७७

भगवता सौभ-सहितस्य शाल्वस्य विनाशः ।

॥ १०.७७.१ ॥

श्री-शुक उवाच—

स तूपस्पृश्य1 सलिलं दंशितो धृत-कार्मुकः ।

नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) :

सप्त-युक्-सप्ततितमे नाना-माया-विचक्षणः ।

कृष्णेनागत्य शाल्वस् तु हतः सौभं च चूर्णितम् ॥

दंशितः सन्नद्धः ॥१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आगत्य राजसूयात् । प्रद्युम्नः ॥१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे ॥ दंशित इत्य् अनेन प्राग्-अवज्ञया कवचाद्य्-अग्रहणं सूचयति । धृतम् उद्यतं कार्मुकं येन सः । क्रोध-भरेण दूरत एव शरैर् द्युमतो जिघांसया । ननु दुष्ट-पार्श्वे पुनर् गमनम् अयोग्यं, तद् अन्यत्र नेयम् ? तत्राह—वीरस्य मत्-प्रतियोधस्य । अत आदौ तद्-वधार्थं तत्-पार्श्वे नयनम् एवोचितम् इति भावः ॥१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्दो भिन्नोपक्रमे । दंशित इति सल्-लक्षणार्थं मध्ये सूतेनोत्तारणात् धृतम् उद्यतं कार्मुकं येन स इति परमोत्साहो दर्शितः । अतस् तत्रैव नयने हेतुम् आह—वीरस्य इति ॥१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :

सप्त-सप्ततितमे हरिर् इन्द्रप्रस्थतो निज-पुरीं समुपेत्य ।

साल्वम् आत्त-बहु-मायम् अरीन् द्राक् सौभ-सक्तम् अरिणैव जघान ॥

स त्व् इति । सूतेन सारथ्य-धर्म-सावधानेन तथा कृतं । प्रद्युम्नस् तु क्षात्र-धर्म-प्रवीणः । रण-विच्युति-रूप-प्रत्यवाय-परिहारार्थं सलिलम् उपस्पृश्य दंशितः धृत-कवचः ॥१॥


॥ १०.७७.२ ॥

विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः ।

प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : विधमन्तं क्षपयन्तम् । प्रतिहस्य प्रतिरुध्य ॥२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपसर्ग-वशाद् धमतिर् अत्र नाशने, शतृ-प्रत्ययः ॥२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रतिहत्य स्व-सैन्य-क्षपण-प्रतिघातं कृत्वा । प्रतिहृत्येति पाठे पाठान्तरे तद्-विध-मर्दनं प्रत्यक्षं निरस्येत्य् अर्थः । प्रति प्रतिरूपतया प्रत्यङ्ग-व्याप्त्या वाविध्यत्नाराचैर् बाण-विशेषैः स्मयन् स्मयमानः लीलयेत्य् अर्थः । यद् वा, प्रौढिमाविष्कुर्वन् ॥२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रतिहत्य स्व-सैन्यं रुन्धानं तं तस्मान् निरुध्य प्रत्यविध्यत तत्-कृत-वेध-प्रतियोगितया\ऽविध्यत् । नाराचैर् बाण-विशेषैः स्मयन् स्मयमान इति वीर-स्वभावत्वेनोत्साह एव जातो, न तु क्रोध इति श्लाघितम् ॥२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रतिहत्य रे रे यावत् सामर्थ्यं प्रहरेत्य् उक्त्वा तद्-अस्त्र-घातानन्तरं तस्मै प्रत्यस्त्र-घातं समर्प्येत्य् अर्थः । नाराचैः शरैः ॥२॥


॥ १०.७७.३ ॥

चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् ।

द्वाभ्यां धनुश् च केतुं च शरेणान्येन वै शिरः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : अष्टानां विनियोगम् आह—चतुर्भिर् इति ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अष्टानां बाणानां विनियोगं कृत्यम् ॥३-४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै अपि । शिरो\ऽपि च-कारैर् वै-शब्देन च तत्-तद्-धनने यौगपद्यं बोधयति ॥३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै समुच्चये शिरो\ऽपीत्य् अर्थः ॥३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अष्टानां विनियोगम् आह—चतुर्भिर् इत्य्-आदि ॥३॥


॥ १०.७७.४ ॥

गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् ।

पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सौभेयाः सौभ-स्थाः ॥४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च केवलं स एव स्व-विक्रमं दर्शयामास, तेन विवर्धितोत्साहा अन्ये\ऽपि यदु-प्रवीरा इत्य् आह—गद- इति । आद्य-शब्दात् पूर्वोक्ताश् चारुदेष्णादयः । सर्वे प्रायश इत्य् अर्थः ॥४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न केवलं स एव स्व-विक्रमं दर्शयामास, तेन विवर्धितोत्साहा अन्ये\ऽपि यदु-वीरा इत्य् आह—गद- इति । सर्वे प्रायश इत्य् अर्थः ॥४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौभेयाः सौभस्थाः ॥४॥


॥ १०.७७.५ ॥

एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् ।

युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : नवानां रात्रीणां समाहारो नवरात्रम्, त्रयाणां नव-रात्राणां समाहारस् त्रि-नवरात्रम् । सप्त-विंशतिम् अहो-रात्राणीत्य् अर्थः । तुमुलम् आकुलम् । उल्बणं घोरम् ॥५॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् युद्धम् ॥५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : त्रि-नवरत्रं सप्तविंशत्य् अहोरात्राणि व्याप्येत्य् अर्थः ॥५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : त्रि-नवरात्रं व्याप्य ॥५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : त्रयाणां नव-रात्राणां समाहारस् त्रिणवरात्रम् सप्तविंशतिम् अहोरात्राणि व्याप्येत्य् अर्थः ॥५-७॥


॥ १०.७७.६-७ ॥

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना ।

राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥

कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् ।

निमित्तान्य् अतिघोराणि पश्यन् द्वारवतीं ययौ ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : पर-मतम् उपन्यस्यति—इन्द्रप्रस्थं गत इत्य्-आदिना ॥६-७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पर-मतं व्यासेतर-मतम् । उपन्यस्यति कथयति शुकः ॥६-८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वयं वक्ष्यमाणस्य सत्यस्य श्री-भगवच्-चरितस्य श्री-वैशम्पायनाद्य्-उक्तेन विरोधम् आशङ्क्य तद् दूययित्वा परिहर्तुम् उत्थापयति—इन्द्र- इत्य्-आदिना उद्यत [भा।पु। १०.७७.२९] इत्य् अन्तेन । आहूतो दूत-द्वारा एतच् च सभा-पर्वोक्तानुसारेण श्री-बादरायणि-मते च श्री-नारदोक्त्या श्रीमद्-उद्धव-मन्त्रेण स्वयम् एव गमनं, तच् च प्राग् उक्तम् एव । एवम् अन्यद् अपि बहुलं विरुद्धम् अग्रे\ऽप्य् ऊह्यम् । तच् च यथा-स्थानम् अभीव्यञ्जयितव्यम् । धर्म-सूनुना इति श्री-युधिष्ठिरस्य सद्-धर्म-परत्वम् अभिप्रेतम् । अत एव तद्-आह्वानेननाकृष्टत्वात् कृष्ण इति ॥ अथागमनानन्तरं स-परिकरे राजसूये निष्पत्रे सुताः श्री-युधिष्ठिरादयस् तत्-सहितां निमित्तानि शकुनानि सखि पश्यन् ॥६-७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इन्द्र- इति युग्मकम् । आहूत इवाहूतः श्री-नारद-द्वारा तादृश-विज्ञापनात् राजसूय इत्य्-आदेर् इन्द्रप्रस्थ-गमन-प्रयोजने सर्वस्मिन् समाप्त इत्य् अर्थः । अथेति चेति वा पाठः । निमित्तानि पथि पश्यन् ॥६-७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.८ ॥

आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः ।

राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आह च इति स्व-गतम् एव पथि चिन्ता-विजृम्भित-भाषणम् । आर्य-मिश्राभिसङ्गतो बलभद्र-सहितः ॥८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इह इन्द्रप्रस्थे । नूनं वितर्के ॥८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आर्यो गुरुः श्री-बलभद्रः । स एव मिश्रः पूज्यः । यद् वा, आर्येण तेन मिश्राः सहिता ये, तैर् अपि सङ्गतः ॥८॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : आह च इति स्वगतम् । आर्यः श्री-बलभद्रः, स एव मिश्रः पूज्यः, तेन अभिसङ्गत इति न शुक-मतं, किन्तु पर-मतम् एवोक्तं, तथैवोपरिष्टाद् व्याख्यास्यमानत्वात् ॥८॥


॥ १०.७७.९ ॥

वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् ।

सौभं च शाल्व-राजं च दारुकं प्राह केशवः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्निमित्त-दर्शनाकुल-चित्त एवं चिन्तयन् द्वारकाम् आगत्य स्वानां कदनं वीक्ष्य, सौभं च शाल्व-राजं च वीक्ष्य, रामं पुर-रक्षणं प्रति निरूप्य नियुज्य दारुकं प्राह इत्य् अन्वयः ॥९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच् छाल्व-कृतम् । कदनं मर्दम्, कदनं मर्द-पापयोः इति

मेदिनी ॥९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रकर्षेण न्याय-प्रदर्शनादिन प्रणयेन वा आह । यतः केशवः साक्षात् परमेश्वरः, तत्-स्वामी वै एव ॥९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीक्ष्य इति । टीकायां दुर्निमित्तेत्य्-आदिकम् आगत्येत्य् अन्तम् अध्याहृतम् ॥९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं विचिन्तयन्न् एव द्वारकाम् आगत्य । तत्र च शाल्व-प्रापितं स्वानां कदनं वीक्ष्य पुराणाम् अन्तः-पुर-स्थानां श्री-रुक्मिण्य्-आदीनां रक्षणं निरूप्य ताः सर्वाः पट्टमहिषीः सेनानी-द्वारा गुप्त-मार्गेण द्वारका-वास-मध्यं च प्रवेश्येत्य् अर्थः । शाल्व-राजं च वीक्ष्य ॥९॥


॥ १०.७७.१० ॥

रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै ।

सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-राड् अयम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : ते त्वया ॥१०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भ्रमो भयम्, सम्भ्रमः साध्वसे\ऽपि स्यात् संवेगादरयोर् अपि इति मेदिनी ॥१०-१२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आश्व् एव । मायावी इति सम्भ्रमः साध्वसम् । यद् वा, सम्भ्रमो न कर्तव्यः व्याकुल-चित्तेन न भाव्यं, किन्तु सावधानेनैवेत्य् अर्थः । यतो\ऽयं शाल्वो मायावी तत्र हेतुः—सौभेन मयमायामययानेन राजत इति तथा सः । यद् वा, स्वतो मायावी पुनश् च सौभराट् सौभ-रतिः ॥१०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वै एव । आश्व् एव सम्भ्रमः साध्वसानुभावः आवेगो न कर्तव्यः । यतो मायावी, न तु स्वतो वीरः । सौभेन च मायामयेनैव राज्ञा इति तथा ॥१०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.११ ॥

इत्य् उक्तश् चोदयामास रथम् आस्थाय दारुकः ।

विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : आस्थाय सम्यग् अधिष्ठाय अरुणानुजं ध्वजे वर्तमानं गरुडम् ॥११॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विशन्तं पुरीं युद्ध-स्थलं वा प्रविशन्तं दूराद् एव ददृशुः । रथ-ध्वजोपरि वर्तमानत्वात् । स्वे यादवाः परे शाल्वादयः ॥११॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विशन्तं युद्धम् इति शेषः ॥११॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च अरुणानुजं ध्वजे प्रवर्तमानं श्री-गरुडम् ॥११॥


॥ १०.७७.१२ ॥

शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः2

प्राहरत् कृष्ण-सूताय शक्तिं भीम-रवां मृधे ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : हत-प्रायस्य बलस्य सैन्यस्य ईश्वरः ॥१२॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : च तु । शाल्वस् त्व् इति श्री-गरुड-दर्शनेन यादवानां परमानन्दे जाते\ऽपि तत्रैव दुष्टस्य तस्य क्रोधाद्य्-उत्पादकतया भिन्नोपक्रमात् कृष्णं स्व-सख-शिशुपालादीनां प्राणाकर्षकम् इति भावः । हत-प्राय-बलेश्वरो\ऽपि मृधे प्राहरत् चिक्षेप ॥१२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हत-प्राय-बलेश्वरो\ऽपि मृधे प्राहरत् प्रहार्थं चिक्षेप ॥१२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हत-प्रायाः बलेश्वराः सेनान्यो यः सः ॥१२-१३॥


॥ १०.७७.१३ ॥

ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा ।

भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तां शक्तिम् ॥१३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रंहसा वेगेन नभस्य् आपतन्तीं महोल्काम् इवेति रंहसा पतने दिशां भासने च दृष्टान्तः । नभस्य् एवाच्छिनद् इति वा । यतः शौरिर् निजाशेषैश्वर्य-प्रकटनार्थं शूर्य-वंशे\ऽवतीर्णः साक्षाद् भगवान् ॥१३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नभस्य् आपतन्तीं नभस्य् एव अच्छिनद् इत्य् अर्थः ॥१३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.१४ ॥

तं च षोडशभिर् विद्ध्वा बाणैः सौभं च खे भ्रमत् ।

अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : तं च शाल्वम् । शर-सन्दोहैः शर-जालैः । खं सूर्य इव रश्मिभिर् इति सुनीलत्व-विपुलत्वादिभिर् आकाशोपमा सौभस्य । अचिन्त्य-वेग-बाहुल्यादिभिः शराणां रश्मि-सादृश्यम् । अयत्नेनैव रश्मि-वच् छर-जाल-प्रसारणात् सूर्य-तुल्यः श्री-कृष्ण इति ॥१४॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं शाल्वम् ॥१४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी), जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : खे भ्रमद् अपि ॥१४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : खं सूर्य इव इति सौभस्य श्यामत्व-त्वरितत्वाभ्याम् आकाशेन उपमा शराणाम् असङ्ख्यत्व-तापकत्वाभ्यां रश्मिभिः कृष्णः सर्व-तेजः-पराभावकतया सूर्येण ॥१४॥


॥ १०.७७.१५-१६ ॥

शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः ।

बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् ॥

हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् ।

निनद्य सौभ-राड् उच्चैर् इदम् आह जनार्दनम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : दोर् बाहुम् ॥१५-१६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच् छार्ङ्ग-पतनम् ॥१५॥ तत्र युद्धे । इदं वक्ष्यमाणम् ॥१६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अग्रे स-न्यायम् अतिदूषयितुं सर्वथा विरुद्धं पर-मतम् उपहसन्न् इवाह—साल्व इत्य्-आदिना । शार्ङ्गधन्वनो\ऽपि एतद् अतिविरुद्धम् एव । सच्चिदानन्द-घन-विग्रहस्य भेदनासम्भवात् सरस्वती-स्तुतेर् अत्र वास्तवो\ऽर्थो वर्तमानो\ऽपि न व्याख्येयः, पर-मतस्य दुष्टत्वात् । अत एव तैर् अपि न सूचितः । जनानां तादृशानां दुष्टानाम् अर्दनम् अप्य् आह इति धृष्टता निर्बुद्धिता सूचिता ॥१५-१६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दोषो नपुंसकत्वं च दृश्यते । सव्यं दोर् अच्छिनत् तस्य इति रघु-काव्याच् छार्ङ्गधन्वनो\ऽपि ॥१५॥ जनानां तादृशानां दुष्टानाम् अर्दनम् अपि लीलयैव तादृशताम् अनुकुर्वन्तं तम् आह इति धृष्टता निर्बुद्धिता च सूचिता ॥१६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साल्व इत्य्-आदि श्लोक-द्वयं न शुक-सम्मतम् । दोः सव्यम् इति दोषो नपुंसकत्वम् अपि दृश्यते । सव्यं दोर् अच्छिनत् तस्य इति रघु-काव्यात् तत् शार्ङ्ग-पतनम् अद्भुतं तद्-भुज-बलस्य अपरिमेयत्वात् ॥१५-१७॥


॥ १०.७७.१७ ॥

यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् ।

प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा ॥

तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् ।

नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : सख्युः शिशुपालस्य । ईक्षताम् अस्माकम् । प्रमत्तोऽनवहितः । व्यापादितो निहतः ॥१७॥ अपराजितोऽहम् इति मानिनं मानवन्तम् । अपुनर्-आवृत्तिं मृत्युम् । तिष्ठेः स्थास्यसि ॥१८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सखित्वाद् एव भ्रातुर् इत्य् उक्तम् । शिशुपालः ॥१७॥ तं सखि-हन्तारम् ॥१८॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सखित्वाद् एवास्माकं भ्रातुः स्व-पैतृष्वसेयस्य वा सभा-मध्ये, न तु युद्ध-मध्ये अतः प्रमत्तो\ऽनवहितः, अत एव व्यापादितः । अन्यथा त्वया\ऽसौ हन्तुं न योग्य इति भावः । त्वया इति पुनरुक्त्या व्यापादनस्य तद्-एक-कर्तृकत्वेन परम-द्वेष्यत्वं तथा सखा इति चान्तः-शोक-विशेषं मित्रार्थम् अवश्य-प्रतिकृत्यं च सूचयति ॥१७॥ यदि इत्य् अधुनैव मद्-भयात् किल पलायिष्यस इति भावः ॥१८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यद् इति युग्मकम् । यत् येन त्वया अस्माकं सख्युस् तव तु भ्रातुः पैतृष्वसेयस्य सभा-मध्ये, न तु युद्ध-मध्ये, अतः प्रमत्तः अनवहितः, अत एव व्यापादितः । पुनरुक्त्या व्यापादनस्य तद्-एक-कर्तृत्वेन परम-द्वेष्यत्वं तथा सखा इति चान्तः-शोक-विशेषं, सखा इति मित्रार्थ-कृत्यस्य अवश्यकत्वं च सूचयति—यदीत्य् अधुनैव मद्-भयात् किल पलायिष्यस इति भावः ।

गीर्-देवी-मते—"अमूढ ! हे परम-विद्वन्! अस्माकं सख्युर् भ्रातुश् च शिशुपालस्य तथा नो\ऽस्माकं च ईक्षताम् ईक्षमाणानां तं चास्मांश् चानादृत्येत्य् अर्थः । येन त्वया भार्या लक्ष्मीत्वान् निजा जायैव हृता, तथा प्रमत्तः पीतम् अद्यादिवन् नाना-दुर्वचनाद्य्-उन्मत्त-चेष्टः सो\ऽस्मत्-सखा व्यापादितः" ॥१७॥

तं न विद्यते पुनर्-आवृत्तिस् तथा-भूतं तथा अपराजितः केनाप्य् अनभिभूतो मानः पूजा तद्वत् तं च त्वां त्वदीयैर् एव निशितेर् बाणैर् हेतुभिर् नयामि गच्छामि प्रविशामीत्य् अर्थः । नय पय गतौ किन्तु मद्-भाग्यम् एव तत्र साधकतमम् इत्य् आह—यदीति ॥१८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे मूढ! अपुनर्-आवृत्तिं मृत्युं नयामि प्रापयामि । भारती-पक्षे न भवति। मूढो यस्मात् तथा-भूत! न सख्युः भ्रातुस् त्वत्-पैतृष्वसेयस्य शिशुपालस्य ईक्षमाणानाम् अस्माकं चेत्य् अनादरे षष्ठी भार्या लक्ष्मीत्वात् स्व-स्त्री हृता गृहीता निशितैर् बाणैः अपराजितश् चासौ मानी आदर-पात्रश् च, तम् अपुनर्-आवृत्तिं मोक्षं नयामि नाययामीत्य् अर्थः । यद् वा, न भवति पुनर्-आवृत्तिः संसारो यस्मात्, तं मोक्ष-दायिनं त्वां नयामि प्राप्नोमीत्य् अर्थः ॥१८-२०॥


॥ १०.७७.१९ ॥

श्री-भगवान् उवाच—

वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिकेऽन्तकम् ।

पौरुषं दर्शयन्ति स्म शूरा न बहु-भाषिणः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तकं तवान्त-कर्तारं माम् इत्य् अर्थः ॥१९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कत्थसे आत्मानं श्लाघसे, गर्वेण बहु जल्पसि वा । तच् च युक्तम् एवेत्य् आह—मन्द ! हे निर्बुद्धे! दुष्टेति वा । मन्दत्वम् एवाह—नेति । आसन्नं मृत्युत्वाद् ईदृशं कत्थनं युक्तम् एवेति भावः । शूरो\ऽपि त्वं न खलु भवसीत्य् आह—पौरुषम् इति । स्मेति प्रसिद्धम् एवैतद् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कत्थसे आत्मानं श्लाघसे । तच् च युक्तम् इत्य् आह—मन्द ! हे निर्बुद्धे! मन्दत्वम् एवाह—नेति । आसन्न-मृत्युत्वाद् ईदृशं कत्थनं युक्तम् एवेति भावः । शूरो\ऽपि न खलु भवसीत्य् आह—पौरुषम् इति । स्मेति प्रसिद्धम् एवैतद् इत्य् अर्थः ॥१९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.२० ॥

इत्य् उक्त्वा भगवाञ् छाल्वं गदया भीम-वेगया ।

तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शाल्वः ॥२०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्व-शक्तिमान्, भीमो भयङ्करो वेगो निपातो यस्यास् तया संरब्धः क्रुद्धः सन् तताड एतद् अपि महा-विरुद्धं तेन तथा तादृश-ताडनेन सद्य एव मरण-सम्भवात् शाल्वः ॥२०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : स साल्वः ॥२०॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.२१ ॥

गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत ।

ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।

देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो\ऽन्तर्धानानन्तरम् । मुहूर्ते मुहूर्तम् इते काले गते सति । पुरुषः द्वारकास्थ-पुरुषः ॥२१-२२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक् निवृत्तायां निवृत्त्य पुनः श्री-भगवद्-धस्ताब्जं गतायां । किं वा, गदायां तत्-प्रहारे सन्निवृत्तायां सत्यां तु मुहूर्ते सति एक-मुहूर्त-मध्य एवेत्य् अर्थः । पञ्चम्य्-अन्त-पाठे पाठान्तरे तद्-अनन्तरं शिरसा नत्वा वचः स-गद्गदं प्रणयेनाह ॥२१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गदायाम् इत्य् अर्धकम् । सम्यक् निवृत्तायां निवृत्तः पुनः भगवत्-कर-पङ्कजं गतायां मुहूर्ते जाते सतीत्य् अर्थः । मुहूर्ताद् इति क्वचित् पुरुषः श्री-वसुदेवस्य प्रसिद्ध-भृत्य-विशेषाकारः वचस् तत्-सन्देशं गीर्-देवी-मते अप्रहित इति च्छेदः । वचो यत् किञ्चिद् वचन-मात्रं, न तु सत्यम् इत्य् अर्थः ॥२१॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पर-मतम् आह—गदायां सन्निवृत्तायाम् इत्य् आरभ्य यावत् स्वाप्नं यथा [भा।पु। १०.७७.२९] इति ॥२१-२२॥


॥ १०.७७.२२-२३ ॥

कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल ॥

बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ।

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।

विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : घृणी दयावान् ॥२३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्रकृतिं स्वभावम् ॥२३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : अद्यापि एवं वदन्ति राजर्षे! मुनयः केचनान्विताः [भा।पु। १०.७७.३०] इति वक्ष्यति, तथापि श्रुति-कटु-दोषोऽसह्य एव समाधीयते—निशम्य इत्य्-आदि । अमानुषीं प्रकृतिं गतः, विमनस्कः विशिष्ट-मनाः स्नेहाद् अपि अघृणी अकातरः चेत् अप्राकृतः यथा यथावत् बभाष इत्य् अर्थः ॥२३॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हे कृष्ण-संज्ञ! वीप्सा त्रासानुकारात् । हे महाबाहो ! इति त्वत्-पितुः शत्रुणा बद्ध्वा नयनं परमानुचितम् इति भावः । किं च, हे पितृ-वत्सल ! इति शोकं सञ्जनयति—उप स्व-समीपे उपरि वा नीतः । "अपनीत" इति पाठो वा । अपमान्य्-अर्थं व नीत इत्य् अर्थः । न च त्वत्-पिता आत्मानं मोचयितुं शक्य इत्य्-आदिकं दृष्टान्तेन बोधयन् शोकम् अधिकं जनयति—सौनिकेन इति । पशु-पतिना व्याधेनेत्य् अर्थः । कृष्णः साक्षाद् भगवान् ,९अपि प्रकृतिं स्वभावं विमनस्कः शोकाकुलः सन् यतो घृणी पितरि कृपावान्, अतः स्नेहात प्राकृतवत् स्वयं स्वस्मिन्न् एव दूतं प्रति वा बभाषे ॥२३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हे कृष्ण! एतत्-संज्ञया प्रसिद्ध! वीप्सा त्रासानुकारात् । हे महाबाहो ! परम-वीर ! इत्य् अर्थः । इति त्वत्-पितुः शत्रुणा बद्ध्वा आनयनं परमानुचितम् इति भावः । किं च, हे पितृ-वत्सल ! इति शोकं जनयति । अपनीतः अपमान्य अपकारार्थं वा नीत इत्य् अर्थः। न च त्वत्-पिता आत्मानं मोचयितुं शक्त इत्य्-आदिकं दृष्टान्तेन बोधयन् शोकम् अधिकं जनयति—शौनिकेन इति पशु-घातिना व्याधेनेत्य् अर्थः । गीर्-देवी-मते—अपिता इति छेदः । पितृ-सदृशः कश्चिन् माया-निर्मित इत्य् अर्थः ॥२२॥

कृष्णः स्वयं भगवान् अपि प्रकृतिं स्वभावं विमनस्कः शोकाकुलः सन् घृणी पितरि कृपावान्, अतः स्नेहात् प्राकृतवत् स्वयं स्वस्मिन्न् एव बभाषे ॥२३॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : निशम्य विप्रियम् इत्य्-आदि । अमानुषीं प्रकृतिं गतः, आकृतिर् एव तस्य मानुषी मनुष्य-सदृशी, न प्रकृतिर् इत्य् अर्थः । विमनस्को विशिष्ट-मनाः । स्नेहाद् अपि स्नेहेनापि अघृणी स्थिरः, यतोऽप्राकृतः । एवं सन् यथा यथावद् बभाषे ॥२३॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : घृणी दयावान् ॥२३-२५॥


॥ १०.७७.२४ ॥

कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः ।

शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अहो विधिर् दैवम् ॥२४॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : कथं रामम् असम्भ्रान्तम् इत्य्-आदि । नैवेदम् इत्य् आत्मनः सर्वज्ञता-प्रतिपादनं, बलवान् विधिर् इति पितृ-विशेषणं, स च निर्बलो न भवति, विधिर् विधान-कर्ता, यथा कृमयः कार्य-विधाता (?), अतो मायैवेयम् ॥२४॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : असम्भ्रान्तम् अप्रमत्तम् अल्पीयसा अधमेनापि अहो दुर्घटम् अपि विधातुर् इच्छया घटेतेति शोकाद् आह—विधिर् बलवान् इति । एतच् चाज्ञानादिकं परमं विरुद्धम् एव तच् चाग्रे स्वयम् एव भगवता श्री-बादरायणिना व्यक्तं वक्ष्यते ॥२४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : असम्भ्रान्तम् अप्रमत्तम् अल्पीयसा तद्-अपेक्षयातिक्षुद्र-बलेनापि अहो दुर्घटम् अपि विधातुर् इच्छया घटतेति शोकाद् आह—विधिर् बलवान् इति ॥२४॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : तत् किम् ? इत्य् आह—कथम् इत्य्-आदि । एवं-भूतं रामं जित्वा कथम् अल्पीयसा क्षुद्रेण शाल्वेन बलवान् मे पिता नीतः ? कीदृशः पिता ? विधिः, सर्वतो-भावेन समर्थः । तद् इदं मृषैवेति सार्वज्ञ्य-प्रकटनम् ॥२४॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.२५ ॥

इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः ।

वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इदं वक्ष्यमाणम् ॥२५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोविन्दे गवाम् इन्द्र इति परम-वात्सल्यं सूचितम् । प्रति पुनः परावृत्त्या उपस्थितः साक्षात् समीपम् आगतः । किं कृत्वा ? वसुदेवम् इव मायया वसुदेव-सदृशम् एकम् आनीय कृष्णं शोकाकृष्ट-चित्तम् इति भावः । महा-मायावी उवाच च ॥२५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रत्युपस्थितः पुनः परावृत्त्य समीपम् आगतः । किं कृत्वा ? वसुदेवम् इवानीय कञ्चित् तद्-आकारम् उपस्थाप्य ॥२५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.२६ ॥

एष ते जनिता तातो यद्-अर्थम् इह जीवसि ।

वधिष्ये वीक्षतस् तेऽमुम् ईशश् चेत् पाहि बालिश ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : जनिता जनयिता । ईशश् चेच् छक्तश् चेत् ॥२६॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यद्-अर्थं पितृ-निमित्तम् । पितरि मृते त्वम् अपि मरिष्यसीति वृद्ध-वसुदेव-कृपया त्वां न मारयामि । त्व् अस्मिन् पुनस् त्वाम् अप्य् अहं मारयिष्यामीति भावः ॥२६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : एष ते तव अजनिता तातः, अजनितायाम् अजातायाम् अपि तातः पितृ-व्यपदेशवान्, वस्तुतस् त्वम् अजनिर् एव तथाप्य् एष तातः, तथा प्रसिद्धेः । यद्-अर्थं जीवसि जीव इवाचरसि लुप्तायिः । अस्य स्नेहेनैव जीववत् अस्य पुत्रवत् वर्तसे । वीक्षतो वीक्षमाणस्य तव पुरतोऽमुं वधिष्ये, पाहि चेत् त्वम् ईशः वलितुं शीलं येषां ते बालिनः बलवन्त इत्य् अर्थः । तान् श्यति तन्ष् करोतीति बालिशः, तस्य सम्बोधनम् ॥२६॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तव जनकः न त्व् अन्न-दानादि-लक्षणः पिता इति सम्बन्ध-विशेषेण शोक-भरम् उत्पादयति । यद्-अर्थं यद् धेतोः इह संसारे जीवसि उत्पाद्य वर्तसे । यद् वा, यत्-पालनार्थं जीविकां सम्पादयसीत्य् अर्थः । वीक्षतः साक्षात् पश्यतो\ऽपि तव बालिश! हे मत्-प्रभावानभिज्ञ! ॥२६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनिता जनकः, न त्व् अन्न-दात्र्-आदि-लक्षणः पिता इति सम्बन्ध-विशेषेण शोक-भरम् उत्पादयति—यद्-अर्थम् इति । सत्-पुत्रस्य तद्-अर्थे प्राण-त्यागौचित्याद् इति भावः । वीक्ष्यतः साक्षाद् ईक्ष्यमाणस्यापि तव । हे बालिश! मत्-प्रभावानभिज्ञत्वाद् इति भावः ।

गीर्देवी तु वाचयति—यद्-अर्थम् इह मयि जीवसि बलं प्रकटयसि, स एष ते तव अजनिता जनको न भवति, अत एव अतातस् तातो न भवतीत्य् अर्थः । तस्मात् पश्यतस् ते इन्द्रजालम् इव कौतुकेन पश्यति त्वयि अमुं वधिष्ये, तत्र निजोद्देश्यम् आह—ईशम् इति चेद् इत्य् अवधारते धत्से पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भा।पु। ११.४.१०] इतिवत् । हे बालिश! बाला मूर्खाः सन्त्य् एषां बालिनो मूर्ख-सभा-पतयः तान् मादृशान् स्यति तनूकरोति क्षिणोतीति, हे तथा-भूत! तस्माद् अवश्यम् ईशः परम-स्वतन्त्रस् त्वं, तस्मात् पाहि मादृशं संसाराद् उद्धरेति ॥२६॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एष ते जनिता इत्य्-आदि । सरस्वती वक्ति—एष वसुदेवस् ते तव अजनिता, अतोऽजनितायाम् अपि अजत्वेऽपि जातः । तातत्वेन स्वीकृतः । वस्तुतस् तव जनिर् एव नास्ति, कुतस् तात-सम्भावना ? यद्-अर्थं यस्य वसुदेव-पूर्व-पूर्व-जन्म-कृतस्य निमित्तं जीवसि, जीव इवाचरसि, जातवत् प्रतीयसे । आचारार्थे क्विपि कृते तल्-लोपात् सिद्धम् । ईक्षतो वीक्षमाणस्य तव पुरतोऽमुं वधिष्येपाहि रक्ष । चेद् यतस् त्वम् ईशः । हे बालिश ! केशि-नाशन ! बालाः केशाः सन्त्य् अस्येति बाली केशी, तं श्यतीति कः ? ॥२६॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जनिता जनयिता ॥२६-२७॥


॥ १०.७७.२७ ॥

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।

उत्कृत्य3 शिर आदाय ख-स्थं सौभं समाविशत् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका), जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एवम् उक्त-रीत्या निर्भर्त्स्य कदुक्त्वा । उत्कृत्त्य छित्त्वा ॥२७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उत्कृत्य छित्त्वा सम्यक् सुखम् आविशद् आरोहत् ॥२७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आनकदुन्दुभेस् तद्-आकारस्य उत्पाट्य छित्त्वा उत्कृत्येति वा पाठः ॥२७॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.२८ ॥

ततो मुहूर्तं प्रकृताव् उपप्लुतः

स्व-बोध आस्ते स्व-जनानुषङ्गतः ।

महानुभावस् तद् अबुध्यद् आसुरीं

मायां स शाल्व-प्रसृतां मयोदिताम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-बोधः स्वतः सिद्ध-ज्ञानवान् अपि स्व-जन-स्नेहतः प्रकृतौ मनुष्य-स्वभावे उपप्लुतो निमग्न आस्ते अतिष्ठत् । ततस् तत् सर्वम् आसुरीं मायाम् अबुध्यत् मायेयम् इति ज्ञातवान् ॥२८॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वसुदेव-शिरश्-छेदोत्तरम् । शाल्वः । तथा च श्रुतिः—

यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।

मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ [ऋ।वे। १०.५४.२]

इति श्रुति-सिद्धो\ऽयम् अर्थः । तथा हि—हे इन्द्र तन्वा वावृधानः स्वरूपेण भृशं वर्धमानस् त्वं बलानि वीर्याणि वक्रम् अलक्षणानि अचरः अकृतेति यत् स्व*-जनेषु प्रब्रुवाणः* व्याकुर्वाणो वर्तस इति शेषः । तस्मात् स्वभाव-रहस्यं स्वजना जानन्तीत्य् अर्थः । शाल्वादि-शत्रुणा क्रियमाणानि यानि युद्धान्य् आहुः । पुराणाद् आवेतानि त्वाम् उद्दिश्य सा मयोदिता माया इत् इन्द्र-जाल-लक्षणैव त्वं पुरा प्रथमतो मुहूर्तं शत्रु-सुख-त्रोटनान् मायां न विवित्से न ज्ञातवान् असि । अद्य अधुना । विवित्से ननु पश्चात् सा सिद्धाभूद् इत्य् अर्थः ॥२८॥ ।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : तत इत्य्-आदि तद्-अनन्तरम् अस्वजनानां विपक्षाणाम् अनुसङ्गतो मुहुर्तम् उपप्लुतः उपद्रुतः सन् महानुभावः श्री-कृष्णस् तत् ताम् आसुरीं मायाम् अबुध्यत, यतः प्रकृतौ स्वभावे सर्वज्ञत्वादि-सर्व-शक्तिमत्त्व-रूपे प्रबोधे स्व-ज्ञाने च आस्ते ॥२८॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततः शिरस उत्पाटनाद् आदानाच् च हेतोः सो\ऽबुध्यत यतो महानुभावः प्रभावो यस्य सः । शाल्वात् प्रसृतां तेन प्रसारिताम् इत्य् अर्थः । ननु कुतस् तस्येदृशी शक्तिः? तत्राह—मयेनोदितां प्रकटितां मयाज् जातां वा ॥२८॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततः शिरस उत्पाटनाद् आदानाच् च हेतोः साल्वात् प्रसृतां तेन प्रसारिताम् इत्य् अर्थः । ननु कुतस् तस्येदृशी शक्तिः ? तत्राह—मयेनोदिताम् उपदिष्टाम् ॥२८॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : ततो मुहूर्तम् इत्य्-आदि । ततस् तद्-अनन्तरम् अस्वजनानां परेषां शत्रूणाम् अनुषङ्गतो मुहूर्तं क्षण-मात्रम् एव उपप्लुत उपद्रुतः सन् महानुभावः श्री-कृष्णस् तत् ताम् आसुरीं मायाम् अबुध्यत, यतः प्रकृतौ भावे सर्वज्ञत्वे स्थितः ॥२८॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रकृतौ मानुष-स्वभावे उपप्लुतः व्याप्तः सुष्ठु अबोधः सन्न् आस्ते स्म तद्-अनन्तरं तु स महानुभावस् तत् सर्वम् आसुरीं मायां साल्वेन प्रसृतां प्रयुक्तां मयात् उदिताम् अबुध्यत ॥२८॥


॥ १०.७७.२९ ॥

न तत्र दूतं न पितुः कलेवरं

प्रबुद्ध आजौ समपश्यद् अच्युतः ।

स्वाप्नं यथा चाम्बर-चारिणं रिपुं

सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : स्वप्नं स्वप्न-प्रपञ्चं यथा ॥२९॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र युद्धे । अच्युतो ज्ञान-च्युति-रहितः ॥२९॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रबुद्धः सन् न सम्यक् साक्षाद् अपश्यत् यतो\ऽच्युतो ज्ञानादौ सदा स्थिर इति भावः । च तु अम्बर-चारिणं तु ॥२९॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रबुद्धः सन् न सम्यक् साक्षाद् अपश्यत् । प्रबुद्धत्वे हेतुः अच्युतः अनश्वर-ज्ञानादित्वाद् इति भावः ॥२९॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अतः एव न तत्रत्येत्य्-आदि स्वाप्नं स्वप्न-प्रपञ्चं यथा ॥२९॥


॥ १०.७७.३० ॥

एवं वदन्ति राजर्षे ऋषयः केच नान्विताः ।

यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : एवं पर-मतम् उपन्यस्तं निराकरोति—एवम् इति । केच केचन । नान्विता अनन्विताः पूर्वापरानुसन्धान-रहिताः । तद् आह—यत् स्व-वाच इति । तन् नानुस्मरन्ति इत्य् अर्थः । अयम् अभिप्रायः—न तावद् राजसूयार्थं रामेण सह गतः श्री-कृष्णः, सङ्कर्षणम् अनुज्ञाप्य [१०.७१.१३] इति पूर्वम् उक्तत्वात् ॥३०॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद् आहपूर्वपरानुसन्धान-राहित्यम् आह—स्व-वाचो यद् विरुध्येतइत्य् अर्थ इति—तद्-विरोध-लक्षणं वचो नानुसन्दधत इति । अत्र तात्पर्यम् आह—अयम् अभिप्रायःन तावद् इत्य्-आदिना । मम त्व् इत्थं प्रतिभाति केच ऋषयः । हे राजर्षे ! एवं वदन्ति । किम्भूताः ?—नान्विताः अनु-पश्चाद्-उक्तिं सङ्कर्षणम् अनुज्ञाप्य [१०.७१.१३] इत्य्-आदिकां न इता न ज्ञातवन्त इत्य् अर्थः । यद् यतः स्वस्य मम वाचः । सङ्कर्षणम् इत्य्-आदिकम् एव ते न स्मरन्ति । अतस् तद्-उक्त्या—आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः [१०.७७.८] इत्य्-आदिकया विरुध्येत । तद्-उक्त्या इति शेषः । विरुध्येत इति भावे लिङ् । उपसर्ग-वशाद् रुधेर् अकर्मकत्वम् ।

तीर्थस् तु—खेचरान्विता विरुध्यन्ते इति पाठम् आह—स्वस्य स्वतन्त्रस्य हरेर् वाचो वेद-लक्षणाः । विरुध्यन्ते यत् हरि-मोहादिकं प्रति हरेर् मोहादिकं न सहन्ते । अजस्यावक्र-चेतसः [क।उ। २.२.१] इति श्रुतेः । खेचरा भूतास् तद्-आवेश-युतास् तथा ॥३०॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ऋषयो मन्त्र-मात्र-विदः ज्ञानि-मात्रेण ऋषयो वा । यद् वा, ऋषयो\ऽपि स्वकीयाया वाचः सकाशाद् यद् विरुध्येत विरुद्धं स्यात्, तत् नानुस्मरन्ति नानुसन्दधते । नूनं वितर्के निश्चये वा । अन्यत् तैर् व्याख्यातम् ।

यद् वा, सभा-पर्वोक्तानुसारेण श्री-वैशम्पायनादि-मते राजसूये श्री-बलदेवस्यापि गमनाद् एवं व्याख्येयम् । महाभारतादौ स्थाने स्थाने श्री-हरिवंशे च श्री-रुक्मिणी-स्वयंवरादौ जरासन्धाद्य्-उक्त्यापि श्री-कृष्णस्य भगवत्त्वं प्रतिपादितम् अस्तीति तेनैतद् विरुध्येतेत्य् अर्थः ॥३०॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ऋषयो\ऽपि स्वकीयाया एव वाचो हेतोर् यद् विरुध्येत विरुद्धं स्यात्, तन् नानुस्मरन्ति नानुसन्दधति । नूनं वितर्के निश्चये वा ॥३०॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : पर-श्लोक-व्याख्या द्रष्टव्या ।


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : एवं वदन्ति इत्य्-आदि । हे राजर्षे ! केचनान्विता मुनय एवं वदन्ति, न तु तत् सत्यम्, सर्वज्ञस्य श्री-भगवतस् तथापि सरस्वत्यैव तत् समाधीयते ॥३०॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एवं पर-मतम् उपन्यस्य निराकरोति—एवम् इति । के च केचन नान्विताः पूर्वापरानुसन्धान-रहिताः । तद् एवाह—यत् स्व-वाचो विरुध्येत विरुध्येरन्न् इति तन् नानुस्मरन्तीत्य् अर्थः । तथा हि, न तावद् राजसूयार्थं रामेण सह गतः कृष्णः सङ्कर्षणम् अनुज्ञाप्य [१०.७१.१३] इति पूर्व-मुक्तत्वात् ततश् चार्यमिश्रादि-सङ्गत इति तैर् वर्णितं कृष्णोक्तं कथं सङ्गच्छतां, यदि वा कष्टेन सङ्गच्छतां नाम तदा पुनर् अपि कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः [१०.७७.२४] इति कृष्णोक्तम् उपपद्यताम् इति ॥३०॥


॥ १०.७७.३१ ॥

क्व शोक-मोहौ स्नेहो वा भयं वा येऽज्ञ-सम्भवाः ।

क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : असम्भावितं चेत्य् आह—क्व शोक-मोहाव् इति । भयं वा दुर्निमित्त-दर्शन-कृतं नूनं हन्युः पुरीं ममेति यद् उक्तं यच् च हस्ताच् छार्ङ्गं न्यपतद् [१०.७७.१३] इत्य् उक्तं । तद् भयं वा क्व इति । अज्ञेषु सम्भवो येषां ते । अखण्डितानि विज्ञान-ज्ञानैश्वर्याणि यस्य सः । तत्र विज्ञानं स्वरूप-विषयम् । ज्ञानं बाह्य-विषयम् ॥३१॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : विपरीतं तत्-कथनं निषेधति—क्व इति ॥३१॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मोहो\ऽज्ञानं ममता वा । ये\ऽज्ञ-सम्भवा इत्य् अनेन श्री-भगवद्-भक्ति-विशेषाज् जायमानास् तु गुणातीता अभिज्ञेष्व् अपि सम्भवतीति ध्वनितम् । विज्ञान-ज्ञानयोर् ऐश्वर्यान्तर्गतत्वे\ऽपि पृथग् उक्तिः प्रस्तावानुसारेण तयोर् आधिक्यापेक्षया । सुरैर् ईडित इति शुद्ध-सात्त्विक-देव-स्तुत्वेन तामस-शोकाद्य्-अभावो\ऽखण्ड-विज्ञानादि-सद्भावश् च दृढीकृतः ॥३१॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मोहः अज्ञानं सुरैर् ईडित इति शुद्ध-सात्त्विक-देवः तत्त्वेन तामस-शोकाद्य्-अभावो\ऽखण्ड-विज्ञानादि-सद्भावश् च दृढीकृतः ॥३१॥


जीव-गोस्वामी (क्रम-सन्दर्भः) : एवं वदन्तीति विरुद्धं यत् तत् स्वयम् एवाह—क्व शोक इति । अत्र अज्ञ-सम्भवा अन्ये लभ्यन्ते, पूर्वे माया-पारवश्य-कृताः चेत् संसारिणाम्, उत्तरे परमार्थ-माधुरी-पारवश्य-कृताः । ते तु संसारोत्तीर्णानां यथा प्रह्लादस्य संसारिणां तद्-बहिर्मुखत्व-मय-दुःख-दर्शनेन श्री-नृसिंह-देवे स्व-शोक-निवेदनं, यथा ब्रह्म-मोहन-लीला-कथनारम्भे श्री-शुक-देवस्य मोहः, यथा श्री-भरतस्य श्री-भगवन्तम् अविदुषि रहूगणे\ऽनुग्रहमयः स्नेहोदयः, यथा वा सनकादीनां श्री-वैकुण्ठ-देवे तत्-पार्षद-शाप-जनित-स्व-भय-निवेदनम् इति एते श्री-भागवते\ऽपि वर्णिताः, यथा

तान् वीक्ष्य कृष्णः सकलाभय-प्रदो

ह्य् अनन्य-नाथान् स्व-कराद् अपच्युतान् ।

दीनांश् च मृत्योर् जठराग्नि-घासान्

घृणार्दितो दिष्ट-कृतेन विस्मितः ॥ [१०.१२.२७]

इति तस्माद् असुरैर् यदि मायया मोहयितुम् इष्यते तदा तु न सर्वथासौ शोक-मोहादि-भाग् भवतीत्य् एव मन्तव्यम् । यत् तु ततो वत्सान् अदृष्ट्वा [१०.१३.१६] इत्य्-आदिकं

वर्णितं तत् पुनः परम-भक्तेन ब्रह्मणा सह लीला-कौतुकार्थम् एव स्वातन्त्र्येणाङ्गीकृतम् इति ज्ञेयम् ॥३०-३१॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : किं च, साल्व-मायया मोह एव तावत् कृष्णस्य न सम्भवेत् । कुतः ? तद्-धेतुकौ वसुदेव-विषयक-स्नेह-शोकौ सम्भवेतां, तथा साल्वाद् भयम् एव तस्य न सम्भवेत्, कुतस् तद्-धेतुकं शार्ङ्ग-पतनं चेत्य् आह—क्व शोक- इति । शोकादयो द्विविधाः अज्ञ-सम्भवाः विज्ञ-सम्भवाश् च । तत्र अज्ञे असर्वज्ञ-जने सम्भवन्ति ये ते वा क्व ? अखण्डितानि विज्ञानादीनि यस्य स परमेश्वरः कृष्णः क्व ? इति तस्माद् विज्ञे मायातीत-लोके सम्भवन्ति ये ते चिन्मयाः शोकादयो भगवद्-भक्ते भगवति च निखिल-रसामृत-मय-स्वरूपे रसाङ्ग-भूत-सञ्चारि-नामानः सन्त्य् एव, ते च दामोदर-लीला गोपी-पूर्व-राग-रासादि-लीला सुव्यक्ता एव द्रष्टव्याः । अत्र भयं वेति भयं पलायन-हेतु-भूत-भय-भिन्नं ज्ञेयम्, अरि-भयात् पलायनम् [३.४.१६] इत्य् उद्धवोक्तेः । तत् तन् न वास्तवं चेत् स्यात् तद्-विदां बुद्धि-भ्रमस् तदा न स्यात् [ल।भा। १.५.६४] इति भागवतामृतोक्तेश् च । इमाम् अगृभ्णन् अशनामृतस्य इति सामान्ये अश्वाभिधानीम् आदत्त इतिवत् ॥३१॥


॥ १०.७७.३२ ॥

यत्-पाद-सेवोर्जितयात्म-विद्यया

हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् ।

लभन्त आत्मीयम् अनन्तम् ऐश्वरं

कुतो नु मोहः परमस्य सद्-गतेः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, यस्य पाद-सेवया ऊर्जिता पुष्कला या आत्म-विद्या, तया अनादिश् चासाव् आत्म-विपर्यय-ग्रहश् च, अहं कृशः सुखी दुःखी इत्य्-आदि-लक्षणः, तं हिन्वन्ति नाशयन्ति सन्तः । ऐश्वरं पदं च । तस्य सतां गतेः कुतो नु मोहः ? इति । अतो वा एतद् वचनं सत्यम् इत्य् अर्थः ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कैमुत्येन तद् एव द्रढयति—किं च, इति । अतो मोहाभावात् । एतद् वचनं ततो मुहूर्तम् [१०.७७.२८] इत्य्-आदि-रूपम् । इत्य् अर्थ इति—न सर्वथा सत्यम् । यद् अचरस् तन्वा [ऋ।वे। १०.५४.२]4 इत्य्-आदि-श्रुत्या तद्-व्यवहारस्य मायिकत्वागमाद् इति भावः ॥३२॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आत्म-विद्यया स्व-तत्त्व-ज्ञानेनानादिं सदा वर्तमानम् आत्मनः स्व-स्व-रूपस्य विपर्ययेण वैपरीत्येन ग्रहं ग्रहणं ज्ञानम् इत्य् अर्थः । आत्मीयं पदं स्वरूपानुभव-लक्षणं मोक्षम् इत्य् अर्थः । ऐश्वरं च श्री-वैकुण्ठ-लोकं कथम्भूतम्? अनन्तं लोकत्वे\ऽप्य् अपरिच्छिन्नं ब्रह्म-घनत्वेन परम-व्यापकत्वात् । नु अहो । मोहो\ऽज्ञानं परमस्य परमेश्वरस्येति दुर्निमित्त-दर्शनं, तेन चिन्ता च । तथा सतां मुक्तानां मोक्षानपेक्षक-भक्तानां वा गतेर् गम्यस्येति सच्चिदानन्द-विग्रहत्वेन च दौर्भेदनादिकं न सम्भवेद् एवेति भावः ॥३२॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आत्म-विद्यया स्व-तत्त्व-विज्ञानेन आत्मनः स्व-स्वरूपस्य विपर्ययेण वैपरीत्येन ग्रहणं ज्ञानम् इत्य् अर्थः । आत्मीयं पदं स्वरूपानुभव-लक्षणं मोक्षम् इत्य् अर्थः । ऐश्वरं च वैकुण्ठ-लोक । कथं-भूतम्? अनन्तं लोकत्वे\ऽपि श्री-विग्रहवद् अपरिच्छिन्नं नु अहो मोहः अज्ञानं परमस्य परमेश्वरस्य इति दुर्निमित्तता-दर्शनं तेन चिन्ता च न सम्भवेत्, तथा सतां मुक्तानां मोक्षानपेक्षक-भक्तानां वा गतेर् गम्यस्येति सच्चिदानन्द-विग्रहत्वेन च दोर्-भेदनादिकं न सम्भवेद् एवेति भावः

अथवात्र प्रकरणे सर्वं नासमञ्जसं, किन्तु किञ्चिद् एव कुरु-वृद्धानुज्ञापना-पूर्वक-प्रस्थानादीनाम् अपेक्षितत्वात् श्री-बलदेवस्य सभा-पर्वादाव् उक्तं । तत्र गमनं च न विरुद्धं पूर्वम् आगतस्यापि पश्चाद् यज्ञार्थम् आह्वानेन तथा श्री-कृष्णेन सहैवागत्य पुर-रक्षार्थावस्थानेन च सम्भवात् पूर्वं द्वारकायां स्थिते तु श्री-बलदेवे श्री-प्रद्युम्नस्य युद्धादौ प्राधान्यायुक्तत्वात् प्राकृता अपि तदानीं जानीयुः किम् उत श्री-वैशम्पायनादयः अतस् तेषां तत्र मोहो न सम्भवेत् । दुर्निमित्त-दर्शनादिकं च लीलैव ततस् तदपि न विरुद्धं यत् तु श्री-भगवद्-अन्तर्-वृत्तित्वात् तैर् दुरूहं विरुद्धं च तत्स्वयम् एवाह—क्व शोकेति । अखण्डित-विज्ञानादित्वेन शोकादि-वशत्वेन चोक्तत्वात् स्व-वाग्-विरुद्धता तत्राज्ञ-सम्भवा इति । विशेषणाद् विज्ञ-सम्भवा अन्ये लभ्यन्ते पूर्वे माया-पारवश्य-कृताः ते च संसारिणाम् उत्तरे परमार्थ-वस्तु-माधुरी-पारवश्य-कृताः ते तु संसारोत्तीर्णानां यथा श्री-प्रह्लादस्य संसारिणां तद्-बहिर्मुखत्वमय-दुःख-दर्शनेन श्रीनृसिंहदेवे स्व-शोक-निवेदनं यथा वा ब्रह्म-मोहन-लीला-कथनारम्भे श्री-शुक-देवस्य मोहः । यथा वा, श्री-भरतस्य श्री-भगवन्तम् अविदुषि रहूगणे\ऽनुग्रहमयः स्नेहोदयः यथा वा सनकादीनां श्री-वैकुण्ठ-देवे तत्-पार्षद-शाप-जनित-स्व-भय-निवेदनम् इति एते श्री-भगवतो\ऽपि दामोदर-लीला-प्रसङ्गे भक्तानुग्रह-स्वभावता-स्थापनया स्थापिता एव यथैव श्री-शुक-देवेनापि स्वयम् अन्यत्र वर्णितम्

तान् वीक्ष्य कृष्णः सकलाभय-प्रदो

ह्य् अनन्य-नाथान् स्व-कराद् अपच्युतान् ।

दीनांश् च मृत्योर् जठराग्नि-घ्।आसान्

घृणार्दितो दिष्ट-कृतेन विस्मितः ॥ [१०.१२.२७]

यथा तत्रैव च सर्व-सात्वत-गण-रक्षार्थं शाल्वेन युद्ध्यतीति तस्माद् असुरैर् यदि मायया मोहयितुम् इष्यते तदा न सर्वथा शोक-मोहादि-भाक् भवतीत्य् एव मन्तव्यं यत् तु—

ततो वत्सान् अदृष्ट्वैत्य पुलिने\ऽपि च वत्सपान् ।

उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [१०.१३.१६] इति ।

ब्रह्मणो माययैव तत्-तद्-वर्णितम् । तत् पुनः परम-भक्तेन ब्रह्मणा सह-लीला-कौतुकार्थम् एव स्वातन्त्र्येणाङ्गीकृतम् इति ज्ञेयम् । एवम् एवोत्तर-पद्ये\ऽपि अनाद्यात्म-विपर्यय-ग्रहं हिन्वन्तीत्य् एवोक्तम् इति दिक् । एवं ततो मुहूर्तम् इत्य्-आदि-द्वये गीर्देवी-मतम् एतत् मुहूर्तं व्याप्य तत् तस्मात् मिथ्याकारणाद् धेतोर् यः स्वजनस्य श्री-वसुदेवस्य अनुषङ्गो\ऽनुस्मरणं तृतीयायास् तसिल्, तेनोपप्लुतो व्याप्तो\ऽपि प्रकृतौ स्व-स्वरूपे स्व-बोधे निज-सार्वज्ञ एवास्ते स्व-व्यवच्छेदेनासीत् यतो महानुभाव इत्य्-आदि मुहूर्तानन्तरं तु बहिर् अपि नापश्यद् इत्य् आह—नेति । तत्र दृष्टान्तः प्रबुद्धः स्वप्न-समये\ऽपि स्वप्नो\ऽयम् इति निर्णीत-बोधो जनो यथा क्षणात् स्वाप्नं तत्-सम्बन्धि वस्तु न पश्यति तथेति ॥३२॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : साल्वमायया मोहासम्भवे कैमुत्यम् आह—यत्पादसेवया ऊर्जिता पुष्टा या आत्मविद्या तया अनादिश्चासावात्मविपर्ययग्रहश् च अहं कृशः सुखी दुःखीत्यादिलक्षणः तं हिन्वन्ति दूरीकुर्वन्ति सन्तः ऐश्वरं पदं न लभन्ते तस्य सतां गतेः परमेश्वरस्य साल्वस्य नरस्य मायया कुतो मोहो\ऽज्ञानं तस्मान्न तद्वाक्यं सत्यम् इत्य् अर्थः ॥३२॥


॥ १०.७७.३३ ॥

तं शस्त्र-पूगैः प्रहरन्तम् ओजसा

शाल्वं शरैः शौरिर् अमोघ-विक्रमः ।

विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं

सौभं च शत्रोर् गदया रुरोज ह ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : किं तर्हि सत्यं ? तद् आह—तं शस्त्र-पूगैर् इति । वर्म कवचम् । रुरोज बभञ्ज ॥३३॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्यमाशङ्क्य वक्ति-किम् इति । तत्सत्यम् ॥३३॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ओजसा वेगेन महा-बलेन वा प्रहरन्तम् इत्य् अनेन लीलया विद्ध्वेति ध्वनितम् । यतः शौरिः अतो\ऽमोघो विक्रमः शक्तिर् येषां तैः पाठान्तरे सत्य-पराक्रमः शिरसो मणि वर्मादीनां तत्-तत्-क्रमेण च्छेदनं वीर-दर्पाधिक-निरसनार्थम्, यतः शत्रोः ह हर्षे तावद् एव राजसूयस्य पश्चाद् इन्द्रप्रस्था-छ्री-द्वारकाम् आगत-मात्र इति शेषः ॥३३॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं पर-मत-मिश्रं पूर्वं प्रकरणं संशोध्य केवल-स्व-मतम् उत्तरं प्रकरणम् आह—वादीनां तत्-तत्-क्रमेणाच्छादनं तद्-दर्पस्याधिक-निरसनार्थं यतः शत्रोः ह हर्षे ॥३३॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तद् एवं पर-मतं दूषयित्वा प्रकृतम् अनुसरति—तम् इति । रुरोज बभञ्ज ॥३३॥


॥ १०.७७.३४ ॥

तत् कृष्ण-हस्तेरितया विचूर्णितं

पपात तोये गदया सहस्रधा ।

विसृज्य तद् भू-तलम् आस्थितो गदाम्

उद्यम्य शाल्वोऽच्युतम् अभ्यगाद् द्रुतम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : [+++]{।मर्क्}


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्सौभम् । कृष्णस्य साक्षाद्भगवतो हस्तेनेरितया प्रेरितया अतो विशेषेण चूर्णितं सत् तोये समुद्रे । अच्युतम् इति । तत्रैव स्थिरतया वर्तमानम् इति भावः । द्रुतम् अपि सुखमगात् ॥३४॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्सौभं तोये समुद्रे ॥३४॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् सौभम् ॥३४-३६॥


॥ १०.७७.३५ ॥

आधावतः स-गदं तस्य बाहुं

भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् ।

वधाय शाल्वस्य लयार्क-सन्निभं

बिभ्रद् बभौ सार्क इवोदयाचलः ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : लयार्क-सन्निभं प्रलय-कालीन-सूर्य-सदृशम् ।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य शाल्वस्य । अथ बाहुच्छेदानन्तरम् ॥३५॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरं सद्य एवेत्य् अर्थः । अद्भुतत्वम् एवाह—लयेति । वधाय बिभ्रत् श्रीहस्ते दधानः सन् बभौ अशोभत श्री-कृष्णः उदयाचलस्य श्यामतया श्री-कृष्णेनोपमा एवं दुष्टवधार्थं चक्रस्य तेजोभरप्रकाशः सूचितः तेन युद्धे\ऽपि मनोहरशोभारं उक्तः ॥३५॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भुतम् एवाह—लयेति । वधाय बिभ्रत् श्री-कृष्णः यत्र दुष्टवधार्थं चक्रस्य तेजोभरप्रकाशः सूचितः तथा युद्धे\ऽपि

श्री-भगवतो मनोहरशोभाभर इति ॥३५॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.३६ ॥

जहार तेनैव शिरः स-कुण्डलं

किरीट-युक्तं पुरु-मायिनो हरिः ।

वज्रेण वृत्रस्य यथा पुरन्दरो

बभूव हाहेति वचस् तदा नृणाम् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेनैव चक्रेणैव । तदा शिरश्छेदनसमये ॥३६॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरुमायिनो बहुल-माया-युक्तस्यापि सकुण्डलम् इत्य्-आदिविशेषणाभ्यां तीक्ष्णधारेण लीलया मूलतः शीघ्रहरणं बोधयति । अत एवोक्तं—हरिर् इति । महाकायस्यापि तथा शिरोहरणे दृष्टान्तः—वज्रेणेति । हाहेति परमाद्भुतत्वात् ॥३६॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुरुमायिनः बहुलमायायुक्तस्यापि जहार छित्त्वा स्वसैनिकाग्रे विचकर्ष सकुण्डलम् इति विशेषणाभ्यां तत्र स्वकौतुकम् अपि बोधयति हा हेति परमाद्भुतत्वात् ॥३६॥


जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।


॥ १०.७७.३७ ॥

तस्मिन् निपतिते पापे सौभे च गदया हते ।

नेदुर् दुन्दुभयो राजन् व्योम्नि देव-गणेरिताः ॥

सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥

श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-गणैर् ईरिता वादिताः । किं च, सखीनाम् इति ।

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम् सप्तसप्ततितमो\ऽध्यायः ॥७७॥


वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्मिन् शाल्वे । अन्यदाह—किं चेति ॥३७॥

इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे सप्तसप्ततितमो\ऽध्यायः ॥७७॥


श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :

इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां सप्तसप्ततितमो\ऽध्यायः ॥७७॥


सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पापे महादुष्टे नितरां पतिते मृते अपुनर् आवृत्तिमोक्षप्राप्ते अथ च सौभे च हते नाशिते इति तस्मिन् स्थिते\ऽपि तत्पुत्रादीनां पुनर् दुष्टताशङ्कानिरासेन देवगण-(देववर्ग)प्रहर्षः सूचितः । अत एव नेदुः । हे राजन्न् इति प्रहर्षेण स्वयं राजमानस्तमयि हर्षयति । सखीनां शिशुपालादीनामपचितिमानृण्यं कुर्वन् कर्तुमभ्ययात्तदैवेति महानिर्बुद्धित्वं सूचितम् । तत्र हेतुः-रुषा क्रोधेन विचारलोपाद् इति भावः ॥३७॥

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे

श्री-श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषणां

श्री-दशम-टिप्पण्यां सप्तसप्ततितमो\ऽध्यायः ॥७७॥


जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नितरां पतिते मृते अपुनर् आवृत्तिं प्राप्ते सौभे च हते नाशिते सखीनाम् इत्य् अर्धकम् । अपचितिं वैर-निग्रह-रूपेण प्रत्युपकारेणान्त्येष्टिम् इव कुर्वन् कर्तुम् अभ्यगात् तदैव इति महा-निर्बुद्धित्वं सूचितं तत्र हेतुः रुषेति ॥३७॥

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे

श्रीमज्-जीव-गोस्वामि-कृत-वैष्णव-तोषिण्यां

सप्तसप्ततितमो\ऽध्यायः ॥७७॥


जीव-गोस्वामी (क्रम-सन्दर्भः) :

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे

श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे

सप्तसप्ततितमो\ऽध्यायः ॥७७॥


जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :

इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे

श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे

सप्तसप्ततितमो\ऽध्यायः ॥७७॥


विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सखीनां शिशुपालादीनाम् अपचितिं वैर-निर्यातनेनान्त्येष्टिं कुर्वन् कर्तुम् ॥३७॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तसप्ततितमो\ऽध्यायः सङ्गतः सङ्गतः सताम् ॥७७॥


(१०.७८)


  1. स उपस्पृश्य ↩︎

  2. बलेश्वराः (व्च्त्) ↩︎

  3. उत्पाट्य ↩︎

  4. यद् अचरस् तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।

    मायेत् सा ते यानि युद्धान्य् आहुर् नाद्य शत्रुं ननु पुरा विवित्से ॥ ↩︎