७२ भगवता देवकी-प्रार्थनया तदीय-मृत-पुत्राणाम् आनयनं च

॥ १०.८५.१ ॥

श्री-बादरायणिर् उवाच—

अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ ।

वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

पञ्चाशीतितमे राम-कृष्णौ संप्रार्थितौ सुतौ ।

पित्रे ज्ञानम् अथो मात्रे मृतान् पुत्रान् अयच्छताम् ॥

नन्दयित्वा कुरु-क्षेत्र यात्रायां सुहृदो बहून् ।

तत्त्व-ज्ञानं ततः पित्रोर् आदिशन् मृत-सूनुभिः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथो पितृ-ज्ञान-दानानन्तरम् । अयच्छतां ददतुः । ततः सुहृदानन्द-दानोत्तरम् । पित्रोर्-माता-पितृभ्याम् । अथ तीर्थयात्रानन्तरम् अभिनन्द्य संश्लाघ्य ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्दादीन् प्रति श्री-भगवतः प्रीति-विशेषम् उक्त्वा प्रसङ्गाच्-छ्री-वसुदेवदीन् प्रत्य् अपि तं वक्तुम् आरभते—अथेति । कुरुक्षेत्र-यात्रायाः पश्चात् माङ्गल्ये वा, पितरि स्नेह-भर-विस्तारात् प्राप्तौ नित्य-कृत्यत्वेन भक्त्या प्रातरागतौ यत आत्मजौ एकदा कस्मिंश्चिद्-विविक्तसमये यद् वा, शुभ-काल-विशेषे प्रसाद-विशेषार्थम् एव प्राप्तौ प्रीत्या अभिनन्द्य आशीर्भिः स्तुतिभिर् वा प्रशस्याभितो हर्षयित्वा वाह—यतः सङ्कर्षणः स्व-माहात्म्य-विस्तारणेन सर्व-चित्ताकर्षकः अच्युतः प्रकटाशेषेश्वर्य-परिपूर्णस्तौ ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् ऐश्वर्य-ज्ञान-पितृभाव-मिश्र-प्रेम्णा श्री-वसुदेवेन मुनि-वाक्योद्दीपितैश्वर्य-ज्ञानेन ताः सह श्री-भगवतस् तज्-ज्ञान-गोष्ठमयो कादाचित्को लीला-विशेषस् तम् अथ प्रस्तौति—अथेति । लब्धमन्य् उपदेश-विशेष-कुरुक्षेत्रयात्रान्तरम् एकदा क्वचित्-प्रातर्-नित्य-वन्दन-समये यत आत्मजौ ताभ्यां तेन च तथाप्य् अपरित्याज्य-तद्-भावो अतः कृतेति च अत एवाभिनन्द्य आशीर्भिः प्रीणयित्वाह तत्र प्रीत्येति साक्षात्-परमेश्वरयोर् अप्य् अनयोर् मत्-पुत्रत्वेनोदय इत्य् अन्तः-सन्तोषेण इत्य् अर्थः । अत एवाग्रे तत्-खण्डन-भङ्गिर् अपि तत्-सन्तोष-गर्भैव ज्ञेया सङ्कर्षणाच्युताव् इति तादृशैश्वर्ये तादृश-प्रीति-विधायित्वे चाविश्लिष्टौ ॥१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पञ्चाशीतितमे पित्रोर्हरेश् च ज्ञान-गीस्-स्तुतिः । मातुः पुत्रानानयन् स बलिना सबलः स्तुतः ॥ ॥१-२॥


॥ १०.८५.२ ॥

मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् ।

तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम प्रभावस् तत् सूचकम्जात-विश्रम्भ उत्पन्न-विश्वासः । परिभाष्य सम्बोध्य ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-वीर्यः श्री-कृष्ण-पराक्रमैः । उत्पन्न-विश्वासो\ऽङ्कुरित-निश्चयः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्-आनीं तादृशोक्तौ हेतु-विशेषम् उक्तपोषण्यायेनाह—मुनीनाम् इति । कुरुक्षेत्र-यात्रा-गतानां किं वा, सदैव मुहुः श्री-द्वारकाम् आगतानां सर्व-ज्ञानां धाम्नः सूचकम् ईषत्-प्रतिपादकम् आनन्त्येनाशेषोक्त्यशक्तेः सङ्केपोक्तेर् वा ।

ननु मुनयो भक्त्यापि कदाचित्-स्तुतिं कुर्युः तयोर् वीर्यः पराक्रमैर् अद्भुत-चरितैर् वा जात-विश्रम्भ इति स्वानुभवेन तेषां **वचः-**सत्यता-सिद्धेः परिभाव्य कृष्णेत्यादि-वक्ष्यमाणेन किं वा, हे परमेश्वरौ! हे भगवन्ताव् इत्य्-आदिना प्रकारेण सम्बोध्य ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदानीं त्व् ऐश्वर्य-ज्ञान-प्राबल्ये सूचितम् एव कारणं व्यञ्जयन् पुनर् उक्तपोषन्यायेनाह—मुनीनाम् इति । स्व इति विदितो\ऽपि भवान् साक्षात् [भा।पु। १०.३.१३] इत्य्-आदौ पूर्वत एव तादृश-ज्ञानः मुहुश् च तदीयैर् जात-विश्रम्भः सम्प्रति च मुनीनां वचस् तादृशं श्रुत्वा परिभाष्य कृष्णेत्यार्दिना सम्बोध्य ॥२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.३ ॥

कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन ।

जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्य विश्वस्य यत् साक्षात् स्वरूप-भूतं कारणं प्रधान-**पुरुषौ-**नाम परौ तयोर् अपि कारणत्वेनेश्वरौ च साक्षाद् वां युवाम् इति जाने ॥३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : परौ विलक्षणत्वेनोत्तमौ । तयोर् अपि प्रकृति-पूरुषयोर् अपि । तन्-माया-फल-रूपेण-द्विधा समभवत् बृहत् [भा।पु। ११.२४.३] । इत्य्-आद्य् उक्तेः ॥३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-नन्द-यशोदयोः स्व-पुत्रयोश् चान्योन्य-स्नेहभरं साक्षाद्-दृष्ट्वा स्वयम् अपि तादृशं किञ्चित्-प्रार्थयिष्यन्न् आदौ तद्-विषयकम् आत्मज्ञानं परिहरन् स्तौति—कृष्णेति । हे परब्रह्मन्! तत्रापि कृष्ण! हे निजाशेषैश्वर्य-प्रकटनेन सर्व-चित्ताकर्षक! अत एव महायोगिन्! हे परम-शक्ति-युक्त! यद् वा, कृष्ण! हे साक्षाद्-भगवन्! वीप्सा तन्-नाम्नो जिह्वाग्रहण-स्वभावात् अतो महा-योगिन्! अचिन्त्य-प्रभाव! सङ्कर्षण-स्नेहादिना कृष्णाद् अपृथग्-भूत! अत एव सनातन! हे द्वितीय-व्यूहत्वादिना सदा वर्तमान । यद् वा, सनः श्री-**कृष्ण-**विरहतो बहुधा व्रज-जनाभयदानं किं वा, श्री-यमुना-कर्षणादि-क्रीडया व्रज-जनाद्य् आनन्द-दानं तम् आतनोतीति तथा-तत्-सम्बोधनम् । एवं पृथक्-सम्बोधनं श्री-कृष्णात्-सङ्कर्षणस्य न्यूनताभिप्रायेण । यद् वा, तौ प्रत्य् एव तत्-तत् सर्वं तथापि कृष्णस्यादौ सम्बोधनं साक्षाद्-भगवत्त्वेन प्राधान्याद् इति । जाने अधुना ज्ञातवान् अस्मि । किं वा, सदैव जानन्न् अस्मीत्य् अर्थः । **प्रधान-**पुरुषाव् इत्य् अंशत्वेन तयोर् अभेदापेक्षया ईश्वरस्यैकत्वे\ऽपि पराव् इति द्वित्वं तयोर् वैक्याद् एव अन्यत् तैर् व्याख्यातम् ।

तत्र साक्षाद् इत्य् अस्योभयत्र योजनम् अर्थ-बलात् एवम् अग्रे\ऽपि । किं वा, पर इत्य् अत्र लेखक-भ्रमाद् इति अथवा प्रधान-पुरुषौ पुरुष-श्रेष्ठौ परमेश्वराव् इत्य् अर्थः । तत्रापि परौ अशेषैश्वर्य-प्रकटनेन सर्वोत्कृष्टौ श्री-कृष्णस्यैव तादृशत्वे\ऽपि श्री-बलदेवस्य तादृशी चोक्तिर् उक्त-न्यायात् ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथैवाह—कृष्ण हे स्वयं भगवन्! वीप्सा तद्-दार्ढाय अतो हे महा-योगिन्! सर्व-व्यापक! योग-माया-प्रभावन् इत्य् आश्रय तथा हे सङ्कर्षण! द्वितीय-निज-व्यूहत्वाच्-छ्री-कृष्णेन सङ्कृष्यते छायेवाप्रकटायां प्रकटायाम् अपि लीलायां निज-सहचरः क्रियते यः हे तथा-भूत! अत एव हे सनातन! तथैव नित्य-सिद्ध! वां युवां जाने निश्चित्य जानामि कीदृशं यथा स्यात्तथा जानीषे तत्राह—यत् युवाम् अस्य विश्वस्य यथाक्रमं प्रधान-पुरुषौ स्थः तत्र प्रधानं सर्वतः श्रेष्ठं प्रकृत्य् उपाध्यतीतं श्री-भगवद्-रूपं पुरुषश् च प्रकृती-क्षण-कर्ता तद् अंशः यथोक्तं तृतीये भगवान् एक आसेदम् अग्र आत्मनां विभुः [भा।पु। ३.२३.२६] इत्य् उपक्रम्य—

कालवृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । > पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥

तथा तत्रापि साक्षात्-परौ सर्व-मूल-स्वरूप-श्री-कृष्णादि-रूपत्वेन स्वयं भगवद्-आदि-रूपौ अन्यत्-तैः तत्र साक्षाद् इत्य् अस्योभयत्र योजनम् अर्थवशात् ॥३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्य विश्वस्य कारणीभूतौ यत् यो **प्रधान-**पुरुषेश्वरौ परौ तयोर् अपि श्रेष्ठौ परमेश्वरौ वाम् अहं जाने । यद् वा, प्रधानीभूतौ परमेश्वरौ पुरुषौ वासुदेव-सङ्कर्षणौ ॥३॥


॥ १०.८५.४ ॥

यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा ।

स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् इदं विश्वम् अनेकैः कारकैर् जायमानं कुतः प्रधान-पुरुषात्मकं, कुतस् तरां आमावयोस् तत् कारणत्वेनेश्वरत्वं तत्राह—यत्रेति । यत्राधिकरणे । येन कर्त्रा करणेन च । यतः अपादानात् । 1स्य सम्बन्धेन । षष्ठ्य्-अर्थस्याकारकत्वेऽपि निमित्ततोक्ता । यस्मै संप्रदानाय । यद्2 यद् इति प्रयोज्य-कर्तृ-कर्म-कारके दर्शिते ।

ननु तयोर् ना3स्ति भेदः, यथोक्तम्,

करोति क्रियमाणेन न कश्चित् कर्मणा विना । > भवत्य् अर्थस्य कर्ता च करोतेः कर्म जायते ॥

तथा,

करोत्य् अर्थस्य यः कर्ता भवितुः स प्रयोजकः । > भविता तम् अपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥

इति च, सत्यम्, तथाप्य् अवस्था-भेदेन भेदो विवक्षितः । दृश्यते चावस्था-भेदः । त4ण्डुलान् ओदनं पचति, मृदं घटं करोतीति । तद् एवं सप्त-विभक्त्य्-अर्था दर्शिताः । यथेति यदेति च क्रिया-विशेषण-भूतानाम् अन्येषां चाव्ययानाम् अर्थाः । स्याद् इति क्रिया-पदार्थोपलक्षणम् । एवं सर्वं प्रपञ्चम् अनूद्य तत् कारणस्य भगवद्-रूपतां विधत्ते, इदं साक्षाद् इति । प्रधानं भोग्यं पुरुषो भोक्ता तयोर् ईश्वरो भगवांस् त्वम् एव साक्षाद् इति तय्5ओर् ऐक्यम् अभिप्रेत्यैक-वचनम् ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्राक्षिपति-नन्व् इति । अकारकत्वे\ऽपि यद्यपि सम्बन्धस्य कारकत्वं नास्ति क्रिया-योगाभावात्-तथापि **साक्षात्-**क्रिया-गो-गाभावे\ऽपि साधोर्धनं तिष्ठतीत्य्-आदिषु धनादि-द्वारा तत्-सम्बन्धात्-कारक-निमितम् अस्त्य् एवेति । पुनर् आशङ्कते—नन्व् इति । तयोः प्रयोज्य-कर्तृ-कर्मणोः । प्रमाणम् आह—यथोक्तम् इति । क्रियामाणेन कर्मणा विना कश्चिन् न करोतीत्य् अन्वयः । भवत्य् अर्थस्य सत्तार्थकस्य धातोः भवतीत्य् अत्र धातु-निर्देशे शितप् । तथा हि-घटो भवतीह भत्यर्थस्य कर्ता घटः स करोतेः कर्म जायते कुलालो घटं करोतीतिवत् । क । अन्यद् आह—तथेति । करोत्य् अर्थस्य करणार्थस्य भवितुः सत्तार्थकस्य कर्तुः भविता सत्तार्थक-धातुकर्ता तं प्रयोजकम् अपेक्ष्य प्रयोज्यत्वं प्रवर्तते । यथा घटो भवति कुलालः प्रेरयतीत्य् अत्र करोत्य् अर्थकर्तुः कुलालस्य भवितुर्-घटस्य प्रयोजकत्वम्, भवत्य् अर्थकर्ता घटस् तु तं कुलालम् अपेक्ष्य प्रयोज्यत्वं प्राप्तः । यथा घटो भवति कुलालः प्रेरयति कुलालो घटं भावयतीति

प्रेरणा-विषयो यस् तु प्रयोज्यः स विधीयते । > प्रयोजकः स विज्ञेयः प्रयुक्तो नापरैर् यदि ॥ > मुख्य-कर्तारम् आचष्टे प्रत्ययो\ऽनेक-कर्तृकः । > मुख्य-प्रयोजकस् स स्याद्-यो\ऽप्रयुक्तः परेण हि ॥ इत्य् अलम् ।

इति च सत्यं यद्यप्य् एतत्-सत्यम् । तथापि दृश्यते चेति । यथा वस्तुतस् तण्डुलौदनयोर् अभेदे\ऽपि तण्डुलाव् अस्थात ओदनावस्था प्रयोज्य-कर्त्रवस्थातः प्रयोज्य-कर्त्रावस्थापि भिन्नैव् एति ज्ञेयम् ।

तद् एवम् इत्थं क्रिया-विशेषणता चेत्थं यदा भवतीति यत्-कालिकं भवनं यथा भवतीति यत्-प्रकारकं भवनम् इति च भवन-क्रिया विशेष्या । यद् एत्य्-आदि-विशेषणं च अन्येषां क्रिया-विशेषणताहीनानां चादीनां च । एवं च इत्थं च । सर्व-प्रपञ्चं षट्कारकादि-साध्यं तस्य प्रपञ्चस्य कारणम् अभिन्न-निमित्तोपादानं भगवांस् तद्-रूपतां भगवद्-रूपताम् । तयोर् भोक्तृ-भोग्ययोः । तीर्थस् तु-यत्र यस्मिंस् तिष्ठति । यस्मिन्न् इदं इति श्रुतेः । येन जातानि जीवन्ति [इषो।उ। १.१] इति श्रुतेः । यतो वा इमानि भूतानि [तै।उ। ३.१.१] इति च । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम् । मृत्युर् यस्योपसेचनम् [क।उ। १.२.२५] इति काठक-श्रुतेः । यस्मा इदं क्रियते इति । सच् च त्यच्-चाभवत् [तै।उ। २.६] इति । **यथा-**स्थितं यदा काले इदं स्यात्-तथा तदास्मात् ब्रह्मैवेदं सर्वम् । इति श्रुतेः । इदं जगत् **साक्षात्-**स्पष्टं निर्विचारं प्रधान-पुरुषेश्वर-शब्द-वाच्यो भगवान् एव स्यात्-तत्-सत्ताया अपि तद् अधीनत्वादित्य् आह ॥४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इदम् इति प्रपञ्चस्य प्रत्यक्षत्वाद् इदं विश्वं **प्रधान-**पुरुषयोर् ईश्वरश् च भगवान् एव त्वम् इति वक्तव्ये भगवान् इति परमादरात् । स्वचक्षे च परत्वम् एव प्रतिपादयति-यत्रेति । इदं श्री-भगवान् श्री-नारायणः साक्षात् स्वयं त्वं च प्रधान-पुरुषात् पुरुषोत्तमाद् अपि तस्माद् ईश्वरः अशेषैश्वर्य-विस्तारणात् ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सर्व-मूल-स्व-रूपत्वम् एव दर्शयन् सङ्कर्षणस्यापि श्री-कृष्णे\ऽन्तर्भावम् अभ्य् उपगच्छंस् तम् एव स्तौति त्रिभिः-यत्रेति इदं स्वरूपाख्य-तटस्थाख्य-बहिर् अङ्गाख्य-शक्तिमयं वैकुण्ठ-जीव-जगद् आख्यं वैभवं यत्र स्याद्येन स्याद् इत्य्-आदि योजयित्वा स भगवान् श्री-कृष्ण-लक्षणस् तम् एव साक्षात् स्वयम् अनन्याश्रयितया पूर्वोक्त-**प्रधान-**पुरुषयोर् अपि ईश्वरो मूल-स्वरूपत्वाद् आश्रय इति योज्यं यत्रेत्य्-आदिभिः स्वरूप-सिद्धाधार-शक्त्याद्य् अशेष-शक्ति-परमाश्रयत्व-व्यक्तेर् इति भावः । तत्र यस्येति इदन्तानिर्दिष्ट-वस्तुनैव सम्बन्धी विवक्षितः तत्-सम्बन्धं विना तस्य ख-पुष्पादि-तुल्यत्वं स्याद् इति निमित्तत्वं च क्रिया-निमित्तत्वाविवक्षया कारकत्वाभावश् च यस्मा इति तल्-लीलोपयोगित्वात् यद्यद् इत्य् उपादानोपादेय-शक्त्योस् तद् आत्मकत्वात्-तद् अभेदेन निर्देशः यथा यदेति प्रकारकाशक्त्योर् अपि येनैव प्रकार-रूपेण यस्मिन्न् एव काल-रूप इति अन्यत्-तैः । तत्र कारिकार्थः कर्मैव किं तत्राह—भवतीति भवतेर् अर्थस्य कर्ता यो मृद्धटादिः स एव करोतेः कर्म जायते मृदेव घटो जायते मृदेव घटो भवति तं भावयतीति णिजन्त-भवतेर् एक-पर्यायेण करोत्य् अर्थेन तद्-व्याप्तेः एवं यस्य कर्मत्वं साधितं तस्यैव प्रयोज्यत्वं साधयति तथेति भवितुर्-मृद्-घटादेः तथापीति पूर्वावस्थाया मृदादेः प्रयोज्यत्वम् उत्तरावस्थायाः घटादेः कर्मत्वम् इत्य् अर्थः ॥४।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कार्य-भूतम् इदं विश्वम् अपि त्वम् एव भवसीति द्वयोर् ऐक्याद् एक-वचन-प्रयोगेणाह—यत् घट-पटादिकं वस्तु यत्र देशे स्यात् येन कारणेन यतो\ऽपादानात् यस्य सम्बन्धे यस्मै देयं यत् देयं यथा येन प्रकारेण यदा यस्मिन् काले स्यात् तद् इदं सर्वं भगवान् एव भगवत्-कार्यम् इत्य् अर्थः । कीदृशः साक्षात् **प्रधान-**पुरुषयोर् अपीश्वरः ॥४॥


॥ १०.८५.५ ॥

एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज ।

आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च धारण-पोषण-कर्तापि त्वम् एवेत्य् आह—एतद्6 इति । हे आत्मन्, प्राणः क्रिया-शक्तिर् जीवो ज्ञान-शक्तिश् च संस् त्वम् एव बिभर्षि ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किञ्चेति । आत्मना जीवेन रूपेण तत्-सृष्ट्वा तद् एवानुप्राविशत् इति श्रुतेः ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तच् च प्रत्यक्षम् एवेत्य् आह—एतद् इति । नानाविधं जरायुजादि-भेदेन महद् अल्प-भेदेन वा सात्त्विकादि-भेदेन वा आत्मना स्वयम् एव अनु सृष्टेर् अनन्तरं प्रविश्यात्मन् एव बिभर्षीति तत्र तत्रान्य् अनैर् अपेक्ष्यम् उक्तम् । तच् च युक्तम् एवेत्य् आह—आत्मना त्वयैव सृष्टम् इति । अन्तर्यामितय इत्य् अर्थः । तथापि न त्वं कथञ्चित् केनापि ज्ञातुं शक्यस इत्य् आह—अधोक्षज! हे इन्द्रियाज्ञानोगोचरेति । यतो\ऽजो नान्यवज्-जायसे किन्तु स्वयम् एव प्रकाशयस इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, आत्मन्! आत्मन्य् एव बिभर्षि विश्वस्याश्रयश् च त्वम् एवासीत्य् अर्थः । स्वपक्षे एवं बहिर्-विराजमानो\ऽपि त्वं सर्वेषाम् अन्तश् च प्रकाशस इत्य् आह—एतद् इति । हे अधोक्षजेति बाल्यलीलया शकटाधोवर्तमानो\ऽपि विश्वम् अनुप्रविश्य बिभर्षि यतः प्राणो विश्वस्य देह-धारकस् त्वम् एव प्राणदश् च त्वम् एवेत्य् आह—जीवयतीति जीव इति । अतो विश्वस्य प्रियतम इत्य् आह—आत्मन्! हे परम-प्रिय इत्य् अर्थः । अत एव प्रयत्नं विनापि स्वयम् एव त्वं प्रकाशस इत्य् आह—अज इति । अन्यत् समानम् ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्वार्थम् एव प्रतिपादयति-एतद् इति । तत्रात्मन् आत्मन् ईत्य् अनेन यत्रेति आत्मेत्य् अनेन येनेति आत्म-सृष्टम् इत्य् अनेन यत इति यस्येति यद्यद् इति सृष्ट्य् आदि-लीलत्वेन यस्मा इति प्राणो जीव इत्य् अनेन क्रियाज्ञन-शक्त्य् आश्रयता-सूचकेन यथेति तत्रैव क्रिया-शक्ति-विशेष-काल-शक्तित्व् असूचनेन यद्-एतद् इति च अधोक्षजेत्य् अनेन तत्रापि परमाश्रयत्वम् अज इत्य् अनेन स्वयं भगवत्त्वम् इति ज्ञेयम् ॥५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किञ्चास्य पोषण-कर्तापि त्वम् एवेत्य् आह—एतद् इति । आत्मना अन्तर्यामि-स्वरूपेणानुप्रविश्य हे आत्मन्! प्राणः क्रिया-शक्तिमय-सूत्रतत्त्व-रूपः जीवो ज्ञान-शक्तिमय-बुद्धितत्त्व-रूपश् च सन् त्वम् एव बिभर्षि प्राण-बुद्धि-कर्म-ज्ञानेन्द्रिय-रूपेण पुष्णासि ॥५॥


॥ १०.८५.६ ॥

प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः ।

पारतन्त्र्याद् वैसादृश्याद् द्वयोश् चेष्टैव चेष्टताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु प्राणादीनां विचित्र-शक्तीनां कारणत्वावगमात् कथं परमेश्वरस्यैव कारणत्वेन सर्वात्मकत्वम् उच्यत इत्य् आशङ्क्य प्राणादि-शक्तयोऽपि तस्यैवेत्य् आह—प्राणादीनाम् इति । प्राणः सूत्रं तद्-आदीनां विश्व-सृजां विश्व-कारणानां याः शक्तयस् ताः परस्य परम-कारणस्येश्वरस्यैव । कुतः ? पारतन्त्र्यात् । यथा वेध-शक्तिर् न बाणस्य, अपि तु पुरुषस्य तद्वद् इत्य् अर्थः ।

ननु भगवतः प्राणादि-वर्गस्य च स्वातन्त्र्यम् एव किं न स्याद् अत आह—वैसादृश्याद् वयोर् इति । चेतन-शेतनत्वेन विस-दृशत्वाद् द्वयोः । अचेतन-प्राणादि-वर्गस्य चेतन-पारतन्त्र्यम् एव युक्तम् इत्य् अर्थः । यद् वा, प्राणादिषु द्वयोर् द्वयोर् एव तावद् विस-दृशत्वं विरुद्ध-क्रिया-कारित्वात् किं पुनर् बहूनाम् । तस्माद् एकेन सर्व-ज्ञेन सर्व-शक्तिनाधिष्ठितानाम् एव विशिष्ट-कार्यारम्भकत्वं युक्तं न स्वतन्त्राणाम् इति । तथा चोक्तम्,

यदैते संहता भावा भूतेन्द्रिय-मनो-गुणाः । > यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम ॥ > तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः । > सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः ॥ इति ।

तथा, नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् [भा।पु। ३.५.३७] इत्य्-आदि । ननु प्राणादीनां क्रिया-कारित्वं शक्त्य्-अभावे कुतः स्याद् अत आह—चेष्टैव चेष्टताम् इति । चेष्टमानानाम् एषां चेष्टैव, न तु शक्तिः । यथा वायोः शक्त्या तृणादीनां चलनम् । यथा वा पुरुषस्य शक्त्या शराणां वेग इति ॥६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कारणत्वे पुनर् आशङ्कते—नन्व् इति । कारणत्वावगमात्-कारणत्व-निश्चयात् । तस्यैव परमेशस्यैव । प्राणो वै सूत्रम् [बृ।आ।उ। ३.२.२] इति श्रुतेः । तदादीनां सूत्र-महत्-ततत्त्वाहङ्कारादीनाम् । प्राणादि-वर्गस्य पारतन्त्र्यात्-स्वातन्त्र्याभावात् । इत्य् अर्थ इति-तद्-वद्बाणे वेधन-शक्तिवद् ईशस्य तत्त्वम् एव तेषाम् इति भावः । पुनर् आशङ्कते—नन्व् इति । इत्य् अर्थ इति-अचेतनस्य चेतनाधीनतैव युक्तेति भावः । प्रणादीनां स्वातन्त्र्यावगमे सृष्ट्यादि-निरोध एव स्याद् इत्य् आह—यद्वेति । प्राणादिषु द्वयोर् एव प्राणापानयोर् एव । विरुद्ध-क्रिया प्राणस्योपरि गमन-रूपापानस्याधोगमन-रूपा । यद् वा, प्राणस्य सूत्रात्मनः क्रिया-शक्ति-रूपाहङ्कारस्याभिमति-रूपा । एवम् अन्यत्राप्य् ऊह्यम् । तस्माद् ऐकमत्याभावात् । अत्र च पूर्वोक्तं स्मारयति-तथा चोक्तम् इति । पुनर् आशङ्कते—नन्व् इति । एषां प्राणादीनाम् ॥६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विश्व-सृजाम् इति । आदि-शब्दाद्-वक्ष्यमाणा महा-भूतादयः । पारतन्त्र्ये हेतुः—द्वयोर् वैसाद्-ऋश्याद् इति । अन्यत् तैर् व्याख्यानम् ।

तत्र पारतन्त्र्यम् इत्य् अधिकं लेखक-भ्रमाद् इति । स्व-पक्षे-अतस् त्वद्-भक्तिस् त्वत्-कृपा-प्रभावाद् एव सिध्येन्न त्व् अन्यथा । त्वच्-छक्त्यैव सर्वेषां सर्व-शक्तिर् इत्य् आह—प्राणेति । विश्व-सृजां श्री-ब्रह्मादीनाम् अपि ये प्राणादयस् तेषाम् । अन्यत् समानम् ॥६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विश्व-सृजाम् इति । आदि-शब्दात् वक्ष्यमाणा महा-भूतादयः । पारतन्त्र्ये हेतुः—द्वेषो वैसादृश्याद् इति । अन्यत्-तैर् व्याख्यातम् । अत्र पारतन्त्र्यम् इत्य् अधीकं लेखक-भ्रमाद् इति स्व-पक्षे अतस् तद्-भक्तिः तत्-कृपा-प्रभावाद् एव सिद्ध्येन्न त्व् अन्यथा । त्व् अच्छक्त्यैव सर्वेषां सर्व-शक्तेर् इत्य् आह—प्राणेति । विश्व-सृजां ब्रह्मादीनाम् अपि ये प्राणादयस् तेषाम् । अन्यत् समानम् ॥६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु प्राण-जीवावेत तत्-तद्-रूपौ विश्वोपदेष्टारौ प्रसिद्धौन त्व् अहं तत्-पोष्टा तत्राह—प्राणादीनाम् इति न केवलं तयोर् **विश्व-**पोष्टत्वम् एवापि तु **विश्व-**स्रष्टृत्वम् अपि प्रसिद्धम् इत्य् अर्थः । तेषां याः शक्तयस्ताः परस्य परमेश्वरस्यैव कुतः पारतन्त्र्यात् यथा वेध-शक्तिर् न बाणस्य अपि तु पुरुषस्य तद्वद् इत्य् अर्थः ।

ननु तयोः स्वाधिष्ठातृ-दैवत-पारतन्त्र्यम् अस्तु परमेश्वर-पारतन्त्र्यं कुतो\ऽवसितं तत्राह—वै निश्चितं सादृश्यात् तद् अदिष्ठातृ-देवतानाम् अपि तत्-तुल्यत्वात् यथैव प्राण-जीव-शब्द-वाच्यानि कर्म-ज्ञानेन्द्रियाणि जडानि तथैव तद् अधिष्ठातृ-दैवतान्य् अपि जडानीत्य् अर्थः । ततश् चश्वरस्यैवेत्य् अन्वयः ।

ननु प्राणादीनां शक्त्य् अभावे कुतः क्रिया-कारित्वं स्यादत आह--द्वयोः प्राण-जीवयोः तयोश् चेष्टैव चेष्टतां स्याद् इति यावत् चेष्टमानानां प्राण-बुद्धि-कर्मेन्द्रियाणां चेष्टैव केवलं न तु शक्तिर् यथा पुरुषस्य शक्त्या शरादीनां वेग इत्य् अर्थः ॥६॥


॥ १०.८५.७ ॥

कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् ।

यत् स्थैर्यं भूभृतां भूमेर् वृत्तिर् गन्धोऽर्थतो भवान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पार-तन्त्र्यम् एव प्रपञ्चयति—कान्तिर् इति पञ्चभिः । चन्द्रस्य कान्तिः । अग्नेस् तेजः । अर्कस्य प्रभा । ऋक्ष-विद्युतां सत्ता स्फुरण-मात्रेण सत्त्वम् । अर्थतो वस्तुतो भवान् । तथा च श्रुतिः—

न तत्र सूर्यो भाति न चन्द्र-तारकं > नेमा विद्युतो भान्ति कुतोऽअयम् अग्निः । > तम् एव भान्तम् अनु भाति सर्वं > तस्य भासा सर्वम् इदं विभाति ॥ [क।उ। २.५.१५] इति ।

स्मृतिश् च—

यद् आदित्य-गतं तेजो जगद् भासयतेऽखिलम् । > यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ [गीता। १५.१२] > इति ।

भूमेर् वृत्तिः प्राणिनाम् आधारत्वेन वर्तनं गन्धश् च भवान् । तवैव शक्तिर् इत्य् अर्थः ॥७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कान्तिः कमनीयता । पारतन्त्र्ये श्रुतिम् आह—तथा चेति । तत्रात्मनि । तम् एवात्मानम् एव ॥७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शक्तीर् आह—कान्तिर् इति पञ्चभिः । यद् इति लिङ्ग-व्यत्ययेन सर्वैर् अपि योज्यम् । याश् चन्द्रादीनां कान्त्य् आदयस् ताः सर्वा भवान् एवेत्य् अन्वयः । तत्र भवान् इत्य्-आदरात् अग्रे तु त्वम् इति भक्त्य् उद्रेकात्, पुनश् च भावान् इति तथैवेत्य् एतच् च भक्ति-भङ्ग्यैवेति ज्ञेयम् ।

एवं तेजस्विनां तच्-छक्ति-हेतुत्वेनादौ तेजसः शक्तिर् उक्ता, तृतीय-स्कन्धे किल-देवोक्तायाः पचनादि-तच्-छक्तेर् अप्य् अत्रैवान्तर्भावो ज्ञेयः । एवम् अन्यत्रापि, अधुना भूमेः शक्तिं वदन्नादौ भौमत्वेनाद्रीणाम् आह—स्थैर्यं धारणाशक्तिर् इत्य् अर्थः । अर्थतो भवान् इति शक्तिमतो कार्य-कारणयोश् चाभेदाभि-प्रायेण, तेषां तत्-तच्-छक्तिस् त्वच्-छक्त्यैव इत्य् अर्थः । एवम् अग्रे\ऽपि ॥७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शक्तीर् आह—कान्तिर् इति पञ्चभिः । यद् इति लिङ्ग-व्यत्ययेन सर्वैर् अपि योज्यं याश् चन्दादीनां कान्त्यादयः ताः सर्वाभावेनैवेत्य् अन्वयः । तत्र भवान् इत्य्-आदरात् अग्रे तु त्वम् इति भक्त्य् उद्रेकात् पुनश् च भवान् इति तथैवेत्य् एतच्-च भक्ति-भङ्ग्यैवेति ज्ञेयम् । एवं तेजस्विनां त्वच्-छक्ति-हेतुत्वेनादौ तेजसः शक्तिर् उक्ता तृतीय-स्कन्धे कपिल-देवोक्तायाः पचनादि-तच्-छक्तेर् अप्य् अत्रैव वीतभावो ज्ञेयः । एवम् अन्यत्रापि ।

अधुना भूमेः शक्तिं चरन्नादौ भौमत्वेनाद्रीणाम् आह—स्थैर्यं धारण-शक्तिर् इत्य् अर्थः । एवम् अन्यत्रापि अर्थ-लोभवान् इति शक्ति-मतोः कार्य-कारणयोर् अभेदाभिप्रायेण तेषां तत्-तच्-छक्तिस् त्वच्-छक्त्यैव इत्य् अर्थः । एवम् अग्रे\ऽपि ॥७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् वस्तु-मात्राणां या याः शक्तयस् तवैवेति प्रदर्शयति-कान्तिर् इति । तत्र कान्तिः कमनीयता चन्द्रर्क्ष-विद्युतां प्रसिद्धैव अग्न्य् अर्कयोश् च शीत-काले अर्कस्योदयास्तसमये\ऽपि तेजः स्पर्शाशक्यत्व् अलक्षणं सर्वेषाम् एव प्रभा अति-दूरस्थः प्रकाशः सत्ता च चन्द्रादीनाम् अर्थतो वस्तुतो भवान् तथा च श्रुतिः—

न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विदुतो भान्ति कुतो\ऽयम् > अर्गनिः । > तम् एव भान्तम् अनुभान्ति सर्वे तस्य भासा सर्वम् इदं विभाति > ॥[क।उ। २.५.१५] इति ।

स्मृतिश् च—

यद्-आदित्य् अगतं तेजो जगद्-भासयते\ऽखिलम् । > यच्-चन्द्रमसि यच्-चाग्नौ तत्तेजो विद्धि मामकम् ॥[गीता। १५.१२] > इति ।

यद् इति लिङ्ग-विपरिणामेन सर्वत्र योज्यं भूमेर् वृत्तिः प्राणानाम् आधारत्वेन वर्तनं गन्धश् च भवान् तथैव शक्तिर् इत्य् अर्थः ॥७॥


॥ १०.८५.८ ॥

तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः ।

7जः सहो बलं चेष्टा गतिर् वायोस् त8वेश्वर ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च हे देव, अपां तर्पणं तृप्ति-जनकत्वं प्राणनं जीवन-हेतुत्वं ता आपश् च तासां रसश् च त्वम् एव । किं च वायोर् ओजः-सह-आदि तवैव शक्तिः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यद् आह—किञ्चेति । इमं न्यायम् अन्यत्राप्य् अतिदिशति किञ्चेति ॥८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एक एवाहं कथं तत्**-तद्-**बहुल-रूपः? तत्राह—हे देवेति । बहुधा त्वम् एव क्रीडसीत्य् अर्थः । एवम् ईश्वरेत्यापि ईश्वर-शक्तेर् दुर्वितयत्वाद् इति भावः । ओज-आदि-त्रयं क्रमेण मन-इन्द्रिय-देहानां शक्तिः । यद् वा, ओजः-पराक्रमः, सर्व-विजय-शक्तिः [सर्वेन्द्रिय-शक्तिः] सहः—बहिर्-अन्तर्-व्यापक-शक्तिः, बलम्—उत्पाटनादि-शक्तिः, चेष्ट-नयनादि-शक्तिः । गतिः—शीघ्रादिर् इति विवेचनीयम् । तथेत्य् उक्त-समुच्चये । अयम् एव पाठः सुसङ्गतः, प्राक् पश्चाच् च सर्वत्रैवाभेद-निर्देशत् ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नन्व् एक एवाहं कथं तत्**-तद्**-बहु-रूपः तत्राह--देवेति । हे अनन्तधा-भासमान! एवम् ईश्वरे त्वयि तत्रैव विभूतयस् ता इति भावः । चेष्टा प्रयत्नः गति-चलन-मात्रम् अत्र तथेश्वरेति केवल-गौडीयः पाठः ॥८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं बहुना, वस्तु-धर्मा वस्तूनि च त्वम् एवेत्य् आह—तर्पणम् इति चतुर्भिः । हे देव! अपां तर्पणं तृप्ति-जनकत्वं प्राणनं जीवन-हेतुत्वं ता आपश् च तद्-रसश् च त्वम् एव वायोर् ओजस्-सहआदिकं तवैव शक्तिः ॥८॥


॥ १०.८५.९ ॥

दिशां त्वम् अवकाशोऽसि दिशः खं स्फोट आश्रयः ।

नादो वर्णस् त्वम् ॐ-कार आकृतीनां पृथक्-कृतिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दिशाम् उपाधिकृताकाश-प्रदेशानाम् अवकाशो दिशश् च त्वम्खं सामान्याकाशस् तद् आश्रयः स्फोटश् च शब्द-तन्-मात्रं परावस्था वाग् इत्य् अर्थः । नादः पश्यन्ती । ओङ्कारी मध्यमा । वर्णश् चाकृतीनां पदार्थानां पृथक् कृतिः पृथक् करणम् अभिढाणं यस्मात् तत् पदम् । वर्ण-पदाद्य्-आत्मिका वैखरी च त्वम् इत्य् अर्थः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सामान्याकाश् आश्रयः । इत्य् अर्थ इति-अतीव-सूक्ष्मा पराख्या वाग् एव शब्द-तन्मात्रम् इति भावः । आकृतीनां घटाद्य् आकाराणाम् । इत्य् अर्थ इति-परापश्यन्ती-मध्यमा-वैखरी-रूपस् त्वम् एव । प्रपञ्चयिष्यते चैतद् एकादश-स्कन्धे । यद् वा, वैयकरणाभिमताष्ट-विध-**स्फोट-**रूपो\ऽपि त्वम् एव । ते चाष्टौ स्फोटाः—**वर्ण-स्फोट-**पद-**स्फोट-**वाक्य-स्फोटा इति त्रयो व्यक्ति-स्फोटाः । वर्णत्व-जातिर्-वाचिकेति पक्षे वर्ण-पद-वाक्य-भेदेन त्रयो जाति-स्फोटाः वर्ण-पद-स्फोट-वाक्य-पद-स्फोटौ चेत्यष्टौ सन्ति । यथा-राम इत्य् अत्र-र-काराकर-मकाराकारवर्णा वाचका इति **वर्णस्-**फोटः, राम इति पदम् एव वाचकम् इति पद-स्फोटः, राम ंआं पाहीति वाक्यम् एव वाचकम् इति वाक्य-स्फोटः, तत्र व्यक्ति-स्फोट-वाचकानां मते वर्ण-पद-वाक्य-व्यक्ति रेव वाचिका । जाति-**स्फोट-**वाचकानां मते तु वर्णत्व-पदत्व-वाक्यत्व-जातिर् एव वाचिका, केषाञ्चिन्-मते वर्णानां पदस्यापि राम इत्य् अत्र वाचकत्वं तत्र वर्ण-पद-स्फोटः, राम मां पाहीति वाक्ये पद-वाक्ययोर् उभयोर् वाचकत्वम् इति पद-वाचक्य-स्फोटः, स्फुटति प्रकटीभवत्य् अर्थे\ऽनेनेति स्फोटः । ध्वनि-विशेष-वच्-छिन्नं ब्रह्मैव **स्फोट-**पद-वाच्यम् इति सिद्धान्तः ॥९-११॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्रय इति शब्दस्याकाश-शक्तिकत्वम् एव दृढयति । तत्र शब्दस्यैवावस्था-भेदेन भेदानाह—नाद इत्य् अर्धेन ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आश्रयश् च त्वम् इत्य् अन्वयः । अयम् एव हेतुः सर्वत्र ॥९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिशाम् उपाधिकृताकाश-प्रदेशानाम् अवकाशः दिशश् च त्वं खं च सामान्याकाशः तदाश्रयः स्फोटश् च शब्द-तन्-मात्रं वाकं परावस्थ इत्य् अर्थः । नादः पश्यन्ती मध्यमा च त्वं वर्णः ओङ्-कारश् च त्वम् आकृतीनां पदार्थानां पृथक् कृतिः पृथक्-करणम् अभिधानं यस्मात् स इति वैखरी च त्वम् इत्य् अर्थः । तथा च श्रुतिः

चत्वारि वाक्-परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । > गुहायां त्रीणि नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ इति > ॥९॥


॥ १०.८५.१० ॥

इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः ।

अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रियाणाम् इन्द्रियं विषय-प्रकाशन-शक्तिर् देवाश् चेन्द्रियाधिष्ठातारस् तद् अनुग्रहस् तेषाम् अधिष्ठान-शक्तिश् च त्वम् । अवबोधो9ध्यवसाय-शक्तिः । अनु10स्मृतिः प्रतिसन्धान-शक्तिः ॥१०॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पञ्च-महा-भूतानां शक्तिर् उक्ता । अधुनेन्द्रियादीनाम् आह—इन्द्रियम् इति । तु विशेषे । इन्द्रियादीनां प्रायश् चेतनत्वात् विविध-चेष्टा-कारित्वाद् वा मनस इन्द्रियेष्व् अन्तर्भावः । तस्य च सङ्कल्पादि-शक्ति-शक्तिर् ज्ञेया । सती सत्या निःसंशय इत्य् अर्थः । बुद्धेर् अनुस्मृति-शक्ति-सम्भवे\ऽपि जीवस्येति सर्वानुस्यूतस्य सदा वर्तमानस्य चैतन्यस्यैव स्वतस् तत्-सुसिद्धेः । यद् वा, जीवस्य जीवाधिष्ठानस्य चेत्तस्य श्री-भगवद् अनुस्मृतिः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जीवस्य जीवाधिष्ठानस्य चित्तस्य यानुस्मृतिः साधारणी या च सती भगवन्-निष्ठा सापि ॥१०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रियाम् इन्द्रियं विषय-प्रकाशन-शक्तिः देवाश्तद् अधिष्ठातारः तद् अनुग्रहः तेषां विषय-ग्रहणानुकूल्यं च अवबोधो व्यवसाय-शक्तिः जीव-स्थान-स्मृतिः जीव-सम्बन्धिनी अनुस्मृतिः प्रतिसन्धान-शक्तिश् च ॥१०॥


॥ १०.८५.११ ॥

भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः ।

वैकारिको विकल्पानां प्रधानम् अनुशायिनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भूतानां कारणं भूतादिस् तामसोऽहङ्कारस् त्वम् असिइन्द्रियाणां कारणं तैजसो राजसोऽहङ्कारस् त्वम् । विविधम् अधिदैवाध्यात्माधिभूत-भेदेन विकल्प्यन्त इति विकल्पा देवास् तेषां कारणं वैकारिकः सात्त्विकोऽहङ्कारश् च त्वम् । अनुशायिनां जीवानां संसार-कारणं प्रधानं त्वम् ॥११॥

———————————————————————————————————————

वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अधुना त्रि-विधाहङ्कारस्य शक्तीर् आह—भूतानाम् इति पाद-त्रयेण । सर्वेषाम् एषां मूलं प्रधानम् अपि तव शक्तिर् एवेत्य् आह—प्रधानम् इति । अनुशायिनां प्रकृतौ लयं प्राप्य स्थितानाम् इति मुक्ता व्यवच्छिन्नाः, तेषाम् एव भोगार्थं तत्-तत्-सृष्टेः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनुशायिनां प्रकृतौ लयं प्राप्य स्थितानाम् इति मुक्त-व्यवच्छिन्नाः ॥११॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानां कारणं भूतादिस् ताम् असो\ऽहङ्कारस् त्वम् असि इन्द्रियाणां कारणं तैजस-राजसाहङ्कारश् च विविधं कल्प्यन्त इति विकल्पा देवास् तेषां कारणं वैकारिकः सात्त्विकाहङ्कारश् च त्वम् अनुशायिनां जीवानां संसार-कारणं प्रधानं च त्वम् ॥११॥


॥ १०.८५.१२ ॥

नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् ।

यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च नश्वरेषु नाश-शीलेष्व् इहैतेषु भावेषु यद् अनश्वरम् अवशिष्यमाणं रूपं तत् त्वम् असिद्रव्य-विकारेषु मृ-सु-वर्णादि-कार्येषु घट-कुण्डलादिषु अश्वरेषु च द्रव्य-मात्रं मृत्-सुवर्णादि-मात्रम् अनश्वरं यथा तद्वत् ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह—अपि चेति । भावेषु देहादिषु ॥१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुक्तानां मोक्ष-सुखानुभव-शक्तिर् अपि त्वत्त एवेत्य् आशयेनाह—नश्वरेति । भावेषु उक्तेषु जगत्-कारणेषु तेषु तत् चैतन्यं निरूपितं निश्चयेनोक्तं दृष्टं वा तत्त्वज्ञैः ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् इति तत्-तद्-उपादानम् इति तच्-छक्तिकं ब्रह्म इत्य् अर्थः ॥१२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नश-वरेषु भावेषु तत् अनश्वरं प्रधानं त्वमसि यथा द्रव्य-विकारेषु घट-कुण्डलादिषु नश्वरेषु द्रव्य-मात्रं मृत्-सुवर्णादि-मात्रम् अनश्वरं तद्वत् ॥१२॥


॥ १०.८५.१३ ॥

सत्त्वं रजस् तम इति गुणास् तद्-वृत्तयश् च याः ।

त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु त्रि-गुणात्मक-कार्य-रूपोऽपि त्वम् इत्य् उक्तत्वात् कथम् अनश्वरत्वं तत्राह—सत्त्वम् इतितद् वृत्तयस् तत् परिणामाश् च महद्-आदयः । अद्धा साक्षात् त्वयि परे ब्रह्मणि कल्पिताः ॥१३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : त्रि-गुणात्मकत्वे शङ्कते—नन्व् इति ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु तत्-तच्-छक्तीनाम् अपि कान्त्य्-आदीनां मच्-छक्तित्वे सति कथं नश्वरत्वम्? नश्वरत्वे च सति कथं वा ममानश्वरत्वम्? तत्राह—सत्त्वम् इति द्वाभ्याम् । यतः परब्रह्म-रूपे कल्पनातीते\ऽपि योग-मायया तवाचिन्त्य-शक्त्या अद्धा साक्षाद् एव कल्पिताः । यद् वा, परे परमेश्वरे\ऽपि त्वयि कल्पिताः, तत्र च तवैवैकस्मिन् ब्रह्म-रूपे, न तु साक्षाद् ईश्वर-रूपे त्वयीत्य् अर्थः । ईश्वरस्यैवैश्वर्येण तत्-सम्बन्धीनाम् अपि नित्यत्वापत्तेः ब्रह्मणश् च केवलत्वेन तदीयानाम् अन्येषां मिथ्यात्वस्यैवोपपत्तेर् इति भावः ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, तत्-तच्-छक्ति-शाबल्ये तत्**-तद्**-दोषेणाहम् अपि दुष्येयं तत्राह—सत्त्वम् इतियोग-मायया स्वरूप-भूताचिन्त्य-शक्त्या कल्पिताः त्वयि तेषां सत्त्वे\ऽपि स्पर्शौ नास्तीत्य् एवम् एव योजिता इत्य् अर्थः तद् उक्तं श्री-गीतासु—

मया ततम् इदं विश्वं जगद्-अव्यक्त-मूर्तिना । > मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ > न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गी। ९.४-५] > इति ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ननु तत्-तच्-छक्ति-शाबल्ये तत्-तद्-दोषेणाहम् अपि दुष्येयं तत्राह—सत्त्वम् इतियोग-मायया स्वरूप-भूताचिन्त्य-शक्त्या तेषां सत्त्वे\ऽपि स्पर्शो नास्त्य् एवम् एव योजिता इत्य् अर्थः । तस्माद् यर्हि यदा प्रलय-समये कार्य-रूपा विकल्पिता अमी भावाः योग-मायया त्वत्तो वियोजितास् तदा न सन्ति न भवन्ति नश्यन्तीत्य् अर्थः । त्वं चामीषु विकारेषु कार्य-रूपेषु न भवसि नात्मसत्तां ददासीत्य् अर्थः अन्यदा तु सृष्टि-स्थित्य् ओस्तेषु व्यावहारिकः । **योग-**माययैवास्पृष्टो\ऽपि व्यवहार-सत्तासाधकतया वर्तस त्यर्थः ॥१३-१४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु यदि प्रधानम् अहम् एवास्मि तर्हि जगत्-कारणस्य तस्य विकारित्वे ममैव विकारित्वं प्रसक्तम् अत आह—सत्त्वम् इति द्वाभ्याम् । गुणास् त्रयो ये प्रधान-सञ्ज्ञा याश् च तद्-वृत्तयस् तत् परिणामा महद्-आदयश् च ते सर्वे योगमा-यया त्वं स्वरूप-भूताचिन्त्य-शक्त्या त्वयि तेभ्यः परे ग्णातीतेऽपि कल्पिताः समर्थिताः अवर्तमाना अपि ते वर्तितास् त्वद्-दृष्टि-पथे योजिता इत्य् अर्थः ॥१३॥


॥ १०.८५.१४ ॥

तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः ।

त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तस्मान् न सन्तीति । नन्व् असतां कथं प्रतीतिरत आह—यर्हीति । य11दा विकल्पितास् तदैव प्रतीति मात्रेण त्वयि सन्ति, त्वं चामीषु तदैव कारणतयानुगतः । अन्य12दा त्व-व्यावहारिको विकल्पकस् त्वम् एवावशिष्यस इत्य् अर्थः ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः कल्पितास् तस्माद् इत्य् अर्थः । तदैव विकल्प-समय एव । अमीषु भावेषु । अन्यदा ज्ञानावस्थायाम् । अन्यावहारिकः सर्व-व्यवहारातीतो\ऽविकल्पो जीवेश्वरादि-विकल्प-रहितः । इत्य् अर्थ इति—यो\ऽवशिष्येत सो\ऽस्म्य् अहम् [भा।पु। २.९.३२] इत्य् उक्तेस् तत्त्वज्ञानेनात्म-कल्पित-प्रपञ्चबाधे रज्जु-ज्ञानेन भुजङ्ग-बाधे रज्जुवत्त्वम् एवावशिष्यस इति भावः ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


**सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्मान्-**न सन्ति विनश्वरा एव इत्य् अर्थः । असत्यादेश् चेत्य् आह—यर्हि विशेषेण प्रत्यक्षत्वादिना कल्पितास् तदैवामी भावाः अन्यदा च न सन्ति मिथ्यैव इत्य् अर्थः ।

ननु मत्-सम्बन्धेन सत्याः सन्तु तत्राह—त्वम् इति । च अपि, त्वम् अपि, विकारेषु मायिकत्वेन विकार-रूपेष्व् अपि तदैवासि अन्यदा कल्पनाभावे त्व् अव्याववहारिकस् तत्-सम्बन्धातीतः । अतः सदा त्वत्-सम्बन्धाभावेन ते किलासत्या एव, त्वं च सदा सत्यत्वेनानश्वर एवेति भावः ॥१४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तर्माद्-यर्हि यदा प्रलय-समये कार्य-रूपा अमी भावाः विकल्पिताः तद् इच्छा-मय्या योग-मायया त्वद्-दृष्टितो वियोजितास् तदा न सन्ति न भवन्ति त्वं चामीषु विकारेषु कार्य-रूपेषु न भवसि हि निश्चये । अन्यदा सृष्टि-स्थित्योस् तु तेषु व्यावहारिकः योग-माययैवास्पृष्टो\ऽपि व्यवहार-सत्ता-साधकतया वर्तस इत्य् अर्थः ॥१४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तस्मात् यर्हि महा-प्रलये अमी भावा विकल्पिताः त्वद् इच्छा-मय्या योग-मायया त्वद्-दृष्टितो वियोजितास् तदा त्वयि न सन्ति न भवन्ति त्वं च अमीषु विकारेषु कार्य-रूपेषु तदा न वर्तस अन्यदा सृष्टि-स्थित्योस् तु त्वं तेषु व्यावहारिकः व्यवहार-निर्वाहकः वर्तसे तेष्व् अवर्तमानो\ऽपि व्यवहार-सिद्ध्य् अर्थम् अन्तर्यामित्वाद्य् अंशम् आविष्कृत्य वर्तस इत्य् अर्थः । यद् उक्तं गीतासु—

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । > मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ > न च मत्-स्थानि भूतानि सर्वाणीत्य् उपधारय ॥ [गीता। ९.४-५] इति > ।

तस्मात् त्वं स्वरूपेण गुण-मय-प्रधान-रूपो न भवसीति नास्ति ते विकार इति भावः ॥१४॥


॥ १०.८५.१५ ॥

गुण-प्रवाह एतस्मिन्न् अबु13धास् त्व् अखिलात्मनः ।

गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं-रूपत्वाद् अज्ञान-निबन्धनश् च संसार इत्य् आह—गुण-प्रवाह इति । सूक्ष्मां निष्प्रपञ्चां गतिम् अबुधा अविद्वांसः । अबुद्ध्वेति वा पाठः । अतोऽबोधेन देहाभिमानेन कृतैः कर्मभिः संसरन्तीति ॥१५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवं-रूपत्वाज्ञानं सर्व-बाधावधित्वाज्ञान-निबन्धनं कारणं यस्य स तथा । एतस्मिन् प्रत्यक्ष-सिद्धे । पूर्व-पाठापेक्षयाबुद्ध्वेति पाठस्य झटित्य् अर्थ-प्रत्यायकत्वात्-सम्यक्त्वम् । यतो न विदन्त्यतो हेतोः ॥१५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्व् एवं संसार-कारणानाम् एषां तत्त्वतो मिथ्यात्वेन संसारस्यापि मिथ्यात्वात् कथं विव्ध-संसार-दुःखानुभवः? आत्म-तत्त्वाज्ञानादि त्य् आह—गुण-प्रवाह इति । प्रपञ्च इत्य् अर्थः । अयम् एव हेतुः—प्रपञ्चस्याविच्छेदात् । तु शब्देन बुधा न संसरन्तीति बोधयति अखिलस्य सर्व-व्यापकत्वेनाखण्ड-चैतन्य-रूपस्याप्यात्मनः । यद् वा, अखिलेति पृथक् पदम्, हे संपूर्णैश्वर्य इत्य् अर्थः । अतस्-त्वद्-भक्तास् त्वत्-प्रभावेणाबुधा अपि न कथञ्चित् संसरन्तीति भावः । इह प्रपञ्चे इहेति संसरस्यानिवृत्तिः सूचिता । अन्यत्-तैर् व्याख्यातम् ।

यद् वा, त्वद् अज्ञानादित्य् आह—गुणैर् इति । एतस्मिन् कथञ्चिद् आश्रयण-मात्रेण साक्षात् सर्वैर् अनुभूयमाने\ऽपि गुणानां त्वत्-कारुण्यादीनां प्रवाहे परम्परायां सत्याम् अपि अखिलस्य सर्वस्यात्मनो जीवस्य गतिं शरणं त्वां प्रत्यबुधा अज्ञाः सन्तः त्वाम् अजानन्त इत्य् अर्थः । सूक्ष्माम् इति स्व-शक्त्या दुर्जेयत्वात् । यद् वा, अखिलानाम् आत्मनो\ऽन्तर्यामिणस् तव सूक्ष्मां भिन्नाभिन्नत्वादिना दुर्वितर्का गतिं तत्त्वम् । अन्यत् समानम् ॥१५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईदृश-त्वद् अज्ञान-निबन्धनश् चायं जीवानां संसार इति तान् शोचति-गुणेति । तथा-चैकादशे भयं द्वितीयाभिनिवेशितः स्यात् [भा।पु। ११.२.३७] इत्य्-आदि । अन्यत्-तैः । यद् वा, एतस्मिन् कथञ्चिद् आश्रयण-मात्रेण साक्षात्-सर्वैर् अनुभूयमाने\ऽपि गुणानां

त्वात्-कारुण्यादीनां प्रवाहे परम्परायां सत्याम् अपि अखिलस्य सर्वस्यात्मनो जीवस्य गतिं शरणं त्वां प्रत्यबुधा अज्ञाः सन्तः त्वाम् अजानन्त इत्य् अर्थः । सूक्ष्माम् इति स्व-शक्त्या दुर्ज्ञेयत्वात् ॥१५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : ईदृशत्वद् अज्ञान-निबन्धनश् चायं जीवानां संसार इति तान् शोचति गुणेति ॥१५-१८॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अत एव एतस्मिन् गुणाप्रवाहे संसारे अखिलात्मनस् तव सूक्ष्मां गतिम् उक्त-लक्षणाम् अबुधा अजानन्तः अबोधेन तेनैव कर्मभिः संसरन्ति ॥१५॥


॥ १०.८५.१६ ॥

यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् ।

स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं तयोस् तत्त्वं निरूप्य तद् अप्राप्त्या शोचति, यदृच्छयेति । नृतां मनुष्यताम् । सुकल्पां पटुतरेन्द्रियाम् ॥१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं तयो राम-कृष्णयोः । तद् अप्राप्त्या तत्त्वाप्राप्त्या । इह संसारे । स्वार्थे तत्त्वावाप्ति-रूपे । यद्-ऋच्छया प्रारब्ध-कर्मणा । ममेति शेषः ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहो त्वदीयस्य बुधस्यापि मम त्वन्-मायया त्वद्-भक्त्य् अभावेनायुर् व्यर्थं गतम् इति शोचति-यदृच्छयेति । अयत्नेनैव प्राप्य पूर्व-कर्मणैव अधुनोपसादितत्वात् । सुकल्पां सुसमर्थाम् । पाठान्तरे—अति-नीरोगामतिदक्षां व इत्य् अर्थः । तथा च—कल्पं सज्जे प्रभाते च कल्पो निरोग-दक्षयोः इति । एवम् उभयथापि तेषां व्याख्या सङ्गतैव । पटुतरेन्द्रियाम् इति । स्वस्यार्थ पुरुषारार्थे त्वद्-भक्ति-लक्षणे, प्रमत्तस्यानवहितस्य मे । हे ईश्वरेति त्वदीयस्यापीति । यद् वा, ईश्वर-मायया दुर्लङ्घ्यत्वाद् इति भावः ॥१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सांसारिकेषु विशेषतो नरं शोचति यदृच्छयेति । अयत्नेनैव प्राप्य पूर्व-कर्मणैवाधुनोपसादितत्वात् सुकल्यां स्वार्थ-साधने योग्यां सु-कल्पाम् इति पाठे\ऽपि तथैवार्थः । स्वस्यार्थे पुरुषार्थे त्वयि प्रमत्तस्यान् अवहितस्य हे ईश्वरेति! ईश्वरमायया दुर्लङ्घ्यत्वाद् इति भावः ॥१६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवम्-भूतं ज्ञानं त्वद्-भक्त्या नृजन्मनि सम्भवेत् तत् यस्य नाभूत् तं शोचति-यदृच्छयेति । सुकल्पां पटुतरेन्द्रियाम् ॥१६॥


॥ १०.८५.१७ ॥

असाव् अहं ममैवैते देहे चास्यान्वयादिषु ।

स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो किम् इति प्रमत्तोऽसि, त्वया बहुभिः पाशैर् निबद्धत्वाद् इत्य् आह—असाव् अहम् इति । दे14हे अस्य देहस्यान्वयादिषु पुत्रादिषु च ममैवैत इति ॥१७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद् आक्षेपे स्वासामर्थ्यं द्योतयन् भगवतः सर्व-सामर्थ्यम् आह—अहो किम् इत्य्-आदिना । अन्वयादिषु इन्द्रिय-कलत्रादिषु । न केवलं माम् एव किन्तु सर्वम् इति ॥१७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु मदीयेषु माया न प्रभवेत्-तत्राह—असाव् इति । नितरां बध्नाति भवान् एव, अतो मादृशामि **स्नेह-**पाशमयी सा दुस्तरैवेति भावः ॥१७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र सप्रणयरोषम् एवाह--असाव् इति ॥१७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं कर्तव्यं यतस् त्वज्-ज्ञानं भवेत्-तस्यां त्वद्-भक्ताववकाशम् एव जनो न प्राप्नोतीत्य् आह—असाव् इति ॥१७॥


॥ १०.८५.१८ ॥

युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ ।

भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो त्वत्-पुत्रयोर् आवयोः किम् इदम् आरोप्यते अत आह—युवाम् इति । भू-भार-क्षत्र-क्षपणार्थम् अवतीर्णौ तथा ह निश्चितम् आत्थ कथयसि ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति-अहो इत्य्-आदि । भू-भार-क्षत्र-क्षपण इति निमित्ते सप्तमी । एडः पदान्तादति इति पूर्व-रूप-रूप-सन्धिबाधस् त्व् आर्षः कथयसि

संरक्षणाय साधूनां विनाशाय च दुष्कृताम् । > धर्म-संस्थापनार्थाय भविष्यामि युगे युगे ॥

इति गीतोक्ति-रूपेण वदसीत्य् अर्थः ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नो\ऽस्माकं सुतौ न भवथः बहुत्वं स्व-पत्नी-वर्गाद्य् अपेक्षया, किन्तु साक्षात् प्रधान-पुरुषेश्वराव् एव । ननु तर्हि किम् अर्थम् अत्रागतौ? । तत्राह—भू-भारेति । तत्र च त्वद्-वच एव प्रमाणम् इत्य् आह—तथेति । तादृशं त्वम् एवात्थ, जन्म-समये साक्षाच्-छ्री-मुखेन श्री-नारदादि-द्वारा वा, सुताव् इत्य्-आदि-द्वित्वं व्यवहारापेक्षया तत्त्वतस् त्वैक्येन पुनर् अप्य् अग्रे तथैव निर्देशः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अहो पितर्मयि मदीयेषु च स्नेहो नितराम् अपेक्ष्य एव । सत्यम्, किन्त्व् ईश्वरे पुत्रत्व-दृष्टेर् अयोग्यत्वेन महा-धार्ष्ट्यं स्याद् इत्य् आशयेनेश्वरत्वम् आह—युवाम् इति । अर्थः स एव । यद् वा, भो भगवन्! पुत्रत्वेन तवास्मासु स्नेह एवोचित इति पुत्रत्वं द्रढयति-युवाम् इति । प्रधान-पुरुषेश्वराव् अपि साक्षान्-नः सुतौ न भवतः किम्? काक्वा, अपि तु भवथ एव इत्य् अर्थः । कुतः? भूभार-रूप-क्षत्रिय-क्षपणार्थं मद्वृहे पुत्रतया साक्षाद् अवतीर्णौ । अन्यत् समानम् ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नो\ऽस्माकम् इति अस्मदो द्वयोश् च [पा। १.२.५९] इति बहु-वचनम् आत्थ जन्म-समये कथितवानसीत्य् अर्थः ॥१८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत्रावाम् एव प्रमाणं यद् आवयोर् देह-पुत्रादिष्व् अहन्ताममते वर्तेते एवेत्य् आह—युवाम् इति । नः आवयोर्न सुतौ तद् अपि सुत-बुद्ध्या युवयोर् ममता वर्तत एवेति भावः । **क्षत्र-**क्षपणे भूभार-रूप-क्षत्रिय-क्षयाय तथैव आत्थ स्व-जन्म-समये कथितवानसि ॥१८॥


॥ १०.८५.१९ ॥

तत् ते गतोऽस्म्य् अरणम् अद्य पदारविन्दम्

आपन्न-संसृति-भयापहम् आर्त-बन्धो ।

एतावतालम् अलम् इन्द्रिय-लालसेन

मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् तस्माद् अरणं शरणम् आपन्नानां संसृति-भयम् अपहन्तीति तथा तत् । ननु त्वम् अति-सुखी, वृथा किं निर्विद्यसेऽत आह—एतावतेति । इन्द्रिय-लालसेन इन्द्रियार्थ-तृष्णया । यद् येन इन्द्रिय-लालसेन मर्त्ये शरीरे आत्म-दृग् आत्म-बुद्धिर् अहं त्वयिपरे परमेश्वरेऽपत्य-बुद्धिर् अस्मि तेन अलम्, अलं पर्याप्तम् इति ॥१९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतस् त्वम् ईशस् तत्-तस्मात् । आर्तबन्धो इति संसृतिभीतानां त्वम् एव रक्षक इत्य् आह—आक्षिप्य समाधत्ते-नन्व् इत्य्-आदि । एतावता इयत्-प्रमाण-केनाद्य् अपर्यन्तेनेति यावत् । मर्त्ये मृत्यु-शिरस्के । अहम् इति बुद्धिर् अहं पदार्थः । तेनेन्द्रिय-लालसेन ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तस्मात् साक्षाद् ईश्वरत्वात् त्वन्-मायामोहितत्वाद् वा । अद्येति त्वत्-कृपया विवेकोदये सतीत्य् अर्थः । शरण-यान-प्रयोजनं सूचयति—आपन्नानां शरणागतानां संसृति-भयापहम् इति । निर्विघ्न-त्वद्-भक्ति-सम्पत्तये संसार-दुःख-निवृत्त्य् अर्थम् इत्य् अर्थः । नन्व् अस्मत्-पितुर्-भक्त-वर्ग-पूज्यस्य कुतस् ते संसार-भयम् इति चेत, अहो बत, शरणागति-योग्यतापि मम नास्ति, कुतस् त्वत्-पितृत्वादि-योग्यता? किन्तु केवलम् इति दीनो\ऽस्मीति शरणं यामीत्य् अभिप्रायेण महार्त्त्य् आह—हे आर्तबन्धो इति । अलमलम् इति वीप्सात्यन्त-तद् उपेक्षया । न पतति निरये\ऽस्माद् इत्य् अपत्यम् इतीदृश्य् एव, न तु परम-पुरुषार्थो\ऽयम् इति बुद्धिर् इत्य् अर्थः—

युवां मां पुत्र-भावेन ब्रह्म-भावेन वासकृत् । > चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्गतिं पराम् ॥[भा।पु। > १०.३.४५] इति ।

पूर्व-जन्म-समये भगवता साक्षाद् उक्ते\ऽपीदृश्य् उक्तिः स्नेह-विशेष-सम्पत्तय इति दिक् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, इन्द्रियाणां लालसेन विषय-भोग-सुखपरतय इत्य् अर्थः । पुत्रता-दृढीकरण-स्व-पक्षे-**तत्-**तस्मात् मद्-गृहे\ऽवतीर्णत्वात्, अद्य एतज्-जन्मन्य् अपि ते तव पदारविन्दं प्राप्तो\ऽस्मि । कथम्-भूतम्? अरणं सर्व-लोकैक-शरणं विशेषतश् चापन्नाम् आपद्गतानां संसृतिभयापहम्

कुतः? हे आर्तबन्धो! दिन-वात्सल्याद् इति भावः । यद् वा, पदं श्री-मथुराख्यं स्थानं तद् एवारविन्दम्, मण्डलाकारत्वात् सन्ताप-हरत्वाच् च, अरणम् आश्रयं लब्धो\ऽस्मि । अन्यत् समानम् ।

ततो विविधा-पद्गणं प्राप्तस्य माहार्त्तस्य मे सर्वं भक्ति-विघ्नादिभयं निरस्य निरन्तरं त्वयि स्नेहभरं विवर्धयेति भावः । न च मोक्षाद्य् अर्थं त्वाम् इच्छामीत्य् अभिप्रायेणाह—एतावतेति । ईदृशेन इन्द्रियस्य मनसो लालसेन मोक्षादि-तृष्णया औत्सुक्येन वा, अलम् अलं किञ्चित् प्रयोजनं मे नास्तीत्य् अर्थः । **यद्-**यस्मात् परे पुत्र-श्रेष्ठे\ऽपि त्वयि मर्त्यानां देहानामात्मेति दृक् दृष्टिस् तथापत्य-बुद्धिः-पतिरीश्वर इत्य् अबुद्धिः पत्य-बुद्धिः, न पत्य-बुद्धिर् अपत्य-बुद्धिः, द्वौ नौ प्रकृत्य् अर्थं गमयतः, पति-बुद्धिश् च स्याद् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यस्माद्-भवान् एव माया-मयैः स्नेह-पाशैर् जीवानां बन्धकस् तत्-तस्मात्-तेषां तन्-निवृत्त्य् अर्थम् अद्य त्वत्-कृपया विवेकोदये सति ते तव पदारवीन्दं शरणागतो\ऽस्मि ननु यो बन्धको भवति स कथं मोक्षे प्रवर्तेत तत्राह—आपन्नेति । आपन्नाः शरणागताः ननु न ते शरणागताः त्वम् एव तद् अर्थं प्रार्थयसे तत्राह हे आर्तबन्धो! सहज-करुणस्य न तद् अपेक्षेति तथा तेषां सर्वत आर्तिविधानं पुरुषार्थ-शिरोमणि-स्व-सम्मुखी-करणायेति च भावः । एवं संसारिकाणां निवेदनं कृत्वा दैन्येन मर्त्य-लीलमप्य् आत्मानं मत्वा निज-वेदनम् आह—एतावतेति । इन्द्रिय-लालसेन परमेश्वरे पुत्रे सति मम सम्पत्ति-विशेषः स्याद् इति तृप्तयैव न तु श्री-व्रजेश्वरवत् त्वत्-प्रेम-मात्रेणेति भावः । अन्यत्-तैः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अथात्मानम् अपि दैन्येन मर्त्य-धर्माणं मत्वा निज-निवेदनम् आह—एतेति । इन्द्रिय-लालसेन परमेश्वरे पुत्रे सति मम सम्पत्ति-विशेषः स्याद् इति कृष्णयैव न तु श्री-व्रजेश्वरवत् त्वत्-प्रेममात्रेणेति भावः ॥१९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भोगांस् तावद्-धक्ष्व कुतस्ते संसार इत्यत आह—एतावतैव **इन्द्रिय-**लालसेनालं यत् येन मर्त्ये देहे आत्म-दृक् आत्म-बुद्धिर् अहं त्वयिपरे परमेश्वरे **अपत्य-**बुद्धिर् अस्मीत्यतो\ऽज्ञान-मूलः संसारो मम नास्त्य् एवेति भावः ॥१९॥


॥ १०.८५.२० ॥

सूती-गृहे ननु जगाद भवान् अजो नौ

सञ्जज्ञ इत्य् अनु-युगं निज15-धर्म-गुप्त्यै ।

नाना-तनूर् गगन-वद् विदधज् जहासि

को वेद भूम्न उरु-गाय विभूति-मायाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु कुत एतद् अहं परमेश्वर इति तत्राह—सूती-गृहे इति । नौ आवयोः । अनुयुगं प्रतियुग्मम् । यदा सुतपाः पृश्निर् इति युग्मम् । यदा कश्यपोऽदितिश् चेति युग्मम् । अधुना वसुदेवो देवकीति युग्मम् । एवं हि प्रतियुग्मम् अज एवाहं सञ्जज्ञेऽवतीर्ण इति भवान् नूनं जगाद । नन्व् अन्योऽसौ चतुर्-भुजो देव इति तत्राह—नाना तनूर् इति । गगन-वद् असङ्ग एव त्वम् । भूम्नः सर्व-गतस्य विभूति-रूपां मायां को वेदेति ॥२०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आक्षिपति—नन्व् इति । एतत् इदं कुतो\ऽवगतम् इत्य् अर्थः । तत्राक्षेपे । अजः शुक्रशोणित-सम्पर्क-जन्य-शरीर-रहितः । ननु निश्चयेन । पुनर् आशङ्कते—नन्व् इति । असौ सूती-गृहगः । उरुगायेति नाना-रूपताम् आह । न को\ऽपीत्य् अर्थः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु भो देव! निश्चतम् इति वा, अजो\ऽपि सम्यक् सर्वैश्वर्य-पूर्णतादिना उत्तम-पुत्रत्वेन वा जज्ञे । निज-धर्मस् तस्य गुप्त्यै गगनवच्-छ्यामसुन्दरीर् विशेषेन दधात् जहासि, प्रकटयस्यन्तर्-धापयसि च इत्य् अर्थः । तच् च केन प्रकारेणेति न केनापि ज्ञातुं शक्यत इत्य् आह—क इति । भूम्नः सर्वैश्वर्य-पूर्णस्य तव विभुतिमायां शक्ति-विशेषम् इत्य् अर्थः । तेन च तव महिमैव वर्धत इत्य् आशयेनाह—उरुगाय! हे महा-कीर्ते! इति । अन्यत् तैर् व्याख्यातम् ।

स्व-पक्षे न त्व् अस्मिन्न् एव जन्मन्य् अस्मत्-पुत्रस् त्वं किन्तु बहून्य् एवेत्य् अत्र त्वद्-वच एव प्रमाणम् इत्य् आह—सूतीति । निजानां मादृशानां धर्मस् त्वद्-भक्ति-लक्षणस्तस्य गुप्त्यै ।

ननु तर्हि कुतो वलपसि? तत्राह—नानेति । गगनवद्-व्यापिकाः क्वाप्य् अनासाश् च तनूर् विदधत् स्वार्थाय प्रकटयन् जहासि, समन्ताद् अन्तर्धापयसि । ममान्तर्धानाद् एते दुःखं प्राप्स्यन्तीति तव काप्य् अपेक्षा नास्तीत्य् अर्थः ।

ननु भक्तेषु कदाचिद् अपि स्नेहं न त्यजामीति चेत्-तत्राह—को वेदेति । महा-मायाविनि त्वयि न खलु विश्वसितुं शक्नुम इत्य् अर्थः । श्री-भगवद्-वचः—प्रामाण्यादिना सर्वथा कृतार्थत्वे\ऽपीदृशी दैन्योक्तिर् भक्त्य् उद्रेकस्य स्वभावेन स्नेह-विशेष-वृद्ध्य् अर्थम् एवेति ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु मयि तव् आपत्य-बुद्धिः कल्पिता न किन्तु वास्तवी यतः स्व-प्रति-श्रुत-सत्यत्वाय साक्षाद्-युवाभ्यां जातस् सन् युवाभ्याम् एव पूर्व-पूर्वम् अपि जन्म स्वयम् एवाहम् उक्तवान् तद् अङ्गीकृत्य परिहरति-सूतीति । किं जगादाहं तत्राह—अज इति । अजो\ऽपि जन्म-रहितो\ऽपि नौ आवयोः सम्यक् साक्षाद् एव जज्ञे आविर्भाव-मात्रत्वे\ऽपि जन्म-प्रकारं स्वीकृतवान् तत्राप्य् अनुयुगं तत्र कैमुत्येन कारणम् अपि दर्शयति-निजानां भक्तानां धर्मो भवन-लक्षणस् तस्य गुप्त्यै पालनाय वक्तव्यम् आवयोस् तत्-पालनायेति यद् वा, निजस् त्वदीयो यो धर्मः स्वभावः भक्त-मनो-रथ-परिपूरण-रूपस् तस्य पालनायेति नन्व् एवं चेत् मत्-कृपामयी तर्हि वास्वती च तर्हि कथं मय्य् अपत्य-बुद्धिर् आक्षिप्यते तत्राह—गगनवत्-तत्-तद्-दोषा-स्पृष्ट एव त्वं नानातनूह् प्राकृत-नरादि-जीव-जाति-रूपाः विधिवत् तादृश-प्राकृत-स्वतन्वाविर्भाव-द्वारा विशेषेण दधत् स्वीकुर्वन् जहासि तत्-तन्-निजाविर्भावास्पद-नित्य-धाम-गमनेन त्यजसि तस्मात्-तन्-मध्य-पातिनावावाम् अपि तादृशाव् इति नात्यन्तीनत्वाद् अपत्य-बुद्धिर् न युक्तैवेति भावः ।

ननु नित्याव् एव युवां प्राप्स्येथे मद्-गतिं परामित्य् उक्तम् एव तर्हि कथम् एतावद्-दैन्यं कुरुषे तत्राह—हे उरुगाय! वेद-गान-मात्र-प्रसिद्ध! भूम्नः अनन्त-वैभव-परिपूर्णस्य तव परम-गत्याख्यां विभूति-रूपां मायां स्वरूप-शक्तिं को वेद जानात्य् अपि तस्मात् तत्-परामर्शोनास्माकं किम् इति भावः ।

अथवा ननु यद्य् एवम् अपत्यबुद्धिम् आक्षिपसि तर्हि कथं तां कुरुषे तत्राह—सुतीत्य् अर्धेन । यद्य् अप्य् एवम् अघटमानं त्वयपत्यत्वं तथापि त्वद्-वाक्य-प्राण्येनैवाहं तत्र प्रवर्त इति भावः ।

नन्व् अहं युष्मद्-देह-प्रवेश-मात्रापेक्षया तथोपदिष्टवान् न तु तेनाहम् अपत्यं स्यां श्रुतौ मम व्यष्टि-समष्टि-जीव-देह-मात्र-प्रवेश-श्रवणेनातिव्याप्ति-प्रसङ्गात् तत्-सृष्ट्वा तद् एवानुप्राविशत् [तै।उ। २.६.२] इत्य्-आदौ तत्राह—गगनवद् असङ्ग एव त्वं जीवानां नानातनूर् अन्तर्यामि-रूपेण प्रविश्याङ्गीकुर्वन् जहासि यत् तां तव क्षुद्रैश्वर्य-रूपां को वेद बहुमन्यत इत्य् अर्थः । अयन्तु तवावयोः प्रवेशो विद्वद्भिर् अपि स्तूयते तस्माद्-विद्वद् आदयो\ऽपि ममास्ति प्रमाणं किन्त्व् आत्मा योग्यतया मम तत्राप्य् असम्भावना ज्ञायत इति भावः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : सूती-गृहे अस्यानन्तर-प्रघट्टके दृश्यं श्री-कृष्णस् तु तत्र निज-महिम-व्यक्तौ सौशील्येन सङ्कुचित इत्य् अर्थः ॥२०॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्व् अहं परमेश्वर एव तस्य पुत्रो\ऽभूवं यस्य तव कथं संसार इति तत्राह—सूती-गृहे सूतिका-गारे ननु भोः भवान् एव नौ आवयोर् अनुयुगं प्रतियुगं [ग्मं] यदा सुतपाः पृश्निर् इति युग्मं यदा च कश्यपो दितिश्चेति युग्मम् अधुना वसुदेवो देवकी तस्मात् सर्वस्माद् एव आवयोर् युग्मात् सञ्जज्ञे अवतीर्ण इति जगाद अत एव आवयोर् नानातनूः सुतपः-पृश्न्यादिनाम्-नीविदधत् सृजन् गगनवद् अलिप्त एवावयोः प्रति-जन्मापि पुत्रो भवन्न् अप्य् अनासक्त एव जहास आवां त्यजसि संसारं च न निवर्तयसि अतस्त् अव भूम्नः परमेश्वरस्य विभूति-रूपां मायां को देव ॥२०॥


॥ १०.८५.२१ ॥

श्री-शुक उवाच—

आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः ।

प्रत्य् आह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ब्रह्माद्य् अन्यतमम् अन्तरेण भगवता साक्षात्-संलापो वसुदेवं विनान्यस्य दुर्लभ इति भावेन कृष्णस्य प्रतिवचन-प्रकारम् आह—आकर्ण्येत्य्-आदि । प्रश्रयेण प्रणयेनेषन्नम्रः । प्रकृष्ट-सेव्ये विनये प्रश्रयः प्रणये\ऽपि च । इति निरुक्तिः ॥२१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् ईदृशम्, प्रश्रये विनयेन, आनम्रः सम्यङ्-नतशिराः सन्, श्लक्ष्णया मधुरया गिरा, प्रत्य् आह उत्तरं ददौ । यतो भगवान् परम-दयालुर् इत्य् अर्थः । विशेषतश् च सात्वतानां भक्तानाम् ऋषभः परिपालक इत्य् अर्थः । यद् वा, तत्रापि सात्वतानां यादवानाम् ऋषभो निजाशेषैश्वर्य-प्रकटनार्थं यदुकुले\ऽवतीर्य तत्-परिपालकत्वेन श्रैष्ठ्यं गत इत्य् अर्थः । अतः प्रहसन् कृतार्थस्यापि पितुर् दैन्योक्त्या उच्चैर्-हसन्, तच् च तस्य शोक-लाघवार्थम् इति ज्ञेयम् । किं वा, पितुर् एव श्लक्ष्णया गिरा हर्षेण प्रहसन् स्मयमानः ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस् तु तत्र निज-महिम-व्यक्तौ सौशील्येन सङ्कुचित इत्य् आह—आकर्येति । सात्वतानाम् ऋषभः तद्-रूपत्वेन तस्मिन् कुत-जन्म-लीलः अत एव पितुर् इति तादृश-व्यवहारे हेतुः—प्रहसन्न् इति । तथा तद्-वचनानौचित्याभिप्रायेण प्रहासं व्यक्तीकृत्य तेनैव मोहनेन प्रवसितेन पूर्व-सिद्धं तस्य निजैश्वर्य-ज्ञानं तत्-प्रतिपादक-वचनं च तेनाननुसंहितं कुर्वन्न् इत्य् अर्थः । अस्यायं भावः मयायं ब्रमादि-मनो-रथागोचरेण पितृत्वेन सदाङ्गीकृतः साधारणमुन्यादि-सुलभम्-ऐश्वर्य-ज्ञान-मात्रं नार्हति मां सङ्कोचयति च तत् एतद् अर्थम् एव मया कंस-वधान्ते शुद्ध-पितृ-भाव-मय-प्रेमैवानयोर् वर्द्धितः तथाप्य् अहो मुनि-वाक्येन तज्-ज्ञानांशः पुनर् उदित इति ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : आकर्येति । प्रहसन्न् इत्य् अत्र प्रेति प्रारम्भे स्मयन्न् इत्य् अर्थः । अस्यायं भावः । मयायं ब्रह्मादि-मनो-रथा-गोचरेण पितृत्वेन सदाङ्गीकृत्य इत्य् ऐश्वर्य-ज्ञानं नार्हति मां सङ्कोचयति च तत् एतद् अर्थम् एव मया कंस-वधान्ते शुद्ध-पितृ-भावमय-प्रेमैवानयोः वर्धितः ॥२१॥।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रश्रयेण आनम्रः प्रहसन्न् इति वन्दमानावावां पुत्राव् अपि प्रत्य् एवं त्वद्-वाक्यस्य रसाभासाभावार्थं प्रतिभय् **आह—**मस्य तात्पर्यम् अन्यथा प्रति-पादयामीति द्योतकः प्रहासः ॥२१॥


॥ १०.८५.२२ ॥

श्री-भगवान् उवाच—

वचो वः समवेतार्थं तातैतद् उपमन्महे ।

यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उपमन्महे उपमन्यामहे । समुद्दिश्य विषयी-कृत्य । तत्त्व-ग्रामस् तत्त्व-समूहः । उदाहृतः सम्यङ् निरूपितः ॥२२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् त्वद्-उक्तम् । समवेतार्थं श्रुत्य्-स्मृत्य्-उपपन्नार्थं प्रसिद्धार्थं वा । यद् वचः ॥२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वो युष्माकं बहुत्वम् इति गौरवात् । समवेतार्थं सुसङ्गतार्थम् । हे तात परम-पूज्यस्य तवैतद् युक्तम् एवेति भावः । यथा वा, किं बुद्धिं निरस्य पुत्र-बुद्धिं द्रढयति—पुत्रान् इति । बहुत्वं विनय-भरेणात्मनः साधारण्यापादनार्थं श्री-बलदेवाद्य्-अपेक्षया ॥२२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तस्माद् आत्मनि पुत्र-भावम् एव दृढी-कर्तुम् ऐश्वर्यम् अपलपन्न् आह—वच इति । नोऽस्मान् अवाङ्गदादींश् च पुत्रान् समुद्दिश्य सहज-विनयादि-गुणत्वात् स्तुति-व्याजेन, तत् त्वम् असि श्वेत-केतो [छा।उ। ६.८.७] इत्य्-आदिवद् उपदेशास्पदीकृत्य । तत्त्व-ग्रामः परमेश्वर-वैभव-रूपः ॥२२॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथाप्य् अहो मुनि-वाक्येन तज्-ज्ञानांशः पुनर् उदित इति तथैवाह—वच इति । समुद्दिश्य सहज-विनयादि-गुणत्वात् श्रुति-व्याजेनोपदेशास्पदीकृत्य तत्त्व-ग्रामः परमेश्वरस्य वैभव-रूपः । यथा वयं पुत्राः कृपया विभाव्यन्ते, यथा यत् सर्वे जीवा विभाविताः ॥२२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : समवेतार्थं युक्तार्थम् । उपमन्महे आधिक्येन मन्यामहे । समुद्दिश्य शिक्षणार्थं, तत् त्वम् असि श्वेतकेतो [छा।उ। ६.८.७] इत्य्-आदिवद् उपदेशास्पदीकृत्य ॥२२॥


॥ १०.८५.२३ ॥

अहं यूयम् असाव् आर्य इमे च द्वारकौकसः ।

सर्वेऽप्य् एवं यदु-श्रेष्ठ विमृ16ग्याः स-चराचरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इमाम् एव दृष्टिं सर्वत्र विधत्स्वेत्य् आह—अहम् इति । एवं विमृग्याः ब्रह्मत्वेनैवान्वेषणीयाः । किं , स-चराचरं जगद् अपि ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलम् इम एवापि । तु सर्वम् एवेत्य् आह—किं च इति । अन्वेषणीया द्रष्टव्याः, सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इति श्रुतेः ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् उक्त्वाभिनन्दनेन तं सन्तोष्य सर्व-सद्-गुण-निधिर् विनय-भरेणैवाह—अहम् इति । यूयम् इति गौरवाद् एव, श्री-देवक्य्-आद्य्-अपेक्षया वा । असौ ईश्वरत्वेन स्तूयमानोऽयम् अर्थोऽग्रजश् च इमे सर्वेऽपि जीवतया बन्धुत्वादिना वा ज्ञायमानाः । हे यदु-श्रेष्ठ इति महत्तमस्य ते लघुष्व् अपि विनयाद् ईदृशी दृष्टिर् युक्तैवेति भावः ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं परमेश्वराद् एव सर्वस्य भासमानत्वेन तद्-अन्यतया यथा नां विभावितौ भवता तथा सर्वैर् एव तज्-ज्ञानिभिः सर्वे विभाव्या इति भवद्-उपदेशेनैव सर्वं खल्व् इदं ब्रह्म [छा।उ। ३.१४.१] इतिवत् ज्ञातम् इत्य् आह—अहम् इति । स-चराचरम् इति साकल्येऽव्ययीभावः । यदु-श्रेष्ठेति तव तु तद् युक्तम् एवेति । तथा तद्-विधानां प्राकट्यं चैतादृश-ज्ञान-प्रकाशेन संसार-निस्तारणार्थम् एवेति च भावः ।

अथवा, यथा वयं पुत्राः कृपया विभाव्यन्ते, तथा तत् सर्वे जीवा विभावितास् तच् च युक्तम् एवेत्य् आह—अहम् इति । एवं कृपा-विषयत्वेन कृपालुभिर् विमृग्याः अनुसन्धेयाः । विमृश्या इति पाठोऽपि स एवार्थः । ततः संसारिणोऽपि निस्तरिष्यन्तीति भावः ॥२३॥


जीव-गोस्वामी (कृष्ण-सन्दर्भ ११७) : तत्र यादवादीनां तत्-पार्षदत्वं योजयति—अहं यूयम् इति। यूयं श्री-मद्-आनकदुन्दुभ्य्-आदयो विमृग्याः परमार्थ-रूपत्वाद् अन्वेषणीयाः। तथान्यद् अपि द्वारकौको जङ्गम-स्थावर-सहितं यत् किञ्चित्, तद् अन्वेष्यम् । अहं श्री-कृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश् च नराकार-ब्रह्मणि स्वस्मिन्न् इव तन्-नित्य-परिकरे सर्वत्रैव परम-पुरुषार्थत्वम् इति भावः ।

तस्माद् यथा पूर्वं सत्त्वं रजस् तमः [१०.८५.१३] इत्य्-आदिना सत्त्वादि-गुणानां तद्-वृत्तीनां च ब्रह्मणि त्रैकालिक-स्पर्श-सम्भवान् माययैव तद्-अध्यासो भवता वर्णितः, तथा दृष्टिर् अत्र तु न कार्येति तात्पर्यम् ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तच् च युक्तम् एवेत्य् आह—अहम् इति । एवं कृपा-विषयत्वेन कृपालुभिर् विमृग्या अनुसन्धेयाः । ततः संसारिणोऽपि निस्तरिष्यन्तीति भावः ॥२३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलं पुत्रा एवास्मद्-आदय एवं परमात्मत्वेन द्रष्टव्याः, अपि तु सर्वे एवेत्य् आह—अहम् इति । एवं विमृग्याः परमात्मत्वेनैवान्वेषणीयाः । विमृश्या इति पाठो द्रष्टव्यः । एवं च प्राप्त-युष्मच्-छिक्षितैर् अस्मद्-आद्यैर् अपि प्रद्युम्नादिष्व् अपि सर्वत्रात्म-दृष्टिर् एव कर्तव्येति भावः ॥२३॥


॥ १०.८५.२४-२५ ॥

आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्योऽन्यो निर्गुणो गुणैः ।

आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥

खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् ।

आविस्-तिरो-ऽल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु नाना-विकारवतां कुतो ब्रह्मत्वम् ? इति चेत्, न, ब्रह्मण एवोपाधि-धर्मैर् बहुधा प्रतीतेर् इति स-दृष्टान्तम् आह द्वाभ्याम्—आत्मा हीति । यथा खादि-भूतानि तत्-कृतेषु घटादिष्व् आविस्-तिरो-भावादि यान्ति, एवम् असाव् आत्मा अप्य् आत्म-सृष्टैर् गुणैः कृत्वा तत्-कृतेषु देहेषु बहुधा ईयते, पुनश् च यथाशयं यथोपाध्य्-आविर्भाव-तिरोभावादि-रूपेण प्रतीयते, न वस्तुतः । कुतः ? एको बहुधा, स्वयं-ज्योतिर् दृश्यत्वेन, नित्योऽनित्यत्वेन, अनन्योऽन्यत्वेन, निर्गुणः सगुणत्वेनेत्य्-आदि बहुधात्वं प्रपञ्चनीयम् ॥२४-२५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते ननु इति । तत्-कृतेषु पञ्चीकृत-भूतेषु । आदिना अल्पादि-ग्रहः। आत्म-सृष्टैः प्रकृतिं द्वारीकृत्य । तत्-कृतेषु गुन-कृतेषु । पुनश् च बहुधात्वेऽपि कुतः ? नाना-विकारवतां कुतः ? कथं बहुधात्वे तद् आह—एक इति। सर्वम् इदम् औपाधिकम् इति भावः ॥२४-२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु ईश्वरे जीवेषु सम-दृष्टिः कथं युक्ता ? सत्यम्, जीवानाम् ईश्वरांशत्वेन तद्-अभेदाद् इति चेत् तर्हि कथं बहु-विधास् ते नाम दृश्यन्ते ? इत्य् अपेक्षायाम् आह—आत्मेति द्वाभ्याम् ।

हि अपि एकोऽपि । एवं हि-शब्दस्य यथापेक्षम् अन्यैर् अप्य् अन्वयः । अन्यो देहाद् भिन्नोऽसङ्ग इत्य् अर्थः । एक इत्य्-आदि-विशेषणानां यथा-पूर्वं बहुधा प्रतीत्य्-असम्भवे श्रैष्ठ्यम् । आत्मना सृष्टैर् इति गुणानाम् आत्माधीनत्वं मायिकत्वं चोक्तम् । तैर् गुणैः कृतेषु खम् इत्य्-आदिकं दृष्टान्तयोक्तम् इति यात्य्यात्य् एव, अतस् तैर् अपि व्याख्यातम्—यथा खादि-भूतानि इति । यथाशयम् इति चान्यत्रैव योजितम् । तत्र च खम् इत्य्-आदेर् एकत्वेन सङ्गतेऽपि यातीत्य् अस्यायोजनाद् इति आविर् इत्य्-आदीनां द्वन्द्वेन निरुद्धत्वं स्पष्टम् एव । तत्र च यथोत्तरं तेषां श्रैष्ठ्यम् । यथाशयम् इत्य् अस्य दृष्टान्तेनापि सम्बन्धः । घटाद्य्-आश्रय-मृद्-आदि-भेदेनैव तेषाम् अपि तादृशत्वात् । अन्यत् तैर् व्याख्यातम् ।

अथवा, समवेतार्थम् उपमन्महे किम् ? काक्वा, अपि तु नैव । तत्र हेतुः—यद् इति । पुत्रेषु स्नेह एव कार्यः, न तु तत्त्व-दृष्टिः, तस्यां सत्यां स्नेह-माहात्म्योक्तेस् तद् एवात्राभिप्रेतम् । अतो निजाभीष्ट-स्नेह-विशेष-सिद्धये मयीव मदीयेषु सर्वेषु जीवेषु त्वया स्नेह एव कार्य इत्य् आशयेनाह—अहम् इति । यूयं युष्मद्-विधाः स्व-भ्रात्र्-आदयः सर्वेऽन्येऽपि मत्-सम्बन्धिनः । एवं स्नेह-विषयत्वेन ।

ननु इमे आर्यादयस् त्वदीया एव, अन्ये चोच्चावचाः सर्वे कथं त्वदीयाः ? जीवानां मद्-अम्शत्वेन सर्वेषाम् एव तत्त्वतो मदीयत्वाद् इति चेत् तर्हि कथं तेषां नाना-विधत्वम् इत्य् अत आह—आत्मेति । आत्मना ईश्वरेण सृष्टैर् गुणैर् हेतुभिर् बहुधा सात्त्विकादि-भेदेनेयते । किं च खादीनि च यथाशयम् आविस्-तिरो-भावादिकं च प्राप्नोति । अन्यत् समानम् ॥२४-२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा विमृग्यतायां हेतुत्वे युग्मकम्—आत्मेति । तैर् व्याख्यातम् । आत्मा परमात्मा । अयं चान्वयः—हि यस्मात् आत्मा परमात्मा एव इत्य्-आदि-रूपो जीव-भेद-रूपैस् तटस्थांशैर् बहुधा प्रतीयते, तत्रापि आत्म-सृष्टैः आत्म-शक्तेर् माया तद्-उद्भूतैः सत्त्वादिभिर् गुणैर् एव कृतेषु देहेषु बहुधा देव-मनुष्यादि-रूपैः प्रतीयते ॥२४॥

तद् एव स-दृष्टान्तं दर्शयति—खम् इति । अपि-शब्देन समक्रियत्व-द्योतनाय यथोपमां द्योतयति—यथा खादिकं याति, तथा असाव् आत्मा स्व-कार्येषु वाय्व्-आदिषु घटान्तेषु यथाशयं कार्याविर्भावाद्य्-अनुरूपम् आविर्भावादिकं याति, तथा असाव् आत्मा स्व-कार्येषु तद्-अनुरूपत्वं तत् तद् यातीति ततश् चिच्-छक्त्यैक-विलासेषु द्वारका-वैभवेषु किम् उतेति, तथा दृष्टिस् त्व् अत्र सुतराम् एव कर्तव्या, यत एव अहं यूयम् असाव् आर्य इति मया साम्यम् एव दर्शितम् । तत्र सति तव यदु-श्रेष्ठस्य कृपयापि तेषां संसारिणाम् अपि दैन्यं न सम्भवति, तव तु दैन्यम् अयुक्तम् एवेति वास्तवो भावः ॥२५॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः ११८) : लौकिकाध्य् आत्म-गोष्ठीत्य् एवम् एवेत्य् आह द्वयेन । तत्र प्रथमेन यथा— आत्मा ह्य् एक इति । अत्रानुगतार्थान्तरं च दृश्यते । द्वारकायाम् इति प्रकरणेन लभ्यते । हि यस्माद् एक एव आत्मा भगवत्त्वम् आत्म-सृष्टैः स्वरूपाद् एवोल्लसितैर् गुणैः स्वरूप-शक्ति-वृत्ति-विशेषैः कर्तृभिस् तत्-कृतेषु तस्मिन् स्वरूपे एव प्रादुर्भावितेषु भूतेषु परमार्थ-सत्येषु द्वारकान्तर्वर्ति-वस्तुषु बहुधा तत्-तद्-रूपेण ईयते प्रकाशते । सहस्र-नाम-भाष्ये लोकनाथं महद्-भूतम् [म।भा। १३.१३५.७] इत्य् अत्र च भूतं परमार्थ-सत्यम् इति व्याख्यातम् । तथा तथा च प्रकाशः स्वरूप-गुणापरित्यागेनैवेत्य् आह—स्वयं ज्योतिः स्व-प्रकाश एव सन्, नित्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्-विलक्षण एव सन्, निर्गुणः प्राकृत-गुण-रहित एव च सन्न् इति ॥२४॥


जीव-गोस्वामी (कृष्ण-सन्दर्भः ११९) : तर्हि कथं भवत आत्यन्तिकं समम् एवात्र सर्वम् ? इत्य् आशङ्क्य, तथापि मय्य् अस्ति वैशिष्ट्यम् इत्य् आह—खम् इत्य्-आदि। सत्-कार्य-वादाभ्य् उपगमात् तस्य कारणानन्यत्वाभ्य् उपगमाच् च । यथा खादीनि भूतानि तत्-कृतेषु तत्-स्वरूपेणैव विकासितेषु वाय्व्-आदि-घटान्तेषु यथाशयं वाय्व्-आद्य्-आविर्भावाद्य्-अनुरूपम् एवाविर्भावादिकं यान्ति न तु तेष्व् अधिकम् । अत्र यावान् वायुर् गृह्यते तावान् एव तत्राकाश-धर्मः शब्दोऽपि गृह्यते । यावज् ज्योतिस् तावान् एव वायु-धर्मः स्पर्शोऽपीत्य् आदिकं ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारका-वस्तुषु असौ भगवद्-आख्य आत्मापि । तस्माद् अहं तु तत्-सर्व-मयः सर्वस्मात् पृथक् परिपूर्णश् चेत्य् अस्ति वैशिष्ट्यम् इति भावः । अनेन दृष्टान्तेन मत्त एवोल्लसिता मद्-धर्मा एव ते भवितुम् अर्हन्ति न त्व् आकाशे धूसरत्वादिवन् मयि केवल-मध्य-स्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानम् अपि शब्देन द्योत्यते ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तथा विमृग्यतायां हेतुत्वे युग्मकं—आत्मेति । आत्मा परमात्मा अस्यार्थान्तरम् ॥२४-२५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु नाना-विकारवन्तो बहव एते कुतः परमात्म-रूपाः मन्तुं शक्याः सत्यं परमात्म-सृष्टानाम् उपाधीनां धर्मैर् एव परमात्मा तथा तथा प्रतीतो भवतीति स-दृष्टान्तम् आह—आत्मा हीति द्वाभ्याम् ।

आत्मा परमात्मा आत्म-सृष्टैः स्व-सृष्टैर् गुणैर् बहुधा ईयते प्रतीयते । कुत्र ? तत्-कृतेषु भूतेषु देहेषु स्वयं-ज्योतिर् अपि दृश्यत्वेन, नित्योऽप्य् अनित्यत्वेन, अन्योऽप्य् अनन्यत्वेन, निर्गुणोऽपि सगुणत्वेन, यथा खादि-भूतानि तत्-कृतेषु घटादिषु आविस्-तिरो-भावादिकं यथाशयम् आशयम् अनतिक्रम्य याति, तथैवासाव् एकः परमात्मापि याति सर्वदैक-रसोऽपि आविर्भावं तिरोभावं च व्यापकोऽपि अल्पत्वं भूरित्वं च एकोऽपि नानात्वम् ॥२४-२५॥


॥ १०.८५.२६ ॥

श्री-शुक उवाच—

एवं भगवता राजन् वसुदेव उदाहृतः ।

श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् इत्थम् ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवता अद्भुतानन्तशक्तिना परम-दयालुना श्री-कृष्णेनोदाहृतम्, विनष्टा जीव-विषयिका नानाधीः शत्रु-मित्रादि-बुद्धिस् तामसादि-बुद्धिर् वा यस्य तथा-भूतः सन् सर्वेषाम् एव भगवदीयत्व-ज्ञानात्, अतः प्रीतमनाः सन् तूष्णीम् अभूत्, श्री-भगवति पुत्रया सहज-स्नेह-सद्-भावना-जात-प्रीत्य् उद्रेकेण बाष्प-रुद्ध-कण्ठत्वात् । यद् वा, विनष्टा नाना-विधेषु जीवेषु धीर्मतिर् यस्य सः, श्री-भगवद् आदिष्टेप्रकारेण तस्मिन् स्नेहोद्रेकेणान्याशेष-विस्तारणात्, अतः प्रीतमनाः प्रहर्ष-पूरितस्-तूष्णीम् अभूत्एवं प्रहर्षोदयात् सम्बोधयति-हे राजन्न् इति । यद् वा, प्रीतमनस् त्वेन राजमानः ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् आत्मैश्वर्य-गोपन-पूर्वक-स्व-विषयक-पुत्र-भावना-रक्षणाभिसन्धि-प्रकारेण भगवतोदाहृतं श्रुत्वा विनष्टा **नाना-**धीर् मुन्याद्य् उपदिष्टैश्वस्यादि-ज्ञानं यस्मात्-तथा-भूतः प्रीतमनास् तस्मिन् सप्रेम-चित्त-स्तूष्णीम् एवाभूद् इति ॥२६॥


जीव-गोस्वामी (क्रम सन्दर्भः) : अमात्मैश्वर्य-गोपन-पूर्वक-स्वविषयक-पुत्र-भावना-रक्षणाभिसन्धि-प्रकारेण भगवतोदाहृतं श्रुत्वा विनष्टा **नाना-**धीर् मुन्याद्य् उपदिष्टैश्वर्यादि-ज्ञानं यस्मात्-तथा-भूतः प्रीतमनास् तस्मिन् सप्रेम-चित्तस् तूष्णीम् एवाभूद् इति ॥२६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विनष्ट-नानाधीः सत्यम् एव सर्वं जगद् एवैकं ब्रह्मैव किं पुनरेतौ मत्-पुत्राव् इत्य् एतत्-प्रकारक-ज्ञानवान् बभूव इत्य् अर्थः ॥२६-२९॥


॥ १०.८५.२७ ॥

अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता ।

श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सु-विस्मिता सती ॥२७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ मङ्गलारम्भे । तत्र तदा ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं पितुर् मनोरथं परिपूर्य मातुर् अप्य् अपूरयद् इति तत्- प्रसङ्गम् आरभते—अथ इत्य्-आदिना । श्री-वसुदेवस्य तथा तूष्णीम्-भावानन्तरं तत्रैव स्थिता सर्वेषां देवता पूज्या श्री-भगवन्-मातृत्वात्, यमालयाद् आनीतं श्रुत्वा सुविस्मिता प्राग् एव जातातिविस्मया । आत्मजाभ्याम् इति स्व-पुत्रतया तयोर् ज्ञानेनेश्वर-ज्ञान-हान्या महा-विस्मयोपपत्तेर् इति भावः । तत्र श्री-बलदेवस्य तद्-आत्मजता श्री-वसुदेव-पुत्रत्वात् प्राक् तया गर्भे धारणाद् वा ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पितुः स्वस्मिन् पुत्रभावस्य विरोधकम् ऐश्वर्य-ज्ञानं शमयित्वा मातुर् अप्य् अन्यत्र पुत्र-भावमशमयद् इति तत्-प्रसङ्गम् आरभते अथेत्य्-आदिना । तत्राथेति युग्मकं गुरोः पुत्रम् आत्मजाभ्यां श्री-कृष्ण-रामाभ्याम् आनीतं श्रुत्वा पूर्ववत् एव सुष्ठु विस्मितत्वेन स्थितापि तद्वत् स्वाभीष्ट-लाभार्थं श्री-वसुदेव-सहित-तादृश-प्रेम-संवाद-मय-विशेष-लाभानन्तरम् एव प्राहेत्य्-आदि रामस्यात्नजत्व-निर्देशो गर्भ-सङ्कर्षणस्यापि तया श्रवणात् सर्वेषां देवतेति श्री-भगवन्-मातृत्व-लील-शुद्ध-सत्त्व-लील-शुद्ध-सत्त्व-सम्पत्ति-रूपत्वात्-अत एवास्या इयं बहिरङ्गा चेष्टा भगवतो लीला-कौतुकार्थम् एव लील-शक्त्या सम्पादितेति ज्ञेयं वक्ष्यते च मोहिता मायया विष्णोः [भा।पु। १०.८५.५४] इति ॥२७-२८॥


जीव-गोस्वामी (क्रम सन्दर्भः) : एवं पितुः तस्मिन् पुत्रभावस्य विरोधकम् ऐश्वर्य-ज्ञानं शमयित्वा मातुर् अप्य् अन्यत्र पुत्र-भावम् अशमयद् इति तत्-प्रसङ्ग-मारभते । तथेत्य् आदिना सर्वेषां देवतेति । श्री-भगवन्-मातृ-ललितत्व-शुद्ध-सत्त्व-सम्पत्ति-रूपत्वात् । अत एवास्या इयं बहिरङ्गा चेष्टा भगवतो लीला-कौतुकार्थम् एव । लीला-शक्ति-सम्पादितेति ज्ञेयम् । वक्ष्यते च मोहिता मायया विष्णोः [भा।पु। १०.८५.५४] इति ॥२७-४१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.२८ ॥

कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् ।

स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : समाश्राव्य सम्बोध्य ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृपणं दीनम् ॥२८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् आश्राव्य सम्बोध्य, तत्-प्रकाराश् च रामेत्य्-आदिना वक्ष्यमाणः । यद् वा, कंसेन विहिसितान् इति पुत्रान् तौ सम्यग् आर्त्या श्रावयित्वा तानेव स्मरन्ती दुष्टेन हतानां तेषां का गतिर् अभूद् इति चिन्तयन्तीत्य् अर्थः । अतो वैकलव्यात् पुत्र-स्नेह-वैवश्याद् अश्रु-युक्त-लोचना सती कृपणं सदैन्यं यथा स्यात्-तथा प्रकर्षेण स्तुत्यादिना प्रणयेन वाह । कृष्णस्यादौ निर्देशस्तस्मिन् स्नेहाधिक्येन समाश्रावणे तस्यैव प्राधान्यात्, अग्रे च व्यवहारापेक्षया स्नेहभर-भङ्ग्यैव वा यथा-क्रमं सम्बोधनम् । श्री-बादरायणः श्री-कृष्ण एव भक्ति-विशेषाद् इति दिक् ॥२८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.२९ ॥

श्री-देवक्य् उवाच—

राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।

वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वां युवाम् ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अप्रमेयात्मन्! हे अपरिच्छिन्न-बुद्धे! योगेश्वरेश्वर! हे अचिन्त्य-महा-प्रभाव! ईदृश-सम्बोधनं गुरु-पुत्रानयन-सामर्थ्याभिप्रायेण, किं वा, निज-प्रार्थ्य-परिपूरण-योग्यतापेक्षया । तत्र च रामं प्रति द्विः-सम्बोधनं ज्येष्ठत्वादिनाधिकादरात्, यतो विश्व-सृजां श्री-ब्रह्मादीनां पुरुषादीनां वा ईश्वरौ, यत **आदि-**पुरुषौ ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रामेति युग्मकम् । रामस्यादौ सम्बोधनं ज्येष्ठत्वेन सपत्नीपुत्रत्वांशेन चादरात् अत एव वीप्सा अप्रमेयात्मन् प्रमाणागोचर-स्वभाव! योगेश्वरेश्वर योगेश्वराणां सनकादीनाम् अप्य् अचिन्त्य-महा-प्रभाव! यतो विश्व-सृजां ब्रह्मादीनाम् ईश्वरौ अत **आदि-**पुरुषौ ॥२९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.३० ॥

काल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् ।

भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : भूमेर् भारायमाणानां राज्ञाम् अर्थे तेषां निधनार्थं मे मयि किलावतीर्णौ ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मे मयि, सप्तम्य् एक-वचने\ऽपि मे आदेशो विपरीत-ग्रहात्-सूत्रे अर्थे इति शेषः ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कालेन कल्-इप्रभृतिना विशेषतो ध्वस्तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषाम्, अत **उच्छास्त्र-**वर्तिनां शास्त्रोक्त-वर्त्मातिक्रम्य सदा वर्तमानानाम्, अत एव भूमेर् भारायमाणानां दुष्टानां तद् अधार्यत्वात्, किल वितर्के निश्चये वा, आद्य हे सर्वेश्वरेति । तव तद्-युक्तम् एवेति भावः । यद् वा, अद्याधुना द्वापरान्त इत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कालेन कलि-प्रभृतिना [द्वापरादिना] विशेषतो ध्वस्तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषाम् अत एव उच्छास्त्रं शास्त्राति-क्रमः तेन वर्तितुं शीलं येषाम् अत एव भूमेर् इति अद्याधुना द्वापरान्त इत्य् अर्थः ॥३०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विध्वस् तं सत्त्वं सत्त्व-गुणः साधुत्वं वा येषां तेषां संहाराय मे मय्य् अवतीर्णौ ॥३०॥


॥ १०.८५.३१ ॥

यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।

भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हे आद्य ! यस्यांशः पुरुषः, तस्यांशो माया, तस्या अंशा गुणाः, तेषां भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति, तं त्वा त्वां गतिं शरणं गतास्मि ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शरणे\ऽपि गतिः स्मृता इति कोषात् ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं स्तुत्वा स्व-प्रार्थ्य-पूरण-सामर्थ्यं सूचयन्ती तद् अर्थम् आर्त्या शरणं याति-यस्येति । किलेति प्रसिद्धम् एवेदम् इत्य् अर्थः । विश्वात्म ! हे सर्वान्तर्यामिन् ! एवम्-उभयथा महा-शक्ति-मत्त्वम् उक्तम्, अतो गतिं गतास्मि ।

ननु त्वम् अस्मन्-माता किम् इदं वदसि? तत्राह—हे आद्येति । महा-पुरुषत्वाद् इति भावः । यद् वा, एतावन्तं कालं न कथञ्चित् त्वाम् एवं प्रपन्नास्मि, अधुना च किञ्चित् प्रार्थयितुं शरणं यामीत्य् आशयेनाह—आद्येति ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं तौ पृथक् स्तुत्वा पुनर् ऐकमत्यार्थम् एकत्वेनैव शरणं याति-यस्येति । किलेति प्रसिद्धम् एवेदम् इत्य् अर्थः । विश्वात्मन् सर्व-मूल-स्वरूप! एतावन्तं कालं नैवं त्वां प्रार्थितवत्य् अस्मि अधुना च किञ्चित्-प्रार्थयितुं शरणं यामीत्य् आशयेनाह—अद्येति ॥३१॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्यांशो महा-वैकुण्ठ-नाथस् तस्यांशो महा-पुरुषस् तस्यांशः प्रकृतिस् तस्या भागेन रजआदिना ॥३१॥


॥ १०.८५.३२-३३ ॥

चिरान् मृत-सुतादाने गुरुणा किल चोदितौ ।

आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-द17क्षिणाम् ॥

तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।

भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आनिन्यथुर् आनीतवन्तौ । पितृ-स्थानाद् यम-सदनात् ॥३२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यम-सदनात् यम-लोकात् ॥३२॥

यथा गुरु-कामं कृतवन्तौ तथा मे\ऽपीत्य् अर्थः । योगेश्वरेश्वरावित्यक्लिष्टकारित्वमाह। आहृतान् आनीतान् ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतो गुरोर् इव ममाप्य् अभीष्टं परिपूरयतम् इत्य् आह—चिराद् इति द्वाभ्याम् । चिराकालं मृतस्यापि पुत्रस्य आदाने यमालयाद्-ग्रहणे आनयन इत्य् अर्थः । गुरवे गुर्वर्थं **गुरु-**दक्षिणा-रूपं तत्-सुतं यथानिन्यथुस् तथा कुरुतम् । यद् वा, तथा अपि मे\ऽपि कामं कुरुतम् । तत्-सम्पादनं च युवयः सुकरम् एवेत्या-योगेति । यद् वा, भो मातः! जातमात्रा हतास्ते\ऽधुनानीता अपि कथं त्वया चिरेण परिचेतुं शक्त्याः, आवाभ्यां वा ज्ञेयाः? तत्राह—योगेति । अचिन्त्यानन्त-युष्मन्-महा-प्रभावाद् इति भावः । एवं स्व-कामस्य गौरवं मत्वा प्रकृत-मनभि-व्यज्य सामान्यतः प्रार्थ्याधुनार्त्यानिर्दिशति-**भोज-**राजेति । अनेन तेषां हननेन तस्य शक्तिर् अपि सूचिता । आहृतान् युवाभ्यां यमालयादानीतान् सतः । कीदृशीम् अवस्थां प्राप्ताः सन्तीति द्रष्टुं कामये ॥३२-३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अतो गुरोर् इव ममाप्य् अभिष्टं परिपूरयतम् इत्य् आह—चिराद् इति युग्मकेन । चिरकालं मृतस्यापि सुतस्यादाने यमालयाद्-ग्रहणे आनयन इत्य् अर्थः गुरवे गुर्वर्थं **गुरु-**दक्षणा-रूपं तत्-सुतं यथा [आनिन्युथुः] तद् आकृतिवय आदि-सद्-भाव-प्रकारेण आनिन्यथुः तथा कुरुतम् ॥३२॥

एवं स्वकामस्य गौरवं मत्वा प्राक् स्पष्टमनिर्दिश्य पुनरुत्कण्ठया स्पष्टम् एव निर्दिशति-**भोज-**राजेति । आहृतान् युवाभ्यां यमालयात् आनीतान् सतः ॥३३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पितृ-**स्थानात् यमसदनात् पितृ-दक्षिणां **गुरु-**दक्षिणारूपं **गुरु-**पुत्रम्

आनिन्यथुः ॥३२-३४॥


॥ १०.८५.३४ ॥

ऋषिर् उवाच—

एवं स18ञ्चोदितौ मात्रा रामः कृष्णश् च भारत ।

सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्तरीत्या । सुतलं तृतीयं विवरम् ॥३४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् स्तुत्यादिना दृढं चोदितः सन्, सम्यक् सद्य एव सुखम् अन्तर्-विविशतुः प्रविष्टौ । तत्र हेतु—यगेति । अचिन्त्यानन्त-महा-शक्तिकत्वाद् इत्य् अर्थः । हे भारतेति महा-वंशजेन त्वया भगवन्-माहात्म्यं प्रतीयत एवेति भावः ॥३४।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सञ्चोदित इति । सञ्चोदिताव् इति च क्वचित् हे भारत भरत-कुल-श्रेष्ठेत्य् आश्चर्यान्तर-स्मरणोल्लासेन तं श्लाघते ॥३४॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.३५ ॥

तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड्

विश्वात्म-दैवं सुतरां तथात्मनः ।

तद्-दर्शनाह्लाद-परिप्लुताशयः

सद्यः समुत्थाय ननाम सान्वयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दैत्य-राड् बलिः । कथं भूतौ । विश्वस्यात्म-भूतं दैवम् । सान्वयः स-परिवरः ॥३५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् सुतले । तयो राम-कृष्णयोर् दर्शनेन य आह्लादस् तेन परिप्लुतो व्याप्त आशयो\ऽन्तः-करणं यस्य स तथा ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपलभ्य भृत्यादि-द्वारा स्वज्ञान-शक्त्या वा ज्ञात्वैव । यद् वा, चिरम् अभीप्सितौ समीप एव लब्ध्वा । तस्य चालभ्यलाभो\ऽभूद् इत्य् अभिप्रायेण विशिनष्टि-विश्वस्य आत्मदैवम्, इष्टद्-एवताम्, एकत्वं तयोर् एक्यापेक्षया, त्व् अर्थे तथा । आत्मनस्तु सुतराम् अतिशयेनात्मदैवम्, कुल-देवत्वात् स्वयं तस्मिन् सर्वार्पणाच् च । अतस् तद्-दर्शनेन य आह्लाद आनन्द-महोदधिस् तस्मिन् परितः प्लुतो मग्न आशयो\ऽन्तः-करणं यस्य सः अनेन पुरा श्री-वामन-देवस्य सदा द्वारवर्ति-श्री-भगवतो\ऽपि दर्शनाद् एतयोर्-दर्शन-माहात्म्यं सूचितम्, अधुनाशेष-भगवत्ता-प्रकटनात्, अत एव सर्वांशैः परिपूर्णतयात्रावतीर्णत्वात्-तदानीं तद्-द्वारे\ऽपि भगवतः स्थितिर्-ज्ञेया । अतः सम्यक् साञ्जलित्वादिनोत्थाय, **दैत्य-**राटीति परमादरात् । यद् वा, दैत्यानाम् अन्येषाम् अपि तादृश-भावं सूचयति, अत एव सान्वयः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपलभ्य चिरम् अभीप्सितौ समीप एव लब्ध्वा तस्य चालभ्य-लाभो\ऽभूद् इत्य् अभिप्रायेण तौ विशिनष्टि-विश्वस्यात्मा च दैवम् आराध्याश् च एकत्वम् द्वयोर् ऐक्यापेक्षया त्वर्थे तथा-शब्दः आत्मनस् तु सुतराम् अतिशयेनात्म**-दैवं** वामन-रूपे तस्मिन् स्वयं सर्वार्पणात्-कुल-देवत्वाच् च तस्य ततश् च सम्यक् साञ्जलित्वादिना उत्थाय दैत्यराड् इति परमादरात् यद् वा, दैत्यानाम् अन्येषाम् अपि तादृश-भावं सूचयति अत एव सान्वयः ॥३५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


**विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दैत्य-**राट् बलिः विश्वस्यात्मा च दैवम् आराध्यश् च एकत्वम् ईश्वरत्वेन द्वयोर् ऐक्यात् ॥३५॥


॥ १०.८५.३६ ॥

19योः समानीय वरासनं मुदा

निविष्टयोस् तत्र महात्मनोस् तयोः ।

दधार पादाव् अवनिज्य तज् जलं

स-वृन्द आ-ब्रह्म पुनद् यद् अम्बु ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स-वृन्दः स-परिजनः । कथं भूतौ पादाव् अवनिज्य । यद् अम्बु ययोर् अवनेजन-उदकम् आ ब्रह्म ब्रह्माणम् अभिव्याप्य जगत् पुनत् पवित्रयद् वर्तते तौ ॥३६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तयो राम-कृष्णयोः । तत्र वरासने । तज्-जलं पादोदकम् । ययो राम-कृष्णयोः । वृष्णिषु प्राप्य जन्मनी इत्य् उक्तेर् वस्तुतो बलदेवो\ऽपि विष्णुर् एवेति । ततश् च यद् अम्ब्व् इति समञ्जसम् । पुनत्-पुनातेः शत्रन्तः । तौ राम-कृष्णौ ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मुदा सम्यक् स्व-शिरो-निधानादिनानीय अतस् तस्मिन्-मुदा निविष्टयोर् आसीनयोः सतोः, एवं मुदेत्यस्योभयतो\ऽप्य् अन्वयः । तथा तयोर् इत्य् अस्यापि स्थान-द्वये\ऽन्वयेनापैनर् उक्त्यम् । पाठान्तरं स्पष्टम् । तत्**-पादाव्** अनेजन-सम्बन्धि जलं सर्वं सवृन्दो बभार, शिरसि ऊर्ध्वं सर्वाङ्गेषु वा धृतवान्, यतो महात्मनोः साक्षात् परमेश्वरयोः । हे स्फुटम् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तयोस् ताभ्यां मुदा सम्यक् स्व-शिरो-निधानादिना द्वयोस् तत्त्वैक्येन स्नेहेन चाभेद-दृष्ट्या वरासनम् एकम् एवानीय अतस् तस्मिन् मुदा निविष्टयोर् आसीनयोः सतोः तयोर् इति पुनर् उक्ति-भक्ति-भरेण तद् एति पाठः क्वचित् बभार शिरसि दधारेति क्वचित् ॥३६॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स-वृन्दः स-परिवारः यदम्बु आ-ब्रह्म । ब्रह्माणम् अभिव्याप्य पुनत् पवित्र यद् भवति ॥३६-३७॥


॥ १०.८५.३७ ॥

समर्हयाम् आस स20 तौ विभूतिभिर्

महार्ह-वस्त्राभरणानुलेपनैः ।

ताम्बूल-दीपामृत-भक्षणादिभिः

स्व-गोत्र-वित्तात्म-समर्पणेन च ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बलिः । तौ राम-कृष्णौ । अमृत-भक्षणं रसायन-भोजनम् ।

अमृतं व्योम्नि देवान्ने यज्ञ-शेषे रसायने । > अयाचिते जले जग्धौ मोक्षणे हेम्नि गोरसे ॥ > क्लीबे ना त्व् अमरे स्त्री तु गुडूच्यां मद्य-भिक्षयोः । इति यादवः ।

तच् च बल-पुष्ट्यादि-सम्पाद-कौषधी-विशेषः । गोत्रं कुलम्, वित्तं धनम्, आत्मा देहस् तेषां समर्पणेन गोत्रं नाम्नि कुले बले, आत्माकि देहे धृतौ जीवे इति यादवः ॥३७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् अर्हयामास, सम्यक्ता-साधनान्य् आह—महा-विभूतिभिर् इत्य्-आदिना । महा-विभूतीर् एवाह—महार्हेत्य्-आदि । यद् वा, महा-विभूतिभिश् छत्र-चामरादि-निज-महा-वैभवैः । अमृतवद् भक्षणं भक्ष्यत इति तथा तत्, महा-मिष्टान्न-पानादिकम् इत्य् अर्थः । अमृतं भक्षणं च फलादिकं ताम्-बूलादिकं वा, आदि-शब्दाद्-रत्न-पर्यङ्कादयः, स्वस्य गोत्रं कुलं पुत्र-कलत्रादि-वित्तं च तयोर् आत्मनश् च देहस्य देहिनो वा सम्यक् तद् एकाधीनतादिनार्पणेन, तदीयतया निवेदनेन ॥३७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् अर्हयामास सम्यक्ता-साधनान्य् आह—महा-विभूतिर् इत्य्-आदिना । स-तौ विभूतिर् इति क्वचित् । ता एवाह—महार्ह- इत्य्-आदिना । अमृतवत् भक्षत इति तथा तत् महा-मिष्टान्न-पानादिकम् इति यद् वा, अमृतं सुधां भक्षणञ् च फलादिकं ताम्बूलादिकं वा आदि-शब्दाद् रत्न-पर्यङ्कादयः पुनर् आत्म-पर्यन्त-समर्पणं च सर्वं सागर-स्थानीयाय वामन-रूपाय सम्प्रति तु समुद्र-स्थानीयाय स्वयं भगवते श्री-कृष्णायेत्य् अविशेष एव विशेषान् न दोषाय तद् एवं व्यवहारात् तदानीं तद्-द्वार-देश-विराजमान-वासस्य श्री-वामनस्य च तद् अवतार-समये तत्रैव प्रवेशो गम्यते ॥३७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.३८ ॥

स इन्द्रसेनो भगवत्-पदाम्बुजं

बिभ्रन् मुहुः प्रेम-विभिन्नया धिया ।

उवाच हानन्द-जलाकुलेक्षणः

प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : इन्द्रसेनो बलिः । प्रेम-विभिन्नया प्रेमार्द्रया धिया । बिभ्रद् धारयन् ॥३८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स प्रकृतः । हा शुभमति स्मरन् हा विषाद-शुभार्तिषु इति । यद् वा,-ह स्फुटम् ॥३८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इन्द्रस्य सेनेव सेना यस्य सः, दैत्यानाम् अपि वैष्णवत्वेन देव-रूपाद्-भगवतः श्री-कृष्णस्य, भगवतोर् वा द्वयोः पादाम्बुजम्, एकत्वे\ऽपि द्वित्वं बहुत्वं च सिध्येद् इति प्रागुक्तम् एव मुहुर्बिभ्रत्, अतृप्त्या पुनः पुनः शिरसि वक्षसि च धारयन् । यद् वा, मुहुर्षत् प्रेम तेन विभिन्नया, यत्नेन संव्रियमाणस्यापि [सङ्ध्रिमनस्यापि ।] प्रेम्णः पुनः पुनर् आविर्भावात् । ह हर्षे, हा खेदे वा, तत्-स्मरणेनात्मनस् तादृशत्वाभावेन वा, श्री-बादरायणेर् अतृप्त्या प्रेमाभ्युदयात् [प्रेमार्णवोदयात् ।] इत्थम् एव सम्बोधयति-नृपेति । **प्रेम-**लक्षणम् आह—आनन्देत्य् आदि-विशेषणैस् त्रिभिः । एषां यथोत्तरं तत्र श्रैष्ठ्यं, तत्रानन्देति पदं समस्तम् अपि तृतीयान्ततयाग्रे द्वयोर् अपि योज्यम् ॥३८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्रस्य सेनेव सेना यस्य सः प्रायः समान-चतुरङ्गत्वात् भगवतो युगपत् द्वयोर् अपि पदाम्बुजम् अभेदेन भवनाद् एकत्वं मुहुर् बिभ्रत् अतृप्त्या पुनः पुनः शिरसि वक्षसि च धारयन् यद् वा, उत्तरोत्तरोद्भूतत्वान्मुहुर्यत्-प्रेम तेन विभिन्या ह हर्षे इत्थम् एव सम्बोधयति नृपेति प्रेम-लक्षणम् आह—आनन्देत्य्-आदिना तत्रानन्देति तृतीयायाश् छान्दसो लुक् तस्मात्-प्रहृष्टेत्य् अत्र गद्गदेत्य् अत्र योज्यं गद्गदाक्षरं यथा स्यात् पाठान्तरे तु गद्देत्य् अक्षरं वर्णोच्चारो यस्य सः ॥३८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : इन्द्रसेनो बलिः ॥३८॥


॥ १०.८५.३९ ॥

बलिर् उवाच—

नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे ।

साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अनन्ताय शेषाय । बृहते फणैक-देशे विश्रधारणाद् बृहत् तस्मै । कृष्णाय सदानन्द-रूपाय च । वेधसे जगद्-विधात्रे । साङ्ख्य-योग-वितानायेत्य्-आदि-पद-त्रयम् ऐक्य-विवक्ष21या ॥३९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साङ्ख्य-योगयोर् ज्ञान-कर्मणोवितानो विस्तारो येन तस्मै साङ्ख्य-शास्त्र-कारिणे वा । अनीश्वर-कपिल-व्यावृत्तये ब्रह्मण इति । कथम् अनेन व्यावृत्तिर् अत्राह—परमात्मने इति । ऐक्य-विवक्षया समाहार-द्वन्द्व-विवक्षया । तथा च ज्ञान-भक्ति-कर्म-**योग-**स्वरूपाय इत्य् अर्थः ॥३९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अनन्ताय श्री-कृष्ण-द्वितीय-व्यूह-रूपाय व्रज-गमनन्त-सख इति गोपिका-विलापे तन्-नामत्वेन तत्-प्रसिद्धेः तत्र शेषाद्य् अन्तर्भावार्थम् आह—बृहत इति । कृष्णाय च स्वयं भगवत्त्वेन प्रसिद्धाय यतो वेधसे सर्व-कर्त्रे ननु ज्ञान-शास्त्रे मुख्यतया ब्रह्म प्रतिपाद्यते **योग-**शास्त्रे पुरम् आत्मा तयोः का गतिस् तत्राह—साङ्ख्येति । **साङ्ख्य-**योगयोः ज्ञानाष्टाङ्ग-शास्त्रयोर् वितानो यस्मिन् तद् एकनिष्ठो विस्तर इत्य् अर्थः ।

तत्-तद् आख्यतद् एक-देशाविर्भाव-निरूपण-द्वारा स एव ताभ्याम् उद्दिश्य इति विवक्षितं यथोक्तं श्री-कपिल-देवेन—

ज्ञान**-**योगश् च मन्निष्ठो नैर्गुण्यो भक्ति-लक्षणः । > द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥ > यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहुगुणाश्रयः । > एको नानेयते तद्-भगवान् शास्त्र-वर्त्मभिः ॥ [भा।पु। > ३.३२.३२-३३] इति ।

अत एव ब्रह्मणे परमात्मने च तुभ्यम् एव ॥३९॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णाय साक्षाद्-भगवते, साङ्ख्यं ज्ञानम्, योगः समाधिस् तयोस् तच्-छास्त्र-द्वयस्य वा वितानो विस्तारो यस्मात्-तस्मै, तत्-तत्-प्रवर्तकाय इत्य् अर्थः । यद् वा, यस्मिन् तस्मै तस्मिन्न् एव तयोस् तात्पर्यात्, यतो ब्रह्मणे सर्व-जीवैक-तत्त्वाय । न केवलं तद्-रूपायैव, तस्माद्-भिन्नत्वेनापि वर्तमानायेत्य् आह—परमात्मन इति । यद् वा, ब्रह्मणे सर्व-व्यापकाय । कथम् इत्य् अपेक्षायाम् आह—परमेति । अन्तर्यामितय इत्य् अर्थः । विशेषणानामेषां यथोत्तरं श्रेष्ठ्यम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, कृष्णत्वम् एव दर्शयन् तम् एव विशिनष्टि-वेधस इत्य्-आदिना ॥३९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : बृहते \ऽनन्ताय अनन्तस्याप्य् अन्तर्विशते\ऽशिने श्री-बलेदेवाय नमःवेधसे विधात्रे सर्व-कारण-स्वरूपाय कृष्णाय नमःसाङ्ख्य-वितानाय ज्ञान-शास्त्र-विस्तारकाय ब्रह्मणे नमःयोग-वितानाय **योग-**शास्त्र-विस्तारकाय परमात्मने नमः ॥३९॥


॥ १०.८५.४० ॥

दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् ।

रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : योगेश्वराणाम् अपि दुर्दर्शौ युवाम् अस्माभिर् दृष्टाव् इत्य् एतन् नाति-चित्रम् इत्य् आह—दर्शनम् इति । दुष्प्रापम् अपि युष्मत् कृपया केषाञ्चिद् अदुर्लभं सुलभम् अपि भवति तद् आह—रजस्-तमः-स्वभावानाम् इति । नो दर्शनं प्राप्तौ ॥४०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् एतत् भवद्-दर्शनम् । तत् दुर्लभ-सौलभ्यम् । यद्-ऋच्छयेति देवयोर् युवयोर् इच्छया देवेच्छापि यदृच्छा स्यात् इति हलधरः ॥४०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि निश्चितम् । च अपि दृष्प्रापम् अपि । अपि-शब्दस्यादुर्लभम् इत्य् अनेन परेण वान्वयः । यदृच्छया स्वयम् एव इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, प्राग्-दुष्प्रापम् अप्य् अधुना सुलभं निजाशेषैश्वर्य-प्रकटनेन पूर्वतो\ऽप्य् अधिक-कारुण्य-विस्तारणात् ॥४०॥

———————————————————————————————————————

जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि निश्चितं च अपि दुष्प्रापम् अपि अपि-शब्दस्य अदुर्लभम् इत्य् अनेनान्यः अदुर्लभम् अपि यदृच्छया तवैव स्वैरितय इत्य् अर्थः । अन्यत् तैः । तत्र नो दर्शनं प्राप्ताविति अस्मत्-कर्तृकं दर्शनं युवां प्राप्तावङ्गीकृतवन्ताव् इत्य् अर्थः ॥४०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भूतानां दुष्प्रापम् अपि अतिदुर्लभं सुप्रापं केषां रजस् तमस् स्वभावानाम् अप्य् असुराणाम् इत्य् अर्थः । यत् यतः यदृच्छयैव प्राप्तौ ॥४०॥


॥ १०.८५.४१ ॥

दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः ।

यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अहो विद्-विषो वयं सात्त्विक-भक्तेभ्योऽपि स-भाग्य इत्य् आह—दैत्येत्य्-आदि-त्रिभिः ॥४१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : निज-भाग्यं श्लाघयन्न् आह—अहो इत्य्-आदि । शास्त्रं वेदादि-ग्रन्थ एव शरीरं प्रतिमा यस्य तस्मिन् शास्त्रं ग्रन्थ-निदेशयोः इति यादवः । अत एव श्री-भगवतं प्रकृत्य स्कान्दम् उक्तम्—तेनेयं वाङ्मयी मूर्तिः कृष्णस्य जगदीशितुः । इति । वेदो नारायणः साक्षात् [भा।पु। ६.१.४०] इति च ते वयं चान्ये राक्षसादयश् च तादृशा निबद्ध-वैराः । एतेनास्मासु न कापि भगवद्-दर्शन-योग्यतेति ॥४१-४२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दैत्य्-आदयस् त्वयि नितरां बद्धवैरा अपि । कुतः? विशेषतः शुद्धं रज-आद्य-मिश्रं यत् सत्त्वं तत् धामाश्रयो यस्य तस्मिन् तद् अधिष्ठातरीत्य् अर्थः । शास्त्रस्य शरीरिणि आत्मनि वेद-मार्ग-प्रवर्तक इत्य् अर्थः । दैत्य्-आदीनां रजस् तमः-स्वभावत्वेनोन्मार्गे प्रवृत्त्या स्व-प्रतिकूलैः साधुभिः सह द्वेषेण तत्-परिपालके त्वयि स्वत एव द्वेषोत्पत्तेर् इति भावः । तत्र गन्धर्वादीनां चतुर्-जातीनां वैर-प्रसिद्ध्य् अभावे\ऽपि तद् उक्तिर् दैत्यानुगानां केषाञ्चित्-तेषां रजस् तमः-स्वभावापेक्षया यक्षादयश् च त्रयस् तामसाः सर्वे दैत्यानुवर्तिन एव भूतादयस्तु शैवाभिमानिनः एवम्-भूता दैत्य्-आदयो ये ते वयम् इत्य् अन्वयः । यद् वा, ते दुष्टत्वेन प्रसिद्धा दैत्य्-आदयो वयम् अन्ये च केचिन्-मनुष्यास् तादृशा दैत्य्-आदि-सदृशाः यथा कंसादयः चकार-द्वयम् उभयेषाम् अपि तुल्यत्वेन प्राधान्यात् ॥४१-४२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दैत्येति त्रिकम् । दैत्य्-आदयस्त्वयि नितरां बद्धवैरा अपि वैरं कुतः तत्राह—विशेषतः शुद्धं रज आद्यमिश्रितं यत् सत्त्वं तत् धाम आशयो यस्य तस्मिन् तद् अधिष्ठातरीत्य् अर्थः । अतः शास्त्रस्य शरीरिणि आत्मनि वेद-मार्ग-प्रवर्तक इत्य् अर्थः । दैत्य्-आदीनां रजस् तमः-स्वभावत्वेनोन्-मार्ग-प्रवृत्त्या स्व-प्रतिकूलत्वेन मतैः साधुभिः सह द्वेषेण-तत्-परिपालके त्वयि स्वत एव द्वेषोत्तपत्तेर् इति भावः । तत्र गन्धर्वादीनां चतुर्णां वैर-प्रसिद्ध्य् अभावे\ऽपि तद् उक्तिः दैत्यानुगानां केषाञ्चिद्-रजस् तमः स्वभावापेक्षया यक्षादयश् च वयं तामसाः सर्वे दैत्यानुगा एव ते दुष्टत्वेन प्रसिद्धाः । दैत्य्-आदयो वयम् अस्मद्-आदय इत्य् अर्थः । ममापि तत्-पक्षपातित्वान्-निबद्ध-वैरत्वम् एवेति भावः । अन्ये च केचिन्-मनुष्यास् तादृशा दैत्य्-आदि-सदृशाः यथा कंसादयः चकारद्-धयस् तूभयेषाम् अपि प्राधान्यात् तेष्वेव केचित् केवल-तमः-स्वभावाः पौण्ड्रकादयः उच्चैर् बद्धेन वैरेण तत्-कृत-मनोभिनिवेशेन इत्य् अर्थः । सन्निकृष्टा मुक्ति-पदं प्राप्ताः केचित् तु मद्विधा रजोमिश्राः कामतो यशआदि-वाञ्छया या भक्तिस् त्रैलोक्यदानं तया सन्निकृष्टाः सुरादयस्तु न तथा सन्निकृष्टा इति ॥४१-४३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : शास्त्रस्य शरीरिणि आत्मानं प्रतिप्रवर्तक इत्य् अर्थः । गन्धर्वादीनां चतुर्णां केषाञ्चिद्-दैत्यानुगत्वाद् वैरं यक्षादीनां तामसत्वात् सुतरां वयम् इति । ममापि तत्-पक्षपातित्वान्-निबद्धवैरम् एवेति भावः ॥४१-४२॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सात्त्विकेभ्यो भक्तेभ्योऽपि रजस् तमस्-स्वभावा वयं भाग्यवन्त इत्य् आह—दैत्येत्य्-आदित्रिभिः ॥४१॥


॥ १०.८५.४२ ॥

विशुद्ध-सत्त्व-धा22म्न्य् अद्धा त्वयि शास्त्र-शरीरिणि ।

नित्यं निबद्ध-वैरास् ते वयं चा23न्ये च तादृशाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विशुद्ध-सत्त्वम् अप्राकृत-सत्त्वं तद् आत्मकं धाम मूर्तिर् यस्य तस्मिन् शास्त्रं वेदः शरीरं स्वरूप-गुणादि-धारकं प्रतिपादकं यस्य तस्मिन् ॥४२॥


॥ १०.८५.४३ ॥

केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः ।

न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : उद्बद्ध-वैरेण या भक्तिस् तय । केचनेति चैद्यादयः । कामतो भक्त्या गोप्य्-आदयो यथा सन्निकृष्टास् त्वद्-आत्मतां प्राप्ताः । तथासत्त्व-संरब्धाः सत्त्वाविष्टा अपि सूरादयो सन्निकृष्टा इति ॥४३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु नित्यानुसन्धान-लक्षणान्तः-करण-गुणेनाविर्भूत-ज्ञान-गुणो\ऽस्तीति माशङ्कीर् इति चेद् अयं सुरादीनाम् अपि नास्ति कुतो\ऽस्माकम् इत्य् अभिप्रेत्य् आह—केचनेति ॥४३॥

श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेष्वेव केचन पौण्ड्रादयः उच्चैर् बद्धेन वैरेण भक्त्या स्मरण-लक्षणया एवं तमः-स्वभावानुक्त्वा रजस्-स्वभावानाह—केचन गया-सुरादयः कामतः स्व-र्गादि-वाञ्छया, किं वा, श्री-मोहिन्यवतारे तद्-रूप-दर्शनेन स्मरतः । सुरादयो न तथेति तेषां बहुल-भोगाद्य् आसक्त्या त्वत्-स्मरणासिद्धेः । आदि-शब्दाद्-ऋष्यादयः तेषां च कर्माद्य् आसक्तेर् इति तव योग-मायाम् ऐश्वर्य-विशेषम् इत्य् अर्थः । योगेशाः श्री-सनकादयो\ऽपि

विदन्ति ज्ञातुं शक्नुवन्ति । तत्र हेतुः—हे योगेश्वरेश्वरेति । अचिन्त्यानन्त-महैश्वर्याद् इत्य् अर्थः । प्राय इति भक्तानां केषाञ्चिद्-वेद्यत्वात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, भक्त्येति दृष्टान्ततया यथा भक्त्या सन्निकृष्टा नैकट्यं लब्धाः किं वा, दर्शनं प्राप्ता इति प्रसङ्गाद् अध्याहार्यम् ततश् च सन्निकृष्टाः सात्त्विकत्वेन त्वन्नैकट्य-योग्या अपीत्य् अर्थः । अथवा देवादय एव त्वद्-दर्शनम् अर्हन्ति न तु वयम् इत्य् आह—दैत्येति त्रिभिः । दैत्य्-आदयो वयं निबद्धवैराः । तादृशत्वे हेतुः—केचनेति । उद्बद्ध-वैरेण विशिष्टाः केचन कामतो भक्त्या विशिष्टाः न तथा त तादृशाः सुरादयो यतः सत्त्व-संरब्धाः अत एव सन्निकृष्टाः साक्षाद्-दर्शनादिना त्वत्-सन्निकर्ष-योग्या इत्य् अर्थः । तथाप्य् अस्माभिर् यद् अर्शनं तव तत्र चावतारिणः तत्राप्य् अशेषैश्वर्य-प्रकटनपरस्य साग्रजस्य प्राप्तं तद्-धेतुः केन ज्ञेय इत्य् आह--इदम् इति । अर्थः स एव । निजैश्वर्य-प्रकटनेन तव कृपा-विशेष-विस्तारणाद् एवेत्य् अभिप्रायेण कृपाम् एव स्तौति-इदम् इति । योग ऐश्वर्य-विशेषस् तद्-रूपा या माया कृपा ताम् इदम् इत्थम् इति ईदृशी अनेन प्रकारेण हेतुना च स्याद् इति योगेशा अपि विदन्ति । अपरिच्छिन्नत्वाहेतुकत्वाद् अनन्त माहात्म्यात् । तत्रैव हेतुः—योगेति । अन्यत् समानम् ॥४३-४४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : केचित्-केवल-तमस्-स्वभावाः पौण्ड्रादयः उच्चैर् बद्धेन वैरेण तत्-कृत-मनोभिनिवेशेन इत्य् अर्थः । सन्निकृष्टाः मुक्ति-पदं प्राप्ताः केचित् मद्-विधा रजो-मिश्राः कामतो यश आदि-वाञ्छया या भक्तिः त्रैलोक्यादि-दानं तया सन्निकृष्टाः शुद्ध-भक्त-पदं प्राप्ताः सत्त्वाविष्टाः सुरादयस्तु स तथा सन्निकृष्टाः ॥४३-४४॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : केचन तमस्-स्वभावाः चैद्यादयः उद्बद्ध-वैरेण या भक्तिस् तया केचन रजस्-स्वभावा अस्मद् आदयः कामतः धार्मिकत्वादिख्यापन-सङ्कल्पेन या भक्तिस् तया यथा सन्निकृष्टाः श्री-भगवता सङ्गताः तथा सत्त्व-संरब्धाः **सत्त्व-**गुणे भगवति संरब्धाः । तत्पराः सुरादयो न सन्निकृष्टा इत्य् अन्वयः ॥४३॥


॥ १०.८५.४४ ॥

इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर ।

न विदन्त्य् अपि योगेशा योगमायां कुतो वयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु सात्त्विकेभ्योऽपि राजसादयः सन्निकृष्टा इति चित्रं तद् आह—इदम् इत्थम् इतिइदम् इति स्वरूपतः इत्थम् इति विशेषतश् च ॥४४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्व् इति । तत्राक्षेपे । योगेशा ज्ञानिश्रेष्ठा नारदादयः । योग-मायां जगत्स् ऋष्ट्याद्य् अनुसंहित-स्वरूप-माहात्म्यम् ॥४४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव योग-मायाम् ऐश्वर्य-विशेषम् इत्य् अर्थः । योगेशाः श्री-सनकादयो\ऽपि विदन्ति ज्ञातुं शक्नुवन्ति तत्र हेतुः—हे योगेश्वरेति अचित्यानन्त-महैश्वर्याद् इत्य् अर्थः । प्राय इति भक्तानां केषाञ्चिद्-वेधत्वात् । अन्यत्-तैः । अथवा देवादय एव त्वद्-दर्शनम् अर्हन्ति तु वयम् इत्य् आह--दैत्येति त्रिभिः । यतो दैत्य्-आदयो वयं निबद्ध-वैराः तादृशत्वे हेतुः केचनेति उद्बद्धवैरेण विशिष्टाः केचन कामतः स्वर्थ-साधनायैव भक्त्या विशिष्टाः जात्या तु निबद्ध-वैरा एव इत्य् अर्थः । सुरादयो तथा तादृशाः तत्र हेतुः यतः सत्त्व-संरब्धाः अतस् तव सन्निकृष्टाः साक्षाद्-दर्शनादिना त्वत्-सन्निकर्ष-योग्या इत्य् अर्थः । तथाप्य् अस्माभिर् यद्-दर्शनं तव तत्र च स्वयं भगवद्-रूपेणैवाविर्भूतस्य साग्रजस्य प्राप्तं तद्-धेतुः केन ज्ञेय इत्य् आह—इदम् इति । अर्थः स एव । यद् वा, निजैश्वर्य-प्रकटनेन तव कृपा-विशेष-विस्तारणाद् एवेत्य् अभिप्रायेण कृपाम् एव स्तौति-इदम् इति । योगः ऐश्वर्य-विशेषः तद्-रूपा या माया कृपा तां इदम् इत्थम् इति ईदृशी अनेन प्रकारेण हेतुना च स्याद् इति योगेशा अपि न विदन्ति अपरिच्छिन्नत्व-हेतुकाद्य् अनन्त-माहात्म्यात् तत्रैव च हेतुर्-योगेति अन्यत् समानम् ॥४४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्व-दैन्यं द्योतयितुं कैमुतिक-न्यायेन स्वस्य ज्ञान-भक्ति-हीनत्वं वदन् यद्यपि रजस् तमः-प्रकृतयो\ऽपि स्व-स्व-विशेषेण त्वां प्राप्नुवन्ति तथा हि सात्त्विक-मार्गे ज्ञान-भक्ति-साधन-भूते संस्थापयेति प्रार्थयते-इदम् इति द्वाभ्यां । इदम् इति स्वरूपतः इत्थम् इत्य् असाधारण-धर्मतः तव योग-मायाख्यां शक्तिं योगेशा न विदन्ति त्वां विदन्तीति किमु वक्तव्यम् । एवं सति वयं रजस् तमः-स्वभावास् तव योग-मायां त्वां च जानीम इति कुतस् तरां वक्तव्यम् एवं ज्ञानाभावे भक्त्य् अभावो\ऽपि सिद्धः ॥४४॥


॥ १०.८५.४५ ॥

तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत्-

पादारविन्द-धिष24णान्य-गृहान्ध-कूपात् ।

निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः

शान्तो यथैक उत सर्व-सखैश् चरामि ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् एवं यद्य् अपि वैर-भावेन त्वत्-प्राप्तिर् भवेत् तथापि मां सात्त्विकं कुर्व् इति प्रार्थयते, तद् इति । तत् तथा नः प्रसीद । यथा निरपेक्षैर् आप्त-कामैर् अपि विमृग्यं युष्मत्-पादारविन्दं तद् एव धिषणम् आश्रयस् तस्माद् अन्यद् गृहं तद् एवान्ध-कूपस् तस्मान् निष्क्रम्य निर्गत्य विश्वस्य शरणं रक्षितारो वृक्षास् तेषाम् अङ्घ्रि-मूलेषु स्वत एव गलितैः फलादिभिर् उपलब्ध प्राप्ता वृत्तिर् जीविका येन सोऽहं शान्तः सन्न् एक एव चरामिउत अथव सर्वेषां सखायो महान्तस् तैः सह यथा चरा25मीति ॥४५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वाशयम् आह—तदित्य्-आदिना । तद् एवम् इत्थम् । तस्मात् पादारविन्दधिषणात् सर्वः स्थाणुः इति सहस्र-नामसु **सर्व-**शब्दो विष्णु-वाचको\ऽपि । सर्वो विष्णुः सखा येषां ते सर्व-सखायो हरि-जनास्तौर् इति वा ॥४५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-तस्मात् स्व-दर्शन-दानाद्-धेतोः नो\ऽस्मान् प्रति बहुत्वं निज-परिवारापेक्षया निरपेक्षैर् मुक्तैर् अपि विशेषेण । मोक्षाद्य् उपेक्षया प्रयत्नेन मृग्यम् एव न तु लभ्यम्, यद्-युवयोर् युष्माकं वा भक्त-जनापेक्षया गौरवेण वा बहुत्वम् । पाद एवारविन्दं सर्व-सन्ताप-हरणामृत-रस-स्रावादिना अतस्-तद् एव धिषणं तद् अन्य-गृहं चान्धकूप एव विविध-दुःखावहत्वाद् अबुद्धिभिर् अलक्ष्यत्वाच् च तस्मान्**-निष्क्रम्य** विश्व-शरणत्वेन तरूणां निरुपाधि-परोपकार-शीलतादिकम् उक्तम् । अत एव तद् अङ्घ्रिषु तत्रापि उप स्वसमीप एव लब्ध-वृत्तिः इति तत्र स्व-प्रयासो निरस्तः । सुपक्व-फलादीनां स्वयम् एव सर्वत्र पतनात् कदाचित् क्वचित्-तत्र भावे\ऽपि । किं वा, शीतोष्णादाव् अपि शान्तो\ऽनुद्विग्न-चित्तः यद् वा, रागद्वेषादिर् अहितः सन्नेको निरन्तर-स्मरण-कीर्तन-विशेष-सम्पत्तये एकाकी उताथवा त्वद्-भक्ति-रसास्वादनार्थं सर्व-सखैश् चरामि, सुखम् इतस् ततो भ्रमामि । **सर्व-**सखैर् इति महतां परम-दयालुत्वेनात्मनस् तत्-सङ्ग-योग्यता सूचिता । अन्यत् तैर् व्याख्यातम् ।

यद् वा, **निरपेक्ष-**विमृग्यं **युष्मत्-**पदारविन्दयोर्-धिषणं श्री-नन्द-व्रज-लक्षणं तद् अन्यत् सर्वं ब्रह्म-लोकादि-गृहम् एवान्ध-कूपः—तत्र पतितैस् त्वद्-धिषणस्यालभ्यत्वात् । तस्मान्-निष्क्रम्य तम् अनपेक्ष्य इत्य् अर्थः । **विश्व-**शरणं श्री-वृन्दावन-तरवः तथा चोक्तं श्री-भगवता पश्यतैतान् महा-भागान् [भा।पु१०.२२.३२] इत्य्-आदि । तेषाम् अङ्घ्रिषु, यद् वा, **विश्व-**शरणस्य तवाङ्घ्र्योः । किं वा, **विश्व-**शरणौ यौ त्वद् अङ्घ्री तयोरुप सामीप्येन लब्धा वृत्तिः स्थितिर्येन सः, उत अपि स्व-परिवारादि-त्यागेनैको\ऽपि शान्तः । यद् वा, त्वत्-सङ्गत्या शान्तः सुखी सन् कदाचित्-त्वया सहैकाक्यपि कदाचिच् च सर्व-सखैर् व्रज-जनैर् अपि सह, यद् वा, एकः श्रेष्ठो गोपत्वेन सर्वोत्तमः, किं वा, गोपानाम् एकतमः सन् सर्वस्य विश्वात्मकस्यापि तव सखिभिर् गोपैर् अपि सहचरामि । श्री-वृन्दावनादौ तत्र परिभ्रमामि । दुर्घटतर-पद-प्रार्थने लज्जादिना व्यक्तया तद् अनुक्तिः । नः इति प्राग् उक्ते\ऽपि पश्चाद् एकत्वेनोक्तिः, दुर्लभस्य वस्तुनो बहुषु दानायोग्यत्वस्य किं वा, मद् ईदृशता सिद्धा । तदीयेषु च स्वतः प्रसाद-सिद्धेर् इत्य् अभिप्रायेणेति ॥४५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यस्माद् एवं कृपा-लुत्वं तत्-तस्माद् एव हेतोः नो \ऽस्मभ्यं प्रसीद प्रसादम् एवाह—निरपेक्षेति । मुक्तैर् अपि विशेषेण शुद्ध-भक्त-जन-भावेन मृग्यं न तु सहसा लभ्यं यद्युवयोः पदं तद् एव **सर्व-**ताप-हरत्वेन परम-दृश्यत्वादि-गुणत्वेन परमामोददातृत्वेन चारविन्!तद् एव च परमाश्रयत्वाद्-धिषणं धिष्ण्यं तस्माद् अन्यद्-यद्-धिष्ण्याभासो गृहं तद्-वस्तुतो \ऽन्धकूपः स इव महा-वरक-बन्ध-हेतुत्वाद्-विशेषतश् च सुतल-रूपत्वात्-तत्-सदृशम् एवेति तस्मान्-निष्क्रम्य **विश्व-**शरण-भूतो यो\ऽयम् अङ्घ्रिः पादारवीन्दं तस्य उप समीपे लब्धा वृत्तिर् दास-जनोचित-वर्तनं येन तथा-भूतः सन् उत एकः एकाक्येव च सन् न तु सपरिकरो\ऽपि सन् **सर्व-**सखैस् त्वदीय-जनैः सह चरामि **सर्व-**सखत्वात्ते\ऽपि न मयि जुगुप्सां करिष्यन्तीति भावः ॥४५॥


**जीव-गोस्वामी (क्रम-सन्दर्भः) : विश्व-**शरण-भूतो\ऽयम् अङ्घ्रिः पादारविन्दं तस्य उप समीपं लब्ध्वा वृत्तिर्-दास-जनोचितवर्तनं येन तथा-भूतः स्व-समानवासन-परिकरसहितः सन् उत एकः एकाक्येव सन् **विश्व-**सखैस् त्वदीय-जनैः सह चरामि ॥४५॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु भो वरं वृण्वित्य् अत आह—निरपेक्षैर् आत्मारामैर् अपि विमृग्यं **युष्मत्-**पादारविन्दं तद् एव धिषणम् आश्रयस् तस्माद् अन्यो यो **गृहान्ध-**कुपस् तस्मान्-निष्क्रम्य विश्वस्य शरणम् उपकारका वृक्षास् तेषाम् अङ्घ्रि-मूलेषु स्वत एव गलितैः फलादिभि-रुप-लब्धा वृत्तिर् जीविका येन सोऽहं शान्तः सन्न् एक एव चरामिउत अत्य् अधिकं कृपयसि चेत् सर्वेषां सखायस् त्वद्-भक्तास्तैः सह चरामि ॥४६॥


॥ १०.८५.४६ ॥

शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो ।

पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : कथम् अल्प-पुण्यानाम् एवं भावः सम्भवतीति चेत् तर्हि यथैतद् भवेत् तथास्मान् अनुशिक्षयेत्य् आह—शाधीति । हे प्रभो, ईशितव्याः सर्वे जीवास् तेषाम् ईश यत् तवानुशासनम् आतिष्ठन्न् आश्रयंश् चोदनाया विधि-निषेध-लक्षणायाः सकाशाद् विमुच्यते । न खलु त्वद्-भक्तो विधि-किङ्करः स्याद् इति भावः ॥४६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवद् आक्षेपं समादधानो वक्ति-कथम् इत्य्-आदिना । एवं-भावः एवं-विधत्यागः । एतत् त्यागादि । इति भाव इति—देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् [भा।पु। ११.५.४१] इत्य्-आद्य् उक्तेः ॥४६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु बलिर् इन्द्रो भविष्यति [भा।पु। ८.१३.१२] इति वचन-प्रामाण्येन त्रि-लोक्या वैष्णवत्व-सम्पत्तये त्वम् ईन्द्रो भवितासीत्य् अधुना कथम् एवं घटताम्? तत्राह—शाधीति । नन्व् अन्यस्माच् छिक्षस्व् एति चेत्-तत्राह—हे ईशितव्येशेति । परमेश्वरत्वेन तत्रैवानुशासन-योग्यत्वाद् इति भावः । तत्र चादाव् अनुशासन-मात्रेण निष्पापान् दैत्यत्व-निदान- रजस् तमो-मूल-पाप-रहितान् कुरु ततश् च त्वद् अनुशासनानुष्ठान-सिद्ध्या तद्-योग्यो भवेयम् इत्य् आशयेनाह—पुमान् इति । अधिकारापेक्षा निरस्ता, श्रद्धयेत्य् अन्यथा नास्तिकता-प्रसक्त्या कलासिद्धेः । किं वा, शीघ्र-सुसिद्ध्य् अपेक्षया विशेषेण मुच्यते प्रेम-सम्पत्तेः तच् च त्वत्-प्रभावाद् इत्य् आह—हे प्रभो इति । स्व-पक्षे—हे दैत्य-राज! तादृशानाम् इदम् अतीव दुर्घटम् । तत्राह—शाधीति । ईशितव्यानां भृत्यानां मादृशाम् ईश! परिपालकेति । त्वद्-भक्त-वात्सल्येन सुघटम् इति भावः ।

नन्व् अधुना तद्-योग्यो\ऽसीति चेत्-तत्राह—आदौ निष्पापान् कुरु ततश् च पाप-रहित्येन त्वदाज्ञानुष्ठान-योग्यतया तदातिष्ठन् परम-भक्तो भूत्वा तद्-योग्यताम् अपि प्राप्स्यामीत्य् अर्थः । अथवा अहो तादृश-भाग्य-हीनान् अस्मान् प्रति तत्-प्रसादो यदि वा अधुना न सम्पाद्येत तदा निजागमन-प्रयोजनम् अप्य् आदिश्यताम् । तेनैव कृतार्थो भवेयम् इत्य् आह—शाधीति । किञ्चिद् आदिश इत्य् अर्थः । अन्यत् समानम् ॥४६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अहो तादृश-हीनान् अस्मान् प्रति तादृश-प्रसादो यदि वाधुना न सम्पाद्यते तदा निजागमन-प्रयोजनम् अप्य् आदिश्यतां तेनैव कृतार्थो भवेयम् इत्य् आशयेनाह—शाधीति । किञ्चिद् आदिश इत्य् अर्थः । तत्र श्री-भगवतो योग्यताम् आह—हे ईशितव्येश! ईशितव्याः शासनीयाः ईशा ब्रह्म-रुद्रादयो\ऽपि यस्य हे तादृशेति! न तु तव तु तद् अनुष्ठाने योग्यता नास्ति तत्राह—निष्पापान् त्वद्-भक्ति-विघ्नेभ्यो निर्गतान् कुरु अनुशासन-रूपेण तव् आङ्गीकारेणैव तद् अपगमात् सम्पत्त्स्यते सेति भावः । तद् एव प्रमाणयति यद् इति । यद्-वेद-रूपं पारम्परिकं साधारणम् अप्य् अनुशासनं किमुत साक्षात् आत्म-विषयकम् इत्य् अर्थः ॥४६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : अहो तादृश-भाग्य-हीनान् अस्मान् प्रति तादृश-प्रसादो यदि वाधुना न सम्पाद्यते तदाङ्गने आगमन-प्रयोजनम् अप्य् आदिश्यताम् तेनैव कृतार्थो भवेयम् इत्य् आशयेनाह—शाधीति ॥४६-५३॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, साम्प्रतं यद् अर्थम् एतादृशं दर्शनं तदाज्ञापयेत्य् आह--शाधि आदिश ईशितव्यानाम् अस्मद् आदीनाम् ईश हे प्रभो! ननु मदाज्ञां निष्पादयितुं तव कोऽधिकारस्ताह—निष्पापान् कुरु तद् असामर्थ्ये\ऽपि तच्-छ्रवणेनापि निष्कल्मषा भवेमेति भावः । यत् त्वद् आदिष्टम् अनुतिष्ठन् कुर्वंस् तु चोदनायाः विधि-निषेध-लक्षणायाः सकाशात् विमुच्यते विधि-किङ्करो न स्याद् इत्य् अर्थः ॥४६॥


॥ १०.८५.४७ ॥

श्री-भगवान् उवाच—

आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।

देवाः कं जहसुर् वीक्ष्य सुतां यभितुम् उद्यतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् उक्तं सर्वम् अनुमोद्य स्वागमन-कारणं स-प्रपञ्चं कथयति, आसन्न् इति पञ्चभिः । ऊर्णायां भार्यायाम् । प्रथमेऽन्तरे स्वायम्भूव-मन्वन्तरे देवाः सुतां वाचं यभितुं यब्धुं मैथुनेन रमयितुम् उद्यतम् उद्युक्तं कं प्रजापतिं जहसुर् उपहसितवन्तः ॥४७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् उक्तं बल्युक्तम् । विगीत-व्यावृत्त्य् अर्थम् अर्थान्तरम् आह—सुखं तनोतीति सुता भार्या ताम् । नामैक-देश-न्यायेन भीमादिवद् अक्षर-मुष्टि-न्यायेन वाभाकादिवद् अत्र सुना सुख-ग्रह इति ॥४७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्-प्रार्थितस्याधुना महा-दुर्घटत्वेन तत्रोत्तरमदत्त्वा स्वागमन-प्रयोजन-कथनेनैव तं सन्तोष-यंस् तदाह—आसन्न् इति त्रिणिः । देवा अपि जहसुः ॥४७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रोत्तरं प्रार्थनम् एव सम्प्रति स्वाभीष्ट-विशेषेणानुमोदितुम् उपोद्घातं प्रस्तौति—आसन्न् इति । देवा अपि जहसुः ॥४७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वागमन-कारणम् आह—आसन्न् इति पञ्चभिः । ऊर्णायां भार्यायाम् अन्तरे मन्वन्तरे स्वायम्भुवे ते देवाः षट् सुतान् सरस्वतीं यभितुं सम्भोक्तुम् उद्यतम्कं प्रजापतिम् ॥४७॥


॥ १०.८५.४८ ॥

तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा ।

हिरण्यकशिपोर् जाता नीता26स् ते योग-मायया ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तेनावद्य-कर्मणा पापेनासुरीं योनिम् अगन्न् अगमन् । अधुना तत् क्षणम् एव । हिरण्यकशिपोर् जाता इत्य् अर्थः ॥४८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेन महद् उपहास-लक्षणेन । इत्य् अर्थ इति-अधुनेति पदम् अत्र नेदाईम् अर्थकं किन्तु तत्-क्षणार्थकम् इति भावः । ते च हिरण्यकशिपु-जाताः । ततो हिरण्यकशिपु-गृहात् । **योग-**माया-पार्श्वम् एतावत्-काल-पर्यन्तं स्थित्वा पुनर् अधुना देवक्या उदरे जाता इत्य् उत्तरेणान्वयः । अत्र च हरिवंशीया कथानुसन्धेया । सा च—

हिरण्यकशिपु-पुत्र-कालनेमिनः षट् पुत्रा ब्रह्म-प्रसादाव् आप्तये तपश् चक्रुस् तत्-तपसा तुष्टो ब्रह्मा तद् अभीप्सितम् अमरत्वं ददौ । तच्-छ्रुत्वा तेषां पितामहो हिरण्यकशिपुस् ताञ्छशाप-यतो मां सर्वेश्वरं त्यक्त्वा ब्रह्माणम् आराधितवन्तो\ऽतः स्व-पितृवध्या भविष्यतेत्य् उक्त्वा तांस् तत्याज । ततो विष्णुर् ब्रह्म-वरं सत्यी-कर्तुं तेषाम् आत्मन आकृष्य योग-निद्रायै ददौ । ते च जल-गर्भे शयनं चक्रुस् तेषां जीवात्मनो योग-माया भगवद् आज्ञप्ता देवकी-गर्भे निवेशितवतीति तेषां स्वप्नवत् स्व-दृष्ट्या देवक्यां जनिर् लोक-दृष्ट्या साक्षाज्-जनिर् इति । ॥४८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हिरण्यकशिपोर् इति तत्-पुत्रात् कालनेमिनो जाता इति श्री-हरिवंशोक्तानुसारेण ज्ञेयम् । तच् च पुरा द्वितीयाध्यायारम्भे सूचितम् एव । तद्-विशेषः श्री-हरिवंशे सुव्यक्त एव । अत्र बाहुल्य-भयान् न लिख्यते ॥४८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तेनेति सार्धकं आसुर-योनि-गमन-प्रकारम् एवाह—अधुनेति । हिरण्यकशिपोर् जात इति द्वितीयाध्यायारम्भे व्याख्यातम् ॥४८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तनावद्य**-कर्मणा** पापेन अधुना तत्-क्षण एव आसुरीं योनिम् अगमन् हिरण्यकशिपोः सकाशात् कालनेमि-क्षेत्रे जाताः तेयोग-मायया देवक्याः उदरे कंस-हस्तेन घातनार्थं नीताः ॥४८॥


॥ १०.८५.४९ ॥

देवक्या उदरे जाता राजन् कंस-विहिंसिताः ।

सा तान् शोचत्य् आत्मजान् स्वांस् त इमेऽध्यासतेऽन्तिके ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते च योग-मायया ततो नीताः सन्तो देवक्या उदरे जाताः । हे राजन् बले, ते च कंसेन विहिंसिताःसातान् आत्म-जान् मत्वा शोचति । ते चेमे तवान्तिकेऽध्यासते ॥४९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सा च देवकी । तान् कंस-विहिंसितान् । ते च कंस-हिंसिताः । इमे सम्मुखस्थाः । अध्यासते तिष्ठन्ति ॥४९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे राजन्न् इति तेषां तत्-तत् सर्व-वृत्तं त्वया ज्ञायत एवेति भावः । कीदृशीं गतिं प्राप्ता इति शोचति, यतः स्वान् स्वकीयान् आत्मजान् अत एतान् अर्पयेत्यादिशन् तेषां तद् अधीनताम् आह— इति । एवं परम-भक्तेन सर्वज्ञेन श्री-बलिना श्री-भगवद्-दर्शनार्थं ते सदा स्व-समीपे\ऽवस्थाप्यन्त इति ज्ञेयम् ॥४९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र प्रस्ताव्यम् आह—सार्ध-द्वयेन । तत्रैव सकरुणम् आह—सेत्य् अर्धकेन । यतः स्वान् स्वीयानात्मजान् ते च न गोपनीया इति स-नर्माह— इम इति एवं परम-भक्तेन सर्वज्ञेन बलिना श्री-भगवद्-दर्शनार्थं ते सदा स्वसमीप एव च स्थापिता इति ज्ञेयम् ॥४९॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सा देवकी इमे ते इति तर्जन्या तान् दर्शयतीति ते परम-भागवतेन बलिना भगवद्-दर्शनार्थम् आनीय स्व-दृष्टि-पथ एव स्थापिता इति भावः ॥४९॥


॥ १०.८५.५० ॥

इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये ।

ततः शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लोकं देव-लोकम् ॥५०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इतस् तव पार्श्वतः । ततो **मातृ-**शोकापनुत्त्यनन्तरम् । शापान्-महद् उपहास-लक्षणपापात् शापः पापाक्रोशदिव्य-प्राप्त-कल्याणकेषु च इति निरुक्तिः ॥५०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेणावश्यकतया प्रणयेन वा नेष्यामः बहुत्वं नयन-दार्ढ्याय निज-प्रौढि-सूचनात् । पाठान्तरं स्पष्टम् । **मातृ-**शोकापनुत्तिहेतुम् आह—तत इति । तद् अनन्तरम् एव शापाद् उपहासेन श्री-ब्रह्म-दत्तात्, पापेति वा पाठः । विशेषेण निःशेषण च सर्वथा मुक्ताः, अत एव विज्वराः सर्व-सन्ताप-रहिताः सन्तः लोकम् आत्मीयं तत्रत्यानां स्व-परिवाराणां सन्तोषार्थं निश्चयार्थं च तानेव निर्दिशन् भोगान्ते परम-पदं प्राप्स्यन्तीत्य् आह—स्मरेति । पुनः पश्चात् सद्-गतिं श्री-वैकुण्ठ-लोकम् अथवा लोकं मदीयं तद् एवोक्तपोषण्यायेन द्रढयन्न् आह—स्मरेति । पुनस् त्व् अर्थे वाक्यालङ्कारे । अन्यत् समानम् ॥५०-५१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वाभीष्टम् आह—इत इति द्वाभ्याम् । प्रकर्षेण आवश्यकतया प्रणयेन वा नेष्यामः अस्मदो द्वयोश् च [पाण् १.२.५९] इति बहु-वचनम् एषाम् अपि कुशलं भविष्यतीत्य् आह—तत इति । शापेति शापाद् इति वा पाठः विशेषेण आसुर-भावराहीत्येन निःशेषेण तच्-छरीरराहीत्येन मुक्ताः अत एव विज्वराः सर्व-सन्ताप-रहिताः सन्तः प्रथमतस् तावद् एव लोकं यास्यन्ति भोगेच्छावशेषात् ॥५०॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शापात् पिता पुत्रान् वधिष्यतीति हिरण्यकशिपोः **शापाद्-**विमुक्ता एवैते ततः मन्नयनानन्तरं लोकं देव-लोकम् ॥५०॥


॥ १०.८५.५१ ॥

स्म27रोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी ।

षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्मरोद्-गीथः स्मर-सहित उद्गीथः । सद्-गुतिं मोक्षम् । स्मरस्यैव पूर्वं कीर्तिमान् इति नाम । अतः कीर्तिमन्तं प्रथम-जं कंसायानकदुन्दुभिः । अर्पयाम् आस [भा।पु। १०.१०.५७] इत्य् उक्तम् ॥५१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभिज्ञानार्थं तन्-नामानि निर्दिशति-स्मर इत्य्-आदि । अतस् तन्-नामत्वात् ॥५१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निश्चयार्थं तानेव नाम्ना निर्दिशन् भोगान्ते नित्यम् अद्धामापि प्राप्स्यन्तीत्य् आह—स्मरेति । पुनः पश्चात् सतां यादवानां गतिं ममाप्रकट-लीला-स्पदम् ॥५१॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्मरसहित उद्गीथ इत्य्-आदीनि नामानि मरीचि-पुत्रत्वद् अशायाम् ॥५१-५३॥


॥ १०.८५.५२ ॥

इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।

पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अयच्छताम् अर्पयाम् आसतुः ॥५२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तान् स्मरादीन् । मातुर्-मात्रे ॥५२-५३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् स-परिच्छदत्वादिना करग्रहणादिना चादाय पूजितौ तद् अर्पणादिना सम्मानितौ सन्तौ मातुर् मात्रे ॥५२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् सपरिच्छदत्वादिना कर-ग्रहणादिना चादाय पूजितौ तद् अर्पणादिना सम्मानितौ सन्तौ मातुः मात्रे ॥५२॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.५३ ॥

तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी ।

परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) :बालकान् इति मातृ-सन्तोषार्थं श्री-भगवद् इच्छया पूर्ववद्-वालक-रूप-प्राप्तेः किं वा, तस्याः **स्नेह-**भरेण बालकतयैव परिस्फूर्तेः देवी ईश्वरी श्री-भगवन्-मातृतया गौरवात् परिष्वज्येति क्रमशः स्नेहाकुलतयातिशैघ्र्येण युगपदिव वा । एवम् अग्रे\ऽपि ॥५३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बालकान् इति मातृ-सन्तोषार्थं श्री-कृष्णेच्छया बालक-रूपेणैवाविर्भूतान् कीर्तिमदादीन् श्री-कृष्ण-रामौ च ॥५३॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.५४ ॥

अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम्28

मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यया मायया ॥५४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुतानां सुतस्य वा कृष्णस्य स्पर्शेनैव परितः प्लुतं प्रस्तुत-क्षीरम् इत्य् अर्थः । “स्नुतम्” इति पाठे\ऽपि स एवार्थः । तत्र हेतुः—मायया पुत्र-स्नेह-लक्षणया मोहिता आकृष्ट-चित्त इत्य् अर्थः । न च सा माया तया\ऽपि हर्तुं शक्यत इत्य् आशयेनाह—विष्णोर् विश्व-व्यापकस्य भगवतः ।

ननु श्री-भगवता स्व-मातरि सा किं विस्तार्यते? तत्राह—ययेति । यया मायया तत्-स्वीकारेण विना तस्याः सङ्कोचेन विश्व-सृष्ट्य्-अप्रवृत्तेर् इत्य् अर्थः । यद् वा, मायया कृपया सृष्टिः प्रवर्तते, तस्यास् तन्-मातृतया पुनः पुनर् जन्म स्याद् इत्य् अर्थः ॥५४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सुतानां श्री-कृष्णादीनां स्पर्शेनैव परितः स्नुतं प्रस्नुत-क्षीरम् इत्य् अर्थः । “परिप्लुतम्” इति पाठे सुत-स्नेहेन व्याप्ता सती । तत्र हेतुः--मायया स्व-लीला-हेतुना योग-मायाख्य-शक्त्या मोहिता सृष्टिर् लीला-निर्माणं प्रस्तुतत्वात्, तथापि साधारण-तत्-तच्-छब्देनोक्तिः प्रसिद्धार्थ-द्वारा झटिति साधारण-लोक-बोधनाय ॥५४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : मायया लीला-हेतुना योग-मायया मोहिता सृष्टि-लीला-निर्माणं प्रस्तुतत्वात् प्रतिलब्धात्म-दर्शनाः पुनर् लब्धा निज-देवत्वानुभवाः । तेषां भोग-वासनावशेषाद्-भगवतस् तदानीं तावन्-मात्र-दानस्येष्टत्वात् ॥५४-५६॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया योग-मायया यया विष्णोः सृष्टिर् अप्राकृती तल्-लीला-परिकर-प्रादुर्भावमयी प्रवर्तते, न तु ब्रह्मणः सृष्टिः प्राकृतीत्य् अर्थः ॥५४॥


॥ १०.८५.५५ ॥

पीत्वामृतं पयस्29 तस्याः पीत-शेषं गदा-भृतः ।

नारायणाङ्ग-संस्पर्श-प्रतिलब्धात्म-दर्शनाः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृतत्वे हेतुः, गदा30-भृतः पीत-शेषम् इति । नारायणाङ्ग-संस्पर्शेन प्रतिलब्धं देवा वयम् इत्य् आत्म-दर्शनं यैस् ते ॥५५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्या देवक्याः । “अमृत-पयः” इति पाठे तु अमृतम् अमृतत्वापादकं पयो\ऽमृत-पयः । यद् वा, नन्द-गेह-गमनानन्तरं स्वाविर्भावावसर एव जाताह्लादा देवकी तन्-मुखे स्तनं ददौ । स्वयम् एव मुखे स्तनं गृहीत्वा, पुनर् वसुदेवाय “मां नन्द-गृहं नय” इत्य् उक्तवान् इति ध्येयं, पूर्व-जन्मापेक्षया तज्-जन्मनो\ऽन्यत्वाद् इति ॥५५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गदा-भृतो गदा-धरस्य गदाम् आदाय तत्रागमनात् । किं वा, साक्षात् श्री-नारायणस्य इत्य् अर्थः, जन्म-समय-दृष्ट-रूप-दर्शनात् । यद् वा, गदं निजानुजम् आ सम्यक् बिभर्ति पालयतीति । तथा तस्य निजाशेषैश्वर्य-प्रकटनार्थं श्री-वसुदेव-पुत्रतयावतीर्णस्य भगवत इत्य् अर्थः । पीते शेषम् इति पूर्व-जन्म-समये प्राकृत-रूप-दर्शनेन स्नेह-भरोदयेन तदानीं प्रस्नुत-स्तन-पानाद् इति ज्ञेयम् ।


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पीत्वा इति युग्मकम् । स्वत एव अमृतं परमानन्दात्मकं, तत्रापि गदा-भृतः पीत-शेषं, तत्र गदा-भृत इती गदाम् आदाय पाताल-गमनागमनादिकं बोधयति । पीत-शेषम् इति मातुः स्वस्य चेच्छया प्रथमं तेन पानात् । नारायणः सर्वाश्रयः स्वयं भगवान् तस्याङ्गं श्री-हस्तादि तस्य साक्षात् सम्यक् स्पर्शः, तेन प्रति पुनर् लब्ध-निज-देवत्व-दर्शनाः, तद्-वासनानुसारेण सम्प्रति तन्-मात्र-दानस्य भगवतेष्टत्वात् । अत एव मात्रादाव् अपि स्नेह-रहिता देव-लोकम् एव ययुः । मिषतां पश्यतां सर्व-भूतानाम् इति कौतक-विशेषः सूचितः । “विहायसा” इति पाठः स्वामि-सम्मतः । “दिवौकसाम्” इति पाठस् तु सर्वत्र ॥५५-५६॥

नारायणः साक्षाद्-भगवान्, स एव । तस्य अङ्गं श्री-हस्तः, तस्य सम्यक् स्पर्शः समादानं, तेन प्रत्ययतो लब्धम् आत्मनो दर्शनं स्वरूप-ज्ञानं । किं वा, श्री-भगवतो माहात्म्य-ज्ञानं यैस्, तथा-भूताः सन्तः ॥५५॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गदा-भृतः कृष्णस्य पीत-शेषम् इति पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः [भा।पु। १०.३.४६] इत्य् उक्तेर् देवक्यां प्रादुर्भूय नन्द-गृहे गमन-समये यदा शिशुर् अभूत्, तदा दूर-गमन-निबन्धनो\ऽस्य कण्ठ-शोषो माभूद् इति स्नेहेन श्री-देवकी तं स्तनं पाययामास एवेति । तत्रानुक्तम् अप्य् अत्रोक्तेर् अवगम्यते । नारायणस्य अङ्ग-संस्पर्शेन प्रतिलब्धं “देवा वयम्” इत्य् आत्म-दर्शनं यैस् ते धाम देव-लोकम् ॥५५-५८॥


॥ १०.८५.५६ ॥

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।

मिषतां सर्व-भूतानां ययुर् धाम31 विहायसा32

श्रीधर-स्वामी (भावार्थ-दीपिका) : धाम देव-लोकम् ॥५६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते स्मरादयः ॥५६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दम् अशेषैश्वर्य-प्रकटनार्थं पृथिव्याम् अवतीर्णं साक्षाद्-भगवन्तम् इत्य् अर्थः । ततश् च स्नेहाधिक्येनात्म-कृतार्थतापादनेन, प्राग् देवकीं मातरं मिषतां पश्यतां सर्व-भूतानाम् इति श्री-भगवद्-भगवदीयापेक्षयान्येष्व् अनादरात् । यद् वा, आश्चर्येण सर्व-भूतेषु पश्यत्सु सत्स्व् इत्य् अर्थः । इति तत्रासम्भावनादिकं निरस्तम् । धाम श्री-वैकुण्ठ-लोकं विहायसा आकाश-मार्गेण ॥५६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पूर्व-श्लोकस्य टीका द्रष्टव्या।

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.५७ ॥

तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् ।

मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : मृतानाम् आगमनं निर्गमनं च श्री-कृष्णस्य मायां मेने । तेनैवापत्यादि-रूपेण रचिताम् ॥५७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-तदा ॥५७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रचितां श्री-कृष्णेनैव दर्शितां मायां स्व-शक्ति-विशेषं, किं वा, तेनैव कृतां कृपां मेने । हे नृप इति । एवं मातरि भ्रातृषु च तत्-सम्बन्धेन श्री-बले च श्री-भगवतो\ऽनुग्रह-विशेषो विचार्यतयावगम्यताम् इति भावः ॥५७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद् एवं स्वस्मिन्न् एव श्री-भगवता तस्याः स्नेहो रक्षितः इत्य् आह—तम् इति । आगमन-पूर्वकं निर्गमं यद् वा, द्वन्द्वैक्ये\ऽपि पुंस् त्वम् अझ्रस्व-दीर्घ-प्लुत इतिवत् कृष्णस्य रचितां मायां तेषां जन्मादिकम् आगमनादिकं च श्री-कृष्णेनैव कंस-वञ्चनादि-कार्याय मायया रचितम् इति मेन इत्य् अर्थः । स्नेहाद्य्-अदर्शनाद् इति भावः । एवं प्राचीन-देहैर् एव भ्रूणतया देवक्यां प्रवेशो न तु ततो देहोत्पत्तिः, तेषां मारणानन्तरं च पुनस् तेनैव देहेन गतिर् इति प्रकरणाद् अवगतम् ॥५७॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.५८ ॥

एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः ।

वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कृष्ण-लीलानन्त्यम् अतिदिशति--एवम् इति ॥५८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं-विधानी-दृशानि अद्भुतानि साक्षाद् ऐश्वर्य-विशेष-प्रकटनेन लोकातीतानि किं वा, आश्चर्याण्य् अनन्तानि वीर्याणि मङ्गल-चरितानि प्रभावा वा सन्ति । तत्र हेतुः—अनन्तं वीर्यं शक्तिर् यस्य तस्येति । तत्रैव हेतुः—परमात्मनो\ऽन्तर्यामितया सर्वत्र सर्वथा सर्व-प्रवर्तकस्येति । तत्रापि हेतुः—कृष्णस्य साक्षात्-परमेश्वरस्येति । अनन्त-वीर्यत्वेन परमेश्वरम् उक्तम् एव । ततश् च कृष्णस्येति तत्राप्य् अशेषैश्वर्य-प्रकटनार्थम् अवतीर्णस्य भगवत इत्य् अर्थः । हे भारत इति महा-वंशजेन त्वया तानि प्रतीयन्त एवेति । तथा तान्य् अशेषतः केनापि वर्णयितुं न शक्यन्त इति त्वया बुध्यत एवेति भावः ॥५८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ राज्ञो मुक्ति-कालासत्तिम् आशङ्क्य ग्रन्थम् आशु समापयितुं श्री-कृष्ण-कथाम् उपसंहरन्न् आह—एवम् इति । अनन्तानि प्रतिक्षणं युगपद् एवापरिमित-लीला-विष्कारात् श्री-नारदेन तथा दर्शनात् तत्र हेतुः अनन्तं वीर्यं शक्तिर् यस्य तस्येति तत्रैव हेतुः—परमात्मनः सर्व-मूल-स्वरूपस्येति ॥५८॥

———————————————————————————————————————

जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.८५.५९ ॥

श्री-सूत उवाच—

य इदम् अनुशृणोति श्रावयेद् वा मुरारेश्

चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः ।

जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं

भगवति कृत-चित्तो याति तत्-क्षेम-धाम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अमृ33तं कीर्तिर् यस्य तस्य । व्यास-पुत्रेर् इति बहु-वचनं पूजार्थम् । जगताम् अघं मिनत्तीति तथा तत्अलं निःशेषं यथा भवति तथा न कृच्छ्रादि-वद् इति । तद् एवं मोक्ष-हेतुत्वं पाप-क्षय-हेतुत्वं चोक्तम् । तद् भक्तानां तु सत्-कर्ण-पूरं परम-सुखावहं कर्णाभरणम् इति स्वयं सुख-रूपताम् आह । किं च भगवति कृतम् आवेशितं चित्तं येन स तथा भूत्वा तस्य क्षेम-धाम कालादि-भय-रहितं लोकं यातीति ॥५९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अमृतं कीर्तिर् इव यस्येति कीर्तेर् अमृताधिक्यं मोक्ष-हेतुत्वात् । न कृच्छ्रदिवत्-प्रयोगोक्त-मात्र-पाप-हरम् । आदिना चान्द्रायणादि-ग्रहः । तद् एवं निःशेषाघहरत्वाद् उभय-हेतुत्वं युक्तम् । तद्-भक्तानां मुरारि-भक्तानाम् । स्वयं सुख-रूपतां परमानन्द-रूपतां व्यनक्तीत्य् अर्थः । लोकं वैकुण्ठम् । न कर्हिचिन्-मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो\ऽनिमिषो लेडि हेतिः इत्य् उक्तेः ॥५९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं सद्य एव तेषां श्री-वैकुण्ठ-लोकलाभं श्रुत्वा विस्मितान् ब्राह्मणान् दृष्ट्वानुगृह्णन् अहो श्री-भगवत्-सोदरास्ते तत्-पदं प्राप्ता इति किं वक्तव्यम् । **तद्-**वार्ताश्रवणादिनान्ये\ऽपि तत् प्राप्नोतीति वदन् तादृशश्री-शुक-देवस्योक्त्या सुप्रीतः सन् श्री-लोमहर्षणिस् तन्-माहात्म्य-पूर्वकं श्री-भगवच्-चरित-माहात्म्यम् आह—य इति । अधिकारापेक्षा निरस्ता । अनु निरन्तरं शृणोति वा-शब्दादनु-शब्दस्यात्रान्वयः, अनु श्रावयेद्वा । तत्र हेतुः—अमृतं परमानन्द-रसस् तद्-रूपा परम-मधुरा कीर्तिर्यस्य यस्येति तच्-चरितस्यामृतत्वं ध्वनितम् । अतो\ऽत्याज्यत्वाद् इति भावः । यद् वा, अन्वाचयन्यायेनापि शृणोति मुरारेर् इति साक्षाद्-भगवत्त्वं सूच्यते


श्री-कृष्णेनैव स्वयं नरक-सेनानी-मुरासुर-वधाद् **अमृत-**कीर्तित्वाद् एव श्री-व्यास-पुत्रैर् वर्णितम् । यद् वा, **तद्-**वर्णितत्वेन विशेषतो\ऽधिकर-समयत्वं [रसवत्त्वं] बोधयति-प्रिय-जन-मुखेनैव त्वत्-कथाया रस-विशेषोदयात्, तच् च पिबन्तं त्वन्-मुखाम्भोजच्युतम् [भा।पु।१०.१.१३] इत्य्-आदाव् उक्तम् एव । जगतो\ऽविशेषेण सर्वस्यैवाद्यं प्रारब्धाद्य् अशेष-दुष्कर्म-लक्षणं संसार-दुःखं वा भिनत्तीति तथा तत् भगवति श्री-कृष्णे कृत-चित्त इत्य् अस्मिन् लोके\ऽपि महा-सुखम् उक्तम् ॥५९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ सर्व-महन्-महनीय-श्री-मन्-निज-गुरु-चरणैर् वर्णितेनैवम्भूत-श्री-कृष्ण-चरित-वृन्देनोल्लसितस्-सन् श्री-सूतो\ऽप्य् उपसंहारानु-रूपं श्रोतॄनाशीर्वाद-प्रायेण तच्**-चरित-माहात्म्यानुवादेन तोषयन् तल्-लीला-परिकराणां तत्-तत्-प्राप्तिर् नाश्चर्या यतस् तच्-छ्रोतृणाम् अप्य् एवं स्याद् इति बोधयंश् च गायन्नेव् आह—य इति । अधिकारापेक्षा निरस्ता इदं पूर्व-पूर्वोक्तं किञ्चिद् अपि तच्-चरितम्** अनु निरन्तरम् इति सकृच्-छ्रवणस्यैव रुच्युत्पादक-स्वभावत्वाद् अनुवाद एव स च भावि-फलस्य शीघ्रत्व-ज्ञापनाय सापराधत्व एव तु न **तत्-तत्-**सम्पद्यत इति वा-शब्दाद् अनुशब्दस्योत्तरत्राप्य् अन्वयः । योग्यता चेत् स्व-परकृतार्थतार्थम् अनु श्रावयेद्-वा तत्र सामर्थ्यम् अमृतं परानन्द-रसः **तद्-**रूपा कीर्तिर् यस्य **अमृत-**कीर्तित्वाद् एव व्यास-पुत्रैर् वणितं तद्-वर्णितत्वेन च विशेषो बोधितः । पिबन्तं त्वन्-मुखाम्बोजच्युतं हरिकथामृतम् [भा।पु। १०.१.१३] इत्य्-आदेः अत एव जगतः सर्वस्यैव यद् अघं **तद्-**भक्ति-विघ्न-पर्यन्तं तद्-भिनत्तीति यथा तत् अत एव भगवति **तत्-**तच्-चरिताश्रये श्री-कृष्णे कृत-चित्त इत्य् अस्मिल्-लोके\ऽपि महा-सुखम् उक्त्वा पारलौकिकम् अप्य् आह—तस्य श्री-कृष्णस्यैव क्षेमं स्मृत्य् आशेषाशुभहरं सर्व-मङ्गल-मङ्गलम् [भा।पु। ११.३१.२४] इति प्रसिद्धं नित्यं द्वारकाख्यम् एव धाम एवं तच्-चरित-श्रवणेन साधकानां फल-क्रमो दर्शितः सिद्धानान्तु तस्यैव सद्यः स्वयं फलताम् आह—**भक्त-सत्-कर्ण-**पूरम् इति ॥५९॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : तद् एवं स्वस्मिन्न् एव श्री-भगवता तस्याः स्नेहो रक्षित इत्य् आह—तम् इति ॥५७-५९॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमृतम् एव कीर्तिर्यशो यस्य तस्य अमृतत्वम् आह—जगताम् एव अघं संसाररोगं भिनत्तीति तत् तद्-भक्तानां संसारोत्तीर्णानां तु कर्ण-पूरं कर्णाभरणम् ॥५९॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं

संहितायां वैयासिक्यां दशम-स्कन्धे मृताग्रजानयनं

नाम पञ्चाशीतितमोऽध्यायः ।

॥ ८५ ॥



(१०.८६)**


  1. यस्य सम्बन्धीति दण्डादि-कारणातिरिक्त-चीवरादिवत् दृष्टादृष्ट-हेतु-वर्ग उक्तः। ↩︎

  2. यद्-यद् इति देवान् अमृतं आशयतीत्यादिकयोः प्रयोज्य-कर्म-शुद्ध-कर्मणोः सङ्ग्रहः। ↩︎

  3. प्रयोज्य-कर्म-भिन्नं शुद्धं कर्म नास्त्य् एव । तण्डुलं पचतीत्यादौ तण्दुलः पक्वो भवति तं पक्वं करोतियादेर् अर्थात्। ↩︎

  4. तण्डुलः पक्वो भवतीत्य्-आदौ हि तण्डुल ओदनो भवति तं तण्डुलं ओदनं करोतित्य् अर्थेन पुर्वावस्थस्य तण्डुलादेः प्रयोज्य-कर्मत्वात् उत्तरावस्यौदनादेः शुद्ध-कर्मत्वाद् इति तोष। ↩︎

  5. श्रि-कृष्ण-बलरामयोः। ↩︎

  6. तोषणी तु तत्र सृष्टि-धारण-पोषण-क्रिया उदाहरति—एतद् इति । आत्मन् आत्मनि अधिकरणे, आत्मना कारणेन, आत्म-सृष्टम् इत्य् अवशिष्ट-कारक-सङ्ग्रहः । आत्मना कर्त्रा, आत्मने सम्प्रदानय, आत्मन अपदादानात्, आत्मनः सम्बन्धेन सृष्टं आत्म-रूपं सृष्तम् इति पञ्च-विध-समासात् । एवम् अनुप्रविश्यात्मन्य् एव बिभर्षि धारयसि पुष्णासि च आत्मनैव बिभर्षि इत्य्-आदि। ↩︎

  7. ओज इन्द्रिय-सामर्थ्यम्, सहोऽन्तःकरण-सामर्थ्यम्, बलं शरीरम्, चेष्टा शरीर-व्यापारः, गरिश् चेतनाचेतन-साधारणं गमनम्। ↩︎

  8. तथेश्वर इति पाठः। ↩︎

  9. व्यवसाय-शक्ति इति पाठः। ↩︎

  10. जीवोपाधेश् चित्तस्यानुस्मृतिर् धारणा सती भगवन्-निष्ठानुकूला। ↩︎

  11. यदा सुप्ति-प्रलयादौ न सन्ति कल्पकाभावात् तदा त्वम् अप्य् एषु नासि सत्त्वेन नानुवर्तसे। ↩︎

  12. अन्यदा सृष्टि-स्थित्यादौ तु व्यावहारिकः व्यावहारिक-सत्ता-साधकतयेति तोष। ↩︎

  13. अबुध्य इति पाठे। ↩︎

  14. देहे अहम् इति। ↩︎

  15. निजानां भक्तानां धर्मो भक्ति-लक्षणस् तत्-पालनाय, यद् वा, निजस् त्वदियो धर्मः स्वभावो भक्त-मनो-रथ-पूरन-लक्षणस् तस्य गुप्तै। ↩︎

  16. विमृग्याः इति पाठः। ↩︎

  17. गुरु-दक्षिणा-रूपं तत्-सुतम्। ↩︎

  18. सञ्चोदितः इति पाठः। ↩︎

  19. अत्र तयोः पदावृत्तिर् भक्ति-भरेण। ↩︎

  20. महा-विभूतिभिः इति पाठः। ↩︎

  21. तोषण्यां तु साङ्ख-योगयोर् ज्ञानाष्टङ्ग-शास्त्रयोर् वितानं [सोन्]{।मर्क्} । यद् एक-निष्ठस् तयोर् विस्तर इत्य् अर्थः। ↩︎

  22. सत्त्व-धाम्नि विशुद्ध-सत्त्वाधिष्ठातरि। ↩︎

  23. अन्ये पौण्ड्रकाद्यास् तादृशा दैत्यादि-तुल्या एव। ↩︎

  24. धिषणं धिष्ण्यम्। ↩︎

  25. सर्व-सस्वत्वात्-ते मज्जु-गुप्सां न करिष्यन्तीति भावः। ↩︎

  26. अस्योत्तर-श्लोकेनान्वयः, सार्धकं वैतत्-पद्यं कल्पनीयम्। ↩︎

  27. स्मरस्यैव पूर्वं किर्तिमद् इति नामेति तोष । स्मरादीनि नामानि मरीचि-पुत्रत्वद् अशायाम् इति चक्र बाल। ↩︎

  28. परिस्रुतं इति पाठान्तरम्, तत्र स्तन-विशेषणम्। “परिप्लुतम्” इति वैष्णव-तोषणी-धृत-पाठान्तरम्। ↩︎

  29. \॥। अमृत-पय इति पाठान्तरं वंशीधरेण धृतम्। ↩︎

  30. पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः इत्य् उक्तेर् नन्द-गृह-गमन-समये देवकी स्तनम् अपाययद् इति तत्रानुक्तम् अपीह पीत-शेषम् इत्य् उक्तेर् अवगन्तत्र्यम् इति चक्र बाल। ↩︎

  31. “धाम विहायसा” इति पाठे धाम देव-लोकम्। ↩︎

  32. “विहायसा” इति पाठः स्वामि-सम्मतः। “दिवौकसाम्” इति पाठस् तु सर्वत्र । इति वैष्णव-तोषणी-काऋअः । एष पाथः प्रीति-सन्दर्भे सम्मतः । ↩︎

  33. अमृतं परानन्द-रूपा। ↩︎