राजसूयान्ते\ऽवभृथ-स्नान-महोत्सवः, मय-निर्मितायां युधिष्ठिर-सभायां दुर्योधनस्यावमाननं च ।
॥ १०.७५.१ ॥
श्री-राजोवाच—
अजात-शत्रोस् तं दृष्ट्वा राजसूय-महोदयम् ।
सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) :
पञ्चयुक्-सप्ततितमे यज्ञावभृथ-सम्भ्रमः ।
सुयोधनस्य चाक्षान्त्या मान-भङ्गो दृशि भ्रमात् ॥
दुर्योधनस्यैव दुःखे कारणं प्रष्टुमुक्तमनुवदति-अजातशत्रोर् इति ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सम्भ्रम उत्सवः । अजामविद्यां तनोति विस्तारयतीत्यजातः कलिस्तद्रूपो दुर्योधनः स एव शत्रुर्यस्य सो\ऽजातशत्रुः । यद् वा, -अजातः श्री-कृष्णस्तेन हताः शत्रवो यस्य स तथा । मध्यमपदलोपी समासः । यद् वा, -शत्रुर् इति भावप्रधानो निर्देशः । तथा च न जातं शत्रुत्वं यस्य स तथा । तस्य युधिष्ठिरस्य । तमलौकिकम् ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पापम् इत्य्-आदिना प्रागुक्तस्यापि कारणविशेषप्रकारं बुभुत्सुर् उक्तानुवादपूर्वकं पृच्छति—अजातशत्रोर् इति द्वाभ्याम् । अनेन दुष्टदुर्योधने\ऽपि तस्य द्वेषाभावः सूचितः । तमनिर्वचनीयम्, राजसूय एव महानुदय उत्सवो विभूतिर्वा, तेनोत्कर्षो वा तम्, नृदेवा राजानो ये चान्ये समागतास्ते सर्वे। ब्रह्मन्! हे साक्षाद्वेदरूपेति तत् त्वया विज्ञायत एवेति भावः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पापम् इत्य्-आदिना प्राग्-उक्तस्यापि कारणस्य विशेषं बुभुत्सुर् उक्तानुवादपूर्वकं पृच्छति-अजातेति युग्मकेन । इति दुष्टदुर्योधने\ऽपि तस्य द्वेषाभावः सूचितः दुर्योधनस्य तु मात्सर्ये हेतुः राजानम् आत्मन्येव तदभिमानिनम् इत्य् अर्थः । श्रुतं परम्परया श्री-भगवन्मुखेन तु निश्चिततयेत्य् अर्थः ॥१-२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
पञ्च-सप्ततिमे क्रतु-कृत्ये तत्र कः किम् अकरोद् इति वर्ण्यम् ।
आवभृथ-कुतुकं च विमानो मन्युमांश् च धृतराष्ट्र-तनुजः ॥
श्रुतं त्वन्-मुखात् ॥१॥
॥ १०.७५.२ ॥
दुर्योधनं वर्जयित्वा राजानः स-र्षयः सुराः ।
इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र दुर्योधनाप्रसन्नतायाम् ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुराश् च राजानम् इति राजत्वेन पर-द्रव्यानपेक्षया राजान्तरवत् तस्यापि मद्-योग्यतोक्ता । तथापि तं वर्जयित्वा विना । वर्जयित्वा इति नृ-देवादि-कृतोपेक्षया तस्य मोदो नाभूद् इति भावः । नो\ऽस्माभिः । भगवन् ! हे सर्वज्ञेति तद् वक्तुं त्वम् एव जानासीति भावः ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो न सेहे श्रियं स्फीताम् इत्य् अनेनोक्तं मात्सर्यम् एकं कारणं कारणान्तरम् अपि विवक्षुः स्मृत्य्-आरूढम् अवर्णितं राजसूय-परिशिष्ट-भागम् अपि सिंहावलोक-न्यायेन वर्णयति—पितामहस्येत्य् आदिना ॥२॥
॥ १०.७५.३ ॥
श्री-बादरायणिर् उवाच—
पितामहस्य ते यज्ञे राजसूये महात्मनः ।
बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : दुर्योधनस्यासहन-कारणत्वेन याग-महोत्सवम् एव पुनः सिंहावलोकनेन निरूपयति—पितामहस्य इत्य्-आदिना । एकदान्तः-पुरे तस्य [भा।पु। १०.८५.३१] इत्य् अतः प्राक्तनेन ग्रन्थेन । प्रेम-बन्धनाः प्रेम-यन्त्रिताः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य युधिष्ठिरस्य । प्रेमैव बन्धनम् आयत्तीकरण-साधनं येषां ते ॥३॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते पितामहस्य इति श्रोतुस् तस्य प्रहर्षणार्थं यज्ञे परिचर्यायां विविध-क्रियायां तस्य बान्धवाः । महात्मन उत्कृष्ट-स्वभावस्य । अतस् तत्-प्रेम-बन्धनाः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते पितामहस्य इति श्रोतुस् तस्य प्रहर्षणार्थं यज्ञे परिचर्यायां विविध-क्रियायां तस्य बान्धवाः महात्मनः उत्कृष्ट-स्वभावस्य । अतस् तत्-प्रेम-बन्धनाः प्रेम्णा बध्यन्त इति तथा ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यो न सेहे श्रियं स्फीताम् [भा।पु। १०.७४.५३] इत्य् अनेनोक्तं मात्सर्यम् एकं कारणं, कारणान्तरम् अपि विवक्षुः स्मृत्य्-आरूढम् अवर्णितं राजसूय-परिशिष्ट-भागम् अपि सिंहावलोक-न्यायेन वर्णयति—पितामहस्य इत्य्-आदिना । प्रेम-बन्धना इत्य् अनेन स्वेच्छयैव स्व-रोचिते कर्मणि प्रवृत्ताः, न तु राज्ञा प्रवर्तिताः । अतः पादावनेजन-कर्मणि (१०.७५.५) साभिमानानाम् अशक्ये कृष्ण एव प्रवृत्तः ॥३-५॥
॥ १०.७५.४-५ ॥
भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।
सहदेवस् तु पूजायां नकुलो द्रव्य-साधने ॥
गुरु1-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।
परिवेषणे द्रुपदजा कर्णो दाने महा-मनाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पूजायां सन्-मानने । द्रव्य-साधने नाना-वस्तु-सम्पादने ॥४॥ गुरूणं शुश्रूषणे चन्दनालेपनादौ ॥५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : महानसाध्यक्षः पाक-शालाध्यक्षः महानसः पाकशाला-प्रभूत-शकटालये इति निरुक्तिः । धनाध्यक्षः सूतस् ततः समागत-धन-स्वीकार-परः । तद्-धस्ते धन-वर्धिनी रेखाभूद् अतः श्री-कृष्णानुज्ञया स एव धनाध्यक्षः कृतस् तद्-धस्त-गत-धनस्याक्षयत्वाद् इति ग्रन्थान्तराद् अवसेयम् ॥४-७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तद् एव चतुर्भिर् विविच्य वदन्न् आदौ मुख्य-कर्मसु स्थितान् आह—भीम इति द्वाभ्याम् । भीमादीनां तत्-तत्-कर्मणि प्रवृत्तिस् तत्र तेषां श्रद्धा-विशेषात्, तेन नैपुण्याच् च । अत एव सर्वान्ते निर्दिष्टं महा-मनाः [१०.७५.५] इति प्रत्येकं सर्वेषाम् एव विशेषणं ज्ञेयम् ॥४॥
सतां श्री-वैष्णावानाम् । जिष्णुर् इति शुश्रूषणेन तेषां वशीकरणात्, सताम् एव पाद-प्रक्षालने कृष्ण इति तेन सर्व-चित्ताकर्षणात् । भीमादीनां यथा-पूर्वं तत्-तत्-कर्म-विस्तारापेक्षया तत्-तत्-क्रमेण निर्देशः । एवम् अग्रेऽप्य् ऊह्यम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भीम इति चतुष्केण तद् एव विविच्य वदन्न् आदौ मुख्य-कर्मसु स्थितान् आह द्वाभ्याम् । अध्यक्षो नियोक्ता क्वचित् स्थाने समये क्वचित् स्वयं कर्ता च भीमादीनां तत्-तत्-कर्मणि प्रवृत्तिः, तत्र तत्र तेषां नैपुण्याद् इच्छा-विशेषाच् च अत एव सर्वेषां विशेषणत्वेन निर्दिष्टं महा-मना [भा।पु। १०.७५.५] इति । "महात्मन" इति पाठः क्वचित् ॥४॥
सतां श्री-भगवत्-पक्षपातिनां शुश्रूषणे जिष्णुर् अध्यक्षः सताम् एव पाद-प्रक्षालने श्री-कृष्णो\ऽध्यक्षः । अयं भावः नास्मिन् कर्मण्य् असौ श्री-युधिष्ठिरेण नियुक्तः किन्तु प्रेम-बन्धना इत्य् उक्तत्वात् स्वयम् एव प्रवृत्तः तत् त्व् अन्येषाम् अभिमानित्वात् तेन कर्मणा हीनो यज्ञः सच्-छिद्रः स्यात् तच् च मद्-एक-बन्धोर् अस्य मा भूद् इति कृपयैवेति ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.६ ॥
युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः ।
बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : विकर्णो दुर्योधन-भ्राता शिष्टः । पाठान्तरं स्पष्टम् । "विराट्" इति पाठश् च स्पष्टः । हार्दिक्यः कृतवर्मा । आदि-शब्दाच् छ्री-भीष्म-द्रोणादयो दुःशासनादयश् च । तत्र च कृताकृत-परिज्ञाने भीष्म-द्रोणौ महामती [म।भा। २.३२.५] इति सभा-पर्वोक्त्या तत्रैव तौ ज्ञेयौ । बाह्लीक-पुत्रः सोमदत्तः तत्-पुत्रो भूरिः आद्य-शब्दाद् भूरिश्रवः-प्रभृतयश् च । तथापि बाह्लीक-पुत्रा इति पुत्र-पौत्रयोर् अभेदात् । सन्तर्दनः कैकेयः । श्री-पृथा-भगिनी-श्रुतकीर्ति-पुत्रः । आदि-शब्दात् तद्-भ्रातरश् च ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : विकर्णो दुर्योधन-भ्राता शिष्टः विरा इति पाठः स्पष्टः । हार्दिक्यः कृतवर्मा । आदि-शब्दाच् छ्री-भीष्म-द्रोणादयो दुःशासनादयश् च तत्र कृताकृत-परिज्ञाने भीष्म-द्रौणौ महामती [म।भा। २.३२.५] इति सभा-पर्वोक्त्या । तत्रैव तौ ज्ञेयौ । बाह्लीक-पुत्रः सोमदत्तः तत्-पुत्रो भूरिः आदि-शब्दाद् भूरिश्रवः-प्रभृतयः, तथापि बाह्लीक-पुत्रा इति पुत्र-पौत्रयोर् अभेदात् सन्तर्दनः केकयः श्री-पृथा-भगिनी श्रुतिकीर्ति-पुत्रः आदि-शब्दात् तद्-भ्रातरश् च ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.७ ॥
निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : निरूपिताः नियुक्ताः सन्तो नाना-कर्मसु प्रवर्तन्ते स्म ॥७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदा तत्-क्षण एव प्रवर्तन्ते स्म । तत्र हेतुः—राज्ञ इति । हे राजेन्द्र इति पूर्वेषां तेषां तादृश-माहात्म्येन तव सर्व-राज-वर्ग-श्रेष्ठत्वम् । किं वा, राजेन्द्रस्य तव पितामहस्य तस्य तद् युक्तम् एवेति भावः ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तदा तत्क्षण एव प्रवर्तते स्म ॥७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्णः पादावनेजने ॥५-७॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.८ ॥
ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु
स्विष्टेषु सूनृत-समर्हण-दक्षिणाभिः ।
चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे
चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : ऋत्विजश् च सदस्याश् च सभासदो बहुविदश् च तेषु स्विष्टेषु सम्यक् पूजितेषु सूनृतं प्रियवाक् समर्हणमलङ्कारादि दक्षिणाश् च प्रसिद्धास्ताभिः द्युनद्यां गङ्गायाम् ॥८-१०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततः कालव्यवधानाभावेन ॥८-९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बहु-विदः ऋत्विक्-सदस्येतरे विद्वांसो विप्रादयः । अवभृथे नृप आत्मनोऽन्येषां च स्नपनं चक्रे । तु-शब्दस्यैव तत्-कर्म-योग्यत्वापेक्षया । चक्रुस् तत इति पाठे पाठान्तरे चावभृथे श्री-युधिष्ठिर-स्नपनम् ऋत्विग्-आदयश् चक्रुः । ततस् तत्-पश्चाद् इति तत्-तत्-सिद्ध्यैव स्वस्थ-चित्ततया तस्य कृत्यत्वाद् इति । द्युनद्याम् इति दिव्यत्वेन तस्याम् एव तद्-विधेयत्वात् । तथादूर-गमनेन शोभा-भर-सम्पत्तेश् च । सा चाग्रे व्यक्तीभविष्यति ॥८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : बहुविदः ऋत्विक्सदस्येतरे विद्वांसो विप्रादयः अवभृथे श्री-युधिष्ठिरस्य स्नपनमृत्विगादयश्चक्रुः ततस् तत्पश्चाद् इति तत्तत्प्रसिद्ध्यैव स्वस्थचित्ततया तस्य कृत्यत्वाद् इति विशेषद्योतनार्थं तद्वये\ऽप्यतिशयद्योतनार्थं चैद्ये चेति पश्चान्निर्देशः धुनद्यां गमनस्य कर्मणो यमुनासम्बन्धवद्गङ्गासम्बन्धो\ऽपि स्याद् इति स्पृहया कौलिकराजधान्याः सन्माननापेक्षया च ॥८॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : द्युनद्याम् इत्य् अनेन तत्रैव तस्य विधानाद् इति गम्यते ॥८-१५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.९ ॥
मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः ।
वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : मृदङ्ग-धुन्धुरी-पणव-गोमुखा आनक-भेदाः । आनकः पटहः दुन्दुभिर् वा ॥९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : धुन्धुरी आनकभेदः पटहो दुन्दुभिर्वा ॥९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.१० ॥
नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः ।
वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तेषां वाद्यानाम् । स वाद्यगायननृत्यादिध्वनिः ॥१०-१३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तेषां गायकानां स उत्सवो नृत्य-सम्बन्धी वीणादिभिर् उच्चैर् नादः । तलं कर-तलं । नृत्ये मृदङ्गादीनाम् अपेक्ष्यत्वेऽपि वीणादीनाम् एवोक्तिर् नृत्ये मधुर-वाद्यत्वेन तद्-अपेक्षा-विशेषात् ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वीणा कच्छपी वेणुरूपाङ्गं तलं करतालं नर्तकीनामुचिते लास्ये तेषाम् एव प्राधान्यात् ॥१०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.११ ॥
चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः ।
स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : चित्राणि ध्वज-पताकाग्राणि येषु तैर् इभेन्द्रैः स्यन्दनैर् अर्वभिर् अश्वरि भटैश् च । एवं चतुरङ्गैः सैन्यैर् निर्ययुः ॥११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : रुक्म-मालाः सौवर्ण-पुष्प-निर्मित-माल्यानि । किं वा किरीट-कुण्डलादिभिर् विकारैः स्वर्ण-पङ्क्तयस् तद्-युक्ताः ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवम् अवभृथोत्सवं सामान्यतो वर्णयित्वा तद्-अर्थं प्रस्थानमारभ्य विशेषतो वर्णयति—चित्रेत्यादिभिर्विरेजुरित्यन्तैः । चित्रेति सार्धद्वयकम् रुक्ममालाः स्वर्णपुष्पमाल्यानि । किं वा, किरीटादिस्वर्णपङ्क्तयः तद्युक्ताः ॥११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : चित्राणि ध्वज-पताकाग्राणि येषु तैर् इभेन्द्रादिभिश् चतुरङ्ग-सैन्यैः सह निर्ययुः । अर्वाणोऽश्वाः ॥११-१३॥
॥ १०.७५.१२ ॥
यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः ।
कम्पयन्तो भुवं सैन्यैर् यजमान-पुरः-सराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : यजमानो युधिष्ठिरः पुरःसरो येषां ते ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भूपान् एवाह—यद्व् इति । काम्बोजा महाभारते प्रसिद्धाः सुदक्षिणादयः । अन्येषां बहूनां सद्-भावेऽप्य् एषाम् एवोक्तिः स्नेह-सम्बन्धेन सैन्यादि-समृद्ध्या वा श्रैष्ठ्यस्यापेक्षया ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : भूपानेवाह—यद्विति । काम्बोजाः सुदक्षिणादयः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.१३-१४ ॥
सदस्य-र्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा ।
देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः ॥
स्व् अलङ्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः ।
विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर् विविधै रसैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सदस्या ऋत्विजोऽन्ये च द्विज-श्रेष्ठा निर्ययुः ॥१३॥ किं च, गन्धादिभिः स्वलङ्कृता नरा नार्यश् च मिथो विजह्रुः ॥१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न केवलं निर्ययुरेवेत्य् आह—किं चेति ॥१४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विज-श्रेष्ठाः सदस्य-ऋत्विग्भ्योऽनेय् विप्राः ॥ किं वा, द्विजास् त्रैवणिकास् तेषु श्रेष्ठाः । पुष्प-वर्षिणः पुष्पाणि वर्षन्तः सन्तः रसैर् मिथो विविधतया लिम्पन्त्योऽभितः सिञ्चन्त्यश् च ॥१३-१४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवर्षीत्यर्द्धकम् ॥१३॥ स्वलम् इति सार्द्धकम् । विलिम्पन्त्य इत्य् आदौ स्त्रीत्वं नार्य इत्यस्यैव विशेषणत्वात् । अर्थान्तराणाम् एव विविधतया लिम्पन्त्यो\ऽभितः सिञ्चन्त्यश् च ॥१४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नृदेव्यो नृ-देवस्य युधिष्ठिरस्य पत्न्यः द्रौपदी-यौधेयी-प्रभृतय एव । एतत् सुखम् उपलब्धुं यथा दिवि विमान-वरैर् देव्यस् तथैव रथादिभिर् निरगमन् मातुलेयेति । यथा पत्युर् भागिनेये भागिनेय-शब्दः प्रयुज्यते तथैव पत्युर् मातुलेयेऽपि मातुलेय उच्यते । तस्य देवरत्वात् तेनैव सह परिहासौचित्यात् ता देव रानुत-सखीन् इत्य् उत्तर-वाक्य-दृष्टेश् च । स एवात्र गृहीतः, न तु स मातुलेयस् तेन सह परिहासानौचित्यात् तस्माद् अत्र मातुलेयः प्रसिद्धः कृष्ण एव ततश् च मातुलेयैः कृष्ण-गद-सारणादिभिः सखिभिर् भीमार्जुनादिभिश् च ॥१४॥
॥ १०.७५.१५ ॥
तैल-गोरस-गन्धोद-हरिद्रा-सान्द्र-कुङ्कुमैः ।
पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : रसान् एवाह—तैलेति । किं च, सान्द्र-कुङ्कुमादिभिः पुम्भिर् लिप्तास् तान् प्रलिम्पन्त्यो वार-योषितश् च विजह्रुः ॥१५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यदाह्लादलीलाम् आह—किं चेति ॥१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : गोरसा दध्य्-आदयः । प्रकर्षेण पुम्भ्योऽप्य् आधिक्येन लिम्पन्त्यः । अन्यत् तैर् व्याख्यातम् । तत्र तैलादिभिर् इवेति लेख्ये सान्द्र-कुङ्कुम्बादिभिर् इति लेखक-भ्रमात् । किं च, प्रलिम्पन्त्य इत्य् अस्यैव व्याख्या विलिम्पन्त्य इति ॥ किं वा, अत्रापि प्र-शब्द-स्थाने वि-शब्दो लेखक-भ्रमात् । यद् वा, मूल-पाठ एव तादृशो ज्ञेय इति ॥१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुम्भिरित्यर्धकम् । तैलादिभिः प्रकर्षेण पुम्भ्यो\ऽप्याधिक्येन लिम्पन्त्यः ॥१५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दतीभिर् उदकनोदन-विचित्र-चर्म-यन्त्रैः मल-धियां दुर्योधनादीनाम् एव न तु साधूनाम् ॥१५-१७॥
॥ १०.७५.१६ ॥
गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद्
देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो ।
ता मातुलेय-सखिभिः परिषिच्यमानाः
स-व्रीड-हास-विकसद्-वदना विरेजुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नृभिर्गुप्ता रथादियानैदेव्यो यथा तद्वत् मातुलेयैः सखिभिश् च परितः सिच्यमानाः सव्रीडेन हासेन विकसन्ति वदनानि यासां ताः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एतत् क्रीडनम् । उपलब्धं चक्षुर्विषयीकर्तुम् । देव्यो देवाङ्गनाः । मातुलेयैर् इति कृष्णपट्टराज्यभिप्रायेण सहदेवादिभिरित्य् अर्थः । सखिभिः पतिकनिष्ठसखिभिः । ता नृदेव्यः ॥१६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नृदेव्यः श्री-द्रौपद्याद्याः श्रीरुक्मिण्याद्याश्च, यथा देव्य इति तासां महाकान्त्यादिकं सूचितम्, तथा देवीनां व्योम्नागमनञ्चोक्तम् । मातुलेयस्य श्री-कृष्णस्य साखिभिः, सखीभिः पत्नीभिर् इति केचित्। विशेषेण पूर्वतो\ऽप्याधिक्येन रेजुरशोभन्त ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नृदेव्यः नृदेवस्य श्री-युधिष्ठिरस्य पत्न्यः श्री-द्रौपदीयौधेयीप्रभृतयः गङ्गातीरगमनानन्तरं तदुत्सवोचितां तासां क्रीडाम् आह—सार्धेन ताश् च श्री-द्रौपद्याद्या एव श्रीरुक्मिण्याद्यास्तु प्रायः कौतुकदर्शिन्यः तस्मिन् यज्ञकर्मणि द्रौपद्यादीनाम् एव मुख्यत्वात् मातुलेयशब्दाच् च यथापत्युर्भागिनेये भागिनेयता प्रयुज्यते तथा मातुलेयो\ऽप्यत्र पत्युर्मातुलेय एव गृह्यते स एव युक्तः स्वमातुलेयेन परिहासस्यानर्हत्वात् स च श्री-कृष्ण एव च प्रसिद्धः प्रसिद्धस्यैव च ग्रहणं युक्तं हन्तायमद्रिरबला हरिदासवर्यः इत्य् अत्र श्रीगोवर्धनवत् ततः श्री-कृष्णो देवर इति तत्सहयोगेनान्ये च देवरा गृह्यन्ते ते च निकटा भीमादयः सखायस्तु तेषाम् एव भ्रातृप्राया ज्ञेयाः अत एव देवरानुतसखीनिति वक्ष्यमाणेनैकवाक्यत्वं च अतो लोके विञ्चिन्नर्मप्राप्तेस् तत्र योग्या अन्तरङ्गसम्बन्धान दुष्टदृष्ट्यास्पदानि च ते ॥१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : नृदेव्यः द्रौपद्याद्याः श्री-युधिष्ठिरपत्न्यः मातुलेयो\ऽत्र पत्युर्मातुलेयः श्री-कृष्णसखायश् च पत्युर् एव भ्रातरः श्री-भीमादयः तत्तुल्या अन्ये च केचित् । देवरान् श्री-कृष्णभीमादीन् तत्तुल्यानन्यांश्चेति ॥१६॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.१७ ॥
ता देवरान् उत सखीन् सिषिचुर् दृतीभिः
क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः ।
औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः
क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : देवरान् पति-भ्रातृन् । उत सखीन् सखीन् अपि । दृतीभिर् उदक-नोदन-चर्म-यन्त्रैः सेचन-पात्रैश् च । मल-धियां कामिनाम् ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ता नृ-देव्यः । दृतिश् चर्म-पुटे मत्स्ये इति मेदिनी । स्याद् दृतिर् भेदने सेक-पात्रे च साध्वसे तथा इति निरुक्तिः । आर्द्र-चर्म-स्पर्शस्याशुचित्वापादकत्वाद् आह—सेचन-पात्रैश् चेति, वंश-दलादि-निर्मितैर् इत्य् अर्थः । मला मलिना कामाविष्टा धीर् येषां तेषाम् ॥१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सखीन् श्री-द्रौपद्याद्याः श्री-कृष्णादीन्, श्रीरुक्मिण्याद्याश् च सहदेवादीन् (सहदेवरादीन् (ग)), क्लिन्नाम्बरत्वाद् एव विवृतमभिव्यक्तं गात्रे देहे किं वा, गात्रं सर्वाङ्गम्, तत्रापि विशेषतः कुचादिकं यासां ताः। यद् वा, क्लिन्नाम्बरा अपि अविवृत-गात्र-कुचोरु-मध्या इत्य् अत्र कर्मधारयः, औत्सुक्येन सेकाभिनिवेशेन मुक्त-कवराश् च ताः, च्यवमान-माल्याश् च, विशेषणानाम् एषां यथोत्तरं सेकाभिनिवेश-प्रकारे श्रैष्ठ्यम् । विहारैर् देवरादि-सेक-लक्षणैर् अप्य् आद्य-रसमयैः, क्षोभम् असहिष्णुतया । दुःखम्, मल-धियां दुर्योधनादीनाम् एव, न तु साधूनाम् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : गोत्रत्वेन प्राप्ताव् अपि वैशिष्ट्य-विवक्षया कुचादि-प्रयोगः, किन्त्व् औत्सुक्येन सेकाभिनिवेशेन च मुक्त-कवराश् च ताश् च्यवमान-माल्याश् च । अत्र कवराच् च्यवमानेति कवराः पतमानेति पाठ-विकल्पो दृश्यते । मल-धियां दुर्योधनादीनाम् एव, न तु साधूनां किम् उत तद्-विध-देवरादीनाम् इत्य् अर्थः ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : मल-धियाम् एव, न तु साधूनां किम् उत तद्-विध-देवरादीनाम् इत्य् अर्थः ॥१७-३९॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वपत्नीभिर् जल-विहारानन्तरम् उत्थिताभिः जल-विहार-पूर्व-वृत्त-वर्णनम् इदं वा ज्ञेयं क्रियाभिर् अङ्ग-क्रियाभिः क्रतु-राट् स-शरीरो राजसूय इव ॥१८॥
॥ १०.७५.१८ ॥
स सम्राड् रथम् आरूढः सद्-अश्वं रुक्म-मालिनम् ।
व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-राड् इव ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्रियाभिर् अङ्ग-क्रियाभिः क्रतु-राट् स-शरीरो राजसूय इव ॥१८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स युधिष्ठिरः ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वस्य पत्न्यः श्री-द्रौपदी यौधेयी-प्रभृतयश् च, ताभिः सह विशेषेण सर्वेभ्य आधिक्येनारोचत अशोभत ॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ पुना राज्ञो गमनं वर्णयति—स इति । स्वस्य पल्यः श्री-द्रौपद्याद्याः ताभिः सह ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.१९ ॥
पत्नी-संयाजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः ।
आचान्तं स्नापयाञ्चक्रुर् गङ्गायां सह कृष्णया ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : पत्नी संयाजो याग-विशेषः अवभृथ-सम्बन्धि आवभृथ्यं च तैश् चरित्वा तान् अनुष्ठायेत्य् अर्थः ॥१९-२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति छान्दसत्वात् कर्मणि तृतीयेति भावः । तं युधिष्ठिरम् । आचान्तं कारिताचमनम् । णिज्-अन्ताच् चमेः क्तः ॥१९-२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते पूर्वोक्ताः श्री-द्वैपायनादयः, किं वा, सर्वकर्मकौशलादिना सुप्रसिद्धाः आचान्तं कृताचमनं सन्तं कृष्णया भार्यामुख्यया श्री-द्रौपद्या सहितम् ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ गङ्गां गतस्यावभृथकृत्यं वर्णयति—पत्नीति । ते पूर्वोक्ताः श्री-द्वैपायनादयः ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पत्नी-संयाजो याग-विशेषः आवभृथ्यानि अवभृथ-सम्बन्धि-कर्माणि च तैश् चरित्वा तान्य् अनुष्ठायेत्य् अर्थः ॥१९-२४॥
॥ १०.७५.२० ॥
देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् ।
मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : देवादीनां यथापूर्वं पुष्पवर्षणे श्रेष्ठ्यम् ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : देवादीनां यथापूर्वं पुष्पवर्षणे श्रैष्ठ्यम् ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२१ ॥
सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः ।
महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र गङ्गायाम् । ततो युधिष्ठिरस्नानानन्तरम् । यतो\ऽवभृथस्नानात् । सद्यः-स्नानसमकालम् एवेत्य् अर्थः ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततस् तस्मात् श्री-युधिष्ठिरस्नपनात् पश्चात् तत्र तस्यां गङ्गायां तत्स्नपनतीर्थे वा, वर्णाश्रमाभ्यां तुता इति तेषाम् एव श्रद्धाविशेषात्, इत्यनधिकारादिनान्त्यजा व्यावर्तिताः। यद् वा, अकारप्रश्लेषण वर्णाश्रमरहिता अपि, यतो यत्र यस्माद्वा गङ्गास्नानेन स्वत एव सर्वकिल्बिषमोक्षो\ऽपि, महापातकीति साक्षाद्ब्रह्महत्यादिभ्यः सद्योमुक्तिविशेषापेक्षयेति ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततस् तस्मात् युधिष्ठिरस्नपनात्पश्चात् वर्णा ब्राह्मणादयः तत्र चाश्रमयुता आश्रमिण इत्य् अर्थः । वर्णाश्रमाभ्यां युता इत्यन्त्यजा अपि गृहीताः किन्तु तत्सहयोगस्तेषां न युक्त इति पश्चाद् एव ते ज्ञेयाः, श्री-विष्णु-पुराणे शतधन्वनो मयूरजन्मन्य् अपि तत्स्नाने शुद्धिश्रवणात् यतो यत्रावभृथतीर्थे किम् उत श्री-युधिष्ठिरादिश्रीवेदव्यासाद्यधिष्ठिते किमुततरां गाङ्गे किमुततमां साक्षाच्छ्रीकृष्णसनाथे इति भावः ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२२ ॥
अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः ।
ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अहते नूतने आनर्चार्चितवान् ॥२२-२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथ स्नानोत्तरम् । क्षुमा अतसी तज्जे क्षौमे । अहतं नवमम्बरम् इति पूर्वोक्तलक्षणम् वेत्य् अर्थः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथानन्तरम् एव, आदि-शब्दात् क्षत्रियादीन् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथानन्तरम् एव ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२३ ॥
बन्धूञ् ज्ञातीन् नृपान् मित्र- सुहृदोऽन्यांश् च सर्वशः ।
अभीक्ष्णं पूजयाम् आस नारायण-परो नृपः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यांस् तत्रागतान् ॥२३-२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : बन्धून् श्री-कृष्णादीन्, ज्ञातीन् श्री-भीष्मादीन्, मित्राणि विराटादीनि, सुहृदश् च सम्बन्धिनः, द्रुपदादीन्, अन्यांश् च उदासीनान् नृपान्। बन्धादीनां यथापूर्वं श्रेष्ठ्येन तत्तत्क्रमेण पूजनम् । नारायणः साक्षात् परमेश्वरः श्री-कृष्णस् तत्परः सन् तत्प्रीत्यर्थम् इत्य् अर्थः
॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदिशब्दगृहीतान् एव विवृणोति-बन्धुज्ञातिनृपानिति । बन्धून् श्री-कृष्णादीन् ज्ञातीन् श्री-भीष्मादीन् मित्राणि विराटादीनि सुहृदः सम्बन्धिनः द्रुपदादीन् नृपानिति सर्वत्र विशेष्यम् अन्यानुदासीननृपांश् च बन्ध्वादीनां यथापूर्वश्रेष्ठ्येन तत्तत्क्रमेण पूजनं नारायणः नारायणस्त्वं न हि सर्वदेहिनामात्मासि इत्य्-आद्य्-उक्तमाहात्म्यः श्री-कृष्णः तत्परः सन् तत्प्रीत्यर्थम् इति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२४ ॥
सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- ।
उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः ॥
नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- ।
वक्त्र-श्रियः कनक-मेखलया विरेजुः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुराणाम् इव रुक् कान्तिर्येषां मणिकुण्डलैः सहिताः स्रगुष्णीषादयो येषां ते कुण्डलयुगेनालकवृन्देन च जुष्ट । वक्त्रश्रीर्यासां ताः ॥२४-२९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : जनाः पुमांसः, सुररुक्त्वे हेतुः—मणीति । दुकूलमधःपरिधानपट्टवस्त्रे नारीणामन्याशेषभूषणसद्भावे\ऽपि कुण्डलयुगस्यैवोक्तिर्मुखस्य, कनकमेखलयेति च मध्यदेशस्य शोभाविशेषापेक्षया । अन्यत् तैर् व्याख्यातम् । यद् वा, यतो मणिकुण्डलादयस्तेषु सन्ति, कुण्डलयुगेनालकवृन्देन च जुष्टा वक्त्रश्रीर्यासां ताः । अन्यत् समानाम् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : जनाः पुमांसः ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२५ ॥
अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः ।
ब्रह्म-क्षत्रिय-विट्-शूद्रा राजानो ये समागताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अथावभृथस्नानानन्तरम् ॥२५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ पूजानन्ते महाशीलाः कुलीनाः परम-पूज्या इत्य् अर्थः ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथेति युग्मकम् । अथावभृथपूजानन्तरगृहागमनानन्तरं महाशालाः परम-कुलीनाः परम-पूज्या इत्य् अर्थः । लोकपाला देवेष्वपि मुख्याः श्रीब्रह्मादयः ऋत्विगादीनाम् एषां क्रमेणानुज्ञापनं ज्ञेयम् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महा-शीलाः परम-कुलीनाः ॥२५-३०॥
॥ १०.७५.२६ ॥
देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः ।
पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं युधिष्ठिरम् ॥२६-२७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : लोकपालाः श्रीब्रह्मादयः, तेषां देवान्तर्गतत्वे\ऽपि पृथगुक्तिः पूजाविशेषाद्यपेक्षय तं श्री-युधिष्ठिरं स्वधामानि स्व-स्व-गृहान्, हे नृपेति यज्ञसमाप्त्य्-आदिना सन्तोषात् ॥२६॥ ।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हरिः सर्व-दोष-हरो रूप-गुणादिना स्वस्यापि मनोहरः श्री-कृष्णः तस्य दासो भक्तस् तस्य, अत एव राजा चासौ ऋषिश् च सर्वज्ञानादि-पूर्णस् तस्येति राजसूय-महोदयस्य तस्य सर्व-गुण-पूर्णतादिकं सूचितम् अत एव प्रशंसन्तो\ऽपि नैवातृप्यन् किन्तु प्रीत्यानारतम् एव प्रशंसन्ति स्मेत्य् अर्थः । तत्र दृष्टान्तः मर्त्या मरण-धर्मा नित्यं रोगार्तः अमृतं मरणादि-दुःख-हरं परम-सुख-करं च दिव्य-रसं पिबन् यथा न तृप्यति, तद्वत् ॥२६-२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२७ ॥
हरि-दासस्य राजर्षे राजसूय-महोदयम् ।
नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हरिः सर्व-दोष-हरो रूप-गुणादिना च सर्व-मनोहरः श्री-कृष्णस् तस्य दासो भक्तस् तस्य, अत एव राजा चासौ ऋषिश् च सर्वज्ञानादि-पूर्णस् तस्य, इति राजसूय-महोदयस्य सर्व-गुणतादिकं सूचितम् । अत एवं प्रशंसन्तः स्तुवन्तो\ऽपि नैवातृप्यन्, प्रीत्यानारतम् एव प्रशंसन्ति स्मेत्य् अर्थः । तत्र दृष्टान्तः—मर्त्या मरण-धर्मा नित्य-रोगार्तो\ऽमृतं मरण-दुःखादि-हरं परम-सुख-करं च दिव्य-रसं पिबन् यथा न तृप्यति, तद्वत् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२८ ॥
ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् ।
प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातराः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत ऋत्विग्-आदि-प्रस्थानोत्तरम् ॥२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं यज्ञ-सम्बन्धिनः प्रस्थाप्य स्वकीयांस् तु स्व-स्व-गृहं जिगमिषतो\ऽपि स्नेह-भरेण तत्र न्यवासयद् इत्य् आह—तत इति । तस्मात् ऋत्विग्-आदीनां स्व-स्व-धाम-यानात् पश्चात्, सुहृदः श्री-भीष्मादयः, सम्बन्धिनो द्रुपदादयः, बान्धवा मित्राणि विराटादयस् तान्, च अपि, कृष्णं साक्षाद् भगवन्तम् अपि । ननु महा-साहसं धार्ष्ट्यादिकं चापद्येत, तत्राह—त्यागे कातरो\ऽसमर्थः, किं वा, त्यागे विवशः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं यज्ञ-सम्बन्धिनः प्रस्थाप्य स्वीयांस् तु स्व-स्व-गृहं जिगमिषतो\ऽपि स्नेह-भरेण तत्र न्यवासयत् इत्य् आह—तत इति । यत् तूक्तं—
ततो\ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः ।
ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः ॥
इति तत्र सङ्क्षिप्ते क्रमः पुनर् उत्तरेणानेनैव प्रकरणेन ज्ञेयः ततस् तस्मात् ऋत्विगादीनां स्व-स्व-धाम-यानात् पश्चात् सुहृदः श्री-भीष्मादयः सम्बन्धिनो द्रुपदादयः बान्धवा मित्राणि तथा कृष्णं स्वयं भगवन्तं च तस्य निवासने पूर्वोक्तम् एव हेतुं कार्य-द्वारा विशिष्य दर्शयति त्यागे कातरः विरह-दुःखाद् भीतः इति ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.२९ ॥
भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः ।
प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र युधिष्ठिर-नगरे । युधिष्ठिर-प्रियार्थम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न च तेन स्वातन्त्र्य-भङ्गाच् छ्री-कृष्णस्य तत्रानिच्छा शङ्क्या, किन्तु प्रीतिर् एवाभूद् इत्य् आह—भगवान् इति । परम-स्वतन्त्रोऽपि तत्र इन्द्रप्रस्थे नितरां श्री-महिषी-वर्ग-साहित्य्-आदिनावात्सीत् । यतस् तस्य श्री-युधिष्ठिरस्य प्रियङ्करः । भक्त-वश्यत्वाद् इति भावः । अत एवाङ्गेति स-प्रेम-सम्बोधनम् । ननु श्री-द्वारका-वासिनाम् अपि चिर-विरहाकुलानां प्रियाचरणं योज्यम् । तत्राह—प्रस्थाप्येति । तेषाम् आश्वासनार्थम् एव यदु-वीरान् कृतवर्मादीन् । आदि-शब्दात् सपरिवाराः श्री-प्रद्युम्नानिरुद्धादयः । ननु तेषां प्रस्थापनेन कथं तेषाम् आश्वासनं स्यात् ? तत्राह—स्वान् आत्म-तुल्यान् इत्य् अर्थः । श्री-प्रद्युम्नस्य सर्व-ज्येष्ठत्वेऽपि साम्बादित्वं साम्बस्य मातुस् त्यागाशक्त्या यत्नेन भगवता प्रेषणाभिप्रायेण । सात्यक्य्-आदीन् इति पाठः स्पष्टः । ततश् च स्वान् इति प्रद्युम्नादीन् इत्य् अर्थः । अन्यथाग्राध्याये साम्ब-सेनापतिना सह वक्ष्यमाण-श्री-प्रद्युम्न-युद्धस्यासङ्गतेः ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न च तेन स्वातन्त्र्य-भङ्गाच् छ्री-कृष्णस्य तत्रानिच्छा-शङ्कया प्रत्युत भक्त-प्रीतेर् एव तत्-प्रीतित्वात् प्रीतिर् एवाभूद् इत्य् आह—भगवान् अपीति । परम-स्वतन्त्रो\ऽपि तत्र इन्द्रप्रस्थे नितरां श्रीमहिषीवर्गसाहित्य्-आदिना अवात्सीत् यतस् तस्य परम-भक्तस्य श्री-युधिष्ठिरस्य प्रियङ्करः ननु द्वारका-वासिनाम् अपि चिर-विरहातुराणां प्रियाचरणं योग्यं तत्राह—प्रस्थाप्येति । तेषाम् आश्वासनार्थम् एवेति भावः । ननु तेषां प्रस्थापनेन कथं तेषाम् आश्वासनं स्यात् तत्राह—स्वान् स्वांश-भूतान् इति श्री-प्रद्युम्नस्य द्वारकायां स्थितत्वात् साम्बादीन् इत्य् उक्तं साम्बादिभिः पुत्रैस् तु तन्मातरो\ऽपि गृह्यन्ते ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.३० ॥
इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् ।
सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : गतज्वरो निश्चिन्त आसीत् ॥३०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं पूर्वोक्त-रीत्या ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णेन साक्षाद्-भगवता हेतुना सम्यक् सुखेन सम्पूर्णतया उत्तीर्य । धर्म-सुत इति तत्र तस्य योग्यता सूचिता ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : मनोरथ-महार्णवं यक्ष्ये विभूतीर् भवत इत्य् आरभ्य तद्देवदेवभगवतश् चरणारविन्देत्याद्यन्तेनोक्तलक्षणं कृष्णेन हेतुना सम्यक् सुखेन सम्पूर्णतया चोत्तीर्य ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.३१ ॥
एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : अच्युते आत्मा यस्य तस्य ॥३१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्तःपुरे पुरवद् विस्तीर्णे विमाने\ऽतस् तन्-मध्ये । तस्य युधिष्ठिरस्य ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं दुर्योधनस्यानुताप-हेतुत्वेन श्री-युधिष्ठिरस्य प्रभावं वर्णयित्वा तद्-अनुतापोत्थाने हेत्व्-अन्तरं चाह—एकदेत्य् आदिना दृशेत्य् अन्तेन । श्रियं विभूतिं महित्वं माहात्म्यं साम्रज्यादि-सम्पादन-लक्षणम् । यद् वा, करणे षष्ठी । राजसूयेन महित्वं सर्व-लोक-पूज्यतादि-लक्षणम् । श्रियां महित्वे च हेतुम् आह—अच्युते सर्वैश्वर्य-पूर्णे श्री-कृष्णे आत्मा चित्तं यस्य तस्येति । अयम् अप्य् अनुतापे हेतु-विशेषः । किं वानेन श्रियो महित्वस्य चासाधारण्यम् अभिप्रेतम् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं दुर्योधनस्यानुताप-बीजत्वेन श्री-युधिष्ठिरस्य राजसूयं वर्णयित्वा तद्-अनुतापोत्थाने हेत्व्-अन्तरं चाह—एकदेत्य्-आदिना तद्-दृशेत्य् अन्तेन । एकदेति महाभिमानिनस् तस्य प्रायो निज-शिबिर एव स्थितिर् बोध्यते । ततश् च एकदा नित्य-तत्-श्रवण-मात्सर्योद्दीपिततया कदाचिद् आगतौ सत्यां श्रियं साम्राज्य-लक्ष्मी राजसूय-सम्बन्धि-महित्वं प्रभावं प्रतिष्ठां च वीक्ष्येति पूर्वं राजसूय-समये लोक-सम्मर्दादिना कार्य-व्यग्रतया च नात्यवधानं कृतवान् अधुना तु तत्-तद्-अपगमे विशेषतो दृष्ट्वेत्य् अर्थः । अतप्यत साक्षाद् एव तापं व्यञ्जितवान् इत्य् अर्थः । श्री-युधिष्ठिरस्य तु सा श्रीः तच् च महित्वं युक्तम् एव न च तत्र गर्वादि-दोषो\ऽभूद् इत्य् अत आह—अच्युते सर्वैश्वर्य-सर्व-माधुर्य-परिपूर्णे श्री-कृष्णे आत्मा चित्तं यस्य तस्येति ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : दुर्योधन-मान-भङ्ग-प्रकारम् आह—एकदेति । अच्युतात्मनः कृष्णासक्त-मनसः ॥३१॥
॥ १०.७५.३२ ॥
यस्मिन् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर्
नाना विभान्ति किल विश्व-सृजोपकॢप्ताः ।
ताभिः पतीन् द्रुपद-राज-सुतोपतस् थे
यस्यां विषक्त-हृदयः कुरु-राड् अतप्यत् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : नरेन्द्रादीनां लक्ष्मीर् लक्ष्म्यो विभूतयो विश्वसृजा मयेनोपकॢप्ता विरचिताः । ताभिः सह । कुरु-राड् दुर्योधनोऽतप्यत् ॥३२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यस्मिन्नन्तःपुरे । ताभिर्नरेन्द्रादिविभूतिभिः । यस्यां द्रुपदराजसुतायाम् । कुरुराट् कुरुनगरहस्तिनापुरेश इत्य् अर्थः ॥३२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कदा कथम् इत्य् अपेक्षायां विवृणोति—यस्मिन्न् इति । अन्तःपुरे नाना-विधा विशेषेण नरेन्द्रादि-लक्ष्मीतोऽप्य् आधिक्येन भान्ति राजन्ते । किल निश्चये । तत्र हेतुः—विश्व-सृजा मयेन सभा-निर्माण-द्वारा । किं वा, विश्वकर्मणोपकॢप्ताः, तेनैव पुर-निर्माणात् । पतिं श्री-युधिष्ठिरम् । पतीन् इति चित्सुखः । द्रुपदराजस्य सुतेति तद्-यज्ञे अस्या जन्मना सर्व-रूप-गुणादिमत्त्वं सूचितम् । यस्यां द्रुपद-राज-सुतायां श्रियां वा । विषक्त-हृदयो मात्सर्यादिनाविष्ट-चित्तः । कुरुराड् इति कुरूणां राजाहम् इत्य् अभिमानेन मात्सर्योदयाद् इति भावः ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र राजसूय-माहात्म्यं दर्शितं श्रियं च दिग्दर्शनयोपदिशंस् तद्-धेतुकं तत्-तापम् अनुवदति—यस्मिन्न् इति । अन्तःपुरे नाना-विधाः विशेषेण नरेन्द्रादि-लक्ष्मीतो\ऽप्य् आधिक्येन भान्ति स्म । किल निश्चये । तत्र हेतुः—विश्व-सृजा मयेन सभा-निर्माण-द्वारा । किं वा, विश्वकर्मणोपकॢप्ताः तेनैव पुर-निर्माणात् पतिं श्री-युधिष्ठिरं । पतीन् इति चित्सुखः । द्रुपद-राजस्य सुतेति तद्-यज्ञ एव तस्याविर्भावसूचनेनालौकिकरूप-गुणादिमत्त्वं सूचितं यस्यां पूर्वोक्तायां श्रियां विषक्तहृदयो मात्सर्यादिना आविष्टचित्तः कुरुराडिति कुरूणां राजा\ऽहम् एवेत्य् अभिमानेन मात्सर्योदयाद् इति भावः ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नरेन्द्रादीनां लक्ष्म्यः सम्पदो नाना-विधा भान्ति । विश्वसृजा मयेनोपकॢप्ता विरचिता । ताभिर् लक्ष्मीभिः सहिता द्रौपदी । यस्यां यासु लक्ष्मीषु विषक्त-हृदयः मात्सर्याविष्ट-चित्तः कुरु-राड् दुर्योधनः ॥३२॥
॥ १०.७५.३३ ॥
यस्मिंस् तदा मधु-पतेर् महिषी-सहस्रं
श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् ।
मध्ये सुचारु कुच-कुङ्कुम-शोण-हारं
श्रीमन्-मुखं प्रचल-कुण्डल-कुन्तलाढ्यम् ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : महिषी-सहस्रम् इति बहुत्वोपलक्षणम् । क्वणद्भिर् अङ्घ्रिभिः शोभा यस्य । मध्ये सुचारु सुचारु-मध्यम् इत्य् अर्थः । कुच-कुङ्कुमैः शोणा हारा यस्य तत् । श्रीमन्ति मुखानि यस्य तत् । चलैः कुण्डलैः कुन्तलैश् चाढ्यं सम्पन्नम् अशोभतेति शेषः ॥३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा यज्ञान्तोत्सवे । इत्य् अर्थ इति-मध्य-शब्दस्यैद्-अन्तत्वं निपात्यते । मध्यं सुचारु यस्य तन्-मध्ये सुचारु इति विग्रहाद् इति ध्येयम् ॥३३-३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तदा राजसूयानन्तरं मधुपतेर् निजाशेष-रूप-गुणादि-प्रकटनार्थं मधु-कुलेऽवतीर्य श्रेष्ठतां गतस्येति तन्-महिषीणाम् अपि तादृशत्वम् अभिप्रेतम् । श्रोण्या भरेणातिशयेन भारेण वा हेतुना शनकैश् चलद् इति शेषः । अत एव क्वणद् अङ्घ्रि-शोभम् । यद् वा, श्रोणीभरेण विशिष्टम् । अत एव शनकैः क्वणद्भिर् अङ्घ्रिभिः शोभा यस्य तत् । श्रीमन्-मुखत्वे हेतुः—चपलेति चञ्चलेति पाठे पाठान्तरेऽपि स एवार्थः । च-कारस् त्व् अनुक्त-समुच्चये । तेनान्यद् अपि सौन्दर्यादिकं बोध्यते ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं बहुना ? रेमे रमाभिर् निज-काम-सम्प्लुतः [१०.५९.४३] इत्य् उक्त-रीत्या श्री-कृष्णलक्ष्मीरूपास्ता एव यत्र स्वयं खेलन्ति स्मेत्याह यस्मिंस्तदेति । तदा राजसूयानन्तरं मधुपतेः स्वयं भगवतः श्री-कृष्णस्य श्रोणीभरेणोपलक्षितम् अत एव शनकैः क्वणद्भिरङ्घ्रिभिः शोभा यस्य तत् श्रीमन्मुखत्वे हेतुः चपलेति तेनान्यदपि सौन्दर्यादिकं बोध्यते ॥३३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : महिषीणां सहस्रम् सहस्राणि श्रीमन्ति मुखानि यस्य तत् व्यराजतेति शेषः ॥३३॥
॥ १०.७५.३४ ॥
सभायां मय-कॢप्तायां क्वापि धर्म-सुतोऽधिराट् ।
वृतोऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : क्वापि कदाचित् स विरेज इति शेषः । स्वस्य चक्षुषा हिताहित-ज्ञापकेन ॥३४-३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः), श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी): सभायाम् आसीनः । मयेन दैत्य-शिल्पिना कॢप्तायाम् इति परमाद्भुतत्वम् अभिप्रेतम् । तच् चोक्तं सभा-पर्वणि—
सभा तु सा महाराज शातकुम्भ-मय-द्रुमा ।
दश-किष्कु-सहस्राणि समन्ताद् आयताभवत् ॥
यथा वह्नेर् यथार्कस्य सोमस्य च यथैव भाः ।
भ्राजमाना तथात्य् अर्थं बभार परमं वपुः ॥ इत्य्-आदि ।
तां स्म तत्र मयेनोक्ता किङ्करा नाम राक्षसाः ।
सभाम् अष्टौ सहस्राणि रक्षन्ति च वहन्ति च ॥ (२.३०.२५) इत्य्-आदि ।
अधिराट् सम्राट् । तथाप्य् अभिमानाद्य्-अभावेन सद्-धर्म-परत्वं सूचयति—धर्म-सुत इति । तत्रैव हेतुः—स्व-चक्षुषेति । एवं तस्य चित्ताकर्षणात् कृष्णेनेति । अन्यत् तैर् व्याख्यातम् ।
यद् वा, स्वे स्वकीये चक्षुषी यस्मिन् तेन । अतृप्त्या सदा दृग्भ्यां साक्षाद् दृश्यमानेन सहेत्य् अर्थः । अतः श्री-कृष्णाभिनिविष्ट-दृशा तेन वक्ष्यमाण-दुर्योधन-पतनादिकं न सम्यग् दृष्टम् इति ज्ञेयम् । अन्यथा कृपया भ्रातरम् एकं प्रेष्यासावानीतः स्याद् इति ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकदा इत्य्-आदिकं विवृणोति—सभायाम् इत्य्-आदि-षड्भिः । तत्र सभायाम् इति युग्मकम् । पूर्वोक्तायां सभायाम् आसीनः मय-कॢप्तायाम् इति परमाद्भुतत्वम् अभिप्रेतम् । तच् चोक्तं सभा-पर्वणि—
सभा तु सा महाराज शातकुम्भमयद्रुमा ।
दशकिष्कुसहस्राणि समन्तादायताभवत् ॥
यथा वह्नर्यथार्कस्य सोमस्य च यथैव भाः ।
भ्राजमानाः तथात्यर्थं बभार परमं वपुः ॥ इत्य्-आदि ।
किं च—
तां स्म तत्र मयेनोक्ताः किङ्करा नाम राक्षसाः ।
सभाम् अष्टौ सहस्राणि रक्षन्ति च वहन्ति च ॥ इत्य्-आदि ।
अधिराट् सम्राट् तथाप्यभिमानाद्यभावेन सद्धर्मपरत्वं सूचयति धर्मसुत इति तत्रैव हेतुः स्वचक्षुषेति अन्यत् तैः यद् वा, स्वे । स्वीये च चक्षुषी यस्मिन् तेन यद् वा, स्वे आत्मन्येव चक्षुषी यस्य तेन यद् वा, स्वचक्षुषेति यथा चक्षुर्विना न तादृश्य् अपि सम्पत्सुखकरी तथा तं विनेति रूपकेण प्रतिपादितम् अहो किं वाच्यं मघवानिवेति परमेष्ठितुल्यसम्पत्त्यापि सेवित इति ॥३४-३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्वस्य चक्षुषा हिताहित-ज्ञापकेन कृष्णेनापि वृतः । व्यरोचतेति शेषः ॥३४॥
॥ १०.७५.३५ ॥
आसीनः काञ्चने साक्षाद् आसने मघवान् इव ।
पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७५.३६ ॥
तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप ।
किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : मानी साहङ्कारः । किरीटं च माला च विद्येते यस्य सः । न्यविशत् विवेश । क्षिपन् द्वाः-स्थादीन् अधिक्षिपन् ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र सभायाम् ॥३६॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : साक्षान् मघवान् इव पारमेष्ठ्यं साम्राज्यं, तस्य श्रिया जुष्टः सेवितः । यद् वा, अहो किं वाच्यं मघवान् इवेति साक्षाच् छ्री-ब्रह्मैवेत्य् आह—पारमेष्ठ्येति । तत्र तस्यां सभायां मानित्वाद् एव निज-विभूति-बोधनार्थं किरीट-माली । किं च, वीरत्व-दर्शनार्थम् असि-हस्तः । किं च, रुषा क्षिपन्न् इतराम् असङ्कोचेनाविशत् । भ्रातृभिः परीत इति वक्ष्यमाण-व्रीडाधिक्य-बोधनार्थम् । हे नृपेति मानिनाम् ईदृशत्वं स्याद् एवेति भावः । अत एव द्वाः-स्थादिभिर् भयादिनाभिगमनाद्य्-अभावाज् जलादि-परिचायकाभावेन ॥ किं वा, नित्याभ्यस् तस्यापि वर्त्मनः प्रागाढ-मात्सर्य-संरम्भात् परित्यागेन । यद् वा, सभा-पर्वोक्तेन सभा-शोभा-दर्शनार्थम् इतस् ततो भ्रमणेन तत्-तद्-अपरिचयाद् वस्त्राकुञ्चनादिकं ज्ञेयम् । तत्-तद्-विशेषणं च जलान्तः-पातेन किरीटादि-भ्रंशस्य तथा तथांशस्य पतनादिना व्रीडाभरस्य द्योतनार्थम् इति दिक् ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्र तस्यां सभायां मानित्वाद् एव निज-विभूतिबोधनार्थं किरीटमालां प्रशंसायां मत्वर्थीयः तेन तयोर् महाधनत्वं बोध्यते किं च, वीरत्वदर्शनार्थमसिहस्तः किं च, सहायप्रदर्शनार्थं भ्रातृभिः परीतः अत एव मानी रुषा क्षिपंश् च नितरामसङ्कोचेनाविशत् हे नृपेति । मानिनमीदृशत्वं स्यादेवेति भावः । अत एव द्वाःस्थादिभिर्भयादिनाभिगमनाद्यभावाज्जलादिपरिचायकाभावेन किं वा
अभ्यस्तस्यापि वर्त्मनः प्रगाढमात्सर्यादिसंरम्भात्परित्यागेन विशेषतस् तु सभापर्वोक्तेन सभाशोभादर्शनार्थमितस् ततो भ्रमणेन तत्-तद्-अपरिचयाद्वस्त्राकुञ्चनादिकं ज्ञेयं तत्-तद्-विशेषणं च जलान्तःपतन-किरीटादिभ्रंशव्य तथा तादृशस्यापि पतनादिना व्रीडाभरस्य च द्योतनार्थम् इति दिक् ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : क्षिपन् द्वाःस्थादीनाक्रोशन् ॥३६॥
॥ १०.७५.३७ ॥
स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।
जले च स्थलवद् भ्रान्त्या मय-माया-विमोहितः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : तत्र स्थले वस्त्रान्तम् अभ्यगृह्णाद् आकुञ्चितवान् । कुतः? तस्मिन् स्थले एव भ्रान्त्या जलं मत्वा जले चापतत् । कुतः? स्थलवद्-भ्रान्त्या ॥३७-३८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : आकुञ्चितवान् सङ्कोचितवान् । तत्र हेतुमाशङ्कते—कुत इति । भ्रान्तिर् अपि कुतस् तत्राह—मयमायेत्यादि ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्तः-शब्दः स्वरूपे अधो-वस्त्रं सर्वम् एवेत्य् अर्थः । वति-प्रत्ययाल् लौकिकोक्ति-रीत्यानधिकार्थः । भ्रान्त्या स्थलवत् स्थलम् एव मत्वा, यतो मयस्य महा-मायाविनो मायया विपरीत-दृष्टि-कारिण्या शिल्प-परिपाट्या विशेषेण निजाभिमान-ध्वंसनादिना मोहितः । तथा च सभा-पर्वणि—
स्फाटिकं स्थलम् आसाद्य जलम् इत्य् अभिशङ्कया ।
स्व-वस्त्रोत्कर्षणं राजा कृतवान् बुद्धि-मोहितः ॥
ततः स्फाटिक-तोयां वै स्फाटिकाम्बुज-शोभिताम् ।
वापीं मत्वा स्थलम् इव स-वासाः प्रापतज् जले ॥ [म।भा। २.४३.३-४]
किं च—
जले निपतितं दृष्ट्वा किङ्करा जहसुर् भृशम् ।
वासांसि च शुभान्य् अस्मै प्रददू राज-शासनात् ॥
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
अर्जुनश् च यमौ चोभौ सर्वे ते प्राहसंस् तदा ॥
नामर्षयत् ततस् तेषाम् अवहासम् अमर्षणः ।
आकारं रक्षमाणस् तु न स तान् समुदैक्षत ॥
पुनर् वसनम् उत्क्षिप्य प्रतरिष्यन्न् इव स्थलम् ।
आरुरोह ततः सर्वे जहसुस् ते पुनर् जनाः ॥
द्वारं च विवृताकारं ललाटेन समाहनत् ।
वृतेयं चेति मन्वानो द्वार-देशाद् उपारमत् ॥ [म।भा। २.४३.६-१२] इत्य्-आदि ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अन्तशब्दः स्वरूपे अधोवस्त्रम् एवेत्य् अर्थः । स्थलवत् स्थलतुल्ये जले या भ्रान्तिस्तया जले चापतत् यतो मयस्य मायया विपरीतदृष्टिकारिशिल्पपरिपाट्या विशेषेण निजाभिमानध्वंसनादिना मोहितः अस्तु तावल्लोकपालादिमाया किञ्चास्तुतरां भगवन्मायेति तं दुर्मानिनं प्रति सोपहासो भावः तथा च सभापर्वणि—
स्फाटिकस्थलमासाद्य जलम् इत्य् अभिशङ्कया ।
स वस्त्रोत्कर्षणं राजा कृतवान् बुद्धिमोहितः ॥
ततः स्फाटिकतोयां तां स्फाटिकाम्बुजशोभिताम् ।
वापी मत्वा स्थलम् इव सवासाः प्रापतज्जले ॥
किं च—
जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम् ।
वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥
तथागतन्तु तं दृष्ट्वा भीमसेनो महाबलः ।
अर्जुनश् च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
नैवामृष्यत्तस्तेषाम् अवहासममर्षणः ।
आकारं लक्ष्यमाणन्तु न स तान् समुदैक्षत ॥
पुनर् वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् ।
आरोह ततः सर्वे जहसुस्ते पुनर् जनाः ॥
द्वारं च विवृताकारां समापेदे पुनश् च सः ।
वृतेयञ्चेति मन्वानो द्वारदेशादुपारमत् ॥ इत्य्-आदि ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्थले वस्त्रान्तम् अभ्यगृह्णात् आकुञ्चितवान् तस्मिन् स्थल एव जलं मत्वा तथा जले चापतत् । कुतः ? तस्मिन् जलेऽपि स्थलवत् स्थल इव या भ्रान्तिस् तया स्थलं मत्वेत्य् अर्थः । मयस्य माया द्वेष्टृ-जन-विज्ञापनी शक्तिर् या तया विमोहितः ॥३७॥
॥ १०.७५.३८ ॥
जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।
निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तं दुर्योधनम् ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अपरे पाण्डवानाम् आत्मीया नृपतयः । यद् वा, अन्ये च सभा-पर्वोक्त-मय-नियुक्त-किङ्कराख्य-राक्षसादयः । श्री-भीमादीनां यथा-पूर्वं हासे श्रैष्ठ्यम् । कृष्णेन हासे सर्व-चित्ताकर्षकेण भगवतानुमोदिताः । श्री-नेत्रान्त-निकुञ्चनादिना प्रेरिता इत्य् अर्थः । अङ्गेति श्री-भगवद्-अनुमोदने राज्ञोऽपि निवारणाशक्त्या हास-प्रौढत्वानुस्मरणेन सहास-सम्बोधनम् ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तं दुर्योधनम् इति भ्रातृभिः साहित्ये\ऽपि तस्यैव पतनादिकमग्रगामित्वात् अपरे पाण्डवानामात्मीया नृपतयः यद् वा, अन्ये च
किङ्कराख्यराक्षसादयः श्री-भीमादीनां यथापूर्वं हासे श्रैष्ठ्यं कृष्णेन हासे सर्वचित्ताकर्षकेन भगवतानुमोदिताः श्रीनेत्रान्तस्मितादिना
प्रेरिता इत्य् अर्थः । अङ्गेति श्री-भगवदनुमोदनेन राज्ञो\ऽपि निवारणाशक्त्या हासप्रौढत्वानुस्मरणेन सहासं सम्बोधनम् ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स्त्र्य्-आदयोऽपि जहसुः । राज्ञा नेत्रेङ्गितेन मा हसतेति निवार्यमाणा अपि । कुतः ? कृष्णेनानुमोदिताः हसतेति भ्रुवा दत्तानुमतय इत्य् अर्थः ॥३८॥
॥ १०.७५.३९ ॥
स व्रीडितोऽवाग्-वदनो रुषा ज्वलन्
निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हा-हेति शब्दः सुमहान् अभूत् सताम्
अजात-शत्रुर् विमना इवाभवत् ।
बभूव तूष्णीं भगवान् भुवो भरं
समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा ॥
श्रीधर-स्वामी (भावार्थ-दीपिका) : भुवो भरं भारं जिहीर्षुर् इति । अद्य सम्पादितेन कलह-बीजेन कुरूणां संहारं करिष्यामीति मत्वेति । किं च, यस्य दृशा दृष्टि-मात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप । मय-माया तु निमित्त-मात्रम् । स भू-भार-हरण-बीजं दुर्योधनस्य भ्रमं भीमादि-हास्येन च तस्य पराभवं विधाय तूष्णीम् आसीद् इत्य् अर्थः ॥३९॥
इति श्रीमद्-भागवते दशम-स्कन्धे श्रीधर-स्वामि-विरचितायां भावार्थदीपिन्यां पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : स दुर्योधनः । बीजहेतुम् आह—किं चेति । यस्य कृष्णस्य । स कृष्णः । तस्य दुर्योधनस्य । इत्य् अर्थ इति—भीमं हास्यास्त वारितवान् दुर्योधनं च न सांत्वितवानिति भावः ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स दुर्योधनः । तूष्णीं निष्क्रम्य सभाया निःसृत्य । तत्र हेतुः—व्रीडित इत्य्-आदि । व्रीडितत्वाद् एवावाग्वदनोऽधोमुखः सन् । किं च, रुषेति प्रसभं श्री-युधिष्ठिरेण भृत्यादि-द्वारा । किं वा, तद्-भ्रातृभिर् अनुनीयमानोऽपि हठाद् ययौ । हाहेति महा-दुष्टात् तस्माद् अनिष्ट-शङ्कया । अजात-शत्रुर् इति तस्मिन्न् अपि स्वतो द्वेषाभावः सूचितः । अतः सहज-कृपया विमना इव ईषद् दुःखित-चित्तोऽभूत् । यद् वा, इवेति श्री-कृष्ण-प्रसादात् सर्व-मङ्गलं भावीत्य् अनुसन्धानेन तत्त्वतो वैमनस्याभावात् तूष्णीं बभूव । निजाभीष्ट-सिद्धेः । अभीष्टम् एवाह—भुव इति । तत्रैव हेतुः—भगवान् दुष्ट-संहारेण शिष्ट-पालनेन च स्व-भक्ति-विस्तारणायाशेषैश्वर्य प्रकटनार्थम् अवतीर्णः साक्षात् परमेश्वरः । यद् वा, भगवान् सर्वज्ञः पाण्डवादि-दुःख-बीजं जानन्न् अपि तूष्णीं बभूव । तत्र हेतुः—भुव इति । यद् वा, सर्व-शक्तिमान् । अत एवोच्चैर् भ्रमति स्म, अन्यथा मय-मायायास् तादृश-शक्त्य्-असम्भवाद् इति ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अर्वाग्वदनो\ऽधोमुखः हाहेति महादुष्टात्तस्मादनिष्टशङ्कया अजातशत्रुत्वाद्राजा तु सहजकृपया विमना इवाभूत् ईषद्दुःखितो\ऽभूत् बभूवेत्यर्धकं तूष्णीं बभूव निजाभीष्टसिद्धेः अभीष्टम् एवाह—भुव इति । अत्र जिहीर्षुरुच्चैर् इति पाठः टीकासम्मतः समुज्जिहीर्षुर् इति पाठो बहुत्र ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : भुवो भारं हर्तुम् इच्छुः कलह-बीजोत्थापनाद् इति भावः । यस्य दृशा दृष्टि-मात्रेणैव दुर्योधनो भ्रमति स्म । मयमाया तु निमित्त-मात्रम् इति भावः ॥३९॥
॥ १०.७५.४० ॥
एतत् तेऽभिहितं राजन् यत् पृष्टोऽहम् इह त्वया ॥
सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ
श्रीधर-स्वामी (भावार्थ-दीपिका) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम् पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यत्त्वया दुर्योधनस्य दौरात्म्यमुद्दिश्येति शेषः । अहं पृष्ट एतद् इति योज्यम् ॥४०॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्धे पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां
पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यद् दुर्योधनस्य दुःख-कारणम् इह सभा-मध्येऽहं पृष्टः । यद् वा, इह गङ्गा-तीरे एतत् तेऽभिहितं मया, अतोऽत्रान्यथात्वं नास्ति, कारणान्तरं च न मन्तव्यम् इति भावः । तद् एव विवृणोति—दुर्योधनस्येति । महाक्रताव् अपि दौरात्म्यं दुष्ट-चित्तत्वम् एव न च केनापि कृतं तद् अवमानादिकम् अन्यत् किञ्चिद् इत्य् अर्थः । तत्रैव हेतुं सूचयति—सुष्ठु युध्यत इति तथा तस्येति । महा-वीराभिमानाद् इति हे राजन्न् इति च सर्व-सद्गुणवता त्वया तच् च बुध्यत एवेति भावः ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्द्धे श्री-श्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णवोपण्यां दशम-टिप्पण्यां पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : राजसूय इति तदन्त इत्य् अर्थः ॥४०॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृतवैष्णव-तोषिण्यां पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यस्यां पूर्वोक्तायां श्रियाम् ॥४०॥
इति श्रीमद्-भागवते दशम-स्कन्धीये
श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे
पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे
श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे
पञ्चसप्ततितमो\ऽध्यायः ॥७५॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यस्य दृशा दृष्टिमात्रेणैव दुर्योधनो भ्रमति स्म मयमाया तु निमित्त-मात्रम् इति भावः ॥४०॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
पञ्चसप्ततितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥७५॥
(१०.७६)
-
सतां ↩︎