेण यथा भ्रमणात्, तद्-आनन्दनार्थम् एव हि अगाच् छनकैर् विदेहान् [१०.८६.२१] इति वक्ष्यते । अत्रापि मधु-देश-स्थानां श्री-व्रज-वासिनां मिलनावर्णनं पूर्ववत् तेषाम् अप्रकट-लीला-प्रवेशेनेति ज्ञेयम् ॥२०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आनर्तादि-देशीयाः मार्ग-सन्निकृष्टा एव, अन्ये मार्ग-विप्रकृष्टा अपि जनास् तत्र तत्रागत्य दृशिभिर् नेत्रैर् मुख-सरोजं पपुस् तन्-माधुर्यम् आस्वादयामासुः ॥२०॥


॥ १०.८६.२१ ॥

ते12भ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः

क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशंयच्छन् ।

शृण्वन् दिग्-अन्त-धवलं स्व-यशोऽशुभ-घ्नं

गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-वीक्षणेनैव विनष्ट-तमिस्रा दृग् येषां तेभ्यः । क्षेमम् अभयम् अर्थ-दृशं तत्त्व-ज्ञानं च ॥२१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विनष्ट-तमिस्रा निरस्ताज्ञाना दृग्-बुद्धिर् येषां तेभ्यः । अभयं सांसारिक-भयाभावं तद्-धेतु-भूतं तत्त्वज्ञानम् अपरोक्ष-ज्ञानं च । तेभ्य आनर्तादि-वासिभ्यः । **दिग्-**अन्तान् धवलयति शोधयतीति तथा । सर्वत्र व्याप्तम् । अशुभ-घ्नं महा-पातक-नाशकम्। विदेहान् मिथिला-देशान् ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेभ्य इति । पुमान् स्त्रिया इत्य् एक-शेषत्वात् नृभ्यो नारीभ्यश् च इत्य् अर्थः । तमिस्रं नेत्र-रोग-विशेषः । किं वा, श्री-कृष्ण-दर्शनेन वैयर्थ्यादान्ध्यम्, क्षेमं संसार-भयाभावं तद् अर्थम् एवार्थ**-दृशं** यच्छन् वीक्षण-मात्रेणैव, यतस् त्रिलोकस्य गुरुवरत्वेन वैधाख्यो [वेधाख्यो] । दीक्षा-विशेषः सूचितः । **दिग्-**अन्ताः सर्वदिशो धवला निर्मला यस्मात्तत्, यतो\ऽशुभ-घ्नं सर्वामङ्गल-नाशकम्, अत एवाकाशे सुरैः, भूमौ च नृभिर् गीतं सदा गीयमानम् इत्य् अर्थः । शनकैर् इति तत्-तद्-दानादिना **लोक-**प्रीत्य् अर्थम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, स्व-वीक्षणेनैव विशेषतो नष्टं तमिस्रं मोह-लक्षणम् आवरण-रूपं वा तमो यस्याः सा दृक् ज्ञानं येषां तेभ्यःक्षेमं लोक-द्वय-मङ्गलं तद् अर्थम् अर्थ-दृशं परम-पुरुषार्थ-भक्ति-ज्ञानम् । अन्यत् समानम् ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु कथं परब्रह्म-विग्रहं श्री-भगवन्तम् अज्ञानमयैश् चक्षुर्भिर् अपश्यन् कथं वायु-वेग-रथं तम् अन्ववर्तन्त तत्राह—तेभ्य इति । स्व-वीक्षणं स्व-विषयक-कृपा-दृष्टिः पुमान् स्त्रिया इत्य् एक-शेषत्वात् नृभ्यः नारीभ्यश् च इत्य् अर्थः । तमिस्रम् अज्ञानं क्षेमं पुनस् तद्-आपात-शङ्का-निरासम् अर्थ-दृशं तत्-स्वरूप-भूत-परमार्थ-प्रकाशक-चिच्-छक्तिं सा चात्र भक्ति-रूपा ज्ञेया भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इत्य्-आदिभ्यः ततश् चक्षुरुदितया तयैवापश्यन् इत्य् अर्थः । अत एवाह—त्रि-लोक-गुरुर् इति । वैध-दीक्षयैवेति भावः । दिग्-अन्तान् दिशस् तत्रत्यान् धवलयति निर्मलयतीति तथा तत् सुरैर् आकाश-गामिभिः नृभिश् च क्रमशो मिलितैः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु कथं पर-ब्रह्म-विग्रहं भगवन्तम् अज्ञान-मयैश् चक्षुभिर् अपश्यन् ? कथं वा वायु-वेग-रथं तम् अनुवर्तन्ते ? तत्राह—तेभ्य इति । स्व-वीक्षणं स्व-कर्तृका कृपादृष्टिः पुमान् स्त्रिया [१.२.६७] इत्य् एक-शेषत्वान्-नृभ्यो नारीभ्यश् च इत्य् अर्थः । **तमिस्र-**मज्ञानं क्षेमं पुनस् तद् आपात-शङ्का-निरासम् अर्थ-दृशं तत्-स्वरूप-भूत-परमार्थ-प्रकाश-चिच्छक्तिं सा चात्र भक्ति-रूपा ज्ञेया भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इत्य्-आदिभ्यः ततश् च तया चक्षुर् उदितयैवापश्यन्न् इत्य् अर्थः । एत एवाह—त्रि-लोक-गुरुर् इति । वैध-दीक्षयैवेति भावः । दिगन्तान् दिशस् तत्रत्यान् धवलयति निर्मलयतीति तथा तत् ॥२१-३०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु परब्रह्म-विग्रहस्य तस्य माधुर्यास्वादनं कथम्? तेषां प्रति स्व-नेत्रैस् तत्राह—तेभ्यः पुमान् स्त्रिया इत्य् एक-शेषात् नृभ्यो नारीभ्यश् च इत्य् अर्थः । स्व**-**वीक्षणं स्व-कृपावलोकस् तेन विनष्टं तमिस्रम् अज्ञानं यासु तथा-भूता दृशो नेत्राणि येषां तेभ्यः अर्थ-दृशं परमार्थवस्त्व् अनुभवं क्षेमं स्व-भक्ति-योगं च स्व-माधुर्य-विशेष-ग्राहकं यच्छन् भक्त्य् आहम् एकया ग्राह्यः इति तद् उक्तेः ॥२१॥


॥ १०.८६.२२ ॥

तेऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप ।
अभीयुर् मुदितास् त**13स्मै गृहीतार्हण-पाणयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अभीयुः प्रत्युज्जग्मुः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते मैथिलाः । तस्मै तं पूजयितुम् ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतं सर्व-रूप-गुणादि [सर्व-स्वरूप-गुणादि] । परिपूर्णं भगवन्तम् आकर्ण्यैव मुदिता जानपदाश् च जनास् तस्मै तद् अर्थं गृहीतम् अर्हणम् आदि-पूजोपकरणं यैस्ते पाणयो येषां ते । हे नृपेती पौरादिनाम् ईदृश-भाग्योदयेन प्रहर्षात् ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अच्युतं सर्व-रूप-गुणादि-सम्पूर्णं भगवन्तम् आकर्ण्यैर् व मुदिताः जानपदाश् च जनः तस्मै तद् अर्थं गृहीतम् अर्घ्यादि-पूजोपकरणं यैस्ते पाणयो येषां ते ॥२२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अभीयुः प्रत्युज्जग्मुः ॥२२॥


॥ १०.८६.२३ ॥

दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुल्लाननाशयाः ।
कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीत्योत्फुल्लान्य् आननान्य् आशया अन्तः-करणणि च येषां ते । कैः14 शिरोभिः ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते उक्तार्थाः । यथा तं तथा मुनीन् पूर्वं श्रुताः श्रुत-पूर्वास् तान्-नेमुः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्तम-श्लोकम् इति-यस्य दूरतः सद्यशः श्रवणेन चिरं दिदृक्षा आसीत्, किं वा, तेनापि कृतर्थता स्यात्तं साक्षाद्-दृष्ट्वेत्य् अर्थः । कैर् इति श्री-मुख-दर्शनार्थं तथा तेनैव प्रकारेण मुनींश् च यतः श्रुत-पूर्वान् । इति तेषां माहात्म्यादि-ज्ञानम्, तेन दर्शने चौत्सुक्यं सूचितम् ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत्तम-श्लोकम् इति । यस्य दूरतः सद्-यशः-श्रवणेन चिरं दिदृक्षा आसीत् किं वा, तेनापि कृतार्थता स्यात् तं साक्षाद्-दृष्ट्व इत्य् अर्थः । कैर् इति । श्री-मुख-दर्शनार्थं तथा तेनैव प्रकारेण मुनींश् च यतः **श्रुत-**पूर्वान् इति तेषां माहात्म्य-ज्ञानं तेन दर्शने चौत्सुक्यं सूचितम् ॥२३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कैः शिरोभिः धृता अञ्जलयो येषु तैः ॥२३-२४॥


॥ १०.८६.२४ ॥

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् ।
मैथिलः श्रुतदेवश्** च पादयोः पेततुः प्रभोः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं श्री-कृष्णम् । किम्-भूतम्-जगद्भिः सर्व-लोकैर् गम्यते स्व-स्वाभिलषितावाप्तये प्राप्यते इति जगद्गु औणादिको\ऽत्र-डुः ब्राह्मण-कुलं तद्राति स्वीकरोति स्वीयत्वेनेति **जगद्-**गुरुर् अत्रापि रातेर्ढुः ब्राह्मण-कुल-सहितम् इत्य् अर्थः ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जगतो गुरुं श्री-ब्रह्मादि-परम-पूज्यम् अपि स्वयोर् अनुग्रहायैव सम्यक् स्व-प्रिय-मुनि-गण-साहित्य्-आदिना । प्राप्तम् आगतं मन्यमानौ अतो भक्त्य् उद्रेकेण प्रभोर् जिजेश्वरस्य सर्वाभीष्ट-प्रदान-समर्थस्य वा, पादयोः पेततुः, द्विज-श्रेष्ठस्यापि श्रुत-देवस्य पश्चान्-निर्देशो विनय-लज्जादि-विशेषेण राज्ञः पश्चाद्-वर्तित्वात् । एवम् अग्रे\ऽपि ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जगतो गुरुं श्री-ब्रह्मादीनाम् अपि परम-पूज्यं स्वयोर् अनुग्रहायैव सम्यक् स्वाभीष्ट-मुनि-गण-साहित्य्-आदिना प्राप्तम् आगतं मन्यमानौ अतो भक्त्य् उद्रेकेण प्रभोर् निजेश्वरस्य सर्वाभीष्ट-प्रदान-समर्थस्य वा पादयोः पेततुः द्विज-श्रेष्ठस्यापि श्रुत-देवस्य पश्चान्-निर्देश आदर-योग्यतया सङ्कोचेन पश्चाद्वर्तित्वात् ॥२४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.२५ ॥

न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः ।
मैथिलः श्रुतदेवश्** च युगपत् संहताञ्जली ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आतिथ्येनातिथि-योग्येन कर्मणा न्यमन्त्रयेतां भोजनार्थं प्रार्थयताम् । संहतः कृतो\ऽञ्जलिः प्रसृत-करद्वय-संयोगो याभ्यां तौ

॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दाशार्हम् अशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीर्णं भगवन्तम्, द्विजैर् मुनिभिः सहितं युगपत् न्यमन्त्रयेताम्, संहताञ्जली बद्धाञ्जली सन्तौ ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्विजैर् मुनिभिः सह सहितम् ॥२५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न्यमन्त्रयेताम् इत्य् आर्षम् ॥२५॥


॥ १०.८६.२६-२७ ॥

भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया ।
उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः ॥**

शान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् ।
आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् अभिप्रेत्याङ्गी-कृत्य तत् तदोभाभ्याम् अपि ताभ्यां मद्-गृहाद् अन्यस्य गेहाम् यातीत्य् अलक्षितोऽविदितः । यद् वा, उभाभ्यां रूपाभ्यां तद् अलक्षितस् ताभ्याम् अलक्षित इति ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्-निमन्त्रणम् । ताभ्यां श्रुत-देव-बहुलाश्वाभ्याम् । तत्-पदस्य तदार्थत्वे क्लिष्ट-कल्पनाम् अपेक्ष्याह—यद्वेति ॥२६॥

जनकः ईश्वरान्-पूजयाञ्चक्रे इति तृतीयेनान्वयः । श्रोतुम् अपि दूरान् कर्णाविषयान् । असतां तच्-छ्रवणम् अपि दुर्लभम् इति भावः ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनार्थं परः श्री-कृष्णः, आ सम्यक् मुनिसाहित्य्-आदिनाविशत् प्रविवेश ॥२६॥

ततः श्री-श्रुत-देवस्य भगवद् आदेशादि-विशेषं वक्ष्यन्नादौ सूचीकटहन्यायेन राज्ञो वृत्तम् आह—श्रोतुम् इत्य्-आदिभिर् नवभिः जनक इति । जनक-वंश्यत्वेन सर्वज्ञान-सम्पत्तिः सूचिता, अतो **महा-**मना गभीराशयः, अत एव प्रवृद्धया भक्त्या ईश्वरान् । पूजयाञ्चक्र इति त्रिभिर् अन्वयः । उद्धरयेति रषकारयोः पृथक्-पाठश् छन्दो\ऽनुरोधात् । पाठान्तरे त्व् अविवक्षितत्वाद् असन्धिः । उद्धर्षहृदय इति पृथक्-पदं चित्-सुख-सम्मतम् ॥२७-२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आ सम्यक् मुनि-साहित्य्-आदिनाविशत् प्रविवेश अतो\ऽत्र निज-द्वैधीभावे मुनीनाम् अपि स्वातन्त्र्यं नासीद् इति भावः ॥२६॥

तत्-क्रमेणैवादौ राज्ञो वृत्तम् आह—तत्र श्रोतुम् इति सार्ध-द्वयकम् । महा-मनाः श्री-कृष्ण-निष्ठत्वेन महत् सर्वोत्कृष्टं मनो यस्य सः अत एव प्रवृद्धया भक्त्या प्रवृद्ध-भक्त्या उद्धर्ष इत्य् असंहितात्वाद् असन्धिः । वहन् धारयन् । गन्धेति-सार्धकम् । गोवृषा बलीवर्दाः गन्धादीनाम् आर्थिक एव क्रमो ज्ञेयः ॥२७-२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् अभिप्रेत्य मद्-गृहम् एवायात्व् इति द्वयोर् एव वाञ्छितं ज्ञात्वा उभयोर् आविशद् इति स्वस्य मुनीनां च प्रकाश-द्वयी-करणात् । तत् तदा उभाभ्यां अलक्षित इति ममैव निमन्त्रणम् अङ्गीकृत्य मद्-गृहम् एव कृपालुः प्रभुर् आयाति । श्रुतदेवस् तु प्रभु-रहित एवायम् एकाकी स्व-गृहं यातीति राजा यथा विचारयति स्म तथा श्रुतदेवोऽप्य् अतस् तयोर् अपि द्वौ द्वौ प्रकाशाव् इवाभूताम् । एकः कृष्ण-संयुक्तो हृष्टः, अन्यः कृष्ण-वियुक्तो विषण्ण इति । कृष्ण-संयुक्त-राज प्रतिवेशि-जनैः श्रुतदेवः कृष्ण-वियुक्तो, विषण्णो दृश्यते स्म तथैव कृष्ण-संयुक्त-श्रुतदेव-प्रतिवेशि-जनैः राजापि कृष्ण-वियुक्तो विषण्ण इति ॥२६-२७॥


॥ १०.८६.२८ ॥

प्रवृद्ध-भक्त्या उद्धर्ष-हृदयास्राविलेक्षणः ।
नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्धर्षम् उद्गत-हर्षं हृदयं यस्य, अस्रैर् आविले क्लिन्ने ईक्षणे यस्य सः, स च स च ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् अङ्घ्रीन् कृष्ण-सहितम् उनिचरणान् । तद् अपस् तच्-चरण-जलानि ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्राविलेक्षणः अश्रुक्लिन्न-नयनः ॥२८॥


॥ १०.८६.२९ ॥

स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् ।
गन्ध-माल्याम्बराकल्प-धूप-दीपार्घ्य-गो-वृ**15षैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ईश्वरान् । ईश्वरं तत् तुल्यांश् चेत्य् अर्थः ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईश्वरश् चेश्वराश् चेत्य् एक-शेषः । इत्यर्थ इति-ईश्वरवज्जगत्सु पूज्यत्वेनेश्वरतुल्यानिति भावः । यद् वा,-ईश्वरो विद्यते येषु त ईश्वरा इति मत्त्वर्थीयो\ऽच् । ईश्वरसहितान् इत्य् अर्थः । गो-वृषैर् इति मधुपर्काङ्गत्वेनोक्तम् मा गामनागामदितिं वधिष्ट इति श्रुत्या दर्शनमात्रं विहितं वधस्य निषिद्धत्वादित्युक्तं पुरस्तात् । गोषु वाक्षु वृषैः श्रेष्ठैः श्रुतिवाक्यैर् इति वा ॥२९॥

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वहन् धारयन्, **गो-**वृषा बलीवर्दाः, किं वा, गावो वृषाश् च तैः, गन्धादीनां क्रम-सद्-भावे\ऽप्य् अर्घ्यस्य पश्चाद् उक्तिः प्राग् अतिसम्भ्रमेण विस्मृतस्य तस्य पश्चाद् अर्पणात्, किं वा, भोजन-मङ्गलार्थदी-पानन्तरम् अपि तस्यापेक्ष्यत्वात्, **गो-**वृषाश् च प्राक् पश्चाद्-वातिथ्येन देया एवेति दिक् ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईश्वरः कृष्णश् च ईश्वरतुल्या मुनयश् च तान् ईश्वरान् ॥२९-३०॥


॥ १०.८६.३० ॥

वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् ।
पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रीणन् प्रीणयन् । संस्पृशन् संमर्दयन् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मधुरया लौकिक-श्लाघायुक्तया । इदं वक्ष्यमाणम् ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्नेन तर्पितान् सन्तोषितान् सतः सर्वानेव धन्यो\ऽस्मि कृत-कृत्यो\ऽस्मि इत्य्-आदिना वा प्रीणयन् । इदं वक्ष्यमाणम् आह—भगवन्तम्, अग्रे भवानित्य्-आधुक्तेः । यद् वा, सर्वानेवाह । ततश् च भवान् इत्य्-आदि तं प्रत्युक्त्यैव तान् सर्वान् प्रत्यपि सङ्गच्छेत् । तस्यैव सर्व-प्राधान्यात् । विष्णोस् त्रिविक्रम-रूपेण पद्भ्यां विश्व-व्यापकस्यापि भगवतः कृपया अङ्कं स्वक्रोडं गतौ, किं वा, भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनेन विश्व-व्यापकस्य, अतः स्वयम् अङ्कगतौ सन्तौ, अतो मुदा सम्यक् चातुर्य-विशेषेण स्पृशन् । शनकैर् इति सुकोमलत्वात् । अत एव संस्पृशन्न् इति संस्पर्शन-मात्रम् उक्तम् ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्नेन तर्पितान् सन्तोषितान् सतः सर्वान् एव धन्यो\ऽस्मि कृत-कृत्यो\ऽस्मीत्य्-आदि**-वाचा** प्रीणयन् इदं वक्ष्यमाणम् आह । श्री-भगवन्तम् अग्रे भवानित्य्-आद्य् उक्तेः । विष्णोः विश्व-व्यापकस्यापि भगवतः कृपया अङ्कं स्वक्रोडं गतौ तत्रापि पर्याप्ताव् इत्य् अर्थः । अतो मुदा सम्यक् चतुर्य-विशेषेण स्पृशन् शनकैर् इति सुकोमलत्वात् अत एव संस्-पृशन्न् इति संस्पर्शन-मात्रम् उक्तम् ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथ अथापि दर्शनं गतः ॥३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.३१ ॥

श्री-बहुलाश्व उवाच—

भवान् हि सर्व-भू16तानाम् आत्मा साक्षी स्व-दृग् विभो ।

अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मा चेतयिता । साक्षी प्रकाशकः । स्व-दृक् स्व-प्रकाशः । स्व-दृक् स्व-प्रकाशः । अथातः कारणात् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तो भवान् स्वेषु प्रकाशते इति स्व-प्रकाशः अतः कारणाद् इत्य् अर्थः ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अयोग्यस्याप्यात्मनो गृहे स्वयम् एव श्री-भगवतः साक्षात् समागमेन निरुपाधि-कृपा वर्णयंस् तं स्तौति-भवान् इति । हि यतः सर्वेषां ब्रह्मादीनां तृणान्तानां जीवानां साक्षी सर्वेन्द्रिय-प्रकाशकः । आत्मत्वादौ हेतुः—हे विभो! हे **सर्व-**व्यापकेति परमेश्वरेति वा । अथ अस्माद् एव जीवानां त्वद्-दर्शने शक्त्य् अभावात् कृपया स्वयम् एव नो\ऽस्माकं दर्शनं गतः, दृष्टो\ऽभूः । बहुत्वं निज-परिवाराद्य् अपेक्षा,

किं वा, तद्-दर्शनेनात्मनो बहु-भानत्वात्, एवम् अग्रे\ऽपि ।

ननु तर्ह्य् अन्येषाम् अपि सर्वेषां दृश्यो न किं भवेयम्? तत्राह—त्वद् इति । भक्त्य-भावाद् इति भावः । इति दर्शनस्य स्मरण-हेतुकत्वे\ऽपि स्वदृक्त्वं सङ्गच्छेतैव, तत्-कारुण्येनैव तस्य दृश्यत्वात्, तथा स्मरणस्यापि कृपया तेनैव

प्रवर्तितत्वाच् च । एवं निरूप्याधि-कृपत्वं सिद्धम् एव, अथवा अथास्माद् आत्मत्वात् साक्षित्वाच् च हेतोः स्मरताम्, अत एव दर्शनं गतः । अस्माभिस् त्वं दृष्टः, तथाप्य् अस्माकं स्मरण-शक्त्या त्वद्**-दर्शनं** न सिध्येत्, किन्तु केवलं त्वत्-कृपालुत्वाद् एवेत्य् आह । यतः स्वदृक् आत्मानं स्वम् एव दर्शयतीत्य् अर्थः । यद् वा, स्वेषु भक्तेषु दृक् कृपा-दृष्टिर् यस्य सः । सहज-निज-भक्त-वात्सल्य-गुणस्य, न त्व् अस्माकं गुणस्यापेक्षयेति भावः । तच् च युक्तम् एवेत्य् आह—विभो! हे **सर्व-**सद्गुण-परिपूर्णेति ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अयोग्यस्यात्मनो गृहे स्वयम् एव भगवतः साक्षात्-समागमनेन निरुपाधि-कृपां वर्णयंस् स्तौति—भवान् इति । हि यतः स्वयं-प्रकाशो अन्यापेक्ष्य-प्रसादो\ऽपि स्वभावत एव विभिन्नांश-रूप-जीवानां चेतयिता चित्-स्वरूपाश्रयः यथा सूर्यमण्डलो निजांशूनां ज्योती-रूपताश्रयः ततस् तद् उपाधीनाम् अपि चेतनवत्-कर्ता त्वम् एव इत्य् अर्थः । अत एव लौकिकः साक्षी यथा स्वयम् अनासक्तो\ऽन्येभ्यो विषयं प्रकाशयति तथा जीवेभ्यस् त्वम् अपि । अथ अस्माद् एव जीवानां त्वद्-दर्शन-शक्यत्वात् तव कृपालु-स्वभावत्वाच् च हेतोर् नो\ऽस्मत्-कर्तृकं दृशनं गतः स्वयम् एव कृपया स्व-प्रकाशता-शक्ति-प्रकाशनेनेति भावः । कीदृशाम् अपि स्मरताम् अपि यथा-कथञ्चित्-स्मरण-मात्रं कुर्वताम् अपि न तु तत्र प्रेम-संयुक्तानन्दार्थं वा प्रयासं कुर्वताम् इत्य् अर्थः । अम्भोज-रूपेणाज्ञातमहिमत्वेनापि प्राप्त-सङ्गस्य तस्य ताप-हारित्वं स्वाभाविकम् एवेति व्यञ्जितम् । जीवानाम् इति भूतानाम् इति वा पाठः ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मा चेतयिता अतो जडं मां चेत-नीकृत्य कृपया स्व-भक्तौ प्रवर्तयसीति भावः । साक्षी भद्राभद्र-कर्म-द्रष्टा अतो मद् अनुष्ठितां स्व-भक्ति स्वयम् एव नित्यं पश्यसीति भावः । स्व-दृग् इति त्वयि न कापि विज्ञापनापेक्षेति भावः । अथ अत एव स्मरताम् इति यदि प्रभुर् एव स्वयम् एवागत्य दर्शनं ददाति तदैव दर्शन-प्राप्तिर् अस्माकम् अन्यथा तु स्व-गृहे तदीय-श्री-विग्रह-प्रात्य् अहिक-परिचर्यां क्षण-मात्रम् अपि त्यक्त्वा क्वापि गन्तुम् अशक्नुवताम् अस्माकं न तद्-भाग्य-सम्भव इति सततं चिन्तयताम् इत्य् अर्थः ॥३१॥


॥ १०.८६.३२ ॥

स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् ।
यद्** आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्तो बन्धुर् अपि, श्रीर् भार्यापि, अजः पुत्रोऽपि ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अनन्तो बलदेवः । तत् स्व-वचः तत् किं यद् इत्य् आत्थ एकस्मिन्न् अन्तो\ऽध्यवसायो यस्याः सा एकान्ता, सा चासौ भक्तिर् एकान्त-भक्तिर् अभेदोपासना, तद्वान् एकान्त-भक्तो ज्ञानीत्य् अर्थः । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१७] इत्य् उक्तेः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एवोक्त-पोष-ण्यायेन विशदयति—स्व- इति । एकस्मिन् भगवत्य् एव अन्तो निष्ठा यस्य भक्तस्य, तस्मात् । मे मम न प्रिय इति यद् आत्थ वदसि, तद् अनन्तः श्री-बलदेवः शेषो वा, स्वस्य च बन्धुत्वं श्री-लक्ष्मणादि-रूपेण सहावतीर्णत्वात्, परम-पार्षदत्वाद् वा । बन्धुत्वादिना न प्रियः, वस्तुतो भक्ति-विशेषाद् एव ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथवा स्व-वच इति अयम् अर्थः । एकान्त-भक्तान् मे मम अनन्तो भ्रातृत्वेनापि श्रीर् जायात्वेनापि अजः पुत्रत्वेनापि न प्रियः, किन्तु ते\ऽप्य् एकान्त-भक्तत्वेनैव मम प्रेष्ठा इत्य् अर्थः । तद् एतद्-यद् आत्थ तत्-स्ववचः ऋतं सत्यं कर्तुं दर्शयितुं भवान् अस्मद्-दृग्-गोचरो \ऽभूत् तद् अनुगामितांशेनैवास्मान् प्रत्य् अपि कृपां कृतवान् इत्य् अर्थः । यद् वा, यतस् ते सङ्गे समानीता न सन्ति किन्त्व् एत एवानीता इति भावः । अत्र शान्त-रस-मय-भक्तत्वाद् अस्य युक्तम् एवैतत् यत एव तथैव श्री-भगवद्-आविर्भाव इति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : स्व-वचः । अत एव तुभ्यं नम इति तस्माद् आस्तां तव साक्षाद्-रूपेण सा वार्ता ॥३२-३४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अनन्तो भ्रातापी, श्रीर् भार्यापि, अजः पुत्रो\ऽपि द्वारकातो\ऽतिदूरे\ऽत्रान्य-प्रयोजनासद्-भावे\ऽपि यद् आगत्य स्व-दर्शन-मदाः । अतो मम स्वस्य त्वद्-एकान्त-भक्तत्वे यः संशयः आसीत्, स सञ्च्छिन्न इति भावः । यद् वा, यस्माद् एवं तस्माद् अस्मान् अपि **दृग्-**गोचरी-भूय एकान्त-भक्तान् कर्तुम् इच्छसीति भावः । एवं विदेदेतत्-प्रकारक-ज्ञानवान् ॥३२-३३॥


॥ १०.८६.३३ ॥

को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् ।
निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


**वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-**वित् उक्तार्थज्ञः । एकान्त-भक्तेभ्यः किं ददातीति चेदाह—आत्मदः स्वरूप-साक्षात्कार-प्रदः ॥३३-३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो त्वत्-कृपया भक्त्यैव त्वद्-दर्शनं लभ्येतेति किं वक्तव्यम्? मुमुक्षवो\ऽपि त्वत्-कृपयैव मोक्षं लभन्त इत्य् आह—क इति । नु वितर्के, पुमांश्चेत्, एवम् इत्य् अस्यैवार्थम् आह—निष्किञ्चनानां निरहङ्काराणाम्, अतः शान्तानां रोगादि-रहितानाम्, यतो मुनीनां ज्ञान-पराणाम् इत्य् अर्थः । आत्मदः, आत्म-तत्त्व-प्रकाशनेन मोक्षदात इत्य् अर्थः । अथवा एवं भक्तैक-प्रियत्वम् अस्तीति तथा सः । भक्त-प्रीयत्वम् एव प्रदर्शयति-निष्किञ्चनानां त्व् अदर्थं त्यक्ताशेष-परिग्रहणम्, यतः शान्तानां त्वद् एक-निष्ठचित्तानाम् । तत्रैव हेतुः—मुनीनां शास्त्रार्थ-तत्त्वाभ्यासवताम्, आत्मदो वश्यो भवसीत्य् अर्थः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एकान्त-भक्तानुगामित्वम् अपि भवतां दुर्लभं ततस् तत्-प्रशस्त्या भवतां किं सत्यं तथापि तव तादृश-गुण एव मादृशम् आसं जयतीत्य् आह—क इति युग्मकेन । एवं वक्ष्यमाण-प्रकारं कं गुणं वेत्ति यः स को विसृजेत् मुक्ताव् अमुक्ताव् अपि त्यजेत् तत्रैकान्त-भक्त-विषयं कृपा-गुणम् अनुवदन्नत्यागे हेतुम् आह—निष्किञ्चनानां त्वद् अर्थं त्यक्ताशेष-परिग्रहाणां यतः शान्तानां त्वद् एक-निष्ठ-भक्तानां तत्रैव हेतुः—मुनीनां शास्त्र-तत्त्वाभ्यासवताम् आत्मदः वश्यो भवतीत्य् अर्थः । अहो यत्-सम्बन्धेनैव सम्प्रति प्रकटी-भूय सर्वत्रैव कृपा-गुणा-निरर्गलम् एव विस्तारयन्न् असीति तत्राप्य् अतिशयम् आह—य इति । य एकान्त-भक्त-कृपालुर् भवान् इह जगति विशेषेण पूर्वतो\ऽप्य् आधिक्येन तेने विस्तारयामास ॥३३-३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.३४ ॥

योऽवतीर्य यदोर् वंशे नृणां संसरताम् इह ।
यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : तच् छान्त्यै संसारोपशमाय ॥३४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना चाशेषैश्वर्य-प्रकटनेन सर्व एव समुद्धृता इत्य् आह—य इति । तस्मै तुभ्यम् इति परेण पूर्वेणैवान्वयः । इह भूतले, विशेषेण पूर्वतो\ऽप्य् आधिक्येन तेने विस्तारयामास, अस्मिन् प्रपञ्चे संसरताम् इति वा । एवं संसारस्यानिवृत्तिर् उक्ता । तच् छान्त्यै इत्य् अत्र हेतुः—त्रैलोक्यस्य त्रिलोकी-स्थिताशेष-जीवानां वृजिनं संसार-दुःखम्, अप दूरतो हन्तीति तथा तत् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, तस्यै अनिर्वचनीययै शान्त्यै प्रेम-सुखाय, किं वा, भक्ति-रसेन त्वद् एक-निष्ठ-चित्तायै । संसार-दुःख-ध्वंसश् चावान्तर-फलन्यायेन स्वत एव सिध्यतीत्य् आह—त्रै-लोक्येति । द्वितीय-पक्षोक्त-भक्ति-सिद्धान्ते चेदं सङ्गतम् एव ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तच् छान्त्यै संसारोपशमाय ॥३४॥


॥ १०.८६.३५ ॥

नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे17

नारायणाय ऋषये सु-शान्तं18 तप ईयुषे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किञ्चिद् अग्रे प्रार्थयितुं प्राक् प्रणमति—नम इति । अकुण्ठ-मेधसे\ऽपरिच्छिन्न-ज्ञानायेति किम् अन्यैर्-ज्ञाप्यस् त्वम् इति भावः । किं च, सर्व-लोक-हितार्थम् अद्यापि बदरिकाश्रमे निज-रूपेणैकेन तपस् तप्यमानायेत्य् आह—नारायणायेति। ऋषये जटा-मण्डल-धारणादिना तपस्वि-वेषाय, शान्ताय कामाद्य् अनुपहत-चित्ताय ब्रह्म-चर्य-निष्ठत्वात्, तच्-चैकादश-स्कन्धे सुव्यक्तम्, अतो\ऽस्माकम् अपि हितं कर्तुम् अर्हसीति भावः । यद् वा, किं च, , नारायणाय सर्व-जीवाश्रयाय यत ऋषये वेद-द्रष्ट्रे अत एव शान्ताय निर्विकाराय सुखघनाय वा, तथापि लोक-शिक्षार्थं तपः क्षात्र-गृहि-धर्मम् ईयुषे आचरत इत्य् अर्थः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ किञ्चिद् अग्रे प्रार्थयितुं प्राक् प्रणमति—नम इति । अकुण्ठ**-मेधसे** अपरिच्छिन्न-ज्ञानायेति । किम् अन्यैर् ज्ञाप्यस् त्वम् इति भावः । किं च, सर्व-लोक-हितर्थम् अद्यापि बदरिकाश्रमे निज-रूपेणैकेन तपो-लीलाम् अपि कर्त्र इत्य् आह—नारायणायेति । अतो\ऽस्माकम् अपि हितं कर्तुम् अर्हस्येव् एति भावः । यद् वा, किं च, नारायणाय सर्व-जीवाद्य् आश्रयाय यतः ऋषये वेद-द्रष्ट्रे अत एव शान्ताय निर्विकाराय सुख-घनाय वा तथापि लोक-शिक्षार्थं तपः-क्षात्र-गृहि-धर्मम् ईयुषे आचारत इत्य् अर्थः । सुशान्त-तप इति पाठे लोक-हितकारि-तप इत्य् अर्थः ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अंश-रूपेणाप्य् आह—नारायणायेति ॥३५-४३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-गृहे कतिचिद्-दिनानि वासयितुं स्तौति-अकुण्ठा मेधा यत इति तवात्र निवासेनास्माकम् अपि बुद्धिर् अकुण्ठा विषय-शरैर्भेत्तुम् अशक्या भवत्व् इति भावः । ऋषये नारायणायेति यथा बदरिकाश्रमे भारत-भूमि-भाग्येन वर्तसे तथैवात्र मिथिला-भू-भाग्यं प्रकटयन् कियन्ति दिनानि वर्तस्वेति भावः । सुशान्त**-तप-ईयुषे** इति द्वारका-समुचित-भोग्य-वस्तु-वर्जिते\ऽत्र मम गृहे वसतस् तव तपश् चरणम् एव भविष्यतीति भावः ॥३५॥


॥ १०.८६.३६ ॥

दिनानि कतिचिद् भूमन् गृहान् नो निवस19 द्विजैः ।

समेतः पाद-रजसा पुनीहीदं निमेः कुलम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : गृहान् । गृहेष्व् इत्य् अर्थः ॥३६-३७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : य इत्यर्थ इति-सप्तम्यर्थे द्वितीया छान्दसीति भावः ॥३६-३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्तुत्वा स-दैन्यं प्रार्थयते-दिनानीति । कतिचिद् इति विनयादिनास्वल्पानीति साक्षाद् अवध्य् अनुक्त्या अनन्तानीति भावः । ननु यादवादीनाम् अपेक्षयान्य् अत्रापि न वासो\ऽपेक्षणे, तत्राह—भूमन्! हे सर्व-व्यापकेति स्वक्त्यात्राप्य् अन्यत्रापि स्वयं स्थातुं प्रभवसीति भावः । इदं परोक्ष-ज्ञान-परम् । पुनीहि अद्वैतादि-दुर्वासनातः शोधय । यद् वा, नृणां लोचनेषु निमिनि-वास-जात-निमेषेण श्री-गोप्य्-आदीनां त्वद्-दर्शनानन्द-विघाताज्-जातापराधं तत्**-कुलम्**, तस्मात् पुनीहीत्य् अर्थः ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं स्तुत्वा सदैन्यं प्रार्थयते—दिनानीति । कतिचिद् इति विनयोक्तिः । हे भूमन्न् इति यद्यपि सर्व-परिपूर्णस् त्वं तथापि कृपयैवेति भावः । तथैवाह—गृहान् इति । निवसेत्य् अत्र निवसन्न् इति क्वचित्-पाठः । निमेस् त्वद्-भक्तस्य ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समेतः सहितः ॥३६-३७॥


॥ १०.८६.३७ ॥

इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः ।
उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इति एकम्, उप दाक्षिण्येनामन्त्रितः प्रार्थितः सन्न्-उवास, यतो लोक-भावनः सर्व-जीव-परिपालकः, तत्रापि भगवान् भक्त-वात्सल्याद्य् अशेष-गुण-प्रकटनपर इत्य् अर्थः । अतो मिथिलाया नराणां पुंसां योषितां च प्रायो\ऽज्ञान-पराणां मोक्षादि-प्रयासत्याजनेन कल्याणं विशुद्ध-भक्ति-लक्षण-मङ्गलं सुख-विशेषं वा कुर्वन् सन् ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उप आधिक्येन आमन्त्रितः प्रार्थितः सन् ॥३७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.३८ ॥

श्रुतदेवोऽच्युतं प्राप्तं स्व-गृहाञ् जनको यथा ।
नत्वा मुनीन्**20 सु-संहृष्टो धुन्वन् वासो ननर्त ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धुन्वन् परिभ्रमयन् ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ श्रुतदेवोत्सवम् आह—श्रुतेति । धुन्वन्न् इति अन्तर्भावित-णिजर्थः ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अच्युतं सर्वैश्वर्य-परिपूर्णं भगवन्तं प्राप्तं महा-भक्त-मुनिभिः सह स्वयम् एवागतम्, जनको यथेति प्रव्र्द्ध-भक्त्यास्राविलेक्षण इत्य् अतिदिशति, ह हर्षे ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनको यथेति । प्रवृद्ध-भक्त्या सो\ऽपि अस्राविलेक्षण इत्य् अतिदिशति । मुनीश् चेति मुनीन् इति वा पाठः । हर्षे ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : धुन्वन्न् आनन्देन वासः कराभ्यां धृत्वा स्वमूर्धोपरि भ्रामयन् ॥३८॥


॥ १०.८६.३९ ॥

तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः ।
स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्योऽवनिजे मुदा ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अवनिजे अवनिनिजे प्रक्षलितवान् ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तृण-पीठानि कटानि कुशादि-निर्मितानि तान्येव वृष्यस्तासु । व्रतिनाम् आसनं वृषी इत्य् अमरः । एतान् ऋषीन् । आनीतेष्व् अन्येषूर् णाद्यासनेषु । अवनिजे\ऽत्राभ्यास-लोपस् त्व् आर्षः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतान् अच्युतादीन् सर्वान् यतीनाम् आसनं बृषिः, पुं-लिङ्गो\ऽपि । आनीतेषु स्वस्य प्रतिवेशिनां च गृहादाहृतेषु । प्रेम-वैवश्येन स्वयम् एव हस् तेषु गृहीत्वोपवेश्य ॥३९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतान् अच्युतादीन् सर्वान् यतीनाम् आसनं वृसिः पुंल्-लिङ्गो\ऽपि । आनीतेषु स्वस्य प्रतिवेशिनां च गृहाद् आहृतेषु नूतनेषु प्रेम-वैवश्येन स्वयम् एव चरणेषु गृहीत्वोपवेश्य ॥३९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृसिर् दर्भासनं केषुचित् स्व-गृहाभ्यन्तरात् केषुचित् प्रतिवेशि-गृहादानीतेषु अवनिजे अवनिनिजे प्रक्षालयामास ॥३९॥


॥ १०.८६.४० ॥

तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् ।
स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-अम्भसावने-जन-जलेन । आत्मानं स्व-देहम् । गृहं भार्यान्वयः पुत्रदिस् ताभ्यां सहितम् । सर्वेषां मनांसि रथो वाहनं यस्य स सर्व-मनोरथः । **सर्व-**हृद्-वासी हरिस्स लब्धो येन स तथा । अन्तर्यामी दृग्-विषयो जातो\ऽहो भाग्यं ममेत्य् आत्मानं श्लाघितवान् इति भावः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महान् भागो **भाग-**धेयं किं वा, भक्ति-लक्षणः प्राप्यांशो यस्य सः, अत एवोद्रिक्तो हर्षो यस्य तथा-भूतः सन्, गृहकुटुम्ब-सहितम् अस्नपयत् । तेनैव लब्धाः सर्वे मनोरथा येन सः ॥४०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् अम्भसेति । श्री-कृष्णस्य चरणाम्भसा तु तद् अगोचरेण इत्य् अर्थः । महा-भाग इति श्री-मन्मुनीन्द्रस्य तस्मिन्न् आदरः । उद्धर्षत्वे हेतुर् लब्धेति ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.४१ ॥

फलार्हणोशीर-शिवामृताम्बुभिर्21

मृदा सुरभ्या तुलसी-कुशाम्बुजैः ।

आराधयाम् आस यथोपपन्नया

सपर्यया सत्त्व-विवर्धनान्धसा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : फलैर् आमलकादिभिर् अर्हणेनोशीरैस् तृण-विशेष-मूलैः सु-वासितैः शिवैर् अमृत-वत्-स्वादुभिर् अम्बुभिः । सुरभ्या मृदा कस्तूरी-प्रमुखया । सपर्यया पूजया । यथोपपन्नया अनायासेन संपन्नया । भूतानुपद्रव-लब्धत्वात् । सत्त्व-विवर्धनं यद् अन्धोऽन्नं तेन च ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अर्हणेन चन्दनादिना । तृण-विशेषस्य वीरणस्य मूलैः स्याद्-वीरतरं मूलेस्योशीरम-स्त्रियाम् इत्य् अमरः । शिवैः कल्याण-करैर् अम्बुभिस् तीर्थोदकैर् इत्य् अर्थः । **तुलसी-**दल-माला-कुश-पवित्र-कमल-बीज-पुष्पैः । सत्त्व-विवर्धनेन तमो-रजो-वारकं यद् अन्धः नीवारादि ॥४१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-भाग्य-विशेषेण सुप्रीतः सन् तम् एव दीर्घ-च्छन्दसा गायन्न् आह—फलेति द्वाभ्याम् । फलादिभिर् या सपर्या तया आराधयामास सन्तोषितवान् एतान्, तत्रार्हणम् अर्घ्य-पाद्यादि दूर्वादिकं वा, सत्त्वं सत्त्व**-**गुणः साधुत्वं वा, तस्य विशेषतो वर्धनं यदन्धो\ऽयाचितादिनोपनतं निवाराद्यन्नम्, यथोपपन्नत्वाद् एव पूजा-क्रमस्यासिद्धिः । अन्यत् तैर् व्याख्यातम् ।

तत्राम्भसेति पाठे वर्तमाने\ऽप्य् अम्बुभिर् इति लेखो\ऽर्थानुसारात् । एवं द्वन्द्वैक्यम्, किं वाम्बुभिरित्य् एव पाठः । मृदेत्यस्य च कस्तूरी-प्रमुखयेति व्याख्या, कस्तूर्या वने सुलभतया मृत्त्वाद् इति [मृत्-तुल्यत्वाद् इति ।] अथवा उशीरं तद् अनुलेपः, चन्दनाद्य् अभावात् । शिवा आमलकी, तस्याः फलान्तर्गतत्वे\ऽपि पृथग् उक्तिः श्री-भगवत्-प्रियत्वात् । मृदा मृत्तिकया भर्जनादिना गन्ध-द्रव्यादिना वा सुरम्या । अन्यत् समानम् ॥४१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्-भाग्य-विशेषेण सुप्रीतः संस्तम् एव दीर्घच्छन्दसा गायन्न् आह—फलेति द्वाभ्याम् । फलादिभिर् या सपर्या तया आराधयामास तान् संतोषितवान् इत्य् अन्वयः । तत्र प्रथमतः फलानि मङ्गलोपायनानि ततोऽर्हणान्यादीनि ततो धूपनार्थम् उशीरेण वीरण-मूलेन तथा जन्ममिष्टतादि-सम्पादनार्थं शिवया प्रति-घटम् एवैक-प्रक्षिप्तया पक्व-शुष्कामलक्या साधितं यद् अमृत-तुल्यम्-अम्भस् तेन अम्बुभिर् इति तेषां व्याख्या तु न मूल-संवादिनी तन्-मते पाठस् तादृश एव वा ज्ञेयः । ततश् च गत-श्रमत्वे सति मध्याह्न-स्नानादिकं मुदा मृत्स्नया सुरभ्या मुद्रित-नव-घटे केतक्यादिभिः सह चिरस्था-पनेन सुष्ठु वासितया अत एव कस्तूरी-प्रमुखयेति तैर्-व्याख्यातम् । तदादि-तुल्यय इत्य् अर्थः । कस्तूरी-प्रमितयेति वा तत्-पाठः । ततश् च देव-पूजाद्य् अर्थं तुल्यस्यादिभिः ततश् चायाचितत्वादि-गुणैः सत्त्व-गुणस्य विवर्धनेनान्धसेति उपलक्षणं चैतत् आचमनीयादीनाम् ॥४१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : फलान्याम् अलकादीनि अर्हणान्यर्घ्यादीनि उशीरेण वीरण-मूलेन शिवं सुगन्धं शीतं च यद् अमृत-तुल्यम् अम्भस् तेन यथोपपन्नया अनायासलद्भया सत्त्व-विर्धनं यद् अन्धः पवित्रम् अन्नं तेन ॥४१॥


॥ १०.८६.४२ ॥

स तर्कयाम् आस कुतो ममान्व् अभूद्

गृहान्ध-कूपे पतितस्य सङ्गमः ।

यः सर्व-तीर्थास्पद-पाद-रेणुभिः

कृष्णेन चास्यात्म-निकेत-भूसुरैः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य श्री-कृष्णस्यात्मा मूर्तिस् तस्य निकेतैः स्थान-विशेषैर् भू-सुरैश् च सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णादिभिर् यः सङ्गमः स मम कुतोऽन्व्भूद् इति । अनु इति विस्मये । यद् वा, आ इति वितर्के । नु इति विस्मये ॥४२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स श्रुतदेवः । निकेतैः स्थान-भूतैः । यद् वा, अस्यात्मा निकेत आश्रयो येषां तैः । **सर्व-**तीर्थानाम् आस्पदं **पाद-**रेणुः येषां तैः ।

गङ्गाद्यास् सरितः सर्वास्तीथैश् च पुष्करादिभिः । > तिष्ठन्ति सततं राजन्-विप्र-**पाद-**रजस्सु वै ॥ > इत्य्-आदि-पुराणात् ।

वचन-व्यत्यासेन कृष्ण-विशेषणं च अनुपदं विस्मये\ऽति-प्रसिद्ध-मत आह—यद्व् एति । अस्याकार-वाच्य-वासुदेवस्यात्मा वेदस् तस्य निकेतैर् आश्रयैः वेदस्य कृष्णात्मत्वे वेदो नारायणः साक्षात् [भा।पु। ६.१.४०] इति यम-पुरुषोक्तेर् एव मानत्वम् । किं च—ब्रह्मात्मतत्त्वम् अवितुं प्रथमं त्वमस्राग्-विप्रांस् तपोव्रत-धरान्-मुखतश् च साक्षात् इति दक्षोक्तेश् च तथात्वम् ॥४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथापि तस्याभिमानो नाभूत्, प्रत्युत भक्त्य् उद्रेकेण दैन्यम् एव व्यवर्धतेत्य् आशयेनाह—स इति । तर्कयामास अचिन्तयद् इत्य् अर्थः । कुतः इति भक्त्वाद् आदाव् अनभिमानेन सहज-दैन्यात्, अत एवाह—गृहेति । सर्वेषां तीर्थानाम् आस्पदम् आश्रयः पाद-रेणुर् येषां तैः । अन्यत् तैर् व्याख्यातम् ।

तत्रात्मा मूर्तिर् इति मनसि सदा प्रस्फुरन्ती मनोमयी, अथवा आत्मनः श्री-भगवतो निकेतः श्री-द्वारकादिव् अतिगृहम् । तत्रत्यैर् भूसुरैः परमात्मीयैर् विप्रैर् इत्याः अत-एव भूसुर-शब्स्य प्रयोगः तेषाम् एव भुवि परम-पूज्यत्वात् ॥४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं निजैकान्तिभिः सह स्व-गृहागतेनापि भगवता तस्याभिमानो मा भूत् तत्-कारणतया तस्यैव कृपायाः स्फुरणात् स्वात्मनस् तु दैन्य-मात्रस्येत्य् आह—स इति । अन्यत्-तैः । तत्रात्मा मूर्तिर् इति मनसि सदा प्रस्फुरन्ती मनोमयी ॥४२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स श्रुत-देवः कृष्णेन सह सङ्गमो मम कुतो हेतोर् अभूत् इति तर्कयामास । आ इति स्मरणे नु इति विस्मये । यश्च सङ्गमः अस्य श्री-कृष्णस्य आत्मा मूर्तिस् तस्या निकेतैर् भूसुरैः सहितः ॥४२॥


॥ १०.८६.४३ ॥

सूपविष्टान् कृतातिथ्यान् श्रुतद् एव उपस्थितः ।
स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपस्थितः समीप उपविष्टः । भार्या भर्तव्याः स्व-जना अपत्यानि च तैः सहितः । श्री-कृष्णस्याङ्घ्रिम् अभिमृशति संमर्दयतीत्य् अङ्घ्र्य्-अभिमर्शनः ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अङ्घ्र्य्**-अभिमर्शनः** पाद-संवाहनं कुर्वन् ॥४३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुखेनोपविष्टं सन्तं श्री-भगवन्तम्, कृतम् आतिथ्यं पुनः पूजनेन मुख-वासादि-समर्पणेन वा सर्वम् अतिथि-कृत्यं यस्मिंस् तम्, इति श्री-भगवतो\ऽति-प्रसन्नत्वं तस्य वाव्यग्र-चित्तत्वम् उक्तम्, अङ्घ्रिम् अभिमृशति शनैः सुख-स्पर्शेन संवाहयतीति तथा सः ॥४३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपस्थित उपेतः सन्न् उवाच श्री-भगवन्तम् अधिकृत्येति शेषः । अङ्घ्र्य् अभिमर्शन इति । मुनीनाम् इति शेषाः ॥४३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-भार्यः भार्यया सहितः स्वसुता एव अमात्या यस्य स च स च सः अङ्घ्रिम् अभिमृशति सम्मर्दयतीति सः ॥४३॥


॥ १०.८६.४४ ॥

श्रुतदेव उवाच—

नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः ।
यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : यर्हीदं प्रविष्टस् तदैव दर्शनं प्राप्त इति स एव सन् मात्रो नाद्यतनी-भूतस् त्वम् इत्य् अर्थः । यद् वा, नोऽस्मान् अद्यैव प्राप्त इति न, किन्तु तदैव प्राप्तो यर्हीदं विश्वं स्व-शक्तिभिः सत्त्वादिभिः सृष्ट्वा स्व-सत्तयानुप्रविष्टस् त्वम् । त्वद्-दर्शनं तु परं केवलम् अद्यैव प्राप्तम् ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् सृष्ट्वा तद् एवानुप्राविशत् इति श्रुतेर् इदं विश्वं यदा प्रविष्टः । इत्य् अर्थ इति-त्वं सृष्ट्यादि-कर्ता साक्षान्-नारायणो न त्वं देवदत्तादि-समः कश्चिद् असीति प्राक्तनं निजानुभवं द्योतयमानो वक्तीति भावः ।

ननु मद्-दर्शने पुनः कथं तव संसार इति चेद् आह—यद्व् एति । तद् आपाततो दर्शने\ऽपि विवेकस्तु दर्शनम् अद्यैव जातं विविक्त-दर्शनस्यैव संसार-नाशकत्वम् इति भावः ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अकस्माच्-छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नेति । आत्मनः सत्ता अन्तर्यामितया सर्वत्र वर्तमानतया तया । तत्रैव हेतुः—**परम-**पुरुष! हे परमात्मन्न् इति । तद्-द्वितीय-पक्षे तु अद्यैव प्राप्त इत्य् अत्र हेतुः—परम-पुरुष! हे महा-भगवन्न् इति, अशेष-भगवत्ताप्रकटनात् । अन्यत् तैर् व्याख्यातम् ।

तत्र प्रथम-पक्षे-परं केवलं दर्शनम् एव प्राप्तः, न त्व् अधुनेवानुग्रह-विशेष-पूर्वकम् इत्य् अर्थ इति । अथवा स्वत एव सक्षात् श्री-भगवद्**-दर्शनं** प्राप्यालभ्यलाभेनानन्दितः । प्राक् तस्य सुदुर्लभताम् एवाह—नेति । यर्हीदम् अनु सृष्टेर् अनन्तरं प्रविष्टस् त्वम्, तर्ह्यपि परमुत्कृष्टं दर्शनंप्राप्तः । तत्र हेतुः—परम-पुरुषेति, अन्तर्यामित्वेनादृश्यत्वाद् इति भावः । तच्-चाधुनाकस्माद् एव सम्यग् लब्धम्, अहो भाग्यम् अस्माकम् इति भावः ॥४४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अकस्माच् छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नेति । नो दर्शनम् अस्मत्-कर्तृकं दर्शनं परं केवलम् अद्य अस्मिन्न् एव तव प्राकट्य-समयेन प्राप्तस् त्वं किं त्व् आत्म-सत्तया परमात्म-स्वरूपेण यर्हीदं सृष्ट्वानुप्रविष्टस् त्वं तद् आरभ्यैव न प्राप्तः कदाप्य् अस्मद्-दृष्टि-गोचरो न जातस् त्वम् इत्य् अर्थः तथाप्य् अकस्मात्-तद् इदं दर्शनं परमया तत्-कृपयैवेति भावः । तद् एवम् अस्य द्वारकादावपि गमनं नासीद् इति गम्यते । तच् च दीनम्मन्यतयेति लक्ष्यते । तद् उक्तं स तर्कयामासेत्य् अत्र ॥४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अकस्माच्-छ्री-भगवद्-दर्शनेन सुप्रीतः स्तौति-नाद्य न इति । अस्मत्कर्तृकं दर्शनं परं केवलमद्यास्मिन्नेव तव प्राकट्यसमयेन न प्राप्तस्त्वं किं त्वद्-**ह्य् आत्म-**शक्तया परमात्मस्वरूपेण यर्हीदं सृष्ट्वा प्रविष्टस्त्वं तदारभ्यैव न प्राप्तः । अस्मद्दृष्टिविषयः कदापि न जातो\ऽसीत्यर्थः । अहो अलभ्यलाभ इति भावः ॥४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भो भूसुर-वर्य श्रुत-देव! युष्मद् अर्शनमहं केनातिभाग्येनैवाद्य प्राप्त इति वदन्तं सवैदग्धी-भङ्गीकम् आह—नाद्येति । भोः परम-पुरुष! नो\ऽस्माकं दर्शनं परं केवलं न अद्य प्राप्तः परन्तु इदं जगत् सृष्ट्वा स्व**-सत्तया** यर्हि अनुप्रविष्टस् तद् आरभ्यापि वयं किल जीवास् त्वदीय-तटस्थ-शक्ति-वृत्तयः स्व-कर्म-फल-भोगिनस् तद् आरभ्य अद्य पर्यन्तं त्वां दृष्टा एव वर्तामह एव किन्तु वयम् एवाद्यैव त्वद्-दर्शनं प्राप्ता इति भावः । उत्तरालङ्कारो\ऽयम्। प्रश्नस्योन्नयनं यत्र तद् उत्तरम् उदाहृतम् इति तल्-लक्षणम् ॥४४॥


॥ १०.८६.४५ ॥

यथा शयानः पुरुषो मनसैवात्म-मायया ।
सृष्ट्वा लोकं परं स्वा**22प्नम् अनुविश्यावभासते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : माया-सृष्टि-प्रवेशयोर् अविद्या-सृष्टि-प्रवेशौ दृष्टान्ततयाह—यथेति । आत्म-मायया स्वाविद्यया । यद् वा, आत्मनस् तव माययेति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मयया सृष्टि-प्रवेशौ तयोः । जाग्रद्-रचना-समर्थस्य स्वप्न-रचनम् अपि न सम्भवत्यतो भगवन्-माया-रचित-जाग्रत्रपञ्चवत्-स्वाप्न-प्रपञ्चो\ऽपि तन्-माया-रचित एवेत्य् आह—यद्व् एति ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोकं देहं परं शासन-देहाद्भिन्नम्, यतः प्राप्तम् अनुविश्य सृष्ट्य् अनन्तरं सद्यः प्रविश्य, अवस्था-विशेषण भासते, स्वप्न-चरितेन द्योतते । स्व-पक्षे-एवं त्वत्-सन्दर्शनाभावे\ऽपि त्वत्-कृपया त्वद्-ध्यानादिना जीवाम इत्य् आशयेनाह—यथेति । पुरुषः त्वज्जनो [सज्जनो] । यथा शयानः कश्चित् स्वाप्नम्, तथात्मनस् तव मायया कृपयैव मनसा परं मानसं सेवा-योग्यतयोत्तमं लोकं देहं किं वा, जगद्-विलक्षणं भिन्नं भुवनम् एकं सृष्ट्वानुविश्यावभासते, त्वत्-सेवाद्य् अवलम्बेन जीवतीत्य् अर्थः ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च यथा शयानः पुरुषः आत्मनस् तव मायया हेतुना मनसा कारणेन स्वाप्नं परं लोकं देहादिकं सृष्ट्वा आत्मात्मीयत्वेन कल्पयित्वा तम् अनुविश्याविश्य चावभासते तथा त्वम् अवभाससे स्मेति शेषः ॥४५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ततश् च यथा शयानः पुरुषो \ऽवभास ते तथाहम् अवभास इति शेषः ॥४५-५९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भो भगवंस् त्वं स्व-मनः-सङ्कल्प-मात्रेणैवेदं सृष्ट्वा यत्-तद् अनुप्रविष्टस् तत्राहं जीव एव दृष्टान्त इत्य् अतः स्व-दृष्टान्तस्य जीवस्य मम दर्शनं तवोचितम् एवेति पूर्ववत् स-वैदग्धी-भङ्गीकम् एवाह—च यथेति । आत्म-मायया स्व-विद्यया परं लोकं ग्राम-नगरादिकम् अवभासते तत्-तद्-दर्शनादिकम् अनुभवति तथैव त्वम् अपीत् यर्थः ।तद् एव सृष्टिम् आरभ्याद्य् अपर्यन्तम् अस्मद्-दर्शनं त्वं प्राप्नोष्य् एव वयं तु ताम् आरभ्याद्य् अपर्यन्तं त्वद् अनुभवस्यापि गन्धम् अपि नैव प्राप्ताः किन्त्व् अद्यैव त्वत्-कृपया त्वद्-दर्शनम् अपि प्राप्ता इति भावः ॥४५॥


॥ १०.८६.४६ ॥

शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।
नृणां सं**23वदताम् अन्तर् हृदि भास्य् अमलात्मनाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, शृण्वताम् इति । नित्यं श्रवण-कीर्तनादि-पराणाम् अमलात्मनाम् अपि हृद्य् एवं त्वं भासि, मम तु लोचनागोचरस् त्वम् अहो भाग्यम् इति भावः ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् अद्भुतम् आह—किं च इति । त्वा त्वाम् । इति भाव इति--ऐकान्तिक-भक्तेभ्यो\ऽपि मद्-भाग्यम् अधिकम् इति तात्पर्यम् ॥४६॥ ।


क्द्- [भक्तेः] पञ्च-वर्गम् आह—शृण्वताम् इति ॥४६॥ [मु।फ। ७.९४]


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शश्वद् इत्य् अस्य सर्वैरप्य् अन्वयः । गदतां स्वयं सङ्कीर्तयताम्, अभितः साष्टाङ्गत्वादिना वन्दतां वन्दमानानाम्, संवदतां संवाद-रूपेणान्यो\ऽन्यं कथयताम्, अत एवामलात्मनां विशुद्ध-चित्तानाम्, यद् वा, श्रवणादौ हेतुर् अयम्, सत्-कर्मादिभिश् चित्ते शुद्धे सत्य् एव तत्र प्रवृत्तेः । अन्तर् इति हृद्यपि निभृतम् एव भासीत्य् अर्थः । यद् वा, अन्तः संवदतां जपताम् इत्य् अर्थः ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु हृदि तु तवाहं स्फुरितवान् एवेत्य् आशङ्क्य तद् अपि मम न सम्भवतीति सदैन्यम् आह—शृण्वताम् इति । एवम् एवम्-भूतानां सताम् अत एवामलात्मनाम् एव अन्तर्हृदि त्वद् अन्तर्-मुखे मनसि भासि न तु मद्-विधानाम् इत्य् अर्थः । अत्र शश्वद् इत्य् अस्य सर्वर् अप्य् अन्वयः । नित्यम् एव इत्य् अर्थः ॥४६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु मदीय-श्रवण-कीर्तनादिमन्तो भवद्-विधा मद्-दर्शनं प्राप्नुवन्त्य् एव तत्राह—शृण्वताम् इति । संवदतां त्वद्-भक्तैः सह संलापं कुर्वतां भासि स्फुरसि किन्त्व् अमलः मत्सरादि-मालिन्य-रहितः आत्मा मनो येषां तेषाम् एव वयं तु मलिनात्मान एव तद् अपि यद् इदं दर्शनमदास् तद् इदं ते विचित्रं कृपाचरित्रम् इति भावः ॥४६॥


॥ १०.८६.४७ ॥

हृदि-स्थोऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् ।
आत्म-शक्तिभिर् अग्राह्योऽप्य् अन्त्य् उपेत-गुणात्मनाम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सर्वेषां हृदि स्थितः कथं केषाञ्चिद् एव हृदि भासि, मेघैः सूर्य-बज् जीवोपाधिभिर् आवृतत्वाद् इति यद्य् उच्यते तर्हि न कस्यापि भायाद् इत्य् अत आह—हृदि-स्थोऽपीति । कर्मभिर् विक्षिप्तं चेतो येषां तेषाम् आत्म-शक्तिभिर् अहङ्कारादिभिर् अग्राह्यो व्यवहितोऽप्य् उपेत-गुणः प्राप्त-श्रवण-कीर्तनादि-संस्कार आत्मा अन्तः-करणं येषां तेषाम् अन्ति समीपे । अव्यवहितस् त्वम् इत्य् अर्थः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राक्षिपति—नन्व् इति । जीवोपाधिभिर् अहङ्कारादिभिः । भायात्-प्रतीयात् । कर्मभिर् दानादानादिभिः । आत्म-शक्तिभिर् जीवोपाधिभिः । ता आह—अहङ्कारादिभिः । आदिना क्रोध-लोभादि-ग्रहः । व्यवहितो\ऽपि अज्ञानां दृष्ट्या दूरस्थो\ऽपि । इत्य् अर्थ इति श्रवणादिनाज्ञान-निवृत्त्यापरोक्षी-भवसीति भावः ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यर्यामित्वेन हृदि-स्थो\ऽपि कर्म-विक्षिप्त-चेतसाम् अति-दूरस्थः, हृदि न प्रकाशस इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । तत्र हृदि भासीत्य् एतद् अनन्तरं केषां न भासीति लेखक-भ्रमात् पतितम् इति बुध्यते मेधैरित्य्-आदेर् अभिमान एव हेतूपपत्तेर् इति । अथवा ननु अन्तर्यामितया सर्वेषाम् अपि हृदि वर्ते, तत् किम् उच्यते श्रवणादिपराणाम् एव भासीति । तत्राह—हृदीति ।

ननु सत्**-**कर्मभिर् हृदि विशुद्धे सति तेषाम् अपि सद्भानं सम्भवेद् इति चेत्-तथापि त्वत्-कृपयैव स्यान्न त्व् अन्यथेत्य् आह—आत्मेति । अन्ति समीपे स्वाधीनतयैवोपेता गुणाः सत्कर्मादयो यस्मिंस् तथा-भूत आत्मा स्वभावो येषां तेषाम् अप्य् आत्म-शक्तिभिः सत्-कर्मादि-जात-निज-मनः-शुद्ध्य् आदि-शक्तिभिः, बहुत्वं सत्-कर्मादि-बाहुल्येन शक्तीनाम् अपि बाहुल्यात्, गौरवाद् वा, अग्राह्यो हृद्य् अपि न प्रकाशस इत्य् अर्थः । स्वपक्षे\ऽपि समानम् एव ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् अन्तर्यामितया तेषाम् एव हृदि वर्ते । तत्-किमुच्यते श्रवणादि-पराणाम् एवावभासीति तत्राह—हृद् इति । ननु सत्-कर्मभिर् हृदि विशुद्धे सति तेषाम् अपि मद्भानं सम्भवेद् इति चेन्न् एत्य् आह—आत्मेति । तादृशो\ऽपि कथं भामीत्य् आशङ्क्य शृण्वताम् इत्य् उक्तम् एव साधयति—अन्तीति ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चान्यद् अपि ते विचित्रं चरित्रं दृष्टम् अभक्तानाम् अपि भक्तानाम् अपि त्वं हृदि तिष्ठस्य् एव । प्रथमैर् नानुभूयसे द्वितीय-यैरनुभूयस इत्य् आह—**हृदि-**स्थैर् इति ।

ननु मम **हृदि-**स्थत्वे दूर-स्थत्वं कुतस् तत्राह—आत्म-शक्तिभिर् अविद्यावर्तिभिर् मत्सराहङ्काराद्यैर्-व्यवधायकैर्-हेतुभिर् अग्राह्यः । **उपेत-**गुणत्वेनैव व्यवहितो\ऽपि प्राप्तत्व-गुण-चिन्तन आत्मा अन्तः-करणं येषां तेषां भक्तानां तु अन्ति समीप एव वर्तसे तैर् अनुभूयसे इत्य् अर्थः ॥४७॥


॥ १०.८६.४८ ॥

नमोऽस्तु तेऽध्यात्म-विदां परात्मने

अनात्मने स्वात्म-विभक्त-मृत्यवे ।

स-कारणाकारण-लिङ्गम् ईयुषे

स्व-माययासंवृत-रुद्ध-दृष्टये ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एतद् एव प्रपञ्चयन् नमस्यति, नमोऽस्त्व् इति । ते तुभ्यं नमोऽस्तु । अध्यात्म-विदां निवृत्त-देहाद्य्-अहङ्काराणां परात्मने परमात्मत्वेन प्रकाशमानाय । मोक्ष-प्रदायेत्य् अर्थः । अनात्मने देहाद्य्-अभिमानिने जीवाय, परत्वेनाप्रकाशमानत्वात् । स्वात्मनः सकाशाद् विभक्तः समर्पितो मृत्युः संसारो येन तस्मै । कुत एतत् तत्राह—स-कारणं महद्-आदिकार्यम्, अकारणं प्रकृतिः, तद् उभय-लिङ्गम् उपाधिं नियम्यतया ईयुषे प्राप्तवते । अत उभय-नियन्तुः स्वस्मात् सकाशात् तद् उभय-वश्याय जीवाय विभक्त-मृत्यव इत्य् अर्थः । नियन्तृ-नियम्यत्वे कारणं वदन्न् आह—हे स्व-मायया संवृतेति । अतोऽलुप्तैश्वर्यत्वान् नियन्त्रे तुभ्यं नमः । किं च रुद्ध-दृष्टये मायावित्वादेवान्येषां रुद्धा आवृता दृष्टिर् येन तस्मै । यद् वा, स्व-मायया स्वस्यासंवृता अन्येषां रुद्धा दृष्टिर् येन तस्मै इत्य् एकं पदम् ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् एव तवाज्ञ-परोक्षत्व-विज्ञापरोक्षत्वम् एव । इत्य् अर्थ इति-स्वरूप-प्रकाशस्यैव मोक्ष-हेतुत्वाद् इति भावः । परत्वेन ब्रह्म-रूपत्वेन अहं जीवानां मृत्युदो\ऽत्र । को हेतुर् इत्य् आशङ्कते—कुत एतद् इति । तत्राक्षेपे । यत उपाधिनियन्ता त्वम् अतो हेतोः । उभय-नियन्तुः कार्य-कारण-प्रेरकस्य । तद् उभय-वश्याय कार्य-कारणाधीनः । इत्य् अर्थ इति-नियन्तैव । नियम्यानां सुख-दुःख-विभाजको भवतीति भावः । तेने नियन्त्र इति लब्धम् । जीवानां नियम्यत्वे असंवृतानाच्-छादित-दृष्टे यतो\ऽसंवृत-ज्ञानो\ऽसि अतो हेतोः । अन्येषां लप्त-दृष्टित्वम् आह—किञ्चेति । स्व-माययेति पदस्य **रुद्ध-**दृष्टय इत्य् अनेन पृथक्-पृथक्-सम्बन्धे गौरवं मत्व् आह—यद्-वेति ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्त्व् इति नमस्कारस्य सदा सत्ताम् आशास्ते, संसारस्यापि तद् अधीनत्वं बोधयति । लिङ्गं जीवोपाधिः, अन्यत् तैर् व्याख्यातम् । तत्र परमात्मनेति लेख्ये\ऽनात्मेति वर्ण-द्वयपातो लेखक-भ्रमादित्य् अवगम्यते । परमात्मतया प्रकाशमानत्वान्-मोक्ष-प्रदाय, परमात्मत्वेनाप्रकाशमानत्वाच् च मृत्यु-प्रदायेति व्याख्योपपत्तेर् इति, अथवा स्वात्मनस् तस्यैव स्व-चित्ताद्-दोषाद्-धेतोर् विभक्त-मृत्यवे । यद् वा, परमात्मत्वे हेतुः—अनात्मने प्रवर्तक-रहिताय, स्वेच्छयैवाशेष-फल-प्रदानात् । किं च, स्वात्मनः श्री-भगवतस् तच्-चित्ताद् वा विभक्तानाम् अभक्त्या [विविक्तानाम् अभक्त्या] । पृथग्-भूतानां जनानां मृत्युर् यस्मात्-तस्मै, अन्यत् समानम् ।

स्व-पक्षे—आत्म-शक्त्य् अग्राह्यत्वं जीवानां त्वद् एकाधीनत्वाद् एवेति बोधयन् किञ्चिद् इष्टं प्रार्थयितुं प्रणमति-नमो\ऽस्त्व् इति । अध्यात्म-विदां परमात्मने\ऽन्यर्यामितया तत्र प्रवर्तकायेति । ज्ञानिनाम् अपि तद् अधीनत्वम् । अनात्मन इति तत्रापि स्वातन्त्र्यम्, स्वात्मेति अभक्तानाम् अपि तद् अधीनत्वम् एवोक्तम् । भक्तास्तु स्वत एव तद् एकाधीना इत्य् आह—स्वेषु भक्तेषु मायया कृपया यत् सकारणं निज-भक्ति-प्रवर्तनादि-प्रयोजनकम्, अकारणं च तत्रापी स्वाच्छन्द्येनाहेतुकम्, जीववत् कर्मादि-पारतन्त्र्याभावात् । लिङ्गं मनुष्य-देहं तदीयुषे प्रकटयते, अतो\ऽसंवृत! हे प्रकटैश्वर्य इत्य् अर्थः । अत एव रुद्धा निजातिसौन्दर्यादिना वशीकृता लोक-दृष्टयो येन तस्मै ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्मात्-तद् असम्पन्नस्य मम युष्माकं सङ्गमे कारणं खलु तव कृपयैव पर्यवस्यतीत्य् आनन्देन प्रणमंस् तस्य तादृशत्वम् आह—नम इति । अस्तुपदेन नमस्कारस्य सदा सत्ताम् आशास्ते अध्यात्म**-विदां** त्वत्-तत्त्व-ज्ञानिनां परमात्मने सर्व-मूल-स्वरूपत्वेन स्फुरते । यतः न विद्यते नराकृति-परब्रह्म-रूपे\ऽस्मिन्न् आत्मान्तरं यस्य तस्मै अत एव स्वेन स्वरूप-भूतेनात्मना श्री-विग्रहेण अनेन विभक्तो दूरीकृतो\ऽन्येषाम् अघासुरादीनाम् अपि मृत्युर् येन तस्मै सर्व-नित्यताश्रययाय इत्य् अर्थः । एवं स्वरूपस्य महिमानम् उक्त्वा वैभवस्याप्य् आह—सकारणम् अनित्यं जगद्-रूपम् अकारणं नित्यं स्व-लोक-रूपं तद् द्वयम् अपि लिङ्गं वैभव-रूपं ज्ञापकम् ईयुषे नियम्यत्वेन नित्यं प्राप्तवते उतामृतत्वस्येशानः [सुवा। ६.२]इति श्रुतेः । तर्हि कथं जगद्-गतैर् भवद्भिर् दुर्लभो\ऽहं तत्राह—स्व-मायया स्वलोक-सम्बन्धिनाम् असंवृता जगत्-सम्बन्धिनां तु रुद्धा दृष्टिर्येन तस्मै इति तेन अस्माकं त्वद्-दृष्टौ त्वत्-कृपैव कारणम् इति भावः ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तम् अर्थं प्रपञ्चयन्-नमस्यति-नम इति । अध्यात्म**-विदां** शान्त-भक्तानां परः मायातीत आत्मा श्री-विग्रहो यस्य तस्मै अन्येषां ज्ञानिनाम् अनात्मने निराकाराय अन्येषाम् असुराणां स्वात्मना काल-रूपेण विभक्तः विभज्य विभज्य दत्तो मृत्युर् येन तस्मै वस्तुतस् तु सकारणं लिङ्गं विराड्-रूपां मूर्तिं प्राकृतीम् अकारणं लिङ्गं सच्-चिद्-आनन्दमयीं मूर्तिम् अप्राकृती च ईयुषे स्व-मायया असंवृता भक्तानाम् अनावृता रुद्धा भक्तानाम् आवृता दृष्टिः येन तस्मै ॥४८॥


॥ १०.८६.४९ ॥

स त्वं शाधि स्व-भृत्यान् नः किं देव कर24वाम हे ।

एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि25-गोचरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स एवं-भूतः परमेश्वरस् त्वं नोऽस्मान् स्व-भृत्यान् शाध्य् अनुशिक्षय ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम्-भूतो वशीकृत-मायः ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शाधीत्य् अत्र हेतुः—स्व-भृत्यान् इति । तच् च नान्यत् किम् अपि, किन्तु त्वत्-प्रीतिकरम् एवेत्य् आशयेनाह—किम् इति । ते त्वत्-प्रीत्य् अर्थम् इत्य् अर्थः । तत्रैव हेतुः—हे देवेति । भृत्यैर् निजेष्ट-**देव-**प्रीतेर् अवश्यापेक्ष्यत्वाद् इति भावः ।

ननु तद् अपि किम् अर्थम् इत्य् अपेक्षायामाह—एतद् इति । क्लेशस् त्वद् अप्राप्तिकष्टं पुनस् त्वद्-विरह-दुःखम् एव इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, सत्त्वं साधुत्वं त्वद्-भक्तिम् इत्य् अर्थः ।

ननु त्वं मद्-भक्तिमानेवेति चेत् नेत्य् आह—स्वानां ज्ञातीनाम् एव भृत्यान्, न तु तव । यद् वा, स्वा एव भृत्याः पोष्या येषां तान्, उभयथापि कुटुम्ब-भरण-व्यग्रान् इत्य् अर्थः । भक्ति-शिक्षणं च सदा त्वद्-दर्शनार्थम् एवेतित्य् अभिप्रायेण दर्शनस्य माहात्म्यम् आह—एतद् इति । क्लेशः संसाराद्य् अशेष-दुःखम् । यद् वा, अतो\ऽधुना क्लेशे नष्टे सति प्रेमानन्द-सम्पत्तये भक्ति-प्रकारं शिक्षय इत्य् अर्थः । अन्यत् समानाम् । अतो गृहे तन्-निवासश् च राजवन्-न साक्षात् प्रार्थितः, तात्पर्येण तत्-सिद्धेः । किं वातिदैन्येन तत्रात्मनो\ऽनर्हत्वमननाद् इति ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शाधीत्यत्र हेतुः—स्व-भृत्यान् इति । तच् च नान्यत्किम् अपि किन्तु त्वत्-प्रीतिकरम् एवेत्य् आशयेनाह—किम् इति । ते त्वत्-प्रीत्य् अर्थम् इत्य् अर्थः । तत्रैव हेतुः—हे देवेति भृत्यैः निजेष्ट**-देव-**प्रीणनस्यावशकत्वाद् इति भावः ।

ननु संसार-क्लेशाभिमानिनः कथं ममानुशासन-कर्तृत्वं सम्यक् स्यात्-तत्राह—एतद् इति । तु मम त्वद्-दर्शनानुषङ्गेणैवापगतः सम्प्रति त्वद् अनुशासन-कर्तृत्व-लक्षण एव पुरुषार्थो ममावशिष्ट इति भावः ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शाधि अनुशिक्षय ॥४९॥


॥ १०.८६.५० ॥

श्री-शुक उवाच—

तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा ।
गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवा**च ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-उकंत श्रुत-देवोक्तम् । तद् उक्तं श्रुत-देवोक्तम् । तं श्रुत-देवम् ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्य् एतत् उप दाक्षिण्येनाकर्ण्य प्रहर्षेण प्रकृष्टं हसन्न् उवाच, यतः प्रणतानां भक्तानां किं वा, कृत-प्रणामानाम् अप्य् आर्तिहा, यतो भगवान् साक्षात् परमेश्वरः । यद् वा, तत्राप्य् अशेषैश्वर्य-प्रकटनपरः कृष्ण इत्य् अर्थः । अत एव तस्य पणिं स्व-पाणिना गृहीत्वा इति तस्मिन् स्नेह-विशेष उक्तः ॥५०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एतत् उप आधिक्येन सावधानत्वेनाकर्ण्य प्रहर्षेण प्रकृष्टं हसन्न् उवाच यतः प्रणातानां भक्तानां किं वा, सकृत्-कृत-प्रणामानापि आर्तिहा अत एव गृहीत्वेति । हर्षे ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाणिना पाणिं गृहीत्वेति । स-वैदग्ध्य-तद्-वचः श्रवणेन तं स्व-सख्य-रसे निमज्जयितुम् इति भावः । प्रहसन्न् इति मत्-तत्त्वं त्वया अवगतम् एव । तव तत्त्वम् अप्य् अवगच्छता मया त्वं किम् अप्य् उपदेष्टव्यो\ऽसीति भावः ॥५०॥


॥ १०.८६.५१ ॥

श्री-भगवान् उवाच—

ब्रह्मंस् तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् ।
सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वस्मिन्न् आदरम् अत्य्-अधिकं ब्राह्मणेषु मन्दम् इवालक्ष्य लोक-सङ्ग्रह-परो भगवान् मत्तोऽपि ब्राह्मणेषु श्रद्धातिरेकं कुर्व् इत्य् एवं तम् अनुशास्ति, ब्रह्मन्न् इति सप्तभिः । मया हृदि स्थितेन ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदानीं ब्राह्मण-महत्त्वम् आह—स्वस्मिन्न् इत्य्-आदिना । हृदि-स्थेन सर्वदा मां हृदये वहन्तो विचरन्तीति तेनैते मत्तो\ऽधिका एते इति ध्येयम् । तद् उक्तम् अभियुक्तैः—

पृथ्वी शेषधृता स शम्भु-मुकुटे-कैलास-वासो\ऽप्य् असौ > कैलासो\ऽपि दशाननेन तुलितो बद्धो\ऽप्य् असौ वालिना । > वाली राघव-विष्णुना युधि जितो विष्णुः सतां मानसे तस्माद्- > विष्णु-परायणाद्-दुस्तरो नान्यो\ऽस्ति लोकत्रये ॥ इति ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भक्त-वात्सल्यभरेणात्म-भक्तेर् अपि स्व-भक्तम् अभक्तिं बहुमन्यमानस् तत्-प्रार्थित-सिद्ध्य् उपायम् एव शिक्षयन् । यद् वा, स्वस्मिन्न् आदरातिशयेन मतां चूडामणित्वात् सङ्कुचननाह—ब्रह्मन्न् इति । साक्षाद्-वेद-रूपेण त्वयैतज्-ज्ञायत एवेति भावः । ते त्वय्य् अनुग्रह एवार्थः प्रयोजनम्, तद् अर्थम् एव सम्यक् मत्साहित्य्-आदिना प्राप्तान् स्वयम् आगतान् विद्धि ।

ननु मुननिभिर् आत्मारामैः किं ते? तत्राह—सञ्चरन्तीति । अन्यत् तैर् व्याख्यातम् । यद् वा, विरह-दुःख-शान्तये मदीय-श्री-मूर्त्या सह, अत एव ते महा-भागवत-श्रेष्ठा एव, न त्व् आत्मारामा इति भावः ॥५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वस्मिन्न् एव स्तुत्य् अतिशयेन सतां चूडामणित्वात् सङ् कुचंस् तथा भक्त-वात्सल्य-वरेणात्म-भक्तेर् अपि स्व-भक्त-भक्तिं बहु-मन्यमानस् तत्-प्राथित-सिद्ध्य् उपायम् एव शिक्षयन्न् आह—ब्रह्मन्न् इति । साक्षाद्-वेद-रूपत्वेन त्वयैतज्-ज्ञायत एवेति भावः । ते त्वय्य् अनुग्रह एवार्थः । प्रयोजनं त्वद् अर्थम् एव सम्यक् मत्साहित्य्-आदिना प्राप्तान् स्वयम् आगतान् विद्धि ।

ननु त्वम् एव साक्षाद् आगतो\ऽसि मुनिभिः किम् आधिक्यं तत्राह—मयेति । हृदि-स्थेन क्वचित्-साक्षाद्-भूतेन च सह सह [युक्ते] योगे \ऽप्रधाने [२.३.१९] इति पणिनि-स्मरणाद् अहम् अप्य् एषाम् अधीन इति भावः ॥५१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-स्तुतिम् आकर्ण्य स्व-सङ्गिनां विप्राणां स्तुतिं त्वनाकर्ण्य ब्रह्मण्य-देवो ब्राह्मण-भक्त्य् उपदेशम् इषेण स्वयम् एव ब्राह्मणान् स्तुवन् तव स्तव्यस्यापि मम ब्राह्मणाः स्तव्या इत्य् अभिव्यञ्जयति-हे ब्रह्मन्! हे ब्राह्मण! स्वस्य ब्राह्मणत्वाद् एव स्वजातिषु तव नात्यादर इति भावः ॥५१॥


॥ १०.८६.५२ ॥

देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः ।
शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : देवादिभ्योऽपि ब्राह्मणाः श्रेष्ठा इत्य् आह—देवा इति । ते शनैः पुनन्ति, एते तु सद्यः । किं च देवादीनि यत् पुनन्ति तद् अप्य् अर्हत्तमानार्मीक्षया ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् एवाह—देवादिभ्यो\ऽपीति । ते देवादयः । शनैश्चिर-काल-सेवनेन । एते तु ब्राह्मणास् तु । सद्यो **दर्शन-**सम-कालम् एव । देवादिषु यच्छोधन-सामर्थ्यं तद् अपि ब्राह्मण-प्रसाद् अकृतम् एवेत्य् आह—किञ्चेति । अर्हतः कुल-वृद्धाद्या अर्हत्तरा देवा अर्हत्तमा ब्राह्मणा ममापि पूज्यत्वात् । स मत्मपरो\ऽहं द्विज-देवदेवः इति पञ्चमे ऋषभ-देवोक्तेः । सो\ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिः [भा।पु। ३.१६.६] इति सनकादीन्-प्रति वैकुण्ठ-नाथोक्तेः । तेषाम् ईक्षया प्रसादेन ।

तीर्थ-यात्रा जपो दानं व्रतम् इष्टादिकं च यत् । > विप्राराधनतः साङ्गमन्यथा विगुणं शिव ॥ इति तन्त्र-शास्त्रात् > ॥५२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महा-भागवत-श्रेष्ठत्वम् एव दर्शयति—देवा इति द्वाभ्याम् । मृच्छिलादि-मयाः साक्षाद् इन्द्रादय\ऽर्क-ज्योतिर्मयाः । क्षेत्रतीर्थयोः स्थल-जल-प्रधानत्वेन भेदः अर्हत्तमाः पूजादिकं सर्वं ये अर्हन्ति ते अर्हन्तस् तेषु श्रेष्ठ-तमा महा-भागवतोत्तम-महा-भागवता इत्य् अर्थः । तेषाम् ईक्षया तत्-कर्तृक-देवाद्य् अपेक्षया, किं वा, दृष्टि-मात्रेण इत्य् अर्थः । पाठान्तरे\ऽप्य् अर्थः स एव ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवादयस् तु न तादृशास् तद्-दत्त-वैभवाश् चेत्य् आह—देवाः प्रतिमा-रूपाः साक्षाद्-रूपा एव वा क्षेत्राणि स्थल-रूपाणि तीर्थानि जल-रूपाणि शनैः पुनन्ति तत्रापि कालेन चिरेणैव एते तु पुनन्त एव सञ्चरन्तीत्य् उक्तं देवादीनां पुनानात्वम् अप्य् अर्हत्तमानां तेभ्यो\ऽपि पूज्यानाम् एतादृश-मद्-भक्तानाम् ईक्षया देवादित्व-सम्पादिन्या दृष्ट्यैव मूल-हेतुन इत्य् अर्थः । ममापि त्वद् अधीनत्वाद् इति भावः ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, देवादिभ्यो\ऽपि ब्राह्मणाः श्रेष्ठा इत्य् आह—देवा इति । ते शनैः पुनन्ति एते तु सद्य एव तद् अपि तत्-पुनानत्वम् अपि अर्हत्तमानाम् ईक्षया अर्हत्तम-कर्तृकावलोकनं यदि ते प्राप्नुवन्ति तदैव यद् उक्तं—

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।[भा।पु। ४.३.३७] इति ॥५२॥


॥ १०.८६.५३ ॥

ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनाम् इह ।
त**26पसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मम कला-परिकलनम् उपास्तिस् तया युतः ॥५३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राणिनां जीव-मात्राणाम् । जन्मना ब्राह्मण-देहावाप्ति-लक्षणेन । शङ्ख-क्षीर-न्यायेन कैमुत्यम् आह—तपआदिना, विप्र-श्रैष्ठ्यं तु वक्तुं न शक्यम् इति भावः ॥५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जन्मना जाति-मात्रेणैव । इह भूमौ त्रिलोक्यां वा सर्वेषां मध्ये श्रेयान्, तत्र च तप आदिना, तत्रापि मत्कलया श्रेयान् इति किं वक्तव्यम् इत्य् अर्थः । तपः स्व-धर्मः विद्या शास्त्राभ्यासः, तुष्टिर्-यथा-लाभेन तृप्तिः शान्तिर्वा, कला भक्तिः, एषां यथोत्तरं श्रैष्ठ्यम् । एवं ब्राह्मणत्वेन तत्र च तप-आदिभिर् मत्-कलया चेति महा-भागवत-श्रेष्ठत्वम् उक्तम् । तल्-लक्षणं च पाद्मोत्तरखण्डे—

तापादि-पञ्च-संस्कारी नवेज्याकर्म-कारकः । > अर्थ-पञ्चकविद्-विप्रो महा-भागवतोत्तमः ॥ इति ॥

अस्यार्थश् च श्री-भगवद्-भक्ति-विलास-टीकायां विवृत एव ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेषां तादृशत्वम् एव कैमुत्येन स्थापयति-जन्मनेति । जन्मना जाति-मात्रेणैव तत्र च तपआदिना श्रेयान् इति स्थिते तत्रापि मत्-कलया श्रेयान् इति किं वक्तव्यम् इत्य् अर्थः । तपः स्व-धर्मः विद्या शास्त्रीय-ज्ञानं तुष्टिर् आत्मा-रामत्वं मत्-कला मत्-स्फूर्तिः एषां यथोत्तरं श्रेष्ठ्यम् ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मम कला-परिकलनम् उपासनोत्थ-साक्षात्कारस् तया युतः ॥५३॥


॥ १०.८६.५४ ॥

न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् ।
सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च ब्राह्मणाराधनम् एव मम प्रेष्ठम् इत्य् आह—नेति । हेतुम् आह—सर्व-वेद-मयो विप्र इति । प्रमाणाधीनत्वात् प्रमेय27स्य वेद-मयो विप्रो देव-मयाद् अस्माद् रूपात् प्रेष्ठ इत्य् अर्थः ॥५४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मम प्रियं स्वरूपं च ब्राह्मणा एवेत्य् आह—किञ्चेति । विप्राराधनस्य प्रेष्ठत्वे हेतुम् आह—इत्य् अर्थ इति । मत्-संबन्धि-ज्ञानं विप्र-द्वारैव भवति ते एव शास्त्र-द्वारा मां प्रकाशयन्ति, प्रकाश्यापेक्षया प्रकाशक एव महान् इति भावः । सर्व-देव-मयत्वाद्-विप्राः प्रकाशका वेदस्यैव **देव-**प्रकाशकत्वान्-मम देवत्वात् अहं प्रकाश्य इति ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो मत्तो\ऽप्य् अधिकम् एते पूज्या इति वक्ष्यम् महा-भागवतोत्तमत्वम् एवोक्तपोष-न्यायेन द्रढयन्न् आह—नेति त्रिभिः । एतद् इत्य् अनेन **चतुर्-**भुजतयैव श्रुत-देवादयो\ऽर् जुनादिवत्तं पश्यन्तीति ज्ञेयम् । चतुर्-भुजम् इत्य् अनेन च द्विभुज-रूपं ब्राह्मणाद् अपि प्रियं श्री-व्रज-जनादि-प्रियतमत्वाद् इति सूचयति । हि यतः, अन्यत् तैर् व्याख्यातम् ।

यद् वा, हि अपि **सर्व-देव-**मयो\ऽप्य् अहम् । अतो यद्यपि वेद-द्वारा ब्राह्मणेज्य-**सर्व-देव-**मयत्वेन ब्राह्मणानाम् अपि सम्पूज्यो\ऽहम्, तथापि मे मदीया ब्राह्मणाः, देव-मयत्वाद् अस्मद्-रूपं न मे प्रियम्, भक्ति-प्रियत्वेनैव निजस्यापि सर्वस्य मत्-प्रियत्वाद् इत्य् अर्थः । तथा च श्री-भगवद्-वाक्यं नवम-स्कन्धे दुर्वाससं प्रति नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि । एकादशे चोद्धवं प्रति नैवात्मा च यथा भवान् [भा।पु। ११.१४.१५] इति । अवजानन्ति नाद्रियन्ते, यतो\ऽसूयवः, तत्र हेतुः—दुष्प्रज्ञा दुष्ट-बुद्धय इति । तत्रैव हेतुः—अर्चादाव् एव, न तु मद्-भक्दिष्व्-विज्य-बुद्धयः । आदि-शब्दान्-माल्यादिः । यद् वा, एवम् अविदित्वार्चादाविज्य-दृष्टयः सन्तो\ऽवजानन्ति । यतो दुष्प्रज्ञाः, अतो\ऽसूयवः । गुरुम् इति वर्णानां ब्राह्मणो गुरुः इत्य्-आदि-वचनात् माम् इति तद् अधिष्ठान-परत्वात् । तत्राप्य् आत्मानं मद्-भक्ततया मत्-प्रियतमम् इत्य् अर्थः । यतो विप्रावज्ञया गुरौ मयि महत्सु चापराधः स्याद् इति भावः । विशेषणानाम् एषां यथोत्तरं श्रेष्ठ्यम् । एवं भक्तस्य सर्वतः श्रैष्ठ्यम्, तद् अपराधाधिक्याद् इति ॥५४-५५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एवम्-भूताद्-ब्राह्मणात् ममैतद्-भवतां दृश्यमानं श्री-कृष्णाख्यम् अपि चतुर्-भुजं रूपं न प्रियं तत्र हेतुः—सर्वेति । तत्र सर्व-वेद-मयत्वं तद् उत्थ-**सर्व-**ज्ञानाश्रयत्वं **सर्व-देव-**मयत्वं च तज्-ज्ञेय-सर्वोपास्य-मूलत्वं ततस् तेषां विषयित्वं स्वस्य च विषयत्वं निर्दिश्य विषयिणं विना विषयस्यानुपादेयत्वम् अपि लौकिकाभानकेनैव स्व-भक्त-महिमा साधितः तथैव नवमे वैकुण्ठ-नाथ-वाक्यम् नाहम् आत्मानम् आशासे [भा।पु। ९.४.६४] इत्य्-आदि ॥५४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सर्व-वेद-मयो विप्र इति मम सर्व-देव-मयत्वात् सर्वेश्वरस्यापि प्रमाणं ये वेदास् तन्-मय एव विप्रो भवेत् ॥५४॥


॥ १०.८६.५५ ॥

दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः ।
गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : असूयवो दोष-दृष्टयःइज्य-दृष्टयः पूज्य-बुद्धयः ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मन्द-मतय इत्थं न जानन्तीत्य् आह—दुष्प्रज्ञा इति । एवं मन्-निश्चयम् । असूयवः पाषण्ड-विभिन्न-मतयः । मां मद्-रूपम् । गुरुं वर्णाश्रम-पूज्यम् । आत्मानं सर्वव्यापि ब्रह्म-रूपम् । ब्रह्म ब्राह्मण आत्मना इति श्रुतेः । माम् इत्य् अनेन पुनर् उक्तिर् न शङ्क्या सगुणाभिप्रायत्वात्-तस्या इति । आदिना जलाग्न्यादि-ग्रहः ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अविदित्वा अर्चादाव् एवेज्य-दृष्टयः सन्तो विप्रं जात्यादिनैव पूज्यं तत्रापि गुरुं महा-भागवतत्वात् सर्वोपदेष्टारम् अत एव । मां मदीय-परमाधिष्ठानत्वान्मद-भिन्नम् अत एवात्मानं परमात्म-रूपम् अवजानन्ति यतो दुष्प्रज्ञा दुष्ट-बुद्धयः तत एवासूयवः मानुषत्वादि-स्व-साम्यदृष्ट्या तद्-गुणासहिष्णवः ॥५५॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : असूयवः ब्राह्मणेषु दोष-दर्शिनः प्रतिमादाविव न तु ब्राह्मणेषु पूज्य-बुद्धयः ॥५५॥


॥ १०.८६.५६ ॥

चराचरम् इदं विश्वं भावा ये चास्य हेतवः ।
मद्-रूपाणीति चेतस्य् आ-धत्ते विप्रो मद्-ईक्षया ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विश्वस्य हेतवो भावा महद्-आदयः । मद्-ईक्षया ममैव सर्वत्रेक्षया ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विप्रो धत्त इत्य् अनेनाभेद-विचारो ब्राह्मणस्यैव न त्व् इतरेषाम् इति सूचितम् । प्रव्रज्याधिकारिकत्वात्-तद्-विचारस्येति ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्मत्वम् एव महा-भागवतोत्तमत्वेन दर्शयति—चरेति । मम रूपाण्य् अधिष्ठानानीत्य् अर्थः । आ सम्यग् धत्ते धारयति । तत्र हेतुः—मद् ईयेति । मद्-व्यतिरिक्त-दृष्ट्य**-**भावाद् इत्य् अर्थः ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ तादृशस्य महा-भागवतत्वम् एव दर्शयन्न् आत्मा-भेद-व्यपदेश-हेतुं दर्शयति—चरेति । मम रूपाणि रूप्यन्ते यत्रेति निरुक्त्या अधिष्ठानानि इति चेत् असि आ सम्यक् धत्ते धारयति तत्र हेतुः—मद्-ईक्षयेति । तत्र तत्र मद् एक-स्फुरणाद् इत्य् अर्थः । एकादशे—

सर्व-भूतेषु यः पश्येद्-भगवद्-भावम् आत्मनः । > भूतानि भगवत्यात्मन्य् एष भागवतोत्तमः ॥ [भा।पु। ११.२.४५] > इति ।

आत्मनो\ऽभीष्टो यो भगवद्-भावस् तत्-प्रादुर्भाव-विशेषस् तम् एव यः सर्व-भूतेषु पश्यति एवम् आत्मनि स्फुरन् यो भगवान् तदाश्रयत्वेन न भूतानि पश्यति यः स भागवतोत्तम इत्य् अर्थः । श्री-भगवद्-गीतासु—

मां हि पार्थ व्यपाश्रित्य ये\ऽपि स्युः पाप-योनयः । > स्त्रियो वैश्यास् तथा शूद्रास् ते\ऽपि यान्ति परां गतिम् ॥ > किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥ [गी। ९.३२-३३] > इति ॥५६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ईदृशस्य ब्राह्मणस्य लक्षणम् आह—चरेति । अस्य विश्वस्य हेतवो भावाः पदार्थाः महद्-आदयः मद्-ईक्षयेत्य् अस्यार्थस्य पौनर् उक्त्यान्-मद्-ईक्षया मत्-साक्षाद्-दर्शनेन युक्तं विप्र-विशेषो नारदादिर् इत्य् अर्थो द्रष्टव्यः ॥५६-५७॥


॥ १०.८६.५७ ॥

तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय ।
एवं चेद् अर्चितोऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : फलितम् आह—तस्माद् इति । यतो विप्रार्चनम् एव मद् अर्चनं तस्माद्-धेतोः । एतान् उपस्थितान् । मयि या श्रद्धादराधिक्यं तया मच्-छ्रद्धयाएवं चेत् **मच्-**छ्रद्धया विप्रे\ऽर्चिते सति । अद्धा साक्षात् । अन्यथा-परप्रीत्या विप्रानर्चने\ऽहं **भूरि-**भूतिभिर् बहु-विध-सामग्रीभिर् अप्य् अर्चितो न भवामीत्य् अर्थः । यतो मे मुख्या मूर्ति-ब्राह्मण एव ब्रह्म ब्राह्मण आत्मना इति श्रुतेः । सदाह विप्र-रूपेण विचरामि महीतले इति स्मृतेश् च । किं च, अव्यक्त-रूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि इति पाद्मोक्तेश् च । अत एव स्वयम् एव भगवतोक्तम्—न ब्राह्मणान्मे दयितं रूपम् एतच्-चतुर्भुजम् इति ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्म-र्षीन् ब्राह्मणेषु ऋषीन् तपस्विनो वेदद्रष्टृन् वा । एतान् महा-भागवत-श्रेष्ठत्वेन मत्-प्रियतमान् इत्य् अर्थः । पाठान्तरं स्पष्टम् । एतान् इत्य् उपलक्षणम्, सर्वान् एव मद्-भक्तान् इत्य् अर्थः । पाठान्तरं स्पष्टम् । एतान् इत्य् उपलक्षणम्, सर्वान् एव मद्-भक्तान् इत्य् अर्थः । सच्छ्रद्धया उत्तम-प्रीत्या अद्धा साक्षाद् एवार्चितो\ऽस्मि, अन्यथा मद्-भक्त-त्यागेन भूरि-भूतिभिर् बहुल-समृद्धिभिर् अप्य् अर्चितो न भवामि । हे ब्रह्मन्न् इति वेदावेक्षयापि वेदात्मकस्य भवादृशो युक्तम् एवेदम् इति भावः । एवं सप्रार्थनानुरूपं निज-भक्त-भक्तिम् एव शिक्षयामासेति ज्ञेयम् ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म-ऋषीन् ब्राह्मणेषु मत्-तत्त्व-ज्ञान् एतान् मत्-प्रियतमान् एतान् इत्य् उपलक्षणं सर्वान् एव मद्-भक्तान् इत्य् अर्थः । मच्-छ्रद्धया उत्तम-प्रीत्या अद्धा साक्षाद् एवार्चितो\ऽस्मि । अन्यथा मद्-भक्त-त्यागेन **भूरि-**भूतिभिर् बहुल-समृद्धिभिर् अप्य् अर्चितो न भवामि ॥५७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८६.५८ ॥

श्री-शुक उवाच—

स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् ।
आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थम् उक्तरीत्या । स श्रुतदेवः । सहस्य सादेशो बाहुलकत्वान् न । एकात्म-भावेनाभेद**-भावेन** विप्राः श्री-कृष्ण-स्वरूपाः श्री-कृष्णश् च विप्ररूप इत्य् एवं रूपेण । मैथिलो बहुलाश्वश् च । तद्-गतिं श्री-कृष्ण-सारूप्यम् ॥५८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एतम् उपदेशं बहुलाश्वे\ऽपि श्री-भगवांश् चकारेत्य् अतिदिशन्नुभयोर् अन्तिमं फलम् अप्य् आह—स इति । स विप्रश् च मैथिलो नृपश् च प्रभुणा निजेश्वरेणेति तदादेशे विश्वासादिकं बोधयति । सह साहित्येन कृष्ण**-द्विजोत्तमान्** तं तांश् च एकात्म-भावेन एक-चित्तत्वेन तुल्य-प्रयत्नतया भक्त्या आराध्य तस्य तेषां च गतिं नित्य-लोकम् ॥५८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतम् उपदेशं बहुलाश्वे\ऽपि श्री-भगवांश् चकारेत्य् अतिदिशन्नुभयोर् अन्तिमं फलम् अप्य् आह—स इति । स विप्रश् च मैथिलो नृपश् च प्रभुणा निजेश्वरेणेति तद् आदेशे विश्वासादिकं बोधयति । सह साहित्येन कृष्ण-द्विजोत्तमान् तं तांश् च एकात्म**-भावेन** एकचित्-तत्वेन तुल्य-प्रयत्नतया भक्त्या आराध्य तस्य तेषां च गतिं नित्य-लोकम् ॥५८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ऐकात्म्यम् एक-मनस् त्वं तद्-रूपो यो भावस् तेन यद् वा, कृष्ण-तत्-सङ्गि-विप्रयोर् यद् ऐकात्म्यम् ऐक्यं तद्-भावनया ॥५८॥


॥ १०.८६.५९ ॥

एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् ।
उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् ॥**

श्रीधर-स्वामी (भावार्थ-दीपिका) : सतां वेदानां त्रि-काण्ड-विषयाणां प्रवृत्ति-प्रकारम् आदिश्य ॥५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त्वा । भक्तानां भक्ति-विद्यते यस्य स तथा । भक्तेषु प्रसाद-लक्षण-स्नेहवान् । त्रिकाण्ड-विषयाणां कर्मोपास्ति-ज्ञान-रूप-त्रिकाण्ड-विषयाणां ॥५९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण स्वभक्तयोः, स्वकीय-भक्तौ विप्रनृपौ प्रति, सतां सन्तं वोत्तमं मार्गं स्व-भक्त-भक्ति-प्रधान-स्व-भक्ति-योग-लक्षणम् आदिश्य सतां वेदानां मार्गं स्वस्मिन् प्रवृत्ति-प्रकारं वा । किं कृत्वा उषित्वा तद् अर्थं तयोः प्रीत्य् अर्थं वा चिरं तत्रावस्थाय यतो भक्तेषु भक्तिर् आदरः प्रेम-लक्षणा वा तद्वान् । तत्र हेतुः—भगवान् इति ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : [+++]{।मर्क्}


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सन्-मार्गं सतां भक्तानां मार्गं भगवद्-विषयकं भक्ति-योगम् ॥५९॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे उत्तरार्धे श्रुत-

देवानुग्रहो नाम षड्-अशीतितमोऽध्यायः ।

॥ ८६ ॥



  1. तल्-लिप्सुर् इति शेष-षष्ठ्या समासः । तां लिप्सुर् इत्य् अर्थः। ↩︎

  2. एकदा चातुर्मास्यान्ते। ↩︎

  3. धीर-मनो-हरा इति पाठः। ↩︎

  4. पित्रोः कृष्णस्येति षष्ठौ तृतीयार्थे । यद् वानुमतः प्राप्तानुमतिः। ↩︎

  5. क्रोषतां स्वानान् इत्य् अनादरे षष्ट्य्हौ । क्रोशतः स्वाननादृत्य् अर्थः। ↩︎

  6. अत्र अभवन्-प्रीति-संहृष्टा वान्धवा यद् उपाण्डवाः । अथन्यद् अपि कृष्णस्य बात्सल्यं भक्तयोः शृणु ॥ इत्य् एकं पद्यम् अधिकं क्वचित् । बभुवुः प्रतिसंदृष्ट्वा यदवः पाण्डवास् तदा इत्य् अर्धम् एवाधिकम् इति बाल। ↩︎

  7. चानुसान्त्वितः इति पाठः। ↩︎

  8. उपस्कराः पर्यङ्कादयः। ↩︎

  9. अत्र शुक उवाचेति मध्ये पुनर् उक्तिः कथान्तरापेक्षया। ↩︎

  10. कृष्णस्य सम्बन्धी तत्-स्वामिकस् तद्-भक्त इत्य् अर्थः। ↩︎

  11. नृपाः इति पाठे तद्-देश-पतय। ↩︎

  12. तेभ्य नृ-नारीभ्यः । पुमान्-स्त्रिया इत्य् एक-शेषात्। ↩︎

  13. तस्मै तद् अर्थम्। ↩︎

  14. कं शिरोऽम्बुनोः इत्य् अत्र कोशः। ↩︎

  15. गो-वृषा बलीवर्दाः। ↩︎

  16. जीवानां इति पाठः। ↩︎

  17. अकुन्ठा मेधा ज्ञानं यस्य। ↩︎

  18. शान्ताय तप इति पाठह्। ↩︎

  19. निवसन् द्विजैः इति पाठः। ↩︎

  20. मुनिश् च इति पठः। ↩︎

  21. अमृताम्बुना मुदा इति पाठः। ↩︎

  22. स्वात्मं इति पाथः कचित्। ↩︎

  23. संवदतां परस्परं संवादं कुर्वताम्। ↩︎

  24. करवाम ते इति पाठः। ↩︎

  25. अक्षि-रोचरः इति पाठः। ↩︎

  26. तपः स्वधर्मः, विद्या शास्त्र-ज्ञानम्। ↩︎

  27. ज्ञानाधीना हि प्रमेय-सिद्धिर् इति प्रमेय-रूपान्-मत्तो वेदमयो विप्रः श्रेष्थ इत्य् अर्थः। ↩︎