राजसूये भगवतो\ऽग्र-पूजनं ततो रुष्टस्य दुर्वदतः शिशुपालस्य भगवता वधश् च ।
॥ १०.७४.१ ॥
श्री-शुक उवाच—
एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः ।
कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) :
चतुर्-युक् सप्ततितमे राजसूय-क्रिया द्विजैः ।
अग्र-पूजा-प्रसङ्गेन चैद्य-घाटदि वर्ण्यते ॥
राजसूय-मुखे हत्वा जरासन्धं तद् अन्तरे ।
चैद्यं तद् अन्तं कुर्वन्तं बीजं कलिम् इवावपत् ॥
कृष्णस्य चानुभावम् इति चकारात् तस्य स्वाज्ञानुविधायित्वं चालक्ष्येत्य् अर्थः ॥१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : मुखे आदौ । तदन्तरे राजसूयमध्ये । तदन्ते यज्ञान्ते । श्रोतृचित्तरञ्जकं क्षमाजनकं वीरवीर्यवर्धनं श्री-कृष्णकर्तृकशिशुपालवधमाह—एवं ब्राह्मणवेशादिना । इत्य् अर्थ इति—अहो सर्वेश्वरा मदाज्ञां कुरुत इति विमृश्येति भावः ॥१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च क्षणात् स्वस्थः सन् दिनान्तरे वा, तं कृष्णमब्रवीत्, राजेति, जरासन्धवधादिना साम्राज्याभिप्रायेण। एवम् अग्रे\ऽपि ज्ञेयम् । कृष्णस्य तेन प्रकारेण चित्ताकर्षकस्य जरासन्धवध एवानुभावः प्रभावस्तम्, तं पूर्वोक्तप्रकारम्। यद् वा, तमनिर्वचनीयमनुभावं जरासन्धवधचातुर्यं राजवर्गमोक्षणप्रकारादि-माहात्म्यं च श्रुत्वा। विभो! हे प्रभो! इति तत्पूर्वजेषु तादृश-श्री-भगवत्कृपास्मृत्या प्रेमोद्रेकात्। यद् वा, तद्वंशजातस्त्वं परम-धन्य एवेति भावः । सविसर्गपाठे-निज-प्रभोः, यद् वा, जगदीशस्य। ततश् च श्री-स्वामि-पादैर्व्याख्यातम्।
च-शब्दार्थेन सम्बन्धः ॥१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च दिनान्तरे तं श्री-कृष्णमब्रवीत् राजेति जरासन्धवधादिना साम्राज्याभिप्रायेण एव मग्रे\ऽपि ज्ञेयं जरासन्धवधं श्री-कृष्णस्य भीमाप्यायनादकस्माच्चतुर्भुजत्वाविर्भावनादिलक्षणानुभावात्मकं जरासन्धवधं यद् वा, जरासन्धवधं श्री-कृष्णस्य तमनुभावं चेति विभो हे प्रभो! इति तत्पूर्वजेषु तादृशभगवत्कृपास्मृत्या परमादरात् सविसर्गपाठे निज-प्रभोः ॥१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) :
चतुर्-युक्-सप्ततिमे द्विजैर् मख-विधौ हरेः ।
अग्र-पूजा चैद्य-वधो दुर्योधन-रुड् अप्य् अभूत् ॥
जरासन्ध-वधं कृष्णस्य तम् अनुभावं च ॥१॥
॥ १०.७४.२ ॥
श्री-युधिष्ठिर उवाच—
ये स्युस् त्रैलोक्य-गुरवः सर्वे लोका महेश्वराः ।
वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तद् आह—ये स्युर् इति । ये त्रैलोक्यस्यापि गुरवः स्युः सनकादयः सर्वे च लोका लोक-पालाश् च ते शिरसैव तवानुशासनं वहन्ति । दुर्लभं लब्ध्वेति । भाग्येनैतल् लब्धम् इति बहुमानेनेत्य् अर्थः ॥२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्स्वाज्ञानुवर्तित्वम् । इत्य् अर्थ इति—अहो अस्मद्-भाग्यं यदीश्वरेश्वरो\ऽस्मान् आज्ञापयतीति भावः ॥२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ये स्युर् इति सर्वान् एव तान् परामृशति, अनुशासनं कदाचित् कथञ्चित् साक्षात् श्री-मुखेन । किं वा, स्व-भक्तादि-द्वारा कृतं शिरसैव वहन्ति, भक्त्या स्वीकुर्वन्ति, सदा सम्पादयन्ति वा ॥२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ये स्युर् इति । सर्वान् एव परामृशति अनुशासनं तवेति शेषः । तच् च साक्षाच् छ्री-मुखेन वेदादि-द्वारा वा शिरसैव वहन्ति भक्त्या स्वीकुर्वन्ति ॥२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ये त्रैलोक्यस्यापि गुरवस् ते\ऽपि तवानुशासनम् आज्ञां वहन्ति ॥२॥
॥ १०.७४.३ ॥
स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् ।
धत्तेऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : स भवन् परमेश्वरोऽस्मकम् अनुशासनं धत्ते तद् अत्यन्त-विडम्बनम् अननुरूपम् अनुकरणम् । स्व-तेजो-हानि-प्रसङ्गाद् इत्य् अर्थः ॥३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : दीनानाम् अज्ञानाम् ईश-मानिनाम्, ईश्वरो\ऽहम् अहं भोगी [गीता १६.१४] इत्य्-आद्य्-अभिमानवताम् । तद्-अनुशासन-धारणम् । अननुरूपम् अयुक्तम् । इत्य् अर्थ इति—लोके प्रभु-कर्तृक-प्रेष्याज्ञा-करणस्य हासास्पदत्वाद् इति भावः ॥३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : दीनानाम् अकिञ्चनानां बहुधा दुःखितानां वा । तथापीशाभिमानवताम् अप्य् अस्माकम्, धत्ते पालयति परमादरेण स्वीकरोति वा, ह अरविन्दाक्षेति तच् च कृपावलोक-श्रीमुख-प्रसादादिना धत्त इति । यद् वा, स्व-सौन्दर्य-मात्रेण दृष्टि-मात्रेणैव वा सर्व-तापापहरणानन्द-रस-प्रदानादौ सिद्धे\ऽपि धत्ते इति भावः । भूमन् हे अपिच्छिन्न-प्रभाव! अतो\ऽत्यन्त-विडम्बनम्, वयम् आत्मनो विडम्बनं वरं मन्यामह इत्य् अर्थः ॥३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दीनानाम् अकिञ्चनानां बहुधा दुःखितानां वा तथापीशत्वेनाभिमानवताम् अस्माकं धत्ते पालयति परमादरेण स्वीकरोति वा । हे अरविन्दाक्षेति तदानीं कृपामय-तत्-सौन्दर्यानुभवमय-प्रेम्णा सम्बोधनं भूमन् हे अपरिच्छिन्न-प्रभावेति स्व-स्तुति-पोषकत्वेन अतो\ऽत्यन्त-विडम्बनं वयम् आत्मनो विडम्बनम् अनधिकारित्वाल् लोकोपहासास्पदत्वम् एव मन्यामह इत्य् अर्थः । यद् वा, सर्वथा कर्तुम् अयुक्तम् इत्य् अर्थः ॥३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : स भवान् दीनानाम् अतिनिकृष्टानाम् अस्माकं न तूत्कर्षः । हन्त हन्त परमेश्वरम् अपि स्वाज्ञा-कारिणम् इमे कुर्वन्तीति लोकैर् उपहस्यामह एवेत्य् अर्थः ॥३॥
॥ १०.७४.४ ॥
न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।
कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अथवा तव पूर्णस्याज्ञापनाज्ञाधारणाभ्यां न तेजसो हानिवृद्धीअतः कृपया सर्वं सङ्गच्छत इत्याह—न ह्येकस्याद्वितीयस्येति । समानासमानरहितस्य ब्रह्मणस्तवोभयं माया परमात्मन इति सर्वजीवनियन्तुस्तव नियम्यत्वं सुतरां नवास्तवम् अतः परानुग्रहाथैरेतैः कर्मभिस्तव तेजो न वर्धते न च ह्रसति रवेरिवोदयास्तमयादिकर्मभिरित्य् अर्थः । तथा च श्रुतिः न कर्मणा वर्धते नो कनीयान् इति ॥४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पक्षान्तरम् आह—-अथ वेति । यतो न तेजो-हनि-वृद्धी स्तः अतो हेतोः । सर्वम् उच्चावच-कर्म-करणम् । उभयम् आज्ञा-स्वीकाराज्ञापन-स्वरूपम् । माया असद् एव लीलैव वा । यतो माया अतो हेतोः । इत्य् अर्थ इति—न हि सर्वदैक-रस-तेजोवतो रवेस् तेजसो ह्रास-वृद्धी यथा तथा भवतो\ऽपीति भावः । अत्र प्रमाणम्—तथा चेति । न कनीयान् अत्यल्पो\ऽपि न भवतीत्य् अर्थः ॥४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि यतः, तेजः प्रभावो न वर्धते न ह्रसति च । तत्र हेतुः—ब्रह्मणः सर्वमयत्वेन तत्त्वतो भेद-रहितस्य, यतः एकस्य इति स्वजीतीय-भेद-रहित्येनाज्ञापयितुर् अभावः। किं च, अद्वितीयस्य इति विजातीय-भेद-राहित्येनाज्ञा-विषयाभाव इति विवेचनीयम् । अन्यत् तैर् व्याख्यातम् ।
यद् वा, ब्रह्मणो\ऽपि परमात्मनो\ऽपि तव कर्मभिस् तेजः सन्तोष-विशेषो न वर्धते किम् ?—काक्वा । अपि तु वर्धत एव, सर्वत्र लोक-हित-महा-यशो-गानेन भक्तानां परमानन्दात् । तद्-अभावे च सति न ह्रसति किम्? अपि तु ह्रसति क्षयत्य् एवेत्य् अर्थः—भक्तानां सुख-विशेषापरिपोषण-प्रसङ्गात् । तत्र दृष्टान्तः—यथा ग्रीष्मादौ विस्तारणेन रवेस् तेजो वर्धते, शीतादौ च सङ्कोचनेन ह्रसति, तद्वद् इति । अतः परम-दयालुत्वादिना तवास्मद्-अनुशासन-ध्यानम् अपि युक्तम् एवेति भावः ॥४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तव तु तेनापि न हानिर् इत्य् आह—न ह्य् एकस्येति । तच् च तैर् व्याख्यातं तत्र सर्वम् इति आज्ञापनाज्ञा-धारण-तेजो-वृद्धि-हान्यादिकम् इत्य् अर्थः । वृद्धि-हानी तत्-प्राकट्य-प्राकट्यार्थे ज्ञेये कृपयैव तत्-सङ्गतौ हेतुः न ह्य् एकस्येत्य्-आदि व्याख्यां समानेत्य्-आदि समान-रहितस्येतीश्वरान्तराभावाद् आज्ञा-धारणं न सम्भवति असमान-रहितस्येति स्वांश-स्व-शक्त्यात्मक-वस्तु-व्यतिरिक्त-राहित्याद् आज्ञापना न सम्भवति न हि स्वांशे स्व-शक्तौ वाज्ञापनापेक्षा विद्यते इच्छा-मात्रेण सिद्धेः तस्माद् उभयम् आज्ञापनाज्ञा-धारण-रूपं वस्तुतो न सम्भवति तद्-असम्भवातिशयार्थं परमात्मन इत्य् अस्य व्याख्यानं समानासमान-राहित्ये हेतुः ब्रह्मण इति सर्वात्मन इत्य् अर्थः । अतस् तन्माययैवेति प्राप्ते भक्तेषु कापट्यानौचित्यात् दुर्घट-घटना-कारीण्या कृपामया स्वेच्छयैव सम्भवतीति युक्तम् एवोक्तम् अतः कृपयेतीति भावः । न वर्धते न च हसति किन्तु प्रकटीभवत्य् अप्रकटीभवति चेत्य् एवार्थः । तत्र योग्य-दृष्टान्त-व्याख्या रवेर् इति ॥४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : न च यज्ञ-भोक्तुस् तव स्वार्थम् एवेदं कर्म यतो नहीति । न च त्वदीयानाम् अस्माकं स्वाभिमानम् अयम् एतत् ॥४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अस्मद्विधस्यापि जीवस्याज्ञाकारित्वे तव तु न काप्यप्रतिष्ठेत्याह—नहीति । एकस्य ईश्वरान्तराभावात् सजातीयभेदरहितस्य अद्वितीयस्य मायाजीवयोस् त्वच्छक्तित्वेन त्व् अद्-रूपत्वाद्विजातीयभेदरहितस्येति कैस्तवाप्रतिष्ठा कर्तव्येति भावः । किं च, ब्रह्मण इति । सर्वव्यापकस्य तव व्याप्यतालक्षणो निकर्षो नास्ति परमात्मन इति सर्वजीवनियन्तुस्तव मादृशजीवनियम्यत्वलक्षणश् च स नास्तीति राज्ञा दैन्येनैव व्यञ्जितं वस्तुतस् तु भक्तवश्यत्वं भगवतो न निकर्षः प्रत्युतकृपाप्रकर्षव्यञ्जकत्वात् सर्वोत्कर्ष एव स च सर्वदा तस्य वर्तत एव दर्शयंस्तद्विदां लोक आत्मनो भक्तवश्यताम् इत्य्-आदिवचनेभ्यः यथा रवेर् इति रविर्हि भूलोके श्वपचगृहम् अपि प्रकाशयति सुमेरूपरि परमेष्ठिगृहम् अपि प्रकाशयतीत्य् अर्थः ॥४॥
॥ १०.७४.५ ॥
न वै तेऽजित भक्तानां ममाहम् इति माधव ।
त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवम् अप्य् अहं परमेश्वरो ममेदं नीचं कर्मायोग्यम् इति मनसि कथं न भवेद् अत आह—न वै त इति । हे अजित, तव भक्तानाम् एव तावदियं नानाधीर् भेद-मतिर् नास्ति । यथा पशूनाम् अज्ञानां वैकृता शरीर-विषया । तव तु नास्तीति किं पुनर् वक्तव्यम् इत्य् अर्थः ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : भगवदाक्षेपं समाधत्ते कैमुत्येन—नन्वित्य्-आदिना । वै एवार्थे । विकृतं शरीरं तद्विषया वैकृता । इत्य् अर्थ इति—अर्थावगतं कैमुत्यमत्रेति ॥५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वै प्रसिद्धौ, निद्धरि वा। ममैते पुत्रादय उत्तमाः, अहं जात्यादिनोत्तम इति तथा त्वं नीचस्तवैते नीचा इति पशूनाम् इव नानाधीः, वैकृती विकृतं देहो माया वा तत्सम्बन्धिनी नास्ति, किन्तु एते वैष्णवा मम, अहमेतेषाम् , किं वा, मम भगवान्, अहं भगवदीय इति, तथा त्वमभक्तः, तवैते\ऽप्रभक्ता इति, किं वा, त्वमीश्वरः, तवाहम् इत्य् एवं पारमार्थिकी भेदमतिरस्त्येवेत्य् अर्थः । तत्र हेतुः—अजित! हे मायया वशीकृतेति। किं च, विशेषतो\ऽधुना मायानिरसनेन निजाशेषैश्वर्यप्रकटनार्थं मधुकुले\ऽवतीर्णेति। तथा चोक्तं श्रीब्रह्मणा (भा।पु। १०.१४.१६) तत्रैव मायाधमनावतारे इति । अतस् त्वद्-भक्तानाम् अपि त्वत्सादृश्येन मायाराहित्य्-आद् इति भावः । यद् वा, माधवेति मधुवंशोद्भवत्वान्माधव एवोच्यसे, न च कौरवादि, किं वा, लक्ष्म्या एव, न तु शच्यादीनां पतिरित्य् एवात्र प्रमाणम् इति भावः । अतः सेव्य-सेवकादिभेददृष्ट्या भक्तानां प्रेम-भक्तिसम्पत्त्या ॥ तेषु तवानुग्रहविशेषेण तदधीनत्वं सङ्गच्छतैवेति तात्पर्यम् ॥५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न वै इति च तैर् व्याख्यातं परम-सौशील्यादेवेति भावः वैकृतीति विकृतस्य शुद्धस्वरूप-गुणविपरीततया परिणतो यः कुत्सितो देहस् तत्र भवतीति कुत्सितैवेत्य् अर्थः । वैकृतेति पाठः क्वचित् तस्य तु तदभावकैमुत्ये हेतुः सम्बोधनद्वयं हे अजित मायावैभवावशीकृत! हे माधव! परम-स्वरूपशक्तिपते! इति अथवा न च यज्ञभोक्तुस्तव स्वार्थम् एवेदं कर्म यतो न हीयते न च त्वदीयानामस्माकं स्वाभिमानमयमेतत् यतो न वै इति तस्मात् तव कृपैव । कारणमस्माकं च भक्तिरेवेति भावः ॥५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : यतो न वै इति । तस्मात् तव कृपैव कारणमस्माकं च भक्तिरेवेति यद्य् अपि मेनिरे कृष्णभक्तस्य सूपपन्नम् इत्य् उक्तं तथाप्यनैकान्त्याद् इति यदुच्यते तत् खलु ब्राह्मणत्वादि व्यवहारमाश्रित्यैव ज्ञेयम् ॥५-४४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : नन्वेवम् अप्य् अहं परमेश्वरो ममेदं नीचं कर्म अयोग्यमति मनसि कथं न सम्भवेदत आह—नेति । हे अजित! तव भक्तानाम् एवं तावत् ममाहम् इति मम महापाण्डित्यमतो\ऽहं सर्वश्रेष्ठः कस्याज्ञां वहामि त्वं तवेति तव शास्त्रज्ञानाभावात्त्वं मूर्खः सर्वस्यैव दास्यं कुर्विति पशूनाम् इव वैकृता वैकृतीति च पाठः विकारमयी प्राकृती नानाधीर्स्तीति तेन सिद्धानां तेषां चिन्मयी सात्वस्त्येवेति भावः । तव तु किं पुनर् वक्तव्यमस्तीति भावः ॥५॥
॥ १०.७४.६ ॥
श्री-शुक उवाच—
इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः ।
कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : यज्ञिये यज्ञोचिते वसन्तादि-काले । युक्तान् अभियुक्तान् । स युधिष्ठिरः ऋत्विजो होतृ-प्रमुखान् । वव्रे वृतवान् ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अभियुक्तान्कल्पोक्तन्यायवेदिनः ॥६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्युक्त्वेति श्री-भगवत्स्तुतेः पश्चाद् एव क्रियमाणस्यान्यकृत्यस्य सिद्धेः। यज्ञिये काले तदानीम् एवोपस्थिते कृष्णेन साक्षाद्भगवतावतरणार्थं विज्ञापितेनानुमोदित इति, तत्प्रीत्यर्थम् एव क्रियमाणानां सर्वकर्मणां सुसिद्ध्यर्थं तथा ब्राह्मणानामुत्साहविवर्द्धनार्थं च, यतः पार्थः श्री-कृष्णैकभक्तायाः पृथायाः पुत्र इति तस्य परमाभिज्ञत्वं सर्वकर्मकौशलादिकं च सूचितम् । ब्रह्मवादिनः पाठतो\ऽर्थतश् च सदा वेदाभ्यासपरान् ॥६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र श्रीशुक उवाचेति क्वचित् यज्ञिये काले पूर्वम् एव विचार्य निर्णीते शुभसमयविशेषे इति पूर्वोक्तमुक्त्वा निवेद्य ब्रह्मवादिनः पाठतो\ऽर्थतश् च सदा वेदाभ्यासपरान् ॥६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : यज्ञिये यज्ञोचिते वदन्तादौ ॥६-११॥
॥ १०.७४.७ ॥
द्वैपायनो भरद्वाजः सुमन्तुर् गोतमोऽसितः ।
वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तान् आह—द्वैपायन इति त्रिभिः ॥७-८॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तानृत्विजो नामतो निर्दिशति-द्वैपायन इति त्रयेण ॥७-८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्वैपायनादीनां यज्ञे मुख्यत्वादेत एव वृताः, न त्व् अन्ये । तत्र सर्वमुख्यो ब्रह्मा द्वैपायनः। तथा च सभापर्वणि—स्वयं ब्रह्मत्वमकरोत्तत्र सत्यवतीसुतः इत्य्-आदि ॥७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : द्वैपेति त्रिकम् । द्वैपायनादीनां मुख्यत्वादेत एव वृताः न त्व् अन्ये इत्य् एवकारार्थः चकारः प्रत्येकमुक्तसमुच्चये तत्र सर्वमुख्यो ब्रह्मा द्वैपायनः तथा च सभापर्वणि स्वयं ब्रह्मत्वमकरोत् तत्र सत्यवतीसुतः इत्य्-आदि ॥७-९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.८ ॥
विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः ।
पैलः पराशरो गर्गो वैशम्पायन एव च ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एव अपि, वैशम्पायनो\ऽपि, च-कारस्य परेणान्वयः ॥८-९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी, क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.९ ॥
अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः ।
वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अकृत-व्रणान्तान् एतान् ऋत्विग्-उपद्रष्ट्रादि-भेदेन वव्रे ॥९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपद्रष्ट्राद्या ऋत्विजां संज्ञाः । ताश् च\ऽयज्ञविद्यातो\ऽवेयाः ॥९॥
अन्येन न व्याख्यातम्।
॥ १०.७४.१० ॥
उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः ।
धृतराष्ट्रः सह-सुतो विदुरश् च महा-मतिः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अन्ये चोपहूता यज्ञ-दिदृक्षवस् तत्रेयुर् इत्य् अन्वयः ॥१०-११॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : उपहूता मुनयस् तथान्ये\ऽनुपहूता अपि द्रोणादयस्तूपहूता एव । महामतिः सदोचितोपदेष्टा ॥१०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्ये च ऋषयो द्रोणादयश्च, तथा तेनोक्तेन श्री-कृष्णानुमोदनप्रकारेणैव। हस्तिनापुरे श्रीनकुलं प्रेष्योपहूता आमन्त्रिताः, आदि-शब्दाद्वाह्लीक-सोमदत्तादयः, सुता दुर्योधनादयस् तत्-सहितः। द्रोणादीनां यथापूर्वं यज्ञे\ऽधिकापेक्ष्यत्वे श्रैष्ठ्यम्। महामतिर् इति द्रव्यव्ययादौ विदुरस्य नैपुण्यविशेषेणाह्वाने हेतुविशेषः । तथा च तत्रैव (म।भा।सभा।प। ३५.७)—तत्र व्ययकरश्चासीद् विदुरः सर्व-धर्मवित् इति । सर्व-धर्मवित् कालदेशपात्रादिज्ञानेन दानादिसर्व-धर्मतत्त्ववेत्ता श्री-भगवद्-भक्त्येकनिष्ठो वेति ॥१०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपेति युग्मकम् । अन्ये च ऋषयः द्रोणादयश् च तथा तेनोक्तेन श्री-कृष्णानुमोदनप्रकारेणैव हस्तिनापुरे श्रीनकुलं प्रेष्य उपहूताः आमन्त्रिताः आदिशब्दाद्बाहीकसोमदत्तादयः महामतिर् इति ऐहिकपारलौकिकसर्व-धर्मविद् इत्य् अर्थः । तथा च तत्रैव तत्र व्ययकरश् चासीद् विदुरः सर्व-धर्मवित् इति ब्राह्मणाह्वानं च यथा तत्रैव श्री-युधिष्ठिराज्ञया श्रीसहदेव-वाक्यम्।
आमन्त्रयध्वं राज्येषु ब्राह्मणान् क्षत्रियानपि । विशश् च मान्यान् शूद्रांश् च सर्वानानयतेति च ॥ इति ॥१०-११॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.११ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः ।
तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र यज्ञे ॥११॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नानाराष्ट्रे स्थिता यज्ञं दिदृक्षवः सन्तःस्वयम् एवेषु, किं वा, दूतद्वारोपहूता विशेषतश् च यज्ञं दिदृक्षव ईयुः । तथा च तत्रैव श्री-युधिष्ठिराज्ञया दूतान् प्रति श्रीसहदेववाक्यम्—
आमन्त्रयध्वं राज्येषु ब्राह्मणान् क्षत्रियानपि । > विशश् च मान्यान् शूद्रांश् च सर्वानानयतेति च ॥
इति तत्र क्षत्रियास्तज्जातिमात्रेण सामान्याः, राजानश् च राज्याधिकारिणस्तद्विशेषाः सर्वे, प्रकृतयश् च सर्वाः, हे नृपेति प्रहर्षात् परम-विस्मयाद्वा ॥११॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.१२ ॥
ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः ।
कृष्ट्वा तत्र यथाम्नायं दीक्षयाञ्चक्रिरे नृपम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : देव-यजनं यज्ञ-भूमिम् । कृष्ट्वा कर्षणादिभिः संशोध्य । दीक्षयां चक्रिरे दीक्षासंस्कार-युक्तम् अकुर्वन् ॥१२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो वरणानन्तरम् । ते ऋत्विजः । तत्र यज्ञे । स्वर्णलाङ्गलैः हेमहलैः ॥१२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : यथाम्नायं वेदोक्त-विध्य्-अनुसारेण। अस्योभयतो\ऽप्य् अन्वयः ॥१२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यथाम्नायं वैदिक-विध्य्-अनुसारेण अस्योभयतो\ऽप्य् अन्वयः ॥१२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : देव-यजनं यज्ञ-भूमि कृष्ट्वा कर्षणादिभिः संशोध्य दीक्षयाञ्चक्रिरे दीक्षा-संस्कार-युक्तम् अकुर्वन् ॥१२॥
॥ १०.७४.१३ ॥
हैमाः किलोपकरणा वरुणस्य यथा पुरा ।
इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : उपकरणा उपस्कराः वरुणस्य राजसूये यथा आसन्न् इति शेषः । किं च, इन्द्रादयो देव-गणाः ॥१३-१४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्र यज्ञे केवलं राजान एव नागताः किन्तु देवा अपीत्याह—किञ्चति ॥१३-१५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : उपकरणानि यज्ञपात्रादीनि, किल निश्चये, अत्रासम्भावनया मा संशयं कुर्वित्य् अर्थः । विरिञ्चि-भवाभ्यां संयुता इति तयोस् तेषु प्राधान्यम् ॥१३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हैमा इत्यर्धकम्। उपकरणा उपकरणानि यज्ञयात्रादीनि किल निश्चये अत्रासम्भावनां मा कुर्वित्य् अर्थः । इन्द्रेति त्रिकम् । विरिञ्चिभवाभ्यां संयुता इति तयोस् तेषु यथा प्राधान्यम् ॥१३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वरुणस्य राजसूये यथासन्न् इति शेषः ॥१३-१५॥
॥ १०.७४.१४ ॥
स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः ।
मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तथा सगणा इति च गणानाम् अपि प्राधान्यमुक्तम्, गणाः श्रीगरुडादयो वैकुण्ठपार्षदाः, मुनय आत्मारामाः श्रीसनकादयः, खगाः श्रीसौपर्णादयः, च-काराद्ब्राह्मणादयश्च, सम्यक् स्व-स्व-गुणप्रदर्शनादिनेषु, स्म हर्षे, वै निश्चये। मनने हेतुः—पाण्डुसुतस्य महाराजपुत्रस्येति सर्वसादुण्यमुक्तम्। तत्रापि कृष्णस्य साक्षाद् भगवतो भक्तस्येति, अत एवाविस्मिता निःसंशया आश्चर्यबुद्धिरहिता वा सन्त इत्य् अर्थः ॥१४-१५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तथा सगणा इत्य् अत्र सगणानाम् अपि सूचितं गणाः श्रीगरुडादयो वैकुण्ठपार्षदाः मुनयः आत्मारामाः श्रीसनकादयः खगाः श्रीगरुडपुत्रादयः चकारात् ब्राह्मणादयश् च सम्यक् स्व-स्व-गुणप्रदर्शनादिना ईयुः स्म हर्षे वै निश्चये मनने हेतुः पाण्डुसुतस्य सुतरूपेण स्वेन तद्यशोविस्तारकस्येत्य् अर्थः । तत्रापि कृष्णस्य स्वयं भगवतो भक्तस्येति अत एवाविस्मिता आश्चर्यबुद्धिरहिताः देवादधिकं वर्चो दीधितिर्येषां ते व्यासादयः मध्यपदलोपी समासः अमराः देवर्षयः दृष्टान्तो\ऽयं प्राचीना सा परिपाटी यथा\ऽन्यत्र श्रुतास्ति तथैवात्र ज्ञेयेति सङ्क्षेपार्थो दर्शितः ॥१४-१६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.१५ ॥
राजानश् च समाहूता राज-पत्न्यश् च सर्वशः ।
राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ये च राजादयः समाहूतास् तत्र समीयुः स्म ते सर्वे कृष्ण-भक्तस्य पाण्डु-सुतस्य राज्ञो युधिष्ठिरस्य राजसूयम् अविस्मिताः सन्तः सूपपन्नं मेनिरे इत्य् अन्वयः ॥१५॥
अन्यैर् न व्याख्यातम्।
॥ १०.७४.१६ ॥
मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः ।
अयाजयन् महा-राजं याजका देव-वर्चसः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : याजका ऋत्विजः ॥१६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : प्राचेतसं वारुणम् ॥१६-१७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : महाराजं प्राप्तसाम्राज्यम्, देववत् वर्चो दीप्तिर्येषां ते, तपोबलात्, किं वा, विचित्ररत्नालङ्कारैर्भूषितत्वात् । सततविविधार्चया स्फीतत्वाच् च ॥१६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अविस्मिता इति । कृष्ण-भक्तस्यास्य किम् असम्भवम् इति भावः ॥१६॥
॥१०.७४.१७॥
सुत्येऽहन्यवनीपालो याजकान् सदस्पतीन् ।
अपूजयन् महा-भागान् यथा-वत् सु-समाहितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुत्ये\ऽहनि सोमाभिषवदिने ॥१७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सदसस्पतीन् सभ्यश्रेष्ठान्, यतो महाभागान् परम-पुण्यवतः, किं वा, महान् भागो यज्ञे दक्षिणादिना देयांशो येषां तान्, अतो यथावदपूजयत्। त्र सर्वसामर्थ्यम् आह—अवनीपालो दिग्विजयादिना पृथ्वीपतिर् इति । श्रद्धादिकं चाह—सुसमाहित इति ॥१७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सदसस्पतीन् सभाश्रेष्ठान् यतो महाभागान् परम-पुण्यवतः यथावत्तद्योग्यम् एवापूजयत् यतः अवनीपालः दिग्विजयादिना पृथ्वीपतिः सुसमाहितः श्रद्धादिमांश्चेति ॥१७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सुत्ये\ऽहनि सोमाभिषवदिने ॥१७॥
॥ १०.७४.१८ ॥
सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः ।
नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अग्र्यार्हणम् अग्र-पूजा तस्यार्हं योग्यम् । अनैकान्त्याद् योग्यानां बहुत्वेनैकस्यानिश्चयात् ॥१८-१९॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तदा\ऽनिश्चयवेलायाम् ॥१८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ते महाप्राज्ञा अपि, वै निश्चये, मृशन्तो विचारयन्तः, पाठान्तरे विशेषेण बुद्ध्यभिनिवेशादिना मृशन्तो\ऽपि नाध्यगच्छन्, न निश्चेतुं शेकुः । कुतः? अनेकान्त्यात् । सहदेव इति श्लेषेण देवेन श्री-कृष्णेन सह सदा हृदि वर्तते इति तस्य परम-भक्तिः सूचिता
॥१८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ते महाप्राज्ञा अपि वै निश्चये विशेषेणामृशन्तो विचारयन्तो\ऽपि नाध्यगच्छन् न निश्चेतुं शेकुः कुतः अनैकान्त्यात् तत्राज्ञाः स्वबुद्धेर्नानासन्देहास्पदत्वात् विज्ञाश् च तस्याश्चैद्यादिसंवलितसभाया नानामतत्वेन विवादापत्तेः स्वीकृतचरणक्षालनाधिकारस्य श्री-भगवत इच्छान्यथापत्तेश्चेति ज्ञेयं सहदेवस्तदाब्रवीद् इति तु सहदेवस्तु पूजायाम् इति वक्ष्यमाणानुसारेण तत्र प्राप्ताधिकारत्वादैकान्त्याच्चेति भावः ॥१८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : सदस्येषु मध्ये अग्र्यार्हणम् अग्रपूजा तस्यार्हं योग्यम् अनैकान्त्यात् योग्यानां बहुत्वेनानिश्चयात् सभासदो\ऽल्पज्ञा एव न तु बहुज्ञास्ते तु ब्रह्मरुद्रद्वैपायनादयो वयमधुना न पृष्टाः कथं ब्रूमहे किञ्चौत्पत्तिकसर्वपरीक्षाप्रावीण्यविख्यातः सहदेवो\ऽत्र पूजायामधिकृत एव वर्तते सचेन्न ब्रवीत वक्तुं दैवान्न जानीयाद्वा तदा वयमपृष्टा अपि वक्ष्यामह एवेति मनसि निश्चित्य तूष्णीम् एव तत्र वर्तन्ते स्मेति ज्ञेयम् ॥१८॥
॥ १०.७४.१९ ॥
अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः ।
एष वै देवताः सर्वा देश-काल-धनादयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : साङ्ख्यं ज्ञानं योग उपासना ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अच्युतः स्वरूपतो गुणतो वा न क्षीणः श्री-कृष्णः । श्रैष्ठ्यं गुणज्येष्ठयोग्याग्रपूजनम् । गुणाः श्रुताः सुविरुद्धाश् च देवे सन्ति इत्य्-आदिश्रुतिवाक्यं हिना सूचयति । सात्वन्तस्तन्त्रप्रणेतारस्तेषां स्वामी । गतिश् च । इदं चाग्रपूजायोग्यत्वे लिङ्गम् । इन्द्रो वै सर्वेषां श्रेष्ठः, अग्निर्वै देवानां मुखम् इत्य्-आदिश्रुतेः । कथमयमर्हणार्ह इति चेदाह—एष कृष्णः। यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः इत्य्-आदिश्रुतेः । अचेतनम् अप्य् एतदधीनसत्ताकम् एवेत्याह—देशेत्यादि ॥१९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : हि एव, अच्युतः सर्व-गुणपरिपूर्णः श्री-कृष्ण एवार्हति। तत्र हेतुत्वेनाच्युतत्वम् एव दर्शयन्नाह—भगवान् साक्षात् परमेश्वरः, अतः सात्वतां भक्तानां पतिः पालकः। यद् वा, तत्रापि निजाशेषैश्वर्यप्रकटनार्थं यदुकुले\ऽवतीर्य तत्र श्रैष्ठ्यं प्राप्त इति । वै एव, अत एष एव, आदि-शब्दादृत्विगादयः ॥१९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : हि एव अच्युतः सदा सर्व-गुणपरिपूर्णः श्री-कृष्ण एव अर्हति तद् एव दर्शयन्नाह—भगवान् स्वाभाविकसमग्रैश्वर्यादिमान् किं च, सात्वता भगवता एव तावत्सर्वतः पूज्या भवन्ति तेषाम् अपि पतिः । किं वा, तत्रापि सात्वतां यादवानां पतिर् इति स्वयं भगवानित्य् अर्थः । किं च, एष इति वै प्रसिद्धौ ये देवतादयो यज्ञे तेप्येष एव एतच्छक्त्यैव तेषां देवादित्वम् इत्य् अर्थः । आदिशब्दाच्छ्रीभीष्मेणाग्रपूजायां निर्दिष्टा आचार्यादयो\ऽपि तथा च सभापर्वणि—
आचार्यमृत्विजञ्चैव संयुक्तं च युधिष्ठिर । > स्नातकं च प्रियं प्राहुः षडर्ध्यार्हान् नृपं तथा ॥ इति ॥
तदिदमनेन स्थानान्तरविधानम् एवानूद्यात्र तु साक्षाद्भूते स्वयं भगवति न तु तत्प्रथमतो युज्यत इत्य् अभिप्रेतम् ॥१९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्रैष्ठ्यमात्यन्तिकम् आपेक्षिकम् अपि श्रैष्ठ्यं वस्तुतो\ऽस्यैवेति कैमुत्येनाह—एष वै इति ॥१९॥
॥ १०.७४.२० ॥
यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः ।
अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : साङ्ख्यं ज्ञानम् । योग उपासना ॥२०॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : किं बहुना सर्वमेतदात्मकम् एवेत्य् आह—यदात्मकम् इति । तात्पर्यात्पुनर् उक्तं करोति—क्रतव इति । यः कृष्णः परस्तात्पर्यविषयो यस्य स तथा ॥२०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तत्रैव हेतुम् आह—यद् इति । यः श्री-कृष्ण एव आत्मा तत्त्वतो\ऽशतया तस्मादभिन्नत्वेन स्वरूपं यस्य तत्, कत्वङ्गान्यग्न्यादयश् च यदात्मकाः, मोक्षादिसाधनं च सर्वं तद्-अर्थम् एवेत्य् आह—साङ्ख्यम् इति । अन्यत् तैर् व्याख्यातम् । यद् वा, योगः समाधिः सायुज्यलक्षणमोक्षो वा ॥२०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तत्रैव हेतुम् आह—यद् इति । यः श्री-कृष्ण एव आत्मा रश्मीनां तेजो मण्डलम् इव मूलं स्वरूपं यस्य तम् विश्वमशेषं ततः सुतरां रतवश्चेत्यादि क्रत्वङ्गान्यग्न्यादयश् च यदात्मकाः अतो मोक्षादिसाधनं च सर्वं तद्-अर्थम् एवेत्य् आह—साङ्ख्यम् इति । यत्परो यदाश्रयः ॥२०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तमर्थं विवृणोति । यदात्मकम् इति साङ्ख्यं ज्ञानं योगो\ऽष्टाङ्गः यत्परः यद्विषयकः ॥२०॥
॥ १०.७४.२१ ॥
एक एवाद्वितीयोऽसाव् ऐतद्-आत्म्यम् इदं जगत् ।
आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : ननु साङ्ख्यं केवलपरं योगः सविशेषणपरः कथमुभयोरेकपरत्वम्? तत्राह—एक एवाद्वितीयो\ऽसावतः साङ्ख्यस्यैतत्परत्वं युक्तं विशेषणभूतस्य सर्वप्रपञ्चस्य तन्मयत्वात्सविशेषणविषयस्य योगस्यापि युक्तमद्वितीयपरत्वम् इत्य् आह—ऐ तदात्म्यम् इति एष श्री-कृष्ण आत्मा यस्य तदेतदात्म तस्य भावः ऐतदात्म्यम् भवितर्येव भावनिर्देशः । ऐतदात्म्यम् इदं सर्वम् इति श्रुतेः । अत्र हेतुः आत्मनेति, हे सभ्याः! आत्माश्रयो\ऽन्यनिरपेक्षः स्वयमजः इदं जगत्सृजत्यवति हन्ति चेति ॥२१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : साङ्ख्ययोगयोरेकपरत्वमाक्षिपन्समाधत्ते-नन्विति । केवलपरम-द्वितीयपरम् । तत्राक्षेपे । असौ कृष्ण एवैको\ऽद्वितीयो यतो\ऽतो हेतोः । एतत्परत्वं कृष्णतात्पर्यकत्वं तन्मयत्वात् । सर्वं खल्विदं ब्रह्म इति श्रुतेः कृष्णस्वरूपत्वात् । हे सभ्याः सर्वार्थनिपुणाः । भवितरि भवनशीले कृष्णे। अत्र सर्वात्मकत्वे । अज इत्युपलक्षणममृतत्वस्य ॥२१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवकारेण चतुर्व्यूहादिमूर्तिभिः सजातीयभेदस्य, तथा जीवानां बहुवैचित्रीभिर्विजातीयभेदस्य चाभावं निर्धारयति । असौ श्री-कृष्णः, आत्मनेत्यनन्यप्रयोजकत्वम्, आत्माश्रय इति साधनादीनाम् अपि तन्मयत्वम्, तथा जगदिव न जायते, किन्तु स्वयम् एव प्रादुर्भवतीत्यज इति परमेश्वरत्वञ्चोक्तम् । हे सभ्याः! इति साधुत्वेन तत् सर्वं युष्माभिर्बुध्यत एवेति भावः । पक्षान्तरे च सर्वथान्याभावेन ज्ञानमोक्षयोर् अपि तत्परतैव स्याद् इति भावः ॥२१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एकशब्देन सजातीयसहायम् अद्वितीयशब्देन विजातीयसहायम् एवशब्देन तत्रतत्रासम्भावनां च निराकरोति अतः ऐतदात्म्यम् इति सिद्धं तद् एव दर्शयति—आत्मनेति । स्वरूपसिद्धतादृशशक्तिकेन स्वरूपेणैवैत्य् अर्थः । अत एवान्यनिरपेक्षः अत एव स्वयमज इति अन्यत् तैः यद् वा, विश्वस्य तदात्मकत्वम् एव विवृणोति एक इति ॥२१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : उक्तमर्थं प्रतिपादयति एक एव सजातीयभेदरहितः परमेश्वरान्तराभावाद् इति भावः । अद्वितीयो विजातीयभेदरहितश् च तत्र हेतुः ऐतदात्म्यम् इति स्वार्थे ष्यञ् एतदात्मकम् इत्य् अर्थः एतच्छक्तिकार्यत्वाद् एव ऐतदात्मकम् इत्य् आह—आत्मना प्रकृत्या आत्माश्रयः अनन्याश्रयः हे सभ्याः! इति अत्र विप्रतिपत्तिश्चेद्विप्रतिपद्यतां मयैव सर्वं समाधेयम् इति भावः ॥२१॥
॥ १०.७४.२२ ॥
विविधानीह कर्माणि जनयन् यद्-अवेक्षया ।
ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, विविधणीति । यस्यावेक्षयाऽनुग्रहेण विविधानि कर्माणि तपो-योगादीनि जनयन् कुर्वन् यद्य् अस्माद् अयं सर्वोऽपि जनो धर्मादि-लक्षणं श्रेय ईहते साधयति । कर्माणि तत् फलानि च यद् अधीनानीत्य् अर्थाह् ॥२२-२३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कर्मफलदातृत्वादप्ययम् एव योग्य इत्याह—किं चेति । अवेक्षानुग्रहेक्षणः इति निरुक्तिः । यस्य कृष्णस्य । यस्मात्कृष्णात् । तत्फलानि कर्मफलानि । यदधीनानि कृष्णायत्तानि । इत्य् अर्थ इति—सर्वकर्मफलप्रदस्यैवाग्रार्हणमुचितम् इति भावः ॥२२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : श्री-कृष्णस्य कृपयैव सर्वेषां सर्वाणि कर्माणि तत्फलानि च सिद्ध्यन्तीति तद्-अर्थम् अप्य् अयम् एवाग्रे\ऽर्हयितुं युज्यत इत्याह— विविधानीति । इह कर्मक्षेत्रे, आदि-शब्देन धर्मफलं स्वर्गादि। अन्यत् तैर् व्याख्यातम् । यद् वा, मोक्षादपि सुदुर्लभं परमोत्कृष्टं च तद्-भक्त्यादिकं यत्कृपया लभ्यत इत्याह—विविधानीति । अयमिदानीन्तनो जनो धर्मो भगवद्-भक्तिलक्षणः, आदि-शब्दात् प्रेमा श्री-वैकुण्ठादिपदं च । एवं सर्वकर्मणां भक्तिसाधनत्वमभिप्रेतम्। अन्यत् समानम् ॥२२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : श्री-कृष्णस्य कृपयैव सर्वेषां सर्वाणि कर्माणि तत्फलानि च सिद्ध्यन्तीति तद्-अर्थम् अप्य् अग्रे\ऽर्हितुं युज्यत इत्याह—विविधानीति । इह कर्मक्षेत्रे आदिशब्देन अर्थादित्रयं तद्-भक्तिश् च अन्यत् तैः यद् वा, यदवेक्षया यद्-अर्थम् इत्य् अर्थः तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इत्य्-आदिश्रुतेः ॥२२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : श्री-कृष्णस्य कृपयैव सर्व-लोकस्य सर्वकर्माणि तत्फलानि च सिद्ध्यन्तीति—तद्-अर्थम् अप्य् अयमग्रे\ऽर्हितुं युज्यत एवेत्य् आह विविधानीति इह भूर्लोके यदवेक्षया यत् कृपालोकेनैव तपोयोगादीनि जनयन् कुर्वन् यत् यस्मादयं सर्वो\ऽपि जनो धर्मादि लक्षणं श्रेय ईहते साधयति कर्माणि तत्फलानि च यदधीनानीत्य् अर्थः ॥२२-२३॥
॥ १०.७४.२३ ॥
तस्मात् कृष्णाय महते दीयतां परमार्हणम् ।
एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : यतो\ऽसौ कर्मफलदाता तस्माद्धेतोः अस्य तृप्तौ सर्वं तृप्तं स्यादित्यशयेनाह—एवं चेत् श्री-कृष्णार्चने कृते सति ॥२३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तस्माद् दीयताम्, यत उक्तन्यायेन सर्वथा महते सर्वश्रेष्ठाय, यतः कृष्णाय साक्षाद्भगवते । इत्थम् एवान्येषाम् अपि सर्वेषां पूजा सम्पद्यतेत्य् आह—-एवम् इति । च अपि, सर्वेषां भूतानां प्राणिनाम्, आत्मनः स्वस्यापि, अतो\ऽत्र कस्यापि विप्रतिपत्तिर् अपि न स्याद् एवेति भावः ॥२३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहरति-तस्माद् इति । महते सर्वात्मकाय सर्वश्रेष्ठाय वेत्य् अर्थः । अतश् च एवम् इति अतो\ऽत्र कस्यापि विप्रतिपत्तिर्न स्याद् इति भावः ॥२३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.२४ ॥
सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने ।
देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : श्री-कृष्णानुभाव-वित् सहदेव इत्य् उक्त्वा तूष्णीम् अभूत् ॥२४-२५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : पुनर् आशङ्क्य समाधत्ते-आत्मनेत्यादि । अपूर्णेषु दत्तम् एव नश्यतीति चेदाह—पूर्णायेत्यादि ॥२४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सर्वेति । तत्त्वतो जीवानां तदंशतया भेदाभावाभिप्रायेण, एवम् अनन्यदर्शिने, अतः शान्ताय सदा प्रसन्नचित्ताय, यतः सर्वैश्वर्यपूर्णाय, यतः कृष्णाय साक्षात् परमेश्वराय। यद् वा, तत्रापि निजाशेषैश्वर्यप्रकटनार्थं कृष्णत्वेनावतीर्णाय, अतः सत्पात्रत्वेन दानस्यापि महाफलत्वं स्याद् इत्य् आह—दत्तस्येति । किं च, बहिर्दृष्ट्यासत्पात्रपरत्वादपीत्याह—दत्तस्येति । अन्यत् तैर् व्याख्यातम् । यद् वा, एवं तत्त्वदृष्ट्यायम् एवाग्रपूजार्हः । किं च, बहिर्दृष्ट्या सत्पात्रत्वादपीत्याह—सर्वेति । सर्व-भूतानामात्मभूताय परमात्मने प्रियतमायेत्य् अर्थः । अतः कृष्णाय सद्गुणैः सर्वचित्ताकर्षकाय। किं च, अनन्यदर्शिने समायेत्य् अर्थः । यद् वा, अनन्या अकिञ्चना एकान्तिनो वा, तान् एव कृपया द्रष्टुं शीलमस्येति तथा तस्मै, भक्तवत्सलत्वेन बहुकुटुम्बिन इत्य् अर्थः । किं च, शान्ताय लोभादिदोषरहिताय, विशेषणानाम् एषां यथोत्तरं सत्पात्रलक्षणत्वे श्रैष्ठ्यम्, अन्यत् समानम् । एवम्—
आचार्यमृत्विजञ्चैव संयुक्तं च युधिष्ठिर । > स्नातकं च प्रियं प्राहुः षडर्घ्यार्हान् नृपं तथा ॥
इत्य्-आदिना सभापर्वणि श्री-भीष्मेणोक्तमग्रपूजार्हाणां षण्णां मुख्यतमस्यैकस्य वाग्रे पूजनम् अपि समर्थितम् ॥२४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : उपसंहृत्यापि तर्हि किं स्यादित्यपेक्षायामुत्कण्ठया पुनर् उक्तानुवादेनाह—सर्वेति । अत्र सर्व-भूतात्मभूतत्वं स्वरूपतः अन्यदर्शित्वं ज्ञानतः शान्तत्वं ततो विक्षेपाभावात् पूर्णत्वन्तु ततस् तत एवेति अथ च तत्र तत्रोक्ता दानपात्रगुणा एव दर्शिताः तथा सर्व-भूतानामात्मभूतायापि अनन्यदर्शिने भक्तासक्ताय शान्ताय निरीहाय सर्वपूर्णायेति श्लेषेण परमाश्चर्यगुणो\ऽपि दर्शितः अतो अत्तस्यानन्त्यमिच्छता अस्मा एव देयम् इति ॥२४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न केवलमिदमिदानीम् एव रजन्यस्मिन्न् एव वधीयते किन्तु विधिरयं सार्वकालिकः सार्वलौकिकश्चेत्याह—सर्वेति अनन्यदर्शिने स्वाभिन्नदर्शिने ॥२४-२५॥
॥ १०.७४.२५ ॥
इत्य् उक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाव-वित् ।
तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : देवैः सह वर्तत इति सहदेवो देवव्रतो\ऽपि ग्राह्यो, भारते तद्वचनादग्रपूजादानाद्युक्तेः । यद् वा, -देवेन देवशब्देन सह वर्तत इति सहदेवो देवव्रतो भीष्म इत्य् अर्थः । तत्सहदेववचः । सत्तमा मुन्यादयः ॥२५-२६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तूष्णीमभूत् । कुतः? कृष्णस्य प्रेम्णा जगच्चित्ताकर्षकस्य भगवतो\ऽनु निरन्तरं यो भावः प्रेमा तं विन्दतीति तथा सः। तस्य माहात्म्य-वर्णनेन प्रेमविवशत्वाद् इत्य् अर्थः। यद् वा, कृष्णस्य सर्वसद्गुणनिधेरनुभावो लज्जादि-स्वभावस्तं वेत्तीति तथा सः, सभामध्ये वर्ण्यमाननिज-गुणश्रवणेन श्री-कृष्णस्य लज्जोत्पत्तेरित्य् अर्थः । साधु साध्विति तुष्टुवुः, श्रीसहदेवं प्रशशंसुः, यतः सत्तमा जातिबुद्ध्यादिना परम-श्रेष्ठतरा इत्यसत्तमो व्यवच्छिन्नः, स चाग्रे व्यक्तो भावी ॥२५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : इत्युक्त्वेत्यत्र हेतुः कृष्णानुभावविद् इति तच्छ्रुतेति तादृशनैकान्त्याद् एव तत्र किञ्चिदवलम्बनापेक्षयैवं ते पूर्वन्तूष्णीमासन्न् इति भावः । सत्तमा अत्र द्विजाः श्रुत्वा द्विजेरितम् इति वक्ष्यमाणात् ॥२५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.२६ ॥
श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् ।
समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : द्विजेरितं साधु साध्व् इति घोषं श्रुत्वा । हार्दम् अभिप्रायम् ॥२६-३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : द्विजा विप्रास्त्रैवर्णिका वा, तेषाम् ईरितं सभासदामन्येषां च सर्वेषां च मत्वा तेनैव तेषां हार्दं सन्मतिम् इत्य् अर्थः। यद् वा, श्री-कृष्णे स्नेहं ज्ञात्वा च प्रीतः सन् निजाभीष्टसिद्धेः, अतः प्रणयेन विह्वलः सन् सम्यगर्हयत् । हृषीकेशम् इति राज्ञः प्रीत्यर्थम् एव द्विजादीनामन्तर्यामितया तत्र प्रेरणाभिप्रायेण। यद् वा, प्रणयविह्वलो\ऽपि समर्हयत् । कुतः? हृषीकेशं तेनैव कृपया तत्र तत्रेन्द्रियप्रवर्तनाद् इत्य् अर्थः ॥२६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सभासदामन्येषां च सर्वेषां हार्दं सन्मतिम् इत्य् अर्थः । यद् वा, श्री-कृष्णे स्नेहं ज्ञात्वा च प्रीतः सानन्दः सन् निजाभीष्टसिद्धेः अत एव प्रणयेन तत्प्रेम्णा विह्वलो\ऽपि समर्हयत् सम्यगर्हयत् कुतः हृषीकेशं प्रणयकोपेन तत्र मुहुः कृतवर्जनम् अपि स्वभावतः कृतसर्वेन्द्रियाकर्षम् ॥२६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : द्विजानामीरितं साधुसाध्विति घोषं समर्हयत भो कृष्ण त्वं सर्व-लोकानां पादावनेजनकर्मणि स्वगृहीते व्यग्रो वर्तसे साम्प्रतं परन्तु ब्रह्मरुद्रादिसर्वाग्रपूज्यस्य तव पादावनेजनार्थं व्यग्रो राजा त्वामाकारयति तत्त्वं शीघ्रं गच्छेति सान्देशिकलोकद्वारा सम्यक्प्रकारेणानीय अर्हयत् पूजयामास आडभाव आर्षः । हृषीकेशं स्वपादावनेजने मैवन्मैवं कुर्विति प्रणयकोपिनम् अपि सर्वेन्द्रियाण्याकर्षन्तम् ॥२६-२९॥
॥ १०.७४.२७ ॥
तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः ।
स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्पादौ कृष्णाङ्घ्री ॥२७-२८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सम्यक्त्वम् एव दर्शयति—तद् इति द्वाभ्याम् । शिरसा वहन् सन्, इति तत्र भक्त्यतिशय उक्तः, यतो लोकपावनी गङ्गारूपेण त्रिलोकपावित्र्यकरीः, किं वा, लोका ये पूर्वपुरुषा भूत्याः पौराः प्रजाश्च, तेषां सर्वेषां पावनीः, स्वयं वहनेन तेषाम् अपि पावित्र्यसिद्धेः । भार्या द्रौपदी, कुटुम्बानि पुत्रादयः, भार्यादीनां यथापूर्वं नैकट्याधिक्येन तत्तत्क्रमेण वहनम्, तत्र भार्यायाः सर्वतो\ऽधिकनैकट्यतया पादप्रक्षालनार्थं जलार्पणात्। मुदेत्यस्य परेणाप्यन्वयः । सभार्य इत्य्-आदिकञ्चाग्रे\ऽप्यनुवर्त्यम्। अकारप्रश्लेषे च सति पृथग्वाक्यम् ॥२७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : सम्यक्त्वम् एव दर्शयति—तद् इति द्वाभ्याम् ॥२७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.२८ ॥
वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः ।
अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुमहाधनैरमूल्यैरित्य् अर्थः । वासआदीनां सर्वेषाम् एव विशेषणम्। यद् वा, अन्यैश् च सुमहाधनैर्महारत्नादिभिस्तम्, महाधनैर् इति पाठे तं कृष्णं सम्यगवधानेनेक्षितुं नाशकत्, किन्तु तं दिदृक्षुर् अपि प्रेमवैवश्येनेषदेव द्रष्टुं शक्त इत्य् अर्थः । यत आनन्दाश्रुभिः पूर्णे अक्षिणी यस्य सः ॥२८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : महाधनैरमूल्यैरित्य् अर्थः । इदं वास आदीनां सर्वेषाम् एव विशेषणम् ॥२८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.२९ ॥
इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।
नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सभाजितमर्चितम् । तं कृष्णम् ॥२९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् इति । तादृक्प्रेमसभाजनेन तद्वीक्षकाणाम् अपि सर्वेषां प्रेमोदयं सूचयति—नम इति केचित्, जयेति च केचिद् इत्य् एवं किं वा, सर्व एवात्यन्तहर्षेण नमो जयेति वदन्तः, नितरां सभादिव्यापनेन, पेतुराकाशात् ॥२९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नम इति केचित् जयेति केचित् केचित्त्वत्यन्तहर्षेण नमो जयेति च वदन्तः ॥२९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.३० ॥
इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् ।
उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः ॥**
उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी ।
संश्रावयन् भगवते परुषाण्य् अभीतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्थं साधु साध्व् इति उत्क्षिप्योर्ध्वं कृत्वा । इदं वक्ष्यमाणम् । परुषाणि निष्ठुराणि ॥३०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : इत्थम् अनेनोक्त-प्रकारणेन निशम्य नमो जयेत्य्-आदिकं श्रुत्वा, निशाम्येति वा पाठः । ईदृशं स-भाजनं दृष्ट्वा, दमघोषस्य सुत इति पितुर् अपि दुष्टत्वेन तस्य तद्-अधिकं सूचितम् । तच् च श्री-हरि-वंशोक्तेन दमघोषस्य गोमन्त-दाह-मन्त्र-प्रदानादिना व्यक्तम् एव । कृष्णस्य सर्व-चित्ताकर्षकस्य, अतस् तादृशानां गुणानां वर्णनेनापि, किं पुनर् अर्हणेन जातो मन्युः क्रोधो यस्य सः, यतो\ऽमर्षी असहिष्णुर् मत्सरीत्य् अर्थः । यद् वा, जात-मन्युर् जात-शोकः, अमर्षी क्रुद्धश् च सन्, अत एव स्व-पीठाद् उत्थाय बाहुं दक्षिणम् उत्क्षिप्य च, सम्यक् समीपे उच्चैर् भाषणादिना श्रावयन्, यतो\ऽभीतो मरण-भय-रहितो महा-साहसिक इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र यद्य् अपि शिशुपाल-दन्तवक्त्रयोर् जय-विजयत्वेन नान्तरासुर-भावः किन्तु बहिस् तद्-अनुकरणम् एवेति हिरण्याक्ष-युद्ध-टीका-कृद्भिर् मुहुर् दर्शितम् अस्ति युक्तं च तत् अन्यथा लीलेयं भक्त-सौख्याय स्व-सौख्याय च न कल्पतेति तद्-उद्देश्य-विरोधः स्यात् अन्तरानुकूल्याद् एव सिद्धायाम् एव पूजायां तादृशं वक्तुम् आरेभे तस्माद् अनयोर् वचस्य् अर्थान्तरं वास्तवम् अन्येषां तु गीर्-देवी-प्रेरितम् एव तथापि युद्ध-रस-पोषणार्थं यथा-दृष्टम् एव स्पष्टम् आह—इत्थम् इति ।
निशम्य श्री-सहदेव-वचनम् आरभ्य नमो जयेत्य् अन्तं श्रुत्वा दमघोष-सुत इति पितुर् अपि दुष्टत्वेन तस्य तद्-आधिक्यं सूचितं तथैव श्री-हरि-वंशे गोमन्थ-दाह-मन्त्रणे व्यक्तं श्री-कृष्णस्य गुणवर्णनेनापि किम्पुनर् अर्हणेन जातो मन्युः क्रोधो यस्य सः यस्माद् अमर्षी असहिष्णुः मत्सरीत्य् अर्थः । यद् वा, जात-मन्युर् जात-शोकः अमर्षी क्रुद्धश् च सन् अत एव स्व-स्व-पीठाद् उत्थाय बाहुं दक्षिणम् उत्क्षिप्य च सम्यक् समीप एवोच्चैर् भाषणादिना अश्रावयत् यस्माद् अभीतः महा-साहसिक इत्य् अर्थः ॥३०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : अमर्षी असहिष्णुर् अतो जात-मन्युः अत्र पूजाया आरम्भ-काले नोक्तं किन्तु पूजा-समाप्त्य्-अनन्तरम् एवेत्य् अत्र शिशुपालस्यायम् अभिप्रायः—"यद्य् अहम् अधुनैव विप्रतिपद्य बहून् एव हेतून् उपन्यस्य कृष्णस्यापूज्यत्वं प्रतिपादयामि, ततो निरस्तीकर्तुम् अशक्यतमस्य ममैव मतं गृहीत्वा सभ्याः कृष्णम् अपूजयित्वा कम् अप्य् अन्यम् एव योग्यम् अग्र-पूजायां व्यवस्थापयिष्यन्ति, यज्ञश् च साधु प्रवर्तिष्यते तस्मात् यज्ञं विजिघांसुर् अहं साम्प्रतं तूष्णीम् एव वर्तिष्ये । कृष्णे खलु पूजिते सत्य् एव तस्यापूज्यत्वे मत्-प्रतिपादिते—
अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः । > प्रति बध्नाति हि श्रेयः पूज्य-पूजा-व्यतिक्रमः ॥ [पञ्चतन्त्र > ३.१९२]
इत्य्-आदि-स्मरणात् युधिष्ठिरस्यायं यज्ञो नष्ट इत्य् उक्त्वा मयि मत्-सङ्गिषु च बहुषु राजसु वेदविद्-विप्रेषु चास्य भ्रातृ-बन्धुषु दुर्योधनादिषु चोत्थाय गतेषु हाहाकारे प्रवृत्ते मद्-अभीष्टं सेत्स्यति" इति ॥३०-३१॥
॥ १०.७४.३१ ॥
ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।
वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : सत्यवती अबाधितार्था । तदुपपादयति-वृद्धानां वयः श्रुतजात्याद्यधिकानाम् । यद्यस्मात् । बालवाक्यैः पौर्वापर्यविचारशून्योक्तिभिः ॥३१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : आदौ स्वमतग्रहणार्थं सभ्याननुनयन् अकृत्यस्यापि करणे कालम् एव कारणम् आह—ईश इति, दुर्घटम् अपि सर्वं कर्तुं शक्तः, न च केनापि कथञ्चिदयं परिहर्तुं शक्य इत्याह—दुरत्यय इति । सत्यवती सत्या श्रुतिर्वेदः, लोकतः श्रवणं वा । कुतः? अपूर्वप्रवर्तनाद् इत्य् आह—वृद्धानाम् इति । यद्यस्मात् कालात् ॥३१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : आदौ स्वमतग्रहणार्थमुपालम्भगर्भं सभ्याननुनयन्नाह—ईशः दुर्घटघनाशक्तः न च परिहर्तुं शक्य इत्याह दुरत्यय इति सत्यवती सत्या श्रुतिरैतिह्यं वेदो वा कुतः अपूर्वप्रवर्तनाद् इत्य् आह— वृद्धानाम् इति यद्यस्मात् कालात् ॥३१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.३२ ॥
यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-भाषितम् ।
सदसस्-पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : हे सदसस्पतयः! यूयं सर्वे बालस्य भाषितं मा मन्यध्वं मा जानीत मा गृह्णीतं किं तत्तु यद्यतः कृष्णो\ऽर्हणे अग्रपूजायां सन्मतस् तत् ॥३२-३३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अक्षराधिक्यमार्षम्। तद्बालभाषितं किम् ॥३२-३३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु सा च बुद्धिः का नामेत्यपेक्षायाम् आह—यूयम् इति । बालस्य शिशोः श्रीसहदेवस्य भाषितं मा मन्यध्वम् । तत्र हेतुः—पात्रविदां श्रेष्ठाः, अग्रपूजापात्रं यूयम् एव वेत्थ, न त्व् अयं बाल इत्य् अर्थः । यद्यस्माद्भाषितात्, कृष्ण इति सुश्यामवर्णाभिप्रायेण ॥३२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, सा बुद्धिः कानामेत्यपेक्षायाम् आह—यूयम् इति । बालस्य सहदेवस्य भाषितं मा मन्यध्वम् अधुनापि पूजां परिवर्तयध्वम् इत्य् अर्थः । तत्र हेतुः पात्रविदां श्रेष्ठाः अग्रपूजापात्रं यूयम् एव वेत्थ न त्व् अयं बाल इत्य् अर्थः । यद्यस्मात् भाषितात् कृष्ण इति मूलनामग्रहणमनादरेण वास्तवार्थे सा श्रुतिः सत्यैव किन्तु यूयं बालस्य मूर्खस्य मम भाषितं मा मन्यध्वं यतः पात्रविदां श्रेष्ठाः तत्र हेतुः यद्यस्मात् श्री-कृष्णो नराकृतिरपरब्रह्मरूपो\ऽयमर्हणे सन्मत इति ॥३२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : हे सदसस्पतयः मा गृह्णीतेत्य् अर्थः । वाग्देवी-मते दुर्योधनादिषु विपक्षेषु बाल-भाषितम् इदं मा मन्ध्वं किन्त्विदम् एव तत्त्वं वेदभाषितम् इत्य् अर्थः ॥३२॥
॥ १०.७४.३३ ॥
तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् ।
परम-र्षीन् ब्रह्म-निष्ठान् लोक-पालैश् च पूजितान् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : पूजायोग्यान्याभावे कथञ्चिद्वा अहर्तु, अत्र च तद्योग्येषु बहुषु महत्सु सत्सु कथमयमर्हेद् इत्य् आह—तप इति द्वाभ्याम् । तपः स्वधर्मः, विद्याश्चतुर्दश, व्रतं कृच्छ्रादि तद्धरान्, विशेषणानाम् एषां यथोत्तरं श्रैष्ठ्यम्, अतिव्रज्य अतिक्रम्य ॥३३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, पूजायोग्यान्याभावे कथञ्चिदर्हतु अत्र च तद्योग्येषु महत्सु कथमयमर्हतीत्याह—तप इति युग्मकेन । तपः स्वधर्मः विद्याः चतुर्दश व्रतं कृच्छादि तद्धरान् अतिव्रज्य अति क्रम्येति वा पाठः । कुलपांसनः मातुलवधादिना स्वकुलदूषणः वास्तवार्थे त्वेवम् अवतारिका किन्तु तप इत्य्-आदि वाख्या चेयं ज्ञेया गोपालः आभीरजातिर् इति प्राकृतदृष्ट्या तद्वाक्ये\ऽप्यस्मिन् वेदागमोक्तमहामन्त्रगणाधिदैवत्वेनाप्राकृततल्लीलत्वात् स्वतः परम-माहात्म्यविशेषः सिद्धः तथापि बाह्यमहिमदृष्ट्यैव वेदपृथिव्यादिपालक इति व्याख्यातम् ॥३३-३४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तपोवियेत्यादि विशेषणानि सदसस्पतीन् प्रीणयित्वा स्वपक्षे स्थापयितुमुपन्यस्तानि ॥३३॥
॥ १०.७४.३४ ॥
सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः ।
यथा काकः पुरोडाशं सपर्यां कथम् अर्हति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अस्यैव वास्तवोऽर्थः पूर्ववद् उन्नेयः । गोपाल इति वेद-पृथिव्य्-आदि-पालक इत्य् अर्थः । कुत्सितं वेद-विपरीतं लपन्तीति कुलपाः पाखण्डास् तान् अंसते समाधातयतीति तथा सः । अकाकः कं च अकं च काके सुख-दुःखे ते न विद्येते यस्य सोऽकाकः, आप्त-काम इत्य् अर्थः । स यथा आप्त-कामो देव-योग्यं केवलं पुरोडाश-मात्रं नार्हति, अपि तु सर्वस्वम् अपि, तथायं श्री-कृष्णोऽपि ब्रह्मर्षि-योग्यं सपर्या-मात्रं कथम् अर्हति किन्त्व् आत्म-समर्पणम् अप्य् अर्हतीत्य् अर्थः ॥३४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अन्यत् तैर् व्याख्यातम् । तत्र गोपाल इत्य् उक्ते\ऽपि वेदागमोक्त—महामन्त्राधिदैवत्येन स्वत एव माहात्म्यविशेषे सिद्धे वेदपृथिव्यादिपालक इति केवलगोपत्वाभिप्रायेणेति, अथवा गोपानेव, न तु यादवादीन् स्वबन्धून् आ सम्यक् लाति आदत्ते बन्धुतया स्वीकरोतीति तथा सः, इति निन्दार्थे । वास्तवार्थे च महाकारुण्यादिना संस्तुतिः सिद्धैव, कुलपांसनो मातुलवधादिना स्वकुलदूषकः ॥३४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : न व्याख्यातम्।
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : मातुलवधादिना कुलपांसनः पक्षे कुत्सितं लपन्तीति कुलपाः तान् अंसयति घायततीति सः यथावद् एव न विद्यते कं सुखमकं दुःखं च यस्य स इति प्राकृतसुखुःखातीतस्वरूप इत्य् अर्थः पुरोडाशार्पण-मात्रीं सपर्यामिन्द्रादिवत् कथमर्हति अपि तु स्वात्मार्पणम् एवेत्य् अर्थः ॥३४॥
॥ १०.७४.३५ ॥
वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः ।
स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वर्णाश्रम-कुलेभ्यो\ऽपेतो ब्रह्मत्वात् अनाम-गोत्रम् इति श्रुतेः । अत एवानधिकारित्वात् सर्वैर् धमैर् बहिष्कृतः स्वैर-वर्ती जीवानां योग्यं तुच्छं सपर्या-मात्रं कथम् अर्हतीत्य् अर्थः ॥३५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : इत्य् अर्थ इति—गो-शब्दस्यानेकार्थत्वाद् इति ज्ञेयम् । इत्य् अर्थ इति—आप्त-कामः इत्य्-आदि-श्रुतेः साक्षाद् ब्रह्म-रूपिणः कृष्णस्य । द्वयं तथा ब्रह्मणि कर्म नर्च्छति इति दक्षोपाख्याने शिवं प्रकृत्योक्तेर् इति भावः । परमेश्वरत्वात् प्रयोजकान्तराभावात् । जगद्-वशे वर्तते\ऽदः कृष्णस्य स-चराचरम् इति स्मृतेः । अत एव परमेश्वरत्वाद् एव । एवम्-भूतः साक्षात् परमात्म-रूपः श्री-कृष्णः । इत्य् अर्थ इति—सर्वस्वार्पणम् अर्हतीति भावः ॥३५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ननु महादुष्टकंस-वञ्चनार्थं गोपालनेन तस्य च वधेन को नाम दोष इति स्वयम् एवाशङ्क्याह—वर्णेति । लौकिकदृष्ट्या सत्क्षत्रियत्वादिना श्री-कृष्णस्य तादृशत्वाभावे\ऽपि तादृशी दुरुक्तिः क्रोधेन केवलमविचाराद् एव ॥३५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ननु, महादुष्टकंसवञ्चनार्थं गोपालनेन तस्य च वधेन को नाम दोषः इति स्वयम् एवाशङ्क्याह—वर्णेति । यथाश्रुतार्थः स्पष्टः वास्तवार्थे ब्रह्मत्वेश्वरत्वपक्षस्तैर् व्याख्यातः नरलीलापक्षे\ऽपि यदि वर्णाश्रमकुलपितादि-रूपः स्यात्तदा सपर्यं देवमुन्यादिभिः क्रियमाणत्वेन सर्वतः प्रसिद्धां कथमर्हति नार्हेदेवेत्य् अर्थः ॥३५॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वर्णाश्रमेति स्पष्टम् पक्षे वर्णाश्रमकुलानि आ सम्यक्प्रकारेण आप्नुवन्तीति वर्णाश्रमकुलपाः श्री-वसुदेवादयस्तैः पुत्रादित्वेन इतः प्राप्तः सर्वैर्धमैर्बहिष्कृतो रहितः स्वैरवर्ती च परमेश्वरत्वात् गुणैः सत्त्वादिभिर्हीनः शुद्धसत्त्वस्वरूपत्वात् एवम्भूतो\ऽयं सपर्यामात्रं कथमर्हति अपि तु स्वात्मार्पणम् अपि ॥३५॥
॥ १०.७४.३६ ॥
ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् ।
वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : अपि च कथं वर्णनीयो मादृशैर् एषां यदूनां महिमा यस्माद् एषां कुलं ययातिना शप्तम् अपि किं सद्भिर् बहिष्-कृतम्, अपि तु शिरसा धृतम् । किं चास्मद्-आदि-कुलवत् किं वृथापान-रतं अपि त्व् अतिनियताचारम् इत्य् अर्थः । अहो यदूनाम् एव तावद् ईदृशं माहात्म्यम् । यदु-कुल-वृद्धस्य ययातेः शापो न प्राभूद् इत्य्-आदि । अयं तु साक्षाद् ईश्वरोऽतः सपर्या-मात्रं कथम् अर्हतीत्य् अर्थः ॥३६॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु कथमयं वर्णाश्रमाद्यपेतो गृहस्थाश्रमोपेतक्षत्रवर्णययातिकुले जातत्वात्तत्राह—ययातिनेति । परमार्थम् आह—अपि चेति । इत्य् अर्थ इति—यत्र शापो न प्रबभूवेति भावः । अन्यदाह—किं चेति-वृथापानं मद्यम् । तदुक्तं मेरुतन्त्रे
वृथापानं तु देवेशि सुरापानं प्रकीर्तितम् । > तन्महापातकं ज्ञेयम् इति वेदे निरूपितम् ॥
इत्य् अर्थ इति—काकुना सर्वोत्कृष्टाचारम् इति भावः । अतः साक्षादीशत्वाद् एव । इत्य् अर्थ इत्युक्तार्थ एव ॥३६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अतः स्वयम् एवान्यथा दूषयंस् तत्सम्बन्धिनो यादवानपि सर्वान् निन्दति—ययातिनेति द्वाभ्याम् । हि यतः, शप्तम्, अतः सद्भिर्बहिष्कृतं परित्यक्तम् इत्य् अर्थः ॥३६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : यतो ययातिनेति तं निन्दन् तत्सम्बन्धिनो यादवानपि सर्वान् निन्दति द्वाभ्याम् हि यतः शप्तं तदनुसारेण सद्भिश् च बहिष्कृतं परित्यक्तम् इत्य् अर्थः । वास्तवार्थे सद्भिर्महामुनिभिस् तत्-तद्-यजनादिना बहिष्कृतं तस्माच्छापाद् इत्य् अर्थः । अतः पानं पृथिवीपालन यत्तत्र रतमासक्तं तर्हि कथं सपर्यं वृथा\ऽर्हति अपि तु सार्थकम् एवेत्य् अर्थः ॥३६॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ययातीति स्पष्टम्, पक्षे ययातिना शप्तम् अपि सद्भिस्तस्मात् शापात् बहिष्कृतं (किम्) अत एव कार्तवीर्यादिभिः साम्राज्यम् अपि प्राप्तम् अत एव पानं पृथ्वीपालनं तत्र रतं तस्माद्वृथा सपर्यां कथमर्हति अपि तु सार्थकम् एव ॥३६॥
॥ १०.७४.३७ ॥
ब्रह्मर्षि-सेवितान् देशान् हित्वैतेऽब्रह्म-वर्चसम् ।
समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : किं च, ये राजानो दुष्टानुच्छाटयन्ति तद् अर्थं कीकटादि-देशान् अप्य् आश्रयन्ति । एते तु ब्रह्मर्षि-सेवितान् एव देशान् आश्रित्याब्रह्म-वर्चसं समुद्रं दुर्गम् अपि हित्वा । हापयित्वेत्य् अर्थः । बाधन्ते तथा या दस्यवः प्रजास् ताश् च । अयम् अर्थः, वेद-तद्-अर्थाभियोगो ब्रह्म-वर्चसं तद् विरुद्धम् अब्रह्म-वर्चसं समुद्रं मुद्रात्र लिङ्गं तत्-सहितं समुद्रम् । वेद-विरुद्ध-लिङ्ग-धारिणं पाखण्डम् इत्य् अर्थः । तल्-लिङ्गं त्याजयित्वा बाधन्ते दण्डयन्ति । कथं भूतम् । दुर्गम्, धर्म-वत् प्रतीतेर् अधर्मतया दुर्ज्ञेयम् इत्य् अर्थः । तथादस्यवो दस्यून् अपि प्रजा-वेषेण वर्तमानान् दण्डयन्ति, अतो यदुभ्योऽन्यः को नाम धार्मिकोऽस्तीति । पारुष्यं तूक्तार्थम् एव ॥३७॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : अन्यत् तद् उत्कर्षम् आह—किं चेति । तद्-अर्थं दुष्टोद्घाटनार्थम् । कीकटादि-देशान् अशुचि-देशान् कीकटः कृपणे निःस्वे\ऽशुचिदेशेभगण्डयोः इति निरुक्तिः । इत्य् अर्थ इति—ओहाक्-त्यागे इत्य् अत्र त्याग-पदं त्यजनं त्याजनं वा त्याग इति निरुक्तरुभयार्थ-परत्वाद् इति भावः । अस्याशयम् आह—अयमर्थ इति । तद्-अर्थाभियोगः वेदार्थाभ्यासः अभ्यासे त्व् अभियोगः स्यादुद्यमे योजने\ऽपि च इति । मुद्रा चिह्ने मुद्रणे च लक्ष्मीकार्षापणोमिषु इति च निरुक्तिः । इत्य् अर्थ इति—वेदविरुद्धाचार्येव पाखण्ड इत्य् आशयः । तल्लिङ्गं पाखण्डचिह्नम् । इत्य् अर्थ इति—मूढानां पाखण्डमार्गे\ऽपि धर्मबुद्ध्या प्रवेशो भवतीति भावः । परुषार्थे तु समुद्राश्रयणाद्दाससाम्यमापादितम् ॥३७॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नन्वपराधाभावे\ऽपि केवलकामोपभोगपरेण ययातिना शप्तो\ऽपि श्रीयदुः सद्धर्मरतो भगवता श्रीदत्तेनानुगृहीतः परम-पूज्य एवेति तद्वंश्या अपि तादृशा एवेत्य् आशङ्क्यान्यथा निन्दति-ब्रह्मर्षीति । देशान् आर्यावर्तवर्तिनस् तत्रापि मध्यत्वेन श्रेष्ठान्माथुरानित्य् अर्थः, अब्रह्मवर्चसं वेदादिरहितम्, समुद्रं दस्यवः साक्षात् सर्वस्वप्राणलुण्ठकाः सन्तः ॥३७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अब्रह्मवर्चसं वेदादिरहितं समुद्रं दस्यवः पश्यताम् एव सर्वस्वप्राणलुण्ठकाः सन्तः वास्तवार्थे नन्वेते समुद्रदुर्गाश्रयाद्रावणादिवद् एव मन्तव्याः तत्राह ब्रह्मर्षीति अयमर्थः अन्ये रावणादयः अमनुवंशजत्वात्प्रजारूपा अपि दस्यवः सन्तो ब्रह्मर्षिसेवितान् देशान् हित्वा समुद्रं दुर्गमाश्रित्य ब्रह्मवर्चसं ब्राह्मणानां वेदानां वा तेजः-सत्कर्मादिकं बाधन्ते काक्वा तथा एते किं बाधन्ते अपि तु पालयन्त्येव तद् इति महान् एव विशेष इति ॥३७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : एते यदवो दस्यवः अब्रह्मवर्चसं ब्रह्मतेजोरहितं समुद्र समुद्रगतं दुर्गं द्वारकाख्यम् आश्रित्य प्रजा बाधन्ते पक्ष्हे ब्रह्मर्षिसेवितानपि देशान् माथुरान् हित्वा तत्र दुर्गाभावात्त्यक्त्वा ब्रह्मवर्चसं ब्रह्मतेजोमयं समुद्रगतं द्वारकाख्यं दुर्गमाश्रित्य बाधन्ते कानित्यपेक्षायाम् आह—दस्यवः शिशुपालाद्याः प्रकर्षण बलवत्त्वेन । जायन्ते उत्पद्यन्त इति प्रजास्तानित्य् अर्थः ॥३७॥
॥ १०.७४.३८ ॥
एवम्-आदीन्य् अभद्राणि बभाषे नष्ट-मङ्गलः ।
नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : शिवा फेरुस् तस्या रुतं श्रुत्वा यथा सिंहो न किञ्चिद् ब्रूते तद्वत् ॥३८-४२॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : शिवा क्रोष्ट्री शिवा\ऽभया इति कोशात् । एवमादीनीत्युक्तेः । तस्य शतापराधक्षमणस्य भगवता प्रतिज्ञातत्वात् ।
अपराधशतं क्षाम्यं मातुरस्यैव याचने । > दत्तं मया याचितं च तानि पूर्णानि पार्थिवाः ॥ > अधुना वधयिष्यामि पश्यतां वो महीक्षिताम् ॥ इति सभापर्वणि > ॥३८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : नष्टमङ्गलः सन्निहितमृत्युरित्य् अर्थः । अत एवासम्बद्धानि अवज्ञया च नोवाच, यतो भगवान् धैर्य-गाम्भीर्याद्यशेषगुणयुक्तः, अतो\ऽन्तःक्षोभादिकम् अपि निरस्तम् एव, तत्रैव दृष्टान्तः—यथेति ॥३८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : नष्ट-मङ्गलः सन्निहित-मृत्युर् इत्य् अर्थः । वस्तुतस् त्व् अनष्टं गूढम् एव स्थितं मङ्गलं पार्षदत्वात्मकं यस्य तथा-भूतम् इति । पुनस् तथाविर्भाव-योग्य एवासाव् इत्य् अर्थः । तथैव सप्तमे श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्ये कृष्ण-चक्र-हतांहसौ इत्य् अत्र तैर् व्याख्यातं तयोः पापम् एव हतं न तु ताव् इत्य् अर्थ इति । तृतीये च कराल-दंष्ट्रा इत्य् आदौ चक्षुर्भ्यां दहन्न् इव सञ् चक्षाणः पश्यन् इवेति वस्तुतः क्रोधाभावम् आहेति हिरण्याक्ष-भावो व्याख्यातः तथा परानुषक्तम् इत्य् आदौ प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं दैत्य-वाक्य-भीतानां देवानां भय-निवृत्तये वस्तुतस् तेन तथा\ऽनुक्तत्वेन कोपादि-हेत्व्-अभावाद् इति श्री-भगवद्-भावो\ऽपि व्याख्यातः अतो\ऽनयोस् तत्-तद्-दुर्वचने स्वभावतो वास्तवार्थ-व्यञ्जना भगवद्-इष्ट-युद्ध-लीला रक्षार्थम् एव त्व् अर्थान्तरानुकरणम् अन्य-दैत्याना तु स्वभावतो\ऽर्थान्तर-प्रतिपादनं वास्तवार्थस् तु गीर्-देव्यैव प्रतिपादित इति ज्ञेयम् अभद्राणि नष्ट-भद्राणीति बाह्यार्थानुसारेण वास्तवार्थस् तु न विद्यन्ते भद्राणि येभ्यस् तानि बभाषे इति नोवाचेति बाह्यार्थे महाशयत्वम् उक्तं तत्र दृष्टान्तः यथेति वास्तवार्थे\ऽप्य् अवचने गाम्भीर्यम् एव कारणं दृष्टान्तः सिंहो नृसिंहः शिवस्यारुतं सम्यक् स्तुतिम् इवेति ॥३८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शिवा शृगालास्तस्या रुतं श्रुत्वेति शेषः । द्वितीये\ऽर्थे तु न विद्यन्ते भद्राणि येभ्यस्तानि सिंहः श्रीनृसिंहः शिवस्य आरुतं स्तुतिम् ॥३८॥
॥ १०.७४.३९ ॥
भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः ।
कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदिपं रुषा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-सभायां सीदन्तीति तथा ॥३९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : भगवतो जगदीशस्य, किं वा, सर्व-सद्गुण-पूर्णस्यापि निन्दनं दोषोत्कीर्तनक-दुःसहम् इति साधुत्वेन सोढुम् अशक्त्या तथा निर्जग्मुर् इत्य् उक्तम् ॥३९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अत्र वास्तवार्थ-विदां तद्-विदित्वे\ऽप्य् अन्येषां च तद्-अनुकरणम् अप्य् असहिष्णूनां चेष्टितम् आह—भगवद् इति । शपन्तः, सद्यः प्राणैर् वियुज्यस्वेत्य् आक्रोशन्तः यतो दुःसहं साधुत्वेन सोढुम् अशक्यत्वात् तथा निर्जग्मुर् इत्य् उक्तम् ॥३९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : शपन्तः अरे शिशुपाल! सद्यः प्राणैर्वियुज्यस्वेत्याक्रोशन्तः ॥३९॥
॥ १०.७४.४० ॥
निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : कुतो निर्जग्मुर् इति चेद् आह—निन्दाम् इति । तत्-परस्य भगवद्-भक्तस्य । ततो निन्दन-स्थानात् । अपैति गच्छति । सो\ऽपि हरि-हरिजन-निन्दा-श्रोतापि ॥४०॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : किं च, दुर्गति-परिहारार्थम् अपीत्य् आह—निन्दाम् इति । स भगवान् एव परः श्रेष्ठः पूज्यो यस्य तस्य । ततस् तस्माद् भगवन्-निन्दन-श्रवणात् तत्र स्थानाद् वा सुकृतात् स्वयम् अर्जिताशेष-पुण्यात् च्युतो भ्रष्टः, अधो नरकं याति, इति सुकृत-क्षयेण तस्य कदापि सद्-गतिर् न स्याद् इति सूचितम् ॥४०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : किं च, दुर्गति-परिहारार्थम् अपीत्य् आह—निन्दाम् इति । अधो महा-नरकं सुकृत-क्षयेन तस्य कदापि सद्-गतिर् न स्याद् इति सूचितम् ॥४०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : निष्क्रमणे प्रमाणं शास्त्र-वाक्यम् आह—निन्दाम् इति ॥४०॥
॥ १०.७४.४१ ॥
ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः ।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो निन्दा-श्रुतेः ॥४१॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : कर्णौ पिधाय निरियाद् यद् अकल्प ईशे [भा।पु ४.४.१७] इत्य्-आदि-चतुर्थ-स्कन्धोक्त-श्री-सतीदेवी-वचनानुसारेणाशक्तानां निर्गमम् उक्त्वा शक्तानां कृत्यम् आह—तत इति। मत्स्यादयः पाण्डवानाम् एव बान्धवास् तत्-सदृशाः सम्यक् कुर्दित्वासन-परित्यागादिना वेगेन उत्तस्थुः । यादवास् तु तत्रैव वर्तमानाः परम-समर्था अपि श्री-भगवन्-मतानुसारेण नोत्थिताः, न च किञ्चिद् ऊचुर् इति ज्ञेयम् ॥४१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : कर्णौ पिधाय निरियाद् यद् अकल्प ईशे [भा।पु ४.४.१७] इत्य्-आदि चतुर्थ-स्कन्धोक्तानुसारेणाशक्तानां निर्गमम् उक्त्वा शक्तानां कृत्यम् आह—तत इति । सम्यक् उत्प्लुत्य उत्तस्थुः । यादवास् तु श्री-भगवन्-मतानुसारेण नोत्थिताः, न च किञ्चिद् ऊचुर् इति ज्ञेयम् ॥४१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : पाण्डु-सुताः भीमादयः सम्यग् उत्प्लुत्य तस्थुः ॥४१-४२॥
॥ १०.७४.४२ ॥
ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी ।
भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो मत्स्यादि-राज्ञाम् उत्थानोत्तरम् । असम्भ्रान्तो निर्भयः ॥४२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तु अपि, चैद्यो\ऽपि । कृष्णस्य साक्षाद् भगवतो\ऽपि पक्षीयान् अनुवर्तिनः । हे भारत ! इति चैद्यस्यातिदुर्बुद्ध्या विस्मयात् क्रोधोदयाद् वाः । यद् वा, भयान्तःशङ्कमानं राजानमाश्वासयति । महावंशजत्वेन बुद्ध्या मिथ्याशङ्कां निरस्य स्वस्थो भवेति भावः ॥४२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तु-शब्देनान्येषां विपक्षाणां तु सम्भ्रमः सूचितः ॥४२॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.४३ ॥
तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।
शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : तावद् उत्थाय इत्य् अस्यायम् अभिप्रायः, एष मत्-पार्षदो मत्-तुल्य-बलः सर्वान् एतान् हन्याद् अतो मयैव शीघ्रं हन्तव्य इति तत्-क्षणम् एव उत्थाय शिरो जहार इति ॥४३-४५॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ननु सत्स्व् अनन्त-भगवद्-योधेषु भगवान् एव कथं तद्-वधायोत्थित इत्य् आशङ्कायाम् आह—अयम् अभिप्राय इति । यतो मत्-तुल्यो\ऽतो हेतोः ॥४३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।
शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः ॥**
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : स्वान् पाण्डवादीन्, रुषा आपततो वेगेनाभिमुखम् आगच्छतः शिरः, क्षुरवत् तीक्ष्णो\ऽन्तः प्रान्त-भागो यस्य चक्रस्य तेन, इति शीघ्रम् अनायासेन मूलतो हरणम् उक्तम् । तावद् उत्थाय इति जन्म-त्रयान्ते अधुना विप्र-शापान् मोचयित्वा पुनः श्री-वैकुण्ठं च पार्षदत्वं प्रापयितुं पूर्व-पूर्ववन् मयैव स्व-हस्तेनायं हन्तुं योग्य इति पाण्डवादीनां तद्-वधोद्यमात् प्राग् एवोत्थाय, यतो भगवान् तत्-तद्-विज्ञान-भक्त-वात्सल्याद्य्-अशेष-गुण-युक्तः । यद् वा, तावद् इति तेषां समुत्थानात् प्राग् एवेत्य् अर्थः । यतो भगवान् असाधारण-सर्व-शक्ति-पूर्णः ॥४३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : तावद् उत्थाय इति जन्म-त्रयान्ते\ऽधुना विप्र-शापान् मोचयित्वा पुनः श्री-वैकुण्ठ-पार्षदतां प्रापयितुं पूर्व-पूर्ववन् मयैव स्व-हस्तेन हन्तुं योग्य इति पाण्डवादीनां तद्-वधोद्यमात् प्राग् एवोत्थाय यतो भगवान् तत्-तद्-विज्ञान-भक्त-वात्सल्याद्य्-अशेष-गुण-युक्तः । आपततः अभिमुखम् आगच्छतः॥४३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : तावद् उत्थाय इत्य् अत्र भगवतो\ऽयम् अभिप्रायः—
"यद्य् अहं तूष्णीम् एव वर्ते, तदैते परस्परं युद्ध्यमानाः यज्ञ-प्रदेशम् इमं रुधिर-प्रदेशम् एव करिष्यन्ति । यदि च स्व-सेना-सहितो रथम् आरुह्यानेन सह योत्स्ये, तद् अपि स्थलम् इदं रक्त-कर्दम-मयं भविष्यति । उभयथापि मत्-प्रेष्ठस्य युधिष्ठिरस्य राजसूय-यज्ञो नङ्क्ष्यति । सन्धिस् त्व् अत्र सर्वथैव दुष्करः । तस्माद् एवं विधेयम्" इति निश्चित्य तत्-क्षण एव उत्थाय शिरो जहार तथा यथा तत्र यज्ञ-स्थले रुधिर-बिन्दुर् अपि न पपातेति ॥४३-४४॥
॥ १०.७४.४४ ॥
शब्दः कोलाहलोऽथासीच् छिशुपाले हते महान् ।
तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तस्य शिशुपालस्य ॥४४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : अथ अनन्तरं महान् शब्द आसीत् । कथं-भूतः ? कोलाहलः—केषाञ्चित् हाहा इति, केषाञ्चित् साधु साध्व् इति, केषाञ्चिच् च जय जय इत्य्-आदिभिर् वाक्यैर् उच्चावचः । यद् वा, केषाञ्चिच् छोकेन, केषाञ्चिच् च प्रहर्षेण व्यक्तत्वात् कलकलः, इदं शब्दानुकरण-मात्रम् । जीवितम् एव, न तु धर्मादिकम् एष्टुं शीलम् । एषां तथा त इति मरण-भयेन तद्-यज्ञोत्सवम् अपि परित्यज्य वेगेनापसृता इत्य् अर्थः ॥४४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : अथ अनन्तरं महान् शब्द आसीत् । अपीति क्वचित् पाठः उक्त-समुच्चयार्थः । कथं-भूतः कोलाहलः ? केषाञ्चिच् च जय-जय इत्य्-आदिभिर् वाक्यैर् उच्चावचः ॥४४॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.४५ ॥
चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् ।
पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ज्योतिर् जय-चैतन्यात्मकम् ॥४५॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वासुदेवं वसुदेवाज् जातं साक्षाद् भगवन्तम्, उप समीपे, सद्य एव आविशत् । पुनः पार्षदत्व-प्राप्त्या श्री-भगवता सह सङ्गत इत्य् अर्थः । कथम्भूतं तज् ज्योतिः ? तद् आह—उल्का इव इति । अत एवाश्चर्येण सर्व-भूतेषु पश्यत्सु सत्सु पार्षदत्वेन सच्चिदानन्द-विग्रहतया तादृश-ज्योतिष्ट्वासम्भवे\ऽपि तथा प्रवेशः । पुनः पार्षदत्व-प्राप्ति-बोधनेन तत्-तत्त्व-ज्ञानां भक्तानां प्रहर्षणार्थम् ॥४५॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ज्योतिः तद्-रूपेण लीनतया स्थितं पार्षद-वपुर् एव तस्यानश्वरत्वात् ॥४५॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कृष्ण एव स्वयं हि तथा लीला-व्यवहारम् आश्रितवान् इति ज्योतिस् तद्-रूपेण लीलया स्थितं पार्षद-वपुर् एव तस्यानश्वरत्वात् प्रविशंश् च तन्मयतां तद्-रूप-प्राचुर्यं तत्-सदृशाकारताम् इत्य् अर्थः ॥४५॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : ज्योतिः तद्-रूपेण लीनताय स्थितं पार्षदवपुर् एव तस्यानश्वरत्वात् खात् च्युता उल्केव इति खं वैकुण्ठ-पर्यन्तम् उत्प्लुत्य तत्रस्थ-वैकुण्ठ-नाथस्य श्री-कृष्णस्यैक्यम् अवधार्य कृष्णम् एव उपाविशत् कृष्णवपुषि प्रविश्य स्व-प्रभोर् वैकुण्ठ-नाथस्य पार्श्वे एव स्थितं बभूवेत्य् अर्थः । लीलान्ते स्वप्रभुणा वैकुण्ठ-नाथेन सार्धं प्रभास-क्षेत्राद् वैकुण्ठ एव यास्यति राजसूय-समये तु कृष्णे चैद्यः सायुज्यं प्रापेति लोक-प्रसिद्धिर् अभूत् ॥४५॥
॥ १०.७४.४६ ॥
जन्म-त्रयानुगुणित- वैर-संरब्धया धिया ।
ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : नन्व् एवं निन्दकस्य कथं वासुदेवे प्रवेशः ? तत्राह—जन्म-त्रय- इति । जन्म-त्रयेऽनुगुणितम् अनुवर्तितं यद् वैरं, तेन संरब्धया आविष्टया । तन्मयतां तत्-स्वरूपतां यातः । पुनः पार्षदो बभूवेत्य् अर्थः । अत्र हेतुः—भवो हि इति । भावो भावना अनुध्यानं भवस्य ध्येयाकार-जन्मनः कारणम् । पेशस्कारि-ध्यानेन कीटादौ तथा दृष्टत्वाद् इत्य् अर्थः ॥४६-५१॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : तत्-स्वरूपतां पार्षदः पुनर् बभूवेत्य् अर्थः। अत्र तत्-स्वरूपत्वे । इत्य् अर्थ इति—
यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् । > तं तम् एवैति कौन्तेय सदा तद्-भाव-भावितः ॥ [गीता ८.६]
इति श्री-मुखोक्तेर् अन्त्य-स्मृत-रूपावाप्तिर् भवत्य् एवेति भावः ॥४६॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : तन्मयताम् इति श्री-भगवता सह पार्षदानां प्रायो भेदाभावात्, सच्चिदानन्दविग्रहत्वाभिप्रायेण वा, हि एव, अन्यत् तैर् व्याख्यातम् । यद् वा, तथा ध्यायन्नपि यातः । ननु तथापि द्वेषेण ध्यानात् पुनः पार्षदत्वं न सम्भवेत्तत्राह—हि यतो भावः पार्षदत्वे हेतुः पार्षदत्वे च तस्य प्राक्तनी भक्तिर् एव भवस्य पार्षदत्वलक्षणश्रेयसः कारणम् । श्री-भगवदिच्छया विप्रशापेनैव द्वेषानुकरणम्, तत्त्वतस् तु भक्तत्वाद् एवेत्य् अर्थः ॥४६॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : प्रविशंश् च तन्मयतां तद्-रूपप्राचुर्यं तत्सदृशाकारताम् इत्य् अर्थः कीटदृष्टान्तेन च तथैवायाति कीदृशधियापि किं कुर्वन् तत्राह—जन्मेति तत्र हेतुः भाव इति भावो\ऽत्र तद्-रूपभावनामिश्रपार्षदभावस्यासंस्कारः स च दैत्यभावस्यौपाधिकत्वेन बहिरङ्गत्वादन्तर्निगूढो वर्तत
एव अत एव दन्तवक्त्र-विशेषणम् इदं तैर् अपि व्याख्यास्यते परमार्थस् तु दुर्मदो गत(मद) इति एवं तस्य श्री-भगवति प्रवेशो\ऽपि सर्वाविर्भावेनैकीभूयावतारात् समयालाभेनैव ज्ञेयः प्रकट-लीलासमाप्तौ तु तत्र तत्र तत्-तद्-अंशगमने निजाभीष्टस्य श्रीविकुण्ठासुतरूपस्य भगवतः पार्षदत्वाय बहिःप्राकट्यम् अपि लभ्यते यथा सप्तमे—
वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् । > नीतौ पुनर् हरिः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [भा।पु। > ७.१.४६] इति ॥४६॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : कीदृशधिया\ऽपि किं कुर्वन् तत्राह—जन्मेति । तत्र हेतुः भावो हीति भावो\ऽत्र तद्-रूपभावनामिश्रपार्षदभावस्य संसारः स च भगवल्लीलेच्छया बहिर् एव प्रवर्तितस्य दैत्यभावस्योपाधिकत्वात् निगूढं वर्तत एवेति ॥४६-५१॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : जन्मत्रये अनुगुणितम् अनुवर्तितं यद्वैरं तेनैव संरब्धया आविष्टया धिया तन्मयतां तत्स्वरूपतां यातः पुनः पार्षदो बभूवेत्य् अर्थः । तत्र हेतुः भावो भावना भवस्य तत्प्राप्तेः कारणं भूप्राप्तावित्यस्मात् तदुक्तं—-
वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् । > नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [भा।पु। > ७.१.४६] इति ॥४६-४७॥
॥ १०.७४.४७ ॥
ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिणां विपुलाम् अदात् ।
सर्वान् सम्पूज्य विधि-वच् चक्रेऽवभृथम् एक-राट् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : एकराट् चक्रवर्ती ॥४७-४८॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ततश् च विघ्नविनाशेन यज्ञः सुष्ठु समाप्त इत्याह—ऋत्विग्भ्य इति । अन्यांश् च सर्वान् सम्यक् पूजयित्वा, अवभृथं यज्ञावसानकर्म, एकराडिति साम्राज्यसिद्धेः ॥४७॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च विघ्नविनाशेन यज्ञः सुष्ठु समाप्त इत्याह—ऋत्विग्भय इति अवभृथं यज्ञावसानकर्म एक एव राडिति साम्राज्यसिद्धेः ॥४७॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.४८ ॥
साधयित्वा क्रतू राज्ञः कृष्णो योगेश्वरेश्वरः ।
उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : योगेश्वराणां श्रीदामादीनां सनकादीनां वा ईश्वरः, यतः कृष्णः साक्षाद्भगवान् इति तत्-तद्-उपायेन तत्तच्छक्त्या चानयासेनैव सम्यक् साधयित्वेति। यद् वा, योगेश्वरा वशीकृतभक्तियोगास्तेषाम् ईश्वर इति भक्त-वात्सल्याद् इति भावः । सुहृद्भिः श्री-युधिष्ठिरादिभिः, अभि अभीक्ष्णं याचितस् तत्र वा सम्प्रार्थितः सन् ॥४८॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : योगेश्वरेश्वर इति तादृशो\ऽपि सुहृद्भिरभियाचितस्तेषां प्रार्थनावशः सन्न् इत्य् अर्थः । यद् वा, योगेश्वरेश्वर इति चित्रं बतैतदेकेन वपुषा युगपत्पृथक् इत्य्-आदिवत् सदा सर्वसुहृद्वर्गेषु निजाविर्भावानन्ददानं सूचितम् ॥४८॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : योगेश्वरेश्वर इति । योगेश्वराणां श्रीरुद्रादीनामीश्वरः एव श्री-युधिष्ठिरस्य तु प्रेमवश्यत्वादीशितव्यो निदेशवर्त्येव तदीयराजसूयसकलभारं स्वम् एवोवाहेति भावः ॥४८-५३॥
॥ १०.७४.४९ ॥
ततोऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः ।
ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ततो यज्ञान्तस्नानानन्तरम् ॥४९॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : ईश्वरः परम-स्वतन्त्रो\ऽप्यनुज्ञाप्यैव ययौ, यतो देवक्याः सुतो भक्त-वात्सल्यादिप्रकटनार्थं तस्यां जातः । यद् वा, याने हेतुः—देवकीति । मातापित्रादिसुखार्थम् इति भावः । यानं च सुहृदां प्रार्थनया, चिरं तत्र वासेन सुहृदादीनां सर्वेषां स्व-स्व-स्थानगमनात् पश्चाद्भाव्य् अपि प्रसङ्गादत्रोक्तम्, तच् च सविशेषमग्राध्याये व्यक्तम् एव भावि ॥४९॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ईश्वरः परम-स्वतन्त्रो\ऽप्यनुज्ञाप्य ययौ याने हेतुः देवकीति मातापित्रादिसुखार्थम् इति भावः ॥४९॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.५० ॥
वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् ।
वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : वैकुण्ठवासिनोर्जयविजययोः ॥५०-५२॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : वैष्णवैस् तु कथम् अपि विप्रा नावमन्तव्या इत्य् आशयेन प्रसङ्गादाह—वर्णितम् इति । तत् त्वया सप्तमस्कन्धे पृष्टं प्रसिद्धं वा बहुविस्तरो विस्तारो यस्मिन् तत्, क्रियाविशेषणं वा। किम्? तदाह—वैकुण्ठेति। मोक्षाधिकमहापदप्राप्तयोर् अपि ॥५०॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : वैष्णवैस् तु कथम् अपि विप्रा नावमन्तव्या इत्यानुषङ्गिकतया बोधयन् महाकथामुपसंहरति-वर्णितम् इति । तत् त्वया सप्तमे पृष्टं प्रसिद्धं वा बहुविस्तरः शब्दप्रपञ्चो यस्मिन् तत् क्रियाविशेषणं वा किं तदाह—वैकुण्ठेति । तादृशयोर् अपि वैकुण्ठेति पाठः क्वचित् ॥५०॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.५१ ॥
राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।
ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राड् इव ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : प्रस्तुतम् आह—राजेति । स्नात इत्य् अत्र स्वयं श्री-भगवता श्री-द्रौपदी-सहितस्य केशसंस्कारपूर्वकाभिषेकादिर्महाभारतोक्तो विशेषो ज्ञेयः ॥५१॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : पुनर् उत्कण्ठया तदभिषेकं स्तौति-राजेति । स्नात इत्य् अत्र स्वयं श्री-भगवता द्रौपदी-सहितस्य तस्य केशसंस्कारपूर्वकाभिषेकादिविशेषो महाभारते दृश्यः ॥५१॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.५२ ॥
राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः ।
कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : सुरा मानवाः खेचराः प्रमथाश् च ।
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : न व्याख्यातम्।
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : सुराः श्रीब्रह्मादयः, मानवा राजादयः, खेचरा सिद्धादयः। कृष्णं भक्त-वात्सल्यादिना सर्वचित्ताकर्षकं शंसन्तः स्तुवन्तः, तथा तथा क्रतुसाधनात्तेन निज-रूप-गुण-लीलाविशेष-प्रकटनाच्च, क्रत्वङ्ग-श्रीवरुणादिकृतादप्यधिकाधिकगुणसम्पत्तेः ॥५२॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : ततश् च राजेति युग्मकम् इदं सुराः श्रीब्रह्मादयः मानवा राजादयः खेचराः सिद्धादयः कृष्णमिति—
यद् धर्म-सूनोर् बत राजसूये > निरीक्ष्य दृक् स्वस्त्ययनं त्रिलोकः । > कार्त्स्न्येन चाद्येह-गतं विधातुर् > अर्वाक् स्मृतौ कौशलम् इत्य् अमंस्त ॥ [भा।पु। ३.२.१३] इति । > यन् मर्त्य-लीलौपयिकं स्व-योग- > माया-बलं दर्शयता गृहीतं । > विस्मापनं स्वस्य च सौभग-र्द्धेः > परं पदं भूषण-भूषणाङ्गम् ॥ [भा।पु। ३.२.१२]
इत्य्-आदि-[र्णितरूपादिकम्]{।मर्क्} इत्य् अर्थः क्रतुं च तत्सान्निध्यात्सर्वविलक्षणतां यातम् एवं साधवः सर्वे हृष्टाः ॥५२॥
जीव-गोस्वामी (क्रम-सन्दर्भः) : क्रतुं च कृष्णसम्बन्धेन शंसन्तः ॥५२-५४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) : न व्याख्यातम्।
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.५३ ॥
दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् ।
यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम् ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : पापं धर्म-द्विषम् । अत्र हेतुः, कलिं कलेर् अंशम् । अत एव कुरु-कुलस्यामयं व्याधिवन् नाशकम् ॥५३॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : ऋते विना । अत्र धर्मद्वेष्टृत्वे । अत एव कल्यंशत्वाद् एव ॥५३॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) : न व्याख्यातम्।
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं साधवः सर्वे प्रहृष्टाः, दुष्टाश् च स्वपापेनैवादूयन्तेत्याह—दुर्योधनम् इति । स तु कृष्णं क्रतुं च, न प्रशशंस, न च मुदा स्वधाम ययौ, किन्तु केवलं शोकसन्तप्तो\ऽभूद् इत्य् अर्थः । तत्र हेतुः—पापमिति, स्फीतां समृद्धां तां राजसूयोत्थामनिर्वचनीयां वा। पाण्डुसुतस्येति असहने मात्सर्योत्पत्तेर् इति भावः ॥५३॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : दृष्टास्तु स्वपापेनैवादूयन्तेति बोधयितुं तन्मुख्यस्य तापं निदर्शयति-दुर्योधनम् इति । स तु कृष्णं क्रतुं च न प्रशशंस न च मुदा स्वधाम ययौ किन्तु केवलं शोकसन्तप्तो\ऽभूद् इत्य् अर्थः । तत्र हेतुः पापम् इति । पाण्डुसुतस्येत्यसहने हेत्वन्तरं भ्रातृत्वेन स्पर्धया तत्रापि धर्मनिष्ठत्वेन मात्सर्यापत्तिर् इति भावः ॥५३॥
जीव-गोस्वामी (क्रम-सन्दर्भः, बृहत्-क्रम-सन्दर्भः), विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : न व्याख्यातम्।
॥ १०.७४.५४ ॥
य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् ।
राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते ॥**
श्रीधर-स्वामी (भावार्थ-दीपिका) : वितानं यज्ञं च ।
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्धे श्रीधर-स्वामि-विरचितायां भावार्थ-दीपिकायाम् चतुःसप्ततितमो\ऽध्यायः ॥७४॥
वंशीधरः (भावार्थ-दीपिका-प्रकाशः) : चैद्यस्य भगवद्विरोधित्वेन पाखण्डत्वात्तद्वधश्रवणम् अपि पापनाशकम् इत्य् आह—कर्म चैद्येत्यादि ॥५४॥
इति श्रीमद्-भागवत-भावार्थ-दीपिका-प्रकाशे दशम-स्कन्धोत्तरार्द्धे चतुःसप्ततितमो\ऽध्यायः ॥७४॥
श्रीनाथ-चक्रवर्ती (चैतन्य-मत-मञ्जुषा) :
इति श्रीनाथ-चक्रवर्ति-पाद-विरचितायां चैतन्य-मञ्जूषायां चतुःसप्ततितमो\ऽध्यायः ॥७४॥
सनातन-गोस्वामी (बृहद्-वैष्णव-तोषणी) : एवं श्री-कृष्णं साक्षात् पश्यताम् अपि दुर्योधनादीनामभक्त्या सदा दुःखम् एव, कथञ्चित्तद्-भक्त्या च सर्वेषां सदा सुखम् एवेत्य् आशयेन। यद् वा, चैद्य-जरासन्धादीनां श्री-कृष्णात्तु साक्षान्मरणेन मोक्षो\ऽभूद् इति किमाश्चर्यम्, तद्वधादिश्रवणादपि श्री-भगवत्प्रभावेण परम-पदप्राप्तिः स्याद् इत्य् आह—य इति । अनेनाधिकारापेक्षा निरस्ता। विष्णोः स्वमाधुर्यविशेषप्रकटनेन विश्वव्यापकस्य श्री-कृष्णस्य। आदि-शब्देन श्री-युधिष्ठिरप्रतिष्ठादिकं सर्वैः समूलैः सप्रारब्धैश् च पापैः प्रकर्षण मुच्यते, मोक्षाधिक श्री-वैकुण्ठ-लोकप्राप्तेः ॥५४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे उत्तरार्द्धे श्रीश्रील-सनातन-गोस्वामि-पाद-कृतायां श्री-बृहद्-वैष्णव-तोषण्यां श्री-दशम-टिप्पण्यां चतुःसप्ततितमो\ऽध्यायः ॥७४॥
जीव-गोस्वामी (लघु-वैष्णव-तोषणी) : एवं श्री-कृष्णं साक्षात्पश्यताम् अपि दुर्योधनादीनामभक्त्या दुःखम् एव कथञ्चिद्-भक्त्या च सर्वेषां सदा सुखम् एवेत्य् आशयेनाहय इति । अनेनाधिकारापेक्षा निरस्ता विष्णोः स्वमाहात्म्यविशेषप्रकटनेनापि विश्वव्यापकस्य श्री-कृष्णस्य आदिशब्देन युधिष्ठिरप्रतिष्ठापनादिकं सर्वैः पापैस्तद्-भक्त्यन्तरायैः ॥५४॥
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृतवैष्णव-तोषिण्यां चतुःसप्ततितमो\ऽध्यायः ॥७४॥
जीव-गोस्वामी (क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते दशम-स्कन्धीये श्रीमज्-जीव-गोस्वामि-कृत-क्रम-सन्दर्भे चतुःसप्ततितमो\ऽध्यायः ॥७४॥
जीव-गोस्वामी (बृहत्-क्रम-सन्दर्भः) :
इति श्रीमद्-भागवते महा-पुराणे दशम-स्कन्धे श्रीमज्-जीव-गोस्वामि-कृत-बृहत्-क्रम-सन्दर्भे चतुःसप्ततितमो\ऽध्यायः ॥७४॥
विश्वनाथ-चक्रवर्ती (सारार्थ-दर्शिणी) : वितानं यज्ञम् ॥५४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
चतुःसप्ततितमो\ऽध्यायो दशमे\ऽजनि सङ्गतः ॥७४॥
(१०.७५)