बल्वल-वधः सूत-हत्या-मार्जनाय बलभद्रस्य तीर्थेषु भ्रमणं च ।
॥ १०.७९.१ ॥
श्री-शुक उवाच—
ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः ।
भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ऊनाशीतितमे रामो बल्वलं द्विज-तुष्टये ।
निहत्य तीर्य-स्नानाद्यैः सूत-हत्याम् अपानुदत् ॥
उपावृत्ते प्राप्ते ॥१-२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आदिना कृच्छ्रादि-ग्रहः ततः वर-दानोत्तरम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तदैव, प्रचण्डो\ऽतितीव्रः भीमो भयंकरः तु च पूयगन्धश्चाभूत् हे राजन्न् इति विस्मयात् ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तदैव प्रचण्डः अतितीव्रः भीमो भयङ्करः पूयगन्धश्चाभूत् हे राजन्न् इति विस्मयात् । ततस् तस्मात् वायोरनन्तरं निर्मितम् अनु पश्चात् अदृश्यत तत्रत्यैः यद् वा, स्वयम् एव दृश्यो\ऽभूद् इत्य् अर्थः ॥१-२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
ऊनाशीतितमे हत्वा बल्वलं बहु-तीर्थगः ।
भीम-दुर्योधन-युद्धं दृष्ट्वा रामः पुरीं ययौ ॥१॥
॥ १०.७९.२ ॥
ततो \ऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् ।
अभवद् यज्ञ-शालायां सो \ऽन्वदृश्यत शूल-धृक् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : बिह्न्नो विदीर्णो\ऽञ्जनचय उपमा यस्य तम् अतिकृष्णम् इत्य् अर्थः । तप्त-ताम्रवच् छिखा श्मश्रूणि च यस्य तम् दंष्ट्राभिर् उग्र-भ्रुकुटी-मुखं यस्य तम् ॥३-५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो दुर्गन्ध-प्राप्त्य्-उत्तरम् । स बल्वलः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्माद् वायोर् अनन्तरम् अमेध्यानि पूयादीनि तन्मयं विशेषेण पूर्वतो\ऽप्य् आधिक्येन निर्मितम् अनु पश्चाद् अदृश्यत तत्र्यैः । यद् वा, स्वयम् एव दृश्यो\ऽभूद् इत्य् अर्थः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.३ ॥
तं विलोक्य बृहत्-कायं भिन्नाञ्जन-चयोपमम् ।
तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रू-कुटी-मुखम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं बल्वलम् । इत्य् अर्थ इति-ततो\ऽधिकमन्यत्र कार्यं नास्तीति भावः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बृहत्कायम् इत्य्-आदिविशेषणैर् यथोत्तरं घोरत्वं सूचितम् ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तम् इति युग्मकम् । बृहत्कायम् इत्य्-आदिविशेषणैर् यथोत्तरं घोरत्वं सूचितम् । राम इति तज्जिघांसया मुनीन् रमयन्न् इति भावः । तत्तत्स्मरणे हेतुः परेति दैत्येति च, लीलया ताभ्यां तद्वधार्थम् इति भावः । अहनन्त प्रहृतवान् यतो ब्रह्मद्रुहं विप्रकुलहिंसकं बल इति बलाधिक्येन हननस्य गाढता सूचिता ॥३-५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.४ ॥
सस्मार मूषलं रामः पर-सैन्य-विदारणम् ।
हलं च दैत्य-दमनं ते तूर्णम् उपतस् थतुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ते सनमुसले ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम इति तज्जिघांसया मुनीन् रमयन्न् इति भावः । तत्तत्स्मरणे हेतुः-परेति दैत्येति च । लीलया ताभ्यां तद्वधार्थम् इति भावः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.५ ॥
तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् ।
मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दैत्यम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अहनत् प्रहृतवान् यतो ब्रह्मद्रुहं विप्रकुलहिंसकं बल इति बलाधिक्येन हननस्य गाढता सूचिता ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपावृत्ते प्राप्ते ॥१-५॥
॥ १०.७९.६ ॥
सो \ऽपतद् भुवि निर्भिन्न- ललाटो \ऽसृक् समुत्सृजन् ।
मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतो \ऽरुणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अरुणो रुधिरेण दैत्यः शैलो धातुभिर्यथेति ॥६-७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बल्वलः ॥६-७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् धारादि-रूपेणोत्सृजन् त्यजन् अत एवारुणः महाकायस्यापि तस्य सकृत्प्रहारेण पतने दृष्टान्तः-शैल इति । वज्रेणाहतः प्रहृतः सो\ऽप्यसृक्तुल्यं गैरिकादिकं समुत्सृजन् तेनैवारुणो महाशब्दं कुर्वन् पतति । वज्रहत इति पाठे पाठान्तरे\ऽप्यर्थः स एव ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक् धारादि-रूपेण उत्सृजन् अत एवारुणः महाकायस्यापि तस्य सकृत् प्रहारेण पतनेन दृष्टान्तः । शैल इति । वज्रेण आहतः प्रहृतः सो\ऽप्यसृक्तुल्यं गौरिकं समुत्सृजन् तेनैवारुणो महाशब्दं कुर्वन् पतति वहत इति पाठे पाठान्तरे\ऽप्यर्थः स एव सम्यक् ईश्वरत्वश्री-कृष्णैकप्रियत्वात् यतो मुनयो महाभिज्ञाः अवितथाः सत्याः सद्यःफलाः आशिषः सुखं जगत् पाहि सुसिद्धाभीष्टो भूया इत्याद्याः प्रयुज्य दत्त्वा अभ्यषिञ्चन् तस्य मङ्गलाभिषेकं कारयामासुः । यतो महाभागाः परम-भाग्यवन्त इति सर्वसम्पत्तिमत्त्वं सूचितम् । तत्रानुरूपो दृष्टान्तः वृत्रघ्नम् इति ॥६-७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अरुणो रुधिरेण । दैत्यः शैलो धातुभिः ॥६-७॥
॥ १०.७९.७ ॥
संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः ।
अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् ईश्वरत्व-श्री-कृष्णैकप्रियत्वात् यतो मुनयो महाभिज्ञाः अवितथाः सत्याः सद्यःफला आशिषः-सुखं जगत् पाहि सुसिद्धाभीष्टो भूयाः । इत्याद्याः प्रयुज्य दत्त्वा अभ्यषिञ्चन् तस्य मंगलाभिषेकं कारयामासुः यतो महाभागाः परम-भाग्यवन्त इति सर्वसम्पत्तिमत्त्वं सूचितम् । तत्रानुरूपो दृष्टान्तः-वृत्रघ्नम् इति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.८ ॥
वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजाम् ।
रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रियोधामान्यम्लानानि पङ्कजानि यस्यां ताम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैजयन्ती विजयकरीम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्रीधामेति महा-दिव्यत्वं तथा वैजयन्त्याः पञ्च-वर्णत्वे\ऽपि पङ्कज-प्रायत्वम् उक्तम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रियो धामानि अम्लानानि पङ्कजानि यस्यां ताम् ॥८॥
॥ १०.७९.९ ॥
अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः ।
स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं तत् सरः यत इति आस्रवद् उदगात् ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ वस्त्र-मालादि-सत्कारानन्तरम् । तैर् ब्रह्मणैः । मानसं सरोवरम्
यतः सरोवरात् ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरम् एव तीर्थयात्रोद्यमत्वात् तैर् मुनिभिर्ब्राह्मणैः स्वसंगागतैः पुरोहितादिभिः सह स्नात्वा तस्यां सरयूमनुस्रोतेन सरय्वा अनुलोमतः स्नात्वा प्रयोगे सन्तर्प्य च आदि-शब्दादृश्यादीनपि विद्यमानपितृपितामहस्यापि तस्य गयायां पितृयोगः श्री-वसुदेवाज्ञया तत्पूर्वजापेक्षयेति ज्ञेयम् ॥९-१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरम् एव तीर्थयात्रोद्यतत्वात् तैर् मुनिभिरभ्यनुज्ञातः ब्राह्मणैः स्वसङ्गागतैः पुरोहितादिभिः सह सरयुः सरयूः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं तत् सरोवरं तत्राह—यत इति । आस्रवत् उदगात् ॥९॥
॥ १०.७९.१० ॥
अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः ।
स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अनुस्रोतेनानुलोमतः पुलहाश्रमं हरिक्षेत्रम् ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स बलः। आदिना दिव्यपित्रादिग्रहः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सरयूम् अनुस्रोतेन सरय्वा आनुलोमतः स्नात्वा प्रयागे सन्तर्प्य च ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरयूमनुस्रोतेन सरय्वा अनुकूलस्रोतसेत्य् अर्थः ॥१०॥
॥ १०.७९.११ ॥
गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः ।
गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : गोमत्याङ्गण्डक्यां विपाशायां चस्नात्वा शोणे च आप्लुतः इष्ट्वा
सम्पूज्य ॥११-१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पितृनिति-ननु जीवत्पितृकेण रामेण कथं पितृयागः कृत इति चेदाह—
वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति । > येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥
इति स्मृतेर्जीवत्पितृपितामहस्यापि श्राद्धे\ऽधिकारो न तु जीवत्पितृपितामहप्रपितामहस्यापीति । यच्चोक्तम्—अमाश्राद्धं गयाश्राद्धं न कुर्यात् सपिता पुमान् इति । तत्तु जीवत्पितृकेण गयामुद्दिश्य न गन्तव्यम् इत्य् एवं वरम् । प्रसङ्गात्प्राप्तौ तु श्राद्धं कार्यम् एवेति तत्त्वम् ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सागरसंगमे चेष्ट्वा तद्-अनन्तरं गम्ये\ऽपि श्रीपुरुषोत्तमक्षेत्रे तस्य आगमनम्, सर्वैः स्वावतारैः सह सम्पूर्णयावतीर्णेन भगवता श्री-कृष्णेन सह श्रीविष्ण्वादिवच्छ्रीजगन्नाथदेवस्याप्यै क्यप्राप्त्या तत्रादृश्यत्वात् किं वा आत्मनस् तत्र साक्षाद्वर्तमानत्वेनात्मनो\ऽत्यन्ताभिन्नत्वेन प्रयोजनविशेषाभावाद् इति दिक्॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोमतीम् इति सार्धद्वयकम् । विद्यमानपितृपितामहस्य् अपि तस्य गयायां पितृयागः श्री-वसुदेवाज्ञया तत्पूर्वजापेक्षयेति ज्ञेयम् । सागरसङ्गमे उपस्पृश्य स्नात्वेत्य् अर्थः । तद्-अनन्तरं गम्येऽपिश्रीपुरुषोत्तमक्षेत्रे तस्यागमनं सर्वैः स्वावतारैः सह सम्पूर्णतया\ऽवतीर्णेन भगवता श्री-कृष्णेन सह श्रीविष्ण्वादिवत् श्रीजगन्नाथदेवस्याप्यैक्यप्राप्त्या तदपूज्यत्वात् किं वा आत्मनस् तत्र साक्षाद्वर्तमानत्वेनात्मनो\ऽत्यन्ताभिन्नत्वेन प्रयोजनविशेषाभावाद् इति दिक् ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : गोमतीम् इत्य् आदीनां गत्वेत्यनेनान्वयः । स्नात्वेति तत्र तत्रेत्य् अर्थः । पितृनिष्ट्वेति जीवत्पितृपितामहस्यापि तस्य श्रीवासुदेवाज्ञया तत्पूर्वजापेक्षयैवेति ज्ञेयम् ॥११॥
॥ १०.७९.१२ ॥
उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च ।
सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपस्पृश्येति पूर्वान्वदी । रामं जामदग्न्यम् । ततो रामदर्शनानन्तरम् । सप्तशाखाभेदेन समुद्रं गतागतः सप्तगोदावरीति ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपस्पृश्य आचम्य स्नात्वा वा रामं जामदग्न्यं ततो रामदर्शनादेः पश्चाद् एव सप्तगोदावरादीनि तीर्थानि गत इति शेषः । एवं रामे भक्तिः सूचिता तत्र सप्तगोदावरम् इति नदीभिश् च समाहारेइत्यव्ययीभावः । सप्तगोदावरीम् इति पाठस्त्वार्षः । वेणाभीमरथ्यौ नद्यौ पम्पाख्यं सरः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपस्पृश्य आचम्य स्नात्वा वा तद्-अनन्तरं गम्ये तु श्रीपुरुषोत्तमक्षेत्रे तस्यागमनं श्री-कृष्णबलभद्रसुभद्राख्यत्वेन साक्षात् स्वपूजने लज्जापत्तेर् इति ज्ञेयम् । रामं जामदग्न्यं ततो रामदर्शनादेः पश्चाद् एव सप्तगोदावरादीनि तीर्थानि उपस्पृश्य तेषु स्नात्वेत्य् अर्थः । एवं परशुरामे भक्तिः सूचिता तत्र सप्तगोदावरम् इति नदीभिश्चेति समाहारे\ऽव्ययीभावः सप्तगोदावरम् इति बहुत्र पाठस्त्वार्षः वेणाभीमारभ्यं नद्यौ पम्पाख्यं सरः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उपस्पृश्य स्नात्वा तद्-अनन्तरगम्ये\ऽपि श्रीपुरुषोत्तमक्षेत्रे तस्यागमनं श्री-कृष्णबलभद्रसुभद्राणां स्वेषाम् एव स्वकर्तृके पूजनादाववश्यकर्तव्ये लज्जापत्तेर् इति ज्ञेयम् इति वैष्णवतोषिणी रामं जामदग्न्यम् अभिवाद्य स्नात्वा ॥१२-१७॥
॥ १०.७९.१३ ॥
स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् ।
द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्रीशैलं श्रीपर्वतम् ॥१३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वेङ्कटमद्रिम् ॥१३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : राम इति रममाणः । किं वा, दर्शन-मात्रेन स्कन्दं रमयन्न् इति भावः । महा-पुण्यं श्री-त्रिमल्ल-नाथाश्रयत्वेन श्री-वैष्णव-वर्गाश्रयत्वात् दृष्ट्वा कामकोष्ण्यादिकम् अगमद् इति परेणान्वयः । प्रभुः सर्वत्र सर्वथा समर्थ इति तत्र तत्र कृत्यानां सम्पूर्णतां बोधयति ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्रविडेष्व् इति सार्ध-द्वयम् । महा-पुण्यं श्री-त्रिमल्ल-नाथाश्रयत्वात् श्री-वैष्णव-गर्भाश्रयत्वाच् च दृष्ट्वा ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.१४ ॥
कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्-वराम् ।
श्री-रङ्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : काञ्ची पुरीम् ॥१४-१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र श्रीरङ्गक्षेत्रे ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्रीरंगाख्यं क्षेत्रं हरिः सर्वदुःखहरः (सर्व-दोषदुःखहरः) सर्वमनोहरश् च भगवान् यत्र श्रीरंगशायि-मूर्त्या स्वयं वा सन्निहितो नित्यं वर्तत इत्य् अर्थः । अत एव महापुण्यम् ॥१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कामकोष्ट्यादिकमगमद् इति परेणान्वयः प्रभुः सर्वथा समर्थः इति तत्र तत्र कृत्यानां सम्पूर्णतां बोधयति श्रीरङ्गाख्यं क्षेत्रं हरिः सर्वदुःखहरः सर्वमनोहरश् च भगवान् यत्र सन्निहितः श्रीङ्गशायिमूर्त्या स्वयं वा सन्निहितो नित्यं वर्तत इत्य् अर्थः ॥ अत एव महापुण्यं तथा शब्दस्यार्थः । चेति तथा च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.१५ ॥
ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा ।
सामुद्रं सेतुम् अगमद् महा-पातक-नाशनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दक्षिणा मथुरान्या व्रजानन्तर्गतेति । तथा दृष्ट्वा । महापातकानि ब्रह्महत्यादीनि
केदारं रामसेतुं च दृष्ट्वा भारतसंहिताम् । > श्रुत्वा कोटिश् च गायत्र्या ब्रह्महत्यां व्यपोहति ॥ इति पुराणान्तरात् > ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा-शब्दस्यार्थः-चेति तथा च समुद्र-सेतुं च महा-पातक-नाशनम् इति तत्र गमन-मात्रे ब्रह्म-हत्यादि-प्रायश्चित्त-सिद्धेः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : समुद्र-सेतुं च महा-पातक-नाशनम् इति तत्र गमन-मात्रे ब्रह्म इत्य्-आदि
प्रायश्चित्त-सिद्धेः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.१६ ॥
तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः ।
कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र रामसेतौ । कृतमालादीनां ययाविति शेषः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हलायुध इति संकर्षणत्वं बोधयंस् तस्य साक्षाद्भगवत्त्वेन सर्वसामर्थ्यं सूचयति । कुलाचलं भारतवर्षदक्षिणसीमापर्यन्तं गत इति परेणैवान्वयः ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रेत्यर्धकम्-ब्राह्मणेभ्यस् तत्रत्येभ्यः हलायुध इति । बल्वलवधमारभ्य तद्देशीयब्राह्मणकुलपालनार्थ हलस्यापरित्यागं बोधयति सङ्कर्षणत्वं बोधयन् तस्य साक्षाद्भगवत्त्वेन सर्वसामर्थ्यं सूचयति कुलाचलं भारतवर्षदक्षिणसीमापर्वति गत इति परेणान्वयः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.१७ ॥
तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।
योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो \ऽर्णवम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दक्षिणमर्णवम् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र मलये । तेनागस्त्येन । तत्र दक्षिणार्णवतटे। स बलदेवः ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्र मलये सम्यग्-आसीनं सदा तत्रैव निवासात् तेन अगस्त्येनाशीर्भिर् योजितो\ऽनुज्ञातश् च सन् तत्र दक्षिणार्णवान्तिके देवीं जगत्-पूज्यां स्व-महिम्ना द्योतमानां वा ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र मलये सम्यग् आसीनं सदा तत्रैव निवासात् । तेनागस्त्येन आशीर्भिर् योजितो\ऽनुज्ञातश् च सन् तत्र दक्षिणार्णवान्तिके देवी जगत्-पूज्यां स्व-महिम्ना द्योतमानां वा ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.१८ ॥
ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् ।
विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : फाल्गुनमनन्तपुरम् पञ्चाप्सरसं सरः अस्पर्शदस्पृशत् ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कन्यादेवीदर्शनोत्तरम् । फाल्गुनम्-अर्जुनेन तत्र ग्राहभावमिताः पञ्चाप्सरसो मोचिता इति फाल्गुनेन प्रकाशितत्वात्तत्संज्ञम् इति । यत्र पञ्चाप्सरससरसि । गुण आर्षः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पञ्चाप्सरसं च तीर्थम् आसाद्य उत्तमत्वम् एव दर्शयति—विष्णुर् विश्व-व्यापको\ऽपि भगवान् यत्र पञ्चाप्सरसे सन्निहितः । गवाम् अयुतम् ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पञ्चाप्सरसं च तीर्थमासाद्य उद्यमत्वम् एव दर्यशति, विष्णुर्विश्वव्यापको\ऽपि भगवान् यत्र पञ्चाप्सरसे सन्निहितः भवामयुतम् अस्पर्शत् ददावित्य् अर्थः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्पर्शत् ददौ ॥१८-२२॥
॥ १०.७९.१९ ॥
ततो \ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् ।
गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : केरलादीन् देशान् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो गोदानानन्तरम् । यत्र गोकर्ण-क्षेत्रे । धूर्जटेः शिवस्य ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् त्रिगर्तकांश् च गोकर्णाख्यं चातिव्रज्यागाद् इति परेणान्वयः । यतो भगवान् सर्व-शक्तिमान् इतितत्र तत्र स्नानदानादिसत्कर्मसांगतापूर्ववत्सूचिता । बल इति वेगेन गमनं श्रमाद्यभावं च सूचयति । अत एवाथानान्तरम् एवेति प्रवेशे शैघ्र्यं बोधयति ॥१९-२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत इति सार्धकम् । [तोग्मान्] केरलान् त्रिगर्तकांश् च देशान् गोकर्णाख्यं चातिव्रज्य अगाद् इति परेणान्वयः । यतो भगवान् सर्व-शक्तिमान् इति तत्र तत्र स्नानदानादिसत्कर्मसाङ्गता पूर्ववत् सूचिता ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.२० ॥
आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः ।
तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्वीपमयनं यस्यास्ताम् ॥२०-२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आर्यां दुर्गाम् । द्वैपायनीं द्वीपवासिनीं व्यासस्थापितां वा । शूर्पारकं क्षेत्रम् । अथ निर्विन्ध्यास्नानोत्तरम् दण्डकं वनम् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बल इति वेगेन गमनं श्रमाद्यभावं च सूचयति अत वाथानन्तरम् एवेति प्रवेशे शैघ्र्यं बोधयति ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.२१ ॥
प्रविश्य रेवाम् अगमद् यत्र माहीष्मती पुरी ।
मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र रेवातटे ॥२१-२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : [दण्डकं दण्डकानिति पाठः] मनुतीर्थम् इत्य् अर्धकां द्विजैस् तत्रत्यैः तीर्थयात्रयागतैर् वा विप्रैः हृतं श्री-कृष्णेनेति शेषः ॥२१-२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.२२ ॥
श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे ।
सर्व-राजन्य-निधनं भारं मेने हृतं भुवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विजैस् तत्रत्यैः तीर्थयात्रयागतैर् वा विप्रैः ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.२३ ॥
स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे ।
वारयिष्यन् विनशनं जगाम यदु-नन्दनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विनशनं कुरुक्षेत्रम् ॥२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विशेषेण नश्यति पापं यत्र तद्विनशनम् । स बलः ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मृधे युद्धस्थले युद्ध्यतोः सतोः किं वा मृधे मृधा तौ वारयिष्यन् यद् वा, युध्यतोर् इति कर्मणि षष्ठी युद्ध्यन्तौ वारयिष्यन् । यदुनन्दन इति पुनः प्रभासागमनेन यदूनां प्रहर्षणात् यद् वा, उभयोर् अपि भीमदुर्योधनयोर्यदुभिः सह तुर्यसम्बन्धात् द्वयोर् अपि रक्षया तेषाम् आनन्दार्थम् इति भावः । यद् वा, चिरप्रवासादागतो द्वारकायां गत्वा यदूनानन्दयितुमर्हो\ऽपि जगामेति ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मृधे युद्धस्थले युद्ध्यतोः सतोः किं वा मृधे मृधा तौ वारयिष्यन् यद् वा, युद्ध्यतोर् इति कर्मणि षष्ठी युद्ध्यन्तौ वारयिष्यन् यद् वा, उभयोर् अपि भीमदुर्योधनयोर्यदुभिः सह तुल्यसम्बन्धात् द्वयोर् अपि जगामेति ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विनशनं कुरुक्षेत्रम् ॥२३॥
॥ १०.७९.२४ ॥
युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि ।
अभिवाद्याभवंस् तूष्णीं किं विवक्षुर् इहागतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : विवक्षुर्वक्तुम् इच्छुः किं वदिष्यतीति भिया तूष्णीमासन्न् इति ॥२४-२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं बलम् । किं किञ्चिद्विवक्षतीति वा किं विवक्षुः ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कृष्णार्जुनाभ्यां पश्चाद् अभिवादनं भारत-युद्धे निज-बन्धुवर्गादिसर्वक्षत्रियवर्गे तस्मिंस्तयोर् द्वयोर् एव मुख्यतया लज्जादिसंकोचात् । अन्यत् तैर् व्याख्यातम् । यद् वा, किं गुणादिकं दोषादिकं वा वक्तुम् इच्छन्न् आगत इत्य् अभिप्रायाज्ञानेन किम् अपि वक्तुम् अशक्तेस् तूष्णीम् अभवन्न् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कृष्णार्जुनाभ्यां पश्चादभिवादनं सम्प्रति भारत-युद्धे निज-बन्धुवर्गादिसर्वक्षत्रियवर्गक्षये तस्मिन् तयोर् द्वयोर् एव मुख्यत्वात्सङ्कोचापत्तेः आगत इत्य् अन्ते इति वितर्क्येति शेषः । यद् वा, किं गुणादिकं वा वक्तुम् इच्छन् आगत इत्य् अभिप्राय-ज्ञानेन किम् अपि वक्तुम् अशक्तेस् तूष्णीम् अभूवन्न् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं वदिष्यतीति शङ्कया तूष्णीं ॥२४-२५॥
॥ १०.७९.२५ ॥
गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ ।
मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : संरब्धौ क्रुद्धौ । इदं वक्ष्यमाणम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : संरब्धौ क्रुद्धौ किं च, मिथो विजयेच्छाशीलौ अतो विचित्राणि बहुप्रकाराणि मण्डलानि गदा-युद्धगतिभेदान् चरन्तौ दृष्ट्वा अयमुक्तौ हेतुः यद् वा, तथा-भूतावपि दृष्ट्व ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : संरब्धो क्रुद्धौ किं च, मिथो विजयेच्छाशीलौ अतो विचित्राणि बहुप्रकारकाणि मण्डलानि गदा-युद्धगतिभेदान् चरन्तौ दृष्ट्वा अयमुक्तौ हेतुः यद् वा, तथा-भूतावपि दृष्ट्वा अत एव नमस्कृतवन्तौ नेति भावः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.२६ ॥
युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर ।
एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राणाधिकं बलाधिकं भीमम् । प्राणो हृन्मारुते बले इति धरणिः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तुल्यं बलं युद्धसामर्थ्यं ययोस् तौ अतो वीरौ महा-योधौ हे राजन्न् इति शिष्ये दुर्योधने स्नेह-विशेषेणादरात् अत एवादौ तत्-सम्बोधनम् । यद् वा, राज्य-भोगापेक्षया जीवनार्थं युद्ध-त्याग एव तवोचित इति भावः । यद् वा, निज-वाक्य-ग्रहणार्थं दुष्टं तम् अनुनयति एकं भीमं प्राणेन बलेनाधिकं दुर्योधनात् श्रेष्ठम् उत तु एकं दुर्योधनं तु शिक्षया गदा-युद्ध-ज्ञानाभ्यास-कौशलेनाधिकं स्वयं तच्-छिक्षणात् मन्ये तदानीम् एव तयोस् तत्-तद्-दृष्ट्या पूर्वत एव वा वेद्मि ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एकं भीमं बलाधिकं मन्ये उतैकं दुर्योधनं गदाशिक्षया अधिकम् ॥२६॥
॥ १०.७९.२७ ॥
तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः ।
न लक्ष्यते जयो \ऽन्यो वा विरमत्व् अफलो रणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्यः पराजयो वा रणः सङ्गामः ॥२७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतः समवीर्यौ तस्माद्धेतोः । अन्यः पराजयः ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : समं वीर्यं ययोस् तयोः इह रणे न लक्ष्यते मया अतो\ऽफलो जयादिरहितो विरमतु ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तुल्यं बलं युद्धसामर्थ्यं ययोस् तौ किं च, वीरौ महोत्साहौ हे राजन्न् इति शिष्ये दुर्योधने स्नेह-विशेषेणादरात् अत एवादौ तत्-सम्बोधनं । यद् वा, राज्य-भोगापेक्षया जीवनार्थं युद्ध-त्याग एव तवोचित इति भावः । यद् वा, निज-वाक्य-ग्रहणार्थं दुष्टं तम् अनुवर्णयति—एकं भीमं प्राणेन बलेनाधिकम् दुर्योधनाच् छ्रेष्ठम् उत तु एकं दुर्योधनं तु शिक्षया गदा-युद्ध-विद्या-ज्ञान-वैशिष्ट्येनाधिकं स्वयं तच्-छिक्षणात् श्लेषेण प्राणाद् अप्य् अधिकं परम-सुहृत्तमं शिक्षया शिष्यतया चाधिकम् इति मन्ये तदानीम् एव वा तयोस् तद्-दृष्ट्या पूर्वत एव वा वेद्मि ॥ समं वीर्यं युद्ध-सामर्थ्यं ययोस् तयोः इह रणे न लक्ष्यते मया अतो\ऽफलः जयादिरहितो विरमतु ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अन्यः पराजयः ॥२७॥
॥ १०.७९.२८ ॥
न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् ।
अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अर्थवद्वाक्यम् ॥२८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्वाक्यं रामवाक्यम् । अर्थवद्युक्तियुक्तम् । दुरुक्तं द्रौपदीमुद्वीक्ष्य दुर्वचनम् । दुर्वचनानि जतुगृहदाहादीति ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्थः कारणं प्रयोजनं वा तद्वदपि न जगृहतुः कुतः? बद्धवैरौ चिरं निबिडीभूतद्वेषौ अत एव निरन्तरं स्मरन्तौ ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्थः कारणं प्रयोजनं वा तद्वदपि न जगृहतुः बद्धवैरौ चिरं वृद्यभूतद्वेषौ अत एव निरन्तरं स्मरन्तौ ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अर्थवत् तद्वाक्यम् ॥२८॥
॥ १०.७९.२९ ॥
दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ ।
उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : दिष्टं प्राचीनङ्कर्म समुपागतः सङ्गतः ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तन्निज-वाक्यानादरणं युद्धं वा ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद्युद्धं दिष्टं श्री-कृष्णेन भगवता आदिष्टं प्रवर्तितं तदिच्छया जनितम् इत्य् अर्थः । अर्थवतो\ऽपि स्ववाक्यस्य द्वयोः केनाप्यग्रहणात् राम इत्युग्रसेनादीनां रमणार्थम् इति भावः । आदिशब्दाच्छ्रीवसुदेवप्रद्युम्नादयः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तद्युद्धं दिष्टं श्री-कृष्णेन भगवतैवादिष्टं प्रवर्तितं तदिच्छया जनितम् इत्य् अर्थः । अर्थवतो\ऽपि स्ववाक्यस्यैकतरेणाप्यग्रहणात् राम इति उग्रसेनादीनां रमणार्थम् इति भावः । आदिशब्दात् श्री-वसुदेवप्रद्युम्नादयः द्वारकानिकटे चोग्रसेनादिभिः सम्यक् तन्मङ्गलाचार-सहितं यथा स्यात्तथा उप समीपे आ सर्वतो गतो मिलितः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दिष्टं श्री-कृष्णेनैवादिष्टं तत् प्रवर्तितम् इत्य् अर्थः ॥२९॥
॥ १०.७९.३० ॥
तं पुनर् नैमिषं प्राप्तम् ऋषयो \ऽयाजयन् मुदा ।
क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रत्वङ्गं यज्ञमूर्तिम् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रामम् । सर्वैः प्रकृतिविकृतियागैः । निवृत्ताखिलविग्रहं दूरीभूतसर्वदुरितम् । काये तापे तथा पापे विरोधे विग्रहो ग्रहे इति निरुक्तिः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुनर् इति तीर्थयात्रादिसमाप्तौ सत्यां यज्ञेच्छया प्राप्तं सर्वयज्ञोपकरणयादवादिस्वपरिवारसाहित्य्-आदिनोत्कृष्टप्रकारेण गतस् तं तदा तदानीम् एवाचिराद् इत्य् अर्थः । मुदेति पाठः स्पष्टः पाठान्तरं स्पष्टम् । क्रतुरंगमेकांशो यस्य यद् वा, क्रतवो\ऽङ्गेषु अवयवेषु यस्य यद् वा, क्रतोरंगानि नामोच्चारणादिना सांगता यस्मात् तम् अप्य् अयाजयन् तदानीं च तद्योग्यताम् आह—निर्वृत्त उपरतो\ऽखिलविग्रहो युद्धं यस्य तम्यद् वा, कथमयाजयन्? नितरां वृत्तो\ऽखिलविग्रहो विस्तारो यस्य तथा-भूतं यथास्यात्तथा विग्रहः समरे काये विस्तारप्रविभागागयोः इति विश्वः । विशब्दाभ्यां ज्ञानस्य श्री-भगवद्विषयत्वेन वैशिष्ट्यं बोध्यते ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् इति तीर्थयात्रादिसमाप्तौ सत्यां यज्ञेच्छया प्राप्तं सर्वयज्ञोपकरणयादवादिस्वपरिवारसाहित्य्-आदिनोत्कृष्टप्रकारेण स्वगोष्ठ्यायज्ञोचितं सम्पत्त्या च गतं सन्तं तदा तदानीम् एव अचिराद् इत्य् अर्थः । मुदेति पाठः स्पष्टः । पाठान्तरं स्पष्टं क्रतुरङ्गम् एकांशो यस्य यद् वा, क्रतवो\ऽङ्गेषु अवयवेषु यस्य यद् वा, क्रतोरङ्गानि नामोच्चारणादिना साङ्गता यस्मात् तम् अप्य् अयाजयन् तदानीं च तद्योग्यताम् आह—निवृतः । उपरतः अखिलो विग्रहो युद्धं यस्य तथा-भूतं यथा स्यात्तथा विग्रहः समरे काये विस्तारप्रविभागयोः इति विश्वः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्रत्वङ्गं यज्ञमूर्तिम् ॥३०॥
॥ १०.७९.३१ ॥
तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः ।
येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : आत्मन्यधिष्ठाने विश्वगं सर्वानुस्यूतं येनैव विदुः पश्यन्ति तद्विशुद्धं विज्ञानं व्यतरददात् ॥३१-३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेभ्य ऋषिभ्यः । येनैव ज्ञानेनैव ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत आत्मनि स्वस्मिन्न् एव विश्वं ततस् तेन सहात्मनो\ऽभिन्नत्वात् तथा विश्वं विश्वव्यापकम् अप्य् आत्मानं भगवन्तमन्तर्यामितया च स्थितं येन साक्षादनुभवन्ति तद्वयतरत् यतो भगवान् सर्वज्ञः परम-दयालुर्वा विभुश् च सर्वं दातुं समर्थो भक्तेष्टपरिपूरको वा ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशुद्धं मायासम्बन्धरहितं विज्ञानमनुभवं विशब्दाभ्यां ज्ञानस्य श्री-भगवद्विषयत्वेन वैशिष्ट्यं बोध्यते अत आत्मनि स्वस्मिन्न् एव विश्वं ततस् तेन महात्मनो\ऽभिन्नत्वात् तथा विश्वगं विश्वव्यापकम् अपि आत्मानं भगवन्तमन्तर्यामितया च स्थितं येन साक्षादनुभवन्ति तद्व्यतरत् यतो भगवान् सर्वज्ञः परम-दयालुर्वा विभुः सर्वं दातुं समर्थो भक्तेष्टपरिपूरको वा ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : येन ज्ञानेन आत्मनि स्वस्य वक्तुः स्वरूपे आश्रये आत्मानं तम् एव ॥३१-३४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : येनैव ज्ञानेन आत्मनि परमात्मन्यधिष्ठाने अदो विश्वम् आत्मानं परमात्मानं च विश्वगं विश्वाधिष्ठितं विदुः ॥३१-३२॥
॥ १०.७९.३२ ॥
स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः ।
रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स्वपत्न्या रेवत्या ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वपत्न्या श्रीरेवत्या सह ज्ञातयो यादवः बन्धवः सम्बन्धिनः कोशलदेशाधिपादयः सुहृदो मित्राणि मैथिलादेस्तैर् वृतः सुशोभने वाससी यस्य सः सुष्ठु अलंकृतश् च सन् रेजे अशोभत । तत्र दृष्टान्तः-स्वैर् नक्षत्रैर् ज्ञात्यादिस्थानीयैस्तद्युक्तया स्वज्योत्स्नया श्रीरेवतीस्थानीयया यथेन्दुर् इति ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स्वपत्न्या श्रीरेवत्या सह ज्ञातयो यादवाः बन्धवः सम्बन्धिनः कौसलदेशाधिपादयः सुहृदो मित्राणि मैथिलादयः तैर् वृतः सुशोभने वाससी यस्य सः सुष्ठु अलङ्कृताश् च सन्रेजे अशोभत । तत्र दृष्टान्तः स्वैर् नक्षत्रैर् ज्ञात्यादिस्थानीयैः तद्युक्तया ज्योत्स्नया श्रीरेवतीस्थानीयया यथेन्दुर् इति न च मन्तव्यम् एतावन्त्येव तस्य कर्माणीति अन्यान्य् अपि बहूनि सन्तीत्याह ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७९.३३ ॥
ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः ।
अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ईदृग्विधानि पाखण्डिदमनासुरहरणशुभाचरणलक्षणानि ॥३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च मन्तव्यमेतावन्त्येव तस्य कर्माणीति अन्यान्य् अपि बहूनि सन्तीत्याह—ईदृगिति । एतत्तुल्या विधा प्रकारो येषां तान्यसंख्यानि अनन्तानि सन्ति कर्माणीति शेषः तत्र हेतुः-बलस्येत्यादि । तत्र बलशालिन इति महाविक्रमवन्तीति भावः । किं च, अनन्तस्य सर्वथा अपरिच्छिन्नस्येत्यसंख्यानीति किं च, अप्रमेयस्य दुर्वितर्क्य-माहात्म्यस्येत्यत्यन्ताद्भुतानीति । किं च, मायया कृपण मायया कृपयआ युक्तस्य मर्त्यस्येति परम-मधुराणीति सर्वत्रैव हेतुः बलस्य सर्वथा सर्वाधिकबलवत इति विशेषणानाम् एषां यथोत्तरं श्रैष्ठ्यं हि निश्चितम् । अत्र प्रमाणापेक्षा कापि न कार्येत्य् अर्थः ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मायया स्वरूपेण मर्त्यस्य स्वरूपभूतया नित्यशक्त्या मायाख्यया युत इति श्रुतेः ॥३३॥
॥ १०.७९.३४ ॥
यो \ऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः ।
सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम् एकोनाशीतितमो\ऽध्यायः ॥७९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स स्मर्ता ॥३४॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे एकोनाशीतितमो\ऽध्यायः ॥७९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायाम् एकोनाशीतितमो\ऽध्यायः ॥७९॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तत्-कर्मणाम् ईदृश-माहात्म्ये\ऽर्थ-वादः शङ्क्यः साक्षान्-महा-फल-सिद्धेर् इत्य् आशयेनाह—य इति । सायं प्रातश् च वार-द्वयं तु अन्वाचय-न्यायेनापि स्मरेत् मनसा चिन्तयेद् अपि स विष्णोर् निजाशेष-भगवत्ता-प्रकटनेन विश्व-व्यापकस्य । किं वा, स्नेह-भरेण श्री-रामान्तः-प्रविष्टस्य श्री-कृष्णस्य दयितो भवेत् । कुतः? रामस्य बहुधा तं तद्-भक्तांश् च रमयतीति तथा तस्य ।
ननु श्री-कृष्ण-प्रिय-पाण्डव-द्वेषि-दुर्योधनानुग्रहणादिना तद्-विरुद्धम् अपि किञ्चिच् छ्रयते, तत्राह—अद्भुतेति । दुर्योधनस्य वध-हेतु-दुरभिमान-वर्धनेन तद्-धन्तॄणां पाण्डवानां कीर्ति-विस्तारणार्थम् एवेति भावः । यतो\ऽनन्तस्य महा-गम्भीराशयस्येत्य् अर्थः । यद् वा, निजाशेष-भगवत्ता-प्रकटनेनानन्तस्य विष्णोः सायं प्रातश् च सदा दयितो भवेत् ॥३४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्रीश्रील-सनातनगोस्वामि-पादकृतायां श्री-बृहद्-वैष्णव-तोषण्यां श्री-दशम टिप्पण्यामेशोनाशीतितमो\ऽध्यायः ॥७९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईदृग् इति । एतत् तुल्य-विधा-प्रकारो येषां, तानि असङ्ख्यानि अनन्तानि सन्ति कर्माणीति शेषः । तत्र हेतुर् बलस्येत्य्-आदिः । तत्र बल-शालिन इति महा-विक्रमवन्तीति भावः । किं च, अनन्तस्य सर्वथा\ऽपरिच्छिन्नस्य इत्य् असङ्ख्यानीति । किं च, अप्रमेयस्य दुर्वितर्क्य-माहात्म्यस्येति अत्यन्ताद्भुतानीति । किं च, मायया कृपया युक्तस्य मर्त्यस्य अप्राकृत-तद्-आकार-लीलस्येति परम-मधुराणीति सर्वत्रैव हेतुः बलस्य सर्वथा सर्वाधिक-बलवत इति विशेषणानाम् एषां यथोत्तरं श्रैष्ठ्यं हि निश्चितम् अत्र प्रमाणापेक्षा कापि न कात्र्येत्य् अर्थः ॥३३॥
न च तत्-कर्मणाम् ईदृश-माहात्म्यो\ऽर्थ-वादः शङ्क्यः साक्षान् महा-फल-सिद्धेर् इत्य् आशयेनाह—य इति । सायं प्रापश् च वार-द्वयम् अनु निरन्तरतया वा स्मरेत मनसा चिन्तयेद् अपि स विष्णोः निजाशेष-भगवतः प्राकट्येन विश्व-व्यापकस्य । किं वा, स्नेह-भरेण श्रीरमान्तः प्रविष्यस्य श्री-कृष्णस्य दयितो दया-पात्रं भवेत् । कुतः ? रामस्य बहुधा तं तद्-भक्तांश् च रमयतीति तथा तस्य । ननु श्री-कृष्ण-प्रिय-पाण्डव-द्वेषि-दुर्योधनानुग्रहणादिना तद् धि विरुद्धम् अपि किञ्चिच् छ्रूयते । तत्राह—अद्भुतम् इति । दुर्योधनस्य वधे हेतुर् दुरभिमान-वर्धनेन तद्-द्वेष्टृणां पाण्डवानां कीर्ति-विस्तारणार्थम् एवेति भावः । यतो\ऽनन्तस्य महा-गम्भीराशयस्येत्य् अर्थः । यद् वा, निजाशेष-भगवत्-प्रकटनेनानन्तस्य विष्णोः सायं प्रापश् च सदा दयितो भवेत् ॥३४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-वैष्णव-तोषिण्याम्
एकोनाशीतितमो\ऽध्यायः ॥७९॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धीये
श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे
एकोनाशीतितमो\ऽध्यायः ॥७९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
एकोनाशीतितमो\ऽध्यायः ॥७९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : विष्णोस् तद्-अनुजस्य कृष्णस्य ॥३४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
एकोनाशीतितमो दशमे\ऽजनि सङ्गतः ॥७९॥