शाल्वस्य यदुभिः सह युद्धम् ।
॥ १०.७६.१ ॥
श्री-शुक उवाच—
अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप ।
क्रीडा-नर-शरीरस्य यथा सौभ-पतिर् हतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
ततः षट्-सप्ततितमे वृष्णि-शाल्व-महा-मृधे ।
द्युमद्-गदा-प्रहारेण रणात् प्रद्युम्न-निर्गमः ॥
संपाद्य धर्म-राजस्य राजसूय-महोदयम् ।
निहत्य सौभ-राजादीन् अथोपारमद् अच्युतः ॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो महाभारत-बीज-वपनोत्तरम् । अथ सौभ-राजादि-वधोत्तरम् । अथ युधिष्ठिर-राजसूयानन्तरम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ आनन्तर्ये, तदानीम् एवेन्द्रप्रस्थाच् छ्री-द्वारकाम् आगतेन श्री-भगवता साक्षात् तस्य वधात्, तच् चाग्रे व्यक्तं भावि । अद्भुतत्वे हेतुः क्रीडा-मयं नर-शरीरं मनुष्याकारो यस्य तस्य, तेन विचित्र-मधुर-क्रीडा-विस्तारणाद् इत्य् अर्थः । यतः कृष्णस्य जगच्-चित्ताकर्षक-लीलस्य । हे नृप ! इति तच्-छ्रवणे सर्व-लोक-पालकस् त्वम् एव योग्य इति भावः । किं तद् ? इत्य् अपेक्षायाम् आह—यथा इति । येन प्रकारेण हतस् तत्-प्रकारं कर्म । किं वा, यथा यत् सौभस्य पतिर् इति कृष्ण-वध्यत्वं सूचितम् । तत्रोपदद्धात कथाम् आह—शृण्व् इति ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ आनन्तर्ये, तदानीम् एवेन्द्रप्रस्थाच् छ्री-द्वारकाम् आगतेन भगवता साल्वस्य वधात् तच् चाग्रे व्यक्तं भावि । अद्भुतत्वे हेतुः क्रीडा-मयं नर-शरीरं प्रसिद्ध-मनुष्याकारो विग्रहो यस्य तस्य, तेन विचित्र-मधुर-क्रीडा-विस्तारणाद् इत्य् अर्थः । किं तद् ? इत्य् अपेक्षायाम् आह—यथा इति । येन प्रकारेण हतः, तत्-प्रकारकं कर्म ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
षट्सप्ततितमे साल्वे रुद्र-प्राप्ते रणे वरम् ।
कुर्वति द्युमतः शस्त्राद्य्-उक्तं प्रद्युम्न-निष्क्रमः ॥१॥
क्रीडा-प्रधानश् चासौ नर-शरीरश् चेति शाक-पार्थिवादिः ॥१-४॥
॥ १०.७६.२ ॥
शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः ।
यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तथा निर्जिताः ॥२-३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : शिशुपालस्य सखा इति । जरासन्धादिभ्यो\ऽपि तस्य द्वेष-विशेषश् च ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सङ्ख्ये युद्धे । तस्य का वार्ता ? जरासन्धादयो\ऽपीत्य् अर्थः ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.३ ॥
शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् ।
अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव प्रतिज्ञाम् अकरोत् । अनादरे षष्ठी, अशक्ये\ऽर्थे प्रतिज्ञा नोचितेत्य्-आदिकं तेषां वाक्यम् अनादृत्येत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथापि प्रतिज्ञाम् अकरोत् । अनादरे षष्ठी, अशक्ये\ऽर्थे प्रतिज्ञा नोचितेति तेषां वाक्यम् अनादृत्येत्य् अर्थः । यद् वा, शृण्वत्स्व् इत्य् अर्थः । ततश् च प्रतिज्ञाया दार्ढ्यं बोधयति॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.४ ॥
इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् ।
आराधयामास नृपः पांशु-मुष्टिं सकृद् ग्रसन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रत्यहं सकृत् पांशु-मुष्टिम् एकां ग्रसन् भक्षयन् ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इति उक्त-रीत्या । पांसुर् धुलिः, पांसुर् धूलौ च सस्यार्थ-चिर-सञ्चित-गोमये इति मेदिनी ॥४॥
[——————————————————————————————————————]{दिर्=“र्त्ल्”}
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अत एव देवं निजेष्ट-दैवतं दैत्यानाम् आराध्यं वा आराधयामास । पशुपतिम् इति श्लेषेण पशु-तुल्यानाम् अपि जनानां पालकत्वेन परम-दयालुत्व-ज्ञानाद् इति सूचितम् । अयम् आराधने हेतुः । किं च, प्रभुम् आश्व् अभीष्ट-दान-समर्थम् । नृपः सुख-भोग-योग्यो\ऽपीत्य् अर्थः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्य् एतत् प्रतिज्ञाय यतो मूढः निर्बुद्धिः श्री-कृष्ण-नाथानाम् अन्यतो (ग्ला)हान्य्-अभावाननुसन्धानात् । तम् एव कथम् आराधयामास इत्य् अत्र योग्य-पदान्य् एवोपन्यस्यति—देवं निजेष्ट-दैवतं पशूनां स्व-सदृशानां तु प्रमथानां पतिं प्रभुम् आश्व् अभीष्ट-दान-समर्थं चेति । नृपः सुख-भोग-योग्यो\ऽपीत्य् अर्थः । पांस्व् इति योग्यम् एव तस्य प्रमथतस् तद्-भोजनम् इत्य् उपहास-व्यञ्जना ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : तम् एव कथम् आराधयामास ? इत्य् अत्र योग्य-पदान्य् एवोपन्यस्यति—देवं निजेष्ट-दैवतं पशूनां सदृशं प्रमथानां पतिं प्रभुम् आश्व् अभीष्टार्थ-दान-समर्थं चेति ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.५ ॥
संवत्सरान्ते भगवान् आशुतोष उमा-पतिः ।
वरेण च्छन्दयामास शाल्वं शरणम् आगतम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : संवत्सरान्त इति । आशुतोषोऽपि भगवान् उमा-पतिः श्री-कृष्ण-विद्विषि शाल्वे वरस्य वैफल्यं मन्यमानो न शीघ्रं प्रादुरभूत् । तस्यातिनिर्बन्धम् आलक्ष्य संवत्सरान्ते च वरेण छन्दयामास इच्छां कारितवान् "वरं वृणीष्व" इत्य् उवाचेत्य् अर्थः ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—कृष्ण-द्विषि वर-दानानौचित्ये\ऽपि भक्ताभीष्टदत्वात् तं वरार्थं प्रेरयामासेति भावः ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवान् सर्वज्ञो देय-तद्-इष्ट-वरस्य वैफल्यं जानन्न् अपीत्य् अर्थः । किं च, उमा श्री-भगवद्-भक्ता पार्वती, तस्याः पतिर् अपि छन्दयामास । कुतः? शरणम् आगतं महा-दुष्कर-व्रतेन प्रपन्नम् इत्य् अर्थः । अन्यथा शरणागतोपेक्षा-दोष-प्रसक्तिः कर्म-वैयर्थ्यापत्तिश् च । वरेण छन्दनं चान्तः-सन्तोषाभावाद् अप्रत्यक्षीभूतेनाकाश-वाण्यैवेति ज्ञेयम्, आविर्भावाद्य्-अनुक्तेः ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भगवान् इति वर-वैफल्य-ज्ञाने कारणम्, अत एव तादृश-वरेण अपि छन्दयामास । अत उमाया मायांशत्वात् पतिर् इति वञ्चनाभिप्रायेण । ननु तर्ह्य् अनागमनम् एवोचितं ? तत्राह—शरणम् आगतम्, अन्यथा शरणागतोपेक्षा लोके प्रवर्ततेति शङ्कयेति भावः । अत्र सामान्यतो यत् तस्य पशुपतित्वं तच् छ्मशान-वासादिनैव तादृश-सङ्गेन निज-गोपनायैव दत्तात्रेयस्य स्त्र्य्-आदि-सङ्गवत् यच् च भगवद्-विरोधिभ्यो\ऽपि वर-प्रदानं तत् पुनस् तान् उत्साह्य बल-सहायादि-सम्पादने न योग्यांश् च कृत्वा श्री-भगवद्-अत्यभीष्ट-युद्धादि-लीलायां प्रवर्तनायेति वास्तवं ज्ञेयम् ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : भगवान् इति वर-वैफल्य-ज्ञाने कारणम् । अत एव तादृश-वरेण अपि छन्दयामास । ननु तर्ह्य् अनागमनम् एवोचितं ? तत्राह—शरणम् आगतम्, अन्यथा शरणागतोपेक्षा लोके प्रवर्तेतेति शङ्कयेति भावः ॥५-३३॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरेण दित्सितेन छन्दयामास वशीचक्रे, अभिप्राय-वशो छन्दः इत्य् अमरः ॥५-६॥
॥ १०.७६.६ ॥
देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् ।
अभेद्यं कामगं वव्रे स यानं वृष्णि-भीषणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शाल्वः । यानं गमनवत् पुरम्, यानं वाहनम् उद्दिष्टं यानं गमनवत् पुरम् इति धरणिः । अभेद्यम् इहाकार-वाच्येन वासुदेवेन भेद्यम् इति वाचो\ऽभिप्रायः । अत एव तत् कृष्ण-हस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा [भा।पु। १०.७७.३४] इत्य् उक्त्या विरोधो नेति ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कामगं स्वेच्छया भूमौ जले गिरौ वियत्य् अपि गच्छतीति तथा तत्, यानं रथम् । स साल्वो वृष्णीनां भीषणं भयङ्करम् एव, न तु घातकम् इति । श्री-शिवेनैवान्तस् तथा-प्रेरणाद् इति ज्ञेयम् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत एव वृष्णीनां भीषणम् एव वव्रे, न तु घातकम् इति श्री-शिवेनान्तस् तथा प्रेरणाद् इति भावः ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सौभं सौभ-संज्ञम् ॥६॥
॥ १०.७६.७ ॥
तथेति गिरिशादिष्टो मयः पर-पुरं-जयः ।
पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तथेति प्रतिज्ञाय गिरिशेनादिष्टोऽयस्-मयं लोह-मयं पुरं सौभ-संज्ञं निर्माय रचयित्वा प्रादात् ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अयस्मयादीनि छन्दसि [पा। १.४.२०] इति पाणिनिः ॥७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गिरौ कैलासे शेते निश्चलतया वसतीति तथा, तेन आदिष्ट इत्य् आकाश-वाण्यैव मयं प्रत्य् आदेश इति । तथा परेषां शत्रूणां पुरं जयतीति तथा सः, इति सौभस्यापि तादृशत्वं सूचितम् । पुरम् इति श्री-रुद्राज्ञादरेण दैत्य-पक्ष-पातेन च दैत्य-शिल्पिना मयेन तद्-अशेष-सैन्याद्य्-आधारतया पुरवत् यानस्यैव निर्माणात् । अत एव प्रकर्षेण श्री-गिरिशादिष्टाद् अप्य् उत्कृष्टतया अदात् ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : परपुरञ्जय इति । सौभ-सदृश-पुरादि-निर्माणमय्या माययेति शेषः । पुरं तद्-आकारं महा-रथं प्रकर्षेण दैत्य-पक्षत्वाद् उत्कृष्टया अदात् ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अयस्मयं लोहमयम् ॥७॥
॥ १०.७६.८ ॥
स लब्ध्वा कामगं यानं तमो-धाम दुरासदम् ।
ययौ द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तमसोऽन्धकारस्य धाम आश्रयम् । अन्यैर् दुरासदं दुष्प्राप्यम् ॥८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स शाल्वः । तमो-धाम नील-रश्मि-पुञ्जात्मकत्वात् । वृष्णि-कृतं रुक्मिणी-विवाहादिषु जातम् ॥८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स महा-दुष्टत्वेन प्रसिद्धः । अन्यत् तैर् व्याख्यातम् । यद् वा, तमोधामत्वाद् एव दुरासदम् अस्त्राद्य्-अनतिक्रम्यं चक्षुषादृश्यम् इति वा ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तमोधामत्वाद् एव दुरासदं चक्षुषा\ऽप्य् अगम्यम् । अत्र वृष्णि-कृतं कृष्ण-कृतम् इति पाठ-द्वयम् ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.९ ॥
निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।
पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पुरीं श्री-द्वारकां निरुद्ध्य सर्वतो बहिर् आवृत्य । इति महा-विस्मयात् सम्बोधयति—भरतर्षभ इति । यद् वा, अनिष्टाशङ्किनं तम् आश्वासयति । महा-वंश्य-श्रेष्ठेन त्वया श्री-भगवन्-माहात्म्यं ज्ञायत एवेति कापि शङ्का कार्येति भावः । बभञ्ज भङ्क्तुम् ऐच्छत् ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : निरुद्ध्येति त्रिकम् । तत्र विहारान् स [१०ब्] इत्य् अन्तम् एकं वाक्यं । दिश [११ब्] इत्य् अन्तं त्व् अन्यत् । पुरीं श्री-द्वारकां निरुद्ध्य सर्वतो बहिर् आवृत्य इति महा-विस्मयात् सम्बोधयति—भरतर्षभ इति । यद् वा, अनिष्टाशङ्किनं तम् आश्वासयति महा-वंश-श्रेष्ठत्वेन त्वया श्री-भगवन्-माहात्म्यं ज्ञायत एवेति कापि शङ्का न कार्येति भावः । बभञ्ज भङ्कुम् उद्यतवान् । वर्तमान-सामीप्ये वर्तमानवद् वा ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.१० ॥
स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः ।
विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : प्रासादा गृहाः । अट्टालास् तद्-उपरि-गृहाः । तोलिकास् तत्-पर्यन्त-कुड्यानि, ताः । विहारान् क्रीडा-स्थानानि च स बभञ्ज । किं च, विमानाग्र्यात् तस्माच् छस्त्र-वृष्ट्य्-आदयः पेतुः ॥१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तद्-उपरि प्रासादोपरि। तत्-पर्यन्तम् अट्टालिका-पर्यन्तम् । स शाल्वः । न केवलं स एव बभञ्ज, अपि तु तस्मान् महादेव-प्रसाद-लब्ध-विमानाद् अपीत्य् आह—किं च इति ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोपुराणि पुर्या बहिर् द्वाराणि तत्-सहितानि, द्वाराण्य् अन्यानि, भञ्जनार्थम् एव नितरां नैरन्तर्यादिना पेतुः ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोपुराणि पुर्या बहिर् द्वाराणि तत्-सहितानि द्वाराण्य् अन्यानि भञ्जनार्थम् एव नितरां नैरन्तर्यादिना पेतुः ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तोलिका भित्तिः । विहारान् क्रीडा-स्थानानि । स साल्वः । ततश् च विमान-श्रेष्ठात् सौभात् ॥१०॥
॥ १०.७६.११ ॥
शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः ।
प्रचण्डश् चक्रवातोऽभूद् रजसाच्छादिता दिशः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : आसार-शर्करा धारा-संपात-वज् जलोपलाः1 ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : जलोपलाः करकाः ॥११।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रचण्डश् चासौ चक्र-वातश् च वात्या विमानाग्र्याद् एवाभूत् । स-विसर्ग-पाठे पाठान्तरे\ऽपि स एवार्थः । रजसा चक्रवात-भरेण तद्-विमानाद् एव निपतितेन वा ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रचण्डश् चासौ चक्रवातश् च वात्या विमानार्थम् एव नितरां नैरन्तर्यादिना पेतुः । प्रचण्डश् चासौ चक्रवातश् च वात्या विमानाग्र्याद् एवाभूत् शीघ्र-भ्रमणोर्जित्यात् रजसा चक्रवात-[भके]{।मर्क्} ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.१२ ॥
इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।
नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : शं सुखं नाभ्यपद्यत ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सौभेन तत्-संज्ञ-पुरेण तत्रत्य-शाल्वेन च ॥१२-१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भृशम् अर्द्यमाना शस्त्र-वृष्ट्य्-आदिभिर् हिंस्यमाना2 सती कृष्णस्य परमानन्द-घनस्य, अतः परमानन्दमय्य् अपि नगरी शं न अभितो\ऽपद्यत लेभे । नन्व् एतद् असम्भाव्यम् इव ? तत्राह—त्रिपुरेण अर्दिता मही सर्वा यथा शं नाभ्यपद्यत तद्वद् इति । त्रिपुर-दाहादिना पूर्वं यथा श्री-रुद्रस्य माहात्म्यं श्री-भगवता विस्तारितम्, तथाधुनापि तद्-अर्थं तद्-इच्छयैवेति भावः । तच् च त्वया बुध्यत एवेत्य् आह—हे
राजन्न् इति । यद् वा, मही त्रिपुरेण यथार्दिता, तथार्द्यमानापि शं नाभ्यपद्यत किम्, काक्वा । अपि त्व् अभ्यपद्यतैव, यतः कृष्णस्य । अन्यत् समानाम् ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भृशम् अर्द्यमाना हिंस्यमाना श्री-कृष्णस्य पुरीति साश्चर्य-दुःख-वचनं तस्य दुर्बोध-लीलस्य तादृश्य् एवेच्छेति भावः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.१३ ॥
प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः ।
मा भैष्टेत्य् अभ्यधाद्3 वीरो रथारूढो महा-यशाः4
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बाध्यमाना बाधितुम् आरभ्यमाणा वीक्ष्य आलक्ष्य "मा भैष्ट" इति प्रजा आश्वास्य अभ्ययाद् अभिमुखं गतः । "अभ्यधाद्" इति पाठे पाठान्तरे\ऽब्रवीत् । यतो भगवान् सर्व-शक्ति-युक्तः, अतो वीरो\ऽभय-दानादौ समर्थः । किं च, महारथो योध-वर्ग-श्रेष्ठः । पाठान्तर-पक्षे\ऽपि निर्ययाव् इति ज्ञेयम् एव ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बाध्यमाना बाधितुम् आरभ्यमाणाः "मा भैष्ट" इत्य् अभ्यधात् अब्रवीत् यतो भगवान् स्वयं भगवत एव तृतीय-व्यूहः । तथा लौकिक-लीलया च वीरः शूरः । तत्रापि महारथः योध-वर्ग-श्रेष्ठः तत् किम् इदम् आश्चर्यं ? किन्तु तादृश-क्षुद्रैर् अपि लीला-कौतुकम् इति भावः ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रद्युम्नो भगवान् वीक्ष्य इति "युद्धार्थं बलभद्रे निर्जिगमिषति सति वयम् एव शाल्वं वधिष्यामः । त्वया तु सुखेनात्रैव स्थेयम्" इत्य् उक्त्वा साम्बादिभिः सह प्रद्युम्न एव निर्जगामेति ज्ञेयम् ॥१३-१६॥
॥ १०.७६.१४-१५ ॥
सात्यकिश् चारुदेष्णश् च साम्बोऽक्रूरः सहानुजः ।
हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ ॥
अपरे च महेष्वासा रथ-यूथप-यूथपाः ।
निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका), वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : चारुदेष्णः श्री-प्रद्युम्नानुजः, अक्रूरानुजा आसङ्ग-सारमेयादयश् चतुर्दश, भानुविन्दः श्री-सत्यभामा-पुत्रो भानुर् एव, शुकः सारणः श्री-रोहिणी-सुतौ, च-काराः सर्वेषां निर्याणे प्राधान्यापेक्षया । अपरे च श्री-भगवत्-पुत्र-भ्रात्र्-आदयः । महान् सर्वतः श्रेष्ठतर इष्वासो येषां ते । अतो रथानां यूथानि पान्ति ये, तेषाम् अपि यूथपाः, यादव-वीर-वर्ग-मुख्यतमा इत्य् अर्थः । दंशिताः सन्नद्धा रथादिभिर् गुप्ताश् च निर्ययुः । पुराद् इति पुरी-रक्षणार्थं श्री-बलदेव-वसुदेवोग्रसेनादयो\ऽपि ते चासन्न् इति ज्ञेयम्। रथादीनां यथा-पूर्वं सेनाङ्गत्वे गुप्त-साधनत्वे च श्रैष्ठ्यम् ॥१४-१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सात्यकिर् इति युग्मकम् । चारुदेष्णः प्रद्युम्नानुजः । अक्रूरानुजाः आसङ्ग-सारमेयादयश् चतुर्दश । भानुविन्दः श्री-सत्यभामा-ज्येष्ठ-पुत्रो भानुर् एव । शुकः कश्चित् सारणः श्री-रोहिणी-सुतः । च-कारात् सर्वेषां निर्याणे प्राधान्यापेक्षया पुरी-रक्षार्थं श्री-बलदेव-वसुदेवोग्रसेनादयो\ऽभ्यन्तर एवासन्न् इति ज्ञेयम् । रथादीनां यथा-पूर्वं सेनाङ्गत्वे गुप्ति-साधनत्वे च श्रैष्ठ्यम् ॥१४-१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.१६ ॥
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह ।
यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तुमुलं व्याकुलम् । लोम-हर्षणं रौद्रम् ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः पुरात् प्रद्युम्न-निर्गमनोत्तरम् ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साल्वानाम्, यद् वा, साल्वस्य तदीयानां चेत्य् अर्थः । साल्वदेशोद्भवानां यथेति सुप्रसिद्धदेवासुरमहायुद्धोपमया महत्त्वम्। यद् वा, काक्वा ततो\ऽप्याधिक्यं सूचयति । तदेवाह—तुमुलम् इति विशेषणाभ्याम् ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : साल्वानां साल्व-देशोद्भवानां । यद् वा, साल्वस्य तदीयानां चेत्य् अर्थः ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.१७-१८ ॥
ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः ।
क्षणेन नाशयामास नैशं तम इवोष्ण-गुः ॥
विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः ।
शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नैशं निशि भवं । तम उष्ण-गुः सूर्य इव ॥१७॥ किं च, विव्याधेति । स्वर्ण-मयानि पुङ्खानि पृष्ठ-प्रान्ता येषां तैः । अयो लोहं तन्-मयानि मुखान्य् अग्राणि येषां तैः । ध्वजिनी-पालं सेनान्यम् । सन्नतानि निम्नानि पर्वाणि ग्रन्थयो येषां तैः ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ताः शिला-द्रुम-वर्षणादि-रूपाः । उष्णा गावः किरणा तुमुलं यस्य स तथा ॥१७॥ माया विनाश्य युद्धं चकार इत्य् आह—किं च इति ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ताः पूर्वोक्ताः शस्त्र-वृष्ट्य्-आदि-निपात-लक्षणाः सर्व-महिषी-वर्ग-ज्येष्ठायाः5 सुतः ज्येष्ठ-पुत्र इति माहात्म्य-भरः सूचितः । अतः क्षणेन सद्य एव नाशयामास । नैशम् इति दृष्टान्तेन निर्गम-मात्रेण अनायासेन युगपद् अशेष-माया-नाशनं द्योतयति । स्वर्ण-पुङ्खैर् इत्य्-आदि-विशेषणैः शराणां गाढ-वेधकत्वम् उक्तम् ॥१७-१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : रुक्मिण्याः श्री-महिषी-वर्ग-श्रेष्ठायाः सुतः ज्येष्ठ-पुत्र इति माहात्म्य-भरः सूचितः ॥१७॥ स्वर्ण-पुङ्खैर् इत्य्-आदि-विशेषणैः शराणां गाढ-वेधकत्वं सूचितम् ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नैशं निशा-भवम् । उष्णगुः सूर्यः ॥१७॥ ध्वजिनी-पालं सेनान्यं सन्नतानि निम्नानि पर्वाणि ग्रन्थयो येषां तैः ॥१८॥
॥ १०.७६.१९ ॥
शतेना6ताडयच् छाल्वम् एकैकेनास्य सैनिकान् ।
दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सैनिकान् भटान् । नेतॄन् सारथीन् ॥१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एकैकेन इति प्रत्येकम् एकेनैकेन शरेणेत्य् अर्थः । एवम् अग्रे\ऽपि । वाहनानि ध्वजिनी-पालं साल्वादीनाम् अश्वादीन् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकैकेन इति प्रत्येकम् एकैकेन शरेणेत्य् अर्थः । एवम् अग्रे\ऽपि ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नेतॄन् सारथीन् ॥१९॥
॥ १०.७६.२० ॥
तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः ।
दृष्ट्वा तं पूजयामासुः सर्वे स्व-पर-सैनिकाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : स्व-पर-सेनयोर् वर्तमानाः सर्वे पूजयामासुः संमानितवन्तः ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तच् छाल्वादि-ताडन-रूपम् । तं प्रद्युम्नम् ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अद्भुतं लोकातीतम् । अतो महत् सर्वतः श्रेष्ठम् । यद् वा, महद् अद्भुतं परमाश्चर्यम्, क्षणेनैव तादृश-सर्व-माया-नाशनात्, तथा ध्वजिनी-पालादीनां सर्वेषां शरैर् युगपत् तथा-प्रहरणाच् च । तच् च तस्य युक्तम् एवेत्य् आह—महात्मनो \ऽपरिच्छिन्न-शक्तेर् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अद्भुतं लोकातीतम् अतो महत् सर्वतः श्रेष्ठं । तच् च तस्य नात्यद्भुतम् इत्य् आह—महात्मनः अपरिच्छिन्न-शक्तेर् इत्य् अर्थः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तत् सौभम् ॥२०-२३॥
॥ १०.७६.२१-२२ ॥
बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते ।
माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत् ॥
क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् ।
अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : कदाचिद् बहु-रूपं, कदाचिद् एक-रूपं, क्वचिन् न दृश्यते । एवं दुर्विभाव्यं दुर्वितर्क्यम् अभूत् ॥२१॥ किं च, क्वचिद् इति । एवं तद् दुरवस्थितम् अनवस्थितं चाभूत् ॥२२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत् पुरम् ॥२१॥ तत् पुर-गतम् अन्यद् अद्भुतम् आह—किं चेति । तत् पुरम् ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च श्री-प्रद्युम्न-भयात् तत् सौभम् अलक्ष्यम् अस्थिरं चाभूद् इत्य् आह—बह्व् इति द्वाभ्याम् । बहूनि रूपाणि वर्णा आकारा वा यस्य, तच् च तद्-एक-रूपं च । यद् वा, बहु-रूपं बहुलं च तद्-एक-रूपम् एकं चेति तथा । तत् मयेन महा-मायाविना कृतम् इति माया-मयत्वे\ऽपि विशेष उक्तः । परैर् यादवैः क्वचित् कदाचिद् गिरे रैवतस्य मूर्ध्नि कदाचित् ॥२१-२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च श्री-प्रद्युम्न-भयात् तत्-सौभम् अलक्ष्यम् अस्थिरं चाभूद् इत्य् आह—बह्व् इति द्वाभ्याम् ॥२१॥ क्वचित् कदाचित् गिरेः रैवतकस्य मूर्ध्नि ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.२३ ॥
यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः ।
शाल्वस् ततस् ततोऽमुञ्चञ् छरान् सात्वत-यूथपाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्र यत्र भूम्य्-आदौ । ततस् ततस् तत्र तत्र ॥२३-२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उप समीपे, उपलक्षणतयापि वा लक्ष्येत । सात्वत-यूथपा यादव-महा-वीराः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उप हीने यत् किञ्चिद् अपि लक्ष्यते ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.२४ ॥
शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः ।
पीड्यमान-पुरानीकः शाल्वोऽमुह्यत् परेरितैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्निवद् दाहकः, अर्कवद् युगपत् सर्वतः संस्पर्शो येषां तैः । आशी-विषवद् एक-देश-स्पर्श-मात्रेण मारकत्वाद् दुरासदैर् दुःसहैः पीड्यमानं पुरम् अनीकानि च यस्य सः । परैर् यदुभिर् ईरितैर् मुक्तैः ॥२४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अर्को\ऽर्क-रश्मिः, स यथा सर्वान् अप्य् एकदैव सम्यक् स्पृशति, तद्वद् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् । तत्र सर्वत इति सर्वेष्व् इत्य् अर्थः ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अग्नयः दाहकतया तद्-रूपत्वेन रूपिता इत्य् अर्थः । अर्क-संस्पर्शा अर्कस्येव रश्मि-द्वारा सर्वत्र संस्पर्शस् तापमयो येषां ते च ते च तैः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अग्न्य्-अर्कयोर् इव स्पर्शो येषां, तैः आशी-विषैः सर्पैर् इव दुरासदैः दुःसहैः पीड्यमानं पुरम् अनीकानि च यस्य, सः । परैर् यदुभिर् ईरितैर् मुक्तैः ॥२४-२५॥
॥ १०.७६.२५ ॥
शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः ।
न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भृशार्दिता अपि स्वं स्वं रणं स्वां युद्ध-भूमिम् ॥२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोक-द्वयस्य जिगीषवः क्षात्र-धर्म-प्रवर्तनार्थं यशो-धर्माद्य्-अपेक्षकाः सन्तः । यद् वा, जगद्-धितार्थं निज-कीर्ति-विस्तारणेन ऊर्ध्वाधो-लोक-द्वय-वशीकरणेच्छव इत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : लोक-द्वयस्य जिगीषवः क्षात्र-धर्म-प्रवर्तनार्थं यशो-धर्म-प्रवर्तनार्थं यशो-धर्माद्य्-अपेक्षकाः सन्तः । यद् वा, जगद्-धितार्थं निज-कीर्ति-विस्तारेणोर्ध्वाधो-लोक-द्वय-वशीकरणेच्छव इत्य् अर्थः ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.२६ ॥
शाल्वामात्यो द्युमान् नाम प्रद्युम्नं7 प्राक् प्रपीडितः ।
आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मौर्व्या कार्ष्णायस-मय्या । व्याहत्य प्रहृत्य ॥२६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रद्युम्नात् प्राक् प्रकर्षेण पीडितो\ऽस्त्र-प्रहारेण दुःखितः । "प्रद्युम्नम्" इति पाठे पाठान्ते प्रद्युम्नम् आसाद्येत्य् अन्वयः । प्राक् प्रपीडितस् तेनैव विशेषेण आहत्य प्रहृत्य व्यनदत् अत्युच्चैर् नादम् अकरोत्, यतो बली ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रद्युम्नाद् धेतोः प्राक् प्रकर्षेण पीडितः अस्त्र-प्रहारेण दुःखितः विशेषेण आहत्य प्रहृत्य ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : प्रद्युम्नाद् धेतोः प्राक् प्रथमं पीडितः प्रद्युम्न-प्रयुक्तेन अस्त्रेण बाधितः मौर्व्या कार्ष्णायस-मया ॥२६॥
॥ १०.७६.२७ ॥
प्रद्युम्नं गदयाशीर्ण-वक्षः-स्थलम् अरिन्दमम् ।
अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपोवाह अन्यतो निनाय ॥२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अशीर्ण-वक्षः-स्थलम् अप्य् अपोवाह । किम्-अर्थम्? अरिन्दमं क्षणं विश्रम्य स्वस्थतया निजारिं दमयितुम् इत्य् अर्थः । ननु तथापि रणाद् अपवहनम् अयुक्तम् ? तत्राह—धर्मवित्, अस्वस्थस्य सतो रथिनो\ऽवेक्षणं सारथिः कुर्याद् इति धर्मं जानन् । यतो दारुकः श्री-भगवत्-सारथिः, तस्य आत्मजः ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अशीर्ण-वक्षः-स्थलम् अप्य् अपोवाह । किम्-अर्थम् अरिन्दमं क्षणं विश्रम्य निजारिं दमयितुम् इत्य् अर्थः । तथापि रणाद् अपवाहनम् अयुक्तं, तत्राह—धर्मवित् सारथिः रथि-रक्षण-धर्मं जानन् यतो दारुकस्य आत्मजः ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तं प्रद्युम्न शीर्ण-वक्षः-स्थलम् इति प्रकृत्या द्युमतो गदया चिद्-आनन्द-मय-वक्षसस् तस्य शीर्णत्वासम्भवे\ऽपि लीला-शक्त्यैव तम् युद्धोत्साह-रस-वर्धनार्थम् आवेग-मात्रे उत्पादिते, तं गदयैव शीर्ण-वक्षः-स्थलं मत्वा अपोवाह अन्यत्र निनाय, यतो धर्मवित् सूतः कृच्छ्र-गतं रक्षेत् इति धर्मज्ञः, वस्तुतस् तु अ-कार-प्रश्लेषेण सच्-चिद्-आनन्द-विग्रहत्व-लक्षणं तस्य धर्मं न वेत्तीत्य् अधर्मवित्, तच् च तद्-अज्ञानं तम् परम-सुसङ्गतम् एव, यतो दारुकात्मजः, परीक्षिति भवेद् रागो दारुके च तथोद्धवे [भ।र।सि। ३.२.९०] इति भक्ति-रसामृतोक्तेर् महा-प्रेमवतो दारुकस्यात्मजः प्रद्युम्न-विषयक-महा-स्नेहवान् इति भावः ॥२७॥
॥ १०.७६.२८ ॥
लब्ध-संज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् ।
अहो असाध्व् इदं सूत यद् रणान् मेऽपसर्पणम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अपसर्पणं बहिर् निर्गमनम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कार्ष्णिः लीला-कौतुकाकृष्ट-चित्तस्य भगवतः पुत्र इति तस्यापि तादृशत्वं सूचितम् । अतो वैचित्र्यादिकं सर्वं तस्य सङ्गच्छेतैवेति भावः । यद् वा, लब्धा संज्ञा वीरेषु ख्यातिर् येन सः, अतो मुहूर्तेन स्वस्थः सन्न् अब्रवीद् इत्य् अर्थः । अहो खेदे, मे श्री-यादवेन्द्र-पुत्रस्य मम ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कार्ष्णिः तद्-अपत्यत्वेन तद्वल् लीला-वैचित्र्याकृष्ट-चित्त इत्य् अर्थः । अतो मोहाद्य्-अनुकरणं सर्वं सङ्गच्छेतैवेति भावः । अहो खेदे मे मम श्री-यादवेन्द्र-सुतस्येत्य् अर्थः ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ततश् च लब्धा सम्यक् ज्ञा, "अनेन युद्ध-स्थलाद् अहम् अपसारितः" इति ज्ञानं येन सः कृतावधान इत्य् अर्थः । यद् वा, लब्धा संज्ञा अर्थ-सूचना अपसारण-व्यापारेण स्व-मूर्छा-ज्ञापना सूत-कृता येन सः । अत एव तं प्रति कुपितः सन्न् अब्रवीत्—असाध्व् इति संज्ञा स्याच् चेतनानाम् अहस्ताद् यैः स्वार्थ-सूचना इत्य् अमरः । मुहूर्तेन क्षणेन ॥२८॥
॥ १०.७६.२९ ॥
न यदूनां कुले जातः श्रूयते रण-विच्युतः ।
विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात्8 ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मत् मत्तो विना, क्लीबं चित्तं यस्य तेन । त्वया सूतेन ॥२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राप्तं कल्मषम् अपवादो येन, तस्मात् । कल्मषं पाप-निन्दयोः इति निघण्टुः । "किल्बिष"-पाठे\ऽपि स एवार्थः ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रणाद् विच्युतो\ऽपसृतः को\ऽपि न श्रूयते । क्लीबं पौरुष-हीनं चित्तं यस्य तेन । सुतेन त्वया हेतुना प्राप्तं किल्बिषं पापं येन । यद् वा, प्राप्तं किल्बिषम् अपराधो यं तस्मात् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : क्लीबं पौरुष-हीनं चित्तं यस्य तेन सूतेन त्वया हेतुना । प्राप्तं त्वया किल्बिषं पापं येन तस्मात् ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सूतेन त्वया हेतुना प्राप्तं किल्बिषं कलङ्को येन तस्मात् ॥२९॥
॥ १०.७६.३० ॥
किं नु वक्ष्येऽभिसङ्गम्य पितरौ राम-केशवौ ।
धर्म्याद् युद्धात्9 अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पितरौ राम-कृष्णाव् अभिसङ्गम्य तत्-पार्श्वं गत्वा ताभ्यां पृष्टः स्व-योग्यं किं नु वक्ष्यामि ? इति ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र पितृ-पार्श्वे । किं वक्ष्यामि ? न किम् अपि वक्तुं योग्यो भविष्यामीत्य् अर्थः ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैरि-वधादिना स्वान् रमयतीति रामः, केशवश् च अवहेलया महा-दैत्य-केशि-सूदनात्, तौ इति तयोर् महावीर्यत्वं10 सूचितम् । धर्म्यात् पुण्यजात् शुभकरात् स्व-धर्म-योग्याद् वा इत्य् अवश्य-कृत्यत्वम् उक्तम् । अपक्रान्तो भङ्गं प्राप्तः, आत्मनो मे क्षमं योग्यं कर्म किं कतरद् वक्ष्ये ? अपि तु न किञ्चिद् अपीत्य् अर्थः । यद् वा, क्षमं हितं स्व-धर्म-पालन-लक्षणं पृष्टः सन् । एवं मम महती लज्जा जाता ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैरि-वधादिना स्वान् रमयति इति रामः । केशवश् च हेलया केशि-सूदनात्, ताव् इति तयोर् महा-वीर्यत्वं सूचितम् । धर्माद्य्-अवश्य-कृत्यत्वम् उक्तम् आत्मनः क्षमं योग्यं कर्म ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षमं योग्यम् ॥३०॥
॥ १०.७६.३१ ॥
व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः ।
क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भ्रातृ-जामयो भ्रातृ-भार्याः व्यक्तं निश्चितं मत्-क्लैब्यं कथयिष्यन्ति । तत् कथनम् अनुकरोति—कथं कथम् इति ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तासां कथनं तत्-कथनम् ॥३१-३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपहासश् चातीवाभूद् इत्य् आह—व्यक्तम् इति निश्चितं स्फुटं वा क्लैब्यम् इत्य् अस्य परेणाप्य् अन्वयः । अन्यैः शत्रुभिः कृत्वा मृधे युद्ध-मध्ये तव क्लैब्यं कथम् अभूत्, तत् त्वया कथ्यताम् । तत्र वीप्सा च । वीर! हे शूर ! इति चोपहासाद् एव । यद् वा, अन्यैर् जनैः कथं कथ्यताम्? अपि तु न केनापि कथयितव्यम् इति मा लज्जस्व इत्य् अर्थः । अन्यत् समानम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं मम महती लोक-धर्म-विच्युतिर् जाता उपहासश् चातीवाभूद् इत्य् आह—व्यक्तम् इति मन्य इत्य् अर्थः । भ्रातरो\ऽत्र ज्येष्ठाः पितृव्यादि-पुत्राः ज्ञेयाः । क्लैब्यम् इत्य् अस्य परेणान्वयः । अन्यैः शत्रुभिर् हेतुभिः । तव दैन्यं कथम् अभूत् ? तत् त्वया कथ्यतां । तत्र वीप्सा च । हे वीर ! इति चोपहासातिशयात् । यद् वा, अन्यैर् जनैः कथं कथ्यताम् ? अपि तु नैकेनापि कथयितव्यम् इति मा लज्जस्व इत्य् अर्थः । तद् इदं तु सारथि-भर्त्सनार्थम् एवारोप्य प्रोक्तम् मर्म-भेदकस्येदृश-वाक्यस्य ताभिर् आत्मीयाभिर् अव्यक्तत्वात् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भ्रातृ-जामयो भ्रातृ-भार्याः । हे वीर ! अन्यैः सह मृधे तव क्लैब्यं कथं कथम् अभूत् विस्मये द्वित्वम् ॥३१-३२॥
॥ १०.७६.३२ ॥
सारथिर् उवाच—
धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो ।
सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : विभो ! हे समर्थ ! एतद् अपसर्पणम् । धर्मम् आह—सूत इति ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न मया किल क्लीब-चित्ततया त्वम् अपवाहितः, किन्तु स्व-धर्मापेक्षयैवेत्य् आह—धर्मम् इति । आयुष्मन् ! हे नित्य-विग्रह ! इति । हे विभो ! इति च । त्वयि कथम् अप्य् अनिष्ट-शङ्का नास्त्य् एवेति भावः । तथापि कृतम् । कुतः? धर्मं विशेषेण जानता, कृच्छ्र-गतं कष्टं प्राप्तं सारथिं च रथी रक्षेत् ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आयुष्मन्न् इति नित्य-योगे मतुप् । हे सर्व-काल-व्यापक ! विभो ! हे सर्व-देश-व्यापक ! इति त्वयि कथम् अप्य् अनिष्ट-शङ्का नास्त्य् एवेति भावः । तथापि कृतं । कुतः ? धर्मं विशेषेण जानता कृच्छ्र-गतं कष्ट-प्राप्तं सारथिं च रथी रक्षेत् ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७६.३३ ॥
एतद् विदित्वा तु भवान् मयापोवाहितो रणात् ।
उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपोवाहितोऽपनीतः । उपसृष्ट उपसर्गं पीडां प्राप्त इति कृत्वा । यतः परेण शत्रुणा गदया हतः सन् मूर्च्छितो निःसंज्ञतां गतो भवान् इति ॥३३॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे
श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम्
षट्सप्ततितमो\ऽध्यायः ॥७६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतद् वचनम् ॥३३॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धोत्तरार्धे
श्री-वंशीधर-विरचिते भावार्थ-दीपिका-प्रकाशे
षट्सप्ततितमो\ऽध्यायः ॥७६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां
षट्सप्ततितमो\ऽध्यायः ॥७६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्व-दोषं परिहर्तुं तद् एव द्रढयन्न् उक्त-पोष-न्यायेनाह—एतद् इति । तु एव, एतद् एव ज्ञात्वा, न त्व् अन्यथेत्य् अर्थः । कृच्छ्र-गतत्वम् एवाभिव्यञ्जयति—उपसृष्ट इति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, गदया हतो\ऽपि मूर्च्छितः, समुच्छ्रितस् तेजो-वृद्धिं प्राप्तः, महा-वीरत्व-स्वभावात् । अतः परेण परमेश्वरेण श्री-कृष्णेन उपसृष्टः पुनर् जनित इति मत्वा क्षणं विश्रामार्थं मयोपोवाहितो\ऽपोढः ॥३३॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे
श्री-श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषण्यां
श्री-दशम-टिप्पण्यां षट्सप्ततितमो\ऽध्यायः ॥७६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एतद् इति । परेणोपसृष्टो गदया हतो मूर्च्छितश् च एतद् विदित्वा इत्य् अन्वयः। अपोवाहित इत्य् अस्मिन्न् ओ-कार-मध्यत्वम् आर्षम् ॥३३॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-वैष्णव-तोषिण्यां
षट्सप्ततितमो\ऽध्यायः ॥७६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न व्याख्यातम्।
इति श्रीमद्-भागवते दशम-स्कन्धीये श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे षट्सप्ततितमो\ऽध्यायः ॥७६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
षट्सप्ततितमो\ऽध्यायः ॥७६॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अपोवाहितः अपनीतः उपसृष्टः पीडित इत्य् अर्थः । यतो गदया हतो भवांस् तदानीं मूर्च्छितो\ऽभूत् इति ज्ञात्वैव मया अपोवाहितः । ततश् च धिङ् मूढ मां नैव त्वम् अज्ञासीर् इति प्रत्युक्तिर् ज्ञेया ॥३३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्ति-चेतसाम् ।
षट्सप्ततितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥७६॥
(१०.७७)