दन्तवक्त्र-विदूरथ-वधः, बलराम-द्वारा सूत-शिरश्-छेदश् च ।
॥ १०.७८.१-२ ॥
श्री-शुक उवाच—
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।
पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥
एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् ।
पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततोऽष्ट-सप्ततितमे दन्तवक्त्र-विदूरथौ ।
हत्वा हरिः पुरे रेमे रामः सूतं ततोऽवधीत् ॥
सखीनाम् अपचितिं कुर्वन्न् इत्य् उक्तं तद् एवाह—शिशुपालस्येति । पारोक्ष्य-सौहृदं परोक्षे करणीयं सुहृत् कृत्यम् ॥१-२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः शाल्व-वधोत्तरम् । ततः श्री-कृष्णोपरत्य्-अनन्तरम् । तद् एवापचयनम् एव ॥१॥ इमां भूमिम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अस्याध्यायस्य न कापि व्याख्या
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च अपि, परलोकगतानाम् अपि, कुर्वन् कर्तुम्, यतो दुर्मतिर्निर्बुद्धिः ॥१॥ इमां महीं पद्भ्यां प्रकर्षेण कम्पयन् । यतो महत् सत्त्वं बलं कायं वा यस्य सः व्यदृश्यत सः, व्यदृश्यत श्री-कृष्णेन, किंवा। स्वयम् एव तत्र सर्वेषां प्रत्यक्षो\ऽभूद् इत्य् अर्थः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : शिशुपालस्येति युग्मकम् इमां महीं महत् सत्त्वं बलं कायो वा यस्य सः व्यदृश्यत श्री-भगवता ॥१-२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : अस्याध्यायस्य न कापि व्याख्या।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
अष्ट-युक्-सप्ततितमे दन्तवक्र-विदूरथौ ।
हरिर् जघान सूतं तु बलस् तीर्थं परिभ्रमन् ॥
सखीनाम् अपचितिं कुर्वन्न् इति पूर्वोक्तं विवृणोति । शिशुपालस्येति द्वाभ्याम् । शुशुपालादीनां परोक्ष्ये सति सौहृदं सुहृत्-कृत्यम् ॥१-२॥
॥ १०.७८.३ ॥
तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः ।
अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यधात् प्रतिरुरोध ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दन्तवक्त्रम् । तथायान्तं सगदम् ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा तेन गदा-पाणित्वादिनोक्त-प्रकारेणायान्तं रथाद् अवप्लुत्य वेगेन प्लुत-गत्यावतीर्येति पदातेः पदातिना सतैव योद्धव्यम् इति वीर-धर्मापेक्षया, यतः कृष्णः सर्व-धर्म-प्रवर्तनार्थम् अवतीर्णः साक्षाद् भगवान्, अतः कथम् अपि तद्-अतिक्रमेण तादृशस्यापि तस्य शक्तिर् नाभूद् इति दृष्टान्तेन च द्योतयति—सिन्धुम् इति ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रथाद् अवप्लुतेति प्रतियोधस्य पदातित्वेन धर्मानुरोधात् उद्यम्येत्य् अत्रादायेति क्वचित् ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अवप्लुत्येति प्रतियोद्धारं पदातिम् आलोक्येति भावः । वेला-तीरं प्रत्यधात् प्रतिरुरोध ॥३॥
॥ १०.७८.४ ॥
गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मुकुन्दं प्राह दुर्मद इत्य्-आदेर् अधिक्षेप-परता स्फुटैव । परमार्थस् तु दुर्मदो गतमदः प्राह—मुकुन्दं तृतीये जन्मनि मुक्ति-दानार्थम् आगतम् । अद्येति । जन्म-त्रयेऽन्विष्यमाणोऽद्य ब्रह्म-शापावसाने भवान् मम स्वमी दृष्टि-पथं गतः प्राप्त । एतद् दिष्ट्या दिष्ट्या भद्रं भद्राम् । अति-हर्षे वीप्सा ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कारूषः करूषदेशेशः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कारूषः करूपदेशोद्भगस्तद्देशाधिपः, मुकुन्दम् अपि प्रकर्षेण स्वगर्वप्रदर्शनादिनाह, यतो दुर्मदो दुष्टाभिमानः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कारूषः करूषदेशभवः ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : कारूषः करूड-देशोद्भवः । मातुलेय इति दन्तवक्र-मातुः श्रुतश्रवाया वसुदेव-भगिनीत्वात् । दुर्मद इत्य् आदेर् भारती-पक्षे व्याख्या यथा—दुर्मदो गत-मदः मुकुन्दं तृतीये जन्मनि मुक्ति-दानार्थम् आगतं प्राह । अद्य तृतीये जन्मनि ब्रह्म-शापावसाने भगवान् मोक्ष-दाता प्रभुर् दृष्टि-पथं गतः । एतद्-दिष्ट्या दिष्ट्या भद्रं भद्रम् अतिहर्षे द्वित्वम् ॥४॥
॥ १०.७८.५ ॥
त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि ।
अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, हे कृष्ण, त्वम् अस्माकं मातुलेयो बन्धः । एवम् अपि मित्र-ध्रुक् मित्राणि घातितवान्, मां च जिघांससि तस्माद् अस्माकं त्वत्तो मृत्युः सनकाद्य्-अनुग्रह-प्राप्तो नूनं दुर्वारः । अतस् त्वाम् एतावन् मात्रमहं याचे । किं तद् आह—अमन्द सर्व-सहन-समर्थ । क्षात्र-धर्मेण सेवितुं गदया त्वां हनिष्ये प्रहरिष्यामि ताम् एक-वारं सहस्वेति । ननु वज्र-तुल्यां त्वद्-गदां को वा सहेत नैवम् इत्य् आह—अवज्र-कल्पया उत्पलम् आलावद् अति-कोमलयेत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्बन्धं द्योतयति-किं चेति एवम् अपि बन्धुः सन्नपि । मित्राणि शिशुपालादीनि । यस्मान्मां जिघांससि तस्माद् इत्य् अर्थः । यतो दुर्वारो\ऽतो हेतोः । तद्याचनं ।
स्वयमाशङ्क्य समाधत्ते-नन्विति । इत्य् अर्थ इति-अद्भ्यो\ऽज्यते प्राप्यते इत्यवज्रमुत्पलम् । अपूर्वादजतेरो बाहुलकाद्वीभावाभावः तत्कल्पप्रत्यये रूपिम् इति ज्ञेयम् ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वास्तव्यर्थे च च प्रणयेनाह—मातुलेयो\ऽपि दन्तवक्त्र-मातुः श्रुतदेवायाः, श्री-वसुदेव-भगिनीत्वात् । हे कृष्णेति शिशु-बालादि-प्राणाकर्षणाभिप्रायेण श्याम-वर्णापेक्षया, वास्तवार्थे तु निजाशेषैश्वर्य-प्रकटनार्थम् अवतीर्ण! साक्षाद्भगवन्न् इति । आनृण्यं च ममावश्य-कृत्यम् इत्य् आशयेनाह—मित्रेति । बन्धुरूपं । बन्धुत्वेन वर्तमानम् अप्य् आन्तर-महा-वैरिणम् इत्य् अर्थः । स्व-देह-सम्बन्ध्य् अपि महा-दुःखदः स्याद् इत्य् आदौ दृष्टान्तः-व्याधिम् इति । वास्तवार्थे च यथा यथाबद्ध्वा ॥५-६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मातुलेयो\ऽपि दन्तवक्त्रमातुः श्रुतदेवायाः श्री-वसुदेवभगिनीत्वात् वास्तवार्थे त्वेवं वा मित्रध्रुक् चासावहं चेति तं मां जिघांससि हन्तुं गन्तुं स्वीकर्तुम् इच्छसीत्य् अर्थः । अतो हे अमन्द! विधाय सुहृदां सुखम् इति
हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।
यदाह वः समागत्य कृष्णः सत्यं करोति तत् ॥
आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः ।
प्रियं विधास्यते पित्रोभगवान् सात्वतां पतिः ॥
इति च स्व-मुखेन कतजन-मुखेन धर्म-सङ्कल्प-सिद्ध्येर् अन्यथानुपपत्तेः सत्य-सङ्कल्प इति परमेश्वर-निष्ठा श्रुतिः । सत्य-व्रतम् इति । ईश्वराणां वचः सत्यं तथैवाचिरितम् इति च स्वयं श्रीमद्-भागवतम् एव कथं वाङ्करस्य कुब्जायाश् च सकृन् मात्र-गृहागमन-प्रतिज्ञा सम्पादिता कथं वा मुहुर् अपि तेषाम् अपि मानः सम्पादयितव्यः । न केवलम् एतावद् एव तस्य व्रजागमनम् अपि श्री-द्वारका-वासि-वचनेन स्फुटम् एवाह प्रथमे—यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वापि सुहृद्-दिदृक्षया [] इत्य् अत्र मधून् मथुरान् चेति व्याख्याय तदानीं तन्-मण्डले सुहृदो व्रजस्था एव प्रकट इति श्री-स्वामि-पादैर् अपि तथाभिमतं—तत्र योग-प्रभावेण नीत्वा सर्व-जनं हरिः इत्य् अत्र सर्व-शब्देनान्येषां तत्राविद्यमानत्वात् सुहृद्-दिदृक्षुर् उत्कण्ठ इति श्री-बलदेवागमने\ऽपि तत्रैव तत्-प्रयोगात् श्री-भगवतस् तत्र गमने समयश् चायम् एव तत्-स्वारस्य-लब्धेः विधाय सुहृदां सुखम् इत्य् उक्तत्वात् अधुनैव निर्जिताशेष-शत्रुत्वादिना तेषां नैश् चित्यं जातम् इति एतत् प्राचीन-लीलत्वेन स्थापयिष्यमाणायां सूर्योपराग-यात्रायाम् । वज्र-कल्पया हीरकवद् विराजमानया गदया त्वदीयया कौमोदक्या हेतुना त्वां हनिष्ये प्राप्स्ये इति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नः प्रभुर् अपि त्वं मातुलेयः सम्प्रति मातुल-पुत्रो\ऽभूः तदपि मित्र-ध्रुक् चासावहं चेति तं तद्-रूप-मातुलेय-द्रोहिणं मां जिघांससि उचितम् एवैतद् इति भावः । अतः हे\ऽमन्द! गदया त्वदीयया कौमोदक्या मद्-विघातिन्या हेतुन त्व् आं हनिष्ये प्राप्स्यामि वज्र-कल्पया वज्र-तुल्ययेति कृष्ण-गदया लोक-दृष्ट्यैवोत्कर्षो विवक्षितः वस्तुतस् तु मामल्प-सत्त्वं हन्तुं त्वद्-गदा वज्रवद् एव स्वस्य बलं प्रकाशयिष्यति नाधमत्वम् इत्य् अर्थः ॥५॥
॥ १०.७८.६ ॥
तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः ।
बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं हनने कस् तव पुरुषार्थस् तम् आह—तर्हीति । अज्ञ न विद्यते ज्ञो यस्मात्, हे सर्वज्ञेत्य् अर्थः । परमार्थतः स्वामिनम् एतद् देह-सम्बन्धेन बन्धु-रूपम् अरिं ब्रह्म-शापेन शत्रुत्वेन प्रतीतं त्वां हत्वा मित्राणाम् आनृण्यम् उपैष्यामि । विशेषेणाधीयते मनसि चिन्त्यत इति व्याधिः । देहेऽन्तर्यामितया चरतीति तथा तम् ईश्वरं हत्वा क्षात्र-धर्मेणाराध्य । हन्तेर् गत्य्-अर्थस्य ज्ञानार्थत्वाज् ज्ञात्वेति वा । तेन यथा पित्र-दीनाम् आनृण्यम् उपयन्ति तद्वद् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्कते—नन्विति । अनेकार्थत्वाद् अर्थ-तात्पर्याद् वा हन्तेर् आराधनार्थत्वं लभ्यते । किं क्लिष्ट-कल्पनयेत्य् आह—हन्तेर् इत्य्-आदि । तेनाराधन-ज्ञानयोर् अन्यतरेण । न किङ्करो नायम् ऋणी च राजन् [११.५.४१] इत्य् आरभ्य, गतो मुकुन्दं परिहृत्य कर्तम् इति वक्ष्यमाणत्वात् । तद्वत् पित्राद्य्-आनृण्यवत् ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा), सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनृण्यं च मयावश्यकृत्यम् इत्य् आशयेनाह—मित्रेति । बन्धुर् इव रूप्यते दृश्यते यस्तं विचारे तु महा-वैरिणम् इत्य् अर्थः स्व-देह-सम्बन्ध्य् अपि महा-दुःखदः स्याद् इत्य् आदौ दृष्टान्तः व्याधिम् इति वास्तवार्थे च यथा यथावद् धत्वा ज्ञात्वा । अन्यत् तैः । यद् वा, व्याधि विगतः आधिर् येन तं देह-चरम् अन्तर्यामित्वाद् इति ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, त्वद्-अनुभवी त्वां प्राप्तो जनः स्वबन्धूनप्युद्धरतीत्याह तर्हीति । न विद्यते ज्ञो यस्मात् हे सर्वज्ञ! मित्र-वत्सलो\ऽहं तर्ह्य् एव मित्राणाम् आनृण्यम् उपैमि तेषाम् अप्य् उद्धारणाद् इति भावः । अरिं लोकप्रीत्या शत्रुम् अपि त्वां बन्धुरूपं हत्वा ज्ञात्वा यथा यथावद् एव विशेषेण आधीयते मनसि चिन्त्यत इति व्याधिस्तं परम-ध्येयम् इत्य् अर्थः । विगत आधिर्यस्मात् तम् इति वा देहे चरतीति तमन्तर्यामिणम् ॥६॥
॥ १०.७८.७ ॥
एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् ।
गदयाताडयन् मूर्ध्नि सिंह-वद् व्यनदच् च सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रूक्षैर् इत्य्-आदि प्रतीत्य् अभिप्रायेण । तोत्रैर् अङ्कुशादिभिः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स दन्तवक्त्रः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तोत्रैरिवेति दृष्टान्तेनातितुच्छतया तैस्तस्यान्तर्दुःखं नाभूद् इति सूचितम् एव, अत एवोक्तं कृष्णं परमानन्दघनम् इति ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्विपं मत्तगजं तोत्रैरिवेति दृष्टान्तो\ऽयमन्तर्दुःखाभावविवक्षया ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : रूक्षैर्वाक्यैर्विशिष्टः तुदन् पीडयितुं रूक्षैरित्य्-आदिकं प्रथमार्थानुगतमुपन्यस्तं तोत्रैरङ्कुशैः ॥७-१५॥
॥ १०.७८.८ ॥
गदयाभिहतोऽप्य् आजौ न चचाल यदूद्वहः ।
कृष्णोऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दन्तवक्त्रम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आजौ समभूप्रदेशे एव स्थितो न चचाल युद्धात्, किं वा, युद्धे निज-धैर्यादेवास्थिरो नाभूदिति। यद् वा, आजावभिहतो\ऽपि न चचाल,
स्वस्थानाद्विच्युतो नाभूद् इत्य् अर्थः। यतो यदूद्वहः साक्षाद्भगवान्। यद् वा, तद्वञ्चनादौ शक्तस्यापि तत्स्वीकारः स्ववीर्यातिशयप्रदर्शनेन युद्धक्रीडार्थम् एव, यतो यदूद्वहो युद्धादिक्रीडार्थं यदुकुले\ऽवतीर्ण इति । तत्प्राणाकर्षणाभिप्रायेण, गुर्व्यागदावर्गश्रेष्ठया गरिष्ठया वा ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आजौ युद्धक्रियायां न चचाल न च्युतः पतितो\ऽभूत् यत् यतः कृष्णो\ऽपीति ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.९ ॥
गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् ।
प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सेनातूर्यप्राण्यङ्गानां द्वन्द्व एकवद् वा, इति एकवचनान्तम् अपि साधु केशबाह्वङ्घ्रीति ॥९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : निःशेषेण भिन्नं विदीर्णं हृदयं वक्षो यस्य सः, अत उच्चैर्वमन् बाहुमङ्घ्री च प्रसार्य, अतो नितरामपतत् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाह्वङ्ग्र्हीनित्येकवत्त्वाभाव आर्षः गाम् इत्य् अत्र गदेति वा पाठः ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.१० ॥
ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् ।
पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पतनानन्तरम् । ज्योतिर्विजयात्मकं तेजः ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तदेहाद् इत्य् अर्थः । सूक्ष्मतरं चक्षुराद्यग्राह्यम्, अत एवाद्भुतं लोकातीतम्, किं वा, सूक्ष्मतरम् अपि तद्भुतं यथा स्यात्तदेवाह—पश्यताम् इति । सर्वेष्वपि भूतेषुसाक्षात् पश्यत्स्विति, अत एव विस्मयात् सम्बोधयति । यथा चैद्यवध इति पार्षदत्वेन द्वयोर् अपि तुल्यत्वात्तस्यैव प्रवेशो गतिश् च सूचिता ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तदेहाद् इत्य् अर्थः । सूक्ष्मतरं चक्षुराद्यग्राह्यं न तु प्रमाणतोप्यल्पतरम् उल्केव भुवि खाच्च्युतेति चैद्यवधेक्त्रः ।
चक्षुरग्राह्यत्वादद्भुतं लोकातीतं पश्यताम् इति तथापि सर्वेषु भूतेषु साक्षात् पश्यत्स्वित्य् अर्थः । इति भगवदिच्छैव तत्कारणत्वेन दर्शित अत एव विस्मयात् सम्बोधयति (नृपेति) यथा चैद्यवध इति पार्षदत्वेन द्वयोर् अपि तुल्यत्वात्तस्यैव प्रवेशो गतिश् च सूचिता ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : सूक्ष्मतरं चक्षुर्-आद्य्-अग्राह्यम् । न तु स्वल्पतम-प्रमाणम् । उल्केव भुवि खाच् च्युता [भा।पु। १०.७४.४५] इति चैद्य-वधोक्तेः । तथापि पश्यताम् इति श्री-भगवद्-इच्छाया एव कारणत्वं सूचितम् । अत्र श्री-कृष्णस्य व्रजागमनं व्रजेन सह वृन्दावन एव च तस्याप्रकट-लीला-प्रवेशः श्री-कृष्ण-सन्दर्भे पञ्च-सप्तत्य्-अधिक-शततमाङ्कस्यावतारिका-प्रघट्टकम् आरभ्यास्ति । अत एव यमुनाम् अनु यान्य् एव [भा।पु। १०.७८.२०] इत्य् उक्त्यापि श्री-बलदेवस्य पुनर् व्रजागमनं नोक्तम् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.११ ॥
विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः ।
आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्भ्राता दन्तवक्त्रानुजः । तज्जिघांसया कृष्णहननेच्छया ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे, स्य दन्तवक्त्रस्य भ्रातेति यादवो विदूरथो व्यावर्तितः । अतो भ्रातुस् तस्य शोकेन परिप्लुतो व्याप्तः, अत उच्चैः श्वसन्नसिचर्मभ्यां सहागतः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्दो भेदे तस्य दन्तवक्त्रस्य भ्रातेति यादवो विदूरथो व्यावर्तितः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.१२ ॥
तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना ।
शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य विदूरथस्य ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च तु, तस्य तु, आपततो वेगेनागच्छत एव हे राजेन्द्रेति परम-हर्षात् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आपततः वेगेनागच्छत एव ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.१३-१५ ॥
एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् ।
हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः ॥
मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः ।
अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः ॥
उपगीयमान-विजयः कुसुमैर् अभिवर्षितः ।
वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-विधया । अन्यैः कृष्णेतरैः ॥१३-१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवम् उक्त-प्रकारेण सौभादीन् हत्वा पुरीं विवेशेति त्रिभिर् अन्वयः । अन्यैः श्री-कृष्णेतरैः, दुर्विषहान् हन्तुम् अशक्यान् । किं वा, असह्य-विक्रमान् अपीत्य् अर्थः । सुरैर् मानवैश् च ईडितो जयजयेत्य्-आदिना स्तुतः ॥१३॥
मुन्य्-आदिभिर् उपगीयमानः, सौभादि-वधेन विजयो यस्य सः । एषां यथा-पूर्वं श्रैष्ठ्यम् । तत्र पितृ-गणेभ्योऽप्य् अप्सरसां गानापेक्षया तैर् एव सर्वैः कुसुमैर् अभितो वर्षितः । वृष्ट्यैव व्याप्त इत्य् अर्थः । वृष्णि-प्रवरैः प्राग्-युद्धार्थं निर्गतैः श्री-प्रद्युम्नादिभिस् तत्-तद्-वधानन्तरम् अभ्यागतैश् च । श्री-बलदेव-वसुदेवोग्रसेनादिभिर् वृतः । अलङ्कृतां स्वभावत एव । किं वा, महा-दुष्ट-वर्ग-विजयोत्सवेन विशेषतो भूषिताम् इत्य् अर्थः ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् इति त्रिकम् । अन्यैः श्री-कृष्णेतरैर्दुर्विषहान् असह्यविक्रमानपीत्य् अर्थः । सुरैर्मानवैश् च ईडितः जयजयेत्य्-आदिना स्तुतः मुन्यादिभिरुपगीयमन सौभादिवधेन विजयो यस्य सः तैर् एव सर्वैः कुसुमैः कृत्वा\ऽभितो वर्षितः वृष्ट्येव व्यापित इत्य् अर्थः वृष्णिप्रवरैः प्राग्युद्धार्थं श्री-प्रद्युम्नाद् इति तत्-तद्-वधानन्तरमभ्यागतैर् एव सर्वैः श्री-वसुदेवबलदेवोग्रसेनादिभिर्वृतः अलङ्कृतां स्वभावत एव किं वा महादुष्टवर्गविजयोत्सवे विशेषतो भूषिताम् इत्य् अर्थः । अत्र दन्तवक्त्रवधप्रसङ्गे पाद्मोत्तरखण्डे विशेषः श्रूयते तथाहि तदीयगद्यानि
अथ शिशुपालं निहः श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम, कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य मथुराम् आययौ । तयोर् दन्तवक्त्र-वासुदेवायाहोरात्रं मथुराद्वं सङ्ग्रामः समवर्तत । कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्नो महीधर इतव गतारुर-वनीतले पपात सो\ऽपि हरेः सारूप्येण योगि-गम्यं नित्यानन्द-सुखं शाश्वतं परम-पदम् अवाप । इत्थं जय-विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य जन्म-त्रये\ऽपि तेनैव निहतौ जन्म-त्रयावसाने मुक्तिम् अवापतुः इति ।
अत्र कल्प-भेद-व्यवस्था न मन्तव्या सङ्गतेः सद्-भावात् साह्यगतेर् एव गतिः तस्माद् अत्राप्य् एषा सङ्गतिः कर्तव्या । मारित-मात्रे साल्वे तन्-निष्क्रयार्थम् अप्य् आगतत्वेन निर्दिष्टस्य तस्य तच्-छ्रवणं गृहे न सम्भवति, किन्तु सो\ऽयं पौण्ड्रकस्य वधं पूर्वम् एव ज्ञात्वा शिशुपाल-वधे तु ज्ञात-मात्रे\ऽतिरुषा निज-देशतः शक्रप्रस्थ-दिशम् एवागतः तत्र गदा-मात्रम् आदायैकाकित्वेन चलिततया पृथ्वी-प्रकम्पन-कृतितया महा-सत्त्वतया सिन्धुतया वज्र-निर्भिन्न-मही-धरतया च तत्र तत्र पठितया महा-देवाराधनेनाकस्माद् धिरण्याक्ष-क्षताप्राप्ततया चागतः । श्री-शुक-देव-निर्दिष्ट-दुर्मतितया जरासन्ध-वधार्थं श्रीमद्-उद्धव-मन्त्रम् एवालम्ब्य श्री-कृष्णं चक्र-मात्र-बलं मत्वा द्वन्द्व-युद्धाय गदाम् आदाय श्री-बलदेव-भीमादीन् गदा-शिक्षा-निपुणान् मत्वा तम् एकाकिनम् एवाह्वयितुं तं च तद्-देशम् उपद्रावयितुं मथुरायाम् एवाययौ । ततश् च नूनं श्री-नारद-मुखात् द्वारकाम् आगतं विनिहत-शाल्वं च श्री-कृष्णं श्रुत्वा तत्रैव चलितुम् उद्यतो हिरण्याक्षवदेवाद् अतिदूरादपि दृष्टः तावद् एव च साल्व-वधानन्तरं श्री-भगवता मनोजवेनैव स्व-रथेन तद्वद् एकाकितयैवागतवता मथुरातो निष्क्रम्यागच्छन्न् असौ प्रतिकूल-गमनतया दृश्यतेत्य्-आदि तत्रैव चासौ दन्तवक्त्रो हत इत्य् अद्यापि मथुरायां द्वारका-दिग्-द्वारि दन्तवक्त्रहेति संस्कृतानुगायां लोक-भाषायां दतिहा-नाम्ना प्रसिद्धः श्री-वज्रेण वासितो ग्रामो वर्तते ।
अथ विदूरथस् तु तद्-असम्मत्या तेन समम् अनागतो\ऽपि भ्रातृ-स्नेहेन पश्चाद् आगत्य तं हतं दृष्ट्वा श्री-कृष्ण-चित्र-भानौ पतङ्ग इव पपातेति किं चान्यद् अपि तद्-अनन्तरम् उत्तर-खण्डे वर्तते, यथा—
कृष्णो\ऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा सोत्कण्ठौ पितराव् अभिवाद्याश् चास्य ताभ्यां साश्रु-कण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य बहु-वस्त्राभरणादिभिस् तत्रस्थान् सर्वान् सन्तर्पयामास—
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाचिते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
इति यमुना-जलम् उत्तीर्येति । ब्राह्मण-बालकाहरणे दर्शित-प्रभावेण स्वेनैव रथेनेति ज्ञेयं बहु-वस्त्रादीनां तत्-क्षणं तत्-सम्पत्तिश् च लक्ष्मीपतित्वाद् अकस्मात् सर्वत उपस्थितेर् इति च इदं पुनर् व्रजागमनं श्रीमद्-भागवतस्यापि सम्मतम्—
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास स-प्रेमैर् आयास्य इति दौत्यकैः ॥ इति—
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ इति ।
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥
आगमिष्यत्य् अदीर्घण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥
इति च स्व-मुखेन भक्त-जन-मुखेन च बहु-सङ्कल्प-सिद्धेर् अन्यथानुपपत्तेः सत्य-सङ्कल्प इति हि परमेश्वर-निष्ठा-श्रुतिः सत्य-व्रतम् इति ईश्वराणां वचः सत्यम् इति च स्वयं श्रीमद्-भागवतम् एव कथं वाङ्करस्य कुब्जायाश् च सकृन्-मात्र-गृहागमन-प्रतिज्ञा सम्पादिता कथं वा मुहुर् अपि तेषाम् अपि सा न सम्पादयितव्या न केवलम् एतावद् एव तस्य व्रजागमनम् अपि अत्र मधून् मथुरां वेति व्याख्याय तदानीं तन्-मण्डले सुहृदो व्रजस्था एव प्रकट इति ।
श्री-स्वामि-पादैर् अपि तथाभिमतम्—तत्र योग-प्रभावेण नीत्वा सर्व-जनं हरिः इत्य् अत्र सर्व-शब्देनान्येषां तत्राविद्यमानत्वात् सुहृद्-दिदृक्षुर् उत्कण्ठ इति श्री-बलदेवागमने\ऽपि तत्रैव तत्-प्रयोगात् श्री-भगवतस् तत्र गमने समयश् चायम् एव तत्-स्वारस्य-लब्धेः । विधाय सुहृदां सुखम् इत्य् उक्तत्वात् अधुनैव निर्जिताशेष-शत्रुत्वादिना तेषां नैश्चित्यं जातम् इति एतत् प्राचीन-लीलत्वेन स्थापयिष्यमाणायां सूर्योपराग-यात्रायाम् अप्य् एतद् एव । निज-झटित्य्-अनागमने कारणम् उपन्यस्तं स्वयं भगवता—
अपि स्मरथ नः सख्यः स्वानां प्रिय-चिकीर्षया ।
गतांश् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः ॥ इति ।
एवम् अपि यद् इदं श्रीमद्-व्रजागमनं पुराणान्तरेषु नोद्घाटितं तत् खलु परोक्ष-वाद-रीतिकत्वाद् ऋषीणाम् अत्र च परोक्ष-वादो बहिर्-मुखान् प्रति तादृश-तदीय-रहस्य-लीलादि-गोपनाय अनुरागिणः प्रति उत्कण्ठा-वर्धनाय चेति ज्ञेयम् । अभ्युपगम्य त एव चानेकत्र पुराणे\ऽनुक्तस्याप्य् एकत्रोक्तस्य प्रामाणिकत्वं यथा ब्रह्म-मोहन-वस्त्र-हरण-मृद्-भक्षणादि-लीलानां यत् तु तत्र तत्र स्वयं सूचितस्यापि व्रजागमनस्य श्री-शुक-देवेन चात्राकथनं तत् खलु परोक्ष-वाद-सिद्धान्तम् एव द्रढयति—विशेषश् चास्य तत्-स्मारितानन्त-हताखिलेन्द्रियः इतिवन् मध्ये मध्ये प्रेम-मूर्च्छां प्राप्नुवतः कदाचिद् आरीप्सित-कथा-सक्त्या स्यात् कदाचिन् न स्याद् अपि यथैव काश्चिद् अपि लीलाः क्रम-वैपरीत्येनापि वर्णिताः सन्ति यथैव दन्तवक्त्र-वधात् पूर्वापि सूर्योपराग-यात्रा दूरतः परत एव वक्ष्यते यतस् तीर्थ-यात्रातः श्री-बलदेवे कुरु-युद्धे समागते सत्य् एव
सर्व-कौरव-वधोत्तर-काल एव च दुर्योधन-वधः तद्-उत्तरतो वक्ष्यमाणा सूर्योपराग-यात्रा तु श्री-भीष्म-द्रोणाद्य्-आगमनम् अपीति ।
क्रमस् त्व् अयम् एव—प्रथमं सूर्योपराग-यात्रा, ततो राजसूय-सभा, ततो द्युतं, ततः पाण्डवानां वन-गमनं, तदैव साल्व-दन्तवक्त्र-वध-व्रजागमनानि वनाद् आगतेषु
पाण्डवेषु श्री-बलदेव-तीर्थ-यात्रादिकम् इति ।
सूर्योपराग-यात्रा तु कंस-वधान् नातिबहु-संवत्सरानन्तरा यतस् तत्रैव—
कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतद् एव पुनः स्थानं दैवेनासादिता स्वसः ॥
इति कुन्तीं प्रति श्री-वसुदेववाक्यम् अतः प्रथमदर्शनाद् एव श्री-द्रौपद्या श्रीरुक्मिण्यादीनां मिथो विवाह-प्रश्नोत्तरे घटेते । यत् तु आस्ते\ऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः इति सूर्योपराग-यात्रायाम् अनिरुद्धस्यापि प्रोढत्व-प्रतीतेश् चिर-कालत्वम् आकल्पते तत् पुनर् नातिदीर्घण कालेन स कार्ष्णी रूढ-यौवनः इति न्यायेनाल्प-कालत एव तत्सम्पत्तेर्न तादृशत्वम् अत एव आगमिष्यत्य् अतिदीर्घेण कालेन व्रजम् अच्युतः इत्य् अपि सङ्गच्छते श्री-कृष्ण-नन्दनो\ऽप्य् अन्यो\ऽनिरुद्धो वर्तते यः खलु दशमान्ते महा-रथ-मध्ये गणतो वर्णितो व्याख्यातश् चेति व्यवस्थितम् एव श्री-पाद्मोत्तर-खण्डे स्पष्टम् उक्तं पुनः श्री-व्रजागमनं किं चान्यद् अपि रहस्यम् एतद्-अन्ते तत्र वर्तते यथा—
रम्य-केलि-सुखेनैव गोप-वेष-धरः प्रभुः ।
बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥
अत्र तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दार-सहिता पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढाः परमं वैकुण्ठं लोकम् अवापुर् इति ।
ह स्फुटं प्रकटं यथा स्यात्तथा मासद्वयमुवास । अथानन्तरं दिव्य-रूप-धरा इति परमानन्देन पूर्वतो\ऽप्य् अलौकिक-शोभा-युक्ता इत्य् अर्थः । श्री-गो-गोप-गोपी-परिकरत्वेनैव नित्य-लीलायाः स्थापितत्वात् परमं वैकुण्ठं लोकम् इति दर्शयामास लोकं स्वं गोपानाम् इत्य्-आदिना
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः ॥
इत्थं तेनैव नाथेन सनाथं गोलोकम् एवेत्य् अर्थः
वत्सैर् वत्सतरीभिश् च स-रामो बालकैर् वृतः ।
वृन्दावनान्तर-गतः सदा क्रीडति माधवः ॥
इति स्कान्दोक्तानुसारेण श्री-राम-रोहिण्य्-आदि-युक्तम् अपि तम् इति भावः । तेषाम् उत्कण्ठां दृष्ट्वा न वेद स्वां गतिं भ्रमन् इति विचिन्त्य तद्-अभिप्रायेणैव श्री-भगवता पूर्वम् अपि दर्शितो\ऽसौ एवं श्री-वृन्दावन एव तादृश-प्रकाशस्य विद्यमानत्वाद् विमानारूढा इति तदानीं सूर्योपराग-यात्रातः समागत्य दुःखात् दूरतो यमुना-पार एव कृत-वासत्वात् । अत एवोक्तं कृष्णो\ऽपि तं हत्वा यमुनाम् उत्तीर्येति विमानम् अत्र द्वारकादिभिः सह वैकुण्ठाद् आगतः स्वेच्छा-परिमाणो भगवद्रथ एव तादृशतया तत्र नयनं चैश्वर्यज्ञानप्रधानभक्तेषु देवादिषु महिमदर्शनार्थम् एव तस्य शीघ्रत्वमहाज्योतिर्मयत्वाभ्यामलक्ष्यगतित्वेन विस्मापनार्थम् एव च व्याख्यानान्तरन्तु न युक्तम् । अर्केचेन्मधुविन्देत किमर्थं पर्वतं व्रजेत् इति न्यायात् अर्क इत्यव्ययं निकटर्थे यदि चेयं तस्य पुनर् व्रजागतिः नित्यप्राप्तिश् च न स्यात् तदा सर्वा गोकुलानुरागवर्णना उद्धवादिषु स्वयं भगवता तदुत्कण्ठासूचनाश् च विफला एव स्युः न केवलं विफला विरसा एव चेति सुधिभिर्विचार्यम् एव श्रीव्रजवासिनां पुनः साक्षात्तादृशतत्प्राप्त्यपेक्षयैव सूर्योपरागयात्रायामुक्तम्—
मयी भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥
इति श्री-भगवता गोपीनां स गुरुर्गतिः इति श्री-शुक-देवेन च तथा श्री-भागवतैकादेशे केवलेन हि भावेन इत्य्-आदि-पद-द्वये साधक-चरीणां श्री-गोपीनां प्रथमं स्व-प्राप्तिम् उक्त्वा प्रस्तावान् नित्य-प्रेयसीनाम् अपि तन्-महा-वियोगानन्तर-प्राप्तिस् तस्य वियोगस्यातीतत्व-निर्देशात् दृढीक्रियते द्वाभ्याम्—रामेण सार्धं मथुरां प्रणीते श्वाफल्किनामय्य्-अनुरक्त[———-फ़्]{।मर्क्}चित्ताः ।
विगाढ-भावेन न मे वीयोग तीव्राधयो\ऽन्यं ददृशुः सुखाय ॥
तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण ॥
क्षणार्धवत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥
इति पूर्वं तु तस्य व्रजाय प्रस्थापने—
मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुल-स्त्रियः ।
स्मरन्त्यो\ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥
धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् वल्लव्यो मे मद्-आत्मिकाः ॥
इत्य् अत्र वर्तमान-प्रयोग एव कृतः सम्प्रति त्व् अतीत-निर्देशः क्रियते । ततश् च विगाढ-भावेन वियोग-तीव्राधयः सत्यो मत्तो′न सख्यादिकम् इति न सुखाय ददृशुः । ततश् चाधुना सुखाय पश्यन्तीति वियोगो नास्तीत्य् अर्थः । एवं तास् ताः क्षपा मया हीनाः कल्पसम् बभूवुः अधुना तु तादृश्यो न भवन्तीति वियोगो नास्तीत्य् अर्थः । हे उद्धव! त्वद्-द्वारा तासु सन्देशानुसारेग
श्री-वृन्दावनस्यैवाप्रकट-प्रकाश-विशेष-प्रवेशात् तासां नित्यं मत्-प्राप्तेर् इति भावः ।
ननु पूर्वोक्तानुसारेण गोलोकाख्ये वृन्दावनस्य प्रकाशविर् एव तस्मिन्न् अस्ति प्रकट-लीला-सदृश्यैवाप्रकट-लीला, तर्हि कथम् उभयोर् एकत्र समावेशः? उच्यते, प्रकट-लीलायाः प्रकट-प्रकाशस्य चाभेदेर् न तावप्रकट-लीला-प्रकाशौ प्रतिपन्नाव् इति च दृश्येते तद्-अनन्तर-पद्येन—
ता नाविदन् मय्य् अनुषङ्ग-बद्ध-
धियः स्वम् आत्मानम् अदस् तथेदम् ।
यथा समाधौ मुनयो\ऽब्धि-तोये
नद्यः प्रविष्टा इव नामरूपे ॥ इति ।
अस्यार्थः तास् तथा-भूताः विरहोत्कण्ठातिशयेनाभिव्यक्तदुर्द्धरमहाभावाः सत्यः अथ कदाचित्तदर्शनार्थं गते मयि लब्धो यो\ऽनुषङ्गो महामोदनाख्यभावाभिव्यक्तिकारी पुनश् च संयोगस्तेन बद्धा धीर्यासां तथा-भूताः सत्यः स्वं ममतास्पदमात्मानमहङ्कारास्पदं च अदः प्रकट-लीलानुगतत्वेनाभिमतं तथैव इदं प्रकट-लीलानुगतत्वेनाभिमतं वा यथा स्यात्तथा नाविदन् किन्तु द्वयोरैक्येनैवाविदुरित्य् अर्थः । प्रकटप्रकाशस्य तल्लीलायाश्चाभेदेनैवाप्रकटं तद्वयमजानन्न् इति विवक्षितं ततश् च नाम च रूपं च तस्मिन् तन्नामरूपात्मनि अप्रकटप्रकाशविशेष प्रविष्टा इव प्रविष्टाः वस्त्वभेदाद् इत्य् अर्थः । तत्र प्रकटाप्रकट-लीलागतयोर् नामरूपयोरभेदे दृष्टान्तः, यथा समाधौ मुनय इति । समाधिः शुद्धात्म-मात्रस्फूर्ति तस्मिन् तयोर् लीलयोर्भेदावेदने दृष्टान्तः यथाब्धितोये नद्य इति । यथा नद्यः पृथिवीगतामब्धितोयगतां च स्वस्थितिं भेदेन न विदन्ति किन्तूभयस्याम् अपि स्थितौ समुद्रतोयानुगतावेवाविशन्ति तथा प्रकटां च लीलास्थिति ताश् च भेदेन नाविदुः किन्तु मय्येवाविविशुरित्य् अर्थः । दृष्टान्तस्त्वयं लीलाभेदावेदनांश एव न तु सर्ववेदनांशे लोकवत् तु लीला-कैवल्यम् (२.१.३३) इतिवत् ततश् चाप्रकट-लीलायां प्रविष्टा अपि यद्-रूपम् आत्मनः प्रापुः । तद्-अनन्तरम् एव दर्शाते—
मत्-कामा रमणं जारम् अस्वरूप-विदो\ऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ इति ।
अत्र आनन्दो ब्रह्म श्रुति-प्रसिद्धेर् आनन्द-रूपं ब्रह्मैव विशेष्यं सर्वैः पदैः सर्वाविशेषाश्रयस्य तस्यैव विशेषयितव्यत्वात् अन्वये चार्थिक एव क्रमो गृह्यते तस्यैव प्राधान्यात् पच्यन्तां विविधाः पाकाः इत्य् आदौ सर्वदोहश् च गृह्यतामितिवत् न चात्रानूद्यविधेयस्तयोः पूर्वापरीभावः श्रयणीयः यस्य पर्णमयी जुहूर्भवति न स पापं लोकं शृणोति इतिवद्वैपरीत्यस्य प्रतीति-वशाल् लब्धत्वात् ।
ततश् चायम् अर्थः—पूर्वोक्त-रीत्या ताः ब्रह्म प्रापुः तासां मदंशभूतानां नित्यप्रियाणां सङ्गादन्या अपि साधनसिद्धाः शतसहस्रशः प्रापुः गणद्वयस्यास्य भेदो रासारम्भे दर्शित एव सङ्गस्य तत्प्रापकत्वं झटिति समानभावजनकत्वात् यथोक्तमेतत्पूर्वोक्तम् एव केवलेन हि भावेनेत्यादि एवं गवादिष्वपि द्विविधत्वं ज्ञेयं तद् एवं यत्प्रापुस्तच्च ब्रह्मणाद्वैतवादिना इति श्री-विष्णु-पुराणात् परमा लक्ष्मीः स्वरूपशक्ति-रूपा यत्रेति निरुक्तेश् च तथा-भूतं श्री-भगवद्-रूपम् एव न च भगवद्-रूपस्य विविधत्वे\ऽपि मत्तोन्याकारं प्रापुः किन्तु मां ब्रह्मणो हि प्रतिष्ठाहम् इति निर्दिष्टं मद्-रूपं स्वयं भगवन्तं नराकृतिपरब्रह्माख्यम् एव मत्कामा इति विशेषणात्
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥
इति निर्विशेष-ब्रह्म-मात्र-प्राप्ति-निषेध-पूर्वक-साक्षात्-स्व-प्राप्तेः प्रतिज्ञातत्वात् दर्शयामास लोकं स्वं गोपानां तमसः परम् इत्य् आदौ च, वाञ्छति यद् भव-भियो मुनयो वयं च इति मुमुक्षु-मुक्त-भक्तैर् अपि वाञ्छनीयेन प्रेम-विशेषेण लब्धतया सर्वतो वैशिष्ट्येन तल्-लाभावगमात् सर्वेषाम् एव व्रज-वासिनां श्री-कृष्ण-रूपस्य स्व-धामैव स्व-लोक इति तेनैव दर्शितत्वेन । अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिता इत्य् आदौ च श्री-कृष्णादि-लक्षण-पुत्र-श्री-यशोदादि-लक्षण-दार-सहित-तत्-प्राप्तेः सर्व-व्रज-जनकीयत्वेन तास् तु कैमुत्यस्य सिद्धत्वाच् च तद् एवं ब्रह्मत्वेनानन्दरूपतया स्व-स्व-रूपस्य तथा परमत्वेन गुणानाम् अपि सर्वोत्कृष्टत्वं दर्शयित्वा स्वस्य सर्वोत्तमनायकत्वं दर्शितं तत्रापि मां पदेन स्वयं भगवत्त्वं व्यज्य परम-वैशिष्ट्यं ज्ञापितं तद् एवं स्वरूपे निर्दिष्टे कीदृक् सम्बन्धं त्वां प्रापुरित्याशङ्किष्यत इत्य् अभिप्रेत्य तासाम् एव विशेषणेष्वन्तः पतितया स्वविशेषणाभ्याम् सम्बन्धम् अपि निर्दिशति मत्-कामा रमणं जारम् अस्वरूप-विदः इति च तत्र रमणः पतिः जार उपपतिः इत्य् एव रूढ्या लभ्यते रुढिर् योगम् अपहरति इति न्यायेन जार-शब्दवद्रमणशब्दस्याप्यन्यार्थो न युज्यते तथा हि समाने\ऽपि यौगिकत्वेन नन्दनरमणशब्दयोभिन्नार्थत्वेन प्रतीतेर्मित्रापुत्रोमित्रारमणो नोच्यते न च मित्रापतिर्मित्रानन्दन इति तथा च विश्वप्रकाशे पटोलमूले रमणं स्वात्तथा रमणः प्रिय इति प्रियशब्दस्य चात्रपतिवाचित्वम् एव धवः प्रियः पतिर्भर्ता इत्य् अमर-कोषात् जारस्तूपपतावेव रूढः जारस् तूपपतिः सामै इत्य् अमर-कोषात् पाप-पतिर् अयम् उच्यते जारः पाप-पतिः समाव् इति त्रिकाण्ड-शेषात् तस्मात् पत्याव् एव रूढो\ऽयं रमण-शब्दो यौगिकत्वेनान्य-वाचकत्वं नोररीकरोति । तद् एवं यो जारः स पतिर्न भवति यः पतिः स जारो न भवतीति तथात्रैकस्मिन् द्वाव् अपि पर्यवसायितव्याव् इति स्थितः स्वयम् एव तासां विशेषणाभ्यां व्यवस्थापयति मत्कामा रमणम् इति जारमस्वरूपविद इति च अत्र मत्पदाभावात् स्वरूपशब्देनात्र तासाम् एव स्वरूपमुच्यते ततश् च प्रथमं तावल्लीलाशक्त्या जन्मादिना विस्मारितं मन्-नित्यप्रेयसीत्वलक्षणं स्वरूपमजानन्त्यो रागातिशयाज्जारतया प्रतीतम् एव मां प्रापुः तथापि मत्कामाम् अपि कामे\ऽभिषलाषः कथमस्मिन् रमणत्वम् एव जारवबुद्धिः स्याज्जारत्वन्तु स्वप्नवद्विलीयतेति लक्षणो यासां तथा-भूताः सत्यो रमणत्वम् एव प्रापुः परपुरुषरागिणीष्वन्यास्वपि तादृशभावाद्दुर्लभतादिकं तत्खलु विप्रलम्भात्मकम् एवेति विप्रलम्भ एव तत्र रत्युकर्षः ततश् च सह्यतां वा सहृदयेन तासु तस्य कादाचित्कता यदि—
न विना विप्रलम्भेन संयोगः पुष्टिम् अश्नुते ।
कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते ॥
इत्य्-आदिन्यायेन पर्यवासने कषायेण राग इव विप्रलम्भेन संयोगः पुष्टः स्यात् तेन स इव पुनर् अपि बाधितो न स्यात् हन्त हन्त तस्य शश्वदावृत्तिः कस्य वा कर्णयोरेकतरेणापि स्पृश्यतां भोजनरुचिवृद्धये लङ्घनाद्युग्रचिकित्सानामविश्रान्तिवत् तस्मादपि तदुपद्रवशमनाय रमणतया प्राप्तावेव तात्पर्यम् अन्यथा रसभङ्गश् च स्यात् ।
तथा हि—निवारयामः समुपेत्य माधवं किं नो करिष्यन् कुल-वृद्ध-बान्धवाः इति । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति । ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः इति त्यक्त-लौकिका इति गत-ह्रिय इति । काचिन् मधुकरं दृष्ट्वा इति या दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा इति । मातरं पितरं भ्रातृन् पतीन् पुत्रान् स्वसृर् अपि । यद्-अर्थे जहिम दाशार्ह इति च व्यक्त-दुर्धर-श्री-कृष्णम् अहनभावानां व्रजं प्रत्यागते श्री-कृष्णे परपत्नीत्वस्य मिथ्यात्व-व्यक्तिं विना तस्य व्रजे परम-लज्जा प्रसज्जेत उक्तं च लज्जाशीलत्वं तस्य श्रीहरिवंशे—
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे तथात्मनि ॥ [ह।वं। २.९६.७२] इति ।
तस्मात् तल्लज्जानिवारणार्थम् अपि मायया स्व-गुप्ते रमणत्वं व्यञ्जनीयम् एव तच् च लोकवल्-लीला-कैवल्य-मये व्रजे लोक-रीत्यैव ना तु परीक्षित्-सभायाम् इव गोपीनां तत्-पतीनां च इत्य्-आदि-दर्शित-परमात्मत्वादि-रीत्या ।
किं च, श्लीलत्वाद् रस-विघात-कृत्-पारदार्यस्य खण्डन-पूर्वकं तत्रैवात्र च रमणत्वम् एव व्यञ्जयितव्यम् इति दिक् । यथाह श्री-गोपालोत्तर-तापिन्यां ताः प्रति दुर्वासाः—जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्यो\ऽयं यो\ऽसौ सौर्ये तिष्ठति, यो\ऽसौ गोषु तिष्ठति, यो\ऽसौ गोपान् पालयति, यो\ऽसौ गोपेषु तिष्ठति, यो\ऽसौ सर्वेषु वेदेषु तिष्ठति, यो\ऽसौ सर्वैर् वेदैर् गीयते, यो\ऽसौ सर्वेषु भूतेष्व् आविश्य भूतानि विदधाति, स वो हि स्वामी भवति [गो।ता।उ। २.२३] इति । सौर्य इति सौरी यमुना यद्-अदूर-भव-देश इत्य् अर्थः
अथ तत्-तद्-गद्यानन्तरम् अपि पाद्मोत्तर-खण्डे गद्यान्तरं, यथा कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवती विवेश [प।पु। ६.२७९.२८] इति निरामयं प्रापञ्चिक-दोषामिश्रं पुनर् विरह-दुःख-रहितं चेत्य् अर्थः । स्वपं स्वस्य श्री-गोपाल-रूपस्यैव नित्य-विहारास्पदम् इत्य् अर्थः । तद् वा, च सति जारत्वम् एव तस्मिन् न सिद्ध्यतीति श्री-शुक-देवेन सिद्धान्तितं गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य्-आदिना श्रीदत्तात्रेयेण परमार्थविवेकश्लाघागर्थं गुरुत्वेन मतया पिङ्गलया च आत्मना रमणेनैव रंस्ये अनेन यथा रमेति जारभावेन प्राप्तेरागन्तुकत्वेन दर्शितत्वात् दर्शयिष्यमाणत्वाच् च न पर्यवासितपुरुषार्थत्वं तस्माज्जारत्वेन प्रतीतम् अपि । मल्लक्षणं नराकृतिपरम-ब्रह्मैव रमणरूपं प्रापुरित्य् एवं जारतया पूर्वप्रतीतत्वमनूद्य रमणत्वं विधीयते प्रसिद्धं ह्यनूद्याप्रसिद्धं विधातव्यं विप्रो\ऽयं पण्डित इतिवत् जारत्वं खल्वेव प्रसिद्धम् इति न वैपरीत्यं घटते किं च, प्राप्ते हि शास्त्रमर्थवद् इति न्यायेन दध्ना जुहोतीत्य् आदौ दधि-पदवद् रमण्-अपद एव विधेयत्वं, न तु पूर्व-पूर्व-प्राप्ते ब्रह्मादि-जार-पर्यन्त इति इह च ब्रह्मेत्य् एवोक्ते श्रुत—निर्विशेष-ब्रह्म-वादानां भगवत्त्वं ।
भ्रम-विषयः स्याद् इति परमम् इत्य् उच्यते सिद्धे च भगवत्त्वे श्री-कृष्णरूपत्वं न व्यक्तीभवतीति माम् इत्य् उच्यते माम् इत्य् एवोक्तं च ब्रह्मत्वं भगवत्त्वं च प्रमाणान्तरसापेक्षं भवतीति तत्-तद्-उच्यते यदि रमणपदं नोच्येत तर्हि जारम् इत्य् एव विधेयतया प्रतीयेत यदि च जारपदं नोच्येत तर्हि पूर्वप्रतीतत्वाद्रमणपदेनापि जारत्वम् एव प्रतीयेतेति तन्निरासार्थं तव दर्शनात्
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् इति ।
मम भक्त-भावानुसारित्वात् सो\ऽयं भावश् च श्री-राधा-देव्या स्वयम् एव ह्य् एषां व्यक्तीकृतः—
अपि बत मधुपुर्याम् आर्य-पुत्रो\ऽधुनास्ते
स्मरति स पितृ-गेहान् सौम्य-बन्धूंश् च गोपान् ।
सकृद् अपि स कथां नः किङ्करीणां गृणीते
भुजम् अगुरु-सुगन्धं मूर्ध्नि धास्यत् कदा नु ॥ [भा।पु। १०.४७.२१]
इत्य् अनेन अत्र खलु पत्याव् एव कविभिः प्रयुक्तेर् आर्य-पुत्र इत्य् अनेन तदीयत्वम् एव स्वान्तर्-भावितं व्यज्य किङ्करीणाम् इत्य् अनेन परकीयतया तद् एव दैन्येनापि नादृढीकृत्य भुजमगुरुसुगन्धम् इत्य्-आदिना तेनापि तादृशत्वेन स्पष्टैव स्वस्मिन् गीकृतिः प्रार्थिता मया चेदं कर्तुमिष्टे गोपीनां मद्वियोगादिम् इत्य् आरभ्य बल्लव्यो मे मदात्मिका इत्य् अनेन तस्मात् रमणतयैव तासाम् अप्राप्तिः पर्यवसिता तदेवम् एवाभिप्रेत्य पत्युपपतिशब्दावदत्वा जाररमणशब्दाभ्यां तत्-तद्-योगिकार्थबलेन तथा तथा प्राप्तेर्निष्कर्षप्रकर्षौ व्यज्य रमणतया प्राप्तिर् एव पूर्तये योग्येति व्यञ्जितं व्याख्यातं च स्वामिभिः जार-बुद्धिवेद्यमपित्वेव ननु रमण-बुद्धिम् अपीति तासां क्रमेण तासां क्रमेण तथा तथा मत्प्राप्तौ मत्कृपैव हेतुरित्याह—अबला इति । ज्ञानक्रियाशक्तिहीनत्वात् मत्-कृपा-विषया इत्य् अर्थः । तद् एवं स्थिते\ऽपि विषय-प्रतिपत्तये विचार्यते रमणो\ऽत्र रति-जनको वक्तव्य इति चेत्, न, रति-जनकत्वं विना लौकिको\ऽपि जारो नाश्रीयते इति जार-पदेनैव तद्-अर्थताया लब्धेः किम् उत सर्वोत्तमनायकता-सूचकेन परमम् इति माम् इति च पदेन इत्य्-आदि-स्थायि-भावश् च न साक्षात् वाच्यः किन्तु भङ्ग्या व्यञ्जयितव्यः एवेति तु रसशास्त्राणां स्थितिः । क्रीडार्थत्वे\ऽपि क्रीडा च पूर्वहेतोर् एव लभ्यत इति तेनाप्यलं ननु सत्य् अपि केषुचित् पितिमन्यादिषु रमणपदमत्र
तत्सम्बन्धिदुःखनिवारकत्वं प्रति नेयम् इति चेत्कृष्टं कथं वा तासाम् अनुभवापलापः क्रियते । कृष्णेतरपतितत्सम्बन्धिमात्राणां सम्बन्ध-मात्रस्य ताभिः सुदुःसहत्वात् यथोक्तं—कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्य-प्रिये पति-सुतादिभिर् आर्तिदैः किम् [भा।पु। १०.२९.३३] इति तेष्व् अवस्थितेस्तु सुतरां यथोक्तं, नान्य-समक्षम् अञ्जः स्थातुं त्वयाभिरमिता बत पारयाम [भा।पु। १०.२९.३६] इति । किम् उत तत्-कृति निवारणादीना यथोक्तं अन्तर्-गृह-गताः काश्चित् [भा।पु। १०.२९.९] इत्य्-आदि । तद् एवं यौगिकी वृत्तिर् न घटते, गौण्या तु तत्-सदृशत्व-प्राप्तेर् जार इत्य् एव प्रतिपद्यतेति पौनरुक्तम् एवापद्येत, न च जार-पदं वा तद्-वृत्ति-द्वयं नेतव्यम् । यौगिक्याभिमतत्वात् गौण्यां तद्-गुण-योगाभिधानेन रमण-शब्दयोगेन च गुप्तत्वादिर् इति कपतेर् एव प्रतिपत्तव्यत्वेन जारता-प्रतिसिद्धेर् व्याघातात् श्री-भगवता तु तत्र तत्र तत्-तद्-विशेषणं दत्त्वा [यवस्थापितम्]{।मर्क्} एवेत्य् अलं स्वयं कुकल्पनायां दुराग्रहेण तस्माद् भिन्नावाचकत्वे\ऽपि सर्व-विशेषाश्रये तस्मिन् ब्रह्मणि सामानाधिकरण्यस्यावमन्तव्यत्वाद् एकस्य प्रातीतकत्वम् अन्यस्य वास्तवम् इत्य् एव मन्तव्यम् । तत्र न सम्भवात् न च कल्पिताकल्पितयोर् युगपद् आविर्भावो न स्यात् संज्ञाया आविर्भावेच्छायायाः स्थिति-श्रवणात् न चोपपत्त्यापगमे निवारणाद्यभावेन रागवृद्धिर्न स्यात् यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्यांघ्रियुगं नवं नवम् इति वचनस्य तासु सर्वोर्ध्वप्रेमवतीषु कैमुत्योपपत्तेः न च यत्र मिथो दुर्लभता यत्र प्रच्छन्नकामुकत्वं यत्र च निवारणास्यादेषा तु नो रतिः परा ज्ञेयेति रसशास्त्रानुसारेणोपपत्त्य एव रतेरुत्कर्षः रत्नावती नाटिका ययातिचरितवद्दाम्पत्ये\ऽपि तत्सम्भावात् नेष्टा यदङ्गिनि रसे कविभिः परोढेत्य् आदौ परोढानङ्गीकाराच् च लज्जालुत्वाद्बहुप्रेयसीत्वाच्छ्रीव्रजराजनन्दनेन तु मुहुर्दुर्लभतादिकम् अपि सम्भवतीति किमनिष्टप्रसङ्गेन या दुस्त्यजं स्वजनमार्यपथं च हित्वा इत्य्-आदिदर्शितं तदुल्लङ्घनं तु तासाम् उत्कण्ठात्मक-प्रेम-बलस्य प्रकाशकम् एव ।
ननु तत्-कृत-निवारणतया तस्य जनकं न हि महादुर्गत्रोटनं महाहस्तिनो बलजनकं किन्तु तत्प्रकाशकम् एवेति किं च, परकीयत्वे सति तदनुवादश् च कार्य इति तथोक्तं तस्माद्रमणतया प्राप्तावेव वक्तुर्मम विवक्षित पर्यवसानम् इति भावः । तदेतदेवं तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताइत्यवष्टम्भेन या मया क्रीडिता रात्र्याम् इत्य् अत्र ज्ञापितम् अप्य्-अर्थत्वेन तस्या हेयत्व-व्यक्तेः जिघांसयापि हरये स्तनं दत्त्वाप तद्-गतिम् इतिवत् अपिशब्दस्य खलु स्वभावो\ऽयं यन्नद्यवाचक-सान्निध्ये निन्द्यस्य हेयत्वं स्तुत्यवाचक-सान्निध्ये स्तुत्यस्योपादेयकत्वं गमयति पलाण्डुम् अपि सिञ्चति तुलसीम् अपि सिञ्चतीतिवत् न च भर्तुबुद्धिर् अपि तादृशी
या सम्पर्यचरत् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥
इत्य् अत्र स्तुतत्वात् न च चासाम् अहो चरणेत्य् आदौ जारभावो\ऽपि स्तुतः अपि तु राग एव स एव जारतया एव तं स्वीकारितवानिति इतस्यैव चमत्कार-कारित्वात् न चैताः परम् इत्य् आदौ मुमुक्षु-मुक्त-भक्तानाम् उद्धवोक्तानां परदारा भूत्वा जारतया तं भजामेति तात्पर्यम् । किन्तु तादृशनिरर्गलमहाप्रेम दृष्ट्वा तत्कृपामाशासानानां तच्छविम् एव ते प्रार्थयन्ते ततो यद्य् अपि यथा भीष्ममुदारं दर्शनीयं कटं करोतीत्य् आदौ कृतक्रियाया विशेषणानि चान्वयन्ते तथात्र प्राप्तिक्रिययापि कटं करोति तच् च भीष्मम् इत्य्-आदि ब्रह्म प्रापुस्तच्च परम् इत्य्-आदिरीत्या तथापि रमणत्वेन प्राप्तिरेवात्र विधेया जारमुखरूपविद इत्युक्त्वा तन्-नित्यप्रेयसीत्वात्तासां तच् च श्रीमत्साक्षतारादौ व्यक्तम्—
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥
इति तन्मत्रस्य तन्नामव्याख्यातृगौतमीयात् अनेकजन्मसिद्धत्वम् अत्र बहूनि मे व्यतीतानि जन्मानि तव चार्जुन इतिवत् एव-शब्दः प्रकट-लीला-गत-जारत्व[किम्बवन्ती]{।मर्क्}निरासार्थः वाशब्दश् च पूर्वोक्तब्रह्मत्वेश्वरत्वमयव्याख्याद्वयस्यानादरापेक्षया न च ताभिः परकीयतया प्रसिद्धाभिस् तस्य रमणतया प्राप्तिर्व्रजे कथं घटतेति वाच्यं यया लीलाशक्त्या\ऽन्यथा प्रत्यापितं तया यथावत् प्रत्यापयितुं कथम् इव न शक्येत न च तासां श्री-कृष्ण एव पर्यवसितत्वे तत्पतिं मन्यादीनामसूया स्यात् नासूयन् खलु कृष्णाय इत्य्-आद्य्-उक्तानुसारेण मायया स्वकल्पितानां तत्प्रतिरूपाणामर्पणेन समाधानानन्तरं च प्रकाशान्तरेण यदुभिर्मिलित्वेति शेषः ।
वृतश् च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् इत्युक्तत्वात् श्री-कृष्णागमनं प्रतीक्ष्य तेषां बहिर् एव स्थितत्वात् तच् च मासद्वयविलम्बे\ऽपि । जाते नाशङ्काकरं विदूरवर्तीत्वात् तस्यैव योगमायया मुहूर्तवद्भानसम्भवात् एकस्मिन्नपि याते\ऽब्दे इत्य् अत्र क्षणार्धे मेनिरे\ऽर्भका इतिवत् पश्चाद् एव तद्विशेषज्ञानं श्रीदारुकमुखादित्यवगन्तव्यम् तस्मादिदम् अपि व्यस्थितम् एवं श्रीगोकुलवासिनामप्रकट-लीलाप्रवेशस्य सिद्धत्वाद् एव श्री-रामस्य यमुनाम् अनु तीर्थ-कृतौ तथा प्रथम-स्कन्ध-वर्णिते भारत-युद्धानन्तरं श्री-भगवतो हस्तिनापुराद् द्वारका-गमने रास-पञ्चाध्यायां श्रीमद्-उद्धव-सन्देशे च तत्-तद्-व्याख्यानं मेलयित्वा द्रष्टव्यम् ॥१३-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.१६ ॥
एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः ।
ईयते पशु-दृष्टीनां निर्जितो जयतीति सः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं श्री-कृष्णो महा-बलान् अपि लीलया जयत्येवेति कृत्वा स कदाचिज् जरासन्धादिभिर् निर्जित इति पशु-दृष्टीनाम् ईयते । नित्य-जये हेतवः, योगेश्वरो भगवान् जगद्-ईश्वर इति ।
विदूरथान्तम् आमथ्य पूतनादि दनोः कुलम् ।
कृष्णस् तूपामन्नाराद् रामोऽहन् सूत-बल्वलौ ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महाबलानतिबलान् । स कृष्णः । पशुदृष्टीनां तन्माहात्म्यमविदुषाम् । योगेश्वरः अचिन्त्यवैभवः । अत्र हेतुर्भगवान् इति । तत्रापि हेतुर्जगदीश्वरः सर्वेश्वर इति ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थं विजयम् उक्त्वा लोक-रीत्या कदाचित् कथञ्चित् पराजयम् अपि सम्भाव्य तं परिहरति एवम् इति । इतीति जये सति कदाचित् पराजयोऽपि सम्भवेद् इति कृत्वेत्य् अर्थः । तच् चान्येष्व् एव सम्भवेत्, न तु भगवतीत्य् आह—पशु-दृष्टीनां निर्बुद्धीनाम् एव ईयते । तैर् एव प्रतीयते । न त्व् अन्यैर् इति पराजयो मिथ्यैवेत्य् अर्थः । यतो योगस्याचिन्त्य-शक्तेर् ईश्वरः स्वामी । तत्र हेतुः—भगवान् सर्वैश्वर्यादि-युक्त इति । तत्रापि हेतुः—जगदीश्वर इति । एवं सर्वोत्कृष्टत्वात् सर्व-चित्ताकर्षक-माहात्म्य-विशेषाद् वा कृष्णः । यद् वा, तत्रापिनिजाशेष-भगवत्ता-प्रकटनार्थं कृष्ण-संज्ञयावतीर्ण इति । एवं निर्जिताशेष-शत्रुर् युद्धाद् उपरतो गोकुले गत्वा मास-द्वयं सत्य-प्रतिज्ञो दीन-वत्सलो रसिक-शेखरोऽसौ रेम इति पाद्मोत्तर-खण्डोक्तानुसारेण ज्ञेयम् । तथा च तत्र—
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२५२.१९-२७] इत्य्-आदि ।
यच् च तत्र गद्यम्— अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुः [प।पु। ६.२५२.२८-२९] इति ।
तत् तु राज-सूयात् पश्चात् श्री-युधिष्ठिर-दुर्योधन-द्यूताच् च प्राग्-वृत्तायाः कुरुक्षेत्र-यात्राया अनन्तरं ज्ञेयम् । तत्र तेषां सर्वेषाम् एव समागमस्य वक्ष्यमाणत्वात् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्थं सर्व-विजयम् उक्त्वा लोक-रीत्या कदाचित् पराजयोऽपि जात इति सम्भावयतो निन्दति—एवम् इति । इतीति जये सति कदाचित् पराजयोऽपि स्याद् इति विचिन्त्येत्य् अर्थः । तच् चान्येष्व् एव सम्भवेत्, न तु भगवतीत्य् आह—पशु-दृष्टीनां निर्बुद्धीनाम् एव ईयते, तैर् एव प्रतीयते न त्व् अन्यैर् इति पराजयस् तु कल्पनयैवेत्य् अर्थः । यतो योगस्याचिन्त्य-शक्तेर् ईश्वरः स्वामी । तत्र हेतुः—भगवान् सर्वैश्वर्यादि-युक्त इति । तत्र च लिङ्गं जगतः सर्वस्यैवेश्वर इति ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पशु-दृष्टयो बहिर्-मुखा दुर्योधनादयस् तु तद् अपि न चमत्कारं प्राप्नुवन्तीत्य् आह पशु-दृष्टीनां पशु-दृष्टिभिस् तु जनैर् अयं मथुरा-त्याजन-पूर्वकं जरासन्धादि-निर्जित एव द्वित्रान् वारान् जयतीति ईयते प्रतीयते अत्र दन्तवक्र-वध-प्रसङ्गे पाद्मोत्तर-खण्डे विशेषो दृश्यते । तथा हि तदीय-गद्यानि—
अथ शिशुपालं निहतं श्रुत्वा दन्तवक्रः कृष्णेन योद्धुं मथुराम् आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम् आययौ । दन्तवक्त्र-वासुदेवयोर् अहोरात्रं मथुरा-पुर-द्वारि यमुना-तीरे सङ्ग्रामः समवर्तत कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो वज्र-निर्भिन्न-महीधर इव गतासुर् अवनि-तले पपात । सो\ऽपि हरेः सायुज्यं योगि-गम्यं नित्यानन्दसुखं शाश्वतं परमं पदम् अवाप । इत्थं जय-विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य जन्म-त्रयेऽपि तेनैव निहतौ जन्म-त्रयावसाने मुक्तिम् अवाप्तौ । इति ।
कृष्णस् तु तच् छ्रुत्वेति मनोजवस्य नारदस्यैव मुखाद् अत एव शाल्व-वधानन्तरं द्वारकाम् अप्रविश्यैव मनोजवेन रथेन तत्-क्षण एव मथुरान्तिके तं ददर्श, अत एवाद्यापि मथुराया द्वारका-दिग्-द्वारि दन्तवक्रहेति संस्कृतानुगत-लोक-भाषया दतिहा इति नाम्ना ख्यातो वज्रेण वासितो ग्रामो वर्तते । अत्र पाद्मे तद्-अनन्तरम् अपि गद्यं पद्यं च—
कृष्णो\ऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ पितराव् अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्याश्वास्य रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास ।
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [प।पु। ६.२५२.१९-२७]
अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो द्वारवतीं विवेश ॥ [प।पु। ६.२५२.२८-२९] इति ।
अत्र भागवतामृते कारिकाभिर् एव व्याख्या, यथा—
यद् उत्तीर्येत्य् उत्तरणं तद्-आप्लवनम् उच्यते ।
दुष्टं हत्वा व्रजे यानं स्नान-पूर्वम् इहोचितम् ॥
अतः प्रकट-लीलायाम् अप्य् अयोगोऽल्प एव हि ।
इति धाम-त्रये कृष्णो विहरत्य् एव सर्वदा ॥
व्रजागमन-काले च पाद्मोक्तेऽन्यच् च वर्तते ॥ [ल।भा। १.५.४८४-६]
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् ।
कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥
प्रेष्ठेभ्योऽपि प्रियतमैर् जनैर् गोकुल-वासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥ [ल।भा। १.५.४८८-९] इति ।
अत्र नन्द-गोपादय पुत्र-दार-सहिता इति नन्दगोपादीनां पुत्राः कृष्ण-श्रीदाम-सुबलादय एव दाराश् च श्री-यशोदा-कीर्तिदादय एव । सर्वे जना इति व्रज-मण्डलस्थाः सर्वे एवेत्य् अतः परमं वैकुण्ठं गोलोकम् एव ययुः । दिव्य-रूप-धरा इति । गोलोके देव-लीलत्वम् एव, न तु गोकुल इव नर-लीलात्वं तेषाम् इति विशेषो ज्ञेयः । तस्माद् रामावतारेऽयोध्या-वासिनां स-शरीराणाम् एव यथा वैकुण्ठ-प्रापणं तथैवात्रावतारेऽपि व्रज-स्थानाम् एतच् च द्वारकातः कृष्णस्य व्रजागमनं श्री-भागवत-संमतम् अपि मन्यते ।
यर्ह्य् अम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्-दिदृक्षया [भा।पु। १.११.९] इति प्रथम-स्कन्धोक्तेः ।
सुहृद्-दिदृक्षा कृष्णस्य बलदेव-व्रजागमन-समयत एवासीत्, किन्तु तत्रत्य-माता-पित्रादि-गुरु-जनासंमतिर् एव तत्र प्रतिबन्धिका आसीत् । सा च प्राग्-विवृता कारिकाभ्याम् ।
इदानीं तु शाल्व-वधान्ते नारद-मुखाद् एकाकिनं दन्तवक्रम् आयातं श्रुत्वा द्वारकाम् अप्रविश्य तं हन्तुम् एकाकितयैव तत्र गमने न कापि कस्यचिद् विप्रतिपत्तिः । दन्तवक्रं हत्वा तु अयम् अवसरो व्रजस्थ-बन्धु-वर्ग-मिलने इति विमृश्य गायन्ति ते विशद-कर्म इत्य् अत्र गोप्यश् चेत्य् उद्धव-सङ्केतं च स्मृत्वा व्रजम् आगत्य स्व-विरहं निर्वाप्य कंस-वधान्ते विवृतं व्रज-स्थानां प्रकाश-द्वयम् एक-धर्म्याद् एकीकृत्य मास-द्वयं पूर्ववत् प्रकटं विहृत्य व्रज-स्थ-लीलां प्रापञ्चिक-लोक-चक्षुर्भ्यस् तिरोधाप कृष्णः पित्रादि-बन्धु-वर्ग-सहितो वैकुण्ठं गच्छतीति स्वर्ग-स्थादि-लोक-दृश्यः सन्न् एकेन पूर्ण-कल्प-प्रकाशेन गोलोकं जगाम । अन्येन पूर्णतम-प्रकाशेन प्रापञ्चिक-लोकादृश्यो व्रज एव नित्यं विजहार । अन्येन पूर्ण-प्रकाशेन रथारूढ एकाकी द्वारकां जगाम । सौरसेनिक-लोकास् तु कृष्णो दन्तवक्रं हत्वा व्रजस्थैः पित्रादिभिर् मिलित्वा द्वारकाम् असौ गच्छति । व्रजस्थाः सर्वे तु अकस्मात् क्व गता इत्य् अजानन्तो महा-विस्मयम् अवापुः । किं च, व्रजस्थान् गोपान् स-शरीरान् एव वैकुण्ठं प्राणयामास यः स एव कृष्णो द्वारका-स्थान् यदून् कथं मौसल-लीलया तादृशीं दुरवस्थां प्रापयामासेति विचिन्त्य परीक्षिद् अयं दुर्मनायिष्यते यदुष्व् एवास्य स्वीयाभिमानाद् इति विमृश्य श्री-शुकदेवः पाद्मोत्तर-खण्डोक्ताम् एतां लीलां तं न श्रावयामासेति तत्त्वं ज्ञेयम् । किं तु, एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः इत्य् अत्र इति पदार्थस्य विवेशति क्रियान्व् इति कृतस्यान्यथानुपपत्तिं प्रमाणीकृत्य किञ्चित् तद्-अलक्षितं द्योतयामासेत्य् अपि ज्ञेयम् । किं च, व्रज-स्थली-लोप-संहारः प्रकारान्तरेण क्वापि अदृष्टत्वात् तत्रायम् एव प्रकारः सर्वैर् अपि प्रमाणीकर्तव्य एव । अत्र वैष्णव-तोषण्यां दृष्टो लीला-क्रमस् त्व् अयं प्रथमं सूर्योपराग-यात्रा, ततो राजसूय-सभा, ततो द्यूतं, ततः पाण्डवानां वन-गमनं, तदैव शाल्व-दन्तवक्र-वध-व्रजागमन-व्रज-लीलोपसंहाराः ॥१६॥
॥ १०.७८.१७ ॥
श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।
तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत् प्रसङ्गम् आह—श्रुत्वेति ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आमथ्य विनाश्य । पूतनादिर्यस्य तत् । दनोर्दैत्यस्य मारणं मारो दैत्यनाशनं तस्मात् कथान्तरम् आह—श्रुत्वेति । मध्यस्थ उदासीनः सन् ॥१७-१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कृष्णस्य विक्रमं युद्धाद् उपरामं चोद्दिश्य श्री-बलदेवस्यापि तं तं वक्तुं तत्-प्रसङ्गम् आरभते श्रुत्वेत्य् आदिना यावन् निरन्तराद्याय-समाप्तिः । एतच् च वक्ष्यमाणायाः कुरुक्षेत्र-यात्रायाः पश्चाद् एव बोद्धव्यम् । तस्यां श्री-रामस्यापि गमनात् । तच् च सर्वम् अग्रे तत्रैव व्यक्तं भावि । सर्वान् एव रमयतीति राम इति । कुरूणां पाण्डवानां च स्वस्मिन् रति-रक्षार्थम् इति भावः । अतो मध्यस्थ उभयेष्व् अपि पक्षपात-रहितः सन्न् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मध्यस्थ उभय-पक्षाग्राही सन् श्री-कृष्णस्यैव लीला-कौतुक-समीहितं खल्व् इदं प्रययौ श्री-द्वारकातः प्रतस् थे ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
विदूरथास् तान् असतो हत्वास्त्र-न्यासम् आचरत् ।
हरिर् बलस् तु पुनर् अप्य् अवधीत् सूत-शल्वलौ ॥
श्रुत्वेति मम दुर्योधनः प्रियो युधिष्ठिरोऽपि उभयोर् अपि निमन्त्रणे आयास्यति कस्य पक्षे स्याम् इति विमृश्य तीर्थ-स्नान-मिषेण प्रययौ ॥१७॥
॥ १०.७८.१८ ॥
स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् ।
सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रति-स्रोतं प्रति-लोमम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यग् यथाविधि भक्त्या तर्पयित्वा देवादीनां यथापूर्वं श्रेष्ठतया तत्क्रमेणैव तर्पणात्तथैव निर्देशः । ब्राह्मणाः पुरोहितादयः, तैः सम्यग् वृतो वेष्टितः ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यग् यथा-विधि भक्त्या तर्पयित्वा देवादीनां यथा-पूर्वं श्रेष्ठतया तत्-क्रमेणैव तर्पणात् तथैव निर्देशः । ब्राह्मणाः पुरोहितादयः । तैः सम्यग् वृतो वेष्टितः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सरस्वतीं प्रतिस्रोतां प्रतिलोम-स्रोतस्वतीम् ॥१८॥
॥ १०.७८.१९-२० ॥
पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् ।
विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम् ॥
यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत ।
जगाम नैमिषं यत्र ऋषयः सत्रम् आसते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुदर्शनं तीर्थम् । चक्रं चक्र-तीर्थम् । यमुनाम् अनु यानि तीर्थानि गङ्गाम् अनु च यानि तानि सर्वाणि गत्वा नैमिषम् अरण्यं जगाम् ॥१९-२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राचीति महत्फलश्रवणात्
नूनं प्राचीन-पापानि मेरु-तुल्यानि भारत ।
सद्यो दहति निस्नाता प्रातः प्राची सरस्वती ॥ इति पुराणात् ॥१९॥
यत्र नैमिषे । आसते कुर्वन्ति । कृञर्थस्य सर्वधातुष्वनुस्यूतत्वात् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पृथूदर्कं कुरुक्षेत्रवर्ति, यत्र वैश्येनाश्वमेधानां शतं विहितम्, बन्दुसरः कर्दमाश्रमं गुर्जरदेशीयसिद्धपुरवर्ति त्रितकूं त्रितो नाम एकद्वितयोर् भ्रता, स तु स्वं वञ्चयित्वा भ्रात्रोर्गोव्रजं नयतोः सतोरग्रवर्ती यत्र कूपे वृकभयात् पतितस् तत्रैव च सौभेन देवानिष्ट्वा तत उत्थितश् च । स तु सरस्वतीतीरवर्तीं कूपस्त्रितकूपः । विशालाम् अवन्तीम्, सरस्वतीं तीर्थ-विशेषं वा, विशालम् इति पाठे ते तत्रत्यामरतीर्थविशेषम्, ब्रह्मतीर्थं कन्यातीर्थसोमतीर्थयोर्मध्यवर्ति तथा चारण्यकपर्वणि कल्पतीर्थानन्तरम्—
ततो गच्छेन्नरव्याघ्र ब्रह्मणस्तीर्थमुत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्रह्मण्यं लभते नरः ॥
ततस् तु सोमतीर्थं च कथितम् ।इति ॥
चक्रं चक्रतीर्थम्, प्राची सरस्वतीं ययाविति पूर्वेणान्वयः । एवं मार्गानुसारेण कदाचिद् गमनक्रमेण कदाचिन्माहात्म्यापेक्षयः । वर्त्मत्यागेनोत्क्रमेण च तत्र तत्र गमनं ज्ञेयम् । किं च, एतानि तीर्थानि कृतानीति तात्पर्यम्, न तु क्रमो\ऽत्र विवक्षितः ॥१९॥
हे भारतेति शीघ्रसर्वतीर्थगमनेन विस्मयात्। निमिषे भाविप्रयोजनानन्तरायाताद्वा ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पृथूदकं कुरुक्षेत्र-वर्ति, यत्र वैश्येनाश्वमेधानां शतं विहितम् । बिन्दुसरः कर्दमाश्रमं गुर्जर-देशीय-सिद्ध-पुरवर्ति, त्रितकूपं त्रेतो नाम एकद्वितयोर् भ्राता, स तु स्वं वञ्चयित्वा भ्रात्रोर् गोव्रजं नयतोः सतोर् अग्रवर्ती यत्र कूपे वृक-भयात् पतितस् तत्रैव च सोमेन देवान् इष्ट्वा तत उत्थितश् च । स तु सर्वस्वती-तीरवर्ती कूपस् त्रितकूपः । विशालाम् अवन्तीम् । सरस्वतीं तीर्थ-विशेषं वा । विशालम् इति पाठे तु तत्रत्यामर-तीर्थ-विशेषम् । ब्रह्म-तीर्थं कन्या-तीर्थ-सोम-तीर्थयोर् मध्यवर्ति तथा चारण्यक-पर्वणि कल्प-तीर्थानन्तरम् ।
ततो गच्छेन् नर-व्याघ्र ब्रह्मणस् तीर्थम् उत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।
ततस् तु सोम-तीर्थं च कथितम् इति ।
चक्रं चक्र-तीर्थम् । प्राचीं सरस्वतीं ययाव् इति पूर्वेणान्वयः । एवं मार्गानुसारेण कदाचिद् गमन-क्रमेण कदाचिन् माहात्म्यापेक्षया वर्त्म-त्यागेनोत्क्रमेण च तत्र तत्र गमनं ज्ञेयम् । किं च, एतानि तीर्थानि कृतानीति तात्पर्यम् । न तु क्रमोऽत्र विवक्षितः ॥१९॥ हे भारतेति शीघ्र-सर्व-तीर्थ-गमनेन विस्मयात् । नैमिषे भावि-प्रयोजनानन्तरायाताद् वा ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चक्रं चक्र-तीर्थं यमुनाम् अनुलक्षीकृत्य यानि तीर्थानि तानि गत्वेत्य् अर्थः ॥१९-२०॥
॥ १०.७८.२१-२२ ॥
तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः ।
अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन् ॥
सोऽर्चितः स-परीवारः कृतासन-परिग्रहः ।
रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अभिप्रेत्य श्री-राम इति ज्ञात्वा । महर्षेर् व्यासस्य ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं रामम् ॥२१॥ सः रामः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदावुत्थाय, ततः प्रणम्य, स्वागतादिनाभिनन्ड च, यथान्यायमार्चयन् पूजयामासुरित्य् एवम् अत्र क्रमो द्रष्टव्यः । महर्षेः शिष्यम् इति विजयादियोग्यत्वं तथा रोमाणि श्रोतृणां भगवत्कथया हर्षयतीति तथा तम् इति परम-भागवतत्वं च सूचितम् । तथाप्यासीनम् इति महापराधश् च ॥२१-२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदाव् उत्थाय । ततः प्रणम्य । स्वागतादिनाभिनन्द्य च, यथान्यायम् आर्चयन् पूजयामासुर् इत्य् एवम् अत्र क्रमो द्रष्टव्यः । महर्षेः शिष्यम् इति विनयादि-योग्यत्वं तथा रोमाणि श्रोतॄणां भगवत्-करथ्या हर्षयतीति तथा तम् इति परम-भागवतत्वं च सूचितम् । तथाप्य् आसीनम् इति महारराधश् च ॥२१-२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महर्षेर् व्यासस्य ॥२२॥
॥ १०.७८.२३-२४ ॥
अप्रत्युत्थायिनं सूतम् अकृत-प्रह्वणाञ्जलिम् ।
अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः ॥
यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः ।
धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सूतं प्रतिलोम-जम् । न कृतं प्रह्वणम् अञ्जलिश् च येन तम् । अध्यासीनं च तान् । तेभ्योऽप्य् उच्चैर् आसीनम् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रह्वणं नमनम् । इत्य् अर्थ इति—अधिपूर्वाणां शीङ् स्थासाम् इति कर्मत्वं तानिति ज्ञेयम् ॥२३॥
तस्याग्निकुण्डोद्भूतत्वेन जातिसूतत्वाभावे\ऽपि चरुनिक्षेपवैपरीत्यात्प्रतिलोमज इत्युक्तिः । अन्यः कश्चित्प्रतिलोमजो विप्रान्माध्यास्तादध्यास्ते चेत्तर्हि अस्माभिः स वध्य एव, नाधर्मिणां वधे दोष इत्युक्तेः । अस्मानिति बहुत्वं तु भगवदत्ताधिकारमत्तुल्यनृपधर्मादिभिः स वध्य एवेति बोधयति । अन्यथा—विप्रो वक्ता सुधीः कार्यो विशुद्धोभयवंशजः इतिहासपुराणानां विप्रान्यो धर्महानिकृत् ॥ इति संहितोक्तिरसमञ्जसा स्यात् । किं च-नायं जातिसूत इति ज्ञात्वा निवृत्तो\ऽपि भगवति भावित्वात्तद्वधो जातो\ऽत एव तस्य प्रायश्चित्ते प्रवृत्तिर् इति ॥२४-२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत् उच्चासनोपविष्टत्वादुच्चैर् ऊर्ध्वदृष्ट्या वीक्ष्य साक्षादृष्ट्वा, माधव इति ब्रह्मण्यत्वादिसद्धर्म-प्रवर्तनार्थः । इमान् यज्ञपारान्, तथआ समुच्चये, एव अपि, धर्मपालानप्यस्मांश् च कर्माद्धेतोर्दुर्मतिरसावध्यास्ते, अपि तु न कर्माच्चिदप्यन्यस्मात्, केवलं दुष्टबुद्धित्वाद् एवेत्य् अर्थः । अस्माद् इति पाठे पाठान्तरे तथा तेन दीर्घसत्रादिनोक्तप्रकारेण धर्मपालानपि विप्रान्। अस्मत्- अस्मत्-तः सकाशात् ॥२३-२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उत् उच्चासनोपविष्टत्वाद् उच्चैर् ऊर्ध्व-दृष्ट्या वीक्ष्य साक्षाद् दृष्ट्वा । माधव इति ब्रह्मण्यत्वादि-सद्-धर्म-प्रवर्तनार्थः । इमान् यज्ञ-पारान्, तथा समुच्चये । एव अपि । धर्म-पालान् अप्य् अस्मांश् च कस्माद् धेतोर् दुर्मतिर् असाव् अध्यास्ते, अपि तु न कस्माच्चिद् अप्य् अन्यस्मात् । केवलं दुष्ट-बुद्धित्वाद् एवेत्य् अर्थः । अस्मद् इति पाठे पाठान्तरे तथा तेन दीर्घ-सत्रादिनोक्त-प्रकारेण धर्म-पालान् अपि विप्रान् । अस्मत्- अस्मत्-तः सकाशात् ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : निशम्य विप्रियम् इत्य्-आदि । अमानुषीं प्रकृतिं गतः आकृतिर् एव तस्य मानुषी मनुष्यसदृशी न प्रकृतिरित्य् अर्थः । विमनस्कः विशिष्टमनाः स्नेहादपि स्नेहेनापि अघृणी स्थिरः यतः अप्राकृतः एवं सन् यथा यथावत् बभाषे ॥२३॥
तत्किम् इत्य् आह—कथम् इत्य्-आदि । एवंभूतं रामं जित्वा कथम् अल्पीयसा क्षुद्रेण शाल्वेन बलवान् मे पिता आनीतः कीदृशः पिता विधिः सर्व-भावेन समर्थः तद् इदं मृषैवेति सार्वज्ञ्य-प्रकटनम् ॥२४-२५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तान् विप्रान् अप्य् अधि तेभ्यो विप्रेभ्य सकाशाद् अप्य् अधिके उच्चे आसने आसीनं कथकत्वाद् इति भावः ॥२३॥ अस्मान् अपि अध्यास्ते अतिक्रम्योच्चासने आस्ते उपविष्ट एव, न तूत्तिष्ठति ॥२४॥
॥ १०.७८.२५ ॥
ऋषेर् भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।
सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अजानन्न् अध्यास्त इति चेन् नैवम् इत्य् आह—ऋषेर् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): भगवत इति श्री-भगवदवतारत्वात्, बहूनि इतिहासादि-सहितानि धर्मशात्राणि स्मृत्यादीनि सर्वशः सर्वथा सम्पूर्णत्वादिनाधीत्य च। इतिहासो महाभारतम् ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवत इति श्री-भगवद्-अवतारत्वात्, बहूनीतिहासादि-सहितानि धर्म-शास्त्राणि स्मृत्य्-आदीनि सर्वशः सर्वथा सम्पूर्णत्वादिनाधीत्य च । इतिहासो महाभारतम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अज्ञात्वैवास्ते इति चेन् न, ऋषेर् इति ॥२५॥
॥ १०.७८.२६॥
अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः ।
न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु बहु-ज्ञः कथम् एवं कुर्यात् तत्राह—अदान्तस्येति । गुणाय यथोचितानुष्ठानाय ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अत्राशङ्कते-नन्विति । एवं महदवज्ञानम् । यथा नटशिक्षितप्राणायामादिर्न मोक्षाय तथा\ऽविनीतस्य शास्त्राभ्यासादिर् अपि न श्रेयसे इति ।
विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोर् विपरीतम् एतज्-ज्ञानाय दानाय च रक्षणाय ॥ इत्य्-आद्य्-उक्तेः ॥२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गुणाय न भवन्ति शास्त्राणि कुतः? अजितात्मनो\ऽस्थिर-चित्तस्य, अतो\ऽदान्तस्यासंयतेन्द्रियस्य, अत एव वृथा पण्डिताभिमानिनो दुष्ट-स्वभावस्य जनस्य । किं वा, वेदाद्यध्ययनानन्तरं दुःसङ्गादि-दोषाद् अदान्तादेः स्वतः शास्त्राण्य् अधीतान्य् अपि न फलाय तल्पन्ते, किन्तु केवलं दुरभिमानायैव भवन्तीत्य् अर्थः । तत्र दृष्टान्तः नटस्येवेति। यथा नृत्यादि-कौशलार्थं नटेनाधीतानि शास्त्राणि पुणाय भवन्ति, केवलं वृत्त्याद्य्-अर्थम् एव । यद् वा, नटेन गृहीतो\ऽपि विप्रादि-वेषो यथा तत्-फलाय न कल्पते, तद्वद् इत्य् अर्थः । पक्षान्तरे खद्योतान्य् अपि शास्त्राणि नट-सङ्गान् नटस्य सतो यथेति । स्म प्रसिद्धौ निश्चये वा । अन्यत् तैर् व्याख्यातम् । यद् वा, गुणाय उपशमादि-फलाय । अन्यत् समानम् ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गुणाय न भवन्ति शास्त्राणि । कुतः ? अजितात्मनोऽस्थिर-चित्तस्य । अतोऽदान्तस्यासंयतेन्द्रियस्य । अत एव वृथा पण्डिताभिमानिनो दुष्ट-स्वभावस्य । अतएव वृथा पण्डिताभिमानिनो दुष्ट-स्वभावस्य जनस्य ॥ किं वा, वेदाद्य्-अध्ययनानन्तरं दुःसङ्गादि-दोषाद् अदान्तादेः स्वतः शास्त्राण्य् अधीतान्य् अपि न फलाय कल्पन्ते, किन्तु केवलं दुरभिमानायैव भवन्तीत्य् अर्थः । तत्र दृष्टान्तः – नटस्येवेति । यथा नृत्यादि-कौशलार्थं नटेनाधीतानि शास्त्राणि गुणाय न भवन्ति, केवलं वृत्त्य्-आद्य्-अर्थम् एव । यद् वा,।नटेन गृहीतोऽपि विप्रादि-वेषो यथा तत्-फलाय न कल्पते तद्वद् इत्य् अर्थः । पक्षान्तरे चाधीतान्य् अपि शास्त्राणि नट-सङ्गान् नटस्य सतो यथेति । स्म प्रसिद्धौ निश्चये वा । अन्यत् तैर् व्याख्यातम् । यद् वा, गुणाय उपशमादि-फलाय । अन्यत् समानम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एष ते जनितेत्यादि सरस्वती वक्ति । एष वसुदेवः ते तव अजनिता अतः अजनितायाम् अपि अजत्वे\ऽपि जातः तातत्वे स्वीकृतः वस्तुतस्तव जनिर् एव नास्ति कुतस्तातसम्भावना यद्-अर्थं यस्य वसुदेवपूर्वपूर्वजन्मकृतस्य निमित्तं जीवसि जीव इवाचस्य जातवत्प्रतीयसे आचारार्थे क्विपि कृते तल्लोपात् सिद्धम् । ईक्षतो वीक्षमाणस्य तव पुरतो\ऽमुंवधिष्ये पाहि रक्ष चेत् यतस् त्वम् ईशःबालिश! केशिनाशन! बालाः केशाः सन्त्यस्येति बाली केशी तं श्यतीति कः ॥२६-२७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न गुणाय शास्त्राणि नोपशर्मादि-हलाय ॥२६॥
॥ १०.७८.२७ ॥
एतद्-अर्थो हि लोकेऽस्मिन्न् अवतारो मया कृतः ।
वध्या मे धर्म-ध्वजिनस् ते हि पातकिनोऽधिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विप्रान् अध्यास्ताम् अन्यद् वा किञ्चित् करोतु किं तवेति चेत् तत्राह—एतद् अर्थ इति । धर्म-ध्वजिन उत्तम-लिङ्ग-धारिणः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु शुभा\ऽशुभफलभोक्तृत्वं कर्तुर्भवति किं तव शासने प्रयोजनम् इत्य् आह—विप्रानध्यास्ताम् इत्य्-आदिना । उत्तमलिङ्गधारिणो नीचा भूत्वोत्तमजातिचिह्नधारिणः । हि यतः । ते धर्मध्वजिनः । अधिका ब्रह्महत्यादिमहापातकिभ्यो\ऽधिकपापिनः सर्वेश्वराज्ञारूपवेदातिक्रमकारित्वात् ।
नैतस्मादधिकं पापमहं मन्ये नराधिप ।
यद्वेदातिक्रमो लोके विनापदमकारयत् ॥ इत्य्-आदिपुराणात् ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव, एतद्-अर्थ एव, अस्मिन् मत्र्ये\ऽवतारः श्री-वैकुण्ठादवतरणम् । एतच्छब्दार्थम् एवाह—वध्या इति । हि यतः अन्यतैयाख्यातम् । तत्रोत्तमलिङ्गधारिण इति अधमा अपि ये उत्तमानां लिङ्गानि धारयन्तीत्य् अर्थः । अथवा धर्मध्वजिनो दाम्भिकाः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एव । एतद्-अर्थ एव । अस्मिन् मर्त्योऽवतारः श्री-वैकुण्ठाद् अवतरणम् । एतच्-छब्दार्थम् एवाह वध्या इति । हि यतः । अन्यत् तैर् व्याख्यातम् । तत्रोत्तम-लिङ्ग-धारिण इति । अधमा अपि ये उत्तमानां लिङ्गानि धारयन्तीत्य् अर्थः । अथवा धर्म-ध्वजिनो दाम्भिकाः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ननु विप्रान् अध्यास्ताम् अन्यद् वा किम् अपि करोतु निरभिमानस्याक्रोधनस्य परमेश्वरस्य तव किम् अनेनेत्य् अत आह एतद्-अर्थ इति । धर्मध्वजिनः धर-रहितत्वेऽपि स्वस्य धर्मवत्त्वं प्रदर्शयन्तम् ॥२७॥
॥ १०.७८.२८ ॥
एतावद् उक्त्वा भगवान् निवृत्तोऽसद्-वधाद् अपि ।
भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भावित्वाद् इति । न हि भवितव्यं केनापि परिहर्तुं शक्यत इत्य् अर्थः । अहनत अहन् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं सूतम् । इत्य् अर्थ इति—भवितव्यं भवत्येव प्रतिकारे कृते खलु इत्य्-आद्य्-उक्तेः । न हि चलति कदाचिद् भाविनी करेखा इत्य्-आद्य्-उक्तेश्चेति भावः । करस्थकुशचालन-मात्रेण मृत्युमापेत्य् अर्थः ॥२८-२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उक्त्वेति स्वमनस्य् एव, अन्यथा मुनिभिः प्रत्युत्तरेण तद्वधप्रतिषेधसम्भवः । भगवान् सर्वज्ञो\ऽपि तीर्थयात्रय असतां वधान्निवृत्तो\ऽप्यहन् । कुतः? भावित्वात्तथैव तन्मृत्योर्भाव्यत्वात्। करस्थेनेति तीर्थस्नानाद्यर्थं किं वा, तीर्थे ब्रह्मचारितया हास्ते तद्ग्रहणात् । ननु कुशाग्र-मात्रेण हननं कथं घटेत? तत्राह—विभुः सर्वं कर्तुं समर्थ इति ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उक्त्वेति स्व-मनस्य् एव, अन्यथा मुनिभिः प्रत्युत्तरेण तद्-वध-प्रतिषेध-सम्भवः । भगवान् सर्वज्ञोऽपि तीर्थ-यात्रया असतां वधान् निवृत्तोऽप्य् अहन् । कुतः ? भावित्वात् तथैव तन्-मृत्योर् भाव्यत्वात् । करस्थेनेति तीर्थ-स्नानाद्य्-अर्थं किं वा तीर्थे ब्रह्मचारितया हस्ते तद्-ग्रहणात् । ननु कुशाग्र-मात्रेण हननं कथं घटते ? तत्राह विभुः सर्वं कर्तुं समर्थ इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भावित्वाद् इति ततस् तु न पुरा निवृत्तो भावितवान् इत्य् अर्थः ॥२८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततो मुहूर्तम् इत्य्-आदि ततस् तदनन्त अस्वजनानां परेषां शत्रूणाम् अनुषङ्गतः अमुहूर्तं क्षण-मात्रम् एव उपप्लुत उपद्रुतः सन् महानुभावः श्री-कृष्णस् तत् ताम् आसुरींमाय अबुध्यत यतः प्रकृतौ भावे सर्वज्ञत्वे स्थितः ॥२८-२९॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भावित्वात् तन्-मृत्योस् तथैव भावित्वात् नहि भवितव्यं केनापि परिहर्तुं शक्यत इति भावः ॥२८॥
॥ १०.७८.२९-३० ॥
हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः ।
ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो ॥
अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन ।
आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ते त्वया । अधर्मिक-प्रतिलोम-ज-वधः कोऽयम् अधर्म इति चेत् तत्राहुः, अस्येति । पुराण-प्रवचनायात्मनः शरीरस्य नास्ति क्लमो यस्मिंस् तद् आयुश् च दत्तम् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अधार्मिकेत्यादि भगवदाक्षेपं समादधिरे । अस्य सूतस्य । अग्निः ब्राह्मणः इति श्रुतेः । तदुद्भूतत्वादयं ब्राह्मण एवात एव ब्रह्मासनं वेदेतिहासपुराणवक्तृब्राह्मणयोग्यासनं दत्तम् इति । क्लमो ग्लानिः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सङ्कर्षणं द्वितीयव्यूहं साक्षाद्भगवन्तम् अतो देव जगत्पूज्यम्। यद् वा, श्री-कृष्णेन सहाग्रजत्वादिना अपृथग्भूतम् । प्रमो! हे अस्मत्-स्वामिन्! किं च, हे यदुनन्दन । सद्धर्मपालनाद्यर्थं यदुकुले\ऽवतीर्णेति त्वया अस्मत्-कृतमवश्यं पाल्यम् एवेति, यद् वा, यदुकुलप्रहर्षार्थं यथा ययातिशापाददेयमापि राजत्वधर्ममुग्रसेनाय भवता दत्तम्, तद्वद् इति भावः ॥२९-३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्कर्षणं द्वितीय-व्यूहं साक्षाद्-भगवन्तम् । अतो देवं जगत्-पूज्यम् । यद् वा, श्री-कृष्णेन सहाग्रजत्वादिना अपृथग्-भूतम् । प्रभो हे अस्मत्—स्वामिन् ! किं च, हे यदु-नन्दन ! सद्-धर्म-पालनार्थं यदु-कुलेऽवतीर्ण इति त्वया अस्मत्—कृतम् अवश्यं पाल्यम् एवेति । यद् वा, यदु-कुल-प्रहर्षार्थं यथा ययाति-शापाद् अदेयम् अपि राजत्व-धर्मम् उग्रसेनाय भवता दत्तम् । तद्वद् इति भावः ॥२९-३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं वदन्तीत्य्-आदि हे राजर्षे के च न अन्विता मुनय एवं वदन्ति न तु तत् सत्यं सर्वज्ञस्य श्री-भगवतस् तथा । सरस्वत्यैव तत् समाधीयते ॥३०-३७॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आत्मनो देहस्य नास्ति क्लमो यस्मिन् । तादृशम् आयुश् च दत्तम् ॥२९-३०॥
॥ १०.७८.३१ ॥
अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा ।
योगेश्वरस्य भवतो नाम्नायो\ऽपि नियामकः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ब्रह्म-वधेऽपि ममेश्वरस्येति चेत् सत्यम् एव, तथापि प्रायश्चित्तं कर्तव्यम् इत्य् आशयेनाहुः, योगेश्वरस्येति सार्धेन । आम्नायो “ब्राह्मणो न हन्तव्य” इत्य्-आदि-लक्षणः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इवयथाशब्दाभ्यां जानतैव ब्रह्मवधः कृत इति प्रतीयते इत्याह—ब्रह्मवधे\ऽपीति । नियामक इत्थं कुर्वित्थं मा कुर्वित्य् एवं नियन्ता । न कुत इति चेदाह—योगेश्वरस्य ज्ञानिनामधिपतेः त्रैगुण्यविषया वेदाः इत्युक्तेर्ज्ञानिनो\ऽतीतविधिनिषेधत्वेन कुतस्तदधिपस्य तदाशङ्केति भावः । यद्य् अपि न नियामकस् तथापीति न मे पार्थास्ति कर्तव्यं वर्त एव हि कर्मणिइति श्रीमुखोक्तेः । अन्यथा प्रायश्चित्ताकरणे । जगदान्ध्यं प्रसज्येतेति भावः ॥३१-३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ब्रह्मवधो यथेति ब्रह्म-वध-सदृशो\ऽस्य वधः । यद् वा, यथा यथावत् । ब्रह्म-वध एव कृतः, अस्माभिर् दत्त-ब्रह्मासनत्वात् योगेश्वरस्य परमेश्वरस्येत्य् अर्थः ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ब्रह्म-वधो यथेति ब्रह्म-वध-सदृशोऽस्य वधः । यद् वा, यथा यथावत्, ब्रह्म-वध एव कृतः । अस्माभिर् दत्त-ब्रह्मासनत्वात् । योगेश्वरस्य परमेश्वरस्येत्य् अर्थः ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अजानतैव जनेन यथा आचर्यते तथा सर्वज्ञेनापि त्वयेत्य् अर्थः । किन्तु त्वयि न पाप-सम्भावनेत्य् आह योगेश्वरस्येति ॥३१॥
॥ १०.७८.३२ ॥
यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन ।
चरिष्यति भवान् लोक- सङ्ग्रहोऽनन्य-चोदितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथाप्य् एतस्या ब्रह्म-हत्यायाः पावनं प्रायश्चित्तं हे लोक-पावन, अनन्य-चोदितः स्वयम् एव भवान् यदि करिष्यति तर्हि लोक-सङ्ग्रहो भविष्यति नान्यथेति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे लोकपावनेति यथाकथञ्चित्त्वन्नामोच्चारणादिना महापातकिनो\ऽपि पूयन्ते, तव तु पापप्रायश्चित्तशङ्का कुत इति भावः । नान्यचोदित इति परमेश्वरत्वेनानन्यप्रेर्यत्वात्, प्रायश्चित्तायोग्यत्वाच् च ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे लोक-पावनेति यथा-कथञ्चित् त्वन्-नामोच्चारणादिना महा-पातकिनोऽपि पूयन्ते । तव तु पाप-प्रायश्चित्त-शङ्का कुत इति भावः । नान्य-चोदित इति परमेश्वरत्वेन अनन्य-प्रेर्यत्वात् । प्रायश्चित्तायोग्यत्वाच् च ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एतस्याः ब्रह्महत्यायाः पावनं प्रायश्चित्तं भवान् यदि चरिष्यति तदैव लोक-सङ्ग्रहो भविष्यति नान्यथा यतः स अनन्य-चोदितः अनन्य-प्रवर्तितः ॥३२॥
॥ १०.७८.३३-३४ ॥
श्री-भगवान् उवाच—
चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया ।
नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥
दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च ।
आशासितं यत् तद् ब्रूते साधये योग-मायया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : वधस्य निर्वेशं प्रायश्चित्तम् । प्रथमे कल्पे मुख्य-कल्पे । विधीयताम् उपदिश्यताम् । किं च, बत हे मुनयः, एतस्य दीर्घम् आयुः सत्त्वं बलम् इन्द्रियं तत् पाटवं च । अन्यच् च यद् भवद्भिर् आशासितम् अपेक्षितं तद् ब्रूत सर्वम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सतावान् । मुख्य-कल्पे मुख्य-विधौ, कल्पः शास्त्रे विधौ न्याये इति मेदिनी। उपदिश्यताम् उपसर्गवशाद्दधातेरुपदेशार्थत्वम्। किं च—
प्रभुः प्रथम-कल्पस्य यो\ऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मते विद्यते फलम् ॥
इति शान्ति-पर्वण्य् आपद्-धर्मोक्तेः । प्रभुणा श्री-बलदेवेन प्रथम-कल्प एव स्वीकृतः ।
अनुकल्पः परो धर्मो धर्म-वादैस् तु केवलम् ।
विश्वैर् देवैश् च साध्यैश् च ब्राह्मणैश् च महर्षिभिः ॥
अन्यत् सुमरणाद् भीतैर् विधिः प्रतिनिधीकृतः । इत्य् अपि तत्रैव ॥३३॥
स्व-सामर्थ्यं द्योतयन्न् आह—किं चेति । एतस्य मृत-सूतस्य । योग-मायया निजैश्वरी-सामर्थ्येन ॥३४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नियमो व्रतम्, कल्पे पक्षे, तु एव, स तु स एव, अनुकल्पादिमध्यमादिरित्य् अर्थः । एव अपि, इन्द्रियम् अपि, च-शब्दात् साधुत्वादिकम्, योगमायया निजैश्वर्यविशेषेणेत्य् अर्थः ॥३३-३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नियमो व्रतम् । कल्पे पक्षे । तु एव । स तु स एव । अनुकल्पादिर् मध्यमादिर् इत्य् अर्थः । एव अपि । इन्द्रियम् अपि । च-शब्दात् साधुत्वादिकम् । योग-मायया निजैश्वर्य-विशेषेणेत्य् अर्थः ॥३३-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निर्वेशं प्रायश्चित्तम् ॥३३ ॥
यस्मान् ममैव हि मुखं ब्राह्मण-कुलं तस्माद् भवतां वाक्य-भङ्गो नमे चिकीर्षित इत्य् अतो ब्रूत यथा युष्माद् उक्तम् एव करोमीत्य् आह—दीर्घम् इति । सत्त्वं बलम् इन्द्रियम् अपाटवम् ॥३४॥
॥ १०.७८.३५ ॥
ऋषय ऊचुः—
अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च ।
यथा भवेद् वचः सत्यं तथा राम विधीयताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्त्रादीनां यथा सत्यता भवेद् अस्माकं च वचः सत्यं यथा भवेत् तथा विधीयताम् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति-अस्त्रवीर्ययोरमोघत्वं मृत्योरनावृत्तित्वमस्मद्वचसश्चावंध्यफलत्वं यथा स्यात्तथा कुर्विति भावः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अस्त्रस्य वीर्यस्य च पराक्रमस्य त्वदीयत्वेन मृत्योश् च विधात्रा त्वयैव नियुक्तत्वेनास्माकं वचसश् च त्वद्-यजनादिना तावकत्वेनावश्यं सत्यतापेक्ष्यत इति । हे रामेति च तेनैव तव सर्वरमणतासिद्धेर् इति भावः ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अस्त्रस्य वीर्यस्य च पराक्रमस्य त्वदीयत्वेन मृत्योश् च विधात्रा त्वयैव नियुक्तत्वेनास्माकं वचसश् च त्वद्-यजनादिना तावकत्वेनावश्यं सत्यतापेक्ष्यत इति । हे रामेति च तेनैव तव सर्व-रमणता-सिद्धेर् इति भावः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७८.३६ ॥
श्री-भगवान् उवाच—
आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।
तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथा संपादयन्न् आह—आत्म वा इति । “अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अधिजायसे । आत्मा वै पुत्र-नामासि स जीव शरदः शतम् ।” इत्य्-आदि-वेदानुशासनं वेद-वचनम् । तस्माद् अस्य रोमहर्षणस्य पुत्र उग्रश्रवा भवतां पुराण-प्रवक्ता भवेत् स चायुर्-आदिमांश् च भवेत् । अतः साक्षाद् अजीवनाद् अस्त्रस्य मृत्योश् च सत्याता पुत्र-रूपेण चायुरादि-सिद्धेर् युष्मद् वचनस्यापि सत्यता स्याद् इति भावः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यथा । मुनिभिरुक्तं तथा संपादयन्न् इत्य् अर्थः । अङ्गादङ्गात्पृथक्पृथगङ्गात्ततदङ्गरूपेण स त्वं जीवेत्य् अर्थः । स चोग्रश्रवाः । तादृशकरणात्॥ इति भाव इति-तस्यैव जीवनादिना सर्वम् एवासमञ्जसं भवोदित्य् आशयः ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै एव, आत्मा स्वयम् एव, पिता पुत्रः सन्नुत्पन्नो भवति ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव, आत्मा स्वयम् एव । पिता पुत्रः सन्न् उत्पन्नो भवति ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् सम्पादयन्न् आह आत्मा वा इति ।
अङ्गाद् अङ्गात् सम्भवसि हृदयाद् अभिजायसे ।
आत्मा वै पुत्र-नामासि स जीव शरदः शतम् ॥ इत्य्-आदि ।
वेदानुशासनं वेद-वचनम् । तस्माद् अस्य रोमहर्षणस्य पुत्र उग्रश्रवाः भवतां पुराण-प्रवक्ता भवेत् स चायुर्-आदिमांश् च भवेत् । अतः साक्षाद् अजीवनाद् अस्त्रस्य मृत्योश् च सत्यता पुत्र-रूपेण चायुर्-आदि-सिद्धेर् युष्मद्-वचनस्य च सत्यताभूद् इति भावः ॥३६॥
॥ १०.७८.३७ ॥
किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ ।
अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावद् अपेक्षितं कथयत तद् अहं करिष्यंईत्य् आह—किं वः काम इति । किं विषयो वः कामो वर्तते तद् ब्रूतेति । अथानन्तरं ब्रह्म-दण्डं गृहीत्वापचितिं निष्कृतिम् अजानतो मे हे बुधाः, यथावच् चिन्त्यताम् अपचितिर् इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद् अन्यद् अभीप्सितं, तदपि ब्रूतेत्य् आह—प्रथमम् इत्य्-आदि ।
निष्कृतिं प्रायश्चित्तं यथा\ऽजानतः प्रायश्चित्तं भवद्भिः कथ्यते तथा जानतो\ऽपि मे कथ्यतां ब्राह्मणाज्ञां विना करणात्फलनिष्पत्तिः
श्रौतं स्मार्तं च यत्कर्म जानतापि च सर्वथा।
विप्राज्ञयैव कर्तव्यमन्यथा निष्फलं हि तत् ॥ इति वारतान्तव्युक्तेः ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : करवाणीत्यत्र हेतुः—हे मुनिश्रेष्ठाः! परम-भागवता इति भावः । अन्यत् तैर् व्याख्यातम् ।यद् वा, किं कामो वर्तते, अपि तु नैव । तत्र हेतुः—हे मुनिश्रेष्ठाः इति माहात्मारामत्वाद् इत्य् अर्थः । तथापि मयि स्नेहेन किञ्चिद्भूत । अन्यत् समानम् अजानत इति विनयातिशयात्, हे बुधा इति युष्माभिर् एव सा विज्ञायत इति भावः । सर्वम् इदं तेषां सन्तोषणार्थम् ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : करवाणीत्य् अत्र हेतुः । हे मुनि-श्रेष्ठाः परम-भागवता इति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, किं कामो वर्तेत, अपि तु नैव । अत्र हेतुः । हे मुनि-श्रेष्ठा इति महात्मारामत्वाद् इत्य् अर्थः । तथापि मयि स्नेहेन किञ्चिद् ब्रूत । अन्यत् समानम् । अजानत इति विनयातिशयात् । हे बुधा इति युष्माभिर् एव सा विज्ञायत इति भावः । सर्वम् इदं तेषां सन्तोषणार्थम् ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, प्रायश्चित्तोपदेष्टृभ्यो बुधेभ्यः प्रथमं किञ्चिद् देयं भवतीत्य् अभिप्रेत्याह किं व इति । तद्-अनन्तरम् एव अपचितिं निष्कृतिम् अजानतो मे यथावच् चिन्त्यतां निष्कृति-व्यवस्थीयताम् इत्य् अर्थः ॥३७॥
॥ १०.७८.३८ ॥
ऋषय ऊचुः**—**
इल्वलस्य सुतो घोरो बल्वलो नाम दानवः ।
स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रथमं तावद् अपेक्षितं कर्तव्यं कथयन्ति, इल्वलस्येति द्वाभ्याम् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तावदधुना । पर्वण्यमायां पौर्णमास्यां चेत्य् अर्थः ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : घोरो\ऽन्यैर् हन्तुमशक्य इत्य् अर्थः । सर्वण्यभावस्यादौ, वीप्ससा अवश्यं सर्वपर्वस्वागमनं बोधयति ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : घोरोऽन्यैर् हन्तुम् अशक्य इत्य् अर्थः । पर्वण्य् अमावास्यादौ, वीप्सया अवश्यं सर्व-पर्व-स्वागमनं बोधयति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर्वणि पर्वणि प्रत्य्-अमावास्यादिनम् ॥३८॥
॥ १०.७८.३९ ॥
तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् ।
पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं बल्वलम् । तत् हननम् ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दाशार्ह हे निजैश्वर्यप्रकटनार्थं यदुकुले\ऽवतीर्णेत्युत्साहयन्तो हनने सामर्थ्यं सूचयन्ती। परं परमं शुश्रूषणं सम्माननम् । पापत्वम् एव दर्शयनन्त सत्रदूषणप्रकारम् आह—पूयेति। पूयादीन्यभितो वषितुं शीलं यस्य, च तु ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दाशार्ह ! हे निजैश्वर्य-प्रकटनार्थं यदु-कुलेऽवतीर्णेत्य् उत्साहयनोत् हनने सामर्थ्यं सूचयन्ति । परं परमं शुश्रूषणं संमाननम् । पापत्वम् एव दर्शयन्तः सत्र-दूषण-प्रकारम् आह—पूयेति । पूयादीन्य् अभितो वर्षितुं शीलं यस्य । च तु ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न किम् अपि ॥३९॥
॥ १०.७८.४० ॥
ततश् च भारतं वर्षं परीत्य सु-समाहितः ।
चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रायश्चित्तम् आहुः, ततश् चेति । परीत्य प्रदक्षिणी-कृत्य । सु-समाधानादि-गुण-विशेषाद् एकाब्द-मात्रम् उक्तम् इत्य् अविरोधः । सु-समाहितः काम-क्रोधादि-रहितः । चरित्वा कृच्छ्राणि ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे
श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम्
अष्टसप्ततितमो\ऽध्यायः ॥७८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो बल्वल-हननोत्तरम् । ननु ब्रह्मघ्नो द्वादशाब्द-प्रायश्चित्तस्य
द्वादशाब्दाव् इति चरेद् ब्रह्मघ्नस् तत्-कपाल-भृत् ।
ख्यापयन्न् आत्मनः कर्म भिक्षां विप्रेषु सञ्चरन् ॥
इत्य्-आदिना पाराशराद्यैर् विरुद्धं द्वादशान् मासान् इति कथम् उच्यते ? इति चेत्, तत्राह—सुसमाधानादीति । समाधानं चित्तैकाग्र्यम् । आदिना बाह्येन्द्रिय-निग्रहादि-ग्रहः । गुण-विशेष-संबन्धाद् एकाब्दो\ऽपि दक्षिणा-विशेष-योगाद् युधिष्ठिरैकाश्वमेधस्याश्वमेध-त्रय-तुल्यत्वात् । द्वादशाब्दवद् भवतीत्य् उक्तम् अविरोध इति । कृच्छ्राणीति शेषः । कृच्छ्राणि कृच्छ्र-तप्त-कृच्छ्र-पर्ण-कृच्छ्रातिकृच्छ्रादीनि ।
एक-भक्तैश् च नक्तैश् च तथैवायाचितैर् अपि ।
उपवासैश् चतुर्भिश् च कृच्छ्रः षोडशभिर् दिनैः ॥
इत्य्-आदिना पराशरादिभिर् उक्त-लक्षणानि बहूनि सन्ति विस्तर-भियेह नोक्तानीति । द्वादशान् द्वादश ॥४०॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे
दशम-स्कन्धोत्तरार्धे
अष्टसप्ततितमो\ऽध्यायः ॥७८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायाम् अष्टसप्ततितमो\ऽध्यायः ॥७८॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तद्वधानन्तरम्, च तु, द्वादशात् द्वादशेति चित्सुखः द्वादशेति पाठन्तरं सुसङ्गतम् एव। तच् च श्री-स्वामि-पादानां सम्मतं नो लक्ष्यते, किञ्चिदव्याख्यातत्वात् । छन्दोभङ्गस्त्वार्षत्वात् सोढव्यः विशुद्ध्यस इति स्वत एव सदा शुद्धस्त्वं लोकसंग्रहार्थं तत्-तद्-आचरणेन विशेषतः शुध्यसे, निर्मलकीर्तिं लब्ध्वा परमोज्जन भविष्यसि, यद् वा, अन्तर्भूतण्यर्थत्वम्, विशोधयसि निर्मलयशसा अधिकं जगत् पावयिष्यसीत्य् अर्थः, अन्यत् तैर् व्याख्यातम्। यद्व इति सुसमाहितः सुष्ठु श्री-कृष्णैकचित्तः सन् चरित्वा भारतवर्षे भ्रमित्वा, अन्यत् समानम् ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्री-श्रील-सनातन-गोस्वामि-पादकृतायां श्री-बृहद्-वैष्णव-तोषण्यां
श्री-दशम-टिप्पण्यामष्टासप्ततितमो\ऽध्यायः ॥७८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तद्-वधानन्तरम् । च तु । द्वादशान् द्वादशेति चित्सुखः । द्वादशेति पाठान्तरं सुसङ्गतम् एव । तच् च श्री-स्वामि-पादानां संमतं नो लक्ष्यते । किञ्चिद् अव्याख्यातत्वात् । छन्दो-भङ्गस् त्व् आर्षत्वात् सोढव्यः । विशुध्यस इति स्वतएव सदा शुद्धस् त्वं लोक-सङ्ग्रहार्थं तत्-तद्-आचरणेन विशेषतः शुध्यसे । निर्मल-कीर्तिं लब्ध्वा परमोज्ज्वलो भविष्यसि । यद् वा, अन्तर्भूत-ण्य्-अर्थत्वम् । विशोधयसि निर्मल-यशसा अधिकं जगत् पावयिष्यसीत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । यद् वा, सुसमाहितः सुष्ठु श्री-कृष्णैक-चित्तः सन् चरित्वा भारतवर्षे भ्रमित्वा । अन्यत् समानम् ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे अष्टसप्ततितमो\ऽध्यायः ॥७८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : विशुध्यसे विमल-कीर्तिर् भविष्यसि ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे\ऽष्टसप्ततितमो\ऽध्यायः॥७८॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
अष्टसप्ततितमो\ऽध्यायः ॥७८॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रायश्चित्तम् उपदिशन्ति ततश् चेति । परीत्य प्रदक्षिणीकृत्य सुसमाधानादि गुण-विशेषाद् एकाब्द-मात्रम् उक्तम् इत्य् अविरोधः । चरित्वा कृच्छ्राणि ॥४०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्ट-युक्-सप्ततितमो दशमे\ऽजनि सङ्गतः ॥७८॥
(१०.७९)